← ← শব্দে ফিরুন
aartisaraswati
বাংলাবাংলা script
Samskrita Bhasha Nirajana Aarati
Samskrita Bhasha Nirajana Aarati
Viewing in বাংলা · বাংলা script
🌐
বাংলা script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.
संस्कृतभाषा-नीराजना (आरती) जय संस्कृतभाषे, जय संस्कृतभाषे, कुरु करुणां करुणार्द्रे, कुरु करुणां करुणार्द्रे, त्वच्छरणे दासे ॥ जय ॥ ध्रु.॥ वेदा भगवद्गीता उपनिषदः सर्वाः, उपनिषदः सर्वाः तव वै दिव्यशरीरं, तव वै दिव्यशरीरं यैस्त्वं सद्गर्वा ॥ जय ॥ १ कपिलपतञ्जलिशङ्करगोतमकणमुग्भिः, गोतमकणमुग्भिः, जैमिनिमुख्यैर्मुनिभिः जैमिनिमुख्यैर्मुनिभिरिष्टा बहुसद्भिः ॥ जय ॥ २ व्यासः कालीदासो भारविकविबाणौ, भारविकविबाणौ- भवभूतिर्भवभूतिः, भवभूतिर्भवभूतिः, भासश्रीहर्षो ॥ जय ॥ ३ कोऽन्यो लोके यो वै समतामेषां कुरुताम्, समतामेषां कुरुतां वाल्मीकिश्च सुबन्धुः, वाल्मीकिश्च सुबन्धुः, क्वान्यस्यामास्ते ॥ जय ॥ ४ वेदौ ज्योतिर्धनुषोः पुनरायुर्वेदः पुनरायुर्वेदः- अतुलरसायनशास्त्रं, अतुलरसायनशास्त्रं कस्तुलयेल्लोके ॥ जय ॥ ५ किं तच्छास्त्रं लोके न त्वं यन्मूलं, न त्वं यन्मूलं, नास्ति जगद्धितकारिणि, नास्ति जगद्धितकारिणि, जनसुखमनुकूलम् ॥ जय ॥ ६ विश्वस्मिन् विश्वेऽस्मिन् शान्तिश्चेन्मृग्या, शान्तिश्चेन्मृग्या- त्वच्चरणौ हित्त्वा नो, त्वच्चरणौ हित्त्वा नो गतिरिह जनवासे ॥ जय ॥ ७ जनिमरणाद्भुतदुःखैः परिपूर्णे भुवने, परिपूर्णे भुवने तव चरणौ किल शरणं, तव चरणौ किल शरणं स्यातामाशासे ॥ जय ॥ ८ वयमपि भवभयभीता भी-तापह-रूपाम्, भी-तापह-रूपाम्- त्वां शरणं प्राप्ताः, कुरु त्वां शरणं प्राप्ताः, कुरु करुणां करुणार्द्रे ॥ जय ॥ ९ त्यक्त्वा खर्वं कूपं जलनिधिरुपसेव्यः, जलनिधिरुपसेव्यः- विश्वे विश्वजना इह, विश्वे विश्वजना इह सादरमर्थ्यन्ते ॥ जय ॥ १० रामः परशुसपूर्वोऽपूर्वैः स्तुतिदीपैः, मातः स्तुतिदीपैः- आरार्त्तिक्यं कुर्वन्, आरार्त्तिक्यं कुर्वन् त्वच्चरणौ श्रयते ॥ जय ॥ ११ रचयिता परशुरामः शास्त्री, व्याकरणाचार्यः, पुरा जम्बूनगरस्थ-श्रीरघुनाथसंस्कृतमहाविद्यालयस्य)
vasant-panchaminavratrishaktasanskritaartidevotional