ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← শব্দে ফিরুন
বাংলা interface

মহাভারত — দ্রোণ পর্ব

Mahabharata — Drona Parva

Mahabharata — Drona Parva

Text in देवनागरी script

Devotional text

🌐

বাংলা script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.

[ज]
तम अप्रतिमसत्त्वौजॊ बलवीर्यपराक्रमम
हतं देवव्रतं शरुत्वा पाञ्चाल्येन शिखण्डिना
धृतराष्ट्रस तदा राजा शॊकव्याकुल चेतनः
किम अचेष्टत विप्रर्षे हते पितरि वीर्यवान
तस्य पुत्रॊ हि भगवन भीष्मद्रॊणमुखै रथैः
पराजित्य महेष्वासान पाण्डवान राज्यम इच्छति
तस्मिन हते तु भगवन केतौ सर्वधनुष्मता
यद अचेष्टत कौरव्यस तन मे बरूहि दविजॊत्तम
[व]
निहतं पितरं शरुत्वा धृतराष्ट्रॊ जनाधिपः
लेभे न शान्तिं कौरव्यश चिन्ताशॊकपरायणः
तस्य चिन्तयतॊ दुःखम अनिशं पार्थिवस्य तत
आजगाम विशुद्धात्मा पुनर गावल्गणिस तदा
शिबिरात संजयं पराप्तं निशि गानाह्वयं पुरम
आम्बिकेयॊ महाराज धृतराष्ट्रॊ ऽनवपृच्छत
शरुवा भीष्मस्य निधनम अप्रहृष्टमना भृशम
पुत्राणां जयम आकाङ्क्षन विललापातुरॊ यथा
[धृ]
संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम
किम अकार्षुः परं तात कुरवः कालचॊदिताः
तस्मिन विनिहते शूरे दुराधर्षे महौजसि
किं नु सवित कुरवॊ ऽकार्षुर निमग्नाः शॊकसागरे
तद उदीर्णं महत सैन्यं तरैलॊक्यस्यापि संजय
भयम उत्पादयेत तीव्रं पाण्डवानां महात्मनाम
देवव्रते तु निहते कुरूणाम ऋषभे तदा
यद अकार्षुर नृपतयस तन ममाचक्ष्व संजय
[स]
शृणु राजन्न एकमना वचनं बरुवतॊ मम
यत ते पुत्रास तदाकार्षुर हते देवव्रते मृधे
निहते तु तदा भीष्मे राजन सत्यपराक्रमे
तावकाः पाण्डवेयाश च पराध्यायन्त पृथक पृथक
विस्मिताश च परहृष्टाश च कषत्रधर्मं निशाम्य ते
सवधर्मं निन्दमानाश च परणिपत्य महात्मने
शयनं कल्पयाम आसुर भीष्मायामित तेजसे
सॊपधानं नरव्याघ्र शरैः संनतपर्वभिः
विधाय रक्षां भीष्माय समाभाष्य परस्परम
अनुमान्य च गाङ्गेयं कृत्वा चापि परदक्षिणम
करॊधसंरक्तनयनाः समवेक्ष्य परस्परम
पुनर युद्धाय निर्जग्मुः कषत्रियाः कालचॊदिताः
ततस तूर्यनिनादैश च भेरीणां च महास्वनैः
तावकानाम अनीकानि परेषां चापि निर्ययुः
वयावृत्ते ऽहनि राजेन्द्र पतिते जाह्नवीसुते
अमर्षवशम आपन्नाः कालॊपहतचेतसः
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः
निर्ययुर भरतश्रेष्ठः शस्त्राण्य आदाय सर्वशः
मॊहात तव सपुत्रस्य वधाच छांतनवस्य च
कौरव्या मृत्युसाद भूताः सहिताः सर्वजारभिः
अजावय इवागॊपा वने शवापद संकुले
भृशम उद्विग्नमनसॊ हीना देवव्रतेन ते
पतिते भरतश्रेष्ठे बभूव कुरु वाहिनी
दयौर इवापेत नक्षत्रा हीनं खम इव वायुना
विपन्नसस्येव मही वाक चैवासंस्कृता यथा
आसुरीव यथा सेना निगृहीते पुरा बलौ
विधवेव वरारॊहा शुष्कतॊयेव निम्नगा
वृकैर इव वने रुद्धा पृषती हतयूथपा
सवाधर्ष हतसिंहेव महती गिरिकन्दरा
भारती भरतश्रेष्ठ पतिते जाह्नवीसुते
विष्वग वातहता रुग्णा नौर इवासीन महार्णवे
बलिभिः पाण्डवैर वीरैर लब्धलक्षैर भृशार्दिता
सा तदासीद भृशं सेना वयाकुलाश्वरथद्विपा
विषण्णभूयिष्ठ नरा कृपणा दरष्टुम आबभौ
तस्यां तरस्ता नृपतयः सैनिकाश च पृथग्विधाः
पाताल इव मज्जन्तॊ हीना देव वतेन ते
कर्णं हि कुरवॊ ऽसमार्षुः स हि देवव्रतॊपमः
सर्वशस्त्रभृतां शरेष्ठं रॊचमानम इवातिथिम
बन्धुम आपद गतस्येव तम एवॊपागमन मनः
चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः
राधेयं हितम अस्माकं सूतपुत्रं तनुत्यजम
स हि नायुध्यत तदा दशाहानि महायशाः
सामात्यबन्धुः कर्णॊ वै तम आह्वयत माचिरम
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः
रथेषु गण्यमानेषु बलविक्रम शालिषु
संख्यातॊ ऽरधरथः कर्णॊ दविगुणः सन नरर्षभः
रथातिरथ संखायां यॊ ऽगरणीः शूर संमतः
पितृवित्ताम्बुदेवेषान अपि यॊ यॊद्धुम उत्सहेत
स तु तेनैव कॊपेन राजन गाङ्गेयम उक्तवान
तवयि जीवति कौरव्य नाहं यॊत्स्ये कथं चन
तवया तु पाण्डवेयेषु निहतेषु महामृधे
दुर्यॊधनम अनुज्ञाप्य वनं यास्यामि कौरव
पाण्डवैर वा हते भीष्मे तवयि सवर्गम उपेयुषि
हन्तास्म्य एकरथेनैव कृत्स्नान यान मन्यसे रथान
एवम उक्त्वा महाराज दशाहानि महायशाः
नायुध्यत ततः कर्णः पुत्रस्य तव संमते
भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव
जघान समरे यॊधान असंख्येयपराक्रमः
तस्मिंस तु निहते शूरे सत्यसंधे महौजसि
तवत्सुताः कर्णम अस्मार्षुस तर्तुकामा इव पलवम
तावकास तव पुत्राश च सहिताः सर्वराजभिः
का कर्ण इति चाक्रन्दन कालॊ ऽयम इति चाब्रुवन
जामदग्न्याभ्यनुज्ञातम अस्त्रे दुर्वार पौरुषम
अगमन नॊ मनःकर्णं बन्धुम आत्ययिकेष्व इव
स हि शक्तॊ रणे राजंस तरातुम अस्मान महाभयात
तरिदशान इव गॊविन्दः सततं सुमहाभयात
[व]
तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः
आशीविषवद उच्छ्वस्य धृतराष्ट्रॊ ऽबरवीद इदम
यत तद वैकर्तनं कर्णम अगमद वॊ मनस तदा
अप्य अपश्यत राधेयं सूतपुत्रं तनुत्यजम
अपि तन न मृषाकार्षीद युधि सत्यपराक्रमः
संभ्रान्तानां तदार्तानां तरस्तानां तराणम इच्छताम
अपि तत पूरयां चक्रे धनुर्धर वरॊ युधि
यत तद विनिहते भीष्मे कौरवाणाम अपावृतम
तत खण्डं पूरयाम आस परेषाम आदधद भयम
कृतवान मम पुत्राणां जयाशां सफलाम अपि
[स]
हतं भीष्मम आधिरथिर विदित्वा; भिन्नां नावम इवात्यगाधे कुरूणाम
सॊदर्यवद वयसनात सूतपुत्रः; संतारयिष्यंस तव पुत्रस्य सेनाम
शरुत्वा तु कर्णः पुरुषेन्द्रम अच्युतं; निपातितं शांतनवं महारथम
अथॊपायात तूर्णम अमित्रकर्शनॊ; धनुर्धराणां परवरस तदा वृषः
हते तु भीष्मे रथसत्तमे परैर; निमज्जतीं नावम इवार्णवे कुरून
पितेव पुत्रांस तवरितॊ ऽभययात ततः; संतारयिष्यंस तव पुत्रस्य सेनाम
[कर्ण]
यस्मिन धृतिर बुद्धिपराक्रमौजॊ; दमः सत्यं वीर गणाश च सर्वे
अस्त्राणि दिव्यान्य अथ संनतिर हरीर; परिया च वाग अनपायीनि भीष्मे
बरह्म दविषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म
स चेत परशान्तः परवीर हन्ता; मन्ये हतान एव हि सर्वयॊधान
नेह धरुवं किं चन जातु विद्यते; अस्मिँल लॊके कर्मणॊ ऽनित्य यॊगात
सूर्यॊदये कॊ हि विमुक्तसंशयॊ; भावं कुर्वीताद्य महाव्रते हते
वसु परभावे वसु वीर्यसंभवे; गते वसून एव वसुंधराधिपे
वसूनि पुत्रांश च वसुंधरां तथा; कुरूंश च शॊचध्वम इमां च वाहिनीम
[स]
महाप्रभावे वरदे निपातिते; लॊकश्रेष्ठे शांतनवे महौजसि
पराजितेषु भरतेषु दुर्मनाः; कर्णॊ भृशं नयश्वसद अश्रुवर्तयन
इदं तु राधेय वचॊ निशम्य ते; सुताश च राजंस तव सैनिकाश च ह
परस्परं चुक्रुशुर आर्तिजं भृशं; तदाश्रु नेत्रैर मुमुचुर हि शब्दवत
परवर्तमाने तु पुनर महाहवे; विगाह्यमानासु चमूषु पार्थिवैः
अथाब्रवीद धर्ष करं वचस तदा; रथर्षभान सर्वमहारथर्षभः
[क]
जगत्य अनित्ये सततं परधावति; परचिन्तयन्न अस्थिरम अद्य लक्षये
भवत्सु तिष्ठत्स्व इह पातितॊ रणे; गिरिप्रकाशः कुरुपुंगवः कथम
निपातिते शांतनवे महारथे; दिवाकरे भूतलम आस्थिते यथा
न पार्थिवाः सॊढुम अलं धनंजयं; गिरिप्रवॊढारम इवानिलं दरुमाः
हतप्रधानं तव इदम आर्तरूपं; परैर हतॊत्साहम अनाथम अद्य वै
मया कुरूणां परिपाल्यम आहवे; बलं यथा तेन महात्मना तथा
समाहितं चात्मनि भारम ईदृशं; जगत तथानित्यम इदं च लक्षये
निपातितं चाहवशौण्डम आहवे; कथं नु कुर्याम अहम आहवे भयम
अहं तु तान कुरु वृषभान अजिह्मगैः; परवेरयन यम सदनं रणे चरन
यशः परं जगति विभाव्य वर्तिता; परैर हतॊ युधि शयिताथ वा पुनः
युधिष्ठिरॊ धृतिमतिधर्मतत्त्ववान; वृकॊदरॊ गजशततुल्यविक्रमः
तथार्जुनस तरिदशवरात्मजॊ यतॊ; न तद बलं सुजयम अथामरैर अपि
यमौ रणे यत्र यमॊपमौ बले; स सात्यकिर यत्र च देवकी सुतः
न तद बलं कापुरुषॊ ऽभयुपेयिवान; निवर्तते मृत्युमुखाद इवासकृत
तपॊ ऽभयुदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः
मनश च मे शत्रुनिवारणे धरुवं; सवरक्षणे चाचलवद वयवस्थितम
एवं चैषां बुध्यमानः परभावं; गत्वैवाहं ताञ जयाम्य अद्य सूत
मित्रद्रॊहॊ मर्षणीयॊ न मे ऽयं; भग्ने सैन्ये यः सहायः स मित्रम
कर्तास्म्य एतत सत्पुरुषार्य कर्म; तयक्त्वा पराणान अनुयास्यामि भीष्मम
सर्वान संख्ये शत्रुसंघान हनिष्ये; हतस तैर वा वीरलॊकं गमिष्ये
संप्राक्रुष्टे रुदितस्त्री कुमारे; पराभूते पौरुषे धार्तराष्ट्रे
मया कृत्यम इति जानामि सूत; तस्माच छत्रून धार्तराष्ट्रस्य जेष्ये
कुरून रक्षन पाण्डुपुत्राञ जिघांसंस; तयक्त्वा पराणान गॊर रूपे रणे ऽसमिन
सर्वान संख्ये शत्रुसंघान निहत्य; दास्याम्य अहं धार्तराष्ट्राय राज्यम
निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि
शिरस तराणं चार्कसमानभासं; धनुः शरांश चापि विषाहि कल्पान
उपासन गान षॊडश यॊजयन्तु; धनूंषि दिव्यानि तथाहरन्तु
असींश च शक्तीश च गदाश च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम
एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे धवजम इन्दीवराभम
शलक्ष्णैर वस्त्रैर विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा स जालाम
अश्वान अग्र्यान पाण्डुराभ्रप्रकाशान; पुष्टान सनातान मन्त्रपूताभिर अद्भिः
तप्तैर भाण्डैः काञ्चनैर अभ्युपेताञ; शीघ्राञ शीघ्रं सूतपुत्रानयस्व
रथं चाग्र्यं हेमजालावनद्धं; रत्रैश चित्रं चन्द्रसूर्यप्रकाशैः
दरव्यैर युक्तं संप्रहारॊपपन्नैर; वाहैर युक्तं तूर्णम आवर्तयस्व
चित्राणि चापानि च वेगवन्ति; जयाश चॊत्तमाः संहननॊपपन्नाः
तूर्णांश च पूर्णान महतः शराणाम; आसज्य गात्रावरणानि चैव
परायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीर कांस्यं च हैमम
आनीय मालाम अवबध्य चाङ्के; परवादयन्त्व आशु जयाय भेरीः
परयाहि सूताशु यतः किरीटी; वृकॊदरॊ धर्मसुतॊ यमौ च
तान वा हनिष्यामि समेत्य संख्ये; भीष्माय वैष्यामि हतॊ दविषद्भिः
यस्मिन राजा सत्यधृतिर युधिष्ठिरः; समास्थितॊ भीमसेनार्जुनौ च
वासुदेवः सात्यकिः सृञ्जयाश च; मन्ये बलं तद अजय्यं महीपैः
तं चेन मृत्युः सर्वहरॊ ऽभिरक्षेत; सदा परमत्तः समरे किरीटिनम
तथापि हन्तास्मि समेत्य संख्ये; यास्यामि वा भीष्म पथा यमाय
न तव एवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत तथाहं बरवीमि
मित्र दरुहॊ दुर्बलभक्तयॊ ये; पापात्मानॊ न ममैते सहायाः
[स]
स सिद्धिमन्तं रथम उत्तमं दृढं; स कूबरं हेमपरिष्कृतं शुभम
पताकिनं वातजवैर हयॊत्तमैर; युक्तं समास्थाय ययौ जयाय
संपूज्यमानः कुरुभिर महात्मा; रथर्षभः पाण्डुरवाजियाता
ययौ तदायॊधनम उग्रधन्वा; यत्रावसानं भरतर्षभस्य
वरूथिना महता स धवजेन; सुवर्णमुक्ता मणिवज्र शालिना
सदश्वयुक्तेन रथेन कर्णॊ; मेघस्वनेनार्क इवामितौजाः
हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै सवरथे धनुर्धरः
सथितॊ रराजाधिरथिर महारथः; सवयं विमाने सुरराड इव सथितः
[स]
शरतल्पे महात्मानं शयानम अमितौजसम
महावातसमूहेन समुद्रम इव शॊषितम
दिव्यैर अस्त्रैर महेष्वासं पातितं सव्यसाचिना
जयाशां तव पुत्राणां संभग्नां शर्म वर्म च
अपाराणाम इव दवीपम अगाधे गाधम इच्छताम
सरॊतसा यामुनेनेव शरौघेण परिप्लुतम
महान्तम इव मैनाकम असह्यं भुवि पातितम
नभश चयुतम इवादित्यं पतितं धरणीतले
शतक्रतॊर इवाचिन्त्यं पुरा वृत्रेण निर्जयम
मॊहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम
धनंजय शरव्याप्तं पितरं ते महाव्रतम
तं वीरशयने वीरं शयानं पुरुषर्षभम
भीष्मम आधिरथिर दृष्ट्वा भरतानाम अमध्यमम
अवतीर्य रथाद अर्तॊ बाष्पव्याकुलिताक्षरम
अभिवाद्याञ्जलिं बद्ध्वा वन्दमानॊ ऽभयभाषत
कर्णॊ ऽहम अस्मि भद्रं ते अद्य मा वद भारत
पुण्यया कषेमया वाचा चक्षुषा चावलॊकय
न नूनं सुकृतस्येह फलं कश चित समश्नुते
यत्र धर्मपरॊ वृद्धः शेते भुवि भवान इह
कॊशसंजनने मन्त्रे वयूह परहरणेषु च
नाथम अन्यं न पश्यामि कुरूणां कुरुसत्तम
बुद्ध्या विशुद्धया युक्तॊ यः कुरूंस तारयेद भयात
यॊधांस तवम अप्लवे हित्वा पितृलॊकं गमिष्यसि
अद्य परभृति संक्रुद्धा वयाघ्रा इव मृगक्षयम
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरु कषयम
अद्य गाण्डीवघॊषस्य वीर्यज्ञाः सव्यसाचिनः
कुरवः संत्रसिष्यन्ति वज्रपाणेर इवासुराः
अद्य गाण्डीवमुक्तानाम अशनीनाम इव सवनः
तरासयिष्यति संग्रामे कुरून अन्यांश च पार्थिवान
समिद्धॊ ऽगनिर यथा वीर महाज्वालॊ दरुमान दहेत
धार्तराष्ट्रान परधक्ष्यन्ति तथा बाणाः किरीटिनः
येन येन परसरतॊ वाय्वग्नी सहितौ वने
तेन तेन परदहतॊ भगवन्तौ यद इच्छतः
यादृशॊ ऽगनिः समिद्धॊ हि तादृक पार्थॊ न संशयः
यथा वायुर नरव्याघ्र तथा कृष्णॊ न संशयः
नदतः पाञ्चजन्यस्य रसतॊ गाण्डिवस्य च
शरुत्वा सर्वाणि सैन्यानि तरासं यास्यन्ति भारत
कपिध्वजस्य चॊत्पाते रथस्यामित्र कर्शिनः
शब्दं सॊढुं न शक्ष्यन्ति तवाम ऋते वीरपार्थिवाः
कॊ हय अर्जुनं रणे यॊद्धुं तवदन्यः पार्थिवॊ ऽरहति
यस्य दिव्यानि कर्माणि परवदन्ति मनीषिणः
अमानुषश च संग्रामस तर्यम्बकेन च धीमतः
तस्माच चैव वरः पराप्तॊ दुष्प्रापश चाकृतात्मभिः
तम अद्याहं पाण्डवं युद्धशौण्डम; अमृष्यमाणॊ भवतानुशिष्टः
आशीविषं दृष्टिहरं सुघॊरम; इयां पुरस्कृत्य वधं जयं वा
[स]
तस्य लालप्यतः शरुत्वा वृद्धः कुरुपितामहः
देशकालॊचितं वाक्यम अब्रवीत परीतिमानसः
समुद्र इव सुन्धूनां जयॊतिषाम इव भास्करः
सत्यस्य च यथा सन्तॊ बीजानाम इव चॊर्वरा
पर्जन्य इव भूतानां परतिष्ठा सुहृदां भव
बान्धवास तवानुजीवन्तु सहस्राक्षम इवामराः
सवबाहुबलवीर्येण धार्तराष्ट्र परियैषिणा
कर्ण राजपुरं गत्वा काम्पॊजा निहतास तवया
गिरिव्रज गताश चापि नग्नजित परमुखा नृपाः
अम्बष्ठाश च विदेहाश च गान्धाराश च जितास तवया
हिमवद दुर्ग निलयाः किराता रणकर्कशाः
दुर्यॊधनस्य वशगाः कृताः कर्ण तवया पुरा
तत्र तत्र च संग्रामे दुर्यॊधनहितैषिणा
बहवश च जिता वीरास तवया कर्म महौजसा
यथा दुर्यॊधनस तात स जञातिकुलबान्धवः
तथा तवम अपि सर्वेषां कौरवाणां गतिर भव
शिवेनाभिवदामि तवां गच्छ युध्यस्व शत्रुभिः
अनुशाधि कुरून संख्ये धत्स्व दुर्यॊद्नने जयम
भवान पौत्र समॊ ऽसमाकं यथा दुर्यॊधनस तथा
तवापि धर्मतः सर्वे यथा तस्य वयं तथा
यौनात संबन्धकाल लॊके विशिष्टं संगतं सताम
सद्भिः सह नरश्रेष्ठ परवदन्ति मनीषिणः
स सत्यसंगरॊ भूत्वा ममेदम इति निश्चितम
कुरूणां पालय बलं यथा दुर्यॊधनस तथा
इति शरुत्वा वचः सॊ ऽथ चरणाव अभिवाद्य च
ययौ वैकर्तनः कर्णस तूर्णम आयॊधनं परति
सॊ ऽभिवीक्ष्य नरौघाणां सथानम अप्रतिमं महत
वयूढप्रहरणॊरस्कं सैन्यं तत समबृंहयत
कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम
कष्वेडितास्फॊटित रवैः सिंहनाद रवैर अपि
धनुः शब्दैश च विविधैः कुरवः समपूजयन
[स]
रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णम अवस्थितम
हृष्टॊ दुर्यॊधनॊ राजन्न इदं वचनम अब्रवीत
स नाथम इदम अत्यर्थं भवता पालितं बलम
मन्ये किं तु समर्थं यद धितं तत संप्रधार्यताम
[क]
बरूहि तत पुरुषव्याघ्र तवं हि पराज्ञतमॊ नृप
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः
ते सम सर्वे तव वचः शरॊतुकामा नरेश्वर
नान्याय्यं हि भवान वाक्यं बरूयाद इति मतिर मम
[दुर]
भीष्मः सेना परणेतासीद वयसा विक्रमेण च
शरुतेन च सुसंपन्नः सर्वैर यॊधगुणैस तथा
तेनातियशसा कर्ण घनता शत्रुगणान मम
सुयुद्धेन दशाहानि पालिताः समॊ महात्मना
तस्मिन्न असुकरं कर्मकृतवत्य आस्थिते दिवम
कं नु सेना परणेतारं मन्यसे तदनन्तरम
न ऋते नायकं सेना मुहूर्तम अपि तिष्ठति
आहवेष्व आहवश्रेष्ठ नेतृहीनेव नौर जले
यथा हय अकर्णधारा नौ रथश चासारथिर यथा
दरवेद यथेष्टं तद्वत सयाद ऋते सेनापतिं बलम
स भवान वीक्ष्य सर्वेषु मामकेषु महात्मसु
पश्य सेनापतिं युक्तम अनु शांतनवाद इह
यं हि सेना परणेतारं भवान वक्ष्यति संयुगे
तं वयं सहिताः सर्वे परकरिष्याम मारिष
[क]
सर्व एव महात्मान इमे पुरुषसत्तमाः
सेनापतित्वम अर्हन्ति नात्र कार्या विचारणा
कुलसंहनन जञानैर बलविक्रम बुद्धिभिः
युक्ताः कृतज्ञा हरीमन्त आहवेष्व अनिवर्तिनः
युगपन न तु ते शक्याः कर्तुं सर्वे पुरःसराः
एक एवात्र कर्तव्यं यस्मिन वैशेकिका गुणाः
अन्यॊन्यस्पर्थिनां तेषां यद्य एकं सत करिष्यसि
शेषा विमनसॊ वयक्तं न यॊत्स्यन्ते हि भारत
अयं तु सर्वयॊधानाम आचार्यः सथविरॊ गुरुः
युक्तः सेनापतिः कर्तुं दरॊणः शस्त्रभृतां वरः
कॊ हि तिष्ठति दुर्धर्षे दरॊणे बरह्मविद उत्तमे
सेनापतिः सयाद अन्यॊ ऽसमाच छुक्राङ्गिरस दर्शनात
न च स हय अस्ति ते यॊधः सर्वराजसु भारत
यॊ दरॊणं समरे यान्तं नानुयास्यति संयुगे
एष सेना परणेतॄणाम एष शस्त्रभृताम अपि
एष बुद्धिमतां चैव शरेष्ठॊ राजन गुरुश च ते
एवं दुर्यॊधनाचार्यम आशु सेनापतिं कुरु
जिगीषन्तॊ ऽसुरान संख्ये कार्त्तिकेयम इवामराः
[स]
कर्णस्य वचनं शरुत्वा राजा दुर्यॊधनस तदा
सेना मध्यगतं दरॊणम इदं वचनम अब्रवीत
वर्णश्रैष्ठ्यात कुलॊत्पत्त्या शरुतेन वयसा धिया
वीर्याद दाक्ष्याद अधृष्यत्वाद अर्थज्ञानान नयाज जयात
तपसा च कृतज्ञत्वाद वृद्धः सर्वगुणैर अपि
युक्तॊ भवत समॊ गॊप्ता राज्ञाम अन्यॊ न विद्यते
स भवान पातु नः सर्वान विबुधान इव वासवः
भवन नेत्राः पराञ जेतुम इच्छामॊ दविजसत्तम
रुद्राणाम इव कापाली वसूनाम इव पावकः
कुबेर इव यक्षाणां मरुताम इव वासवः
वषिष्ठ इव विप्राणां तेजसाम इव भास्करः
पितॄणाम इव धर्मॊ ऽथ आदित्यानाम इवाम्बुराट
नक्षत्राणाम इव शशी दिजितानाम इवॊशनः
शरेष्ठः सेना परणेतॄणां स नः सेनापतिर भव
अक्षौहिण्यॊ दशैका च वशगाः सन्तु ते ऽनघ
ताभिः शत्रून परतिव्यूह्य जहीन्द्रॊ दानवान इव
परयातु नॊ भवान अग्रे देवानाम इव पावकिः
अनुयास्यामहे तव आजौ सौरभेया इवर्षभम
उग्रधन्वा महेष्वासॊ दिव्यं विस्फारयन धनुः
अग्रे भवन्तं दृष्ट्वा नॊ नार्जुहः परसहिष्यते
धरुवं युधिष्ठिरं संख्ये सानुबन्धं स बान्धवम
जेष्यामि पुरुषव्याघ्र भवान सेनापतिर यदि
एवम उक्ते ततॊ दरॊणे जयेत्य ऊचुर नराधिपाः
सिंहनादेन महता हर्षयन्तस तवात्मजम
सैनिकाश च मुदा युक्ता वर्धयन्ति दविजॊत्तमम
दुर्यॊधनं पुरस्कृत्य परार्थयन्तॊ महद यशः
[दर्न]
वेदं षडङ्गं वेदाहम अर्थविद्यां च मानवीम
तरैय्य अम्बकम अथेष्व अस्त्रम अस्त्राणि विविधानि च
ये चाप्य उक्ता मयि गुणा भवद्भिर जयकाङ्क्षिभिः
चिकीर्षुर तान अहं सत्यान यॊधयिष्यामि पाण्डवान
[स]
स एवम अभ्यनुज्ञातश चक्रे सेनापतिं ततः
दरॊणं तव सुतॊ राजन विधिदृष्ट्तेन कर्मणा
अथाभिषिषिचुर दरॊणं दुर्यॊधनमुखा नृपाः
सेनापत्ये यथा सकन्दं पुरा शक्र मुखाः सुराः
ततॊ वादित्रघॊषेण सह पुंसां महास्वनैः
परादुरासीत कृते दरॊणे हर्षः सेनापतौ तदा
ततः पुण्याहघॊषेण सवस्ति वादस्वनेन च
संस्तवैर गीतशब्दैश च सूतमागधबन्दिनाम
जयशब्दैर दविजाग्र्याणां सुभगानर्तितैर तथा
सत्कृत्य विधिवद दरॊणं जितान मन्यन्त पाण्डवान
[स]
सेनापत्यं तु संप्राप्य भारद्वाजॊ महारथः
युयुत्सुर वयूह्य सैन्यानि परायात तव सुतैः सह
सैन्धवश च कलिङ्गश च विकर्णश च तवात्मजः
दक्षिणं पर्श्वम अस्थाय समतिष्ठन्त दंशिताः
परपक्षः शकुनिस तेषां परवरैर हयसादिभिः
ययौ गान्धारकैः सार्धं विमलप्रासयॊधिभिः
कृपश च कृतवर्मा च चित्रसेनॊ विविंशतिः
दुःशासन मुखा यत्ताः सव्यं पार्श्वम अपालयन
तेषां परपक्षाः काम्बॊजाः सुदक्षिण पुरःसराः
ययुर अश्वैर महावेगैः शकाश च यवनैः सह
मद्रास तरिगर्ताः साम्बष्ठाः परतीच्यॊचीद्यवासिनः
शिबयः शूरसेनाश च शूद्राश च मलदैः सह
सौवीराः कितवाः पराच्या दाक्षिणात्याश च सर्वशः
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः
हर्षयन सर्वसैन्यानि बलेषु बलम आदधत
ययौ वैकर्तनः कर्णः परमुखे सर्वधन्विनाम
तस्य दीप्तॊ महाकायः सवान्य अनीकानि हर्षयन
हस्तिकक्ष्या महाकेतुर बभौ सूर्यसमद्युतिः
न भीष्म वयसनं कश चिद दृष्ट्वा कर्णम अमन्यत
विशॊकाश चाभवन सर्वे राजानः कुरुभिः सह
हृष्टाश च बहवॊ यॊधास तत्राजल्पन्त संगताः
न हि कर्णं रणे दृष्ट्वा युधि सथास्यन्ति पाण्डवाः
कर्णॊ हि समरे शक्तॊ जेतुं देवान स वासवान
किम उ पाण्डुसुतान युद्धे हीनवीर्यपराक्रमान
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना
तांस तु कर्णः शरैस तीक्ष्णैर नाशयिष्यत्य असंशयम
एवं बरुवन्तस ते ऽनयॊन्यं हृष्टरूपा विशां पते
राधेयं पूजयन्तश च परशंसन्तश च निर्ययुः
अस्माकं शकटव्यूहॊ दरॊणेन विहितॊ ऽभवत
परेषां करौञ्च एवासीद वयूहॊ राजन महात्मनाम
परीयमाणेन विहितॊ धर्मराजेन भारत
वयूह परमुखतस तेषां तस्थतुः पुरुषर्षभौ
वानरध्वजम उच्छ्रित्य विष्वक्सेनधनंजयौ
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम
आदित्यपथगः केतुः पार्थस्यामित तेजसः
दीपयाम आस तत सैन्यं पाण्डवस्य महात्मनः
यथा परज्वलितः सूर्यॊ युगान्ते वै वसुंधराम
अस्यताम अर्जुनः शरेष्ठॊ गाण्डीवं धनुषां वरम
वासुदेवश च भूतानां चक्राणां च सुदर्शनम
चत्वार्य एतानि तेजांसि वहञ शवेतहयॊ रथः
परेषाम अग्रतस तस्थौ कालचक्रम इवॊद्यतम
एवम एतौ महात्मानौ बलसेनाग्रगाव उभौ
तावकानां मुखं कर्णः परेषां च धनंजयः
ततॊ जाताभिसंरम्भौ परस्परवधैषिणौ
अवेक्षेतां तदान्यॊन्यं समरे कर्ण पाण्डवौ
ततः परयाते सहसा भादर्वाजे महारथे
अन्तर नादेन घॊरेण वसुधासमकम्पत
ततस तुमुलम आकाशम आवृणॊत स दिवाकरम
वातॊद्धूतं रजस तीव्रं कौशेयनिकरॊपमम
अनभ्रे परववर्ष दयौर मांसास्थि रुधिराण्य उत
गृध्राः शयेना बडाः कङ्का वायसाश च सहस्रशः
उपर्य उपरि सेनां ते तदा पर्यपतन नृपः
गॊमायवश च पराक्रॊशन भयदान दारुणान रवान
अकार्षुर अपसव्यं च बहुशः पृतनां तव
चिखादिषन्तॊ मांसानि पिपासन्तश च शॊणितम
अपतद दीप्यमाना च स निर्घाता स कम्पना
उज्ला जवलन्ती संग्रामे पुच्छेनावृत्य सर्वशः
परिवेषॊ महांश चापि स विद्युत सतनयित्नुमान
भास्करस्याभवद राजन परयाते वाहिनीपतौ
एते चान्ये च बहवः परादुरासन सुदारुणाः
उत्पाता युधि वीराणां जीवितक्षयकारकाः
ततः परववृते युद्धं परस्परवधैषिणाम
कुरुपाण्डवसैन्यानां शब्देनानादयज जगत
ते तव अन्यॊन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह
परत्यघ्नन निशितैर बाणैर जय गृद्धाः परहारिणः
स पाण्डवानां महतीं महेष्वासॊ महाद्युतिः
वेगेनाभ्यद्रवत सेनां किरञ शरशतैः शितैः
दरॊणम अभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः
परत्यगृह्णंस तदा राजञ शरवर्षैः पृथक पृथक
संक्षॊभ्यमाणा दरॊणेन भिद्यमाना महाचमूः
वयशीर्यत सपाञ्चाला वातेनेव बलाहकाः
बहूनीह विकुर्वाणॊ दिव्यान्य अस्त्राणि संयुगे
अपीडयत कषणेनैव दरॊणः पाण्डव सृञ्जयान
ते वध्यमाना दरॊणेन वासवेनेव दानवाः
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरॊगमाः
ततॊ दिव्यास्त्रविच छूरॊ याज्ञसेनिर महारथः
अभिनच छरवर्षेण दरॊणानीकम अनेकधा
दरॊणस्य शरवर्षैस तु शरवर्षाणि भागशः
संनिवार्य ततः सेनां कुरून अप्य अवधीद बली
संहृत्य तु ततॊ दरॊणः समवस्थाप्य चाहवे
सवम अनीकं महाबाहुः पार्षतं समुपाद्रवत
स बाणवर्षं सुमहद असृजत पार्षतं परति
मघवान समभिक्रुद्धः सहसा दानवेष्व इव
ते कम्प्यमाना दरॊणेन बाणैः पाण्डव सृञ्जयाः
पुनः पुनर अभज्यन्त सिंहेनेवेतरे मृगाः
अथ पर्यपतद दरॊणः पाण्डवानां बलं बली
अलातचक्रवद राजंस तद अद्भुतम इवाभवत
खचर नगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलद अनिलपताकं हरादिनं वल्गिताश्वम
सफटिकविमलकेतुं तापनं शात्रवाणां; रथवरम अधिरूढः संजहारारि सेनाम
[स]
तथा दरॊणम अभिघ्नन्तं स शवसूत रथद्विपान
वयथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन
ततॊ युधिष्ठिरॊ राजा धृष्टद्युम्न धनंजयौ
अब्रवीत सर्वतॊ यत्तैः कुम्भयॊनिर निवार्यताम
तत्रैनम अर्जुनश चैव पार्षतश च सहानुगः
पर्यगृह्णंस ततः सर्वे समायान्तं महारथाः
केकया भिमसेनश च सौभद्रॊ ऽथ घटॊत्कचः
युधिष्ठिरॊ यमौ मत्स्या दरुपदस्यात्मजास तथा
दरौपदेयाश च संहृष्टा धृष्टकेतुः स सात्यकिः
चेकितानश च संक्रुद्धॊ युयुत्सुश च महारथः
ये चान्ये पार्थिवा राजन पाण्डवस्यानुयायिनः
कुलवीर्यानुरूपाणि चक्रुः कर्माण्य अनेकशः
संगृह्यमाणां तां दृष्ट्वा पाण्डवैर वाहिनीं रणे
वयावृत्य चक्षुषी कॊपाद भारद्वाजॊ ऽनववैक्षत
स तीव्रं कॊपम आस्थाय रथे समरदुर्मदः
वयधमत पाण्डवानीकम अभ्राणीव सदागतिः
रथान अश्वान नरान नागान अभिधावंस ततस ततः
चचारॊन्मत्तवद दरॊणॊ वृद्धॊ ऽपि तरुणॊ यथा
तस्य शॊणितदिग्धाङ्गाः शॊणास ते वातरंहसः
आजानेया हया राजन्न अविभ्रान्ताः शरियं दधुः
तम अन्तकम इव करुद्धम आपतन्तं यतव्रतम
दृष्ट्वा संप्राद्रवन यॊधाः पाण्डवस्य ततस ततः
तेषां परद्रवतां भीमः पुनरावर्तताम अपि
वीक्षतां तिष्ठतां चासीच छब्दः परमदारुणः
शूराणां हर्षजननॊ भीरूणां भयवर्धनः
दयावापृथिव्यॊर विवरं पूरयाम आस सर्वतः
ततः पुनर अपि दरॊणॊ नाम विश्रावयन युधि
अकरॊद रौद्रम आत्मानं किरञ शरशतैः परान
स तथा तान्य अनीकानि पाण्डवेयस्य धीमतः
कालवन नयवधीद दरॊणॊ युवेव सथविरॊ बली
उत्कृत्य च शिरांस्य उग्रॊ बाहून अपि सुभूषणान
कृत्वा शून्यान रथॊपस्थान उदक्रॊशन महारथः
तस्य हर्षप्रणादेन बाणवेगेन चाभिभॊ
पराकम्पन्त रणे यॊधा गावः शीतार्दिता इव
दरॊणस्य रथघॊषेण मौर्वी निष्पेषणेन च
धनुः शब्देन चाकाशे शब्दः समभवन महान
अथास्य बहुशॊ बाणा निश्चरन्तः सहस्रशः
वयाप्य सर्वा दिशः पेतुर गजाश्वरथपत्तिषु
तं कार्मुकमहावेगम अस्त्रज्वलित पावकम
दरॊणम आदासयां चक्रुः पाञ्चालाः पाण्डवैः सह
तान वै स रथहस्त्यश्वान पराहिणॊद यमसादनम
दरॊणॊ ऽचिरेणाकरॊच च महीं शॊणितकर्दमाम
तन्वता परमास्त्राणि शरान सततम अस्यता
दरॊणेन विहितं दिक्षु बाणजालम अदृश्यत
पदातिषु रथाश्वेषु वारणेषु च सर्वशः
तस्य विद्युद इवाभ्रेषु चरन केतुर अदृश्यत
स केकयानां परवरांश च पञ्च; पाञ्चालराजं च शरैः परमृद्य
युधिष्ठिरानीकम अदीनयॊधी; दरॊणॊ ऽभययात कार्मुकबाणपाणिः
तं भीमसेनश च धनंजयश च; शिनेश च नप्ता दरुपदात्मजश च
शैब्यात्मजः काशिपतिः शिबिश च; हृष्टा नदन्तॊ वयकिरञ शरौघैः
तेषाम अथॊ दरॊण धनुर विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः
भित्त्वा शरीराणि गजाश्वयूनां; जग्मुर महीं शॊणितदिग्ध वाजाः
सा यॊधसंघैश च रथैश च भूमिः; शरैर विभिन्नैर गजवाजिभिश च
परच्छाद्यमाना पतितैर बभूव; समन्ततॊ दयौर इव कालमेघैः
शैनेय भीमार्जुनवाहिनीपाञ; शैब्याभिमन्यू सह काशिराज्ञा
अन्यांश च वीरान समरे परमृद्नाद; दरॊणः सुतानां तव भूतिकामः
एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा
परताप्य लॊकान इव कालसूर्यॊ; दरॊणॊ गतः सवर्गम इतॊ हि राजन
एवं रुक्मरथः शूरॊ हत्वा शतसहस्रशः
पाण्डवानां रणे यॊधान पार्षतेन निपातितः
अक्षौहिणीम अभ्यधिकां शूराणाम अनिवर्तिनाम
निहत्य पश्चाद धृतिमान अगच्छत परमं गतिम
पाण्डवैः सह पाञ्चालैर अशिवैः करूरकर्मभिः
हतॊ रुक्मरथॊ राजन कृत्वा कर्म सुदुष्करम
ततॊ निनादॊ भूतानाम आकाशे समजायत
सैन्यानां च ततॊ राजन्न आचार्ये निहते युधि
दयां धरां खं दिशॊ वारि परदिशश चानुनादयन
अहॊ धिग इति भूतानां शब्दः समभवन महान
देवताः पितरश चैव पूर्वे ये चास्य बान्धवाः
ददृशुर निहतं तत्र भारद्वाजं महारथम
पाण्डवास तु जयं लब्ध्वा सिंहनादान परचक्रिरे
तेन नादेन महता समकम्पत मेदिनी
[धृ]
किं कुर्वाणं रणे दरॊणं जघ्नुः पाण्डव सृञ्जयाः
तथा निपुणम अस्त्रेषु सर्वशस्त्रभृताम अपि
रथभङ्गॊ बभूवास्य धनुर वाशीर्यतास्यतः
परमत्तॊ वाभवद दरॊणस ततॊ मृत्युम उपेयिवान
कथं नु पार्षतस तात शत्रुभिर दुष्प्रधर्षणम
किरन्तम इषुसंघातान रुक्मपुङ्खान अनेकशः
कषिप्रहस्तं दविजश्रेष्ठं कृतिनं चित्रयॊधिनम
दूरेषु पातिनं दान्तम अस्त्रयुद्धे च पारगम
पाञ्चाल पुत्रॊ नयवधीद दिष्ट्या स वरम अच्युतम
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम
वयक्तं दिष्टं हि बलवत पौरुषाद इति मे मतिः
यद दरुणॊ निहतः शूरः पार्षतेन महात्मना
अस्त्रं चतुर्विधं वीरे यस्मिन्न आसीत परतिष्ठितम
तम इष्वस्त्रवराचार्यं दरॊणं शंससि मे हत
शरुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम
जातरूपपरिष्कारं नाद्य शॊकम अपानुदे
न नूनं परदुःखेन कश चिन मरियति संजय
यत्र दरॊणम अहं शरुत्वा हतं जीवामि न मरिये
अश्मसारमयं नूनं हृदयं सुदृढं मम
यच छरुत्वा निहतं दरॊणं शतधा न विदीर्यते
बराह्मे वेदे तथेष्व अस्त्रे यम उपासन गुणार्थिनः
बराह्मणा राजपुत्राश च स कथं मृत्युना हतः
शॊषणं सागरस्येव मेरॊर इव विसर्पणम
पतनं भास्करस्येव न मृष्ये दरॊण पातनम
दृप्तानां परतिषेद्धासीद धार्मिकानां च रक्षिता
यॊ ऽतयाक्षीत कृपणस्यार्थे पराणान अपि परंतपः
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे
बृहस्पत्युशनस तुल्यॊ बुद्ध्या स निहतः कथम
ते च शॊणा बृहन्तॊ ऽशवाः सैन्धवा हेममालिनः
रथे वातजया युक्ताः सर्वशब्दातिगा रणे
बलिनॊ घॊषिणॊ दान्ताः सैन्धवाः साधु वाहिनः
दृढाः संग्राममध्येषु कच चिद आसन न विह्वलाः
करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम
जया कषेप शरवर्षाणां शस्त्राणां च सहिष्णवः
आशंसन्तः पराञ जेतुं जितश्वासा जितव्यथाः
हयाः परजविताः शीघ्रा भारद्वाज रथॊद्वहाः
ते सम रुक्मरथे युक्ता नरवीर समाहिताः
कथं नाभ्यतरंस तात पाण्डवानाम अनीकिनीम
जातरूपपरिष्कारम आस्थाय रथम उत्तमम
भारद्वाजः किम अकरॊच छूरः संक्रन्दनॊ युधि
विद्यां यस्यॊपजीवन्ति सर्वलॊकधनुर्भृतः
स सत्यसंधॊ बलवान दरॊणः किम अकरॊद युधि
दिवि शक्रम इव शरेष्ठं महामात्रं धनुर्भृताम
के नु तं रौद्रकर्माणं युद्धे परत्युद्ययू रथाः
ननु रुक्मरथं दृष्ट्वा परद्रवन्ति सम पाण्डवाः
दिव्यम अस्त्रं विकुर्वाणं सेनां कषिण्वन्तम अव्ययम
उताहॊ सर्वसैन्येन धर्मराजः सहानुजः
पाञ्चाल्य परग्रहॊ दरॊणं सर्वतः समवारयत
नूनम आवरयत पार्थॊ रथिनॊ ऽनयान अजिह्मगैः
ततॊ दरॊणं समारॊहत पार्षतः पापकर्मकृत
न हय अन्यं परिपश्यामि वधे कं चन शुष्मिणः
धृष्टद्युम्नाद ऋते रौद्रात पाल्यमानात किरीटिना
तैर वृतः सर्वतः शूरैः पाञ्चाल्यापसदस ततः
केकयैर्श चेदिकारूषैर मत्स्यैर अन्यैश च भूमिपैः
वयाकुलीकृतम आचार्यं पिपीलैर उरगं यथा
कर्मण्य सुकरे सक्तं जघानेति मतिर मम
यॊ ऽधीत्य चतुरॊ वेदान सर्वान आख्यान पञ्चमान
बराह्मणानां परतिष्ठासीत सरॊतसाम इव सागरः
स कथं बराह्मणॊ वृद्धः शस्त्रेण वधम आप्तवान
अमर्षणॊ मर्षितवान कलिश्यमानः सदा मया
अनर्हमाणः कौन्तेयः कर्मणस तस्य तत फलम
यस्य कर्मानुजीवन्ति लॊके सर्वधनुर्भृतः
स सत्यसंधः सुकृती शरीकामैर निहतः कथम
दिवि शक्र इव शरेष्ठॊ महासत्त्वॊ महाबलः
स कथं निहतः पार्थैः कषुद्रमत्स्यैर यथा तिमिः
कषिप्रहस्तश च बलवान दृढधन्वारि मर्दनः
न यस्य जीविताकाङ्क्षी विषयं पराप्य जीवति
यं दवौ न जहतः शब्दौ जीवमानं कदा चन
बराह्मश च वेद कामानां जयाघॊषश च धनुर्भृताम
नाहं मृष्ये हतं दरॊणं सिंहद्विरदविक्रमम
कथं संजय दुर्धर्षम अनाधृष्य यशॊबलम
के ऽरक्षन दक्षिणं चक्रं सव्यं के च महात्मनः
पुरस्तात के च वीरस्य युध्यमानस्य संयुगे
के च तत्र तनुं तयक्त्वा परतीपं मृत्युम आव्रजन
दरॊणस्य समरे वीराः के ऽकुर्वन्त परां धृतिम
एतद आर्येण कर्तव्यं कृच्छ्रास्व आपत्सु संजय
पराक्रमेद यथाशक्थ्या तच च तस्मिन परतिष्ठितम
मुह्यते मे मनस तात कथा तावन निवर्त्यताम
भूयस तु लब्धसंज्ञस तवा परिप्रक्ष्यामि संजय
[व]
एवं पृष्ट्वा सूतपुत्रं हृच छॊकेनार्दितॊ भृशम
जये निराशः पुत्राणां धृतराष्ट्रॊ ऽपतत कषितौ
तं विसंज्ञं निपतितं सिषुचुः परिचारकाः
जलेनात्यर्थ शीतेन वीजन्तः पुण्यगन्धिना
पतितं चैनम आज्ञाय समन्ताद भरत सत्रियः
परिवव्रुर महाराजम अस्पृशंश चैव पाणिभिः
उत्थाप्य चैनं शनकै राजानं पृथिवीतलात
आसनं परापयाम आसुर बाष्पकण्ठ्यॊ वराङ्गनाः
आसनं पराप्य राजा तु मूर्छयाभिपरिप्लुतः
निश्चेष्टॊ ऽतिष्ठत तदा वीज्यमानः समन्ततः
स लब्ध्वा शनकैः संज्ञां वेपमानॊ महीपतिः
पुनर गावल्गणिं सूतं पर्यपृच्छद यथातथम
यत तद उद्यन्न इवादित्यॊ जयॊतिषा परणुदंस तमः
आयाद अजातशत्रुर वै कस तं दरॊणाद अवारयत
परभिन्नम इव मातङ्गं तथ करुद्धं तरस्विनम
आसक्तमनसं दीप्तं परति दविरदघातिनम
वाशिता संगमे यद्वद अजय्यं परतियूथपैः
अति चान्यान रणे यॊधान वीरः पुरुषसत्तमः
यॊ हय एकॊ हि महाबाहुर निर्दहेद घॊरचक्षुषा
कृत्स्नं दुर्यॊधन बलं धृतिमान सत्यसंगरः
चक्षुर्हणं जये सक्तम इष्वास वररक्षितम
दान्तं बहुमतं लॊके के शूराः पर्यवारयन
के दुष्प्रधर्षं राजानम इष्वास वरम अच्युतम
समासेदुर नरव्याघ्रं कौन्तेयं तत्र मामकाः
तरसैवाभिपत्याथ यॊ वै दरॊणम उपाद्रवत
तं भीमसेनम आयान्तं के शूराः पर्यवारयन
यद आयाज जलदप्रख्यॊ रथः परमवीर्यवान
पर्जन्य इव बीभत्सुस तुमुलाम अशनिं सृजन
ववर्ष शरवर्षाणि वर्षाणि मघवान इव
इषुसंबाधम आकाशं कुर्वन कपिवरध्वजः
अवस्फूर्जन दिशः सर्वास तलनेमि सवनेन च
चापविद्युत परभॊ घॊरॊ रथगुल्म बलाहकः
रथनेमि घॊषस्तनितः शरशब्दातिबन्धुरः
रॊषनिर्जित जीमूतॊ मनॊ ऽभिप्राय शीघ्रगः
मर्मातिगॊ बाणधारस तुमुलः शॊणितॊदकः
संफाल्वयन महीं वर्षां मानवैर आस्तरंस तदा
गना निष्टनितॊ रौद्रॊ दुर्यॊधनकृतॊद्यमः
युद्धे ऽभयषिञ्चद विजयॊ गार्ध्रपत्रिः शिलाशितैः
गाण्डीवं धारयन धीमान कीदृशं वॊ मनस तदा
कच चिद गाण्डीवशब्देन न परणश्यत वै बलम
यद वः स भैरवं कुर्वन्न अर्जुनॊ भृशम अभ्यगात
कच चिन नापानुदद दरॊणाद इषुभिर वॊ धनंजयः
वातॊ मेघान इवाविध्यन परवाञ शरवनानिलह
कॊ हि गाण्डीवधन्वानं नरः सॊढुं रणे ऽरहति
यत सेनाः समकम्पन्त यद वीरान अस्पृशद भयम
के तत्र नाजहुर दरॊणं के कषुद्राः पराद्रवन भयात
के वा तत्र तनूस तयक्त्वा परतीपं मृत्युम आव्रजन
अमानुषाणां जेतारं युद्धेष्व अपि धनंजयम
न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः
गाण्डीवस्य च निर्घॊषं परावृड जलदनिस्वनम
विष्वक्सेनॊ यस्य यन्ता यॊद्धा चैव धनंजयः
अशक्यः स रथॊ जेतुं मन्ये देवासुरैर अपि
सुकुमारॊ युवा शूरॊ दर्शनीयश च पाण्डवः
मेधावी निपुणॊ धीमान युधि सत्यपराक्रमः
आरावं विपुलं कुर्वन वयथयन सर्वकौरवान
यदायान नकुलॊ धीमान के शूराः पर्यवारयन
आशीविष इव करुद्धः सहदेवॊ यदाभ्ययात
शत्रूणां कदनं जुर्वञ जेतासौ दुर्जयॊ युधि
आर्य वरतम अमॊघेषुं हरीमन्तम अपराजितम
दरॊणायाभिमुखं यान्तं के शूराः पर्यवारयन
यः स सौवीरराजस्य परमथ्य महतीं चमूम
आदत्त महिषीं भॊज्यां काम्यां सर्वाङ्गशॊभनाम
सत्यं धृतिश च शौर्यं च बरह्मचर्यं च केवलम
सर्वाणि युयुधाने ऽसमिन नित्यानि पुरुषर्षभे
बलिनं सत्यकर्माणम अदीनम अपराजितम
वासुदेव समं युद्धे वासुदेवाद अनन्तरम
युक्तं धनंजय परेष्ये शूरम आचार्य कर्मणि
पार्थेन समम अस्त्रेषु कस तं दरॊणाद अवारयत
वृष्णीनां परवरं वीरं शूरं सर्वधनुष्मताम
रामेण समम अस्त्रेषु यशसा विक्रमेण च
सत्यं धृतिर दमः शौर्यं बरह्मचर्यम अनुत्तमम
सात्वते तानि सर्वाणि तरैलॊक्यम इव केशवे
तम एवं गुन संपन्नं दुर्वारम अपि दैवतैः
समासाद्य महेष्वासं के वीराः पर्यवारयन
पाञ्चालेषूत्तमं शूरम उत्तमाभिजन परियम
नित्यम उत्तमकर्माणम उत्तमौजसम आहवे
युक्तं धनंजय हिते ममानर्थाय चॊत्तमम
यम वैश्रवणादित्य महेन्द्रवरुणॊपमम
महारथसमाख्यातं दरॊणायॊद्यन्तम आहवे
तयजन्तं तुमुले पराणान के शूराः पर्यवारयन
एकॊ ऽपसृत्य चेदिभ्यः पाण्डवान यः समाश्रितः
धृष्टकेतुं तमायान्तं दरॊणात कः समवारयत
यॊ ऽवधीत केतुमाञ शूरॊ राजपुत्रं सुदर्शनम
अपरान्त गिरिद्वारे कस तं दरॊणाद अवारयत
सत्रीपूर्वॊ यॊ नरव्याघ्रॊ यः स वेद गुणागुणान
शिखण्डिनं याज्ञसेनिम अम्लान मनसं युधि
देवव्रतस्य समरे हेतुं मृत्यॊर महात्मनः
दरॊणायाभिमुखं यान्तं के वीराः पर्यवारयन
यस्मिन्न अभ्यधिका वीरे गुणाः सर्वे धनंजयात
यस्मिन्न अस्त्राणि सत्यं च बरह्मचर्यं च नित्यदा
वासुदेव समं वीर्ये धनंजय समं बले
तेजसादित्यसदृशं बृहस्पतिसमं मतौ
अभिमन्युं महात्मानं वयात्ताननम इवान्तकम
दरॊणायाभिमुखं यान्तं के वीराः पर्यवारयन
तरुणस तव अरुणप्रख्यः सौभद्रः परवीरहा
यदाभ्याद्रवत दरॊणं तदासीद वॊ मनः कथम
दरौपदेया नरव्याघ्राः समुद्रम इव सिन्धवः
यद दरॊणम आद्रवन संख्ये के वीरास तान अवारयन
ये ते दवादश वर्षाणि करीडाम उत्सृज्य बालकाः
अस्त्रार्थम अवसन भीष्मे बिभ्रतॊ वरतम उत्तमम
कषत्रं जयः कषत्रदेवः कषत्रधर्मा च मानिनः
धृष्टद्युम्नात्मजा वीराः के तान दरॊणाद अवारयन
शताद विशिष्टं यं युद्धे समपश्यन्त वृष्णयः
चेकितानं महेष्वासं कस तं दरॊणाद अवारयत
वार्धक्षेमिः कलिङ्गानां यः कन्याम आहरद युधि
अनाधृष्टिर अदीनात्मा कस तं दरॊणाद अवारयत
भरातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः
इन्द्र गॊपक वर्णाश च रक्तवर्मायुध धवजाः
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः
तान दरॊणं हन्तुम आयातान के वीराः पर्यवारयन
यं यॊधयन्तॊ राजानॊ नाजयन वारणावते
षण मासान अभिसंरब्धा जिघांसन्तॊ युधां पतिम
धनुष्मतां वरं शूरं सत्यसंधं महाबलम
दरॊणात कस तं नरव्याघ्रं युयुत्सुं परत्यवारयत
यः पुत्रं काशिराजस्य वाराणस्यां महारथम
समरे सत्रीषु गृध्यन्तं भल्लेनापहरद रथात
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम
युक्तं दुर्यॊधनानर्थे सृष्टं दरॊण वधाय च
निर्दहन्तं रणे यॊधान दारयन्तं च सर्वशः
दरॊणायाभिमुखं यान्तं के वीराः पर्यवारयन
उत्सङ्ग इव संवृद्धं दरुपदस्यास्त्रवित्तमम
शैखण्डिनं कषत्रदेवं के तं दरॊणाद अवारयन
य इमां पृथिवीं कृत्स्नां चर्म वत्सम अवेष्टयत
महता रथवंशेन मुख्यारिघ्नॊ महारथः
दशाश्वमेघान आजह्रे सवन्नपानाप्त दक्षिणान
निरर्गलान सर्वमेधान पुत्रवत पालयन परजाः
पिबन्त्यॊ दक्षिणां यस्य गङ्गा सरॊतः समापिबन
तावतीर गा ददौ वीर उशीनर सुतॊ ऽधवरे
न पूर्वे नापरे चक्रुर इदं के चन मानवाः
इति संचुक्रुशुर देवाः कृते कर्मणि दुष्करे
पश्यामस तरिषु लॊकेषु न तं संस्थास्नुचारिषु
जातं वापि जनिष्यं वा दवितीयं वापि संप्रति
अन्यम औशीनराच छैब्याद धुरॊ वॊढारम इत्य उत
गतिं यस्य न यास्यन्ति मानुषा लॊकवासिनः
तस्य नप्तारम आयान्तं शैब्यं कः समवारयत
दरॊणायाभिमुखं यान्तं वयात्ताननम इवान्तकम
विराटस्य रथानीकं मत्स्यस्यामित्र धातिनः
परेप्सन्तं समरे दरॊणं के वीराः पर्यवारयन
सद्यॊ वृकॊदराज जातॊ महाबलपराक्रमः
मायावी राक्षसॊ घॊरॊ यस्मान मम महद भयम
पार्थानां जय कामं तं पुत्राणां मम कण्टकम
घटॊत्कचं महाबाहुं कस तं दरॊणाद अवारयत
एते चान्ये च बहवॊ येषाम अर्थाय संजय
तयक्तारः संयुगे पराणान किं तेषाम अजितं युधि
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा वयपाश्रयः
हितार्थी चापि पार्थानां कथं तेषां पराजयः
लॊकानां गुरुर अत्यन्तं लॊकनाथः सनातनः
नारायणॊ रणे नाथॊ दिव्यॊ दिव्यात्मवान परभुः
यस्य दिव्यानि कर्माणि परवदन्ति मनीषिणः
तान्य अहं कीर्तयिष्यामि भक्त्या सथैर्यार्थम आत्मनः
[धृ]
शृणु दिव्यानि कर्माणि वासुदेवस्य संजय
कृतवान यानि गॊविन्दॊ यथा नान्यः पुमान कव चित
संवर्धता गॊप कुले बालेनैव महात्मना
विख्यापितं बलं बाह्वॊस तरिषु लॊकेषु संजय
उच्छैः शरवस तुल्यबलं वायुवेगसमं जवे
जघान हयराजं यॊ यमुनावनवासिनम
दानवं घॊरकर्माणं गवां मृत्युम इवॊत्थितम
वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह
परलम्बं नरकं जम्भं पीठं चापि महासुरम
मुरुं चाचलसंकाशम अवधीत पुष्करेक्षणः
तथा कंसॊ महातेजा जरासंधेन पालितः
विक्रमेणैव कृष्णेन सगणः शातितॊ रणे
सुनामा नाम विक्रान्तः समग्राक्षौहिणी पतिः
भॊजराजस्य मध्यस्थॊ भराता कंसस्य वीर्यवान
बलदेव दवितीयेन कृष्णेनामित्र घातिना
तरस्वी समरे दग्धः स सैन्यः शूरसेनराट
दुर्वासा नाम विप्रर्षिस तथा परमकॊपनः
आराधितः सदारेण स चास्मै परददौ वरान
तथा गान्धारराजस्य सुतां वीरः सवयंवरे
निर्जित्य पृथिवीपालान अवहत पुष्करेक्षणः
अमृष्यमाणा राजानॊ यस्य जात्या हया इव
रथे वैवाहिके युक्ताः परतॊदेन कृतव्रणाः
जरासंधं महाबाहुम उपायेन जनार्दनः
परेण घातयाम आस पृथग अक्षौहिणीपतिम
चेदिराजं च विक्रान्तं राजसेनापतिं बली
अर्घे विवदमानं च जघान पशुवत तदा
सौभं दैत्य पुरं सवस्थं शाल्व गुप्तं दुरासदम
समुद्रकुक्षौ विक्रम्य पातयाम आस माधवः
अङ्गान वङ्गान कलिङ्गांश च मागधान काशिकॊसलान
वत्स गर्ग करूषांश च पुण्ड्रांश चाप्य अजयद रणे
आवन्त्यान दाक्षिणात्यांश च पार्वतीयान दशेरकान
काश्मीरकान औरसकान पिशाचांश च स मन्दरान
काम्बॊजान वाटधानांश च चॊलान पाण्ड्यांश च संजय
तरिगर्तान मालवांश चैव दरदांश च सुदुर्जयान
नानादिग्भ्यश च संप्राप्तान वरातान अश्वशकान परति
जितवान पुण्डरीकाक्षॊ यवनांश च सहानुगान
परविश्य मकरावासं यादॊभिर अभिसंवृतम
जिगाय वरुणं युद्धे सलिलान्तर गतं पुरा
युधि पञ्चजनं हत्वा पातालतलवासिनम
पाञ्चजन्यं हृषीकेशॊ दिव्यं शङ्खम अवाप्तवान
खाण्डवे पार्थ सहितस तॊषयित्वा हुताशनम
आग्नेयम अस्त्रं दुर्धर्षं चक्रं लेभे महाबलः
वैनतेयं समारुह्य तरासयित्वामरावतीम
महेन्द्रभवनाद वीरः पारिजातम उपानयत
तच च मर्षितवाञ शक्रॊ जानंस तस्य पराक्रमम
राज्ञां चाप्य अजितं कं चित कृष्णेनेह न शुश्रुम
यच च तन महद आश्चर्यं सभायां मम संजय
कृतवान पुण्डरीकाक्षः कस तद अन्य इहार्हति
यच च भक्त्या परपन्नॊ ऽहम अद्राक्षं कृष्णम ईश्वरम
तन मे सुविदितं सर्वं परत्यक्षम इव चागमत
नान्तॊ विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः
कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय
तथा गदश च साम्बश च परद्युम्नॊ ऽथ विदूरथः
आगावहॊ ऽनिरुद्धश च चारुदेष्णश च सारणः
उल्मुकॊ निशठश चैव झल्ली बभ्रुश च वीर्यवान
पृथुश च विपृथुश चैव समीकॊ ऽथारिमेजयः
एते वै बलवन्तश च वृणि वीराः परहारिणः
कथं चित पाण्डवानीकं शरयेयुः समरे सथिताः
आहूता वृष्णिवीरेण केशवेन महात्मना
ततः संशयितं सर्वं भवेद इति मतिर मम
नागायुत बलॊ वीरः कैलासशिखरॊपमः
वनमाली हली रामस तत्र यत्र जनार्दनः
यम आहुः सर्वपितरं वासुदेवं दविजातयः
अपि वा हय एष पाण्डूनां यॊत्स्यते ऽरथाय संजय
स यदा तात संनह्येत पाण्डवार्थाय केशवः
न तदा परत्यनीकेषु भविता तस्य कश चन
यदि सम कुरवः सर्वे जयेयुः सर्वपाण्डवान
वार्ष्णेयॊ ऽरथाय तेषां वै गृह्णीयाच छस्त्रम उत्तमम
ततः सर्वान नरव्याघ्रॊ हत्वा नरपतीन रणे
कौरवांश च महाबाहुः कुन्त्यै दद्यात स मेदिनीम
यस्य यन्ता हृषीकेशॊ यॊद्धा यस्य धनंजयः
रथस्य तस्य कः संख्ये परत्यनीकॊ भवेद रथः
न केन चिद उपायेन कुरूणां दृश्यते जयः
तस्मान मे सर्वम आचक्ष्व यथा युद्धम अवर्तत
अर्जुनः केशवस्यात्मा कृष्णॊ ऽपय आत्मा किरीटिनः
अर्जुने विजयॊ नित्यं कृष्णे कीर्तिश च शाश्वती
पराधान्येन हि भूयिष्ठम अमेयाः केशवे गुणाः
मॊहाद दुर्यॊधनः कृष्णं यन न वेत्तीह माधवम
मॊहितॊ दैवयॊगेन मृत्युपाशपुरस्कृतः
न वेद कृष्णं दाशार्हम अर्जुनं चैव पाण्डवम
पूर्वदेवौ महात्मानौ नरनारायणाव उभौ
एकात्मानौ दविधा भूतौ दृश्येते मानवैर भुवि
मनसापि हि दुर्धर्षौ सेनाम एतां यशस्विनौ
नाशयेताम इहेच्छन्तौ मानुषत्वात तु नेच्छतः
युगस्येव विपर्यासॊ लॊकानाम इव मॊहनम
भीष्मस्य च वधस तात दरॊणस्य च महात्मनः
न हय एव बरह्मचर्येण न वेदाध्ययनेन च
न करियाभिर न शस्त्रेण मृत्यॊः कश चिद विमुच्यते
लॊकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ
भीष्मद्रॊणौ हतौ शरुत्वा किं नु जीवामि संजय
यां तां शरियम असूयामः पुरा यातां युधिष्ठिरे
अद्य ताम अनुजानीमॊ भीष्मद्रॊणवधेन च
तथा च मत्कृते पराप्तः कुरूणाम एष संक्षयः
पक्वानां हि वधे सूत वज्रायन्ते तृणान्य अपि
अनन्यम इदम ऐश्वर्यं लॊके पराप्तॊ युधिष्ठिरः
यस्य कॊपान महेष्वासौ भीष्मद्रॊणौ निपातितौ
पराप्तः परकृतितॊ धर्मॊ नाधर्मॊ मानवान परति
करूरः सर्वविनाशाय कालः समतिवर्तते
अन्यथा चिन्तिता हय अर्था नरैस तात मनस्विभिः
अन्यथैव हि गच्छन्ति दैवाद इति मतिर मम
तस्माद अपरिहार्ये ऽरथे संप्राप्ते कृच्छ्र उत्तमे
अपारणीये दुश्चिन्त्ये यथा भूतं परचक्ष्व मे
[स]
हन्त ते वर्णयिष्यामि सर्वं परत्यक्षदर्शिवान
यथा स नयपतद दरॊणः सादितः पाण्डुसृञ्जयैः
सेनापतित्वं संप्राप्य भारद्वाजॊ महारथः
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यम अब्रवीत
यत कौरवाणाम ऋषभाद आपगेयाद अनन्तरम
सेनापत्येन मां राजन्न अद्य सत्कृतवान असि
सदृशं कर्मणस तस्य फलं पराप्नुहि पार्थिव
करॊमि कामं कं ते ऽदय परवृणीष्व यम इच्छसि
ततॊ दुर्यॊधनश चिन्त्य कर्ण दुःशासनादिभिः
तम अथॊवाच दुर्धर्षम आचार्यं जयतां वरम
ददासि चेद वरं मह्यं जीवग्राहं युधिष्ठिरम
गृहीत्वा रथिनां शरेष्ठं मत्समीपम इहानय
ततः कुरूणाम आचार्यः शरुत्वा पुत्रस्य ते वचः
सेनां परहर्षयन सर्वाम इदं वचनम अब्रवीत
धन्यः कुन्तीसुतॊ राजा यस्य गरहणम इच्छसि
न वधार्थं सुदुर्धर्ष वरम अद्य परयाचसि
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि
नाशंससि करियाम एतां मत्तॊ दुर्यॊधन धरुवम
आहॊ सविद धर्मपुत्रस्य दवेष्टा तस्य न विद्यते
यद इच्छसि तवं जीवन्तं कुलं रक्षसि चात्मनि
अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान
राज्यांशं परतिदत्त्वा च सौभ्रात्रं कर्तुम इच्छसि
धन्यः कुन्तीसुतॊ राजा सुजाता चास्य धीमतः
अजातशत्रुता सत्या तस्य यत सनिह्यते भवान
दरॊणेन तव एवम उक्तस्य तव पुत्रस्य भारत
सहसा निःसृतॊ भावॊ यॊ ऽसय नित्यं परवर्तते
नाकारॊ गूहितं शक्यॊ बृहस्पतिसमैर अपि
तस्मात तव सुतॊ राजन परहृष्टॊ वाक्यम अब्रवीत
वधे कुन्तीसुतस्याजौ नाचार्य विजयॊ मम
हते युधिष्ठिरे पार्थॊ हन्यात सर्वान हि नॊ धरुवम
न च शक्यॊ रणे सर्वैर निहन्तुम अमरैर अपि
य एव चैषां शेषः सयात स एवास्मान न शेषयेत
सत्यप्रतिज्ञे तव आनीते पुनर्द्यूतेन निर्जिते
पुनर यास्यन्त्य अरण्याय कौन्तेयास तम अनुव्रताः
सॊ ऽयं मम जयॊ वयक्तं दीर्घकालं भविष्यति
अतॊ न वधम इच्छामि धर्मराजस्य कर्हि चित
तस्य जिह्मम अभिप्रायं जञात्वा दरॊणॊ ऽरथतत्त्ववित
तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान
[दर्न]
न चेद युधिष्ठिरं वीर पालयेद अर्जुनॊ युधि
मन्यस्व पाण्डवं जयेष्ठम आनीतं वशम आत्मनः
न हि पार्थॊ रणे शक्यः सेन्द्रैर देवासुरैर अपि
परत्युद्यातुम अतस तात नैतद आमर्षयाम्य अहम
असंशयं स शिष्यॊ मे मत पूर्वश चास्त्रकर्मणि
तरुणः कीर्तियुक्तश च एकायनगतश च सः
अस्त्राणीन्द्राच च रुद्राच च भूयांसि समवाप्तवान
अमर्षितश च ते राजंस तेन नामर्षयाम्य अहम
स चापक्रम्यतां युद्धाद येनॊपायेन शक्यते
अपनीते ततः पार्थे धर्मराजॊ जितस तवया
गरहणं चेज जयं तस्य मन्यसे पुरुषर्षभ
एतेन चाभ्युपायेन धरुवं गरहणम एष्यति
अहं गृहीत्वा राजानं सत्यधर्मपरायणम
आनयिष्यामि ते राजन वशम अद्य न संशयः
यदि सथास्यति संग्रामे मुहूर्तम अपि मे ऽगरतः
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये
फल्गुनस्य समक्षं तु न हि पार्थॊ युधिष्ठिरः
गरहीतुं समरे शक्यः सेन्द्रैर अपि सुरासुरैः
[स]
सान्तरं तु परतिज्ञाते राज्ञॊ दरॊणेन निग्रहे
गृहीतं तम अमन्यन्त तव पुत्राः सुबालिशाः
पाण्डवेषु हि सापेक्षं दरॊणं जानाति ते सुतः
ततः परतिज्ञा सथैर्यार्थं स मन्त्रॊ बहुलीकृतः
ततॊ दुर्यॊधनेनापि गरहणं पाण्डवस्य तत
सैन्यस्थानेषु सर्वेषु वयाघॊषितम अरिंदम
[स]
ततस ते सैनिकाः शरुत्वा तं युधिष्ठिर निग्रहम
सिन्ह नादरवांश चक्रुर बाणशङ्खरवैः सह
तत तु सर्वं यथावृत्तं धर्मराजेन भारत
आप्तैर आशु परिज्ञातं भारद्वाज चिकीर्षितम
ततः सर्वान समानाय्य भरातॄन सैन्यांश च सर्वशः
अब्रवीद धर्मराजस तु धनंजयम इदं वचः
शरुतं ते पुरुषव्याघ्र दरॊणस्याद्य चिकीर्षितम
यथा तन न भवेत सत्यं तथा नीतिर विधीयताम
सान्तरं हि परतिज्ञातं दरॊणेनामित्रकर्शन
तच चान्तरम अमॊघेषौ तवयि तेन समाहितम
स तवम अद्य महाबाहॊ युध्यस्व मद अनन्तरम
यथा दुर्यॊधनः कामं नेमं दरॊणाद अवाप्नुयात
[अर्ज]
यथा मे न वधः कर्य आचार्यस्य कथं चन
तथा तव परित्यागॊ न मे राजंश चिकीर्षितः
अप्य एवं पाण्डव पराणान उत्सृजेयम अहं युधि
परतीयां नाहम आचार्य तवां न जह्यां कथं चन
तवां निगृह्याहवे राजन धार्तराष्ट्रॊ यम इच्छति
न स तं जीवलॊके ऽसमिन कामं पराप्तः कथं चन
परपतेद दयौः स नक्षत्रा पृथिवी शकलीभवेत
न तवां दरॊणॊ निगृह्णीयाज जीवमाने मयि धरुवम
यदि तस्य रणे साह्यं कुरुते वज्रभृत सवयम
देवैर वा सहितॊ दैत्यैर न तवां पराप्स्यत्य असौ मृधे
मयि जीवति राजेन्द्र न भयंकर्तुम अर्हसि
दरॊणाद अस्त्रभृतां शरेष्ठात सर्वशस्त्रभृताम अपि
न समराम्य अनृतां वाचं न समरामि पराजयम
न समरामि परतिश्रुत्य किं चिद अप्य अनपाकृतम
[स]
ततः शङ्खाश च भेर्यश च मृदङ्गाश चानकैः सह
परावाद्यन्त महाराज पाडवानां निवेशने
सिंहनादश च संजज्ञे पाण्डवानां महात्मनाम
धनुर्ज्यातलशब्दश च गगनस्पृक सुभैरवः
तं शरुत्वा शङ्खनिर्घॊषं पाण्डवस्य महात्मनः
तवदीयेष्व अप्य अनीकेषु वादित्राण्य अभिजघ्निरे
ततॊ वयूढान्य अनीकानि तव तेषां च भारत
शनैर उपेयुर अन्यॊन्यं यॊत्स्यमानानि संयुगे
ततः परववृते युद्धं तुमुलं लॊमहर्षणम
पाण्डवानां कुरूणां च दरॊण पाञ्चाल्ययॊर अपि
यतमानाः परयत्नेन दरॊणानीक विशातने
न शेकुः सृञ्जया राजंस तद धि दरॊणेन पालितम
तथैव तव पुत्रस्य रथॊदाराः परहारिणः
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना
आस्तां ते सतिमिते सेने रक्ष्यमाणे परस्परम
संप्रसुप्ते यथा नक्तं वरराज्यौ सुपुष्पिते
ततॊ रुक रथॊ राजन्न अर्केणेव विराजता
वरूथिना विनिष्पत्य वयचरत पृतनान्तरे
तम उद्यतं रथेनैकम आशु कारिणम आहवे
अनेकम इव संत्रासान मेनिरे पाण्डुसृञ्जयाः
तेन मुक्ताः शरा घॊरा विचेरुः सर्वतॊदिशम
तरासयन्तॊ महाराज पाण्डवेयस्य वाहिनीम
मध्यं दिनम अनुप्राप्तॊ गभस्तिशतसंवृतः
यथादृश्यत घर्मांशुस तथा दरॊणॊ ऽपय अदृश्यत
न चैनं पाण्डवेयानां कश चिच छक्नॊति मारिष
वीक्षितुं समरे करुद्धं महेन्द्रम इव दानवाः
मॊहयित्वा ततः सैन्यं भारद्वाजः परतापवान
धृष्टद्युम्न बलं तूर्णं वयधमन निशितैः शरैः
स दिशः सर्वतॊ रुद्ध्वा संवृत्य खम अजिह्मगैः
पार्षतॊ यत्र तत्रैव ममृदे पाण्डुवाहिनीम
[स]
ततः स पाण्डवानीके जनयंस तुमुलं महत
वयचरत पाण्डवान दरॊणॊ दहन कक्षम इवानलः
निर्दहन्तम अनीकानि साक्षाद अग्निम इवॊत्थितम
दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः
परततं चास्यमानस्य धनुषॊ ऽसयाशु कारिणः
जयाघॊषः शरूयते ऽतयर्थं विस्फूर्जितम इवाशनेः
रथिनः सादिनश चैव नागान अश्वान पदातिनः
रौद्रा हस्तवता मुक्ताः परमथ्नन्ति सम सायकाः
नानद्यमानः पर्जन्यः सानिलः शुचि संक्षये
अश्मवर्षम इवावर्षत परेषाम आवहद भयम
वयचरत स तदा राजन सेनां विक्षॊभयन परभुः
वर्धयाम आस संत्रासं शात्रवाणाम अमानुषम
तस्य विद्युद इवाभ्रेषु चापं हेमपरिष्कृतम
भरमद रथाम्बुदे तस्मिन दृश्यते सम पुनः पुनः
स वीरः सत्यवान पराज्ञॊ धर्मनित्यः सुदारुणः
युगान्तकाले यन्तेव रौद्रां परास्कन्दयन नदीम
अमर्षवेगप्रभवां करव्यादगणसंकुलाम
बलौघैः सर्वतः पूर्णां वीर वृक्षापहारिणीम
शॊणितॊदां रथावर्तां हस्त्यश्वकृतरॊधसम
कवचॊडुप संयुक्तां मांसपङ्क समाकुलाम
मॊदॊ मज्जास्थि सिकताम उष्णीष वरफेनिलाम
संग्रामजलदापूर्णां परासमत्स्यसमाकुलाम
नरनागाश्वसंभूतां शरवेगौघवाहिनीम
शरीरदारु शृङ्गाटां भुजनागसमाकुलाम
उत्तमाङ्गॊपल तलां निस्त्रिंशझषसेविताम
रथनागह्रदॊपेतां नानाभरणनीरजाम
महारथशतावर्तां भूमिरेणूर्मि मालिनीम
महावीर्यवतां संख्ये सुतरां भीरु दुस्तराम
शूर वयालसमाकीर्णां पराणिवाणिज सेविताम
छिन्नच छत्रमहाहंसां मुकुटाण्डज संकुलाम
चक्रकूर्मां गदा नक्रां शरक्षुद्र झषाकुलाम
बड गृध्रसृगालानां घॊरसंघैर निषेविताम
निहतान पराणिनः संख्ये दरॊणेन बलिना शरैः
वहन्तीं पितृलॊकाय शतशॊ राजसत्तम
शरीरशतसंबाधां केशशैवलशाद्वलाम
नदीं परावर्तयद राजन भीरूणां भयवर्धिनीम
तं जयन्तम अनीकानि तानि तान्य एव भारत
सरतॊ ऽभयद्रवन दरॊणं युधिष्ठिरपुरॊगमाः
तान अभिद्रवतः शूरांस तावका दृढकार्मुकाः
सर्वतः परत्यगृह्णन्त तद अभूल लॊमहर्षणम
शतम आयुस तु शकुनिः सहदेवं समाद्रवत
स नियन्तृध्वजरथं विव्याध निशितैः शरैः
तस्य माद्री सुतः केतुं धनुः सूतं हयान अपि
नातिक्रुद्धः शरैश छित्त्वा षष्ट्या विव्याध मातुलम
सौबलस तु गदां गृह्य परचस्कन्द रथॊत्तमात
स तस्य गदया राजन रथात सूतम अपातयत
ततस तौ विरथौ राजन गदाहस्तौ महाबलौ
चिक्रीडतू रणे शूरौ स शृङ्गाव इव पर्वतौ
दरॊणः पाञ्चालराजानं विद्ध्वा दशभिर आशुगैः
बहुभिस तेन चाभ्यस्तस तं विव्याध शताधिकैः
विविंशतिं भीमसेनॊ विंशत्या निशितैः शरैः
विद्ध्वा नाकम्पयद वीरस तद अद्भुतम इवाभवत
विविंशतिस तु सहसा वयश्व केतुशरासनम
बीमं चक्रे महाराज ततः सैन्यान्य पूजयन
स तन न ममृषे वीरः शत्रॊर विजयम आहवे
ततॊ ऽसय गदया दान्तान हयान सर्वान अपातयत
शल्यस तु नकुलं वीरः सवस्रीयं परियम आत्मनः
विव्याध परहसन बाणैर लाडयन कॊपयन्न इव
तस्याश्वान आतपत्रं च धवजं सूतम अथॊ धनुः
निपात्य नकुलः संख्ये शङ्खं दध्मौ परतापवान
धृष्टकेतुः कृपेनास्तांश छित्त्वा बहुविधाञ शरान
कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत तरिभिः
तं कृपः शरवर्षेण महता समवाकिरत
निवार्य च रणे विप्रॊ धृष्टकेतुम अयॊधयत
सात्यकिः कृतवर्माणं नाराचेन सतनान्तरे
विद्ध्वा विव्याध सप्तत्या पुनर अन्यैः समयन्न इव
सप्त सप्ततिभिर भॊजस तं विद्ध्वा निशितैः शरैः
नाकम्पयत शैनेयं शीघ्रॊ वायुर इवाचलम
सेनापतिः सुशर्माणं शीघ्रं मर्मस्व अताडयत
स चापि तं तॊमरेण जत्रु देशे अताडयत
वैकर्तनं तु समरे विराटः परत्यवारयत
सह मत्स्यैर महावीर्यैस तद अद्भुतम इवाभवत
तत पौरुषम अभूत तत्र सूतपुत्रस्य दारुणम
यत सैन्यं वारयाम आस शरैः संनतपर्वभिः
दरुपदस तु सवयं राजा भगदत्तेन संगतः
तयॊर युद्धं महाराज चित्ररूपम इवाभवत
भूतानां तरासजननं चक्राते ऽसत्रविशारदौ
भूरिश्रवा रणे राजन याज्ञसेनिं महारथम
महता सायकौघेन छादयाम आस वीर्यवान
शिखण्डी तु ततः करुद्धः सौमदत्तिं विशां पते
नवत्या सायकानां तु कम्पयाम आस भारत
राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसाव उभौ
चक्राते ऽतयद्भुतं युद्धं परस्परवधैषिणौ
माया शतसृजौ दृप्तौ मायाभिर इतरेतरम
अन्तर्हितौ चेरतुस तौ भृशं विस्मयकारिणौ
चेकितानॊ ऽनुविन्देन युयुधे तव अतिभैरवम
यथा देवासुरे युद्धे बलशक्रौ महाबलौ
लक्ष्मणः कषत्रदेवेन विमर्दम अकरॊद भृशम
यथा विष्णुः पुरा राजन हिरण्याक्षेण संयुगे
ततः परजविताश्वेन विधिवत कल्पितेन च
रथेनाभ्यपतद राजन सौभद्रं पौरवॊ नदन
ततॊ ऽभियाय तवरितॊ युद्धाकाङ्क्षी महाबलः
तेन चक्रे महद युद्धम अभिमन्युर अरिंदमः
पौरवस तव अथ सौभद्रं शरव्रातैर अवाकिरत
तस्यार्जुनिर धवजं छत्रं धनुश चॊर्व्याम अपातयत
सौभद्रः पौरवं तव अन्यैर विद्ध्वा सप्तभिर आशुगैः
पञ्चभिस तस्य विव्याध हयान सूतं च सायकैः
ततः संहर्षयन सेनां सिंहवद विनदन मुहुः
समादत्तार्जुनिस तूर्णं पौरवान्त करं शरम
दवाभ्यां शराभ्यां हार्दिक्यश चकर्त स शरं धनुः
तद उत्सृज्य धनुश छिन्नं सौभद्रः परवीरहा
उद्बबर्ह सितं खड्गम आददानः शरावरम
स तेनानेक तारेण चर्मणा कृतहस्तवत
भरान्तासिर अचरन मार्गान दर्शयन वीर्यम आत्मनः
भरामितं पुनर उद्भ्रान्तम आधूतं पुनर उच्छ्रितम
चर्म निस्त्रिंशयॊ राजन निर्विशेषम अदृश्यत
स पौरव रथस्येषाम आप्लुत्य सहसा नदन
पौरवं रथम अस्थाय केशपक्षे परामृशत
जघानास्य पदा सूतम असिनापातयद धवजम
विक्षॊभ्याम्भॊ निधिं तार्क्ष्यस तं नागम इव चाक्षिपत
तम आकलितकेशान्तं ददृशुः सर्वपार्थिवाः
उक्षाणम इव सिंहेन पात्यमानम अचेतनम
तम आर्जुनिवशं पराप्तं कृष्यमाणम अनाथवत
पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः
स बर्हिणमहावाजं किङ्किणीशतजालवत
चर्म चादाय खड्गं च नद्न पर्यपतद रथात
ततः सैन्धवम आलॊक्य कार्ष्णिर उत्सृज्य पौरवम
उत्पपात रथात तूर्णं शयेनवन निपपात च
परासपट्टिशनिस्त्रिंशाञ शत्रुभिः संप्रवेरितान
चिच्छेदाथासिना कार्ष्णिश चर्मणा संरुरॊध च
स दर्शयित्वा सैन्यानां सवबाहुल्बलम आत्मनः
तम उद्यम्य महाखड्गं चर्म चाथ पुनर बली
वृद्धक्षत्रस्य दायादं पितुर अत्यन्तवैरिणम
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम
तौ परस्परम आसाद्य खड्गदन्त नखायुधौ
हृष्टवत संप्रजह्राते वयाघ्रकेसरिणाव इव
संपातेष्व अभिपातेषु निपातेष्व असि चर्मणॊः
न तयॊर अन्तरं कश चिद ददर्श नरसिंहयॊः
अवक्षेपॊ ऽसि निर्ह्रादः शस्त्रान्तर निदर्शनम
बाह्यान्तर निपातश च निर्विशेषम अदृश्यत
बाह्यम आभ्यन्तरं चैव चरन्तौ मार्गम उत्तमम
ददृशाते महात्मानौ स पक्षाव इव पर्वतौ
ततॊ विक्षिपतः खड्गं सौभद्रस्य यशस्विनः
शरावरण पक्षान्ते परजहार जयद्रथः
रुक्मपक्षान्तरे सक्तस तस्मिंश चर्मणि भास्वरे
सिन्धुराजबलॊधूतः सॊ ऽभज्यत महान असिः
भग्नम आज्ञाय निस्त्रिंशम अवप्लुत्य पडानि षट
सॊ ऽदृश्यत निमेषेण सवरथं पुनर आस्थितः
तं कार्ष्णिं समरान मुक्तम आस्थितं रथम उत्तमम
सहिताः सर्वराजानः परिवव्रुः समन्ततः
ततश चर्म च खड्गं च समुत्क्षिप्य महाबलः
ननादार्जुन दायादः परेक्षमाणॊ जयद्रथम
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा
तापयाम आस तत सैन्यं भुवनं भास्करॊ यथा
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम
चिक्षेप समरे घॊरां दीप्ताम अग्निशिखाम इव
ताम अवप्लुत्य जग्राह स कॊशं चारदॊरसिम
वैनतेयॊ यथा कार्ष्णिः पतन्तम उरगॊत्तमम
तस्य लाघवम आज्ञाय सत्तं चामिततेजसः
सहिताः सर्वराजानः सिंहनादम अथानदन
ततस ताम एव शल्यस्य सौभद्रः परवीरहा
मुमॊच भुजवीर्येण वैडूर्य विकृताजिराम
सा तस्य रथम आसाद्य निर्मुक्तभुजगॊपमा
जघान सूतं शल्यस्य रथाच चैनम अपातयत
ततॊ विराटद्रुपदौ धृष्टकेतुर युधिष्ठिरः
सात्यकिः केकया भीमॊ धृष्टद्युम्न शिखण्डिनौ
यमौ च दरौपदेयाश च साधु साध्व इति चुक्रुशुः
बाणशब्दाश च विविधाः सिंहनादाश च पुष्कलाः
परादुरासन हर्षयन्तः सौभद्रम अपलायिनम
तन नामृष्यन्त पुत्रास ते शत्रॊर विजयलक्षणम
अथैनं सहसा सर्वे समन्तान निशितैः शरैः
अभ्याकिरन महाराज जलदा इव पर्वतम
तेषां च परियम अन्विच्छन सूतस्य च पराभवात
आर्तायनिर अमित्रघ्नः करुद्धः सौभद्रमाभ्ययात
[धृ]
बहूनि सुविचित्राणि दवंद्व युद्धानि संजय
तवयॊक्तानि निशम्याहं सपृहयामि स चक्षुषाम
आश्चर्यभूतं लॊकेषु कथयिष्यन्ति मानवाः
कुरूणां पाण्डवानां च युद्धं देवासुरॊपमम
न हि मे तृप्तिर अस्तीह शृण्वतॊ युद्धम उत्तमम
तस्माद आर्तायनेर युद्धं सौभद्रस्य च शंस मे
[स]
सादितं परेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम
समुत्क्षिप्य नदन करुद्धः परचस्कन्द रथॊत्तमात
तं दीप्तम इव कालाग्निं दण्डहस्तम इवान्तकम
जवेनाभ्यपतद भीमः परगृह्य महतीं गदाम
सौभद्रॊ ऽपय अशनिप्रख्यां परगृह्य महतीं गदाम
एह्य एहीत्य अब्रवीच छल्यं यत्नाद भीमेन वारितः
वारयित्वा तु सौभद्रं भीमसेनः परतापवान
शल्यम आसाद्य समरे तस्थौ गिरिर इवाचलः
तथैव मद्रराजॊ ऽपि भीमं दृष्ट्वा महाबलम
ससाराभिमुखस तूर्णं शार्दूल इव कुञ्जरम
ततस तूर्यनिनादाश च शङ्खानां च सहस्रशः
सिंहनादाश च संजज्ञुर भेरीणां च महास्वनाः
पश्यतां शतशॊ हय आसीद अन्यॊन्यसमचेतसाम
पाण्डवानां कुरूणां च साधु साध्व इति निस्वनः
न हि मद्राधिपाद अन्यः सर्वराजसु भारत
सॊढुम उत्सहते वेगं भीमसेनस्य संयुगे
तथा मद्राधिपस्यापि गदा वेगं महात्मनः
सॊढुम उत्सहते लॊके कॊ ऽनयॊ युधि वृकॊदरात
पट्टैर जाम्बूनदैर बद्धा बभूव जनहर्षिणी
परजज्वाल तथा विद्धा भीमेन महती गदा
तथैव चरतॊ मार्गान मण्डलानि विचेरतुः
महाविद्युत परतीकाशा शल्यस्य शुशुभे गदा
तौ वृषाव इव नर्दन्तौ मण्डलानि विचेरतुः
आवर्जितगदा शृङ्गाव उभौ शल्य वृकॊदरौ
मण्डलावर्त मार्गेषु गदा विहरणेषु च
निर्विशेषम अभूद युद्धं तयॊः पुरुषसिंहयॊः
ताडिता भीमसेनेन शल्यस्य महती गदा
साग्निज्वाला महारौद्रा गदा चूर्णम अशीर्यत
तथैव भीमसेनस्य दविषताभिहता गदा
वर्षा परदॊषे खद्यॊतैर वृतॊ वृक्ष इवाबभौ
गदा कषिप्ता तु समरे मद्रराजेन भारत
वयॊम संदीपयाना सा ससृजे पावकं बहु
तथैव भीमसेनेन दविषते परेषिता गदा
तापयाम आस तत सैन्यं महॊल्का पतती यथा
ते चैवॊभे गदे शरेष्ठे समासाद्य परस्परम
शवसन्त्यौ नागकन्येव ससृजाते विभावसुम
नखैर इव महाव्याघ्रौ दन्तैर इव महागजौ
तौ विचेरतुर आसाद्य गदाभ्यां च परस्परम
ततॊ गदाग्राभिहतौ कषणेन रुधिरॊक्षितौ
ददृशाते महात्मानौ पुष्पिताव इव किंशुकौ
शुश्रुवे दिक्षु सर्वासु तयॊः पुरुषसिंहयॊः
गदाभिघात संह्रादः शक्राशनिर इवॊपमः
गदया मद्रराजेन सव्यदक्षिणमाहतः
नाकम्पत तदा भीमॊ भिद्यमान इवाचलः
तथा भीम गदा वेगैस ताड्यमानॊ महाबलः
धैर्यान मद्राधिपस तस्थौ वज्रैर गिरिर इवाहतः
आपेततुर महावेगौ समुच्छ्रितमहागदौ
पुनर अन्तरमार्गस्थौ मण्डलानि विचेरतुः
अथाप्लुत्य पदान्य अष्टौ संनिपत्य गजाव इव
सहसा लॊहदण्डाभ्याम अन्यॊन्यम अभिजघ्नतुः
तौ परस्परवेगाच च गदाभ्यां च भृशाहतौ
युगपत पेततुर वीरौ कषिताव इन्द्रध्वजाव इव
ततॊ विह्वलमानं तं निःश्वसन्तं पुनः पुनः
शल्यम अभ्यपतत तूर्णं कृतवर्मा महारथः
दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम
विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम
ततः सगदम आरॊप्य मद्राणाम अधिपं रथम
अपॊवाह रणात तूर्णं कृतवर्मा महारथः
कषीबवद विह्वलॊ वीरॊ निमेषात पुनर उत्थितः
भीमॊ ऽपि सुमहाबाहुर गदापाणिर अदृश्यत
ततॊ मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम
स नागरथपत्त्यश्वाः समकम्पन्त मारिष
ते पाण्डवैर अर्द्यमानास तावका जितकाशिभिः
भीता दिशॊ ऽनवपद्यन्त वातनुन्ना धना इव
निर्जित्य धार्तराष्ट्रांस तु पाण्डवेया महारथाः
वयरॊचन्त रणे राजन दीप्यमाना यशस्विनः
सिंहनादान भृशं चक्रुः शङ्खान दध्मुश च हर्षिताः
भेरीश च वारयाम आसुर मृदङ्गांश चानकैः सह
[स]
तद बलं सुमहद दीर्णं तवदीयं परेक्ष्य वीर्यवान
दधारैकॊ रणे पाण्डून वृषसेनॊ ऽसत्रमायया
शरा दश दिशॊ मुक्ता वृषसेनेन मारिष
विचेरुस ते विनिर्भिद्यनर वाजिरथद्विपान
तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः
भानॊर इव महाबाहॊ गरीष्म काले मरीचयः
तेनार्दिता महाराज रथिनः साधिनस तथा
निपेतुर उर्व्यां सहसा वातनुन्ना इव दरुमाः
हयौघांश च रथौघांश च गजौघांश च समन्ततः
अपातयद रणे राजञ शतशॊ ऽथ सहस्रशः
दृष्ट्वा तम एवं समरे विचरन्तम अभीतवत
सहिताः सर्वराजानः परिवव्रुः समन्ततः
नाकुलिस तु शतानीकॊ वृषसेनं समभ्ययात
विव्याध चैनं दशभिर नाराचैर मर्मभेदिभिः
तस्य कर्णात्मजश चापं छित्त्वा केतुम अपातयत
तं भरातरं परीप्सन्तॊ दरौपदेयाः समभ्ययुः
कर्णात्मजं शरव्रातैश चक्रुश चादृश्यम अञ्जसा
तान नदन्तॊ ऽभयधावन्त दरॊणपुत्र मुखा रथाः
छादयन्तॊ महाराज दरौपदेयान महारथान
शरैर नानाविधैस तूर्णं पर्वताञ जलदा इव
तान पाण्डवाः परत्यगृह्णंस तवरिताः पुत्रगृद्धिनः
पाञ्चालाः केकया मत्स्याः सृञ्जयांश चॊद्यतायुधाः
तद युद्धम अभवद घॊरं तुमुलं लॊमहर्षणम
तवदीयैः पाण्डुपुत्राणां देवानाम इव दानवैः
एवम उत्तमसंरम्भा युयुधुः कुरुपाण्डवाः
परस्परम उदीक्षन्तः परस्परकृतागसः
तेषां ददृशिरे कॊपाद वपूंष्य अमिततेजसाम
युयुत्सूनाम इवाकाशे पतत्रिवरभॊगिनाम
भीमकर्ण कृप दरॊण दरौणिपार्षत सात्यकैः
बभासे स रणॊद्देशः कालसूर्यैर इवॊदितैः
तदासीत तुमुलं युद्धं निघ्नताम इतरेतरम
महाबलानां बलिभिर दानवानां यथा सुरैः
ततॊ युधिष्ठिरानीकम उद्धूतार्णव निस्वनम
तवदीयम अवधीत सैन्यं संप्रद्रुत महारथम
तत परभग्नं बलं दृष्ट्वा शत्रुभिर भृशम अर्दितम
अलं दरुतेन वः शूरा इति दरॊणॊ ऽभयभाषत
ततः शॊण हयः करुद्धश चतुर्दन्त इव दविपः
परविश्य पाण्डवानीकं युधिष्ठिरम उपाद्रवत
तम अविध्यच छितैर बाणैः कङ्कपत्रैर युधिष्ठिरः
तस्य दरॊणॊ धनुश छित्त्वा तं दरुतं समुपाद्रवत
चक्ररक्षः कुमारस तु पाञ्चालानां यशः करः
दधार दरॊणम आयान्तं वेलेव सरितां पतिम
दरॊणं निवारितं दृष्ट्वा कुमारेण दविजर्षभम
सिंहनाद रवॊ हय आसीत साधु साध्व इति भाषताम
कुमारस तु ततॊ दरॊणं सायकेन महाहवे
विव्याधॊरसि संक्रुद्धः सिंहवच चानदन मुहुः
संवार्य तु रणे दरॊणः कुमारं वै महाबलः
शरैर अनेकसाहस्रैः कृतहस्तॊ जितक्लमः
तं शूरम आर्य वरतिनम अस्त्रार्थ कृतनिश्रमम
चक्ररक्षम अपामृद्नात कुमारं दविजसत्तमः
स मध्यं पराप्य सेनायाः सर्वाः परिचरन दिशः
तव सैन्यस्य गॊप्तासीद भारद्वाजॊ रथर्षभः
शिखण्डिनं दवादशभिर विंशत्या चॊत्तमौजसम
नकुलं पञ्चभिर विद्ध्वा सहदेवं च सप्तभिः
युधिष्ठिरं दवादशभिर दरौपदेयांस तरिभिस तरिभिः
सात्यकिं पञ्चभिर विद्ध्वा मत्स्यं च दशभिः शरैः
वयक्षॊभयद रणे यॊधान यथामुख्यान अभिद्रवन
अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम
युगंधरस ततॊ राजन भारद्वाजं महारथम
वारयाम आस संक्रुद्धं वातॊद्धूतम इवार्णवम
युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः
युगंधरं च भल्लेन रथनीडाद अपाहरत
ततॊ विराटद्रुपदौ केकयाः सात्यकिः शिबिः
वयाघ्रदत्तश च पाञ्चाल्यः सिंहसेनश च वीर्यवान
एते चान्ये च बहवः परीप्सन्तॊ युधिष्ठिरम
आवव्रुस तस्य पन्थानं किरन्तः सायकान बहून
वयाघ्रदत्तश च पाञ्चाल्यॊ दरॊणं विव्याध मार्गणैः
पञ्चाशद्भिः शितै राजंस तत उच्चुक्रुशुर जनाः
तवरितं सिंहसेनस तु दरॊणं विद्ध्वा महारथम
पराहसत सहसा हृष्टस तरासयन वै यतव्रतम
ततॊ विस्फार्य नयने धनुर्ज्याम अवमृज्य च
तलशब्दं महत कृत्वा दरॊणस तं समुपाद्रवत
ततस तु सिंहसेनस्य शिरः कायात सकुण्डलम
वयाघ्रदत्तस्य चाक्रम्य भल्लाभ्याम अहरद बली
तान परमृद्य शरव्रातैः पाण्डवानां महारथान
युधिष्ठिर समभ्याशे तस्थौ मृत्युर इवान्तकः
ततॊ ऽभवन महाशब्दॊ राजन यौधिष्ठिरे बले
हृतॊ राजेति यॊधानां समीपस्थे यतव्रते
अब्रुवन सैनिकास तत्र दृष्ट्वा दरॊणस्य विक्रमम
अद्य राजा धार्तराष्ट्रः कृतार्थॊ वै भविष्यति
आगमिष्यति नॊ नूनं धार्तराष्ट्रस्य संयुगे
एवं संजल्पतां तेषां तावकानां महारथः
आयाज जवेन कौनेयॊ रथघॊषेण नादयन
शॊणितॊदां रथावर्तां कृत्वा विशसने नदीम
शूरास्थि चयसंकीर्णां परेतकूलापहारिणीम
तां शरौघमहाफेनां परासमत्स्यसमाकुलाम
नदीम उत्तीर्य वेगेन कुरून विद्राव्य पाण्डवः
ततः किरीटी सहसा दरॊणानीकम उपाद्रवत
छादयन्न इषुजालेन महता मॊहयन्न इव
शीघ्रम अभ्यस्यतॊ बाणान संदधानस्य चानिशम
नान्तरं ददृशे कश चित कौन्तेयस्य यशस्विनः
न दिशॊ नान्तरिक्षं च न दयौर नैव च मेदिनी
अदृश्यत महाराज बाणभूतम इवाभवत
नादृश्यत तदा राजंस तत्र किं चन संयुगे
बाणान्ध कारे महति कृते गाण्डीवधन्वना
सूर्ये चास्तम अनुप्राप्ते रजसा चाभिसंवृते
नाज्ञायत तदा शत्रुर न सुहृन न च किं चन
ततॊ ऽवहारं चक्रुस ते दरॊणदुर्यॊधनादयः
तान विदित्वा भृशं तरस्तान अयुद्धमनसः परान
सवान्य अनीकानि बीभत्सुः शनकैर अवहारयत
ततॊ ऽभितुष्टुवुः पार्थं परहृष्टाः पाण्डुसृञ्जयाः
पाञ्चालाश च मनॊज्ञाभिर वाग्भिः सूर्यम इवर्षयः
एवं सवशिबिरं परायाज जित्वा शत्रून धनंजयः
पृष्ठतः सर्वसैन्यानां मुदितॊ वै स केशवः
मसारगल्वर्कसुवर्णरूप्यैर; वज्रप्रवाल सफटिकैश च मुख्यैः
चित्रे रथे पाण्डुसुतॊ बभासे; नक्षत्रचिरे वियतीव चन्द्रः
[स]
ते सेने शिबिरं गत्वा नयविशेतां विशां पते
यथाभागं यथान्यायं यथा गुल्मं च सर्वशः
कृत्वावहारं सैन्यानां दरॊणः परमदुर्मनाः
दुर्यॊधनम अभिप्रेक्ष्य सव्रीडम इदम अब्रवीत
उक्तम एतन मया पूर्वं न तिष्ठति धनंजये
शक्यॊ गरहीतुं संग्रामे देवैर अपि युधिष्ठिरः
इति तद वः परयततां कृतं पार्थेन संयुगे
मातिशङ्कीर वचॊ मह्यम अजेयौ कृष्ण पाण्डवौ
अपनीते तु यॊगेन केन चिच छवेत वाहने
तत एष्यति ते राजन वशम अद्य युधिष्ठिरः
कश चिद आह्वयतां संख्ये देशम अन्यं परकर्षतु
तम अजित्वा तु कौन्तेयॊ न निवर्तेत कथंचनन
एतस्मिन्न अन्तरे शून्ये धर्मराजम अहं नृप
गरहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः
अर्जुनेन विहीनस तु यदि नॊत्सृजते रणम
माम उपायान्तम आलॊक्य गृहीतम इति विद्धि तम
एवं ते सहसा राजन धर्मपुत्रं युधिष्ठिरम
समानेष्यामि सगणं वशम अद्य न संशयः
यदि तिष्ठति संग्रामे मुहूर्तम अपि पाण्डवः
अथापयाति संग्रामाद विजयात तद विशिष्यते
दरॊणस्य तु वचः शरुत्वा तरिगर्ताधिपतिस ततः
भरातृभिः सहितॊ राजन्न इदं वचनम अब्रवीत
वयं विनिकृता राजन सदा गाण्डीवधन्वना
अनागःस्व अपि चागस्कृद अस्मासु भरतर्षभ
ते वयं समरमाणास तान विनिकारान पृथग्विधान
करॊधाग्निना दह्यमाना न शेमहि सदा निशाः
स नॊ दिव्यास्त्रसंपन्नश चक्षुर्विषयम आगतः
कर्तारः सम वयं सर्वं यच चिकीर्षाम हृद्गतम
भवतश च परियं यत सयाद अस्माकं च यशः करम
वयम एनं हनिष्यामॊ निकृष्यायॊधनाद बहिः
अद्यास्त्व अनर्जुना भूमिर अत्रिगर्ताथ वा पुनः
सत्यं ते परतिजानीमॊ नैतन मिथ्या भविष्यति
एवं सत्यरथश चॊक्त्वा सत्यधर्मा च भारत
सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च
सहिता भरातरः पञ्च रथानाम अयुतेन च
नयवर्तन्त महाराज कृत्वा शपथम आहवे
मालवास तुण्डिकेराश च रथानाम अयुतैस तरिभिः
सुशर्मा च नरव्याघ्रस तरिगर्तः परस्थलाधिपः
माचेल्लकैर ललित्थैश च सहितॊ मद्रकैर अपि
रथानाम अयुतेनैव सॊ ऽशपद भरातृभिः सह
नानाजनपदेभ्यश च रथानाम अयुतं पुनः
समुत्थितं विशिष्टानां संशपार्थम उपागतम
ततॊ जवलनम आदाय हुत्वा सर्वे पृथक पृथक
जगृहुः कुशचीराणि चित्राणि कवचानि च
ते च बद्धतनु तराणा घृताक्ताः कुशचीरिणः
मौर्वी मेखलिनॊ वीराः सहस्रशतदक्षिणाः
यज्वानः पुत्रिणॊ लॊक्याः कृतकृत्यास तनुत्यजः
यॊक्ष्यमाणास तदात्मानं यशसा विजयेन च
बरह्मचर्य शरुतिमुखैः करतुभिश चाप्तदक्षिणैः
पराप्य लॊकान सुयुद्धेन कषिप्रम एव यियासवः
बराह्मणांस तर्पयित्वा च निष्कान दत्त्वा पृथक पृथक
गाश च वासांसि च पुनः समाभाष्य परस्परम
परज्वाल्य कृष्ण वर्त्मानम उपागम्य रणे वरतम
तस्मिन्न अग्नौ तदा चक्रुः परतिज्ञां दृढनिश्चयाः
शृण्वतां सर्वभूतानाम उच्चैर वाचः सम मेनिरे
धृत्वा धनंजय वधे परतिज्ञां चापि चक्रिरे
ये वै लॊकाश चानृतानां य चैव बरह्म घातिनाम
पनपस्य च ये लॊका गुरु दाररतस्य च
बरह्म सवहारिणश चैव राजपिण्डापहारिणः
शरणागतं च तयजतॊ याचमानं तथा घनतः
अगार दाहिनां ये च ये च गां निघ्नताम अपि
अपचारिणां च ये लॊका ये च बरह्म दविषाम अपि
जायां च ऋतुकाले वै ये मॊहाद अभिगच्छताम
शराद्धसंगतिकानां च ये चाप्य आत्मापहारिणाम
नयासापहारिणां ये च शरुतं नाशयतां च ये
कॊपेन युध्यमानानां ये च नीचानुसारिणाम
नास्तिकानां च ये लॊका ये ऽगनिहॊरा पितृत्यजाम
तान आप्नुयामहे लॊकान ये च पापकृताम अपि
यद्य अहत्वा वयं युद्धे निवर्तेम धनंजयम
तेन चाभ्यर्दितास तरासाद भवेम हि पराङ्मुखाः
यदि तव असुकरं लॊके कर्म कुर्याम संयुगे
इष्टान पुण्यकृतां लॊकान पराप्नुयाम न संशयः
एवम उक्त्वा ततॊ राजंस ते ऽभयवर्तन्त संयुगे
आह्वयन्तॊ ऽरजुनं वीराः पितृजुष्टां दिशं परति
आहूतस तैर नरव्याघ्रैः पार्थः परपुरंजयः
धर्मराजम इदं वाक्यम अपदान्तरम अब्रवीत
आहूतॊ न निवर्तेयम इति मे वरतम आहितम
संशप्तकाश च मां राजन्न आह्वयन्ति पुनः पुनः
एष च भरातृभिः सार्धं सुशर्माह्वयते रणे
वधाय सगणस्यास्य माम अनुज्ञातुम अर्हसि
नैतच छक्नॊमि संसॊढुम आह्वानं पुरुषर्षभ
सत्यं ते परतिजानामि हतान विद्धि परान युधि
[य]
शरुतम एतत तवया तात यद दरॊणस्य चिकीर्षितम
यथा तद अनृतं तस्य भवेत तद्वत समाचर
दरॊणॊ हि बलवाञ शूरः कृतास्त्रश च जितश्रमः
परतिज्ञातं च तेनैतद गरहणं मे महारथ
[अर्ज]
अयं वै सत्यजिद राजन्न अद्य ते रक्षिता युधि
धरियमाणे हि पाञ्चाल्ये नाचार्यः कामम आप्स्यति
हते तु पुरुषव्याघ्रे रणे सत्यजिति परभॊ
सर्वैर अपि समेतैर वा न सथातव्यं कथं चन
[स]
अनुज्ञातस ततॊ राज्ञा परिष्वक्तश च फल्गुनः
परेम्णा दृष्टश च बहुधा आशिषा च परयॊजितः
विहायैनं ततः पार्थस तरिगर्तान परत्ययाद बली
कषुधितः कषुद विघातार्थं सिंहॊ मृगगणान इव
ततॊ दौर्यॊधनं सैन्यं मुदा परमया युतम
गते ऽरजुने भृशं करुद्धं कर्म राजस्य निग्रहे
ततॊ ऽनयॊन्येन ते सेने समाजग्मतुर ओजसा
गङ्गा सरय्वॊर वेगेन परावृषीवॊल्बणॊदके
[स]
ततः संशप्तका राजन समे देशे वयवस्थिताः
वयूह्यानीकं रथैर एव चन्द्रार्धाख्यं मुदान्विताः
ते किरीटिनम आयान्तं दृष्ट्वा हर्षेण मारिष
उदक्रॊशन नरव्याघ्राः शब्देन महता तदा
स शब्दः परदिशः सर्वा दिशः खंच समावृणॊत
आवृतत्वाच च लॊकस्य नासीत तत्र परतिस्वनः
अतीव संप्रहृष्टांस तान उपलभ्य धनंजयः
किं चिद अभ्युत्स्मयन कृष्णम इदं वचनम अब्रवीत
पश्यैतान देवकी मातुर मुमूर्षून अद्य संयुगे
भरातॄंस तरैगर्तकान एवं रॊदितव्ये परहर्षितान
अथ वा हर्षकालॊ ऽयं तरैगर्तानाम असंशयम
कुनरैर दुरवापान हि लॊकान पराप्स्यन्त्य अनुत्तमान
एवम उक्त्वा महाबाहुर हृषीकेशं ततॊ ऽरजुनः
आससाद रणे वयूढां तरैगर्तानाम अनीकिनीम
स देवदत्तम आदाय शङ्खं हेमपरिष्कृतम
दध्मौ वेगेन महता फल्गुनः पूरयन दिशः
तेन शब्देन वित्रस्ता संशप्तकवरूथिनी
निश्चेष्टावस्थिता संक्ये अश्मसारमयी यथा
वाहास तेषां विवृत्ताक्षाः सतब्धकर्ण शिरॊधराः
विष्टब्ध चरणा मूत्रं रुधिरं च परसुस्रुवुः
उपलभ्य च ते संज्ञाम अवस्थाप्य च वाहिनीम
युगपत पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः
तान्य अर्जुनः सहस्राणि दश पञ्चैव चाशुगैः
अनागतान्य एव शरैश चिच्छेदाशु पराक्रमः
ततॊ ऽरजुनं शितैर बाणैर दशभिर दशभिः पुनः
परत्यविध्यंस ततः पार्थस तान अविध्यत तरिभिस तरिभिः
एकैकस तु ततः पार्थं राजन विव्याध पञ्चभिः
स च तान परतिविव्याध दवाभ्यां दवाभ्यां पराक्रमी
भूय एव तु संरब्धास ते ऽरजुनं सह केशवम
आपूरयञ शरैस तीक्ष्णैस तटाकम इव वृष्टिभिः
ततः शरसहस्राणि परापतन्न अर्जुनं परति
भरमराणाम इव वराताः फुल्लद्रुमगणे वने
ततः सुबाहुस तरिंशद्भिर अद्रिसारमयैर दृढैः
अविध्यद इषुभिर गाढं किरीटे सव्यसाचिनम
तैः किरीटी किरीटस्थैर हेमपुङ्खैर अजिह्मगैः
शातकुम्भमयापीडॊ बभौ यूप इवॊच्छ्रितः
हस्तावापं सुबाहॊस तु भल्लेन युधि पाण्डवः
चिच्छेद तं चैव पुनः शरवर्षैर अवाकिरत
ततः सुशर्मा दशभिः सुरथश च किरीटिनम
सुधर्मा सुधनुश चैव सुबाहुश च समर्पयन
तांस तु सर्वान पृथग बाणैर वानरप्रवर धवजः
परत्यविध्यद धवजांश चैषां भल्लैश चिच्छेद काञ्चनान
सुधन्वनॊ धनुश छित्त्वा हयान वै नयवधीच छरैः
अत्रास्य सशिरस्त्राणं शिरः कायाद अपाहरत
तस्मिंस तु पतिते वीरे तरस्तास तस्य पदानुगाः
वयद्रवन्त भयाद भीता येन दौर्यॊधनं बलम
ततॊ जघान संक्रुद्धॊ वासविस तां महाचमूम
शरजालैर अविच्छिन्नैस तमः सूर्य इवांशुभिः
ततॊ भग्ने बले तस्मिन विप्रयाते समन्ततः
सव्यसाचिनि संक्रुद्धे तरैगर्तान भयम आविशत
ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः
अमुह्यंस तत्र तत्रैव तरस्ता मृगगणा इव
ततस तरिगर्तराट करुद्धस तान उवाच महारथान
अलं दरुतेन वः शूरा न भयंकर्तुम अर्हथ
शप्त्वा तु शपथान घॊरान सर्वसैन्यस्य पश्यतः
गत्वा दौर्यॊघनं सैन्यं किं वा वक्ष्यथ मुख्यगाः
नावहास्याः कथं लॊके कर्मणानेन संयुगे
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम
एवम उक्तास तु ते राजन्न उदक्रॊशन मुहुर मुहुः
शङ्खांश च दध्मिरे वीरा हर्षयन्तः परस्परम
ततस ते संन्यवर्तन्त संशप्तकगणाः पुनः
नारायणाश च गॊपालाः कृत्वा मृत्युं निवर्तनम
[स]
दृष्ट्वा तु संनिवृत्तांस तान संशप्तकगणान पुनः
वासुदेवं महात्मानम अर्जुनः समभाषत
चॊदयाश्वान हृषीकेश संशप्तकगणान परति
नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः
पश्य मे ऽसत्रबलं घॊरं बाह्वॊर इष्वसनस्य च
अद्यैतान पातयिष्यामि करुद्धॊ रुद्रः पशून इव
ततः कृष्णः समितं कृत्वा परिणन्द्य शिवेन तम
परावेशयत दुर्धर्षॊ यत्र यत्रैच्छद अर्जुनः
बभ्राजे स रथॊ ऽतयर्थम उह्यमानॊ रणे तदा
उह्यमानम इवाकाशे विमानं पाण्डुरैर हयैः
मण्डलानि ततश चक्रे गतप्रत्यागतानि च
यथा शक्र रथॊ राजन युद्धे देवासुरे पुरा
अथ नारायणाः करुद्धा विविधायुधपाणयः
छादयन्तः शरव्रातैः परिवव्रुर धनंजयम
अदृश्यं च मुहूर्तेन चक्रुस ते भरतर्षभ
कृणेन सहितं युद्धे कुन्तीपुत्रं धनंजयम
करुद्धस तु फल्गुनः संख्ये दविगुणीकृतविक्रमः
गाण्डीवम उपसंमृज्य तूर्णं जग्राह संयुगे
बद्ध्वा च भृकुटीं वक्त्रे करॊधस्य परतिलक्षणम
देवदत्तं महाशङ्खं पूरयाम आस पाण्डवः
अथास्त्रम अरिसंघघ्नं तवाष्ट्रम अभ्यस्यद अर्जुनः
ततॊ रूपसहस्राणि परादुरासन पृथक पृथक
आत्मनः परतिरूपैस तैर नानारूपैर विमॊहिताः
अन्यॊन्यम अर्जुनं मत्वा सवम आत्मानं च जघ्निरे
अयम अर्जुनॊ ऽयं गॊविन्देमौ यादव पाण्डवौ
इति बरुवाणाः संमूधा जघ्नुर अन्यॊन्यम आहवे
मॊहिताः परमास्त्रेण कषयं जग्मुः परस्परम
अशॊभन्त रणे यॊधाः पुष्पिता इव किंशुकाः
ततः शरसहस्राणि तैर विमुक्तानि भस्मसात
कृत्वा तद अस्त्रं तान वीरान अनयद यमसादनम
अथ परहस्य बीभत्सुर ललित्थान मालवान अपि
माचेल्लकांस तरिगर्तांश्च च यौधेयांश चार्दयच छरैः
ते वध्यमाना वीरेण कषत्रियाः कालचॊदिताः
वयसृजञ शरवर्षाणि पार्थे नानाविधानि च
ततॊ नैवार्जुनस तत्र न रथॊ न च केशवः
परत्यदृश्यत घॊरेण शरवर्षेण संवृतः
ततस ते लब्धलक्ष्यत्वाद अन्यॊन्यम अभिचुक्रुशुः
हतौ कृष्णाव इति परीता वासांस्य आदुधुवुस तदा
भेरीमृदङ्गशङ्खांश च दध्मुर वीराः सहस्रशः
सिंहनाद रवांश चॊग्रांश चक्रिरे तत्र मारिष
ततः परसिष्विदे कृष्णः खिन्नश चार्जुनम अब्रवीत
कवासि पार्थ न पश्ये तवां कच चिज जीवसि शत्रुहन
तस्य तं मानुषं भावं भावज्ञॊ ऽऽजञाय पाण्डवः
वायव्यास्त्रेण तैर अस्तां शरवृष्टिम अपाहरत
ततः संशप्तकव्रातान साश्वद्विप रथायुधान
उवाह भगवान वायुः शुष्कपर्णचयान इव
उह्यमानास तु ते राजन बह्व अशॊभन्त वायुना
परडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष
तांस तथा वयाकुलीकृत्य तवरमाणॊ धनंजयः
जघान निशितैर बाणैः सहस्राणि शतानि च
शिरांसि भल्लैर अहरद बाहून अपि च सायुधान
हस्तिहस्तॊपमांश चॊरूञ शरैर उर्व्याम अपातयत
पृष्ठच छिन्नान विचरणान विमस्तिष्केषणाङ्गुलीन
नानाङ्गावयवैर हीनांश चकारारीन धनंजयः
गन्धर्वनगराकारान विधिवत कल्पितान रथान
शरैर विशकलीकुर्वंश चक्रे वयश्व रथद्विपान
मुण्डतालवनानीव तत्र तत्र चकाशिरे
छिन्नध्वजरथव्राताः के चित के चित कव चित कव चित
सॊत्तरायुधिनॊ नागाः स पताकाङ्कुशायुधाः
पेतुः शक्राशनिहता दरुमवन्त इवाचलाः
चामरापीड कवचाः सरस्तान्त्र नयनासवः
सारॊहास तुरगाः पेतुः पार्थ बाणहताः कषितौ
विप्रविद्धासि नखराश छिन्नवर्मर्ष्टि शक्तयः
पत्तयश छिन्नवर्माणः कृपणं शेरते हताः
तैर हतैर हन्यमानैश च पतद्भिः पतितैर अपि
भरमद्भिर निष्टनद्भिश च घॊरम आयॊधनं बभौ
रजश च महद उद्भूतं शान्तं रुधिरवृष्टिभिः
महीं चाप्य अभवद दुर्गा कबन्ध शतसंकुला
तद बभौ रौद्रबीभत्सं बीभत्सॊर यानम आहवे
आक्रीड इव रुद्रस्य घनतः कालात्यये पशून
ते वध्यमानाः पार्थेन वयाकुलाश्वरथद्विपाः
तम एवाभिमुखाः कषीणाः शक्रस्यातिथितां गताः
सा भूमिर भरतश्रेष्ठ निहतैस तैर महारथैः
आस्तीर्णा संबभौ सर्वा परेती भूतैः समन्ततः
एतस्मिन्न अन्तरे चैव परमत्ते सव्यसाचिनि
वयूढानीकस ततॊ दरॊणॊ युधिष्ठिरम उपाद्रवत
तं परत्यगृह्णंस तवरितॊ वयूढानीकाः परहारिणः
युधिष्ठिरं परीप्सन्तस तदासीत तुमुलं महत
[स]
परिणाम्य निशां तां तु भारद्वाजॊ महारथः
बहूक्त्वा च ततॊ राजन राजानं च सुयॊधनम
विधाय यॊगं पार्थेन संशप्तकगणैः सह
निष्क्रान्ते च रणात पार्थे संशप्तकवधं परति
वयूढानीकस ततॊ दरॊणः पाण्डवानां महाचमूम
अभ्ययाद भरतश्रेष्ठ धर्मराज जिघृक्षया
वयूहं दृष्ट्वा सुपर्णं तु भारद्वाज कृतं तदा
वयूहेन मडलार्धेन परत्यव्यूहद युधिष्ठिरः
मुखम आसीत सुपर्णस्य भारद्वाजॊ महारथः
शिरॊ दुर्यॊधनॊ राजा सॊदर्यैः सानुगैः सह
चक्षुषी कृतवर्मा च गौतमश चास्यताम वरः
भूतवर्मा कषेमशर्मा करकर्षश च वीर्यवान
कलिङ्गाः सिंहलाः पराच्याः शूराभीरा दशेरकाः
शका यवनकाम्बॊजास तथा हंसपदाश च ये
गरीवायां शूरसेनाश च दरदा मद्रकेकयाः
गजाश्वरथपत्त्यौघास तस्थुः शतसहस्रशः
भूरिश्रवाः शलः शल्यः सॊमदत्तश च बाह्लिकः
अक्षौहिण्या वृता वीरा दक्ष्णिणं पक्षम आश्रिताः
विन्दानुविन्दाव आवन्त्यौ काम्बॊजश च सुदक्षिणः
वामं पक्षं समाश्रित्य दरॊणपुत्राग्रगाः सथिताः
पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौन्द्र मद्रकाः
गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञाति बान्धनः
महत्या सेनया तस्थौ नाना धवजसमुत्थया
जयद्रथॊ भीमरथः साम्यात्रिक सभॊ जयः
भूमिं जयॊ वृषक्राथॊ नैषधश च महाबलः
वृता बलेन महता बरह्मलॊकपुरस्कृताः
वयूहस्यॊपरि ते राजन सथिता युद्धविशारदाः
दरॊणेन विहितॊ वयूहः पदात्यश्वरथद्विपैः
वातॊद्धूतार्णवाकारः परवृत्त इव लक्ष्यते
तस्य पक्षप्रपक्षेभ्यॊ निष्पतन्ति युयुत्सवः
स विद्युत सतनिता मेघाः सर्वदिग्भ्य इवॊष्णगे
तस्य पराग्ज्यॊतिषॊ मध्ये विधिवत कल्पितं गजम
आस्थितः शुशुभे राजन्न अंशुमान उदये यथा
माल्यदामवता राजा शवेतच छत्रेण धार्यता
कृत्तिका यॊगयुक्तेन पौर्णमास्याम इवेन्दुना
नीलाञ्जनचय परख्यॊ मदान्धॊ दविरदॊ बभौ
अभिवृष्टॊ महामेघैर यथा सयात पर्वतॊ महान
नाना नृपतिभिर वीरैर विविधायुधभूषणैः
समन्वितः पार्वतीयैः शक्रॊ देवगणैर इव
ततॊ युधिष्ठिरः परेक्ष्य वयूहं तम अतिमानुषम
अजय्यम अरिभिः संख्ये पार्षतं वाक्यम अब्रवीत
बराह्मणस्य वशं नाहम इयाम अद्य यथा परभॊ
पारावत सवर्णाश्व तथा नीतिर विधीयताम
[धृस्ट]
दरॊणस्य यतमानस्य वशं नैष्यसि सुव्रत
अहम आवारयिष्यामि दरॊणम अद्य सहानुगम
मयि जीवति कौरव्य नॊद्वेगं कर्तुम अर्हसि
न हि शक्तॊ रणे दरॊणॊ विजेतुं मां कथं चन
[स]
एवम उक्त्वा किरन बाणान दरुपदस्य सुतॊ बली
पारावत सवर्षाश्वः सवयं दरॊणम उपाद्रवत
अनिष्ट दर्शनं दृष्ट्वा धृष्टद्युम्नम अवस्थितम
कषणेनैवाभवद दरॊणॊ नातिहृष्टमना इव
तं तु संप्रेक्ष्य पुत्रस ते दुर्मुखः शत्रुकर्शनः
परियं चिकीर्षन दरॊणस्य धृष्टद्युम्नम अवारयत
स संप्रहारस तुमुलः समरूप इवाभवत
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत
पार्षतः शरजालेन कषिप्रं परच्छाद्य दुर्मुखम
भारद्वाजं शरौघेण महता समवारयत
दरॊणम आवारितं दृष्ट्वा भृशायस्तस तवात्मजः
नाना लिङ्गैः शरव्रातैः पार्षतं सममॊहयत
तयॊर विषक्तयॊर संख्ये पाञ्चाल्य कुरुमुख्ययॊः
दरॊणॊ यौधिष्ठिरं सैन्यं बहुधा वयधमच छरैः
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः
तथा पार्थस्य सैन्यानि विच्छिन्नानि कव चित कव चित
मुहूर्तम इव तद युद्धम आसीन मधुरदर्शनम
तत उन्मत्तवद राजन निर्मर्यादम अवर्तत
नैव सवे न परे राजन्न अज्ञायन्त परस्परम
अनुमानेन संज्ञाभिर युद्धं तत समवर्तत
चूडामणिषु निष्केषु भूषणेष्व असि चर्मसु
तेषाम आदित्यवर्णाभा मरीच्यः परचकाशिरे
तत परकीर्णपताकानां रथवारणवाजिनाम
बलाका शबलाभ्राभं ददृशे रूपम आहवे
नरान एव नरा जघ्नुर उदग्राश च हया हयान
रथांश च रथिनॊ जघ्नुर वारणा वरवारणान
समुच्छ्रितपताकानां गजानां परमद्विपैः
कषणेन तुमुलॊ घॊरः संग्राहः समवर्तत
तेषां संसक्तगात्राणां कर्षताम इतरेतरम
दन्तसंघात संघर्षात स धूमॊ ऽगनिर अजायत
विप्रकीर्णपताकास ते विषाण जनिताग्नयः
बभूवुः खं समासाद्य स विद्युत इवाम्बुदाः
विक्षरद्भिर नदद्भिश च निपतद्भिश च वारणैः
संबभूव मही कीर्णा मेघैर दयौर इव शारदी
तेषाम आहन्यमानानां बाणतॊमर वृष्टिभिः
वारणानां रवॊ जज्ञे मेघानाम इव संप्लवे
तॊमराभिहताः के चिद बाणैश च परमद्विपाः
वित्रेसुः सर्वभूतानां शब्दम एवापरे ऽवरजन
विषाणाभिहताश चापि के चित तत्र गजा गजैः
चक्रुर आर्तस्वरं घॊरम उत्पातजलदा इव
परतीपं हरियमाणाश च वारणा वरवारणैः
उन्मथ्य पुनर आजह्रुः परेरिताः परमाङ्कुशैः
महामात्रा महामात्रैस ताडिताः शरतॊमरैः
गजेभ्यः पृथिवीं जग्मुर मुक्तप्रहरणाङ्कुशाः
निर्मनुष्याश च मातङ्गा विनदन्तस ततस ततः
छिन्नाभ्राणीव संपेतुः संप्रविश्य परस्परम
हतान परिवहन्तश च यन्त्रिताः परमायुधैः
दिशॊ जग्मुर महानागाः के चिद एकचरा इव
ताडितास ताड्यमानाश च तॊमरर्ष्टि परश्वधैः
पेतुर आर्तस्वरं कृत्वा तदा विशसने गजाः
तेषां शैलॊपमैः कार्यैर निपतद्भिः समन्ततः
आहता सहसा भूमिश चकम्पे च ननाद च
सादितैः स गजारॊहैः स पताकैः समन्ततः
मातङ्गैः शुशुभे भूमिर विकीर्णैर इव पर्वतैः
गजस्थाश च महामात्रा निर्भिन्नहृदया रणे
रथिभिः पातिता बल्लैर विकीर्णाङ्कुश तॊमराः
करौञ्चवद विनदन्तॊ ऽनयनाराचाभिहता गजाः
परान सवांश चापि मृद्नन्तः परिपेतुर दिशॊ दश
गजाश्वरथसंघानां शरीरौघसमावृता
बभूव पृथिवी राजन मांर अशॊणित कर्दमा
परमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः
सचक्राश च विचक्राश च रथैर एव महारथाः
रथाश च रथिभिर हीना निर्मनुष्याश च वाजिनः
हतारॊहाश च मातङ्गा दिशॊ जग्मुः शरातुराः
जघानात्र पिता पुत्रं पुत्रश च पितरं तथा
इत्य आसीत तुमुलं युद्धं न परज्ञायत किं चन
आ गुल्फेभ्यॊ ऽवसीदन्त नराः शॊणितकर्दमे
दीप्यमानैः परिक्षिप्ता दावैर इव महाद्रुमाः
शॊणितैः सिच्यमानानि वस्त्राणि कवचानि च
छत्राणि च पताकाश च सर्वं रक्तम अदृश्यत
हयौघाश च रथौघाश च नरौघाश च निपातिताः
संवृत्ताः पुनर आवृत्ता बहुधा रथनेमिभिः
स गजौघमहावेगः परासु नरशैवलः
रथौघतुमुलावर्तः परबभौ सैन्यसागरः
तं वाहन महानौभिर यॊधा जय धनैषिणः
अवगाह्यावमज्जन्ते नैव मॊहं परचक्रिरे
शरवर्षाभिवृष्टेषु यॊधेष्व अजित लक्ष्मसु
न हि सवचित्ततां लेभे कश चिद आहत लक्षणः
वर्तमाने तथा युद्धे घॊररूपे भयंकरे
मॊहयित्वा परान दरॊणॊ युधिष्ठिरम उपाद्रवन
[स]
ततॊ युधिष्ठिरॊ दरॊणं दृष्ट्वान्तिकम उपागतम
महता शरवर्षेण परत्यगृह्णाद अभीतवत
ततॊ हलहलाशब्द आसीद यौधिष्ठिरे बले
जिघृक्षति महासिंहे गजानाम इव यूथपम
दृष्ट्वा दरॊणं ततः शूरः सत्यजित सत्यविक्रमः
युधिष्ठिरं परिप्रेप्सुम आचार्यं समुपाद्रवत
तत आचार्य पाञ्चाल्यौ युयुधाते परस्परम
विक्षॊभयन्तौ तत सैन्यम इन्द्र वैरॊचनाव इव
ततः सत्यजितं तीक्ष्णैर दशभिर मर्मभेदिभिः
अविध्यच छीघ्रम आचार्यश छित्त्वास्य स शरं धनुः
स शीघ्रतरम आदाय धनुर अन्यत परतापवान
दरॊणं सॊ ऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः
जञात्वा सत्यजिता दरॊणं गरस्यमानम इवाहवे
वृकः शरशतैर तीक्ष्णैः पाञ्चाल्यॊ दरॊणम अर्दयत
संछाद्यमानं समरे दरॊणं दृष्ट्वा महारथम
चुक्रुशुः पाण्डवा राजन वस्त्राणि दुधुवुश च ह
वृकस तु परमक्रुद्धॊ दरॊणं षष्ट्या सतनान्तरे
विव्याध बलवान राजंस तद अद्भुतम इवाभवत
दरॊणस तु शरवर्षेण छाद्यमानॊ महारथः
वेगं चक्रे महावेगः करॊधाद उद्वृत्य चक्षुषी
ततः सत्यजितश चापं छित्त्वा दरॊणॊ वृकस्य च
षड्भिः ससूतं सहयं शरैर दरॊणॊ ऽवधीद वृकम
अथान्यद धनुर आदाय सत्यजिद वेगवत्तरम
साश्वं ससूतं विशिखैर दरॊणं विव्याध स धवजम
स तन न ममृषे दरॊणः पाञ्चाल्येनार्दनं मृधे
ततस तस्य विनाशाय स तवरं वयसृजच छरान
हयान धवजं धनुर मुष्टिम उभौ च पार्ष्णिसारथी
अवाकिरत ततॊ दरॊणः शरवर्षैः सहस्रशः
तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः
पाञ्चाल्यः परमास्त्रज्ञः शॊणाश्वं समयॊधयत
स सत्यजितम आलक्ष्य तथॊदीर्णं महाहवे
अर्धचन्द्रेण चिच्छेद शिरस तस्य महात्मनः
तस्मिन हते महामात्रे पाञ्चालानां रथर्षभे
अपायाज जवनैर अश्वैर दरॊणात तरस्तॊ युधिष्ठिरः
पाञ्चालाः केकया मत्स्याश चेदिकारूष कॊसलाः
युधिष्ठिरम उदीक्षन्तॊ हृष्टा दरॊणम उपाद्रवन
ततॊ युधिष्ठिरा परेप्सुर आचार्यः शत्रुपूगहा
वयधमत तान्य अनीकानि तूलराशिम इवानिलः
निर्हदन्तम अनीकानि तानि तानि पुनः पुनः
दरॊणं मत्स्याद अवरजः शतानीकॊ ऽभयवर्तत
सूर्यरश्मि परतीकाशैः कर्मार परिजार्जितैः
षड्भिः समूतं सहयं दरॊणं विद्ध्वानदद भृशम
तस्य नानदतॊ दरॊणः शिरः कायात सकुण्डलम
कषुरेणापाहरत तूर्णं ततॊ मत्स्याः परदुद्रुवुः
मत्स्याञ जित्वाजयच चेदीन कारूषान केकयान अपि
पाञ्चालान सृञ्जयान पाण्डून भारद्वाजः पुनः पुनः
तं दहन्तम अनीकानि करुद्धम अग्निं यथा वनम
दृष्ट्वा रुक्मरथं करुद्धं समकम्पन्त सृञ्जयाः
उत्तमं हय आदधानस्य धनुर अस्याशु कारिणः
जयाघॊषॊ निघ्नतॊ ऽमित्रान दिक्षु सर्वासु शुश्रुवे
नागान अश्वान पदातींश च रथिनॊ गजसादिनः
रौद्रा हस्तवता मुक्ताः परमथ्नन्ति सम सायकाः
नानद्यमानः पर्जन्यॊ मिश्रवातॊ हिमात्यये
अश्मवर्षम इवावर्षत परेषां भयम आदधत
सर्वा दिशः समचरत सैन्यं विक्षॊभयन्न इव
बली शूरॊ महेष्वासॊ मित्राणाम अभयंकरः
तस्य विद्युद इवाभ्रेषु चापं हेमपरिष्कृतम
दिक्षु सर्वास्व अपश्याम दरॊणस्यामित तेजसः
दरॊणस तु पाण्डवानीके चकार कदनं महत
यथा दैत्य गणे विष्णुः सुरासुरनमस्कृतः
स शूर सत्यवाक पराज्ञॊ बलवान सत्यविक्रमः
महानुभावः कालान्ते रौद्रीं भीरु विभीषणाम
कवचॊर्मिध्वजावर्तां मर्त्यकूलापहारिणीम
गजवाजिमहाग्राहाम असि मीनां दुरासदा
वीरास्थि शर्करां रौद्रां भेरी मुरजकच्छपाम
चर्म वर्म पलवां घॊरां केशशैवलशाड्वलाम
शरौघिणीं धनुः सरॊतां बाहुपन्नग संकुलाम
रणभूमिवहां घॊरां कुरुसृञ्जय वाहिनीम
मनुष्यशीर्ष पाषाणां शक्तिमीनां गदॊडुपाम
उष्णीष फेनवसनां निष्कीर्णान्त्र सरीसृपाम
वीरापहारिणीम उग्रां मांसशॊणितकर्दमाम
हस्तिग्राहां केतुवृक्षां कषत्रियाणां निमज्जनीम
करूरां शरीरसंघाटां सादिनक्रां दुरत्ययाम
दरॊणः परावर्तयत तत्र नदीम अन्तकगामिनीम
करव्यादगणसंघुष्टां शवशृगाल गणायुताम
निषेवितां महारौद्रैः पिशिताशैः समन्ततः
तं दहन्तम अनीकानि रथॊदारं कृतान्तवत
सर्वतॊ ऽभयद्रवन दरॊणं कुन्तीपुत्र पुरॊगमाः
तांस तु शूरान महेष्वासांस तावकाभ्युद्यतायुधाः
राजानॊ राजपुत्राश च समन्तात पर्यवारयन
ततॊ दरॊणः सत्यसंधः परभिन्न इव कुञ्जरः
अभ्यतीत्य रथानीकं दृढसेनम अपातयत
ततॊ राजानम आसाद्य परहरन्तम अभीतवत
अविध्यन नवभिः कषेमं स हतः परापतद रथात
स मध्यं पराप्य सैन्यानां सर्वाः परविचरन दिशः
तराता हय अभवद अन्येषां न तरातव्यः कथं चन
शिखण्डिनं दवादशभिर विंशत्या चॊत्तमौजसा
वसु दानं च भल्लेन परेषयद यमसादनम
अशीत्या कषत्रवर्माणं षड्विंशत्या सुदक्षिणम
कषत्रदेवं तु भल्लेन रथनीडाद अपाहरत
युधामन्युं चतुःषष्ट्या तरिंशता चैव सात्यकिम
विद्ध्वा रुक्मरथस तूर्णं युधिष्ठिरम उपाद्रवत
ततॊ युधिष्ठिरः कषिप्रं कितवॊ राजसत्तमः
अपायाज जवनैर अश्वैः पाञ्चाल्यॊ दरॊणम अभ्ययात
तं दरॊणं सधनुष्कं तु साश्वयन्तारम अक्षिणॊत
स हतः परापतद भूमौ रथाज जयॊतिर इवाम्बरात
तस्मिन हते राजपुत्रे पाञ्चालानां यशः करे
हतद्रॊणं हतद्रॊणम इत्य आसीत तुमुलं महत
तांस तथा भृशसंक्रुद्धान पाञ्चालान मत्स्यकेकयान
सृञ्जयान पाण्डवांश चैव दरॊणॊ वयक्षॊभयद बली
सात्यकिं चेकितानं च धृष्टद्युम्न विखण्डिनौ
वार्धक्षेमिं चित्रसेनं सेना बिन्दुं सुवर्चसम
एतांश चान्यांश च सुबहून नानाजनपदेश्वरान
सर्वान दरॊणॊ ऽजयद युद्धे कुरुभिः परिवारितः
तावकास तु महाराज जयं लब्ध्वा महाहवे
पाण्डवेयान रणे जग्नुर दरवमाणान समन्ततः
ते दानवा इवेन्द्रेण वध्यमाना महात्मना
पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत
[धृ]
भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे
पाञ्चालेषु च सर्वेषु कश चिद अन्यॊ ऽभयवर्तत
आर्यां युद्धे मतिं कृत्वा कषत्रियाणां यशस्करीम
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः
स हि वीरॊ नरः सूत यॊ भग्नेषु निवर्तते
अहॊ नासीत पुमान कश चिद दृष्ट्वा दरॊणं वयवस्थितम
जृम्भमाणम इव वयाघ्रं परभिन्नम इव कुञ्जरम
तयजन्तम आहवे पराणान संनद्धं चित्रयॊधिनम
महेष्वासं नरव्याघ्रं दविषताम अघवर्धनम
कृतज्ञं सत्यनिरतं दुर्यॊधनहितैषिणम
भारद्वाजं तथानीके दृष्ट्वा शूरम अवस्थितम
के वीराः संन्यवर्तन्त तन ममाचक्ष्व संजय
[स]
तान दृष्ट्वा चलितान संख्ये परणुन्नान दरॊण सायकैः
पाञ्चालान पाण्डवान मत्स्यान सृञ्जयांश चेदिकेकयान
दरॊण चापविमुक्तेन शरौघेणासु हारिणा
सिन्धॊर इव महौघेन हरियमाणान यथा पलवान
कौरवाः सिंहनादेन नानावाद्य सवनेन च
रथद्विप नराशैश च सर्वतः पर्यवारयन
तान पश्यन सैन्यमध्यस्थॊ राजा सवजनसंवृतः
दुर्यॊधनॊ ऽबरवीत कर्णं परहृष्टः परहसन्न इव
पश्य राधेय पाञ्चालान परणुन्नान दरॊण सायकैः
सिंहेनेव मृगान वन्यांस तरासितान दृढधन्वना
नैते जातु पुनर युद्धम ईहेयुर इति मे मतिः
यथा तु भग्ना दरॊणेन वातेनेव महाद्रुमाः
अर्द्यमानाः शरैर एते रुक्मपुङ्खैर महात्मना
पथा नैकेन गच्छन्ति घूर्णमानास ततस ततः
संनिरुद्धाश च कौरव्यैर दरॊणेन च महात्मना
एते ऽनये मण्डलीभूताः पावकेनेव कुञ्जराः
भरमरैर इव चाविष्टा दरॊणस्य निशितैः शरैः
अन्यॊन्यं समलीयन्त पलायनपरायणाः
एष भीमॊ दृढक्रॊधॊ हीनः पाण्डव सृञ्जयैः
मदीयैर आवृतॊ यॊधैः कर्ण तर्जयतीव माम
वयक्तं दरॊणमयं लॊकम अद्य पश्यति दुर्मतिः
निराशॊ जीवितान नूनम अद्य राज्याच च पाण्डवः
[कर्ण]
नैष जातु महाबाहुर जीवन नाहवम उत्सृजेत
न चेमान पुरुषव्याघ्र सिंहनादान विशक्ष्यते
न चापि पाण्डवा युद्धे भज्येरन्न इति मे मतिः
शूराश च बलवन्तश च कृतास्त्रा युद्धदुर्मदाः
विषाग्निद्यूतसंक्लेशान वनवासं च पाण्डवाः
समरमाणा न हास्यन्ति संग्रामम इति मे मतिः
निकृतॊ हि महाबाहुर अमितौजा वृकॊदरः
वरान वरान हि कौन्तेयॊ रथॊदारान हनिष्यति
असिना धनुषा शक्त्या हयैर नागैर नरै रथैः
आयसेन च दण्डेन वरातान वरातान हनिष्यति
तम एते चानुवर्तन्ते सात्यकिप्रमुखा रथाः
पाञ्चालाः केकया मत्स्याः पाण्डवाश च विशेषतः
शूराश च बलवन्तश च विक्रान्ताश च महारथाः
विशेषतश च भीमेन संरब्धेनाभिचॊदिताः
ते दरॊणम अभिवर्तन्ते सर्वतः कुरुपुंगवाः
वृकॊदरं परीप्सन्तः सूर्यम अभ्रगणा इव
एकायनगता हय एते पीडयेयुर यतव्रतम
अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः
असंशयं कृतास्त्राश च पर्याप्ताश चापि वारणे
अतिभारं तव अहं मन्ये भारद्वाजे समाहितम
ते शीघ्रम अनुगच्छामॊ यत्र दरॊणॊ वयवस्थितः
काका इव महानागं मा वै हन्युर यतव्रतम
[स]
राधेयस्य वचः शरुत्वा राजा दुर्यॊधनस तदा
भरातृभिः सहितॊ राजन परायाद दरॊण रथं परति
तत्रारावॊ महान आसीद एकं दरॊणं जिघांसताम
पाण्डवानां निवृत्तानां नानावर्णैर हयॊत्तमैः
[धृ]
सर्वेषाम एव मे बरूहि रथचिह्नानि संशय
ये दरॊणम अभ्यवर्तन्त करुद्धा भीम पुरॊगमाः
[स]
ऋश्य वर्णैर हयैर दृष्ट्वा वयायच्छन्तं वृकॊदरम
रजताश्वस ततः शूरः शैनेयः संन्यवर्तत
दर्शनीयास तु काम्बॊजाः शुकपत्रपरिच्छदाः
वहन्तॊ नकुलं शीघ्रं तावकान अभिदुद्रुवुः
कृष्णास तु मेघसंकाशाः सहदेवम उदायुधम
भीमवेगा नरव्याघ्रम अवहन वातरंहसः
हेमॊत्तम परतिच्छन्नैर हयैर वातसमैर जवे
अभ्यवर्तन्त सैन्यानि सर्वाण्य एव युधिष्ठिरम
राज्ञस तव अनन्तरं राजा पाञ्चाल्यॊ दरुपदॊ ऽभवत
जातरूपमयच छत्रः सर्वैः सवैर अभिरक्षितः
ललामैर हरिभिर युक्तैः सर्वशब्दक्षमैर युधि
राज्ञां मध्ये महेष्वासः शान्तभीर अभ्यवर्तत
तं विराटॊ ऽनवयात पश्चात सह शूरैर महारथैः
केकयाश च शिखण्डी च धृष्टकेतुस तथैव च
सवैः सवैः सैन्यैः परिवृता मत्स्यराजानम अन्वयुः
ते तु पाटल पुष्पाणां समवर्णा हयॊत्तमाः
वहमाना वयराजन्त मत्स्यस्यामित्र घातिनः
हारिद्र समवर्षास तु जवना हेममालिनः
पुत्रं विराट राजस्य स तवराः समुदावहन
इन्द्रगॊपक वर्णैस तु भरातरः पञ्च केकयाः
जातरूपसमाभासः सेवे लॊहितक धवजाः
ते हेममालिनः शूराः सर्वे युद्धविशारदाः
वर्षन्त इव जीमूताः परत्यदृश्यन्त दंशिताः
आमपात्रनिभाकाराः पाञ्चाल्यम अमितौजसम
दान्तास ताम्रारुणा युक्ताः शिखण्डिनम उदावहन
तथा दवादश साहस्राः पाञ्चालानां महारथाः
तेषां तु षट सहस्राणि ये शिखण्डिनम अन्वयुः
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष
आक्रीडन्तॊ वहन्ति सम सारङ्गशबला हयाः
धृष्टकेतुश च चेदीनाम ऋषभॊ ऽतिबलॊदितः
काम्बॊजैः शबलैर अश्वैर अभ्यवर्तत दुर्जयः
बृहत कषत्रं तु कैकेयं सुकुमारं हयॊत्तमाः
पलाल धूमवर्णाभाः सैन्धवाः शीघ्रम आवहन
मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः सवलंकृताः
शूरं शिखण्डिनः पुत्रं कषत्रदेवम उदावहन
युवानम अवहन युद्धे करौञ्चवर्णा हयॊत्तमाः
काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम
शवेतास तु परतिविन्ध्यं तं कृष्ण गरीवा मनॊजवाः
यन्तुः परेष्यकरा राजन राजपुत्रम उदावहन
सुत सॊमं तु यं धौम्यात पार्थः पुत्रम अयाचत
माषपुष्पसवर्णास तम अवहन वाजिनॊ रणे
सहस्रसॊमप्रतिमा बभूवुः; पुरे कुरूणाम उदयेन्दु नाम्नि
तस्मिञ जातः सॊमसंक्रन्दमध्ये; यस्मात तस्मात सुत सॊमॊ ऽभवत सः
नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः
आदित्यतरुण परख्याः शलाघनीयम उदावहन
काञ्चनप्रतिमैर यॊक्त्रैर मयूरग्रीव संनिभाः
दरौपदेयं नरव्याघ्रं शरुतकर्माणम आवहन
शरुतकीर्तिं शरुतनिधिं दरौपदेयं हयॊत्तमाः
ऊहुः पार्थ समं युद्धे चाष पत्रनिभा हयाः
यम आहुर अध्यर्धगुणं कृष्णात पार्थाच च संयुगे
अभिमन्युं पिशङ्गास तं कुमारम अवहन रणे
एकस तु धार्तराष्ट्रेभ्यः पाण्डवान यः समाश्रितः
तं बृहन्तॊ महाकाया युयुत्सुम अवहन रणे
पलाल काण्डवर्णास तु बार्धक्षेमिं तरस्विनम
ऊहुः सुतुमुले युद्धे हया हृष्टाः सवलंकृताः
कुमारं शिति पादास तु रुक्मपत्रैर उरश छदैः
सौचित्तिम अवहन युद्धे यन्तुः परेष्यकरा हयाः
रुक्मपृष्ठावकीर्णास तु कौशेयसदृशा हयाः
सुवर्णमालिनः कषान्ताः शरेणिमन्तम उदावहन
रुक्ममाला धराः शूरा हेमवर्णाः सवलंकृताः
काशिराजं हयश्रेष्ठाः शलाघनीयम उदावहन
अस्त्राणां च धनुर्वेदे बराह्म वेदे च पारगम
तं सत्यधृतिम आयान्तम अरुणाः समुदावहन
यः सपाञ्चाल सेनानीर दरॊणम अंशम अकल्पयत
पारावत सवर्णाश्वा धृष्टद्युम्नम उदावहन
तम अन्वयात सत्यधृतिः सौचित्तिर युद्धदुर्मदः
शरेणिमान वसु दानश च पुत्रः काश्यस्य चाभिभॊ
युक्तैः परमकाम्बॊजैर जवनैर हेममालिभिः
भीषयन्तॊ दविषत सैन्यं यम वैश्रवणॊपमाः
परभद्रकास तु पाञ्चालाः षट सहस्राण्य उदायुधाः
नानावर्णैर हयश्रेष्ठैर हेमचित्ररथध्वजाः
शरव्रातैर विधुन्वन्तः शत्रून विततकार्मुकाः
समानमृत्यवॊ भूत्वा धृष्टद्युम्नं समन्वयुः
बभ्रु कौशेयवर्णास तु सुवर्णवरमालिनः
ऊहुर अग्लान मनसश चेकितानं हयॊत्तमाः
इन्द्रायुधसवर्णैस तु कुन्तिभॊजॊ हयॊत्तमैः
आया सुवश्यैः पुरुजिन मातुलः सव्यसाचिनः
अन्तरिक्षसवर्णास तु तारका चित्रिता इव
राजानं रॊचमानं ते हयाः संख्ये समावहन
कर्बुराः शिति पादास तु सवर्णजालपरिच्छदाः
जारा संधिं हयश्रेष्ठाः सहदेवम उदावहन
ये तु पुष्कर नालस्य समवर्णा हयॊत्तमाः
जवे शयेनसमाश चित्राः सुदामानम उदावहन
शशलॊहित वर्म्णास तु पाण्डुरॊद्गत राजयः
पाञ्चाल्यं गॊपतेः पुत्रं सिंहसेनम उदावहन
पाञ्चालानां नरव्याघ्रॊ यः खयातॊ जनमेजयः
तस्य सर्षप पुष्पाणां तुल्यवर्णा हयॊत्तमाः
माषवर्णास तु जवना बृहन्तॊ हेममालिनः
दधि पृष्ठाश चन्द्र मुखाः पाञ्चाल्यम अवहन दरुतम
शूराश चभद्रकाश चैव शरकाण्डनिभा हयाः
पद्मकिञ्जल्क वर्णाभा दण्डधारम उदावहन
बिभ्रतॊ हेममालाश च चक्रवाकॊदरा हयाः
कॊसलाधिपतेः पुत्रं सुक्षत्रं वाजिनॊ ऽवहन
शबलास तु बृहन्तॊ ऽशवा दान्ता जाम्बूनदस्रजः
युद्धे सत्यधृतिं कषौमिम अवहन परांशवः शुभाः
एकवर्णेन सर्वेण धवजेन कवचेन च
अश्वैश च धनुषा चैव शुक्लैः शुक्लॊ नयवर्तत
समुद्रसेनपुत्रं तु सामुद्रा रुद्र तेजसम
अश्वाः शशाङ्कसदृशाश चन्द्र देवम उदावहन
नीलॊत्पलसवर्णास तु तपनीयविभूषिताः
शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन हयाः
कलाय पुष्पवर्णास तु शवेतलॊहित राजयः
रथसेनं हयश्रेष्ठाः समूहुर युद्धदुर्मदम
यं तु सर्वमनुष्येभ्यः पराहुः शूरतरं नृपम
तं पटच चर हन्तारं शुकवर्णावहन हयाः
चित्रायुधं चित्रमाल्यं चित्रवर्मायुध धवजम
ऊहुः किंशुकपुष्पाणां तुक्य वर्णा हयॊत्तमाः
एकवर्णेन सर्वेण धवजेन कवचेन च
धनुषा रथवाहैश च नीलैर नीलॊ ऽभयवर्तत
नानारूपै रत्नचित्रैर वरूथ धवजकार्मुकैः
वाजिध्वजपताकाभिश चित्रैश चित्रॊ ऽभयवर्तत
ये तु पुष्कर पत्रस्य तुल्यवर्णा हयॊत्तमाः
ते रॊचमानस्य सुतं हेमवर्णम उदावहन
यॊधाश च भद्रकाराश च शरद अण्डान उदन्डजाः
शवेताण्डाः कुक्कुटाण्डाभा दण्डकेतुम उदावहन
आट रूषक पुष्पाभा हयाः पाण्ड्यानुयायिनाम
अवहन रथमुख्यानाम अयुतानि चतुर्दश
नानारूपेण वर्णेन नानाकृति मुखा हयाः
रथचक्रध्वजं वीरं घटॊत्कचम उदावहन
सुवर्णवर्णा धर्मज्ञम अनीकस्थं युधिष्ठिरम
राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतॊ ऽनवयुः
वर्णैश चॊच्चावचैर दिव्यैः सदश्वानां परभद्रकाः
ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः
परत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः
अत्यरॊचत तान सर्वान धृष्टद्युम्नः समागतान
सर्वाण्य अपि च सैन्यानि भारद्वाजॊ ऽतयरॊचत
[धृ]
वयथयेयुर इमे सेनां देवानाम अपि संयुगे
आहवे ये नयवर्तन्त वृकॊदर मुखा रथाः
संप्रयुक्तः किलैवायं दिष्टैर भवति पूरुषः
तस्मिन्न एव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः
दीर्घं विप्रॊषितः कालम अरण्ये जटिलॊ ऽजनी
अज्ञातश चैव लॊकस्य विजहार युधिष्ठिरः
स एव महतीं सेनां समावर्तयद आहवे
किम अन्यद दैवसंयॊगान मम पुत्रस्य चाभवत
युक्त एव हि भाग्येन धरुवम उत्पद्यते नरः
स तथाकृष्यते तेन न यथा सवयम इच्छति
दयूतव्यसनम आसाद्य कलेशितॊ हि युधिष्ठिरः
स पुनर भागधेयेन सहायान उपलब्धवान
अर्धं मे केकया लब्धाः काशिकाः कॊसलाश च ये
चेदयश चापरे वङ्गा माम एव समुपाश्रिताः
पृथिवी भूयसी तात मम पार्थस्य नॊ तथा
इति माम अब्रवीत सूत मन्दॊ दुर्यॊधनस तदा
तस्य सेना समूहस्य मध्ये दरॊणः सुरक्षितः
निहतः पार्षतेनाजौ किम अन्यद भागधेयतः
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम
सर्वास्त्रपारगं दरॊणं कथं मृत्युर उपेयिवान
समनुप्राप्त कृच्छ्रॊ ऽहं संमॊहं परमं गतः
भीष्मद्रॊणौ हतौ शरुत्वा नाहं जीवितुम उत्सहे
यन मा कषत्ताभ्रवीत तात परपश्यन पुत्रगृद्धिनम
दुर्यॊधनेन तत सर्वं पराप्तं सूत मया सह
नृशंसं तु परं तत सयात तयक्त्वा दुर्यॊधनं यदि
पुत्र शेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत
यॊ हि धर्मं परित्यज्य भवत्य अर्थपरॊ नरः
सॊ ऽसमाच च हीयते लॊकात कषुद्रभावं च गच्छति
अद्य चाप्य अस्य राष्ट्रस्य हतॊत्साहस्य संजय
अवशेषं न पश्यामि ककुदे मृदिते सति
कथं सयाद अवशेषं हि धुर्ययॊर अभ्यतीतयॊः
यौ नित्यम अनुजीवामः कषमिणौ पुरुषर्षभौ
वयक्तम एव च मे शंस यथा युद्धम अवर्तत
के ऽयुध्यन के वयपाकर्षन के कषुद्राः पराद्रवन भयात
धनंजयं च मे शंस यद यच चक्रे रथर्षभः
तस्माद भयं नॊ भूयिष्ठं भरातृव्याच च विशेषतः
यथासीच च निवृत्तेषु पाण्डवेषु च संजय
मम सैन्यावशेषस्य संनिपातः सुदारुणः
मामकानां च ये शूराः कांस तत्र समवारयन
[स]
महद भैरवम आसीन नः संनिवृत्तेषु पाण्डुषु
दृष्ट्वा दरॊणं छाद्यमानं तैर भास्करम इवाम्बुदैः
तैश चॊद्धूतं रजस तीव्रम अवचक्रे चमूं तव
ततॊ हतम अमन्याम दरॊणं दृष्टिपथे हते
तांस तु शूरान महेष्वासान करूरं कर्म चिकीर्षतः
दृष्ट्वा दुर्यॊधनस तूर्णं सवसैन्यं समचूचुदत
यथाशक्ति यथॊत्साहं यथा सत्त्वं नराधिपाः
वारयध्वं यथायॊगं पाण्डवानाम अनीकिनीम
ततॊ दुर्मर्षणॊ भीमम अभ्यगच्छत सुतस तव
आराद दृष्ट्वा किरन बाणैर इच्छन दरॊणस्य जीवितम
तं बाणैर अवतस्तार करुद्धॊ मृत्युम इवाहवे
तं च भीमॊ ऽतुदद बाणैस तद आसीत तुमुलं महत
त ईश्वर समादिष्टाः पराज्ञाः शूराः परहारिणः
बाह्यं मृत्युभयं कृत्वा परत्यतिष्ठन परान युधि
कृतवर्मा शिनेः पुत्रं दरॊण परेप्सुं विशां पते
पर्यवारयद आयान्तं शूरं समितिशॊभनम
तं शैनेयः शरव्रातैः करुद्धः करुद्धम अवारयत
कृतवर्मा च शैनेयं मत्तॊ मत्तम इव दविपम
सैन्धवः कषत्रधर्माणम आपतन्तं शरौघिणम
उग्रधन्वा महेष्वासं यत्तॊ दरॊणाद अवारयत
कषत्रधर्मा सिन्धुपतेश छित्त्वा केतन कार्मुके
नाराचैर बहुभिः करुद्धः सर्वमर्मस्व अताडयत
अथान्यद धनुर आदाय सैन्धवः कृतहस्तवत
विव्याध कषत्रधर्माणं रणे सर्वायसैः शरैः
युयुत्सुं पाण्डवार्थाय यतमानं महारथम
सुबाहुर भरातरं शूरं यत्तॊ दरॊणाद अवारयत
सुबाहॊः सधनुर्बाणाव अस्यतः परिघॊपमौ
युयुत्सुः शितपीताभ्यां कषुराभ्याम अच्छिनद भुजौ
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम
वेलेव सागरं कषुब्धं मद्रराट समवारयत
तं धर्मराजॊ बहुभिर मर्मभिद्भिर अवाकिरत
मद्रेशस तं चतुःषष्ट्या शरैर विद्ध्वानदद भृशम
तस्य नानदतः केतुम उच्चकर्त स कार्मुकम
कषुराभ्यां पाण्डवश्रेष्ठस तत उच्चुक्रुशुर जनाः
तथैव राजा बाह्लीकॊ राजानं दरुपदं शरैः
आद्रवन्तं सहानीकं सहानीकॊ नयवारयत
तद युद्धम अभवद घॊरं वृद्धयॊः सह सेनयॊः
यथा महायूथपयॊर दविपयॊः संप्रभिन्नयॊः
विन्दानुविन्दाव आवन्त्यौ विराटं मत्यम आर्च्छताम
सह सैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम
तद उत्पिञ्जलकं युद्धम आसीद देवासुरॊपमम
मत्स्यानां केकयैः सार्धम अभीताश्वरथद्विपम
नाकुलिं तु शतानीकं भूतकर्मा सभा पतिः
अस्यन्तम इषुजालानि यान्तं दरॊणाद अवारयत
ततॊ नकुल दायादस तरिभिर भल्लैः सुसंशितैः
चक्रे विबाहु शिरसं भूतकर्माणम आहवे
सुत सॊमं तु विक्रान्तम आपतन्तं शरौघिणम
दरॊणायाभिमुखं वीरं विविंशतिर अवारयत
सुत सॊमस तु संक्रुद्धः सवपितृव्यम अजिह्मगैः
विविंशतिं शरैर विद्ध्वा नाभ्यवर्तत दंशितः
अथ भीम रथः शाल्वम आशुगैर आयसैः शितैः
षड्भिः साश्वनियन्तारम अनयद यमसादनम
शरुतकर्माणम आयान्तं मयूरसदृशैर हयैः
चैत्रसेनिर महाराज तव पौत्रॊ नयवारयत
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ
पितॄणाम अर्थसिद्ध्यर्थं चक्रतुर युद्धम उत्तमम
तिष्ठन्तम अग्रतॊ दृष्ट्वा परतिविन्ध्यं तम आहवे
दरुणिर मानं पितुः कुर्वन मार्गणैः समवारयत
तं करुद्धः परतिविव्याध परतिविन्ध्यः शितैः शरैः
सिंहलाङ्गूल लक्ष्माणं पितुर अर्थे वयवस्थितम
परवपन्न इव बीजानि बीजकाले नरर्षभ
दरौणायनिर दरौपदेयं शरवर्षैर अवाकिरत
यस तु शूरतमॊ राजन सेनयॊर उभयॊर मतः
तं पटच चर हन्तारं लक्ष्मणः समवारयत
स लक्ष्मणस्येष्व असनं छित्त्वा लक्ष्म च भारत
लक्ष्मणे शरजालानि विसृजन बह्व अशॊभत
विकर्णस तु महाप्राज्ञॊ याज्ञसेनिं शिखण्डिनम
पर्यवारयद आयान्तं युवानं समरे युवा
ततस तम इषुजालेन याज्ञसेनिः समावृणॊत
विधूय तद बाणजालं बभौ तव सुतॊ बली
अङ्गदॊ ऽभिमुखः शूरम उत्तमौजसम आहवे
दरॊणायाभिमुखं यान्तं वत्सदन्तैर अवारयत
स संप्रहारस तुमुलस तयॊः पुरुषसिंहयॊः
सैनिकानां च सर्वेषां तयॊश च परीतिवर्धनः
दुर्मुखस तु महेष्वासॊ वीरं पुरु जितं बली
दरॊणायाभिमुखं यान्तं कुन्तिभॊजम अवारयत
स दुर्मुखं भरुवॊर मध्ये नाराचेन वयताडयत
तस्य तद विबभौ वक्त्रं स नालम इव पङ्कजम
कर्णस तु केकयान भरातॄन पञ्च लॊहितक धवजान
दरॊणायाभिमुखं याताञ शरवर्षैर अवारयत
ते चैनं भृशसंक्रुद्धाः शरव्रातैर अवाकिरन
स च तांश छादयाम आस शरजालैः पुनः पुनः
नैव कर्णॊ न ते पञ्च ददृशुर बाणसंवृताः
साश्वसूत धवजरथाः परस्परशराचिताः
पुत्रस ते दुर्जयश चैव जयश च विजयश च ह
नीलं काश्यं जयं शूरास तरयस तरीन परत्यवारयन
तद युद्धम अभवद घॊरम ईक्षितृप्रीतिवर्धनम
सिंहव्याघ्र तरक्षूणां यथेभ महिषर्षभैः
कषेमधूर्ति बृहन्तौ तौ भरातरौ सात्वतं युधि
दरॊणायाभिमुखं यान्तं शरैस तीक्ष्णैस ततक्षतुः
तयॊस तस्य च तद युद्धम अत्यद्भुतम इवाभवत
सिंहस्य दविपमुख्याभ्यां परभिन्नाभ्यां यथा वने
राजानं तु तथाम्बष्ठम एकं युद्धाभिनन्दिनम
चेदिराजः शरान अस्यन करुद्धॊ दरॊणाद अवारयत
तम अम्बष्ठॊ ऽसथि भेदिन्या निरविध्यच छलाकया
स तयक्त्वा स शरं चापं रथाद भूमिम अथापतत
वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः
अक्षुद्रः कषुद्रकैर दरॊणात करुद्ध रूपम अवारयत
युध्यन्तौ कृप वार्ष्णेयौ ये ऽपश्यंश चित्रयॊधिनौ
ते युद्धसक्तमनसॊ नान्या बुबुधिरे करियाः
सौमदत्त्तिस तु राजानं मणिमन्तम अतन्द्रितम
पर्यवारयद आयान्तं यशॊ दरॊणस्य वर्धयन
स सौमदत्तेस तवरितश छित्त्वेष्व असन केतने
पुनः पताकां सूतं च छत्त्रं चापातयद रथात
अथाप्लुत्य रथात तूर्णं यूपकेतुर अमित्रहा
साश्वसूत धवजरथं तं चकर्त वरासिना
रथं च सवं समास्थाय धनुर आदाय चापरम
सवयं यच्छन हयान राजन वयधमत पाण्डवीं चमूम
मुसलैर मुद्गरैश चक्रैर भिण्डिपालैः परश्वधैः
पांसुवाताग्निसलिलैर भस्म लॊष्ठ तृणद्रुमैः
आरुजन पररुजन भञ्जन निघ्नन विद्रावयन कषिपन
सेनां विभीषयन्न आयाद दरॊण परेप्सुर घटॊत्चकः
तं तु नानाप्रहरणैर नाना युद्धविशेषणैः
राक्षसं राक्षसः करुद्ध समाजघ्ने हय अलम्बुसः
तयॊर तद अभवद युद्धं रक्षॊ गरामणि मुख्ययॊः
तादृग यादृक पुरावृत्तं शम्बरामर राजयॊः
एवं दवंद्व शतान्य आसन रथवारणवाजिनाम
पदातीनां च भद्रंते तव तेषां च संकुलम
नैतादृशॊ दृष्टपूर्वः संग्रामॊ नैव च शरुतः
दरॊणस्याभाव भावेषु परसक्तानां यथाभवत
इदं घॊरम इदं चित्रम इदं रौद्रम इति परभॊ
तत्र युद्धान्य अदृश्यन्त परततानि बहूनि च
[धृ]
तेष्व एवं संनिवृत्तेषु परत्युद्यातेषु भागशः
कथं युयुधिरे पार्था मामकाश च तरस्विनः
किम अर्जुनश चाप्य अकरॊत संशप्तकबलं परति
संशप्तका वा पार्थस्य किम अकुर्वत संजय
[स]
तथा तेषु निवृत्तेषु परत्युद्यातेषु भागशः
सवयम अभ्यद्रवद भीमं नागानीकेन ते सुतः
स नाग इव नागेन गॊवृषेणेव गॊवृषः
समाहूतः सवयं राज्ञा नागानीकम उपाद्रवत
स युद्धकुशलः पार्थॊ बाहुवीर्येण चान्वितः
अभिनत कुञ्जरानीकम अचिरेणैव मारिष
ते गजा गिरिसंकाशाः कषरन्तः सर्वतॊ मदम
भीमसेनस्य नाराचैर विमुखा विमदी कृताः
विधमेद अभ्रजालानि यथा वायुः समन्ततः
वयधमत तान्य अनीकानि तथैव पवनात्मजः
स तेषु विसृजन बाणान भीमॊ नागेष्व अशॊभत
भुवनेष्व इव सर्वेषु गभस्तीन उदितॊ रविः
ते भीम बाणैः शतशः संस्यूता विबभुर गजाः
गभस्तिभिर इवार्कस्य वयॊम्नि नाना बलाहकाः
तथा गजानां कदनं कुर्वाणम अनिलात्मजम
करुद्धॊ दुर्यॊधनॊ ऽभयेत्य परत्यविध्यच छितैः शरैः
ततः कषणेन कषितिपं कषतजप्रतिमेक्षणः
कषयं निनीषुर निशितैर भीमॊ विव्याध पत्रिभिः
स शरार्पित सर्वाङ्गः करुद्धॊ विव्याध पाण्डवम
नाराचैर अर्करश्म्य आभैर भीमसेनं समयन्न इव
तस्य नागं मणिमयं रत्नचित्रं धवजे सथितम
भल्लाभ्यां कार्मुकं चैव कषिप्रं चिच्छेद पाण्डवः
दुर्यॊधनं पीड्यमानं दृष्ट्वा भीमेन मारिष
चुक्षॊभयिषुर अभ्यागाद अङ्गॊ मातङ्गम आस्थितः
तम आपतन्तं मातङ्गम अम्बुदप्रतिमस्वनम
कुम्भान्तरे भीमसेनॊ नाराचेनार्दयद भृशम
तस्य कायं विनिर्भिद्य ममज्ज धरणीतले
ततः पपात दविरदॊ वज्राहत इवाचलः
तस्यावर्जितनागस्य मेच्छस्यावपतिष्यतः
शिरश चिच्छेद भल्लेन कषिप्रकारी वृकॊदरः
तस्मिन निपतिते वीरे संप्राद्रवत सा चमूः
संभ्रांताश्वद्विपरथा पदातीन अवमृद्नती
तेष्व अनीकेषु सर्वेषु विद्रवत्सु समन्ततः
पराग्ज्यॊतिषस ततॊ भीमं कुञ्जरेण समाद्रवत
येन नागेन मघवान अजयद दैत्यदानवान
स नागप्रवरॊ भीमं सहसा समुपाद्रवत
शरवणाभ्याम अथॊ पद्भ्यां संहतेन करेण च
वयावृत्तनयनः करुद्धः परदहन्न इव पाण्डवम
ततः सर्वस्य सैन्यस्य नादः समभवन महान
हाहा विनिहतॊ भीमः कुञ्जरेणेति मारिष
तेन नादेन वित्रस्ता पाण्डवानाम अनीकिनी
समहाभ्यद्रवद राजन यत्र तस्थौ वृकॊदरः
ततॊ युधिष्ठिरॊ राजा हतं मत्वा वृकॊदरम
भगदत्तं सपाञ्चालः सर्वतः समवारयत
तं रथै रथिनां शरेष्ठाः परिवार्य समन्ततः
अवाकिरञ शैरस तीक्ष्णैः शतशॊ ऽथ सहस्रशः
स विघातं पृषत्कानाम अङ्कुशेन समाचरन
गजेन पाण्डुपाञ्चालान वयधमत पर्वतेश्वरः
तद अद्भुतम अपश्याम भगदत्तस्य संयुगे
तथा वृद्धस्य चरितं कुञ्जरेण विशां पते
ततॊ राजा दशार्णानां पराग्ज्यॊतिषम उपाद्रवत
तिर्यग यातेन नागेन स मदेनाशु गामिना
तयॊर युद्धं समभवन नागयॊर भीमरूपयॊः
स पक्षयॊः पर्वतयॊर यथा स दरुमयॊः पुरा
पराग्ज्यॊतिषपतेर नागः संनिपत्यापवृत्य च
पार्श्वे दशार्णाधिपतेर भित्त्वा नागम अपातयत
तॊमरैः सूर्यरश्म्य आभैर भगदत्तॊ ऽथ संपभिः
जघान दविरदस्थं तं शत्रुं परचलितासनम
उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः
रथानीकेन महता सर्वतः पर्यवारयत
स कुञ्जरस्थॊ रथिभिः शुशुभे सर्वतॊवृतः
पर्वते वनमध्यस्थॊ जवलन्न इव हुताशनः
मण्डलं सर्वतः शलिष्टं रथिनाम उग्रधन्विनाम
किरतां शरवर्षाणि स नागः पर्यवर्तत
ततः पराग्ज्यॊतिषॊ राजा परिगृह्य दविपर्षभम
परेषयाम आस सहसा युयुधानरथं परति
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः
अभिचिक्षेप वेगेन युयुधानस तव अपाक्रमत
बृहतः सैन्धवान अश्वान समुत्थाप्य तु सारथिः
तस्थौ सात्यकिम आसाद्य संप्लुतस तं रथं पुनः
स तु लब्ध्वान्तरं नागस तवरितॊ रथमण्डलात
निश्चक्राम ततः सर्वान परिचिक्षेप पार्थिवान
ते तव आशुगतिना तेन तरास्यमाना नरर्षभाः
तम एकं दविरदं संख्ये मेनिरे शतशॊ नृपाः
ते जगस्थेन काल्यन्ते भगदत्तेन पाण्डवाः
ऐरावतस्थेन यथा देवराजेन दानवाः
तेषां परद्रवतां भीमः पाञ्चालानाम इतस ततः
गजवाजिकृतः शब्दः सुमहान समजायत
भगदत्तेन समरे काल्यमानेषु पाण्डुषु
पराग्ज्यॊतिषम अभिक्रुद्धः पुनर भीमः समभ्ययात
तस्याभिद्रवतॊ वाहान हस्तमुक्तेन वारिणा
सिक्त्वा वयत्रासयन नागस ते पार्थम अहरंस ततः
ततस तम अभ्ययात तूर्णं रुचि पर्वाकृती सुतः
समुक्षञ शरवर्षेण रथस्थॊ ऽनतकसंनिभः
ततॊ रुचिरपर्वाणं शरेण नतपर्वणा
सुपर्वा पर्वत पतिर निन्ये वैवस्वतक्षयम
तस्मिन निपतिते वीरे सौभद्रॊ दरौपदी सुताः
चेकितानॊ धृष्टकेतुर युयुत्सुश चार्दयन दविपम
त एनं शरधाराभिर धाराभिर इव तॊयदाः
सिषिचुर भैरवान नादान विनदन्तॊ जिघांसवः
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चॊदितॊ दविपः
परसारित करः परायात सतब्धकर्णेक्षणॊ दरुतम
सॊ ऽधिष्ठाय पदा वाहान युयुत्सॊः सूतम आरुजत
पुत्रस तु तव संभ्रान्तः सौभद्रस्याप्लुतॊ रथम
स कुञ्जरस्थॊ विसृजन्न इषून अरिषु पार्थिवः
बभौ रश्मीन इवादित्यॊ भुवनेषु समुत्सृजन
तम आर्जुनिर दवादशभिर युयुत्सुर दशभिः शरैः
तरिभिस तरिभिर दरौपदेया धृष्टकेतुश च विव्यधुः
सॊ ऽरियत्नार्पितैर बाणैर आचितॊ दविरदॊ बभौ
संस्यूत इव सूर्यस्य रश्मिभिर जलदॊ महान
नियन्तुः शिल्पयत्नाभ्यां परेषितॊ ऽरिशरार्दितः
परिचिक्षेप तान नागः स रिपून सव्यदक्षिणम
गॊपाल इव दण्डेन यथा पशुगणान वने
आवेष्टयत तां सेनां भगदत्तस तथा मुहुः
कषिप्रं शयेनाभिपन्नानां वायसानाम इव सवनः
बभूव पाण्डवेयानां भृशं विद्रवतां सवनः
स नागराजः परवराङ्कुशाहतः; पुरा स पक्षॊ ऽदरिवरॊ यथा नृप
भयं तथा रिपुषु समादधद भृशं; वणिग गणानां कषुभितॊ यथार्णवः
ततॊ धवनिर दविरदरथाश्वपार्थिवैर; भयाद दरवद्भिर जनितॊ ऽतिभैरवः
कषितिं वियद दयां विदिशॊ दिशस तथा; समावृणॊत पार्थिवसंयुगे तदा
स तेन नागप्रवरेण पार्थिवॊ; भृशं जगाहे दविषताम अनीकिनीम
पुरा सुगुप्तां विबुधैर इवाहवे; विरॊचनॊ देववरूथिनीम इव
भृशं ववौ जवलनसखॊ वियद रजः; समावृणॊन मुहुर अपि चैव सैनिकान
तम एकनागं गणशॊ यथा गजाः; समन्ततॊ दरुतम इव मेनिरे जनाः
[स]
यन मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि
तच छृणुष्व महाराज पार्थॊ यद अकरॊन मृधे
रजॊ दृष्ट्वा समुद्भूतं शरुत्वा च गजनिस्वनम
भज्यतां भगदत्तेन कौन्तेयः कृष्णम अब्रवीत
यथा पराग्ज्यॊतिषॊ राजा गजेन मधुसूदन
तवरमाणॊ ऽभयतिक्रान्तॊ धरुवं तस्यैष निस्वनः
इन्द्राद अनवरः संख्ये गजयानविशारदः
परथमॊ वा दवितीयॊ वा पृथिव्याम इति मे मतिः
स चापि दविरदश्रेष्ठः सदा परतिगजॊ युधि
सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः
सहः शस्त्रनिपातानाम अग्निस्पर्शस्य चानघ
स पाण्डव बलं वयक्तम अद्यैकॊ नाशयिष्यति
न चावाभ्याम ऋते ऽनयॊ ऽसति शक्तस तं परतिबाधितुम
तवरमाणस ततॊ याहि यतः पराग्ज्यॊतिषाधिपः
शक्र सख्याद दविपबलैर वयसा चापि विस्मितम
अद्यैनं परेषयिष्यामि बलहन्तुः परियातिथिम
वचनाद अथ कृष्णस तु परययौ सव्यसाचिनः
दार्यते भगदत्तेन यत्र पाण्डव वाहिनी
तं परयान्तं ततः पश्चाद आह्वयन्तॊ महारथाः
संशप्तकाः समारॊहन सहस्राणि चतुर्दश
दशैव तु सहस्राणि तरिगर्तानां नराधिप
चत्वारि तु सहस्राणि वासुदेवस्य ये ऽनुगाः
दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष
आहूयमानस्य च तैर अभवद धृदयं दविधा
किं नु शरेयः करं कर्म भवेद इति विचिन्तयन
इतॊ वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम
तस्य बुद्ध्या विचार्यैतद अर्जुनस्य कुरूद्वह
अभवद भूयसी बुद्धिः संशप्तकवधे सथिरा
स संनिवृत्तः सहसा कपिप्रवर केतनः
एकॊ रथसहस्राणि निहन्तुं वासवी रणे
सा हि दुर्यॊधनस्यासीन मतिः कर्णस्य चॊभयॊः
अर्जुनस्य वधॊपाये तेन दवैधम अकल्पयत
स तु संवर्तयाम आस दवैधी भावेन पाण्डवः
रथेन तु रथाग्र्याणाम अकरॊत तां मृषा तदा
ततः शतसहस्राणि शराणां नतपर्वणाम
वयसृजन्न अर्जुने राजन संशप्तकमहारथाः
नैव कुन्तीसुतः पार्थॊ नैव कृष्णॊ जनार्दनः
न हया न रथॊ राजन दृश्यन्ते सम शरैश चिताः
यदा मॊहम अनुप्राप्तः स सवेदश च जनार्दनः
ततस तान परायशः पार्थॊ वज्रास्त्रेण निजघ्निवान
शतशः पाणयश छिन्नाः सेषु जयातलकार्मुकाः
केतवॊ वाजिनः सूता रथिनश चापतन कषितौ
दरुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः
हतारॊहाः कषितौ पेतुर दविपाः पार्थ शराहताः
विप्र विद्ध कुथा वल्गाश छिन्नभाण्डाः परासवः
सारॊहास तुरगाः पेतुर मथिताः पार्थ मार्गणैः
सर्ष्टि चर्मासि नखराः स मुद्गरपरश्वधाः
संछिन्ना बाहवः पेतुर नृणां भल्लैः किरीटिना
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष
संछिन्नान्य अर्जुन शरैः शिरांस्य उर्वीं परपेदिरे
जज्वालालंकृतैः सेनापत्रिभिः पराणभॊजनैः
नाना लिङ्गैर अदामित्रान करुद्धे निघ्नति फल्गुने
कषॊभयन्तं तदा सेनां दविरदं नलिनीम इव
धनंजयं भूतगणाः साधु साध्व इत्य अपूजयन
दृष्ट्वा तत कर्म पार्थस्य वासवस्येव माधवः
विस्मयं परमं गत्वा तलम आहत्य पूजयत
ततः संशप्तकान हत्वा भूयिष्ठं ये वयवस्थिताः
भगदत्ताय याहीति पार्थः कृष्णम अचॊदयत
[स]
यियासतस ततः कृष्णः पार्थस्याश्वान मनॊजवान
अप्रैषीद धेमसंछन्नान दरॊणानीकाय पाण्डुरान
तं परयान्तं कुरुश्रेष्ठं सवांस तरातुं दरॊण तापितान
सुशर्मा भरातृभिः सार्धं युद्धार्थी पृष्ठतॊ ऽनवयात
ततः शवेतहयः कृष्णम अब्रवीद अजितं जयः
एष मां भरातृभिः सार्धं सुशर्माह्वयते ऽचयुत
दीर्यते चॊत्तरेणैतत सैन्यं नः शत्रुसूदन
दवैधी भूतं मनॊ मे ऽदय कृतं संशप्तकैर इदम
किं नु संशप्तकान हन्मि सवान रक्षाम्य अहितार्दितान
इति मे तवं मतं वेत्थ तत्र किं सुकृतं भवेत
एवम उक्तस तु दाशार्हः सयन्दनं परत्यवर्तयत
येन तरिगर्ताधिपतिः पाण्डवं समुपाह्वयत
ततॊ ऽरजुनः सुशर्माणं विद्ध्वा सप्तभिर आशुगैः
धवजं धनुश चास्य तथा कषुराभ्यां समकृन्तत
तरिगर्ताधिपतेश चापि भरातरं षड्भिर आयसैः
साश्वं ससूतं तवरितः पार्थः परैषीद यमक्षयम
ततॊ भुजग संकाशां सुशर्मा शक्तिम आयसीम
चिक्षेपार्जुनम आदिश्य वासुदेवाय तॊमरम
शक्तिं तरिभिः शरैश छित्त्वा तॊमरं तरिभिर अर्जुनः
सुशर्माणं शरव्रातैर मॊहयित्वा नयवर्तत
तं वासवम इवायान्तं भूरि वर्षशरौघिणम
राजंस तावक सैन्यानां नॊग्रं कश चिद अवारयत
ततॊ धनंजयॊ बाणैस तत एव महारथान
आयाद विनिघ्नन कौरव्यान दहन कक्षम इवानलः
तस्य वेगम असह्यं तु कुन्तीपुत्रस्य धीमतः
नाशक्नुवंस ते संसॊढुं सपर्शम अग्नेर इव परजाः
संवेष्टयन्न अनीकानि शरवर्षेण पाण्डवः
सुपर्णपातवद राजन्न आयात पराग्ज्यॊतिषं परति
यत तदानामयञ जिष्णुर भरतानाम अपायिनाम
धनुः कषेमकरं संख्ये दविषताम अश्रुवर्धनम
तद एव तव पुत्रस्य राजन दुर्द्यूत देविनः
कृते कषत्रविनाशाय धनुर आयच्छद अर्जुनः
तथा विक्षॊभ्यमाणा सा पार्थेन तव वाहिनी
वयदीर्यत महाराज नौर इवासाद्य पर्वतम
ततॊ दशसहस्राणि नयवर्तन्त धनुष्मताम
मतिं कृत्वा रणे करुद्धा वीरा जयपराजये
वयपेतहृदयत्रास आपद धर्मातिगॊ रथः
आर्छत पार्थॊ गुरुं भारं सर्वभार सहॊ युधि
यथा नड वनं करुद्धः परभिन्नः षष्टिहायनः
मृद्नीयात तद्वद आयस्तः पार्थॊ ऽमृद्नाच चमूं तव
तस्मिन परमथिते सैन्ये भगदत्तॊ नराधिपः
तेन नागेन सहस धनंजयम उपाद्रवत
तं रथेन नरव्याघ्रः परत्यगृह्णाद अभीतवत
स संनिपातस तुमुलॊ बभूव रथनागयॊः
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च
संग्रामे चेरतुर वीरौ भगदत्त धनंजयौ
ततॊ जीमूतसंशाकान नागाद इन्द्र इवाभिभूः
अभ्यवर्षच छरौघेण भगदत्तॊ धनंजयम
स चापि शरवर्षं तच छरवर्षेण वासविः
अप्राप्तम एव चिच्छेद भगदत्तस्य वीर्यवान
ततः पराग्ज्यॊतिषॊ राजा शरवर्षं निवार्य तत
शरैर जघ्ने महाबाहुं पार्थं कृष्णं च भारत
ततः स शरजालेन महताभ्यवकीर्य तौ
चॊदयाम आस तं नागं वधायाच्युतपार्थयॊः
तम आपतन्तं दविरदं दृष्ट्वा करुद्धम इवान्तकम
चक्रे ऽपसव्यं तवरितः सयन्दनेन जनार्दनः
संप्राप्तम अपि नेयेष परावृत्तं महाद्विपम
सारॊहं मृत्युसात्कर्तुं समरन धर्मं धनंजयः
स तु नागॊ दविपरथान हयांश चारुज्य मारिष
पराहिणॊन मृत्युलॊकाय ततॊ ऽकरुध्यद धनंजयः
[धृ]
तथा करुद्धः किम अकरॊद भगदत्तस्य पाण्डवः
पराग्ज्यॊतिषॊ वा पार्थस्य तन मे शंस यथातथम
[स]
पराग्ज्यॊतिषेण संसक्ताव उभौ दाशार्ह पाण्डवौ
मृत्यॊर इवान्तिकं पराप्तौ सर्वभूतानि मेनिरे
तथा हि शरवर्षाणि पातयत्य अनिशं परभॊ
भगदत्तॊ गजस्कन्धात कृष्णयॊः सयन्दनस्थयॊः
अथ कार्ष्णायसैर बाणैः पूर्णकार्मुकनिःसृतैः
अविध्यद देवकीपुत्रं हेमपुङ्खैः शिलाशितैः
अग्निस्पर्श समास तीक्ष्णा भगदत्तेन चॊदिताः
निर्भिद्य देवकीपुत्रं कषितिं जग्मुः शरास ततः
तस्य पार्थॊ धनुश छित्त्वा शरावापं निहत्य च
लाडयन्न इव राजानं भगदत्तम अयॊधयत
सॊ ऽरकरश्मि निभांस तीक्ष्णांस तॊमरान वै चतुर्दश
परेरयत सव्यसाची तांस तरिधैकैकम अथाच्छिनत
ततॊ नागस्य तद वर्म वयधमत पाकशासनिः
शरजालेन स बभौ वयभ्रः पर्वतराड इव
ततः पराग्ज्यॊतिषः शक्तिं हेमदण्डाम अयस्मयीम
वयसृजद वासुदेवाय दविधा ताम अर्जुनॊ ऽचछिनत
ततश छत्रं धवजं चैव छित्त्वा राज्ञॊ ऽरजुनः शरैः
विव्याध दशभिस तूर्णम उत्स्मयन पर्वताधिपम
सॊ ऽतिविद्धॊ ऽरजुन शरैः सुपुङ्खैः कङ्कपत्रिभिः
भगदत्तस ततः करुद्धः पाण्डवस्य महात्मनः
वयसृजत तॊमरान मूर्ध्नि शवेताश्वस्यॊन्ननाद च
तैर अर्जुनस्य समरे किरीटं परिवर्तितम
परिवृत्तं किरीटं तं यमयन्न एव फल्गुनः
सुदृष्टः करियतां लॊक इति राजानम अब्रवीत
एवम उक्तस तु संक्रुद्धः शरवर्षेण पाण्डवम
अभ्यवर्षत स गॊविन्दं धनुर आदाय भस्वरम
तस्य पार्थॊ धनुश छित्त्वा तूणीरान संनिकृत्य च
तवरमाणॊ दविसप्तत्या सर्वमर्मस्व अताडयत
विद्धस तथाप्य अव्यथितॊ वैष्णवास्त्रम उदीरयन
अभिमन्त्र्याङ्कुशं करुद्धॊ वयसृजत पाण्डवॊरसि
विसृष्टं भगदत्तेन तद अस्त्रं सर्वघातकम
उरसा परतिजग्राह पार्थं संछाद्य केशवः
वैजयन्त्य अभवन माला तद अस्त्रं केशवॊरसि
ततॊ ऽरजुनः कलान्तमनाः केशवं परत्यभाषत
अयुध्यमानस तुरगान संयन्तास्मि जनार्दन
इत्य उक्त्वा पुण्डरीकाक्ष परतिज्ञां सवां न रक्षसि
यद्याहं वयसनी वा सयाम अशक्तॊ वा निवारणे
ततस तवयैवं कार्यं सयान न तु कार्यं मयि सथिते
स बाणः सधनुश चाहं स सुरासुरमानवान
शक्तॊ लॊकान इमाञ जेतुं तच चापि विदितं तव
ततॊ ऽरजुनं वासुदेवः परत्युवाचार्थवद वचः
शृणु गुह्यम इदं पार्थ यथावृत्तं पुरानघ
चतुर्मूर्तिर अहं शश्वल लॊकत्राणार्थम उद्यतः
आत्मानं परविभज्येह लॊकानां हितम आदधे
एका मूर्तिस तपश्चर्यां कुरुते मे भुवि सथिता
अपरा पश्यति जगत कुर्वाणं साध्वसाधुनी
अपरा कुरुते कर्म मानुषं लॊकम आश्रिता
शेते चतुर्थी तव अपरा निद्रां वर्षसहस्रिकाम
यासौ वर्षसहस्रान्ते मूर्तिर उत्तिष्ठते मम
वरार्हेभ्यॊ वराञ शरेष्ठांस तस्मिन काले ददाति सा
तं तु कालम अनुप्राप्तं विदित्वा पृथिवी तदा
परायाचत वरं यं मां नरकार्थाय तं शृणु
देवानाम असुराणां च अवध्यस तनयॊ ऽसतु मे
उपेतॊ वैष्णवास्त्रेण तन मे तवं दातुम अर्हसि
एवं वरम अहं शरुत्वा जगत्यास तनये तदा
अमॊघम अस्त्रम अददं वैष्णवं तद अहं पुरा
अवॊचं चैतद अस्त्रं वै हय अमॊघं भवतु कषमे
नरकस्याभिरक्षार्थं नैनं कश चिद वधिष्यति
अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः
भविष्यति दुराधर्षः सर्वलॊकेषु सर्वदा
तथेत्य उक्त्वा गता देवी कृतकामा मनस्विनी
स चाप्य आसीद दुराधर्षॊ नरकः शत्रुतापनः
तस्मात पराग्ज्यॊतिषं पराप्तं तद अस्त्रं पार्थ मामकम
नास्यावध्यॊ ऽसति लॊकेषु सेन्द्ररुद्रेषु मारिष
तन मया तवत्कृतेनैतद अन्यथा वयपनाशितम
वियुक्तं परमास्त्रेण जहि पार्थ महासुरम
वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम
यथाहं जघ्निवान पूर्वं हितार्थं नरकं तथा
एवम उक्तस ततः पार्थः केशवेन महात्मना
भगदत्तं शितैर बाणैः सहसा समवाकिरत
ततः पार्थॊ महाबाहुर असंभ्रान्तॊ महामनाः
कुम्भयॊर अन्तरे नागं नाराचेन समार्पयत
समासाद्य तु तं नागं बाणॊ वज्र इवाचलम
अभ्यगात सह पुङ्खेन वल्मीकम इव पन्नगः
स तु विष्टभ्य गात्राणि दन्ताभ्याम अवनिं ययौ
नदन्न आर्तस्वरं पराणान उत्ससर्ज महाद्विपः
ततश चन्द्रार्धबिम्बेन शरेण नतपर्वणा
बिभेद हृदयं राज्ञॊ भगदत्तस्य पाण्डवः
स भिन्नहृदयॊ राजा भगदत्तः किरीटिना
शरासनं शरांश चैव गतासुः परमुमॊच ह
शिरसस तस्य विभ्रष्टः पपात च वराङ्कुशः
नालताडन विभ्रष्टं पलाशं नलिनाद इव
स हेममाली तपनीयभाण्डात; पपात नागाद गिरिसंनिकाशात
सुपुष्पितॊ मारुतवेगरुग्णॊ; महीधराग्राद इव कर्णिकारः
निहत्य तं नरपतिम इन्द्र विक्रमं; सखायम इन्द्रस्य तथैन्द्रिर आहवे
ततॊ ऽपरांस तव जयकाङ्क्षिणॊ नरान; बभञ्ज वायुर बलवान दरुमान इव
[स]
परियम इन्द्रस्य सततं सखायम अमितौजसम
हत्वा पराग्ज्यॊतिषं पार्थः परदक्षिणम अवर्तत
ततॊ गान्धारराजस्य सुतौ परपुरंजयौ
आर्छेताम अर्जुनं सख्ये भरातरौ वृषकाचलौ
तौ समेत्यार्जुनं वीरौ पुरः पश्चाच च धन्विनौ
अविध्येतां महावेगैर निशितैर आशुगैर भृशम
वृषकस्य हयान सूतं धनुश छत्रं रथं धवजम
तिलशॊ वयधमत पार्थः सौबलस्य शितैः शरैः
ततॊ ऽरजुनः शरव्रातैर नानाप्रहरणैर अपि
गान्धारान वयाकुलांश चक्रे सौबल परमुखान पुनः
ततः पञ्चशतान वीरान गान्धारान उद्यतायुधान
पराहिणॊन मृत्युलॊकाय करुद्धॊ बाणैर धनंजयः
हताश्वात तु रथात तूर्णम अवतीर्य महाभुजः
आरुरॊह रथं भरातुर अन्यच च धनुर आददे
ताव एकरथम आरूढौ भरातरौ वृषकाचलौ
शरवर्षेण बीभत्सुम अविध्येतां पुनः पुनः
सयालौ तव महात्मानौ राजानौ वृषकाचलौ
भृशं निजघ्नतुः पार्थम इन्द्रं वृत्रबलाव इव
लब्धलक्ष्यौ तु गान्धाराव अहतां पाण्डवं पुनः
निदाघवार्षिकौ मासौ लॊकं घर्माम्बुभिर यथा
तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ
संश्लिष्टाङ्गौ सथितौ राजञ जघानैकेषुणार्जुनः
तौ रथात समिह संकाशौ लॊहिताक्षौ महाभुजौ
गतासू पेततुर वीरौ सॊदर्याव एकलक्षणौ
तयॊर देहौ रथाद भूमिं गतौ बन्धुजनप्रियौ
यशॊ दश दिशः पुण्यं गमयित्वा वयवस्थितौ
दृष्ट्वा विनिहतौ संख्ये मातुलाव अपलायिनौ
भृशं मुमुचुर अश्रूणि पुत्रास तव विशां पते
निहतौ भरातरौ दृष्ट्वा माया शतविशारदः
कृष्णौ संमॊहयन मायां विदधे शकुनिस ततः
लगुणायॊ गुडाश्मानः शतघ्न्यश च स शक्तयः
गदापरिघनिस्त्रिंश शूलमुद्गर पाट्टिशाः
स कम्पनर्ष्टि नखरा मुसलानि परश्वधाः
कषुराः कषुर परनालीका वत्सदन्तास तरिसंधिनः
चक्राणि विशिखाः परासा विविधान्य आयुधानि च
परपेतुः सर्वतॊ दिग्भ्यः परदिग्भ्यश चार्जुनं परति
खरॊष्ट्रमहिषाः सिंहा वयाघ्राः सृमर चिल्लिकाः
ऋक्षाः सालावृका गृध्राः कपयॊ ऽथ सरीसृपाः
विविधानि च रक्षांसि कषुधितान्य अर्जुनं परति
संक्रुद्धान्य अभ्यधावन्त विविधानि वयांसि च
ततॊ दिव्यास्त्रविच छूरः कुन्तीपुत्रॊ धनंजयः
विसृजन्न इषुजालानि सहसा तान्य अताडयत
ते हन्यमानाः शूरेण परवरैः सायकैर दृढैः
विरुवन्तॊ महारावान विनेशुः सर्वतॊ हताः
ततस तमः परादुरभूद अर्जुनस्य रथं परति
तस्माच च तमसॊ वाचः करूराः पार्थम अभर्त्सयन
तत तमॊ ऽसत्रेण महता जयॊतिषेणार्जुनॊ ऽवधीत
हते तस्मिञ जलौघास तु परादुरासन भयानकाः
अम्भसस तस्य नाशार्थम आदित्यास्त्रम अथार्जुनः
परायुङ्क्ताम्भस ततस तेन परायशॊ ऽसत्रेण शॊषितम
एवं बहुविधा मायाः सौबलस्य कृताः कृताः
जघानास्त्र बलेनाशु परहसन्न अर्जुनस तदा
तथा हतासु मायासु तरस्तॊ ऽरजुन शराहतः
अपायाज जवनैर अश्वैः शकुनिः पराकृतॊ यथा
ततॊ ऽरजुनॊ ऽसत्रविच छरैष्ठ्यं दर्शयन्न आत्मनॊ ऽरिषु
अभ्यवर्षच छरौघेण कौरवाणाम अनीकिनीम
सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी
दवैधी भूता महाराज गङ्गेवासाद्य पर्वतम
दरॊणम एवान्वपद्यन्त के चित तत्र महारथाः
के चिद दुर्यॊधनं राजन्न अर्द्यमानाः किरीटिना
नापश्याम ततस तव एतत सैन्यं वै तमसावृतम
गाण्डीवस्य च निर्घॊषः शरुतॊ दक्षिणतॊ मया
शङ्खदुन्दुभिनिर्घॊषं वादित्राणां च निस्वनम
गाण्डीवस्य च निर्घॊषॊ वयतिक्रम्यास्पृशद दिवम
ततः पुनर दक्षिणतः संग्रामश चित्रयॊधिनाम
सुयुद्धम अर्जुनस्यासीद अहं तु दरॊणम अन्वगाम
नानाविधान्य अनीकानि पुत्राणां तव भारत
अर्जुनॊ वयधमत काले दिवीवाभ्राणि मारुतः
तं वासवम इवायान्तं भूरिवर्षशरौघिणम
महेष्वासं नरव्याघ्रं नॊग्रं कश चिद अवारयत
ते हन्यमानाः पार्थेन तवदीया वयथिता भृशम
सवान एव बहवॊ जघ्नुर विद्रवन्तस ततस ततः
ते ऽरजुनेन शरा मुक्ताः कङ्कपत्रास तनुच्छिदः
शलभा इव संपेतुः संवृण्वाना दिशॊ दश
तुरगं रथिनं नागं पदातिम अपि मारिष
विनिर्भिद्य कषितिं जग्मुर वल्मीकम इव पन्नगाः
न च दवितीयं वयसृजत कुञ्जराश्वनरेषु सः
पृथग एकशरारुग्णा निपेतुस ते गतासवः
हतैर मनुष्यैस तुरगैश च सर्वतः; शराभिवृष्टैर दविरदैश च पातितैः
तदा शवगॊमायु बडाभिनादितं; विचित्रम आयॊध शिरॊ बभूव ह
पिता सुतं तयजति सुहृद वरं सुहृत; तथैव पुत्रः पितरं शरातुरः
सवरक्षणे कृतमतयस तदा जनास; तयजन्ति वाहान अपि पार्थ पीडिताः
[धृ]
तेष्व अनीकेषु भग्नेषु पाण्डुपुत्रेण संजय
चलितानां दरुतानां च कथम आसीन मनॊ हि वः
अनीकानां परभग्नानां वयवस्थानम अपश्यताम
दुष्करं पतिसंधानं तन ममाचक्ष्व संजय
[स]
तथापि तव पुत्रस्य परियकामा विशां पते
यशः परवीरा लॊकेषु रक्षन्तॊ दरॊणम अन्वयुः
समुद्यतेषु शस्त्रेषु संप्राप्ते च युधिष्ठिरे
अकुर्वन्न आर्य कर्माणि भैरवे सत्यभीतवत
अन्तरं भीमसेनस्य परापतन्न अमितौजसः
सात्यकेश चैव शूरस्य धृष्टद्युम्नस्य चाभिभॊ
दरॊणं दरॊणम इति करूराः पाञ्चालाः समचॊदयन
मा दरॊणम इति पुत्रास ते कुरून सर्वान अचॊदयन
दरॊणं दरॊणम इति हय एके मा दरॊणम इति चापरे
कुरूणां पाण्डवानां च दरॊण दयूतम अवर्तत
यं यं सम भजते दरॊणः पाञ्चालानां रथव्रजम
तत्र तत्र सम पाञ्चाल्यॊ धृष्टद्युम्नॊ ऽथ धीयते
यथाभागविपर्यासे संग्रामे भैरवे सति
वीराः समासदन वीरान अगच्छन भीरवः परान
अकम्पनीयाः शत्रूणां बभूवुस तत्र पाण्डवाः
अकम्पयंस तव अनीकानि समरन्तः कलेशम आत्मनः
ते तव अमर्षवशं पराप्ता हरीमन्तः सवत्त्व चॊदिताः
तयक्त्वा पराणान नयवर्तन्त घनन्तॊ दरॊणं महाहवे
अयसाम इव संपातः शिलानाम इव चाभवत
दीव्यतां तुमुले युद्धे पराणैर अमिततेजसाम
न तु समरन्ति संग्रामम अपि वृद्धास तथाविधम
दृष्टपूर्वं महाराज शरुतपूर्वम अथापि वा
पराकम्पतेव पृथिवी तस्मिन वीरावसादने
परवर्तता बलौघेन महता भारपीडिता
घूर्णतॊ हि बलौघस्य दिवं सतब्ध्वेव निस्वनः
अजातशत्रॊः करुद्धस्य पुत्रस्य तव चाभवत
समासाद्य तु पाण्डूनाम अनीकानि सहस्रशः
दरॊणेन चरता संख्ये परभग्नानि शितैः शरैः
तेषु परमथ्यमानेषु दरॊणेनाद्भुत कर्मणा
पर्यवारयद आसाद्य दरॊणं सेनापतिः सवयम
तद अद्भुतम अभूद युद्धं दरॊण पाञ्चाल्ययॊस तदा
नैव तस्यॊपमा का चित संभवेद इति मे मतिः
ततॊ नीलॊ ऽनलप्रख्यॊ ददाह कुरु वाहिनीम
शरस्फुलिङ्गश चापार्चिर दहन कक्षम इवानलः
तं दहन्तम अनीकानि दरॊणपुत्रः परतापवान
पूर्वाभिभाषी सुश्लक्ष्णं समयमानॊ ऽभयभाषत
नीलकिं बहुभिर दग्धैस तव यॊधैः शरार्चिषा
मयैकेन हि युध्यस्व करुद्धः परहरचाशुगैः
तं पद्मनिकराकारं पद्मपत्र निभेक्षणम
वयाकॊशपद्माभ मुखं नीलॊ विव्याध सायकैः
तेनातिविद्धः सहसा दरौणिर भल्लैः शितैस तरिभिः
धनुर धवजं च छत्रं च दविषतः स नयकृन्तत
सॊत्प्लुत्य सयन्दनात तस्मान नीलश चर्म वरासिधृक
दरॊणायनेः शिरः कायाद धर्तुम ऐच्छत पतत्रिवत
तस्यॊद्यतासेः सुनसं शिरः कायात सकुण्डलम
भल्लेनापाहरद दरौणिः समयमान इवानघ
संपूर्णचन्द्राभमुखः पद्मपत्र निभेक्षणः
परांशुर उत्पलगर्भाभॊ निहतॊ नयपतत कषितौ
ततः परविव्यथे सेना पाण्डवी भृशम आकुला
आचार्य पुत्रेण हते नीले जवलिततेजसि
अचिन्तयंश च ते सर्वे पाण्डवानां महारथाः
कथं नॊ वासविस तरायाच छत्रुभ्य इति मारिष
दक्षिणेन तु सेनायाः कुरुते कदनं बली
संशप्तकावशेषस्य नारायण बलस्य च
[स]
परतिघातं तु सैन्यस्य नामृष्यत वृकॊदरः
सॊ ऽभिनद बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः
तस्य दरॊणः शितैर बाणैस तीक्ष्णधारैर अयस्मयैः
जीवितान्तम अभिप्रेप्सुर मर्मण्य आशु जघान ह
कर्णॊ दवादशभिर बाणैर अश्वत्थामा च सप्तभिः
षड्भिर दुर्यॊधनॊ राजा तत एनम अवाकिरत
भीमसेनॊ ऽपि तान सर्वान परत्यविध्यन महाबलः
दरॊणं पञ्चाशतेषूणां कर्मं च दशभिः शरैः
दुर्यॊधनं दवादशभिर दरौणिं चाष्टाभिर आशुगैः
आरावं तुमुलं कुर्वन्न अभ्यवर्तत तान रणे
तस्मिन संत्यजति पराणान मृत्युसाधारणी कृते
अजातशत्रुस तान यॊधान भीमं तरातेत्य अचॊदयत
ते ययुर भीमसेनस्य समीपम अमितौजसः
युयुधानप्रभृतयॊ माद्रीपुत्रौ च पाण्डवौ
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः
महेष्वास वरैर गुप्तं दरॊणानीकं बिभित्सवः
समापेतुर महावीर्या भीमप्रभृतयॊ रथाः
तान पर्त्यगृह्णाद अव्यग्रॊ दरॊणॊ ऽपि रथिनां वरः
महाबलान अतिरथान वीरान समरशॊभिनः
बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान ययुः
सादिनः सादिनॊ ऽभयघ्नंस तथैव रथिनॊ रथान
आसीच छक्त्य असि संपातॊ युद्धम आसीत परश्वधैः
निकृष्टम असियुद्धं च बभूव कटुकॊदयम
कुञ्जराणांच संघातैर युद्धम आसीत सुदारुणम
अपतत कुञ्जराद अन्यॊ हयाद अन्यस तव अवाक्शिराः
नरॊ बाणेन निर्भिन्नॊ रथाद अन्यश च मारिष
तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः
शिरः परध्वंसयाम आस वक्षस्य आक्रम्य कुञ्जरः
अपरे ऽपय अपराञ जघ्नुर वारणाः पतितान नरान
विषाणैश चावनिं गत्वा वयभिन्दन रथिनॊ बहून
नरान्त्रैः के चिद अपरे विषाणालग्न संस्रवैः
बभ्रमुः शतशॊ नागा मृद्नन्तः शतशॊ नरान
कांस्यायस तनुत्राणान नराश्वरथकुञ्जरान
पतितान पॊथयां चक्रुर दविपाः सथूलनडान इव
गृध्रपत्राधिवासांसि शयनानि नराधिपाः
हरीमन्तः कालसंपक्वाः सुदुःखान्य अधिशेरते
हन्ति समात्र पिता पुत्रं रथेनाभ्यतिवर्तते
पुत्रश च पितरं मॊहान निर्मर्यादम अवर्तत
अक्षॊ भग्नॊ धवजश छिन्नश छत्रम उर्व्यां निपातितम
युगार्धं छिन्नम आदाय परदुद्राव तथा हयः
सासिर बाहुर निपतितः शिरश छिन्नं सकुण्डलम
गजेनाक्षिप्य बलिना रथः संचूर्णितः कषितौ
रथिना ताडितॊ नागॊ नाराचेनापतद वयसुः
सारॊहश चापतद वाजी गजेनाताडितॊ भृशम
निर्मर्यादं महद युद्धम अवर्तत सुदारुणम
हा तात हा पुत्र सखे कवासि तिष्ठ कव धावसि
परहराहर जह्य एनं समितक्ष्वेडित गर्जितैः
इत्य एवम उच्चरन्त्यः सम शरूयन्ते विविधा गिरः
नरस्याश्वस्य नागस्य समसज्जत शॊणितम
उपाशाम्यद रजॊ भौमं भीरून कश्मलम आविशत
आसीत केशपरामर्शॊ मुष्टियुद्धं च दारुणम
नखैर दन्तैश च शूराणमाद्वीपे दवीपम इच्छताम
तत्राच्छिद्यत वीरस्य स खड्गॊ बाहुर उद्यतः
सधनुश चापरस्यापि स शरः साङ्कुशस तथा
पराक्रॊशद अन्यम अन्यॊ ऽतर तथान्यॊ विमुखॊ ऽदरवत
अन्यः पराप्तस्य चान्यस्य शिरः कायाद अपाहरत
शब्दम अभ्यद्रवच चान्यः शब्दाद अन्यॊ ऽदरवद भृशम
सवान अन्यॊ ऽथ परान अन्यॊ जघान निशितैः शरैः
गिरिशृङ्गॊपमश चात्र नाराचेन निपातितः
मातङ्गॊ नयपतद भूमौ नदी रॊध इवॊष्णगे
तथैव रथिनं नागः कषरन गिरिर इवारुजत
अध्यतिष्ठत पदा भूमौ सहाश्वं सह सारथिम
शूरान परहरतॊ दृष्ट्वा कृतास्त्रान रुधिरॊक्षितान
बहून अप्य आविशन मॊहॊ भीरून हृदयदुर्बलान
सर्वम आविग्नम अभवन न पराज्ञायत किं चन
सैन्ये च रजसा धवस्ते निर्मर्यादम अवर्तत
ततः सेनापतिः शीघ्रम अयं काल इति बरुवन
नित्याभित्वरितान एव तवरयाम आस पाण्डवान
कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः
सरॊ हंसा इवापेतुर घनन्तॊ दरॊण रथं परति
गृह्णीताद्रवतान्यॊन्यं विभीता विनिकृन्तत
इत्य आसीत तुमुलः शब्दॊ दुर्धर्षस्य रथं परति
ततॊ दरॊणः कृपः कर्णॊ दरौणी राजा जयद्रथः
विन्दानुविन्दाव अवन्त्यौ शल्यश चैनान अवारयत
ते तव आर्य धर्मसंरब्धा दुर्निवार्या दुरासदाः
शरार्ता न जुहुर दरॊणं पाञ्चालाः पाण्डवैः सह
ततॊ दरॊणॊ ऽभिसंक्रुद्धॊ विसृजञ शतशः शरान
चेदिपाञ्चालपाण्डूनाम अकरॊत कदनं महत
तस्य जयातलनिर्घॊषः शुश्रुवे दिक्षु मारिष
वज्रसंघात संकाशस तरासयन पाण्डवान बहून
एतस्मिन्न अन्तरे जिष्णुर हत्वा संशप्तकान बली
अब्ययात तत्र यत्र सम दरॊणः पाण्डुन परमर्दति
तं शरौघमहावर्तं शॊणितॊदं महाह्रदम
तीर्णः संशप्तकान हत्वा परत्यदृश्यत फल्गुनः
तस्य कीर्तिमतॊ लक्ष्म सूर्यप्रतिम तेजसः
दीप्यमानम अपश्याम तेजसा वानरध्वजम
संशप्तकसमुद्रं तम उच्छॊष्यास्त्र गभस्तिभिः
स पाण्डव युगान्तार्कः कुरून अप्य अभ्यतीतपत
परददाह कुरून सर्वान अर्जुनः शस्र तेजसा
युगान्ते सर्वभूतानि धूमकेतुर इवॊत्थितः
तेन बाणसहस्रौघैर गजाश्वरथयॊधिनः
ताड्यमानाः कषितिं जग्मुर मुक्तशस्त्राः शरार्दिताः
के चिद आर्तस्वरं चक्रुर विनेदुर अपरे पुनः
पार्थ बाणहता एक्चिन निपेतुर विगतासवः
तेषाम उत्पततां कांश चित पतितांश च पराङ्मुखान
न जघानार्जुनॊ यॊधान यॊधव्रतम अनुस्मरन
ते विशीर्णरथाश्वेभाः परायशश च पराङ्मुखाः
कुरवः कर्ण कर्णेति हाहेति च विचुक्रुशुः
तम आधिरथिर आक्रन्दं विज्ञाय शरणैषिणाम
मा भैष्टेति परतिश्रुत्य ययाव अभिमुखॊ ऽरजुनम
स भारत रथश्रेष्ठः सर्वभारत हर्षणः
परादुश्चक्रे तद आग्नेयम अस्त्रम अस्त्रविदां वरः
तस्य दीप्तशरौघस्य दीपचाप धरस्य च
शरौघाञ शरजालेन विदुधाव धनंजयः
अस्त्रम अस्त्रेण संवार्य पराणदद विसृजञ शरान
धृष्टद्युम्नश च भीमश च सात्यकिश च महारथः
विव्यधुः कर्णम आसाद्य तरिभिस तरिभिर अजिह्मगैः
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः
तेषां तरयाणां चापानि चिच्छेद विशिखैस तरिभिः
ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव
रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन
ता भुजाग्रैर महावेगा विसृष्टा भुजगॊपमाः
दीप्यमाना महाशक्त्यॊ जग्मुर आधिरथिं परति
ता निकृत्य शितैर बाणैस तरिभिस तरिभिर अजिह्मगैः
ननाद बलवान कर्णः पार्थाय विसृजञ शरान
अर्जुनश चापि राधेयं विद्ध्वा सप्तभिर आशुगैः
कर्णाद अवरजं बाणैर जघान निशितैस तरिभिः
ततः शत्रुंजयं हत्वा पार्थः षड्भिर अजिह्मगैः
जहार सद्यॊ भल्लेन विपाटस्य शिरॊ रथात
पश्यतां धार्तराष्ट्राणाम एकेनैव किरीटिना
परमुखे सूतपुत्रस्य सॊदर्या निहतास तरयः
ततॊ भीमः समुत्पत्य सवरथाद वैनतेयवत
वरासिना कर्ण पक्षाञ जघान दश पञ्च च
पुनः सवरथम आस्थाय धनुर आदाय चापरम
विव्याध दशभिः कर्णं सूतम अश्वांश च पञ्चभिः
धृष्टद्युम्नॊ ऽय असि वरं कर्म चादाय भास्वरम
जघान चन्द्र वर्माणं बृहत कषत्रं च पौरवम
ततः सवरथम आस्थाय पाञ्चाल्यॊ ऽनयच च कार्मुकम
आदाय कर्णं विव्याध तरिसप्तत्या नदन रणे
शैनेयॊ ऽपय अन्यद आदाय धनुर इन्द्रायुधद्युति
सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत
भल्लभ्यां साधु मुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम
पुनः कर्णं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत
ततॊ दुर्यॊघनॊ दरॊणॊ राजा चैव जयद्रथः
निमज्जमानं राधेयम उज्जह्रुः सात्यकार्णवात
धृष्टद्युम्नश च भीमश च सौभद्रॊ ऽरजुन एव च
नकुलः सहदेवश च सात्यकिं जुगुपू रणे
एवम एष महारौद्रः कषयार्थं सर्वधन्विनाम
तावकानां परेषां च तयक्त्वा पराणान अभूद रणः
पदातिरथनागाश्वैर गजाश्वरथपत्तयः
रथिनॊ नागपत्त्यश्वै रथपत्ती रथद्विपैः
अश्वैर अश्वा गजैर नागा रथिनॊ रथिभिः सह
संसक्ताः समदृश्यन्त पत्तयश चापि पत्तिभिः
एवं सुकलिलं युद्धम आसीत करव्यादहर्षणम
महद्भिस तैर अभीतानां यम राष्ट्रविवर्धनम
ततॊ हता नररथवाजि कुञ्जरैर; अनेकशॊ दविपरथवाजि पत्तयः
गजैर गजा रथिभिर उदायुधा रथा; हयैर हयाः पत्तिगणैश च पत्तयः
रथैर दविपा दविरदवरैर महाहया; हयैर नरा वररथिभिश च वाजिनः
निरस्तजिह्वा दशनेक्षणाः कषितौ; कषयं गताः परमथित वर्म भूषणाः
तथा परैर बहु करणैर वरायुधैर; हता गताः परतिभय दर्शनाः कषितिम
विपॊथिता हयगजपादताडिता; भृशाकुला रथखुर नेमिभिर हताः
परमॊदने शवापद पक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे
महाबलास ते कुपिताः परस्परं; निषूदयन्तः परविचेरुर ओजसा
ततॊ बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसंप्लुते
दिवाकरे ऽसतं गिरिम आस्थिते शनैर; उभे परयाते शिबिराय भारत
[स]
पूर्वम अस्मासु भग्नेषु फल्गुनेनामितौजसा
दरॊणे च मॊघसंकल्पे रक्षिते च युधिष्ठिरे
सर्वे विध्वस्तकवचास तावका युधि निर्जिताः
रजस्वला भृशॊद्विग्ना वीक्षमाणा दिशॊ दश
अवहारं ततः कृत्वा भारद्वाजस्य संमते
लब्धलक्ष्यैः परैर दीना भृशावहसिता रणे
शलाघमानेषु भूतेषु फल्गुनस्यामितान गुणान
केशवस्य च सौहार्दे कीर्त्यमाने ऽरजुनं परति
अभिशस्ता इवाभूवन धयानमूकत्वम आस्थिताः
ततः परभातसमये दरॊणं दुर्यॊधनॊ ऽबरवीत
परणयाद अभिमानाच च दविषद वृद्ध्या च दुर्मनाः
शृण्वतां सर्वभूतानां संरब्धॊ वाक्यकॊविदः
नूनं वयं वध्य पक्षे भवतॊ बरह्मवित्तम
तथा हि नाग्रहीः पराप्तं समीपे ऽदय युधिष्ठिरम
इच्छतस ते न मुच्येत चक्षुः पराप्तॊ रणे रिपुः
जिघृक्षतॊ रक्ष्यमाणः सामरैर अपि पाण्डवैः
वरं दत्त्वा मम परीतः पश्चाद विकृतवान असि
आशा भङ्गं न कुर्वन्ति भक्तस्यार्याः कथं चन
ततॊ ऽपरीतिस तथॊक्तः स भारद्वाजॊ ऽबरवीन नृपम
नार्हसे मान्यथा जञातुं घटमानं तव परिये
स सुरासुरगन्धर्वाः स यक्षॊरग राक्षसाः
नालं लॊका रणे जेतुं पाल्यमानं किरीटिना
विश्वसृग यत्र गॊविन्दः पृतनारिस तहार्जुनः
तत्र कस्य बलं करामेद अन्यत्र तर्यम्बकात परभॊः
सत्यं तु ते बरवीम्य अद्य नैतज जात्व अन्यथा भवेत
अद्यैषां परवरं वीरं पातयिष्ये महारथम
तं च वयूहं विधास्यामि यॊ ऽभेद्यस तरिदशैर अपि
यॊगेन केन चिद राजन्न अर्जुनस तव अपनीयताम
न हय अज्ञातम असाध्यं वा तस्य संख्ये ऽसति किं चन
तेन हय उपात्तं बलवत सर्वज्ञानम इतस ततः
दरॊणेन वयाहृते तव एवं संशप्तकगणाः पुनः
आह्वयन्न अर्जुनं संख्ये दक्षिणाम अभितॊ दिशम
तत्रार्जुनस्याथ परैः सार्धं समभवद रणः
तादृशॊ यादृशॊ नान्यः शरुतॊ दृष्टॊ ऽपि वा कव चित
ततॊ दरॊणेन विहितॊ राजन वयूहॊ वयरॊचत
चरन मध्यं दिने सूर्यः परतपन्न इव दुर्दृशः
तं चाभिमन्युर वचनात पितुर जयेष्ठस्य भारत
बिभेद दुर्भिदं संख्ये चक्रव्यूहम अनेकधा
स कृत्वा दुष्करं कर्महत्वा वीरान सहस्रशः
षट्सु वीरेषु संसक्तॊ दौःशासनि वशंगतः
वयं परमसंहृष्टाः पाण्टवाः शॊककर्शिताः
सौभद्रे निहते राजन्न अवहारम अकुर्वत
[धृ]
पुत्रं पुरुषसिंहस्य संजयाप्राप्त यौवनम
रणे विनिहतं शरुत्वा भृशं मे दीर्यते मनः
दारुणः कषत्रधर्मॊ ऽयं विहितॊ धर्मकर्तृभिः
यत्र राज्येप्सवः शूरा बाले शस्त्रम अपातयन
बालम अत्यन्तसुखिनं विचरन्तम अभीतवत
कृतास्त्रा बहवॊ जघ्नुर बरूहि गावल्गणे कथम
बिभित्सता रथानीकं सौभद्रेणामितौजसा
विक्रीडितं यथा संख्ये तन ममाचक्ष्व संजय
[स]
यन मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम
तत ते कार्त्स्न्येन वक्ष्यामि शृणु राजन समाहितः
विक्रीडितं कुमारेण यथानीकं बिभित्सता
दावाग्न्यभिपरीतानां भूरि गुल्मतृणद्रुमे
वनौकसाम इवारण्ये तवदीयानाम अभूद भयम
[स]
समरे ऽतयुग्र कर्माणः कर्मभिर वयञ्जित शरमाः
स कृष्णाः पाण्डवाः पञ्च देवैर अपि दुरासदाः
सत्त्वकर्मान्वयैर बुद्ध्या परकृत्या यशसा शरिया
नैव भूतॊ न भविता कृष्ण तुल्यगुणः पुमान
सत्यधर्मपरॊ दाता विप्र पूजादिभिर गुणैः
सदैव तरिदिवं पराप्तॊ राजा किल युधिष्ठिरः
युगान्ते चान्तकॊ राजञ जामदग्न्यश च वीर्यवान
रणस्थॊ भीमसेनश च कथ्यन्ते सदृशास तरयः
परतिज्ञा कर्म दक्षस्य रणे गाण्डीवधन्वनः
उपमां नाधिगच्छामि पार्थस्य सदृशीं कषितौ
गुरु वात्सल्यम अत्यन्तं नैभृत्यं विनयॊ दमः
नकुले ऽपरातिरूप्यं च शौल्यं च नियतानि षट
शरुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः
सदृशॊ देवयॊर वीरः सहदेवः किलाश्विनॊः
ये च कृष्णे गुणाः सफीताः पाण्डवेषु च ये गुणाः
अभिमन्यौ किलैकस्था दृश्यन्ते गुणसंचयाः
युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च
कर्मभिर भीमसेनस्य सदृशॊ भीमकर्मणः
धनंजयस्य रूपेण विक्रमेण शरुतेन च
विनयात सहदेवस्य सदृशॊ नकुलस्य च
[धृ]
अभिमन्युम अहं सूत सौभद्रम अपराजितम
शरॊतुम इच्छामि कार्त्स्न्येन कथम आयॊधने हतः
[स]
चक्रव्यूहॊ महाराज आचार्येणाभिकल्पितः
तत्र शक्रॊपमाः सर्वे राजानॊ विनिवेशिताः
संघातॊ राजपुत्राणां सर्वेषाम अभवत तदा
कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः
सर्वे रक्तपताकाश च सर्वे वै हेममालिनः
तेषां दशसहस्राणि बभूवुर दृढधन्विनाम
पौत्रं तव पुरस्कृत्य लक्ष्मणं परियदर्शनम
अन्यॊन्यसमदुःखास ते अन्यॊन्यसमसाहसाः
अन्यॊन्यं सपर्धमानाश च अन्यॊन्यस्य हिते रताः
कर्ण दुःशासन कृपैर वृतॊ राजा महारथैः
देवराजॊपमः शरीमाञ शवेतच छत्राभिसंवृतः
चामरव्यजनाक्षेपैर उदयन्न इव भास्करः
परमुखे तस्य सैन्यस्य दरॊणॊ ऽवस्थित नायके
सिन्धुराजस तथातिष्ठच छरीमान मेरुर इवाचलः
सिन्धुराजस्य पार्श्वस्था अश्वथाम पुरॊगमाः
सुतास तव महाराज तरिंशत तरिदशसंनिभाः
गान्धारराजः कितवः शल्यॊ भूरिश्रवास तथा
पार्श्वतः सिन्धुराजस्य वयराजन्त महारथाः
[स]
तद अनीकम अनाधृष्यं भारद्वाजेन रक्षितम
पार्थाः समभ्यवर्तन्त भीमसेनपुरॊगमाः
सात्यकिश चेकितानश च धृष्टद्युम्नश च पार्षतः
कुन्तिभॊजश च विक्रान्तॊ दरुपदश च महारथः
आर्जुनिः कषत्रधर्मा च बृहत कषत्रश च वीर्यवान
चेदिपॊ धृष्टकेतुश च माद्रीपुत्रौ घटॊत्कचः
युधामन्युश च विक्रान्तः शिखण्डी चापराजितः
उत्तमौजाश च दुर्धर्षॊ विराटश च महारथः
दरौपदेयाश च संरब्धाः शैशुपालिश च वीर्यवान
केकयाश च महावीर्याः सृञ्जयाश च सहस्रशः
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः
समभ्यधावन सहसा भारद्वाजं युयुत्सवः
समवेतांस तु तान सर्वान भारद्वाजॊ ऽपि वीर्यवान
असंभ्रान्तः शरौघेण महता समवारयत
महौघाः सलिलस्येव गिरिम आसाद्य दुर्भिदम
दरॊणं ते नाभ्यवर्तन्त वेलाम इव जलाशयाः
पीड्यमानाः शरै राजन दरॊण चापविनिःसृतैः
न शेकुः परमुहे सथातुं भारद्वाजस्य पाण्डवाः
तद अद्भुतम अपश्याम दरॊणस्य भुजयॊर बलम
यद एनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह
तम आयान्तम अभिक्रुद्धं दरॊणं दृष्ट्वा युधिष्ठिरः
बहुधा चिन्तयाम आस दरॊणस्य परतिवारणम
अशक्यं तु तम अन्येन दरॊणं मत्वा युधिष्ठिरः
अविषह्य गुरुं भारं सौभद्रे समवासृजत
वासुदेवाद अनवरं फल्गुनाच चामितौजसम
अब्रवीत परवीरघ्नम अभिमन्युम इदं वचः
एत्य नॊ नार्जुनॊ गर्हेद यथा तात तथा कुरु
चक्रव्यूहस्य न वयं विद्म भेदं कथं चन
तवं वार्जुनॊ वा कृष्णॊ वा भिन्द्यात परद्युम्न एव वा
चक्रव्यूहं महाबाहॊ पञ्चमॊ ऽनयॊ न विद्यते
अभिमन्यॊ वरं तात याचतां दातुम अर्हसि
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः
धनंजयॊ हि नस तात गर्हयेद एत्य संयुगात
कषिप्रम अस्त्रं समादाय दरॊणानीकं विशातय
[अभि]
दरॊणस्य दृढम अव्यग्रम अनीक परवरं युधि
पितॄणां जयम आकाङ्क्षन्न अवगाहे भिनद्मि च
उपदिष्टॊ हि मे पित्रा यॊगॊ ऽनीकस्य भेदने
नॊत्सहे तु विनिर्गन्तुम अहं कस्यां चिद आपदि
[य]
भिन्ध्य अनीकं युधा शरेष्ठ दवारं संजनयस्व नः
वयं तवानुगमिष्यामॊ येन तवं तात यास्यसि
धनंजय समं युद्धे तवां वयं तात संयुगे
परणिधायानुयास्यामॊ रक्षन्तः सर्वतॊ मुखाः
[भम]
अहं तवानुगमिष्यामि धृष्टद्युम्नॊ ऽथ सात्यकिः
पाञ्चालाः केकया मत्स्यास तथा सर्वे परभद्रकाः
सकृद भिन्नं तवया वयूहं तत्र तत्र पुनः पुनः
वयं परध्वंसयिष्यामॊ निघ्नमाना वरान वरान
[अभि]
अहम एतत परवेक्ष्यामि दरॊणानीकं दुरासदम
पतंग इव संक्रुद्धॊ जवलितं जातवेदसम
तत कर्माद्य करिष्यामि हितं यद वंशयॊर दवयॊः
मातुलस्य च या परीतिर भविष्यति पितुश च मे
शिशुनैकेन संग्रामे काल्यमानानि संघशः
अद्य दरक्ष्यन्ति भूतानि दविषत सैन्यानि वै मया
[य]
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम
यस तवम उत्सहसे भेत्तुं दरॊणानीकं सुदुर्भिदम
रक्षितं पुरुषव्याघ्रैर महेष्वासैः परहारिभिः
साध्य रुद्र मरुत कल्पैर वस्व अग्न्यादित्यविक्रमैः
[स]
तस्य तद वचनं शरुत्वा स यन्तारम अचॊदयत
सुमित्र अश्वान रणे कषिप्रं दरॊणानीकाय चॊदय
[स]
सौभद्रस तु वचः शरुत्वा धर्मराजस्य धीमतः
अचॊदयत यन्तारं दरॊणानीकाय भारत
तेन संचॊद्यमानस तु याहि याहीति सारथिः
परत्युवाच ततॊ राजन्न अभिमन्युम इदं वचः
अतिभारॊ ऽयम आयुष्मन्न आहितस तवयि पाण्डवैः
संप्रधार्य कषमं बुद्ध्या ततस तवं यॊद्धुम अर्हसि
आचार्य हि कृती दरॊणः परमास्त्रे कृतश्रमः
अत्यन्तसुखसंवृद्धस तवं च युद्धविशारदः
ततॊ ऽभिमन्युः परहसन सारथिं वाक्यम अब्रवीत
सारथे कॊ नव अयं दरॊणः समग्रं कषत्रम एव वा
ऐरावत गतं शक्रं सहामर गणैर अहम
यॊधयेयं रणमुखे न मे कषत्रे ऽदय विस्मयः
न ममैतद दविषत सैन्यं कलाम अर्हति षॊडशीम
अपि विश्वजितं विष्णुं मातुलं पराप्य सूतज
पितरं चार्जुनं संख्ये न भीर माम उपयास्यति
ततॊ ऽभिमन्युस तां वाचं कदर्थी कृत्यसारथेः
याहीत्य एवाब्रवीद एनं दरॊणानीकाय माचिरम
ततः संचॊदयाम आस हयान अस्य तरिहायनान
नातिहृष्ट्त मनाः सूतॊ हेमभाण्ड परिच्छदान
ते परेषिताः सुमित्रेण दरॊणानीकाय वाजिनः
दरॊणम अभ्यद्रवन राजन महावेगपराक्रमाः
तम उदीक्ष्य तथा यानं सर्वे दरॊण पुरॊगमाः
अभ्यवर्तन्त कौरव्याः पाण्डवाश च तम अन्वयुः
स कर्णिकारप्रवरॊच्छ्रितध्वजः; सुवर्णवर्मार्जुनिर अर्जुनाद वरः
युयुत्सया दरॊण मुखान महारथान; समासदत सिंहशिशुर यथा गजान
ते विंशतिपदे यत्ताः संप्रहारं परचक्रिरे
आसीद गाङ्ग इवावर्तॊ मुहूर्तम उदधेर इव
शूराणां युध्यमानानां निघ्नताम इतरेतरम
संग्रामस तुमुलॊ राजन परावर्तत सुदारुणः
परवर्तमाने संग्रामे तस्मिन्न अतिभयं करे
दरॊणस्य मिषतॊ वयूहं भित्त्वा पराविशद आर्जुनिः
तं परविष्टं परान घनन्तं शत्रुमध्ये महाबलम
हस्त्यश्वरथपत्त्यौघाः परिवव्रुर उदायुधाः
नाना वादित्रनिनदैः कष्वेडितॊत्क्रुष्ट गर्जितैः
हुंकारैः सिंहनादैश च तिष्ठ तिष्ठेति निस्वनैः
घॊरैर हलहलाशब्दैर मा गास तिष्ठैहि माम इति
असाव अहम अमुत्रेति परवदन्तॊ मुहुर मुहुः
बृंहितैः शिञ्जितैर हासैः खुरनेमिस्वनैर अपि
संनादयन्तॊ वसुधाम अभिदुद्रुवुर आर्जुनिम
तेषाम आपततां वीरः पूर्वं शीघ्रम अथॊ दृढम
कषिप्रास्त्रॊ नयवधीद वरातान मर्मज्ञॊ मर्मभेदिभिः
ते हन्यमानाश च तथा नाना लिङ्गैः शितैः शरैः
अभिपेतुस तम एवाजौ शलभा इव पावकम
ततस तेषां शरीरैश च शरीरावयवैश च सः
संतस्तार कषितिं कषिप्रं कुशैर वेदिम इवाध्वरे
बद्धगॊधाङ्गुलित्राणान स शरावर कार्मुकान
सासि चर्माङ्कुशाभीशून स तॊमरपरश्वधान
स गुडायॊ मुखप्रासान सर्ष्टि तॊमरपट्टिशान
स भिण्डिपाल परिघान स शक्तिवरकम्पनान
स परतॊदमहाशङ्खान स कुन्तान स कच गरहान
स मुद्गरक्षेपणीयान स पाशपरिघॊपलान
स केयूराङ्गदान बाहून हृद्य गन्धानुलेपनान
संचिच्छेदार्जुनिर वृत्तांस तवदीयानां सहस्रशः
तैः सफुरद्भिर महाराज शुशुभे लॊहितॊक्षितैः
पञ्चास्यैः पन्नगैश छिन्नैर गरुडेनेव मारिष
सुनासानन केशान्तैर अव्रणैश चारुकुण्डलैः
संदष्टौष्ठ पुटैः करॊधात कषरद्भिः शॊणितं बहु
चारुस्रङ्मुकुटॊष्णीषैर मणिरत्नविराजितैः
विनाल नलिनाकारैर दिवाकरशशिप्रभैः
हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः
दविषच छिरॊभिः पृथिवीम अवतस्तार फाल्गुणिः
गन्धर्वनगराकारान विधिवत कल्पितान रथान
वीषा मुखान वित्रिवेणून वयस्तदण्डकबन्धुरान
विजङ्घ कूबराक्षांश च विनेमीननरान अपि
विचक्रॊपस्करॊपस्थान भग्नॊपकरणान अपि
परशातितॊपकरणान हतयॊधान सहस्रशः
शरैर विशकलीकुर्वन दिक्षु सर्वास्व अदृश्यत
पुनर दविपान दविपारॊहान वैजयन्त्य अङ्कुश धवजान
तूणान वर्माण्य अथॊ कक्ष्याग्रैवेयान अथ कम्बलान
घण्टाः शुण्डान विषाणाग्रान कषुर पालान पदानुगान
शरैर निशितधाराग्रैः शात्रवाणाम अशातयत
वनायुजान पार्वतीयान काम्बॊजारट्ट बाह्लिकान
सथिरवालधि कर्णाक्षाञ जनवान साधु वाहिनः
सवारूढाञ शिखितैर यॊधैः शक्त्यृष्टि परासयॊधिभिः
विध्वस्तचामर कुथान विप्रकीर्णप्रकीर्णकान
निरस्तजिह्वा नयनान निष्कीर्णान तरयकृद धनान
हतारॊहान भिन्नभाण्डान करव्यादगणमॊदनान
निकृत्तवर्म कवचाञ शकृन मूत्रासृग आप्लुतान
निपातयन्न अश्ववरांस तावकान सॊ ऽभयरॊचत
एकॊ विष्णुर इवाचिन्त्यः कृत्वा पराक कर्म दुष्करम
तथा विमथितं तेन तर्यङ्गं तव बलं महत
वयहनत स पदात्यॊघांस तवदीयान एव भारत
एवम एकेन तां सेनां सौभद्रेण शितैः शरैः
भृशं विप्रहतां दृष्ट्वास्कन्देनेवासुरीं चमूम
तवदीयास तव पुत्राश च वीक्षमाणा दिशॊ दश
संशुष्कास्याश चलन नेत्राः परस्विन्ना लॊमहर्षणाः
पलायनकृतॊत्साहा निरुत्साहा दविषज जवे
गॊत्र नामभिर अन्यॊन्यं करन्दन्तौ जीवितैषिणः
हतान पुत्रांस तथा पितॄन सुहृत संबन्धिबान्धवान
परातिष्ठन्त समुत्सृज्य तवरयन्तॊ हयद्विपान
[स]
तां परभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा
दुर्यॊधनॊ भृशं करुद्धः सवयं सौभद्रम अभ्ययात
ततॊ राजानम आवृत्तं सौभद्रं परति संयुगे
दृष्ट्वा दरॊणॊ ऽबरवीद यॊधान पर्याप्नुत नराधिपम
पुराभिमन्युर लक्ष्यं नः पश्यतां हन्ति वीर्यवान
तम आद्रवत मा भैष्ट कषिप्रं रक्षत कौरवम
ततः कृतज्ञा बलिनः सुहृदॊ जितकाशिनः
तरास्यमाना भयाद वीरं परिवव्रुस तवात्मजम
दरॊमॊ दरौणिः कृपः कर्णः कृतवर्मा च सौबलः
बृहद्बलॊ मद्रराजॊ भूरिर भूरिश्रवाः शलः
पौरवॊ वृषसेनश च विसृजन्तः शिताञ शरान
सौभ्रद्रं शरवर्षेण महता समवाकिरन
संमॊहयित्वा तम अथ दुर्यॊधनम अमॊचयन
आस्याद गरासम इवाक्षिप्तम अमृषे नार्जुनात्मजः
ताञ शरौघेण महता साश्वसूतान महारथान
विमुखीकृत्य सौभद्रः सिंहनादम अथानदत
तस्य नादं ततः शरुत्वा सिंहस्येवामिषैषिणः
नामृष्यन्त सुसंरब्धाः पुनर दरॊण मुखा रथाः
त एनं कॊष्ठकी कृत्यरथवंशेन मारिष
वयसृजन्न इषुजालानि नाना लिङ्गानि संघशः
तान्य अन्तरिक्षे चिच्छेद पौत्रस तव शितैः शरैः
तांश चैव परतिविव्याध तद अद्भुतम इवाभवत
ततस ते कॊपितास तेन शरैर आशीविषॊपमैः
परिवव्रुर जिघांसन्तः सौभद्रम अपलायिनम
समुद्रम इव पर्यस्तं तवदीयं तद बलार्णवम
अभिमन्युर दधारैकॊ वेलेव मकरालयम
शूराणां युध्यमानानां निघ्नताम इतरेतरम
अभिमन्यॊः परेषां च नासीत कश चित पराङ्मुखः
तस्मिंस तु घॊरे संग्रामे वर्तमाने भयंकरे
दुःसहॊ नवभिर बाणैर अभिमन्युम अविध्यत
दुःशासनॊ दवादशभिः कृपः शारद्वतस तरिभिः
दरॊणस तु सप्त दशभिः शरैर आशीविषॊपमैः
विविंशतिस तु विंशत्या कृतवर्मा च सप्तभिः
बृहद्बलस तथाष्टाभिर अश्वत्थामा च सप्तभिः
भूरिश्रवास तरिभिर बाणैर मद्रेशः षड्भिर आशुगैः
दवाभ्यां शराभ्यां शकुनिस तरिभिर दुर्यॊधनॊ नृपः
स तु तान परतिविव्याध तरिभिस तरिभिर अजिह्मगैः
नृत्यन्न इव महाराज चापहस्तः परतापवान
ततॊ ऽभिमन्युः संक्रुद्धस ताप्यमानस तवात्मजैः
विदर्शयन वै सुमहच छिक्षौरस कृतं बलम
गरुडानिलरंहॊभिर यन्तुर वाक्यकरैर हयैः
दान्तैर अश्मक दायादं तवरमाणॊ ऽभयहारयत
विव्याध चैनं दशभिर बाणैस तिष्ठेति चाब्रवीत
तस्याभिमन्युर दशभिर बाणैः सूतं हयान धवजम
बाहू धनुः शिरश चॊर्व्यां समयमानॊ ऽभयपातयत
ततस तस्मिन हते वीरे सौभद्रेणाश्मकेश्वरे
संचचाल बलं सर्वं पलायनपरायणम
ततः कर्णः कृपॊ दरॊणॊ दरौणिर गान्धारराट शलः
शल्यॊ भूरिश्रवाः कराथः सॊमदत्तॊ विविंशतिः
वृषसेनः सुषेणश च कुण्ड भेदी परतर्दनः
वृन्दारकॊ ललित्थश च परबाहुर दीर्घलॊचनः
दुर्यॊधनश च संक्रुद्धः शरवर्षैर अवाकिरन
सॊ ऽतिक्रुद्धॊ महेष्वासैर अभिमन्युर अजिह्मगैः
शरम आदत्त कर्णाय परकायावभेदनम
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः
पराविशद धरणीं राजन वल्मीकम इव पन्नगः
स तेनातिप्रहारेण वयथितॊ विह्वलन्न इव
संचचाल रणे कर्णः कषितिकम्पे यथाचलः
अथान्यैर निशितैर बाणैः सुषेणं दीर्घलॊचनम
कुण्ड भेदिं च संक्रुद्धस तरिभिस तरीन अवधीद बली
कर्णस तं पञ्चविंशत्या नाराचानां समर्पयत
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः
स शरार्दित सर्वाङ्गः करुद्धः शक्रात्मजात्मजः
विचरन दृश्यते सैन्ये पाशहस्त इवान्तकः
शल्यं च बाणवर्षेण समीपस्थम अवाकिरत
उदक्रॊशन महाबाहुस तव सैन्यानि भीषयन
ततः स विद्धॊ ऽसत्रविदा मर्मभिद्भिर अजिह्मगैः
शल्यॊ राजन रथॊपस्थे निषसाद मुमॊह च
तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना
संप्राद्रवच चमूः सर्वा भारद्वाजस्य पश्यतः
परेक्षन्तस तं महाबाहुं रुक्मपुङ्खैः समावृतम
तवदीयाश च पलायन्ते मृगाः सिंहार्दिता इव
स तु रणयशसाभिपूज्यमानः; पितृसुरचारण सिद्धयक्षसंघैः
अवनि तलगतैश च भूतसंघैर; अतिविबभौ हुतभुग यथाज्य सिक्तः
[धृ]
तथा परमथमानं तं महेष्वासम अजिह्मगैः
आर्जुनिं मामकाः सर्वे के तव एनं समवाकिरन
[स]
शृणु राजन कुमारस्य रणे विक्रीडितं महत
बिभित्सयॊ रथानीकं भारद्वाजेन रक्षितम
मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे
शल्याद अवरजः करुद्धः किरन बाणान समभ्ययात
स विद्ध्वा दशभिर बाणैः साश्वयन्तारम आर्जुनिम
उदक्रॊशन महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत
तस्यार्जुनिः शिरॊग्रीवं पाणिपादं धनुर हयान
छत्रं धवजं नियन्तारं तरिवेणुं शम्यु पस्करम
चक्रे युगेषां तूणीरान अनुकर्षं च सायकैः
पताकां चक्रगॊप्तारौ सर्वॊपकरणानि च
वयधमल लाघवात तच च ददृशे नास्य कश चन
स पपात कषितौ कषीणः परविद्धाभरणाम्बरः
वायुनेव महाचैत्यः संभग्नॊ ऽमिततेजसा
अनुगाश चास्य वित्रस्ताः पराद्रवन सर्वतॊदिशम
आर्जुनेः कर्म तद दृष्ट्व परणेदुश च समन्ततः
नादेन सर्वभूतानि साधु साध्व इति भारत
शल्य भरातर्य अथारुग्णे बहुशस तस्य सैनिकाः
कुलाधिवासनामानि शरावयन्तॊ ऽरजुनात्मजम
अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः
रथैर अश्वैर गजैश चान्ये पादातैश च बलॊत्कटाः
बाणशब्देन महता खुरनेमिस्वनेन च
हुंकारैः कष्वेडितॊत्क्रुष्टैः सिंहनादैः स गर्जितैः
जयातलत्र सवनैर अन्ये गर्जन्तॊ ऽरजुननन्दनम
बरुवन्तश च न नॊ जीवन मॊक्ष्यसे जीविताम इति
तांस तथा बरुवतॊ दृष्ट्वा सौभद्रः परहसन्न इव
यॊ यः सम पराहरत पूर्वं तं तं विव्याध पत्रिभिः
संदर्शयिष्यन्न अस्त्राणि चित्राणि च लघूनि च
आर्जुनिः समरे शूरॊ मृदुपूर्वम अयुध्यत
वासुदेवाद उपात्तं यद यद अस्त्रं च धनंजयात
अदर्शयत तत कार्ष्णिः कृष्णाभ्याम अविशेषयन
दूरमास्यन गुरुं भारं साधयंश च पुनः पुनः
संदधद विसृजंश चेषून निर्विशेषम अदृश्यत
चापमण्डलम एवास्य विस्फुरद दिक्ष्व अदृश्यत
तमॊ घनतः सुदीप्तस्य सवितुर मण्डलं यथा
जयाशब्दः शुश्रुवे तस्य तलशब्दश च दारुणः
महाशनिमुचः काले पयॊदस्येव निस्वनः
हरीमान अमर्षी सौभद्रॊ मानकृत परियदर्शनः
संमिनामयिषुर वीरान इष्वासांश चाप्य अयुध्यत
मृदुर भूत्वा महाराज दारुणः समपद्यत
वर्षाभ्यतीतॊ भगवाञ शरदीव दिवाकरः
शरान विचित्रान महतॊ रुक्मपुङ्खाञ शिलाशितान
मुमॊच शतशः करुद्धॊ गभस्तीन इव भास्करः
कषुरप्रैर वत्सदन्तैश च विपाठैश च महायशाः
नाराचैर धननाराचैर भल्लैर अज्ञलिकैर अपि
अवाकिरद रथानीकं भारद्वाजस्य पश्यतः
ततस तत सैन्यम अभवद विमुखं शरपीडितम
[धृ]
दवैधीभवति मे चित्तं हरिया तुष्ट्या च संजय
मम पुत्रस्य यत सैन्यं सौभद्रः समवारयत
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः
विक्रीडितं कुमारस्य सकन्दस्येवासुरैः सह
[स]
हन्त ते संप्रवक्ष्यामि विमर्दम अतिदारुणम
एकस्य च बहूनां च यथासीत तुमुलॊ रणः
अभिमन्युः कृतॊत्साहः कृतॊत्साहान अरिंदमान
रथस्थॊ रथिनः सर्वांस तावकान अप्य अहर्षयत
दरॊणं कर्णं कृपं शल्यं दरौणिं भॊजं बृहद्बलम
दुर्यॊधनं सौमदत्तिं शकुनिं च महाबलम
नाना नृपान नृपसुतान सैन्यानि विविधानि च
अलातचक्रवत सर्वांश चरन बाणैः समभ्ययात
निघ्नन्न अमित्रान सौभद्रः परमास्त्रः परतापवान
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत
तद दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः
समकम्पन्त सैन्यानि तवदीयानि पुनः पुनः
अथाब्रवीन महाप्राज्ञॊ भारद्वाजः परतापवान
हर्षेणॊत्फुल्ल नयनः कृपम आभाष्य स तवरम
घट्टयन्न इव मर्माणि तव पुत्रस्य मारिष
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम
एष गच्छति सौभद्रः पार्थानाम अग्रतॊ युवा
नन्दयन सुहृदः सर्वान राजानं च युधिष्ठिरम
नकुलं सहदेवं च भीमसेनं च पाण्डवम
बन्धून संबन्धिनश चान्यान मध्यस्थान सुहृदस तथा
नास्य युद्धे समं मन्ये कं चिद अन्यं धनुर्धरम
इच्छन हन्याद इमां सेनां किमर्थम अपि नेच्छति
दरॊणस्य परीतिसंयुक्तं शरुत्वा वाक्यं तवात्मजः
आर्जुनिं परति संक्रुद्धॊ दरॊणं दृष्ट्वा समयन्न इव
अथ दुर्यॊधनः कर्णम अब्रवीद बाह्लिकं कृपम
दुःसासनं मद्रराजं तांस तांश चान्यान महारथान
सर्वमूर्धावसिक्तानाम आचार्यॊ बरह्मचित्तमः
अर्जुनस्य सुतं मूढं नाभिहन्तुम इहेच्छति
न हय अस्य समरे मुच्येद अन्तकॊ ऽपय आततायिनः
किम अङ्गपुनर एवान्यॊ मर्त्यः सत्यं बरवीमि वः
अर्जुनस्य सुतं तव एष शिष्यत्वाद अभिरक्षति
पुत्राः शिष्याश च दयितास तद अपत्यं च धर्मिणाम
संरक्ष्यमाणॊ दरॊणेन मन्यते वीर्यम आत्मनः
आत्मसंभावितॊ मूढस तं परमथ्नीत माचिरम
एवम उक्तास तु ते राज्ञा सात्वती पुत्रम अभ्ययुः
संरब्धास तं जिघांसन्तॊ भारद्वाजस्य पश्यतः
दुःशासनस तु तच छरुत्वा दुर्यॊधन वचस तदा
अब्रवीत कुरुशार्दूलॊ दुर्यॊधनम इदं वचः
अहम एनं हनिष्यामि महाराज बरवीमि ते
मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम
परसिष्याम्य अथ सौभद्रं यथा राहुर दिवाकरम
उत्क्रुश्य चाब्रवीद वाक्यं कुरुराजम इदं पुनः
शरुत्वा कृष्णौ मया गरस्तं सौभद्रम अतिमानिनौ
गमिष्यतः परेतलॊकं जीवलॊकान न संशयः
तौ च शरुत्वा मृतौ वयक्तं पाण्डॊः कषेत्रॊद्भवाः सुताः
एकाह्ना ससुहृद वर्गाः कलैब्याद धास्यन्ति जीवितम
तस्माद अस्मिन हते शत्रौ हताः सर्वे ऽहितास तव
शिवेन धयाहि मा राजन्न एष हन्मि रिपुं तव
एवम उक्त्वा नदन राजन पुत्रॊ दुःशासनस तव
सौभद्रम अभ्ययात करुद्धः शरवर्षैर अवाकिरन
तम अभिक्रुद्धम आयान्तं तव पुत्रम अरिंदमः
अभिमन्युः शरैस तिक्ष्णैः षट्विंशत्या समर्पयत
दुःशासनस तु संक्रुद्धः परभिन्न इव कुञ्जरः
अयॊधयत सौभद्रम अभिमन्युश च तं रणे
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम
चरमाणाव अयुध्येतां रथशिक्षा विशारदौ
अथ पणवमृदङ्गदुन्दुभीनां; कृकर महानक भेरि झर्झराणाम
निनदम अतिभृशं नराः परचक्रुर; लवणजलॊद्भव सिंहनाद मिश्रम
[स]
शरविक्षतगात्रस तु परत्यमित्रम अवस्थितम
अभिमन्युः समयन धीमान दुःशासनम अथाब्रवीत
दिष्ट्या पश्यामि संग्रामे मानिनं शत्रुम आगतम
निष्ठुरं तयक्तधर्माणम आक्रॊशनपरायणम
यत सभायां तवया राज्ञॊ धृतराष्ट्रस्य शृण्वतः
कॊपितः परुषैर वाक्यैर धर्मराजॊ युधिष्ठिरः
जयॊन्मत्तेन भीमश च बह्वबद्धं परभाषता
परवित्तापहारस्य करॊधस्याप्रशमस्य च
लॊभस्य जञाननाशस्य दरॊहस्यात्याहितस्य च
पितॄणां मम राज्यस्य हरणस्यॊग्र धन्विनाम
तत तवाम इदम अनुप्राप्तं तत कॊपाद वै महात्मनाम
सद्यश चॊग्रम अधर्मस्य फलं पराफ्नुहि दुर्मते
शासितास्म्य अद्य ते बाणैः सर्वसैन्यस्य पश्यतः
अद्याहम अनृणस तस्य कॊपस्य भविता रणे
अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः
अद्य कौरव्य भीमस्य भवितास्म्य अनृणॊ युधि
न हि मे मॊक्ष्यसे जीवन यदि नॊत्सृजसे रणम
एवम उक्त्वा महाबाहुर बाणं दुःशासनान्तकम
संदधे परवीरघ्नः कालाग्न्यनिल वर्चसम
तस्यॊरस तूर्णम आसाद्य जत्रु देशे विभिद्य तम
अथैनं पञ्चविंशत्या पुनश चैव समर्पयत
स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत
दुःशासनॊ महाराज कश्मलं चाविशन महत
सारथिस तवरमाणस तु दुःशासनम अचेतसम
रणमध्याद अपॊवाह सौभद्रशरपीडितम
पाण्डवा दरौपदेयाश च विराटश च समीक्ष्य तम
पाञ्चालाः केकयाश चैव सिंहनादम अथानदन
वादित्राणि च सर्वाणि नाना लिङ्गनि सर्वशः
परावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः
पश्यन्तः समयमानाश च सौभद्रस्य विचेष्टितम
अत्यन्तविरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम
धर्ममारुत शक्राणाम आश्विनॊः परतिमास तथा
धारयन्तॊ धवजाग्रेषु दरौपदेया महारथाः
सात्यकिश चेकितानश च धृष्टद्युम्नशिखण्डिनौ
केकया धृष्टकेतुश च मत्स्यपाञ्चाल सृंजयाः
पाण्डवाश च मुदा युक्ता युधिष्ठिर पुरॊगमाः
अभ्यवर्तन्त सहिता दरॊणानीकं बिभित्सवः
ततॊ ऽभवन महद युद्धं तवदीयानां परैः सह
जयम आकाङ्क्षमाणानां शूराणाम अनिवर्तिनाम
दुर्यॊधनॊ महाराज राधेयम इदम अब्रवीत
पश्य दुःशासनं वीरम अभिमन्युवशंगतम
परतपन्तम इवादित्यं निघ्नन्तं शात्रवान रणे
सौभद्रम उद्यतास तरातुम अभिधावन्ति पाण्डवाः
ततः कर्णः शरैस तीक्ष्णैर अभिमन्युं दुरासदम
अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत तवम
तस्य चानुचरांस तीक्ष्णैर विव्याध परमेषुभिः
अवज्ञा पूर्वकं वीरः सौभद्रस्य रणाजिरे
अभिमन्युस तु राधेयं तरिसप्तत्या शिलीमुखैः
अविध्यत तवरितॊ राजन दरॊणं परेप्सुर महामनाः
तं तदा नाशकत कश चिद दरॊणाद वारयितुं रणे
आरुजन्तं रथश्रेष्ठान वज्रहस्तम इवासुरान
ततः कर्णॊ जय परेप्सुर मानी सर्वधनुर्भृताम
सौभद्रं शतशॊ ऽविध्यद उत्तमास्त्राणि दर्शयन
सॊ ऽसत्रैर अस्त्रविदां शरेष्ठॊ राम शिष्यः परतापवान
समरे शत्रुदुर्धर्षम अभिमन्युम अपीडयत
स तथा पीड्यमानास तु राधेयेनास्त्र वृष्टिभिः
समरे ऽमरसंकाशः सौभद्रॊ न वयषीदत
ततः शिलाशितैस तीक्ष्णैर भल्लैः संनतपर्वभिः
छित्त्वा धनूंषि शूराणाम आर्जुनिः कर्णम आर्दयत
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णाद अनन्तरः
सौभद्रम अभ्ययात तूर्णं दृढम उद्यम्य कार्मुकम
तत उच्चुक्रुशुः पार्थास तेषां चानुचरा जनाः
वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः
[स]
सॊ ऽभिगर्जन धनुष्पाणिर जयां विकर्षन पुनः पुनः
तयॊर महात्मनॊस तूर्णं रथान्तरम अवापतत
सॊ ऽविध्यद दशभिर बाणैर अभिमन्युं दुरासदम
सच छत्त्र धवजयन्तारं साश्वम आशु समयन्न इव
पितृपैतामहं कर्म कुर्वाणम अतिमानुषम
दृष्ट्वार्दितं शरैः कार्ष्णिं तवदीया हृषिताभवन
तस्याभिमन्युर आयम्य समयन्न एकेन पत्रिणा
शिरः परच्यावयाम आस स रथात परपतद भुवि
कर्णिकारम इवॊद्धूतं वातेन मथितं नगात
भरातरं निहतं दृष्ट्वा राजन कर्णॊ वयथां ययौ
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः
अन्यान अपि महेष्वासांस तूर्णम एवाभिदुद्रुवे
ततस तद विततं जालं हस्त्यश्वरथपत्तिमत
झषः करुद्ध इवाभिन्दद अभिमन्युर महायशाः
कर्णस तु बहुभिर बाणैर अर्द्यमानॊ ऽभिमन्युना
अपायाज जवनैर अश्वैस ततॊ ऽनीकम अभिद्यत
शलभैर इव चाकाशे धाराभिर इव चावृते
अभिमन्यॊः शरै राजन न पराज्ञायत किं चन
तावकानां तु यॊधानां वध्यतां निशितैः शरैः
अन्यत्र सैन्धवाद राजन न सम कश चिद अतिष्ठत
सौभद्रस तु ततः शङ्खं परध्माप्य पुरुषर्षभः
शीघ्रम अभ्यपतत सेनां भारतीं भरतर्षभ
स कक्षे ऽगनिर इवॊत्सृष्टॊ निर्दहंस तरसा रिपून
मध्ये भारत सैन्यानाम आर्जुनिः पर्यवर्तत
रथनागाश्वमनुजान अर्दयन निशितैः शरैः
स परविश्याकरॊद भूमिं कबन्ध गणसंकुलाम
सौभद्र चापप्रभवैर निकृत्ताः परमेषुभिः
सवान एवाब्निमुखान घन्तः परद्रवज जीवितार्थिनः
ते घॊरा रौद्रकर्माणॊ विपाठाः पृथवः शिताः
निघ्नन्तॊ रघ नागाश्वाञ जग्मुर आशु वसुंधराम
सायुधाः साङ्गुलि तराणाः स खड्गाः साङ्गदा रणे
दृश्यन्ते बाहवश छिन्ना हेमाभरण भूषिताः
शराश चापानि खड्गाश च शरीराणि शिरांसि च
सकुण्डलानि सरग्वीणि भूमाव आसन सहस्रशः
अपस्करैर अधिष्ठानैर ईषा दण्डकबन्धुरैः
अक्षैर विमथितैश चक्रैर भग्नैश च बहुधा रथैः
शक्तिचापायुधैश चापि पतिपैश च महाध्वजैः
निहतैः कषत्रियैर अश्वैर वारणैश च विशां पते
अगम्यकल्पा पृथिवी कषणेनासीत सुदारुणा
वध्यतां राजपुत्राणां करन्दताम इतरेतरम
परादुरासीन महाशब्दॊ भीरूणां भयवर्धनः
स शब्दॊ भरतश्रेष्ठ दिशः सर्वा वयनादयत
सौभद्रश चाद्रवत सेनां निघ्नन्न अश्वरथद्विपान
वयचरत स दिशः सर्वाः परदिशश चाहितान रुजन
तं तदा नानुपश्याम सैन्येन रजसावृतम
आददानं गजाश्वानां नृणां चायूंषि भारत
कषणेन भूयॊ ऽपश्याम सूर्यं मध्यं दिने यथा
अभिमन्युं महाराज परतपन्तं दविषद गणान
स वासव समः संख्ये वासवस्यात्मजात्मजः
अभिमन्युर महाराज सैन्यमध्ये वयरॊचत
[धृ]
बालम अत्यन्तसुहिनम अवार्य बलदर्पितम
युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम
गाहमानम अनीकानि सदश्वैस तं तरिहायनैः
अपि यौधिष्ठिरात सैन्यात कश चिद अन्वपतद रथी
[स]
युधिष्ठिरॊ भीमसेनः शिखण्डी सात्यकिर यमौ
धृष्टद्युम्नॊ विराटश च दरुपदश च स केकयः
धृष्टकेतुश च संरब्धॊ मत्स्याश चान्वपतन रणे
अभ्यद्रवन परीप्सन्तॊ वयूढानीकाः परहारिणः
तान दृष्ट्वा दरवतः शूरांस तवदीया विमुखाभवन
ततस तद विमुखं दृष्ट्वा तव सूनॊर महद बलम
जामाता तव तेजस्वी विष्टम्भयिषुर आद्रवत
सैन्धवस्य महाराज पुत्रॊ राजा जयद्रथः
स पुत्रगृद्धिनः पार्थान सह सैन्यान अवारयत
उग्रधन्वा महेष्वासॊ दिव्यम अस्त्रम उदीरयन
वार्ध कषत्रिर उपासेधत परवणाद इव कुञ्जरान
[धृ]
अतिभारम अहं मन्ये सैन्धवे संजयाहितम
यद एकः पाण्डवान करुद्धान पुत्रगृद्धीन अवारयत
अत्यद्भुतम इदं मन्ये बलं शौर्यं च सैन्धवे
तद अस्य बरूहि मे वीर्यं कर्म चाग्र्यं महात्मनः
किं दत्तं हुतम इष्टं वा सुतप्तम अथ वा तपः
सिन्धुराजेन येनैकः करुद्धान पार्थान अवारयत
[स]
दरौपदीहरणे यत तद भीमसेनेन निर्जितः
मानात स तप्तवान राजा वरार्थी सुमहत तपः
इन्द्रयाणीन्द्रियार्थेभ्यः परियेभ्यः संनिवर्त्य सः
कषुत्पिपासा तप सहः कृशॊ धमनि संततः
देवम आराधयच छर्वं गृणन बरह्म सनातनम
भक्तानुकम्पी भगवांस तस्य चक्रे ततॊ दयाम
सवप्नान्ते ऽपय अथ चैवाह हरः सिन्धुपतेः सुतम
वरं वृणीष्व परीतॊ ऽसमि जयद्रथकिम इच्छसि
एवम उक्तस तु शर्वेण सिन्धुराजॊ जयद्रथः
उवाच परणतॊ रुद्रं पराज्ञलिर नियतात्मवान
पाण्डवेयान अहं संख्ये भीमवीर्यपराक्रमान
एकॊ रणे धारयेयं समस्तान इति भारत
एवम उक्तस तु देवेशॊ जयद्रथम अथाब्रवीत
ददामि ते वरं सौम्य विना पार्थं धनंजयम
धारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान
एवम अस्त्व इति देवेशम उक्त्वाबुध्यत पार्थिवः
स तेन वरदानेन दिव्येनास्त्र बलेन च
एकः संधारयाम आस पाण्डवानाम अनीकिनीम
तस्य जयातलघॊषेण कषत्रियान भयम आविशत
परांस तु तव सैन्यस्य हर्षः परमकॊ ऽभवत
दृष्ट्वा तु कषत्रिया भारं सैन्धवे सर्वम अर्पितम
उत्क्रुश्याभ्यद्रवन राजन येन यौधिष्ठिरं बलम
[स]
यन मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम
शृणु तत सर्वम आख्यास्ये यथा पाण्डून अयॊधयत
तम ऊहुः सारथेर वश्याः सैन्धवाः साधु वाहिनः
विकुर्वाणा बृहन्तॊ ऽशवाः शवसनॊपम रंहसः
गन्धर्वनगराकारं विधिवत कल्पितं रथम
तस्याभ्यशॊभयत केतुर वाराहॊ राजतॊ महान
शवेतच छत्रपताकाभिश चामरव्यजनेन च
स बभौ राजलिङ्गैस तैस तारापतिर इवाम्बरे
मुक्ता वज्रमणिस्वर्णैर भूषितं तद अयस्मयम
वरूथं विबभौ तस्य जयॊतिर्भिः खम इवावृतम
स विस्फार्य महच चापं किरन्न इषुगुणान बहून
तत खण्डं पूरयाम आस यद वयादरयद आर्जुनिः
स सात्यकिं तरिभिर बाणैर अष्टभिश च वृकॊदरम
धृष्टद्युमनं तथा षष्ट्या विराटं दशभिः शरैः
दरुपदं पञ्चभिस तीक्ष्णैर दशभिश च शिखण्डिनम
केकयान पञ्चविंशत्या दरौपदेयांस तरिभिस तरिभिः
युधिष्ठिरं च सप्तत्या ततः शेनान अपानुदत
इषुजालेन महता तद अद्भुतम इवाभवत
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम
चिच्छेद परहसन राजा धर्मपुत्रः परतापवान
अक्ष्णॊर निमेष मात्रेण सॊ ऽनयद आदाय कार्मुकम
विव्याध दशभिः पार्थ तांश चैवान्यांस तरिभिस तरिभिः
तस्य तल लाघवं जञात्वा भीमॊ भल्लैस तरिभिः पुनः
धनुर धवजं च छत्रं च कषितौ कषिप्तम अपातयत
सॊ ऽनयद आदाय बलवान सज्यं कृत्वा च कार्मुकम
भीमस्यापॊथयत केतुं धनुर अश्वांश च मारिष
स हताश्वाद अवप्लुत्य छिन्नधन्वा रथॊत्तमात
सात्यकेर आप्लुतॊ यानं गिर्यग्रम इव केसरी
ततस तवदीयाः संहृष्टाः साधु साध्व इति चुक्रुशुः
सिन्धुराजस्य तत कर्म परेक्ष्याश्रद्धेयम उत्तमम
संक्रुद्धान पाण्डवान एकॊ यद दधारास्त्र तेजसा
तत तस्य कर्म भूतानि सर्वाण्य एवाभ्यपूजयन
सौभद्रेण हतैः पूर्वं सॊत्तरायुधिभिर दविपैः
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः
यतमानास तु ते वीरा मत्स्यपाञ्चाल केकयाः
पाण्डवाश चान्वपद्यन्त परत्यैकश्येन सैन्धवम
यॊ यॊ हि यतते भेत्तुं दरॊणानीकं तवाहितः
तं तं देववरप्राप्त्या सैन्धवः परत्यवारयत
[स]
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु
सुघॊरम अभवद युद्धं तवदीयानां परिः सह
परविश्य तव आर्जुनिः सेनां सत्यसंधॊ दुरासदाम
वयक्षॊभयत तेजस्वी मकरः सागरं यथा
तं तथा शरवर्षेण कषॊभयन्तम अरिंदमम
यथा परधानाः सौभद्रम अभ्ययुः कुरुसत्तमाः
तेषां तस्य च सं मर्दॊ दारुणः समपद्यत
सृजतां शरवर्णानि परसक्तम अमितौजसाम
रथव्रजेन संरुद्धस तैर अमित्रैर अथार्जुनिः
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम
तस्य विव्याध बलवाञ शरैर अश्वान अजिह्मगैः
वातायमानैर अथ तैर अश्वैर अपहृतॊ रणात
तेनान्तरेणाभिमन्यॊर यनापासारयद रथम
रथव्रजास ततॊ हृष्टाः साधु साध्व इति चुक्रुशुः
तं सिंहम इव संक्रुद्धं परमथ्नन्तं शरैर अरीन
आराद आयान्तम अभ्येत्य वसातीयॊ ऽभययाद दरुतम
सॊ ऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैर अवाकिरत
अब्रवीच च न मे जीवञ जीवतॊ युधि मॊक्ष्यसे
तम अयस्मय वर्माणम इषुणा आशु पातिना
विव्याध हृदि सौभद्रः स पपात वयसुः कषितौ
वसात्यं निहतं दृष्ट्वा करुद्धाः कषत्रियपुंगवाः
परिवव्रुस तदा राजंस तव पौत्रं जिघांसवः
विस्फारयन्तश चापानि नानारूपाण्य अनेकशः
तद युद्धम अभवद रौद्रं सौभद्रस्यारिभिः सह
तेषां शरान सेष्व असनाञ शरीराणि शिरांसि च
सकुण्डलानि सरग्वीणि करुद्धश चिच्छेद फाल्गुनिः
स खड्गाः साङ्गुलि तराणाः स पट्टिशपरश्वधाः
अदृश्यन्त भुजाश छिन्ना हेमाभरणभूषिताः
सरग्भिर आभरणैर वस्त्रैः पतितैश च महाध्वजैः
वर्मभिश चर्मभिर हारैर मुकुटैश छत्रचामरैः
अपस्करैर अधिष्ठानैर ईषादण्ड कबन्धुरैः
अक्षैर विमथितैश चक्रैर भग्नैश च बहुधा युगैः
अनुकर्षैः पताकाभिस तथा सारथिवाजिभिः
रथैश च भग्नैर नागैश च हतैः कीर्णाभवन मही
निहतैः कषत्रियैः शूरैर नानाजनपदेश्वरैः
जय गृद्धैर वृता भूमिर दारुणा समपद्यत
दिशॊ विचरतस तस्य सर्वाश च परदिशस तथा
रणे ऽभिमन्यॊः करुद्धस्य रूपम अन्तरधीयत
काञ्चनं यद यद अस्यासीद वर्म चाभरणानि च
धनुषश च शराणां च तद अपश्याम केवलम
तं तदा नाशकत कश चिच चक्षुर्भ्याम अभिवीक्षितुम
आददानं शरैर यॊधान मध्ये सूर्यम इव सथितम
[स]
आददानस तु शूराणाम आयूंष्य अभवद आर्जुनिः
अन्तकः सर्वभूतानां पराणान काल इवागते
स शक्र इव विक्रान्तः शक्रसूनॊः सुतॊ बली
अभिमन्युस तदानीकं लॊडयन बह्व अशॊभत
परविश्यैव तु राजेन्द्र कषत्रियेन्द्रान्तकॊपमः
सत्यश्रवसम आदत्त वयाघ्रॊ मृगम इवॊल्बणम
सत्यश्रवसि चाक्षिप्ते तवरमाणा महारथाः
परगृह्य विपुलं शस्त्रम अभिमन्युम उपाद्रवन
अहं पूर्वम अहं पूर्वम इति कषत्रिय पुंगवाः
सपर्धमानाः समाजग्मुर जिघांसन्तॊ ऽरजुनात्मजम
कषत्रियाणाम अनीकानि परद्रुतान्य अभिधावताम
जग्रास तिमिर आसाद्य कषुद्रमत्स्यान इवार्णवे
ये के चन गतास तस्य समीपम अपलायिनः
न ते परतिन्यवर्तन्त समुद्राद इव सन्धवः
महाग्राहगृहीतेव वातवेगभयार्दिता
समकम्पत सा सेना विभ्रष्टा नौर इवार्णवे
अथ रुक्मरथॊ नाम मद्रेश्वर सुतॊ बली
तरस्ताम आश्वासयन सेनाम अत्रस्तॊ वाक्यम अब्रवीत
अलं तरासेन वः शूरा नैष कश चिन मयि सथिते
अहम एनं गरहीष्यामि जीवग्राहं न संशयः
एवम उक्त्वा तु सौभद्रम अभिदुद्राव वीर्यवान
सुकल्पितेनॊह्यमानः सयन्दनेन विराजता
सॊ ऽभिमन्युं तरिभिर बाणैर विद्ध्वा वक्षस्य अथानदत
तरिभिश च दक्षिणे बाहौ सव्ये च निशितैस तरिभिः
स तस्येष्व असनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ
भुजौ शिरश च सवक्षिभ्रुक्षितौ कषिप्रम अपातयत
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना
संग्रामदुर्मदा राजन राजपुत्राः परहारिणः
वयस्याः शल्य पुत्रस्य सुवर्णविकृतध्वजाः
तालमात्राणि चापानि विकर्षन्तॊ महारथाः
आर्जुनिं शरवर्षेण समन्तात पर्यवारयन
शरैः शिक्षा बलॊपेतैस तरुणैर अत्यमर्षणैः
दृष्ट्वैकं समरे शूरं सौभद्रम अपराजितम
छाद्यमानं शरव्रातैर हृष्टॊ दुर्यॊधनॊ ऽभवत
वैवस्वतस्य भवनं गतम एनम अमन्यत
सुवर्णपुङ्खैर इषुभिर नाना लिङ्गैस तरिभिस तरिभिः
अदृश्यम आर्जुनिं चक्रुर निमेषात ते नृपात्मजाः
ससूताश्वध्वजं तस्य सयन्दनं तं च मारिष
आचितं समपश्याम शवाविधं शललैर इव
स गाढविद्धः करुद्धश च तॊत्त्रैर गज इवार्दितः
गान्धर्वम अस्त्रम आयच्छद रथमायां च यॊजयत
अर्जुनेन तपस तप्त्वा गन्धर्वेभ्यॊ यद आहृतम
तुम्बुरु परमुखेभ्यॊ वै तेनामॊहयताहितान
एकः स शतधा राजन दृश्यते सम सहस्रधा
अलातचक्रवत संख्ये कषिप्रम अस्त्राणि दर्शयन
रथचर्यास्त्र मायाभिर मॊहयित्वा परंतपः
बिभेद शतधा राजञ शरीराणि महीक्षिताम
पराणाः पराणभृतां संख्ये परेषिता निशितैः शरैः
राजन परापुर अमुं लॊकं शरीराण्य अवनिं ययुः
धनूंष्य अश्वान नियन्तॄंश च धवजान बाहूंश च साङ्गदान
शिरांसि च शितैर भल्लैस तेषां चिच्छेद फाल्गुनिः
चूतारामॊ यथा भग्नः पञ्चवर्षफलॊपगः
राजपुत्र शतं तद्वत सौभद्रेणापतद धतम
करुद्धाशीविष संकाशान सुकुमारान सुखॊचितान
एकेन निहतान दृष्ट्वा भीमॊ दुर्यॊधनॊ ऽभवत
रथिनः कुञ्जरान अश्वान पदातींश चावमर्दितान
दृष्ट्वा दुर्यॊधनः कषिप्रम उपायात तम अमर्षितः
तयॊः कषणम इवापूर्णः संग्रामः समपद्यत
अथाभवत ते विमुखः पुत्रः शरशतार्दितः
[धृ]
यथा वदसि मे सूत एकस्य बहुभिः सह
संग्रामं तुमुलं घॊरं जयं चैव महात्मनः
अश्रद्धेयम इवाश्चर्यं सौभद्रस्याथ विक्रमम
किं तु नात्यद्भुतं तेषां येषां धर्मॊ वयपाश्रयः
दुर्यॊधने ऽथ विमुखे राजपुत्र शते हते
सौभद्रे परतिपत्तिं कां परत्यपद्यन्त मामकाः
[स]
संशुष्कास्याश चलन नेत्राः परस्विन्ना लॊम हर्षिणः
पलायनकृतॊत्साहा निरुत्साहा दविषज जये
हतान भरातॄन पितॄन पुत्रान सुहृत संबन्धिबान्धवान
उत्सृज्यॊत्सृज्य समियुस तवरयन्तॊ हतद्विपान
तान परभग्नांस तथा दृष्ट्वा दरॊणॊ दरौणिर बृहद्बलः
कृपॊ दुर्यॊधनः कर्णः कृतवर्माथ सौबलः
अभिद्रुताः सुसंक्रुद्धाः सौभद्रम अपराजितम
ते ऽपि पौत्रेण ते राजन परायशॊ विमुखीकृताः
एकस तु सुखसंवृद्धॊ बाल्याद दर्पाच च निर्भयः
इष्वस्त्रविन महातेजा लक्ष्मणॊ ऽऽरजुनिम अभ्ययात
तम अन्वग एवास्य पिता पुत्रगृद्धी नयवर्तत
अनु दुर्यॊधनं चान्ये नयवर्तन्त महारथाः
तं ते ऽभिषिषिचुर बाणैर मेघा गिरिम इवाम्बुभिः
स च तान परममाथैकॊ विष्वग वातॊ यथाम्बुदान
पौत्रं तु तव दुर्धर्षं लक्ष्मणं परियदर्शनम
पितुः समीपे तिष्ठन्तं शूरम उद्यतकार्मुकम
अत्यन्तसुखसंवृद्धं धनेश्वर सुतॊपमम
आससाद रणे कार्ष्णिर मत्तॊ मत्तम इव दविपम
लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा
शरैः सुनिशितैस तीक्ष्णैर बाह्वॊर उरसि चार्पितः
संक्रुद्धॊ वै महाबाहुर दण्डाहत इवॊरगः
पौत्रस तव महाराज तव पौत्रम अभाषत
सुदृष्टः करियतां लॊकॊ अमुं लॊकं गमिष्यसि
पश्यतां बान्धवानां तवां नयामि यमसादनम
एवम उक्त्वा ततॊ भल्लं सौभद्रः परवीरहा
उद्बबर्ह महाबाहुर निर्मुक्तॊरग संनिभम
स तस्य भुजनिर्मुक्तॊ लक्ष्णमस्य सुदर्शनम
सुनसं सुभ्रु केशान्तं शॊरॊ ऽहार्षीत सकुण्डलम
लक्ष्मणं निहतं दृष्ट्वा हाहेत्य उच्चुक्रुशुर जनाः
ततॊ दुर्यॊधनः करुद्धः परिये पुत्रे निपातिते
हतैनम इति चुक्रॊश कषत्रियान कषत्रियर्षभः
ततॊ दरॊणः कृपः कर्णॊ दरॊणपुत्रॊ बृहद्बलः
कृतवर्मा च हार्दिक्यः षड रथाः पर्यवारयन
स तान विद्ध्वा शितैर बाणैर विमुखीकृत्य चार्जुनिः
वेगेनाभ्यपतत करुद्धः सैन्धवस्य महद बलम
आवव्रुस तस्य पन्थानं गजानीकेन संशिताः
कलिङ्गाश च निषादाश च कराथ पुत्रश च वीर्यवान
तत परसक्तम इवात्यर्थं युद्धम आसीद विशां पते
ततस तत कुञ्जरानीकं वयधमद धृष्टम आर्जुनिः
यथा विवान नित्यगतिर जलदाञ शतशॊ ऽमबरे
ततः कराथः शरव्रातैर आर्जुनिं समवाकिरत
अथेतरे संनिवृत्ताः पुनर दरॊण मुखा रथाः
परमास्त्राणि धुन्वानाः सौभद्रम अभिदुद्रुवुः
तान निवार्यार्जुनिर बाणैः कराथ पुत्रम अथार्दयत
शरौघेणाप्रमेयेण तवरमाणॊ जिघांसया
सधनुर बाणकेयूरौ बाहू समुकुटं शिरः
छत्रं धवजं नियन्तारम अश्वांश चास्य नयपातयत
कुलशीत शरुतबलैः कीर्त्या चास्त्रबलेन च
युक्ते तस्मिन हते वीराः परायशॊ विमुखाभवन
[धृ]
तथा परविष्टं तरुणं सौभद्रम अपराजितम
कुलानुरूपं कुर्वाणं संग्रामेष्व अपलायिनम
आजनेयैः सुबलिभिर युक्तम अश्वैस तरिहायनैः
पलवमानम इवाकाशे के शूराः समवारयन
[स]
अभिमन्युः परविश्यैव तावकान निशितैः शरैः
अकरॊद विमुखान सर्वान पार्थिवान पाण्डुनन्दनः
तं तु दरॊणः कृपः कर्णॊ दरौणिश च स बृहद्बलः
कृतवर्मा च हार्दिक्यः षड रथाः पर्यवारयन
दृष्ट्वा तु सैन्धवे भारम अतिमात्रं समाहितम
सैन्यं तव महाराज युधिष्ठिरम उपाद्रवत
सौभद्रम इतरे वीरम अभ्यवर्षञ शराम्बुभिः
तालमात्राणि चापानि विकर्षन्तॊ महारथाः
तांस तु सर्वान महेष्वासान सर्वविद्यासु निष्ठितान
वयष्टम्भयद रणे बाणैः सौभद्रः परवीरहा
दरॊणं परञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः
रुक्मपुङ्खैर महावेगैर आकर्णसमचॊदितैः
अविध्यद दशभिर बाणैर अश्वत्थामानम आर्जुनिः
स कर्णं कर्णिना कर्णे पीतेन निशितेन च
फाल्गुनिर दविषतां मध्ये विव्याध परमेषुणा
पातयित्वा कृपस्याश्वांस तथॊभौ पार्ष्णिसारथी
अथैनं दशभिर बाणैः परत्यविध्यत सतनान्तरे
ततॊ वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम
पुत्राणां तव वीराणां पश्यताम अवधीद बली
तं दरौणिः पञ्चविंशत्या कषुद्रकाणां समर्पयत
वरं वरम अमित्राणाम आरुजन्तम अभीतवत
स तु बाणैः शितैस तूर्णं परत्यविध्यत मारिष
पश्यतां धार्तराष्ट्राणाम अश्वत्थामानम आर्जुनिः
षष्ट्या शराणां तं दरौणिस तिग्मधारैः सुतेजनैः
उग्रैर नाकम्पयद विद्ध्वा मैनाकम इव पर्वतम
स तु दरौणिं तरिसप्तत्या हेमपुङ्खैर अजिह्मगैः
परत्यविध्यन महातेजा बलवान अपकारिणम
तस्मिन दरॊणॊ बाणशतं पुत्रगृद्धी नयपातयत
अश्वत्थामा तथाष्टौ च परीप्सन पितरं रणे
कर्णॊ दवाविंशतिं भल्लान कृतवर्मा चतुर्दश
बृहद्बलस तु पञ्चाशत कृपः शारद्वतॊ दश
तांस तु परत्यवधीत सर्वान दशभिर दशभिः शरैः
तैर अर्द्यमानः सौभद्रः सर्वतॊ निशितैः शरैः
तं कॊसलानाम अधिपः कर्णिनाताडयद धृदि
स तस्याश्वान धवजं चापं सूतं चापातयत कषितौ
अथ कॊसल राजस तु विरथः खड्गचर्मधृत
इयेष फाल्गुनेः कायाच छिरॊ हर्तुं सकुण्डलम
स कॊसलानां भर्तारं राजपुत्रं बृहद्बलम
हृदि विव्याध बाणेन स भिन्नहृदयॊ ऽपतत
बभञ्ज च सहस्राणि दश राजन महात्मनाम
सृजताम अशिवा वाचः खड्गकार्मुकधारिणाम
तथा बृहद्बलं हत्वा सौभद्रॊ वयचरद रणे
विष्टम्भयन महेष्वासान यॊधांस तव शराम्बुभिः
[स]
स कर्णं कर्णिना कर्णे पुनर विव्याध फाल्गुनिः
शरैः पञ्चाशता चैनम अविध्यत कॊपयन भृशम
परतिविव्याध राधेयस तावद्भिर अथ तं पुनः
स तैर आचितसर्वाङ्गॊ बह्व अशॊभत भारत
कर्णं चाप्य अकरॊत करुद्धॊ रुधिरॊत्पीड वाहिनम
कर्णॊ ऽपि विबभौ शूरः शरैश चित्रॊ ऽसृग आप्लुतः
ताव उभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ
बभूवतुर महात्मानौ पुष्पिताव इव किंशुकौ
अथ कर्णस्य सचिवान षट शूरांश चित्रयॊधिनः
साश्वसूत धवजरथान सौभद्रॊ निजघान ह
अथेतरान महेष्वासान दशभिर दशभिः शरैः
परत्यविध्यद असंभ्रान्तस तद अद्भुतम इवाभवत
मागधस्य पुनः पुत्रं हत्वा षड्भिर अजिह्मगैः
साश्वं ससूतं तरुणम अश्वकेतुम अपातयत
मार्तिकावतकं भॊजं ततः कुञ्जरकेतनम
कषुरप्रेण समुन्मथ्य ननाद विसृजञ शरान
तस्य दौःशासनिर विद्ध्वा चतुर्भिश चतुरॊ हयान
सूतम एकेन विव्याध दशभिश चार्जुनात्मजम
ततॊ दौःशासनिं कार्ष्णिर विद्ध्वा सप्तभिर आशुगैः
संरम्भाद रक्तनयनॊ वाक्यम उच्चैर अथाब्रवीत
पिता तवाहवं तयक्त्वा गतः कापुरुषॊ यथा
दिष्ट्या तवम अपि जानीषे यॊद्धुं न तव अद्य मॊक्ष्यसे
एतावद उक्त्वा वचनं कर्मार परिमार्जितम
नाराचं विससर्जास्मै तं दरौणिस तरिभिर आच्छिनत
तस्यार्जुनिर धवजं छित्त्वा शल्यं तरिभिर अताडयत
तं शल्यॊ नवभिर बाणैर गार्ध्रपत्रैर अताडयत
तस्यार्जुनिर धवजं छित्त्वा उभौ च पार्ष्णिसारथी
तं विव्याधायसैः षड्भिः सॊ ऽपक्रामद रथान्तरम
शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम
सूर्यभासं च पञ्चैतान हत्वा विव्याध सौबलम
तं सौबलस तरिभिर विद्ध्वा दुर्यॊधनम अथाब्रवीत
सर्व एनं परमथ्नीमः पुरैकैकं हिनस्ति नः
अथाब्रवीत तदा दरॊणं कर्णॊ वैकर्तनॊ वृषा
पुरा सर्वान परमथ्नाति बरूह्य अस्य वधम आशु नः
ततॊ दरॊणॊ महेष्वासः सर्वांस तान परत्यभाषत
अस्तॊ वॊ ऽसयान्तरं कश चित कुमारस्य परपश्यति
अन्व अस्य पितरं हय अद्य चरतः सर्वतॊदिशम
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत
धनुर्मण्डलम एवास्य रथमार्गेषु दृश्यते
संदधानस्य विशिखाञ शीघ्रं चैव विमुञ्चतः
आरुजन्न इव मे पराणान मॊहयन्न अपि सायकैः
परहर्षयति मा भूयः सौभद्रः परवीरहा
अति मा नन्दयत्य एष सौभद्रॊ विचरन रणे
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः
अस्यतॊ लघुहस्तस्य दिशः सर्वा महेषुभिः
न विशेषं परपश्यामि रणे गाण्डीवधन्वनः
अथ कर्णः पुनर दरॊणम आहार्जुनिशरार्दितः
सथातव्यम इति तिष्ठामि पीड्यमानॊ ऽभिमन्युना
तेजस्विनः कुमारस्य शराः परमदारुणाः
कषिण्वन्ति हृदयं मे ऽदय घॊराः पावकतेजसः
तम आचार्यॊ ऽबरवीत कर्णं शनकैः परहसन्न इव
अभेद्यम अस्य कवचं युवा चाशु पराक्रमः
उपदिष्टा मया अस्य पितुः कवचधारणा
ताम एष निखिलां वेत्ति धरुवं परपुरंजयः
शक्यं तव अस्य धनुश छेत्तुं जयां च बाणैः समाहितैः
अभीशवॊ हयाश चैव तथॊभौ पार्ष्णिसारथी
एतत कुरु महेष्वास राधेय यदि शक्यते
अथैनं विमुखीकृत्य पश्चात परहरणं कुरु
सधनुष्कॊ न शक्यॊ ऽयम अपि जेतुं सुरासुरैः
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि
तद आचार्यवचः शरुत्वा कर्णॊ वैकर्तनस तवरन
अस्यतॊ लघुहस्तस्य पृषत्कैर धनुर आच्छिनत
अश्वान अस्यावधीद भॊजॊ गौतमः पार्ष्णिसारथी
शेषास तु छिन्नधन्वानं शरवर्षैर अवाकिरन
तवरमाणास तवरा काले विरथं षण महारथाः
शरवर्षैर अकरुणा बालम एकम अवाकिरन
स छिन्नधन्वा विरथः सवधर्मम अनुपालयन
खड्गचर्म धरः शरीमान उत्पपात विहायसम
मार्गैः स कैशिकाद्यैश च लाघवेन बलेन च
आर्जुनिर वयचरद वयॊम्नि भृशं वै पक्षिराड इव
मय्य एव निपतत्य एष सासिर इत्य ऊर्ध्वदृष्टयः
विव्यधुस तं महेष्वासाः समरे छिद्रदर्शिनः
तस्य दरॊणॊ ऽछिनन मुष्टौ खड्गं मणिमय तसरुम
राधेयॊ निशितैर बाणैर वयधमच चर्म चॊत्तमम
वयसि चर्मेषु पूर्णाङ्गः सॊ ऽनतरिक्षात पुनः कषितिम
आस्थितश चक्रम उद्यम्य दरॊणं करुद्धॊ ऽभयधावत
सचक्ररेणूज्ज्वल शॊभिताङ्गॊ; बभावति इवॊन्नत चक्रपाणिः
रणे ऽभिमन्युः कषणदा सुभद्रः; स वासुभद्रानुकृतिं परकुर्वन
सरुत रुधिरकृतैक रागवक्त्रॊ; भरुकुटि पुटाकुटिलॊ ऽतिसिंह नादः
परभुर अमितबलॊ रणे ऽभिमन्युर; नृप वरमध्य गतॊ भृशं वयराजत
[स]
विष्णॊः सवसानन्दि करः स विष्ण्वायुध भीषितः
रराजातिरथः संख्ये जनार्दन इवापरः
मारुतॊद्धूत केशान्तम उद्यतारि वरायुधम
वपुः समीक्ष्य पृथ्व ईशा दुःसमीक्ष्यं सुरैर अपि
तच चक्रं भृशम उद्विग्नाः संचिच्छिदुर अनेकधा
महारथस ततः कार्ष्णिः संजग्राह महागदाम
विधनुः सयन्दनासिस तैर विचक्रश चारिभिः कृतः
अभिमन्युर गदापाणिर अश्वत्थामानम आद्रवत
सगदाम उद्यतां दृष्ट्वा जवलन्तीम अशनीम इव
अपाक्रामद रथॊपस्थाद विक्रमांस तरीन नरर्षभः
तस्याश्वान गदया हत्वा तथॊभौ पार्ष्णिसारथी
शराचिताङ्गः सौभद्रः शवाविद्वत परत्यदृश्यत
ततः सुबल दायादं कालकेयम अपॊथयत
जघान चास्यानुचरान गान्धारान सप्त सप्ततिम
पुनर बरह्म वसातीयाञ जघान रथिनॊ दश
केकयानां रथान सप्त हत्वा च दश कुञ्जरान
दौःशासनि रथं साश्वं गदया समपॊथयत
ततॊ दौःशासनिः करुद्धॊ गदाम उद्यम्य मारिष
अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत
ताव उद्यतगदौ वीराव अन्यॊन्यवधकाङ्क्षिणौ
भरातृव्यौ संप्रजह्राते पुरेव तर्यम्बकान्तकौ
ताव अन्यॊन्यं गदाग्राभ्यां संहत्य पतितौ कषितौ
इन्द्रध्वजाव इवॊत्सृष्टौ रणमध्ये परंतपौ
दौःशासनिर अथॊत्थाय कुरूणां कीर्तिवर्धनः
परॊत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्य अताडयत
गदा वेगेन महता वयायामेन च मॊहितः
विचेता नयपतद भूमौ सौभद्रः परवीरहा
एवं विनिहतॊ राजन्न एकॊ बहुभिर आहवे
कषॊभयित्वा चमूं सर्वां नलिनीम इव कुञ्जरः
अशॊभत हतॊ वीरॊ वयाधैर वनगजॊ यथा
तंतथा पतितं शूरं तावकाः पर्यवारयन
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये
विमृद्य तरुशृङ्गाणि संनिवृत्तम इवानिलम
अस्तं गतम इवादित्यं तप्त्वा भारत वाहिनीम
उपप्लुतं यथा सॊमं संशुष्कम इव सागरम
पूर्णचन्द्राभवदनं काकपक्ष वृताक्षकम
तं भूमौ पतितं दृष्ट्वा तावकास ते महारथाः
मुदा परमया युक्ताश चुक्रुशुः सिंहवन मुहुः
आसीत परमकॊ हर्षस तावकानां विशां पते
इतरेषां तु वीराणां नेत्रेभ्यः परापतज जलम
अभिक्रॊशन्ति भूतानि अन्तरिक्षे विशां पते
दृष्ट्वा निपतितं वीरं चयुतं चन्द्रम इवाम्बरात
दरॊणकर्णमुखैः षड्भिर धार्तराष्ट्रैर महारथैः
एकॊ ऽयं निहतः शेते नैष धर्मॊ मतॊ हि नः
तस्मिंस तु निहते वीरे बह्व अशॊभत मेदिनी
दयौर यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी
रुक्मपुङ्खैश च संपूर्णा रुधिरौघपरिप्लुता
उत्तमाङ्गैश च वीराणां भराजमानैः सकुण्डलैः
विचित्रैश च परिस्तॊमैः पताकाभिश च संवृता
चामरैश च कुथाभिश च परविद्धैश चाम्बरॊत्तमैः
रथाश्वनरनागानामालंकारैश च सुप्रभैः
खड्गैश च निशितैः पीतैर निर्मुक्तैर भुजगैर इव
चापैश च विशिखैश छिन्नैः शक्त्यृष्टि परासकम्पनैः
विविधैर आयुधैश चान्यैः संवृता भूर अशॊभत
वाजिभिश चापि निर्जीवैः सवपद्भिः शॊणितॊक्षितैः
सारॊहैर विषमा भूमिः सौभद्रेण निपातितैः
साङ्कुशैः स महामात्रैः स वर्मायुधकेतुभिः
पर्वतैर इव विध्वस्तैर विशिखॊन्मथितैर गजैः
पृथिव्याम अनुकीर्णैश च वयश्व सारथियॊधिभिः
हरदैर इव परक्षुभितैर हतनागै रथॊत्तमैः
पदातिसंघैश च हतैर विविधायुधभूषणैः
भीरूणां तरासजननी घॊररूपाभवन मही
तं दृष्ट्वा पतितं भूमै चन्द्रार्कसदृशद्युतिम
तावकानां परा परीतिः पाण्डूनां चाभवद वयथा
अभिमन्यौ हते राजञ शिशुके ऽपराप्तयौवने
संप्राद्रवच चमूः सर्वा धर्मराजस्य पश्यतः
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते
अजातशत्रुः सवान वीरान इदं वचनम अब्रवीत
सवर्गम एष गतः शूरॊ यॊ हतॊ न पराङ्मुखः
संस्तम्भयत मा भैष्ट विजेष्यामॊ रणे रिपून
इत्य एवं स महातेजा दुःखितेभ्यॊ महाद्युतिः
धर्मराजॊ युधां शरेष्ठॊ बरुवन दुःखम अपानुदत
युद्धे हय आशीविषाकारान राजपुत्रान रणे बहून
पूर्वं निहत्य संग्रामे पश्चाद आर्जुनिर अन्वगात
हत्वा दशसहस्राणि कौसल्यं च महारथम
कृष्णार्जुन समः कार्ष्णिः शक्र सद्म गतॊ धरुवम
रथाश्वनरमातङ्गान विनिहत्य सहस्रशः
अवतृप्तः स संग्रामाद अशॊच्यः पुण्यकर्मकृत
वयं तु परवरं हत्वा तेषां तैः शरपीडिताः
निवेशायाभ्युपायाम सायाह्ने रुधिरॊक्षिताः
निरीक्षमाणास तु वयं परे चायॊधनं शनैः
अपयाता महाराज गलानिं पराप्ता विचेतसः
ततॊ निशाया दिवसस्य चाशिवः; शिवा रुतः संधिर अवर्तताद्भुतः
कुशेशयापीड निभे दिवाकरे; विलम्बमाने ऽसतम उपेत्य पर्वतम
वरासि शक्त्यृष्टि वरूथ चर्मणां; विभूषणानां च समाक्षिपन परभाम
दिवं च भूमिं च समानयन्न इव; परियां तनुं भानुर उपैति पावकम
महाभ्रकूटाचलशृङ्गसंनिभैर; गजैर अनेकैर इव वज्रपातितैः
स वैजयन्त्य अङ्कुश वर्म यन्तृभिर; निपातितैर निष्टनतीव गौश चिता
हतेश्वरैश चूर्णित पत्त्युपस्करैर; हताश्वसूतैर विपताक केतुभिः
महारथैर भूः शुशुभे विचूर्णितैः; पुरैर इवामित्र हतैर नराधिप
रथाश्ववृन्दैः सह सादिभिर हतैः; परविद्ध भाण्डाभरणैः पृथग्विधैः
निरस्तजिह्वा दशनान्त्र लॊचनैर; धरा बभौ घॊरविरूप दर्शना
परविद्ध वर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः
महार्हशय्यास्तरणॊचिताः सदा; कषिताव अनाथा इव शेरते हताः
अतीव हृष्टाः शवसृगाल वायसा; बडाः सुपर्णाश च वृकास तरक्षवः
वयांस्य असृक्पान्य अथ रक्षसां गणाः; पिशाचसंघाश च सुदारुणा रणे
तवचॊ विनिर्भिद्य पिबन वसाम असृक; तथैव मज्जां पिशितानि चाश्नुवन
वपां विलुम्पन्ति हसन्ति गान्ति च; परकर्षमाणाः कुणपान्य अनेकशः
शरीरसंघाट वहा असृग जला; रथॊडुपा कुञ्जरशैलसंकटा
मनुष्यशीर्षॊपल मांसकर्दमा; परविद्ध नानाविध शस्त्रमालिनी
महाभया वैतरणीव दुस्तरा; परवर्तिता यॊधवरैस तदा नदी
उवाह मध्येन रणाजिरं भृशं; भयावहा जीव मृतप्रवाहिनी
पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसंघा विविधाः सुभैरवाः
सुनन्दिताः पराणभृतां भयंकराः; समानभक्षाः शवसृगाल पक्षिणः
तथा तद आयॊधनम उग्रदर्शनं; निशामुखे पितृपतिराष्ट्र संनिभम
निरीक्षमाणाः शनकैर जहुर नराः; समुत्थितारुण्ड कुलॊपसंकुलम
अपेतविध्वस्तमहार्ह भूषणं; निपातितं शक्रसमं महारथम
रणे ऽभिमन्युं ददृशुस तदा जना; वयपॊढ हव्यं सदसीव पावकम
[स]
तस्मिंस तु निहते वीरे सौभद्रे रथयूथपे
विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः
उपॊपविष्टा राजानं परिवार्य युधिष्ठिरम
तद एव दुःखं धयायन्तः सौभद्र गतमानसाः
ततॊ युधिष्ठिरॊ राजा विललाप सुदुःखितः
अभिमन्यौ हते वीरे भरातुः पुत्रे महारथे
दरॊणानीकम असंबाधं मम परियचिकीर्षया
भित्त्वा वयूहं परविष्टॊ ऽसौ गॊमध्यम इव केसरी
यस्य शूरा महेष्वासाः परत्यनीक गता रणे
परभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः
अत्यन्तशत्रुर अस्माकं येन दुःशासनः शरैः
कषिप्रं हय अभिमुखः संक्ये विसंज्ञॊ विमुखीकृतः
स तीर्त्वा दुस्तरं वीरॊ दरॊणानीक महार्णवम
पराप्य दौःशासनिं कार्ष्णिर यातॊ वैवस्वतक्षयम
कथं दरक्ष्यामि कौन्तेयं सौभद्रे निहते ऽरजुनम
सुभद्रां वा महाभागां परियं पुत्रम अपश्यतीम
किं सविद वयम अपेतार्थम अश्लिष्टम असमञ्जसम
ताव उभौ परतिवक्ष्यामॊ हृषीकेश धनंजयौ
अहम एव सुभद्रायाः केशवार्जुनयॊर अपि
परियकामॊ जयाकाङ्क्षी कृतवान इदम अप्रियम
न लुब्धॊ बुध्यते दॊषान मॊहाल लॊभः परवर्तते
मधु पिप्सुर हि नापश्यं परपातम इदम ईदृशम
यॊ हि भॊज्ये पुरस्कार्यॊ यानेषु शयनेषु च
भूषणेषु च सॊ ऽसमाभिर बालॊ युधि पुरस्कृतः
कथं हि बालस तरुणॊ युद्धानाम अविशारदः
सदश्व इव संबाधे विषमे कषेमम अर्हति
यॊ चेद धि वयम अप्य एनं महीम अनुशयीमहि
बीभत्सॊः कॊपदीप्तस्य दग्धाः कृपण चक्षुषा
अलुब्धॊ मतिमान हरीमान कषमावान रूपवान बली
वपुष्मान मानकृद वीरः परियः सत्यपरायणः
यस्य शलाघन्ति विबुधाः कर्माण्य ऊर्जितकर्मणः
निवातकवचाञ जघ्ने कालकेयांश च वीर्यवान
महेन्द्रशत्रवॊ येन हिरण्यपुरवासिनः
अक्ष्णॊर निमेष मात्रेण पौलॊमाः सगणा हताः
परेभ्यॊ ऽपय अभयार्थिभ्यॊ यॊ ददात्य अभयं विभुः
तस्यास्माभिर न शकितस तरातुम अद्यात्मजॊ भयात
भयं तु सुमहत पराप्तं धार्तराष्ट्रं महद बलम
पार्थः पुत्रवधात करुद्धः कौरवाञ शॊषयिष्यति
कषुद्रः कषुद्रसहायश च सवपक्ष कषयम आतुरः
वयक्तं दुर्यॊधनॊ दृष्ट्वा शॊचन हास्यति जीवितम
न मे जयः परीतिकरॊ न राज्यं; न चामरत्वं न सुरैः स लॊकता
इमं समीक्ष्याप्रतिवीर्य पौरुषं; निपातितं देववरात्मजात्मजम
[स]
तस्मिन्न अहनि निर्वृत्ते घॊरे पराणभृतां कषये
आदित्ये ऽसतं गते शरीमान संध्याकाल उपस्थिते
वयपयातेषु सैन्येषु वासाय भरतर्षभ
हत्वा संशप्तकव्रातान दिव्यैर अस्त्रैः कपिध्वजः
परायात सवशिबिरं जिष्णुर जैत्रम आस्थाय तं रथम
गच्छन्न एव च गॊविन्दं सन्नकण्ठॊ ऽभयभाषत
किं नु मे हृदयं तरस्तं वाक्यं सज्जति केशव
सपन्दन्ति चाप्य अनिष्टानि गात्रं सीदति चाप्य उत
अनिष्टं चैव मे शलिष्टं हृदयान नापसर्पति
भुवि यद दिक्षु चाप्य उग्रा उत्पातास तरासयन्ति माम
बहुप्रकारा दृश्यन्ते सर्व एवाघ शंसिनः
अपि सवस्ति भवेद राज्ञः सामात्यस्य गुरॊर मम
[वासु]
वयक्तं शिवं तव भरातुः सामात्यस्य भविष्यति
मा शुचः किं चिद एवान्यत तत्रानिष्टं भविष्यति
[स]
ततः संध्याम उपास्यैव वीरौ वीरावसादने
कथयन्तौ रणे वृत्तं परयातौ रथम आस्थितौ
ततः सवशिबिरं पराप्तौ हतानन्दं हतत्विषम
वासुदेवॊ ऽरजुनश चैव कृत्वा कर्म सुदुष्करम
धवस्ताकारं समालक्ष्य शिबिरं परवीरहा
बीभत्सुर अब्रवीत कृष्णम अस्वस्थहृदयस ततः
नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन
मिश्रा दुन्दुभिनिर्घॊषः शङ्खाश चाडम्बरैः सह
वीणा वा नाद्य वाद्यन्ते शम्या तालस्वनैः सह
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च
सतुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः
यॊधाश चापि हि मां दृष्ट्वा निवर्तन्ते हय अधॊमुखाः
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम
अपि सवस्ति भवेद अद्य भरातृभ्यॊ मम माधव
न हि शुध्यति मे भावॊ दृष्ट्वा सवजनम आकुलम
अपि पाञ्चालराजस्य विराटस्य च मानद
सर्वेषां चैव यॊधानां सामग्र्यं सयान ममाच्युत
न च माम अद्य सौभद्रः परहृष्टॊ भरातृभिः सह
रणाद आयान्तम उचितं परत्युद्याति हसन्न इव
एवं संकथयन्तौ तौ परविष्टौ शिबिरं सवकम
ददृशाते भृशास्वस्थान पाण्डवान नष्टचेतसः
दृष्ट्वा भरातॄंश च पुत्रांश च विमना वानरध्वजः
अपश्यंश चैव सौभद्रम इदं वचनम अब्रवीत
मुखवर्णॊ ऽपरसन्नॊ वः सर्वेषाम एव लक्ष्यते
न चाभिमन्युं पश्यामि न च मां परतिनन्दथ
मया शरुतश च दरॊणेन चक्रव्यूहॊ विनिर्मितः
न च वस तस्य भेत्तास्ति ऋते सौभद्रम आहवे
न चॊपदिष्टस तस्यासीन मयानीक विनिर्गमः
कच चिन न बालॊ युष्माभिः परानीकं परवेशितः
भित्त्वानीकं महेष्वासः परेषां बहुशॊ युधि
कच चिन न निहतः शेते सौभद्रः परवीरहा
लॊहिताक्षं महाबाहुं जातं सिंहम इवाद्रिषु
उपेन्द्र सदृशं बरूत कथम आयॊधने हतः
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम
सदा मम परियं बरूत कथम आयॊधने हतः
वार्ष्णेयी दयितं शूरं मया सततलालितम
अम्बायाश च परियं नित्यं कॊ ऽवधीत कालचॊदितः
सदृशॊ वृष्णिसिंहस्य केशवस्य महात्मनः
विक्रमश्रुतमाहात्म्यैः कथम आयॊधने हतः
सुभद्रायाः परियं नित्यं दरौपद्याः केशवस्य च
यदि पुत्रं न पश्यामि यास्यामि यमसादनम
मृदु कुञ्चितकेशान्तं बालं बाल मृगेक्षणम
मत्तद्विरदविक्रान्तं शालपॊतम इवॊद्गतम
समिताभिभाषणं दान्तं गुरुवाक्यकरं सदा
बाल्ये ऽपय अबाल कर्माणं परियवाक्यम अमत्सरम
महॊत्साहं महाबाहुं दीर्घराजीव लॊचनम
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम
कृतज्ञं जञानसंपन्नं कृतास्त्रम अनिवर्तिनम
युद्धाभिनन्दिनं नित्यं दविषताम अघवर्धनम
सवेषां परियहिते युक्तं पितॄणां जय गृद्धिनम
न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमम
यदि पुत्रं न पश्यामि यास्यामि यमसादनम
सुललाटं सुकेशान्तं सुभ्र्व अक्षिदशनच छदम
अपश्यतस तद वदनं का शान्तिर हृदयस्य मे
तन्त्री सवनसुखं रम्यं पुंस्कॊकॊल समध्वनिम
अशृण्वतः सवनं तस्य का शान्तिर हृदयस्य मे
रूपं चाप्रतिरूपं तन्त्रिदशेष्व अपि दुर्लभम
अपश्यतॊ ऽदय वीरस्य का शान्तिर हृदयस्य मे
अभिवादनदक्षं तं पितॄणां वचने रतम
नाद्याहं यदि पश्यामि का शान्तिर हृदयस्य मे
सुकुमारः सदा वीरॊ महार्हशयनॊचितः
भूमाव अनाथवच छेते नूनं नाथवतां वरः
शयानं समुपासन्ति यं पुरा परमस्त्रियः
तम अद्य विप्रविद्धाङ्गम उपासन्त्य अशिवाः शिवाः
यः पुरा बॊध्यते सुप्तैः सूतमागधबन्दिभिः
बॊधयन्त्य अद्य तं नूनं शवापदा विकृतैः सवरैः
छत्रच छाया समुचितं तस्य तद वदनं शुभम
नूनम अद्य रजॊध्वस्तं रणे रेणुः करिष्यति
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने
भाग्यहीनस्य कालेन यथा मे नीयसे बलात
साद्य संयमनी नूनं सदा सुकृतिनां गतिः
सवभाभिर भासिता रम्या तवयात्यर्थं विराजते
नूनं वैवस्वतश च तवा वरुणश च परियातिथिः
शतक्रतुर धनेशश च पराप्तम अर्चन्त्य अभीरुकम
एवं विलप्य बहुधा भीन पॊतॊ वणिग यथा
दुःखेन महताविष्टॊ युधिष्ठिरम अपृच्छत
कच चित स कदनं कृत्वा परेषां पाण्डुनन्दन
सवर्गतॊ ऽभिमुखः संख्ये युध्यमानॊ नरर्षभः
स नूनं बहुभिर यत्तैर युध्यमानॊ नरर्षभैः
असहायः सहायार्थी माम अनुध्यातवान धरुवम
पीड्यमानः शरैर बालस तात साध्व अभिधाव माम
इति विप्रलपन मन्ये नृशैंसैर बहुभिर हतः
अथ वा मत्प्रसूतश च सवस्रीयॊ माधवस्य च
सुभद्रायां च संभूतॊ नैवं वक्तुम इहार्हति
वज्रसारमयं नूनं हृदयं सुदृढं मम
अपश्यतॊ दीर्घबाहुं रक्ताक्षं यन न दीर्यते
कथं बाले महेष्वासे नृशंसा मर्मभेदिनः
सवस्रीये वासुदेवस्य मम पुत्राक्षिपञ शरान
यॊ मां नित्यम अदीनात्मा परत्युद्गम्याभिनन्दति
उपयान्तं रिपून हत्वा सॊ ऽदय मां किं न पश्यति
नूनं स पतितः शेते धरण्यां रुधिरॊक्षितः
शॊभयन मेदिनीं गात्रैर आदित्य इव पातितः
रणे विनिहतं शरुत्वा शॊकार्ता वै विनंक्ष्यति
सुभद्रा वक्ष्यते किं माम अभिमन्युम अपश्यती
दरौपदी चैव दुःखार्ते ते च वक्ष्यामि किं नव अहम
वज्रसारमयं नूनं हृदयं यन न यास्यति
सहस्रधा वधूं दृष्ट्वा रुदतीं शॊककर्शिताम
हृष्टानां धार्तराष्ट्राणां सिंहनादॊ मया शरुतः
युयुत्सुश चापि कृष्णेन शरुतॊ वीरान उपालभन
अशक्नुवन्तॊ बीभत्सुं बालं हत्वा महारथाः
किं नदध्वम अधर्मज्ञाः पार्थे वै दृश्यतां बलम
किं तयॊर विप्रियं कृत्वा केशवार्जुनयॊर मृधे
सिंहवन नदत परीताः शॊककाल उपस्थिते
आगमिष्यति वः कषिप्रं फलं पापस्य कर्मणः
अधर्मॊ हि कृतस तीव्रः कथं सयाद अफलश चिरम
इति तान रप्ति भाषन वै वैश्यापुत्रॊ महामतिः
अपायाच छस्त्रम उत्सृज्य कॊपदुःखसमन्वितः
किमर्थम एतन्न आख्यातं तवया कृष्ण रणे मम
अधक्ष्यं तान अहं सर्वांस तदा करूरान महारथान
निगृह्य वासुदेवस तं पुत्राधिभिर अभिप्लुतम
मैवम इत्य अब्रवीत कृष्णस तीव्रशॊकसमन्वितम
सर्वेषाम एष वै पन्थाः शूराणाम अनिवर्तिनाम
कषत्रियाणां विशेषेण येषां युद्धेन जीविका
एषा वै युध्यमानानां शूराणाम अनिवर्तिनाम
विहिता धर्मशास्त्रज्ञैर गतिर गतिमतां वर
धरुवं युद्धे हि मरणं शूराणाम अनिवर्तिनाम
गतः पुण्यकृतां लॊकान अभिमन्युर न संशयः
एतच च सर्ववीराणां काङ्क्षितं भरतर्षभ
संग्रामे ऽभिमुखा मृत्युं परप्नुयामेति मानद
स च वीरान रणे हत्वा राजपुत्रान महाबलान
वीरैर आकाङ्क्षितं मृत्युं संप्राप्तॊ ऽभिमुखॊ रणे
मा शुचः पुरुषव्याघ्र पूर्वैर एष सनातनः
धर्मकृद्भिः कृतॊ धर्मः कषत्रियाणां रणे कषयः
इमे ते भरातरः सर्वे दीना भरतसत्तम
तवयि शॊकसमाविष्टे नृपाश च सुहृदस तव
एतांस तवं वचसा साम्ना समाश्वासय मानद
विदितं वेदितव्यं ते न शॊकं कर्तुम अर्हसि
एवम आश्वासितः पार्थः कृष्णेनाद्भुत कर्मणा
ततॊ ऽबरवीत तदा भरातॄन सर्वान पार्थः सगद्गदान
स दीर्घबाहुः पृथ्व अंसॊ दीर्घराजीव लॊचनः
अभिमन्युर यथावृत्तः शरॊतुम इच्छाम्य अहं तथा
स नागस्यन्दनहयान दरक्ष्यध्वं निहतान मया
संग्रामे सानुबन्धांस तान मम पुत्रस्य वैरिणः
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम
सौभद्रॊ निधनं गच्छेद वज्रिणापि समागतः
यद्य एवम अहम अज्ञास्यम अशक्तान रक्षणे मम
पुत्रस्य पाण्डुपाञ्चालान मया गुप्तॊ भवेत ततः
कथं च वॊ रथस्थानां शरवर्षाणि मुञ्चताम
नीतॊ ऽभिमन्युर निधनं कदर्थी कृत्यवः परैः
अहॊ वः पौरुषं नास्ति न च वॊ ऽसति पराक्रमः
यत्राभिमन्युः समरे पश्यतां वॊ निपातितः
आत्मानम एव गर्हेयं यद अहं वः सुदुर्बलान
युष्मान आज्ञाय निर्यातॊ भीरून अकृतनिश्रमान
आहॊ सविद भूषणार्थाय वर्म शस्त्रायुधानि वः
वाचश च वक्तुं संसत्सु मम पुत्रम अरक्षताम
एवम उक्त्वा ततॊ वाक्यं तिष्ठंश चापवरासिमान
न समाशक्यत बीभत्सुः केन चित परसमीक्षितुम
तम अन्तकम इव करुद्धं निःश्वसन्तं मुहुर मुहुः
पुत्रशॊकाभिसंतप्तम अश्रुपूर्णमुखं तदा
नाभिभाष्टुं शक्नुवन्ति दरष्टुं वा सुहृदॊ ऽरजुनम
अन्यत्र वासुदेवाद वा जयेष्टाद वा पाण्डुनन्दनात
सर्वास्व अवस्थासु हिताव अर्जुनस्य मनॊऽनुगौ
बहुमानात परियत्वाच च ताव एनं वक्तुम अर्हतः
ततस तं पुत्रशॊकेन भृशं पीडित मानसम
राजीवलॊचनं करुद्धं राजा वचनम अब्रवीत
[य]
तवयि याते महाबाहॊ संशप्तकबलं परति
परयत्नम अकरॊत तीव्रम आचार्यॊ गरहणे मम
वयाढानीकं वयं दरॊणं वरयामः सम सर्वशः
परतिव्यूह्य रथानीकं यतमानं तथा रणे
स वार्यमाणॊ रथिभी रक्षितेन मया तथा
अस्मान अपि जघानाशु पीडयन निशितैः शरैः
ते पीड्यमाना दरॊणेन दरॊणानीकं न शक्नुमः
परतिवीक्षितुम अप्य आजौ भेत्तुं तत कुत एव तु
वयं तव अप्रतिमं वीर्ये सर्वे सौभद्रम आत्मजम
उक्तवन्तः सम ते तात भिन्ध्य अनीकम इति परभॊ
स तथा चॊदितॊ ऽसमाभिः सदश्व इव वीर्यवान
असह्यम अपि तं भारं वॊढुम एवॊपचक्रमे
स तवास्त्रॊपदेशेन वीर्येण च समन्वितः
पराविशत तद बलं बालः सुपर्ण इव सागरम
ते ऽनुयाता वयं वीरं सात्वती पुत्रम आहवे
परवेष्टु कामास तेनैव येन स पराविशच चमूम
ततः सैन्धवकॊ राजा कषुद्रस तात जयद्रथः
वरदानेन रुद्रस्य सर्वान नः समवारयत
ततॊ दरॊणः कृपः कर्णॊ दरौणिश च स बृहद्बलः
कृतवर्मा च सौभद्रं षड रथाः पर्यवारयन
परिवार्य तु तैः सर्वैर युधि बालॊ महारथैः
यतमानः परं शक्त्या बहुभिर विरथी कृतः
ततॊ दौःशासनिः कषिप्रं तथा तैर विरथी कृतम
संशयं परमं पराप्य दिष्टान्तेनाभ्ययॊजयत
स तु हत्वा सहस्राणि दविपाश्वरथसादिनाम
राजपुत्र शतं चाग्र्यं वीरांश चालक्षितान बहून
बृहद्बलं च राजानं सवर्गेणाजौ परयॊज्य ह
ततः परमधर्मात्मा दिष्टान्तम उपजग्मिवान
एतावद एव निर्वृत्तम अस्माकं शॊकवर्धनम
स चैवं पुरुषव्याघ्रः सवर्गलॊकम अवाप्तवान
[स]
ततॊ ऽरजुनॊ वचः शरुत्वा धर्मराजेन भाषितम
हा पुत्र इति निःश्वस्य वयथितॊ नयपतद भुवि
विषण्णवदनाः सर्वे परिगृह्य धनंजयम
नेत्रैर अनिमिषैर दीनाः परत्यवेक्षन परस्परम
परतिलभ्य ततः संज्ञां वासविः करॊधमूर्छितः
कम्पमानॊ जवरेणेव निःश्वसंश च मुहुर मुहुः
पाणिं पाणौ विनिष्पिष्य शवसमानॊ ऽशरुनेत्रवान
उन्मत्त इव विप्रेक्षन्न इदं वचनम अब्रवीत
सत्यं वः परतिजानामि शवास्ति हन्ता जयद्रथम
न चेद वधभयाद भीतॊ धर्तराष्ट्रान परहास्यति
न चास्माञ शरणं गच्छेत कृष्णं वा पुरुषॊत्तमम
भवन्तं वा महाराज शवॊ ऽसमि हन्ता जयद्रथम
धार्तराष्ट्र परियकरं मयि विस्मृत सौहृदम
पापं बालवधे हेतुं शवॊ ऽसमि हन्ता जयद्रथम
रक्षमाणाश च तं संख्ये ये मां यॊत्स्यन्ति के चन
अपि दरॊण कृपौ वीरौ छादयिष्यामि ताञ शरैः
यद्य एतद एवं संग्रामे न कुर्यां पुरुषर्षभाः
मा सम पुण्यकृतां लॊकान पराप्नुयां शूर संमतान
ये लॊका मातृहन्तॄणां ये चापि पितृघातिनाम
गुरु दारगामिनां ये च पिशुनानां च ये तथा
साधून असूयतां ये च ये चापि परिवादिनाम
ये च निक्षेप हर्तॄणां ये च विश्वासघातिनाम
भुक्तपूर्वां सत्रियं ये च निन्दताम अघ शंसिनाम
बरह्मघ्नानां च ये लॊका ये च गॊघातिनाम अपि
पायसं वा यवान्नं वा शाकं कृसरम एव वा
संयावापूप मांसानि ये च लॊका वृथाश्नताम
तान अह्नैवाधिगच्छेयं न चेद धन्यां जयद्रथम
वेदाध्यायिनम अत्यर्थं संशितं वा दविजॊत्तमम
अवमन्यमानॊ यान याति वृद्धान साधूंस तथा गुरून
सपृशतां बराह्मणं गां च पादेनाग्निं च यां लभेत
याप्सु शरेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः
तां गच्छेयं गतिं घॊरां न चेद धन्यां जयद्रथम
नग्नस्य सनायमानस्य या च वन्ध्यातिथेर गतिः
उत्कॊचिनां मृषॊक्तीनां वञ्चकानां च या गतिः
आत्मापहारिणां या च या च मिथ्याभिशंसिनाम
भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस तथा
असंविभज्य कषुद्राणां या गतिर मृष्टम अश्नताम
तां गच्छेयं गतिं घॊरां न चेद धन्यां जयद्रथम
संश्रितं वापि यस तयक्त्वा साधुं तद वचने रतम
न बिभर्ति नृशंसात्मा निन्दते चॊपकारिणम
अर्हते परातिवेश्याय शराद्धं यॊ न ददाति च
अनर्हते च यॊ दद्याद वृषली पत्युर एव च
मद्यपॊ भिन्नमर्यादः कृतघ्नॊ भरातृनिन्दकः
तेषां गतिम इयां कषिप्रं न चेद धन्यां जरद्रथम
धर्माद अपेता ये चान्ये मया नात्रानुकीर्तिताः
ये चानुकीर्तिताः कषिप्रं तेषां गतिम अवाप्नुयाम
यदि वयुष्टाम इमां रात्रिं शवॊ न हन्यां जयद्रथम
इमां चाप्य अपरां भूयः परतिज्ञां मे निबॊधत
यद्य अस्मिन्न अहते पापे सूर्यॊ ऽसतम उपयास्यति
इहैव संप्रवेष्टाहं जवलितं जातवेदसम
असुरसुरमनुष्याः पक्षिणॊ वॊरगा वा; पितृरज निचरा वा बरह्म देवर्षयॊ वा
चरम अचरम अपीदं यत परं चापि तस्मात; तद अपि मम रिपुं रक्षितुं नैव शक्ताः
यदि विशति रसातलं तदग्र्यं; वियद अपि देवपुरं दितेः पुरं वा
तद अपि शरशतैर अहं परभाते; भृशम अभिपत्य रिपॊः शिरॊ ऽभिहर्ता
एवम उक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम
तस्य शब्दम अतिक्रम्य धनुः शब्दॊ ऽसपृशद दिवम
अर्जुनेन परतिज्ञाते पराञ्चजन्यं जनार्जनः
परदध्मौ तत्र संक्रुद्धॊ देवदत्तं धनंजयः
स पाञ्चजन्यॊ ऽचयुतवक्त्रवायुना; भृशं सुपर्णॊदर निःसृत धवनिः
जगत स पातालवियद दिग ईश्वरं; परकम्पयाम आस युगात्यये यथा
ततॊ वादित्रघॊषाश च परादुरासन समन्ततः
सिंहनादाश च पाण्डूनां परतिज्ञाते महात्मना
[स]
शरुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम
चारैः परवेदिते तत्र समुत्थाय जयद्रथः
शॊकसंमूढहृदयॊ दुःखेनाभिहतॊ भृशम
मज्जमान इवागाधे विपुले शॊकसागले
जगाम समितिं राज्ञां सैन्धवॊ विमृशन बहु
स तेषां नरदेवानां सकाशे परिदेवयन
अभिमन्यॊः पितुर भीतः सव्रीडॊ वाक्यम अब्रवीत
यॊ ऽसौ पाण्डॊः किल कषेत्रे जातः शक्रेण कामिना
स निनीषति दुर्बुद्धिर मां किलैकं यमक्षयम
तस तवस्ति वॊ ऽसतु यास्यामि सवगृहं जीवितेप्सया
अथ वा सथ परतिबलास तरातुं मां कषत्रियर्षभाः
पार्थेन परार्थितं वीरास ते ददन्तु ममाभयम
दरॊणदुर्यॊधनकृपाः कर्णमद्रेशबाह्लिकाः
दुःशासनादयः शक्तास तरातुम अप्य अन्तकाद्रितम
किम अङ्गपुनर एकेन फल्गुनेन जिघांसता
न तरायेयुर भवन्तॊ मां समस्ताः पतयॊ कषितेः
परहर्षं पाण्डवेयानां शरुत्वा मम महद भयम
सीदन्तीव च मे ऽङगानि मुमूर्षॊर इव पार्थिवाः
वधॊ नूनं परतिज्ञातॊ मम गाण्डीवधन्वना
तथा हि हृष्टाः करॊशन्ति शॊककाले ऽपि पाण्डवाः
न देवा न च गन्धर्वा नाशुरॊरग राक्षसाः
उत्सहन्ते ऽनयथा कर्तुं कुत एव नराधिपाः
तस्मान माम अनुजामीत भद्रं वॊ ऽसतु नरर्षभाः
अदर्शनं गमिष्यामि न मां दरक्ष्यन्ति पाण्डवाः
एवं विलपमानं तं भयाद वयाकुलचेतसम
आत्मकार्यगरीयस्त्वाद राजा दुर्यॊधनॊ ऽबरवीत
न भेतव्यं नरव्याघ्र कॊ हि तवा पुरुषर्षभ
मध्ये कषत्रिय वीराणां तिष्ठन्तं परार्थयेद युधि
अहं वैकर्तनः कर्णश चित्रसेनॊ विविंशतिः
भूरिश्रवाः शलः शल्यॊ वृषसेनॊ दुरासदः
पुरुमित्रॊ जयॊ भॊजः काम्बॊजश च सुदक्षिणः
सत्यव्रतॊ महाबाहुर विकर्णॊ दुर्मुखः सहः
दुःशासनः सुबाहुश च कलिङ्गश चाप्य उदायुधः
विन्दानुविन्दाव आवन्त्यौ दरॊणॊ दरौणिः स सौबलः
तवं चापि रथिनां शरेष्ठः सवयं शूरॊ ऽमितद्युतिः
स कथं पाण्डवेयेभ्यॊ भयं पश्यसि सैन्धव
अक्षौहिण्यॊ दशैका च मदीयास तव रक्षणे
यत्ता यॊत्स्यन्ति मां भैस तवं सैन्धव वयेतु ते भयम
एवम आश्वासितॊ राजन पुत्रेण तव सैन्धवः
दुर्यॊधनेन सहितॊ दरॊणं रात्राव उपागमत
उपसंग्रहणं कृत्वा दरॊणाय स विशां पते
उपॊपविश्य परणतः पर्यपृच्छद इदं तदा
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने
मम बरवीतु भगवान विशेषं फल्गुनस्य च
विद्या विशेषम इच्छामि जञातुम आचार्य तत्त्वतः
ममार्जुनस्य च विभॊ यथातत्त्वं परचक्ष्व मे
[दर्न]
समम आचार्यकं तात तव चैवार्जुनस्य च
यॊगाद दुःखॊचितत्वाच च तस्मात तवत्तॊ ऽधिकॊ ऽरजुनः
न तु ते युधि संत्रासः कार्यः पार्थात कथं चन
अहं हि रक्षिता तात भयात तवां नात्र संशयः
न हि मद्बाहुगुप्तस्य परभवन्त्य अमरा अपि
वयूहिष्यामि च तं वयूहं यं पार्थॊ न तरिष्यति
तस्माद युध्यस्व मा भैस तवं सवधर्मम अनुपालय
पितृपैतामहं मार्गम अनुयाहि नराधिप
अधीत्य विधिवद वेदान अग्नयः सुहुतास तवया
इष्टं च बहुभिर यज्ञैर न ते मृत्युभयाद भयम
दुर्लभं मानुषैर मन्दैर महाभाग्यम अवाप्य तु
भुजवीर्यार्जिताँल लॊकान दिव्यान पराप्स्यस्य अनुत्तमान
कुरवः पाण्डवाश चैव वृष्णयॊ ऽनये च मानवाः
अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम
पर्यायेण वयं सर्वे कालेन बलिना हताः
परलॊकं गमिष्यामः सवैः सवैः कर्मभिर अन्विताः
तपस तप्त्वा तु याँल लॊकान पराप्नुवन्ति तपस्विनः
कषत्रधर्माश्रिताः शूराः कषत्रियाः पराप्नुवन्ति तान
[स]
एवम आश्वासितॊ राजन भारद्वाजेन सैन्धवः
अपानुदद भयं पार्थाद युद्धाय च मनॊ दधे
[स]
परतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा
वासुदेवॊ महाबाहुर धनंजयम अभाषत
भरातॄणां मतम आज्ञाय तवया वाचा परतिश्रुतम
सैन्धवं शवॊ ऽसमि हन्तेति तत साहसतमं कृतम
असंमन्त्र्य मया सार्धम अतिभारॊ ऽयम उद्यतः
कथं नु सर्वलॊकस्य नावहास्या भवेमहि
धार्तराष्ट्रस्य शिबिरे मया परणिहिताश चराः
त इमे शीघ्रम आगम्य परवृत्तिं वेदयन्ति नः
तवया वै संप्रतिज्ञाते सिन्धुराजवधे तदा
सिंहनादः स वादित्रः सुमहान इह तैः शरुतः
तेन शब्देन वित्रस्ता धार्तराष्ट्राः स सैन्धवाः
नाकस्मात सिंहनादॊ ऽयम इति मत्वा वयवस्थिताः
सुमहाञ शब्दसंपातः कौरवाणां महाभुज
आसीन नागाश्वपत्तीनां रथघॊषश च भैरवः
अभिमन्युवधं शरुत्वा धरुवम आर्तॊ धनंजयः
रात्रौ निर्यास्यति करॊधाद इति मत्वा वयवस्थिताः
तैर यतद्भिर इयं सत्या शरुता सत्यवतस तव
परतिज्ञा सिन्धुराजस्य वधे राजीवलॊचन
ततॊ विमनसः सर्वे तरस्ताः कषुद्रमृगा इव
आसन सुयॊधनामात्याः स च राजा जयद्रथः
अथॊत्थाय सहामात्यैर दीनः शिबिरम आत्मनः
आयात सौवीरसिन्धूनाम ईश्वरॊ भृशदुःखितः
स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः करियाः
सुयॊधनम इदं वाक्यम अब्रवीद राजसंसदि
माम असौ पुत्र हन्तेति शवॊ ऽभियाता धनंजयः
परतिज्ञातॊ हि सेनाया मध्ये तेन वधॊ मम
तां न देवा न गन्धर्वा नासुरॊरग राक्षसाः
उत्सहन्ते ऽनयथा कर्तुं परतिज्ञां सव्यसाचिनः
ते मां रक्षत संग्रामे मा वॊ मूर्ध्नि धनंजयः
पदं कृत्वाप्नुयाल लक्ष्यं तस्माद अत्र विधीयताम
अथ रक्षा न मे संख्ये करियते कुरुनन्दन
अनुजानीहि मां राजन गमिष्यामि गृहान परति
एवम उक्तस तव अवाक्शीर्षॊ विमनाः स सुयॊधनः
शरुत्वाभिशप्तवन्तं तवां धयानम एवान्वपद्यत
तम आर्तम अभिसंप्रेक्ष्य राजा किल स सैन्धवः
मृदु चात्महितं चैव सापेक्षम इदम उक्तवान
नाहं पश्यामि भवतां तथा वीर्यं धनुर्धरम
यॊ ऽरजुनस्यास्त्रम अस्त्रेण परतिहन्यान महाहवे
वासुदेवसहायस्य गाण्डीवं धुन्वतॊ धनुः
कॊ ऽरजुनस्याग्रतस तिष्ठेत साक्षाद अपि शतक्रतुः
महेश्वरॊ ऽपि पार्थेन शरूयते यॊधितः पुरा
पदातिना महातेजा गिरौ हिमवति परभुः
दानवानां सहस्राणि हिरण्यपुरवासिनाम
जघान एकरथेनैव देवराजप्रचॊदितः
समायुक्तॊ हि कौनेयॊ वासुदेवेन धीमता
सामरान अपि लॊकांस तरीन निहन्याद इति मे मतिः
सॊ ऽहम इच्छाम्य अनुज्ञातुं रक्षितुं वा महात्मना
दरॊणेन सह पुत्रेण वीरेण यदि मन्स्यसे
स राज्ञा सवयम आचार्यॊ भृशम आक्रन्दितॊ ऽरजुन
संविधानं च विहितं रथाश च किल सज्जिताः
कर्णॊ भूरिश्रवा दरौणिर वृषसेनश च दुर्जयः
कृपश च मद्रराजश च षड एते ऽसय पुरॊगमाः
शकटः पद्मपश चार्धॊ वयूहॊ दरॊणेन कल्पितः
पद्मकर्णिकमध्यस्थः सूची पाशे जयद्रथः
सथास्यते रक्षितॊ वीरैः सिन्धुराड युद्धदुर्मदैः
धनुष्य अस्त्रे च वीर्ये च पराणे चैव तथॊरसि
अविषह्यतमा हय एते निश्चिताः पार्थ षड रथाः
एतान अजित्वा सगणान नैव पराप्यॊ जयद्रथः
तेषाम एकैकशॊ वीर्यं षण्णां तवम अनुचिन्तय
सहिता हि नरव्याघ्रा न शक्या जेतुम अञ्जसा
भूयश च चिन्तयिष्यामि नीतिम आत्महिताय वै
मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये
[अर्ज]
षड रथान धार्तराष्ट्रस्य मन्यसे यान बलाधिकान
तेषां वीर्यं ममार्धेन न तुल्यम इति लक्षये
अस्त्रम अस्त्रेण सर्वेषाम एतेषां मधुसूदन
मया दरक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा
दरॊणस्य मिषतः सॊ ऽहं सगणस्य विलप्स्यतः
मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले
यदि साध्याश च रुद्राश च वसवश च सहाश्विनः
मरुतश च सहेन्द्रेण विश्वे देवास तथासुराः
पितरः सह गन्धर्वाः सुपर्णाः सागराद्रयः
दयौर वियत पृथिवी चेयं दिशश च स दिग ईश्वराः
गराम्यारण्यानि भूतानि सथावराणि चराणि च
तरातारः सिन्धुराजस्य भवन्ति मधुसूदन
तथापि बाणैर निहतं शवॊ दरष्टासि रणे मया
सत्येन ते शपे कृष्ण तथैवायुधम आलभे
यश च गॊप्ता महेष्वासस तस्य पापस्य दुर्मतेः
तम एव परथमं दरॊणम अभियास्यामि केशव
तस्मिन दयूतम इदं बद्धं मन्यते सम सुयॊधनः
तस्मात तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम
दरष्टासि शवॊ महेष्वासान नाराचैस तिग्मतेजनैः
शृङ्गाणीव गिरेर वर्जैर दार्यमाणान मया युधि
नरनागाश्वदेहेभ्यॊ विस्रविष्यति शॊणितम
पतद्भ्यः पतितेभ्यश च विभिन्नेभ्यः शितैः शरैः
गाण्डीवप्रेषिता बाणा मनॊऽनिलसमा जवे
नृनागाश्वान विदेहासून कर्तारश च सहस्रशः
यमात कुबेराद वरुणाद रुद्राद इन्द्राच च यन मया
उपात्तम अस्त्रं घॊरं वै तद दरष्टारॊ नरा युधि
बराह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे
मया दरष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम
शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः
आस्तीर्यमाणां पृथिवीं दरष्टासि शवॊ मया युधि
करव्यादांस तर्पयिष्यामि दरावयिष्यामि शात्रवान
सुहृदॊ नन्दयिष्यामि पातयिष्यामि सैन्धवम
बह्व आगस्कृत कुसंबन्धी पापदेशसमुद्भवः
मया सैन्धवकॊ राजा हतः सवाञ शॊचयिष्यति
सर्वक्षीरान्न भॊक्तारः पापाचारा रणाजिरे
मया सराजका बाणैर नुन्ना नंक्ष्यन्ति सैन्धवाः
तथा परभाते कर्तास्मि यथा कृष्ण सुयॊधनः
नान्यं धनुर्धरं लॊके मंस्यते मत्समं युधि
गाण्डीवं च धनुर दिव्यं यॊद्धा चाहं नरर्षभ
तवं च यन्ता हृषीकेश किं नु सयाद अजितं मया
यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम
एवम एतां परतिज्ञां मे सत्यां विद्धि जनार्दन
मावमंस्था ममास्त्राणि मावमंस्था धनुर दृढम
मावमंस्था बलं बाह्वॊर मावमंस्था धनंजयम
यथा हि यात्वा संग्रामे न जीये विजयामि च
तेन सत्येन संग्रामे हतं विद्धि जयद्रथम
धरुवं वै बराह्मणे सत्यं धरुवा साधुषु संनतिः
शरीर धरुवा चापि दक्षेषु धरुवॊ नारायणे जयः
[स]
एवम उक्त्वा हृषीकेशं सवयम आत्मानम आत्मना
संदिदेशार्जुनॊ नर्दन वासविः केशवं परभुम
यथा परभातां रजनीं कल्पितः सयाद रथॊ मम
तथा कार्यं तवया कृष्ण कार्यं हि महद उद्यतम
[स]
तां निशां दुःखशॊकार्तौ शवसन्ताव इव चॊरगौ
निद्रां नैवॊपलेभाते वासुदेवधनंजयौ
नरनारायणौ करुद्धौ जञात्वा देवाः सवासवाः
वयथिताश चिन्तयाम आसुः किं कविद एतद भविष्यति
ववुश च दारुणा वाता रूक्षा गॊराभिशंसिनः
स कबन्धस तथादित्ये परिघः समदृश्यत
शुष्काशन्यश च निष्पेतुः स निर्घाताः स विद्युतः
चचाल चापि पृथिवी स शैलवनकानना
चुक्षुभुश च महाराज सागरा मकरालयाः
परतिस्रॊतः परवृत्ताश च तथा गन्तुं समुद्रगाः
रथाश्वनरनागानां परवृत्तम अधरॊत्तरम
करव्यादानां परमॊदार्थं यम राष्ट्रविवृद्धये
वाहनानि शकृन मूत्रे मुमुचू रुरुदुश च ह
तान दृष्ट्वा दारुणान सर्वान उत्पाताँल लॊमहर्षणान
सर्वे ते वयथिताः सैन्यास तवदीया भरतर्षभ
शरुत्वा महाबलस्यॊग्रां परतिज्ञां सव्यसाचिनः
अथ कृष्णं महाबाहुर अब्रवीत पाकशासनिः
आश्वासय सुभद्रां तवं भगिनीं सनुषया सह
सनुषा शवश्व्रानघायस्ते विशॊके कुरु माधव
साम्ना सत्येन युक्तेन वचसाश्वसय परभॊ
ततॊ ऽरजुन गृहं गत्वा वासुदेवः सुदुर्मनाः
भगिनीं पुत्रशॊकार्ताम आश्वासयत दुःखिताम
मां शॊकं कुरु वार्ष्णेयि कुमारं परति स सनुषा
सर्वेषां पराणिनां भीरु निष्ठैषा कालनिर्मिता
कुले जतस्य वीरस्य कषत्रियस्य विशेषतः
सदृशं मरणं हय एतत तव पुत्रस्य मा शुचः
दिष्ट्या महारथॊ वीरः पितुस तुल्यपराक्रमः
कषात्रेण विधिना पराप्तॊ वीराभिलसितां गतिम
जित्वा सुबहुशः शत्रून परेषयित्वा च मृत्यवे
गतः पुण्यकृतां लॊकान सर्वकामदुहॊ ऽकषयान
तपसा बरह्मचर्येण शरुतेन परज्ञयापि च
सन्तॊ यां गतिम इच्छन्ति पराप्तस तां तव पुत्रकः
वीरसूर वीर पत्नी तवं वीर शवशुर बान्धवा
मा शुचस तनयं भद्रे गतः स परमां गतिम
पराप्स्यते चाप्य असौ कषुद्रः सैन्धवॊ बाल घातकः
अस्यावलेपस्य फलं ससुहृद गणबान्धवः
वयुष्टायां तु वरारॊहे रजन्यां पापकर्मकृत
न हि मॊक्ष्यति पार्थात स परविष्टॊ ऽपय अमरावतीम
शवः शिरः शरॊष्यसे तस्य सैन्धवस्य रणे हृतम
समन्तपञ्चकाद बाह्यं विशॊका भव मा रुदः
कषत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम
यां वयं पराप्नुयामेह ये चान्ये शस्त्रजीविनः
वयूढॊरस्कॊ महाबाहुर अनिवर्ती वरप्रणुत
गतस तव वरारॊहे पुत्रः सवर्गं जवरं जहि
अनु जातश च पितरं मातृपक्षं च वीर्यवान
सहस्रशॊ रिपून हत्वा हतः शूरॊ महारथः
आश्वासय सनुषां राज्ञि मा शुचः कषत्रिये भृषम
शवः परियं सुमहच छरुत्वा विशॊका भव नन्दिनि
यत पार्थेन परतिज्ञातं तत तथा न तद अन्यथा
चिकीर्षितं हि ते भर्तुर न भवेज जातु निष्फलम
यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश च
रणगतम अभियान्ति सिन्धुराजं; न स भविता सह तैर अपि परभाते
[स]
एतच छरुत्वा वचस तस्य केशवस्य महात्मनः
सुभद्रा पुत्रशॊकार्ता विललाप सुदुःखिता
हा पुत्र मम मन्दायाः कथं संयुगम एत्य ह
निधनं पराप्तवांस तात पितृतुल्यपराक्रमः
कथम इन्दीवरश्यामं सुदंष्ट्रं चारुलॊचनम
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना
नूनं शूरं निपतितं तवां पश्यन्त्य अनिवर्तिनम
सुशिरॊ गरीव बाह्वंसं वयूढॊरस्कं निरूदरम
चारूपचित सर्वाङ्गं सवक्षं शस्त्रक्षताचितम
भूतानि तवा निरीक्षन्ते नूनं चन्द्रम इवॊदितम
शयनीयं पुरा यस्य सपर्ध्यास्तरण संवृतम
भूमाव अद्य कथं शेषे विप्र विद्धः सुखॊचितः
यॊ ऽनवास्यत पुरा वीरॊ वरस्त्रीभिर महाभुजः
कथम अन्वास्यते सॊ ऽदय शिवाभिः पतितॊ मृधे
यॊ ऽसतूयत पुरा हृष्टैः सूतमागधबन्दिभिः
सॊ ऽदय करव्याद गणैर घॊरैर विनदद्भिर उपास्यते
पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभॊ
पाञ्चालेषु च वीरेषु हतः केनास्य अनाथवत
अतृप्त दर्शना पुत्रदर्शनस्य तवानघ
मन्दभाग्या गमिष्यामि वयक्तम अद्य यमक्षयम
विशालाक्षं सुकेशान्तं चारु वाक्यं सुगन्धि च
तव पुत्र कदा भूयॊ मुखं दरक्ष्यामि निर्व्रणम
धिग बलं भीमसेनस्य धिक पार्थस्य धनुष्मताम
धिग वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग बलम
धिक केकयांस तथा चेदीन मत्स्यांश चैवाथ सृञ्जयान
ये तवा रणे गतं वीरं न जानन्ति निपातितम
अद्य पश्यामि पृथिवीं शून्याम इव हतत्विषम
अभिमन्युम अपश्यन्ती शॊकव्याकुल लॊचना
सवस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः
कथं तवा विरथं वीरं दरक्ष्याम्य अन्यैर निपातितम
हा वीर दृष्टॊ नष्टश च धनं सवप्न इवासि मे
अहॊ हय अनित्यं मानुष्यं जलबुद्बुद चञ्चलम
इमां ते तरुणीं भार्यां तवद आधिभिर अभिप्लुताम
कथं संधारयिष्यामि विवत्साम इव धेनुकाम
अहॊ हय अकाले परस्थानं कृतवान असि पुत्रक
विहाय फलकाले मां सुगृद्धां तव दर्शने
नूनं गतिः कृतान्तस्य पराज्ञैर अपि सुदुर्विदा
यत्र तवं केशवे नाथे संग्रामे ऽनाथवद धतः
यज्वनां दानशीलानां बराह्मणानां कृतात्मनाम
चरितब्रह्म चर्याणां पुण्यतीर्थावगाहिनाम
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणाम अपि
सहस्रदक्षिणानां च या गतिस ताम अवाप्नुहि
या गतिर युध्यमानानां शूराणाम अनिवर्तिनाम
हत्वारीन निहतानां च संग्रामे तां गतिं वरज
गॊसहस्रप्रदातॄणां करतुदानां च या गतिः
नैवेशिकं चाभिमतं ददतां या गतिः शुभा
बरह्मचर्येण यां यान्ति मुनयः संशितव्रता
एकपत्न्यश च यां यान्ति तां गतिं वरज पुत्रक
राज्ञां सुचरितैर या च गतिर भवति शाश्वती
चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः
दीनानुकम्पिनां या च सततं संविभागिनाम
पैशुन्याच च निवृत्तानां तां गतिं वरज पुत्रक
वरतिनां धर्मशीलानां गुरुशुश्रूषिणाम अपि
अमॊघातिथिनां या च तां गतिं वरज पुत्रक
ऋतुकाले सवकां पत्नीं गच्छतां या मनस्विनाम
न चान्यदारसेवीनां तां गतिं वरज पुत्रक
साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः
नारुंतुदानां कषमिणां या गतिस ताम अवाप्नुहि
मधु मांसनिवृत्तानां मदाद दम्भात तथानृतात
परॊपताप तयक्तानां तां गतिं वरज पुत्रक
हरीमन्तः सर्वशास्त्रज्ञा जञानतृप्ता जितेन्द्रियाः
यां गतिं साधवॊ यान्ति तां गतिं वरज पुत्रक
एवं विलपतीं दीनां सुभद्रां शॊककर्शिताम
अभ्यपद्यत पाञ्चाली वैराती सहिता तदा
ताः परकामं रुदित्वा च विपल्य च सुदुःखिताः
उन्मत्तवत तदा राजन विसंज्ञा नयपतन कषितौ
सॊपचारस तु कृष्णस तां दुःखितां भृशदुःखितः
सिक्त्वाम्भसा समाश्वास्य तत तद उक्त्वा हितं वचः
विसंज्ञकल्पां रुदतीम अपविद्धां परवेपतीम
भगिनीं पुण्डरीकाक्ष इदं वचनम अब्रवीत
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयॊत्तराम
गतॊ ऽभिमन्युः परथितां गतिं कषत्रिय पुंगवः
ये चान्ये ऽपि कुले सन्ति पुरुषा नॊ वरानने
सर्वे ते वै गतिं यान्तु अभिमन्यॊर यशस्विनः
कुर्याम तद वयं कर्म करियासुः सुहृदश च नः
कृतवान यादृग अद्यैकस तव पुत्रॊ महारथः
एवम आश्वास्य भगिनीं दरौपदीम अपि चॊत्तराम
पार्थस्यैव महाबाहुः पार्श्वम आगाद अरिंदमः
ततॊ ऽभयनुज्ञाय नृपान कृष्णॊ बन्धूंस तथाभिभूः
विवेशान्तःपुरं राजंस ते ऽनये जग्मुर यथालयम
[स]
ततॊ ऽरजुनस्य भवनं परविश्याप्रतिमं विभुः
सपृष्ट्वाम्भः पुण्डरीकाक्षः सथण्डिले शुभलक्षणे
संतस्तार शुभां शय्यां दर्भैर वैडूर्य संनिभैः
ततॊ माल्येन विधिवल लाजैर गन्धैः सुमङ्गलैः
अलंचकार तां शय्यां परिवार्यायुधॊत्तमैः
ततः सपृष्टॊदकं पार्थं विनीताः परिचारकाः
दर्शयां नैत्यकं चक्रुर नैशं तरैयम्बकं बलिम
ततः परीतमनाः पार्थॊ गन्धैर माल्यैश च माधवम
अलंकृत्यॊपहारं त नैशम अस्मै नयवेदयत
समयमानस तु गॊविन्दः फल्गुनं परत्यभाषत
सुप्यतां पार्थ भद्रं ते कल्याणाय वरजाम्य अहम
सथापयित्वा ततॊ दवाःस्थान गॊप्तॄंश चात्तायुधान नरान
दारुकानुगतः शरीमान विवेश शिबिरं सवकम
शिश्ये च शयने शुभ्रे बहु कृत्यं विचिन्तयन
न पाण्डवानां शिबिरे कश चित सुष्वाप तां निशाम
परजागरः सर्वजनम आविवेश विशां पते
पुत्रशॊकाभिभूतेन परतिज्ञातॊ महात्मना
सहसा सिन्धुराजस्य वधॊ गाण्डीवधन्वना
तत कथं नु महाबाहुर वासविः परवीरहा
परतिज्ञां सफलां कुर्याद इति ते समचिन्तयन
कष्टं हीदं वयवसितं पाण्डवेन महामना
पुत्रशॊकाभितप्तेन परतिज्ञा महती कृता
भरातरश चापि विक्रान्ता बहुलानि बलानि च
धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम
स हत्वा सैन्धवं संख्ये पुनर एतु धनंजयः
जित्वा रिपुगणांश चैव पारयत्व अर्जुनॊ वरतम
अहत्वा सिन्धुराजं हि धूमकेतुं परवेक्ष्यति
न हय एतद अनृतं कर्तुम अर्हः पार्थॊ धनंजयः
धर्मपुत्रः कथं राजा भविष्यति मृते ऽरजुने
तस्मिन हि विजयः कृत्स्नः पाण्डवेन समाहितः
यदि नः सुकृतं किं चिद यदि दत्तं हुतं यदि
फलेन तस्य सर्वस्य सव्यसाची जयत्व अरीन
एवं कथयतां तेषां जयम आशंसतां परभॊ
कृच्छ्रेण महता राजन रजनी वयत्यवर्तत
तस्यां रजन्यां मध्ये तु परतिबुद्धॊ जनार्दनः
समृत्वा परतिज्ञां पार्थस्य दारुकं परत्यभाषत
अर्जुनेन परतिज्ञातम आर्तेन हतबन्धुना
जयद्रथं हनिष्यामि शवॊभूत इति दारुक
तत तु दरुयॊधनः शरुत्वा मन्त्रिभिर मन्त्रयिष्यति
यथा जयद्रथं पार्थॊ न हन्याद इति संयुगे
अक्षौहिण्यॊ हि ताः सर्वा रक्षिष्यन्ति जयद्रथम
दरॊणश च सह पुत्रेण सर्वास्त्रविधिपारगः
एकॊ वीरः सहस्राक्षॊ दैत्यदानव मर्दिता
सॊ ऽपि तं नॊत्सहेताजौ हन्तुं दरॊणेन रक्षितम
सॊ ऽहं शवस तत करिष्यामि यथा कुन्तीसुतॊ ऽरजुनः
अप्राप्ते ऽसतं दिनकरे हनिष्यति जयद्रथम
न हि दारा न मित्राणि जञातयॊ न च बान्धवाः
कश चिन नान्यः परियतरः कुन्तीपुत्रान ममार्जुनात
अनर्जुनम इमं लॊकं मुहूर्तम अपि दारुक
उदीक्षितुं न शक्तॊ ऽहं भविता न च तत तथा
अहं धवजिन्यः शत्रूणां सहयाः स रथद्विपाः
अर्जुनार्थे हनिष्यामि स कर्णाः स सुयॊधनाः
शवॊ निरीक्षन्तु मे वीर्यं तरयॊ लॊका महाहवे
धनंजयार्थं समरे पराक्रान्तस्य दारुक
शवॊ नरेन्द्र सहस्राणि राजपुत्र शतानिच
साश्वद्विप रथान्य आजौ विद्रविष्यन्ति दारुक
शवस तां चक्रप्रमथितां दरक्ष्यसे नृप वाहिनीम
मया करुद्देन समरे पाण्डवार्थे निपातिताम
शवः स देवाः स गन्धर्वाः पिशाचॊरगराक्षसाः
जञास्यन्ति लॊकाः सर्वे मां सुहृदं सव्यसाचिनः
यस तं दवेष्टि स मां दवेष्टि यस तम अनु स माम अनु
इति संकल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः
यथा तवम अप्रभातायाम अस्यां निशि रथॊत्तमम
कल्पयित्वा यथाशास्त्रम आदाय वरतसंयतः
गदां कौमॊदकीं दिव्यां शक्तिं चक्रं धनुः शरान
आरॊप्य वै रथे सूत सर्वॊपकरणानि च
सथानं हि कल्पयित्वा च रथॊपस्थे धवजस्य मे
वैनतेयस्य वीरस्य समरे रथशॊभिनः
छत्रं जाम्बूनदैर जालैर अर्कज्वलन संनिभैः
विश्वकर्म कृतैर दिव्यैर अश्वान अपि च भूषितान
बलाहकं मेघपुष्पं सैन्यं सुग्रीवम एव च
युक्त्वा वाजिवरान यत्तः कवची तिष्ठ दारुक
पाञ्चजन्यस्य निर्घॊषम आर्षभेणैव पूरितम
शरुत्वा तु भैरवं नारद्म उपयाया जवेन माम
एकाह्नाहम अमर्षं च सर्वदुःखानि चैव ह
भरातुः पितृष्वसेयस्य वयपनेष्यामि दारुक
सर्वॊपायैर यतिष्यामि यथा बीभत्सुर आहवे
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम
यस्य यस्य च बीभत्सुर वधे यत्नं करिष्यति
आशंसे सारथे तत्र भवितास्य धरुवॊ जयः
[दारुक]
जय एव धरुवस तस्य कुत एव पराजयः
यस्य तवं पुरुषव्याघ्र सारथ्यम उपजग्मिवान
एवं चैतत करिष्यामि यथा माम अनुशाससि
सुप्रभाताम इमां रात्रिं जयाय विजयस्य हि
[स]
कुन्तीपुत्रस तु तं मन्त्रं समरन्न एव धनंजयः
परतिज्ञाम आत्मनॊ रक्षन मुमॊहाचिन्त्य विक्रमः
तं तु शॊकेन संतप्तं सवप्ने कपिवरध्वजम
आससाद महातेजा धयायन्तं गरुड धवजः
परत्युत्थानं तु कृष्णस्य सर्वावस्थं धनंजयः
नालॊपयत धर्मात्मा भक्त्या परेम्णा च सर्वदा
परत्युत्थाय च गॊविन्दं स तस्माय आसनं ददौ
न चासने सवयं बुद्धिं बीभत्सुर वयदधात तदा
ततः कृष्णॊ महातेजा जानन पार्थस्य निश्चयम
कुन्तीपुत्रम इदं वाक्यम आसीनः सथितम अब्रवीत
मा विषादे मनः पार्थ कृथाः कालॊ हि दुर्जयः
कालः सर्वाणि भूतानि नियच्छति परे विधौ
किमर्थं च विषादस ते तद बरूहि वदतां वर
न शॊचितव्यं विदुषा शॊकः कार्यविनाशनः
शॊचन नन्दयते शत्रून कर्शयत्य अपि बान्धवान
कशीयते च नरस तस्मान न तवं शॊचितुम अर्हसि
इत्य उक्तॊ वासुदेवेन बीभत्सुर अपराजितः
आबभाषे तदा विद्वान इदं वचनम अर्थवत
मया परतिज्ञा महती जयद्रथवधे कृता
शवॊ ऽसमि हन्ता दुरात्मानं पुत्रघ्नम इति केशव
मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत
पृष्ठतः सैन्धवः कार्यः सर्वैर गुप्तॊ महारथैः
दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः
परतिज्ञायां च हीनायां कथं जीवेत मद्विधः
दुःखॊपायस्य मे वीर विकाङ्क्षा परिवर्तते
दरुतं च याति सविता तत एतद बरवीम्य अहम
शॊकस्थानं तु तच छरुत्वा पार्थस्य दविज केतनः
संस्पृश्याम्भस ततः कृष्णः पराङ्मुखः समवस्थितः
इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः
पार्थ पाशुपतं नाम परमास्त्रं सनातनम
येन सर्वान मृधे दैत्याञ जघ्ने देवॊ महेश्वरः
यदि तद विदितं ते ऽदय शवॊ हन्तासि जयद्रथम
अथ जञातुं परपद्यस्व मनसा वृषभध्वजम
तं देवं मनसा धयायञ जॊषम आस्स्व धनंजय
ततस तस्य परसादात तवं भक्तः पराप्स्यसि तन महत
ततः कृष्ण वचः शरुत्वा संस्पृश्याम्भॊ धनंजयः
भूमाव आसीन एकाग्रॊ जगाम मनसा भवम
ततः परणिहिते बराह्मे मुहूर्ते शुभलक्षणे
आत्मानम अर्जुनॊ ऽपश्यद गगने सह केशवम
जयॊतिर्भिश च समाकीर्णं सिद्धचारणसेवितम
वायुवेगगतिः पार्थः खं भेजे सह केशवः
केशवेन गृहीतः स दक्षिणे विभुना भुजे
परेक्षमाणॊ बहून भावाञ जगामाद्भुत दर्शनान
उदीच्यां दिशि धर्मात्मा सॊ ऽपश्यच छवेत पर्वतम
कुबेरस्य विहारे च नलिनीं पद्मभूषिताम
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणॊ बहूदकाम
सदा पुष्पफलैर वृक्षैर उपेतां सफटिकॊपलाम
सिंहव्याघ्र समाकीर्णां नानामृगगणाकुलाम
पुण्याश्रमवतीं रम्यां नानामृगगणाकुलाम
मन्दरस्य परदेशांश च किंनरॊद्गीत नादितान
हेमरूप्यमयैः शृङ्गैर नानौषधि विदीपितान
तथा मन्दारवृक्षैश च पुष्पितैर उपशॊभितान
सनिग्धाञ जनचयाकारं संप्राप्तः कालपर्वतम
पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम
बरह्म तुङ्गं नदीश चान्यास तथा जनपदान अपि
सुशृङ्गं शतशृङ्गं च शर्याति वनम एव च
पुण्यम अश्वशिरः सथानं सथानम आर्थर्वणस्य च
वृषदंशं च शैलेन्द्रं महामन्दरम एव च
अप्सरॊभिः समाकीर्णं किंनरैश चॊपशॊभितम
तांश च शैलान वरजन पार्थः परेक्षते सह केशवः
शुभैः परस्रवणैर जुष्टान हेमधातुविभूषितान
चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम
समुद्रांश चाद्भुताकारान अपश्यद बहुलाकरान
वियद दयां पृथिवीं चैव पश्यन विष्णुपदे वरजन
विस्मितः सह कृष्णेन कषिप्तॊ बाण इवात्यगात
गरहनक्षत्रसॊमानां सूर्याग्न्यॊश च समत्विषम
अपश्यत तदा पार्थॊ जवलन्तम इव पर्वतम
समासाद्य तु तं शैलं शैलाग्रे समवस्थितम
तपॊनित्यं महात्मानम अपश्यद वृषभध्वजम
सहस्रम इव सूर्याणां दीप्यमानं सवतेजसा
शूलिनं जटिलं गौरं वल्कलाजिनवाससम
नयानाम्नां सहस्रैश च विचित्राङ्गं महौजसम
पार्तव्या सहितं देवं भूतसंघैश च भास्वरैः
गीतवादित्रसंह्रादैस ताललास्य समन्वितम
वल्गितास्फॊटितॊत्क्रुष्टैः पुण्यगन्धैश च सेवितम
सतूयमानं सतवैर दिव्यैर मुनिभिर बरह्मवादिभिः
गॊप्तारं सर्वभूतानाम इष्वास धरम अच्युतम
वासुदेवस तु तं दृष्ट्वा जगाम शिरसा कषितिम
पार्थेन सहधर्मात्मा गृणन बरह्म सनातनम
लॊकादिं विश्वकर्माणम अजम ईशानम अव्ययम
मनसः परमां यॊनिं खं वायुं जयॊतिषां निधिम
सरष्टारं वारिधाराणां भुवश च परकृतिं पराम
देवदानव यक्षाणां मानवानां च साधनम
यॊगिनां परमं बरह्म वयक्तं बरह्मविदां निधिम
चराचरस्य सरष्टारं परतिहर्तारम एव च
कालकॊपं महात्मानं शक्र सूर्यगुणॊदयम
अवन्दत तदा कृष्णॊ वाङ्मनॊबुद्धिकर्मभिः
यं परपश्यन्ति विद्वांसः सूक्ष्माध्यात्म पदैषिणः
तम अजं कारणात्मानं जग्मतुः शरणं भवम
अर्जुनश चापि तं देवं भूयॊ भूयॊ ऽभयवन्दत
जञात्वैकं भूतभव्यादिं सर्वभूतभवॊद्भवम
ततस ताव आगतौ शर्वः परॊवाच परहसन्न इव
सवागतं वां नरश्रेष्ठाव उत्तिष्ठेतां गतक्लमौ
किं च वाम ईप्सितं वीरौ मनसः कषिप्रम उच्यताम
येन कार्येण संप्राप्तौ युवां तत साधयामि वाम
वरियताम आत्मनः शरेयस तत सर्वं परददानि वाम
ततस तद वचनं शरुत्वा परत्युत्थाय कृताञ्जली
वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती
नमॊ भवाय शर्वाय रुद्राय वरदाय च
पशूनां पतये नित्यम उग्राय च कपर्दिने
महादेवाय भीमाय तर्यम्बकाय च शम्भवे
ईशानाय भगघ्नाय नमॊ ऽसत्व अन्धकघातिने
कुमार गुरवे नित्यं नीलग्रीवाय वेधसे
विलॊहितय धूम्राय वयाधायानपराजिते
नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे
हन्त्रे गॊप्त्रे तरिनेत्राय वयाधाय वसुरेतसे
अचिन्त्यायाम्बिका भर्त्रे सर्वदेव सतुताय च
वृषध्वजाय पिङ्गाय जटिने बरह्मचारिणे
तप्यमानाय सलिले बरह्मण्यायाजिताय च
विश्वात्मने विश्वसृजे विश्वम आवृत्य तिष्ठते
नमॊ नमस ते सेव्याय भूतानां परभवे सदा
बरह्म वक्त्राय शर्वाय शंकराय शिवाय च
नमॊ ऽसतु वाचस्पतये परजानां पतये नमः
नमॊ विश्वस्य पतये महतं पतये नमः
नमः सहस्रशिरसे सहस्रभुज मन्यवे
सहस्रनेत्र पादाय नमॊ ऽसंख्येयकर्मणे
नमॊ हिरण्यवर्णाय हिरण्यकवचाय च
भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः परभॊ
एवं सतुत्वा महादेवं वासुदेवः सहार्जुनः
परसादयाम आस भवं तदा हय अस्त्रॊपलब्धये
ततॊ ऽरजुनः परीतमना ववन्दे वृषभध्वजम
ददर्शॊत्फुल्ल नयनः समस्तं तेजसां विधिम
तं चॊपहारं सवकृतं नैशं नैत्यकम आत्मनः
ददर्श तर्यम्बकाभ्याशे वासुदेव निवेदितम
ततॊ ऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः
इच्छाम्य अहं दिव्यम अस्त्रम इत्य अभाषत शंकरम
ततः पार्थस्य विज्ञाय वरार्थे वचनं परभुः
वासुदेवार्जुनौ देवः समयमानॊ ऽभयभाषत
सरॊ ऽमृतमयं दिव्यम अभ्याशे शत्रुसूदनौ
तत्र मे तद धनुर दिव्यं शरश च निहितः पुरा
येन देवारयः सर्वे मया युधि निपातिताः
तत आनीयतां कृष्णौ स शरं धनुर उत्तमम
तथेत्य उक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह
परस्थितौ तत सरॊ दिव्यं दिव्याश्चर्य शतैर वृतम
निर्दिष्टं यद वृषाङ्केन पुण्यं सर्वार्थसाधकम
तज जग्मतुर असंभ्रान्तौ नरनारायणाव ऋषी
ततस तु तत सरॊ गत्वा सूर्यमण्डल संनिभम
नागम अन्तर्जले घॊरं ददृशाते ऽरजुनाच्युतौ
दवितीयं चापरं नागं सहस्रशिरसं वरम
वमन्तं विपुलां जवालां ददृशाते ऽगनिवर्चसम
ततः कृष्णश च पार्थश च संस्पृश्यापः कृताञ्जली
तौ नागाव उपतस्थाते नमस्यन्तौ वृषध्वजम
गृणन्तौ वेदविदुषौ तद बरह्म शतरुद्रियम
अप्रमेयं परणमन्तौ गत्वा सर्वात्मना भवम
ततस तौ रुद्र माहात्म्याद धित्वा रूपं महॊरगौ
धनुर बाणश च शत्रुघ्नं तद दवंद्वं समपद्यत
ततॊ जगृहतुः परीतौ धनुर बाणं च सुप्रभम
आजह्रतुर महात्मानौ ददतुश च महात्मने
ततः पार्श्वाद वृषाङ्कस्य बरह्म चारी नयवर्तत
पिङ्गाक्षस तपसः कषेत्रं बलवान नीललॊहितः
स तद गृह्य धनुःश्रेष्ठं तस्थौ सथानं समाहितः
वयकर्षच चापि विधिवत स शरं धनुर उत्तमम
तस्य मौर्वीं च मुष्टिं च सथानं चालक्ष्य पाण्डवः
शरुत्वा मन्त्रं भव परॊक्तं जग्राहाचिन्त्य विक्रमः
सरस्य एव च तं बाणं मुमॊचातिबलः परभुः
चकार च पुनर वीरस तस्मिन सरसि तद धनुः
ततः परीतं भवं जञात्वा समृतिमान अर्जुनस तदा
वरम आरण्यकं दत्तं दर्शनं शंकरस्य च
मनसा चिन्तयाम आस तन मे संपद्यताम इति
तस्य तन मतम आज्ञाय परीतः परादाद वरं भवः
तच च पाशुपतं घॊरं परतिज्ञायाश च पारणम
संहृष्टरॊमा दुर्धर्षः कृतं कार्यम अमन्यत
ववन्दतुश च संहृष्टॊ शिरॊभ्यां तौ महेश्वरम
अनुज्ञातौ कषणे तस्मिन भवेनार्जुन केशवौ
पराप्तौ सवशिबिरं वीरौ मुदा परमया युतौ
इन्द्रा विष्णू यथा परीतौ जम्भस्य वधकाङ्क्षिणौ
[स]
तयॊः संवदतॊर एव कृष्ण दारुकयॊस तदा
सात्यगाद रजनी राजन्न अथ राजान्वबुध्यत
पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः
वैलातिकाश च सूताश च तुष्टुवुः पुरुषर्षभम
नर्तकाश चाप्य अनृत्यन्त जगुर गीतानि गायकाः
कुरुवंशस्वतार्थानि मधुरं रक्तकण्ठिनः
मृदङ्गा झर्झरा भेर्यः पणवानकगॊमुखाः
आडम्बराश च शङ्खाश च दुन्दुभ्यश च महास्वनाः
एवम एतानि सर्वाणि तथान्यान्य अपि भारत
वादयन्ति सम संहृष्टाः कुशलाः साधु शिक्षिताः
स मेघसमनिर्घॊषॊ महाञ शब्दॊ ऽसपृशद दिवम
पार्थिव परवरं सुप्तं युधिष्ठिरम अबॊधयत
परतिबुद्धः सुखं सुप्तॊ महार्हे शयनॊत्तमे
उत्थायावश्यकायार्थं ययौ सनानगृहं ततः
ततः शुक्लाम्बराः सनातास तरुणाष्टॊत्तरं शतम
सनापकाः काञ्चनैर कुम्भैः पूर्णैः समुपतस्थिरे
भद्रासने सूपविष्टः परिधायाम्बरं लघु
सस्नौ चन्दनसंयुक्तैः पानीयैर अभिमन्त्रितैः
उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः
आप्लुतः साधिवासेन बलेन च सुगन्धिना
हरिणा चन्दनेनाङ्गम अनुलिप्य महाभुजः
सरग्वी चाक्लिष्टवसनः पराङ्मुखः पराञ्जलिः सथितः
जजाप जप्यं कौन्तेयः सतां मार्गम अनुष्ठितः
ततॊ ऽगनिशरणं दीप्तं परविवेश विनीतवत
समिद्धं स पवित्राभिर अग्निम आहुतिभिस तथा
मन्त्रपूताभिर अर्चित्वा निश्चक्राम गृहात ततः
दवितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः
तत्र वेदविदॊ विप्रान अपश्यद बराह्मणर्षभान
दान्तान वेद वरतस्नातान सनातान अवभृथेषु च
सहस्रानुचरान सौरान अष्टौ दशशतानि च
अक्षतैः सुमनॊभिश च वाचयित्वा महाभुजः
तान दविजान मधु सर्पिर्भ्यां फलैः शरेष्ठैः सुमङ्गलैः
परादात काञ्चनम एकैकं निष्कं विप्राय पाण्डवः
अलंकृतं चाश्वशतं वासांसीष्टाश च दक्षिणाः
तथा गाः कपिला दॊग्ध्रीः सर्षभाः पाण्डुनन्दनः
हेमशृङ्गी रूप्यखरा दत्त्वा चक्रे परदक्षिणम
सवस्तिकान वर्धमानांश च नन्द्यावर्तांश च काञ्चना
माल्यं च जलकुम्भांश च जवलितं च हुताशनम
पूर्णान्य अक्षत पात्राणि रुचकान रॊचनांस तथा
सवलंकृताः शुभाः कन्या दधि सर्पिर्मधूदकम
पङ्गल्यान पक्षिणश चैव यच चान्यद अपि पूजितम
दृष्ट्वा सपृष्ट्वा च कौन्तेयॊ बाह्यं कक्ष्याम अगात ततः
ततस तस्य महाबाहॊस तिष्ठतः परिचारकाः
सौवर्णं सर्वतॊभद्रं मुक्ता वैडूर्य मण्डितम
परार्ध्यास्तरणास्तीर्णं सॊत्तरच छदम ऋद्धिमत
विश्वकर्म कृतं दिव्यम उपजह्रुर वरासनम
तत्र तस्यॊपविष्टस्य भूषणानि महात्मनः
उपजह्रुर महार्हाणि परेष्याः शुभ्राणि सर्वशः
युक्ताभरण वेषस्य कौन्तेयस्य महात्मनः
रूपम आसीन महाराज दविषतां शॊकवर्धनम
पाण्डरैश चन्द्ररश्म्याभैर हेमदण्डैश च चामरैः
दॊधूयमानः शुशुभे विद्युद्भिर इव तॊयदः
संस्तूयमानः सूतैश च वन्द्यमानश च बन्दिभिः
उपगीयमानॊ गन्धर्वैर आस्ते सम कुरुनन्दनः
ततॊ मुहूर्ताद आसीत तु बन्धिनां निस्वनॊ महान
नेमिघॊषश च रथिनां खुरघॊषश च वाजिनाम
हरादेन गजघण्टानां शङ्खानां निनदेन च
नराणां पदशब्दैश च कम्पतीव सम मेदिनी
ततः शुद्धान्तम आसाद्य जानुभ्यां भूतले सथितः
शिरसा वन्दनीयं तम अभिवन्द्य जगत्पतिम
कुण्डली बद्धनिस्त्रिंशः संनद्ध कवचॊ युवा
अभिप्रणम्य शिरसा दवाःस्थॊ धर्मात्मजाय वै
नयवेदयद धृषीकेशम उपयातं महात्मने
सॊ ऽबरवीत पुरुषव्याघ्रः सवागतेनैव माधवम
अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम
ततः परवेश्य वार्ष्णेयम उपवेश्य वरासने
सत्कृत्य सत्कृतस तेन पर्यपृच्छद युधिष्ठिरः
[य]
मुखेन रजनी वयुष्टा कच चित ते मधुसूदन
कच चिज जञानानि सर्वाणि परसन्नानि तवाच्युत
[स]
वासुदेवॊ ऽपि तद युक्तं पर्यपृच्छद युधिष्ठिरम
ततः कषत्ता परकृतयॊ नयवेदयद उपस्थिताः
अनुज्ञातश च राज्ञा स परावेशयत तं जनम
विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम
शिखण्डिनं यमौ चैव चेकितानं च केकयान
युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चॊत्तमौजसम
एते चान्ये च बहवः कषत्रियाः षत्रियर्षभम
उपतस्थुर महात्मानं विविशुश चासनेषु ते
एकस्मिन्न आसने वीराव उपविष्टौ महाबलौ
कृष्णश च युयुधानश च महात्मानौ महाद्युती
ततॊ युधिष्ठिरस तेषां शृण्वतां मधुसूदनम
अब्रवीत पुण्डरीकाक्षम आभाष्य मधुरं वचः
एकं तवां वयम आश्रित्य सहस्राक्षम इवामराः
परार्थयामॊ जयं युद्धे शाश्वतानि सुखानि च
तवं हि राज्यविनाशं च दविषद्भिश च निराक्रियाम
कलेशांश च विविधान कृष्ण सर्वांस तान अपि वेत्थ नः
तवयि सर्वेश सर्वेषाम अस्माकं भक्त वत्सल
सुखम आयत्तम अत्यर्थं यात्रा च मधुसूदन
स तथा कुरु वार्ष्णेय यथा तवयि मनॊ मम
अर्जुनस्य यथासत्या परतिज्ञा सयाच चिकीर्षिता
स भवांस तारयत्व अस्माद दुःखामर्ष महार्णवात
पारं तितीर्षताम अद्य फल्वॊ नॊ भव माधव
न हि तत कुरुते संख्ये कार्तवीर्य समस तव अपि
रथी यत कुरुते कृष्णसारथिर यत्नम आस्थितः
[वासु]
सामरेष्व अपि लॊकेषु सर्वेषु च तथाविधः
शरासनधरः कश चिद यथा पार्थॊ धनंजयः
वीर्यवान अस्त्रसंपन्नः पराक्रानॊन महाबलः
युद्धशौण्डः सदामर्षी तेजसा परमॊ नृणाम
स युवा वृषभस्कन्धॊ दीर्घबाहुर महाबलः
सिंहर्षभ गतिः शरीमान दविषतस ते हनिष्यति
अहं च तत करिष्यामि यथा कुन्तीसुतॊ ऽरजुनः
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्य अग्निर इवॊत्थितः
अद्य तं पापकर्माणं कषुद्रं सौभद्र घातिनम
अपुनर्दर्शनं मार्गम इषुभिः कषेप्स्यते ऽरजुनः
तस्याद्य गृध्राः शयेनाश च वड गॊमायवस तथा
भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः
यद्य अस्य देवा गॊप्तारः सेन्द्राः सर्वे तथाप्य असौ
राजधानीं यमस्याद्य हतः पराप्स्यति संकुले
निहत्य सैन्धवं जिष्णुर अद्य तवाम उपयास्यति
विशॊकॊ विज्वरॊ राजन भव भूतिपुरस्कृतः
[स]
तथा संभाषतां तेषां परादुरासीद धनंजयः
दुदृक्षुर भरतश्रेष्ठं राजानं ससुहृद गणम
तं परविष्टं शुभां कक्ष्याम अभिवाद्याग्रतः सथितम
समुत्थायार्जुनं परेम्णा सस्वजे पाण्डवर्षभः
मूर्ध्नि चैनम उपाघ्राय परिष्वज्य च बाहुना
आशिषः परमाः परॊच्य समयमानॊ ऽभयभाषत
वयक्तम अर्जुन संग्रामे धरुवस ते विजयॊ महान
यादृग रूपा हि ते छाया परसन्नश च जनार्दनः
तम अब्रवीत ततॊ जिष्णुर महद आश्चर्यम उत्तमम
दृष्टवान अस्मि भद्रं ते केशवस्य परसादजम
ततस तत कथयाम आस यथादृष्टं धनंजयः
आश्वासनार्थं सुहृदां तर्यम्बकेनसमागमम
ततः शिरॊभिर अवनिं सपृष्ट्वा सर्वे च विस्मिताः
नमस्कृत्य वृषाङ्काय साधु साध्व इत्य अथाब्रुवन
अनुज्ञातास ततः सर्वे सुहृदॊ धर्मसूनुना
तवरमाणाः सुसंनद्धा हृष्टा युद्धान निर्ययुः
अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः
हृष्टा विनिर्ययुस ते वै युधिष्ठिर निवेशनात
रथेनैकेन दुर्धर्षौ युयुधान जनार्दनौ
जग्मतुः सहितौ वीराव अर्जुनस्य निवेशनम
तत्र गत्वा हृषीकेशः कल्पयाम आस सूतवत
रथं रथवरस्याजौ वानरर्षभ लक्षणम
स मेघसमनिर्घॊषस तप्तकाञ्चनसप्रभः
बभौ रथवरः कॢप्तः शिशुर दिवसकृद यथा
ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः
कृताह्निकाय पार्थाय नयवेदयत तं रथम
तं तु लॊके वरः पुंसां किरीटी हेमवर्मभृत
बाणवाणासनी वाहं परदक्षिणम अवर्तत
ततॊ विद्या वयॊवृद्धैः करियावद्भिर जितेन्द्रियैः
सतूयमानॊ जयाशीभिर आरुरॊह महारथम
जैत्रैः सांग्रामिकैर मन्त्रैः पूर्वम एव रथॊत्तमम
अभिमन्त्रितम अर्चिष्मान उदयं भास्करॊ यथा
स रथे रथिनां शरेष्ठः काञ्चने काञ्चनावृतः
विबभौ विमलॊ ऽरचिष्मान मेराव इव दिवाकरः
अन्वारुरॊहतुः पार्थं युयुधान जनार्दनौ
शर्यातेर यज्ञम आयान्तं यथेन्द्रं देवम अश्विनौ
अथ जग्राह गॊविन्दॊ रश्मीन रश्मिवतां वरः
मातलिर वासवस्येव वृत्रं हन्तुं परयास्यतः
स ताभ्यां सहितः पार्थॊ रथप्रवरम आस्थितः
सहितौ बुभ शुक्राभ्यां तमॊ निघ्नन यथा शशी
सैन्धवस्य वधप्रेप्सुः परयातः शत्रुपूगहा
सहाम्बुपतिमित्राभ्यां यथेन्द्रस तारकामये
ततॊ वादित्रनिर्घॊषैर मङ्गल्यैश च सतवैः शुभैः
परयान्तम अर्जुनं सूता मागधाश चैव तुष्टुवुः
स जयाशीः स पुण्याहः सूतमागध निस्वनः
युक्तॊ वादित्रघॊषेण तेषां रतिकरॊ ऽभवत
तम अनुप्रयतॊ वायुः पुण्यगन्धवहः शुचिः
ववौ संहर्षयन पार्थं दविषतश चापि शॊषयन
परादुरासन निमित्तानि विजयाय बहूनि च
पाण्डवानां तवदीयानां विपरीतानि मारिष
दृष्ट्वार्जुनॊ निमित्तानि विजयाय परदक्षिणम
युयुधानं महेष्वासम इदं वचनम अब्रवीत
युयुधानाद्य युद्धे मे दृश्यते विजयॊ धरुवः
यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुंगव
सॊ ऽहं तत्र गमिष्यामि यत्र सैन्धवकॊ नृपः
यियासुर यम लॊकाय मम वीर्यं परतीक्षते
यथा परमकं कृत्यं सैन्धवस्य वधे मम
तथैव सुमहत कृत्यं धर्मराजस्य रक्षणे
स तवम अद्य महाबाहॊ राजानं परिपालय
यथैव हि मया गुप्तस तवया गुप्तॊ भवेत तथा
तवयि चाहं पराश्वस्य परद्युम्ने वा महारथे
शक्नुयां सैन्धवं हन्तुम अनपेक्षॊ नरर्षभ
मय्य अपेक्षा न कर्तव्या कथं चिद अपि सात्वत
राजन्य एव परा गुप्तिः कार्या सर्वात्मना तवया
न हि यत्र महाबाहुर वासुदेवॊ वयवस्थितः
किं चिद वयापद्यते तत्र यत्राहम अपि च धरुवम
एवम उक्तस तु पार्थेन सात्यकिः परवीरहा
तथेत्य उक्त्वागमत तत्र यत्र राजा युधिष्ठिरः
[धृ]
शवॊभूते किम अकार्षुस ते दुःखशॊकसमन्विताः
अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः
जानन्तस तस्य कर्माणि कुरवः सव्यसाचिनः
कथं तत किल्बिषं कृत्वा निर्भया बरूहि मामकाः
पुत्रशॊकाभिसंतप्तं करुद्धं मृत्युम इवान्तकम
आयान्तं पुरुषव्याघ्रं कथं ददृशुर आहवे
कपिराजध्वजं संख्ये विधुन्वानं महद धनुः
दृष्ट्वा पुत्र परिद्यूनं किम अकुर्वन्त मामकाः
किं नु संजय संग्रामे वृत्तं दुर्यॊधनं परति
परिदेवॊ महान अत्र शरुतॊ मे नाभिनन्दनम
बभूवुर ये मनॊग्राह्याः शब्दाः शरुतिसुखावहाः
न शरूयन्ते ऽदय ते सर्वे सैन्धवस्य निवेशने
सतुवतां नाद्य शरूयन्ते पुत्राणां शिबिरे मम
सूतमागध संघानां नर्तकानां च सर्वशः
शब्देन नादिताभीक्ष्णम अभवद यत्र मे शरुतिः
दीनानाम अद्य तं शब्दं न शृणॊमि समीरितम
निवेशने सत्यधृतेः सॊमदत्तस्य संजय
आसीनॊ ऽहं पुरा तात शब्दम अश्रौषम उत्तमम
तद अद्य हीनपुण्यॊ ऽहम आर्तस्वरनिनादितम
निवेशनं हतॊत्साहं पुत्राणां मम लक्षये
विविंशतेर दुर्मुखस्य चित्रसेनविकर्णयॊः
अन्येषां च सुतानां मे न तथा शरूयते धवनिः
बराह्मणाः कषत्रिया वैश्या यं शिष्याः पर्युपासते
दरॊणपुत्रं महेष्वासं पुत्राणां मे परायणम
वितण्डालाप संलापैर हुतयाचित वन्दितैः
गीतैश्च विविधैर इष्टै रमये यॊ दिवानिशम
उपास्यमानॊ बहुभिः कुरुपाण्डवसात्वतैः
सूत तस्य गृहे शब्धॊ नाद्य दरौणेर यथा पुरा
दरॊणपुत्रं महेष्वासं गायना नर्तकाश च ये
अत्यर्थम उपतिष्ठन्ति तेषां न शरूयते धवनिः
विन्दानुविन्दयॊः सायं शिबिरे यॊ महाध्वनिः
शरूयते सॊ ऽदय न तथा केकयानां च वेश्मसु
नित्यप्रमुदितानां च तालगीत सवनॊ महान
नृत्यतां शरूयते तात गणानां सॊ ऽदय न धवनिः
सप्त तन्तून वितन्वाना यम उपासन्ति याजकाः
सौमदत्तिं शरुतनिधिं तेषां न शरूयते धवनिः
जयाघॊषॊ बरह्मघॊषश च तॊरमासि रथध्वनिः
दरॊणस्यासीद अविरतॊ गृहे तन न शृणॊम्य अहम
नानादेशसमुत्थानां गीतानां यॊ ऽभवत सवनः
वादित्रनादितानां च सॊ ऽदय न शरूयते महान
यदा परभृत्य उपप्लव्याच छान्तिम इच्छञ जनार्दनः
आगतः सर्वभूतानाम अनुकम्पार्थम अच्युतः
ततॊ ऽहम अब्रुवं सूत मन्दं दुर्यॊधनं तदा
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः
कालप्राप्र्तम अहं मन्ये मा तवं दुर्यॊधनातिगाः
शमे चेद याचमानं तवं परत्याख्यास्यसि केशवम
हितार्थम अभिजल्पन्तं न तथास्त्य अपराजयः
परत्याचष्ट स दाशार्हम ऋषभं सर्वधन्विनाम
अनुनेयानि जल्पन्तम अनयान नान्वपद्यत
ततॊ दुःशासनस्यैव कर्णस्य च मतं दवयॊः
अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः
न हय अहं दयूतम इच्छामि विदुरॊ न परशंसति
सैन्धवॊ नेच्छते दयूतं भीष्मॊ न दयूतम इच्छति
शल्यॊ भूरिश्रवाश चैव पुरुमित्रॊ जयस तथा
अश्वत्थामा कृपॊ दरॊणॊ दयूतं नेच्छन्ति संजय
एतेषां मतम आज्ञाय यदि वर्तेत पुत्रकः
स जञातिमित्रः स सुहृच चिरं जीवेद अनामयः
शलक्ष्णा मधुरसंभाषा जञातिमध्ये परियंवदाः
कुलीनाः समताः पराज्ञाः सुखं पराप्स्यन्ति पाण्डवाः
धर्मापेक्षॊ नरॊ नित्यं सर्वत्र लभते सुखम
परेत्य भावे च कल्याणं परसादं परतिपद्यते
अर्हन्त्य अर्धं पृथिव्यास ते भॊक्तुं सामर्थ्य साधनाः
तेषाम अपि समुद्रान्ता पितृपैतामही मही
नियुज्यमानाः सथास्यन्ति पाण्डवा धर्मवर्त्मनि
सन्ति नॊ जञातयस तात येषां शरॊष्यन्ति पाण्डवाः
शल्यस्य सॊमदत्तस्य भीष्मस्य च महात्मनः
दरॊणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च
अन्येषां चैव वृद्धानां भरतानां महात्मनाम
तवदर्थं बरुवतां तातः करिष्यन्ति वचॊ हितम
कं वा तवं मन्यसे तेषां यस तवा बरूयाद अतॊ ऽनयथा
कृष्णॊ न धर्मं संजह्यात सर्वे ते च तवद अन्वयाः
मयापि चॊक्तास ते वीरा वचनं धर्मसंहितम
नान्यथा परकरिष्यन्ति धर्मात्मानॊ हि पाण्डवाः
इत्य अहं विलपन सूत बहुशः पुत्रम उक्तवान
न च मे शरुतवान मूढॊ मन्ये कालस्य पर्ययम
वृकॊदरार्जुनौ यत्र वृष्णिवीरश च सात्यकिः
उत्तमौजाश च पाञ्चाल्यॊ युधामन्युश च दुर्जयः
धृष्टद्युम्नश च दुर्धर्षः शिखण्डी चापराजितः
अश्मकाः केकयाश चैव कषत्रधर्मा च सौमकिः
चैद्यश च चेकितानश च पुत्रः पाश्यस्य चाभिभुः
दरौपदेया विराटश च दरुपदश च महारथः
यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः
क एताञ जातु युध्येत लॊके ऽसमिन वै जिजीविषुः
दिव्यम अस्त्रं विकुर्वाणान संहरेयुर अरिंदमाः
अन्यॊ दुर्यॊधनात कर्णाच छकुनेश चापि सौबलात
दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम
येषाम अभीशु हस्तः सयाद विष्वक्सेनॊ रथे सथितः
संनद्धश चार्जुनॊ यॊधा तेषां नास्ति पराजयः
तेषां मम विलापानां न हि दुर्यॊधनः समरेत
हतौ हि पुरुषव्याघ्रौ भीष्मद्रॊणौ तवम आत्थ मे
तेषां विदुर वाक्यानाम उक्तानां दीर्घदर्शिनाम
दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शॊचन्ति पुत्रकाः
हिमात्यये यथा कक्षं शुष्कं वातेरितॊ महान
अग्निर दहेत तथा सेनां मामिकां सधनंजयः
आचक्ष्व तद धि नः सर्वं कुशलॊ हय असि संजय
यद उपायात तु सायाह्ने कृत्वा पार्थस्य किल्बिषम
अभिमन्यौ हते तात कथम आसीन मनॊ हि वः
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः
अपकृत्वा महत तात सॊढुं शक्ष्यन्ति मामकाः
किं नु दुर्यॊधनः कृत्यं कर्णः कृत्यं किम अब्रवीत
दुःशासनः सौबलश च तेषाम एवंगते अपि
सर्वेषां समवेतानां पुत्राणां मम संजय
यद्वृत्तं तात संग्रामे मन्दस्यापनयैर भृशम
लॊभानुगत दुर्बुद्धेः करॊधेन विकृतात्मनः
राज्यकामस्य मूढस्य रागॊपहत चेतसः
दुर्नीतं वा सुनीतं वा तन ममाचक्ष्व संजय
[स]
हन्त ते संप्रवक्ष्यामि सर्वं परत्यक्षदर्शिवान
शुश्रूषस्व सथिरॊ भूत्वा तव हय अपनयॊ महान
गतॊदके सेतुबन्धॊ यादृक तादृग अयं तव
विलापॊ निष्फलॊ राजन मा शुचॊ भरतर्षभ
अनतिक्रमणीयॊ ऽयं कृतान्तस्याद्भुतॊ विधिः
मा शुचॊ भरतश्रेष्ठ दिष्टम एतत पुरातनम
यदि हि तवं पुरा दयूतात कुन्ति पुत्रं युधिष्ठिरम
निवर्तयेथाः पुत्रांश च न तवां वयसनम आव्रजेत
युद्धकाले पुनः पराप्ते तदैव भवता यदि
निवर्तिताः सयुः संरब्धा न तवां वयसनम आव्रजेत
दुर्यॊधनं चाविधेय्यं बध्नीतेति पुरा यदि
कुरून अचॊदयिष्यस तवं न तवां वयसनम आव्रजेत
तत ते बुद्धिव्यभीचारम उपलप्स्यन्ति पाण्डवाः
पाञ्चाला वृष्णयः सर्वे ये चान्ये ऽपि महाजनाः
स कृत्वा पितृकर्म तवं पुत्रं संस्थाप्य सत्पथे
वर्तेथा यदि धर्मेण न तवां वयसनम आव्रजेत
तवं तु पराज्ञतमॊ लॊके हित्वा धर्मं सनातनम
दुर्यॊधनस्य कर्णस्य शकुनेश चान्वगा मतम
तत ते विलपितं सर्वं मया राजन निशामितम
अर्थे निविशमानस्य विषमिश्रं यथा मधु
न तथा मन्यते कृष्णॊ राजानं पाण्डवं पुरा
न भीष्मं नैव च दरॊणं यथा तवाम मन्यते नृप
वयाजानत यदा तु तवां राजधर्माद अधश चयुतम
तदा परभृति कृष्णस तवां न तथा बहु मन्यते
परुषाण्य उच्यमानांश च यथा पार्थान उपेक्षसे
तस्यानुबन्धः पराप्तस तवां पुत्राणां राज्यकामुकम
पितृपैतामहं राज्यम अपवृत्तं तदानघ
अथ पार्थैर जितां कृत्स्नां पृथिवीं परत्यपद्यथाः
पाण्डुनावर्जितं राज्यं कौरवाणां यशस तथा
ततश चाभ्यधिकं भूयः पाण्डवैर धर्मचारिभिः
तेषां तत तादृशं कर्म तवाम आसाद्य सुनिष्फलम
यत पित्र्याद भरंशिता राज्यात तवयेहामिष गृद्धिना
यत पुनर युद्धकाले तवं पुत्रान गर्हयसे नृप
बहुधा वयाहरन दॊषान न तद अद्यॊपपद्यते
न हि रक्षन्ति राजानॊ युध्यन्तॊ जीवितं रणे
चमूं विगाह्य पार्थानां युध्यन्ते कषत्रियर्षभाः
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकॊदरौ
रक्षेरन कॊ नु तां युध्येच चमूम अन्यत्र कौरवैः
येषां यॊधा गुडाकेशॊ येषां मन्त्री जनार्दनः
येषां च सात्यकिर गॊप्ता येषां गॊप्ता वृकॊदरः
कॊ हि तान विषहेद यॊद्धुं मर्त्यधर्मा धनुर्धरः
अन्यत्र कौरवेयेभ्यॊ ये वा तेषां पदानुगाः
यावत तु शक्यते कर्तुम अनुरक्तैर जनाधिपैः
कषत्रधर्मरतैः शूरैस तावत कुर्वन्ति कौरवाः
यथा तु पुरुषव्याघ्रैर युद्धं परमसङ्कटम
कुरूणां पाण्डवैः सार्धं तत सर्वं शृणु तत्त्वतः
[स]
तस्यां निशायां वयुष्टायां दरॊणः शस्त्रभृतां वरः
सवान्य अनीकानि सर्वाणि पराक्रामद वयूहितुं तथ
शूराणां गर्जतां राजन संक्रुद्धानाम अमर्षिणाम
शरूयन्ते सम गिरिश चित्राः परस्परवधैषिणाम
विस्फार्य च धनूंष्य आजौ जयाः करैः परिमृज्य च
विनिःश्वसन्तः पराक्रॊशन कवेदानीं सधनंजयः
विकॊशान सुत्सरून अन्ये कृतधारान समाहितान
पीतान आकाशसंकाशान असीन के चिच च चिक्षिपुः
चरन्तस तव असि मार्गांश च धनुर मार्गांश च शिक्षया
संग्राममनसः शूरा दृश्यन्ते सम सहस्रशः
स घण्टाश चन्दनादिग्धाः सवर्णवर्ज विभूषिताः
समुत्क्षिप्य गदाश चान्ये पर्यपृच्छन्त पाण्डवम
अन्ये बलमदॊन्मत्ताः परिघैर बाहुशालिनः
चक्रुः सबाधम आकाशम उच्छ्रितेन्द्र धवजॊपमैः
नानाप्रहरणैश चान्ये विचित्रस्रग अलंकृताः
संग्राममनसः शूरास तत्र तत्र वयवस्थिताः
कवार्जुनः कव च गॊविन्दः कव च मानी वृकॊदरय
कव च ते सुहृदस तेषाम आह्वयन्तॊ रणे तदा
ततः शङ्खम उपाध्माय तवरयन वाजिनः सवयम
इतस ततस तान रचयन दरॊणश च रतिवेगितः
तेष्व अनीकेषु सर्वेषु सथितेष्व आहवनन्दिषु
भारद्वाजॊ महाराज जयद्रथम अथाब्रवीत
तवं चैव सौमदत्तिश च कर्णश चैव महारथः
अश्वत्थामा च शल्यश च वृषसेनः कृपस तथा
शतं चाश्वसहस्राणां रथानाम अयुतानि षट
दविरदानां परभिन्नानां सहस्राणि चतुर्दश
पदातीनां सहस्राणि दंशितान्य एकविंशतिः
गव्यूतिषु तरिमात्रेषु माम अनासाद्य तिष्ठत
तत्रस्थं तवां न संसॊढुं शक्ता देवाः स वासवाः
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव
एवम उक्तः समाश्वस्तः सिन्धुराजॊ जयद्रथः
संप्रायात सह गान्धारैर वृतस तैश च महारथैः
वर्मिभिः सादिभिर यत्तैः परासपाणिभिर आस्थितैः
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः
जयद्रथस्य राजेन्द्र हयाः साधु परवाहिनः
ते चैव सप्त साहस्रा दविसाहस्राश च सैन्धवाः
मत्तानाम अधिरूढानां हस्त्यारॊहैर विशारदैः
नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम
अध्यर्धेन सहस्रेण पुत्रॊ दुर्मर्षणस तव
अग्रतः सर्वसैन्यानां यॊत्स्यमानॊ वयवस्थितः
ततॊ दुःशासनश चैव विकर्णश च तवात्मजौ
सिन्धुराजार्थ सिद्ध्यर्थम अग्रानीके वयवस्थितौ
दीर्घॊ दवादश गव्यूतिः पञ्चार्धे पञ्च विस्तृतः
वयूहः सचक्रशकटॊ भारद्वाजेन निर्मितः
नाना नृपतिभिर वीरैस तत्र तत्र वयवस्थितैः
रथाश्वगजपत्त्यॊघैर दरॊणेन विहितः सवयम
पश्चार्दे तस्य पद्मस तु गर्भव्यूहः सुदुर्भिदः
सूची पद्मस्य मध्यस्थॊ गूढॊ वयूहः पुनः कृतः
एवम एतं महाव्यूहं वयूह्य दरॊणॊ वयवस्थितः
सूचीमुखे महेष्वासः कृतवर्मा वयवस्थितः
अनन्तरं च काम्बॊजॊ जलसंधश च मारिष
दुर्यॊधनः सहामात्यस तदनन्तरम एव च
ततः शतसहस्राणि यॊधानाम अनिवर्तिनाम
वयवस्थितानि सर्वाणि शकटे सूचि रक्षिणः
तेषां च पृष्ठतॊ राजबलेन महता वृतः
जयद्रथस ततॊ राजन सूचि पाशे वयवस्थितः
शकटस्य तु राजेन्द्र अभारद्वाजॊ मुखे सथितः
अनु तस्याभवद भॊजॊ जुगॊपैनं ततः सवयम
शवेतवर्माम्बरॊष्णीषॊ वयूढॊरस्कॊ महाभुजः
धनुर विस्फारयन दरॊणस तस्थौ करुद्ध इवान्तकः
पताकिनं शॊण हयं वेदी कृष्णाजिनध्वजम
दरॊणस्य रथम आलॊक्य परहृष्टाः कुरवॊ ऽभवन
सिद्धचारणसंघानां विस्मयः सुमहान अभूत
दरॊणेन विहितं दृष्ट्वा वयूहं कषुब्धार्णवॊपम
स शैलसागर वनां नानाजनपदाकुलाम
गरसेद वयूहः कषितिं सर्वाम इति भूतानि मेनिरे
बहु रथमनुजाश्वपत्तिनागं; परतिभय निस्वनम अद्भुताभ रूपम
अहितहृदयभेदनं महद वै; शकटम अवेक्ष्य कृतं ननन्द राजा
[स]
ततॊ वयूढेष्व अनीकेषु समुत्क्रुष्टेषु मारिष
ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च
अनीकानां च संह्रादे वादित्राणां च निस्वने
परध्मापितेषु शङ्खेषु संनादे लॊमहर्षणे
अभिहारयत्सु शनकैर भरतेषु युयुत्सुषु
रौद्रे मुहूर्ते संप्राप्ते सव्यसाची वयदृश्यत
वडानां वायसानां च पुरस्तात सव्यसाचिनः
बहुलानि सहस्राणि पराक्रीडंस तत्र भारत
बृगाश च घॊरसंनादाः शिवाश चाशिव दर्शनाः
दक्षिणेन परयातानाम अस्माकं पराणदंस तथा
स निर्घाता जवलन्त्यश च पेतुर उल्काः समन्ततः
चचाल च महीकृत्स्ना भये घॊरे समुत्थिते
विष्वग वाताः स निर्घाता रूक्षाः शर्कर वर्षिणः
वव्युर आयाति कौनेये संग्रामे समुपस्थिते
नाकुलिस तु शतानीकॊ धृष्टद्युम्नश च पार्षतः
पाण्डवानाम अनीकानि पराज्ञौ तौ वयूहतुस तदा
ततॊ रथसहस्रेण दविरदानां शतेन च
तरिभिर अश्वसहस्रैश च पदातीनां शतैः शरैः
अध्यर्धमात्रे धनुषां सहस्रे तनयस तव
अग्रतः सर्वसैन्यानां सथित्वा दुर्मर्षणॊ ऽबरवीत
अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम
अहम आवारयिष्यामि वेलेव मकरालयम
अद्य पश्यन्तु संग्रामे धनंजयम अमर्षणम
विषक्तं मयि दुर्धर्षम अश्मकूटम इवाश्मनि
एवं बरुवन महाराज महात्मा स महामतिः
महेष्वासैर वृतॊ राजन महेष्वासॊ वयवस्थितः
ततॊ ऽनतक इव करुद्धः स वर्ज इव वासवः
दण्डपाणिर इवासह्यॊ मृत्युः कालेन चॊदितः
शूलपाणिर इवाक्षॊभ्यॊ वरुणः पाशवान इव
युगान्ताग्निर इवार्चिष्मान परधक्ष्यन वै पुनः परजाः
करॊधामर्षबलॊद्धूतॊ निवातकवचान्तकः
जयॊ जेता सथितः सत्ये पारयिष्यन महाव्रतम
आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत
शुभ्र वर्माम्बर धरः सवङ्गदी चारुकुण्डली
रथप्रवरम आस्थाय नरॊ नारायणानुगः
विधुन्वन गाण्डिवं संख्ये बभौ सूर्य इवॊदितः
सॊ ऽगरानीकस्य महत इषुपाते धनंजयः
वयवस्थाप्य रथं सज्जं शङ्खं दध्मौ परतापवान
अथ कृष्णॊ ऽपय असंभ्रान्तः पार्थेन सह मारिष
पराध्मापयत पाञ्चजन्यं शङ्खप्रवरम ओजसा
तयॊः शङ्खप्रणादेन तव सैन्ये विशां पते
आसन संहृष्टरॊमाणः कम्पिता गतचेतसः
यथा तरसन्ति भूतानि सर्वाण्य अशनिनिस्वनात
तथा शङ्खप्रणादेन वित्रेसुस तव सैनिकाः
परसुस्रुवुः शकृन मूत्रं वाहनानि च सर्वशः
एवं स वाहनं सर्वम आविग्नम अभवद बलम
वयषीदन्त नरा राजञ शङ्खशब्देन मारिष
विसंज्ञाश चाभवन के चित के चिद राजन वितत्रसुः
ततः कपिर्महा नादं सह भूतैर धवजालयैः
अकरॊद वयादितास्यश च भीषयंस तव सैनिकान
तथ शङ्खाश च भेर्यश च मृदङ्गाश चानकैः सह
पुनर एवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः
नाना वादित्रसंह्रादैः कष्वेडितास्फॊटिताकुलैः
सिंहनादैः स वादित्रैः समाहूतैर महारथैः
तस्मिन सुतुमुले शब्दे भीरूणां भयवर्धने
अतीव हृष्टॊ दाशार्हम अब्रवीत पाकशासनिः
चॊदयाश्वान हृषीकेश यत्र दुर्मर्षणः सथितः
एतद भित्त्वा गजानीकं परवेक्ष्याम्य अरिवाहिनीम
एवम उक्तॊ महाबाहुः केशवः सव्यसाचिना
अचॊदयद धयांस तत्र यत्र दुर्मर्षणः सथितः
स संप्रहारस तुमुलः संप्रवृत्तः सुदारुणः
एकस्य च बहूनां च रथनागनरक्षयः
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान
परान अवाकिरत पार्थः पर्वतान इव नीरदः
ते चापि रथिनः सर्वे तवरिताः कृतहस्तवत
अवाकिरन बाणजालैस ततः कृष्ण धनंजयौ
ततः करुद्धॊ महाबाहुर वार्यमाणः परैर युधि
शिरांसि रथिनां पार्थः कायेभ्यॊ ऽपाहरच छरैः
उद्भ्रान्तनयनैर वक्त्रैः संदष्टौष्ठ पुटैः शुभैः
सकुण्डलशिरस तराणैर वसुधासमकीर्यत
पुण्डरीकवनानीव विध्वस्तानि समन्ततः
विनिकीर्णानि यॊधानां वदनानि चकाशिरे
तपनीयविचित्राणि सिक्तानि रुधिरेण च
अदृश्यन्त यथा राजन मेघसंघाः स विद्युतः
शिरसां पततां राजञ शब्दॊ ऽभूत पृथिवीतले
कालेन परिपक्वानां तालानां पतताम इव
ततः कबन्धः कश चित तु धनुर आलम्ब्य तिष्ठति
कश चित खड्गं विनिष्कृष्य भुजेनॊद्यम्य तिष्ठति
नानानन्त शिरांस्य उर्व्यां पतितानि नरर्षभाः
अमृष्यमाणाः कौन्तेयं संग्रामे जय गृद्धिनः
हयानाम उत्तमाङ्गैश च हस्तिहस्तैश च मेदिनी
बाहुभिश च शिरॊभिश च वीराणां समकीर्यत
अयं पार्थः कुतः पार्थ एष पार्थ इति परभॊ
तव सैन्येषु यॊधानां पार्थ भूतम इवाभवत
अन्यॊन्यम अपि चाजघ्नुर आत्मानम अपि चापरे
पार्थ भूतम अमन्यन्त जगत कालेन मॊहिताः
निष्टनन्तः स रुधिरा विसंज्ञा गाढवेदनाः
शयाना बहवॊ वीराः कीर्तयन्तः सुहृज्जनम
स भिण्डिपालाः स परासाः स शक्त्यृष्टि परश्वधाः
स निर्यूहाः सनिस्त्रिंशाः स शरासनतॊमराः
स बाणवर्माभरणाः सगदाः साङ्गदा रणे
महाभुजग संकाशा बाहवः परिघॊपमाः
उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः
यॊ यः सम समरे पार्थं परतिसंरभते नरः
तस्य तस्याङ्कतॊ बाणः शरीरम उपसर्पति
नृत्यतॊ रथमार्गेषु धनुर वयायच्छतस तथा
न कश चित तत्र पार्थस्य ददर्शान्तरम अण्व अपि
यत तस्य घटमानस्य कषिप्रं विक्षिपतः शरान
लाघवात पाण्डुपुत्रस्य वयस्मयन्त परे जनाः
हस्तिनं हस्तियन्तारम अश्वम आश्विकम एव च
अभिनत फल्गुनॊ बाणै रथिनं च स सारथिम
आवर्तमानम आवृत्तं युध्यमानं च पाण्डवः
परमुखे तिष्ठमानं च न कं चिन न निहन्ति सः
यथॊदयन वै गगने सूर्यॊ हन्ति महत तमः
तथार्जुनॊ गजानीकम अवधीत कङ्कपत्रिभिः
हस्तिभिः पतितैर भिन्नैस तव सैन्यम अदृश्यत
अन्तकाले यथा भूमिर विनिकीर्णैर महीधरैः
यथा मध्यं दिने सूर्यॊ दुष्प्रेक्ष्यः पराणिभिः सदा
तथा धनंजयः करुद्धॊ दुष्प्रेक्ष्यॊ युधि शत्रुभिः
तत तथा तव पुत्रस्य सैन्यं युधि परंतप
परभग्नं दरुतम आविग्नम अतीव शरपीडितम
मारुतेनेव महता मेघानीकं विधूयता
परकाल्यमानं तत सैन्यं नाशकत परतिवीक्षितुम
परतॊदैश चापकॊटीभिर हुंकारैः साधुव आहितैः
कशा पार्ष्ण्यभिघातैश च वाग्भिर उग्राभिर एव च
चॊदयन्तॊ हयांस तूर्णं पलायन्ते सम तावकाः
सादिनॊ रथिनश चैव पत्तयश चार्जुनार्दिताः
पार्ष्ण्यङ्गुण्ठाङ्कुशैर नागांश चॊदयन्तस तथापरे
शरैः संमॊहिताश चान्ये तम एवाभिमुखा ययौ
तव यॊधा हतॊत्साहा विभ्रान्त मनसस तदा
[धृ]
तस्मिन परभग्ने सैन्याग्रे वध्यमाने किरीटिना
के नु तत्र रणे वीराः परत्युदीयुर धनंजयम
आहॊ सविच छकट वयूहं परविष्टा मॊघनिश्चयाः
दरॊणम आश्रित्य तिष्ठन्तः पराकारम अकुतॊभयाः
[स]
तथार्जुनेन संभग्ने तस्मिंस तव बले तदा
हतवीरे हतॊत्साहे पलायनकृतक्षणे
पाकशासनिनाभीक्ष्णं वध्यमाने शरॊत्तमैः
न तत्र कश चित संग्रामे शशाकार्जुनम ईक्षितुम
ततस तव सुतॊ राजन दृष्ट्वा सैन्यं तथागतम
दुःशासनॊ भृशं करुद्धॊ युद्धायार्जुनम अभ्ययात
स काञ्चनविचित्रेण कवचेन समावृतः
जाम्बूनदशिरस तराणः शूरस तीव्रपराक्रमः
नागानीकेन महता गरसन्न इव महीम इमाम
दुःशासनॊ महाराज सव्यसाचिनम आवृणॊत
हरादेन गजघण्टानां शङ्खानां निनदेन च
जया कषेप निनदैश चैव विरावेण च दन्तिनाम
भूर दिशश चान्तरिक्षं च शब्देनासीत समावृतम
स मुहूर्तं परतिभयॊ दारुणः समपद्यत
तान दृष्ट्वा पततस तूर्णम अङ्कुशैर अभिचॊदितान
वयालम्ब हस्तान संरब्धान सपक्षान इव पर्वतान
सिंहनादेन महता नरसिंहॊ धनंजयः
गजानीकम अमित्राणाम अभितॊ वयधमच छरैः
महॊर्मिणम इवॊद्धूतं शवसनेन महार्णवम
किरीटी तद गजानीकं पराविशन मकरॊ यथा
काष्ठातीत इवादित्यः परतपन युगसंक्षये
ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः
खुरशब्देन चाश्वानां नेमिघॊषेण तेन च
तेन चॊत्क्रुष्ट शब्देन जया निनादेन तेन च
देवदत्तस्य घॊषेण गाण्डीवनिनदेन च
मन्दवेगतरा नागा बभूवुस ते विचेतसः
शरैर आशीविषस्पर्शैर निभिन्नाः सव्यसाचिना
ते गजा विशिखैस तीक्ष्णैर युधि गाण्डीवचॊदितैः
अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः
आरावं परमं कृत्वा वध्यमानाः किरीटिना
निपेतुर अनिशं भूमौ छिन्नपक्षा इवाद्रयः
अपरे दन्तवेष्टेषु कम्भेषु च कटेषु च
शरैः समर्पिता नागाः करौञ्चवद वयनदन मुहुः
गजस्कन्धगताना च पुरुषाणां किरीटिना
आच्छिद्यन्तॊत्तमाङ्गानि भल्लैः संनतपर्वभिः
सकुण्डलानां पततां शिरसां धरणीतले
पद्मानाम इव संघातैः पार्थश चक्रे निवेदनम
यन्त्रबद्धा विकवचा वरणार्ता रुधिरॊक्षिताः
भरमत्सु युधि नागेषु मनुष्या विललम्बिरे
के चिद एकेन बाणेन सुमुक्तेन पतत्रिणा
दवौ तरयश च विनिर्भिन्ना निपेतुर धरणीतले
मौर्वीं धनुर धवजं चैव युगानीषास तथैव च
रथिनां कुट्टयाम आस भल्लैः संनतपर्वभिः
न संदधन न चाप्य अस्यन न विमुञ्चन न चॊद्धरन
मण्डलेनैव धनुषा नृत्यन पार्थः सम दृश्यते
अतिविद्धाश च नाराचैर वमन्तॊ रुधिरं मुखैः
मुहूर्तान निपतन्त्य अन्ये वारणा वसुधातले
उथितान्य अगणेयानि कबन्धानि समन्ततः
अदृश्यन्त महाराज तस्मिन परमसंकुले
स चापाः साङ्गुलित्राणाः स खड्गाः साङ्गदा रणे
अदृश्यन्त भुजाश छिन्ना हेमाभरण भूषिताः
सूपस्करैर अधिष्ठानैर ईषा दण्डकबन्धुरैः
चक्रैर विमथितैर अक्षै भग्नैश च बहुधा युगैः
वर्म चापशरैश चैव वयवकीर्णैर ततस ततः
सरग्भिर आभरणैर वस्त्रैः पतितैश च महाध्वजैः
निहतैर वारणैर अश्वैः कषत्रियैश च निपातितैः
अदृश्यत मही तत्र दारुणप्रतिदर्शनाः
एवं दुःशासन बलं वध्यमानं किरीटिना
संप्राद्रवन महाराज वयथितं वै सनायकम
ततॊ दुःशासनस तरस्तः सहानीकः शरार्दितः
दरॊणं तरातारम आकाङ्क्षञ शकटव्यूहम अभ्यगात
[स]
दुःशासन बलं हत्वा सव्यसाची धनंजयः
सिन्धुराजं परीप्सन वै दरॊणानीकम उपाद्रवत
स तु दरॊणं समासाद्य वयूहस्य परमुखे सथितम
कृताञ्जलिर इदं वाक्यं कृष्णस्यानुमते ऽबरवीत
शिवेन धयाहि मां बरह्म सवस्ति चैव वदस्व मे
भवत्प्रसादाद इच्छामि परवेष्टुं दुर्भिदां चमूम
भवान पितृसमॊ मह्यं धर्मराज समॊ ऽपि च
तथा कृष्ण समश चैव सत्यम एतद बरवीमि ते
अश्वत्थामा यथा तात रक्षणीयस तवानघ
तथाहम अपि ते रक्ष्यः सदैव दविजसत्तम
तव परसादाद इच्छामि सिन्धुराजानम आहवे
निहन्तुं दविपदां शरेष्ठ परतिज्ञां रक्ष मे विभॊ
एवम उक्तस तदाचार्यः परत्युवाच समयन्न इव
माम अजित्वा न बीभत्सॊ शक्यॊ जेतुं जयद्रथः
एतावद उक्त्वा तं दरॊणः शरव्रातैर अवाकिरत
स रथाश्वध्वजं तीक्ष्णैः परहसन वै स सारथिम
ततॊ ऽरजुनः शरव्रातान दरॊणस्यावार्य सायकैः
दरॊणम अभ्यर्दयद बाणघॊररूपैर महत्तरैः
विव्याध च रणे दरॊणम अनुमान्य विशां पते
कषत्रधर्मं समास्थाय नवभिः सायकैः पुनः
तस्येषून इषुभिश छित्त्वा दरॊणॊ विव्याध ताव उभौ
विषाग्निज्वलनप्रख्यैर इषुभिः कृष्ण पाण्डवौ
इयेष पाण्डवस तस्य बाणैश छेत्तुं शरासनम
तस्य चिन्तयतस तव एवं फल्गुनस्य महात्मनः
दरॊणः शरैर असंभ्रान्तॊ जयां चिच्छेदाशु वीर्यवान
विव्याध च हयान अस्य धवजं सारथिम एव च
अर्जुनं च शरैर वीरं समयमानॊ ऽभयवाकिरत
एतस्मिन्न अन्तरे पार्थः सज्जं कृत्वा महद धनुः
विशेषयिष्यन्न आचार्यं सर्वास्त्रविदुषां वरम
मुमॊच षट्शतान बाणान गृहीत्वैकम इव दरुतम
पुनः सप्तशतान अन्यान सहस्रं चानिवर्तिनाम
चिक्षेपायुतशश चान्यांस ते ऽघनन दरॊणस्य तां चमूम
तैः सम्यग अस्तैर बलिना कृतिना चित्रयॊधिना
मनुष्यवाजि मातङ्गा विद्धाः पेतुर गतासवः
विद्रुताश च रणे पेतुः संछिन्नायुध जीविताः
रथिनॊ रथमुख्येभ्यः सहयाः शरपीडिताः
चूर्णिताक्षिप्त दग्धानां वज्रानिलहुताशनैः
तुल्यरूपा गजाः पेतुर गिर्यग्राम्बुद वेश्मनाम
पेतुर अश्वसहस्राणि परहतान्य अर्जुनेषुभिः
हंसा हिमवतः पृष्ठे वारि विप्रहता इव
रथाश्वद्विपपत्त्यॊघाः सलिलौघा इवाद्भुताः
युगान्तादित्यरश्म्याभः पाण्डवास्त शरैर हताः
तं पाण्डवादित्य शरांशु जालं; कुरुप्रवीरान युधि निष्टपन्तम
स दरॊण मेघः शरवर्ष वेगैः; पराच्छादयन मेघ इवार्क रश्मीन
अथात्यर्थ विषृष्ट्तेन दविषताम असु भॊजिना
आजघ्ने वक्षसि दरॊणॊ नाराचेन धनंजयम
स वह्वलित सर्वाङ्गः कषितिकम्पे यथाचलः
धैर्यम आलम्ब्य बीभत्सुर दरॊणं विव्याध पत्रिभिः
दरॊणस तु पञ्चभिर बाणैर वासुदेवम अताडयत
अर्जुनं च तरिसप्तत्या धवजं चास्य तरिभिः शरैः
विशेषयिष्यञ शिष्यं च दरॊमॊ राजन पराक्रमी
अदृश्यम अर्जुनं चक्रे निमेषाच छरवृष्टिभिः
परसक्तान अप्ततॊ ऽदराक्ष्म भारद्वाजस्य सायकान
मण्डलीकृतम एवास्य धनुश चादृश्यताद्भुतम
ते ऽभययुः समरे राजन वासुदेवधनंजयौ
दरॊण सृष्टाः सुबहवः कङ्कपत्र परिच्छदाः
तद दृष्ट्वा तादृशं युद्धं दरॊण पाण्डवयॊस तदा
वासुदेवॊ महाबुद्धिः कार्यवत्ताम अचिन्तयत
ततॊ ऽबरवीद वासुदेवॊ धनंजयम इदं वचः
पार्थ पार्थ महाबाहॊ न नः कालात्ययॊ भवेत
दरॊणम उत्सृज्य गच्छामः कृत्यम एतन महत्तरम
पार्थश चाप्य अब्रवीत कृष्णं यथेष्टम इति केशव
ततः परदक्षिणं कृत्वा दरॊणं परायान महाभुजः
परिवृत्तश च बीभत्सुर अगच्छद विसृजञ शरान
ततॊ ऽबरवीत समयन दरॊणः कवेदं पाण्डव गम्यते
ननु नाम रणे शत्रुम अजित्वा न निवर्तसे
[अर्ज]
गुरुर भवान अन मे शत्रुः शिष्यः पुत्रसमॊ ऽसमि ते
न चास्मि स पुमाँल लॊके यस तवां युधि पराजयेत
[स]
एवं बरुवाणॊ बीभत्सुर जयद्रथवधॊत्सुकः
तवरायुक्तॊ महाबाहुस तत सैन्यं समुपाद्रवत
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ
अन्वयातां महात्मानौ विशन्तं तावकं बलम
ततॊ जयॊ महाराज कृतवर्मा च सात्त्वतः
काम्बॊजश च शरुतायुश च धनंजयम अवारयन
तेषां दशसहस्राणि रथानाम अनुयायिनाम
अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः
माचेल्लका ललित्थाश च केकया मद्रकास तथा
नारायणाश च गॊपालाः काम्बॊजानां च ये गणाः
कर्णेन विजिताः पूर्वं संग्रामे शूर संमताः
भारद्वाजं पुरस्कृत्य तयक्तात्मानॊ ऽरजुनं परति
पुत्रशॊकाभिसंतप्तं करुद्धं मृत्युम इवान्तकम
तयजन्तं तुमुले पराणान संनद्धं चित्रयॊधिनम
गाहमानम अनीकानि मातङ्गम इव यूथपम
महेष्वासं पराक्रान्तं नरव्याघ्रम अवारयन
ततः परववृते युद्धं तुमुलं लॊमहर्षणम
अन्यॊन्यं वै परार्थयतां यॊधानाम अर्जुनस्य च
जयद्रथ वधप्रेप्सुम आयान्तं पुरुषर्षभम
नयवारयन्त सहिताः करिया वयाधिम इवॊत्थितम
[स]
संनिरुद्धस तु तैः पार्थॊ महाबलपराक्रमः
दरुतं समनुयातश च दरॊणेन रथिनां वरः
किरन्न इषुगणांस तिक्ष्णान सवरश्मीन इव भास्करः
तापयाम आस तत सैन्यं देहं वयाधिगणॊ यथा
अश्वॊ विद्धॊ धवजश छिन्नः सारॊहः पतितॊ गजः
छत्राणि चापविद्धानि रथाश चक्रैर विनाकृताः
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः
इत्य आसीत तुमुलं युद्धं न पराज्ञायत किं चन
तेषाम आयच्छतां संख्ये परस्परम अजिह्मगैः
अर्जुनॊ धवजिनीं राजन्न अभीक्ष्णं समकम्पयत
सत्यां चिकीर्षमाणस तु परतिज्ञां सत्यसंगरः
अभ्यद्रवद रथश्रेष्ठं शॊणाश्वं शवेतवाहनः
तं दरॊणः पञ्चविंशत्या मर्मभिद्भिर अजिह्मगैः
अन्तेवासिनम आचार्यॊ महेष्वासं समर्दयत
तं तूर्णम इव बीभत्सुः सर्वशस्त्रभृतां वरः
अभ्यधावद इषून अस्यन्न इषुवेगविघातकान
तस्याशु कषिपतॊ भल्लान भल्लैः संनतपर्वभिः
परत्यविध्यद अमेयात्मा बरह्मास्त्रं समुदीरयन
तद अद्भुतम अपश्याम दरॊणस्याचार्यकं युधि
यतमानॊ युवा नैनं परत्यविध्यद यद अर्जुनः
कषरन्न इव महामेघॊ वारिधाराः सहस्रशः
दरॊण मेघः पार्थ शैलं ववर्ष शरवृष्टिभिः
अर्जुनः शरवर्षं तद बरह्मास्त्रेणैव मारिष
परतिजग्राह तेजस्वी बाणैर बाणान विशातयन
दरॊणस तु पञ्चविंशत्या शवेतवाहनम आर्दयत
वासुदेवं च सप्तत्या बाह्वॊर उरसि चाशुगैः
पार्थस तु परहसन धीमान आचार्यं स शरौघिणम
विसृजन्तं शितान बाणान अवारयत तं युधि
अथ तौ वध्यमानौ तु दरॊणेन रथसत्तमौ
आवर्जयेतां दुर्धर्षं युगान्ताग्निम इवॊत्थितम
वर्जयन निशितान बाणान दरॊण चापविनिःसृतान
किरीटमाली कौन्तेयॊ भॊजानीकं नयपातयत
सॊ ऽनतरा कृतवर्माणं काम्बॊजं च सुदक्षिणम
अभ्ययाद वर्जयन दरॊणं मैनाकम इव पर्वतम
ततॊ भॊजॊ नरव्याघ्रं दुःसहः कुरुसत्तम
अविध्यत तूर्णम अव्यग्रॊ दशभिः कङ्कपत्रिभिः
तम अर्जुनः शितेनाजौ राजन विव्याध पत्रिणा
पुनश चान्यैस तरिभिर बाणैर मॊहयन्न इव सात्वतम
भॊजस तु परहसन पार्थं वासुदेवं च माधवम
एकैकं पञ्चविंशत्या सायकानां समार्पयत
तस्यार्जुनॊ धनुश छित्त्वा विव्याधैनं तरिसप्तभिः
शरैर अग्निशिखाकारैः करुद्धाशीविष संनिभैः
अथान्यद धनुर आदाय कृतवर्मा महारथः
पञ्चभिः सायकैस तूर्णं विव्याधॊरसि भारत
पुनश च निशितैर बाणैः पार्थं विव्याध पञ्चभिः
तं पार्थॊ नवभिर बाणैर आजघान सतनान्तरे
विषक्तं दृश्यकौनेयं कृतवर्म रथं परति
चिन्तयाम आस वार्ष्णेयॊ न नः कालात्ययॊ भवेत
ततः कृष्णॊ ऽबरवीत पार्थं कृतवर्मणि मा दयाम
कुरु साम्बन्धिकं कृत्वा परमथ्यैनं विशातय
ततः स कृतवर्माणं मॊहयित्वार्जुनः शरैः
अभ्यगाज जवनैर अश्वैः काम्बॊजानाम अनीकिनीम
अमर्षितस तु हार्दिख्यः परविष्टे शवेतवाहने
विधुन्वन स शरं चापं पाञ्चाल्याभ्यां समागतः
चक्ररक्षौ तु पाञ्चाल्याव अर्जुनस्य पदानुगौ
पर्यवारयद आयान्तौ कृतवर्मा रथेषुभिः
ताव अविध्यत ततॊ भॊजः सर्वपारशवैः शरैः
तरिभिर एव युधामन्युं चतुर्भिश चॊत्तमौजसम
ताव अप्य एनं विव्यधतुर दशभिर दशभिः शरैः
संचिच्छिदतुर अप्य अस्य धवजं कार्मुकम एव च
अथान्यद धनुर आदाय हार्दिक्यः करॊधमूर्छितः
कृत्वा विधनुषौ वीरौ शरवर्षैर अवाकिरत
ताव अन्ये धनुषी सज्ये कृत्वा भॊजं विजघ्नतुः
तेनान्तरेण बीभत्सुर विवेशामित्र वाहिनीम
न लेभाते तु तौ दवारं वारितौ कृतवर्मणा
धार्तराष्ट्रेष्व अनीकेषु यतमानौ नरर्षभौ
अनीकान्य अर्दयन युद्धे तवरितः शवेतवाहनः
नावधीत कृतवर्माणं पराप्तम अप्य अरिसूदनः
तं दृष्ट्वा तु तथायान्तं शूरॊ राजा शरुतायुधः
अभ्यद्रवत सुसंक्रुद्धॊ विधुन्वानॊ महद धनुः
स पार्थं तरिभिर आनर्छत सप्तत्या च जनार्दनम
कषुरप्रेण सुतीक्ष्णेन पार्थ केतुम अताडयत
तम अर्जुनॊ नवत्या तु शराणां नतपर्वणाम
आजघान भृशं करुद्धस तॊत्त्रैर इव महाद्विपम
स तन न ममृषे राजन पाण्डवेयस्य विक्रमम
अथैनं सप्त सप्तत्या नाराचानां समार्पयत
तस्यार्जुनॊ धनुश छित्त्वा शरावापं निकृत्य च
आजघान उरसि करुद्धः सप्तभिर नतपर्वभिः
अथान्यद धनुर आदाय स राजा करॊधमूर्हितः
वासविं नवभिर बाणैर बाह्वॊर उरसि चार्पयत
ततॊ ऽरजुनः समयन्न एव शरुतायुधम अरिंदमः
शरैर अनेकसाहस्रैः पीडयाम आस भारत
अश्वांश चास्यावधीत तूर्णं सारथिं च महारथः
विव्याध चैनं सप्तत्या नाराचानां महाबलः
हताश्वं रथम उत्सृज्य स तु राजा शरुतायुधः
अभ्यद्रवद रणे पार्थं गदाम उद्यम्य वीर्यवान
वरुणस्यात्मजॊ वीरः स तु राजा शरुतायुधः
पर्णाशा जननी यस्य शीततॊया महानदी
तस्य माताब्रवीद वाक्यं वरुणं पुत्रकारणात
अवध्यॊ ऽयं भवेल्लॊके शत्रूणां तनयॊ मम
वरुणस तव अब्रवीत परीतॊ ददाम्य अस्मै वरं हितम
दिव्यम अस्त्रं सुतस ते ऽयं यनावध्यॊ भविष्यति
नास्ति चाप्य अमरत्वं वै मनुष्यस्य कथं चन
सर्वेणावश्य मर्तव्यं जातेन सरितां वरे
दुर्धर्षस तव एष शत्रूणां रणेषु भविता सदा
अस्त्रस्यास्य परभावाद वै वयेतु ते मानसॊ जवरः
इत्य उक्त्वा वरुणः परादाद गदां मन्त्रपुरस्कृताम
याम आसाद्य दुराधर्षः सर्वलॊके शरुतायुधः
उवाच चैनं भगवान पुनर एव जलेश्वरः
अयुध्यति न भॊक्तव्या स तवय्य एव पतेद इति
स तया वीर घातिन्या जनार्दनम अताडयत
परतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान
नाकम्पयत शौरिं सा विन्ध्यं गिरिम इवानिलः
परत्यभ्ययात तं विप्रॊढा कृत्येव दुरधिष्ठिता
जघान चास्थितं वीरं शरुतायुधम अमर्षणम
हत्वा शरुतायुधं वीरं जगतीम अन्वपद्यत
हाहाकारॊ महांस तत्र सैन्यानां समजायत
सवेनास्त्रेण हतं दृष्ट्वा शरुतायुधम अरिंदमम
अयुध्यमानाय हि सा केशवाय नराधिप
कषिप्ता शरुतायुधेनाथ तस्मात तम अवधीद गदा
यथॊक्तं वरुणेनाजौ तथा स निधनं गतः
वयसुश चाप्य अपतद भूमौ परेक्षतां सर्वधन्विनाम
पतमानस तु स बभौ पर्णाशायाः परियः सुतः
संभग्न इव वातेन बहुशाखॊ वनस्पतिः
ततः सर्वाणि सैन्यानि सेनामुख्याश च सर्वशः
पराद्रवन्त हतं दृष्ट्वा शरुतायुधम अरिंदमम
तथ काम्बॊजराजस्य पुत्रः शूरः सुदक्षिणः
अभ्ययाज जवनैर अश्वैः फल्गुनं शत्रुसूदनम
तस्य पार्थः शरान सप्त परेषयाम आस भारत
ते तं शूरं विनिर्भिद्य पराविशन धरणीतलम
सॊ ऽतिविद्धः शरैस तीक्ष्णैर गाण्डीवप्रेषितैर मृधे
अर्जुनं परतिविव्याध दशभिर कङ्कपत्रिभिः
वासुदेवं तरिभिर विद्ध्वा पुनः पार्थं च पञ्चभिः
तस्य पार्थॊ धनुश छित्त्वा केतुं चिच्छेद मारिष
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः
स तु पार्थं तरिभिर विद्ध्वा सिंहनादम अथानदत
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः
स घण्टां पराहिणॊद घॊरां करुद्धॊ गाण्डीवधन्वने
सा जवलन्ती महॊल्केव तम आसाद्य महारथम
स विस्फुलिङ्गा निर्भिद्य निपपात महीतले
तं चतुर्दशभिः पार्थॊ नाराचैः कङ्कपत्रिभिः
साश्वध्वजधनुः सूतं विव्याधाचिन्त्य विक्रमः
रथं चान्यैः सुबहुभिश चक्रे विशकलं शरैः
सुदक्षिणं तु काम्बॊजं मॊघसंकल्पविक्रमम
बिभेद हृदि बाणेन पृथु धारेण पाण्डवः
स भिन्नमर्मा सरस्ताङ्गः परभ्रष्ट मुकुटाङ्गदः
पपाताभिमुखः शूरॊ यन्त्रमुक्त इव धवजः
गिरेः शिख रजः शरीमान सुशाखः सुप्रतिष्ठितः
निर्भग्न इव वातेन कर्णिकारॊ हिमात्यये
शेते सम निहतॊ भूमौ काम्बॊजास्तरणॊचितः
सुदर्शनीयस ताम्राक्षः कर्णिना स सुदक्षिणः
पुत्रः काम्बॊजराजस्य पार्थेन विनिपातितः
ततः सर्वाणि सैन्यानि वयद्रवन्त सुतस्य ते
हतं शरुतायुधं दृष्ट्वा काम्बॊजं च सुदक्षिणम
[स]
हते सुदक्षिणे राजन वीरे चैव शरुतायुधे
जवेनाभ्यद्रवन पार्थं कुपिताः सैनिकास तव
अभीषाहा शूरसेनाः शिबयॊ ऽथ वसातयः
अभ्यवर्षंस ततॊ राजञ शरवर्षैर धनंजयम
तेषां षष्टिशतानार्यान परामथ्नत पाण्डवैः शरैः
ते सम भीताः पलायन्त वयाघ्रात कषुद्रमृगा इव
ते निवृत्य पुनः पार्थं सरतः पर्यवारयन
रणे सपत्नान निघ्नन्तं जिगीषंतन परान युधि
तेषाम आपततां तूर्णं गाण्डीवप्रेषितैः शरैः
शिरांसि पातयाम आस बाहूंश चैव धनंजयः
शिरॊभिः पतितैस तत्र भूमिर आसीन निरन्तरा
अभ्रच छायेव चैवासीद धवाङ्क्ष गृध्रवडैर युधि
तेषु तूत्साद्यमानेषु करॊधामर्षसमन्वितौ
शरुतायुश चाच्युतायुश च धनंजयम अयुध्यताम
बलिनौ सपर्थिनौ वीरौ कुलजौ बाहुशालिनौ
ताव एनं शरवर्षाणि सव्यदक्षिणम अस्यताम
तवरायुक्तौ महाराज परार्थयानौ महद यशः
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ
ताव अर्जुनं सहस्रेण पत्रिणां नतपर्वणाम
पूरयाम आसतुः करुद्धौ तडागं जलदौ यथा
शरुतायुश च ततः करुद्धस तॊमरेण धनंजयम
आजघान रथश्रेष्ठः पीतेन निशितेन च
सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुकर्शनः
आजगाम परं मॊहं मॊहयन केशवं रणे
एतस्मिन्न एव काले तु सॊ ऽचयुतायुर महारथः
शूलेन भृशतीक्ष्णेन ताडयाम आस पाण्डवम
कषते कषारं स हि ददौ पाण्डवस्य महात्मनः
पार्थॊ ऽपि भृशसंविद्धॊ धवजयष्टिं समाश्रितः
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते
सिंहनादॊ महान आसीद धतं मत्वा धनंजयम
कृष्णश च भृशसंतप्तॊ दृष्ट्वा पार्थं विचेतसम
आश्वासयत सुहृद्याभिर वाग्भिस तत्र धनंजयम
ततस तौ रथिनां शरेष्ठौ लब्धलक्षौ धनंजयम
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः
सचक्रकूबर रथं साश्वध्वजपताकिनम
अदृश्यं चक्रतुर युद्धे तद अद्भुतम इवाभवत
परत्याश्वस्तस तु बीभत्सुः शनकैर इव भारत
परेतराजपुरं पराप्य पुनः परत्यागतॊ यथा
संछन्नं शरजालेन रथं दृष्ट्वा स केशवम
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाव इवानलौ
परादुश्चक्रे ततः पार्थः शाक्रम अस्त्रं महारथः
तस्माद आसन सहस्राणि शराणां नतपर्वणाम
ते जघ्नुस तौ महेष्वासौ ताभ्यां सृष्टांश च सायकान
विचेरुर आकाशगताः पार्थ बाणविदारिताः
परतिहत्य शरांस तूर्णं शरवेगेन पाण्डवः
परतस्थे तत्र तत्रैव यॊधयन वै महारथान
तौ च फल्गुन बाणौघैर विबाहु शिरसौ कृतौ
वसुधाम अन्वपद्येतां वातनुन्नाव इव दरुमौ
शरुतायुषश च निधनं वधश चैवाच्युतायुषः
लॊकविस्मापनम अभूत समुद्रस्येव शॊषणम
तयॊः पदानुगान हत्वा पुनः पञ्चशतान रथान
अभ्यगाद भारतीं सेनां निघ्नन पार्थॊ वरान वरान
शरुतायुषं च निहतं परेक्ष्य चैवाच्युतायुषम
अयुतायुश च संक्रुद्धॊ दीर्घायुश चैव भारत
पुत्रौ तयॊर नरश्रेष्ठौ कौन्तेयं परतिजग्मतुः
किरन्तौ विविधान बाणान पितृव्यसनकर्शितौ
ताव अर्जुनॊ मुहूर्तेन शरैः संनतपर्वभिः
परेषयत परमक्रुद्धॊ यमस्य सदनं परति
लॊडयन्तम अनीकानि दविपं पद्मसरॊ यथा
नाशक्नुवन वारयितुं पार्थं कषत्रिय पुंगवाः
अग्नास तु गजवारेण पाण्डवं पर्यवारयन
करुद्धाः सहस्रशॊ राजञ शिखिता हस्तिसादिनः
दुर्यॊधन समादिष्टाः कुञ्जरैः पर्वतॊपमैः
पराच्याश च दाक्षिणात्याश च कलिङ्ग परमुखा नृपाः
तेषाम आपततां शीघ्रं गाण्डीवप्रेषितैः शरैः
निचकर्त शिरांस्य उग्रौ बाहून अपि सुभूषणान
तैः शिरॊभिर मही कीर्णा बाहुभिश च सहाङ्गदैः
बभौ कनकपाषाणा भुजगैर इव संवृता
बाहवॊ विशिखैश छिन्नाः शिरांस्य उन्मथितानि च
चयवमानान्य अदृश्यन्त दरुमेभ्य इव पक्षिणः
शरैः सहस्रशॊ विद्धा दविपाः परस्रुत शॊणिताः
वयदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव
निहताः शेरते समान्ये बीभत्सॊर निशितैः शरैः
गजपृष्ठ गता मलेच्छा नाना विकृतदर्शनाः
नानावेषधरा राजन नानाशस्त्रौघसंवृताः
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर हताः
शॊणितं निर्वमन्ति सम दविपाः पार्थ शराहताः
सहस्रशश छिन्नगात्राः सारॊहाः सपदानुगाः
चुक्रुशुश च निपेतुश च बभ्रमुश चापरे दिशः
भृशं तरसाश च बहुधा सवानेन ममृदुर गजाः
सान्तरायुधिका मत्ता दविपास तीक्ष्णविषॊपमाः
विदन्त्य असुरमायां ये सुघॊरा घॊरचक्षुषः
यवनाः पारदाश चैव शकाश च सुनिकैः सह
यॊ यॊनिप्रभवा मलेच्छाः कालकल्पाः परहारिणः
दार्वाभिसारा दरदाः पुण्ड्राश च सह बाह्लिकैः
न ते सम शक्याः संख्यातुं वराताः शतसहस्रशः
वृष्टिस तथाविधा हय आसीच छलभानाम इवायतिः
अभ्रच छायाम इव शरैः सैन्ये कृत्वा धनंजयः
मुण्डार्ध मुण्डजटिलान अशुचीञ जटिलाननान
मलेच्छान अशातयत सर्वान समेतान अस्त्रमायया
शरैश च शतशॊ विद्धास ते संघाः संघचारिणः
पराद्रवन्त रणे भीता गिरिगह्वरवासिनः
गजाश्वसादि मलेच्छानां पतितानां शतैः शरैः
वडाः कङ्का वृका भूमाव अपिवन रुधिरं मुदा
पत्त्यश्वरथनागैश च परच्छन्नकृतसंक्रमाम
शरवर्ष पलवां घॊरां केशशैवलशाड्वलाम
परावर्तयन नदीम उग्रां शॊणितौघतरङ्गिणीम
शिरस तराणक्षुद्रमत्स्यां युगान्ते कालसंभृताम
अकरॊद गजसंबाधां नदीम उत्तरशॊणिताम
देहेभ्यॊ राजपुत्राणां नागाश्वरथसादिनाम
यथा सथलं च निम्नं च न सयाद वर्षति वासवे
तथासीत पृथिवी सर्वा शॊणितेन परिप्लुता
षट सहस्रान वरान वीरान पुनर दशशतान वरान
पराहिणॊन मृत्युलॊकाय कषत्रियान कषत्रियर्षभः
शरैः सहस्रशॊ विद्धा विधिवत कल्पिता दविपाः
शेरते भूमिम आसाद्य शैला वज्रहता इव
स वाजिरथमातङ्गान निघ्नन वयचरद अर्जुनः
परभिन्न इव मातङ्गॊ मृद्नन नड वनम यथा
भूरि दरुमलता गुल्मं शुष्केन्धनतृणॊलपम
निर्दहेद अनलॊ ऽरण्यं यथा वायुसमीरितः
सैन्यारण्यं तव तथा कृष्णानिल समीरितः
शरार्चिर अदहत करुद्धः पाण्डवाग्निर धनंजयः
शून्यान कुर्वन रथॊपस्थान मानवैः संस्तरन महीम
परानृत्यद इव संबाधे चापहस्तॊ धनंजयः
वज्रकल्पैः शरैर भूमिं कुर्वन्न उत्तरशॊणिताम
पराविशद भारतीं सेनां संक्रुद्धॊ वै धनंजयः
तं शरुतायुस तथाम्बष्ठॊ वरजमानं नयवारयत
तस्यार्जुनः शरैस तीक्ष्णैः कङ्कपत्र परिच्छदैः
नयपातयद धयाञ शीघ्रं यतमानस्य मारिष
धनुश चास्यापरैश छित्त्वा शरैः पार्थॊ विचक्रमे
अम्बष्ठस तु गदां गृह्य करॊधपर्याकुलेक्षणः
आससाद रणे पार्थं केशवं च महारथम
ततः स परहसन वीरॊ गदाम उद्यम्य भारत
रथम आवार्य गदया केशवं समताडयत
गदया ताडितं दृष्ट्वा केशवं परवीरहा
अर्जुनॊ भृशसंक्रुद्धः सॊ ऽमबष्ठं परति भारत
ततः शरैर हेमपुङ्खैः सगदं रथिनां वरम
छादयाम आस समरे मेघः सूर्यम इवॊदितम
ततॊ ऽपरैः शरैश चापि गदां तस्य महात्मनः
अचूर्णयत तदा पार्थस तद अद्भुतम इवाभवत
अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम
अर्जुनं वासुदेवं च पुनः पुनर अताडयत
तस्यार्जुनः कषुरप्राभ्यां सगदाव उद्यतौ भुजौ
चिच्छेदेन्द्र धवजाकारौ शिरश चान्येन पत्रिणा
स पपात हतॊ राजन वसुधाम अनुनादयन
इन्द्रध्वज इवॊत्सृष्टॊ यन्त्रनिर्मुक्त बन्धनः
रथानीकावगाढश च वारणाश्वशतैर वृतः
सॊ ऽदृश्यत तदा पार्थॊ घनैः सूर्य इवावृतः
[स]
ततः परविष्टे कौन्तेये सिन्धुराजजिघांसया
दरॊणानीकं विनिर्भिद्य भॊजानीकं च दुस्तरम
काम्बॊजस्य च दायादे हते राजन सुदक्षिणे
शरुतायुधे च विक्रान्ते निहते सव्यसाचिना
विप्रद्रुतेष्व अनीकेषु विध्वस्तेषु समन्ततः
परभग्नं सवबलं दृष्ट्वा पुत्रस ते दरॊणम अभ्ययात
तवरन्न एकरथेनैव समेत्य दरॊणम अब्रवीत
गतः स पुरुषव्याघ्रः परमथ्येमां महाचमूम
अत्र बुद्ध्या समीक्षस्व किं नु कार्यम अनन्तरम
अर्जुनस्य विघाताय दारुणे ऽसमिञ जनक्षये
यथा स पुरुषव्याघ्रॊ न हन्येत जयद्रथः
तथाविधत्स्व भद्रं ते तवं हि नः परमा गतिः
असौ धनंजयाग्निर हि कॊपमारुत चॊदितः
सेना कक्षं दहति मे वह्निः कक्षम इवॊत्थितः
अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परंतप
जयद्रथस्य गॊप्तारः संशयं परमं गताः
सथिरा बुद्दिह्र नरेन्द्राणाम आसीद बरह्मविदां वर
नातिक्रमिष्यति दरॊणं जातु जीवन धनंजयः
सॊ ऽसौ पाथॊ वयतिक्रान्तॊ मिषतस ते महाद्युते
सर्वं हय अद्यातुरं मन्ये नैतद अस्ति बलं मम
जानामि तवां महाभाग पाण्डवानां हिते रतम
तथा मुह्यामि च बरह्मन कार्यवत्तां विचिन्तयन
यथाशक्ति च ते बरह्मन वर्तये वृत्तिम उत्तमाम
परीणामि च यथाशक्ति तच च तवं नावबुध्यसे
अस्मान न तवं सदा भक्तान इच्छस्य अमितविक्रम
पाण्डवान सततं परीणास्य अस्माकं विप्रिये रतान
अस्मान एवॊपजीवंस तवम अस्माकं विप्रिये रतः
न हय अहं तवां विजानामि मधु दिग्धम इव कषुरम
नादास्यच चेद वरं मह्यं भवान पाण्डव निग्रहे
नावारयिष्यं गच्छन्तम अहं सिन्धुपतिं गृहान
मया तव आशंसमानेन तवत्तस तराणम अबुद्धिना
आश्वासितः सिन्धुपतिर मॊहाद दत्तश च मृत्यवे
यम दंष्ट्रान्तरं पराप्तॊ मुच्येतापि हि मानवः
नार्जुनस्य वशं पराप्तॊ मुच्येताजौ जयद्रथः
स तथा कुरु शॊणाश्व यथा रक्ष्येत सैन्धवः
मम चार्तप्रलापानां मा करुधः पाहि सैन्धवम
[दर्न]
नाभ्यसूयामि ते वाचम अश्वत्थाम्नासि मे समः
सत्यं तु ते परवक्ष्यामि तज जुषस्व विशां पते
सारथिः परवरः कृष्णः शीघ्राश चास्य हयॊत्तमाः
अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः
किं नु पश्यसि बाणौघान करॊशमात्रे किरीटिनः
पश्चाद रथस्य पतितान कषिप्ताञ शीघ्रं हि गच्छतः
न चाहं शीघ्रयाने ऽदय समर्थॊ वयसान्वितः
सेनामुखे च पार्थानाम एतद बलम उपस्थितम
युधिष्ठिरश च मे गराह्यॊ मिषतां सर्वधन्विनाम
एवं मया परतिज्ञातं कषत्रमध्ये महाभुज
धनंजयेन चॊत्सृष्टॊ वर्तते परमुखे मम
तस्माद वयूह मुखं हित्वा नाहं यास्यामि फल्गुनम
तुल्याभिजनकर्माणं शत्रुम एकं सहायवान
गत्वा यॊधय मा भैस तवं तवं हय अस्य जगतः पतिः
राजा शूरः कृती दक्षौ वैरम उत्पाद्य पाण्डवैः
वीर सवयं परयाह्य आशु यत्र यातॊ धनंजयः
[दुर]
कथं तवाम अप्य अतिक्रान्तः सर्वशस्त्रभृतां वरः
धनंजयॊ मया शक्य आचार्य परतिबाधितुम
अपि शक्यॊ रणे जेतुं वज्रहस्तः पुरंदरः
नार्जुनः समरे शक्यॊ जेतुं परपुरंजयः
येन भॊजश च हार्दिक्यॊ भवांश च तरिदशॊपमः
अस्त्रप्रतापेन जितौ शरुतायुश च निबर्हितः
सुदक्षिणश च निहतः स च राजा शरुतायुधः
शरुतायुश चाच्युतायुश च मलेच्छाश च शतशॊ हताः
तं कथं पाण्डवं युद्धे दहन्तम अहितान बहून
परतियॊत्स्यामि दुर्धर्षं तन मे शंसास्त्र कॊविद
कषमं चेन मन्यसे युद्धं मम तेनाद्य शाधि माम
परवान अस्मि भवति परेष्यकृद रक्ष मे यशः
[दर्न]
सत्यं वदसि कौरव्य कुराधर्षॊ धनंजयः
अहं तु तत करिष्यामि यथैनं परसहिष्यसि
अद्भुतं चाद्य पश्यन्तु लॊके सर्वधनुर्धराः
विषक्तं तवयि कौन्तेयं वासुदेवस्य पश्यतः
एष ते कवचं राजंस तथा बध्नामि काञ्चनम
यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे
यदि तवां सासुरसुराः स यक्षॊरग राक्षसाः
यॊधयन्ति तरयॊ लॊकाः स नरा नास्ति ते भयम
न कृष्णॊ न च कौनेयॊ न चान्यः शस्त्रभृद रणे
शरानर्पयितुं कश चित कवचे तव शक्ष्यति
स तवं कवचम आस्थाय करुद्धम अद्य रणे ऽरजुनम
तवरमाणः सवयं याहि न चासौ तवां सहिष्यते
[स]
एवम उक्त्वा तवरन दरॊणः सपृष्ट्वाम्भॊ वर्म भास्वरम
आबबन्धाद्भुततमं जपन मन्त्रं यथाविधि
रणे तस्मिन सुमहति विजयाय सुतस्य ते
विसिस्मापयिषुर लॊकं विद्यया बरह्मवित्तमः
[दर्न]
करॊतु सवस्ति ते बरह्मा सवस्ति चापि दविजातयः
सरीसृपाश च ये शरेष्ठास तेभ्यस ते सवस्ति भारत
ययातिर नहुषश चैव धुन्धुमारॊ भगीरथः
तुभ्यं राजर्षयः सर्वे सवस्ति कुर्वन्तु सर्वशः
सवस्ति ते ऽसत्व एकपादेभ्यॊ बहु पादेभ्य एव च
सवस्त्य अस्त्व अपादकेभ्यश च नित्यं तव महारणे
सवाहा सवधा शची चैव सवस्ति कुर्वन्तु ते सदा
लक्ष्णीर अरुन्धती चैव कुरौतां सवस्ति ते ऽनघ
असितॊ देवलश चैव विश्वामित्रस तथाङ्गिराः
वसिष्ठः कश्यपश चैव सवस्ति कुर्वन्तु ते नृप
धाता विधाता लॊकेशॊ दिशश च स दिग ईश्वराः
सवस्ति ते ऽदय परयच्छन्तु कार्त्तिकेयश च षण मुखः
विवस्वान भगवान सवस्ति करॊतु तव सर्वशः
दिग गजाश चैव चत्वारः कषितिः खं गगनं गरहाः
अधस्ताद धरणीं यॊ ऽसौ सदा धारयते नृप
स शेषः पन्नगश्रेष्ठः सवस्ति तुभ्यं परयच्छतु
गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः
पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः
हृततेजॊबलाः सर्वे तदा सेन्द्रा दिवौकसः
बरह्माणं शरणं जग्मुर वृत्राद भीता महासुरात
[देवाह]
परमर्दितानां वृत्रेण देवानां देव सत्तम
गतिर भव सुर शरेष्ठ तराहि नॊ महतॊ भयात
[दर्न]
अथ पार्श्वे सथितं विष्णुं शक्रादींश च सुरॊत्तमान
पराह तथ्यम इदं वाक्यं विषण्णान सुरसत्तमान
रक्ष्या मे सततं देवाः सहेन्द्राः स दविजातयः
तवष्टुः सुदुर्धरं तेजॊ यन वृत्रॊ विनिर्मितः
तवष्ट्रा पुरा तपस तप्त्वा वर्षायुतशतं तदा
वृत्रॊ विनिर्मितॊ देवाः पराप्यानुज्ञां महेश्वरात
स तस्यैव परसादाद वै हन्याद एव रिपुर बली
नागत्वा शंकर सथानं भगवान दृश्यते हरः
दृष्ट्वा हनिष्यथ रिपुं कषिप्रं गच्छत मन्दरम
यत्रास्ते तपसां यॊनिर दक्षयज्ञविनाशनः
पिनाकी सर्वभूतेशॊ भग नेत्रनिपातनः
ते गत्वा सहिता देवा बरह्मणा सह मन्दरम
अपश्यंस तेजसां राशिं सूर्यकॊटि समप्रभम
सॊ ऽबरवीत सवागतं देवा बरूत किं करवाण्य अहम
अमॊघं दर्शनं मह्यम आमप्राप्तिर अतॊ ऽसतु वः
एवम उक्तास तु ते सर्वे परत्यूचुस तं दिवौकसः
तेजॊ हृतं नॊवृत्रेण गतिर भव दिवौकसाम
मूर्तीर ईक्षष्व नॊ देव परहारैर जर्जरीकृताः
शरणं तवां परपन्नाः सम गतिर भव महेश्वर
[महेष्वर]
विदितं मे यथा देवाः कृत्येयं सुमहाबला
तवष्टुस तेजॊ भवा घॊरा दुर्निवार्याकृतात्मभिः
अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम
ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम
बधानानेन मन्त्रेण मानसेन सुरेश्वर
[दर्न]
इत्य उक्त्वा वरदः परादाद वर्मतन मन्त्रम एव च
स तेन वर्मणा गुप्तः परायाद वृत्र चमूं परति
नानाविधैश च शस्त्रौघैः पात्यमानैर महारणे
न संधिः शक्यते भेत्तुं वर्म बन्धस्य तस्य तु
ततॊ जघान समरे वृत्रं देवपतिः सवयम
तं च मत्रमयं बन्धं वर्म चाङ्गिरसे ददौ
अङ्गिराः पराह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः
बृहस्पतिर अथॊवाच अग्निवेश्याय धीमते
अग्निवेश्यॊ मम परादात तेन बध्नामि वर्म ते
तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम
एवम उक्त्वा ततॊ दरॊणस तव पुत्रं महाद्युतिः
पुनर एव वचः पराह शनैर आचार्य पुंगवः
बरह्मसूत्रेण बध्नामि कवचं तव पार्थिव
हिरण्यगर्भेण यथा यद्धं विष्णॊः पुरा रणे
यथा च बरह्मणा बद्धं संग्रामे तारकामये
शक्रस्य कवचं दिव्यं तथा बध्नाम्य अहं तव
बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम
परेषयाम आस राजानं युद्धाय महते दविजः
स संनद्धॊ महाबाहुर आचार्येण महात्मना
रथानां च सहस्रेण तरिगर्तानां परहारिणाम
तथा दन्ति सहस्रेण मत्तानां वीर्यशालिनाम
अश्वानाम अयुतेनैव तथान्यैश च महारथैः
वृतः परायान महाबाहुर अर्जुनस्य रथं परति
नाना वादित्रघॊषेण यथा वैरॊचनिस तथा
ततः शब्दॊ महान आसीत सैन्यानां तव भारत
अगाधं परस्थितं दृट्ष्ट्वा समुद्रम इव कौरवम
[स]
परविष्टयॊर महाराज पार्थ वार्ष्णेययॊस तदा
दुर्यॊधने परयाते च पृष्ठतः पुरुषर्षभे
जवेनाभ्यद्रवन दरॊणं महता निस्वनेन च
पाण्डवाः सॊमकैः सार्धं ततॊ युद्धम अवर्तत
तद युद्धम अभवद घॊरं तुमुलं लॊमहर्षणम
पाञ्चालानां कुरूणां च वयूहस्य पुरतॊ ऽदभुतम
राजन कदा चिन नास्माभिर दृष्टं तादृङ न च शरुतम
यादृङ मध्यगते सूर्ये युद्धम आसीद विशां पते
धृष्टद्युम्नमुखाः पार्था वयूढानीकाः परहारिणः
दरॊणस्य सैन्यं ते सर्वे शरवर्षैर अवाकिरन
वयं दरॊणं पुरस्कृत्य सर्वशस्त्रभृतां वरम
पार्षत परमुखान पार्थान अभ्यवर्षाम सायकैः
महामेघाव इवॊदीर्णौ मिश्रवातौ हिमात्यये
सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते
समेत्य तु महासेने चक्रतुर वेगम उत्तमम
जाह्नवी यमुने नद्यौ परावृषीवॊल्बणॊदके
नानाशस्त्रपुरॊ वातॊ दविपाश्वरथसंवृतः
गदा विद्युन महारौद्रः संग्रामजलदॊ महान
भारद्वाजानिलॊद्धूतः शरधारा सहस्रवान
अभ्यवर्षन महारौद्रः पाण्डुसेनाग्निम उद्धतम
समुद्रम इव घर्मान्ते विवान घॊरॊ महानिलः
वयक्षॊभयद अनीकानि पाण्डवानां दविजॊत्तमः
ते ऽपि सर्वप्रयत्नेन दरॊणम एव समाद्रवन
बिभित्सन्तॊ महासेनं वार्यौघाः परबला इव
वारयाम आस तान दरॊणॊ जलौघान अचलॊ यथा
पाण्डवान समरे करुद्धान पाञ्चालांश च स केकयान
अथापरे ऽपि राजानः परावृत्य समन्ततः
महाबाला रणे शूराः पाञ्चालान अन्ववारयन
ततॊ रणे नरव्याघ्रः पार्षतः पाण्डवैः सह
संजघानासकृद दरॊणं बिभित्सुर अरिवाहिनीम
यथैव शरवर्षाणि दरॊणॊ वर्षति पार्षते
तथैव शरवर्षाणि धृष्टद्युम्नॊ ऽभयवर्षत
सनिस्त्रिंशपुरॊ वातः शक्तिप्रासर्ष्टि संवृतः
जया विद्युच चापसंह्रादॊ धृष्टद्युम्न बलाहकः
शरधाराश्म वर्षाणि वयसृजत सर्वतॊदिशम
निघ्नन रथवराश्वौघांश छादयाम आस वाहिनीम
यं यम आर्छच छरैर दरॊणः पाण्डवानां रथव्रजम
ततस ततः शरैर दरॊणम अपाकर्षत पार्षतः
तथा तु यतमानस्य दरॊणस्य युधि भारत
धृष्टद्युम्नं समासाद्य तरिधा सैन्यम अभिद्यत
भॊजम एके नयवर्तन्त जलसंधम अथापरे
पाण्डवैर हन्यमानाश च दरॊणम एवापरे ऽवरजन
सैन्यान्य अघटयद यानि दरॊणस तु रथिनां वरः
वयधमच चापि तान्य अस्य घृष्टद्युम्नॊ महारथः
धार्तराष्टास तरिधा भूता वध्यन्ते पाण्डुसृञ्जयैः
अगॊपाः पशवॊ ऽरण्ये बहुभिः शवापदैर इव
कालः संग्रसते यॊधान धृष्टद्युम्नेन मॊहितान
संग्रामे तुमुले तस्मिन्न इति संमेनिरे जनाः
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः
दराव्यते तद्वद आपन्ना पाण्डवैस तव वाहिनी
अर्करश्मि परभिन्नेषु शस्त्रेषु कवचेषु च
चक्षूंषि परतिहन्यन्ते सैन्येन रजसा तथा
तरिधा भूतेषु सैन्येषु वध्यमानेषु पाण्डवैः
अमर्षितस ततॊ दरॊणः पाञ्चालान वयधमच छरैः
मृद्नतस तान्य अनीकानि निघ्नतश चापि सायकैः
बभूव रूपं दरॊणस्य कालाग्नेर इव दीप्यतः
रथं नागं हयं चापि पत्तिनश च विशां पते
एकैकेनेषुणा संख्ये निर्बिभेद महारथः
पाण्डवानां तु सैन्येषु नास्ति कश चित स भारत
दधार यॊ रणे बाणान दरॊण चापच्युताञ शितान
तत पच्यमानम अर्केण दरॊण सायकतापितम
बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत
तथैव पार्षतेनापि काल्यमानं बलं तव
अभवत सर्वतॊ दीप्तं शुष्कं वनम इवाग्निना
वध्यमानेषु सैन्येषु दरॊण पार्षत सायकैः
तयक्त्वा पराणान परं शक्त्या परायुध्यन्त सम सैनिकाः
तावकानां परेषां च युध्यतां भरतर्षभ
नासीत कश चिन महाराज यॊ ऽतयाक्षीत संयुगं भयात
भीमसेनं तु कौन्तेयं सॊदर्याः पर्यवारयन
विविंशतिश चित्रसेनॊ विकर्णश च महारथः
विन्दानुविन्दाव आवन्त्यौ कषेमधूर्तिश च वीर्यवान
तरयाणां तव पुत्राणां तरय एवानुयायिनः
बाह्लीक राजस तेजस्वी कुलपुत्रॊ महारथः
सह सेनः सहामात्यॊ दरापदेयान अवारयत
शब्यॊ गॊवासनॊ राजा यॊधैर दशशतावरैः
काश्यस्याभिभुवः पुत्रं पराक्रान्तम अवारयत
अजातशत्रुं कौन्तेयं जवलन्तम इव पावकम
मद्राणमेश्वरः शल्यॊ राजा राजानम आवृणॊत
दुःशासनस तव अवस्थाप्य सवम अनीकम अमर्षणः
सात्यकिं परययौ करुद्धः शूरॊ रथवरं युधि
सवकेनाहम अनीकेन संनद्ध कवचावृतः
चतुःशतैर महेष्वासैश चेकितानम अवारयम
शकुनिस तु सहानीकॊ माद्रीपुत्रम अवारयत
गान्धारकैः सप्तशतैश चापशक्तिशरासिभिः
विन्दानुविन्दाव आवन्त्यौ विराटं मत्स्यम आर्छताम
पराणांस तयक्त्वा महेष्वासौ मित्रार्थे ऽभयुद्यतौ युधि
शिखण्डिनं याज्ञसेनिं रुन्धानम अपराजितम
बाह्लिकः परतिसंयत्तः पराक्रानम अवारयत
धृष्टद्युम्नं च पाञ्चाल्यं करूरैः सार्धं परभद्रकैः
आवन्त्यः सह सौवीरैः करुद्ध रूपम अवारयत
घटॊत्कचं तथा शूरं राक्षसं करूर यॊधिनम
अलायुधॊ ऽदरवत तूर्णं करुद्धम आयान्तम आहवे
अलम्बुसं राक्षसेन्द्रं कुन्तिभॊजॊ महारथः
सैन्येन महता युक्तः करुद्ध रूपम अवारयत
सैन्धवः पृष्ठतस तव आसीत सर्वसैन्यस्य भारत
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः
तस्यास्तां चक्ररक्षौ दवौ सैन्धवस्य बृहत्तमौ
दरौणिर दक्षिणतॊ राजन सूतपुत्रश च वामतः
पृष्ठगॊपास तु तस्यासन सौमदत्ति पुरॊगमाः
कृपश च वृषसेनश च शलः शल्यश च दुर्जयः
नीतिमन्तॊ महेष्वासाः सर्वे युद्धविशारदाः
सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा
[स]
राजन संग्रामम आश्चर्यं शृणु कीर्तयतॊ मम
कुरूणां पाण्डवानां च यथा युद्धम अवर्तत
भारद्वाजं समासाद्य वयूहस्य परमुखे सथितम
अयॊधयन रणे पार्था दरॊणानीकं बिभित्सवः
रक्षमाणाः सवकं वयूहं दरॊणस्यापि च सैनिकाः
अयॊधयन रणे पार्थान परार्थयन्तॊ महद यशः
विन्दानुविन्दाव आवन्त्यौ विराटं दशभिः शरैः
आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ
विराटश च महाराज ताव उभौ समरे सथितौ
पराक्रान्तम पराक्रम्य यॊधयाम आस सानुगौ
तेषां युद्धं समभवद दारुणं शॊणितॊदकम
सिंहस्य दविपमुख्याभ्यां परभिन्नाभ्यां यथा वने
बाह्लीकं रभसं युद्धे याज्ञसेनिर महाबलः
आजघ्ने विशिखैस तीक्ष्णैर घॊरैर मर्मास्थि भेदिभिः
बाह्लीकॊ याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः
आजघान भृशं करुद्धॊ नवभिर नतपर्वभिः
तद युद्धम अभवद घॊरं शरशक्तिसमाकुलम
भीरूणां तरासजननं शूराणां हर्षवर्धनम
ताभ्यां तत्र शरैर मुक्तैर अन्तरिक्षं दिशस तथा
अभवत संवृतं सर्वं न पराज्ञायत किं चन
शैब्यॊ गॊवासनॊ युद्धे काश्य पुत्रं महारथम
स सैन्यॊ यॊधयाम आस गजः परतिगजं यथा
बाह्लीक राजः संरब्धॊ दरौपदेयान महारथान
मनः पञ्चेन्द्रियाणीव शुशुभे यॊधयन रणे
अयॊधयंस ते च भृशं तं शरौघैः समन्ततः
इन्द्रियार्था यथा देहं शश्वद देहभृतां वर
वार्ष्णेयं सात्यकिं युद्धे पुत्रॊ दुःशासनस तव
आजघ्ने सायकैस तीक्ष्णैर नवभिर नतपर्वभिः
सॊ ऽतिविद्धॊ बलवता महेष्वासेन धन्विना
ईषन मूर्छां जगामाशु सात्यकिः सत्यविक्रमः
समाश्वस्तस तु वार्ष्णेयस तव पुत्रं महारथम
विव्याध दशभिस तूर्णं सायकैः कङ्कपत्रिभिः
ताव अन्यॊन्यं दृढं विद्धाव अन्यॊन्यशरविक्षतौ
रेजतुः समरे राजन पुष्पिताव इव किंशुकौ
अलम्बुसस तु संक्रुद्धः कुन्तिभॊजशरार्दितः
अशॊभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः
कुन्तिभॊजं ततॊ रक्षॊ विद्ध्वा बहुभिर आयसैः
अनदद भैरवं नादं वाहिन्याः परमुखे तव
ततस तौ समरे शूरौ यॊधयन्तौ परस्परम
ददृशुः सर्वभूतानि शक्र जम्भौ यथा पुरा
शकुनिं रभसं युद्धे कृतवैरं च भारत
माद्रीपुत्रौ च संरब्धौ शरैर अर्दयतां मृधे
तन मूलः स महाराज परावर्तत जनक्षयः
तवया संजनितॊ ऽतयर्थं कर्णेन च विवर्धितः
उद्धुक्षितश च पुत्रेण तव करॊधहुताशनः
य इमां पृथिवीं राजन दग्धुं सर्वां समुद्यतः
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः
नाभ्यजानत कर्तव्यं युधि किं चित पराक्रमम
विमुखं चैनम आलॊक्य माद्रीपुत्रौ महारथौ
ववर्षतुः पुनर बाणैर यथा मेघौ महागिरिम
स वध्यमानॊ बहुभिः शरैः संनतपर्वभिः
संप्रायाज जवनैर अश्वैर दरॊणानीकाय सौबलः
घटॊत्कचस तथा शूरं राक्षस्म तम अलायुधम
अभ्ययाद रभसं युद्धे वेगम आस्थाय मध्यमम
तयॊर युद्धं महाराज चित्ररूपम इवाभवत
यादृशं हि पुरावृत्तं रामरावणयॊर मृधे
ततॊ युधिष्ठिरॊ राजा मद्रराजानम आहवे
विद्ध्वा पञ्चाशता बाणैः पुनर विव्याध सप्तभिः
ततः परववृते युद्धं तयॊर अत्यद्भुतं नृप
यथापूर्वं महद युद्धं शम्बरामर राजयॊः
विविंशतिश चित्रसेनॊ विकर्णश च तवात्मजः
अयॊधयन भीमसेनं महत्या सेनया वृताः
[स]
तथा तस्मिन परवृत्ते तु संग्रामे लॊमहर्षणे
कौरवेयांस तरिधा भूतान पाण्डवाः समुपाद्रवन
जलसंधं महाबाहुर भीमसेनॊ नयवारयत
युधिष्ठिरः सहानीकः कृतवर्माणम आहवे
किरन्तं शरवर्षाणि रॊचमान इवांशुमान
धृष्टद्युम्नॊ महाराज दरॊणम अभ्यद्रवद रणे
ततः परववृते युद्धं तवरतां सर्वधन्विनाम
कुरूणां सॊमकानां च संक्रुद्धानां परस्परम
संक्षये तु तथा भूते वर्तमाने महाभये
दवंद्वी भूतेषु सैन्येषु युध्यमानेष्व अभीतवत
दरॊणः पाञ्चाल पुत्रेण बली बलवता सह
विचिक्षेप पृषत्कौघांस तद अद्भुतम इवाभवत
पुण्डरीकवनानीव विध्वस्तानि समन्ततः
चक्राते दरॊण पाञ्चाल्यौ नृणां शीर्षाण्य अनेकशः
विनिकीर्णानि वीराणाम अनीकेषु समन्ततः
वस्त्राभरण शस्त्राणि धवजवर्मायुधानि च
तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च
संसक्ता इव दृश्यन्ते मेघसंघाः स विद्युतः
कुञ्जराश्वनरान संख्ये पातयन्तः पतत्रिभिः
तालमात्राणि चापानि विकर्षन्तॊ महारथाः
असि चर्माणि चापानि शिरांसि कवचानि च
विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम
उत्थितान्य अगणेयानि कबन्धानि समन्ततः
अदृश्यन्त महाराज तस्मिन परमसंकुले
गृध्राः कङ्का वडाः शयेना वायसा जम्बुकास तथा
बहवः पिशिताशाश च तत्रादृश्यन्त मारिष
भक्षयन्तः सम मांसानि पिबन्तश चापि शॊणितम
विलुम्पन्तः सम केशांश च मज्जाश च बहुधा नृप
आकर्षन्तः शरीराणि शरीरावयवांस तथा
नराश्वगजसंघानां शिरांसि च ततस ततः
कृतास्त्रा रणदीक्षाभिर दीक्षिताः शरधारिणः
रणे जयं परार्थयन्तॊ भृशं युयुधिरे तदा
असि मार्गान बहुविधान विचेरुस तावका रणे
ऋष्टिभिः शक्तिभिः परासैः शूलतॊमर पट्टिशैः
गदाभिः परिघैश चान्ये वयायुधाश च भुजैर अपि
अन्यॊन्यं जघ्निरे करुद्धा युद्धरङ्ग गता नराः
रथिनॊ रथिभिः सार्धम अश्वारॊहाश च सादिभिः
मातङ्गा वरमातङ्गैः पदाताश च पदातिभिः
कषीबा इवान्ये चॊन्मत्ता रङ्गेष्व इव च चारणाः
उच्चुक्रुशुस तथान्यॊन्यं जघ्नुर अन्यॊन्यम आहवे
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते
धृष्टद्युम्नॊ हयान अश्वैर दरॊणस्य वयत्यमिश्रयत
ते हया साध्व अशॊभन्त विमिश्रा वातरंहसः
पारावत सवर्णाश च रक्तशॊणाश च संयुगे
हयाः शुशुभिरे राजन मेघा इव स विद्युतः
धृष्टद्युम्नश च संप्रेक्ष्य दरॊणम अभ्याशम आगतम
असि चर्माददे वीरॊ धनुर उत्सृज्य भारत
चिकीर्षुर दुष्करं कर्म पार्षतः परवीरहा
ईषया समतिक्रम्य दरॊणस्य रथम आविशत
अतिष्ठद युगमध्ये स युगसंनहनेषु च
जघानार्धेषु चाश्वानां तत सैन्यान्य अभ्यपूजयन
खड्गेन चरतस तस्य शॊणाश्वान अधितिष्ठतः
न ददर्शान्तरं दरॊणस तद अद्भुतम इवाभवत
यथा शयेनस्य पतनं वनेष्व आमिष गृद्धिनः
तथैवासीद अभीसारस तस्य दरॊणं जिघांसतः
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत
दरॊणॊ दरुपदपुत्रस्य खड्गं च दशभिः शरैः
हयांश चैव चतुःषष्ट्या शराणां जघ्निवान बली
धवजं छत्रं च भल्लाभ्यां तथॊभौ पार्ष्णिसारथी
अथास्मै तवरितॊ बाणम अपरं जीवितान्तकम
आकर्णपूर्णं चिक्षेप वज्रं वज्रधरॊ यथा
तं चतुर्दशभिर बाणैर बाणं चिच्छेद सात्यकिः
परस्तम आचार्य मुख्येन धृष्टद्युम्नम अमॊचयत
सिंहेनेव मृगं गरस्तं नरसिंहेन मारिष
दरॊणेन मॊचयाम आस पाञ्चाल्यं शिनिपुंगवः
सात्यकिं परेक्ष्य गॊप्तारं पाञ्चाल्यस्य महाहवे
शराणां तवरितॊ दरॊणः षड्विंशत्या समर्पयत
ततॊ दरॊणं शिनेः पौत्रॊ गरसन्तम इव सृञ्जयान
परत्यविध्यच छितैर बाणैः षड्विंशत्या सतनानरे
ततः सर्वे रथास तूर्णं पाञ्चाला जय गृद्धिनः
सात्वताभिसृते दरॊणे धृष्टद्युम्नम अमॊचयन
[धृ]
बाणे तस्मिन निकृत्ते तु धृष्टद्युम्ने च मॊक्षिते
तेन वृष्णिप्रवीरेण युयुधानेन संजय
अमर्षितॊ महेष्वासः सर्वशस्त्रभृतां वरः
नरव्याघ्रः शिनेः पौत्रे दरॊणः किम अकरॊद युधि
[स]
संप्रद्रुतः करॊधविषॊ वयादितास्य शरासनः
तीक्ष्णधारेषु दशनः शितनाराच दंष्ट्रवान
संरम्भामर्ष ताम्राक्षॊ महाहिर इव निःश्वसन
नरवीर परमुदितैः शॊणैर अश्वैर महाजवैः
उत्पतद्भिर इवाकाशं करमद्भिर इव सर्वतः
रुक्मपुङ्खाञ शरान अस्यन युयुधानम उपाद्रवत
शरपात महावर्षं रथघॊषबलाहकम
कार्मुकाकर्ष विक्षिप्तं नाराचबहु विद्युतम
शक्तिखड्गाशनि धरं करॊधवेगसमुत्थितम
दरॊण मेघम अनावार्यं हयमारुत चॊदितम
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः
उवाच सूतं शैनेयः परहसन युद्धदुर्मदः
एतं वै बराह्मणं करूरं सवकर्मण्य अनवस्थितम
आश्रयं धार्तराष्ट्रस्य राज्ञॊ दुःखभयावहम
शीघ्रं परजवितैर अश्वैः परत्युद्याहि परहृष्टवत
आचार्यं राजपुत्राणां सततं शूरमानिनम
ततॊ रजतसंकाशा माधवस्य हयॊत्तमाः
दरॊणस्याभिमुखाः शीघ्रम अगच्छन वातरंहसः
इषुजालावृतं घॊरम अन्धकारम अनन्तरम
अनाधृष्यम इवान्येषां शूराणाम अभवत तदा
ततः शीघ्रास्त्र विदुषॊर दरॊण सात्वतयॊस तदा
नान्तर्म शरवृष्टीनां दृश्यते नरसिंहयॊः
इषूणां संनिपातेन शब्दॊ धाराभिघातजः
शुश्रुवे शक्रम उक्तानाम अशनीनाम इव सवनः
नाराचैर अतिविद्धानां शराणां रूपम आबभौ
आशीविषविदष्टानां सर्पाणाम इव भारत
तयॊर जयातलनिर्घॊषॊ वयश्रूयत सुदारुणः
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यताम इव
उभयॊस तौ रथौ राजंस ते चाश्वास्तौ च सारथी
रुक्मपुङ्खैः शरैश छन्नाश चित्ररूपा बभुस तदा
निर्मलानाम अजिह्मानां नाराचानां विशां पते
निर्मुक्ताशीविषाभानां संपातॊ ऽभूत सुदारुणः
उभयॊः पतिते छत्त्रं तथैव पतितौ धवजौ
उभौ रुधिरसिक्ताङ्गाव उभौ च विजयैषिणौ
सरवद्भिः शॊणितं गात्रैः परस्रुताव इव वारणौ
अन्यॊन्यम अभिविध्येतां जीवितान्तकरैः शरैः
गर्जितॊत्क्रुष्ट संनादाः शङ्खदुन्दुभिनिस्वनाः
उपारमन महाराज वयाजहार न कश चन
तूष्णींभूतान्य अनीकानि यॊधा युद्धाद उपारमन
ददृशे दवैरथं ताभ्यां जातकौतूहलॊ जनः
रथिनॊ हस्तियन्तारॊ हयारॊहाः पदातयः
अवैक्षन्ताचलैर नेत्रैः परिवार्य रथर्षभौ
हस्त्यनीकान्य अतिष्ठन्त तहानीकानि वाजिनाम
तथैव रथवाहिन्यः परतिव्यूह्य वयवस्थिताः
मुक्ता विद्रुमचित्रैश च मणिकाञ्चनभूषितैः
धवजैर आभरणैश चित्रैः कवचैश च हिरण्मयैः
वैजयन्ती पताकाभिः परिस्तॊमाङ्गकम्बलैः
विमलैर निशितैः शस्त्रैर हयानां च परकीर्णकैः
जातरूपमयीभिश च राजतीभिश च मूर्धसु
गजानां कुम्भमालाभिर दन्तवेष्टैश च भारत
सबलाकाः स खद्यॊताः सैरावत शतह्रदाः
अदृश्यन्तॊष्ण पर्याये मेघानाम इव वागुराः
अपश्यन्न अस्मदीयाश च ते च यौधिष्ठिराः सथिताः
तद युद्धं युयुधानस्य दरॊणस्य च महात्मनः
विमानाग्रगता देवा बरह्म शक्रपुरॊगमाः
सिद्धचारणसंघाश च विद्याधरमहॊरगाः
गतप्रत्यागताक्षेपैश चित्रैः शस्त्रविघातिभिः
विविधैर विस्मयं जग्मुस तयॊः पुरुषसिंहयॊः
हस्तलाघवम अस्त्रेषु दर्शयन्तौ महाबलौ
अन्यॊन्यं समविध्येतां शरैस तौ दरॊण सात्यकी
ततॊ दरॊणस्य दाशार्हः शरांश चिच्छेद संयुगे
पत्रिभिः सुदृढैर आशु धनुश चैव महाद्युते
निमेषान्तरमात्रेण भारद्वाजॊ ऽपरं धनुः
सज्यं चकार तच चाशु चिच्छेदास्य स सात्यकिः
ततस तवरन पुनर दरॊणॊ धनुर हस्तॊ वयतिष्ठत
सज्यं सज्यं पुनश चास्य चिच्छेद निशितैः शरैः
ततॊ ऽसय संयुगे दरॊणॊ दृष्ट्वा कर्मातिमानुषम
युयुधानस्य राजेन्द्र मनसेदम अचिन्तयत
एतद अस्त्रबलं रामे कार्तवीर्ये धनंजये
भीष्मे च पुरुषव्याघ्रे यद इदं सात्वतां वरे
तं चास्य मनसा दरॊणः पूजयाम आस विक्रमम
लाघवं वासवस्येव संप्रेक्ष्य दविजसत्तमः
तुतॊषास्त्रविदां शरेष्ठस तथा देवाः स वासवाः
न ताम आलक्षयाम आसुर लघुतां शीघ्रकारिणः
देवाश च युयुधानस्य गन्धर्वाश च विशां पते
सिद्धचारणसंघाश च विदुर दरॊणस्य कर्म तत
ततॊ ऽनयद धनुर आदाय दरॊणः कषत्रिय मर्दनः
अस्त्रैर अस्त्रविदां शरेष्ठॊ यॊधयाम आस भारत
तस्यास्त्राण्य अस्त्रमायाभिः परतिहन्य स सात्यकिः
जघान निशितैर बाणैस तद अद्भुतम इवाभवत
तस्यातिमानुषं कर्म दृष्ट्वान्यैर असमं रणे
युक्तं यॊगेन यॊगज्ञास तावकाः समपूजयन
यद अस्त्रम अस्यति दरॊणस तद एवास्यति सात्यकिः
तम आचार्यॊ ऽपय असंभ्रान्तॊ ऽयॊधयत्ल्शत्रु तापनः
ततः करुद्धॊ महाराज धनुर्वेदस्य पारगः
वधाय युयुधानस्य दिव्यम अस्त्रम उदैरयत
तद आग्नेयं महाघॊरं विपुघ्नम उपलक्ष्य सः
अस्त्रं दिव्यं महेष्वासॊ वारुणं समुदैरयत
हाहाकारॊ महान आसीद दृष्ट्वा दिव्यास्त्रधारिणौ
न विचेरुस तदाकाशे भूतान्य आकाशगान्य अपि
अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते
न तावद अभिषज्येते वयावर्तद अथ भास्करः
ततॊ युधिष्ठिरॊ राजा भीमसेनश च पाण्डवः
नकुलः सहदेवश च पर्यरक्षन्त सात्यकिम
धृष्ट्वद्युम्न मुखैः सार्धं विराटश च स केकयः
मत्स्याः शाल्वेय सेनाश च दरॊणम आजग्मुर अञ्जसा
दुःशासनं पुरस्कृत्य राजपुत्रः सहस्रशः
दरॊणम अभ्युपपद्यन्त सपत्नैः परिवारितम
ततॊ युद्धम अभूद राजंस तव तेषां च धन्विनाम
रजसा संवृते लॊके शरजालसमावृते
सर्वम आविग्नम अभवन न पराज्ञायत किं चन
सैन्येन रजसा धवस्ते निर्मर्यादम अवर्तत
[स]
परिवर्तमाने तव आदित्ये तत्र सूर्यस्य रश्मिभिः
रजसा कीर्यमाणाश च मन्दी भूताश च सैनिकाः
तिष्ठतां युध्यमानानां पुनरावर्तताम अपि
भज्यतां जयतां चैव जगाम तद अहः शनैः
तथा तेषु विषक्तेषु सैन्येषु जय गृद्धिषु
अर्जुनॊ वासुदेवश च सैन्धवायैव जग्मतुः
रथमार्ग परमाणं तु कौन्तेयॊ निशितैः शरैः
चकार तत्र पन्थानं ययौ येन जनार्दनः
यत्र यत्र रथॊ याति पाण्डवस्य महात्मनः
तत्र तत्रैव दीर्यन्ते सेनास तव विशां पते
रथशिक्षां तु दाशार्हॊ दर्शयाम आस वीर्यवान
उत्तमाधममध्यानि मण्डलानि विदर्शयन
ते तु नामाङ्किताः पीताः कालज्वलन संनिभाः
सनायु नद्धाः सुपर्वाणः पृथवॊ दीर्घगामिनः
वैणवायस्मय शराः सवायता विविधाननाः
रुधिरं पतगैः सार्धं पराणिनां पपुर आहवे
रथस्थिरः करॊशमात्रे यान अस्यत्य अर्जुनः शरान
रथे करॊशम अतिक्रान्ते तस्य ते घनन्ति शात्रवान
तार्क्ष्य मारुत रंहॊभिर वाजिभिः साधु वाहिभिः
तथागच्छद धृषीकेशः कृत्स्नं विस्मापयञ जगत
न तथा गच्छति रथस तपनस्य विशां पते
नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च
नान्यस्य समरे राजन गतपूर्वस तथा रथः
यथा ययाव अर्जुनस्य मनॊ ऽभिप्राय शीघ्रगः
परविश्य तु रणे राजन केशवः परवीरहा
सेना मध्ये हयांस तूर्णं चॊदयाम आस भारत
ततस तस्य रथौघस्य मध्यं पराप्य हयॊत्तमाः
कृच्छ्रेण रथम ऊहुस तं कषुत्पिपासाश्रमान्विताः
कषताश च बहुभिः शस्त्रैर युद्धशौण्डैर अनेकशः
मण्डलानि विचित्राणि विचेरुस ते मुहुर मुहुः
हतानां वाजिनागानां रथानां च नरैः सह
उपरिष्टाद अतिक्रान्ताः शैलाभानां सहस्रशः
एतस्मिन्न अन्तरे वीराव आवन्त्यौ भरातरौ नृप
सहसेनौ समार्छेतां पाण्डवं कलान्तवाहनम
ताव अर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम
शराणां च शतेनाश्वान अविध्येतां मुदान्वितौ
ताव अर्जुनॊ महाराज नवभिर नतपर्वभिः
आजघान रणे करुद्धॊ मर्मज्ञॊ मर्मभेदिभिः
ततस तौ तु शरौघेण बीभत्सुं सह केशवम
आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः
तयॊस तु धनुषी चित्रे भल्लाभ्यां शवेतवाहनः
चिच्छेद समरे तूर्णं धवजौ च कनकॊज्ज्वलौ
अथान्ये धनुषी राजन परगृह्य समरे तदा
पाण्डवं भृशसंक्रुद्धाव अर्दयाम आसतुः शरैः
तयॊस तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः
चिच्छेद धनुषी तूर्णं भूय एव धनंजयः
तथान्यैर विशिखैस तूर्णं हेमपुङ्खैः शिलाशितैः
जघानाश्वान सपदातांस तथॊभौ पार्ष्णिसारथी
जयेष्ठस्य च शिरः कायात कषुरप्रेण नयकृन्तत
स पपात हतः पृथ्व्यां वातरुग्ण इव दरुमः
विन्दं तु निहतं दृष्ट्वा अनुविन्दः परतापवान
हताश्वं रथम उत्सृज्य गदां गृह्य महाबलः
अभ्यद्रवत संग्रामे भरातुर वधम अनुस्मरन
गदया गदिनां शरेष्ठॊ नृत्यन्न इव महारथः
अनुविन्दस तु दगया ललाटे मधुसूदनम
सपृष्ट्वा नाकम्पयत करुद्धॊ मैनाकम इव पर्वतम
तस्यार्जुनः शरिः षड्भिर गरीवां पादौ भुजौ शिरः
निचकर्त स संछिन्नः पपाताद्रिचयॊ यथा
ततस तौ निहतौ दृष्ट्वा तयॊ राजन पदानुगाः
अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान
तान अर्जुनः शरैस तूर्णं निहत्य भरतर्षभ
वयरॊचत यथा वह्निर दावं दग्ध्वा हिमात्यये
तयॊः सेनाम अतिक्रम्य कृच्छ्रान निर्याद धनंजयः
विबभौ जलदान भित्त्वा दिवाकर इवॊदितः
तं दृष्ट्वा कुरवस तरस्ताः परहृष्टाश चाभवन पुनः
अभ्यवर्षंस तदा पार्थं समन्ताद भरतर्षभ
शरान्तं चैनं समालक्ष्य जञात्वा दूरे च सैन्धवम
सिंहनादेन महता सर्वतः पर्यवारयन
तांस तु दृष्ट्वा सुसंरब्धान उत्स्मयन पुरुषर्षभः
शनकैर इव दाशार्हम अर्जुनॊ वाक्यम अब्रवीत
शरार्दिताश च गलानाश च हया दूरे च सैन्धवः
किम इहानन्तरं कार्यं जयायिष्ठं तव रॊचते
बरूहि कृष्ण यथातत्त्वं तवं हि पराज्ञतमः सदा
भवन नेत्रा रणे शत्रून विजेष्यन्तीह पाण्डवाः
मम तव अनन्तर्म कृत्यं यद वै तत संनिबॊध मे
हयान विमुच्य हि सुखं विशल्यान कुरु माघव
एवम उक्तस तु पार्थेन केशवः परत्युवाच तम
ममाप्य एतन मतं पाथ यद इदं ते परभाषितम
[अर्ज]
अहम आवारयिष्यामि सर्वसैन्यानि केशव
तवम अप्य अत्र यथान्यायं कुरु कायम अनन्तरम
[स]
सॊ ऽवतीर्य रथॊपस्थाद असंभ्रान्तॊ धनंजयः
गाण्डीवं धनुर आदाय तस्थौ गिरिर इवाचलः
तम अभ्यधावन करॊशन्तः कषत्रिया जयकाङ्क्षिणः
इदं छिद्रम इति जञात्वा धरणीस्थं धनंजयम
तम एकं रथवंशेन महता पर्यवारयन
विकर्षन्तश च चापानि विसृजन्तश च सायकान
अस्त्राणि च विचित्राणि करुद्धास तत्र वयदर्शयन
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम
अभ्यद्रवन्त वेगेन कषत्रियाः कषत्रियर्षभम
रथसिंहं रथॊदाराः सिंहं मत्ता इव दविपाः
तत्र पार्थस्य भुजयॊर महद बलम अदृश्यत
यत करुद्धॊ बहुलाः सेनाः सर्वतः समवारयत
अस्त्रैर अस्त्राणि संवार्य दविषतां सर्वतॊ विभुः
इषुभिर बहुभिस तूर्णं सर्वान एव समावृणॊत
तत्रान्तरिक्षे बाणानां परगाढानां विशां पते
संघर्षेण महार्चिष्मान पावकः समजायत
तत्र तत्र महेष्वासैः शवसद्भिः शॊणिद उक्षितैः
हयैर नागैश च संभिन्नैर नदद्भिश चारि कर्शनैः
संरब्धैश चारिभिर वीरैः परार्थयद्भिर जयं मृधे
एकस्थैर बहुभिः करुद्धैर ऊष्मा व समजायत
शरॊर्मिणं धवजावर्तं नागनक्रं दुरत्ययम
पदातिमत्स्य कलिलं शङ्खदुन्दुभिनिस्वनम
असंख्येयम अपारं च रजॊ ऽऽभीलम अतीव च
उष्णीष कमठच छन्नं पताकाफेन मालिनम
रथसागरम अक्षॊभ्यं मातङ्गाङ्गशिला चितम
वेला भूतास तदा पार्थः पत्रिभिः समवारयत
ततॊ जनार्दनः संख्ये परियं पुरुषसत्तमम
असंभ्रान्तॊ महाबाहुर अर्जुनं वाक्यम अब्रवीत
उदपानम इहाश्वानां नालम अस्ति रणे ऽरजुने
परीप्सन्ते जलं चेमे पेयं च तव अवगाहनम
इदम अस्तीत्य असंभ्रान्तॊ बरुवन्न अस्त्रेण मेदिनीम
अभिहत्यार्जुनश चक्रे वाजिपानं सरः शुभम
शरवंशं शरस्थूणं शराच्छादनम अद्भुतम
शरवेश्माकरॊत पार्थस तवष्टेवाद्भुत कर्मकृत
ततः परहस्य गॊविन्दः साधु साध्व इत्य अथाब्रवीत
शरवेश्मनि पार्थेन कृते तस्मिन महारणे
[स]
सलिले जनिते तस्मिन कौन्तेयेन महात्मना
निवारिते दविषत सैन्ये कृते च शरवेश्मनि
वासुदेवॊ रथात तूर्णम अवतीर्य महाद्युतिः
मॊचयाम आस तुरगान वितुन्नान कङ्कपत्रिभिः
अदृष्टपूर्वं तद दृष्ट्वा सिंहनादॊ महान अभूत
सिद्धचारणसंघानां सैनिकानां च सर्वशः
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः
नाशक्नुवन वारयितुं तद अद्भुतम इवाभवत
आपतत्सु रथौघेषु परभूतगजवाजिषु
नासंभ्रमत तदा पार्थस तद अस्य पुरुषान अति
वयसृजन्त शरौघांस ते पाण्डवं परति पार्थिवाः
न चाव्यथत धर्मात्मा वासविः परवीरहा
स तानि शरजालानि गदाः परासांश च वीर्यवान
आगतान अग्रसत पार्थः सरितः सागतॊ यथा
अस्त्रवेगेन महता पार्थॊ बाहुबलेन च
सर्वेषां पार्थिवेन्द्राणाम अग्रसत ताञ शरॊत्तमान
तत तु पार्थस्य विक्रान्तं वासुदेवस्य चॊभयॊः
अपूजयन महाराज कौरवाः परमाद्भुतम
किम अद्भुततरं लॊके भविताप्य अथ वाप्य अभूत
यद अश्वान पार्थ गॊविन्दौ मॊचयाम आसतू रणे
भयं विपुलम अस्मासु ताव अधत्तां नरॊत्तमौ
तेजॊ विदधतुश चॊग्रं विस्रब्धौ रणमूर्धनि
अथॊत्स्मयन हृषीकेशः सत्रीमध्य इव भारत
अर्जुनेन कृते संख्ये शरगर्भगृहे तदा
उपावर्तयद अव्यग्रस तान अश्वान पुष्करेक्षणः
मिषतां सर्वसैन्यानां तवदीयानां विशां पते
तेषां शरमं च गलानिं च वेपथुं वमथुं वरणान
सर्वं वयपानुदत कृष्णः कुशलॊ हय अश्वकर्मणि
शल्यान उद्धृत्य पाणिभ्यां परिमृज्य च तान हयान
उपावृत्य यथान्यायं पाययाम आस वारि सः
स ताँल लब्धॊदकान सनाताञ जग्धान्नान विगतक्लमान
यॊजयाम आस संहृष्टः पुनर एव रथॊत्तमे
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः
समास्थाय महातेजाः सार्जुनः परययौ दरुतम
रथं रथवरस्याजौ युक्तं लब्धॊदकैर हयैः
दृष्ट्वा कुरु बलश्रेष्ठाः पुनर विमनसॊ ऽभवन
विनिःश्वसन्तस ते राजन भग्नदंष्ट्रा इवॊरगाः
धिग अहॊ धिग गतः पार्थः कृष्णश चेत्य अब्रुवन पृथक
सर्वक्षत्रस्य मिषतॊ रथेनैकेन दंशितौ
बाल करीडनकेनेव कदर्थी कृत्यनॊ बलम
करॊशतां यतमानानाम असंसक्तौ परंतपौ
दर्शयित्वात्मनॊ वीर्यं परयातौ सर्वराजसु
तौ परयातौ पुनर दृष्ट्वा तदान्ये सैनिकाब्रुवन
तवरध्वं कुरवः सर्वे वधे कृष्ण किरीटिनॊः
रथं युक्त्वा हि दाशार्हॊ मिषतां सर्वधन्विनाम
जयद्रथाय यात्य एष कदर्थी कृत्यनॊ रणे
तत्र के चिन मिथॊ राजन समभाषन्त भूमिपाः
अदृष्टपूर्वं संग्रामे तद दृष्ट्वा महद अद्भुतम
सर्वसैन्यानि राजा च धृतरष्ट्रॊ ऽतययं गतः
दुर्यॊधनापराधेन कषत्रं कृत्स्ना च मेदिनी
विलयं समनुप्राप्ता तच च राजा न बुध्यते
इत्य एवं कषत्रियास तत्र बरुवन्त्य अन्ये च भारत
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम
तत करॊतु वृथा दृष्टिर धार्तराष्ट्रॊ ऽनुपायवित
ततः शीघ्रतरं परायात पाण्डवः सैन्धवं परति
निवर्तमाने तिग्मांशौ हृष्टैः पीतॊदकैर हयैः
तं परयान्तं महाबाहुं सर्वशस्त्रभृतां वरम
नाशक्नुवन वारयितुं यॊधाः करुद्धम इवान्तकम
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः
यथा मृगगणान सिंहः सैन्धवार्थे वयलॊडयत
गाहमानस तव अनीकानि तूर्णम अश्वान अचॊदयत
बलाक वर्णान दाशार्हः पाचजन्यं वयनादयत
कौन्तेयेनाग्रतः सृष्टा नयपतन पृष्ठतः शराः
तूर्णात तूर्णतरं हय अश्वास ते ऽवहन वातरंहसः
वातॊद्धूत पताकान्तं रथं जलदनिस्वनम
घॊरं कपिध्वजं दृष्ट्वा विषण्णा रथिनॊ ऽभवन
दिवाकरे ऽथ रजसा सर्वतः संवृते भृशम
शरार्ताश च रणे यॊधा न कृष्णौ शेकुर ईक्षितुम
ततॊ नृपतयः कुर्द्धाः परिवव्रुर धनंजयम
कषत्रिया बहवश चान्ये जयद्रथवधैषिणम
अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम
दुर्यॊधनस तव अगात पार्थं तवरमाणॊ महाहवे
[स]
सरंसन्त इव मज्जानस तावकानां भयान नृप
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ
सर्वे तु परतिसंरब्धा हरीमन्तः सत्त्वचॊदिताः
सथिरी बूता महात्मानः परत्यगच्छन धनंजयम
ये गताः पाण्डवं युद्धे करॊधामर्षसमन्विताः
ते ऽदयापि न निवर्तन्ते सिन्धवः सागराद इव
असन्तस तु नयवर्तन्त वेदेभ्य इव नास्तिकाः
नरकं भजमानास ते परत्यपद्यन्त किल्बिषम
ताव अतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ
ददृशाते यथा राहॊर आस्यान मुक्तौ परभा करौ
मत्स्याव इव महाजालं विदार्य विगतज्वरौ
तथा कृष्णाव अदृश्येतां सेना जालं विदार्य तत
विमुक्तौ शस्त्रसंबाधाद दरॊणानीकात सुदुर्भिदात
अदृश्येतां महात्मानौ कालसूर्याव इवॊदितौ
अस्त्रसंबाध निर्मुक्तौ विमुक्तौ शस्त्रसंकटात
अदृश्येतां महात्मानौ शत्रुसंबाध कारिणौ
विमुक्तौ जवलनस्पर्शान मकरास्याज झषाव इव
वयक्षॊभयेतां सेनां तौ समुद्रं मकराव इव
तावकास तव पुत्राश च दरॊणानीकस्थयॊस तयॊः
नैतौ तरिष्यतॊ दरॊणम इति चक्रुस तदा मतिम
तौ तु दृष्ट्वा वयतिक्रान्तौ दरॊणानीकं महाद्युती
नाशशंसुर महाराज सिन्धुराजस्य जीवितम
आशा बलवती राजन पुत्राणाम अभवत तव
दरॊण हार्दिक्ययॊः कृष्णौ न मॊक्ष्येते इति परभॊ
ताम आशां विफलां कृत्वा निस्तीर्णौ तौ परंतपौ
दरॊणानीकं महाराज भॊजानीकं च दुस्तरम
अथ दृष्ट्वा वयतिक्रान्तौ जवलिताव इव पावकौ
निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे
मिथश च समभाषेताम अभीतौ भयवर्धनौ
जयद्रथ वदे वाचस तास ताः कृष्ण धनंजयौ
असौ मध्ये कृतः षड्भिर धार्तराष्ट्रैर महारथैः
चक्षुर्विषयसंप्राप्तॊ न नौ मॊक्ष्यति सैन्धवः
यद्य अस्य समरे गॊप्ता शक्रॊ देवगणैः सह
तथाप्य एनं हनिष्याव इति कृष्णाव अभाषताम
इति कृष्णौ महाबाहू मिथः कथयतां तदा
सिन्धुराजम अवेक्षन्तौ तत पुत्रास तव शुश्रुवुः
अतीत्य मरु धन्वेव परयान्तौ तृषितौ गजौ
पीत्वा वारि समाश्वस्तौ तथैवास्ताम अरिंदमौ
वयाघ्रसिंहगजाकीर्णान अतिक्रम्येव पर्वतान
अदृश्येतां महाबाहू यथा मृत्युजरातिगौ
तथा हि मुखवर्णॊ ऽयम अनयॊर इति मेनिरे
तावका दृश्यमुक्तौ तौ विक्रॊशन्ति सम सर्वतः
दॊणाद आशीविषाकाराज जवलिताद इव पावकात
अन्येभ्यः पार्थिवेभ्यश च भास्वन्ताव इव भास्करौ
तौ मुक्तौ सागरप्रख्याद दरॊणानीकाद अरिंदमौ
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा
शस्त्रौघान महतॊ मुक्तौ दरॊण हार्दिक्य रक्षितान
रॊचमानाव अदृश्येताम इन्द्राग्न्यॊः सदृशौ रणे
उद्भिन्न रुधिरौ कृष्णौ भारद्वाजस्य सायकैः
शितैश चितौ वयरॊचेतां कर्णिकारैर इवाचलौ
दरॊण गराहह्रदान मुक्तौ शक्त्याशीविषसंकटात
अयः शरॊग्रम अकरॊत कषत्रिय परवराम्भसः
जयाघॊषतलनिर्ह्रादाद गदा निस्त्रिंशविद्युतः
दरॊणास्त्र मेघान निर्मुक्तौ सूर्येन्दू तिमिराद इव
बाहुभ्याम इव संतीर्णौ सिन्धुषष्ठाः समुद्रगाः
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः
इति कृष्णा महेष्वासौ यशसा लॊकविश्रुतौ
सर्वभूतान्य अमन्यन्त दरॊणास्त्र बलविस्मयात
जयद्रथं समीपस्थम अवेक्षन्तौ जिघांसया
रुरुं निपाने लिप्सन्तौ वयाघ्रवत ताव अतिष्ठताम
यथा हि मुखवर्णॊ ऽयम अनयॊर इति मेनिरे
तव यॊधा महाराज हतम एव जयद्रथम
लॊहिताक्षौ महाबाहू संयत्तौ कृष्ण पाण्डवौ
सिन्धुराजम अभिप्रेक्ष्य हृष्टौ वयनदतां मुहुः
शौरेर अभीशु हस्तस्य पार्थस्य च धनुष्मतः
तयॊर आसीत परतिभ्राजः सूर्यपावकयॊर इव
हर्ष एव तयॊर आसीद दरॊणानीक परमुक्तयॊः
समीपे सैन्धवं दृष्ट्वा शयेनयॊर आमिषं यथा
तौ तु सैन्धवम आलॊक्य वर्तमानम इवान्तिके
सहसा पेततुः करुद्धौ कषिप्रं शयेनाव इवामिषे
तौ तु दृष्ट्वा वयतिक्रान्तौ हृषीकेश धनंजयौ
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस तव
दरॊणेनाबद्ध कवचॊ राजा दुर्यॊधनस तदा
ययाव एकरथेनाजौ हयसंस्कारवित परभॊ
कृष्ण पार्थौ महेष्वासौ वयतिक्रम्याथ ते सुतः
अग्रतः पुण्डरीकाक्षं परतीयाय नराधिप
ततः सर्वेषु सैन्येषु वादित्राणि परहृष्टवत
परावाद्यन समतिक्रान्ते तव पुत्रे धनंजयम
सिंहनाद रवाश चासञ शङ्खदुन्दुभिमिश्रिताः
दृष्ट्वा दुर्यॊधनं तत्र कृष्णयॊः परमुखे सथितम
ये च ते सिन्धुराजस्य गॊप्तारः पावकॊपमाः
ते परहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभॊ
दृष्ट्वा दुर्यॊधनं कृष्णस तव अतिक्रान्तं सहानुगम
अब्रवीद अर्जुनं राजन पराप्तकालम इदं वचः
[वासु]
सुयॊधनम अतिक्रान्तम एनं पश्य धनंजय
आपद गतम इमं मन्ये नास्त्य अस्य सदृशॊ रथः
दूरपाती महेष्वासः कृतास्त्रॊ युद्धदुर्मदः
दृढास्त्रश चित्रयॊधी च धार्तराष्ट्रॊ महाबलः
अत्यन्तसुखसंवृद्दॊ मानितश च महारथैः
कृती च सततं पार्थ नित्यं दवेष्टि च पाण्डवान
तेन युद्धम अहं मन्ये पराप्तकालं तवानघ
अत्र वॊ दयूतम आयातं विजयायेतराय वा
अत्र करॊधविषं पार्थ विमुञ्च चिरसंभृतम
एष मूलम अनर्थानां पाण्डवानां महारथः
सॊ ऽयं पराप्तस तवाक्षेपं पश्य साफल्यम आत्मनः
कथं हि राजा राज्यार्थी तवया गच्छेत संयुगम
दिष्ट्या तव इदानीं संप्राप्त एष ते बाणगॊचरम
स यथा जीवितं जह्यात तथा कुरु धनंजय
ऐश्वर्यमदसंमूढॊ नैष दुःखम उपेयिवान
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ
तवां हि लॊकास तरयः पार्थ स सुरासुरमानुषाः
नॊत्सहन्ते रणे जेतुं किम उतैकः सुयॊधनः
स दिष्ट्या समनुप्राप्तस तव पार्थरथान्तिकम
जह्य एनं वै महाबाहॊ यथा वृत्रं पुरंदरः
एष हय अनर्थे सततं पराक्रान्तस तवानघ
निकृत्या धर्मराजं च दयूते वञ्चितवान अयम
बहूनि सुनृशंसानि कृतान्य एतेन मानद
युष्मासु पापमतिना अपापेष्व एव नित्यदा
तम अनार्यं सदा कषुद्रं पुरुषं कामचारिणम
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन
निकृत्या राज्यहरणं वनवासं च पाण्डव
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम
दिष्ट्यैष तव बाणानां गॊचरे परिवर्तते
परतिघाताय कार्यस्य दिष्ट्या च यतते ऽगरतः
दिष्ट्या जानाति संग्रामे यॊद्धव्यं हि तवया सह
दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः
तस्माज जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम
यथेन्द्रेण हतः पूर्वं जम्भॊ देवासुरे मृधे
अस्मिन हते तवया सैन्यम अनाथं भिद्यताम इदम
वैरस्यास्यास तव अवभृथॊ मूलं छिन्धि दुरात्मनाम
[स]
तं तथेत्य अब्रवीत पार्थः कृत्यरूपम इदं मम
सर्वम अन्यद अनादृत्य गच्छ यत्र सुयॊधनः
येनैतद दीर्घकालं नॊ भुक्तं राज्यम अकण्टकम
अप्य अस्य युधि विक्रम्य छिन्द्यां मूर्धानम आहवे
अपि तस्या अनर्हायाः परिक्लेशस्य माधव
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे
इत्य एवं वादिनौ हृष्टौ हृष्णौ शवेतान हयॊत्तमान
परेषयाम आसतुः संख्ये परेप्सन्तौ तं नराधिपम
तयॊः समीपं संप्राप्य पुत्रस ते भरतर्षभ
न चकार भयं पराप्ते भये महति मारिष
तद अस्य कषत्रियास तत्र सर्व एवाभ्यपूजयन
यद अर्जुन हृषीकेशौ परत्युद्यातॊ ऽविचारयन
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते
महान नादॊ हय अभूत तत्र दृष्ट्वा राजानम आहवे
तस्मिञ जनसमुन्नादे परवृत्ते भैरवे सति
कदर्थी कृत्यते पुत्रः परत्यमित्रम अवारयत
आवारितस तु कौन्तेयस तव पुत्रेण धन्विना
संरम्भम अगमद भूयः स च तस्मिन परंतपः
तौ दृष्ट्वा परतिसंरब्धौ दुर्यॊधन धनंजयौ
अभ्यवैक्षन्त राजानॊ भीमरूपाः समन्ततः
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष
परहसन्न इव पुत्रस ते यॊद्धुकामः समाह्वयत
ततः परहृष्टॊ दाशार्हः पाण्डवश च धनंजयः
वयाक्रॊशेतां महानादं दध्मतुश चाम्बुजॊत्तमौ
तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयाश च सर्वशः
निराशाः समपद्यन्त पुत्रस्य तव जीविते
शॊकम ईयुः परं चैव कुरवः सर्व एव ते
अमन्यन्त च पुत्रं ते वैश्वानर मुखे हुतम
तथा तु दृष्ट्वा यॊधास ते परहृष्टौ कृष्ण पाण्डवौ
हतॊ राजा हतॊ राजेत्य ऊचुर एवं भयार्दिताः
जनस्य संनिनादं तु शरुत्वा दुर्यॊधनॊ ऽबरवीत
वयेतु वॊ भीर अहं कृष्णौ परेषयिष्यामि मृत्यवे
इत्य उक्त्वा सैनिकान सर्वाञ जयापेक्षी नराधिपः
पार्थम आभाष्य संरम्भाद इदं वचनम अब्रवीत
पार्थ यच छिक्षितं ते ऽसत्रं दिव्यं मानुषम एव च
तद दर्शय मयि कषिप्रं यदि जातॊ ऽसि पाण्डुना
यद बलं तव वीर्यं च केशवस्य तथैव च
तत कुरुष्व मयि कषिप्रं पश्यामस तव पौरुषम
अस्मत परॊक्षं कर्माणि परवदन्ति कृतानि ते
सवामिसत्कारयुक्तानि यानि तानीह दर्शय
[स]
एवम उक्त्वार्जुनं राजा तरिभिर मर्मातिगैः शरैः
परत्यविध्यन महावेगैश चतुर्भिश अतुरॊ हयान
वासुदेवं च दशभिः परत्यविध्यत सतनान्तरे
पतॊदं चास्य भल्लेन छित्त्वा भूमाव अपातयत
तं चतुर्दशभिः पार्थश चित्रपुङ्खैः शिलाशितैः
अविध्यत तूर्णम अव्यग्रस ते ऽसयाभ्रश्यन्त वर्मणः
तेषां वैफल्यम आलॊक्य पुनर नव च पञ्च च
पराहिणॊन निशितान बाणांस ते चाभ्रश्यन्त वर्मणः
अष्टाविंशत तु तान बाणान अस्तान विप्रेक्ष्य निष्फलान
अब्रवीत परवीरघ्नः कृष्णॊ ऽरजुनम इदं वचः
अदृष्टपूर्वं पश्यामि शिलानाम इव सर्पणम
तवया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः
कच चिद गाण्डीवतः पराणास तथैव भरतर्षभ
मुष्टिश च ते यथापूर्वं भुजयॊश च बलं तव
न चेद विधेर अयं कालः पराप्तः सयाद अद्य पश्चिमः
तव चैवास्य शत्रॊश च तन ममाचक्ष्व पृच्छतः
विस्मयॊ मे महान पार्थ तव दृष्ट्वा शरान इमान
वयर्थान निपततः संख्ये दुर्यॊधन रथं परति
वज्राशनिसमा घॊराः परकायावभेदिनः
शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडन्बना
[अर्ज]
दरॊणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिताः
अन्ते विहितम अस्त्राणाम एतत कवचधारणम
अस्मिन्न अन्तर्हितं कृष्ण तरैलॊक्यम अपि वर्मणि
एकॊ दरॊणॊ हि वेदैतद अहं तस्माच च सत्तमात
न शक्यम एतत कवचं बाणैर भेत्तुं कथं चन
अपि वज्रेण गॊविन्द सवयं मघवता युधि
जानंस तवम अपि वै कृष्ण मां विमॊहयसे कथम
यद्वृत्तं तरिषु लॊकेषु यच च केशव वर्तते
तथा भविष्यद यच चैव तत सर्वं विदितं तव
न तव एवं वेद वै कश चिद यथा तवं मधुसूदन
एष दुर्यॊधनः कृष्ण दरॊणेन विहिताम इमाम
तिष्ठत्य अभीतवत संख्ये बिभ्रत कवचधारणाम
यत तव अत्र विहितं कार्यं नैष तद वेत्ति माधव
सत्रीवद एष बिभर्त्य एतां युक्तां कवचधारणाम
पश्य बाह्वॊश च मे वीर्यं धनुषश च जनार्दन
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम
इदम अङ्गिरसे परादाद देवेशॊ वर्म भास्वरम
पुनर ददौ सुरपतिर मह्यं वर्म स संग्रहम
दैवं यद्य अस्य वर्मैतद बरह्मणा वा सवयं कृतम
नैतद गॊप्स्यति दुर्बुद्धिम अद्य बाणहतं मया
[स]
एवम उक्त्वार्जुनॊ बाणान अभिमन्त्र्य वयकर्षयत
विकृष्यमाणांस तेनैवं धनुर्मध्य गताञ शरान
तान अस्यास्त्रेण चिच्छेद दरौणिः सर्वास्त्रघातिना
तान निकृत्तान इषून दृष्ट्वा दूरतॊ बरह्मवादिना
नयवेदयत केशवाय विस्मितः शवेतवाहनः
नैतद अस्त्रं मया शक्यं दविः परयॊक्तुं जनार्दन
अस्त्रं माम एव हन्याद धि पश्य तव अद्य बलं मम
ततॊ दुर्यॊधनः कृष्णौ नवभिर नतपर्वभिः
अविध्यत रणे राजञ शरैर आशीविषॊपमैः
भूय एवाभ्यवर्षच च समरे कृष्ण पाण्डवौ
शरवर्षेण महता ततॊ ऽहृष्यन्त तावकाः
चक्रुर वादित्रनिनदान सिंहनाद रवांस तथा
तथ करुद्धॊ रणे पार्थः सृक्कणी परिसंहिहन
नापश्यत ततॊ ऽसयाङ्गं यन न सयाद वर्म रक्षितम
ततॊ ऽसय निशितैर बाणैः सुमुक्तैर अन्तकॊपमैः
हयांश चकार निर्देहान उभौ च पार्ष्णिसारथी
धनुर अस्याच्छिनच चित्रं हस्तावापं च वीर्यवान
रथं च शकलीकर्तुं सव्यसाची परचक्रमे
दुर्यॊधनं च बाणाभ्यां तिक्ष्णाभ्यां विरथी कृतम
अविध्यद धस्त तलयॊर उभयॊर अर्जुनस तदा
तं कृच्छ्राम आपदं पराप्तं दृष्ट्वा परमधन्विनः
समापेतुः परीप्सन्तॊ धनंजय शरार्दितम
ते रथैर बहुसाहस्रैः कल्पितैः कुञ्जरैर हयैः
पदात्यॊघैश च संरब्धैः परिवव्रुर धनंजयम
अथ नार्जुन गॊविन्दौ रथौ वापि वयदृश्यत
अस्त्रवर्षेण महता जनौघैश चापि संवृतौ
ततॊ ऽरजुनॊ ऽसत्रवीर्येण निजघ्ने तां वरूथिनीम
तत्र वयङ्गी कृताः पेतुः शतशॊ ऽथ रथद्विपाः
ते हता हन्यमानाश च नयगृह्णंस तं रथॊत्तमम
स रथस्तम्भितस तस्थौ करॊशमात्रं समन्ततः
ततॊ ऽरजुनं वृष्णिवीरस तवरितॊ वाक्यम अब्रवीत
धनुर विस्फारयात्यर्थम अहं धमास्यामि चाम्बुजम
ततॊ विस्फार्य बलवद गाण्डीवं जघ्निवान रिपून
महता शरवर्षेण तलशब्देन चार्जुनः
पाञ्चजन्यं च बलवद दध्मौ तारेण केशवः
रजसा धवस्तपक्ष्मान्तः परस्विन्नवदनॊ भृशम
तस्य शङ्खस्य नादेन धनुषॊ निस्वनेन च
निःसत्त्वाश च स सत्ताश च कषितौ पेतुर तदा जनाः
तैर विमुक्तॊ रथॊ रेजे वाय्वीरित इवाम्बुदः
जयद्रथस्य गॊप्तारस ततः कषुब्धाः सहानुगाः
ते दृष्ट्वा सहसा पार्थं गॊप्तारः सैन्धवस्य तु
चक्रुर नादान बहुविधान कम्पयन्तॊ वसुंधराम
बाणशब्दरवांश चॊग्रान विमिश्राञ शङ्खनिस्वनैः
परादुश्चक्रुर महात्मानः सिंहनाद रवान अपि
तं शरुत्वा निनदं घॊरं तावकानां समुत्थितम
परदध्मतुस तदा शङ्खौ वासुदेवधनंजयौ
तेन शब्देन महता पूरितेयं वसुंधरा
स शैला सार्णव दवीपा स पाताला विशां पते
स शब्दॊ भरतश्रेष्ठ वयाप्य सर्वा दिशॊ दश
परतिसस्वान तत्रैव कुरुपाण्डवयॊर बले
तावका रथिनस तत्र दृष्ट्वा कृष्ण धनंजयौ
संरम्भं परमं पराप्तास तवरमाणा महारथाः
अथ कृष्णौ महाभागौ तावका दृश्यदंशितौ
अभ्यद्रवन्त संक्रुद्धास तद अद्भुतम इवाभवत
[स]
तावकास तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ
पराग अत्वरञ जिघांसन्तस तथैव विजयः परान
सुवर्णचित्रैर वैयाघ्रैः सवनवद्भिर महारथैः
दीपयन्तॊ दिशः सर्वा जवलद्भिर इव पावकैः
रुक्मपृष्ठैश च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते
कूजद्भिर अतुलान नादान रॊषितैर उरगैर इव
भूरिश्रवाः शलः कर्णॊ वृषसेनॊ जयद्रथः
कृपश च मद्रराजश च दरौणिश च रथिनां वरः
ते पिबन्त इवाकाशम अश्वैर अष्टौ महारथाः
वयराजयन दश दिशॊ वैयाघ्रैर हेमचन्द्रकैः
ते दंशिताः सुसंरब्धा रथैर मेघौघनिस्वनैः
समावृण्वन दिशः सर्वाः पार्थं च विशिखैः शितैः
कौलूतका हयाश चित्रा वहन्तस तान महारथान
वयशॊभन्त तदा शीघ्रा दीपयन्तॊ दिशॊ दश
आजानेयैर महावेगैर नानादेशसमुत्थितैः
पार्वतीयैर नदीजैश च सैन्धवैश च हयॊत्तमैः
कुरु यॊधवरा राजंस तव पुत्रं परीप्सवः
धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन
ते परगृह्य महाशङ्खान दध्मुः पुरुषसत्तमाः
पूरयन्तॊ दिवं राजन पृथिवीं च स सारगाम
तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ
परवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि
देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः
शब्दस तु देवदत्तस्य धनंजय समीरितः
पृथिवीं चान्तरिक्षं च दिशश चैव समावृणॊत
तथैव पाञ्चजन्यॊ ऽपि वासुदेव समीरितः
सर्वशब्दान अतिक्रम्य पूरयाम आस रॊदसी
तस्मिंस तथा वर्तमाने दारुणे नादसंकुले
भीरूणां तरासजनने शूराणां हर्षवर्धने
परवादितासु भेरीषु झर्झरेष्व आनकेषु च
मृदङ्गेषु च राजेन्द्र वाद्यमानेष्व अनेकशः
महारथसमाख्यात दुर्यॊधनहितैषिणः
अमृष्यमाणास तं शब्दं करुद्धाः परमधन्विनः
नानादेश्या महीपालाः सवसैन्यपरिरक्षिणः
अमर्षिता महाशङ्खान दध्मुर वीरा महारथाः
कृते परतिकरिष्यन्तः केशवस्यार्जुनस्य च
बभूव तव तत सैन्यं शङ्खशब्दसमीरितम
उद्विग्नरथनागाश्वम अस्वस्थम इव चाभिभॊ
तत परयुक्तम इवाकाशं शूरैः शङ्खनिनादितम
बभूव भृशम उद्विग्नं निर्घातैर इव नादितम
स शब्दः सुमहान राजन दिशः सर्वा वयनादयत
तरासयाम आस तत सैन्यं युगान्त इव संभृतः
ततॊ दुर्यॊधनॊ ऽषटौ च राजानस ते महारथाः
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन
ततॊ दरौणिस तरिसप्तत्या वासुदेवम अताडयत
अर्जुनं च तरिभिर भल्लैर धवजम अश्वांश च पञ्चभिः
तम अर्जुनः पृषत्कानां शतैः षड्भिर अताडयत
अत्यर्थम इव संक्रुद्धः परतिविद्धे जनार्दने
कर्णं दवादशभिर विद्ध्वा वृषसेनं तरिभिस तथा
शल्यस्य स शरं चापं मुष्टौ चिच्छेद वीर्यवान
गृहीत्वा धनुर अन्यत तु शल्यॊ विव्याध पाण्डवम
भूरिश्रवास तरिभिर बाणैर हेमपुङ्खैः शिलाशितैः
कर्णॊ दवात्रिशता चैव वृषसेनश च पञ्चभिः
जयद्रथस तरिसप्तत्या कृपश च दशभिः शरैः
मद्रराजश च दशभिर विव्यधुः फल्गुनं रणे
ततः शराणां षष्ट्या तु दरौणिः पार्थम अवाकिरत
वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः
परहसंस तु नरव्याघ्रः शवेताश्वः कृष्णसारथिः
परत्यविध्यत स तान सर्वान दर्शयन पाणिलाघवम
कर्णं दवादशभिर विद्ध्वा वृषसेनं तरिभिः शरैः
शल्यस्य समरे चापं मुष्टिदेशे नयकृन्तत
सौमदत्तिं तरिभिर विद्ध्वा शल्यं च दशभिः शरैः
शितैर अग्निशिखाकारैर दरौणिं विव्याध चाषभिः
गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह
पुनर दरौणिं च सप्तत्या शराणां सॊ ऽभयताडयत
भूरि शवरास तु संक्रुद्धः परतॊदं चिच्छिदे हरेः
अर्जुनं च तरिसप्तत्या बाणानाम आजघान ह
ततः शरशतैस तीक्ष्णैस तान अरीञ शवेतवाहनः
परत्यषेधद दरुतं करुद्धॊ महावातॊ घनान इव
[धृ]
धवजान बहुविधाकारान भराजमानान अतिश्रिया
पार्थानां मामकानां च तान ममाचक्ष्व संजय
[स]
धवजान बहुविधाकाराञ शृणु तेषां महात्मनाम
रूपतॊ वर्णतश चैव नामतश च निबॊध मे
तेषां तु रथमुह्यानां रथेषु विविधा धवजाः
परत्यदृश्यन्त राजेन्द्र जवलिता इव पावलाः
काञ्चनाः काञ्चनापीडाः काञ्चनस्रग अलंकृताः
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः
ते धवजाः संवृतास तेषां पताकाभिः समन्ततः
नानावर्णविरागाभिर विबभुः सर्वतॊवृताः
पताकाश च ततस तास तु शवसनेन समीरिताः
नृत्यमाना वयदृश्यन्त रङ्गमध्ये विलासिकाः
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ
दॊधूयमाना रथिनां शॊभयन्ति महारथान
सिन्ह लाङ्गूलम उग्रास्यं धजं वानरलक्षणम
धनंजयस्य संग्रामे परत्यपश्यम भैरवम
स वानरवरॊ राजन पताकाभिर अलंकृतः
तरासयाम आस तत सैन्यम धवजॊ गाण्डीवधन्वनः
तथैव सिंहलाङ्गूलं दरॊणपुत्रस्य भारत
धवजाग्रं समपश्याम बालसूर्यसमप्रभम
काञ्चनं पवनॊद्धूतं शक्रध्वजसमप्रभम
नन्दनं कौरवेन्द्राणां दरौणेर लक्षणम उच्छ्रितम
हस्तिकक्ष्या पुनर हैमी बभूवाधिरथेर धवजे
आहवे खं महाराज ददृशे पूरयन्न इव
पताकी काञ्चनस्रग्वी धवजः कर्णस्य संयुगे
नृत्यतीव रथॊपस्थे शवसनेन समीरितः
आचार्यस्य च पाण्डूनां बराह्मणस्य यशस्विनः
गॊवृषॊ गौतमस्यासीत कृपस्य सुपरिष्कृतः
स तेन भराजते राजन गॊवृषेण महारथः
तरिपुरघ्न रथॊ यद्वद गॊवृषेण विराजते
मयूरॊ वृषसेनस्य काञ्चनॊ मणिरत्नवान
वयाहरिष्यन्न इवातिष्ठत सेनाग्रम अपि शॊभयन
तेन तस्य रथॊ भाति मयूरेण महात्मनः
यथा सथन्दस्य राजेन्द्र मयूरेण विराजता
मद्रराजस्य शल्यस्य धवजाग्रे ऽगनिशिखाम इव
सौवर्णीं परतिपश्याम सीताम अप्रतिमां शुभाम
सा सीता भराजते तस्य रथम आस्थाय मारिष
सर्वबीजविरूढेव यथा सीता शरिया वृता
वराहः सिन्धुराजस्य राजतॊ ऽभिविराजते
धवजाग्रे ऽलॊहितार्काभॊ हेमजालपरिष्कृतः
शुशुभे केतुना तेन राजतेन जयद्रथः
यथा देवासुरे युद्धे पुरा पूषा सम शॊभते
सौमदत्तेः पुनर यूपॊ यज्ञशीलस्य धीमतः
धवजः सूर्य इवाभाति सॊमश चात्र परदृश्यते
स यूपः काञ्चनॊ राजन सौमदत्तेर विराजते
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः
शलस्य तु महाराज राजतॊ दविरदॊ महान
केतुः काञ्चनचित्राङ्गैर मयूरैर उपशॊभितः
स केतुः शॊभयाम आस सैन्यं ते भरतर्षभ
यथा शवेतॊ महानागॊ देवराजचमूं तथा
नागॊ मणिमयॊ राज्ञॊ धवजः कनकसंवृतः
किङ्किणीशतसंह्रादॊ भराजंश चित्रे रथॊत्तमे
वयभ्राजत भृशं राजन पुत्रस तव विशां पते
धवजेन महता संख्ये कुरूणाम ऋषभस तदा
नवैते तव वाहिन्याम उच्छ्रिताः परमध्वजाः
वयदीपयंस ते पृतनां युगान्तादित्यसंनिभाः
दशमस तव अर्जुनस्यासीद एक एव महाकपिः
अदीप्यतार्जुनॊ येन हिमवान इव वह्निना
ततश चित्राणि शुभ्राणि सुमहान्ति महारथाः
कार्मुकाण्य आददुस तूर्णम अर्जुनार्थे परंतपाः
तथैव धनुर आयच्छत पार्थः शत्रुविनाशनः
गाण्डीवं दिव्यकर्मा तद राजन दुर्मन्त्रिते तव
तवापराधाद धि नरा निहता बहुधा युधि
नानादिग्भ्यः समाहूताः सहयाः स रथद्विपाः
तेषाम आसीद वयतिक्षेपॊ गर्जताम इतरेतरम
दुर्यॊधनमुखानां च पाण्डूनाम ऋषभस्य च
तत्राद्भुतं परं चक्र्जे कौन्तेयः कृष्णसारथिः
यद एकॊ बहुभिः सार्धं समागच्छद अभीतवत
अशॊभत महाबाहुर गाण्डीवं विक्षिपन धनुः
जिगीषुस तान नरव्याघ्राञ जिघांसुश च जयद्रथम
तत्रार्जुनॊ महाराज शरैर मुक्तैः सहस्रशः
अदृश्यान अकरॊद यॊधांस तावकाञ शत्रुतापनः
ततस ते ऽपि नरव्याघ्राः पार्थं सर्वे महारथाः
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः
संवृते नरसिंहैस तैः कुरूणाम ऋषभे ऽरजुने
महान आसीत समुद्धूतस तस्य सैन्यस्य निस्वनः
[धृ]
अर्जुने सैधवं पराप्ते भारद्वाजेन संवृताः
पाञ्चालाः कुरुभिः सार्धं किम अकुर्वत संजय
[स]
अपराह्णे महाराज संग्रामे लॊमहर्षणे
पाञ्चालानां कुरूणां च दरॊणे दयूतम अवर्तत
पाञ्चाला हि जिघांसन्तॊ दरॊणं संहृष्टचेतसः
अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष
ततः सुतुमुलस तेषां संग्रामॊ ऽवर्तताद्भुतः
पाञ्चालानां कुरूणां च घॊरॊ देवासुरॊपमः
सर्वे दरॊण रथं पराप्य पाञ्चालाः पण्डवैः सह
तद अनीकं बिभित्सन्तॊ महास्त्राणि वयदर्शयन
दरॊणस्य रथपर्यन्तं रथिनॊ रथम आस्थिताः
कम्पयन्तॊ ऽभयवर्तन्त वेगम आस्थाय मध्यमम
तम अभ्यगाद बृहत कषत्रः केकयानां महारथः
परवपन निशितान बाणान महेन्द्राशनिसंनिभान
तं तु परत्युदियाच छीघ्रं कषेमधूर्तिर महायशाः
विमुञ्चन निशितान बाणाञ शतशॊ ऽथ सहस्रशः
धृष्टकेतुश च चेदीनाम ऋषभॊ ऽतिबलॊदितः
तवरितॊ ऽभयद्रवद दरॊणं महेन्द्र इव शम्बरम
तम आपतन्तं सहसा वयादितास्यम इवान्तकम
वीर धन्वा महेष्वासस तवरमाणः समभ्ययात
युधिष्ठिरं महाराज जिगीषुं समवस्थितम
सहानीकं ततॊ दरॊणॊ नयवारयत वीर्यवान
नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी
अभ्यगच्छत समायान्तं विकर्णस ते सुतः परभॊ
सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः
शनैर अनेकसाहस्रैः समवाकिरद आशुगैः
सात्यकिं तु नरव्याघ्रं वयाघ्रदत्तस तव अवारयत
शरैः सुनिशितैस तीक्ष्णैः कम्पयन वै मुहुर मुहुः
दरौपदेयान नरव्याघ्रान मुञ्चतः सायकॊत्तमान
संरब्धान रथिनां शरेष्ठान सौमदत्तिर अवारयत
भीमसेनं तथा करुद्धं भीमरूपॊ भयानकम
परत्यवारयद आयान्तम आर्ष्यशृङ्गिर महारथः
तयॊः समभवद युद्धं नरराक्षसयॊर मृधे
यादृग एव पुरावृत्तं रामरावणयॊर नृप
ततॊ युधिष्ठिरॊ दरॊणं नवत्या नतपर्वणाम
आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत
तं दरॊणः पञ्चविंशत्या निजघान सतनान्तरे
रॊषितॊ भरतश्रेष्ठ कौन्तेयेन यशस्विना
भूय एव तु विंशत्या सायकानां समाचिनॊत
साश्वसूत धवजं दरॊणः पश्यतां सर्वधन्विनाम
ताञ शरान दरॊण मुक्तांस तु शरवर्षेण पाण्डवः
अवारयत धर्मात्मा दर्शयन पाणिलाघवम
ततॊ दरॊणॊ भृशं करुद्धॊ धर्मराजस्य संयुगे
चिच्छेद सहसा धन्वी धनुस तस्य महात्मनः
अथैनं छिन्नधन्वानं तवरमाणॊ महारथः
शरैर अनेकसाहस्रैः पुरयाम आस सर्वतः
अदृश्यं दृश्यराजानं भारद्वाजस्य सायकैः
सर्वभूतान्य अमन्यन्त हतम एव युधिष्ठिरम
के चिच चैनम अमन्यन्त तथा वै विमुखीकृतम
हृतॊ राजेति राजेन्द्र बराह्मणेन यशस्विना
स कृच्छ्रं परमं पराप्तॊ धर्मराजॊ युधिष्ठिरः
तयक्त्वा तत कार्मुकं छिन्नं भारद्वाजेन संयुगे
आददे ऽनयद धनुर दिव्यं भारघ्नं वेगवत्तरम
ततस तान सायकान सर्वान दरॊण मुक्तान सहस्रशः
चिच्छेद समरे वीरस तद अद्भुतम इवाभवत
छित्त्वा च ताञ शरान राजा करॊधसंरक्तलॊचनः
शक्तिं जग्राह समरे गिरीणाम अपि दारणीम
सवर्णदण्डां महाघॊराम अष्टघण्टां भयावहाम
समुत्क्षिप्य च तां हृष्टॊ ननाद बलवद बली
नादेन सर्वभूतानि तरासयन्न इव भारत
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे
सवस्ति दरॊणाय सहसा सर्वभूतान्य अथाब्रुवन
सा राजभुज निर्मुक्ता निर्मुक्तरग संनिभा
परज्वालयन्ती गगनं दिशश च विदिशस तथा
दरॊणान्तिकम अनुप्राप्ता दीप्तास्या पन्नगी यथा
ताम आपतन्तीं सहसा परेक्ष्य दरॊणॊ विशां पते
परादुश्चक्रे ततॊ बराह्मम अस्त्रम अस्त्रविदां वरः
तद अस्त्रं भस्मसात कृत्वा तां शक्तिं घॊरदर्शनाम
जगाम सयन्दनं तूर्णं पाण्डवस्य यशस्विनः
ततॊ युधिष्ठिरॊ राजा दरॊणास्त्रं तत समुद्यतम
अशामयन महाप्राज्ञॊ बरह्मास्त्रेणैव भारत
विव्याध च रणे दरॊणं पञ्चभिर नतपर्वभिः
कषुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद धनुः
तद अपास्य धनुश छिन्नं दरॊणः कषत्रिय मर्दनः
गदां चिक्षेप सहसा धर्मपुत्राय मारिष
ताम आपतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः
गदाम एवाग्रहीत करुद्धश चिक्षेप च परंतपः
ते गदे सहसा मुक्ते समासाद्य परस्परम
संघर्षात पावकं मुक्त्वा समेयातां महीतले
ततॊ दरॊणॊ भृशं करुद्धॊ धर्मराजस्य मारिष
चतुर्भिर निशितैस तीक्ष्णैर हयाञ जघ्ने शरॊत्तमैः
धनुश चैकेन बाणेन चिच्छेदेन्द्र धवजॊपमम
केतुम एकेन चिच्छेद पाण्डवं चार्दयत तरिभिः
हयाश्वत तु रथात तूर्णम अवप्लुत्य युधिष्ठिरः
तस्थाव ऊर्ध्वभुजॊ राजा वयायुधॊ भरतर्षभ
विरथं तं समालॊक्य वयायुधं च विशेषतः
दरॊणॊ वयमॊहयच छत्रून सर्वसैन्यानि चाभिभॊ
मुञ्चन्न इषुगणांस तीक्ष्णाँल लघुहस्तॊ दृढव्रतः
अभिदुद्राव राजानं सिंहॊ मृगम इवॊल्बणः
तम अभिद्रुतम आलॊक्य दरॊणेनामित्र घातिना
हाहेति सहसा शब्दः पाण्डूनां समजायत
हृतॊ राजा हृतॊ राजा भारद्वाजेन मारिष
इत्य आसीत सुमहाञ शब्दः पाण्डुसैन्यस्य सर्वतः
ततस तवरितम आरुह्य सहदेव रथं नृपः
अपायाज जवनैर अश्वैः कुन्तीपुत्रॊ युधिष्ठिरः
[स]
बृहत कषत्रम अथायान्तं केकयं दृढविक्रमम
कषेमधूर्तिर महाराज विव्याधॊरसि मार्गणैः
बृहत कषत्रस तु तं राजा नवत्या नतपर्वणाम
आजघ्ने तवरितॊ युद्धे दरॊणानीक बिभित्सया
कषेमधूर्तिस तु संक्रुद्धः केकयस्य महात्मनः
धनुश चिच्छेद भल्लेन पीतेन निशितेन च
अथैनं छिन्नधन्वानं शरेण नतपर्वणा
विव्याध हृदये तूर्णं परवरं सर्वधन्विनाम
अथान्यद धनुर आदाय बृहत कषत्रॊ हसन्न इव
वयश्व सूत धवजं चक्रे कषेमधूर्तिं महारथम
ततॊ ऽपरेण भल्लेन पीतेन निशितेन च
जहार नृपतेः कायाच छिरॊ जवलितकुण्डलम
त छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम
स किरीटं महीं पराप्य बभौ जयॊतिर इवाम्बरात
तं निहत्य रणे हृष्टॊ बृहत कषत्रॊ महारथः
सहसाभ्यपतत सैन्यं तावकं पार्थ कारणात
धृष्टकेतुम अथायान्तं दरॊण हेतॊः पराक्रमी
वीर धन्वा महेष्वासॊ वारयाम आस भारत
तौ परस्परम आसाद्य शरदंष्ट्रौ तरस्विनौ
शरैर अनेकसाहस्रैर अन्यॊन्यम अभिजघ्नतुः
ताव उभौ नरशार्दूलौ युयुधाते परस्परम
महावने तीव्रमदौ वारणाव इव यूथपौ
गिरिगह्वरम आसाद्य शार्दूलाव इव रॊषितौ
युयुधाते महावीर्यौ परस्परजिघांसया
तद युद्धम आसीत तुमुलं परेक्षणीयं विशां पते
सिद्धचारणसंघानां विस्मयाद्भुत दर्शनम
वीर धन्वा ततः करुद्धॊ धृष्टकेतॊः शरासनम
दविधा चिच्छेद भल्लेन परहसन्न इव भारत
तद उत्सृज्य धनुश छिन्नं चेदिराजॊ महारथः
शक्तिं जग्राह विपुलां रुक्मदण्डाम अयस्मयीम
तां तु शक्तिं महावीर्यां दॊर्भ्याम आयम्य भारत
चिक्षेप सहसा यत्तॊ वीर धन्व रथं परति
स तया वीर घातिन्या शक्त्या तव अभिहतॊ भृशम
निर्भिन्नहृदयस तूर्णं निपपात रथान महीम
तस्मिन विनिहते शूरे तरिगर्तानां महारथे
बलं ते ऽभज्यत विभॊ पाण्डवेयैः समन्ततः
सहदेवे ततः षष्टिं सायकान दुर्मुखॊ ऽकषिपत
ननाद च महानादं तर्जयन पाण्डवं रणे
मद्रेयस तु ततः करुद्धॊ दुर्मुखं दशभिः शरैः
भराता भरातरम आयान्तं विव्याध परहसन्न इव
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम
दुर्मुखॊ नवभिर बाणैस ताडयाम आस भारत
दुर्मुखस्य तु भल्लेन छित्वा केतुं महाबलः
जघान चतुरॊ वाहांश चतुर्भिर निशितैः शरैः
अथापरेण भल्लेन पीतेन निशितेन च
चिच्छेद सारथेः कायाच छिरॊ जवलितकुण्डलम
कषुरप्रेण च तीक्ष्णेन कौरव्यस्य महद धनुः
सहदेवॊ रणे छित्त्वा तं च विव्याध पञ्चभिः
हताश्वं तु रथं तयक्त्वा दुर्मुखॊ विमनास तदा
आरुरॊह रथं राजन निरमित्रस्य भारत
सहदेवस ततः करुद्धॊ निरमित्रं महाहवे
जघान पृतना मध्ये भल्लेन परवीरहा
स पपात रथॊपस्थन निरमित्रॊ जनेश्वरः
तरिगर्तराजस्य सुतॊ वयथयंस तव वाहिनीम
तं तु हत्वा महाबाहुः सहदेवॊ वयरॊचत
यथा दाशरथी रामः खरं हत्वा महाबलम
हाहाकारॊ महान आसीत तरिगर्तानां जनेश्वर
राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम
नकुलस ते सुतं राजन विकर्णं पृथुलॊचनम
मुहूर्ताज जितवान संख्ये तद अद्भुतम इवाभवत
सात्यकिं वयाघ्रदत्तस तु शरैः संनतपर्वभिः
चक्रे ऽदृश्यं साश्वसूतं स धवजं पृतनान्तरे
तान निवार्य शराञ शूरः शैनेयः कृतहस्तवत
साश्वसूत धवजं बाणैर वयाघ्रदत्तम अपातयत
कुमारे निहते तस्मिन मगधस्य सुते परभॊ
मागधाः सर्वतॊ यत्ता युयुधानम उपाद्रवन
विसृजन्तः शरांश चैव तॊमरांश च सहस्रशः
भिण्डिपालांस तथा परासान मुद्गरान मुसलान अपि
अयॊधयन रणे शूराः सात्वतं युद्धदुर्मदम
तांस तु सर्वान सबलवान सात्यक्तिर युद्धदुर्मदः
नातिकृच्छ्राद धसन्न एव विजिग्ये पुरुषर्षभ
मागधन दरवतॊ दृष्ट्वा हतशेषान समन्ततः
बलं ते ऽभज्यत विभॊ युयुधान शरार्दितम
नाशयित्वा रणे सैन्यं तवदीयं माधवॊत्तमः
विधुन्वानॊ धनुःश्रेष्ठं वयभ्राजत महायशाः
भज्यमानं बलं राजन सात्वतेन महात्मना
नाभ्यवर्तत युद्धाय तरासितं दीर्घबाहुना
ततॊ दरॊणॊ भृशं करुद्धः सहसॊद्वृत्य चक्षुषी
सात्यकिं सत्यकर्माणं सवयम एवाभिदुद्रुवे
[स]
दरौपदेयान महेष्वासान सौमदत्तिर महायशाः
एकैकं पञ्चभिर विद्ध्वा पुनर विव्याध सप्तभिः
ते पीडिता भृशं तेन रौद्रेण सहसा विभॊ
परमूढा नैव विविदुर मृधे कृत्यं सम किं चन
नाकुलिस तु शतानीकः सौमदत्तिं नरर्षभम
दवाभ्यां विद्ध्वानदद धृष्टः शराभ्यां शत्रुतापनः
तथेतरे रणे यत्तस तरिभिस तरिभिर अजिह्मगैः
विव्यधुः समरे तूर्णं सौमदत्तिम अमर्षणम
स तान परति महाराज चिक्षिपे पञ्च सायकान
एकैकं हृदि चाजघ्ने एकैकेन महायशाः
ततस ते भरातरः पञ्च शरैर विद्धा महात्मना
परिवार्य रथैर वीरैं विव्यधुः सायकैर भृशम
आर्जुनिस तु हयांस तस्य चतुर्भिर निशितैः शरैः
परेषयाम आस संक्रुद्धॊ यमस्य सदनं परति
भैमसेनिर धनुश छित्त्वा सौमदत्तेर महात्मनः
ननाद बलवन नादं विव्याध च शितैः शरैः
यौधिष्ठिरॊ धवजं तस्य छित्त्वा भूमाव अपातयत
नाकुलिश चाश्वयन्तारमं रथनीडाद अपाहरत
साहदेविस तु तं जञात्वा भरातृभिर विमुखीकृतम
कषुरप्रेण शिरॊ राजन निचकर्त महामनाः
तच्छिरॊ नयपतद भूमौ तपनीयविभूषितम
भराजयन्तं रणॊद्देशं बालसूर्यसमप्रभम
सौमदत्तेः शिरॊ दृष्ट्वा निपतत तन महात्मनः
वित्रस्तास तावका राजन परदुद्रुवुर अनेकधा
अलम्बुसस तु समरे भीमसेनं महाबलम
यॊधयाम आस संक्रुद्धॊ लक्ष्मणं रावणिर यथा
संप्रयुद्धौ रणे दृष्ट्वा ताव उभौ नरराक्षसौ
विस्मयः सर्वभूतानां परहर्षश चाभवत तदा
आर्ष्यशृङ्गिं ततॊ भीमॊ नवभिर निशितैः शरैः
विव्याध परहसन राजन राक्षसेन्द्रम अमर्षणम
तद रक्षः समरे विद्धं कृत्वा नादं भयावहम
अभ्यद्रवत ततॊ भीमं ये च तस्य पदानुगाः
स भीमं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः
भीमानुगाञ जघानाशु रथांस तरिंशद अरिंदमः
पुनश चतुःशतान हत्वा भीमं विव्याध पत्रिणा
सॊ ऽतिविद्धस तदा भीमॊ राक्षसेन महाबलः
निषसाद रथॊपस्थे मूर्छयाभिपरिप्लुतः
परतिलभ्य ततः संज्ञां मारुतिः करॊधमूर्छितः
विकृष्य कार्मुकं घॊरं भारसाधनम उत्तमम
अलम्बुसं शरैस तीक्ष्णैर अर्दयाम आस सर्वतः
स विद्धॊ बहुभिर बाणैर नीलाञ्जनचयॊपमः
शुशुभे सर्वतॊ राजन परदीप्त इव किंशुकः
स वध्यमानः समरे भीमचापच्युतैः शरैः
समरन भरातृवधं चैव पाण्डवेन महात्मना
घॊरं रूपम अथॊ कृत्वा भीमसेनम अभाषत
तिष्ठेदानीं रणे पार्थ पश्य मे ऽदय पराक्रमम
बकॊ नाम सुदुर्बुद्धे राक्षस परवरॊ बली
परॊक्षं मम तद्वृत्तं यद भराता मे हतस तवया
एवम उक्त्वा ततॊ भीमम अन्तर्धानगतस तदा
महाता शरवर्षेण भृशं तं समवाकिरत
भीमस तु समरे राजन्न अदृश्ये राक्षसे तदा
आकाशं पूरयाम आस शरैः संनतपर्वभिः
स वध्यमानॊ भीमेन निमेषाद रथम आस्थितः
जगाम धरणीं कषुद्रः खं चैव सहसागमत
उच्चावचानि रूपाणि चकार सुबहूनि च
उच्चावचास तथा वाचॊ वयाजहार समन्ततः
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः
हयाश च बहवॊ राजन पत्तयश च तथा पुनः
रथेभ्यॊ रथिनः पेतुस तस्य नुन्नाः सम सायकैः
शॊणितॊदां रथावर्तां हस्तिग्राहसमाकुलाम
छत्रहंसां कर्दमिनीं बाहुपन्नग संकुलाम
नदीं परवर्तयाम आस रक्षॊगणसमाकुलाम
वहन्तीं बहुधा राजंश चेदिपाञ्चालसृञ्जयान
तं तथा समरे राजन विचरन्तम अभीतवत
पाण्डवा भृशसंविग्नाः परापश्यंस तत्स्य विक्रमम
तावकानां तु सैन्यानां परहर्षः समजायत
वादित्रनिनदश चॊग्रः सुमहाँल लॊमहर्षणः
तं शरुत्वा निनदंघॊरं तव सैन्यस्य पाण्डवः
नामृष्यत यथा नागस तलशब्दं समीरितम
ततः करॊधाभिताम्राक्षॊ निर्दहन्न इव पावकः
संदधे तवाष्ट्रम अस्त्रं स सवयं तवष्टेव मारिष
ततः शरसहस्राणि परादुरासन समन्ततः
तैः शरैस तव सैन्यस्य विद्रावः सुमहान अभूत
तद अस्त्रं परेषितं तेन भीमसेनेन संयुगे
राक्षसस्य महामायां हत्वा राक्षसम आर्दयत
स वध्यमानॊ बहुधा भीमसेनेन राक्षसः
संत्यज्य संयुगे भीमं दरॊणानीकम उपाद्रवत
तस्मिंस तु निर्जिते राजन राक्षसेन्द्रे महात्मना
अनादयन सिंहनादैः पाण्डवाः सर्वतॊदिशम
अपूजयन मारुतिंच संहृष्टास ते महाबलम
परह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः
[स]
अलम्बुसं तथा युद्धे विचरन्तम अभीतवत
हैडिम्बः परययौ तूर्णं विव्याध च शितैः शरैः
तयॊः परतिभयं युद्धम आसीद राक्षससिंहयॊः
कुर्वतॊर विविधा मायाः शक्रशम्बरयॊर इव
अलम्बुसॊ भृशं करुद्धॊ घटॊत्कचम अताडयत
घटॊत्कचस तु विंशत्या नाराचानां सतनान्तरे
अलम्बुसम अथॊ विद्ध्वा सिंहा वद वयनदन मुहुः
तथैवालम्बुसॊ राजन हैडिम्बं युद्धदुर्मदम
विद्ध्वा विद्ध्वानदद धृष्टः पूरयन खं समन्ततः
तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ
निर्विशेषम अयुध्येतां मायाभिर इतरेतरम
माया शतसृजौ दृप्तौ मॊहयन्तौ परस्परम
मायायुद्धे सुकुशलौ मायायुद्धम अयुध्यताम
यां यां घटॊत्कचॊ युद्धे मायां दर्शयते नृप
तां ताम अलम्बुसॊ राजन माययैव निजघ्निवान
तं तथा युध्यमानं तु मायायुद्धविशारदम
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः
त एनं भृशसंक्रुद्धाः सर्वतः परवरा रथैः
अभ्यद्रवन्त संक्रुद्धा भीमसेनादयॊ नृप
त एनं कॊष्ठकी कृत्यरथवंशेन मारिष
सर्वतॊ वयकिरन बाणैर उल्काभिर इव कुञ्जरम
स तेषाम अस्त्रवेगं तं परतिहत्यास्त्र मायया
तस्माद रथव्रजान मुक्तॊ वनदाहाद इव दविपः
स विस्फार्य धनुर घॊरम इन्द्राशनिसमस्वनम
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः
युधिष्ठिरं तरिभिर विद्ध्वा सहदेवं च सप्तभिः
नकुलं च तरिसप्तत्या दरुपदेयांश च मारिष
पञ्चभिः पञ्चभिर विद्ध्वा घॊरं नादं ननाद ह
तं भीमसेनॊ नवभिः सहदेवश च पञ्चभिः
युधिष्ठिरः शतेनैव राक्षसं परत्यविध्यत
नकुलश च चतुःषष्ट्या दरौपदेयास तरिभिस तरिभिः
हैडिम्बॊ राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः
पुनर विव्याध सप्तत्या ननाद च महाबलः
सॊऽअतिविद्धॊ महेष्वासः सर्वतस तैर महारथैः
परतिविव्याध तान सर्वान पञ्चभिः पञ्चभिः शरैः
तं करुद्धं राक्षसं युद्धे परतिक्रुद्धस तु राक्षसः
हैडिम्बॊ भरतश्रेष्ठ शरैर विव्याध सप्तभिः
सॊ तिविद्धॊ बलवता राक्षसेन्द्रॊ महाबलः
वयसृजत सायकांस तूर्णं सवर्णपुङ्खाञ शिलाशितान
ते शरा नतपर्वाणॊ विविशू राक्षसं तदा
रुषिताः पन्नगा यद्वद गिरिम उग्रा महाबलाः
ततस ते पाण्डवा राजन समन्तान निशिताञ शरान
परेषयाम आसुर उद्विग्ना हैडिम्बश च घटॊत्कचः
स वध्यमानः समरे पाडवैर जितकाशिभिः
दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयॊपमम
समुत्क्षिप्य च बाहुभ्याम आविध्य च पुनः पुनः
निष्पिपेष कषितौ कषिप्रं पूर्णकुम्भम इवाश्मनि
बललाघव संपन्नः संपन्नॊ विरमेण च
भैमसेनी रणे करुद्ध सर्वसैन्यान्य अभीषयत
स विस्फुटित सर्वाङ्गश चूर्णितास्थि विभूषणः
घटॊत्कचेन वीरेण हतः सालकटङ्कटह
ततः सुमनसः पार्था हते तस्मिन निशाचरे
चुक्रुशुः सिंहनादांश च वासांस्य आदुधुवुश च ह
तावकाश च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम
अलम्बुसं भीमरूपं विशीर्णम इव पर्वतम
हाहाकारम अकुर्वन्त सैन्यानि भरतर्षभ
जनाश च तद ददृशिरे रक्षः कौतूहलान्विताः
यदृच्छया निपतितं भूमाव अङ्गारकं यथा
घटॊत्कचस तु तद धत्वा रक्षॊबलवतां वरम
मुमॊच बलवन नादं बलं हत्वेव वासवः
स पूज्यमानः पितृभिः स बान्हवैर; घटॊत्कचः कर्णमि दुष्करे कृते
रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वम अलम्बुसं यथा
ततॊ निनादः सुमहान समुत्थितः; स शङ्खनानाविध बाणघॊषवान
निशम्य तं परत्यनदंस तु कौरवास; ततॊ धवनिर भुवनम अथास्पृशद भृशम
[धृ]
भारद्वाजं कथें युद्धे युयुधानॊ ऽभयवारयत
संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे
[स]
शृणु राजन महाप्राज्ञ संग्रामं लॊमहर्षणम
दरॊणस्य पाण्डवैः सार्धं युयुधान पुरॊगमैः
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष
अभ्यद्रवत सवयं दरॊणः सात्यकिं सत्यविक्रमम
तम आपतन्तं सहसा भारद्वाजं महारथम
सात्यकिः पञ्चविंशत्या कषुद्रकाणां समार्पयत
दरॊणॊ ऽपि युधि विक्रान्तॊ युयुधानं समाहितः
अविध्यत पञ्चभिस तूर्णंहेम पुङ्खैः शिलाशितैः
ते वर्म भित्त्वा सुदृढं दविषत पिशित भॊजनाः
अभ्यगुर धरणीं राजञ शवसन्त इव पन्नगाः
दीर्घबाहुर अभिक्रुद्धस तॊत्त्रार्दित इव दविपः
दरॊणं पञ्चाशताविध्यन नाराचैर अग्निसंनिभैः
भारद्वाजॊ रणे विद्धॊ युयुधानेन स तवरम
सात्यकिं बहुभिर बाणैर यतमानम अविध्यत
ततः करुद्धॊ महेष्वासॊ भूय एव महाबलः
सात्वतं पीडयाम आस शतेन नतपर्वणा
स वध्यमानः समरे भारद्वाजेन सात्यकिः
नाभ्यपद्यत कर्तव्यं किं चिद एव विशां पते
विषण्णवदनश चापि युयुधानॊ ऽभवन नृप
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ शरान
तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश च विशां पते
परहृष्टमनसॊ भूत्वा सिंहवद वयनदन मुहुः
तं शरुत्वा निनदं घॊरं पीड्यमानं च माधवम
युधिष्टिरॊ ऽबरवीद राजन सर्वसैन्यानि भारत
एष वृष्णिवरॊ वीरः सात्यकिः सत्यकर्मकृत
गरस्यते युधि वीरेण भानुमान इव राहुणा
अभिद्रवत गच्छध्वं सात्यकिर यत्र युध्यते
धृष्टद्युम्नं च पाञ्चाल्यम इदम आह जनाधिप
अभिद्रव दरुतं दरॊणं किं नु तिष्ठसि पार्षत
न पश्यसि भयं घॊरं दरॊणान नः समुपस्थितम
असौ दरॊणॊ महेष्वासॊ युयुधानेन संयुगे
करीडते सूत्रबद्धेन पक्षिणा बालकॊ यथा
तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः
तवयैव सहिता यत्ता युयुधान रथं परति
पृष्ठतॊ ऽनुगमिष्यामि तवाम अहं सह सैनिकः
सात्यकिं मॊक्षयस्वाद्य यम दंष्ट्रान्तरं गतम
एवम उक्त्वा ततॊ राजा सर्वसैन्येन पाण्डवः
अभ्यद्रवद रणे दरॊणं युयुधानस्य कारणात
तत्रारावॊ महान आसीद दरॊणम एकं युयुत्सताम
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम
अभ्यवर्षञ शरैस तीक्ष्णैः कङ्कबर्हिण वाजितः
समयन्न एव तु तान वीरान दरॊणः परत्यग्रहीत सवयम
अतिथीन आगतान यद्वत सलिलेनासनेन च
तर्पितास ते शरैस तस्य भारद्वाजस्य धन्विनः
आतिथेय गृहं पराप्य नृपते ऽतिथयॊ यथा
भारद्वाजं च ते सर्वे न शेकुः परतिवीक्षितुम
मध्यं दिनम अनुप्राप्तं सहस्रांशुम इव परभॊ
तांस तु सर्वान महेष्वासान दरॊणः शस्त्रभृतां वरः
अतापयच छरव्रातैर गभस्तिभिर इवांशुमान
वध्यमाना रणे राजन पाण्डवाः सृञ्जयास तथा
तरातारं नाध्यगच्छन्त पङ्कमग्ना इव दविपाः
दरॊणस्य च वयदृश्यन्त विसर्पन्तॊ महाशराः
घभस्तय इवार्कस्य परतपन्तः समन्ततः
तस्मिन दरॊणेन निहताः पाञ्चालाः पञ्चविंशतिः
महारथसमाख्याता धृष्टद्युम्नस्य संमताः
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च
दरॊणं सम ददृशुः शूरं विनिघ्नन्तं वरान वरान
केकयानां शतं हत्वा विद्राव्य च समन्ततः
दरॊणस तस्थौ महाराज वयादितास्य इवान्तकः
पाञ्चालान सृञ्जयान मत्स्यान केकयान पाण्डवान अपि
दरॊणॊ ऽजयन महाबाहुः शतशॊ ऽथ सहस्रशः
तेषां समभवच छब्दॊ वध्यतां दरॊण सायकैः
वनौकसाम इवारण्ये दह्यतां धूमकेतुना
तत्र देवाः स गन्धर्वाः पितरश चाब्रुवन नृप
एते दरवन्ति पाञ्चालाः पाण्डवाश च स सैनिकाः
तं तथा समरे दरॊणं निघ्नन्तं सॊमकान रणे
न चाप्य अभिययुः के चिद अपरे नैव विव्यधुः
वर्तमाने तथा रौद्रे तस्मिन वीरवरक्षये
अशृणॊत सहसा पार्थः पाञ्चजन्यस्य निस्वनम
पूरितॊ वासुदेवेन शङ्खराट सवनते भृशम
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं परति
गाण्डीवस्य च निर्घॊषे विप्रनष्टे समन्ततः
कश्मलाभिहतॊ राजा चिन्तयाम आस पाण्डवः
न नूनं सवस्ति पार्थस्य यथा नदति शङ्खराट
कौरवाश च यथा हृष्टा विनदन्ति मुहुर मुहुः
एवं संचिन्तयित्वा तु वयाकुलेनान्तर आत्मना
अजातशत्रुः कौन्तेयः सात्वतं परत्यभाषत
बाष्पगद्गदया वाचा मुह्यमानॊ मुहुर मुहुः
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुंगवम
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः
साम्पराये सुहृत कृत्ये तस्य कालॊ ऽयम आगतः
सर्वेष्व अपि च यॊधेषु चिन्तयञ शिनिपुंगव
तवत्तः सुहृत्तमं कं चिन नाभिजानामि सात्यके
यॊ हि परीतमना नित्यं यश च नित्यम अनुव्रतः
स कार्ये साम्पराये तु नियॊज्य इति मे मतिः
यथा च केशवॊ नित्यं पाण्डवानां परायणम
तथा तवम अपि वार्ष्णेय कृष्ण तुल्यपराक्रमः
सॊ ऽहं भारं समाधास्ये तवयि तं वॊढुम अर्हसि
अभिप्रायं च मे नित्यं न वृथा कर्तुम अर्हसि
स तवं भरातुर वयस्यस्य गुरॊर अपि च संयुगे
कुरु कृच्छ्रसहायार्थम अर्जुनस्य नरर्षभ
तवं हि सत्यव्रतः शूरॊ मित्राणाम अभयंकरः
लॊके विख्यायसे वीरकर्मभिः सत्यवाग इति
यॊ हि शैनेय मित्रार्थे युध्यमानस तयजेत तनुम
पृथिवीं वा दविजातिभ्यॊ यॊ दद्यात समम एव तत
शरुताश च बहवॊ ऽसमाभी राजानॊ ये दिवं गताः
दत्त्वेमां पृथिवीं कृत्स्नां बराह्मणेभ्यॊ यथाविधि
एवं तवाम अपि धर्मात्मन परयाचे ऽहं कृताञ्जलिः
पृथिवी दानतुल्यं सयाद अधिकं वा फलं विभॊ
एक एव सदा कृष्णॊ मित्राणाम अभयंकरः
रणे संत्यजति पराणान दवितीयस तवं च सात्यके
विक्रान्तस्य च वीरस्य युद्धे परार्थयते यशः
शूर एव सहायः सयान नेतरः पराकृतॊ जनः
ईदृशे तु परामर्दे वर्तमानस्य माधव
तवदन्यॊ हि रणे गॊप्ता विजयस्य न विद्यते
शलाघन्न एव हि कर्माणि शतशस तव पाण्डवः
मम संजनयन हर्षं पुनः पुनर अकीर्तयत
लघ्व अस्त्रश चित्रयॊधी च तथा लघुपराक्रमः
पराज्ञः सर्वास्त्रविच छूरॊ मुह्यते न च संयुगे
महास्कन्धॊ महॊरस्कॊ महाबाहुर महाधनुः
महाबलॊ महावीर्यः स महात्मा महारथः
शिष्यॊ मम सखा चैव परियॊ ऽसयाहं परियश च मे
युयुधानः सहायॊ मे परमथिष्यति कौरवान
अस्मदर्थं च राजेन्द्र संनह्येद यदि केशवः
रामॊ वाप्य अनिरुद्धॊ वा परद्युम्नॊ वा महारथः
गदॊ वा सारणॊ वापि साम्बॊ वा सह वृष्णिभिः
सहायार्थं महाराज संग्रामॊत्तम मूर्धनि
तथाप्य अहं नरव्याघ्रं शैनेयं सत्यविक्रमम
साहाय्ये विनियॊक्ष्यामि नासिन मे ऽनयॊ हि तत समः
इति दवैतवने तात माम उवाच धनंजयः
परॊक्षं तवद गुणांस तथ्यान कथयन्न आर्य संसदि
तस्य तवम एवं संकल्पं न वृथा कर्तुम अर्हसि
धनंजयस्य वार्ष्णेय मम भीमस्य चॊभयॊः
यच चापि तीर्थानि चरन्न अगच्छं दवारकां परति
तत्राहम अपि ते भक्तिम अर्जुनं परति दृष्टवान
न तत सौहृदम अन्येषु मया शैनेय लक्षितम
यथा तम अस्मान भजसे वर्तमानान उपप्लवे
सॊ ऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव
सत्यस्य च महाबाहॊ अनुकम्पार्थम एव च
अनुरूपं महेष्वास कर्म तवं कर्तुम अर्हसि
सॊयॊधनॊ हि सहसा गतॊ दरॊणेन दंशितः
पूर्वम एव तु यातास ते कौरवाणां महारथाः
सुमहान निनदंश चैव शरूयते विजयं परति
स शैनेय जवेनात्र गन्तुम अर्हसि माधव
भीमसेनॊ वयं चैव संयत्ताः सह सैनिकाः
दरॊणम आवारयिष्यामॊ यदि तवां परति यास्यति
पश्य शैनेय सैन्यानि दरवमाणानि संयुगे
महान्तं च रणे शब्दं दीर्यमाणां च भारतीम
महामारुत वेगेन समुद्रम इव पर्वसु
धार्तराष्ट्र बलं तात विक्षिप्तं सव्यसाचिना
रथैर विपरिधावद्भिर मनुष्यैश च हयैश च ह
सैन्यं रजः समुद्धूतम एत संपरिवर्तते
संवृतः सिन्धुसौवीरैर नखरप्रासयॊधिभि
अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा
नैतद बलम असंवार्य शक्यॊ हन्तुं जयद्रथः
एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः
शरशक्तिध्वजवनं हयनागसमाकुलम
पश्यैतद धार्तराष्ट्राणाम अनीकं सुदुरासदम
शृणु दुन्दुभिनिर्घॊषं शङ्खशब्दांश च पुष्कलान
सिंहनाद रवांश चैव रथनेमि सवनांस तथा
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः
सादिनां दरवतां चैव शृणु कम्पयतां महीम
पुरस्तात सौन्धवानीकं दरॊणानीकस्य पृष्ठतः
बहुत्वाद धि नरव्याघ्र देवेन्द्रम अपि पीडयेत
अपर्यन्ते बले मग्नॊ जह्याद अपि च जीवितम
तस्मिंश च निहते युद्धे कथं जीवेत मादृशः
सर्वथाहम अनुप्राप्तः सुकृच्छ्रं बलजीवितम
शयामॊ युवा गुडाकेशॊ दर्शनीयश च पाण्डवः
लघ्व अस्त्रश चित्रयॊधी च परविष्टस तात भारतीम
सूर्यॊदये महाबाहुर दिवसश चातिवर्तते
तन्न जानामि वार्ष्णेय यदि जीवति वा न वा
कुरूणां चापि तत सैन्यं सागरप्रतिमं महत
एक एव च बीभत्सुः परविष्टस तात भारतीम
अविषह्यां महाबाहुः सुरैर अपि महामृधे
न च मे वर्तते बुद्धिर अद्य युद्धे कथं चन
दरॊणॊ ऽपि रभसॊ युद्धे मम पीडयते बलम
परत्यक्षं ते महाबाहॊ यथासौ चरति दविजः
युगपच च समेतानां कार्याणां तवं विचक्षणः
महार्थं लघु संयुक्तं कर्तुम अर्हसि माधव
तस्य मे सर्वकार्येषु कार्यम एतन मतं सदा
अर्जुनस्य परित्राणं कर्तव्यम इति संयुगे
नाहं शॊचामि दाशार्हं गॊप्तारं जगतः परभुम
स हि शक्तॊ रणे तात तरीँल लॊकान अपि संगतान
विजेतुं पुरुषव्याघ्र सत्यम एतद बरवीमि ते
किं पुनर धार्तराष्ट्रस्य बलम एतत सुदुर्बलम
अर्जुनस तव एव बार्ष्णेय पीडितॊ बहुभिर युधि
परजह्यात समरे पराणांस तस्माद विन्दामि कश्मलम
तस्य तवं पदवीं गच्छ गच्छेयुस तवादृशा यथा
तवादृशस्येदृशे काले मादृशेनाभिचॊदितः
रणे वृष्णिप्रवीराणां दवाव एवातिरथौ समृतौ
परद्युम्नश च महाबाहुस तवं च सात्वत विश्रुतः
अस्त्रे नारायण समः संकर्षण समॊ बले
वीरतायां नरव्याघ्र धनंजय समॊ हय असि
भीष्मद्रॊणाव अतिक्रम्य सर्वयुद्धविशारदम
तवाम अद्य पुरुषव्याघ्रं लॊके सन्तः परचक्षते
नासाध्यं विद्यते लॊके सात्यकेर इति माधव
तत तवां यद अभिवक्ष्यामि तत कुरुष्व महाबल
संभावना हि लॊकस्य तव पार्थस्य चॊभयॊः
नान्यथा तां महाबाहॊ संप्रकर्तुम इहार्हसि
परित्यज्य परियान पराणान रणे विचर वीरवत
न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम
अयुद्धम अनवस्थानं संग्रामे च पलायनम
भीरूणाम असतां मार्गॊ नैष दाशार्ह सेवितः
तवार्जुनॊ गुरुस तात धर्मात्मा शिनिपुंगव
वासुदेवॊ गुरुश चापि तव पार्थस्य धीमतः
कारणद्वयम एतद धि जानानस तवाहम अब्रुवम
मावमंस्था वचॊ मह्यं गुरुस तव गुरॊर हय अहम
वासुदेव मतं चैतन मम चैवार्जुनस्य च
सत्यम एतन मयॊक्तं ते याहि यत्र धनंजयः
एतद वचनम आज्ञाय मम सत्यपराक्रम
परविशैतद बलं तात धार्तराष्ट्रस्य दुर्मतेः
परविश्य च यथान्यायं संगम्य च महारथैः
यथार्हम आत्मनः कर्म रणे सात्वत दर्शय
[स]
परीतियुक्तं च हृद्यं च मधुराक्षरम एव च
कालयुक्तं च चित्रं च सवतया चाभिभाषितम
धर्मराजस्य तद वाक्यं निशम्य शिनिपुंगवः
सात्यकिर भरतश्रेष्ठ परत्युवाच युधिष्ठिरम
शरुतं ते गदतॊ वाक्यं सर्वम एतन मयाच्युत
नयाययुक्तं च चित्रं च फल्गुनार्थे यशः करम
एवंविधे तथा काले मदृशं परेक्ष्य संमतम
वक्तुम अर्हसि राजेन्द्र यथा पार्थं तथैव माम
न मे धनंजयस्यार्थे पराणा रक्ष्याः कथं चन
तवत्प्रयुक्तः पुनर अहं किं न कुर्यां महाहवे
लॊकत्रयं यॊधयेयं स देवासुरमानुषम
तवत्प्रयुक्तॊ नरेन्द्रेह किम उतैतत सुदुर्बलम
सुयॊधन बलं तव अद्य यॊधयिष्ये समन्ततः
विजेष्ये च रणे राजन सत्यम एतद बरवीमि ते
कुशल्य अहं कुशलिनं समासाद्य धनंजयम
हते जयद्रथे राजन पुनर एष्यामि ते ऽनतिकम
अवश्यं तु मया सर्वं विज्ञाप्यस तवं नराधिप
वासुदेवस्य यद वाक्यं फल्गुनस्य च धीमतः
दृढं तव अभिपरीतॊ ऽहम अर्जुनेन पुनः पुनः
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः
अद्य माधव राजानम अप्रमत्तॊ ऽनुपालय
आर्यां युद्धे मतिं कृत्वा यावद धन्मि जयद्रथम
तवयि वाहं महाबाहॊ परद्युम्ने वा महारथे
नृपं निक्षिप्य गच्छेयं निरपेक्षॊ जयद्रथम
जानीषे हि रणे दरॊणं रभसं शरेष्ठ संमतम
परतिज्ञा चापि ते नित्यं शरुता दरॊणस्य माधव
गरहणं धर्मराजस्य भारद्वाजॊ ऽनुगृध्यति
शक्तश चापि रणे दरॊणॊ निगृहीतुं युधिष्ठिरम
एवं तवयि समाधाय धर्मराजं नरॊत्तमम
अहम अद्य गमिष्यामि सैन्धवस्य वधाय हि
जयद्रथम अहं हत्वा धरुवम एष्यामि माधव
धर्मराजं यथा दरॊणॊ निगृह्णीयाद रणे बलात
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव
सैन्धवस्य वधॊ न सयान मनाप्रीतिस तथा भवेत
एवंगते नरश्रेष्ठ पाण्डवे सत्यवादिनि
अस्माकं गमनं वयक्तं वनं परति भवेत पुनः
सॊ ऽयं मम जयॊ वयक्तं वयर्थ एव भविष्यति
यदि दरॊणॊ रणे करुद्धॊ निगृह्णीयाद युधिष्ठिरम
स तवम अद्य महाबाहॊ परियार्थं मम माधव
जयार्थं च यशॊऽरथं च रक्ष राजानम आहवे
स भवान मयि निक्षेपॊ निक्षिप्तः सव्यसाचिना
भारद्वाजाद भयं नित्यं पश्यमानेन ते परभॊ
तस्यापि च महाबाहॊ नित्यं पश्यति संयुगे
नान्यं हि परतियॊद्धारं रौक्मिणेयाद ऋते परभॊ
मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः
सॊ ऽहं संभावनां चैताम आचार्य वचनं च तत
पृष्ठतॊ नॊत्सहे कर्तुं तवां वा तयक्तुं महीपते
आचार्यॊ लघुहस्तत्वाद अभेद्यकवचावृतः
उपलभ्य रणे करीडेद यथा शकुनिना शिशुः
यदि कार्ष्णिर धनुष्पाणिर इह सयान मकरध्वजः
तस्मै तवां विसृजेयं वै स तवां रक्षेद यथार्जुनः
कुरु तवम आत्मनॊ गुप्तिं कस ते गॊप्ता गते मयि
यः परतीयाद रणे दरॊणं यावद गच्छामि पाण्डवम
मा च ते भयम अद्यास्तु राजन्न अर्जुन संभवम
न स जातु महाबाहुर भारम उद्यम्य सीदति
ये च सौवीरका यॊधास तथा सैन्धव पौरवाः
उदीच्या दाक्षिणात्याश च ये चान्ये ऽपि महारथाः
ये च कर्ण मुखा राजन रथॊदाराः परकीर्तिताः
एते ऽरजुनस्य करुद्धस्य कलां नार्हन्ति षॊडशीम
उद्युक्ता पृथिवी सर्वा स सुरासुरमानुषा
स राक्षसगणा राजन स किंनरमहॊरगा
जङ्गमाः सथावरैः सार्धं नालं पार्थस्य संयुगे
एवं जञात्वा महाराज वयेतु ते भीर धनंजये
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ
न तत्र कर्मणॊ वयापत कथं चिद अपि विद्यते
दैवं कृतास्त्रतां यॊगम अमर्षम अपि चाहवे
कृतज्ञतां दयां चैव भरातुस तवम अनुचिन्तय
यमि चाप्य अपयाते वै गच्छमाने ऽरजुनं परति
दरॊणे चित्रास्त्रतां संख्ये राजंस तवम अनुचिन्तय
आचार्यॊ हि भृशं राजन निग्रहे तव गृध्यति
परतिज्ञाम आत्मनॊ रक्षन सत्यां कर्तुं च भारत
कुरुष्वाद्यात्मनॊ गुप्तिं कस ते गॊप्ता गते मयि
यस्याहं पर्ययात पार्थ गच्छेयं फल्गुनं परति
न हय अहं तवा महाराज अनिक्षिप्य महाहवे
कव चिद यास्यामि कौरव्य सत्यम एतद बरवीमि ते
एतद विचार्य बहुशॊ बुद्ध्या बुद्धिमतां वर
दृष्ट्वा शरेयः परं बुद्ध्या ततॊ राजन परशाधि माम
[य]
एवम एतन महाबाहॊ यथा वदसि माधव
न तु मे शुध्यते भावः शवेताश्वं परति मारिष
करिष्ये परमं यत्नम आत्मनॊ रक्षणं परति
गच्छ तवं समनुज्ञातॊ यत्र यातॊ धनंजयः
आत्मसंरक्षणं संख्ये गमनं चार्जुनं परति
विचार्यैतद दवयं बुद्ध्या गमनं तत्र रॊचये
स वम आतिष्ठ यानाय यत्र यातॊ धनंजयः
ममापि रक्षणं भीमः करिष्यति महाबलः
पार्षतश च ससॊदर्यः पार्थिवाश च महाबलाः
दरौपदेयाश च मां तात रक्षिष्यन्ति न संशयः
केकया भरातरः पञ्च राक्षसश च घटॊत्कचः
विराटॊ दरुपदश चैव शिखण्डी च महारथः
धृष्टकेतुश च बलवान कुन्तिभॊजश च मारिष
नकुलः सहदेवश च पाञ्चालाः सृञ्जयास तथा
एते समाहितास तात रक्षिष्यन्ति न संशयः
न दरॊणः सह सैन्येन कृतवर्मा च संयुगे
समासादयितुं शक्तॊ न च मां धर्षयिष्यति
धृष्टद्युम्नश च समरे दरॊणं करुद्धं परंतपः
वारयिष्यति विक्रम्य वेलेव मकरालयम
यत्र सथास्यति संग्रामे पार्षतः परवीरहा
न दरॊण सैन्यं बलवत करामेत तत्र कथं चन
एष दरॊण विनाशाय समुत्पन्नॊ हुताशनात
कवची स शरी खड्गी धन्वी च वरभूषणः
विश्रब्धॊ गच्छ शैनेय मा कार्षीर मयि संभ्रमम
धृष्टद्युम्नॊ रणे करुद्धॊ दरॊणम आवारयिष्यति
[स]
धर्मराजस्य तद वाक्यं निशम्य शिनिपुंगवः
पार्थाच च भयम आशङ्कन परित्यागान महीपतेः
अपवादं हय आत्मनश च लॊकाद रक्षन विशेषतः
न मां भीत इति बरूयुर आयान्तं फल्गुनं परति
निश्चित्य बहुधैवं स सात्यकिर युद्धदुर्मदः
धर्मराजम इदं वाक्यम अब्रवीत पुरुषर्षभ
कृतां चेन मन्यसे रक्षां सवस्ति ते ऽसतु विशां पते
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव
न हि मे पाण्डवात कश चित तरिषु लॊकेषु विद्यते
यॊ वै परियतरॊ राजन सत्यम एतद बरवीमि ते
तस्याहं पदवीं यास्ये संदेशात तव मानद
तवत्कृते न च मे किं चिद अकर्तव्यं कथं चन
यथा हि मे गुरॊर वाक्यं विशिष्टं दविपदां वर
तथा तवापि वचनं विशिष्टतरम एव मे
परिये हि तव वर्तेते भरातरौ कृष्ण पाण्डवौ
तयॊः परिये सथितं चैव विद्धि मां राजपुंगव
तवाज्ञां शिरसा गृह्य पाण्डवार्थम अहं परभॊ
भित्त्वेदं दुर्भिदं सैन्यं परयास्ये नरसत्तम
दरॊणानीकं विशाम्य एष करुद्धॊ झष इवार्णवम
तत्र यास्यामि यत्रासौ राजन राजा जयद्रथः
यत्र सेनां समाश्रित्य भीतस तिष्ठति पाण्डवात
गुप्तौ रथवरश्रेष्ठैर दरौणिकर्ण कृपादिभिः
इतस तरियॊजनं मन्ये तम अध्वानं विशां पते
यत्र तिष्ठति पार्थॊ ऽसौ जयद्रथवधॊद्यतः
तरियॊजनगतस्यापि तस्य यास्याम्य अहं पदम
आसैन्धव वधाद राजन सुदृढेनान्तर आत्मना
अनादिष्टस तु गुरुणा कॊ नु युध्येत मानवः
आदिष्टस तु तवया राजन कॊ नु युध्येत मादृशः
अभिजानामि तं देशं यत्र यास्याम्य अहं परभॊ
हुड शक्तिगडा परासखड्गचर्मर्ष्टि तॊमरम
इष्वस्त्रवरसंबाधं कषॊभयिष्ये बलार्णवम
यद एतत कुञ्जरानीकं साहस्रम अनुपश्यसि
कुलम अञ्जनकं नाम यत्रैते वीर्यशालिनः
आस्थिता बहुभिर मलेच्छैर युद्धशौण्डैः परहारिभिः
नागा मेघनिभा राजन कषरन्त इव तॊयदाः
नैते जातु निवर्तेरन परेषिता हस्तिसादिभिः
अन्यत्र हि वधाद एषां नास्ति राजन पराजयः
अथ यान रथिनॊ राजन समन्ताद अनुपश्यसि
एते रुक्मरथा नाम राजपुत्रा महारथाः
रथेष्व अस्त्रेषु निपुणा नागेषु च विशां पते
धनुर्वेदे गताः पारं मुष्टियुद्धे च कॊविदाः
गदायुद्धविशेषज्ञा नियुद्ध कुशलास तथा
खड्गप्रहरणे युक्ताः संपाते चासि चर्मणॊः
शूराश च कृतविद्याश च सपर्धन्ते च परस्परम
नित्यं च समरे राजन विजिगीषन्ति मानवान
कर्णेन विजिता राजन दुःशासनम अनुव्रताः
एतांस तु वासुदेवॊ ऽपि रथॊदारान परशंसति
सततं परियकामाश च कर्णस्यैते वशे सथिताः
तस्यैव वचनाद राजन निवृत्ताः शवेतवाहनात
ते न कषता न च शरान्ता दृढावरणकार्मुकाः
मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात
एतान परमर्थ्य संग्रामे परियार्थं तव कौरव
परयास्यामि ततः पश्चात पदवीं सव्यसाचिनः
यांस तव एतान अपरान राजन नागान सप्तशतानि च
परेक्षसे वर्म संछन्नान किरातैः समधिष्ठितान
किरात राजॊ यान परादाद गृहीतः सव्यसाचिना
सवलंकृतांस तथा परेष्यान इच्छञ जीवितम आत्मनः
आसन्न एते पुरा राजंस तव कर्म करा दृढम
तवाम एवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम
तेषाम एते महामात्राः किराता युद्धदुर्मदाः
हस्तिशिक्षाविदश चैव सर्वे चैवाग्नियॊनयः
एते विनिर्जिताः सर्वे संग्रामे सव्यसाचिना
मदर्थम अद्य संयत्ता दुर्यॊधन वशानुगाः
एतान भित्त्वा शरै राजन किरातान युद्धदुर्मदान
सैन्धवस्य वधे युक्तम अनुयास्यामि पाण्डवम
ये तव एते सुमहानागा अञ्जनस्य कुलॊद्भवाः
कर्कशाश च विनीताश च परभिन्नकरटा मुखाः
जाम्बूनदमयैः सर्वैर वर्मभिः सुविभूषिताः
लब्धलक्ष्म्या रणे राजन्न ऐरावण समा युधि
उत्तरात पर्वताद एते तीक्ष्णैर दस्युभिर आस्थिताः
कर्कशैः परवरैर यॊधैः कार्ष्णायस तनुच छदैः
सन्ति गॊयॊनयश चात्र सन्ति वानरयॊनयः
अनेकयॊनयश चान्ये तथा मानुषयॊनयः
अनीकम असताम एतद धूमवर्णम उदीर्यते
मलेच्छानां पापकर्तॄणां हिमवद दुर्गवासिनाम
एतद दुर्यॊधनॊ लब्ध्वा समग्रं नागमण्डलम
कृपं च सौमदत्तिं च दरॊणं च रथिनां वरम
सिन्धुराजं तथा कर्णम अवमन्यत पाण्डवान
कृतार्थम अथ चात्मानं मन्यते कालचॊदितः
ते च सर्वे ऽनुसंप्राप्ता मम नाराचगॊचरम
न विमॊक्ष्यन्ति कौन्तेय यद्य अपि सयुर मनॊजवाः
तेन संभाविता नित्यं परवीर्यॊपजीविना
विनाशम उपयास्यन्ति मच्छरौघनिपीडिताः
ये तव एते रथिनॊ राजन दृश्यन्ते काञ्चनध्वजाः
एते दुर्वारणा नाम काम्बॊजा यदि ते शरुताः
शूराश च कृतविद्याश च धनुर्वेदे च निष्ठिताः
संहताश च भृशं हय एते अन्यॊन्यस्य हितैषिणः
अक्षौहिण्यश च संरब्धा धार्तराष्ट्रस्य भारत
यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः
अप्रमत्ता महाराज माम एव परत्युपस्थिताः
तांस तव अहं परमथिष्यामि तृणानीव हुताशनः
तस्मात सर्वान उपासङ्गान सर्वॊपकरणानि च
रथे कुर्वन्तु मे राजन यथावद रथकल्पकाः
अस्मिंस तु खलु संग्रामे गराह्यं विविधम आयुधम
यथॊपदिष्टम आचार्यैः कार्यः पञ्च गुणॊ रथः
काम्बॊजैर हि समेष्यामि करुद्धैर आशीविषॊपमैः
नानाशस्त्रसमावापैर विविधायुधयॊधिभिः
किरातैश च समेष्यामि विषकल्पैः परहारिभिः
लालितैः सततं राज्ञा दुर्यॊधन हितैषिभिः
शकैश चापि समेष्यामि शक्रतुल्यपराक्रमैः
अग्निकल्पैर दुराधर्षैः परदीप्तैर इव पावकैः
तथान्यैर विविधैर यॊधैः कालकल्पैर दुरासदैः
समेष्यामि रणे राजन बहुभिर युद्धदुर्मदैः
तस्माद वै वाजिनॊ मुख्या विश्रान्ताः शुभलक्षणाः
उपावृत्ताश च पीताश च पुनर युज्यन्तु मे रथे
तस्य सर्वान उपासङ्गान सर्वॊपकरणानि च
रथे परास्थापयद राजा शस्त्राणि विविधानि च
ततस तान सर्वतॊ मुक्त्वा सदश्वांश चतुरॊ जनाः
रसवत पाययाम आसुः पानं मदसमीरिणम
पीतॊपवृत्तान सनातांश च जग्धान्नान समलंकृतान
विनीतशल्यांस तुरगांश चतुरॊ हेममालिनः
तान यत्तान रुक्मवर्णाभान विनीताञ शीघ्रगामिनः
संहृष्टमनसॊ ऽवयग्रान विधिवत कल्पिते रथे
महाध्वजेन सिंहेन हेमकेसर मालिना
संवृते केतनैर हेमैर मणिविद्रुम चित्रितैः
पाण्डुराभ्रप्रकाशाभिः पताकाभिर अलंकृते
हेमदण्डॊच्छ्रितच छत्रे बहु शस्त परिच्छदे
यॊजयाम आस विधिवद धेमभाण्ड विभूषितान
दारुकस्यानुजॊ भराता सूतस तस्य परियः सखा
नयवेदयद रथं युक्तं वासवस्येव मातलिः
ततः सनातः शुचिर भूत्वा कृतकौतुक मङ्गलः
सनतकानां सहस्रस्य सवर्णनिष्कान अदापयत
आशीर्वादैः परिष्वक्तः सात्यकिः शरीमतां वरः
ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु
लॊहिताक्षॊ बभौ तत्र मदविह्वल लॊचनः
आलभ्य वीर कांस्यं च हर्षेण महतान्वितः
दविगुणीकृततेजा हि परज्वलन्न इव पावकः
उत्सङ्गे धनुर आदाय स शरं रथिनां वरः
कृतस्वस्त्ययनॊ विप्रैः कवची समलंकृतः
लाजैर गन्धैस तथा माल्यैः कन्याभिश चाभिनन्दितः
युधिष्ठिरस्य चरणाव अभिवाद्य कृताञ्जलिः
तेन मूर्धन्य उपाघ्रात आरुरॊह महारथम
ततस ते वाजिनॊ हृष्टाः सुपुष्टा वातरंहसः
अजय्या जैत्रम ऊहुस तं विकुर्वन्तः सम सैन्धवाः
अथ हर्षपरीताङ्गः सात्यकिर भीमम अब्रवीत
तवं भीम रक्ष राजानम एतत कार्यतमं हि ते
अहं भित्त्वा परवेक्ष्यामि कालपक्वम इदं बलम
आयत्यां च तदात्वे च शरेयॊ राज्ञॊ ऽभिरक्षणम
जानीषे मम वीर्यं तवं तव चाहम अरिंदम
तस्माद भीम निवर्तस्व मम चेद इच्छसि परियम
तथॊक्तः सात्यकिं पराह वरज तवं कार्यसिद्धये
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम
एवम उक्तः परत्युवाच भीमसेनं स माधवः
गच्छ गच्छ दरुतं पार्थ धरुवॊ ऽदय विजयॊ मम
यन मे सनिग्धॊ ऽनुरक्तश च तवम अद्य वशगः सथितः
निमित्तानि च धन्यानि यथा भीमवदन्ति मे
निहते सैन्धवे पापे पाण्डवेन महात्मना
परिष्वजिष्ये राजानं धर्मात्मानं न संशयः
एतावद उक्त्वा भीमं तु विसृज्य च महामनाः
संप्रैक्षत तावकं सैन्यं वयाघॊर मृगगणान इव
तं दृष्ट्वा परविविक्षन्तं सैन्यं तव जनाधिप
भूय एवाभवन मूढं सुभृशं चाप्य अकम्पत
ततः परयातः सहसा सैन्यं तव स सात्यकिः
दिदृक्षुर अर्जुनं राजन धर्मराजस्य शासनात
[स]
परयाते तव सैन्यं तु युयुधाने युयुत्सया
धर्मराजॊ महाराज सवेनानीकेन संवृतः
परायाद दरॊण रथप्रेप्सुर युयुधानस्य पृष्ठतः
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः
पराक्रॊशत पाण्डवानीके वसु दानश च पार्थिवः
आगच्छत परहरत दरुतं विपरिधावत
यथासुखेन गच्छेत सात्यकिर युद्धदुर्मदः
महारथा हि बहवॊ यतिष्यन्त्य अस्य निर्जये
इति बरुवन्तॊ वेगेन समापेतुर बलं तव
वयं परतिजिगीषन्तस तत्र तान समभिद्रुताः
ततः शब्दॊ महान आसीद युयुधान रथं परति
परकम्प्यमाना महती तव पुत्रस्य वाहिनी
सात्वतेन महाराज शतधाभिव्यदीर्यत
तस्यां विदीर्यमाणायां शिनेः पौत्रॊ महारथः
सप्त वीरान महेष्वासान अग्रानीके वयपॊथयत
ते भीता मृद्यमानाश च परमृष्टा दीर्घबाहुना
आयॊधनं जहुर वीरा दृष्ट्वा तम अतिमानुषम
रथैर विमथिताक्षैश च भग्ननीडैश च मारिष
चक्रैर विमथितैश छिन्नैर धवजैश च विनिपातितैः
अनुकर्षैः पताकाभिः शिरस तराणैः स काञ्चनैः
बाहुभिश चन्दनादिग्धैः साङ्गदैश च विशां पते
हस्तिहस्तॊपमैश चापि भुजगाभॊग संनिभैः
ऊरुभिः पृथिवी छन्ना मनुजानां नरॊत्तम
शशाङ्कसंनिकाशैश च वदनैश चारुकुण्डलैः
पतितैर वृषभाक्षाणां बभौ भारत मेदिनी
गजैश च बहुधा छिन्नैः शयानैः पर्वतॊपमैः
रराजातिभृशं भूमिर विकीर्णैर इव पर्वतैः
तपनीयमयैर यॊक्त्रैर्मुक्ता जालविभूषितैः
उरश छदैर विचित्रैश च वयशॊभन्त तुरंगमाः
गतसत्त्वा महीं पराप्य परमृष्टा दीर्घबाहुना
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः
परविष्टस तावकं सैन्यं दरावयित्वा चमूं भृशम
ततस तेनैव मार्गेण येन यातॊ धनंजयः
इयेष सात्यकिर गन्तुं ततॊ दरॊणेन वारितः
भरद्वाजं समासाद्य युयुधानस तु मारिष
नाभ्यवर्तत संक्रुद्धॊ वेलाम इव जला शयः
निवार्य तु रणे दरॊणॊ युयुधानं महारथम
विव्याध निशितैर बाणैः पञ्चभिर मर्मभेदिभिः
सात्यकिस तु रणे दरॊणं राजन विव्याध सप्तभिः
हेमपुङ्खैः शिला धौतैः कङ्कबर्हिण वाजितैः
तं षड्भिः सायकैर दरॊणः साश्वयन्तारम आर्दयत
स तं न ममृषे दरॊणं युयुधानॊ महारथः
सिंहनादं ततः कृत्वा दरॊणं विव्याध सात्यकिः
दशभिः सायकैश चान्यैः षड्भिर अष्टाभिर एव च
युयुधानः पुनर दरॊणं विव्याध दशभिः शरैः
एकेन सारथिं चास्य चतुर्भिश चतुरॊ हयान
धवजम एकेन बाणेन विव्याध युधि मारिष
तं दरॊणः साश्वयन्तारं स रथध्वजम आशुगैः
तवरन पराच्छादयद बाणैः शलभानाम इव वरजैः
तथैव युयुधानॊ ऽपि दरॊणं बहुभिर आशुगैः
पराच्छादयद असंभ्रान्तस ततॊ दरॊण उवाच ह
तवाचार्यॊ रणं हित्वा गतः कापुरुषॊ यथा
युध्यमानं हि मां हित्वा परदक्षिणम अवर्तत
तवं हि मे युध्यतॊ नाद्य जीवन मॊक्ष्यसि माधव
यदि मां तवं रणे हित्वा न यास्य आचार्यवद दरुतम
[सात्यकि]
धनंजयस्य पदवीं धर्मराजस्य शासनात
गच्छामि सवस्ति ते बरह्मन न मे कालात्ययॊ भवेत
[स]
एतावद उक्त्वा शैनेय आचार्यं परिवर्जयन
परयातः सहसा राजन सारथिं चेदम अब्रवीत
दरॊणः करिष्यते यत्नं सर्वथा मम वारणे
यत्तॊ याहि रणे सूत शृणु चेदं वचः परम
एतद आलॊक्यते सैन्यम आवन्त्यानां महाप्रभम
अस्यानन्तरतस तव एतद दाक्षिणात्यं महाबलम
तदनन्तरम एतच च बाह्लिकानां बलं महत
बाह्लिकाभ्याशतॊ युक्तं कर्णस्यापि महद बलम
अन्यॊन्येन हि सैन्यानि भिन्नान्य एतानि सारथे
अन्यॊन्यं समुपाश्रित्य न तयक्ष्यन्ति रणाजिरम
एतद अन्तरम आसाद्य चॊदयाश्वान परहृष्टवत
मध्यमं जवम आस्थाय वह माम अत्र सारथे
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणॊद्यताः
दाक्षिणात्याश च बहवः सूतपुत्र पुरॊगमाः
हस्त्यश्वरथसंबाधं यच चानीकं विलॊक्यते
नानादेशसमुत्थैश च पदातिभिर अधिष्ठितम
एतावद उक्त्वा यन्तारं बरह्माणं परिवर्जयन
स वयतीयाय यत्रॊग्रं कर्णस्य सुमहद बलम
तं दरॊणॊ ऽनुययौ करुद्धॊ विकिरन विशिखान बहून
युयुधानं महाबाहुं गच्छन्तम अनिवर्तिनम
कर्णस्य सैन्यं सुमहद अभिहत्य शितैः शरैः
पराविशद भारतीं सेनाम अपर्यन्तां स सात्यकिः
परविष्टे युयुधाने तु सैनिकेषु दरुतेषु च
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत
तम आपतन्तं विशिखैः षड्भिर आहत्य सात्यकिः
चतुर्भिश चतुरॊ ऽसयाश्वान आजघानाशु वीर्यवान
ततः पुनः षॊडशभिर नतपर्वभिर आशुगैः
सात्यकिः कृतवर्माणं परत्यविध्यत सतनान्तरे
स तुद्यमानॊ विशिखैर बहुभिस तिग्मतेजनैः
सात्वतेन महाराज कृतवर्मा न चक्षमे
स वत्सदन्तं संधाय जिह्मगानल संनिभम
आकृष्य राजन्न आकर्णाद विव्याधॊरसि सात्यकिम
स तस्य देवावरणं भित्त्वा देहं च सायकः
स पत्रपुङ्खः पृथिवीं विवेश रुधिरॊक्षितः
अथास्य बहुभिर बाणैर अच्छिनत परमास्त्रवित
समार्गण गुणं राजन कृतवर्मा शरासनम
विव्याध च रणे राजन सात्यकिं सत्यविक्रमम
दशभिर विशिखैस तीक्ष्णैर अभिक्रुद्धः सतनान्तरे
ततः परशीर्णे धनुषि शक्त्या शक्तिमतां वरः
अभ्यहन दक्षिणं बाहुं सात्यकिः कृतवर्मणः
ततॊ ऽनयत सुदृढं वीरॊ धनुर आदाय सात्यकिः
वयसृजद विशिखांस तूर्णं शतशॊ ऽथ सहस्रशः
स रथं कृतवर्माणं समन्तात पर्यवाकिरत
छादयित्वा रणे ऽतयर्थं हार्दिक्यं तु स सात्यकिः
अथास्य भल्लेन शिरः सारथेः समकृन्तत
स पपात हतः सूतॊ हार्दिक्यस्य महारथात
ततस ते यन्तरि हते पराद्रवंस तुरगा भृशम
अथ भॊजस तव असंभ्रान्तॊ निगृह्य तुरगान सवयम
तस्थौ शरधनुष्पाणिस तत सैन्यान्य अभ्यपूजयन
स मुहूर्तम इवाश्वस्य सदश्वान समचॊदयत
वयपेतभीर अमित्राणाम आवहत सुमहद भयम
सात्यकिश चाभ्यगात तस्मात स तु भीमम उपाद्रवत
युयुधानॊ ऽपि राजेन्द्र दरॊणानीकाद विनिःसृतः
परययौ तवरितस तूर्णं काम्बॊजानां महाचमूम
स तत्र बहुभिः शूरैः संनिरुद्धॊ महारथैः
न चचाल तदा राजन सात्यकिः सत्यविक्रमः
संधाय च चमूं दरॊणॊ भॊजे भारं निवेश्य च
अन्वधावद रणे यत्तॊ युयुधानं युयुत्सया
तथा तम अनुधावन्तं युयुधानस्य पृष्ठतः
नयवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः
समासाद्य तु हार्दिक्यं रथानां पर्वरं रथम
पाञ्चाला विगतॊत्साहा भीमसेनपुरॊगमाः
विक्रम्य वारिता राजन वीरेण कृतवर्मणा
यतमानांस तु तान सर्वान ईषद विगतचेतसः
अभितस्ताञ शरौघेण कलान्तवाहान अवारयत
निगृहीतास तु भॊजेन भॊजानीकेप्सवॊ रणे
अतिष्ठन्न आर्यवद वीराः परार्थयन्तॊ महद यशः
[धृ]
एवं बहुविधं सैन्यम एवं परविचितं वरम
वयूढम एवं यथान्यायम एवं बहु च संजय
नित्यं पूजितम अस्माभिर अभिकामं च नः सदा
परौढम इत्य अद्भुताकारं पुरस्ताद दृढविक्रमम
नातिवृद्धम अबालं च न कृशं नातिपीवरम
लघुवृत्तायतप्राणं सारगात्रम अनामयम
आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम
आरॊहे पर्यवस्कन्दे सरणे सान्तरप्लुते
सम्यक्प्रहरणे याने वयपयाने च कॊविदम
नागेष्व अश्वेषु बहुशॊ रथेषु च परीक्षितम
परीक्ष्य च यथान्यायं वेतनेनॊपपादितम
न गॊष्ठ्या नॊपचारेण न संबन्ध निमित्ततः
नानाहूतॊ न हय अभृतॊ मम सैन्ये बभूव ह
कुलीनार्य जनॊपेतं तुष्टपुष्टम अनुद्धतम
कृतमानॊपकारम च यशस्वि च मनस्वि च
सचिवैश चापरैर मुख्यैर बहुभिर मुख्यकर्मभिः
लॊकपालॊपमैस तात पालितं नरसत्तमैः
बहुभिः पार्थिवैर गुप्तम अस्मत्प्रियचिकीर्षुभिः
अस्मान अभिसृतैः कामात सबलैः सपदानुगैः
महॊदधिम इवापूर्णम आपगाभिः समन्ततः
अपक्षैः पक्षिसंकाशै रथैर अश्वैश च संवृतम
यॊधाक्षय्य जलं भीमं वाहनॊर्मितरङ्गिणम
कषेपण्यसिगदाशक्तिशरप्रासझषाकुलम
धवजभूषणसंबाधं रत्नपट्टेन संचितम
वाहनैर अपि धावद्भिर वायुवेगविकम्पितम
दरॊण गम्भीरपातालं कृतवर्म महाह्रदम
जलसंध महाग्राहं कर्ण चन्द्रॊदयॊद्धतम
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे
संजयैक रथेनैव युयुधाने च मामकम
तत्र शेषं न पश्यामि परविष्टे सव्यसाचिनि
सात्वते च रथॊदारे मम सैन्यस्य संजय
तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ
सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषु गॊचरे
किं तदा कुरवः कृत्यं विदधुः कालचॊदिताः
दारुणैकायने काले कथं वा परतिपेदिरे
गरस्तान हि कौरवान मन्ये मृत्युना तात संगतान
विक्रमॊ हि रणे तेषां न तथा दृश्यते ऽदय वै
अक्षतौ संयुगे तत्र परविष्टौ कृष्ण पाण्डवौ
न च वारयिता कश चित तयॊर अस्तीह संजय
भृताश च बहवॊ यॊधाः परीक्ष्यैव महारथाः
वेतनेन यथायॊग्यं परियवादेन चापरे
अकारणभृतस तात मम सैन्ये न विद्यते
कर्मणा हय अनुरूपेण लभ्यते भक्त वेतनम
न च यॊधॊ ऽभवत कश चिन मम सैन्ये तु संजय
अल्पदानभृतस तात न कुप्य भृतकॊ नरः
पूजिता हि यथाशक्त्या दानमानासनैर मया
तथा पुत्रैश च मे तात जञातिभिश च स बान्धवैः
ते च पराप्यैव संग्रामे निर्जिताः सव्यसाचिना
शैनेयेन परामृष्टाः किम अन्यद भागधेयतः
रक्ष्यते यश च संग्रामे ये च संजय रक्षिणः
एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः सथितम
पुत्रॊ मम भृशं मूढः किं कार्यं परत्यपद्यत
सात्यकिं च रणे दृष्ट्वा परविशन्तम अभीतवत
किं नु दुर्यॊधनः कृत्यं पराप्तकालम अमन्यत
सर्वशस्त्रातिगौ सेनां परविष्टौ रथसत्तमौ
दृष्ट्वा कां वै धृतिं युद्धे परत्यपद्यन्त मामकाः
दृष्ट्वा कृष्णं तु दाशार्हम अर्जुनार्थे वयवस्थितम
शिनीनाम ऋषभं चैव मन्ये शॊचन्ति पुत्रकाः
दृष्ट्वा सेनां वयतिक्रान्तां सात्वतेनार्जुनेन च
पलायमानांश च कुरून मन्ये शॊचन्ति पुत्रकाः
विद्रुतान रथिनॊ दृष्ट्वा निरुत्साहान दविषज जये
पलायने कृतॊत्साहान मन्ये शॊचन्ति पुत्रकाः
शून्यान कृतान रथॊपस्थान सात्वतेनार्जुनेन च
हतांश च यॊधान संदृश्य मन्ये शॊचन्ति पुत्रकाः
वयश्व नागरथान दृष्ट्वा तत्र वीरान सहस्रशः
धावमानान रणे वयग्रान मन्ये शॊचन्ति पुत्रकाः
विवीरांश च कृतानाश्वान विरथांश च कृतान नरान
तत्र सात्यकिपार्थाभ्यां मन्ये शॊचन्ति पुत्रकाः
पत्तिसंघान रणे दृष्ट्वा धावमानांश च सर्वशः
निराशा विजये सर्वे मन्ये शॊचन्ति पुत्रकाः
दरॊणस्य समतिक्रान्ताव अनीकम अपराजितौ
कषणेन दृष्ट्वा तौ वीरौ मन्ये शॊचन्ति पुत्रकाः
संमूढॊ ऽसमि भृशं तात शरुत्वा कृष्ण धनंजयौ
परविटौ मामकं सैन्यं सात्वतेन सहाच्युतौ
तस्मिन परविष्टे पृतनां शिनीनां परवरे रथे
भॊजानीकं वयतिक्रान्ते कथम आसन हि कौरवाः
तथा दरॊणेन समरे निगृहीतेषु पाण्डुषु
कथं युद्धम अभूत तत्र तन ममाचक्ष्व संजय
दरॊणॊ हि बलवाञ शूरः कृतास्त्रॊ दृढविक्रमः
पाञ्चालास तं महेष्वासं परत्ययुध्यन कथं रणे
बद्धवैरास तथा दरॊणे धर्मराज जयैषिणः
भारद्वाजस तथा तेषु कृतवैरॊ महारथः
अर्जुनश चापि यच चक्रे सिन्धुराजवधं परति
तन मे सर्वं समाचक्ष्व कुशलॊ हय असि संजय
[स]
आत्मापराधात संभूतं वयसनं भरतर्षभ
पराप्य पराकृतवद वीर न तवं शॊचितुम अर्हसि
तव निर्गुणतां जञात्वा पक्षपातं सुतेषु च
दवैधी भावं तथा धर्मे पाण्डवेषु च मत्सरम
आर्तप्रलापांश च बहून मनुजाधिप सत्तम
सर्वलॊकस्य तत्त्वज्ञः सर्वलॊकगुणः परभु
वासुदेवस ततॊ युद्धं कुरूणाम अकरॊन महत
आत्मापराधात सुमहान पराप्तस ते विपुलः कषयः
न हि ते सुकृतं किं चिद आदौ मध्ये च भारत
दृश्यते पृष्ठतश चैव तवन मूकॊ हि पराजयः
तस्माद अद्य सथिरॊ भूत्वा जञात्वा लॊकस्य निर्णयम
शृणु युद्धं यथावृत्तं घॊरं देवासुरॊपमम
परविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे
भीमसेनमुखाः पार्थाः परतीयुर वाहिनीं तव
आगच्छतस तान सहस करुद्ध रूपान सहानुगान
दधारैकॊ रणे पाण्डून कृतवर्मा महारथः
यथॊद्वृत्तं धारयते वेला वै सलिलार्णवम
पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत
तत्राद्भुतम अमन्यन्त हार्दिक्यस्य पराक्रमम
यद एनं सहिताः पार्था नातिचक्रमुर आहवे
ततॊ भीमस तरिभिर विद्ध्वा कृतवर्माणम आयसैः
शङ्खं दध्मौ महाबाहुर हर्षयन सर्वपाण्डवान
सहदेवस तु विंशत्या धर्मराजश च पञ्चभिः
शतेन नकुलश चापि हार्दिक्यं समविध्यत
दरौपदेयास तरिसप्तत्या सप्तभिश च घटॊत्कचः
धृष्टद्युम्नस तरिभिश चापि कृतवर्माणम आर्दयत
विराटॊ दरुपदश चैव याज्ञसेनिश च पञ्चभिः
शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिर आशुगैः
पुनर विव्याध विंशत्या सायकानां हसन्न इव
कृतवर्मा ततॊ राजन सर्वतस तान महारथान
एकैकं पञ्चभिर विद्ध्वा भीमं विव्याध सप्तभिः
धनुर धवजं च संयत्तॊ रथाद भूमाव अपातयत
अथैनं छिन्नधन्वानं तवरमाणॊ महारथः
आजघानॊरसि करुद्धः सप्तत्या निशितैः शरैः
स गाढविद्धॊ बलवान हार्दिक्यस्य शरॊत्तमैः
चचाल रथमध्यस्थः कषितिकम्पे यथाचलः
भीमसेनं तथा दृष्ट्वा धर्मराज पुरॊगमाः
विसृजन्तः शरान घॊरान कृतवर्माणम आर्दयन
तं तथा कॊष्ठकी कृत्यरथवंशेन मारिष
विव्यधुः सायकैर हृष्टा रक्षार्थं मारुतेर मृधे
परतिलभ्य ततः संज्ञां भीमसेनॊ महाबलः
शक्तिं जग्राह समरे हेमदण्डाम अयस्मयीम
चिक्षेप च रथात तूर्णं कृतवर्म रथं परति
सा भीम भुजनिर्मुक्ता निर्मुक्तॊरग संनिभा
कृतवर्माणम अभितः परजज्वाल सुदारुणा
ताम आपतन्तीं सहसा युगान्ताग्निसमप्रभाम
दवाभ्यां शराभ्यां हार्दिक्यॊ निचकर्त दविधा तदा
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा
दयॊतयन्ती दिशॊ राजन महॊल्केव दिवश चयुता
शक्तिं विनिहतां दृष्ट्वा भीमश चुक्रॊध वै भृशम
ततॊ ऽनयद धनुर आदाय वेगवत सुमहास्वनम
भीमसेनॊ रणे करुद्धॊ हार्दिक्यं समवारयत
अथैनं पञ्चभिर बाणैर आजघान सतनान्तरे
भीमॊ भीमबलॊ राजंस तव दुर्मन्त्रितेन ह
भॊजस तु कषतसर्वाङ्गॊ भीमसेनेन मारिष
रक्ताशॊक इवॊत्फुल्लॊ वयभ्राजत रणाजिरे
ततः करुद्धस तरिभिर बाणैर भीमसेनं हसन्न इव
अभिहत्य दृढं युद्धे तान सर्वान परत्यविध्यत
तरिभिस तरिभिर महेष्वासॊ यतमानान महारथान
ते ऽपि तं परत्यविध्यन्त सप्तभिः सप्तभिः शरैः
शिखण्डिनस ततः करुद्धः कषुरप्रेण महारथः
धनुश चिच्छेद समरे परहसन्न इव भारत
शिखण्डी तु ततः करुद्धश छिन्ने धनुषि सत्वरम
असिं जग्राह समरे शतचन्द्रं च भास्वरम
भरमयित्वा महाचर्म चामीकरविभूषितम
तम असिं परेषयाम आस कृतवर्म रथं परति
स तस्य स शरं चापं छित्त्वा संख्ये महान असिः
अभ्यगाद धरणीं राजंश चयुतं जयॊतिर इवाम्बरात
एतस्मिन्न एव काले तु तवरमाणा महारथाः
विव्यधुः सायकैर गाढं कृतवर्माणम आहवे
अथान्यद धनुर आदाय तयक्त्वा तच च महद धनुः
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा
विव्याध पाण्डवान युद्धे तरिभिस तरिभिर अजिह्मगैः
शिखण्डिनं च विव्याध तरिभिः पञ्चभिर एव च
धनुर अन्यत समादाय शिखण्डी तु महायशाः
अवारयत कूर्मनखैर आशुगैर हृदिकात्मजम
ततः करुद्धॊ रणे राजन हृदिकस्यात्म संभवः
अभिदुद्राव वेगेन याज्ञसेनिं महारथम
भीष्मस्य समरे राजन मृत्यॊर हेतुं महात्मनः
विदर्शयन बलं शूरः शार्दूल इव कुञ्जरम
तौ दिशागजसंकाशौ जवलिताव इव पावकौ
समासेदतुर अन्यॊन्यं शरसंघैर अरिंदमौ
विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान
विसृजन्तौ च शतशॊ गभस्तीन इव भास्करौ
तापयन्तौ शरैस तीक्ष्णैर अन्यॊन्यं तौ महारथौ
युगान्तप्रतिमौ वीरौ रेजतुर भास्कराव इव
कृतवर्मा तु रभसं याज्ञसेनिं महारथम
विद्ध्वेषूणां तरिसप्तत्या पुनर विव्याध सप्तभिः
स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत
विसृजन सशरं चापं मूर्छयाभिपरिप्लुतः
तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ
हार्दिक्यं पूजयाम आसुर वासांस्य आदुधुवुश च ह
शिखण्डिनं तथा जञात्वा हार्दिक्य शरपीडितम
अपॊवाह रणाद यन्ता तवरमाणॊ महारथम
सादितं तु रथॊपस्थे दृष्ट्वा पार्थाः शिखण्डिनम
परिवव्रू रथैस तूर्णं कृतवर्माणम आहवे
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः
यद एकः समरे पार्थान वारयाम आस सानुगान
पार्थाञ जित्वाजयच चेदीन पाञ्चालान सृञ्जयान अपि
केकयांश च महावीर्यान कृतवर्मा महारथः
ते वध्यमानाः समरे हार्दिक्येन सम पाण्डवाः
इतश चेतश च धावन्तॊ नैव चक्रुर धृतिं रणे
जित्वा पाण्डुसुतान युद्धे भीमसेनपुरॊगमान
हार्दिक्यः समरे ऽतिष्ठद विधूम इव पावकः
ते दराव्यमाणाः समरे हार्दिक्येन महारथाः
विमुखाः समपद्यन्त शरवृष्टिभिर अर्दिताः
[स]
शृणुष्वैक मना राजन यन मां तवं परिपृच्छसि
दराव्यमाणे बले तस्मिन हार्दिक्येन महात्मना
लज्जयावनते चापि परहृष्टौश चैव तावकः
दवीपॊ य आसीत पाण्डूनाम अगाधे गाधम इच्छताम
शरुत्वा तु निनदं भीमं तावकानां महाहवे
शैनेयस तवरितॊ राजन कृतवर्माणम अभ्ययात
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः
अवाकिरत सुसंक्रुद्धस ततॊ ऽकरुध्यत सात्यकिः
ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे
परेषयाम आस समरे शरांश च चतुरॊ ऽपरान
ते तस्य जघ्निरे वाहान भल्लेनास्याछिनद धनुः
पृष्ठरक्षं तथा सूतम अविध्यन निशितैः शरैः
ततस तं विरथं कृत्वा सात्यकिः सत्यविक्रमः
सेनाम अस्यार्दयाम आस शरैः संनतपर्वभिः
साभज्यताथ पृतना शैनेय शरपीडिता
ततः परायाद वै तवरितः सात्यकिः सत्यविक्रमः
शृणु राजन यद अकरॊत तव सैन्येषु वीर्यवान
अतीत्य स महाराज दरॊणानीक महार्णवम
पराजित्य च संहृष्टः कृतवर्माणम आहवे
यन्तारम अब्रवीच छूरः शनैर याहीत्य असंभ्रमम
दृष्ट्वा तु तव तत सैन्यं रथाश्वद्विपसंकुलम
पदातिजनसंपूर्णम अब्रवीत सारथिं पुनः
यद एतन मेघसंकाशं दरॊणानीकस्य सव्यतः
सुमहत कुञ्जरानीकं यस्य रुक्मरथॊ मुखम
एते हि बहवः सूत दुर्निवार्याश च संयुगे
दुर्यॊधन समादिष्टा मदर्थे तयक्तजीविताः
राजपुत्रा महेष्वासाः सर्वे विक्रान्तयॊधिनः
तरिगर्तानां रथॊदाराः सुवर्णविकृतध्वजाः
माम एवाभिमुखा वीरा यॊत्स्यमाना वयवस्थिताः
अत्र मां परापय कषिप्रम अश्वांश चॊदय सारथे
तरिगर्तैः सह यॊत्स्यामि भारद्वाजस्य पश्यतः
ततः परायाच छनैः सूतः सात्वतस्य मते सथितः
रथेनादित्यवर्णेन भास्वरेण पताकिना
तम ऊहुः सारथेर वश्या वल्गमाना हयॊत्तमाः
वायुवेगसमाः संख्ये कुन्देन्दु रजतप्रभाः
आपतन्तं रथं तं तु शङ्खवर्णैर हयॊत्तमैः
परिवव्रुस ततः शूरा गजानीकेन सर्वतः
किरन्तॊ विविधांस तीक्ष्णान सायकाँल लघुवेधिनः
सात्वतॊ ऽपि शितैर बाणैर गजानीकम अयॊधयत
पर्वतान इव वर्षेण तपान्ते जलदॊ महान
वज्राशनिसमस्पर्शैर वध्यमानाः शरैर गजाः
पराद्रवन रणम उत्सृज्य शिनिवीर्यसमीरितैः
शीर्णदन्ता विरुधिरा भिन्न मस्तकपिण्डकाः
विशीर्णकर्णास्य करा विनियन्तृपताकिनः
संभिन्नवर्म घण्टाश च संनिकृत्त महाध्वजाः
हतारॊहा दिशॊ राजन भेजिरे भरष्टकम्बलाः
रुवन्तॊ विविधान रावाञ जलदॊपम निस्वनाः
नाराचैर वत्सदन्तैश च सात्वतेन विदारिताः
तस्मिन दरुते गजानीके जलसंधॊ महारथः
यत्तः संप्रापयन नागं रजताश्वरथं परति
रुक्मवर्म करः शूरस तपनीयाङ्गदः शुचिः
कुण्डली मुकुटी शङ्खी रक्तचन्दन रूषितः
शिरसा धारयन दीप्तां तपनीयमयीं सरजम
उरसा धारयन निष्कं कण्ठसूत्रं च भास्वरम
चापं च रुक्मविकृतं विधुन्वन गजमूर्धनि
अशॊभत महाराज स विद्युद इव तॊयदः
तम आपतन्तं सहसा मागधस्य गजॊत्तमम
सात्यकिर वारयाम आस वेलेवॊद्वृत्तम अर्णवम
नागं निवारितं दृष्ट्वा शैनेयस्य शरॊत्तमैः
अक्रुध्यत रणे राजञ जलसंधॊ महाबलः
ततः करुद्धॊ महेष्वासॊ मार्गणैर भारसाधनैः
अविध्यत शिनेः पौत्रं जलसंधॊ महॊरसि
ततॊ ऽपरेण भल्लेन पीतेन निशितेन च
अस्यतॊ वृष्णिवीरस्य निचकर्त शरासनम
सात्यकिं छिन्नधन्वानं परहसन्न इव भारत
अविध्यन मागधॊ वीरः पञ्चभिर निशितैः शरैः
स विद्धॊ बहुभिर बाणैर जलसंधेन वीर्यवान
नाकम्पत महाबाहुस तद अद्भुतम इवाभवत
अचिन्तयन वै स शरान नात्यर्थं संभ्रमाद बली
धनुर अन्यत समादाय तिष्ठ तिष्ठेत्य उवाच ह
एतावद उक्त्वा शैनेयॊ जलसंधं महॊरसि
विव्याध षष्ट्या सुभृशं शराणां परहसन्न इव
कषुरप्रेण च पीतेन मुष्टिदेशे महद धनुः
जलसंधस्य चिच्छेद विव्याध च तरिभिः शरैः
जलसंधस तु तत तयक्त्वा स शरं वै शरासनम
तॊमरं वयसृजत तूर्णं सात्यकिं परति मारिष
स निर्भिद्य भुजं सव्यं माधवस्य महारणे
अभ्यगाद धरणीं घॊरः शवसन्न इव महॊरगः
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः
तरिंशद्भिर विशिखैस तीक्ष्णैर जलसंधम अताडयत
परगृह्य तु ततः खड्गं जलसंधॊ महाबलः
आर्षभं चर्म च महच छतचन्द्रम अलंकृतम
तत आविध्य तं खड्गं सात्वतायॊत्ससर्ज ह
शैनेयस्य धनुश छित्त्वा स खड्गॊ नयपतन महीम
अलातचक्रवच चैव वयरॊचत महिं गतः
अथान्यद धनुर आदाय सर्वकायावदारणम
शालस्कन्धप्रतीकाशम इन्द्राशनिसमस्वनम
विस्फार्य विव्यधे करुद्धॊ जलसंधं शरेण ह
ततः साभरणॊ बाहू कषुराभ्यां माधवॊत्तमः
साङ्गदौ जलसंधस्य चिच्छेद परहसन्न इव
तौ बाहू परिघप्रख्यौ पेततुर गजसत्तमात
वसुंधर धराद भरष्टौ पञ्चशीर्षाव इवॊरगौ
ततः सुदंष्ट्रं सुहनु चारुकुण्डलम उन्नसम
कषुरेणास्य तृतीयेन शिरश चिच्छेद सात्यकिः
तत पातित शिरॊ बाहुकबन्धं भीमदर्शनम
दविरदं जलसंधस्य रुधिरेणाभ्यषिञ्चत
जलसंधं निहत्याजौ तवरमाणस तु सात्वतः
नैषादिं पातयाम आस गजस्कन्धाद विशां पते
रुधिरेणावसिक्ताङ्गॊ जलसंधस्य कुञ्जरः
विलम्बमानम अवहत संश्लिष्टं परम आसनम
शरार्दितः सात्वतेन मर्दमानः सववाहिनीम
घॊरम आर्तस्वरं कृत्वा विदुद्राव महागजः
हाहाकारॊ महान आसीत तव सैन्यस्य मारिष
जलसंधं हतं दृष्ट्वा वृष्णीनाम ऋषभेण ह
विमुखाश चाभ्यधावन्त तव यॊधाः समन्ततः
पलायने कृतॊत्साहा निरुत्साहा दविषज जये
एतस्मिन्न अन्तरे राजन दरॊणः शस्त्रभृतां वरः
अभ्ययाज जवनैर अश्वैर युयुधानं महारथम
तम उदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुंगवाः
दरॊणेनैव सह करुद्धाः सात्यकिं पर्यवारयन
ततः परववृते युद्धं कुरूणां सात्वतस्य च
दरॊणस्य च रणे राजन घॊरं देवासुरॊपमम
[स]
ते किरन्तः शरव्रातान सर्वे यत्ताः परहारिणः
तवरमाणा महाराज युयुधानम अयॊधयन
तं दरॊणः सप्त सप्तत्या जघान निशितैः शरैः
दुर्मर्षणॊ दवादशभिर दुःसहॊ दशभिः शरैः
विकर्णश चापि निशितैस तरिंशद्भिः कङ्कपत्रिभिः
विव्याध सव्ये पार्श्वे तु सतनाभ्याम अन्तरे तथा
दुर्मुखॊ दशभिर बाणैस तथा दुःशासनॊ ऽषटभिः
चित्रसेनश च शैनेयं दवाभ्यां विव्याध मारिष
दुर्यॊधनश च महता शरवर्षेण माधवम
अपीडयद रणे राजञ शूराश चान्ये महारथाः
सर्वतः परतिविद्धस तु तव पुत्रैर महारथैः
तान परत्यविध्यच छैनेयः पृथक्पृथग अजिह्मगैः
भारद्वाजं तरिभिर बाणैर दुःसहं नवभिस तथा
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः
दुर्मर्षणं दवादशभिश चतुर्भिश च विविंशतिम
सत्यव्रतं च नवभिर विजयं दशभिः शरैः
ततॊ रुक्माङ्गदं चापं विधुन्वानॊ महारथः
अभ्ययात सात्यकिस तूर्णं पुत्रं तव महारथम
राजानं सर्वलॊकस्य सर्वशस्त्रभृतां वरम
शरैर अभ्याहनद गाढं ततॊ युद्धम अभूत तयॊः
विमुञ्चन्तौ शरांस तीक्ष्णान संदधानौ च सायकान
अदृश्यं समरे ऽनयॊन्यं चक्रतुस तौ महारथौ
सात्यकिः कुरुराजेन निर्विद्धॊ बह्व अशॊभत
अस्रवद रुधिरं भूरि सवरसं चन्दनॊ यथा
सात्वतेन च बाणौघैर निर्विद्धस तनयस तव
शातकुम्भमयापीडॊ बभौ यूप इवॊच्छ्रितः
माधवस तु रणे राजन कुरुराजस्य धन्विनः
धनुश चिच्छेद सहसा कषुरप्रेण हसन्न इव
अथैनं छिन्नधन्वानं शरैर बहुभिर आचिनॊत
निर्भिन्नश च शरैस तेन दविषता कषिप्रकारिणा
नामृष्यत रणे राजा शत्रॊर विजयलक्षणम
अथान्यद धनुर आदाय हेमपृष्ठं दुरासदम
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह
सॊ ऽतिविद्धॊ बलवता पुत्रेण तव धन्विना
अमर्षवशम आपन्नस तव पुत्रम अपीडयत
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः
सात्वतं शरवर्षेण छादयाम आसुर अञ्जसा
स छाद्यमानॊ बहुभिस तव पुत्रैर महारथैः
एकैकं पञ्चभिर विद्ध्वा पुनर विव्याध सप्तभिः
दुर्यॊधनं च तवरितॊ विव्याधाष्टभिर आशुगैः
परहसंश चास्य चिच्छेद कार्मुकं रिपुम ईषणम
नागं मणिमयं चैव शरैर धवजम अपातयत
हत्वा तु चतुरॊ वाहांश चतुर्भिर निशितैः शरैः
सारथिं पातयाम आस कषुरप्रेण महायशाः
एतस्मिन्न अन्तरे चैव कुरुराजं महारथम
अवाकिरच छरैर हृष्टॊ बहुभिर मर्मभेदिभिः
स वध्यमानः समरे शैनेयस्य शरॊत्तमैः
पराद्रवत सहसा राजन पुत्रॊ दुर्यॊधनस तव
आप्लुतश च ततॊ यानं चित्रसेनस्य धन्विनः
हाहाभूतं जगच चासीद दृष्ट्वा राजानम आहवे
गरस्यमानं सात्यकिना खे सॊमम इव राहुणा
तं तु शब्दं महच छरुत्वा कृतवर्मा महारथः
अभ्ययात सहसा तत्र यत्रास्ते माधवः परभुः
विधुन्वानॊ धनुःश्रेष्ठं चॊदयंश चैव वाजिनः
भर्त्सयन सारथिं चॊग्रं याहि याहीति स तवरः
तम आपतन्तं संप्रेक्ष्य वयादितास्यम इवान्तकम
युयुधानॊ महाराज यन्तारम इदम अब्रवीत
कृतवर्मा रथेनैष दरुतम आपतते शरी
परत्युद्याहि रथेनैनं परवरं सर्वधन्विनाम
ततः परजविताश्वेन विधिवत कल्पितेन च
आससाद रणे भॊजं परतिमानं धनुष्मताम
ततः परमसंक्रुद्धौ जवलन्ताव इव पावकौ
समेयातां नरव्याघ्रौ वयाघ्राव इव तरस्विनौ
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत
निशितैः सायकैस तीक्ष्णैर यन्तारं चास्य सप्तभिः
चतुरश च हयॊदारांश चतुर्भिः परमेषुभिः
अविध्यत साधु दान्तान वै सैन्धवान सात्वतस्य ह
रुक्मध्वजॊ रुक्मपृष्ठं महद विस्फार्य कार्मुकम
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खान अवाकिरत
ततॊ ऽशीतिं शिनेः पौत्रः सायकान कृतवर्मणे
पराहिणॊत तवरया युक्तॊ दरष्टुकामॊ धनंजयम
सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुतापनः
समकम्पत दुर्धर्षः कषितिकम्पे यथाचलः
तरिषष्ट्या चतुरॊ ऽसयाश्वान सप्तभिः सारथिं शरैः
विव्याध निशितैस तूर्णं सात्यकिः कृतवर्मणः
सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः
वयसृजत तं महाज्वालं संक्रुद्धम इव पन्नगम
सॊ ऽविशत कृतवर्माणं यमदण्डॊपमः शरः
जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत
अभ्यगाद धरणीम उग्रॊ रुधिरेण समुक्षितः
संजातरुधिरश चाजौ सात्वतेषुभिर अर्दितः
परचलन धनुर उत्सृज्य नयपतत सयन्दनॊत्तमे
स सिंहदंष्ट्रॊ जानुभ्याम आपन्नॊ ऽमितविक्रमः
शरार्दितः सात्यकिना रथॊपस्थे नरर्षभः
सहस्रबाहॊः सदृशम अक्षॊभ्यम इव सागरम
निवार्य कृतवर्माणं सात्यकिः परययौ ततः
खड्गशक्ति धनुः कीर्णां जगाश्वरथसंकुलाम
परवर्तितॊग्र रुधिरां शतशः कषत्रियर्षभैः
परेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः
अभ्यगाद वाहिनीं भित्त्वा गृह्य चान्यान महद धनुः
समाश्वास्य च हार्दिक्यॊ गृह्य चान्यन महद धनुः
तस्थौ तत्रैव बलवान वारयन युधि पाण्डवान
[स]
काल्यमानेषु सैन्येषु शैनेयेन ततस ततः
भारद्वाजः शरव्रातैर महद्भिः समवाकिरत
स संप्रहारस तुमुलॊ दरॊण सात्वतयॊर अभूत
पश्यतां सर्वसैन्यानां बलिवास वयॊर इव
ततॊ दरॊणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः
तरिभिर आशीविषाकारैर ललाटे समविध्यत
तैर ललाटार्पितैर बाणैर युयुधानस तव अजिह्मगैः
वयरॊचत महाराज तरिशृङ्ग इव पर्वतः
ततॊ ऽसय बाणान अपरान इन्द्राशनिसमस्वनान
भारद्वाजॊ ऽनतरप्रेक्षी परेषयाम आस संयुगे
तान दरॊण चापनिर्मुक्तान दाशार्हः पततः शरान
दवाभ्यां दवाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित
ताम अस्य लघुतां दरॊणः समवेक्ष्य विशां पते
परहस्य सहसाविध्यद विंशत्या शिनिपुंगवम
पुनः पञ्चाशतेषूणां शतेन च समार्पयत
लघुतां युयुधानस्य लाघवेन विशेषयन
समुत्पतन्ति वल्मीकाद यथा करुद्धा महॊरगाः
तथा दरॊण रथाद राजन्न उत्पतन्ति तनुच छिदः
तथैव युयुधानेन सृष्टाः शतसहस्रशः
अवाकिरन दरॊण रथं शरा रुधिरभॊजनाः
लाघवाद दविजमुख्यस्य सात्वतस्य च मारिष
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ
सात्यकिस तु ततॊ दरॊणं नवभिर नतपर्वभिः
आजघान भृशं करुद्धॊ धवजं च निशितैः शरैः
सारथिं च शतेनैव भारद्वाजस्य पश्यतः
लाघवं युयुधानस्य दृष्ट्वा दरॊणॊ महारथ
सप्तत्या सात्यकिं विद्ध्वा तुरगांश च तरिभिस तरिभिः
धवजम एकेन विव्याध माधवस्य रथे सथितम
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा
धनुश चिच्छेद समरे माधवस्य महात्मनः
सात्यकिस तु ततः करुद्धॊ धनुस तयक्त्वा महारथः
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत
ताम आपतन्तीं सहसा पट्टबद्धाम अयस्मयीम
नयवारयच छरैर दरॊणॊ बहुभिर बहुरूपिभिः
अथान्यद धनुर आदाय सात्यकिः सत्यविक्रमः
विव्याध बहुभिर वीरं भारद्वाजं शिलाशितैः
स विद्ध्वा समरे दरॊणं सिंहनादम अमुञ्चत
तं वै न ममृषे दरॊणः सर्वशस्त्रभृतां वरः
तथः शक्तिं गृहीत्वा तु रुक्मदण्डाम अयस्मयीम
तरसा परेषयाम आस माधवस्य रथं परति
अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा
भित्त्वा रथं जगामॊग्रा धरणीं दारुणस्वना
ततॊ दरॊणं शिनेः पौत्रॊ राजन विव्याध पत्रिणा
दक्षिणं भुजम आसाद्य पीडयन भरतर्षभ
दरॊणॊ ऽपि समरे राजन माधवस्य महद धनुः
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम
मुमॊह सरथिस तस्य रथशक्त्या समाहतः
स रथॊपस्थम आसाद्य मुहूर्तं संन्यषीदत
चकार सात्यकी राजंस तत्र कर्मातिमानुषम
अयॊधयच च यद दरॊणं रश्मीञ जग्राह च सवयम
ततः शरशतेनैव युयुधानॊ महारथः
अविध्यद बराह्मणं संख्ये हृष्टरूपॊ विशां पते
तस्य दरॊणः शरान पञ्च परेषयाम आस भारत
ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे
निर्विद्धस तु शरैर घॊरैर अक्रुध्यत सात्यकिर भृशम
सायकान वयसृजच चापि वीरॊ रुक्मरथं परति
ततॊ दरॊणस्य यन्तारं निपात्यैकेषुणा भुवि
अश्वान वयद्रावयद बाणैर हतसूतान महात्मनः
स रथः परद्रुतः संख्ये मण्डलानि सहस्रशः
चकार राजतॊ राजन भराजमान इवांशुमान
अभिद्रवत गृह्णीत हयान दरॊणस्य धावत
इति सम चुक्रुशुः सर्वे राजपुत्राः सराजकाः
ते सात्यकिम अपास्याशु राजन युधि महारथाः
यतॊ दरॊणस ततः सर्वे सहसा समुपाद्रवन
तान दृष्ट्वा परद्रुतान सर्वान सात्वतेन शरार्दितान
परभग्नं पुनर एवासीत तव सैन्यं समाकुलम
वयूहस्यैव पुनर दवारं गत्वा दरॊणॊ वयवस्थितः
वातायमानैस तैर अश्वैर हृतॊ वृष्णिशरार्दितैः
पाण्डुपाञ्चाल संभग्नं वयूहम आलॊक्य वीर्यवान
शैनेये नाकरॊद यत्नं वयूहस्यैवाभिरक्षणे
निवार्य पाण्डुपाञ्चालान दरॊणाग्निः परदहन्न इव
तस्थौ करॊधाग्निसंदीप्तः कालसूर्य इवॊदितः
[स]
दरॊणं स जित्वा पुरुषप्रवीरस; तथैव हार्दिक्य मुखांस तवदीयान
परहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुंगवाग्र्य
निमित्तमात्रं वयम अत्र सूत; दग्धारयः केशव फल्गुनाभ्याम
हतान निहन्मेह नरर्षभेण; वयं सुरेशात्म समुद्भवेन
तम एवम उक्त्वा शिनिपुंगवस तदा; महामृधे सॊ ऽगर्यधनुर्धरॊ ऽरिहा
किरन समन्तात सहसा शरान बली; समापतच छयेन इवामिषं यथा
तं यान्तम अश्वैः शशशङ्खवर्णैर; विगाह्य सैन्यं पुरुषप्रवीरम
नाशक्नुवन वारयितुं समन्ताद; आदित्यरश्मि पर्तिमं नराग्र्यम
असह्य विक्रान्तम अदीत सत्त्वं; सर्वे गणा भारत दुर्विषह्यम
सहस्रनेत्र परतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये
अमर्षपूर्णस तव अतिचित्र यॊधी; शरासनी काञ्चनवर्म धारी
सुदर्शनः सात्यकिम आपतन्तं; नयवारयद राजवरः परसह्य
तयॊर अभूद भरत संप्रहारः; सुदारुणस तं समभिप्रशंसन
यॊधास तवदीयाश च हि सॊमकाश च; वृत्रेन्द्रयॊर युद्धम इवामरौघाः
शरैः सुतीक्ष्णैः शतशॊ ऽभयविध्यत; सुदर्शनः सात्वत मुख्यम आजौ
अनागतान एव तु तान पृषत्कांश; चिच्छेद बाणैः शिनिपुंगवॊ ऽपि
तथैव शक्र परतिमॊ ऽपि सात्यकिः; सुदर्शने यान कषिपति सम सायकान
दविधा तरिधा तान अकरॊत सुदर्शनः; शरॊत्तमैः सयन्दनवर्यम आस्थितः
संप्रेक्ष्य बाणान निहतांस तदानीं; सुदर्शनः सात्यकिबाणवेगैः
करॊधाद दिधक्षन्न इव तिग्मतेजाः; शरान अमुञ्चत तपनीयचित्रान
पुनः स बाणैस तरिभिर अग्निकल्पैर; आकर्णपूर्णैर निशितैः सुपुङ्खैः
विव्याध देहावरणं विभिद्य; ते सात्यकेर आविविशुः शरीरम
तथैव तस्यावनि पाल पुत्रः; संधाय बाणैर अपरैर जवलद्भिः
आजघ्निवांस तान रजतप्रकाशांश; चतुर्भिर अश्वांश चतुरः परसह्य
तथा तु तेनाभिहतस तरस्वी; नप्ता शिनेर इन्द्रसमानवीर्यः
सुदर्शनस्येषु गणैः सुतीक्ष्णैर; हयान निहत्याशु ननाद नादम
अथास्य सूतस्य शिरॊ निकृत्य; भल्लेन वज्राशनिसंनिभेन
सुदर्शनस्यापि शिनिप्रवीरः; कषुरेण चिच्छेद शिरः परसह्य
सकुण्डलं पूर्णशशिप्रकाशं; भराजिष्णु वक्त्रं निचकर्त देहात
यथा पुरा वज्रधरः परसह्य; बलस्य संख्ये ऽतिबलस्य राजन
निहत्य तं पार्थिव पुत्रपौत्रं; रणे यदूनाम ऋषभस तरस्वी
मुदा समेतः परया महात्मा; रराज राजन सुरराजकल्पः
ततॊ ययाव अर्जुनम एव येन; निवार्य सैन्यं तव मार्गणौघैः
सदश्वयुक्तेन रथेन निर्याल; लॊकान विसिस्मापयिषुर नृवीरः
तत तस्य विस्मापयनीयम अग्र्यम; अपूजयन यॊधवराः समेताः
यद वर्तमानान इषुगॊचरे ऽरीन; ददाह बाणैर हुतभुग यथैव
[स]
ततः स सात्यकिर धीमान महात्मा वृष्णिपुंगवः
सुदर्शनं निहत्याजौ यन्तारम इदम अब्रवीत
रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम
खड्गमत्स्यं गदा गराहं शूरायुध महास्वनम
पराणापहारिणं रौद्रं वादित्रॊत्क्रुष्ट नादितम
यॊधानाम असुखस्पर्शं दुर्धर्षम अजयैषिणाम
तीर्णाः सम दुस्तरं तात दरॊणानीक महार्णवम
जलसंध बलेनाजौ पुरुषादैर इवावृतम
अतॊ ऽनयं पृतना शेषं मन्ये कुनदिकाम इव
तर्तव्याम अल्पसलिलां चेदयाश्वान असंभ्रमम
हस्तप्राप्तम अहं मन्ये सांप्रतं सव्यसाचिनम
निर्जित्य दुर्धरं दरॊणं सपदानुगम आहवे
हार्दिक्यं यॊधवर्यं च पराप्तं मन्ये धनंजयम
न हि मे जायते तरासॊ दृष्ट्वा सैन्यान्य अनेकशः
वह्नेर इव परदीप्तस्य गरीष्मे शुष्कं तृणॊलपम
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना
पत्त्यश्वरथनागौघैः पतितैर विषमीकृताम
अभ्याशस्थम अहं मन्ये शवेताश्वं कृष्णसारथिम
स एष शरूयते शब्दॊ गाण्डीवस्यामितौजसः
यादृशानि निमित्तानि मम परादुर्भवन्ति वै
अनस्तं गत आदित्ये हन्ता सैन्धवम अर्जुनः
शनैर विश्रम्भयन्न अश्वान याहि यत्तॊ ऽरिवाहिनीम
यत्रैते सतनुत्राणाः सुयॊधनपुरॊगमाः
दंशिताः करूरकर्माणः काम्बॊजा युद्धदुर्मदाः
शरबाणासन धरा यवनाश च परहारिणः
शकाः किराता दरदा बर्बरास ताम्रलिप्तकाः
अन्ये च बहवॊ मलेच्छा विविधायुधपाणयः
माम एवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः
एतान सरथनागाश्वान निहत्याजौ स पत्तिनः
इदं दुर्गं महाघॊरं तीर्णम एवॊपधारय
[स]
न संभ्रमॊ मे वार्ष्णेय विद्यते सत्यविक्रम
यद्य अपि सयात सुसंक्रुद्धॊ जामदग्न्यॊ ऽगरतः सथितः
दरॊणॊ वा रथिनां शरेष्ठः कृपॊ मद्रेश्वरॊ ऽपि वा
तथापि संभ्रमॊ न सयात तवाम आश्रित्य महाभुज
तवया सुहववॊ युद्धे निर्जिताः शत्रुसूदन
न च मे संभ्रमः कश चिद भूतपूर्वः कदा चन
किम उ चैतत समासाद्य वीर संयुगगॊष्पदम
आयुस्मन कतरेण तवा परापयामि धनंजयम
केषां करुद्धॊ ऽसि वार्ष्णेय केषां मृत्युर उपस्थितः
केषं संयमनीम अद्य गन्तुम उत्सहते मनः
के तवां युधि पराक्रान्तं कालान्तकयमॊपमम
दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे
केषां वैवस्वतॊ राजा समरते ऽदय महाभुज
[स]
मुण्डान एतान हनिष्यामि दानवान इव वासवः
परतिज्ञां पारयिष्यामि काम्बॊजान एव मा वह
अद्यैषां कदनं कृत्वा कषिप्रं यास्यामि पाण्डवम
अद्य दरक्ष्यन्ति मे वीर्यं कौरवाः स सुयॊधनाः
मुण्डानीके हते सूत सर्वसैन्येषु चासकृत
अद्य कौरव सैन्यस्य दीर्यमाणस्य संयुगे
शरुत्वा विरावं बहुधा संतप्स्यति सुयॊधनः
अद्य पाण्डवमुख्यस्य शवेताश्वस्य महात्मनः
आचार्यक कृतं मार्गं दर्शयिष्यामि संयुगे
अद्य मद्बाणनिहतान यॊधमुख्यान सहस्रशः
दृष्ट्वा दुर्यॊधनॊ राजा पश्चात तापं गमिष्यति
अद्य मे कषिप्रहस्तस्य कषिपतः सायकॊत्तमान
अलातचक्रप्रतिमं धनुर दरक्ष्यन्ति कौरवाः
मत्सायकचिताङ्गानां रुधिरं सरवतां बहु
सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयॊधनः
अद्य मे करुद्ध रूपस्य निघ्नतश च वरान वरान
दविर अर्जुनम इमं लॊकं मंस्यते स सुयॊधनः
अद्य राजसहस्राणि निहतानि मया रणे
दृष्ट्वा दुर्यॊधनॊ राजा संतप्स्यति महामृधे
अद्य सनेहं च भक्तिं च पाण्डवेषु महात्मसु
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु
[स]
एवम उक्तस तदा सूतः शिक्षितान साधु वाहिनः
शशाङ्कसंनिकाशान वै वाजिनॊ ऽचूचुदद भृशम
ते पिबन्त इवाकाशं युयुधानं हयॊत्तमाः
परापयन यवनाञ शीघ्रं मनः पवनरंहसः
सात्यकिं ते समासाद्य पृतनास्व अनिवर्तिनम
बहवॊ लघुहस्ताश च शरवर्षैर अवाकिरन
तेषाम इषून अथास्त्राणि वेगवन नतपर्वभिः
अच्छिनत सात्यकी राजन नैनं ते पराप्नुवञ शराः
रुक्मपुङ्खैः सुनिशितैर गार्ध्रपत्रैर अजिह्मगैः
उच्चकर्त शिरांस्य उग्रॊ यवनानां भुजान अपि
शैक्यायसानि वर्माणि कांस्यानि च समन्ततः
भित्त्वा देहांस तथा तेषां शरा जग्मुर महीतलम
ते हन्यमाना वीरेण मलेच्छाः सात्यकिना रणे
शतशॊ नयपतंस तत्र वयसवॊ वसुधातले
सुपूर्णायत मुक्तैस तान अव्यवच्छिन्न पिण्डितैः
पञ्चषट सप्त चाष्टौ च बिभेद यवनाञ शरैः
काम्बॊजानां सहस्रैस तु शकानां च विशां पते
शबराणां किरातानां बर्बराणां तथैव च
अगम्यरूपां पृथिवीं मांसशॊणितकर्दमाम
कृतवांस तत्र शैनेयः कषपयंस तावकं बलम
दस्यूनां स शिरस तराणैः शिरॊभिर लूनमूर्धजैः
तत्र तत्र मही कीर्णा विबर्हैर अण्डजैर इव
रुधिरॊक्षितसर्वाङ्गैस तैस तद आयॊधनं बभौ
कबन्हैः संवृतं सर्वं ताम्राभ्रैः खम इवावृतम
वज्राशनिसमस्पर्शैः सुपर्वभिर अजिह्मगैः
ते साश्वयाना निहताः समावव्रुर वसुंधराम
अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः
जिताः संख्ये महाराज युयुधानेन दंशिताः
पार्ष्णिभिश च कशाभिश च ताडयन्तस तुरंगमान
जवम उत्तमम आस्थाय सर्वतः पराद्रवन भयात
काम्बॊजसैन्यं विद्राव्य दुर्जयं युधि भारत
यवनानां च तत सैन्यं शकानां च महद बलम
स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः
परहृष्टस तावकाञ जित्वा सूतं याहीत्य अचॊदयत
तं यान्तं पृष्ठगॊप्तारम अर्जुनस्य विशां पते
चारणाः परेक्ष्य संहृष्टास तवदीयाश चाप्य अपूजयन
[स]
जित्वा यवनकाम्बॊजान युयुधानस ततॊ ऽरजुनम
जगाम तव सैन्यस्य मध्येन रथिनां वरः
शरदंष्ट्रॊ नरव्याघ्रॊ विचित्रकवचच्छविः
मृगान वयाघ्रजिवाजिघ्रंस तव सैन्यम अभीषयत
स रथेन चरन मार्गान धनुर अभ्रामयद भृशम
रुक्मपृष्ठं महावेगं रुक्मचन्द्रक संकुलम
रुक्माङ्गद शिरस तराणॊ रुक्मवर्म समावृतः
रुक्मध्वजवरः शूरॊ मेरुशृङ्ग इवाबभौ
स दनुर मण्डलः संख्ये तेजॊ भास्वररश्मिवान
शरदीवॊदितः सूर्यॊ नृसूर्यॊ विरराज ह
वृषभस्कन्धविक्रान्तॊ वृषभाक्षॊ नरर्षभः
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः
मत्तद्विरदसंकाशं मत्तद्विरदगामिनम
परभिन्नम इव मातङ्गं यूथमध्ये वयवस्थितम
वयाघ्रा इव जिघांसन्तस तवदीयाभ्यद्रवद रणे
दरॊणानीकम अतिक्रान्तं भॊजानीकं च दुस्तरम
जलसंधार्णवं तीर्त्वा काम्बॊजानां च वाहिनीम
हार्दिक्य मकरान मुक्तं तीर्णं वै सैन्यसागरम
परिवव्रुः सुसंक्रुद्धास तवदीयाः सात्यकिं रथाः
दुर्यॊधनश चित्रसेनॊ दुःशासनविविंशती
शकुनिर दुःसहश चैव युवा दुर्मर्षणः करथः
अन्ये च बहवः शूराः शस्त्रवन्तॊ दुरासदाः
पृष्ठतः सात्यकिं यान्तम अन्वधावन्न अमर्षिताः
अथ शब्दॊ महान आसीत तव सैन्यस्य मारिष
मारुतॊद्धूत वेगस्य सागरस्येव पर्वणि
तान अभिद्रवतः सर्वान समीक्ष्य शिनिपुंगवः
शनैर याहीति यन्तारम अब्रवीत परहसन्न इव
इदम एति समुद्धूतं धार्तराष्ट्रस्य यद बलम
माम एवाभिमुखं तूर्णं गजाश्वरथपत्तिमत
नादयन वै दिशः सर्वा रथघॊषेण सारथे
पृथिवीं चान्तरिक्षं च कम्पयन सागरान अपि
एतद बलार्णवं तात वारयिष्ये महारणे
पौर्णमास्याम इवॊद्धूतं वेलेव सलिलाशयम
पश्य मे सूत विक्रान्तम इन्द्रस्येव महामृधे
एष सैन्यानि शत्रूणां विधमानि शितैः शरैः
निहतान आहवे पश्य पदात्यश्वरथद्विपान
मच्छरैर अग्निसंकाशैर विदेहासून सहस्रशः
इत्य एवं बरुवतस तस्य सात्यकेर अमितौजसः
समीपं सैनिकास ते तु शीघ्रम ईयुर युयुत्सवः
जह्य आद्रवस्व तिष्ठेति पश्य पश्येति वादिनः
तान एवं बरुवतॊ वीरान सात्यकिर निशितैः शरैः
जघान तरिशतान अश्वान कुञ्जरांश च चतुःशतान
स संप्रहारस तुमुलस तस्य तेषां च धन्विनाम
देवासुररणप्रख्यः परावर्तत जनक्षयः
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष
परत्यगृह्णाच छिनेः पौत्रः शरैर आशीविषॊपमैः
परच्छाद्यमानः समरे शरजालैः स वीर्यवान
असंभ्रमं महाराज तावकान अवहीद बहून
आश्चर्यं तत्र राजेन्द्र सुमहद दृष्टवान अहम
न मॊघः सायकः कश चित सात्यकेर अभवत परभॊ
रथनागाश्वकलिलः पदात्यूर्मि समाकुलः
शैनेय वेलाम आसाद्य सथितः सैन्यमहार्णवः
संभ्रान्तनरनागाश्वम आवर्तत मुहुर मुहुः
तत सैन्यम इषुभिस तेन वध्यमानं समन्ततः
बभ्राम तत्र तत्रैव गावः शीतार्दिता इव
पदातिनं रथं नागं सादिनं तुरगं तथा
अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः
न तादृक कदनं राजन कृतवांस तत्र फल्गुनः
यादृक कषयम अनीकानाम अकरॊत सात्यकिर नृप
अत्यर्जुनं शिनेः पौत्रॊ युध्यते भरतर्षभ
ततॊ दुर्यॊधनॊ राजा सात्वतस्य तरिभिः शरैः
विव्याध सूतं निशितैश चतुर्भिश चतुरॊ हयान
सात्यकिं च तरिभिर विद्ध्वा पुनर विव्याध सॊ ऽषटभिः
दुःशासनः षॊडशभिर विव्याध शिनि पुंगवम
शकुनिः पञ्चविंशत्या चित्रसेनश चपञ्चभिः
दुःसहः पञ्चदशभिर विव्याधॊरसि सात्यकिम
उत्स्मयन वृष्णिशार्दूलस तथा बाणैः समाहतः
तान अविध्यन महाराज सर्वान एव तरिभिस तरिभिः
गाढविद्धान अरीक कृत्वा मार्गणैः सॊ ऽतितेजनैः
शैनेयः शयेनवत संख्ये वयचरल लघुविक्रमः
सौबलस्य धनुश छित्त्वा हस्तावापं निकृत्य च
दुर्यॊधनं तरिभिर बाणैर अभ्यविध्यत सतनान्तरे
चित्रसेनं शतेनैव दशभिर दुःसहं तथा
दुःशासनं च विंशत्या विव्याध शिनिपुंगवः
अथान्यद धनुर आदाय सयालस तव विशां पते
अष्टभिः सात्यकिं विद्ध्वा पुनर विव्याध पञ्चभिः
दुःशासनश च दशभिर दुःसहश च तरिभिः शरैः
दुर्मुखश च दवादशभी राजन विव्याध सात्यकिम
दुर्यॊधनस तरिसप्तत्या विद्ध्वा भारत माधवम
ततॊ ऽसय निशितैर बाणैस तरिभिर विव्याध सारथिम
तान सर्वान सहिताञ शूरान यतमानान महारथान
पञ्चभिः पञ्चभिर बाणैः पुनर विव्याध सात्यकिः
ततः स रथिनां शरेष्ठस तव पुत्रस्य सारथिम
आजघानाशु भल्लेन स हतॊ नयपतद भुवि
पातिते सारथौ तस्मिंस तव पुत्र रथः परभॊ
वातायमानैस तैर अश्वैर अपानीयत संगरात
ततस तव सुता राजन सैनिकाश च विशां पते
राज्ञॊ रथम अभिप्रेक्ष्य विद्रुताः शतशॊ ऽभवन
विद्रुतं तत्र तत सैन्यं दृष्ट्वा भारत सात्यकिः
अवाकिरच छैरैस तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः
विद्राव्य सर्वसैन्यानि तावकानि समन्ततः
परययौ सात्यकी राजञ शवेताश्वस्य रथं परति
तं शरान आददानं च रक्षमाणं च सारथिम
आत्मानं मॊचयन्तं च तावकाः समपूजयन
[धृ]
संप्रमृद्य महत सैन्यं यान्तं शैनेयम अर्जुनम
निर्ह्रीका मम ते पुत्राः किम अकुर्वत संजय
कथं चैषां तथा युद्धे धृतिर आसीन मुमूर्षताम
शैनेय चरितं दृष्ट्वा सदृशं सव्यसाचिनः
किं नु वक्ष्यन्ति ते कषात्रम ऐन्यमध्ये पराजिताः
कथं च सात्यकिर युद्धे वयतिक्रान्तॊ महायशाः
कथं च मम पुत्राणां जीवतां तत्र संजय
शैनेयॊ ऽभिययौ युद्धे तन ममाचक्ष्व तत्त्वतः
अत्यद्भुतम इदं तात तवत्सकाशाच छृणॊम्य अहम
एकस्य बहुभिर युद्धं शत्रुभिर वै महारथैः
विपरीतम अहं मन्ये मन्दभाग्यान सुतान परति
यत्रावध्यन्त समरे सात्वतेन महात्मना
एकस्य हि न पर्याप्तं मत सैन्यं तस्य संजय
करुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः
निर्जित्य समरे दरॊणं कृतिनं युद्धदुर्मदम
यथा पशुगणान सिंहॊ ऽदवद धन्ता सुतान मम
कृतवर्मादिभिः शूरैर यतैर बहुभिर आहवे
युयुधानॊ न शकितॊ हन्तुं यः पुरुषर्षभः
नैतद ईदृशकं युद्धं कृतवांस तत्र फल्गुनः
यादृशं कृतवान युद्धं शिनेर नप्ता महायशाः
[स]
तव दुर्मन्तिते राजन दुर्यॊधनकृतेन च
शृणुष्वावहितॊ भूत्वा यत्ते वक्ष्यामि भारत
ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान मिथः
परां युद्धे पतिं कृत्वा पुत्रस्य तव शासनात
तरीणि सादिसहस्राणि दुर्यॊधन पुरॊगमाः
शकाः काम्बॊजबाह्लीका यवनाः पारदास तथा
कुणिन्दास तङ्गणाम्बष्ठाः पैशाचाश च स मन्दराः
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा
युक्ताश च पार्वतीयानां रथाः पाषाण यॊधिनाम
शूराः पञ्चशता राजञ शैनेयं समुपाद्रवन
ततॊ रथसहस्रेण महारथशतेन च
दविरदानां सहस्रेण दविसाहस्रैश च वाजिभिः
शरवर्षाणि मुञ्चन्तॊ विविधानि महारथाः
अभ्यद्रवन्त शैनेयम असंख्येयाश च पत्तयः
तांश च संचॊदयन सर्वान घनतैनम इति भारत
दुःशासनॊ महाराज सात्यक्तिं पर्यवारयत
तत्राद्भुतम अपश्याम शैनेय चरितं महत
यद एकॊ बहुभिः सार्धम असंभ्रान्तम अयुध्यत
अवधीच च रथानीकं दविरदानां च तद बलम
सादिनश चैव तान सर्वान दस्यून अपि च सर्वशः
तत्र चक्रैर विमथितैर मग्नैश च परमायुधैः
अक्षैश च बहुधा भग्नैर ईषा दण्डकबन्धुरैः
कूबरैर मथितैश चापि धवजैश चापि निपातितैः
वर्मभिश चामरैश चैव वयवकीर्णा वसुंधरा
सरग्भिर आभरणैर वस्त्रैर अनुकर्षैश च मारिष
संछन्ना वसुधा तत्र दयौर गरहैर इव भारत
गिरिरूपधराश चापि पतिताः कुञ्जरॊत्तमाः
अञ्जनस्य कुले जाता वामनस्य च भारत
सुप्रतीक कुले जाता महापद्मकुले तथा
ऐरावण कुले चैव तथान्येषु कुलेषु च
जाता दन्ति वरा राजञ शेरते बहवॊ हताः
वनायुजान पार्वतीयान कान्बॊजारट्ट बाल्हिकान
तथा हयवरान राजन निजघ्ने तत्र सात्यकिः
नानादेशसमुत्थांश च नाना जात्यांश च पत्तिनः
निजघ्ने तत्र शैनेयः शतशॊ ऽथ सहस्रशः
तेषु परकाल्यमानेषु दस्यून दुःशासनॊ ऽबरवीत
निवर्तध्वम अधर्मज्ञा युध्यध्वं किं सृतेन वः
तांश चापि सर्वान संप्रेक्ष्य पुत्रॊ दुःशासनस तव
पाषाण यॊधिनः शूरान पार्वतीयान अचॊदयत
अश्मयुद्धेषु कुशला नैतज जानाति सात्यकिः
अश्मयुद्धम अजानन्तं घनतैनं युद्धकामुकम
तथैव कुरवः सर्वे नाश्म युद्धविशारदाः
अभिद्रवत मा भैष्ट न वः पराप्स्यति सात्यकिः
ततॊ गजशिशु परख्यैर उपलैः शैलवासिनः
उद्यतैर युयुधानस्य सथिता मरणकाङ्क्षिणः
कषेपणीयैस तथाप्य अन्ये सात्वतस्य वधैषिणः
चॊदितास तव पुत्रेण रुरुधुः सर्वतॊदिशम
तेषाम आपतताम एव शिला युद्धं चिकीर्षताम
सात्यकिः पतिसंधाय तरिंशतं पराहिणॊच छरान
ताम अश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम
बिभेदॊरग संकाशैर नाराचैः शिनिपुंगवः
तैश अश्मचूर्णैर दीप्यद्भिः खद्यॊतानाम इव वरजैः
परायः सैन्यान्य अवध्यन्त हाहाभूतानि मारिष
ततः पञ्चशताः शूराः समुद्यतमहाशिलाः
निकृत्तबाहवॊ राजन निपेतुर धरणीतले
पाषाण यॊधिनः शूरान यतमानान अवस्थितान
अवधीद बहुसाहस्रांस तद अद्भुतम इवाभवत
ततः पुनर बस्त मुखैर अश्मवृष्टिं समन्ततः
अयॊ हस्तैः शूलहस्तैर दैरदैः खश तङ्गणैः
अम्बष्ठैश च कुणिन्दैश च कषिप्तां कषिप्तां स सात्यकिः
नाराचैः परतिविव्याध परेक्षमाणॊ महाबलः
अद्रीणां भिद्यमानानाम अन्तरिक्षे शितैः शरैः
शब्देन पराद्रवन राजन गजाश्वरथपत्तयः
अश्मपूर्णैः समाकीर्णा मनुष्याश च वयांसि च
नाशक्नुवन्न अवस्थातुं भरमरैर इव दंशिताः
हतशिष्टा विरुधिरा भिन्नमस्तक पिण्डिकाः
कुञ्जराः संयवर्तन्त युयुधान रथं परथि
ततः शब्दः समभवत तव सैन्यस्य मारिष
माधवेनार्द्यमानस्य सागरस्येव दारुणः
तं शब्दं तुमुलं शरुत्वा दरॊणॊ यन्तारम अब्रवीत
एष सूत रणे करुद्धः सात्वतानां महारथः
दारयन बहुधा सैन्यं रणे चरति कालवत
यत्रैष शब्दस तुमुलस तत्र सूत रथं नय
पाषाण यॊधिभिर नूनं युयुधानः समागतः
तथा हि रथिनः सर्वे हरियन्ते विद्रुतैर हयैः
विशस्त्र कवचा रुग्णास तत्र तत्र पतन्ति च
न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान
इत्य एवं बरुवतॊ राजन भारद्वाजस्य धीमतः
परत्युवाच ततॊ यन्ता दरॊणं शस्त्रभृतां वरम
आयुष्मन दरवते सैन्यं कौरवेयं समन्ततः
पश्य यॊधान रणे भिन्नान धावमानांस ततस ततः
एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह
तवाम एव हि जिघांसन्तः पराद्रवन्ति समन्ततः
अत्र कार्यं समाधत्स्व पराप्तकालम अरिंदम
सथाने वा गमने वापि दूरं यातश च सात्यकिः
तथैवं वदतस तस्य भारद्वाजस्य मारिष
परत्यदृश्यत शैनेयॊ निघ्नन बहुविधान रथान
ते वध्यमानाः समरे युयुधानेन तावकाः
युयुधान रथं तयक्त्वा दरॊणानीकाय दुद्रुवुः
यैस तु दुःशासनः सार्धं रथैः पूर्वं नयवर्तत
ते भीतास तव अभ्यधावन्त सर्वे दरॊण रथं परति
[स]
दुःशासन रथं दृष्ट्वा समीपे पर्यवस्थितम
भारद्वाजस ततॊ वाक्यं दुःशासनम अथाब्रवीत
दुःशासन रथाः सर्वे कस्माद एते परविद्रुताः
कच चित कषेमं तु नृपतेः कच चिज जीवति सैन्धवः
राजपुत्रॊ भवान अत्र राजभ्राता महारथः
किमर्थं दरवसे युद्धे यौवराज्यम अवाप्य हि
सवयं वैरं महत कृत्वा पाञ्चालैः पाण्डवैः सह
एकं सात्यकिम आसाद्य कथं भीतॊ ऽसि संयुगे
न जानीषे पुरा तवं तु गृह्णन्न अक्षान दुरॊदरे
शरा हय एते भविष्यन्ति दारुणाशीविषॊपमाः
अप्रियाणां च वचनं पाण्डवेषु विशेषतः
दरौपद्याश च परिक्लेशस तवन मूलॊ हय अभवत पुरा
कव ते मानश च दर्पश च कव च तद वीर गर्जितम
आशीविषसमान पार्थान कॊपयित्वा कव यास्यसि
शॊच्येयं भारती सेना राजा चैव सुयॊधनः
यस्य तवं कर्कशॊ भराता पलायनपरायणः
ननु नाम तवया वीर दीर्यमाणा भयार्दिता
सवबाहुबलम आस्थाय रक्षितव्या हय अनीकिनी
स तवम अद्य रणं तयक्त्वा भीतॊ हर्षयसे परान
विद्रुते तवयि सैन्यस्य नायके शत्रुसूदन
कॊ ऽनयः सथास्यति संग्रामे भीतॊ भीते वयपाश्रये
एकेन सात्वतेनाद्य युध्यमानस्य चानघ
पलायने तव मतिः संग्रामाद धि परवर्तते
यदा गाण्डीवधन्वानं भीमसेनं च कौरव
यमौ च युधि दरष्टासि तदा तवं किं करिष्यसि
युधि फल्गुन बाणानां सूर्याग्निसमतेजसाम
न तुल्याः सात्यकिशरा येषां भीतः पलायसे
यदि तावत कृता बुद्धिः पलायनपरायणा
पृथिवीधर्मराजस्य शमेनैव परदीयताम
यावत फल्गुन नाराचा निर्मुक्तॊरग संनिभाः
नाविशन्ति शरीरं ते तावत संशाम्य पाण्डवैः
यावत ते पृथिवीं पार्था हत्वा भरातृशतं रणे
नाक्षिपन्ति महात्मानस तावत संशाम्य पाण्डवैः
यावन न करुध्यते राजा धर्मपुत्रॊ युधिष्ठिरः
कृष्णश च समरश्लाघी तावत संशाम्य पाण्डवैः
यावद भीमॊ महाबाहुर विगाह्य महतीं चमूम
सॊदरांस ते न मृद्नाति तावत संशमयाण्डवैः
पूर्वम उक्तश च ते भराता भीष्मेण स सुयॊधनः
अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः
न च तत कृतवान मन्दस तव भराता सुयॊधनः
स युद्धे धृतिम आस्थाय यत्तॊ युध्यस्व पाण्डवैः
गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः
तवया हीनं बलं हय एतद विद्रविष्यति भारत
आत्मार्थं यॊधय रणे सात्यकिं सत्यविक्रमम
एवम उक्तस तव सुतॊ नाब्रवीत किं चिद अप्य असौ
शरुतं चाश्रुतवत कृत्वा परायाद येन स सात्यकिः
सैन्येन महता युक्तॊ मलेच्छानाम अनिवर्तिनाम
आसाद्य च रणे यत्तॊ युयुधानम अयॊधयत
दरॊणॊ ऽपि रथिनां शरेष्ठः पाञ्चालान पाण्डवांस तथा
अभ्यद्रवत संक्रुद्धॊ जवम आस्थाय मध्यमम
परविश्य च रणे दरॊणः पाञ्चालानां वरूथिनीम
दरवयाम आस यॊधान वै शतशॊ ऽथ सहस्रशः
ततॊ दरॊणॊ महाराज नाम विश्राव्य संयुगे
पाण्डुपाञ्चाल मत्स्यानां परचक्रे कदनं महत
तं जयन्तम अनीकानि भारद्वाजं ततस ततः
पाञ्चाल पुत्रॊ दयुतिमान वीर केतुः समभ्ययात
स दरॊणं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः
धवजम एकेन विव्याध सारथिं चास्य सप्तभिः
तत्राद्भुतं महाराज दृष्टवान अस्मि संयुगे
यद दरॊणॊ रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत
संनिरुद्धं रणे दरॊणं पाञ्चाला वीक्ष्य मारिष
आवव्रुः सर्वतॊ राजन धर्मपुत्र जयैषिणः
ते शरैर अग्निसंकाशैस तॊमरैश च महाधनैः
शस्त्रैश च विविधै राजन दरॊणम एकम अवाकिरन
निहत्य तान बाणगणान दरॊणॊ राजन समन्ततः
महाजलधरान वयॊम्नि मातरिश्वा विवान इव
ततः शरं महाघॊरं सूर्यपावक संनिभम
संदधे परवीरघ्नॊ वीर केतुरथं पति
स भित्त्वा तु शरॊ राजन पाञ्चाल्यं कुलनन्दनम
अभ्यगाद धरणीं तूर्णं लॊहितार्द्रॊ जवलन्न इव
ततॊ ऽपतद रथात तूर्णं पाञ्चाल्यः कुलनन्दनः
पर्वताग्राद इव महांश चम्पकॊ वायुपीडितः
तस्मिन हते महेष्वासे राजपुत्रे महाबले
पाञ्चालास तवरिता दरॊणं समन्तात पर्यवारयन
चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत
तथा चित्ररथश चैव भरातृव्यसनकर्षिताः
अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव
स वध्यमानॊ बहुधा राजपुत्रैर महारथैः
वयश्व सूत रथांश चक्रे कुमारान कुपितॊ रणे
तथापरैः सुनिशितैर भल्लैस तेषां महायशाः
पुष्पाणीव विचिन्वन हि सॊत्तमाङ्गान्य अपातयत
ते रथेभ्यॊ हताः पेतुः कषितौ राजन सुवर्चसः
देवासुरे पुरा युद्धे यथा दैतेय दानवाः
तान निहत्य रणे राजन भारद्वाजः परतापवान
कार्मुकं भरामयाम आस हेमपृष्ठं दुरासदम
पाञ्चालान निहतान दृष्ट्वा देवकल्पान महारथान
धृष्टद्युम्नॊ भृशं करुद्धॊ नेत्राभ्यां पातयञ जलम
अभ्यवर्तत संग्रामे करुद्धॊ दरॊण रथं परति
ततॊ हाहेति सहसा नादः समभवन नृप
पाञ्चाल्येन रणे दृष्ट्वा दरॊणम आवारितं शरैः
संछाद्यमानॊ बहुधा पार्षतेन महात्मना
न विव्यथे ततॊ दरॊणः समयन्न एवान्वयुध्यत
ततॊ दरॊणं महाराज पाञ्चाल्यः करॊधमूर्छितः
आजघानॊरसि करुद्धॊ नवत्या नतपर्वणाम
स गाढविद्धॊ बलिना भारद्वाजॊ महायशाः
निषसाद रथॊपस्थे कश्मलं च जगाम ह
तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी
समुत्सृज्य धनुस तूर्णम असिं जग्राह वीर्यवान
अवप्लुत्य रथाच चापि तवरितः स महारथः
आरुरॊह रथं तूर्णं भारद्वाजस्य मारिष
हर्तुम ऐच्छच छिरः कायात करॊधसंरक्तलॊचनः
परत्याश्वस्तस ततॊ दरॊणॊ धनुर गृह्य महाबलः
शरैर वैतस्तिकै राजन नित्यमासन्न यॊधिभिः
यॊधयाम आस समरे धृषद्युम्नं महारथम
ते हि वैतस्तिका नाम शरा आसन्न यॊधिनः
दरॊणस्य विदिता राजन धृष्टद्युम्नम अवाक्षिपन
स वध्यमानॊ बहुभिः सायकैस तैर महाबलः
अवप्लुत्य रथात तूर्णं भग्नवेगः पराक्रमी
आरुह्य सवरथं वीरः परगृह्य च महद धनुः
विव्याध समरे दरॊणं धृष्टद्युम्नॊ महारथः
तद अद्भुतं तयॊर युद्धं भूतसंघा हय अपूजयन
कत्रियाश च महाराज ये चान्ये तत्र सैनिकाः
अवश्यं समरे दरॊणॊ धृष्टद्युम्नेन संगतः
वशम एष्यति नॊ राज्ञः पाञ्चाला इति चुक्रुशुः
दरॊणस तु तवरितॊ युद्धे धृष्टद्युम्नस्य सारथेः
शिरः परच्यावयाम आस फलं पक्वं तरॊर इव
ततस ते परद्रुता वाहा राजंस तस्य महात्मनः
तेषु परद्रवमाणेषु पाञ्चालान सृञ्जयांस तथा
वयद्रावयद रणे दरॊणस तत्र तत्र पराक्रमी
विजित्य पाण्डुपाञ्चालान भारद्वाजः परतापवान
सवं वयूहं पुनर आस्थाय सथिरॊ ऽभवद अरिंदमः
न चैनं पाण्डवा युद्धे जेतुम उत्सहिरे परभॊ
[स]
ततॊ दुःशासनॊ राजञ शैनेयं समुपाद्रवत
किरञ शरसहस्राणि पर्जन्य इव वृष्टिमान
स विद्ध्वा सात्यकिं षष्ट्या तथा षॊडशभिः शरैः
नाकम्पयत सथितं युद्धे मैनाकम इव पर्वतम
स तु दुःशासनं वीरः सायकैर आवृणॊद भृशम
मशकं समनुप्राप्तम ऊर्ण नाभिर इवॊर्णया
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम
तरिगर्तांश चॊदयाम आस युयुधान रथं परति
ते ऽगच्छन युयुधानस्य समीपं करूर कारिणः
तरिगर्तानां तरिसाहस्रा रथा युद्धविशारदाः
ते तु तं रथवंशेन महता पर्यवारयन
सथिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः
तेषां परयततां युद्धे शरवर्षाणि मुञ्चताम
यॊधान पञ्चशतान मुख्यान अग्रानीके वयपॊथयत
ते ऽपतन्त हतास तूर्णं शिनिप्रवर सायकैः
महामारुत वेगेन रुग्णा इव महाद्रुमाः
रथैश च बहुधा छिन्नैर धवजैश चैव विशां पते
हयैश च कनकापीडैः पतितैस तत मेदिनी
शैनेय शरसंकृत्तैः शॊणितौघपरिप्लुतैः
अशॊभत महाराज कुंशुकैर इव पुष्पितैः
ते वध्यमानाः समरे युयुधानेन तावकाः
तरातारं नाध्यगच्छन्त पङ्कमग्ना इव दविपाः
ततस ते पर्यवर्तन्त सर्वे दरॊण रथं परति
भयात पतगराजस्य गर्तानीव महॊरगाः
हत्वा पञ्चशतान यॊधाञ शरैर आशीविषॊपमैः
परायात स शनकैर वीरॊ धनंजयरथं पति
तं परयान्तं नरश्रेष्ठं पुत्रॊ दुःशासनस तव
विव्याध नवभिस तूर्णं शरैः संनतपर्वभिः
स तु तं परतिविव्याध पञ्चभिर निशितैः शरैः
रुक्मपुङ्खैर महेष्वासॊ गार्ध्रपत्रैर अजिह्मगैः
सात्यकिं तु महाराज परहसन्न इव भारत
दुःशासनस तरिभिर विद्ध्वा पुनर विव्याध पञ्चभिः
शैनेयस तव पुत्रं तु विद्ध्वा पञ्चभिर आशुगैः
धनुश चास्य रणे छित्त्वा विस्मयन्न अर्जुनं ययौ
ततॊ दुःशासनः करुद्धॊ विष्णि वीराय गच्छते
सर्वपारशवीं शक्तिं विससर्ज जिघांसया
तां तु शक्तिं तदा घॊरां तव पुत्रस्य सात्यकिः
चिच्छेद शतधा राजन निशितैः कङ्कपत्रिभिः
अथान्यद धनुर आदाय पुत्रस तव जनेश्वर
सात्यकिं दशभिर विद्ध्वा सिंहनादं ननाद ह
सात्यकिस तु रणे करुद्धॊ मॊहयित्वा सुतं तव
शरैर अग्निशिखाकारैर आजघान सतनान्तरे
सर्वायसैस तीक्ष्णवक्त्रैर अष्टाभिर विव्यधे पुनः
दुःशासनस तु विंशत्या सात्यकिं परत्यविध्यत
सात्वतॊ ऽपि महाराज तं विव्याध सतनान्तरे
तरिभिर एव महावेगैः शरैः संनतपर्वभिः
ततॊ ऽसय वाहान निशितैः शरैर जघ्ने महारथः
सारथिं च सुसंक्रुद्धः शरैः संनतपर्वभिः
धनुर एकेन भल्लेन हस्तावापं च पञ्चभिः
धवजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित
चिच्छेद विशिखैस तीक्ष्णैस तथॊभौ पार्ष्णिसारथी
स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः
तरिगर्तसेनापतिना सवरथेनापवाहितः
तम अभिद्रुत्य शैनेयॊ मुहूर्तम इव भारत
न जघान महाबाहुर भीमसेन वचः समरन
भीमसेनेन हि वधः सुतानां तव भारत
परतिज्ञातः सभामध्ये सर्वेषाम एव संयुगे
तथा दुःशासनं जित्वा सात्यकिः संयुगे परभॊ
जगाम तवरितॊ राजन येन यातॊ धनंजयः
[धृ]
किं तस्यां मम सेनायां नासन के चिन महारथाः
ये तथा सात्यकिं यान्तं नैवाघ्नन नाप्य अवारयन
एकॊ हि समरे कर्मकृतवान सत्यविक्रमः
शक्रतुल्यबलॊ युद्धे महेन्द्रॊ दानवेष्व इव
अथ वा शून्यम आसीत तद येन यातः स सात्यकिः
एकॊ वै बहुलाः सेनाः परमृद्नन पुरुषर्षभः
कथं च युध्यमानानाम अपक्रान्तॊ महात्मनाम
एकॊ बहूनां शैनेयस तन ममाचक्ष्व संजय
[स]
राजन सेना समुद्यॊगॊ रथनागाश्वपत्तिमान
तुमुलस तव सैन्यानां युगान्तसदृशॊ ऽभवत
आह्णिकेषु समूहेषु तव सैन्यस्य मानद
नास्ति लॊके समः कश चित समूह इति मे मतिः
तत्र देवाः सम भाषन्ते चारणाश च समागताः
एतद अन्ताः समूहा वै भविष्यन्ति महीतले
न चैव तादृशः कश चिद वयूह आसीद विशां पते
यादृग जयद्रथ वधे दरॊणेन विहितॊ ऽभवत
चण्डवाताभिपन्नानां समौद्राणाम इव सवनः
रणे ऽभवद बलौघानाम अन्यॊन्यम अभिधावताम
पार्थिवानां समेतानां बहून्य आसन नरॊत्तम
तवद बले पाण्डवानां च सहस्राणि शतानि च
संरब्धानां परवीराणां समरे दृढकर्मणाम
तत्रासीत सुमहाञ शब्दस तुमुलॊ लॊमहर्षणः
अथाक्रन्दद भीमसेनॊ धृष्टद्युम्नश च मारिष
नकुलः सहदेवश च धर्मराजश च पाण्डवः
आगच्छत परहरत बलवत परिधावत
परविष्टाव अरिसेनां हि वीरौ माधव पाण्डवौ
यथासुखेन गच्छेतां जयद्रथवधं परति
तथा परकुरुते कषिप्रम इति सैन्यान्य अचॊदयत
तयॊर अभावे कुरवः कृतार्थाः सयुर वयं जिताः
ते यूयं सहिता भूत्वा तूर्णम एव बलार्णवम
कषॊभयध्वं महावेगाः पवनाः सागरं यथा
भीमसेनेन ते राजन पाञ्चाल्येन च चॊदिताः
आजघ्नुः कौरवान संख्ये तयक्त्वासून आत्मनः परियान
इच्छन्तॊ निधनं युद्धे शस्त्रैर उत्तमतेजसः
सवर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम
तथैव तावका राजन परार्थयन्तॊ महद यशः
आर्यां युद्धे मतिं कृत्वा युद्ध्यायैवॊपतस्थिरे
तस्मिंस तु तुमुले युद्धे वर्तमाने महाभये
हत्वा सर्वाणि सैन्यानि परायात सात्यकिर अर्जुनम
कवचानां परभास तत्र सूर्यरश्मि विचित्रिताः
दृष्टीः संख्ये सैनिकानां परतिजघ्नुः समन्ततः
तथा परयतमानेषु पाण्डवेयेषु निर्भयः
दुर्यॊधनॊ महाराज वयगाहत महद बलम
स संनिपातस तुमुलस तेषां तस्य च भारत
अभवत सर्वसैन्यानाम अभाव करणॊ महान
[धृ]
तथागतेषु सैन्येषु तथा कृच्छ्रगतः सवयम
कच चिद दुर्यॊधनः सूत नाकार्षीत पृष्ठतॊ रणम
एकस्य च बहूनां च संनिपातॊ महाहवे
विशेषतॊ नृपतिना विषमः परतिभाति मे
सॊ ऽतयन्तसुखसंवृद्धॊ लक्ष्म्या लॊकस्य चेश्वरः
एकॊ बहून समासाद्य कच चिन नासीत पराङ्मुखः
[स]
राजन सग्रामम आश्चर्यं तव पुत्रस्य भारत
एकस्य च बहूनां च शृणुष्व गदतॊ ऽदभुतम
दुर्यॊधनेन सहसा पाण्डवी पृतना रणे
नलिनी दविरदेनेव समन्ताद विप्रलॊडिता
तथा सेनां कृतां दृष्ट्वा तत्र पुत्रेण कौरव
भीमसेनपुरॊगास तं पाञ्चालाः समुपाद्रवन
स भीमसेनं दशभिर माद्रीपुत्रौ तरिभिस तरिभिः
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम
धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः
केकयान दशभिर विद्ध्वा दरौपदेयांस तरिभिस तरिभिः
शतशश चापरान यॊधान सद्विपांश च रथान रणे
शरैर अवचकर्तॊग्रैः करुद्धॊ ऽनतक इव परजाः
न संदधन विमुञ्चन वा मण्डलीकृतकार्मुकः
अदृश्यत रिपून निघ्नञ शिक्षयास्त्र बलेन च
तस्य तान निघ्नतः शत्रून हेमपृष्ठं महद धनुः
भल्लाभ्यां पाण्डवॊ जयेष्ठस तरिधा चिच्छेद मारिष
विव्याध चैनं बहुभिः सम्यग अस्तैः शितैः शरैः
वर्माण्य आशु समासाद्य ते भग्नाः कषितिम आविशन
ततः परमुदिताः पार्थाः परिवव्रुर युधिष्ठिरम
यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः
अथ दुर्यॊधनॊ राजा दृढम आदाय कार्मुकम
तिष्ठ तिष्ठेति राजानं बरुवन पाण्डवम अभ्ययात
तं तथा वादिनं राजंस तव पुत्रं महारथम
परत्युद्ययुः परमुदिताः पाञ्चाला जयगृद्धिनः
तान दरॊणः परतिजग्राह परीप्सन युधि पाण्डवम
चण्डवातॊद्धुतान मेघान स जलान अचलॊ यथा
तत्र राजन महान आसीत संग्रामॊ भूरिवर्धनः
रुद्रस्याक्रीड संकाशः संहारः सर्वदेहिनाम
[स]
अपराह्णे महाराज संग्रामः समपद्यत
पर्जन्यसमनिर्घॊषः पुनर दरॊणस्य सॊमकैः
शॊणाश्वं रथम आस्थाय नरवीरः समाहितः
समरे ऽभयद्रवत पाण्डूञ जवम आस्थाय मध्यमम
तव परियहिते युक्तॊ महेष्वासॊ महाबलः
चित्रपुङ्खैः शितैर बाणैः कलशॊत्तम संभवः
वरान वरान हि यॊधानां विचिन्वन्न इव भारत
अक्रीडत रणे राजन भारद्वाजः परतापवान
तम अभ्ययाद बृहत कषत्रः केकयानां महारथः
भरातॄणां वीर पञ्चानां जयेष्ठः समरकर्कशः
विमुञ्चन विशिखांस तीक्ष्णान आचार्यं छादयन भृशम
महामेघॊ यथा वर्षं विमुञ्चन गन्धमादने
तस्य दरॊणॊ महाराज सवर्णपुङ्खाञ शिलाशितान
परेषयाम आस संक्रुद्धः सायकान दश सप्त च
तांस तु दरॊण धनुर्मुक्तान घॊरान आशीविषॊपमान
एकैकं दशभिर बाणैर युधि चिच्छेद हृष्टवत
तस्य तल लाघवं दृष्ट्वा परहसन दविजसत्तमः
परेषयाम आस विशिखान अष्टौ संनतपर्वणः
तान दृष्ट्वा पततः शीघ्रं दरॊण चापच्युताञ शरान
अवारयच छरैर एव तावद्भिर निशितैर दृढैः
ततॊ ऽभवन महाराज तव सैन्यस्य विस्मयः
बृह कषत्रेण तत कर्मकृतं दृष्ट्वा सुदुष्करम
ततॊ दरॊणॊ महाराज केकयं वै विशेषयन
परादुश्चक्रे रणे दिव्यं बराह्मम अस्त्रं महातपाः
तद अस्य राजन कैकेयः परत्यवारयद अच्युतः
बराह्मेणैव महाबाहुर आहवे समुदीरितम
परतिहन्य तद अस्त्रं तु भारद्वाजस्य संयुगे
विव्याध बराह्मणं षष्ट्या सवर्णपुङ्खैः शिलाशितैः
तं दरॊणॊ दविपदां शरेष्ठॊ नाराचेन समर्पयत
स तस्य कवचं भित्त्वा पराविशद धरणीतलम
कृष्णसर्पॊ यथा मुक्तॊ वल्मीकं नृपसत्तम
तथाभ्यगान महीं बाणॊ भित्त्वा कैकेयम आहवे
सॊ ऽतिविद्धॊ महाराज दरॊणेनास्त्रविदा भृशम
करॊधेन महताविष्टॊ वयावृत्य नयने शुभे
दरॊणं विव्याध सप्तत्या सवर्णपुङ्खैः शिलाशितैः
सारथिं चास्य भल्लेन बाह्वॊर उरसि चार्पयत
दरॊणस तु बहुधा विद्धॊ बृहत कषत्रेण मारिष
असृजद विशिखांस तीक्ष्णान केकयस्य रथं परति
वयाकुलीकृत्य तं दरॊणॊ बृहत कषत्रं महारथम
वयसृजत सायकं तीक्ष्णं केकयं परति भारत
स गाढविद्धस तेनाशु महाराज सतनान्तरे
रथात पुरुषशार्दूलः संभिन्नहृदयॊ ऽपतत
बृहत कषत्रे हते राजन केकयानां महारथे
शैशुपालिः सुसंक्रुद्धॊ यन्तारम इदम अब्रवीत
सारथे याहि यत्रैष दरॊणस तिष्ठति दंशितः
विनिघ्नन केकयान सर्वान पाञ्चालानां च वाहिनीम
तस्य तद वचनं शरुत्वा सारथी रथिनां वरम
दरॊणाय परापयाम आस काम्बॊजैर जवनैर हयैः
धृष्टकेतुश च चेदीनाम ऋषभॊ ऽतिबलॊदितः
सहसा परापतद दरॊणं पतंग इव पावकम
सॊ ऽभयविध्यत ततॊ दरॊणं षष्ट्या साश्वरथध्वजम
पुनश चान्यैः शरैस तीक्ष्णैः सुप्तं वयाघ्रं तुदन्न इव
तस्य दरॊणॊ धनुर्मध्ये कषुरप्रेण शितेन ह
चिच्छेद राज्ञॊ बलिनॊ यतमानस्य संयुगे
अथान्यद धनुर आदाय शैशुपालिर महारथः
विव्याध सायकैर दरॊणं पुनः सुनिशितैर दृढैः
तस्य दरॊणॊ हयान हत्वा सारथिंच महाबलः
अथैनं पञ्चविंशत्या सायकानां समार्पयत
विरथॊ विधनुष्कश च चेदिराजॊ ऽपि संयुगे
गदां चिक्षेप संक्रुद्धॊ भारद्वाज रथं परति
ताम आपतन्तीं सहसा घॊररूपां भयावहाम
अश्मसारमयीं गुर्वीं तपनीयविभूषिताम
शरैर अनेकसाहस्रैर भारद्वाजॊ नयपातयत
सा पपात गदा भूमौ भारद्वाजेन सादिता
रक्तमाल्याम्बरधरा तारेव नभसस तलात
गदां विनिहतां दृष्ट्वा धृष्टकेतुर अमर्षणः
तॊमरं वयसृजत तूर्णं शक्तिं च कनकॊज्ज्वलाम
तॊमरं तु तरिभिर बाणैर दरॊणश छित्त्वा महामृधे
शक्तिं चिच्छेद सहसा कृतहस्तॊ महाबलः
ततॊ ऽसय विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः
परेषयाम आस समरे भारद्वाजः परतापवान
स तस्य कवचं भित्त्वा हृदयं चामितौजसः
अभ्यगाद धरणीं बाणॊ हंसः पद्मसरॊ यथा
पतंगं हि गरसेच चाषॊ यथा राजन बुभुक्षितः
तथा दरॊणॊ ऽगरसच छूरॊ धृष्टकेतुं महामृधे
निहते चेदिराजे तु तत खण्डं पित्र्यम आविशत
अमर्षवशम आपन्नः पुत्रॊ ऽसय परमास्त्रवित
तम अपि परहसन दरॊणः शरैर निन्ये यमक्षयम
महाव्याघ्रॊ महारण्ये मृगशावं यथाबली
तेषु परक्षीयमाणेषु पाण्डवेयेषु भारत
जरासंध सुतॊ वीरः सवयं दरॊणम उपाद्रवत
स तु दरॊणं महाराज छादयन सायकैः शितैः
अदृश्यम अकरॊत तूर्णं जलदॊ भास्करं यथा
तस्य तल लाघवं दृष्ट्वा दरॊणः कषत्रिय मर्दनः
वयसृजत सायकांस तूर्णं शतशॊ ऽथ सहस्रशः
छादयित्वा रणे दरॊणॊ रथस्थं रथिनां वरम
जारासंधिम अथॊ जघ्ने मिषतां सर्वधन्विनाम
यॊ यः सम लीयते दरॊणं तं तं दरॊणॊ ऽनतकॊपमः
आदत्त सर्वभूतानि पराप्रे काले यथान्तकः
ततॊ दरॊणॊ महेष्वासॊ नाम विश्राव्य संयुगे
शरैर अनेकसाहस्रैः पाण्डवेयान वयमॊहयत
ततॊ दरॊणाङ्किता बाणाः सवर्णपुङ्खाः शिलाशिताः
नरान नागान हयांश चैव निजघ्नुः सर्वतॊ रणे
ते वध्यमाना दरॊणेन शक्रेणेव महासुराः
समकम्पन्त पाञ्चाला गावः शीतार्दिता इव
ततॊ निष्टानकॊ घॊरः पाण्डवानाम अजायत
दरॊणेन वध्यमानेषु सैन्येषु भरतर्षभ
मॊहिताः शरवर्षेण भारद्वाजस्य संयुगे
ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः
चेदयश च महाराज सृञ्जयाः सॊमकास तथा
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया
हतद्रॊणं हतद्रॊणम इति ते दरॊणम अभ्ययुः
यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम
निनीषन्तॊ रणे दरॊणं यमस्य सदनं परति
यतमानांस तु तान वीरान भारद्वाजः शिलीमुखैः
यमाय परेषयाम आस चेदिमुख्यान विशेषतः
तेषु परक्षीयमाणेषु चेदिमुख्येषु भारत
पाञ्चालाः समकम्पन्त दरॊण सायकपीडिताः
पराक्रॊशन भीमसेनं ते धृष्टद्युम्न रथं परति
दृष्ट्वा दरॊणस्य कर्माणि तथारूपाणि मारिष
बराह्मणेन तपॊ नूनं चरितं दुश्चरं महत
तथा हि युधि विक्रान्तॊ दहति कषत्रियर्षभान
धर्मॊ युद्धं कषत्रियस्य बराह्मणस्य परंतपः
तपस्वी कृतविद्यश च परेक्षितेनापि निर्दहेत
दरॊणास्त्रम अग्निसंस्पर्शं परविष्टाः कषत्रियर्षभाः
बहवॊ दुस्तरं घॊरं यत्रादह्यन्त भारत
यथाबलं यथॊत्साहं यथा सत्त्वं महाद्युतिः
मॊहयन सर्वभूतानि दरॊणॊ हन्ति बलानि नः
तेषां तद वचनं शरुत्वा कषत्रधर्मा वयवस्थितः
अर्धचन्द्रेण चिच्छेद दरॊणस्य स शरं धनुः
स संरब्धतरॊ भूत्वा दरॊणः कषत्रिय मर्दनः
अन्यत कार्मुकम आदाय भास्वरं वेगवत्तरम
तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम
आकर्णपूर्णम आचार्यॊ बलवान अभ्यवासृजत
स हत्वा कषत्रधर्म्माणं जगाम धरणीतलम
स भिन्नहृदयॊ वाहाद अपतन मेदिनी तले
ततः सैन्यान्य अकम्पन्त धृष्टद्युम्न सुते हते
अथ दरॊणं समारॊहच चेकितानॊ महारथः
स दरॊणं दशभिर बाणैः परत्यविध्यत सतनान्तरे
चतुर्भिः सारथिं चास्य चतुर्भिश चतुरॊ हयान
तस्याचार्यः षॊडशभिर अविध्यद दक्षिणं भुजम
धवजं षॊडशभिर बाणैर यन्तारं चास्य सप्तभिः
तस्य सूते हते ते ऽशवा रथम आदाय विद्रुताः
समरे शरसंवीता भारद्वाजेन मारिष
चेकितान रथं दृष्ट्वा विद्रुतं हतसारथिम
पाञ्चालान पाण्डवांश चैव महद भयम अथाविशत
तान समेतान रणे शूरांश चेदिपाञ्चालसृञ्जयान
समन्ताद दरावयन दरॊणॊ बह्व अशॊभत मारिष
आकर्णपलितः शयामॊ वयसाशीतिकात परः
रणे पर्यचरद दरॊणॊ वृद्धः षॊडशवर्षवत
अथ दरॊणं महाराज विचरन्तम अभीतवत
वज्रहस्तम अमन्यन्त शत्रवः शत्रुसूदनम
ततॊ ऽबरवीन महाराज दरुपदॊ बुद्धिमान नृप
लुब्धॊ ऽयं कषत्रियान हन्ति वयाघ्रः कषुद्रमृगान इव
कृच्छ्रान दुर्यॊधनॊ लॊकान आपः पराप्स्यति दुर्मतिः
यस्य लॊभाद विनिहताः समरे कषत्रियर्षभाः
शतशः शेरते भूमौ निकृत्ता गॊवृषा इव
रुधिरेण परीताङ्गाः शवसृगालादनी कृताः
एवम उक्त्वा महाराज दरुपदॊ ऽकषौहिणीपतिः
पुरस्कृत्य रणे पार्थान दरॊणम अभ्यद्रवद दरुतम
[स]
वयूहेष्व आलॊड्यमानेषु पाण्डवानां ततस ततः
सुदूरम अन्वयुः पार्थाः पाञ्चालाः सह सॊमकैः
वर्तमाने तथा रौद्रे संग्रामे लॊमहर्षणे
परक्षये जगतस तीव्रे युगान्त इव भारत
दरॊणे युधि पराक्राने नर्दमाने मुहुर मुहुः
पाञ्चालेषु च कषीणेषु वध्यमानेषु पाण्डुषु
नापश्यच छरणं किं चिद धर्मराजॊ युधिष्ठिरः
चिन्तयाम आस राजेन्द्र कथम एतद भविष्यति
तत्रावेक्ष्य दिशः सर्वाः सव्यसाचि दिदृष्ट्कया
युधिष्ठिरॊ ददर्शाथ नैव पार्थ न माधवम
सॊ ऽपश्यन नरशार्दूलं वानरर्षभ लक्षणम
गाण्डीवस्य च निर्घॊषम अशृण्वन वयथितेन्द्रियः
अपश्यन सात्यकिं चापि वृष्णीनां परवरं रथम
चिन्तयाभिपरीताङ्गॊ धर्मराजॊ युधिष्ठिरः
नाध्यगच्छत तदा शान्तिं ताव अपश्यन नरर्षभौ
लॊकॊपक्रॊश भीरुत्वाद धर्मराजॊ महायशाः
अचिन्तयन महाबाहुः शैनेयस्य रथं परति
पदवीं परेषितश चैव फल्गुनस्य मया रणे
शैनेयः सात्यकिः सत्यॊ मित्राणाम अभयंकरः
तद इदं हय एकम एवासीद दविधा जातं ममाद्य वै
सात्यकिश च हि मे जञेयः पाण्डवश च धनंजयः
सात्यकिं परेषयित्वा तु पाण्डवस्य पदानुगम
सात्वतस्यापि किं युद्धे परेषयिष्ये पदानुगम
करिष्यामि परयत्नेन भरातुर अन्वेषणं यदि
युयुधानम अनन्विष्य लॊकॊ मां गर्हयिष्यति
भरातुर अन्वेषणं कृत्वा धर्मराजॊ युधिष्ठिरः
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम
लॊकापवादभीरुत्वात सॊ ऽहं पार्थं वृकॊदरम
पदवीं परेषयिष्यामि माधवस्य महात्मनः
यथैव च मम परीतिर अर्जुने शत्रुसूदने
तथैव वृष्णिवीरे ऽपि सात्वते युद्धदुर्मदे
अतिभारे नियुक्तश च मया शैनेयनन्दनः
स तु मित्रॊपरॊधेन गौरवाच च महाबलः
परविष्टॊ भरतीं सेनां मकरः सागरं यथा
असौ हि शरूयते शब्दः शूराणाम अनिवर्तिनाम
मिथः संयुध्यमानानां वृष्णिवीरेण धीमता
पराप्तकालं सुबलवन निश्चित्य बहुधा हि मे
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः
गमनं रॊचते मह्यं यत्र यातौ महारथौ
न चाप्य असह्यं भीमस्य विद्यते भुवि किं चन
शक्तॊ हय एष रणे यत्तान पृथिव्यां सर्वधन्विनः
सवबाहुबलम आस्थाय परतिव्यूहितुम अञ्जसा
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः
वनवासान निवृत्ताः सम न च युद्धेषु निर्जिताः
इतॊ गते भीमसेने सात्वतं परति पाण्डवे
स नाथौ भवितारौ हि युधि सात्वत फल्गुनौ
कामं तव अशॊचनीयौ तौ रणे सात्वत फल्गुनौ
रक्षितौ वासुदेवेन सवयं चास्त्रविशारदौ
अवश्यं तु मया कार्यम आत्मनः शॊकनाशनम
तस्माद भीमं नियॊक्ष्यामि सात्वतस्य पदानुगम
ततः परतिकृतं मन्ये विधानं सात्यकिं परति
एवं निश्चित्य मनसा धर्मपुत्रॊ युधिष्ठिरः
यन्तारम अब्रवीद राजन भीमं परति नयस्व माम
धर्मराज वचः शरुत्वा सारथिर हयकॊविदः
रथं हेमपरिष्कारं भीमान्तिकम उपानयत
भीमसेनम अनुप्राप्य पराप्तकालम अनुस्मरन
कश्मलं पराविशद राजा बहु तत्र समादिशन
यः स देवान स गन्धर्वान दैत्यांश चैकरथॊ ऽजयत
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते
ततॊ ऽबरवीद धर्मराजं भीमसेनस तथागतम
नैवाद्राक्षं न चाश्रौषं तव कश्मलम ईदृशम
पुरा हि दुःखदीर्णानां भवान गतिर अभूद धि नः
उत्तिष्ठॊत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते
न हय असाध्यम अकार्यं वा विद्यते मम मानद
आज्ञापय कुरुश्रेष्ठ मा च शॊके मनः कृथाः
तम अब्रवीद अश्रुपूर्णः कृष्णसर्प इव शवसन
भीमसेनम इदं वाक्यं परम्लान वदनॊ नृपः
यथा शङ्खस्य निर्घॊषः पाञ्चजन्यस्य शरूयते
परेरितॊ वासुदेवेन संरब्धेन यशस्विना
नूनम अद्य हतः शेते तव भराता धनंजयः
तस्मिन विनिहते नूनं युध्यते ऽसौ जनार्दनः
यस्य सत्त्ववतॊ वीर्यम उपजीवन्ति पाण्डवाः
यं भयेष्व अभिगच्छन्ति सहस्राक्षम इवामराः
स शूरः सैन्धव परेप्सुर अन्वयाद भारतीं चमूम
तस्य वै गमनं विद्मॊ भीम नावर्तनं पुनः
शयामॊ युवा गुडाकेशॊ दर्शनीयॊ महाभुजः
वयूढॊरस्कॊ महास्कन्धॊ मत्तद्विरदविक्रमः
चकॊर नेत्रस ताम्राक्षॊ दविषताम अघवर्धनः
तद इदं मम भद्रं ते शॊकस्थानम अरिंदम
अर्जुनार्थं महाबाहॊ सात्वतस्य च कारणात
वर्धते हविषेवाग्निर इध्यमानः पुनः पुनः
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम
स तं महारथं पश्चाद अनुयातस तवानुजम
तम अपश्यन महाबाहुम अहं विन्दामि कश्मलम
तस्मात कृष्णॊ रणे नूनं युध्यते युद्धकॊविदः
यस्य वीर्यवतॊ वीर्यम उपजीवन्ति पाण्डवाः
स तत्र गच्छ कौनेय यत्र यातॊ धनंजयः
सात्यकिश च महावीर्यः कर्तव्यं यदि मन्यसे
वचनं मम धर्मज्ञ जयेष्ठॊ भराता भवामि ते
न ते ऽरजुनस तथा जञेयॊ जञातव्यः सात्यकिर यथा
चिकीर्षुर मत्प्रियं पार्थ परयातः सव्यसाचिनः
पदवीं दुर्गमां घॊराम अगम्याम अकृतात्मभिः
[भम]
बरह्मेषानेन्द्र वरुणान अवहद यः पुरा रथः
तम आस्थाय गतौ कृष्णौ न तयॊर विद्यते भयम
आज्ञां तु शिरसा बिभ्रद एष गच्छामि मा शुचः
समेत्य तान नरव्याघ्रांस तव दास्यामि संविदम
[स]
एतावद उक्त्वा परययौ परिदाय युधिष्ठिरम
धृष्टद्युम्नाय बलवान सुहृद्भ्यश च पुनः पुनः
धृष्टद्युम्नं चेदम आह भीमसेनॊ महाबलः
विदितं ते महाबाहॊ यथा दरॊणॊ महारथः
गरहणे धर्मराजस्य सर्वॊपायेन वर्तते
न च मे गमने कृत्यं तादृक पार्षत विद्यते
यादृशं रक्षणे राज्ञः कार्यम आत्ययिकं हि नः
एवम उक्तॊ ऽसमि पार्थेन परतिवक्तुं सम नॊत्सहे
परयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः सथितः
धर्मराजस्य वचने सथातव्यम अविशङ्कया
सॊ ऽदय यत्तॊ रणे पार्थं परिरक्ष युधिष्ठिरम
एतद धि सर्वकार्याणां परमं कृत्यम आहवे
तम अब्रवीन महाराज धृष्टद्युम्नॊ वृकॊदरम
ईप्सितेन महाबाहॊ गच्छ पार्थाविचारयन
नाहत्वा समरे दरॊणॊ धृष्टद्युम्नं कथं चन
निग्रहं धर्मराजस्य परकरिष्यति संयुगे
ततॊ निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः
अभिवाद्य गुरुं जयेष्ठं परययौ यत्र फल्गुनः
परिष्वक्तस तु कौन्तेयॊ धर्मराजेन भारत
आघ्रातश च तथा मूर्ध्नि शरावितश चाशिषः शुभाः
भीमसेनॊ महाबाहुः कवची शुभकुण्डली
साङ्गदः स तनुत्राणः स शरी रथिनां वरः
तस्य कार्ण्षायसं वर्म हेमचित्रं महर्द्धिमत
विबभौ पर्वत शलिष्टः स विद्युद इव तॊयदः
पीतरक्तासित सितैर वासॊभिश च सुवेष्टितः
कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः
परयाते भीमसेने तु तव सैन्यं युयुत्सया
पाञ्चजन्य रवॊ घॊरः पुनर आसीद विशां पते
तं शरुत्वा निनदं घॊरं तरैलॊक्यत्रासनं महत
पुनर भीमं महाबाहुर धर्मपुत्रॊ ऽभयभाषत
एष वृष्णिप्रवीरेण धमातः सलिलजॊ भृशम
पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट
नूनं वयसनम आपन्ने सुमहत सव्यसाचिनि
कुरुभिर युध्यते सार्धं सर्वैश चक्रगदाधरः
नूनम आर्या महत कुन्ती पापम अद्य निदर्शनम
दरौपदी तु सुभद्रा च पश्यन्ति सह बन्धुभिः
स भीमस तवरया युक्तॊ याहि यत्र धनंजयः
मुह्यन्तीव हि मे सर्वा धनंजय दिदृक्षया
दिशः स परदिशः पार्थ सात्वतस्य च कारणात
गच्छ गच्छेति च पुनर भीमसेनम अभाषत
भृशं स परहितॊ भरात्रा भराता भरातुः परियं करः
आहत्य दुन्दुभिं भीमः शङ्खं परध्माय चासकृत
विनद्य सिंहनादं च जयां विकर्षन पुनः पुनः
दर्शयन घॊरम आत्मानम अमित्रान सहसाभ्ययात
तम ऊहुर जवना दान्ता विकुर्वाणा हयॊत्तमाः
विशॊकेनाभिसंयत्ता मनॊमारुतरंहसः
आरुजन विरुजन पार्थॊ जयां विकर्षंश च पाणिना
सॊ ऽवकर्षन विकर्षंश च सेनाग्रं समलॊडयत
तं परयान्तं महाबाहुं पाञ्चालाः सह सॊमकाः
पृष्ठतॊ ऽनुययुः शूरा मघवन्तम इवामराः
तं स सेना महाराज सॊदर्याः पर्यवारयन
दुःशलश चित्रसेनश च कुण्ड भेदी विविंशतिः
दुर्मुखॊ दुःसहश चैव विकर्णश च शलस तथा
विन्दानुविन्दौ सुमुखॊ दीर्घबाहुः सुदर्शनः
वृन्दारकः सुहस्तश च सुषेणॊ दीर्घलॊचनः
अभयॊ रौद्रकर्मा च सुवर्मा दुर्विमॊचनः
विविधै रथिनां शरेष्ठाः सह सैन्यैः सहानुगैः
संयत्ताः समरे शूरा भीमसेनम उपाद्रवन
तान समीक्ष्य तु कौन्तेयॊ भीमसेनः पराक्रमी
अभ्यवर्तत वेगेन सिंहः कषुद्रमृगान इव
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन
वारयन्तः शरैर भीमं मेघाः सूर्यम इवॊदितम
स तान अतीत्य वेगेन दरॊणानीकम उपाद्रवत
अग्रतश च गजानीकं शरवर्षैर अवाकिरत
सॊ ऽचिरेणैव कालेन तद गजानीकम आशुगैः
दिशः सर्वाः समभ्यस्य वयधमत पवनात्मजः
तरासिताः शरभस्येव गर्जितेन वने मृगाः
परद्रवन दविरदाः सर्वे नदन्तॊ भैरवान रवान
पुनश चातीत्य वेगेन दरॊणानीकम उपाद्रवत
तम अवारयद आचार्यॊ वेलेवॊद्वृत्तम अर्णवम
ललाटे ऽताडयच चैनं नाराचेन समयन्न इव
ऊर्ध्वरश्मिर इवादित्यॊ विबभौ तत्र पाण्डवः
स मन्यमानस तव आचार्यॊ ममायं फल्गुनॊ यथा
भीमः करिष्यते पूजाम इत्य उवाच वृकॊदरम
भीमसेन न ते शक्यं परवेष्टुम अरिवाहिनीम
माम अनिर्जित्य समरे शत्रुमध्ये महाबल
यदि ते सॊ ऽनुजः कृष्णः परविष्टॊ ऽनुमते मम
अनीकं न तु शक्यं भॊः परवेष्टुम इह वै तवया
अथ भीमस तु तच छरुत्वा गुरॊर वाक्यम अपेतभीः
करुद्धः परॊवाच वै दरॊणं रक्तताम्रेक्षणः शवसन
तवार्जुनॊ नानुमते बरह्म बन्धॊ रणाजिरम
परविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद बलम
येन वै परमां पूजां कुर्वता मानितॊ हय असि
नार्जुनॊ ऽहं घृणी दरॊण भीमसेनॊ ऽसमि ते रिपुः
पिता नस तवं गुरुर बन्धुस तथा पुत्रा हि ते वयम
इति मन्यामहे सर्वे भवन्तं परणताः सथिताः
अद्य तद विपरीतं ते वदतॊ ऽसमासु दृश्यते
यदि शत्रुं तवम आत्मानं मन्यसे तत तथास्त्व इह
एष ते सदृशं शत्रॊः कर्म भीमः करॊम्य अहम
अथॊद्भ्राम्य गदां भीमः कालदण्डम इवान्तकः
दरॊणायावसृजद राजन स रथाद अवपुप्लुवे
साश्वसूत धवजं यानं दरॊणस्यापॊथयत तदा
परामृद्नाच च बहून यॊधान वायुर कृष्णान इवौजसा
तं पुनः परिवव्रुस ते तव पुत्रा रथॊत्तमम
अन्यं च रथम आस्थाय दरॊणः परहरतां वरः
ततः करुद्दॊर महाराज भीमसेनः पराक्रमी
अग्रतः सयन्दनानीकं शरवर्षैर अवाकिरत
ते वध्यमानाः समरे तव पुत्रा महारथाः
भीमं भीमबलं युद्धे ऽयॊधयंस तु जयैषिणः
ततॊ दुःशासनः करुद्धॊ रथशक्तिं समाक्षिपन
सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम
आपतन्तीं महाशक्तिं तव पुत्र परचॊदिताम
दविधा चिच्छेद तां भीमस तद अद्भुतम इवाभवत
अथान्यैर निशितैर बाणैः संक्रुद्धः कुण्ड भेदिनम
सुषेणं दीर्घनेत्रं च तरिभिस तरीन अवधीद बली
ततॊ वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम
पुत्राणां तव वीराणां युध्यताम अवधीत पुनः
अभयं रौद्रकर्माणं दुर्विमॊचनम एव च
तरिभिस तरीन अवधीद भीमः पुनर एव सुतांस तव
वध्यमाना महाराज पुत्रास तव बलीयसा
भीमं परहरतां शरेष्ठं समन्तात पर्यवारयन
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम
परहसन्न इव कौनेयः शरैर निन्ये यमक्षयम
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ
विव्याध समरे तूर्णं स पपात ममार च
सॊ चिरेणैव कालेन तद्रथानीकम आशुगैः
दिशः सर्वाः समभ्यस्य वयधमत पाणुनन्दनः
ततॊ वै रथगॊषेण गर्जितेन मृगा इव
वध्यमानाश च समरे पुत्रास तव विशां पते
पराद्रवन स रथाः सर्वे भीमसेनभयार्दिताः
अनुयाय तु कौनेयः पुत्राणां ते महद बलम
विव्याध समरे राजन कौरवेयान समन्ततः
वध्यमाना महाराज भीमसेनेन तावकाः
तयक्त्वा भीमं रणे यन्ति चॊदयन्तॊ हयॊत्तमान
तांस तु निर्जित्य समरे भीमसेनॊ महाबलः
सिंहनाद रवं चक्रे बाहुशब्दं च पाण्डवः
तलशब्दं च सुमहत कृत्वा भीमॊ महाबलः
वयतीत्य रथिनश चापि दरॊणानीकम उपाद्रवत
[स]
तम उत्तीर्णं रथानीकात तमसॊ भास्करं यथा
दिधारयिषुर आचार्यः शरवर्षैर अवाकिरत
पिबन्न इव शरौघांस तान दरॊण चापवरातिगान
सॊ ऽभयवर्तत सॊदर्यान मायया मॊहयन बलम
तं मृधे वेगम आस्थाय परं परमधन्विनः
चॊदितास तव पुत्रै च सरतः पर्यवारयन
स तथा संवृतॊ भीमः परहसन्न इव भारत
उदयच्छद गदां तेभ्यॊ घॊरां तां सिंहवन नदन
अवासृजच च वेगेन तेषु तान परमथद बली
सेन्द्राशनिर इवेन्द्रेण परविद्धा संहतात्मना
घॊषेण महता राजन पूरयित्वेव मेदिनीम
जवलन्ती तेजसा भीमा तरासयाम आस ते सुतान
तां पतन्तीं महावेगां दृष्ट्वा तेजॊ ऽभिसंवृताम
पराद्रवंस तावकाः सर्वे नदन्तॊ भैरवान रवान
तं च शब्दम असंसह्यं तस्याः संलक्ष्य मारिष
परापतन मनुजास तत्र रथेभ्यॊ रथिनस तदा
स तान विद्राव्य कौन्तेयः संख्ये ऽमित्रान दुरासदः
सुपर्ण इव वेगेन पक्षिराड अत्यगाच चमूम
तथा तं विप्रकुर्वाणं रथयूथप यूथपम
भारद्वाजॊ महाराज भीमसेनं समभ्ययात
दरॊणस तु समरे भीमं वारयित्वा शरॊर्मिभिः
अकरॊत सहसा नादं पाण्डूनां भयम आदधत
तद युद्धम आसीत सुमहद घॊरं देवासुरॊपमम
दरॊणस्य च महाराज भीमस्य च महात्मनः
यदा तु विशिखैस तीक्ष्णैर दरॊण चापविनिःसृतैः
वध्यन्ते समरे वीराः शतशॊ ऽथ सहस्रशः
ततॊ रथाद अवप्लुत्य वेगम आस्थाय पाण्डवः
निमील्य नयने राजन पदातिर दरॊणम अभ्ययात
यथा हि गॊवृषॊ वर्षं परतिगृह्णाति लीलया
तथा भीमॊ नरव्याघ्रः शरवर्षं समग्रहीत
स वध्यमानः समरे रथं दरॊणस्य मारिष
ईषायां पाणिना गृह्य परचिक्षेप महाबलः
दरॊणस तु स तवरॊ राजन कषिप्तॊ भीमेन संयुगे
रथम अन्यं समास्थाय वयूह दवारम उपाययौ
तस्मिन कषणे तस्य यन्ता तूर्णम अश्वान अचॊदयत
भीमसेनस्य कौरव्य तद अद्भुतम इवाभवत
ततः सवरथम आस्थाय भीमसेनॊ महाबलः
अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम
स मृद्नन कषत्रियान आजौ वातॊ कृष्णान इवॊद्धतः
अगच्छद दारयन सेनां सिन्धुवेगॊ नगान इव
भॊजानीकं समासाद्य हार्दिक्येनाभिरक्षितम
परमथ्य बहुधा राजन भीमसेनः समभ्ययात
संत्रासयन्न अनीकानि तलशब्देन मारिष
अजयत सर्वसैन्यानि शार्दूल इव गॊवृषान
भॊजानीकम अतिक्रम्य काम्बॊजानां च वाहिनीम
तथा मलेच्छ गणांश चान्यान बहून युद्धविशारदान
सात्यकिं चापि संपेर्क्ष्य युध्यमानं नरर्षभम
रथेन यत्तः कौन्तेयॊ वेगेन परययौ तदा
भीमसेनॊ महाराज दरष्टुकामॊ धनंजयम
अतीत्य समरे यॊधांस तावकान पाण्डुनन्दनः
सॊ ऽपश्यद अर्जुनं तत्र युध्यमानं नरर्षभम
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी
अर्जुनं तत्र दृष्ट्वाथ चुक्रॊश महतॊ रवान
तं तु तस्य महानादं पार्थः शुश्राव नर्दतः
ततः पार्थॊ महानादं मुञ्चन वै माधवश च ह
अभ्ययातां महाराज नर्दन्तौ गॊवृषाव इव
वासुदेवार्जुनौ शरुत्वा निनादं तस्य शुष्मिणः
पुनः पुनः परणदतां दिदृक्षन्तौ वृकॊदरम
भीमसेनरवं शरुत्वा फल्गुनस्य च धन्विनः
अप्रीयत महाराज धर्मपुत्रॊ युधिष्ठिरः
विशॊकश चाभवद राजा शरुत्वा तं निनदं महत
धनंजयस्य च रणे जयम आशा सतवान विभुः
तथा तु नर्दमाने वै भीमसेने रणॊत्कटे
समितं कृत्वा महाबाहुर धर्मपुत्रॊ युधिष्ठिरः
हृद्गतं मनसा पराह धयात्वा धर्मभृतां वरः
दत्ता भीम तवया संवित कृतं गुरुवचस तथा
न हि तेषां जयॊ युद्धे येषां दवेष्टासि पाण्डव
दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः
दिष्ट्या शृणॊमि गर्जन्तौ वासुदेवधनंजयौ
येन शक्रं रणे जित्वा तर्पितॊ हव्यवाहनः
स हन्ता दविषतां संख्ये दिष्ट्या जीवति फल्गुनः
यस्य बाहुबलं सर्वे वयम आश्रित्य जीविताः
स हन्ता रिपुसन्यानां दिष्ट्या जीवति फल्गुनः
निवातकवचा येन देवैर अपि सुदुर्जयाः
निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति
कौरवान सहितान सर्वान गॊग्रहार्थे समागतान
यॊ ऽजयन मत्स्यनगरे दिष्ट्या पार्थः स जीवति
कालकेय सहस्राणि चतुर्दश महारणे
यॊ ऽवधीद भुजवीर्येण दिष्ट्या पार्थः स जीवति
गन्धर्वराजं बलिनं दुर्यॊधनकृतेन वै
जितवान यॊ ऽसत्रवीर्येण दिष्ट्या पार्थः स जीवति
किरीटमाली बलवाञ शवेताश्वः कृष्णसारथिः
मम परियश च सततं दिष्ट्या जीवति फल्गुनः
पुत्रशॊकाभिसंतप्तश चिकीर्षुः कर्म दुष्करम
जयद्रथवधान्वेषी परतिज्ञां कृतवान हि यः
कच चित स सैन्धवं संख्ये हनिष्यति धनंजयः
कच चित तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम
अनस्तमित आदित्ये समेष्याम्य अहम अर्जुनम
कच चित सैन्धवकॊ राजा दुर्यॊधन हिते रतः
नन्दयिष्यत्य अमित्राणि फल्गुनेन निपातितः
कच चिद दुर्यॊधनॊ राका फल्गुनेन निपातितम
दृष्ट्वा सैन्धवकं संख्ये शमम अस्मासु धास्यति
दृष्ट्वा विनिहतान भरातॄन भीमसेनेन संयुगे
कच चिद दुर्यॊधनॊ मन्दः शमम अस्मासु धास्यति
दृष्ट्वा चान्यान बहून यॊधान पातितान धरणीतले
कच चिद दुर्यॊधनॊ मन्दः पश्चात तापं करिष्यति
कच चिद भीष्मेण नॊ वैरम एकेनैव परशाम्यति
शेषस्य रक्षणार्थं च संधास्यति सुयॊधनः
एवं बहुविधं तस्य चिन्तयानस्य पार्थिव
कृपयाभिपरीतस्य घॊरं युद्धम अवर्तत
[धृ]
तथा तु नर्दमानं तं भीमसेनं महाबलम
मेघस्तनित निर्घॊषं के वीराः पर्यवारयन
न हि पश्याम्य अहं तं वै तरिषु लॊकेषु संजयम
करुद्धस्य भिमसेनस्य यस तिष्ठेद अग्रतॊ रणे
गदाम उद्यच्छमानस्य कालस्येव महामृधे
न हि पश्याम्य अहं तात यस तिष्ठेत रणाजिरे
रथं रथेन यॊ हन्यात कुञ्जरं कुञ्जरेण च
कस तस्य समरे सथाता साक्षाद अपि शतक्रतुः
करुद्धस्य भीमसेनस्य मम पुत्राञ जिघांसतः
दुर्यॊधन हिते युक्ताः समतिष्ठन्त के ऽगरतः
भीमसेन दवाग्नेस तु मम पुत्र तृणॊलपम
परधक्ष्यतॊ रणमुखे के वीराः परमुखे सथिताः
काल्यमानान हि मे पुत्रान भीमेनावेक्ष्य संयुगे
कालेनेव परजाः सर्वाः के भीमं पर्यवारयन
भीम वह्नेः परदीप्तस्य मम पुत्रान दिधक्षतः
के शूराः पर्यवर्तन्त तन ममाचक्ष्व संजय
[स]
तथा तु नर्दमानं तं भीमसेनं महारथम
तुमुलेनैव शब्देन कर्णॊ ऽपय अभ्यपतद बली
वयाक्षिपन बलवच चापम अतिमात्रम अमर्षणः
कर्णस तु युद्धम आकाङ्क्षन दर्शयिष्यन बलं बली
परावेपन्न इव गात्राणि कर्ण भीम समागमे
रथिनां सादिनां चैव तयॊः शरुत्वा तलस्वनम
भीमसेनस्य निनदं घॊरं शरुत्वा रणाजिरे
खं च भूमिं च संबद्धां मेनिरे कषत्रियर्षभाः
पुनर घॊरेण नादेन पाण्डवस्य महात्मनः
समरे सर्वयॊधानां धनूंष्य अभ्यपतन कषितौ
वित्रस्तानि च सर्वाणि शकृन मूत्रं परसुस्रुवुः
वाहनानि महाराज बभूवुर विमनांसि च
परादुरासन निमित्तानि घॊराणि च बहूनि च
तस्मिंस तु तुमुले राजन भीमकर्ण समागमे
ततः कर्णस तु विंशत्या शराणां भीमम आर्दयत
विव्याध चास्य तवरितः सूतं पञ्चहिर आशुगैः
परहस्य भीमसेनस तु कर्णं परत्यर्पयद रणे
सायकानां चतुःषष्ट्या कषिप्रकारी महाबलः
तस्य कर्णॊ महेष्वासः सायकांश चतुरॊ ऽकषिपत
असंप्राप्तांस तु तान भीमः सायकैर नतपर्वभिः
चिच्छेद बहुधा राजन दर्शयन पाणिलाघवम
तं कर्णश छादयाम आस शरव्रातैर अनेकशः
संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः
विव्याध चैनं बहुभिः सायकैर नतपर्वभिः
अथान्यद धनुर आदाय सज्यं कृत्वा च सूतजः
विव्याध समरे भीमं भीमकर्मा महारथः
तस्य भीमॊ भृशं करुद्दस तरीञ शरान नतपर्वणः
निचखानॊरसि तदा सूतपुत्रस्य वेगितः
तैः कर्णॊ ऽभराजत शरैर उरॊ मध्यगतैस तदा
महीधर इवॊदग्रस तरिशृङ्गॊ भरतर्षभ
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः
धातुप्रस्यन्दिनः शैलाद यथा गैरिकराजयः
किं चिद विचलितः कर्णः सुप्रहाराभिपीडितः
स सायकं धनुः कृत्वा भीमं विव्याध मारिष
चिक्षेप च पुनर बाणाञ शतशॊ ऽथ सहस्रशः
स छाद्यमानः सहसा कर्णेन दृढधन्विना
धनुर्ज्याम अच्छिनत तूर्णम उत्स्मयन पाण्डुनन्दनः
सारथिं चास्य भल्लेन पराहिणॊद यमसादनम
वाहांश च चतुरं संख्ये वयसूंश चक्रे महारथः
हताश्वात तु रथात कर्णः समाप्लुत्य विशां पते
सयन्दनं वृषसेनस्य समारॊहन महारथः
निर्जित्य तु रणे कर्णं भीमसेनः परतापवान
ननाद सुमहानादं पर्जन्यनिनदॊपमम
तस्य तं निनदं शरुत्वा परहृष्टॊ ऽभूद युधिष्ठिरः
कर्णं च निर्जितं मत्वा भीमसेनेन भारत
समन्ताच छङ्खनिनदं पाण्डुसेनाकरॊत तदा
शत्रुसेना धवनिं शरुत्वा तावका हय अपि नानदन
गाण्डीवं पराक्षिपत पार्थः कृष्णॊ ऽपय अब्जम अवादयत
तम अन्तर धाय निनदं धवनिर भीमस्य नर्दतः
अश्रूयत महाराज सर्वसैन्येषु भारत
ततॊ वयायच्छताम अस्त्रैः पृथक्पृथग अरिंदमौ
मृदुपूर्वं च राधेयॊ दृढपूर्वं च पाण्डवः
[स]
तस्मिन विलुलिते सैन्ये सैन्धवायार्जुने गते
सात्वते भीमसेने च पुत्रस ते दरॊणम अभ्ययात
तवरन्न एकरथेनैव बहु कृत्यं विचिन्तयन
स रथस तव पुत्रस्य तवरया परया युतः
तूर्णम अभ्यपतद दरॊणं मनॊमारुत वेगवान
उवाच चैनं पुत्रस ते संरम्भाद रक्तलॊचनः
अर्जुनॊ भीमसेनश च सात्यकिश चापराजितः
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः
संप्राप्ताः सिन्धुराजस्य समीपम अरिकर्शनाः
वयायच्छन्ति च तत्रापि सर्व एवापराजिताः
यदि तावद रणे पार्थॊ वयतिक्रान्तॊ महारथः
कथं सात्यकिभीमभ्यां वयतिक्रान्तॊ ऽसि मानद
आश्चर्यभूतं लॊके ऽसमिन समुद्रस्येव शॊषणम
निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च
तथैव भीमसेनेन लॊकः संवदते भृशम
कथं दरॊणॊ जितः संख्ये धनुर्वेदस्य पारगः
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे
यत्र तवां पुरुषव्याघ्रम अतिक्रान्तास तरियॊ रथाः
एवंगते तु कृत्ये ऽसमिन बरूहि यत ते विवक्षितम
यद गतं गतम एवेह शेषं चिन्तय मानद
यत्कृत्यं सिन्धुराजस्य पराप्तकालम अनन्तरम
तद बरवीतु भवान कषिप्रं साधु तत संविधीयताम
[दर्न]
चिन्त्यं बहु महाराज कृत्यं यत तत मे शृणु
तरयॊ हि समतिक्रान्ताः पाण्डवानां महारथाः
यावद एव भयं पश्चात तावद एषां पुरःसरम
तद गरीयस्तरं मन्ये यत्र कृष्ण धनंजयौ
सा पुरस्ताच च पश्चाच च गृहीता भारती चमूः
तत्र कृत्यम अहं मन्ये सैन्धवस्याभिरक्षणम
स नॊ रक्ष्यतमस तात करुद्धाद भीतॊ धनंजयात
गतौ हि सैन्धवं वीरौ युयुधान वृकॊदरौ
संप्राप्तं तद इदं दयूतं यत तच छकुनि बुद्धिजम
न सभायां जयॊ वृत्तॊ नापि तत्र पराजयः
इह नॊ गलहमानानाम अद्य तात जयाजयौ
यान सम तान गलहते घॊराञ शकुनिः कुरुसंसदि
अक्षान संमन्यमानः स पराक शरास ते दुरासदाः
यत्र ते बहवस तात कुरवः पर्यवस्थिताः
सेनां दुरॊदरं विद्धि शरान अक्षान विशां पते
गलहं च सैन्धवं राजन्न अत्र दयूतस्य निश्चयः
सैन्धवे हि महाद्यूतं समासक्तं परैः सह
अत्र सर्वे महाराज तयक्त्वा जीवितम आत्मनः
सैन्धवस्य रणे रक्षां विधिवत कर्तुम अर्हथ
तत्र नॊ गलहमानानां धरुवौ तात जयाजयौ
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम
तत्र याहि सवयं शीघ्रं तांश च रक्षस्व रक्षिणः
इहैव तव अहम आसिष्ये परेषयिष्यामि चापरान
निरॊत्स्यामि च पाञ्चालान सहितान पाण्डुसृञ्जयैः
ततॊ दुर्यॊधनः परायात तूर्णम आचार्य शासनात
उद्यम्यामानम उग्राय कर्मणे सपदानुगः
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
बाह्येन सेनाम अभ्येत्य जग्मतुः सव्यसाचिनम
तौ हि पूर्वं महाराज वारितौ कृतवर्मणौ
परविष्टे तव अर्जुने राजंस तव सैन्यं युयुत्सया
ताभ्यां दुर्यॊधनः सार्धम अगच्छद युद्धम उत्तमम
तवरितस तवरमाणाभ्यां भरातृभ्यां भारतॊ बली
ताव अभिद्रवताम एनम उभाव उद्यतकार्मुकौ
महारथसमाख्यातौ कषत्रिय परवरौ युधि
युधामन्युस तु संक्रुद्धः शरांस तरिंशतम आयसान
वयसृजत तव पुत्रस्य तवरमाणः सतनान्तरे
दुर्यॊधनॊ ऽपि राजेन्द्र पाञ्चाल्यस्यॊत्तमौजसः
जघान चतुरश चाश्वान उभौ च पार्ष्णिसारथी
ऊतमौजा हताश्वस तु हतसूतश च संयुगे
आरुरॊह रथं भरातुर युधामन्यॊर अभित्वरन
स रथं पराप्य तं भरातुर दुर्यॊधन हयाञ शरैः
बहुभिस ताडयाम आस ते हताः परापतन भुवि
हयेषु पतितेष्व अस्य चिच्छेद परमेषुणा
युधामन्युर धनुः शीघ्रं शरावापं च संयुगे
हताश्वसूतात स रथाद अवप्लुत्य महारथः
गदाम आदाय ते पुत्रः पाञ्चाल्याव अभ्यधावत
तम आपतन्तं संप्रेक्ष्य करुद्धं परपुरंजयम
अवप्लुतौ रथॊपस्थाद युधामन्यूत्तमौजसौ
ततः स हेमचित्रं तं सयन्दनप्रवरं गदी
गदया पॊथयाम आस साश्वसूत धवजं रणे
हत्वा चैनं सपुत्रस ते हताश्वॊ हतसारथिः
मद्रराजरथं तूर्णम आरुरॊह परंतपः
पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबजौ
रथम अन्यं समारुह्य धनंजयम अभीयतुः
[धृ]
यौ तौ कर्णश च भीमश च संप्रयुद्धौ महाबलौ
अर्जुनस्य रथॊपान्ते कीदृशः सॊ ऽभवद रणः
पूर्वं हि निर्जितः कर्णॊ भीमसेनेन संयुगे
कथं भूयस तु राधेयॊ भीमम आगान महारथः
भीमॊ वा सूत तनयं परत्युद्यातः कथं रणे
महारथसमाख्यातं पृथिव्यां परवरं रथम
भीष्मद्रॊणाव अतिक्रम्य धर्मपुत्रॊ युधिष्ठिरः
नान्यतॊ भयम आदत्त विना कर्णं धनुर्धरम
भयन न शेते सततं चिन्तयन वै महारथम
तं कथं सूतपुत्रं हि भीमॊ ऽयुध्यत संयुगे
बरह्मण्यं वीर्यसंपन्नं समरेष्व अनिवर्तिनम
कथं कर्णं युधां शरेष्टहं भीमॊ ऽयुध्यत संयुगे
यौ तौ समीयतुर वीराव अर्जुनस्य रथं परति
कथं नु ताव अयुध्येतां सूतपुत्र वृकॊदरौ
भरातृत्वदर्शितं पूर्वं घृणी चापि ससूतजः
कथं भीमेन युयुधे कुन्त्या वाक्यम अनुस्मरन
भीमॊ वा सूतपुत्रेण समरन वैरं पुरा कृतम
सॊ ऽयुध्यत कथं वीरः कर्णेन सह संयुगे
आशास ते च सदा सूतपुत्रॊ दुर्यॊधनॊ मम
कर्णॊ जेष्यति संग्रामे सहितान पाण्डवान इति
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे
स कथं भीमकर्माणं भीमसेनम अयुध्यत
यं समाश्रित्य पुत्रैर मे कृतं वैरं महारथैः
तं सूत तनयं तात कथं भीमॊ हय अयॊधयत
अनेकान विप्रकारांश च सूतपुत्र समुद्भवान
समरमाणः कथं भीमॊ युयुधे सूत सूनुना
यॊ ऽजयत पृथिवीं सर्वां रथेनैकेन वीर्यवान
तं सूत तनयं युद्धे कथं भीमॊ हय अयॊधयत
यॊ जातः कुण्डलाभ्यां च कवचेन सहैव च
तं सूतपुत्रं समरे भीमः कथम अयॊधयत
यथा तयॊर युद्धम अभूद यश चासीद विजयी तयॊः
तन ममाचक्ष्व तत्त्वेन कुशलॊ हय असि संजय
[स]
भीमसेनस तु राधेयम उत्सृज्य रथिनां वरम
इयेष गन्तुं यत्रास्तां वीरौ कृष्ण धनंजयौ
तं परयान्तम अभिद्रुत्य राधेयः कङ्कपत्रिभिः
अभ्यवर्षन महाराज मेघॊ वृष्ट्येव पर्वतम
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन बली
आजुहाव रणे यान्तं भीमम आधिरथिस तदा
भीमसेनस तदाह्वानं कर्णान नामर्षयद युधि
अर्धमण्डलम आवृत्य सूतपुत्रम अयॊधयत
अवक्रगामिभिर बाणैर अभ्यवर्षन महायसैः
दवैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम
विधित्सुः कलहस्यान्तं जिघांसुः कर्णम अक्षिणॊत
तं च हत्वेतरान सर्वान हन्तुकामॊ महाबलः
तस्मै परासृजद उग्राणि विविधानि परंतपः
अमर्षी पाण्डवः करुद्धः शरवर्षाणि मारिष
तस्य तानीषु वर्षाणि मत्तद्विरदगामिनः
सूतपुत्रॊ ऽसत्रमायाभिर अग्रसत सुमहायशाः
स यथा वन महाराज विद्यया वै सुपूजितः
आचार्यवन महेष्वासः कर्णः पर्यचरद रणे
संरम्भेण तु युध्यन्तं भीमसेनं समयन्न इव
अभ्यपद्यत राधेयस तम अमर्षी वृकॊदरम
तन नामृष्यत कौन्तेयः कर्णस्य समितम आहवे
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः
तं भीमसेनः संप्राप्तं वत्सदन्तैः सतनान्तरे
विव्याध बलवान करुद्धस तॊत्त्रैर इव महाद्विपम
सूतं तु सूतपुत्रस्य सुपुङ्खैर निशितैः शरैः
सुमुक्तैश चित्रवर्माणं निर्बिभेद तरिसप्तभिः
कर्णॊ जाम्बूनदैर जालैः संछन्नान वातरंहसः
विव्याध तुरगान वीरः पञ्चभिः पञ्चभिः शरैः
ततॊ बाणमयं जालं भीमसेनरथं परति
कर्णेन विहितं राजन निमेषार्धाद अदृश्यत
स रथः स धवजस तत्र ससूतः पाण्डवस तदा
पराछाद्यत महाराज कर्ण चापच्युतैः शरैः
तस्य कर्णश चतुःषष्ट्या वयधमत कवचं दृढम
करुद्धश चाप्य अहनत पार्श्वे नाराचैर मर्मभेदिभिः
ततॊ ऽचिन्त्यमहावेगान कर्ण कार्मुकनिःसृतान
समाश्लिष्यद असंभ्रान्तः सूतपुत्रं वृकॊदरः
स कर्ण चापप्रभवान इषून आशीविषॊपमान
बिभ्रद भीमॊ महाराज न जगाम वयथां रणे
ततॊ दवात्रिंशता भल्लैर निशितैस तिग्मतेजनैः
विव्याध समरे कर्णं भीमसेनः परतापवान
अयत्नेनैव तं कर्णः शरैर उप समाकिरत
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम
मृदुपूर्वं च राधेयॊ भीमम आजाव अयॊधयत
करॊधपूर्वं तथा भीमः पूर्ववैरम अनुस्मरन
तं भीमसेनॊ नामृष्यद अवमानम अमर्षणः
स तस्मै वयसृजत तूर्णं शरवर्षम अमित्रजित
ते शराः परेषिता राजन भीमसेनेन संयुगे
निपेतुः सर्वतॊ भीमाः कूजन्त इव पक्षिणः
हेमपुङ्खा महाराज भीमसेनधनुश चयुताः
अभ्यद्रवंस ते राधेयं वृकाः कषुद्रमृगं यथा
कर्णस तु रथिनां शरेष्ठश छाद्यमानः समन्ततः
राजन वयसृजद उग्राणि शरवर्षाणि संयुगे
तस्य तान अशनिप्रख्यान इषून समरशॊभिनः
चिच्छेद बहुभिर भल्लैर असंप्राप्तान वृकॊदरः
पुनश च शरवर्षेण छादयाम आस भारत
कर्णॊ वैकर्तनॊ युद्धे भीमसेनं महारथम
तत्र भारत भीमं तु हृष्टवन्तः सम सायकैः
समाचित तनुं संख्ये शवाविधं शलिलैर इव
हेमपुङ्खाञ शिला दौतान कर्ण चापच्युताञ शरान
दधार समरे वीरः सवरश्मीन इव भास्करः
रुधिरॊक्षितसर्वाङ्गॊ भीमसेनॊ वयरॊचत
तपनीयनिभैः पुष्पैः पलाश इव कानने
तत तु भीमॊ महाराज कर्णस्य चरितं रणे
नामृष्यत महेष्वासः करॊधाद उद्वृत्य चक्षुषी
स कर्णं पञ्चविंशत्या नारचानां समार्पयत
महीधरम इव शवेतं गूढपादैर विषॊल्बणैः
तं विव्याध पुनर भीमः षड्भिर अष्टाभिर एव च
मर्मस्व अमर विक्रान्तः सूतपुत्रं महारणे
ततः कर्णस्य संक्रुद्धॊ भीमसेनः परतापवान
चिच्छेद कार्मुकं तूर्णं सर्वॊपकरणानि च
जघान चतुरश चाश्वान सूतं च तवरितः शरैः
नाराचैर अर्करश्म्य आभैः कर्णं विव्याध चॊरसि
ते जग्मुर धरणीं सर्वे कर्णं निर्भिद्य मारिष
यथा हि जलदं भित्त्वा राजन सूर्यस्य रश्मयः
स वैकल्यं महत पराप्य छिन्नधन्वा शरार्दितः
तथा पुरुषमानी स परत्यपायाद रथान्तरम
[धृ]
यस्मिञ जयाशा सततं पुत्राणां मम संजय
तं दृष्ट्वा विमुखं संख्ये किं नु दुर्यॊधनॊ ऽबरवीत
कर्णॊ वा समरे तात किम अकार्षीद अतः परम
[स]
भीमसेनं रणे दृष्ट्वा जवलन्तम इव पावकम
रथम अन्यं समास्थाय विधिवत कल्पितं पुनः
अभ्ययात पाण्डवं कर्णॊ वातॊद्धूत इवार्णवः
करुद्धम आधिरथिं दृष्ट्वा पुत्रास तव विशां पते
भीमसेनम अमन्यन्त वैवस्वतमुखे हुतम
चापशब्दं महत कृत्वा तलशब्दं च भैरवम
अभ्यवर्तत राधेयॊ भीमसेनरथं परति
पुनर एव ततॊ राजन महान आसीत सुदारुणः
विमर्दः सूतपुत्रस्य भीमस्य च विशां पते
संरब्धौ हि महाबाहू परस्परवधैषिणौ
अन्यॊन्यम ईक्षां चक्राते दहन्ताव इव लॊचनैः
करॊधरक्तेक्षणौ करुद्धौ निःश्वसन्तौ महारथौ
युद्धे ऽनयॊन्यं समासाद्य ततक्षतुर अरिंदमौ
वयाघ्राव इव सुसंरब्धौ शयेनाव इव च शीघ्रगौ
शरभाव इव संक्रुद्धौ युयुधाते परस्परम
ततॊ भीमः समरन कलेशान अक्षद्यूते वने ऽपि च
विराटनगरे चैव पराप्तं दुःखम अरिंदमः
राष्ट्राणां सफीतरत्नानां हरणं च तवात्मजैः
सततं च परिक्लेशान सपुत्रेण तवया कृतान
दग्धुम ऐच्छश च यत कुन्तीं सपुत्रां तवम अनागसम
कृष्णायाश च परिक्लेशं सभामध्ये दुरात्मभिः
पतिम अन्यं परीप्सस्व न सन्ति पतयस तव
नकरं पतिताः पार्थाः सर्वे षण्ढतिलॊपमाः
समक्षं तव कौरव्य यद ऊचुः कुरवस तदा
दासी भॊगेन कृष्णां च भॊक्तुकामाः सुतास तव
यच चापि तान परव्रजतः कृष्णाजिननिवासिनः
परुषाण्य उक्तवान कर्णः सभायां संनिधौ तव
तृणी कृत्यच यत पार्थांस तव पुत्रॊ ववल्ग ह
विषमस्थान समस्थॊ हि संरम्भाद गतचेतसः
बाल्यात परभृति चारिघ्नस तानि दुःखानि चिन्तयन
निरविद्यत धर्मात्मा जीवितेन वृकॊदरः
ततॊ विस्फार्य सुमहद धेमपृष्ठं दुरासदम
चापं भरतशार्दूलस तयक्तात्मा कर्णम अभ्ययात
स सायकमयैर जालैर भीमः कर्ण रथं परथि
भानुमद्भिः शिला धौतैर भानॊः परच्छादयत परभाम
ततः परहस्याधिरथिस तूर्णम अस्यञ शिताञ शरान
वयधमद भीमसेनस्य शरजालानि पत्रिभिः
महारथॊ महाबाहुर महावेगैर महाबलः
विव्याधाधिरथिर भीमं नवभिर निशितैः शरैः
स तॊत्त्रैर इव मातङ्गॊ वार्यमाणः पतत्रिभिः
अभ्यधावद असंभ्रान्तः सूतपुत्रं वृकॊदरः
तम आपतन्तं वेगेन रभसं पाण्डवर्षभम
कर्णः परयुद्ययौ यॊद्धुं मत्तॊ मत्तम इव दविपम
ततः परध्माप्य जलजं भेरी शतनिनादितम
अक्षुभ्यत बलं हर्षाद दुधूत इव सागरः
तद उद्धूतं बलं दृष्ट्व रथनागाश्वपत्तिमत
भीमः कर्णं समासाद्य छादयाम आस सायकैः
अश्वान ऋश्य सवर्णांस तु हंसवर्णैर हयॊत्तमैः
वयामिश्रयद रणे कर्णः पाण्डवं छादयञ शरैः
ऋश्य वर्णान हयान कर्कैर मिश्रान मारुतरंहसः
निरीक्ष्य तव पुत्राणां हाहाकृतम अभूद बलम
ते हया बह्व अशॊभन्त मिश्रिता वातरंहसः
सितासिता महाराज यथा वयॊम्नि बलाहकाः
संरब्धौ करॊधताम्राक्षौ परेक्ष्य कर्ण वृकॊदरौ
संत्रस्ताः समकम्पन्त तवदीयानां महारथाः
यम राष्ठॊपमं घॊरम आसीद आयॊधनं तयॊः
दुर्दर्शं भरतश्रेष्ठ परेतराजपुरं यथा
समाजम इव तच चित्रं परेक्षमाणा महारथाः
नालक्षयज जयं वयक्तम एकैकस्य निवारणे
तयॊः परैक्षन्त संमर्दं संनिकृष्टमहास्त्रयॊः
तव दुर्मन्त्रिते राजन सपुत्रस्य विशां पते
छादयन्तौ हि शत्रुघ्नाव अन्यॊन्यं सायकैः शितैः
शरजालावृतं वयॊम चक्राते शरवृष्टिभिः
ताव अन्यॊन्यं जिघांसन्तौ शरैस तीष्णैर महारथौ
परेक्षणीयतराव आस्तां वृष्टिमन्ताव इवाम्बुदौ
सुवर्णविकृतान बाणान परमुञ्चन्ताव अरिंदमौ
भास्वरं वयॊम चक्राते वह्न्य उल्काभिर इव परभॊ
ताभ्यां मुक्ता वयकाशन्त कङ्कबर्हिण वाससः
पङ्क्त्यः शरदि मत्तानां सारसानाम इवाम्बरे
संसक्तं सूतपुत्रेण दृष्ट्वा भीमम अरिंदमम
अतिभारम अमन्येतां भीमे कृष्ण धनंजयौ
तत्राधिरथि भीमाभ्यां शरैर मुक्तैर दृढाहताः
इषुपातम अतिक्रम्य पेतुर अश्वनरद्विपाः
पतद्भिः पतितैश चान्यैर गतासुभिर अनेकशः
कृतॊ महान महाराज पुत्राणां ते जनक्षयः
मनुष्याश्वगजानां च शरीरैर गतजीवितैः
कषणेन भूमिः संजज्ञे संवृता भरतर्षभ
[धृ]
अत्यद्भुतम अहं मन्ये भीमसेनस्य विक्रमम
यत कर्णं यॊधयाम आस समरे लघुविक्रमम
तरिदशान अपि चॊद्युक्तान सर्वशस्त्रधरान युधि
वारयेद यॊ रणे कर्णः स यक्षसुरमानवान
स कथं पाण्डवं युद्धे भराजमानम इव शरिया
नातरत संयुगे तातस तन ममाचक्ष्व संजय
कथं च युद्धं भूयॊ ऽभूत तयॊः पराणदुरॊदरे
अत्र मन्ये समायत्तॊ जयॊ वाजय एव वा
कर्णं पराप्य रणे सूत मम पुत्रः सुयॊधनः
जेतुम उत्सहते पार्थान स गॊविन्दान स सात्वतान
शरुत्वा तु निर्जितं कर्मम असकृद भीमकर्मणा
भीमसेनेन समरे मॊह आविशतीव माम
विनष्टान कौरवान मन्ये मम पुत्रस्य दुर्नयैः
न हि कर्णॊ महेष्वासान पार्थाञ जयेष्यति संजय
कृतवान यानि युद्धानि कर्णः पाण्डुसुतैः सह
सर्वत्र पाण्डवाः कर्णम अजयन्त रणाजिरे
अजय्याः पाण्डवास तात देवैर अपि स वासवैः
न च तद बुध्यते मन्दः पुत्रॊ दुर्यॊधनॊ मम
धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः
मधु परेप्सुर इवाबुद्धिः परपातं नावबुध्यते
निकृत्या निकृतिप्रज्ञॊ राज्यं हृत्वा महात्मनाम
जितान इत्य एव मन्वानः पाण्डवान अवमन्यते
पुत्रस्नेहाभिभूतेन मया चाप्य अकृतात्मना
धर्मे सथिता महात्मानॊ निकृताः पाणुनन्दनाः
शम कामः सदा पार्थॊ दीर्घप्रेक्षी युधिष्ठिरः
अशक्त इति मन्वानैः पुत्रैर मम निराकृतः
तानि दुःखान्य अनेकानि विप्रकारांश च सर्वशः
हृदि कृत्वा महाबाहुर भीमॊ ऽयुध्यत सूतजम
तस्मान मे संजय बरूहि कर्ण भीमौ यथा रणे
अयुध्येतां युधि शरेष्ठौ परस्परवधैषिणौ
[स]
शृणु राजन यथावृत्तः संग्रामः कर्ण भीमयॊः
परस्परवध परेप्स्वॊर वने कुञ्जरयॊर इव
राजन वैकर्तनॊ भीमं करुद्धः करुद्धम अरिंदमम
पराक्रान्तं पराक्रम्य विव्याध तरिंशता शरैः
महावेगैः परसन्नाग्रैः शातकुम्भपरिष्कृतैः
आहनद भरतश्रेष्ठ भीमं वैकर्तनः शरैः
तस्यास्यतॊ धनुर भीमश चकर्त निशितैस तरिभीः
रथनीडाच च यन्तारं भल्लेनापातयत कषितौ
स काङ्क्षन भीमसेनस्य वधं वैकर्तनॊ वृषः
शक्तिं कनकवैडूर्य चित्रदण्डां परामृशत
परगृह्य च महाशक्तिं कालशक्तिम इवापराम
समुत्क्षिप्य च राधेयः संधाय च महाबलः
चिक्षेप भीमसेनाय जीवितान्तकरीम इव
शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम
ननाद सुमहानादं बलवान सूतनन्दनः
तं च नादं ततः शरुत्वा पुत्रास ते हृषिताभवन
तां कर्ण भुजनिर्मुक्ताम अर्कवैश्वानर परभाम
शक्तिं वियति चिच्छेद भीमः सप्तभिर आशुगैः
छित्त्वा शक्तिं ततॊ भीमॊ निर्मुक्तॊरग संनिभाम
मार्गमाण इव पराणान सूतपुत्रस्य मारिष
पराहिणॊन नव संरब्धः शरान बर्हिणवाससः
सवर्णपुङ्खाञ शिला धौतान यमदण्डॊपमान मृधे
कर्णॊ ऽपय अन्यद धनुर गृह्य हेमपृष्ठं दुरासदम
विकृष्य च महातेजा वयसृजत सायकान नव
तान पाण्डुपुत्रश चिच्छेद नवभिर नतपर्वभिः
वसु षेणेन निर्मुक्तान नव राजन महाशरान
छित्त्वा भीमॊ महाराज नादं सिंह इवानदत
तौ वृषाव इव नर्दन्तौ बलिनौ वाशितान्तरे
शार्दूलाव इव चान्यॊन्यम अत्यर्थं च हय अगर्जताम
अन्यॊन्यं परजिहीर्षन्ताव अन्यॊन्यस्यान्तरैषिणौ
अन्यॊन्यम अभिवीक्षन्तौ गॊष्ठेष्व इव महर्षभौ
महागजाव इवासाद्य विषाणाग्रैः परस्परम
शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः
निर्दहन्तौ महाराज शरवृष्ट्या परस्परम
अन्यॊन्यम अभिवीक्षन्तौ कॊपाद विवृतलॊचनौ
परहसन्तौ तथान्यॊन्यं भर्त्सयन्तौ मुहुर मुहुः
शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम
तस्य भीमः पुनश चापं मुष्टौ चिच्छेद मारिष
शङ्खवर्णाश च तान अश्वान बाणैर निन्ये यमक्षयम
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्यॊधनॊ नृपः
वेपमान इव करॊधाद वयादिदेशाथ दुर्जयम
गच्छ दुर्जय राधेयं पुरा गरसति पाण्डवः
जहि तूबरकं कषिप्रं कर्णस्य बलम आदधत
एवम उक्तस तथेत्य उक्त्वा तव पुत्रस तवात्मजम
अभ्यद्रवद भीमसेनं वयासक्तं विकिरञ शरान
स भीमं नवभिर बाणैर अश्वान अष्टभिर अर्दयत
षड्भिः सूतं तरिभिः केतुं पुनस तं चापि सप्तभिः
भीमसेनॊ ऽपि संक्रुद्धः साश्वयन्तारम आशुगैः
दुर्जयं भिन्नमर्माणम अनयद यमसादनम
सवलंकृतं कषितौ कषुण्णं चेष्टमानं यथॊरगम
रुदन्न आर्तस तव सुतं कर्णश चक्रे परदक्षिणम
स तु तं विरथं कृत्वा समयन्न अत्यन्तवैरिणम
समाचिनॊद बाणगणैः शतघ्नीम इव शङ्कुभिः
तथाप्य अतिरथः कर्णॊ भिद्यमानः सम सायकैः
न जहौ समरे भीमं दरुद्ध रूपं परंतपः
[स]
स तथा विरथः कर्णः पुनर भीमेन निर्जितः
रथम अन्यं समास्थाय सद्यॊ विव्याध पाण्डवम
महागजाव इवासाद्य विषाणाग्रैः परस्परम
शरैः पूर्णायतॊत्षृष्टैर अन्यॊन्यम अभिजघ्नतुः
अथ कर्णः शरव्रातैर भीमं बलवद अर्दयत
ननाद बलवन नादं पुनर विव्याध चॊरसि
तं भीमॊ दशभिर बाणैः परत्यविध्यद अजिह्मगैः
पुनर विव्याध विंशत्या शराणां नतपर्वणाम
कर्णस तु नवभिर भीमं विद्ध्वा राजन सतनान्तरे
धवजम एकेन विव्याध सायकेन शितेन ह
सायकानां ततः पार्थस तरिषष्ट्या परत्यविध्यत
तॊत्त्रैर इव महानागं कशाभिर इव वाजिनम
सॊ ऽतिविद्धॊ महाराज पाण्डवेन यशस्विना
सृक्किणी लेलिहन वीरः करॊधसंरक्तलॊचनः
ततः शरं महाराज सर्वकायावधारणम
पराहिणॊद भीमसेनाय बलायेन्द्र इवाशनिम
स निर्भिद्य रणे पार्थं सूतपुत्र धनुश्च्युतः
अगच्छद दारयन भूमिं चित्रपुङ्खः शिलीमुखः
सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम
पराहिणॊत सूतपुत्राय षड अस्त्राम अविचारयन
तया जघानाधिरथेः सदश्वान साधु वाहिनः
गदया भारतः करुद्धॊ वज्रेणेन्द्र इवासुरान
ततॊ भीमॊ महाबाहुः कषुराभ्यां भरतर्षभ
धवजम आधिरथेश छित्त्वा सूतम अभ्यहनत तदा
हताश्वसूतम उत्सृज्य रथं स पतितध्वजम
विस्फारयन धनुः कर्णस तस्थौ भारत दुर्मनाः
तत्राद्भुतम अपश्याम राधेयस्य पराक्रमम
विरथॊ रथिनां शरेष्ठॊ वारयाम आस यद रिपुम
विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिम आहवे
दुर्यॊधनस ततॊ राजन्न अभ्यभाषत दुर्मुखम
एष दुर्मुख राधेयॊ भीमेन विरथी कृतः
तं रथेन नरश्रेष्ठं संपादय महारथम
दुर्यॊधन वचः शरुत्वा ततॊ भारत दुर्मुखः
तवरमाणॊ ऽबययात कर्णं भीमं चावारयच छरैः
दुर्मुखं परेक्ष्य संग्रामे सूतपुत्र पदानुगम
वायुपुत्रः परहृष्टॊ ऽभूत सृक्किणी परिलेलिहन
ततः कर्णं महाराज वारयित्वा शिलीमुखैः
दुर्मुखाय रथं शीघ्रं परेषयाम आस पाण्डवः
तस्मिन कषणे महाराज नवभिर नतपर्वभिः
सुपुङ्खैर दुर्मुखं भीमः शरैर निन्ये यमक्षयम
ततस तम एवाधिरथिः सयन्दनं दुर्मुखे हते
आस्थितः परबभौ राजन दीप्यमान इवांशुमान
शयानं भिन्नमर्माणं दुर्मुखं शॊणितॊक्षितम
दृष्ट्वा कर्णॊ ऽशरुपूर्णाक्षॊ मुहूर्तं नाभ्यवर्तत
तं गतासुम अतिक्रम्य कृत्वा कर्णः परदक्षिणम
दीर्घम उष्णं शवसन वीरॊ न किं चित परत्यपद्यत
तस्मिंस तु विवरे राजन नाराचान गार्ध्रवाससः
पराहिणॊत सूतपुत्राय भीमसेनश चतुर्दश
ते तस्य कवचं भित्त्वा सवर्णपुङ्खा महौजसः
हेमचित्रा महाराज दयॊतयन्तॊ दिशॊ दश
अपिबन सूतपुत्रस्य शॊणितं रक्तभॊजनाः
करुद्धा इव मनुष्येन्द्र भुजगाः कालचॊदिताः
परसर्पमाणा मेदिन्यां ते वयरॊचन्त मार्गणाः
अर्धप्रविष्टाः संरब्धा बिलानीव महॊरगाः
तं परत्यविध्यद राधेयॊ जाम्बूनदविभूषितैः
चतुर्दशभिर अत्य उग्रैर नाराचैर अविचारयन
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः
पराविशन मेदिनीं भीमाः करौञ्चं पत्ररथा इव
ते वयरॊचन्त नाराचाः परविशन्तॊ वसुंधराम
गच्छत्य अस्तं दिनकरे दीप्यमाना इवांशवः
स निर्भिन्नॊ रणे भीमॊ नाराचैर मर्मभेदिभिः
सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा
स भीमस तरिभिर आयस्तः सूतपुत्रं पतत्रिभिः
सुपर्णवेगैर विव्याध सारथिं चास्य सप्तभिः
स विह्वलॊ महाराज कर्णॊ भीमबलार्दितः
पराद्रवज जवनैर अश्वै रणं हित्वा महायशाः
भीमसेनस तु विस्फार्य चापं हेमपरिष्कृतम
आहवे ऽतिरथॊ ऽतिष्ठज जवलन्न इव हुताशनः
[धृ]
दैवम एव परं मन्ये धिक पौरुषम अनर्थकम
यत्राधिरथिर आयस्तॊ नातरत पाण्डवं रणे
कर्णः पार्थान स गॊविन्दाञ जेतुम उत्सहते रणे
न च कर्ण समं यॊधं लॊके पश्यामि कं चन
इति दुर्यॊधनस्याहम अश्रौषं जल्पतॊ मुहुः
कर्णॊ हि बलवाञ शूरॊ दृढधन्वा जितक्लमः
इति माम अब्रवीत सूत मन्दॊ दुर्यॊधनः पुरा
वसु षेण सहायं मां नालं देवापि संयुगे
किम उ पाण्डुसुता राजन गतसत्त्वा विचेतसः
तत्र तं निर्जितं दृष्ट्वा भुजंगम इव निर्विषम
युद्धात कर्णम अपक्रान्तं किं सविद दुर्यॊधनॊ ऽबरवीत
अहॊ दुर्मुखम एवैकं युद्धानाम अविशारदम
परावेशयद युद्धवहं पतंगम इव मॊहितः
अश्वत्थामा मद्रराजः कृपः कर्णश च संगताः
न शक्ताः परमुखे सथातुं नूनं भीमस्य संजय
ते ऽपि चास्य महाघॊरं बलं नागायुतॊपमम
जानन्तॊ वयवसायं च करूरं मारुत तेजसः
किमर्थं करूरकर्माणं यम कालान्तकॊपमम
बलसंरम्भ वीर्यज्ञाः कॊपयिष्यन्ति संयुगे
कर्णस तव एकॊ महाबाहुः सवबाहुबलम आश्रितः
भीमसेनम अनादृत्य रणे ऽयुध्यत सूतजः
यॊ ऽजयत समरे कर्णं पुरंदर इवासुरम
न स पाण्डुसुतॊ जेतुं शक्यः केन चिद आहवे
दरॊणं यः संप्रमथ्यैकः परविष्टॊ मम वाहिनीम
भीमॊ धनंजयान्वेषी कस तम अर्छेज जिजीविषुः
कॊ हि संजय भीमस्य सथातुम उत्सहते ऽगरतः
उद्यताशनि वज्रस्य महेन्द्रस्येव दानवः
परेतराजपुरं पराप्य निवर्तेतापि मानवः
न भीमसेनं संप्राप्य निवर्तेत कदा चन
पतंगा इव वह्निं ते पराविशन्न अल्पचेतसः
ये भीमसेनं संक्रुद्धम अभ्यधावन विमॊहिताः
यत तत सभायां भीमेन मम पुत्रवधाश्रयम
शप्त संरम्भिणॊग्रेण कुरूणां शृण्वतां तदा
तन नूनम अभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम
दुःशासनः सह भरात्रा भयाद भीमाद उपारमत
यश च संजय दुर्बुद्धिर अब्रवीत समितौ मुहुः
कर्णॊ दुःशासनॊ ऽहं च जेष्यामॊ युधि पाण्डवान
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम
परत्याख्यानाच च कृष्णस्य भृशं तप्यति संजय
दृष्ट्वा भरातॄन हतान युद्धे भीमसेनेन दंशितान
आत्मापराधात सुमहन नूनं तप्यति पुत्रकः
कॊ हि जीवितम अन्विच्छन परतीपं पाण्डवं वरजेत
भीमं भीमायुधं करुद्धं साक्षात कालम इव सथितम
वडवामुखमध्यस्थॊ मुच्येतापि हि मानवः
न भीम मुखसंप्राप्तॊ मुच्येतेति मतिर मम
न पाण्डवा न पाञ्चाला न च केशव सात्यकी
जानन्ति युधि संरब्धा जीवितं परिरक्षितुम
[स]
यत संशॊचसि कौरव्य वर्तमाने जनक्षये
तवम अस्य जगतॊ मूलं विनाशस्य न संशयः
सवयं वैरं महत कृत्वा पुत्राणां वचने सथितः
उच्यमानॊ न गृह्णीषे मर्त्यः पथ्यम इवौषधम
सवयं पीत्वा महाराज कालकूटं सुदुर्जरम
तस्येदानीं फलं कृत्स्नम अवाप्नुहि नरॊत्तम
यत तु कुत्सयसे यॊधान युध्यमानान यथाबलम
अत्र ते वर्णयिष्यामि यथा युद्धम अवर्तत
दृष्ट्वा कर्णं तु पुत्रास ते भीमसेन पराजितम
नामृष्यन्त महेष्वासाः सॊदर्याः पञ्च मारिष
दुर्मर्षणॊ दुःसहश च दुर्मदॊ दुर्धरॊ जयः
पाण्डवं चित्रसंनाहास तं परतीपम उपाद्रवन
ते समन्तान महाबाहुं परिवार्य वृकॊदरम
दिशः शरैः समावृण्वञ शलभानाम इव वरजैः
आगच्छतस तान सहसा कुमारान देवरूपिणः
परतिजग्राह समरे भीमसेनॊ हसन्न इव
तव दृष्ट्वा तु तनयान भीमसेन समीपगान
अभ्यवर्तत राधेयॊ भीमसेनं महाबलम
विसृजन विशिखान राजन सवर्णपुङ्खाञ शिलाशितान
तं तु भीमॊ ऽभययात तूर्णं वार्यमाणः सुतैस तव
कुरवस तु ततः कर्णं परिवार्य समन्ततः
अवाकिरन भीमसेनं शरैः संनतपर्वभिः
तान बाणैः पञ्चविंशत्या साश्वान राजन नरर्षभान
स सुतान भीम धनुषॊ भीमॊ निन्ये यमक्षयम
परापतन सयन्दनेभ्यस ते सार्धं सूतैर गतासवः
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः
तत्राद्भुतम अपश्याम भीमसेनस्य विक्रमम
संवार्याधिरथिं बाणैर यज जघान तवात्मजान
स वार्यमाणॊ भीमेन शितैर बाणैः समन्ततः
सूतपुत्रॊ महाराज भीमसेनम अवैक्षत
तं भीमसेनः संरम्भात करॊधसंरक्तलॊचनः
विस्फार्य सुमहच चापं मुहुः कर्णम अवैक्षत
[स]
तवात्मजांस तु पतितान दृष्ट्वा कर्णः परतापवान
करॊधेन महताविष्टॊ निर्विण्णॊ ऽभूत स जीवितात
आगः कृतम इवात्मानं मेने चाधिरथिस तदा
भीमसेनं ततः करुद्धः समाद्रवत संभ्रमात
स भीमं पञ्चभिर विद्ध्वा राधेयः परहसन्न इव
पुनर विव्याध सप्तत्या सवर्णपुङ्खैः शिलाशितैः
अवहासं तु तं पार्थॊ नामृष्यत वृकॊदरः
ततॊ विव्याध राधेयं शतेन नतपर्वणाम
पुनश च विशिखैस तीक्ष्णैर विद्ध्वा पञ्चभिर आशुगैः
धनुश चिच्छेद भल्लेन सूतपुत्रस्य मारिष
अथान्यद धनुर आदाय कर्णॊ भारत दुर्मनाः
इषुभिश छादयाम आस भीमसेनं समन्ततः
तस्य भीमॊ हयान हत्वा विनिहत्य च सारथिम
परजहास महाहासं कृते परतिकृतं पुनः
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः
तत पपात महाराज सवर्णपृष्ठं महास्वनम
अवारॊहद रथात तस्माद अथ कर्णॊ महारथः
गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत
ताम आपतन्तीं सहसा गदां दृष्ट्वा वृकॊदरः
शरैर अवारयद राजन सर्वसैन्यस्य पश्यतः
ततॊ बाणसहस्राणि परेषयाम आस पाण्डवः
सूतपुत्र वधाकाङ्क्षी तवरमाणः पराक्रमी
तान इषून इषुभिः कर्णॊ वारयित्वा महामृधे
कवचं भीमसेनस्य पातयाम आस सायकैः
अथैनं पञ्चविंशत्या कषुद्रकाणां समार्पयत
पश्यतां सर्वभूतानां तद अद्भुतम इवाभवत
ततॊ भीमॊ महाराज नवभिर नतपर्वणाम
रणे ऽपरेषयत करुद्धः सूतपुत्रस्य मारिष
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम
अभ्यगुर धरणीं तीक्ष्णा वल्मीकम इव पन्नगाः
राधेयं तु रणे दृष्ट्वा पदातिनम अवस्थितम
भीमसेनेन संरब्धं राजा दुर्यॊधनॊ ऽबरवीत
तवरध्वं सर्वतॊ यत्ता राधेयस्य रथं परति
ततस तव सुता राजञ शरुत्वा भरातुर वचॊ दरुतम
अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ शरान
चित्रॊपचित्रश चित्राक्षश चारु चित्रः शरासनः
चित्रायुधश चित्रवर्मा समरे चित्रयॊधिनः
आगच्छतस तान सहसा भीमॊ राजन महारथः
साश्वसूत धवजान यत्तान पातयाम आस संयुगे
ते हता नयपतन भूमौ वातनुन्ना इव दरुमाः
दृष्ट्वा विनिहतान पुत्रांस तव राजन महारथान
अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत
रथम अन्यं समास्थाय विधिवत कल्पितं पुनः
अभ्ययात पाण्डवं युद्धे तवरमाणः पराक्रमी
ताव अन्यॊन्यं शरैर विद्ध्वा सवर्णपुङ्खैः शिलाशितैः
वयभ्राजेतां महाराज पुष्पिताव इव किंशुकौ
षट तरिंशद्भिस ततॊ भल्लैर निशितैस तिग्मतेजनैः
वयधमत कवचं करुद्धः सूतपुत्रस्य पाण्डवः
रक्तचन्दन दिग्धाङ्गौ शरैः कृतमहाव्रणौ
शॊणिताक्तौ वयराजेतां कालसूर्याव इवॊदितौ
तौ शॊणितॊक्षितैर गात्रैः शरैश छिन्नतनुच छदौ
विवर्माणौ वयराजेतां निर्मुक्ताव इव पन्नगौ
वयाघ्राव इव नरव्याघ्रौ दंष्ट्राभिर इतरेतरम
शरदंष्ट्रा विधुन्वानौ ततक्षतुर अरिंदमौ
वारणाव इव संसक्तौ रङ्गमध्ये विरेजतुः
तुदन्तौ विशिखैस तीक्ष्णैर मत्तवारणविक्रमौ
परच्छादयन्तौ समरे शल जालैः परस्परम
रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः
तौ रथाभ्यां महाराज मण्डलावर्तनादिषु
वयरॊचेतां महात्मानौ वृत्र वज्रधराव इव
स हस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन धनुः
वयरॊचत रणे भीमः स विद्युद इव तॊयदः
स चापघॊषस्तनितः शरधाराम्बुदॊ महान
भीम मेघॊ महाराज कर्ण पर्वतम अभ्ययात
ततः शरसहस्रेण धनुर्मुक्तेन भारत
पाण्डवॊ वयकिरत कर्णं घनॊ ऽदरिम इव वृष्टिभिः
तत्रावैक्षन्त पुत्रास ते भीमसेनस्य विक्रमम
सुपुङ्खैः कङ्कवासॊभिर यत कर्णं छादयच छरैः
स नन्दयन रणे पार्थं केशवं च यशस्विनम
सात्यकिं चक्ररक्षौ च भीमः कर्णम अयॊधयत
विक्रमं भुजयॊर वीर्यं धैर्यं च विदितात्मनः
पुत्रास तव महाराज ददृशुः पाण्डवस्य ह
[स]
भीमसेनस्य राधेयः शरुत्वा जयातलनिस्वनम
नामृष्यत यथामत्तॊ गजः परतिगज सवनम
अपक्रम्य स भीमस्य मुहूर्तं शरगॊचरात
तव चाधिरथिर दृष्ट्वा सयन्दनेभ्यश चयुतान सुतान
भीमसेनेन निहतान विमना दुःखितॊ ऽभवत
निःश्वस्न दीर्घम उष्णं च पुनः पाण्डवम अभ्ययात
स ताम्रनयनः करॊधाच छवसन्न इव महॊरगः
बभौ कर्णः शरान अस्यन रश्मिवान इव भास्करः
रश्मिजालैर इवार्कस्य विततैर भरतर्षभः
कर्ण चापच्युतैर बाणैः पराच्छाद्यत वृकॊदरः
कर्ण चापच्युताश चित्राः शरा बर्हिणवाससः
विविशुः सर्वतः पार्थं वासायेवाण्डजा दरुमम
कर्ण चापच्युता बाणाः संपतन्तस ततस ततः
रुक्मपुङ्खा वयराजन्त हंसाः शरेणी कृता इव
चापध्वजॊपस्करेभ्यश छत्राद ईषा मुखाद युगात
परभवन्तॊ वयदृश्यन्त राजन्न आधिरथेः शराः
खं पूरयन महावेगान खगमान खग वाससः
सुवर्णविकृतांश चित्रान मुमॊचाधिरथिः शरान
तम अन्तकम इवायस्तम आपतन्तं वृकॊदरः
तयक्त्वा पराणान अभिक्रुध्य विव्याध नवभिः शरैः
तस्य वेगम असंसह्यं दृष्ट्वा कर्णस्य पाण्डवः
महतश च शरौघांस तान नैवाव्यथत वीर्यवान
ततॊ विधम्याधिरथेः शरजालानि पाण्डवः
विव्याध कर्णं विंशत्या पुनर अन्यैः शितैः शरैः
यथैव हि शरैः पार्थः सूतपुत्रेण छादितः
तथैव कर्णं समरे छादयाम आस पाण्डवः
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत
अभ्यनन्दंस तदीयाश च संप्रहृष्टाश च चारणाः
भूरिश्रवाः कृपॊ दरौणिर मद्रराजॊ जयद्रथः
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ
कुरुपाण्डवानां परवरा दश राजन महारथाः
साधु साध्व इति वेगेन सिंहनादम अथानदन
तस्मिंस तु तुमुले शब्दे परवृत्ते लॊमहर्षणे
अभ्यभाषत पुत्रांस ते राजन दुर्यॊधनस तवरन
राज्ञश च राजपुत्रांश च सॊदर्यांश च विशेषतः
कर्णं गच्छत भद्रं वः परीप्सन्तॊ वृकॊदरात
पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे
दुर्यॊधन समादिष्टाः सॊदर्याः सप्त मारिषः
भीमसेनम अभिद्रुत्य संरब्धाः पर्यवारयन
ते समासाद्य कौन्तेयम आवृण्वञ शरवृष्टिभिः
पर्वतं वारिधाराभिः परावृषीव बलाहकाः
ते ऽपीडयन भीमसेनं करुद्धाः सप्त महारथाः
परजासंहरणे राजन सॊमं सप्त गरहा इव
ततॊ वामेन कौनेयः पीडयित्वा शरासनम
मुष्टिना पाण्डवॊ राजन दृढेन सुपरिष्कृतम
मनुष्यसमतां जञात्वा सप्त संधाय सायकान
तेभ्यॊ वयसृजद आयस्तः सूर्यरश्मि निभान परभुः
निरस्यन्न इव देहेभ्यस तनयानाम असूंस तव
भीमसेनॊ महाराज पूर्ववैरम अनुस्मरन
ते कषिप्ता भीमसेनेन शरा भारत भारतान
विदार्य खं समुत्पेतुः सवर्णपुङ्खाः शिलाशिताः
तेषां विदार्य चेतांसि शरा हेमविभूषिताः
वयराजन्त महाराज सुपर्णा इव खेचराः
शॊणितादिग्ध वाजाग्राः सप्त हेमपरिष्कृताः
पुत्राणां तव राजेन्द्र पीत्वा शॊणितम उद्गताः
ते शरैर भिन्नमर्माणॊ रथेभ्यः परापतन कषितौ
गिरिसानु रुहा भग्ना दविपेनेव महाद्रुमाः
शत्रुंजयः शत्रुसहश चित्रश चित्रायुधॊ दृढः
चित्रसेनॊ विकर्णश च सप्तैते विनिपातिताः
तान निहत्य महाबाहू राधेयस्यैव पश्यतः
सिंहनाद रवं घॊरम असृजत पाण्डुनन्दनः
स रवस तस्य शूरस्य धर्मराजस्य भारत
आचख्याव इव तद युद्धं विजयं चात्मनॊ महत
तं शरुत्वा सुमहानादं भीमसेनस्य धन्विनः
बभूव परमा परीतिर धर्मराजस्य संयुगे
ततॊ हृष्टॊ महाराज वादित्राणां महास्वनैः
भीमसेनरवं पार्थः परतिजग्राह सर्वशः
अभ्ययाच चैव समरे दरॊणम अस्त्रभृतां वरम
हर्षेण महता युक्तः कृतसंज्ञे वृकॊदरे
एकत्रिंशन महाराज पुत्रांस तव महारथान
हतान दुर्यॊधनॊ दृष्ट्वा कषत्तुः सस्मार तद वचः
तद इदं समनुप्राप्तं कषत्तुर हितकरं वचः
इति संचिन्त्य राजासौ नॊत्तरं परत्यपद्यत
यद दयूतकाले दुर्बुद्धिर अब्रवीत तनयस तव
यच च कर्णॊ ऽबरवीत कृष्णां सभायां परुषं वचः
परमुखे पाण्डुपुत्राणां तव चैव विशां पते
कौरवाणां च सर्वेषाम आचार्यस्य च संनिधौ
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
पतिम अन्यं वृणीष्वेति तस्येदं फलम आगतम
यः सम तां पौरुषाण्य आहुः सभाम आनाय्य दरौपदीम
पाण्डवान उग्रधनुषः करॊधयन्तस तवात्मजाः
तं भीमसेनः करॊधाग्निं तरयॊदश समाः सथितम
विसृजंस तव पुत्राणाम अन्तं गच्छति कौरव
विलपंश च बहु कषत्ता शमं नालभत तवयि
सपुत्रॊ भरतश्रेष्ठ तस्य भुङ्क्ष्व फलॊदयम
इतॊ विकर्णॊ राजेन्द्र चित्रसेनश्च वीर्यवान
परवरान आत्मजानां ते सुतांश चान्यान महारथान
यान यांश च ददृशे भीमश चक्षुर्विषयम आगतान
पुत्रांस तव महाबाहॊ तवरया ताञ जघान ह
तवत्कृते हय अहम अद्राक्षं दह्यमानां वरूथिनीम
सहस्रशः शरैर मुक्तैः पाण्डवेन वृषेण च
[धृ]
महान अपनयः सूत ममैवात्र विशेषतः
स इदानीम अनुप्राप्तॊ मन्ये संजय शॊचतः
यद गतं तद्गतम इति ममासीन मनसि सथितम
इदानीम अत्र किं कार्यं परकरिष्यामि संजय
यथा तव एष कषयॊ वृत्तॊ ममापनय संभवः
वीराणां तन ममाचक्ष्व सथिरी भूतॊ ऽसमि संजय
[स]
कर्ण भीमौ महाराज पराक्रान्तौ महाहवे
बाणवर्षाण्य अवर्षेतां वृष्टिमन्ताव इवाम्बुदौ
भीम नामाङ्किता बाणाः सवर्णपुङ्खाः शिलाशिताः
विविशुः कर्णम आसाद्य भिन्दन्त इव जीवितम
तथैव कर्ण निर्मुक्तैः स विषैर इव पन्नगैः
अकीर्यत रणे भीमः शतशॊ ऽथ सहस्रशः
तयॊः शरैर महाराज संपतद्भिः समन्ततः
बभूव तव सैन्यानां संक्षॊभः सागरॊपमः
भीमचापच्युतैर बाणैस तव सैन्यम अरिंदम
अवध्यत चमूमध्ये घॊरैर आशीविषॊपमैः
वारणैः पतितै राजन वाजिभिश च नरैः सह
अदृश्यत मही कीर्णा वातनुन्नैर दरुमैर इव
ते वध्यमानाः समरे भीमचापच्युतैः शरैः
दराद्रवंस तावका यॊधाः किम एतद इति चाब्रुवन
ततॊ वयुदस्तं तत सैन्यं सिन्धुसौवीरकौरवम
परॊत्सारितं महावेगैः कर्ण पाण्डवयॊः शरैः
ते शरातुर भूयिष्ठा हताश्वनरवाहनाः
उत्सृज्य कर्णं भीमं च पराद्रवन सर्वतॊदिशम
नूनं पार्थार्थम एवास्मान मॊहयन्ति दिवौकसः
यत कर्ण भीम परभवैर वध्यते नॊ बलं शरैः
एवं बरुवन्तॊ यॊधास ते तावका भयपीडिताः
शरपातं समुत्सृज्य सथिता युद्धदिदृक्षवः
ततः परावर्तत नदी घॊररूपा महाहवे
बभूव च विशेषेण भीरूणां भयवर्धिनी
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा
संवृता गतसत्त्वैश च मनुष्यगजवाजिभिः
सानुकर्ष पताकैश च दविपाश्वरथभूषणैः
सयन्दनैर अपविद्धैश च भग्नचक्राक्ष कूबरैः
जातरूपपरिष्कारैर धनुर्भिः सुमहाधनैः
सुवर्णपुङ्खैर इषुभिर नाराचैश च सहस्रशः
कर्ण पाण्डव निर्मुक्तैर निर्मुक्तैर इव पन्नगैः
परासतॊमर संघातैः खड्गैश च सपरश्वधैः
सुवर्णविकृतैश चापि गदामुसलपट्टिशैः
वज्रैश च विविधाकारैः शक्तिभिः परिघैर अपि
शतघ्नीभिश च चित्राभिर बभौ भारत मेदिनी
कनकाङ्गद केयूरैः कुण्डलैर मणिभिः शुभैः
तनुत्रैः स तरत्रैश च हारैर निष्कैश च भारत
वस्त्रैश छत्रैश च विध्वस्तैश चामरा वयजनैर अपि
जगाश्वमौनजिर भिन्नैः शस्त्रैः सयन्दनभूषणैः
तैस तैश च विविधैर भावैस तत्र तत्र वसुंधरा
पतितैर अपविद्धैश च संबभौ दयौर इव गरहैः
अचिन्त्यम अद्भुतं चैव तयॊः कर्मातिमानुषम
दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत
अग्नेर वायुसहायस्य गतिः कक्ष इवाहवे
आसीद भीम सहायस्य रौद्रम आधिरथेर गतम
निपातितध्वजरथं हतवाजि नरद्विपम
गजाभ्यां संप्रयुक्ताभ्याम आसीन नडवनं यथा
तथा भूतं महत सैन्यम आसीद भारत संयुगे
विमर्दः कर्ण भीमाभ्याम आसीच च परमॊ रणे
[स]
ततः कर्णॊ महाराज भीमं विद्ध्वा तरिभिः शरैः
मुमॊच शरवर्षाणि चित्राणि च बहूनि च
वध्यमानॊ महाराज सूतपुत्रेण पाण्डवः
न विव्यथे भीमसेनॊ भिद्यमान इवाचलः
स कर्णं कर्णिना कर्णे पीतेन निशितेन च
विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा
सकुण्डलं मह तकर्णात कर्णस्यापातयद भुवि
तपनीयं महाराज दीप्तं जयॊतिर इवाम्बरात
अथापरेण भल्लेन सूतपुत्रं सतनान्तरे
आजघान भृशं भीमः समयन्न इव महाबलः
पुनर अस्य तवरन भीमॊ नाराचान दश भारत
रणे परैषीन महावेगान यमदण्डॊपमांस तथा
ते ललाटं समासाद्य सूतपुत्रस्य मारिष
विविशुश चॊदितास तेन वल्मीकम इव पन्नगाः
ललाटस्थैस तु तैर बाणैः सूतपुत्रॊ वयरॊचत
नीलॊत्पलमयीं मालां धारयन स पुरा यथा
ततः करुद्धॊ रणे कर्णः पीडितॊ दृढधन्वना
वेगं चक्रे महावेगॊ भीमसेनवधं परति
तस्मै कर्णः शतं राजन्न इषूणां गार्ध्रवाससाम
अमर्षी बलवान करुद्धः परेषयाम आस भारत
ततः परासृजद उग्राणि शरवर्षाणि पाण्डवः
समरे तम अनादृत्य नास्य वीर्यम अचिन्तयत
ततः कर्णॊ महाराज पाण्डवं निशितैः शरैः
आजघानॊरसि करुद्धः करुद्ध रूपं परंतपः
जीमूताव इव चान्यॊन्यं तौ ववर्षतुर आहवे
तलशब्दरवैश चैव तरासयन्तौ परस्परम
शरजालैश च विविधैश छादयाम आसतुर मृधे
अन्यॊन्यं समरे करुद्धौ कृतप्रतिकृतैषिणौ
ततॊ भीमॊ महाबाहू राधेयस्य महात्मनः
कषुरप्रेण धनुश छित्त्वा कर्णं विव्याध पत्रिणा
तद अपास्य धनुश छिन्नं सूतपुत्रॊ महामनाः
अन्यत कार्मुकम आदत्त वेगघ्नं भारसाधनम
दृष्ट्वा च कुरु सौवीरै सैन्धवानां बलक्षयम
स वर्म धवजशस्त्रैश च पतितैः संवृतां महीम
हस्त्यश्वनरदेहांश च गतासून परेक्ष्य सर्वतः
सूतपुत्रस्य संरम्भाद दीप्तं वपुर अजायत
स विस्फार्य महच चापं कार्तस्वरविभूषितम
भिमं परैक्षत राधेयॊ राजन घॊरेण चक्षुषा
ततः करुद्धः शरान अस्यन सूतपुत्रॊ वयरॊचत
मध्यंदिनगतॊ ऽरचिष्माञ शरदीव दिवाकरः
मरीचिविकचस्येव राजन भानुमतॊ वपुः
आसीद आधिरथेर घॊरं वपुः शरशतार्चिषः
कराभ्याम आददानस्य संदधानस्य चाशुगान
विकर्षतॊ मुञ्चतॊ वा नान्तरं ददृशू रणे
अग्निचक्रॊपमं घॊरं मण्डलीकृतम आयुधम
कर्णस्यासीन महाराज सव्यदक्षिणम अस्यतः
सवर्णपुङ्खाः सुनिशिताः कर्ण चापच्युताः शराः
पराच्छादयन महाराज दिशः सूर्यस्य च परभाम
ततः कनकपुङ्खानां शराणां नतपर्वणाम
धनुश्च्युतानां वियति ददृशे बहुधा वरजः
शरासनाद आधिरथेः परभवन्तः सम सायकाः
शरेणी कृता वयराजन्त राजन करौञ्चा इवाम्बरे
गार्ध्रपत्राञ शिला धौतान कार्तस्वरविभूषितान
महावेगान परदीप्ताग्रान मुमॊचाधिरथिः शरान
ते तु चापबलॊद्धूताः शातकुम्भविभूषिताः
अजस्रम अन्वकीर्यन्त शराः पार्थरथं परति
ते वयॊम्नि रत्नविकृता वयकाशन्त सहस्रशः
शलभानाम इव वराताः शराः कर्ण समीरिताः
चापाद आधिरथेर मुक्ताः परपतन्तः सम सायकाः
एकॊ दीर्घ इव परांशुः परभवन दृश्यते शरः
पर्वतं वारिधाराभिश छादयन्न इव तॊयदः
कर्णः पराच्छादयत करुद्धॊ भीमं सायकवृष्टिभिः
तत्र भारत भीमस्य बलवीर्यपराक्रमम
वयवसायं च पुत्रास ते परैक्षन्त कुरुभिः सह
तां समुद्रम इवॊद्धूतां शरवृष्टिं समुत्थिताम
अचिन्तयित्वा भीमस तु करुद्धः कर्णम उपाद्रवत
रुक्मपृष्ठं महच चापं भीमस्यासीद विशां पते
आकर्षन मण्डलीभूतं शक्रचापम इवापरम
तस्माच छराः परादुरासन पूरयन्त इवाम्बरम
सुवर्णपुङ्खैर भीमेन सायकैर नतपर्वभिः
गगने रचिता माला काञ्चनीव वयराजत
ततॊ वयॊम्नि विषक्तानि शरजालानि भागशः
आहतानि वयशीर्यन्त भीमसेनस्य पत्रिभिः
कर्णस्य शरजालौघै भीमसेनस्य चॊभयॊः
अग्निस्फुलिङ्ग संस्पर्शैर अञ्जॊ गतिभिर आहवे
तैस तैः कनकपुङ्खानां दयौर आसीत संवृता वरजैः
स भीमं छादयन बाणैः सूतपुत्रः पृथग्विधैः
उपारॊहद अनादृत्य तस्य वीर्यं महात्मनः
तयॊर विसृजतॊस तत्र शरजालानि मारिष
वायुभूतान्य अदृश्यन्त संसक्तानीतरेतरम
तस्मै कर्णः शितान बाणान कर्मार परिमार्जितान
सुवर्णविकृतान करुद्धः पराहिणॊद वधकाङ्क्षया
तान अन्तरिक्षे विशिखैर तरिधैकैकम अशातयत
विशेषयन सूतपुत्रं भीमस तिष्ठेति चाब्रवीत
पुनश चासृजद उग्राणि शरवर्षाणि पाण्डवः
अमर्षी बलवान करुद्धॊ दिधक्षन्न इव पावकः
तस्य तान्य आददे कर्णः सर्वाण्य अस्त्राण्य अभीतवत
युध्यतः पाण्डुपुत्रस्य सूतपुत्रॊ ऽसत्रमायया
तस्येषुधी धनुर्ज्यांच बाणैः संनतपर्वभिः
रश्मीन यॊक्त्राणि चाश्वानां कर्णॊ वैकर्तनॊ ऽचछिनत
अथास्याश्वान पुनर हत्वा तरिभिर विव्याध सारथिम
सॊ ऽवप्लुत्य दरुतं सूतॊ युयुधान रथं ययौ
उत्स्मयन्न इव भीमस्य करुद्धः कालानलप्रभः
धवजं चिच्छेद राधेयः पातकाश च नयपातयत
स विधन्वा महाराज रथशक्तिं परामृशत
ताम अवासृजद आविध्य करुद्धः कर्ण रथं परति
ताम आधिरथिर आयस्तः शक्तिं हेमपरिष्कृताम
आपतन्तीं महॊल्काभां चिच्छेद दशभिः शरैः
सापतद दशधा राजन निकृत्ता कर्ण सायकैः
अस्यतः सूतपुत्रस्य मित्रार्थं चित्रयॊधिनः
स चर्मादत्त कौन्तेयॊ जातरूपपरिष्कृतम
खड्गं चान्यतर परेप्सुर मृत्यॊर अग्रे जयस्य वा
तद अस्य सहसा कर्णॊ वयधमत परहसन्न इव
स विचर्मा महाराज विरथः करॊधमूर्छितः
असिं परासृजद आविध्य तवरन कर्ण रथं परति
सधनुः सूतपुत्रस्य छित्त्वा जयां च सुसंशितः
अपतद भुवि निस्त्रिंशश चयुतः सर्प इवाम्बरात
ततः परहस्याधिरथिर अन्यद आदत्त कार्मुकम
शत्रुघ्नं समरे करुद्धॊ दृढज्यं वेगवत्तरम
स भीमसेनः कुपितॊ बलवान सत्यविक्रमः
विहायसं पराक्रमद वै कर्णस्य वयथयन मनः
तस्य तच चरितं दृष्ट्वा संग्रामे विजयैषिणः
लयम आस्थाय राधेयॊ भीमसेनम अवञ्चयत
तम अदृष्ट्वा रथॊपस्थे निलीनं वयथितेन्द्रियम
धवजम अस्य समासाद्य तस्थौ स धरणीतले
तद अस्य कुरवः सर्वे चारणाश चाभ्यपूजयन
यद इयेष रथात कर्णं हन्तुं तार्क्ष्य इवॊरगम
स छिन्नधन्वा विरथः सवधर्मम अनुपालयन
सवरथं पृष्ठतः कृत्वा युद्धायैव वयवस्थितः
तद विहत्यास्य राधेयस तत एनं समभ्ययात
संरब्धः पाण्डवं संख्ये युद्धाय समुपस्थितम
तौ समेतौ महारङ्गे सपर्धमानौ महाबलौ
जीमूताव इव घर्मान्ते गर्जमानौ नभस्तले
तयॊर आसीत संप्रहारः करुद्धयॊर नरसिंहयॊः
अमृष्यमाणयॊः संख्ये देवदानवयॊर इव
कषीणशस्त्रस तु कौन्तेयः कर्णेन समभिद्रुतः
दृष्ट्वार्जुन हतान नागान पतितान पर्वतॊपमान
रथमार्ग विघातार्थं वयायुधः परविवेश ह
हस्तिनां वरजम आसाद्य रथदुर्गं परविश्य च
पाण्डवॊ जीविताकाङ्क्षी राधेयं नाभ्यहारयत
वयवस्थानम अथाकाङ्क्षन धनंजय शरैर हतम
उद्यम्य कुञ्जरं पार्थस तस्थौ परपुरंजयः
तम अस्य विशिखैः कर्णॊ वयधमत कुञ्जरं पुनः
हस्त्यङ्गान्य अथ कर्णाय पराहिणॊत पाण्डवॊ नदन
चक्राण्य अश्वांस तथा वाहान्न्यद यत पश्यति भूतले
तत तद आदाय चिक्षेप करुद्धः कर्णाय पाण्डवः
तद अस्य सर्वं चिच्छेद कषिप्तं कषिप्तं शितैः शरैः
वयायुधं नावधीच चैनं कर्णः कुन्त्या वचः समरन
धनुषॊ ऽगरेण तं कर्णस तव अभिद्रुत्य परामृशत
उत्स्मयन्न इव राधेयॊ भीमसेनम उवाच ह
पुनः पुनस तूबरक मूढ औदरिकेति च
अकृतास्त्रक मा यॊत्सीर बाल संग्रामकातर
यत्र भॊज्यं बहुविधं भक्ष्यं पेयं च पाण्डव
तत्र तवं दुर्मते यॊग्यॊ न युद्धेषु कथं चन
मुनिर भूत्वाथ वा भीम फलान यद धि सुदुर्मते
वनाय वरज कौन्तेय न तवं युद्धविशारदः
फलमूलाशने युक्तस तवं तथातिथि भॊजने
न तवां शस्त्रसमुद्यॊगॊ यॊग्यं मन्ये वृकॊदर
पुष्पमूलफलाहारॊ वरतेषु नियमेषु च
उचितस तवं वने भीम न तवं युद्धविशारदः
कव युद्धं कव मुनित्वं च वनं गच्छ वृकॊदर
न तवं युद्धॊचितस तात वनवास रतिर भव
सूदान भृत्यजनान दासांस तवं गृहे तवरयन भृशम
यॊग्यस ताडयितुं करॊधाद भॊजनार्थं वृकॊदर
कौमारे यानि चाप्य आसन्न अप्रियाणि विशां पते
पूर्ववृत्तानि चाप्य एनं रूक्षाण्य अश्रावयद भृशम
अथैनं तत्र संलीनम अस्पृशद धनुषा पुनः
परहसंश च पुनर वाक्यं भीमम आह वृषस तदा
यॊद्धव्यम आविशन यत्र न यॊद्धव्यं तु मादृशैः
मादृशैर युध्यमानानाम एतच चान्यच च विद्यते
गच्छ वा यत्र तौ कृष्णौ तौ तवा रक्षिष्यतॊ रणे
गृहं वा गच्छ कौनेय किं ते युद्धेन बालक
एवं तं विरथं कृत्वा कर्णॊ राजन वयकत्थत
परमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः
ततॊ राजञ शिला धौताञ शराञ शाखामृगध्वजः
पराहिणॊत सूतपुत्राय केशवेन परचॊदितः
ततः पार्थ भुजॊत्सृष्टाः शराः काञ्चनभूषणाः
गाण्डीवप्रभवाः कर्णं हंसाः करौञ्चम इवाविशन
स भुजंगैर इवायस्तैर गाण्डीवप्रेषितैः शरैः
भीमसेनाद अपासेधत सूतपुत्रं धनंजयः
स छिन्नधन्वा भीमेन धनंजय शराहतः
कर्णॊ भीमाद अपायासीद रथेन महता दरुतम
भीमॊ ऽपि सात्यकेर वाहं समारुह्य नरर्षभः
अन्वयाद भरातरं संख्ये पाण्डवं सव्यसाचिनम
ततः कर्णं समुद्दिश्य तवरमाणॊ धनंजयः
नाराचं करॊधताम्राक्षः परैषीन मृत्युम इवान्तकः
स गरुत्मान इवाकाशे परार्थयन भुजगॊत्तमम
नाराचॊ ऽभयपतत कर्णं तूर्णं गाण्डीवचॊदितः
तम अन्तरिक्षे नाराचं दरौणिश चिच्छेद पत्रिणा
धनंजय भयात कर्णम उज्जिहीर्षुर महारथः
ततॊ दरौणिं चतुःषष्ट्या विव्याध कुपितॊ ऽरजुनः
शिलीमुखैर महाराज मा गास तिष्ठेति चाब्रवीत
स तु मत्तगजाकीर्णम अनीकं रथसंकुलम
तूर्णम अभ्याविशद दरौणिर धनंजय शरार्दितः
ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे
शब्दं गाण्डीवघॊषेण कौनेयॊ ऽभयभवद बली
धनंजयस तथा यान्तं पृष्ठतॊ दरौणिम अभ्ययात
नातिदीर्घम इवाध्वानं शरैः संत्रासयन बलम
विदार्य देहान नाराचैर नरवारणवाजिनाम
कङ्कबर्हिण वासॊभिर बलं वयधमद अर्जुनः
तद बलं भरतश्रेष्ठ स वाजिद्विप मानवम
पाकशासनिर आयस्तः पार्थः संनिजघान ह
[धृ]
अहन्य अहनि मे दीप्तं यशः पतति संजय
हता मे बहवॊ यॊधा मन्ये कालस्य पर्ययम
धनंजयस तु संक्रुद्धः परविष्टॊ मामकं बलम
रक्षितं दरॊणकर्णाभ्याम अप्रवेश्यं सुरैर अपि
ताभ्याम ऊर्जितवीर्याभ्याम आप्यायित पराक्रमः
सहितः कृष्ण भीमाभ्यां शिनीनाम ऋषभेण च
तदा परभृति मा शॊकॊ दहत्य अग्निर इवाशयम
गरस्तान हि परतिपश्यामि भूमिपालान स सैन्धवान
अप्रियं सुमहत कृत्वा सिन्धुराजः किरीटिनः
चक्षुर्विषयम आपन्नः कथं मुच्येत जीवितः
अनुमानाच च पश्यामि नास्ति संजय सैन्धवः
युद्धं तु तद यथावृत्तं तन ममाचक्ष्व पृच्छतः
यच च विक्षॊभ्य महतीं सेनां संलॊड्य चासकृत
एकः परविष्टः संक्रुद्धॊ नलिनीम इव कुञ्जरः
तस्य वृष्णिप्रवीरस्य बरूहि युद्धं यथातथम
धनंजयार्थे यत तस्य कुशलॊ हय असि संजय
[स]
तथा तु वैकर्तन पीडितं तं; भीमं परयान्तं पुरुषप्रवीरम
समीक्ष्य राजन नरवीरमध्ये; शिनिप्रवीरॊ ऽनुययौ रथेन
नदन यथा वज्रधरस तपान्ते; जवलन यथा जलदान्ते च सूर्यः
निघ्नन्न अनिंत्रान धनुषा दृढेन; संकम्पयंस तव पुत्रस्य सेनाम
तं यान्तम अश्वै रजतप्रकाशैर; आयॊधने नरवीरं चरन्तम
नाशक्नुवन वारयितुं तवदीयाः; सर्वे रथा भारत माधवाग्र्यम
अमर्षपूर्णस तव अनिवृत्त यॊधी; शरासनी काञ्चनवर्म धारी
अलम्बुसः सात्यकिं माधवाग्र्यम; अवारयद राजवरॊ ऽभिपत्य
तयॊर अभूद भारत संप्रहारस; तथागतॊ नैव बभूव कश चित
परैक्षन्त एवाहव शॊभिनौ तौ; यॊधास तवदीयाश च परे च सर्वे
अविध्यद एनं दशभिः पृषत्कैर; अलम्बुसॊ राजवरः परसह्य
अनागतान एव तु तान पृषत्कांश; चिच्छेद बाणैः शिनिपुंगवॊ ऽपि
पुनः स बाणैस तरिभिर अग्निकल्पैर; आकर्णपूर्णैर निशितैः सुपुङ्खैः
विव्याध देहावरणं विदार्य; ते सात्यकेर आविविशुः शरीरम
तैः कायम अस्याग्न्य अनिलप्रभावैर; विदार्य बाणैर अपरैर जवलद्भिः
आजघ्निवांस तान रजतप्रकाशान; अश्वांश चतुर्भिश चतुरः परसह्य
तथा तु तेनाभिहतस तरस्वी; नप्ता शिनेश चक्रधर परभावः
अलम्बुसस्यॊत्तम वेगवद्भिर; हयांश चतुर्भिर निजघान बाणैः
अथास्य सूतस्य शिरॊ निकृत्य; भल्लेन कालानलसंनिभेन
सकुण्डलं पूर्णशशिप्रकाशं; भराजिष्णु वक्त्रं निचकर्त देहात
निहत्य तं पार्थिव पुत्रपौत्रं; संख्ये मधूनाम ऋषभः परमाथी
ततॊ ऽनवयाद अर्जुनम एव वीरः; सैन्यानि राजंस तव संनिवार्य
अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम
घनन्तं कुरूणाम इषुभिर बलानि; पुनः पुनर वायुर इवाभ्रपूगान
ततॊ ऽवहन सैन्धवाः साधु दान्ता; गॊक्षीरकुन्देन्दु हिमप्रकाशाः
सुवर्णजालावतताः सदश्वा; यतॊ यतः कामयते नृसिंहः
अथात्मजास ते सहिताभिपेतुर; अन्ये च यॊधास तवरितास तवदीयाः
कृत्वा मुखं भारत यॊधमुख्यं; दुःशासनं तवत्सुतम आजमीढ
ते सर्वतः संपरिवार्य संख्ये; शैनेयम आजघ्नुर अनीक साहाः
स चापि तान परवरः सात्वतानां; नयवारयद बाणजालेन वीरः
निवार्य तांस तूर्णम अमित्रघाती; नप्ता शिनेः पत्रिभिर अग्निकल्पैः
दुःशासनस्यापि जघान वाहान; उद्यम्य बाणासनम आजमीढ
[स]
तद उद्यतं महाबाहुं दुःशासन रथं परति
तवरितं तवरणीयेषु धनंजय हितैषिणम
तरिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः
सेना समुद्रम आविष्टम आनर्तं पर्यवारयन
अथैनं रथवंशेन सर्वतः संनिवार्य ते
अवाकिरञ शरव्रातैः करुद्धाः परमधन्विनः
अजयद राजपुत्रांस तान यतमानान महारणे
एकः पञ्चाशतं शत्रून सात्यकिः सत्यविक्रमः
संप्राप्य भारतीमध्यं तलघॊषसमाकुलम
असि शक्तिगदा पूर्णम अप्लवं सलिलं यथा
तत्राद्भुतम अपश्याम शैनेय चरितं रणे
परतीच्यां दिशि तं दृष्ट्वा पराच्यां पश्याम लाघवात
उदीचीं दक्षिणां पराचीं परतीचीं परसृतस तथा
नृत्यन्न इवाचरच छूरॊ यथा रथशतं तथा
तद दृष्ट्वा चरितं तस्य सिंहविक्रान्त गामिनः
तरिगर्ताः संन्यवर्तन्त संतप्ताः सवजनं परति
तम अन्ये शूरसेनानां शूराः संख्ये नयवारयन
नियच्छन्तः शरव्रातैर मत्तं दविपम इवाङ्कुशैः
तन नयवारयद आयस्तान मुहूर्तम इव सात्यकिः
ततः कलिङ्गैर युयुधे सॊ ऽचिन्त्यबलविक्रमः
तां च सेनाम अतिक्रम्य कलिङ्गानां दुरत्ययाम
अथ पार्थं महाबाहुर धनंजयम उपासदत
तरन्न इव जले शरान्तॊ यथा सथलम उपेयिवान
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत
तम आयान्तम अभिप्रेक्ष्य केशवॊ ऽरजुनम अब्रवीत
असाव आयाति शैनेयस तव पार्थ पदानुगः
एष शिष्यः सखा चैव तव सत्यपराक्रमः
सर्वान यॊधांस तृणी कृत्यविजिग्ये पुरुषर्षभः
एष कौरव यॊधानां कृत्वा घॊरम उपद्रवम
तव पराणैः परियतरः किरीटिन नेति सात्यकिः
एष दरॊणं तथा भॊजं कृतवर्माणम एव च
कदर्थी कृत्यविशिकैः फल्गुनाभ्येति सात्यकिः
धर्मराज परियान्वेषी हत्वा यॊधान वरान वरान
शूरश चैव कृतास्त्रश च फल्गुनाभ्येति सात्यकिः
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः
तव दर्शनम अन्विच्छन पाण्डवाभ्येति सात्यकिः
बहून एकरथेनाजौ यॊधयित्वा महारथान
आचार्य परमुखान पार्थ आयात्य एष हि सात्यकिः
सवबाहुबलम आश्रित्य विदार्य च वरूथिनीम
परेषितॊ धर्मपुत्रेण पर्थैषॊ ऽभयेति सात्यकिः
यस्य नासित समॊ यॊधः कौरवेषु कथंचनन
सॊ ऽयम आयाति कौन्तेय सात्यकिः सत्यविक्रमः
कुरुसैन्याद विमुक्तॊ वै सिंहॊ मध्याद गवाम इव
निहत्य बहुलाः सेनाः पार्थैषॊ ऽभयेति सात्यकिः
एष राजसहस्राणां वक्त्रैः पङ्कज संनिभैः
आस्तीर्य वसुधां पार्थ कषिप्रम आयाति सात्यकिः
एष दुर्यॊधनं जित्वा भरातृभिः सहितं रणे
निहत्य जलसंधं च कषिप्रम आयाति सात्यकिः
रुधिरौघवतीं कृत्वा नदीं शॊणितकर्दमाम
तृणवन नयस्य कौरव्यान एष आदाति सात्यकिः
ततॊ ऽपरहृष्टः कौन्तेयः केशवं वाक्यम अब्रवीत
न मे परियं महाबाहॊ यन माम अभ्येति सात्यकिः
न हि जानामि वृत्तान्तं धर्मराजस्य केशव
सात्वतेन विहीनः स यदि जीवति वान वा
एतेन हि महाबाहॊ रक्षितव्यः स पार्थिवः
तम एष कथम उत्सृज्य मम कृष्ण पदानुगः
राजा दरॊणाय चॊत्सृष्टः सैन्धवश चानिपातितः
परत्युद्यातश च शैनेयम एष भूरिश्रवा रणे
सॊ ऽयं गुरुतरॊ भारः सैन्धवान मे समाहितः
जञातव्यश च हि मे राजा रक्षितव्यश च सात्यकिः
जयद्रथश च हन्तव्यॊ लम्बते च दिवाकरः
शरान्तश चैष महाबाहुर अल्पप्राणश च सांप्रतम
परिश्रान्ता हयाश चास्य हययन्ता च माधव
न च भूरिश्रवाः शरान्तः स सहायश च केशव
अपीदानीं भवेद अस्य कषेमम अस्मिन समागमे
कच चिन न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः
गॊष्पदं पराप्य सीदेत महौजाः शिनिपुंगवः
अपि कौरव मुख्येन कृतास्त्रेण महात्मना
समेत्य भूरिश्रवसा सवस्तिमान सात्यकिर भवेत
वयतिक्रमम इमं मन्ये धर्मराजस्य केशव
आचार्याद भयम उत्सृज्य यः परेषयति सात्यकिम
गरहणं धर्मराजस्य खगः शयेन इवामिषम
नित्यम आशंसते दरॊणः कच चित सयात कुशली नृपः
[स]
तम आपतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम
करॊधाद भूरिश्रवा राजन सहसा समुपाद्रवत
तम अब्रवीन महाबाहुः कौरव्यः शिनिपुंगवम
अद्य पराप्तॊ ऽसि दिष्ट्या मे चक्षुर्विषयम इत्य उत
चिराभिलषितं कामम अद्य पराप्स्यामि संयुगे
न हि मे मॊक्ष्यसे जीवन यदि नॊत्सेजसे रणम
अद्य तवां समरे हत्वा नित्यं शूराभिमानिनम
नन्दयिष्यामि दाशार्ह कुरुराजं सुयॊधनम
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले
दरक्ष्यतस तवां रणे वीरौ सहितौ केशवार्जुनौ
अद्य धर्मसुतॊ राजा शरुत्वा तवां निहतं मया
सव्रीडॊ भविता सद्यॊ येनासीह परवेशितः
अद्य मे विक्रमं पार्थॊ विज्ञास्यति धनंजयः
तवयि भूमौ विनिहते शयाने रुधिरॊक्षिते
चिराभिलषिते हय अद्य तवया सह समागमः
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा
अद्य युद्धं महाघॊरं तव दास्यामि सात्वत
ततॊ जञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम
अद्य संयमनी याता मया तवं निहतॊ रणे
यथा रामानुजेनाजौ रावणिर लक्ष्मणेन वै
अद्य कृष्णश च पार्थश च धर्मराजश च माधव
हते तवयि निरुत्साहा रणं तयक्ष्यन्त्य असंशयम
अद्य ते ऽपचितिं कृत्वा शितैर माधव सायकैः
तत सत्रियॊ नन्दयिष्यामि ये तवया निहता रणे
चक्षुर्विषयसंप्राप्तॊ न तवं माधव मॊक्ष्यसे
सिंहस्य विषयं पराप्तॊ यथा कषुद्रमृगस तथा
युयुधानस तु तं राजन परत्युवाच हसन्न इव
कौरवेय न संत्रासॊ विद्यते मम संयुगे
स मां निहन्यात संग्रामे यॊ मां कुर्यान निरायुधम
समास तु शाश्वतीर हन्याद यॊ मां हन्याद धि संयुगे
किं मृषॊक्तेन बहुना कर्मणा तु समाचर
शारदस्येव मेघस्य गर्जितं निष्फलं हि ते
शरुत्वैतद गर्जितं वीर हास्यं हि मम जायते
चिरकालेप्सितं लॊके युद्धम अद्यास्तु कौरव
तवरते मे मतिस तात तवयि युद्धाभिकाङ्क्षिणि
नाहत्वा संनिवर्तिष्ये तवाम अद्य पुरुषाधम
अन्यॊन्यं तौ तदा वाग्भिस तक्षन्तौ नरपुङ्गवौ
जिघांसू परमक्रुद्धाव अभिजघ्नतुर आहवे
समेतौ तौ नरव्याघ्रौ शुष्मिणौ सपर्धिनौ रणे
दविरदाव इव संक्रुद्धौ वाशितार्थे मदॊत्कटौ
भीरि शरवाः सात्यकिश च ववर्षतुर अरिंदमौ
शरवर्षाणि भीमानि मेघाव इव परस्परम
सौमदत्तिस तु शैनेयं परच्छाद्येषुभिर आशुगैः
जिघांसुर भरतश्रेष्ठ विव्याध निशितैः शरैः
दशभिः सात्यकिं विद्ध्वा सौमदत्तिर अथापरान
मुमॊच निशितान बाणाञ जिघांसुः शिनिपुंगवम
तान अस्य विशिखांस तीक्ष्णान अन्तरिक्षे विशां पते
अप्राप्तान अस्त्रमायाभिर अग्रसत सात्यकिः परभॊ
तौ पृथक शरवर्षाभ्याम अवर्षेतां परस्परम
उत्तमाभिजनौ वीरौ कुरु वृष्णियशः करौ
तौ नखैर इव शार्दूलौ दन्तैर इव महाद्विपौ
रक्तशक्तिभिर अन्यॊन्यं दन्तैर इव महाद्विपौ
रथशक्तिभिर अन्यॊन्यं विशिखैश चाप्य अकृन्तताम
निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शॊणितम
वयष्टम्भयेताम अन्यॊन्यं पराणद्यूताभिदेविनौ
एवम उत्तमकर्माणौ कुरु वृष्णियशः करौ
परस्परम अयुध्येतां वारणाव इव यूथपौ
ताव अदीर्घेण कालेन बरह्मलॊकपुरस्कृतौ
जिगीषन्तौ परं सथानम अन्यॊन्यम अभिजघ्नतुः
सात्यकिः सौमदत्तिश च शरवृष्ट्या परस्परम
हृष्टवद धार्तराष्ट्राणां पश्यताम भयवर्षताम
संप्रैक्षन्त जनास तत्र युध्यमानौ युधां पती
यूथपौ वाशिता हेतॊः परयुद्धाव इव कुञ्जरौ
अन्यॊन्यस्य हयान हत्वा धनुषी विनिकृत्य च
विरथाव असियुद्धाय समेयातां महारणे
आर्षभे चर्मणी चित्रे परगृह्य विपुले शुभे
विकॊशौ चाप्य असी कृत्वा समरे तौ विचेरतुः
चरन्तौ विविधान मार्गान मण्डलानि च भागशः
मुहुर आजघ्नतुः करुद्धाव अन्यॊन्यम अरिमर्दनौ
स खड्गौ चित्रवर्माणौ स निष्काङ्गदभूषणौ
रणे रणॊत्कटौ राजन्न अन्यॊन्यं पर्यकर्षताम
मुहूर्तम इव राजेन्द्र परिकृष्य परस्परम
पश्यतां सर्वसैन्यानां वीराव आश्वसतां पुनः
असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं परचक्रतुः
वयूढॊरस्कौ दीर्घभुजौ नियुद्ध कुशलाव उभौ
बाहुभिः समसज्जेताम आयसैः परिघैर इव
तयॊर आसन भुजागाता निग्रहप्रग्रहौ तथा
शिक्षा बलसमुद्भूताः सर्वयॊधप्रहर्षणाः
तयॊर नृवरयॊ राजन समरे युध्यमानयॊः
भीमॊ ऽभवन महाशब्दॊ वज्रपर्वतयॊर इव
दविपाव इव विषाणाग्रैः शृङ्गैर इव महर्षभौ
युयुधाते महात्मानौ कुरु सात्वत पुंगवौ
कषीणायुधे सात्वते युध्यमाने; ततॊ ऽबरवीद अर्जुनं वासुदेवः
पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम
परविष्टॊ भारतीं सेनां तव पाण्डव पृष्ठतः
यॊधितश च महावीर्यैः सर्वैर भारत भारतैः
परिश्रान्तॊ युधां शरेष्ठः संप्राप्तॊ भूरिदक्षिणम
युद्धकाङ्क्षिणम आयान्तं नैतत समम इवार्जुन
ततॊ भूरिश्रवाः करुद्धाः सात्यकिं युद्धदुर्मदम
उद्यम्य नयहनद राजन मत्तॊ मत्तम इव दविपम
रथस्थयॊर दवयॊर युद्धे करुद्धयॊर यॊधमुख्ययॊः
केशवार्जुनयॊ राजन समरे परेक्षमाणयॊः
अथ कृष्णॊ महाबाहुर अर्जुनं परत्यभाषत
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्ति वशंगतम
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम
तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम
न वशं यज्ञशीलस्य गच्छेद एष वरारिहन
तवत्कृते पुरुषव्याघ्र तद आशु करियतां विभॊ
अथाब्रवीद धृष्टमना वासुदेवं धनंजयः
पश्य वृष्णिप्रवीरेण करीडन्तं कुरुपुंगवम
महाद्विपेनेव वने मत्तेन हरियूथपम
हाहाकारॊ महान आसीत सैन्यानां भरतर्षभ
यद उद्यम्य महाबाहुः सात्यकिं नयहनद भुवि
स सिंह इव मातङ्गं विकर्षन भूरिदक्षिणः
वयरॊचत कुरुश्रेष्ठः सात्वत परवरं युधि
अथ कॊशाद विनिष्कृष्य खड्गं भूरिश्रवा रणे
मूर्धजेषु निजग्राह पदा चॊरस्य अताडयत
तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतम आहवे
वासुदेवस ततॊ राजन भूयॊ ऽरजुनम अभाषत
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्ति वशंगतम
तव शिष्यं महाबाहॊ धनुष्य अनवरं तवया
असत्यॊ विक्रमः पार्थ यत्र भूरिश्रवा रणे
इशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम
एवम उक्तॊ महाबाहुर वासुदेवेन पाण्डवः
मनसा पूजयाम आस भूरिश्रवसम आहवे
विकर्षन सत्वत शरेष्ठं करीडमान इवाहवे
संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः
परवरं वृष्णिवीराणां यन न हन्याद धि सात्यकिम
महाद्विपम इवारण्ये मृगेन्द्र इव कर्षति
एवं तु मनसा राजन पार्थः संपूज्य कौरवम
वासुदेवं महाबाहुर अर्जुनः परत्यभाषत
सैन्धवासक्तदृष्टित्वान नैनं पश्यामि माधव
एष तव असुकरं कर्म यादवार्थे करॊम्य अहम
इत्य उक्त्वा वचनं कुर्वन वासुदेवस्य पाण्डवः
स खड्गं यज्ञशीलस्य पत्रिणा बाहुम अच्छिनत
[स]
स बाहुर अपतद भूमौ स खड्गः स शुभाङ्गदः
आदधज जीवलॊकस्य दुःखम उत्तमम उत्तमः
परहरिष्यन हृतॊ बाहुर अदृश्येन किरीटिना
वेगेनाभ्यपतद भूमौ पञ्चास्य इव पन्नगः
स मॊघं कृतम आत्मानं दृष्ट्वा पार्थेन कौरवः
उत्सृज्य सात्यकिं करॊधाद गर्हयाम आस पाण्डवम
नृशंसं बत कौन्तेय कर्मेदं कृतवान असि
अपश्यतॊ विषक्तस्य यन मे बाहुम अचिच्छिदः
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम
किं कुर्वाणॊ मया संख्ये हतॊ भूरिश्रवा इति
इदम इन्द्रेण ते साक्षाद उपदिष्टं महात्मना
अस्त्रं रुद्रेण वा पार्थ दरॊणेनाथ कृपेण वा
ननु नाम सवधर्मज्ञस तवं लॊके ऽभयधिकः परैः
अयुध्यमानस्य कथं रणे परहृत वान असि
न परमत्ताय भीताय विरथाय परयाचते
वयसने वर्तमानाय परहरन्ति मनस्विनः
इदं तु नीचाचरितम असत पुरुषसेवितम
कथम आचरितं पार्थ तवया कर्म सुदुष्करम
आर्येण सुकरं हय आहुर आर्य कर्म धनंजय
अनार्यकर्म तव आर्येण सुदुष्करतरं भुवि
येषु येषु नरः पार्थ यत्र यत्र च वर्तते
आशु तच छीलताम एति तद इदं तवयि दृश्यते
कथं हि राजवंश्यस तवं कौरवेयॊ विशेषतः
कषत्रधर्माद अपक्रान्तः सुवृत्तश चरितव्रतः
इदं तु यद अतिक्षुद्रं वार्ष्णेयार्थे कृतं तवया
वासुदेव मतं नूनं नैतत तवय्य उपपद्यते
कॊ हि नाम परमत्ताय परेण सह युध्यते
ईदृशं वयसनं दद्याद यॊ न कृष्ण सखॊ भवेत
वरात्याः संश्लिष्ट कर्माणः परकृत्यैव विगर्हिताः
वृष्ण्यन्धकाः कथं पार्थ परमाणं भवता कृताः
एवम उक्त्वा महाबाहुर यूपकेतुर महायशाः
युयुधानं परित्यज्य रणे परायम उपाविशत
शरान आस्तीर्य सव्येन पाणिना पुण्यलक्षणः
यियासुर बरह्मलॊकाय पराणान पराणेष्व अथाजुहॊत
सूर्ये चक्षुः समाधाय परसन्नं सलिले मनः
धयायन महॊपनिषदं यॊगयुक्तॊ ऽभवन मुनिः
ततः स सर्वसेनायां जनः कृष्ण धनंजयौ
गर्हयाम आस तं चापि शशंस पुरुषर्षभम
निन्द्यमानौ तथा कृष्णौ नॊचतुः किं चिद अप्रियम
परशस्यमानश च तथा नाहृष्यद यूपकेतनः
तांर अथा वादिनॊ राजन पुत्रांस तव धनंजयः
अमृष्यमाणॊ मनसा तेषां तस्य च भाषितम
असंक्रुद्ध मना वाचा समारयन्न इव भारत
उवाच पाण्डुतनयः साक्षेपम इव फल्गुनः
मम सर्वे ऽपि राजानॊ जानन्त्य एतन महाव्रतम
न शक्यॊ मामकॊ हन्तुं यॊ मे सयाद बाणगॊचरे
यूपकेतॊ समीक्ष्य तवं न मां गर्हितुम अर्हसि
न हि धर्मम अविज्ञाय युक्तं गर्हयितुं परम
आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः
यद अहं बाहुम अच्छैत्सं न स धर्मॊ विगर्हितः
नयस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः
अभिमन्यॊर वधं तात धार्मिकः कॊ न पूजयेत
एवम उक्तस तु पार्थेन शिरसा भूमिम अस्पृशत
पाणिना चैव सव्येन पराहिणॊद अस्य दक्षिणम
एतत पार्थस्य तु वचस तथ शरुत्वा महाद्युतिः
यूपकेतुर महाराज तूष्णीम आसीद अवाङ्मुखः
[अर्ज]
या परीरिद धर्मराजे मे भीमे च वरदां वरे
नकुले सहदेवे च सा मे तवयि शलाग्रज
मया तु समनुज्ञातः कृष्णेन च महात्मना
गच्छ पुण्यकृताँल लॊकाञ शिबिरौशीनरौ यथा
[स]
तत उत्थाय शैनेयॊ विमुक्तः सौमदत्तिना
खड्गम आदाय चिच्छित्सुः शिरस तस्य महात्मनः
निहतं पाण्डुपुत्रेण परमत्तं भूरिदक्षिणम
इयेष सात्यकिर हन्तुं शलाग्रजम अकल्मषम
निकृत्तभुजम आसीनं छिन्नहस्तम इव दविपम
करॊशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः
वार्यमाणः स कृष्णेन पार्थेन च महात्मना
भीमेन चक्ररक्षाभ्याम अश्वत्थाम्ना कृपेण च
कर्णेन वृषसेनेन सैन्धवेन तथैव च
विक्रॊशतां च सैन्यानाम अवधीत तं यतव्रतम
परायॊपविष्टाय रणे पार्थेन छिन्नबाहवे
सात्यकिः कौरवेन्द्राय खड्गेनापाहरच छिरः
नाभ्यनन्दन्त तत सैन्याः सात्यकिं तेन कर्मणा
अर्जुनेन हतं पूर्वं यज जघान कुरूद्वहम
सहस्राक्षसमं तत्र सिद्धचारणमानवाः
भूरिश्रवसम आलॊक्य युद्धे परायगतं हतम
अपूजयन्त तं देवा विस्मितास तस्य कर्मभिः
पक्षवादांश च बहुशः परावदंस तस्य सैनिकाः
न वार्ष्णेयस्यापराधॊ भवितव्यं हि तत तथा
तस्मान मन्युर न वः कार्यः करॊधॊ दुःखकरॊ नृणाम
हन्तव्यश चैष वीरेण नात्र कार्या विचारणा
विहितॊ हय अस्य धात्रैव मृत्युः सात्यकिर आहवे
[सात्यकि]
न हन्तव्यॊ न हन्तव्य इति यन मां परभाषथ
धर्मवादैर अधर्मिष्ठा धर्मकञ्चुकम आस्थिताः
यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः
युष्माभिर निहतॊ युद्धे तदा धर्मः कव वॊ गतः
मया तव एतत परतिज्ञातं कषेपे कस्मिंश चिद एव हि
यॊ मां निष्पिष्य संग्रामे जीवन हन्यात पदा रुषा
स मे वध्यॊ भवेच छत्रुर यद्य अपि सयान मुनिव्रतः
चेष्टमानं परतीघाते स भुजं मां स चक्षुषः
मन्यध्वं मृतम इत्य एवम एतद वॊ बुद्धिलाघवम
युक्तॊ हय अस्य परतीघातः कृतॊ मे कुरुपुंगवाः
यत तु पार्थेन मत सनेहात सवां परतिज्ञां च रक्षता
स खड्गॊ ऽसय हृतॊ बाहुर एतेनैवास्मि वञ्चितः
भविरव्यं च यद भावि दैवं चेष्टयतीव च
सॊ ऽयं हतॊ विमर्दे ऽसमिन किम अत्राधर्मचेष्टितम
अपि चायं पुरा गीतः शलॊकॊ वाल्मीकिना भुवि
पीडाकरम अमित्राणां यत सयात कर्तव्यम एव तत
[स]
एवम उक्ते महाराज सर्वे कौरव पाण्डवाः
न सम किं चिद अभाषन्त मनसा समपूजयन
मन्त्रैर हि पूतस्य महाध्वरेषु; यशस्विनॊ भूरिसहस्रदस्य
मुनेर इवारण्य गतस्य तस्य; न तत्र कश चिद वधम अभ्यनन्दत
सुनील केशं वरदस्य तस्य; शूरस्य पारावत लॊहिताक्षम
अश्वस्य मेध्यस्य शिरॊ निकृत्तं; नयस्तं हविर्धानम इवॊत्तरेण
स तेजसा शस्त्रहतेन पूतॊ; महाहवे देहवरं विसृज्य
आक्रामद ऊर्ध्वं वरदॊ वरार्हॊ; वयावृत्य धर्मेण परेण रॊदसी
[धृ]
अजितॊ दरॊण राधेय विकर्ण कृतवर्मभिः
तीर्णः सैन्यार्णवं वीरः परतिश्रुत्य युधिष्ठिरे
स कथं कौरवेयेण समरेष्व अनिवारितः
निगृह्य भूरिश्रवसा बलाद भुवि निपातितः
[स]
शृणु राजन्न इहॊत्पत्तिं शैनेयस्य यथा पुरा
यथा च भूरिश्रवसॊ यत्र ते संशयॊ नृप
अत्रेः पुत्रॊ ऽभवत सॊमः सॊमस्य तु बुधः समृतः
बुधस्यासीन महेन्द्राभः पुत्र एकः पुरूरवाः
पुरूरवस आयुस तु आयुषॊ नहुषः समृतः
नजुषस्य ययातिस तु राजर्षिर देवसंमतिः
ययातेर देव यान्यां तु यदुर जयेष्ठॊ ऽभवत सुतः
यदॊर अभूद अन्ववाये देवमीढ इति शरुतिः
यादवस तस्य च सुतः शूरस तरैलॊक्यसंमतः
शूरस्य शौरिर नृवरॊ वसुदेवॊ महायशाः
धनुष्य अनावरः शूरः कार्तवीर्यसमॊ युधि
तद वीर्यश चापि तत्रैव कुले शिनिर अभून नृपः
एतस्मिन्न एव काले तु देवकस्य महात्मनः
दुहितुः सवयंवरे राजन सर्वक्षत्रसमागमे
तत्र वै देवकीं देवीं वसुदेवार्थम आप्तवान
निर्जित्य पार्थिवान सर्वान रथम आरॊपयच छिनिः
तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः
नामृष्यत महातेजाः सॊमदत्तः शिनेर नृप
तयॊर युद्धम अभूद राजन दिनार्धं चित्रम अद्भुतम
बाहुयुद्धं सुबलिनॊः शक्र परह्रादयॊर इव
शिनिना सॊमदत्तस तु परसह्य भुवि पातितः
असिम उद्यम्य केशेषु परगृह्य च पदा हतः
मध्ये राजसहस्राणां परेक्षकाणां समन्ततः
कृपया च पुनस तेन जीवेति स विसर्जितः
तदवस्थः कृतस तेन सॊमदत्तॊ ऽथ मारिष
परसादयन महादेवम अमर्षवशम आस्थितः
तस्य तुष्टॊ महादेवॊ वराणां वरदः परभुः
वरेण छन्दयाम आस स तु वव्रे वरं नृपः
पुत्रम इच्छामि भगवन यॊ निहन्याच छिनेः सुतम
मध्ये राजसहस्राणां पदा हन्याच च संयुगे
तस्य तद वचनं शरुत्वा सॊमदत्तस्य पार्थिव
एवम अस्त्व इति तत्रॊक्त्वा स देवॊ ऽनतरधीयत
स तेन वरदानेन लब्धवान भूरिदक्षिणम
नयपातयच च समरे सौमदत्तिः शिनेः सुतम
एतत ते कथितं राजन यन मां तवं परिपृच्छसि
न हि शक्या रणे जेतुं सात्वता मनुजर्षभ
लब्धलक्ष्याश च संग्रामे बहवश चित्रयॊधिनः
देवदानवगन्धर्वान विजेतारॊ हय अविस्मिताः
सववीर्यविजये युक्ता नैते परपरिग्रहाः
न तुल्यं वृष्णिभिर इह दृश्यते किं चन परभॊ
भूतं भव्यं भविष्यच च बलेन भरतर्षभ
न जञातिम अवमन्यन्ते वृद्धानां शासने रताः
न देवासुरगन्धर्वा न यक्षॊरग राक्षसाः
जेतारॊ वृष्णिवीराणां न पुनर मानुषा रणे
बरह्म दरव्ये गुरु दरव्ये जञातिद्रव्ये ऽपय अहिंसकाः
एतेषां रक्षितारश च ये सयुः कस्यां चिद आपदि
अर्थवन्तॊ न चॊत्सिक्ता बरह्मण्याः सत्यवादिनः
समर्थान नावमन्यन्ते दीनान अभ्युद्धरन्ति च
नित्यं देव परा दान्ता दातारश चाविकत्थनाः
तेन वृष्णिप्रवीराणां चक्रं न परतिहन्यते
अपि मेरुं वहेत कश चित तरेद वा मकरालयम
न तु वृष्णिप्रवीराणां समेत्यान्तं वरजेन नृप
एतत ते सर्वम आख्यातं यत्र ते संशयॊ विभॊ
कुरुराजनरश्रेष्ठ तव हय अपनयॊ महान
[धृ]
तदवस्थे हते तस्मिन भूरिश्रवसि कौरवे
यथा भूयॊ ऽभवद युद्धं तन ममाचक्ष्व संजय
[स]
भूरिश्रवसि संक्रान्ते परलॊकाय भारत
वासुदेवं महाबाहुर अर्जुनः समचूचुदत
चॊदयाश्वान भृशं कृष्ण यतॊ राजा जयद्रथः
अस्तम एति महाबाहॊ तवरमाणॊ दिवाकरः
एतद धि पुरुषव्याघ्र महद अभ्युद्यतं मया
कार्यं संरक्ष्यते चैष कुरु सेना महारथैः
नास्तम एति यथा सूर्यॊ यथासत्यं भवेद वचः
चॊदयाश्वांस तथा कृष्ण यथा हन्यां जयद्रथम
ततः कृष्णॊ महाबाहू रजतप्रतिमान हयान
हयज्ञश चॊदयाम आस जयद्रथरथं परति
तं परयान्तम अमॊघेषुम उत्पतद्भिर इवाशुगैः
तवरमाणा महाराज सेनामुख्याः समाव्रजन
दुर्यॊधनश च कर्णश च वृषसेनॊ ऽथ मद्रराट
अश्वत्थामा कृपश चैव सवयम एव च सैन्धवः
समासाद्य तु बीभत्सुः सैन्धवं परमुखे सथितम
नेत्राभ्यां करॊधदीप्ताभ्यां संप्रैक्षन निर्दहन्न इव
ततॊ दुर्यॊधनॊ राजा राधेयं तवरितॊ ऽबरवीत
अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं परति
अयं स वैकर्तन युद्धकालॊ; विदर्शयस्वात्मबलं महात्मन
यथा न वध्येत रणे ऽरजुनेन; जयद्रथः कर्ण तथा कुरुष्व
अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः
दिनक्षयं पराप्य नरप्रवीर; धरुवं हि नः कर्णजयॊ भविष्यति
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं परति
मिथ्याप्रतिज्ञः कौन्तेयः परवेक्ष्यति हुताशनम
अनर्जुनायां च भुवि मुहूर्तम अपि मानद
जीवितुं नॊत्सहेरन वै भरातरॊ ऽसय सहानुगाः
विनष्टैः पाण्डवेयैश च स शैलवनकाननाम
वसुंधराम इमां कर्ण भॊक्ष्यामॊ हतकण्टकाम
दैवेनॊपहतः पार्थॊ विपरीतश च मानद
कार्याकार्यम अजानन वै परतिज्ञां कृतवान रणे
नूनम आत्मविनाशाय पाण्डवेन किरीटिना
परतिज्ञेयं कृता कर्णजयद्रथवधं परति
कथं जीवति दुर्धर्षे तवयि राधेय फल्गुनः
अनस्तं गत आदित्ये हन्यात सैन्धवकं नृपम
रक्षितं मद्रराजेन कृपेण च महात्मना
जयद्रथं रणमुखे कथं हन्याद धनंजयः
दरौणिना रक्ष्यमाणं च मया दुःशासनेन च
कथं पराप्स्यति बीभत्सुः सैन्धवं कालचॊदितः
युध्यने बहवः शूरा लम्बते च दिवाकरः
शङ्के जयद्रथं पार्थॊ नैव पराप्स्यति मानद
स तवं कर्ण मया सार्धं शूरैश चान्यैर महारथैः
युध्यस्व यत्नम आस्थाय परं पार्थेन संयुगे
एवम उक्तस तु राधेयस तव पुत्रेण मारिष
दुर्यॊधनम इदं वाक्यं पत्युवाच कुरूत्तमम
दृढलक्ष्येण शूरेण भीमसेनेन धन्विना
भृशम उद्वेजितः संख्ये शरजालैर अनेकशः
सथातव्यम इति तिष्ठामि रणे संप्रति मानद
नैवाङ्गम इङ्गति किं चिन मे संतप्तस्य रणेषुभिः
यॊत्स्यामि तु तथा राजञ शक्त्याहं परया रणे
यथा पाण्डवमुख्यॊ ऽसौ न हनिष्यति सैन्धवम
न हि मे युध्यमानस्य सायकांश चास्यतः शितान
सैन्धवं पराप्स्यते वीरः सव्यसाची धनंजयः
यत तु शक्तिमता कार्यं सततं हितकारिणा
तत करिष्यामि कौरव्य जयॊ दैवे परतिष्ठितः
अद्य यॊत्स्ये ऽरजुनम अहं पौरुषं सवं वयपाश्रितः
तवदर्थं पुरुषव्याघ्र जयॊ दैवे परतिष्ठितः
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चॊभयॊः
पश्यन्तु सर्वभूतानि दारुणं लॊमहर्षणम
कर्ण कौरवयॊर एवं रणे संभाषमाणयॊः
अर्जुनॊ निशितैर बाणैर जघान तव वाहिनीम
चिच्छेद तीक्ष्णाग्रमुखैः शूराणाम अनिवर्तिनाम
भुजान परिघसंकाशान हस्तिहस्तॊपमान रणे
शिरांसि च महाबाहुश चिच्छेद निशितैः शरैः
हस्तिहस्तान हयग्रीवा रथाक्षांश च समन्ततः
शॊणिताक्षान हयारॊहान गृहीतप्रास तॊमरान
कषुरैश चिच्छेद बीभत्सुर दविधैकैकं तरिधैव च
हयवारणमुह्याश च परापयन्त सहस्रशः
धवजाश छत्राणि चापानि चामराणि शिरांसि च
कक्षम अग्निम इवॊद्धूतः परदहंस तव वाहिनीम
अचिरेण महीं पार्थश चकार रुधिरॊत्तराम
हतभूयिष्ठ यॊधं तत कृत्वा तव बलं बली
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः
बीभत्सुर भीमसेनेन सात्वतेन च रक्षितः
स बभौ भरतश्रेष्ठ जवलन्न इव हुताशनः
तं तथावस्थितं दृष्ट्वा तवदीया वीर्यसंमताः
नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः
दुर्यॊधनश च कर्णश च वृषसेनॊ ऽथ मद्रराट
अश्वत्थामा कृपश चैव सवयम एव च सैन्धवः
संरब्धाः सैन्धवस्यार्थे समावृण्वन किरीटिनम
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः
संग्रामकॊविदं पार्थं सर्वे युद्धविशारदाः
अभीताः पर्यवर्तन्त वयादितास्यम इवान्तकम
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तॊ ऽरजुनाच्युतौ
सूर्यास्तमयम इच्छन्तॊ लॊहितायति भास्करे
ते भुजैर भॊगि भॊगाभैर धनूंष्य आयम्य सायकान
मुमुचुः सूर्यरश्म्य आभाञ शतशः फल्गुनं परति
तान अस्तान अस्यमानांश च किरीटी युद्धदुर्मदः
दविधा तरिधाष्टधैकैकं छित्त्वा विव्याध तान रणे
सिंहलाङ्गूल केतुस तु दर्शयञ शक्तिम आत्मनः
शारद्वती सुतॊ राजन्न अर्जुनं परत्यवारयत
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः
अतिष्ठद रथमार्गेषु सैन्धवं परिपालयन
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः
महता रथवंशेन सर्वतः पर्यवारयन
विस्फारयन्तश चापानि विसृजन्तश च सायकान
सैन्धवं पर्यरक्षन्त शासनात तनयस्य ते
तत्र पार्थस्य शूरस्य बाह्वॊर बलम अदृश्यत
ऋषूणाम अक्षयत्वं च धनुषॊ गाण्डिवस्य च
अस्त्रैर अस्त्राणि संवार्य दरौणेः शारद्वतस्य च
एकैकं नवभिर बाणैः सर्वान एव समर्पयत
तं दरौणिः पञ्चविंशत्या वृषसेनश च सप्तभिः
दुर्यॊधनश च विंशत्या कर्ण शल्यौ तरिभिस तरिभिः
त एनम अभिगर्जन्तॊ विध्यन्तश च पुनः पुनः
विधुन्वन्तश च चापानि सर्वतः पर्यवारयन
शलिष्टं तु सर्वतश चक्रू रथमण्डलम आशु ते
सूर्यास्तमयम इच्छन्तस तरवमाणा महारथाः
त एनम अभिनर्दन्तॊ विधुन्वाना धनूंषि च
सिषिचुर मार्गणैर घॊरैर गिरिं मेघा इवाम्बुभिः
ते महास्त्राणि दिव्यानि तत्र राजन वयदर्शयन
धनंजयस्य गात्रेषु शूराः परिघबाहवः
हतभूयिष्ठ यॊधं तत कृत्वा तव बलं बली
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः
तं कर्णः संयुगे राजन परत्यवारयद आशुगैः
मिषतॊ भीमसेनस्य सात्वतस्य च भारत
तं पार्थॊ दशभिर बाणैः परत्यविध्यद रणाजिरे
सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः
सात्वतश च तरिभिर बाणैः कर्णं विव्याध मारिष
भीमसेनस तरिभिश चैव पुनः पार्थश च सप्तभिः
तान कर्णः परतिविव्याध षष्ट्या षष्ट्या महारथः
तद युद्धम अभवद राजन कर्णस्य बहुभिः सह
तत्राद्भुतम अपश्याम सूतपुत्रस्य मारिष
यद एकः समरे करुद्धस तरीन रथान पर्यवारयत
फल्गुनस तु महाबाहुः कर्णं वैकर्तनं रणे
सायकानां शतेनैव सर्वमर्मस्व अताडयत
रुधिरॊक्षितसर्वाङ्गः सूतपुत्रः परतापवान
शरैः पञ्चाशता वीरः फल्गुनं परत्यविध्यत
तस्य तल लाघवं दृष्ट्वा नामृष्यत रणे ऽरजुनः
ततः पार्थॊ धनुश छित्त्वा विव्याधैनं सतनान्तरे
सायकैर नवभिर वीरस तवरमाणॊ धनंजयः
वधार्थं चास्य समरे सायकं सूर्यवर्चसम
चिक्षेप तवरया युक्तस तवरा काले धनंजयः
तम आपतन्तं वेगेन दरौणिश चिच्छेद सायकम
अर्धचन्द्रेण तीक्ष्णेन स छिन्नः परापतद भुवि
अथान्यद धनुर आदाय सूतपुत्रः परतापवान
कर्णॊ ऽपि दविषतां हन्ता छादयाम आस फल्गुनम
सायकैर बहुसाहस्रैः कृतप्रतिकृतेप्सया
तौ वृषाव इव नर्दन्तौ नरसिंहौ महारथौ
सायकौघप्रतिच्छन्नं चक्रतुः खम अजिह्मगैः
अदृश्यौ च शरौघैस तौ निघ्नताम इतरेतरम
पार्थॊ ऽहम अस्मि तिष्ठ तवं कर्णॊ ऽहं तिष्ठ फल्गुन
इत्य एवं तर्जयन्तौ तौ वाक्शल्यैस तुदतां तथा
युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च
परेक्षणीयौ चाभवतां सर्वयॊधसमागमे
परशस्यमानौ समरे सिद्धचारणवातिकैः
अयुध्येतां महाराज परस्परवधैषिणौ
ततॊ दुर्यॊधनॊ राजंस तावकान अभ्यभाषत
यत्ता रक्षत राधेयं नाहत्वा समरे ऽरजुनम
निवर्तिष्यति राधेय इति माम उक्तवान वृषः
एतस्मिन्न अन्तरे राजन दृष्ट्वा कर्णस्य विक्रमम
आकर्णमुक्तैर इषुभिः कर्णस्य चतुरॊ हयान
अनयन मृत्युलॊकाय चतुर्भिः सायकॊत्तमैः
सारथिं चास्य भल्लेन रथनीडाद अपाहरत
छादयाम आस च शरैस तव पुत्रस्य पश्यतः
स छाद्यमानः समरे हताश्वॊ हतसारथिः
मॊहितः शरजालेन कर्तव्यं नाभ्यपद्यत
तं तथा विरथं दृष्ट्वा रथम आरॊप्य सवं तदा
अश्वत्थामा महाराज भूयॊ ऽरजुनम अयॊघयत
मद्रराजस तु कौन्तेयम अविध्यत तरिंशता शरैः
शारद्वतस तु विंशत्या वासुदेवं समार्पयत
धनंजयं दवादशभिर आजघान शिलीमुखैः
चतुर्भिः सिन्धुराजश च वृषसेनश च सप्तभिः
पृथक पृथन महाराज कृष्ण पार्थाव अविध्यताम
तथैव तान परत्यविध्यत कुन्तीपुत्रॊ धनंजयः
दरॊणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च
सैन्धवं दशभिर भल्लैर वृषसेनं तरिभिः शरैः
शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत
ते परतिज्ञा परतीघातम इच्छन्तः सव्यसाचिनः
सहितास तावकास तूर्णम अभिपेतुर धनंजयम
अथार्जुनः सर्वतॊ धारम अस्त्रं; परादुश्चक्रे तरासयन धार्तराष्ट्रान
तं परत्युदीयुः कुरवः पाण्डुसूनुं; रथैर महार्हैः शरवर्षाण्य अवर्षन
ततस तु तस्मिंस तुमुले समुत्थिते; सुदारुणे भारत मॊहनीये
नामुह्यत पराप्य स राजपुत्रः; किरीटमालि विसृजन पृषत्कान
राज्यप्रेप्सुः सव्यसाची कुरूणां; समरन कलेशान दवादश वर्षवृत्तान
गाण्डीवमुक्तैर इषुभिर महात्मा; सर्वा दिशॊ वयावृणॊद अप्रमेयैः
परदीप्तॊल्कम अभवच चान्तरिक्षं; देहेषु भूरीण्य अपतन वयांसि
यत पिङ्गल जयेन किरीटमाली; करुद्धॊ रिपून आजगवेन हन्ति
किरीटमाली महता महायशाः; शरासनेनास्य शरान अनीकजित
हयप्रवेकॊत्तम नागधूर गतान; कुरुप्रवीरान इषुभिर नयपातयत
गदाश च गुर्वीः परिघान अयस्मयान; असींश च शक्तीश च रणे नराधिपाः
महान्ति शस्त्राणि च भीमदर्शनाः; परगृह्य पार्थं सहसाभिदुद्रुवुः
स तान उदीर्णान स रथाश्ववारणान; पदातिसंघांश च महाधनुर्धरः
विपन्नसर्वायुधजीवितान रणे; चकार वीरॊ यम राष्ट्रवर्धनान
[स]
स रणे वयचरत पार्थः परेक्षणीयॊ धनंजयः
युगपद दिक्षु सर्वासु चित्राण्य अस्त्राणि दर्शयन
मध्यंदिनगतं सूर्यं परतपन्तम इवाम्बरे
न शेकुः सर्वभूतानि पाण्डवं परतिवीक्षितुम
परसृतांस तस्य गाण्डीवाच छरव्रातान महात्मनः
संग्रामे समपश्याम हंसपङ्क्तीर इवाम्बरे
विनिवार्य स वीराणाम अस्त्रैर अस्त्राणि सर्वशः
दर्शयन रौद्रम आत्मानम उग्रे कर्णमि धिष्ठितः
स तान रथवरान राजन्न अभ्यतिक्रामद अर्जुनः
मॊहयन्न इव नाराचैर जयद्रथवधेप्सया
विसृजन दिक्षु सर्वासु शरान असितसारथिः
स रणे वयचरत तूर्णं परेक्षणीयॊ धनंजयः
भरमन्त इव शूरस्य शरव्राता महात्मनः
अदृश्यन्तान्तरिक्षस्थाः शतशॊ ऽथ सहस्रशः
आददानं महेष्वासं संदधानं च पाण्डवम
विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा
तथा सर्वा दिशॊ राजन सर्वाश च रथिनॊ रणे
आकुली कृत्यकौन्तेयॊ जयद्रथम उपाद्रवत
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम
सैन्धवस तु तथा विद्धः शरैर गाण्डीवधन्वना
न चक्षमे सुसंक्रुद्धस तॊत्त्रार्दित इव दविपः
स वराहध्वजस तूर्णं गार्ध्रपत्रान अजिह्मगान
आशीविषसमप्रख्यान कर्मार परिमार्जितान
मुमॊच निशितान संख्ये सायकान सव्यसाचिनि
तरिभिस तु विद्ध्वा गाण्डीवं नाराचैः षड्भिर अर्जुनम
अष्टाभिर वाजिनॊ ऽविध्यद धवजं चैकेन पत्रिणा
स विक्षिप्यार्जुनस तीक्ष्णान सैन्धव परेषिताञ शरान
युगपत तस्य चिछेद शराभ्यां सैन्धवस्य ह
सारथेश च शिरः कायाद धवजं च समलंकृतम
स छिन्नयष्टिः सुमहाञ शीर्यमाणः शराहतः
वराहः सिन्धुराजस्य पपाताग्निशिखॊपमः
एतस्मिन्न एव काले तु दरुतं गच्छति भास्करे
अब्रवीत पाण्डवं तत्र तवरमाणॊ जनार्दनः
धनंजय शिरश छिन्धि सैन्धवस्य दुरात्मनः
अस्तं महीधर शरेष्ठं यियासति दिवाकरः
शृणुष्वैव च मे वाक्यं जयद्रथवधं परति
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः
स कालेनेह महता सैन्धवं पराप्तवान सुतम
जयद्रथम अमित्रघ्नं तं चॊवाच ततॊ नृपम
अन्तर्हिता तदा वाणी मेघदुन्दुभि निस्वना
तवात्मजॊ ऽयं मर्त्येषु कुलशीलदमादिभिः
गुणैर भविष्यति विभॊ सदृशॊ वंशयॊर दवयॊः
कषतिय परवरॊ लॊके नित्यं शूराभिसत्कृतः
शत्रुभिर युध्यमानस्य संग्रामे तव अस्य धन्विनः
शिरश छेत्स्यति संक्रुद्धः शत्रुर नालक्षितॊ भुवि
एतच छरुत्वा सिन्धुराजॊ धयात्वा चिरम अरिंदमम
जञातीन सर्वान उवाचेदं पुत्रस्नेहाभिपीडितः
संग्रामे युध्यमानस्य वहतॊ महतीं धुरम
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः
तस्यापि शतधा मूर्धा फलिष्यति न संशयः
एवम उक्त्वा ततॊ राज्ये सथापयित्वा जयद्रथम
वृद्धक्षत्रॊ वनं यातस तपश चेष्टं समस्थितः
सॊ ऽयं तप्यति तेजस्वी तपॊ घॊरं दुरासदम
समन्तपञ्चकाद अस्माद बहिर वानरकेतन
तस्माज जयद्रथस्य तवं शिरश छित्त्वा महामृधे
दिव्येनास्त्रेण रिपुहन घॊरेणाद्भुत कर्मणा
सकुण्डलं सिन्धुपतेः परभञ्जन असुतानुज
उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत
अथ तवम अस्य मूर्धानं पातयिष्यसि भूतले
तवापि शतधा मूर्धा फलिष्यति न संशयः
यथा चैतन न जानीयात स राजा पृथिवीपतिः
तथा कुरु कुरुश्रेष्ठ दिव्यम अस्त्रम उपाश्रितः
न हय असाध्यम अकार्यं वा विद्यते तव किं चन
समस्तेष्व अपि लॊकेषु तरिषु वासवनन्दन
एतच छरुत्वा तु वचनं सृक्किणी परिसंलिहन
इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम
सर्वभार सहं शश्वद गन्धमाल्यार्चितं शरम
विससर्जार्जुनस तूर्णं सैन्धवस्य वधे वृतः
स तु गाण्डीवनिर्मुक्तः शरः शयेन इवाशुगः
शकुन्तम इव वृक्षाग्रात सैन्धवस्य शिरॊ ऽहरत
अहरत तत पुनश चैव शरैर ऊर्ध्वं धनंजयः
दुर्हृदाम अप्रहर्षाय सुहृदां हर्षणाय च
शरैः कदम्बकी कृत्यकाले तस्मिंश च पाण्डवः
समन्तपञ्चकाद बाह्यं शिरस तद वयहरत ततः
एतस्मिन्न एककाले तु वृद्धक्षत्रॊ महीपतिः
संध्याम उपास्ते तेजस्वी संबन्धी तव मारिष
उपासीनस्य तस्याथ कृष्ण केशं सकुण्डलम
सिन्धुर आजस्य मूर्धानम उत्सङ्गे समपातयत
तस्यॊत्सङ्गे निपतितं शिरस तच चारुकुण्डलम
वृद्धक्षत्रस्य नृपतेर अलक्षितम अरिंदम
कृप जप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः
उत्तिष्ठतस तत सहसा शिरॊ ऽगच्छद धरातलम
ततस तस्य नरेन्द्रस्य पुत्र मूर्धनि भूतलम
गते तस्यापि शतधा मूर्धागच्छद अरिंदम
ततः सर्वाणि भूतानि विस्मयं जग्मुर उत्तमम
वासुदेवश च बीभत्सुं परशशंस महारथम
ततॊ दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम
पुत्राणां तव नेत्रेभ्यॊ दुःखाद बह्व अपतज जलम
भीमसेनॊ ऽपि संग्रामे बॊधयन्न इव पाण्डवम
सिंहनादेन महता पूरयाम आस रॊदसी
तं शरुत्वा तु महानादं धर्मपुत्रॊ युधिष्ठिरः
सैन्धवं निहतं मेने फल्गुनेन महात्मना
ततॊ वादित्रघॊषेण सवान यॊधान अभिहर्षयन
अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया
ततः परववृते राजन्न अस्तं गच्छति भास्करे
दरॊणस्य सॊमकैः सार्धं संग्रमॊ लॊमहर्षणः
ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः
सैन्धवे निहते राजन्न अयुध्यन्त महारथाः
पाण्डवास तु जयं लब्ध्वा सैन्धवं विनिहत्य च
अयॊधयंस ततॊ दरॊणं जयॊन्मत्तास ततस ततः
अर्जुनॊ ऽपि रणे यॊधांस तावकान रथसत्तमान
अयॊधयन महाराज हत्वा सैन्धवकं नृपम
स देवशत्रून इव देवराजः; किरीटमाली वयधमत समन्तात
यथा तमांस्य अभ्युदितस तमॊघ्नः; पूर्वां परतिज्ञां समवाप्य वीरः
[धृ]
तस्मिन विनिहते वीरे सैन्धवे सव्यसाचिना
मामका यद अकुर्वन्त तन ममाचक्ष्व संजय
[स]
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष
अमर्षवशम आपन्नः कृपः शारदतस तदा
महता शरवर्षेण पाण्डवं समवाकिरत
दरौणिश चाभ्यद्रवत पार्थं रथम आस्थाय फल्गुनम
ताव एनं रथिनां शरेष्ठौ रथाभ्यां रथसत्तमम
उभाव उभयतस तीक्ष्णैर विशिखैर अभ्यवर्षताम
स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः
पीड्यमानः पराम आर्तिम अगमद रथिनां वरः
सॊ ऽजिघांसुर गुरुं संख्ये गुरॊस तनयम एव च
चकाराचार्यकं तत्र कुन्तीपुत्रॊ धनंजयः
अस्त्रैर अस्त्राणि संवार्य दरौणेः शारद्वतस्य च
मन्दवेगान इषूंस ताभ्याम अजिघांसुर अवासृजत
ते नातिभृशम अभ्यघ्नन विशिखा जय चॊदिताः
बहुत्वात तु पराम आर्तिं शराणां ताव अगच्छताम
अथ शारद्वतॊ राजन कौन्तेय शरपीडितः
अवासीदद रथॊपस्थे मूर्च्छाम अभिजगाम ह
विह्वलं तम अभिज्ञाय भर्तारं शरपीडितम
हतॊ ऽयम इति च जञात्वा सारस्थिस तम अपावहत
तस्मिन सन्ने महाराजे कृपे शारद्वते युधि
अश्वत्थामाप्य अपायासीत पाण्डवेयाद रथान्तरम
दृष्ट्वा शारद्वतं पार्थॊ मूर्छितं शरपीडितम
रथ एव महेष्वासः कृपणं पर्यदेवयत
पश्यन्न इदं महाप्राज्ञः कषत्ता राजानम उक्तवान
कुलान्त करणे पापे जातमात्रे सुयॊधने
नीयतां परलॊकाय साध्व अयं कुलपांसनः
अस्माद धि कुरुमुख्यानां महद उत्पत्स्यते भयम
तद इदं समनुप्राप्तं वचनं सत्यवादिनः
तत कृते हय अद्य पश्यामि शरतल्पगतं कृपम
धिग अस्तु कषात्रम आचारं धिग अस्तु बलपौरुषम
कॊ हि बराह्मणम आचार्यम अभिद्रुह्येत मादृशः
ऋषिपुत्रॊ ममाचार्यॊ दरॊणस्य दयितः सखा
एष शेते रथॊपस्थे मद्बाणैर अभिपीडितः
अकामयानेन मया विशिखैर अर्दितॊ भृशम
अवासीदद रथॊपस्थे पराणान पीडयतीव मे
शरार्दितेन हि मया परेक्षणीयॊ महाद्युतिः
परत्यस्तॊ बहुभिर बाणैर दश धर्मगतेन वै
शॊचयत्य एष निपतन भूयः पुत्रवधाद धि माम
कृपणं सवरथे सन्नं पश्य कृष्ण यथागतम
उपाकृत्य तु वै विद्याम आचार्येभ्यॊ नरर्षभाः
परयच्छन्तीह ये कामान देवत्वम उपयान्ति ते
ये तु विद्याम उपादाय गुरुभ्यः पुरुषाधमाः
घनन्ति तान एव दुर्वृत्तास ते वै निरयगामिनः
तद इदं नरकायाद्य कृतं कर्म मया धरुवम
आचार्यं शरवर्षेण रथे सादयता कृपम
यत तत पूर्वम उपाकुर्वन्न अस्त्रं माम अब्रवीत कृपः
न कथं चन कौरव्य परहर्तव्यं गुराव इति
तद इदं वचनं साधॊर आचार्यस्य महात्मनः
नानुष्ठितं तम एवाजौ विशिखैर अभिवर्षताण
नमस तस्मै सुपूज्याय गौतमायापलायिने
धिग अस्तु मम वार्ष्णेय यॊ हय अस्मै परहराम्य अहम
तथा विपलमाने तु सव्यसाचिनि तं परति
सैधवं निहतं दृष्ट्वा राधेयः समुपाद्रवत
उपायान्तं तु राधेयं दृष्ट्वा पार्थॊ महारथः
परहसन देवकीपुत्रम इदं वचनम अब्रवीत
एष परयात्य आधिरथिः सात्यकेः सयन्दनं परति
न मृष्यति हतं नूनं भूरिश्रवसम आहवे
यत्र यात्य एष तत्र तवं चॊदयाश्वाञ जनार्दन
मा सॊमदत्तेः पदवीं गमयेत सात्यकिं वृषः
एकम उक्तॊ महाबाहुः केशवः सव्यसाचिना
परत्युवाच महातेजाः कालयुक्तम इदं वचः
अलम एष महाबाहुः कर्णायैकॊ हि पाण्डव
किं पुनर दरौपदेयाभ्यां सहितः साततर्षभः
न च तावत कषमः पार्थ कर्णेन तव संगरः
परज्वलन्ती महॊल्केव तिष्ठत्य अस्य हि वासवी
तवदर्थं पूज्यमानैषा रक्ष्यते परवीरहन
अतः कर्णः परयात्व अत्र सात्वतस्य यथातथा
अहं जञास्यामि कौरव्य कालम अस्य दुरात्मनः
[धव]
यॊ ऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः
हते तु भूरिश्रवसि सन्धवे च निपातिते
सात्यकिश चापि विरथः कं समारूढवान रथम
चक्ररक्षौ च पाञ्चाल्यौ तन ममाचक्ष्व संजय
[स]
हन्त ते वर्णयिष्यामि यथावृत्तं महारणे
शुश्रूषस्व सथिरॊ भूत्वा दुराचरितम आत्मनः
पूर्वम एव हि कृष्णस्य मनॊगतम इदं परभॊ
विजेतव्यॊ यथा वीरः सात्यकिर यूपकेतुना
अतीतानागतं राजन स हि वेत्ति जनार्दनः
अतः सूतं समाहूय दारुकं संदिदेश ह
रथॊ मे युज्यतां काल्यम इति राजन महाबलः
न हि देवा न गन्धर्वा न यक्षॊरग राक्षसाः
मानवा वा विजेतारः कृष्णयॊः सन्ति के चन
पितामहपुरॊगाश च देवाः सिद्धाश च तं विदुः
तयॊः परभावम अतुलं शृणु युद्धं च तद यथा
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम
दध्मौ शङ्खं महावेगम आर्षभेणाथ माधवः
दारुकॊ ऽवेत्य संदेशं शरुत्वा शङ्खस्य च सवनम
रथम अन्वानयत तस्मै सुपर्णॊच्छ्रितकेतनम
स केशवस्यानुमते रथं दारुक संयुतम
आरुरॊह शिनेः पौत्रॊ जवलनादित्य संनिभम
कामगैः सैन्यसुग्रीव मेघपुष्पबलाहकैः
हयॊदग्रैर महावेगैर हेमभाण्ड विभूषितैः
युक्तं समारुह्य च तं विमानप्रतिमं रथम
अभ्यद्रवत राधेयं परवपन सायकान बहून
चक्ररक्षाव अपि तदा युधामन्यूत्तमौजसौ
धनंजयरथं हित्वा राधेयं परत्युदीययुः
राधेयॊ ऽपि महाराज शरवर्षं समुत्सृजन
अभ्यद्रवत सुसंक्रुद्धॊ रणे शैनेयम अच्युतम
नैव दैवं न गान्धर्वं नासुरॊरग राक्षसम
तादृशं भुवि वा युद्धं दिवि वा शरुतम इत्य उत
उपारमत तत सैन्यं स रथाश्वनरद्विपम
तयॊर दृष्ट्वा महाराज कर्म संमूढचेतनम
सर्वे च समपश्यन्त तद युद्धम अतिमानुषम
तयॊर नृवरयॊ राजन सारथ्यं दारुकस्य च
गतप्रत्यागतावृत्तैर मण्डलैः संनिवर्तनैः
सारथेस तु रथस्थस्य काश्यपेयस्य विस्मिताः
नभस्तलगताश चैव देवगन्धर्वदानवाः
अतीवावहिता दरष्टुं कर्ण शैनेययॊ रणम
मित्रार्थे तौ पराक्रान्तौ सपर्धिनौ शुष्मिणौ रणे
कर्णश चामरसंकाशॊ युयुधानश च सात्यकिः
अन्यॊन्यं तौ महाराज शरवर्षैर अवर्षताम
परममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः
अमृष्यमाणॊ निधनं कौरव्य जलसंधयॊः
कर्णः शॊकसमाविष्टॊ महॊरग इव शवसन
स शैनेयं रणे करुद्धः परदहन्न इव चक्षुषा
अभ्यद्रवत वेगेन पुनः पुनर अरिंदमः
तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः परत्यविध्यत
महता शरवर्षेण गजः परतिगजं यथा
तौ समेत्य नरव्याघ्रौ वयाघ्राव इव तरस्विनौ
अन्यॊन्यं संततक्षाते रणे ऽनुपम विक्रमौ
ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः
विभेद सर्वगात्रेषु पुनः पुनर अरिंदमः
सारथिं चास्य भल्लेन रथनीडाद अपाहरत
अश्वांश च चतुरः शवेतान निजघ्ने निशितैः शरैः
छित्त्वा धवजं शतेनैव शतधा पुरुषर्षभः
चकार विरथं कर्णं तव पुत्रस्य पश्यतः
ततॊ विमनसॊ राजंस तावकाः पुरुषर्षभाः
वृषसेनः कर्णसुतः शल्यॊ मद्राधिपस तथा
दरॊणपुत्रश च शैनेयं सर्वतः पर्यवारयन
ततः पर्याकुलं सर्वं न पराज्ञायत किं चन
तथा सात्यकिना वीरे विरथे सूतजे कृते
हाहाकारस ततॊ राजन सर्वसैन्येषु चाभवत
कर्णॊ ऽपि विह्वलॊ राजन सात्वतेनार्दितः शरैः
दुर्यॊधन रथं राजन्न आरुरॊह विनिःश्वसन
मानयंस तव पुत्रस्य बाल्यात परभृति सौहृदम
कृतां राज्यप्रदानेन परतिज्ञां परिपालयन
तथा तु विरथे कर्णे पुत्रान वै तव पार्थिव
दुःशासन मुखाञ शूरान नावधीत सात्यकिर वशी
रक्षन परतिज्ञां च पुनर भीमसेनकृतां पुरा
विरथान विह्वलांश चक्रे न तु पराणैर वययॊजयत
भीमसेनेन तु वधः पुत्राणां ते परतिश्रुतः
पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः
वधे तव अकुर्वन यत्नं ते तस्य कर्ण मुखास तदा
नाशक्नुवंश च तं हन्तुं सात्यकिं परवरा रथाः
दरौणिश च कृतवर्मा च तथैवान्ये महारथाः
निर्जिता धनुषैकेन शतशः कषत्रियर्षभाः
काङ्क्षता परलॊकं च धर्मराजस्य च परियम
कृष्णयॊः सदृशॊ वीर्ये सात्यकिः शत्रुकर्शनः
कृष्णॊ वापि भवेल लॊके पार्थॊ वापि धनुर्धरः
शैनेयॊ वा नरव्यघ्रश चतुर्थॊ नॊपलभ्यते
[धृ]
अजय्यं रथम आस्थाय वासुदेवस्य सात्यकिः
विरथं कृतवान कर्णं वासुदेव समॊ युवा
दारुकेण समायुक्तं सवबाहुबलदर्पितः
कच चिद अन्यं समारूढः स रथं सात्यकिः पुनः
एतद इच्छाम्य अहं शरॊतुं कुशलॊ हय असि भाषितुम
असह्यं तम अहं मन्ये तन ममाचक्ष्व संजय
[स]
शृणु राजन यथा तस्य रथम अन्यं महामतिः
दारुकस्यानुजस तूर्णं कल्पना विधिकल्पितम
आयसैः काञ्चनैर्श चापि पट्टैर नद्धं स कूबरम
तारा सहस्रखचितं सिंहध्वजपताकिनम
अश्वैर वातजवैर युक्तं हेमभाण्ड परिच्छदैः
पाण्डुरैर इन्दुसंकाशैः सर्वशब्दातिगैर दृढैः
चित्रकाञ्चनसंनाहैर वाजिमुख्यैर विशां पते
घण्टाजालाकुल रवं शक्तितॊमरविद्युतम
वृतं सांग्रामिकैर दरव्यैर बहुशस्त्रपरिच्छदम
रथं संपादयाम आस मेघगम्भीर निस्वनम
तं समारुह्य शैनेयस तव सैन्यम उपाद्रवत
दारुकॊ ऽपि यथाकामं परययौ केशवान्तिकम
कर्णस्यापि महाराज शङ्खगॊक्षीर पाण्डुरैः
चित्रकाञ्चनसंनाहैः सदश्वैर वेगवत्तरैः
हेमकक्ष्या धवजॊपेतं कॢप्त यन्त्रपताकिनम
अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम
उपाजह्रुस तम आस्थाय कर्णॊ ऽपय अभ्यद्रवद रिपून
एतत ते सरम आख्यातं यन मां तवं परिपृच्छसि
भूयश चापि निबॊध तवं तवापनयजं कषयम
एकत्रिंशत तव सुता भीमसेनेन पातिताः
दुर्मुखं परमुखे कृत्वा सततं चित्रयॊधिनम
शतशॊ निहताः शूराः सात्वतेनार्जुनेन च
भीष्मं परमुखतः कृत्वा भगदत्तं च मारिष
एवम एष कषयॊ वृत्तॊ राजन दुर्मन्त्रिते तव
[धृ]
तथागतेषु शूरेषु तेषां मम च संजय
किं वै भीमस तदाकार्षीत तन ममाचक्ष्व संजय
[स]
विरथॊ भीमसेनॊ वै कर्ण वाक्शल्य पीडितः
अमर्षवशम आपन्नः फल्गुनं वाक्यम अब्रवीत
पुनः पुनस तूबरक मूढ औदरिकेति च
अकृतास्त्रक मा यॊधीर बाल संग्रामकातर
इति माम अब्रवीत कर्णः पश्यतस ते धनंजय
एवं वक्ता च मे वध्यस तेन चॊक्तॊ ऽसमि भारत
एतद वरतं महाबाहॊ तवया सह कृतं मया
यथैतन मम कौनेय तथा तव न संशयः
तद वधाय नरश्रेष्ठ समरैतद वचनं मम
यथा भवति तत सत्यं तथा कुरु धनंजय
तच छरुत्वा वचनं तस्य भीमस्यामित विक्रमः
ततॊ ऽरजुनॊ ऽबरवीत कर्णं किं चिद अभ्येत्य संयुगे
कर्ण कर्ण वृथा दृष्टे सूतपुत्रात्म संस्तुत
अधर्मबुद्धे शृणु मे यत तवा वक्ष्यामि सांप्रतम
दविविधं कर्म शूराणां युद्धे जयपराजयौ
तौ चाप्य अनित्यौ राधेय वासवस्यापि युध्यतः
मुमूर्षुर युयुधानेन विरथॊ ऽसि विसर्जितः
यदृच्छया भीमसेनं विरथं कृतवान असि
अधर्मस तव एष राधेय यत तवं भीमम अवॊचथाः
युद्धधर्मं विजानन वै युध्यन्तम अपलायिनम
पूरयन्तं यथाशक्ति शूर कर्माहवे तथा
पश्यतां सर्वसैन्यानां केशवस्य ममैव च
विरथॊ भीमसेनेन कृतॊ ऽसि बहुशॊ रणे
न च तवां परुषं किं चिद उक्तवान पण्डुनन्दनः
यस्मात तु बहु रूक्षं च शरावितस ते वृकॊदरः
परॊक्षं यच च सौभद्रॊ युष्माभिर निहतॊ मम
तस्माद अस्यावलेपस्य सद्यः फलम अवाप्नुहि
तवया तस्य धनुश छिन्नम आत्मनाशाय दुर्मते
तस्माद वध्यॊ ऽसि मे मूढ स भृत्यबलवाहनः
कुरु तवं सर्वकृत्यानि महत ते भयम आगतम
हन्तास्मि वृषसेनं ते परेक्षमाणस्य संयुगे
ये चान्ये ऽपय उपयास्यन्ति बुद्धिमॊहेन मां नृपाः
तांश च सर्वान हनिष्यामि सत्येनायुधम आलभे
तवां च मूढाकृत परज्ञम अतिमानिनम आहवे
दृष्ट्वा दुर्यॊधनॊ मन्दॊ भृशं तप्स्यति पातितम
अर्जुनेन परतिज्ञाते वधे कर्णसुतस्य तु
महान सुतुमुलः शब्दॊ बभूव रथिनां तदा
तस्मिन्न आकुलसंग्रामे वर्तमाने महाभये
मन्दरश्मिः सहस्रांशुर अस्तं गिरिम उपागमत
ततॊ राजन हृषीकेशः संग्रामशिरसि सथितम
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदम अब्रवीत
दिष्ट्या संपादिता जिष्णॊ परतिज्ञा महती तवया
दिष्ट्या च निहतः पापॊ वृद्धक्षत्रः सहात्मजः
धार्तराष्ट्र बलं पराप्य देव सेनापि भारत
सीदेत समरे जिष्णॊ नात्र कार्या विचारणा
न तं पश्यामि लॊकेषु चिन्तयन पुरुषं कव चित
तवदृते पुरुषव्याघ्र य एतद यॊधयेद बलम
महाप्रभाव बहवस तवया तुल्याधिकापि वा
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात
ते तवां पराप्य रणे करुद्धं नाभ्यवर्तन्त दंशिताः
तव वीर्यं बलं चैव रुद्र शक्रान्तकॊपमम
नेदृशं शक्नुयत कश चिद रणे कर्तुं पराक्रमम
यादृशं कृतवान अद्य तवम एकः शत्रुतापनः
एवम एव हते कर्णे सानुबन्धे दुरात्मनि
वर्धयिष्यामि भूयस तवां विजितारिं हतद्विषम
तम अर्जुनः परत्युवाच परसादात तव माधव
परतिज्ञेयं मयॊत्तीर्णा विबुधैर अपि दुस्तरा
अनाश्चर्यॊ जयस तेषां येषां नाथॊ ऽसि माधव
तवत्प्रसादान महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः
तवैव भारॊ वार्ष्णेय तवैव विजयः परभॊ
वर्धनीयास तव वयं परेष्याश च मधुसूदन
एवम उक्तः समयन कृष्णः शनकैर वाहयन हयान
दर्शयाम आस पार्थाय करूरम आयॊधनं महत
[क]
परार्थयन्तॊ जयं युद्धे परतितं च महद यशः
पृथिव्यां शेरते शूराः पर्थिवास तवच छरैर हताः
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः
संछिन्नभिन्न वर्माणॊ वैक्लव्यं परमं गताः
स सत्त्वगतसत्त्वाश च परभया परया युताः
स जीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः
तेषां शरैः सवर्णपुङ्खैः शस्त्रैश च विविधैः शितैः
वाहनैर आयुधैश चैव संपूर्णां पश्य मेदिनीम
वर्मभिश चर्मभिर हारैः शिरॊभिश च सकुण्डलैः
उष्णीषैर मुकुटैः सरग्भिश चूडामणिभिर अम्बरैः
कण्ठसूत्रैर अङ्गदैश च निष्कैर अपि च सुप्रभैः
अन्यैश चाब्रहणैश चित्रैर भाति भारत मेदिनी
चामरैर वयजनैश चित्रैर धवजैश चाश्वरथद्विपैः
विविधैश च परिस्तॊमैर अश्वानां च परकीर्णकैः
कुथाभिश च विचित्राभिर वरूथैश च महाधनैः
संस्तीर्णां वसुधां पश्य चित्रपट्टैर इवावृताम
नागेभ्यः पतितान अन्यान कल्पितेभ्यॊ दविपैः सह
सिंहान वज्रप्रणुन्नेभ्यॊ गिर्यग्रेभ्य इव चयुतान
संस्यूतान वाजिभिः सार्धं धरण्यां पश्य चापरान
पदातिसादि संघांश च कषतजौघपरिप्लुतान
[स]
एवं संदर्शयन कृष्णॊ रणभूमिं किरीटिनः
सवैः समेतः स मुदितः पाञ्चजन्यं वयनादयत
[स]
ततॊ युधिष्ठिरॊ राजा रथाद आप्लुत्य भारत
पर्यष्वजत तदा कृष्णाव आनन्दाश्रु परिप्लुतः
परमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम
अब्रवीद वासुदेवं च पाण्डवं च धनंजयम
दिष्ट्या पश्यामि संग्रामे तीर्णभारौ महारथौ
दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः
कृष्ण दिष्ट्या मम परीतिर महती परतिपादिता
दिष्ट्या शत्रुगणाश चैव निमग्नाः शॊकसागरे
न तेषां दुष्करं किं चित तरिषु लॊकेषु विद्यते
सर्वलॊकगुरुर येषां तवं नाथॊ मधुसूदन
तव परसादाद गॊविन्द वयं जेष्यामहे रिपून
यथापूर्वं परसादात ते दानवान पाकशासनः
पृथिवी विजयॊ वापि तरैलॊक्यविजयॊ ऽपि वा
धरुवॊ हि तेषां वार्ष्णेय येषां तुष्टॊ ऽसि माधव
न तेषां विद्यते पापं संग्रामे वा पराजयः
तरिदशेश्वरनाथस तवं येषां तुष्टॊ ऽसि माधव
तवत्प्रसादाद धृषीकेश शक्रः सुरगणेश्वरः
तरैलॊक्यविजयं शरीमान पराप्तवान रणमूर्धनि
तव चैव परसादेन तरिदशास तरिदशेश्वर
अमरत्वं गताः कृष्ण लॊकांश चाश्नुवते ऽकषयान
तवत्प्रसाद समुत्थेन विक्रमेणारि सूदन
सुरेशत्वं गतः शक्रॊ हत्वा दैत्यान सहस्रशः
तवत्प्रसादाद धृषीकेश जगत सथावरजङ्गमम
सववर्त्मनि सथितं वीर जपहॊमेषु वर्तते
एकार्णवम इदं पूर्वं सर्वम आसीत तमॊमयम
तवत्प्रसादात परकाशत्वं जगत पराप्तं नरॊत्तम
सरष्टारं सर्वलॊकानां परमात्मानम अच्युतम
ये परपन्ना हृषीकेशं न ते मुह्यन्ति कर्हि चित
अनादि निधनं देवं लॊककर्तारम अव्ययम
तवां भक्ता ये हृषीकेश दुर्गाण्य अतितरन्ति ते
परं पुराणं पुरुषं पुराणानां परं च यत
परपद्यतस तं परमं परा भूतिर विधीयते
यॊ ऽगात चतुरॊ वेदान यश च वेदेषु गीयते
तं परपद्य महात्मानं भूतिम आप्नॊत्य अनुत्तमाम
धनंजय सखा यश च धनंजय हितश च यः
तं धनंजय गॊप्तारं परपद्य सुखम एधते
इत्य उक्तौ तौ महात्मानाव उभौ केशव पाण्डवौ
ताव अब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम
तव कॊपाग्निना दग्धः पापॊ राजा जयद्रथः
उदीर्णं चापि सुमहद धार्तराष्ट्र बलं रणे
हन्यते निहतं चैव विनङ्क्ष्यति च भारत
तव करॊधहता हय एते कौरवाः शत्रुसूदन
तवां हि चक्षुर्हणं वीरं कॊपयित्वा सुयॊधनः
स मित्र बन्धुः समरे पराणांस तयक्ष्यति दुर्मतिः
तव करॊधहतः पूर्वं देवैर अपि सुदुर्जयः
शरतल्पगतः शेते भीष्मः कुरुपितामहः
दुर्लभॊ हि जयस तेषां संग्रामे रिपुसूदन
याता मृत्युवशं ते वै येषां करॊद्धॊ ऽसि पाण्डव
राज्यं पराणाः परियाः पुत्राः सौख्यानि विविधानि च
अचिरात तस्य नश्यन्ति येषां करुद्दॊ ऽसि मानद
विनष्टान कौरवान मन्ये सपुत्रपशुबान्धवान
राजधर्मपरे नित्यं तवयि करुद्धे युधिष्ठिर
ततॊ भीमॊ महाबाहुः सात्यकिश च महारथः
अभिवाद्य गुरुं जयेष्ठं मार्गणैः कषतविक्षतौ
सथिताव आस्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ
तौ दृष्ट्व मुदितौ वीरौ पराञ्जलीचाग्रतः सथितौ
अभ्यनन्दत कौन्तेयस ताव उभौ भीम सात्यकी
दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात
दरॊण गराहाद दुराधर्षाद धार्दिक्य मकरालयात
दिष्ट्या च निर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे
दिष्ट्या दरॊणॊ जितः संख्ये हार्दिक्यश च महाबलः
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ
समरश्लाघिनौ वीरौ समरेष्व अपलायिनौ
मम पराणसमौ चैव दिष्ट्या पश्यामि वाम अहम
इत्य उक्त्वा पाण्डवॊ राजा युयुधान वृकॊदरौ
सस्वजे पुरुषव्याघ्रौ हर्षाद बाष्पं मुमॊच ह
ततः परमुदितः सर्वं बलम आसीद विशां पते
पाण्डवानां जयं दृष्ट्वा युद्धाय च मनॊ दधे
[स]
सैन्धवे निहते राजन पुत्रस तव सुयॊधनः
अश्रुक्लिन्न मुखॊ दीनॊ निरुत्साहॊ दविषज जये
अमन्यतार्जुन समॊ यॊधॊ भुवि न विद्यते
न दरॊणॊ न च राधेयॊ नाश्वत्थामा कृपॊ न च
करुद्धस्य परमुखे सथातुं पर्याप्ता इति मारिष
निर्जित्य हि रणे पार्थः सर्वान मम महारथान
अवधीत सैन्धवं संख्ये नैनं कश चिद अवारयत
सर्वथा हतम एवैतत कौरवाणां महद बलम
न हय अस्य विद्यते तरात साक्षाद अपि पुरंदरः
यम उपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः
स कर्णॊ निर्जितः संख्ये हतश चैव जयद्रथः
परुषाणि सभामध्ये परॊक्तवान यः सम पाण्डवान
स कर्णॊ निर्जितः संख्ये सैन्धवश च निपातितः
यस्य वीर्यं समाश्रित्य शमं याचन्तम अच्युतम
तृणवत तम अहं मन्ये स कर्णॊ निर्जितॊ युधि
एवं कलान्तमना राजन्न उपायाद दरॊणम ईक्षितुम
आगस्कृत सर्वलॊकस्य पुत्रस ते भरतर्षभ
ततस तत सर्वम आचख्यौ कुरूणां वैशसं महत
परान विजयतश चापि धार्तराष्ट्रान निमज्जतः
[दुर]
पश्य मूर्धावसिक्तानाम आचार्य कदनं कृतम
कृत्वा परमुखतः शूरं भीष्मं मम पितामहम
तं निहत्य परलुब्धॊ ऽयं शिखण्डी पूर्णमानसः
पाञ्चालैः सहितः सर्वैः सेनाग्रम अभिकर्षति
अपरश चापि दुर्धर्षः शिष्यस ते सव्यसाचिना
अक्षौहिणी सप्त हत्वा हतॊ राजा जयद्रथः
अस्मद विजयकामानां सुहृदाम उपकारिणाम
गन्तास्मि कथम आनृण्यं गतानां यमसादनम
ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः
ते हित्वा वसुधैश्वर्यं वसुधाम अधिशेरते
सॊ ऽहं कापुरुषः कृत्वा मित्राणां कषयम ईदृशम
नाश्वमेधसहस्रेण पातुम आत्मानम उत्सहे
मम लुब्धस्य पापस्य तथा धर्मापचायिनः
वयायच्छन्तॊ जिगीषन्तः पराप्ता वैवस्वतक्षयम
कथं पतितवृत्तस्य पृथिवी सुहृदां दरुहः
विवरं नाशकद दातुं मम पार्थिव संसदि
सॊ ऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम
शयानं नाशकं तरातुं भीष्मम आयॊधने हतम
तं माम अनार्य पुरुषं मित्र दरुहम अधार्मिकम
किं स वक्ष्यति दुर्धर्षः समेत्य परलॊकवित
जलसंधं महेष्वासं पश्य सात्यकिना हतम
मदर्थम उद्यतं शूरं पराणांस तयक्त्वा महारथम
काम्बॊजं निहतं दृष्ट्वा तथालम्बुसम एव च
अन्यान बहूंश च सुहृदॊ जीवितार्थॊ ऽदय कॊ मम
वयायच्छन्तॊ हताः शूरा मदर्थे ये ऽपराङ्मुखाः
यतमानाः परं शक्त्या विजेतुम अहितान मम
तेषां गत्वाहम आनृण्यम अद्य शक्त्या परंतप
तर्पयिष्यामि तान एव जलेन यमुनाम अनु
सत्यं ते परतिजानामि सर्वशस्त्रभृतां वरम
इष्टापूर्तेन च शपे वीर्येण च सुतैर अपि
निहत्य तान रणे सर्वान पाञ्चालान पाण्डवैः सह
शान्तिं लब्धास्मि तेषां वा रणे गन्ता स लॊकताम
न हीदानीं सहाया मे परीप्सन्त्य अनुपस्कृताः
शरेयॊ हि पाण्डून मन्यन्ते न तथास्मान महाभुज
सवयं हि मृत्युर विहितः सत्यसंधेन संयुगे
भवान उपेक्षां कुरुते सुशिष्यत्वाद धनंजये
अतॊ विनिहताः सर्वे ये ऽसमज जय चिकीर्षवः
कर्णम एव तु पश्यामि संप्रत्य अस्मज जयैषिणम
यॊ हि मित्रम अविज्ञाय याथातथ्येन मन्दधीः
मित्रार्थे यॊजयत्य एनं तस्य सॊ ऽरथॊ ऽवसीदति
तादृग्रूपम इदं कार्यं कृतं मम सुहृद बरुवैः
मॊहाल लुब्धस्य पापस्य जिह्माचारैस ततस ततः
हतॊ जयद्रथश चैव सौमदत्तिश च वीर्यवान
अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः
सॊ ऽहम अद्य गमिष्यामि यत्र ते पुरुषर्षभाः
हता मदर्थं संग्रामे युध्यमानाः किरीटिना
न हि मे जीवितेनार्थस तान ऋते पुरुषर्षभान
आचार्यः पाण्डुपुत्राणाम अनुजानातु नॊ भवान
[धृ]
सिन्धुराजे हते तात समरे सव्यसाचिना
तथैव भूरिश्रवसि किम आसीद वॊ मनस तदा
दुर्यॊधनेन च दरॊणस तथॊक्तः कुरुसंसदि
किम उक्तवान परं तस्मात तन ममाचक्ष्व संजय
[स]
निष्टानकॊ महान आसीत सैन्यानां तव भारत
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसम एव च
मन्त्रितं तव पुत्रस्य ते सर्वम अवमेनिरे
येन मन्त्रेण निहताः शतशः कषत्रियर्षभाः
दरॊणस तु तद वचः शरुत्वा पुत्रस्य तव दुर्मनाः
मुहूर्तम इव तु धयात्वा भृशम आर्तॊ ऽभयभाषत
दुर्यॊधन किम एवं मां वाक्शरैर अभिकृन्तसि
अजय्यं समरे नित्यं बरुवाणं सव्यसाचिनम
एतेनैवार्जुनं जञातुम अलं कौरव संयुगे
यच छिखण्ड्य अवधीद भीष्मं पाल्यमानः किरीटिना
अवध्यं निहतं दृष्ट्वा संयुगे देव मानुषैः
तदैवाज्ञासिषम अहं नेयम अस्तीति भारती
यं पुंसां तरिषु लॊकेषु सर्वशूरम अमंस्महि
तस्मिन विनिहते शूरे किं शेषं पर्युपास्महे
यान सम तान गलहते तातः शकुनिः कुरुसंसदि
अक्षान न ते ऽकषा निशिता बाणास ते शत्रुतापनाः
त एते घनन्ति नस तात विशिखा जय चॊदिताः
यांस तदा खयाप्यमानांस तवं विदुरेण न बुध्यसे
तास ता विलपतश चापि विदुरस्य महात्मनः
धीरस्य वाचॊ नाश्रौषीः कषेमाय वदतः शिवाः
तद इदं वर्तते घॊरम आगतं वैशसं महत
तस्यावमानाद वाक्यस्य दुर्यॊधनकृते तव
यच च नः परेक्षमाणानां कृष्णाम आनाययः सभाम
अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम
तस्याधर्मस्य गान्धारे फलं पराप्तम इदं तवया
नॊ चेत पापं परे लॊके तवम अर्च्छेथास ततॊ ऽधिकम
यच च तान पाण्डवान दयूते विषमेण विजित्य ह
पराव्राजयस तदारण्ये रौरवाजिनवाससः
पुत्राणाम इव चैतेषां धर्मम आचरतां सदा
दरुह्येत कॊ नु नरॊ लॊके मद अन्यॊ बराह्मण बरुवः
पाण्डवानाम अयं कॊपस तवया शकुनिना सह
आहृतॊ धृतराष्ट्रस्य संमते कुरुसंसदि
दुःशासनेन संयुक्तः कर्णेन परिवर्धितः
कषत्तुर वाक्यम अनादृत्य तवयाभ्यस्तः पुनः पुनः
यत तत सर्वे पराभूय पर्यवारयतार्जुनिम
सिन्धुराजानम आश्रित्य स वॊ मध्ये कथं हतः
कथं तवयि च कर्णे च कृपे शल्ये च जीवति
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवॊ ऽगमत
यद वस तत सर्वराजानस तेजस तिग्मम उपासते
सिन्धुराजं परित्रातुं स वॊ मध्ये कथं हतः
मय्य एव हि विशेषेण तथा दुर्यॊधन तवयि
आशंसत परित्राणम अर्जुनात स महीपतिः
ततस तस्मिन परित्राणम अलब्धवति फल्गुनात
न किं चिद अनुपश्यामि जीवितत्राणम आत्मनः
मज्जन्तम इव चात्मानं दृष्टद्युम्नस्य किल्बिषे
पश्याम्य अहत्वा पाञ्चालान सह तेन शिखण्डिना
तन मा किम अभितप्यन्तं वाक्शरैर अभिकृन्तसि
अशक्तः सिन्धुराजस्य भूत्वा तराणाय भारत
सौवर्णं सत्यसंधस्य धवजम अक्लिष्टकर्मणः
अपश्यन युधि भीष्मस्य कथम आशंससे जयम
मध्ये महारथानां च यत्राहन्यत सैन्धवः
हतॊ भूरिश्रवाश चैव किं शेषं तत्र मन्यसे
कृप एव च दुर्धर्षॊ यदि जीवति पार्थिव
यॊ नागात सिन्धुराजस्य वर्त्म तं पूजयाम्य अहम
यच चापश्यं हतं भीष्मं पश्यतस ते ऽनुजस्य वै
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम
अवध्यकल्पं संग्रामे देवैर अपि स वासवैः
न ते वसुंधरास्तीति तद अहं चिन्तये नृप
इमानि पाण्डवानां च सृञ्जयानां च भारत
अनीकान्य आद्रवन्ते मां सहितान्य अद्य मारिष
नाहत्वा सर्वपाञ्चालान कवचस्य विमॊक्षणम
कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव
राजन बरूयाः सुतं मे तवम अश्वत्थामानम आहवे
न सॊमकाः परमॊक्तव्या जीवितं परिरक्षता
यच च पित्रानुशिष्टॊ ऽसि तद वचः परिपालय
आनृशंस्ये दमे सत्ये आर्जवे च सथिरॊ भव
धर्मार्थकामकुशलॊ धर्मार्थाव अप्य अपीडयन
धर्मप्रधानः कार्याणि कुर्याश चेति पुनः पुनः
चक्षुर मनॊभ्यां संतॊष्या विप्राः सेव्याश च शक्तितः
न चैषां विप्रियं कार्यं ते हि वह्नि शिखॊपमाः
एष तव अहम अनीकानि परविशाम्य अरिसूदन
रणाय महते राजंस तवया वाक्शल्य पीडितः
तवं च दुर्यॊधन बलं यदि शक्नॊषि धारय
रात्राव अपि हि यॊत्स्यन्ते संरब्धाः कुरुसृञ्जयाः
एवम उक्त्वा ततः परायाद दरॊणः पाण्डव सृञ्जयान
मुष्णन कषत्रिय तेजांसि नक्षत्राणाम इवांशुमान
[स]
ततॊ दुर्यॊधनॊ राजा दरॊणेनैवं परचॊदितः
अमर्षवशम आपन्नॊ युद्धायैव मनॊ दधे
अब्रवीच च तदा कर्णं पुत्रॊ दुर्यॊधनस तव
पश्य कृष्ण सहायेन पाण्डवेन किरीटिना
आचार्य विहितं वयूहं भिन्नं देवैः सुदुर्भिदम
तव वयायच्छमानस्य दरॊणस्य च महात्मनः
मिषतां यॊधमुख्यानां सैन्धवॊ विनिपातितः
पश्य राधेय राजानः पृथिव्यं परवरा युधि
पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः
मम वयायच्छमानस्य समरे शत्रुसूदन
अल्पावशेषं सन्यं मे कृतं शक्रात्मजेन ह
कथं हय अनिच्छमानस्य दरॊणस्य युधि फल्गुनः
भिन्द्यात सुदुर्भिदं वयूहं यतमानॊ ऽपि संयुगे
परियॊ हि फल्गुनॊ नित्यम आचार्यस्य महात्मनः
ततॊ ऽसय दत्तवान दवारं न युद्धेनारि मर्दन
अभयं सैधवस्याजौ दत्त्वा दरॊणः परंतपः
परादात किरीटिने दवारं पश्य निर्गुणतां मम
यद यद आस्यम अनुज्ञां वै पूर्वम एव गृहान परति
सिन्धुराजस्य समरे नाभभिष्यज जनक्षयः
जयद्रथॊ जीवितार्थी गच्छमानॊ गृहान परति
महानार्येण संरुद्धॊ दरॊणात पराप्याभयं रणे
अद्य मे भरातरः कषीणाश चित्रसेनादयॊ युधि
भीमसेनं समासाद्य पश्यतां नॊ दुरात्मनाम
[कर्ण]
आचार्यं मा विगर्हस्व शक्त्या युध्यत्य असौ दविजः
अजय्यान पाण्डवान मन्ये दरॊणेनास्त्रविदा मृधे
तथा हय एनम अतिक्रम्य परविष्टः शवेतवाहनः
दैवदृष्टॊ ऽनयथा भावॊ न मन्ये विद्यते कव चित
ततॊ नॊ युध्यमानानां परं शक्त्या सुयॊधन
सैन्धवॊ निहतॊ राजन दैवम अत्र परं समृतम
परं यत्नं कुर्वतां च तवया सार्धं रणाजिरे
हत्वास्माकं पौरुषं हि दैवं पश्चात करॊति नः
सततं चेष्टमानानां निकृत्या विक्रमेण च
दैवॊपसृष्टः पुरुषॊ यत कर्म कुरुते कव चित
कृतं कृतं सम तत तस्य दैवेन विनिहन्यते
यत कर्तव्यं मनुष्येण वयवसायवता सता
तत कार्यम अविशङ्केन सिद्दिर दैवे परतिष्ठिता
निकृत्या निकृताः पार्था विषयॊगैश च भारत
दग्धा जतु गृहे चापि दयूतेन च पराजिताः
राजनीतिं वयपाश्रित्य परहिताश चैव काननम
यत्नेन च कृतं यत ते दैवेन विनिपातितम
युध्यस्व यत्नम आस्थाय मृत्युं कृत्वा निवर्तनम
यततस तव तेषां च दैवं मार्गेण यास्यति
न तेषां मतिपूर्वं हि सुकृतं दृश्यते कव चित
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह
दैवं परमाणं सर्वस्य सुकृतस्येतरस्य वा
अनन्यकर्म दैवं हि जागर्ति सवपताम अपि
बहूनि तव सैन्यानि यॊधाश च बहवस तथा
न तहा पाण्डुपुत्राणाम एवं युद्धम अवर्तत
तैर अल्पैर बहवॊ यूयं कषयं नीताः परहारिणः
शङ्के दैवस्य तत कर्म पौरुषं येन नाशितम
[स]
एवं संभाषमाणानां बहु तत तज जनाधिप
पाण्डवानाम अनीकानि समदृश्यन्त संयुगे
ततः परववृते युद्धं वयतिषक्त रथद्विपम
तावकानां परैः सार्धं राजन दुर्मन्त्रिते तव
[स]
तद उदीर्णगजाश्वौघं बलं तव जनाधिप
पाण्डुसेनाम अभिद्रुत्य यॊधयाम आस सर्वतः
पाञ्चालाः कुरवश चैव यॊधयन्तः परस्परम
यम राष्ट्राय महते परलॊकाय दीक्षिताः
शूराः शूरैः समागम्य शरतॊमर शक्तिभिः
विव्यधुः समरे तूर्णं निन्युश चैव यमक्षयम
रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम
परावर्तत महद युद्धं निघ्नताम इतरेतरम
वारणाश च महाराज समासाद्य परस्परम
विषाणैर दारयाम आसुः संक्रुद्धाश च महॊत्कटाः
हयारॊहान हरारॊहाः परासशक्तिपरश्वधैः
बिभिदुस तुमुले युद्धे परार्थयन्तॊ मयद यशः
पत्तयश च महाबाहॊ शतशः शस्त्रपाणयः
अन्यॊन्यम आर्दयन राजन नित्ययत्ताः पराक्रमे
गॊत्राणां नामधेयानां कुलानां चैव मारिष
शरवणाद धि विजानीमः पाञ्चालान कुरुभिः सह
अन्यॊन्यं समरे यॊधाः शरशक्तिपरश्वधैः
परेषयन परलॊकाय विचरन्तॊ हय अभीतवत
शरैर दश दिशॊ राजंस तेषां मुक्तैः सहस्रशः
न भराजन्त यथापूर्वं भास्करे ऽसतं गते ऽपि च
तथा परयुध्यमानेषु पाणवेयेषु निर्भयः
दुर्यॊधनॊ महाराज वयवगाहत तद बलम
सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः
मर्तव्यम इति संचिन्त्य पराविशत तु दविषद बलम
नादयन रथघॊषेण कम्पयन्न इव मेदिनीम
अभ्यवर्तत पुत्रस ते पाण्डवानाम अनीकिनीम
स संनिपातस तुमुलस तस्य तेषां च भारत
अभवत सर्वसैन्यानाम अभाव करणॊ महान
मंध्यं दिनगतं सूर्यं परतपन्तं गभस्तिभिः
तथा तव सुतं मध्ये परतपन्तं शरॊर्मिभिः
न शेकुर भारतं युद्धे पाण्डवाः समवेक्षितुम
पलायने कृतॊत्साहा निर्तुसाहा दविषज जये
पर्यधावन्त पाञ्चाला वध्यमाना महात्मना
रुक्मपुङ्खैः परसन्नाग्रैस तव पुत्रेण धन्विना
अर्द्यमानाः शरैस तूर्णं नयपतन पाण्डुसैनिकाः
न तादृशं रणे कर्मकृतवन्तस तु तावकाः
यादृशं कृतवान राजा पुत्रस तव विशां पते
पुत्रेण तव सा सेना पाण्डवी मथिता रणे
नलिनी दविरदेनेव समन्तात फुल्लपङ्कजा
कषीणतॊयानिलार्काभ्यां हतत्विड इव पद्मिनी
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत
भीमसेनपुरॊगास तु पाञ्चालाः समुपाद्रवन
स भीमसेनं दशभिर मद्री पुत्रौ तरिभिस तरिभिः
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः
केकयांश चैव चेदींश च बहुभिर निशितैः शरैः
सात्वतं पञ्चभिर विद्ध्वा दरौपदेयांस तरिभिस तरिभिः
घटॊत्कचं च समरे विद्ध्वा सिंह इवानदत
शतशश चापरान यॊधान स दविपाश्वरथान रणे
शरैर अवचकर्तॊग्रैः करुद्धॊ ऽनतक इव परजाः
तस्य तान निघ्नतः शत्रून रुक्मपृष्ठं महद धनुः
भल्लाभ्यां पाण्डवॊ जयेष्ठस तरिधा चिच्छेद मारिष
विव्याध चैनं दशभिः सम्यग अस्तैः शितैः शरैः
मर्माणि भित्त्वा ते सर्वे संभग्नाः कषितिम आविशत
ततः परमुदिता यॊधाः परिवव्रुर युधिष्ठिरम
वृत्र हत्यै यथा देवाः परिवव्रुः पुरंदरम
ततॊ युधिष्ठिरॊ राजा तव पुत्रस्य मारिष
शरं परमदुर्वारं परेषयाम आस संयुगे
स तेन भृशसंविद्धॊ निषसाद रथॊत्तमे
ततः पाञ्चाल सैन्यानां भृशम आसीद रवॊ महान
हतॊ राजेति राजेन्द्र मुदितानां समन्ततः
बाणशब्दरवश चॊग्रः शुश्रुवे तत्र मारिष
अथ दरॊणॊ दरुतं तत्र परत्यदृश्यत संयुगे
हृष्टॊ दुर्यॊधनश चापि दृढम आदाय कार्मुकम
तिष्ठ तिष्ठेति राजानं बरुवन पाण्डवम अभ्ययात
परत्युद्ययुस तं तवरिताः पाञ्चाला राजगृद्धिनः
तान दरॊणः परतिजग्राह परीप्सन कुरुसत्तमम
चण्डवातॊद्धतान मेघान निघ्नन रश्मिमुचॊ यथा
ततॊ राजन महान आसीत संग्रामॊ भूरिवर्धनः
तावकानां परेषां च समेतानां युयुत्सया
[धृ]
यत तदा पराविशत पाण्डून आचार्यः कुपितॊ वशी
उत्क्वा दुर्यॊधनं सम्यङ मम शास्त्रातिगं सुतम
परविश्य विचरन्तं च रणे शूरम अवस्थितम
कथं दरॊणं महेष्वासं पाण्डवाः पर्यवारयन
के ऽरक्षन दक्षिणं चक्रम आचार्यस्य महात्मनः
के चॊत्तरम अरक्षन्त निघ्नतः शात्रवान रणे
नृत्यन स रथमार्गेषु सर्वशस्त्रभृतां वरः
धूमकेतुर इव करुद्धः कथं मृत्युम उपेयिवान
[स]
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च
सात्यकिश च महेष्वासॊ दरॊणम एवाभ्यधावताम
तथा युधिष्ठिरस तूर्णं भीमसेनश च पाण्डवः
पृथक चमूभ्यां संसक्तौ दरॊणम एवाभ्यधावताम
तथैव नकुलॊ धीमान सहदेवश च दुर्जयः
धृष्टद्युम्नः शतानीकॊ विराटश च स केकयः
मत्स्याः शाल्वेय सेनाश च दरॊणम एव ययुर युधि
दरुपदश च तथा राजा पाञ्चालैर अभिरक्षितः
धृष्टद्युम्न पिता राजन दरॊणम एवाभ्यवर्तत
दरौपदेया महेष्वासा राक्षसश च घटॊत्कचः
स सेनास ते ऽभयवर्तन्त दरॊणम एव महाद्युतिम
परभद्रकश च पाञ्चालाः षट सहस्राः परहारिणः
दरॊणम एवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः
सहिताः संन्यवर्तन्त दरॊणम एव दविजर्षभम
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ
बभूव रजनी घॊरा भीरूणां भयवर्धिनी
यॊधानाम अशिवा रौद्रा राजन्न अन्तकगामिनी
कुञ्जराश्वमनुष्याणां पराणान्त करणी तदा
तस्यां रजन्यां घॊरायां नदन्त्यः सर्वतः शिवाः
नयवेदयन भयं घॊरं स जवालकवलैर मुखैः
उलूकाश चाप्य अदृश्यन्त शंसन्तॊ विपुलं भयम
विशेषतः कौरवाणां धवजिन्याम अतिदारुणम
ततः सैन्येषु राजेन्द्र शब्दः समभवन महान
भेरीशब्देन महता मृदङ्गानां सवनेन च
गजानां गर्जितैश चापि तुरङ्गाणां च हेषितैः
खुरशब्दनिपातैश च तुमुलः सर्वतॊ ऽभवत
ततः समभवद युद्धं संध्यायाम अतिदारुणम
दरॊणस्य च महाराज सृञ्जयानां च सर्वशः
तमसा चावृते लॊके न पराज्ञायत किं चन
सैन्येन रजसा चैव समन्ताद उत्थितेन ह
नरस्याश्वस्य नागस्य समसज्जत शॊणितम
नापश्याम रजॊ भौमं कश्मलेनाभिसंवृताः
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते
घॊरश चाटचटा शब्दः शस्त्राणां पतताम अभूत
नैव सवे न परे राजन पराज्ञायन्त तमॊवृते
उन्मत्तम इव तत सर्वं बभूव रजनी मुखे
भौमं रजॊ ऽथ राजेन्द्र शॊणितेन परशामितम
शातकौम्भैश च कवचैर भूषणैश च तमॊ ऽभयगात
ततः सा भारती सेना मणिहेमविभूषिता
दयुर इवासीत स नक्षत्रा रजन्यां भरतर्षभ
गॊमायुबड संघुष्टा शक्तिध्वजसमाकुला
दारुणाभिरुता घॊरा कष्वेडितॊत्क्रुष्ट नादिता
ततॊ ऽभवन महाशब्दस तुमुलॊ लॊमहर्षणः
समावृण्वन दिशः सर्वा महेन्द्राशनिनिस्वनः
सा निशीथे महाराज सेनादृश्यत भारती
अङ्गदैः कुण्डलैर निष्कैः शस्तैश चैवावभासिता
तत्र नागा रथाश चैव जाम्बूनदविभूषिताः
निशायां परत्यदृश्यन्त मेघा इव स विद्युतः
ऋष्टिशक्तिगदा बाणमुसल परासपट्टिशाः
संपतन्तॊ वयदृश्यन्त भराजमाना इवाग्नयः
दुर्यॊधन पुरॊवातां रथनागबलाहकाम
वादित्रघॊषस्तनितां चापविद्युद धवजैर वृताम
दरॊण पाण्डव पर्जन्यां खड्गशक्ति गदाशनिम
शरधारास्त्र पवनां भृशं शीतॊष्णसंकुलाम
घॊरां विस्मापनीम उग्रां जीवितच छिदम अप्लवाम
तां पराविशन्न अतिभयां सेनां युद्धचिकीर्षवः
तस्मिन रात्रिमुखे घॊरे महाशब्दनिनादिते
भीरूणां तरासजनने शूराणां हर्षवर्धने
रात्रियुद्धे तदा घॊरे वर्तमाने सुदारुणे
दरॊणम अभ्यद्रवन करुद्धाः सहिताः पाण्डुसृञ्जयाः
ये ये परमुखतॊ राजन नयवर्तन्त महात्मनः
तान सर्वान विमुखांश चक्रे कांश चिन निन्ये यमक्षयम
[धृ]
तस्मिन परविष्टे दुर्धर्षे सृञ्जयान अमितौजसि
अमृष्यमाणे संरब्धे का वॊ ऽभूद वै मतिस तदा
दुर्यॊधनं तथा पुत्रम उक्त्वा शास्त्रातिगं मम
यत पराविशद अमेयात्मा किं पार्थः परत्यपद्यत
निहते सैन्धवे वीरे भूरिश्रवसि चैव हि
यद अभ्यगान महातेजाः पाञ्चालान अपराजिथ
किम अमन्यत दुर्धर्षः परविष्टे शत्रुतापने
दुर्यॊधनश च किं कृत्यं पराप्तकालम अमन्यत
के च तं वरदं वीरम अन्वयुर दविजसत्तमम
के चास्य पृष्ठतॊ ऽगच्छन वीराः शूरस्य युध्यतः
के पुरस्ताद अयुध्यन्त निघ्नतः शात्रवान रणे
मन्ये ऽहं पाडवान सर्वान भारद्वाज शरार्दितान
शिशिरे कम्पमाना वै कृशा गाव इवाभिभॊ
परविश्य स महेष्वासः पाञ्चालान अरिमर्दनः
कथं नु पुरुषव्याघ्रः पञ्चत्वम उपजग्मिवान
सर्वेषु सैन्येषु च संगतेषु; रात्रौ समेतेषु महारथेषु
संलॊड्यमानेषु पृथग्विधेषु; के वस तदानीं मतिमन्त आसन
हतांश चैव विषक्तांश च पराभूतांश च शंसति
रथिनॊ विरथांश चैव कृतान युद्धेषु मामकान
कथम एषां तदा तत्र पार्थानाम अपलायिनाम
परकाशम अभवद रात्रौ कथं कुरुषु संजय
[स]
रात्रियुद्धे तदा राजन वर्तमाने सुदारुणे
दरॊणम अभ्यद्रवन रात्रौ पाण्डवाः सह सैनिकाः
ततॊ दरॊणः केकयांश च धृष्टद्युम्नस्य चात्मजान
परेषयन मृत्युलॊकाय सर्वान इषुभिर आशुगैः
तस्य परमुखतॊ राजन ये ऽवर्तन्त महारथाः
तान सर्वान परेषयाम आस परलॊकाय भारत
परमथ्नन्तं तदा वीरं भारद्वाजं महारथम
अभ्यवर्तत संक्रुद्धः शिबी राजन परतापवान
तम आपतन्तं संप्रेक्ष्य पाण्डवानां महारथम
विव्याध दशभिर दरॊणः सर्वपारशवैः शरैः
तं शिबिः परतिविव्याध तरिंशता निशितैः शरैः
सारथिं चास्य भल्लेन समयमानॊ नयपातयत
तस्य दरॊणॊ हयान हत्वा सारथिं च महात्मनः
अथास्य स शिरस तराणं शिरः कायाद अपाहरत
कलिङ्गानां च सैन्येन कलिङ्गस्य सुतॊ रणे
पूर्वं पितृवधात करुद्धॊ भीमसेनम उपाद्रवत
स भीमं पञ्चभिर विद्ध्वा पुनर विव्याध सप्तभिः
विशॊकं तरिभिर आजघ्ने धवजम एकेन पत्रिणा
कलिङ्गानां तु तं शूरं करुद्धं करुद्धॊ वृकॊदरः
रथाद रथम अभिद्रुत्य मुष्टिनाभिजघान ह
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा
सर्वाण्य अस्थीनि सहसा परापतन वै पृथक पृथक
तं कर्णॊ भरातरश चास्य नामृष्यन्त महारथाः
ते भीमसेनं नाराचैर जघ्नुर आशीविषॊपमैः
तत्र शत्रुरथं तयक्त्वा भीमॊ धरुवरथं गतः
धरुवं चास्यन्तम अनिशं मुष्टिना समपॊथयत
स तथा पाण्डुपुत्रेण बलिना निहतॊ ऽपतत
तं निहत्य महाराज भीमसेनॊ महाबलः
जय रात रथं पराप्य मुहुः सिंह इवानदत
जय रातम अथाक्षिप्य नदन सव्येन पाणिना
तलेन नाशयाम आस कर्णस्यैवाग्रतः सथितम
कर्णस तु पाण्डवे शक्तिं काञ्चनीं समवासृजत
ततस ताम एव जघ्राह परहसन पाण्डुनन्दनः
कर्णायैव च दुर्धर्षश चिक्षेपाजौ वृकॊदरः
ताम अन्तरिक्षे चिच्छेद शकुनिस तैलपायिना
ततस तव सुता राजन भीमस्य रथम आव्रजन
महता शरवर्षेण छादयन्तॊ वृकॊदरम
दुर्मदस्य ततॊ भीमः परहसन्न इव संयुगे
सारथिं च हयांश चैव शरैर निन्ये यमक्षयम
दुर्मदस तु ततॊ यानं दुष्कर्णस्यावपुप्लुवे
ताव एकरथम आरूढौ भरातरौ परतापनौ
संग्रामशिरसॊ मध्ये भीमं दवाव अभ्यधावताम
यथाम्बुपतिमित्रौ हि तारकं दैत्य सत्तमम
ततस तु दुर्मदश चैव दुष्कर्णश च तवात्मजौ
रथम एकं समारुह्य भीमं बाणैर अविध्यताम
ततः कर्णस्य मिषतॊ दरौणेर दुर्यॊधनस्य च
कृपस्य सॊमदत्तस्य बाह्लीकस्य च पाण्डवः
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम
पादप्रहारेण धरां परावेशयद अरिंदमः
ततः सुतौ ते बलिनौ शूरौ दुष्कर्ण दुर्मदौ
मुष्टिनाहत्य संक्रुद्धॊ ममर्द चरणेन च
ततॊ हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन
रुद्रॊ ऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति
एवम उक्त्वापलायन्त सर्वे भारत पार्थिवाः
विसंज्ञाव आहयान वाहान न च दवौ सह धावतः
ततॊ बले भृशलुलिते निशामुखे; सुपूजितॊ नृप वृषभैर वृकॊदरः
महाबलः कमलविबुद्धलॊचनॊ; युधिष्ठिरं नृपतिम अपूजयद बली
ततॊ यमौ दरुपद विराट केकया; युधिष्ठिरश चापि परां मुदं ययुः
वृकॊदरं भृशम अभिपूजयंश च ते; यथान्धके परतिनिहते हरं सुराः
ततः सुतास तव वरुणात्मजॊपमा; रुषान्विताः सह गुरुणा महत्मना
वृकॊदरं स रथपदातिकुञ्जरा; युयुत्सवॊ भृशम अभिपर्यवारयन
ततॊ ऽभवत तिमिरघनैर इवावृतं; महाभये भयदम अतीव दारुणम
निशामुखे बड वृकगृध्रमॊदनं; महात्मनां नृप वरयुद्धम अद्भुतम
[स]
परायॊपविष्टे तु हते पुत्रे सात्यकिना ततः
सॊमदत्तॊ भृशं करुद्धः सात्यक्तिं वाक्यम अब्रवीत
कषत्रधर्मः पुरा दृष्टॊ यस तु देवैर महात्मभिः
तं तवं सात्वत संत्यज्य दस्यु धर्मे कथं रतः
पराङ्मुखाय दीनाय नयस्तशस्त्राय याचते
कषत्रधर्मरतः पराज्ञः कथं नु परहरेद रणे
दवाव एव किल वृष्णीनां तत्र खयातौ महारथौ
परद्युम्नश च महाबाहुस तवं चैव युधि सात्वत
कथं परायॊपविष्टाय पार्थेन छिन्नबाहवे
नृशंसं पतनीयं च तादृशं कृतवान असि
शपे सात्वत पुत्राभ्याम इष्टेन सुकृतेन च
अनतीताम इमां रात्रिं यदि तवां वीर मानिनम
अरक्ष्यमाणं पार्थेन जिष्णुना स सुतानुजम
न हन्यां निरये घॊरे पतेयं वृष्णिपांसन
एवम उक्त्वा सुसंक्रुद्धः सॊमदत्तॊ महाबलः
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च
ततः कमलपत्राक्षः सिंहदंष्ट्रॊ महाबलः
सात्वतॊ भृशसंक्रुद्धः सॊमदत्तम अथाब्रवीत
हतॊ भूरिश्रवा वीरस तव पुत्रॊ महारथः
शरश चैव तथा राजन भरातृव्यसनकर्शितः
तवां चाप्य अद्य वधिष्यामि सपुत्रपशुबान्धवम
तिष्ठेदानीं रणे यत्तः कौरवॊ ऽसि विशेषतः
यस्मिन्दानं दमः शौचम अहिंसा हरीर धृतिः कषमा
अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे
मृदङ्गकेतॊस तस्य तवं तेजसा निहतः पुरा
स कर्ण सौबलः संख्ये विनाशं समुपेष्यसि
शपे ऽहं कृष्ण चरणैर इष्टापूर्तेन चैव ह
यदि तवां ससुतं पापं न हन्यां युधि रॊषितः
अपयास्यसि चेत तयक्त्वा ततॊ मुक्तॊ भविष्यसि
एवम आभाष्य चान्यॊन्यं करॊधसंरक्तलॊचनौ
परवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ
ततॊ गजसहस्रेण रथानाम अयुतेन च
दुर्यॊधनः सॊमदत्तं परिवार्य वयवस्थितः
शकुनिश च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः
पुत्रपौत्रैः परिवृतॊ भरातृभिश चेन्द्र विक्रमैः
सयालस तव महाबाहुर वज्रसंहननॊ युवा
साग्रं शतसहस्रं तु हयानां तस्य धीमतः
सॊमदत्तं महेष्वासं समन्तात पर्यरक्षत
रक्ष्यमाणश च बलिभिश छादयाम आस सात्यकिम
तं छाद्यमानं विशिखैर दृष्ट्वा संनतपर्वभिः
धृष्टद्युम्नॊ ऽभययात करुद्धः परगृह्य महतीं चमूम
चण्डवाताभिसृष्टानाम उदधीनाम इव सवनः
आसीद राजन बलौघानाम अन्यॊन्यम अभिनिघ्नताम
विव्याध सॊमदत्तस तु सात्वतं नवभिः शरैः
सात्यकिर दशभिश चैनम अवधीत कुरुपुंगवम
सॊ ऽतिविद्धॊ बलवता समरे दृढधन्विना
रथॊपस्थं समासाद्य मुमॊह गतचेतनः
तं विमूढं समालक्ष्य सारथिस तवरयान्वितः
अपॊवाह रणाद वीरं सॊमदत्तं महारथम
तं विसंज्ञं समालॊक्य युयुधान शरार्दितम
दरौणिर अभ्यद्रवत करुद्धः सात्वतं रणमूर्धनि
तम आपतन्तं संप्रेक्ष्य शैनेयस्य रथं परति
भैमसेनिः सुसंक्रुद्धः परत्यमित्रम अवारयत
कार्ष्णायसमयं घॊरम ऋक्षचर्मावृतं महत
युक्तं गजनिभैर वाहैर न हयैर नापि वा गजैः
विक्षिप्तम अष्टचक्रेण विवृताक्षेण कूजता
धवजेनॊच्छ्रिततुण्डेन गृध्रराजेन राजता
लॊहितार्द्र पताकं तम अन्त्र माला विभूषितम
अष्टचक्रसमायुक्तम आस्थाय विपुलं रथम
शूलमुद्गर धारिण्या शैलपादप हस्तया
रक्षसां घॊररूपाणाम अक्षैहिण्या समावृतः
तम उद्यतमहाचापं निशाम्य वयथिता नृपाः
युगान्तकालसमये दण्डहस्तम इवान्तकम
भयार्दिता पचुक्षॊभ पुत्रस्य तव वाहिनी
वायुना कषॊभितावर्ता गङ्गेवॊर्ध्व तरङ्गिणी
गटॊत्कच परयुक्तेन सिंहनादेन भीषिताः
परसुस्रुवुर गजा मूत्रं विव्यथुश च नरा भृशम
ततॊ ऽशमवृष्टिर अत्यर्थम आसीत तत्र समन्ततः
संध्याकालाधिक बलैः परमुक्ता राक्षसैः कषितौ
आयसानि च चक्राणि भुशुण्ड्यः परासतॊमराः
पतन्त्य अविरलाः शूलाः शतघ्न्यः पट्टिशास तथा
तद उग्रम अतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः
तनयास तव कर्णश च वयथिताः पराद्रवन दिशः
तत्रैकॊ ऽसत्रबलश्लाघी दरौणिर मानी न विव्यथे
वयधमच च शरैर मायां घटॊत्कच विनिर्मिताम
निहतायां तु मायायाम अमर्षी स घटॊत्कचः
विससर्ज शरान घॊरांस ते ऽशवत्थामानम आविशन
भुजगा इव वेगेन वल्मीकं करॊधमूर्छिताः
ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वती सुतम
विविशुर धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः
अश्वत्थामा तु संक्रुद्धॊ लघुहस्तः परतापवान
घटॊत्कचम अभिक्रुद्धं बिभेद दशभिः शरैः
घटॊत्कचॊ ऽतिविद्धस तु दरॊणपुत्रेण मर्मसु
चक्रं शतसहस्रारम अगृह्णाद वयथितॊ भृशम
कषुरान्तं बालसूर्याभं मणिवज्र विभूषितम
अश्वत्थाम्नस तु चिक्षेप भैमसेनिर जिघांसया
वेगेन महता गच्छद विक्षिप्तं दरौणिना शरैः
अभाग्यस्येव संकल्पस तन मॊघं नयपतद भुवि
घटॊत्कचस ततस तूर्णं दृष्ट्वा चक्रं निपातितम
दरौणिं पराच्छादयद बाणैः सवर्भानुर इव भास्करम
घटॊत्कच सुतः शरीमान भिन्नाञ जनचयॊपमः
रुरॊध दरौणिम आयान्तं परभञ्जनम इवाद्रिराट
पौत्रेण भीमसेनस्य शरैः सॊ ऽञजन पर्वणा
बभौ मेघेन धाराभिर घिरिर मेरुर इवार्दितः
अश्वत्थामा तव असंभ्रान्तॊ रुद्रॊपेन्द्रेन्द्र विक्रमः
धवजम एकेन बाणेन चिच्छेदाञ्जनपर्वणः
दवाभ्यां तु रथयन्तारं तरिभिश चास्य तरिवेणुकम
धनुर एकेन चिच्छेद चतुर्भिश चतुरॊ हयान
विरथस्यॊद्यतं हस्ताद धेमबिन्दुभिर आचितम
विशिखेन सुतीक्ष्णेन खड्गम अस्य दविधाकरॊत
गदा हेमाङ्गदा राजंस तूर्णं हैडिम्ब सूनुना
भराम्यॊत्क्षिप्ता शरैः सापि दरौणिनाभ्याहतापतत
ततॊ ऽनतरिक्षम उत्पत्य कालमेघ इवॊन्नदन
ववर्षाञ्जन पर्वा स दरुमवर्षं नभस्तलात
ततॊ मायाधरं दरौणिर घटॊत्कच सुतं दिवि
मार्गणैर अभिविव्याध धनं सूर्य इवांशुभिः
सॊ ऽवतीर्य पुनस तस्थौ रथे हेमपरिष्कृते
महीधर इवात्युच्चः शरीमान अञ्जन पर्वतः
तम अयस्मय वर्माणं दरौणिर भीमात्मजात्मजम
जघानाञ्जन पर्वाणं महेश्वर इवान्धकम
अथ दृष्ट्वा हतं पुत्रम अश्वत्थाम्ना महाबलम
दरौणेः सकाशम अभ्येत्य रॊषात पचलिताङ्गदः
पराह वाक्यम असंभ्रान्तॊ वीरं शारद्वती सुतम
दहन्तं पाण्डवानीकं वनम अग्निम इवॊद्धतम
तिष्ठ तिष्ठ न मे जीवन दरॊणपुत्र गमिष्यसि
तवाम अद्य निहनिष्यामि करौञ्चम अग्निसुतॊ यथा
[अष्व]
गच्छ वत्स सहान्यैस तवं युध्यस्वामर विक्रम
न हि पुत्रेण हैडिम्बे पिता नयाय्यं परबाधितुम
कामं खलु न मे रॊषॊ हैडिम्बे विद्यते तवयि
किं तु रॊषान्वितॊ जन्तुर हन्याद आत्मानम अप्य उत
[स]
शरुत्वैतत करुध ताम्राक्षः पुत्रशॊकसमन्वितः
अश्वत्थामानम आयस्तॊ भैमसेनिर अभाषत
किम अहं कातरॊ दरौणे पृथग्जन इवाहवे
भीमात खल्व अहम उत्पन्नः कुरूणां विपुले कुले
पाण्डवानाम अहं पुत्रः समरेष्व अनिवर्तिनाम
रक्षसाम अधिराजॊ ऽहं दशग्रीव समॊ बले
तिष्ठ तिष्ठ न मे जीवन दरॊणपुत्र गमिष्यसि
युद्धश्रद्धाम अहं ते ऽदय विनेष्यामि रणाजिरे
इत्य उक्त्वा रॊषताम्राक्षॊ राक्षसः सुमहाबलः
दरौणिम अभ्यद्रवत करुद्धॊ गजेन्द्रम इव केसरी
रथाक्षमात्रैर इषुभिर अभ्यवर्षद घटॊत्कचः
रथिनाम ऋषभं दरौणिं धाराभिर इव तॊयदः
शरवृष्टिं शरैर दरौणिर अप्राप्तां तां वयशातयत
ततॊ ऽनतरिक्षे बाणानां संग्रामॊ ऽनय इवाभवत
अथास्त्र संघर्षकृतैर विस्फुलिङ्गैः समाबभौ
विभावरी मुखे वयॊम खद्यॊतैर इव चित्रितम
निशाम्य निहतं मायां दरौणिना रणमानिना
घटॊत्कचस ततॊ मायां ससर्जान्तर्हितः पुनः
सॊ ऽभवद गिरिर इत्य उच्चः शिखरैस तरुसंकटैः
शूलप्रासासि मुसलजलप्रस्रवणॊ महान
तम अञ्जन चयप्रख्यं दरौणिर दृष्ट्वा महीधरम
परपतद्भिश च बहुभिः शस्त्रसंघैर न चुक्षुभे
ततः समयन्न इव दरौणिर वज्रम अस्त्रम उदीरयत
स तेनास्त्रेण शैलेन्द्रः कषिप्तः कषिप्रम अनश्यत
ततः स तॊयदॊ भूत्वा नीलः सेन्द्रायुधॊ दिवि
अश्मवृष्टिभिर अत्युग्रॊ दरौणिम आच्छादयद रणे
अथ संधाय वायव्यम अस्त्रम अस्त्रविदां वरः
वयधमद दरॊण तनयॊ नीलमेघं समुत्थितम
स मार्गणगणैर दरौणिर दिशः परच्छाद्य सर्वतः
शतं रथसहस्राणां जघान दविपदां वरः
स दृष्ट्वा पुनर आयान्तं रथेनायत कार्मुकम
घटॊत्कचम असंभ्रान्तं राक्षसैर बहुभिर वृतम
सिंहशार्दूलसदृशैर मत्तद्विरदविक्रमैः
गजस्थैश च रथस्थैश च वाजिपृष्ठ गतैर अपि
विवृतास्य शिरॊग्रीवैर हैडिम्बानुचरैः सह
पौलस्त्यैर यातुधानैश च तामसैश चॊग्रविक्रमैः
नानाशस्त्रधरैर वीरैर नाना कवचभूषणैः
महाबलैर भीमरवैः संरम्भॊद्वृत्त लॊचनैः
उपस्थितैस ततॊ युद्धे राक्षसैर युद्धदुर्मदैः
विषण्णम अभिसंप्रेक्ष्य पुत्रं ते दरौणिर अब्रवीत
तिष्ठ दुर्यॊधनाद्य तवं न कार्यः संभ्रमस तवया
सहैभिर भरातृभिर वीरैः पार्थिवैश चेन्द्र विक्रमैः
निहनिष्याम्य अमित्रांस ते न तवास्ति पराजयः
सत्यं ते परतिजानामि पर्याश्वासय वाहिनीम
[दुर]
न तव एतद अद्भुतं मन्ये यत ते महद इदं मनः
अस्मासु च परा भक्तिस तव गौतमिनन्दन
[स]
अश्वत्थामानम उक्त्वैवं ततः सौबलम अब्रवीत
वृतः शतसहस्रेण रथानां रणशॊभिनाम
षष्ट्या गजसहस्रैश च परयाहि तवं धनंजयम
कर्णश च वृषसेनश च कृपॊ नीलस तथैव च
उदीच्याः कृतवर्मा च पुरुमित्रः शरुतार्पणः
दुःशासनॊ निकुम्भश च कुण्ड भेदी उरु करमः
पुरंजयॊ दृढरथः पताकी हेमपङ्कजः
शल्यारुणीन्द्र सेनाश च संजयॊ विजयॊ जयः
कमलाक्षः पुरुः कराथी जय वर्मा सुदर्शनः
एते तवाम अनुयास्यन्ति पत्तीनाम अयुतानि षट
जहि भीमं यमौ चॊभौ धर्मराजं च मातुल
असुरान इव देवेन्द्रॊ जयाशा मे तवयि सथिता
दारितान दरौणिना बाणैर भृशं विक्षत विग्रहान
अझि मातुलकौन्तेयान असुरान इव पावकिः
एवम उक्तॊ ययौ शीघ्रं पुत्रेण तव सौबलः
पिप्रीषुस ते सुतान राजन दिधक्षुश चैव पाण्डवान
अथ परववृते युद्धं दरौणिराक्षसयॊर मृधे
विभावर्यां सुतुमुलं शक्र परह्रादयॊर इव
ततॊ घटॊत्कचॊ बाणैर दशभिर गौतमी सुतम
जघानॊरसि संक्रुद्धॊ विषाग्निप्रतिमैर दृढैः
स तैर अभ्याहतॊ गाढं शरैर भीमसुतेरितैः
चचाल रथमध्यस्थॊ वातॊद्धूत इव दरुमः
भूयश चाञ्जलिकेनास्य मार्गणेन महाप्रभम
दरौणिहस्तस्थितं चापं चिच्छेदाशु घटॊत्कचः
ततॊ ऽनयद दरौणिर आदाय धनुर भारसहं महत
ववर्ष विशिखांस तीक्ष्णान वारिधारा इवाम्बुदः
ततः शारद्वती पुत्रः परेषयाम आस भारत
सुवर्णपुङ्खाञ शत्रुघ्नान खचरान खचरान परति
तद बाणैर अर्दितं यूथं रक्षसां पीनवक्षसाम
सिंहैर इव बभौ मत्तं गजानाम आकुलं कुलम
विधम्य राक्षसान बाणैः साश्वसूत रथान विभुः
ददाह भगवान वह्निर भूतानीव युगक्षये
स दग्ध्वाक्षौहिणीं बाणैर नैरृतान रुरुचे भृशम
पुरेव तरिपुरं दग्ध्वा दिवि देवॊ महेश्वरः
युगान्ते सर्वभूतानि दग्ध्वेव वसुर उल्बणः
रराज जयतां शरेष्ठॊ दरॊणपुत्रस तवाहितान
तेषु राजसहस्रेषु पाण्डवेयेषु भारत
नैनं निरीक्षितुं कश चिच छक्नॊति दरौणिम आहवे
ऋते घटॊत्कचाद वीराद राक्षसेन्द्रान महाबलात
स पुनर भरतश्रेष्ठ करॊधाद रक्तान्तलॊचनः
तलं तलेन संहत्य संदश्य दशनच छदम
सवसूतम अब्रवीत करुद्धॊ दरॊणपुत्राय मां वह
स ययौ घॊररूपेण तेन जैत्र पताकिना
दवैरथं दरॊण रूपेण पुनर अप्य अरिसूदनः
स चिक्षेप ततः करुद्धॊ दरॊणपुत्राय राक्षसः
अष्टचक्रां महारौद्राम अशनीं रुद्र निर्मिताम
ताम अवप्लुत्य जग्राह दरौणिर नयस्य रथे धनुः
चिक्षेप चैनां तस्यैव सयन्दनात सॊ ऽवपुप्लुवे
साश्वसूत धवजं वाहं भस्मकृत्वा महाप्रभा
विवेश वसुधं भित्त्वा साशनिर भृशदारुणा
दरौणेस तत कर्म दृष्ट्वा तु सर्वभूतान्य अपूजयन
यद अवप्लुत्य जग्राह घॊरां शंकर निर्मिताम
धृष्टद्युम्न रथं गत्वा भैमसेनिस ततॊ नृप
मुमॊच निशितान बाणान पुनर दरौणेर महॊरसि
धृष्टद्युम्नॊ ऽपय असंभ्रान्तॊ मुमॊचाशीविषॊपमान
सुवर्णपुङ्खान विशिखान दरॊणपुत्रस्य वक्षसि
ततॊ मुमॊच नाराचान दरौणिस ताभ्यां सहस्रशः
ताव अप्य अग्निशिखा परख्यैर जघ्नतुस तस्य मार्गणान
अतितीव्रम अभूद युद्धं तयॊः पुरुषसिंहयॊः
यॊधानां परीतिजननं दरौणेश च भरतर्षभ
ततॊ रथसहस्रेण दविरदानां शतैस तरिभिः
षड्भिर वाजिसहस्रैश च भीमस तं देशम आव्रजत
ततॊ भीमात्मजं रक्षॊ धृष्टद्युम्नं च सानुगम
अयॊधयत धर्मात्मा दरौणिर अक्लिष्टकर्मकृत
तत्राद्भुततमं दरौणिर दर्शयाम आस विक्रमम
अशक्यं कर्तुम अन्येन सर्वभूतेषु भारत
निमेषान्तरमात्रेण साश्वसूत रथद्विपाम
अक्षौहिणीं राक्षसानां शितैर बाणैर अशातयत
मिषतॊ भीमसेनस्य हैडिम्बेः पार्षतस्य च
यमयॊर धर्मपुत्रस्य विजयस्याच्युतस्य च
परगाढम अञ्जॊ गतिभिर नाराचैर अभिताडिताः
निपेतुर दविरदा भूमौ दविशृङ्गा इव पर्वताः
निकृत्तैर हस्तिहस्तैश च विचलद्भिर इतस ततः
रराज वसुधा कीर्णा विसर्पद्भिर इवॊरगैः
कषिप्तैः काञ्चनदण्डैश च नृपच छत्रैः कषितिर बभौ
दयौर इवॊदित चन्द्रार्का गरहाकीर्णा युगक्षये
परवृद्धध्वजमण्डूकां भेरी विस्तीर्णकच्चपाम
छत्रहंसावली जुष्टां फेनचामरमालिनीम
कङ्कगृध्रमहाग्राहां नैकायुध झषाकुलाम
रथक्षिप्त महावप्रां पताका रुचिरद्रुमाम
शरमीनां महारौद्रां परासशक्त्युग्रडुण्डुभाम
मज्जा मांसमहापङ्कां कबन्धावर्जितॊडुपाम
केशशैवलकल्माषां भीरूणां कश्मलावहाम
नागेन्द्र हययॊधानां शरीरव्यय संभवाम
शॊणितौघमहावेगां दरौणिः परावर्तयन नदीम
यॊधार्तरव निर्घॊषां कषतजॊर्मि समाकुलाम
परायाद अतिमहाघॊरं यमक्षयमहॊदधिम
निहत्य राक्षसान बाणैर दरौणिर हैडिम्बम आर्दयत
पुनर अप्य अतिसंक्रुद्धः स वृकॊदर पार्षतान
स नाराचगणैः पार्थान दरौणिर विद्ध्वा महाबलः
जघान सुरथं नाम दरुपदस्य सुतं विभुः
पुनः शरुतंजयं नाम सुरथस्यानुजं रणे
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान
शरुताह्वयं च राजेन्द्र दरौणिर निन्ये यमक्षयम
तरिभिश चान्यैः शरैस तीक्ष्णैः सुपुङ्खै रुक्ममालिनाम
शत्रुंजयं च बलिनं शक्र लॊकं निनाय ह
जघान स पृषध्रं च चन्द्र देवं च मानिनम
कुन्तिभॊजसुतांश चाजौ दशभिर दश जघ्निवान
अश्वत्थामा सुसंक्रुद्धः संधायॊग्रम अजिह्मगम
मुमॊचाकर्ण पूर्णेन धनुषा शरम उत्तमम
यमदण्डॊपमं गॊरम उद्दिश्याशु घटॊत्कचम
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः
विवेश वसुधां शीघ्रं स पुङ्खः पृथिवीपते
तं हतं पतितं जञात्वा धृष्टद्युम्नॊ महारथः
दरौणेः सकाशाद राजेन्द्र अपनिन्ये रथान्तरम
तथा पराङ्मुख रथं सैन्यं यौधिष्ठिरं नृप
पराजित्य रणे वीरॊ दरॊणपुत्रॊ ननाद ह
पूजितः सर्वभूतैश च तव पुत्रैश च भारत
अथ शरशतभिन्नकृत्तदेहैर; हतपतितैः कषणदाचरैः समन्तात
निधनम उपगतैर महीकृताभूद; गिरिशिखरैर इव दुर्गमातिरौद्रा
तं सिद्धगन्धर्वपिशाचसंघा; नागाः सुपर्णाः पितरॊ वयांसि
रक्षॊगणा भूतगणाश च दरौणिम; अपूजयन्न अप्सरसः सुराश च
[स]
दरुपदस्यात्मजान दृष्ट्वा कुन्तिभॊजसुतांस तथा
दरॊणपुत्रेण निहतान राक्षसांश च सहस्रशः
युधिष्ठिरॊ भीमसेनॊ धृष्टद्युम्नश च पार्षतः
युयुधानश च संयत्ता युद्धायैव मनॊ दधुः
सॊमदत्तः पुनः कुर्द्धॊ दृष्ट्वा सात्यकिम आहवे
महता शरवर्षेण छादयाम आस सर्वतः
ततः समभवद युद्धम अतीव भयवर्धनम
तवदीयानां परेषां च घॊरं विजयकाङ्क्षिणाम
दशभिः सात्वतस्यार्थे भीमॊ विव्याध कौरवम
सॊमदत्तॊ ऽपि तं वीरं शतेन परत्यविध्यत
सात्वतस तव अभिसंक्रुद्धः पुत्राधिभिर अभिप्लुतम
वृद्धम ऋद्धं गुणैः सर्वैर ययातिम इव नाहुषम
विव्याध दशभिस तीक्ष्णैः शरैर वज्रनिपातिभिः
शक्त्या चैनम अथाहत्य पुनर विव्याध सप्तभिः
ततस तु सात्यकेर अर्थे भीमसेनॊ नवं दृढम
मुमॊच परिघं घॊरं सॊमदत्तस्य मूर्धनि
सात्यकिश चाग्निसंकाशं मुमॊच शरम उत्तमम
सॊमदत्तॊरसि करुद्धः सुपत्रं निशितं युधि
युगपत पेततुर अथ घॊरौ परिघमार्गणौ
शरीरे सॊमदत्तस्य स पपात महारथः
वयामॊहिते तु तनये बाह्लीकः समुपाद्रवत
विसृजञ शरवर्षाणि कालवर्षीव तॊयदः
भीमॊ ऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः
पीडयन वै महात्मानं विव्याध रणमूर्धनि
परातिपीयस तु संक्रुद्धः शक्तिं भीमस्य वक्षसि
निचखान महाबाहुः पुरंदर इवाशनिम
स तयाभिहतॊ भीमश चकम्पे च मुमॊह च
पराप्य चेतश च बलवान गदाम अस्मै ससर्ज ह
सा पाण्डवेन परहिता बाह्लीकस्य शिरॊ ऽहरत
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट
तस्मिन विनिहते वीरे बाह्लीके पुरुषर्षभे
पुत्रास ते ऽभयर्दयन भीमं दश दाशरथेः समाः
नाराचैर दशभिर भीमस तान निहत्य तवात्मजान
कर्णस्य दयितं पुत्रं वृषसेनम अवाकिरत
ततॊ वृषरथॊ नाम भराता कर्णस्य विश्रुतः
जघान भीमं नाराचैस तम अप्य अभ्यवधीद बली
ततः सप्त रथान वीरः सयालानां तव भारत
निहत्य भीमॊ नाराचैः शतचन्द्रम अपॊथयत
अमर्षयन्तॊ निहतं शतचन्द्रं महारथम
शकुनेर भरातरॊ वीरा गजाक्षः शरभॊ विभुः
अभिद्रुत्य शरैस ताक्ष्णैर भीमसेनम अताडयन
स तुद्यमानॊ नाराचैर वृष्टिवेगैर इवर्षभः
जघान पञ्चभिर बाणैः पञ्चैवातिबलॊ रथान
तान दृष्ट्वा निहतान वीरान विचेलुर नृपसत्तमाः
ततॊ युधिष्ठिरः करुद्धस तवानीकम अशातयत
मिषतः कुम्भयॊनेश च पुत्राणां च तवानघ
अम्बष्ठान मालवाञ शूरांस तरिगर्तान स शिबीन अपि
पराहिणॊन मृत्युलॊकाय गणान युद्धे युधिष्ठिरः
अभीषाहाञ शूरसेनान बाह्लीकान स वसातिकान
निकृत्य पृथिवीं राजा चक्रे शॊणितकर्दमाम
यौधेयारट्ट राजन्य मद्रकाणां गणान युधि
पराहिणॊन मृत्युलॊकाय शूरान बाणैर युधिष्ठिरः
हत आहरत गृह्णीत विध्यत वयवकृन्तत
इत्य आसीत तुमुलः शब्दॊ युधिष्ठिर रथं परति
सैन्यानि दरावयन्तं तं दरॊणॊ दृष्ट्वा युधिष्ठिरम
चॊदितस तव पुत्रेण सायकैर अभ्यवाकिरत
दरॊणस तु परमक्रुद्धॊ वयव्यास्त्रेण पार्थिवम
विव्याध सॊ ऽसय तद दिव्यम अस्त्रम अस्त्रेण जघ्निवान
तस्मिन विनिहते चास्त्रे भारद्वाजॊ युधिष्ठिरे
वारुणं याम्यम आग्नेयं तवाष्ट्रं सावित्रम एव च
चिक्षेप परमक्रुद्धॊ जिघांसुः पाण्डुनन्दनम
कषिप्तानि कषिप्यमाणानि तानि चास्त्राणि धर्मजः
जघानास्त्रैर महाबाहुः कुम्भयॊनेर अवित्रसन
सत्यां चिकीर्षमाणस तु परथिज्ञां कुम्भसंभवः
परादुश्चक्रे ऽसत्रम ऐन्द्रं वै पराजापत्यं च भारत
जिघांसुर धर्मतनयं तव पुत्र हिते रतः
पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथु लॊहिताक्षः
परादुश्चकारास्त्रम अहीन तेजा; माहेन्द्रम अन्यत स जघान ते ऽसत्रे
विहन्यमानेष्व अस्त्रेषु दरॊणः करॊधसमन्वितः
युधिष्ठिर वधप्रेप्सुर बराह्मम अस्त्रम उदैरयत
ततॊ नाज्ञासिषं किं चिद घॊरेण तमसावृते
सर्वभूतानि च परं तरासं जग्मुर महीपते
बरह्मास्त्रम उद्यतं दृष्ट्वा कुन्तीपुत्रॊ युधिष्ठिरः
बरह्मास्त्रेणैव राजेन्द्र तद अस्त्रं परत्यवारयत
ततः सैनिक मुख्यास ते परशशंसुर नरर्षभौ
दरॊण पार्थौ महेष्वासौ सर्वयुद्धविशारदौ
ततः परमुच्य कौन्तेयं दरॊणॊ दरुपद वाहिनीम
वयधमद रॊषताम्राक्षॊ वायव्यास्त्रेण भारत
ते हन्यमाना दरॊणेन पाञ्चालाः पराद्रवन भयात
पश्यतॊ भीमसेनस्य पार्थस्य च महात्मनः
ततः किरीटी भीमश च सहसा संन्यवर्तताम
महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव
बीभत्सुर दक्षिणं पार्श्वम उत्तरं तु वृकॊदरः
भारद्वाजं शरौघाभ्यां महद्भ्याम अभ्यवर्षताम
तौ तदा सृञ्जयाश चैव पाञ्चालाश च महौजसः
अन्वगच्छन महाराज मत्स्याश च सह सात्वतैः
ततः सा भारती सेना वध्यमाना किरीटिना
दरॊणेन वार्यमाणास ते सवयं तव सुतेन च
नाशक्यन्त महाराज यॊधा वारयितुं तदा
[स]
उदीर्यमाणं तद दृष्ट्वा पाण्डवानां महद बलम
अविषह्यं च मन्वानः कर्णं दुर्यॊधनॊ ऽबरवीत
अयं स कालः संप्राप्तॊ मित्राणां मित्रवत्सल
तरायस्व समरे कर्ण सर्वान यॊधान महाबल
पाञ्चालैर मत्स्यकैकेयैः पाण्डवैश च महारथैः
वृतान समन्तात संक्रुद्धैर निःश्वसद्भिर इवॊरगैः
एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः
शक्रॊपमाश च बहवः पाञ्चालानां रथव्रजाः
[कर्ण]
परित्रातुम इह पराप्तॊ यदि पार्थ पुरंदरः
तम अप्य आशु पराजित्य ततॊ हन्तास्मि पाण्डवम
सत्यं ते परतिजानामि समाश्वसिहि भारत
हन्तास्मि पाण्डुतनयान पाञ्चालांश च समागतान
जयं ते परतिजानामि वासवस्येव पावकिः
परियं तव मया कार्यम इति जीवामि पार्थिव
सर्वेषाम एव पार्थानां फल्गुनॊ बलवत्तरः
तस्यामॊघां विमॊक्ष्यामि शक्तिं शक्र विनिर्मिताम
तस्मिन हते महेष्वासे भरातरस तस्य मानद
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः
मयि जीवति कौरव्य विषादं मा कृथाः कव चित
अहं जेष्यामि समरे सहितान सर्वपाण्डवान
पाञ्चालान केकयांश चैव वृष्णींश चापि समागतान
बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम
[स]
एवं बरुवाणं कर्णं तु कृपः शारद्वतॊ ऽबरवीत
समयन्न इव महाबाहुः सुत पुत्रम इदं वचः
शॊभनं शॊभनं कर्ण स नाथः कुरुपुंगवः
तवया नाथेन राधेय वचसा यदि सिध्यति
बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः
न तु ते विक्रमः कश चिद दृश्यते बलम एव वा
समागमः पाण्डुसुतैर दृष्टस ते बहुशॊ युधि
सर्वत्र निर्जितश चासि पाण्डवैः सूतनन्दन
हरियमाणे तदा कर्ण गन्धर्वैर धृतराष्ट्रजे
तदायुध्यन्त सैन्यानि तवम एकस तु पलायथाः
विराटनगरे चापि समेताः सर्वकौरवाः
पार्थेन निर्जिता युद्धे तवं च कर्ण सहानुजः
एकस्याप्य असमर्थस तवं फल्गुनस्य रणाजिरे
कथम उत्सहसे जेतुं सुकृष्णान सर्वपाण्डवान
अब्रुवन कर्ण युध्यस्व बहु कत्थसि सूतज
अनुक्त्वा विक्रमेद यस तु तद वै सत्पुरुषव्रतम
गर्जित्वा सूतपुत्र तवं शारदाभ्रम इवाजलम
निष्फलॊ दृश्यसे कर्ण तच च राजा न बुध्यते
तावद गर्जसि राधेय यावत पार्थं न पश्यसि
पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत
तवम अनासाद्य तान बाणान फल्गुनस्य विगर्जसि
पार्थ सायकविद्धस्य दुर्लभं गर्जितं भवेत
बाहुभिः कषत्रियाः शूरा वाग्भिः शूरा दविजातयः
धनुषा फल्गुनः शूरः कर्णः शूरॊ मनॊरथैः
एवं परुषितस तेन तदा शारद्वतेन सः
कर्णः परहरतां शरेष्ठः कृपं वाक्यम अथाब्रवीत
शूरा गर्जन्ति सततं परावृषीव बलाहकाः
फलं चाशु परयच्छन्ति बीजम उप्तम ऋताव इव
दॊषम अत्र न पश्यामि शूराणां रणमूर्धनि
तत तद विकत्थमानानां भारं चॊद्वहतां मृधे
यं भारं पुरुषॊ वॊढुं मनसा हि वयवस्यति
दैवम अस्य धरुवं तत्र साहाय्यायॊपपद्यते
वयवसायद्वितीयॊ ऽहं मनसा भारम उद्वहन
गर्जामि यद्य अहं विप्र तव किं तत्र नश्यति
वृथा शूरा न गर्जन्ति स जला इव तॊयदाः
सामर्थ्यम आत्मनॊ जञात्वा ततॊ गर्जन्ति पण्डिताः
सॊ ऽहम अद्य रणे यत्तः सहितौ कृष्ण पाण्डवौ
उत्सहे तरसा जेतुं ततॊ गर्जामि गौतम
पश्य तवं गर्जितस्यास्य फलं मे विप्र सानुगः
हत्वा पाण्डुसुतान आजौ सह कृष्णान स सात्वतान
दुर्यॊधनाय दास्यामि पृथिवीं हतकण्टकाम
[कृप]
मनॊरथप्रलापॊ मे न गराह्यस तव सूतज
यदा कषिपसि वै कृष्णौ धर्मराजं च पाण्डवम
धरुवस तत्र जयः कर्ण यत्र युद्धविशारदौ
देवगन्धर्वयक्षाणां मनुष्यॊरगरक्षसाम
दंशितानाम अपि रणे अजेयौ कृष्ण पाण्डवौ
बरह्मण्यः सत्यवाग दान्तॊ गुरु दैवतपूजकः
नित्यं धर्मरतश चैव कृतास्त्रश च विशेषतः
धृतिमांश च कृतज्ञश च धर्मपुत्रॊ युधिष्ठिरः
भरातरश चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः
गुरुवृत्ति रताः पराज्ञा धर्मनित्या यशस्विनः
संबन्धिनश चेन्द्र वीर्याः सवनुरक्ताः परहारिणः
धृष्टद्युम्नः शिखण्डी च दौर्मुखिर जनमेजयः
चन्द्र सेनॊ भद्र सेनः कीर्तिधर्मा धरुवॊ धरः
वसु चन्द्रॊ दाम चन्द्रः सिंहचन्द्रः सुवेधनः
दरुपदस्य तथा पुत्रा दरुपदश च महास्त्रवित
येषाम अर्थाय संयत्तॊ मत्स्यराजः सहानुगः
शतानीकः सुदशनः शरुतानीकः शरुतध्वजः
बलानीकॊ जयानीकॊ जयाश्वॊ रथवाहनः
चन्द्रॊदयः कामरथॊ विराट भरातरः शुभाः
यमौ च दरौपदेयाश च राक्षसश च घटॊत्कचः
येषाम अर्थाय युध्यन्ते न तेषां विद्यते कषयः
कामं खलु जगत सर्वं स देवासुरमानवम
स यक्षराक्षस गणं स भूतभुजग दविपम
निःशेषम अस्त्रवीर्येण कुर्यातां भीम फल्गुनौ
युधिष्ठिरश च पृथिवीं निर्दहेद घॊरचक्षुषा
अप्रमेयबलः शौरिर येषाम अर्थे च दंशितः
कथं तान संयुगे कर्ण जेतुम उत्सहसे परान
महान अपनयस तव एष तव नित्यं हि सूतज
यस तवम उत्सहसे यॊद्धुं समरे शौरिणा सह
[स]
एवम उक्तस तु राधेयः परहसन भरतर्षभ
अब्रवीच च तदा कर्णॊ गुरुं शारद्वतं कृपम
सत्यम उक्तं तवया बरह्मन पाण्डवान परति यद वचः
एते चान्ये च बहवॊ गुणाः पाण्डुसुतेषु वै
अजय्याश च रणे पार्था देवैर अपि स वासवैः
स दैत्य यक्षगन्धर्वपिशाचॊरगराक्षसैः
तथापि पार्थाञ जेष्यामि शक्त्या वासव दत्तया
ममाप्य अमॊघा दत्तेयं शक्तिः शक्रेण वै दविज
एतया निहनिष्यामि सव्यसाचिनम आहवे
हते तु पाण्डवे कृष्णॊ भरातरश चास्य सॊदराः
अनर्जुना न शक्ष्यन्ति महीं भॊक्तुं कथं चन
तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा
अयत्नात कौरवेयस्य वशे सथास्यति गौतम
सुनीतैर इह सर्वार्थाः सिध्यन्ते नात्र संशयः
एतम अर्थम अहं जञात्वा ततॊ गर्जामि गौतम
तवं तु वृद्धश च विप्रश च अशक्तश चापि संयुगे
कृतस्नेहश च पार्थेषु मॊहान माम अवमन्यसे
यद्य एवं वक्ष्यसे भूयॊ माम अप्रियम इह दविज
ततस ते खड्गम उद्यम्य जिह्वां छेत्स्यामि दुर्मते
यच चापि पाण्डवान विप्र सतॊतुम इच्छसि संयुगे
भीषयन सर्वसैन्यानि कौरवेयाणि दुर्मते
अत्रापि शृणु मे वाक्यं यथावद गदतॊ दविज
दुर्यॊधनश च दरॊणश च शकुनिर दुर्मुखॊ जयः
दुःशासनॊ वृषसेनॊ मद्रराजस तवम एव च
सॊमदत्तश च भूरिश च तथा दरौणिर विविंशतिः
तिष्ठेयुर दंशिता यत्र सर्वे युद्धविशारदाः
जयेद एतान रणे कॊ नु शक्रतुल्यबलॊ ऽपय अरिः
शूराश च हि कृतास्त्राश च बलिनः सवर्गलिप्सवः
धर्मज्ञा युद्धकुशला हन्युर युद्धे सुरान अपि
एते सथास्यन्ति संग्रामे पाण्डवानां वधार्थिनः
जयम आकाङ्क्षमाणा हि कौरवेयस्य दंशिताः
दैवायत्तम अहं मन्ये जयं सुबलिनाम अपि
यत्र भीष्मॊ महाबाहुः शेते शरशताचितः
विकर्णश चित्रसेनश च बाह्लीकॊ ऽथ जयद्रथः
भूरिश्रवा जयश चैव जलसंधः सुदक्षिणः
शलश च रथिनां शरेष्ठॊ भगदत्तश च वीर्यवान
एते चान्ये च राजानॊ देवैर अपि सुदुर्जयाः
निहताः समरे शूराः पाण्डवैर बलवत्तराः
किम अन्यद दैवसंयॊगान मन्यसे पुरुषाधम
यांश च तान सतौषि सततं दुर्यॊधन रिपून दविज
तेषाम अपि हताः शूराः शतशॊ ऽतः सहस्रशः
कषीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह
परभावं नात्र पश्यामि पाण्डवानां कथं चन
यांस तान बलवतॊ नित्यं मन्यसे तवं दविजाधम
यतिष्ये ऽहं यथाशक्ति यॊद्धुं तैः सह संयुगे
दुर्यॊधनहितार्थाय जयॊ दैवे परतिष्ठितः
[स]
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम
खड्गम उद्यम्य वेगेन दरौणिर अभ्यपतद दरुतम
[अष्व]
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम
एष ते ऽदय शिरः कायाद उद्धरामि सुदुर्मते
[स]
तम उत्पतन्तं वेगेन राजा दुर्यॊधनः सवयम
नयवारयन महाराज कृपश च दविपदां वरः
[कर्ण]
शूरॊ ऽयं समरश्लाघी दुर्मतिश च दविजाधमः
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम
[अष्व]
तवैतत कषम्यते ऽसमाभिः सूतात्मज सुदुर्मते
दर्पम उत्सिक्तम एतत ते फल्गुनॊ नाशयिष्यति
[दुर]
अश्वत्थामन परसीदस्व कषन्तुम अर्हसि मानद
कॊपः खलु न कर्तव्यः सूतपुत्रे कथं चन
तवयि कर्णे कृपे दरॊणे मद्रराजे ऽथ सौबले
महत कार्यं समायत्तं परसीद दविजसत्तम
एते हय अभिमुखाः सर्वे राधेयेन युयुत्सवः
आयान्ति पाण्डवा बरह्मन्न आह्वयन्तः समन्ततः
[स]
कर्णॊ ऽपि रथिनां शरेष्ठश चापम उद्यम्य वीर्यवान
कौरवाग्र्यैः परिवृतः शक्रॊ देवगणैर इव
पर्यतिष्ठत तेजस्वी सवबाहुबलम आश्रितः
ततः परववृते युद्धं कर्णस्य सह पाण्डवैः
संरब्धस्य महाराज सिंहनाद विनादितम
ततस ते पाण्डवा राजन पाञ्चालाश च यशस्विनः
दृष्ट्वा कर्णं महाबाहुम उच्चैः शब्दम अथानदन
अयं कर्णः कुतः कर्णस तिष्ठ कर्ण महारणे
युध्यस्व सहितॊ ऽसमाभिर दुरात्मन पुरुषाधम
अन्ये तु दृष्ट्वा राधेयं करॊधरक्तेक्षणाब्रुवन
हन्यताम अयम उत्सिक्तः सूतपुत्रॊ ऽलपचेतनः
सर्वैः पार्थिवशार्दूलैर नानेनार्थॊ ऽसति जीवता
अत्यन्तवैरी पार्थानां सततं पापपूरुषः
एष मूलं हय अनर्थानां दुर्यॊधन मते सथितः
हतैनम इति जल्पन्तः कषत्रियाः समुपाद्रवन
महता शरवर्षेण छादयन्तॊ महारथाः
वधार्धं सूतपुत्रस्य पाण्डवेयेन चॊदिताः
तांस तु सर्वांस तथा दृष्ट्वा धावमानान महारथान
न विव्यथे सूर पुत्रॊ न च तरासम अगच्छत
दृष्ट्वा नगरकल्पं तम उद्धूतं सैन्यसागरम
पिप्रीषुस तव पुत्राणां संग्रामेष्व अपराजितः
सायकौघेन बलवान कषिप्रकारी महाबलः
वारयाम आस तत सैन्यं समन्ताद भरतर्षभ
ततस तु शरवर्षेण पार्थिवास तम अवारयन
धनूंषि ते विधुन्वानाः शतशॊ ऽथ सहस्रशः
अयॊधयन्त राधेयं शक्रं दैत्य गणा इव
शरवर्षं तु तत कर्णः पार्थिवैः समुदीरितम
शरवर्षेण महता समन्ताद वयकिरत परभॊ
तद युद्धम अभवत तेषां कृतप्रतिकृतैषिणाम
यथा देवासुरे युद्धे शक्रस्य सह दानवैः
तत्राद्भुतम अपश्याम सूतपुत्रस्य लाघवम
यद एनं समरे यत्ता नाप्नुवन्त परे युधि
निवार्य च शरौघांस तान पार्थिवानां महारथः
युगेष्व ईषासु छत्रेषु धवजेषु च हयेषु च
आत्मनामाङ्कितान बाणान राधेयः पराहिणॊच छितान
ततस ते वयाकुलीभूता राजानः कर्ण पीडिताः
बभ्रमुस तत्र तत्रैव गावः शीतार्दिता इव
हयानां वध्यमानानां गजानां रथिनां तथा
तत्र तत्राभ्यवेक्षामः संघान कर्णेन पातितान
शिरॊभिः पतितौ राजन बाहुभिश च समन्ततः
आस्तीर्णा वसुधा सर्वा शूराणाम अनिवर्तिनाम
हतैश च हन्यमानैश च निष्टनद्भिश च सर्वशः
बभूवायॊधनं रौद्रं वैवस्वतपुरॊपमम
ततॊ दुर्यॊधनॊ राजा दृष्ट्वा कर्णस्य विक्रमम
अश्वत्थामानम आसाद्य तदा वाक्यम उवाच ह
युध्यते ऽसौ रणे कर्णॊ दंशितः सर्वपार्थिवैः
पश्यैतां दरवतीं सेनां कर्ण सायकपीडिताम
कार्त्तिकेयेन विध्वस्ताम आसुरीं पृतनाम इव
दृष्ट्वैनां निर्जितां सेनां रणे कर्णेन धीमता
अभियात्य एष बीभत्सुः सूतपुत्र जिघांसया
तद यथा पश्यमानानां सूतपुत्रं महारथम
न हन्यात पाण्डवः संख्ये तथा नीतिर विधीयताम
ततॊ दरौणिः कृपः शल्यॊ हार्दिक्यश च महारथः
परत्युद्ययुस तदा पार्थं सूतपुत्र परीप्सया
आयान्तं दृश्यकौन्तेयं वृत्रं देव चमूम इव
परयुद्ययौ तदा कर्णॊ यथा शक्रः परतापवान
[धृ]
संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमॊपमम
कर्णॊ वैकर्तनः सूत परत्यपद्यत किम उत्तरम
स हय अस्पर्धत पार्थेन नित्यम एव महारथः
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे
स तु तं सहसा पराप्तं नित्यम अत्यन्तवैरिणम
कर्णॊ वैकर्तनः सूत किम उत्तरम अपद्यत
[स]
आयान्तं पाण्डवं दृष्ट्वा गजः परतिगजं यथा
असंभ्रान्ततरः कर्णः पर्त्युदीयाद धनंजयम
तम आपतन्तं वेगेन वैकर्तनम अजिह्मगैः
वारयाम आस तेजस्वी पाण्डवः शत्रुतापनः
तं कर्णः शरजालेन छादयाम आस मारिष
विव्याध च सुसंक्रुद्धः शरैस तरिभिर अजिह्मगैः
तस्य तल लाघवं पार्थॊ नामृष्यत महाबलः
तस्मै बाणाञ शिला धौतान परसन्नाग्रान अजिह्मगान
पराहिणॊत सूतपुत्राय तरिंशतं शत्रुतापनः
विव्याध चैनं संरब्धॊ बाणेनैकेन वीर्यवान
सव्ये भुजाग्रे बलवान नाराचेन हसन्न इव
तस्य विद्धस्य वेगेन कराच चापं पपात ह
पुनर आदाय तच चापं निमेषार्धान महाबलः
छादयाम आस बाणौघैः फल्गुनं कृतहस्तवत
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत
वयधमच छरवर्षेण समयन्न इव धनंजयः
तौ परस्परम आसाद्य शरवर्षेण पार्थिव
छादयेतां महेष्वासौ कृप परतिकृतैषिणौ
तद अद्भुतम अभूद युद्धं कर्ण पाण्डवयॊर मृधे
करुद्धयॊर वाशिता हेतॊर वन्ययॊर गजयॊर इव
ततः पार्थॊ महेष्वासॊ दृष्ट्वा कर्णस्य विक्रमम
मुष्टिदेशे धनुस तस्य चिच्छेद तवरयान्वितः
अश्वांश च चतुरॊ भल्लैर अनयद यमसादनम
सारथेश च शिरः कायाद अहरच छत्रुतापनः
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम
विव्याध सायकैः पार्थ चतुर्भिः पाण्डुनन्दनः
हताश्वात तु रथात तूर्णम अवप्लुत्य नरर्षभः
आरुरॊह रथं तूर्णं कृपस्य शरपीडितः
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ
धनंजय शरैर नुन्नाः पराद्रवन्त दिशॊ दश
दरवतस तान समालॊक्य राजा दुर्यॊधनॊ नृप
निवर्तयाम आस तदा वाक्यं चेदम उवाच ह
अलं दरुतेन वः शूरास तिष्ठध्वं कषत्रियर्षभाः
एष पार्थ वधायाहं सवयं गच्छामि संयुगे
अहं पार्थान हनिष्यामि सपाञ्चालान स सॊमकान
अद्य मे युध्यमानस्य सह गाण्डीवधन्वना
दरक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये
अद्य मद्बाणजालानि विमुक्तानि सहस्रशः
दरक्ष्यन्ति समरे यॊधाः शलभानाम इवायतीः
अद्य बाणमयं वर्षं सृजतॊ मम धन्विनः
जीमूतस्येव घर्मान्ते दरक्ष्यन्ति युधि सैनिकाः
जेष्याम्य अद्य रणे पार्थं सायकैर नतपर्वभिः
तिष्ठध्वं समरे शूरा भयं तयजत फल्गुनात
न हि मद्वीर्यम आसाद्य फल्गुनः परसहिष्यति
यथा वेलां समासाद्य सागरॊ मकरालयः
इत्य उक्त्वा परययौ राजा सैन्येन महता वृतः
फल्गुनं परति दुर्धर्षः करॊधसंरक्तलॊचनः
तं परयान्तं महाबाहुं दृष्ट्वा शारद्वतस तदा
अश्वत्थामानम आसाद्य वाक्यम एतद उवाच ह
एष राजा महाबाहुर अमर्षी करॊधमूर्छितः
पतंगवृत्तिम आस्थाय फल्गुनं यॊद्धुम इच्छति
यावन नः पश्यमानानां पराणान पार्थेन संगतः
न जह्यात पुरुषव्याघ्रस तावद वारय कौरवम
यावत फल्गुन बाणानां गॊचरं नाधिगच्छति
कौरवः पार्थिवॊ वीरस तावद वारय तं दरुतम
यावत पार्थ शरैर घॊरैर निर्मुक्तॊरग संनिभैः
न भस्मीक्रियते राजा तावद युद्धान निवार्यताम
अयुक्तम इव पश्यामि तिष्ठस्त्व अस्मासु मानद
सवयं युद्धाय यद राजा पार्थं यात्य असहायवान
दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः
मातुलेनैवम उक्तस तु दरौणिः शस्त्रभृतां वरः
दुर्यॊधनम इदं वाक्यं तवरितं समभाषत
मयि जीवति गान्धारे न युद्धं गन्तुम अर्हसि
माम अनादृत्य कौरव्य तव नित्यं हितैषिणम
न हि ते संभ्रमः कार्यः पार्थस्य विजयं परति
अहम आवारयिष्यामि पार्थं तिष्ठ सुयॊधन
[दुर]
आचार्यः पाण्डुपुत्रान वै पुत्रवत परिरक्षति
तवम अप्य उपेक्षां कुरुषे तेषु नित्यं दविजॊत्तम
मम वा मन्दभाग्यत्वान मन्दस ते विक्रमॊ युधि
धर्मराज परियार्थं वा दरौपद्या वा न विद्म तत
धिग अस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः
सुखार्हाः परमं दुःखं पराप्नुवन्त्य अपराजिताः
कॊ हि शस्त्रभृतां मुख्यॊ महेश्वर समॊ युधि
शत्रून न कषपयेच छक्तॊ यॊ न सयाद गौतमी सुतः
अश्वत्थामन परसीदस्व नाशयैतान ममाहितान
तवास्त्रगॊचरे शक्ताः सथातुं देवापि नानघ
पाञ्चालान सॊमकांश चैव जहि दरॊणे सहानुगान
वयं शेषान हनिष्यामस तवयैव परिरक्षिताः
एते हि सॊमका विप्र पाञ्चालाश च यशस्विनः
मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत
तान वारय महाबाहॊ केकयांश च नरॊत्तम
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना
आदौ वा यदि वा पश्चात तवेदं कर्म मारिष
तवम उत्पन्नॊ महाबाहॊ पाञ्चालानां वधं परति
करिष्यसि जगत सर्वम अपाञ्चालं किलाच्युत
एवं सिद्धाब्रुवन वाचॊ भविष्यति च तत तथा
न ते ऽसत्रगॊचरे शक्ताः सथातुं देवाः स वासवाः
किम उ पार्थाः सपाञ्चालाः सत्यम एतद वचॊ मम
[स]
दुर्यॊधनेनैवम उक्तॊ दरौणिर आहवदुर्मदः
परत्युवाच महाबाहॊ यथा वदसि कौरव
परिया हि पाण्डवा नित्यं मम चापि पितुश च मे
तथैवावां परियौ तेषां न तु युद्धे कुरूद्वह
शक्तितस तात युध्यामस तयक्त्वा पराणान अभीतवत
अहं कर्णश च शल्यश च कृपॊ हार्दिक्य एव च
निमेषात पाण्डवीं सेनां कषपयेम नृपॊत्तम
ते चापि कौरवीं सेनां निमेषार्धात कुरूद्वह
कषपयेयुर महाबाहॊ न सयाम यदि संयुगे
युध्यतां पाण्डवाञ शक्त्या तेषां चास्मान युयुत्सताम
तेजस तु तेज आसाद्य परशमं याति भारत
अशक्या तरसा जेतुं पाण्डवानाम अनीकिनी
जीवत्सु पाण्डुपुत्रेषु तद धि सत्यं बरवीमि ते
आत्मार्थं युध्यमानास ते समर्थाः पाण्डुनन्दनाः
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत
तवं हि लुब्धतमॊ राजन निकृतिज्ञश च कौरव
सरातिशङ्की मानी च ततॊ ऽसमान अतिशङ्कसे
अहं तु यत्नम आस्थाय तवदर्थे तयक्तजीवितः
एष गच्छामि संग्रामं तवत्कृते कुरुनन्दन
यॊत्स्ये ऽहं शत्रुभिः सार्धं जेष्यामि च वरान वरान
पाञ्चालैः सह यॊत्स्यामि सॊमकैः केकयैस तथा
पाण्डवेयैश च संग्रामे तवत्प्रियार्थम अरिंदम
अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सॊमकास तथा
सिंहेनेवार्दिता गावॊ विद्रविष्यन्ति सर्वतः
अद्य धर्मसुतॊ राजा दृष्ट्वा मम पराक्रमम
अश्वत्थामम अयं लॊकं मंस्यते सह सॊमकैः
आगमिष्यति निर्वेदं धर्मपुत्रॊ युधिष्ठिरः
दृष्ट्वा विनिहतान संख्ये पाञ्चालान सॊमकैः सह
ये मां युद्धे ऽभियॊत्स्यन्ति तान हनिष्यामि भारत
न हि ते वीर मुच्येरन मद्बाह्वन्तरम आगताः
एवम उक्त्वा महाबाहुः पुत्रं दुर्यॊधनं तव
अभ्यवर्तत युद्धाय दरावयन सर्वधन्विनः
चिकीर्षुस तव पुत्राणां परियं पराणभृतां वरः
ततॊ ऽबरवीत स कैकेयान पाञ्चालान गौतमी सुतः
परहरध्वम इतः सर्वे मम गात्रे महारथाः
सथिरी भूताश च युध्यध्वं दर्शयन्तॊ ऽसत्रलाघवम
एवम उक्तास तु ते सर्वे शस्त्रवृष्टिम अपातयन
दरौणिं परति महाराज जलं जलधरा इव
तान निहत्य शरान दरौणिर दशवीरान अपॊथयत
परमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभॊ
ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास तथा
परित्यज्य रणे दरौणिं वयद्रवन्त दिशॊ दश
तान दृष्ट्वा दरवतः शूरान पाञ्चालान सह सॊमकान
धृष्टद्युम्नॊ महाराज दरौणिम अभ्यद्रवद युधि
ततः काञ्चनचित्राणां स जलाम्बुद नादिनाम
वृतः शतेन शूराणां रथानाम अनिवर्तिनाम
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नॊ महारथः
दरौणिम इत्य अब्रवीद वाक्यं दृष्ट्वा यॊधान निपातितान
आचार्य पुत्र दुर्बुद्धे किम अन्यैर निहतैस तव
समागच्छ मया सार्धं यदि शूरॊ ऽसि संयुगे
अहं तवां निहनिष्यामि तिष्ठेदानीं ममाग्रतः
ततस तम आचार्य सुतं धृष्टद्युम्नः परतापवान
मर्मभिद्भिः शरैस तीक्ष्णैर जघान भरतर्षभ
ते तु पङ्क्ती कृता दरौणिं शरा विविशुर आशुगाः
रुक्मपुङ्खाः परसन्नाग्राः सर्वकायावदारणाः
मध्व अर्थिन इवॊद्दामा भरमराः पुष्पितं दरुमम
सॊ ऽतिविद्धॊ भृशं करुद्धः पदाक्रान्त इवॊरगः
मानी दरौणिर असंभ्रान्तॊ बाणपाणिर अभाषत
धृष्टद्युम्न सथिरॊ भूत्वा मुहूर्तं परतिपालय
यावत तवां निशितैर बाणैः परेषयामि यमक्षयम
दरौणिर एवम अथाभाष्य पार्षतं परवीरहा
छादयाम आस बाणौघैः समन्ताल लघुहस्तवत
स छाद्यमानः समरे दरौणिना युद्धदुर्मदः
दरौणिं पाञ्चाल तनयॊ वाग्भिर आतर्जयत तदा
न जानीषे परतिज्ञां मे विप्रॊत्पत्तिं तथैव च
दरॊणं हत्वा किल मया हन्तव्यस तवं सुदुर्मते
ततस तवाहं न हन्म्य अद्य दरॊणे जीवति संयुगे
इमां तु रजनीं पराप्ताम अप्रभातां सुदुर्मते
निहत्य पितरं ते ऽदय ततस तवाम अपि संयुगे
नेष्यामि मृत्युलॊकायेत्य एवं मे मनसि सथितम
यस ते पार्थेषु विद्वेषॊ या भक्तिः कौरवेषु च
तां दर्शय सथिरॊ भूत्वा न मे जीवन विमॊक्ष्यसे
यॊ हि बराह्मण्यम उत्सृज्य कषत्रधर्मरतॊ दविजः
स वध्यः सर्वलॊकस्य यथा तवं पुरुषाधम
इत्य उक्तः परुषं वाक्यं पार्षतेन दविजॊत्तमः
करॊधम आहारयत तीव्रं तिष्ठ तिष्ठेति चाब्रवीत
निर्दहन्न इव चक्षुर्भ्यां पार्षतं सॊ ऽभयवैक्षत
छादयाम आस च शरैर निःश्वसन पन्नगॊ यथा
स छाद्यमानः समरे दरौणिना राजसत्तम
सर्वपाञ्चाल सेनाभिः संवृतॊ रथसत्तमः
नाकम्पत महाबाहुः सवधैर्यं समुपाश्रितः
सायकांश चैव विविधान अश्वत्थाम्नि मुमॊच ह
तौ पुनः संन्यवर्तेतां पराणद्यूतपरे रणे
निवारयन्तौ बाणौघैः परस्परम अमर्षिणौ
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः
दरौणिपार्षतयॊर युद्धं घॊररूपं भयानकम
दृष्ट्वा संपूजयाम आसुः सिद्धचारणवातिकाः
शरौघैः पूरयन्तौ ताव आकाशं परदिशस तथा
अलक्ष्यौ समयुध्येतां महत कृत्वा शरैस तमः
नृत्यमानाव इव रणे मण्डलीकृतकार्मुकौ
परस्परवधे यत्तौ परस्परजयैषिणौ
अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च
संपूज्यमानौ समरे यॊधमुख्यैः सहस्रशः
तौ परयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाव इव
उभयॊः सेनयॊर हर्षस तुमुलः समपद्यत
सिंहनाद रवाश चासन दध्मुः शङ्खांश च मारिष
वादित्राण्य अभ्यवाद्यन्त शतशॊ ऽथ सहस्रशः
तस्मिंस तु तुमुले युद्धे भीरूणां भयवर्धने
मुहूर्तम इव तद युद्धं समरूपं तदाभवत
ततॊ दरौणिर महाराज पार्षतस्य महात्मनः
धवजं धनुस तथा छत्रम उभौ च पार्ष्णिसारथी
सूतम अश्वांश च चतुरॊ निहत्याभ्यद्रवद रणे
पाञ्चालांश चैव तान सर्वान बाणैः संनतपर्वभिः
वयद्रावयद अमेयात्मा शतशॊ ऽथ सहस्रशः
ततः परविव्यथे सेना पाण्डवी भरतर्षभ
दृष्ट्वा दरौणेर महत कर्म वासवस्येव संयुगे
शतेन च शतं हत्वा पाञ्चालानां महारथः
तरिभिश च निशितैर बाणैर हत्वा तरीन वै महारथान
दरौणिर दरुपदपुत्रस्य फल्गुनस्य च पश्यतः
नाशयाम आस पाञ्चालान भूयिष्ठं ये वयवस्थिताः
ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः
अगच्छन दरौणिम उत्सृज्य विप्रकीर्णरथध्वजाः
स जित्वा समरे शत्रून दरॊणपुत्रॊ महारथः
ननाद सुमहानादं तपान्ते जलदॊ यथा
स निहत्य बहूञ शूरान अश्वत्थामा वयरॊचत
युगान्ते सर्वभूतानि भस्मकृत्वेव पावकः
संपूज्यमानॊ युधि कौरवेयैर; विजित्य संख्ये ऽरिगणान सहस्रशः
वयरॊचत दरॊणसुतः परतापवान; यथा सुरेन्द्रॊ ऽरिगणान निहत्य
[स]
ततॊ युधिष्ठिरश चैव भीमसेनश च पाण्डवः
दरॊणपुत्रं महाराज समन्तात पर्यवारयन
ततॊ दुर्यॊधनॊ राजा भारद्वाजेन संवृतः
अभ्ययात पाण्डवान संख्ये ततॊ युद्धम अवर्तत
घॊररूपं महाराज भीरूणां भयवर्धनम
अम्बष्ठान मालवान वङ्गाञ शिबींस तरैगर्तकान अपि
पराहिणॊन मृत्युलॊकाय गणान करुद्धॊ युधिष्ठिरः
अभीषाहाञ शूरसेनान कषत्रियान युद्धदुर्मदान
निकृत्य पृथिवीं चक्रे भीमः शॊणितकर्दमाम
यौधेयारट्ट राजन्यान मद्रकांश च गणान युधि
पराहिणॊन मृत्युलॊकाय किरीटी निशितैः शरैः
परगाढम अञ्जॊ गतिभिर नाराचैर अभिपीडिताः
निपेतुर दविरदा भूमौ दविशृङ्गा इव पर्वताः
निकृत्तैर हस्तिहस्तैश च लुठमानैस ततस ततः
रराज वसुधा कीर्णा विसर्पद्भिर इवॊरगैः
कषिप्तैः कनकचित्रैश च नृपच छत्रैः कषितिर बभौ
दयौर इवादित्य चन्द्राद्यैर गरहैः कीर्णा युगक्षये
हतप्रहरताभीता विध्यत वयवकृन्तत
इत्य आसीत तुमुलः शब्दः शॊणाश्वस्य रथं परति
दरॊणस तु परमक्रुद्धॊ वायव्यास्त्रेण संयुगे
वयधमत तान यथा वायुर मेघान इव दुरत्ययः
ते हन्यमाना दरॊणेन पाञ्चालाः पराद्रवन भयात
पश्यतॊ भीमसेनस्य पार्थस्य च महात्मनः
ततः किरीटी भीमश च सहसा संन्यवर्तताम
महता रथवंशेन परिगृह्य बलं तव
बीभत्सुर दक्षिणं पार्श्वम उत्तरं तु वृकॊदरः
भारद्वाजं शरौघाभ्यां महद्भ्याम अभ्यवर्षताम
तौ तदा सृञ्जयाश चैव पाञ्चालाश च महारथाः
अन्वगच्छन महाराज मत्स्याश च सह सॊमकैः
तथैव तव पुत्रस्य रथॊदाराः परहारिणः
महत्या सेनया सार्धं जग्मुर दरॊण रथं परति
ततः सा भरती सेना वध्यमाना किरीटिना
तमसा निद्रया चैव पुनर एव वयदीर्यत
दरॊणेन वार्यमाणास ते सवयं तव सुतेन च
न शक्यन्ते महाराज यॊधा वारयितुं तदा
सा पाण्डुपुत्रस्य शरैर दार्यमाणा महाचमूः
तमसा संवृते लॊके वयाद्रवत सर्वतॊ मुखी
उत्सृज्य शतशॊ वाहांस तत्र के चिन नराधिपाः
पराद्रवन्त महाराज भयाविष्टाः समन्ततः
[स]
सॊमदत्तं तु संप्रेक्ष्य विधुन्वानं महद धनुः
सात्यकिः पराह यन्तारं सॊमदत्ताय मां वह
न हय अहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम
निवर्तिष्ये रणात सूत सत्यम एतद वचॊ मम
ततः संप्रेषयद यन्ता सैन्धवांस तान महाजवान
तुरङ्गमाञ शङ्खवर्णान सर्वशब्दातिगान रणे
ते ऽवहन युयुधानं तु मनॊमारुतरंहसः
यथेन्द्रं हरयॊ राजन पुरा दैत्यवधॊद्यतम
तम आपतन्तं संप्रेक्ष्य सात्वतं रभसं रणे
सॊमदत्तॊ महाबाहुर असंभ्रान्तॊ ऽभयवर्तत
विमुञ्चञ शरवर्षाणि पर्जन्य इव वृष्टिमान
छादयाम आस शैनेयं जलदॊ भास्करं यथा
असंभ्रान्तश च समरे सात्यकिः कुरुपुंगवम
छादयाम आस बाणौघैः समन्ताद भरतर्षभ
सॊमदत्तस तु तं षष्ट्या विव्याधॊरसि माधवम
सात्यकिश चापि तं राजन्न अविध्यत सायकैः शितैः
ताव अन्यॊन्यं शरिः कृत्तौ वयराजेतां नरर्षभौ
सुपुष्पौ पुष्पसमये पुष्पिताव इव किंशुकौ
रुधिरॊक्षितसर्वाङ्गौ कुरु वृष्णियशः करौ
परस्परम अवेक्षेतां दहन्ताव इव लॊचनौ
रथमण्डल मार्गेषु चरन्ताव अरिमर्दनौ
घॊररूपौ हि ताव आस्तां वृष्किमन्ताव इवाम्बुदौ
शरसंभिन्न गात्रौ तौ सर्वतः शकलीकृतौ
शवाविधाव इव राजेन्द्र वयदृष्येतां शरक्षतौ
सुवर्णपुङ्खैर इषुभिर आचितौ तौ वयरॊचताम
खद्यॊतैर आवृतौ राजन परावृषीव वनस्पती
संप्रदीपित सर्वाङ्गौ सायकैस तौ महारथौ
अदृश्येतां रणे करुद्धाव उल्काभिर इव कुञ्जरौ
ततॊ युधि महाराज सॊमदत्तॊ महारथः
अर्धचन्द्रेण चिच्छेद माधवस्य महद धनुः
अथैनं पञ्चविंशत्या सायकानां समार्पयत
तवरमाणस तवरा काले पुनश च दशभिः शरैः
अथान्यद धनुर आदाय सात्यकिर वेगवत्तरम
पञ्चभिः सायकैस तूर्णं सॊमदत्तम अविध्यत
ततॊ ऽपरेण भल्लेन धवजं चिच्छेद काञ्चनम
बाह्लीकस्य रणे राजन सात्यकिः परहसन्न इव
सॊमदत्तस तव असंभ्रान्तॊ दृष्ट्वा केतुं निपातितम
शैनेयं पञ्चविंशत्या सायकानां समाचिनॊत
सात्वतॊ ऽपि रणे करुद्धः सॊमदत्तस्य धन्विनः
धनुश चिच्छेद समरे कषुरप्रेण शितेन ह
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम
आचिनॊद बहुधा राजन भग्नदंष्ट्रम इव दविपम
अथान्यद धनुर आदाय सॊमदत्तॊ महारथः
सात्यकिं छादयाम आस शरवृष्ट्या महाबलः
सॊमदत्तं तु संक्रुद्धॊ रणे विव्याध सात्यकिः
सात्यकिं चेषु जालेन सॊमदत्तॊ अपीडयत
दशभिः सात्वतस्यार्थे भीमॊ ऽहन बाह्लिकात्मजम
सॊमदत्तॊ ऽपय असंभ्रान्तः शैनेयम अवधीच छरैः
ततस तु सात्वतस्यार्थे भैमसेनिर नवं दृढम
मुमॊच परिघं घॊरं सॊमदत्तस्य वक्षसि
तम आपतन्तं वेगेन परिघं घॊरदर्शनम
दविधा चिच्छेद समरे परहसन्न इव कौरवः
स पपात दविधा छिन्न आयसः परिघॊ महान
महीधरस्येव महच छिखरं वज्रदारितम
ततस तु सात्यकी राजन सॊमदत्तस्य संयुगे
धनुश चिच्छेद भल्लेन हस्तावापं च पञ्चभिः
चतुर्भिस तु शरैस तूर्णं चतुरस तुरगॊत्तमान
समीपं परेषयाम आस परेतराजस्य भारत
सारथेश च शिरः कायाद भल्लेन नतपर्वणा
जहार रथशार्दूलः परहसञ शिनिपुंगवः
ततः शरं महाघॊरं जवलन्तम इव पावकम
मुमॊच सात्वतॊ राजन सवर्णपुङ्खं शिलाशितम
स विमुक्तॊ बलवता शैनेयेन शरॊत्तमः
घॊरस तस्यॊरसि विभॊ निपपाताशु भारत
सॊ ऽतिविद्धॊ बलवता सात्वतेन महारथः
सॊमदत्तॊ महाबाहुर निपपात ममार च
तं दृष्ट्वा निहतं तत्र सॊमदत्तं महारथाः
महता शरवर्षेण युयुधानम उपाद्रवन
छाद्यमानं शरैर दृष्ट्वा युयुधानं युधिष्ठिरः
महत्या सेनया सार्धं दरॊणानीकम उपाद्रवत
ततॊ युधिष्ठिरः करुद्धस तावकानां महाबलम
शरैर विद्रावयाम आस भारद्वाजस्य पश्यतः
सैन्यानि दरावयन्तं तु दरॊणॊ दृष्ट्वा युधिष्ठिरम
अभिदुद्राव वेगेन करॊधसंरक्तलॊचनः
ततः सुनिशितैर बाणैः पार्थं विव्याध सप्तभिः
सॊ ऽतिविद्धॊ महाबाहुः सृक्किणी परिसंलिहन
युधिष्ठिरस्य चिच्छेद धवजं कार्मुकम एव च
स छिन्नधन्वा तवरितस तवरा काले नृपॊत्तमः
अन्यद आदत्त वेगेन कार्मुकं समरे दृढम
ततः शरसहस्रेण दरॊणं विव्याध पार्थिवः
साश्वसूत धवजरथं तद अद्भुतम इवाभवत
ततॊ मुहूर्तं वयथितः शरघात परपीडितः
निषसाद रथॊपस्थे दरॊणॊ भरतसत्तम
परतिलभ्य ततः संज्ञां मुहूर्ताद दविजसत्तमः
करॊधेन महताविष्टॊ वायव्यास्त्रम अवासृजत
असंभ्रान्तस ततः पार्थॊ धनुर आकृष्य वीर्यवान
तद अस्त्रम अस्त्रेण रणे सतम्भयाम आस भारत
ततॊ ऽबरवीद वासुदेवः कुन्तीपुत्रं युधिष्ठिरम
युधिष्ठिर महाबाहॊ यत तवा वक्ष्यामि तच छृणु
उपारमस्व युद्धाय दरॊणाद भरतसत्तम
गृध्यते हि सदा दरॊणॊ गरहणे तव संयुगे
नानुरूपम अहं मन्ये युद्धम अस्य तवया सह
यॊ ऽसय सृष्टॊ विनाशाय स एनं शवॊ हनिष्यति
परिवर्ज्य गुरुं याहि यत्र राजा सुयॊधनः
भीमश च रथशार्दूलॊ युध्यते कौरवैः सह
वासुदेव वचः शरुत्वा धर्मराजॊ युधिष्ठिरः
मुहूर्तं चिन्तयित्वा तु ततॊ दारुणम आहवम
परायाद दरुतम अमित्रघ्नॊ यत्र भीमॊ वयवस्थितः
विनिघ्नंस तावकान यॊधान वयादितास्य इवान्तकः
रथघॊषेण महता नादयन वसुधातलम
पर्जन्य इव घर्मान्ते नादयन वै दिशॊ दश
भीमस्य निघ्नतः शत्रून पार्ष्णिं जग्राह पाण्डवः
दरॊणॊ ऽपि पाण्डुपाञ्चालान वयधमद रजनी मुखे
[स]
वर्तमाने तथा युद्धे घॊररूपे भयावहे
तमसा संवृते लॊके रजसा च महीपते
नापश्यन्त रणे यॊधाः परस्परम अवस्थिताः
अनुमानेन संज्ञाभिर युद्धं तद ववृते महत
नरनागाश्वमथनं परमं लॊमहर्षणम
दरॊणकर्णकृपा वीरा भीमपार्षत सात्यकाः
अन्यॊन्यं कषॊभयाम आसुः सैन्यानि नृपसत्तमः
वध्यमानानि सैन्यानि समन्तात तैर महारथैः
तमसा रजसा चैव समन्ताद विप्रदुद्रुवुः
ते सर्वतॊ विद्रवन्तॊ यॊधा वित्रस्तचेतसः
अहन्यन्त महाराज धावमानाश च संयुगे
महारतः सहस्राणि जघ्नुर अन्यॊन्यम आहवे
अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते
ततः सर्वाणि सैन्यानि सेना गॊपाश च भारत
वयमुह्यन्त रणे तत्र तमसा संवृते सति
[धृ]
तेषां संलॊड्यमानानां पाण्डवैर निहतौजसाम
अन्धे तमसि मग्नानाम आसीक का वॊ मतिस तदा
कथं परकाशस तेषां वा मम सैन्येषु वा पुनः
बभूव लॊके तमसा तथा संजय संवृते
[धृ]
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै
सेना गॊप्तॄन अथादिश्य पुनर वयूहम अकल्पयत
दरॊणः पुरस्ताज जघने तु शल्यस; तथा दरौणिः पार्श्वतः सौबलश च
सवयं तु सर्वाणि बलानि राजन; राजाभ्ययाद गॊपयन वै निशायाम
उवाच सर्वांश च पदातिसंघान; दुर्यॊधनः पार्थिव सान्त्वपूर्वम
उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर जवलितान परदीपान
ते चॊदिताः पार्थिव सत्तमेन; ततः परहृष्टा जगृहुः परदीपान
सा भूय एव धवजिनी विभक्ता; वयरॊचताभिप्रभया निशायाम
महाधनैर आभरणैश च दिव्यैः; शस्त्रैः परदीप्तैर अभिसंपतद्भिः
कषणेन सर्वे विहिताः परदीपा; वयदीपयंश च धवजनीं तद आशु
सर्वास तु सेना वयतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः
परकाश्यमाना ददृशुर निशायां; यथान्तरिक्षे जलदास तडिद्भिः
परकाशितायां तु तथा धवजिन्यां; दरॊणॊ ऽगनिकल्पः परतपन समन्तात
रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली
जाम्बूनदेष्व आभरषेषु चैव; निष्केषु शुद्धेषु शरावरेषु
पीतेषु शस्त्रेषु च पावकस्य; परतिप्रभास तत्र ततॊ बभूवुः
गदाश च शैक्याः परिघाश च शुभ्रा; रथेषु शक्त्यश च विवर्तमानाः
परतिप्रभा रश्मिभिर आजमीढ; पुनः पुनः संजनयन्ति दीप्ताः
छत्राणि बालव्यजनानुषङ्गा; दीप्ता महॊल्काश च तथैव राजन
वयाघूर्णमानाश च सुवर्णमाला; वयायच्छतां तत्र तदा विरेजुः
शस्त्रप्रभाभिश च विराजमानं; दीपप्रभाभिश च तदा बलं तत
परकाशितं चाभरण परभाभिर; भृशं परकाशं नृपते बभूव
पीतानि शस्त्राण्य असृग उक्षितानि; वीरावधूतानि तनु दरुहाणि
दीप्तां परभां पराजनयन्त तत्र; तपात्यये विद्युद इवान्तरिक्षे
परकम्पितानाम अभिघात वेगैर; अभिघ्नतां चापतताम जवेन
वक्त्राण्य अशॊभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि
महावने दाव इव परदीप्ते; यथा परभा भास्करस्यापि नश्येत
तथा तवासीद धवजिनी परदीप्ता; महाभये भारत भीमरूपा
तत संप्रदीप्तं बलम अस्मदीयं; निशाम्य पार्थस तवरितास तथैव
सर्वेषु सैन्येषु पदातिसंघान; अचॊदयंस ते ऽथ चक्रुः परदीपान
गजे गजे सप्त कृताः परदीपा; रथे रथे चैव दश परदीपाः
दवाव अश्वपृष्ठे परिपार्श्वतॊ ऽनये; धवजेषु चान्ये जघनेषु चान्ये
सेनासु सर्वासु च पार्श्वतॊ ऽनये; पश्चात पुरस्ताच च समन्ततश च
मध्ये तथान्ये जवलिताग्निहस्ताः; सेना दवये ऽपि सम नरा विचेरुः
सर्वेषु सैन्येषु पदातिसंघा; वयामिश्रिता हस्तिरथाश्ववृन्दैः
मध्ये तथान्ये जवलिताग्निहस्ता; वयदीपयन पाण्डुसुतस्य सेनाम
तेन परदीप्तेन तथा परदीप्तं; बलं तद आसीद बलवद बलेन
भाः कुर्वता भानुमता गरहेण; दिवाकरेणाग्निर इवाभितप्तः
तयॊः परभाः पृथिवीम अन्तरिक्षं; सर्वा वयतिक्रम्य दिशश च वृद्धाः
तेन परकाशेन भृशं परकाशं; बभूव तेषां तव चैव सैन्यम
तेन परकाशेन दिवं गमेन; संबॊधिता देवगणाश च राजन
गन्धर्वयक्षासुरसिद्धसंघाः; समागमन्न अप्सरसश च सर्वाः
तद देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश च
हतैश च वीरैर दिवम आरुहद्भिर; आयॊधनं दिव्यकल्पं बभूव
रथाश्वनागाकुल दीपदीप्तं; संरब्ध यॊधाहत विद्रुताश्वम
महद बलं वयूढरथाश्वनागं; सुरासुरव्यूह समं बभूव
तच छक्ति संघाकुल चण्डवातं; महारथाभ्रं रथवाजि घॊषम
शस्त्रौघवर्षं रुधिराम्बुधारं; निशि परवृत्तं नरदेव युद्धम
तस्मिन महाग्निप्रतिमॊ महात्मा; संतापयन पाण्डवान विप्रमुख्यः
गभस्तिभिर मध्यगतॊ यथार्कॊ; वर्षात्यये तद्वद अभून नरेन्द्र
[स]
परकाशिते तथा लॊके रजसा च तमॊवृते
समाजग्मुर अथॊ वीराः परस्परवधैषिणः
ते समेत्य रणे राजञ शस्त्रप्रासासि धारिणः
परस्परम उदक्षन्त परस्परकृतागसः
परदीपानां सहस्रैश च दीप्यमानैः समन्ततः
विरराज तदा भूमिर दयौर गरहैर इव भारत
उल्का शतैः परज्वलितै रणभूणिर वयराजत
दह्यमानेव लॊकानाम अभावे वै वसुंधरा
परदीप्यन्त दिशः सर्वाः परदीपैस तैः समन्ततः
वर्षा परदॊषे खद्यॊतैर वृता वृक्षा इवाबभुः
असज्जन्त ततॊ वीरा वीरेष्व एव पृथक पृथक
नागा नागैः समाजग्मुस तुरगाः सह वाजिभिः
रथा रथवरैर एव समाजग्मुर मुदान्विताः
तस्मिन रात्रिमुखे घॊरे पुत्रस्य तव शासनात
ततॊ ऽरजुनॊ महाराज कौरवाणाम अनीकिनीम
वयधमत तवरया युक्तः कषपयन सर्वपार्थिवान
[धृ]
तस्मिन परविष्टे संरब्धे मम पुत्रस्य वाहिनीम
अमृष्यमाणे दुर्धर्षे किं व आसीन मनस तदा
किम अमन्यन्त सैन्यानि परविष्टे शत्रुतापने
दुर्यॊधनश च किं कृत्यं पराप्तकालम अमन्यत
के चैनं समरे वीरं परत्युद्ययुर अरिंदमम
के ऽरक्षन दक्षिणं चक्रं के च दरॊणस्य सव्यतः
के पृष्ठतॊ ऽसय हय अभवन वीरा वीरस्य युध्यतः
के पुरस्ताद अगच्छन्त निघ्नतः शात्रवान रणे
यत पराविशन महेष्वासः पाञ्चालान अपराजितः
नृत्यन्न इव नरव्याघ्रॊ रथमार्गेषु वीर्यवान
ददाह च शरैर दरॊणः पाञ्चालानां रथव्रजान
धूमकेतुर इव करुद्धः स कथं मृत्युम ईयिवान
अव्यग्रान एव हि परान अक्थयस्य अपराजितान
हतांश चैव विषण्णांश च विप्रकीर्णांश च शंससि
रथिनॊ विरथांश चैव कृतान युद्धेषु मामकान
[धृ]
दरॊणस्य मतम आज्ञाय यॊद्धुकामस्य तां निशाम
दुयॊधनॊ महाराज वश्यान भरातॄन अभाषत
विकर्णं चित्रसेनं च महाबाहुं च कौरवम
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः
दरॊणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः
हार्दिक्यॊ दक्षिणं चक्रं शल्यश चैवॊत्तरं तथा
तरिगर्तानां च ये शूरा हतशिष्टा महारथाः
तांश चैव सर्वान पुत्रस ते समचॊदयद अग्रतः
आचार्यॊ हि सुसंयत्तॊ भृशं यत्ताश च पाण्डवाः
तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान रणे
दरॊणॊ हि बलवान युद्धे कषिप्रहस्तः पराक्रमी
निर्जयेत तरिदशान युद्धे किम उ पार्थान स सॊमकान
ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः
दरॊणं रक्षत पाञ्चाल्याद धृष्टद्युम्नान महारथात
पाण्डवेयेषु सैन्येषु यॊधं पश्याम्य अहं न तम
यॊ जयेत रणे दरॊणं धृष्टद्युम्नाद ऋते नृपाः
तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम
स गुप्तः सॊमकान हन्यात सृञ्जयांश च सराजकान
सृञ्जयेष्व अथ सर्वेषु निहतेषु चमूमुखे
धृष्टद्युम्नं रणे दरौणिर नाशयिष्यत्य असंशयम
तथार्जुनं रणे कर्णॊ विजेष्यति महारथः
भीमसेनम अहं चापि युद्धे जेष्यामि दंशितः
सॊ ऽयं मम जयॊ वयक्तं दीर्घकालं भविष्यति
तस्माद रक्षत संग्रामे दरॊणम एव महारथाः
इत्य उक्त्वा भरतश्रेष्ठ पुत्रॊ दुर्यॊधनस तव
वयादिदेश ततः सैन्यं तस्मिंस तमसि दारुणे
ततः परववृते युद्धं रात्रौ तद भरतर्षभ
उभयॊः सेनयॊर घॊरं विजयं परति काङ्क्षिणॊः
अर्जुनः कौरवं सैन्यम अर्जुनं चापि कौरवाः
नानाशस्त्रसमावापैर अन्यॊन्यं पर्यपीडयन
दरौणिः पाञ्चालराजानं भारद्वाजश च सृञ्जयान
धादयाम आसतुः संख्ये शरैः संनतपर्वभिः
पाण्डुपाञ्चाल सेनानां कौरवाणां च मारिष
आसीन निष्टानकॊ घॊरॊ निघ्नताम इतरेतरम
नैवास्माभिर न पूर्वैर नॊ दृष्टं पूर्वं तथाविधम
युद्धं यादृशम एवासीत तां रात्रिं सुमहाभयम
[स]
वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते
सर्वभूतक्षयकरे धर्मपुत्रॊ युधिष्ठिरः
अब्रवीत पाण्डवांश चैव पाञ्चालांश च स सॊमकान
अभ्यद्रवत गच्छध्वं दरॊणम एव जिघांसया
राज्ञस ते वचनाद राजन पाञ्चालाः सॊमकास तथा
दरॊणम एवाभ्यवर्तन्त नदन्तॊ भैरवान रवान
तान वयं परतिगर्जन्तः परत्युद्यातास तव अमर्षिताः
यथाशक्ति यथॊत्साहं यथा सत्त्वं च संयुगे
कृतवर्मा च हार्दिक्यॊ युधिष्ठिरम उपाद्रवत
दरॊणं परति जिघांसन्तं मत्तॊ मत्तम इव दविपम
शैनेयं शरवर्षाणि विकिरन्तं समन्ततः
अभ्ययात कौरवॊ राजन भूरिः संग्राममूर्धनि
सहदेवम अथायान्तं दरॊण परेप्सुं महारथम
कर्णॊ वैकर्तनॊ राजन वारयाम आस पाण्डवम
भीमसेनम अथायान्तं वयादितास्यम इवान्तकम
सवयं दुर्यॊधनॊ युद्धे परतीपं मृत्युम आव्रजत
नकुलं च युधां शरेष्ठं सर्वयुद्धविशारदम
शकुनिः सौबलॊ राजन वारयाम आस स तवरः
शिखण्डिनम अथायान्तं रथेन रथिनां वरम
कृपॊ शारद्वतॊ राजन वारयाम आस संयुगे
परतिविन्ध्यम अथायान्तं मयूरसदृशैर हयैः
दुःशासनॊ महाराज यत्तॊ यत्तम अवारयत
भैमसेनिम अथायान्तं माया शतविशारदम
अश्वत्थामा पितुर मानं कुर्वाणः परत्यषेधयत
दरुपदं वृषसेनस तु स सैन्यं सपदानुगम
वारयाम आस समरे दरॊण परेप्सुं महारथम
विराटं दरुतम आयान्तं दरॊणस्य निधनं परति
मद्रराजः सुसंक्रुद्धॊ वारयाम आस भारत
शतानीकम अथायान्तं नाकुलिं रभसं रणे
चित्रसेनॊ रुरॊधाशु शरैर दरॊण वधेप्सया
अर्जुनं च युधां शरेष्ठं पराद्रवन्तं महारथम
अलम्बुसॊ महाराज राक्षसेन्द्रॊ नयवारयत
तथा दरॊणं महेष्वासं निघ्नन्तं शात्रवान रणे
धृटद्युम्नॊ ऽथ पाञ्चाल्यॊ हृष्टरूपम अवारयत
तथान्यान पाण्डुपुत्राणां समायातान महारथान
तावका रथिनॊ राजन वारयाम आसुर ओजसा
गजारॊहा गजैस तूर्णं संनिपत्य महामृधे
यॊधयन्तः सम दृश्यन्ते शतशॊ ऽथ सहस्रशः
निशीथे तुरगा राजन्न आद्रवन्तः परस्परम
समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः
सादिनः सादिभिः सार्धं परासशक्त्यृष्टिपाणयः
समागच्छन महाराज विनदन्तः पृथक पृथक
नरास तु बहवस तत्र समाजग्मुः परस्परम
गदाभिर मुसलैश चैव नानाशस्त्रैश च संघशः
कृतवर्मा तु हार्दिक्यॊ धर्मपुत्रं युधिष्ठिरम
वारयाम आस संक्रुद्धॊ वेलेवॊद्वृत्तम अर्णवम
युधिष्ठिरस तु हार्दिक्यं विद्ध्वा पञ्चभिर आशुगैः
पुनर विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत
कृतवर्मा तु संक्रुद्धॊ धर्मपुत्रस्य मारिष
धनुश चिच्छेद भल्लेन तं च विव्याध सप्तभिः
अथान्यद धनुर आदाय धर्मपुत्रॊ युधिष्ठिरः
हार्दिक्यं दशभिर बाणैर बाह्वॊर उरसि चार्पयत
माधवस तु रणे विद्धॊ धर्मपुत्रेण मारिष
पराकम्पत च रॊषेण सप्तभिश चार्दयच छरैः
तस्य पार्थॊ धनुश छित्त्वा हस्तावापं निकृत्य च
पराहिणॊन निशितान बाणान पञ्च राजञ शिलाशितान
ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम
पराविशन धरणीम उग्रा वल्मीकम इव पन्नगाः
अक्ष्णॊर निमेष मात्रेण सॊ ऽनयद आदाय कार्मुकम
विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः
तस्य शक्तिम अमेयात्मा पाण्डवॊ भुजगॊपमाम
चिक्षेप भरतश्रेष्ठ रथे नयस्य महद धनुः
सा हेमचित्रा महती पाण्डवेन परवेरिता
निर्भिद्य दक्षिणं बाहुं पराविशद धरणीतलम
एतस्मिन्न एव काले तु गृह्य पार्थः पुनर धनुः
हार्दिक्यं छादयाम आस शरैः संनतपर्वभिः
ततस तु समरे शूरॊ वृष्णीनां परवरॊ रथी
वयश्व सूत रथं चक्रे निमेषार्धाद युधिष्ठिरम
ततस तु पाण्डवॊ जयेष्ठः खड्गचर्म समाददे
तद अस्य निशितैर बाणैर वयधमन माधवॊ रणे
तॊमरं तु ततॊ गृह्य सवर्णदण्डं दुरासदम
परेषयत समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः
तम आपतन्तं सहसा धर्मराज भुजच्युतम
दविधा चिच्छेद हार्दिक्यः कृतहस्तः समयन्न इव
ततः शरशतेनाजौ धर्मपुत्रम अवाकिरत
कवचं चास्य संक्रुद्धः शैरस तीक्ष्णैर अदारयत
हार्दिक्य शरसंछिन्नं कवचं तन महात्मनः
वयशीर्यत रणे राजंस ताराजालम इवाम्बरात
स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः
अपायासीद रणात तूर्णं धर्मपुत्रॊ युधिष्ठिरः
कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम
पुनर दरॊणस्य जुगुपे चक्रम एव महाबलः
[स]
भूरिस तु समरे राजञ शैनेयं रथिनां वरम
आपतन्तम अपासेधत परपानाद इव कुञ्जरम
अथैनं सात्यकिः करुद्धः पञ्चभिर निशितैः शरैः
विव्याध हृदये तूर्णं परास्रवत तस्य शॊणितम
तथैव कौरवॊ युद्धे शैनेयं युद्धदुर्मदम
दशभिर विशिखैस तीक्ष्णैर अविध्यत भुजान्तरे
ताव अन्यॊन्यं महाराज ततक्षाते शरैर भृशम
करॊधसंरक्तनयनौ करॊधाद विस्फार्य कार्मुके
तयॊर आसीन महाराज शस्त्रवृष्टिः सुदारुणा
करुद्धयॊः सायकमुचॊर यमान्तकनिकाशयॊः
ताव अन्यॊन्यं शरै राजन परच्छाद्य समरे सथितौ
मुहूर्तं चैव तद युद्धं समरूपम इवाभवत
ततः करुद्धॊ महाराज शैनेयः परहसन्न इव
धनुश चिच्छेद समरे कौरव्यस्य महात्मनः
अथैनं छिन्नधन्वानं नवभिर निशितैः शरैः
विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत
सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुतापनः
धनुर अन्यत समादाय सात्वतं परत्यविध्यत
स विद्ध्वा सात्वतं बाणैस तरिभिर एव विशां पते
धनुश चिच्छेद भल्लेन सुतीक्ष्णेन हसन्न इव
छिन्नधन्वा महाराज सात्यकिः करॊधमूर्छितः
परजहार महावेगां शक्तिं तस्य महॊरसि
स तु शक्त्या विभिन्नाङ्गॊ निपपात रथॊत्तमात
लॊहिताङ्ग इवाकाशाद दीप्तरश्मिर यदृच्छया
तं तु दृष्ट्वा तहं शूरम अश्वत्थामा महारथः
अभ्यधावत वेगेन शैनेयं परति संयुगे
अभ्यवर्षच छरौघेण मेरुं वृष्ट्या यथाम्बुदः
तम आपतन्तं संरब्धं शैनेयस्य रथं परति
घटॊत्कचॊ ऽबरवीद राजन नादं मुक्त्वा महारथः
तिष्ठ तिष्ठ न मे जीवन दरॊणपुत्र गमिष्यसि
एष तवाद्य हनिष्यामि महिषं सकन्द राड इव
युद्धश्रद्धाम अहं ते ऽदय विनेष्यामि रणाजिरे
इत्य उक्त्वा रॊषताम्राक्षॊ राक्षसः परवीरहा
दरौणिम अभ्यद्रवत करुद्धॊ गजेन्द्रम इव केसरी
रथाक्षमात्रैर इषुभिर अभ्यवर्षद घटॊत्कचः
रथिनाम ऋषभं दरौणिं धाराभिर इव तॊयदः
शरवृष्टिं तु तां पराप्तां शरैर आशीविषॊपमैः
शातयाम आस समरे तरसा दरौणिर उत्स्मयन
ततः शरशतैस तीक्ष्णैर मर्मभेदिभिर आशुगैः
समाचिनॊद राक्षसेन्द्रं घटॊत्कचम अरिंदम
स शरैर आचितस तेन राक्षसॊ रणमूर्धनि
वयकाशत महाराज शवाविच छललितॊ यथा
ततः करॊधसमाविष्टॊ भैमसेनिः परतापवान
शरैर अवचकर्तॊग्रैर दरौणिं वज्राशनिस्वनैः
कषुरप्रैर अर्धचन्द्रैश च नाराचैः स शिलीमुखैः
वराहकर्णैर नालीकैस तीक्ष्णैश चापि विकर्णिभिः
तां शस्त्रवृष्टिम अतुलां वज्राशनिसमस्वनाम
पतन्तीम उपरि करुद्धॊ दरौणिर अव्यथितेन्द्रियः
सुदुःसहां शरैर घॊरैर दिव्यास्त्रप्रतिमन्त्रितैः
वयधमत स महातेजा महाभ्राणीव मारुतः
ततॊ ऽनतरिक्षे बाणानां संग्रामॊ ऽनय इवाभवत
घॊररूपॊ महाराज यॊधानां हर्षवर्धनः
ततॊ ऽसत्रसंघर्ष कृतैर विस्फुलिङ्गैः समन्ततः
बभौ निशामुखे वयॊम खद्यॊतैर इव संवृतम
स मार्गणगणैर दरौणिर दिशः परच्छाद्य सर्वतः
परियार्थं तव पुत्राणां राक्षसं समवाकिरत
ततः परववृते युद्धं दरौणिराक्षसयॊर मृधे
विगाढे रजनीमध्ये शक्र परह्रादयॊर इव
ततॊ घटॊत्कचॊ बाणैर दशभिर दरौणिम आहवे
जघानॊरसि संक्रुद्धः कालज्वलन संनिभैः
स तैर अभ्यायतैर विद्धॊ राक्षसेन महाबलः
चचाल समरे दरौणिर वातनुन्न इव दरुमः
स मॊहम अनुसंप्राप्तॊ धवजयष्टिं समाश्रितः
ततॊ हाहाकृतं सैन्यं तव सर्वं जनाधिप
हतं सम मेनिरे सर्वे तावकास तं विशां पते
तं तु दृष्ट्वा तथावस्थम अश्वत्थामानम आहवे
पाञ्चालाः सृञ्जयाश चैव सिंहनादं परचक्रिरे
परतिलभ्य ततः संज्ञाम अश्वत्थामा महाबलः
धनुः परपीड्य वामेन करेणामित्रकर्शनः
मुमॊचाकर्ण पूर्णेन धनुषा शरम उत्तमम
यमदण्डॊपमं घॊरम उद्दिश्याशु घटॊत्कचम
स भित्त्वा हृदयं तस्य राक्षसस्य शरॊत्तमः
विवेश वसुधाम उग्रः सुपुङ्खः पृथिवीपते
सॊ ऽतिविद्धॊ महाराज रथॊपस्थ उपाविशत
राक्षसेन्द्रः सुबलवान दरौणिना रणमानिना
दृष्ट्वा विमूढं हैडिम्बं सारथिस तं रणाजिरात
दरौणेः सकाशात संभ्रान्तस तव अपनिन्ये तवरान्वितः
तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटॊत्कचम
ननाद सुमहानादं दरॊणपुत्रॊ महाबलः
पूजितस तव पुत्रैश च सर्वयॊधैश च भारत
वपुषा परतिजज्वाल मध्याह्न इव भास्करः
भीमसेनं तु युध्यन्तं भारद्वाज रथं परति
सवयं दुर्यॊधनॊ राजा परत्यविध्यच छितैः शरैः
तं भीमसेनॊ नवभिः शरैर विव्याध मारिष
दुर्यॊधनॊ ऽपि विंशत्या शराणां परत्यविध्यत
तौ सायकैर अवच्छन्नाव अदृश्येतां रणाजिरे
मेघजालसमाच्छन्नौ नभसीवेन्दु भास्करौ
अथ दुर्यॊधनॊ राजा भीमं विव्याध पत्रिभिः
पञ्चभिर भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत
तस्य भीमॊ धनुश छित्त्वा धवजं च नवभिः शरैः
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम
ततॊ दुर्यॊधनः करुद्धॊ भीमसेनस्य मारिष
चिक्षेप स शरान राजन पश्यतां सर्वधन्विनाम
तान निहत्य शरान भीमॊ दुर्यॊधन धनुश्च्युतान
कौरवं पञ्चविंशत्या करुद्रकाणां समार्पयत
दुर्यॊधनस तु संक्रुद्धॊ भीमसेनस्य मारिष
कषुरप्रेण धनुश छित्त्वा दशभिः परत्यविध्यत
अथान्यद धनुर आदाय भीमसेनॊ महाबलः
विव्याध नृपतिं तूर्णं सप्तभिर निशितैः शरैः
तद अप्य अस्य धनुः कषिप्रं चिच्छेद लघुहस्तवत
दवितीयं च तृतीयं च चतुर्थं पञ्चमं तथा
आत्तम आत्तं महाराज भीमस्य धनुर आच्छिनत
तव पुत्रॊ महाराज जितकाशी मदॊत्कटः
स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः
शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम
अप्राप्ताम एव तां शक्तिं तरिधा चिच्छेद कौरवः
पश्यतः सर्वलॊकस्य भीमस्य च महात्मनः
ततॊ भीमॊ महाराज गदां गुर्वीं महाप्रभाम
चिक्षेपाविध्य वेगेन दुर्यॊधन रथं परति
ततः स सहसा वाहांस तव पुत्रस्य संयुगे
सारथिं च गदा गुर्वी ममर्द भरतर्षभ
पुत्रस तु तव राजेन्द्र रथाद धेमपरिष्कृतात
आप्लुतः सहसा यानं नन्दकस्य महात्मनः
ततॊ भीमॊ हतं मत्वा तव पुत्रं महारथम
सिंहनादं महच चक्रे तर्जयन्न इव कौरवान
तावकाः सैनिकाश चापि मेनिरे निहतं नृपम
ततॊ विचुक्रुशुः सर्वे हाहेति च समन्ततः
तेषां तु निनदं शरुत्वा तरस्तानां सर्वयॊद्निनाम
भीमसेनस्य नादं च शरुत्वा राजन महात्मनः
ततॊ युधिष्ठिरॊ राजा हतं मत्वा सुयॊधनम
अभ्यवर्तत वेगेन यत्र पार्थॊ वृकॊदरः
पाञ्चालाः केकया मत्स्याः सृञ्जयाश च विशां पते
सर्वॊद्यॊगेनाभिजग्मुर दरॊणम एव युयुत्सया
तत्रासीत सुमहद युद्धं दरॊणस्याथ परैः सह
घॊरे तमसि मग्नानां निघ्नताम इतरेतरम
[स]
सहदेवम अथायान्तं दरॊण परेप्सुं विशां पते
कर्णॊ वैकर्तनॊ युद्धे वारयाम आस भारत
सहदेवस तु राधेयं विद्ध्वा नवभिर आशुगैः
पुनर विव्याध दशभिर निशितैर नतपर्वभिः
तं कर्णः परतिविव्याध शतेन नतपर्वणाम
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत
ततॊ ऽनयद धनुर आदाय माद्रीपुत्रः परतापवान
कर्णं विव्याध विंशत्या तद अद्भुतम इवाभवत
तस्य कर्णॊ हयान हत्वा शरैः संनतपर्वभिः
सारथिं चास्य भल्लेन दरुतं निन्ये यमक्षयम
विरथः सहदेवस तु खड्गं चर्म समाददे
तद अप्य अस्य शरैः कर्णॊ वयधमत परहसन्न इव
ततॊ गुर्वीं महाघॊरां हेमचित्रां महागदाम
परेषयाम आस समरे वैकर्तन रथं परति
ताम आपतन्तीं सहसा सहदेव परवेरिताम
वयष्टम्भयच छरैः कर्णॊ भूमौ चैनाम अपातयत
गदां विनिहतां दृष्ट्वा सहदेवस तवरान्वितः
शक्तिं चिक्षेप कर्णाय ताम अप्य अस्याच्छिनच छरैः
स संभ्रमस ततस तूर्णम अवप्लुत्य रथॊत्तमात
सहदेवॊ महाराज दृष्ट्वा कर्णं वयवस्थितम
रथचक्रं ततॊ गृह्य मुमॊचाधिरथिं परति
तम आपतन्तं सहसा कालचक्रम इवॊद्यतम
शरैर अनेकसाहस्रैर अछिनत सूतनन्दनः
तस्मिंस तु वितथे चक्रे कृते तेन महात्मना
वार्यमाणश च विशिखैः सहदेवॊ रणं जहौ
तम अभिद्रुत्य राधेयॊ मुहूर्ताद भरतर्षभ
अब्रवीत परहसन वाक्यं सहदेवं विशां पते
मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह
सदृशैर युध्य माद्रेय वचॊ मे मा विशङ्किताः
अथैनं धनुषॊ ऽगरेण तुदन भूयॊ ऽबरवीद वचः
एषॊ ऽरजुनॊ रणे यत्तॊ युध्यते कुरुभिः सह
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे
एवम उक्त्वा तु तं कर्णॊ रथेन रथिनां वरः
परायात पाञ्चाल पाण्डूनां सैन्यानि परहसन्न इव
वधप्राप्तं तु माद्रेयं नावधीत समरे ऽरिहा
कुन्त्याः समृत्वा वचॊ राजन सत्यसंधॊ महारथः
सहदेवस ततॊ राजन विमनाः शरपीडितः
कर्ण वाक्शल्य तप्तश च जीवितान निरविद्यत
आरुरॊह रथं चापि पाञ्चाल्यस्य महात्मन
जनमेजयस्य समरे तवरायुक्तॊ महारथः
विराटं सह सेनं तु दरॊणार्थे दरुतम आगतम
मद्रराजः शरौघेण छादयाम आस धन्विनम
तयॊः समभवद युद्धं समरे दृढधन्विनॊः
यादृशं हय अभवद राजञ जम्भ वासवयॊः पुरा
मद्रराजॊ महाराज विराटं वाहिनीपतिम
आजघ्ने तवरितं तीक्ष्णैः शतेन नतपर्वणाम
परतिविव्याध तं राजा नवभिर निशितैः शरैः
पुनश चैव तरिसप्तत्या भूयश चैव शतेन ह
तस्य मद्राधिपॊ हत्वा चतुरॊ रथवाजिनः
सूतं धवजं च समरे रथॊपस्थाद अपातयत
हताश्वात तु रथात तूर्णम अवप्लुत्य महारथः
तस्थौ विस्फारयंश चापं विमुञ्चंश च शिताञ शरान
शतानीकस ततॊ दृष्ट्वा भरातरं हतवाहनम
रथेनाभ्यपतत तूर्णं सर्वलॊकस्य पश्यतः
शतानीकम अथायान्तं मद्रराजॊ महामृधे
विशिखैर बहुभिर विद्ध्वा ततॊ निन्ये यमक्षयम
तस्मिंस तु निहते वीरे विराटॊ रथसत्तमः
आरुरॊह रथं तूर्णं तम एव धवजमालिनम
ततॊ विस्फार्य नयने करॊधाद दविगुणविक्रमः
मद्रराजरथं तूर्णं छादयाम आस पत्रिभिः
ततॊ मद्राधिपः करुद्धः शतेन नतपर्वणाम
आजघानॊरसि दृढं विराटं वाहिनीपतिम
सॊ ऽतिविद्धॊ महाराज रथॊपस्थ उपाविशत
कश्मलं चाविशत तीव्रं विराटॊ भरतर्षभ
सारथिस तम अपॊवाह समरे शरविक्षतम
ततः सा महती सेना पराद्रवन निशि भारत
वध्यमाना शरशतैः शल्येनाहव शॊभिना
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनंजयौ
परायातां तत्र राजेन्द्र यत्र शल्यॊ वयवस्थितः
तौ तु परत्युद्ययौ राजन राक्षसेन्द्रॊ हय अलम्बुसः
अष्टचक्रसमायुक्तम आस्थाय परवरं रथम
तुरंगम मुखैर युक्तं पिशाचैर घॊरदर्शनैः
लॊहितार्द्र पताकं तं रक्तमाल्यविभूषितम
कार्ष्णायसमयं घॊरम ऋक्षचर्मावृतं महत
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता
धवजेनॊच्छ्रिततुण्डेन गृध्रराजेन राजता
स बभौ राक्षसॊ राजन भिन्नाञ जनचयॊपमः
रुरॊधार्जुनम आयान्तं परभञ्जनम इवाद्रिराट
किरन बाणगणान राजञ शतशॊ ऽरजुनमूर्धनि
अतितीव्रम अभूद युद्धं नरराक्षसयॊर मृधे
दरष्टॄणां परीतिजननं सर्वेषां भरतर्षभ
तम अर्जुनः शतेनैव पत्रिणाम अभ्यताडयत
नवभिश च शितैर बाणैश चिच्छेद धवजम उच्छ्रितम
सारथिं च तरिभिर बाणैस तरिभिर एव तरिवेणुकम
धनुर एकेन चिच्छेद चतुर्भिश चतुरॊ हयान
विरथस्यॊद्यतं खड्गं शरेणास्य दविधाछिनत
अथैनं निशितैर बाणैश चतुर्भिर भरतर्षभ
पार्थॊ ऽरदयद राक्षसेन्द्रं स विद्धः पराद्रवद भयात
तं विजित्यार्जुनस तूर्णं दरॊणान्तिकम उपाययौ
किरञ शरगणान राजन नरवारणवाजिषु
वध्यमाना महाराज पाण्डवेन यशस्विना
सैनिका नयपतन्न उर्व्यां वातनुन्ना इव दरुमाः
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना
संप्राद्रवद बलं सर्वं पुत्राणां ते विशां पते
[स]
शतानीकं शरैस तूर्णं निर्दहन्तं चमूं तव
चित्रसेनस तव सुतॊ वारयाम आस भारत
नाकुलिश चित्रसेनं तु नाराचेनार्दयद भृशम
स च तं परतिविव्याध दशभिर निशितैः शरैः
चित्रसेनॊ महाराज शतानीकं पुनर युधि
नवभिर निशितैर बाणैर आजघान सतनान्तरे
नाकुलिस तस्य विशिखैर वर्म संनतपर्वभिः
गात्रात संच्यावयाम आस तद अद्भुतम इवाभवत
सॊ ऽपेतवर्मा पुत्रस ते विरराज भृशं नृप
उत्सृज्य काले राजेन्द्र निर्मॊकम इव पन्नगः
ततॊ ऽसय निशितैर बाणैर धवजं चिच्छेद नाकुलिः
धनुश चैव महाराज यतमानस्य संयुगे
स छिन्नधन्वा समरे विवर्मा च महारथः
धनुर अन्यन महाराज जग्राहारि विदारणम
ततस तूर्णं चित्रसेनॊ नाकुलिं नवभिः शरैः
विव्याध समरे करुद्धॊ भरतानां महारथः
शतानीकॊ ऽथ संक्रुद्धश चित्रसेनस्य मारिष
जघान चतुरॊ वाहान सारथिं च नरॊत्तमः
अवप्लुत्य रथात तस्माच चित्रसेनॊ महारथः
नाकुलिं पञ्चविंशत्या शराणाम आर्दयद बली
तस्य तत कुर्वतः कर्म नकुलस्य सुतॊ रणे
अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम
स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः
आरुरॊह रथं तूर्णं हार्दिक्यस्य महात्मनः
दरुपदं तु सहानीकं दरॊण परेप्सुं महारथम
वृषसेनॊ ऽभययात तूर्णं किरञ शरशतैर तदा
यज्ञसेनस तु समरे कर्ण पुत्रं महारथम
षष्ट्या शराणां विव्याध बाह्वॊर उरसि चानघ
वृषसेनस तु संक्रुद्धॊ यज्ञसेनं रथे सथितम
बहुभिः सायकैस तीक्ष्णैर आजघान सतनान्तरे
ताव उभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे
वयभ्राजेतां महाराज शवाविधौ शललैर इव
रुक्मपुङ्खैर अजिह्माग्रैः शरैश छिन्नतनुच्छदौ
रुधिरौघपरिक्लिन्नौ वयभ्राजेतां महामृधे
तपनीयनिभौ चित्रौ कल्पवृक्षाव इवाद्भुतौ
किंशुकाव इव चॊत्फुल्लौ वयकाशेतां रणाजिरे
वृषसेनस ततॊ राजन नवभिर दरुपदं शरैः
विद्ध्वा विव्याध सप्तत्या पुनश चान्यैस तरिभिः शरैः
ततः शरसहस्राणि विमुञ्चन विबभौ तदा
कर्ण पुत्रॊ महाराज वर्षमाण इवाम्बुदः
ततस तु दरुपदानीकं शरैश छिन्नतनुच छदम
संप्राद्रवद रणे राजन निशीथे भैरवे सति
परदीपैर हि परित्यक्तैर जवलद्भिस तैः समन्ततः
वयराजत मही राजन वीताभ्रा दयौर इव गरहैः
तथाङ्गदैर निपतितैर वयराजत वसुंधरा
परावृट्काले महाराज विद्युद्भिर इव तॊयदः
ततः कर्णसुत तरस्ताः सॊमका विप्रदुद्रुवुः
यथेन्द्र भयवित्रस्ता दानवास तारका मये
तेनार्द्यमानाः समरे दरवमाणाश च सॊमकाः
वयराजन्त महाराज परदीपैर अवभासिताः
तांस तु निर्जित्य समरे कर्ण पुत्रॊ वयरॊचत
मध्यंदिनम अनुप्राप्तॊ घर्मांशुर इव भारत
तेषु राजसहस्रेषु तावकेषु परेषु च
एक एव जवलंस तस्थौ वृषसेनः परतापवान
स विजित्य रणे शूरान सॊमकानां महारथान
जगाम तवरितस तत्र यत्र राजा युधिष्ठिरः
परतिविन्ध्यम अथ करुद्धं परदहन्तं रणे रिपून
दुःशासनस तव सुतः परत्युद्गच्छन महारथः
तयॊः समागमॊ राजंश चित्ररूपॊ बभूव ह
वयपेतजलदे वयॊम्नि बुध भार्गवयॊर इव
परतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम
दुःशासनस तरिभिर बाणैर ललाटे समविध्यत
सॊ ऽतिविद्धॊ बलवता पुत्रेण तव धन्विना
विरराज महाबाहुः स शृङ्ग इव पर्वतः
दुःशासनं तु समरे परतिविन्ध्यॊ महारथः
नवभिः सायकैर विद्ध्वा पुनर विव्याध सप्तभिः
तत्र भारत पुत्रस ते कृतवान कर्म दुष्करम
परतिविन्ध्य हयान उग्रैः पातयाम आस यच छरैः
सारथिं चास्य भल्लेन धवजं च समपातयत
रथं च शतशॊ राजन वयधमत तस्य धन्विनः
पताकाश च स तूणीरान रश्मीन यॊक्त्राणि चाभिभॊ
चिच्छेद तिलशः करुद्धः शरैः संनतपर्वभिः
विरथः स तु धर्मात्मा धनुष्पाणिर अवस्थितः
अयॊधयत तव सुतं किरञ शरशतान बहून
कषुरप्रेण धनुस तस्य चिच्छेद कृतहस्तवत
अथैनं दशभिर भल्लैश छिन्नधन्वानम आर्दयत
तं दृष्ट्वा विरथं तत्र भारतॊ ऽसय महारथाः
अन्ववर्तन्त वेगेन महत्या सेनया सह
आप्लुतः स ततॊ यानं सुत सॊमस्य भास्वरम
धनुर गृह्य महाराज विव्याध तनयं तव
ततस तु तावकाः सर्वे परिवार्य सुतं तव
अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः
ततः परववृते युद्धं तव तेषां च भारत
निशीथे दारुणे काले यम राष्ट्रविवर्धनम
[स]
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव
अभ्ययात सौबलः करुद्धस तिष्ठ तिष्ठेति चाब्रवीत
कृतवैरॊ तु तौ वीराव अन्यॊन्यवधकाङ्क्षिणौ
शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः
यथैव सौबलः कषिप्रं शरवर्षाणि मुञ्चति
तथैव नकुलॊ राजञ शिक्षां संदर्शयन युधि
ताव उभौ समरे शूरौ शरकण्टकिनौ तदा
वयराजेतां महाराज कण्टकैर इव शाल्मली
सुजिह्मं परेक्षमाणौ च राजन विवृतलॊचनौ
करॊधसंरक्तनयनौ निर्दहन्तौ परस्परम
सयालस तु तव संक्रुद्धॊ माद्रीपुत्रं हसन्न इव
कर्णिनैकेन विव्याध हृदये निशितेन ह
नकुलस तु भृशं विद्धः सयालेन तव धन्विना
निषसाद रथॊपस्थे कश्मलं चैनम आविशत
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम
ननाद शकुनी राजंस तपान्ते जलदॊ यथा
परतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः
अभ्ययात सौबलं भूयॊ वयात्तानन इवान्तकः
संक्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ
पुनश चैव शतेनैव नाराचानां सतनान्तरे
ततॊ ऽसय स शरं चापं मुष्टिदेशे स चिच्छिदे
धवजं च तवरितं छित्त्वा रथाद भूमाव अपातयत
सॊ ऽतिविद्धॊ महाराज रथॊपस्थ उपाविशत
तं विसंज्ञं निपतितं दृष्ट्वा सयालं तवानघ
अपॊवाह रथेनाशु सारथिर धवजिनीमुखात
ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः
निर्जित्य च रणे शत्रून नकुलः शत्रुतापनः
अब्रवीत सारथिं करुद्धॊ दरॊणानीकाय मां वह
तस्य तद वचनं शरुत्वा माद्रीपुत्रस्य धीमतः
परायात तेन रणे राजन्येन दरॊणॊ ऽनवयुध्यत
शिखण्डिनं तु समरे दरॊण परेप्सुं विशां पते
कृपः शारद्वतॊ यत्तः परत्युद्गच्छत सुवेगितः
गौतमं दरुतम आयान्तं दरॊणान्तिकम अरिंदमम
विव्याध नवभिर भल्लैः शिखण्डी परहसन्न इव
तम आचर्यॊ महाराज विद्ध्वा पञ्चभिर आशुगैः
पुनर विव्याध विंशत्या पुत्राणां परियकृत तव
महद युद्धं तयॊर आसीद घॊररूपं विशां पते
यथा देवासुरे युद्धे शम्बरामर राजयॊः
शरजालावृतं वयॊम चक्रतुस तौ महारथौ
परकृत्या घॊररूपं तद आसीद घॊरतरं पुनः
रात्रिश च भरतश्रेष्ठ यॊधानां युद्धशालिनाम
कालरात्रि निभा हय आसीद घॊररूपा भयावहा
शिखण्डी तु महाराज गौतमस्य महद धनुः
अर्धचन्द्रेण चिच्छेद सज्यं स विशिखं तदा
तस्य करुद्धः कृपॊ राजञ शक्तिं चिक्षेप दारुणाम
सवर्णदण्डाम अकुण्ठाग्रां कर्मार परिमार्जिताम
ताम आपतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः
सापतन मेदिनीं दीप्ता भसयन्ती महाप्रभा
अथान्यद धनुर आदाय गौतमॊ रथिनां वरः
पराच्छादयच छितैर बाणैर महाराज शिखण्डिनम
स छाद्यमानः समरे गौतमेन यशस्विना
वयषीदत रथॊपस्थे शिखण्डी रथिनां वरः
सीदन्तं चैनम आलॊक्य कृपः शारद्वतॊ युधि
आजघ्ने बहुभिर बाणैर जिघांसन्न इव भारत
विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम
पाञ्चालाः सॊमकाश चैव परिवव्रुः समन्ततः
तथैव तव पुत्राश च परिवव्रुर दविजॊत्तमम
महत्या सेनया सार्धं ततॊ युद्धम अभूत पुनः
रथानां च रणे राजन्न अन्यॊन्यम अभिधावताम
बभूव तुमुलः शब्दॊ मेघानां नदताम इव
दरवतां सादिनां चैव गजानां च विशां पते
अन्यॊन्यम अभितॊ राजन करूरम आयॊधनं बभौ
पत्तीनां दरवतां चैव पदशब्देन मेदिनी
अकम्पत महाराज भयत्रस्तेव चाङ्गना
रथा रथान समासाद्य परद्रुता वेगवत्तरम
नयगृह्णन बहवॊ राजञ शलभान वायसा इव
तथा गजान परभिन्नांश च सुप्रभिन्ना महागजाः
तस्मिन्न एव पदे यत्ता निगृह्णन्ति सम भारत
सादी सादिनम आसाद्य पदाती च पदातिनम
समासाद्य रणे ऽनयॊन्यं संरब्धा नातिचक्रमुः
धावतां दरवतां चैव पुनरावर्तनाम अपि
बभूव तत्र सैन्यानां शब्दः सुतुमुलॊ निशि
दीप्यमानाः परदीपाश च रथवारणवाजिषु
अदृश्यन्त महाराज महॊल्का इव खाच चयुताः
सा निशा भरतश्रेष्ठ परदीपैर अवभासिता
दिवसप्रतिमा राजन बभूव रणमूर्धनि
आदित्येन यथा वयाप्तं तमॊ लॊके परणश्यति
तथा नष्टं तमॊ घॊरं दीपैर दीप्तैर अलंकृतम
शस्त्राणां कवचानां च मणीनां च महात्मनाम
अन्तर्दधुः परभाः सर्वा दीपैस तैर अवभासिताः
तस्मिन कॊलाहले युद्धे वर्तमाने निशामुखे
अवधीत समरे पुत्रं पिता भरतसत्तम
पुत्रश च पितरं मॊहात सखायं च सखा तथा
संबन्धिनंच संबन्धी सवस्रीयं चापि मातुलः
सवे सवान परे परांश चापि निजघ्नुर इतरेतरम
निर्मर्यादम अभूद युद्धं रात्रौ घॊरं भयावहम
[स]
तस्मिन सुतुमुले युद्धे वर्तमाने भयावहे
धृष्टद्युम्ने महाराज दरॊणम एवाभ्यवर्तत
संमृजानॊ धनुःश्रेष्ठं जयां विकर्षन पुनः पुनः
अभ्यवर्तत दरॊणस्य रथं रुक्मविभूषितम
धृष्टद्युम्नं तदायान्तं दरॊणस्यान्त चिकीर्षया
परिवव्रुर महाराज पाञ्चालाः पाण्डवैः सह
तथा परिवृतं दृष्ट्वा दरॊणम आचार्य सत्तमम
पुत्रास्त ते सर्वतॊ यत्ता ररक्षुर दॊर्णम आहवे
बलार्णवौ ततस तौ तु समेयातां निशामुखे
वातॊद्धूतौ कषुब्धसत्त्वौ भैरवौ सागराव इव
ततॊ दरॊणं महाराज पाञ्चाल्यः पञ्चभिः शरैः
विव्याध हृदये तूर्णं सिंहनादं ननाद च
तं दरॊणं पञ्चविंशत्या विद्ध्वा भारत संयुगे
चिच्छेदान्येन भल्लेन धनुर अस्य महाप्रभम
धृष्टद्युम्नस तु निर्विद्धॊ दरॊणेन भरतर्षभ
उत्ससर्ज धनुस तूर्णं संदश्य दशनच छदम
ततः करुद्धॊ महाराज धृष्टद्युम्नः परतापवान
आददे ऽनयद धनुःश्रेष्ठं दरॊणस्यान्त चिकीर्षया
विकृष्य च धनुश चित्रम आकर्णात परवीरहा
दरॊणस्यान्त करं घॊरं वयसृजत सायकं ततः
स विसृष्टॊ बलवला शरॊ घॊरॊ महामृधे
भासयाम आस तत सैन्यं दिवाकर इवॊदितः
तं दृष्ट्वा तु शरं घॊरं देवगन्धर्वमानवाः
सवस्त्य अस्तु समरे राजन दरॊणायेत्य अब्रुवन वचः
तं तु सायकम अप्राप्तम आचार्यस्य रथं परति
कर्णॊ दवादशधा राजंश चिच्छेद कृतहस्तवत
स छिन्नॊ बहुधा राजन सूतपुत्रेण मारिष
निपपात शरस तूर्णं निकृत्तः कर्ण सायकैः
छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः
धृष्टद्युम्नं रणे कर्णॊ विव्याध दशभिः शरैः
पञ्चभिर दरॊणपुत्रस तु सवयं दरॊणश च सप्तभिः
शल्यश च नवभिर बाणैस तरिभिर दुःशासनस तथा
दुर्यॊधनश च विंशत्या शकुनिश चापि पञ्चभिः
पाञ्चाल्यं तवरिताविध्यन सर्व एव महारथाः
स विद्धः सप्तभिर वीरैर दरॊण तराणार्थम आहवे
सर्वान असंभ्रमाद राजन परत्यविध्यत तरिभिस तरिभिः
दरॊणं दरौणिं च कर्णं च विव्याध तव चात्मजम
ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर मृधे
विव्यधुः पञ्चभिस तूर्णम एकैकॊ रथिनां वरः
दरुमसेनस तु संक्रुद्धॊ राजन विव्याध पत्रिणा
तरिभिश चान्यैः शरैस तूर्णं तिष्ठ तिष्ठेति चाब्रवीत
स तु तं परतिविव्याध तरिभिस तीक्ष्णैर अजिह्मगैः
सवर्णपुङ्खैः शिला धौतैः पराणान्त करणैर युधि
भल्लेनान्येन तु पुनः सुवर्णॊज्ज्वल कुण्डलम
उन्ममाथ शिरः कायाद दरुमसेनस्य वीर्यवान
तच्छिरॊ नयपतद भूमौ संदष्टौष्ठ पुटं रणे
महावातसमुद्धूतं पक्वं तालफलं यथा
तांश च विद्ध्वा पुनर वीरान वीरः सुनिशितैः शरैः
राधेयस्याच्छिनद भल्लैः कार्मुकं चित्रयॊधिनः
न तु तन ममृषे कर्णॊ धनुषश छेदनं तथा
निकर्तनम इवात्युग्रॊ लाङ्गूलस्य यथा हरिः
सॊ ऽनयद धनुः समादाय करॊधरक्तेक्षणः शवसन
अभ्यवर्षच छरौघैस तं धृष्टद्युम्नं महाबलम
दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड रथर्षभाः
पाञ्चाल्य पुत्रं तवरिताः परिवव्रुर जिघांसया
षण्णां यॊधप्रवीराणां तावकानां पुरस्कृतम
मृत्यॊर आस्यम अनुप्राप्तं धृष्टद्युम्नम अमंस्महि
एतस्मिन्न एव काले तु दाशार्हॊ विकिरञ शरान
धृष्टद्युम्नं पराक्रान्तं सात्यकिः परत्यपद्यत
तम आयान्तं महेष्वासं सात्यकिं युद्धदुर्मदम
राधेयॊ दशभिर बाणैः परत्यविध्यद अजिह्मगैः
तं सात्यकिर महाराज विव्याध दशभिः शरैः
पश्यतां सर्ववीराणां मागास तिष्ठेति चाब्रवीत
स सात्यकेस तु बलिनः कर्णस्य च महात्मनः
आसीत समागमॊ घॊरॊ बलिवासवयॊर इव
तरासयंस तलघॊषेण कषत्रियान कषत्रियर्षभः
राजीवलॊचनं कर्णं सात्यकिः परत्यविध्यत
कम्पयन्न इव घॊषेण धनुषॊ वसुधां बली
सूतपुत्रॊ महाराज सात्यकिं परत्ययॊधयत
विपाठ कर्णिनाराचैर वत्स दान्तैः कषुरैर अपि
कर्णः शरशतैश चापि शैनेयं परत्यविध्यत
तथैव युयुधानॊ ऽपि वृष्णीनां परवरॊ रथः
अभ्यवर्षच छरैः कर्णं तद युद्धम अभवत समम
तावकाश च महाराज कर्ण पुत्रश च दंशितः
सात्यकिं विव्यधुस तूर्णं समन्तान निशितैः शरैः
अस्त्रैर अस्त्राणि संवार्य तेषां कर्णस्य चाभिभॊ
अविध्यत सात्यकिः करुद्धॊ वृषसेनं सतनान्तरे
तेन बाणेन निर्विद्धॊ वृषसेनॊ विशां पते
नयपतत स रथे मूढॊ धनुर उत्सृज्य वीर्यवान
ततः कर्णॊ हतं मत्वा वृषसेनं महारथः
पुत्रशॊकाभिसंतप्तः सात्यकिं परत्यपीडयत
पीड्यमानस तु कर्णेन युयुधानॊ महारथः
विव्याध बहुभिः कर्णं तवरमाणः पुनः पुनः
स कर्णं दशभिर विद्ध्वा वृषसेनं च सप्तभिः
स हस्तावाप धनुषी तयॊश चिच्छेद सात्वतः
ताव अन्ये धनुषी सज्ये कृत्वा शत्रुभयं करे
युयुधानम अविध्येतां समन्तान निशितैः शरैः
वर्तमाने तु संग्रामे तस्मिन वीरवरक्षये
अतीव शुश्रुवे राजन गाण्डीवस्य महास्वनः
शरुत्वा तु रथनिर्घॊषं गाण्डीवस्य च निस्वनम
सूतपुत्रॊ ऽबरवीद राजन दुर्यॊधनम इदं वचः
एष सर्वाञ शिबीन हत्वा मुख्यशश च नरर्षभान
पौरवांश च महेष्वासान गाण्डीवनिनदॊ महान
शरूयते रथघॊषश च वासवस्येव नर्दतः
करॊति पाण्डवॊ वयक्तं कर्मौपयिकम आत्मनः
एषा विदीर्यते राजन बहुधा भारती चमूः
विप्रकीर्णान्य अनीकानि नावतिष्ठन्ति कर्हि चित
वातेनेव समुद्धूतम अभ्रजालं विदीर्यते
सव्यसाचिनम आसाद्य भिन्ना नौर इव सागरे
दरवतां यॊधमुख्यानां गाण्डीवप्रेषितैः शरैः
विद्धानां शतशॊ राजञ शरूयते निनदॊ महान
निशीथे राजशार्दूल सतनयित्नॊर इवाम्बरे
हाहाकाररवांश चैव सिंहनादांश च पुष्कलान
शृणु शब्दान बहुविधान अर्जुनस्य रथं परति
अयं मध्ये सथितॊ ऽसमाकं सात्यकिः सात्वताधमः
इह चेल लभ्यते लक्ष्यं कृत्स्नाञ जेष्यामहे परान
एष पाञ्चालराजस्य पुत्रॊ दरॊणेन संगतः
सर्वतः संवृतॊ यॊधै राजन पुरुषसत्तमैः
सात्यकिं यदि हन्यामॊ धृट्ष दयुम्नं च पार्षतम
असंशयं महाराज धरुवॊ नॊ विजयॊ भवेत
सौभद्रवद इमौ वीरौ परिवार्य महारथौ
परयतामॊ महाराज निहन्तुं वृष्णिपार्षतौ
सव्यसाची पुरॊ ऽभयेति दरॊणानीकाय भारत
संसक्तं सात्यकिं जञात्वा बहुभिः कुरुपुंगवैः
तत्र गच्छन्तु बहवः परवरा रथसत्तमाः
यावत पार्थॊ न जानाति सात्यकिं बहुभिर वृतम
ते तवरध्वं यथा शूराः शराणां मॊक्षणे भृशम
यथा तूर्णं वरजत्य एष परलॊकय माधवः
कर्णस्य मतम आज्ञाय पुत्रस ते पराह सौबलम
यथेन्द्रः समरे राजन पराह विष्णुं यशस्विनम
वृतः सहस्रैर दशभिर गजानाम अनिवर्तिनाम
रथैश च दशसाहस्रैर वृतॊ याहि धनंजयम
दुःशासनॊ दुर्विषहः सुबाहुर दुष्प्रधर्षणः
एते तवाम अनुयास्यन्ति पत्तिभिर बहुभिर वृताः
जहि कृष्णौ महावाहॊ धर्मराजं च मातुल
नकुलं सहदेवं च भीमसेनं च भारत
देवानाम इव देवेन्द्रे जयाशा मे तवयि सथिता
जहि मातुलकौन्तेयान असुरान इव पावकिः
एवम उक्तॊ ययौ पार्थान पुत्रेण तव सौबलः
महत्या सेनया सार्धं तव पुत्रैस तथा विभॊ
परियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान
तत्र परववृते युद्धं तावकानां परैः सह
परयाते सौबले राजन पाण्डवानाम अनीकिनीम
बलेन महता युक्तः सूतपुत्रस तु सात्वतम
अभ्ययात तवरितं युद्धे किरञ शरशतान बहून
तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन
महद युद्धं तदासीत तु दरॊणस्य निशि भारत
धृष्टद्युम्नेन शूरेण पाञ्चालैश च महात्मनः
[स]
ततस ते पराद्रवन सर्वे तवरिता युद्धदुर्मदाः
अमृष्यमाणाः संरब्धा युयुधान रथं परति
ते रथैः कल्पितै राजन हेमरूप्य विभूषितैः
सादिभिश च गजैश चैव परिवव्रुः सम सात्वतम
अथैनं कॊष्ठकी कृत्यसर्वतस ते महारथाः
सिंहनादांस तदा चक्रुस तर्जयन्तः सम सात्यकिम
ते ऽभयवर्षञ शरैस तीक्ष्णैः सात्यकिं सत्यविक्रमम
तवरमाणा महावीर्या माधवस्य वधैषिणः
तान दृष्ट्वा पततस तूर्कं शैनेयः परवीहराः
परत्यगृह्णान महाबाहुः परमुञ्चन विशिखान बहून
तत्र वीरॊ महेष्वासः सात्यकिर युद्धदुर्मदः
निचकर्त शिरांस्य उग्रैः शरैः संनतपर्वभिः
हस्तिहस्तान हयग्रीवान बाहून अपि च सायुधान
कषुरप्रैः पातयाम आस तावकानां स माधवः
पतितैश चामरैश चैव शवेतच छत्रैश च भारत
बभूव धरणी पूर्णा नक्षत्रैर दयौर इव परभॊ
तेषां तु युयुधानेन युध्यतां युधि भारत
बभूव तुमुलः शब्दः परेतानाम इव करन्दताम
तेन शब्देन महता पूरितासीद वसुंधरा
रात्रिः समभवच चैव तीव्ररूपा भयावहा
दीर्यमाणं बलं दृष्ट्वा युयुधान शराहतम
शरुत्वा च विपुलं नादं निशीथे लॊमहर्षणम
सुतस तवाब्रवीद राजन सारथिं रथिनां वरः
यत्रैष शब्दस तत्राश्वांश चॊदयेति पुनः पुनः
तेन संचॊद्यमानस तु तत तांस तुरगॊत्तमान
सूतः संचॊदयाम आस युयुधान रथं परथि
ततॊ दुर्यॊधनः करुद्धॊ दृढधन्वा जितक्लमः
शीघ्रहस्तश चित्रयॊधी युयुधानम उपाद्रवत
ततः पूर्णायतॊत्सृष्टैर मांसशॊणितभॊजनैः
दुर्यॊधनं दवादशभिर माधवः पत्यविध्यत
दुर्यॊधनस तेन तथा पूर्वम एवार्दितः शरैः
शैनेयं दशभिर बाणैः परत्यविध्यद अमर्षितः
ततः समभवद युद्धम आकुलं भरतर्षभ
पाञ्चालानां च सर्वेषां भारतानां च दारुणम
शैनेयस तु रणे करुद्धस तव पुत्रं महारथम
सायकानाम अशीत्या तु विव्याधॊरसि भारत
ततॊ ऽसय वाहान समरे शरैर निन्ये यमक्षयम
सारथिं च रथात तूर्णं पातयाम आस पत्रिणा
हताश्वे तु रथे तिष्ठन पुत्रस तव विशां पते
मुमॊच निशितान बाणाञ शैनेयस्य रथं परति
शरान पञ्चाशतस तांस तु शैनेयः कृतहस्तवत
चिच्छेद समरे राजन परेषितांस तनयेन ते
अथापरेण भल्लेन मुष्टिदेशे महद धनुः
चिच्छेद रभसॊ युद्धे तव पुत्रस्य मारिष
विरथॊ विधनुष्कश च सर्वलॊकेश्वरः परभुः
आरुरॊह रथं तूर्णं भास्वरं कृतवर्मणः
दुर्यॊधने परावृत्ते शैनेयस तव वाहिनीम
दरावयाम आस विशिखैर निशा मध्ये विशां पते
शकुनिश चार्जुनं राजन परिवार्य समन्तथ
रथैर अनेकसाहस्रैर गजैश चैव सहस्रशः
तथा हयसहस्रैश च तुमुलं सर्वतॊ ऽकरॊत
ते महास्त्राणि दिव्यानि विकिरन्तॊ ऽरजुनं परति
अर्जुनं यॊधयन्ति सम कषत्रियाः कालचॊदिताः
तान्य अर्जुनः सहस्राणि रथवारणवाजिनाम
परत्यवारयद आयस्तः परकुर्वन विपुलं कषयम
ततस तु समरे शूरः शकुनिः सौबलस तदा
विव्याध निशितैर बाणैर अर्जुनं परहसन्न इव
पुनश चैव शतेनास्य संरुरॊध महारथम
तम अर्जुनस तु विंशत्या विव्याध युधि भारत
अथेतरान महेष्वासांस तरिभिस तरिभिर अविध्यत
संवार्य तान बाणगणैर युधि राजन धनंजयः
अवधीत तावकान यॊधान वज्रपाणिर इवासुरान
भुजैश छिन्नैर महाराज शरीरैश च सहस्रशः
समास्तीर्णा धरा तत्र बभौ पुष्पैर इवाचिताः
स विद्ध्वा शकुनिं भूयः पञ्चभिर नतपर्वभिः
उलूकं तरिभिर आजघ्ने तरिभिर एव महायसैः
तम उलूकस तथा विद्ध्वा वासुदेवम अताडयत
ननाद च महानादं पूरयन वसुधातलम
अर्जुनस तु दरुतं गत्वा शकुनेर धनुर आच्छिनत
निन्ये च चतुरॊ वाहान यमस्य सदनं परति
ततॊ रथाद अवप्लुत्य सौबलॊ भरतर्षभ
उलूकस्य रथं तूर्णम आरुरॊह विशां पते
ताव एकरथम आरूढौ पिता पुत्रौ महारथौ
पार्थं सिषिचतुर बाणैर गिरिं मेघाव इवॊत्थितौ
तौ तु विद्ध्वा महाराज पाण्डवॊ निशितैः शरैः
विद्रावयंस तव चमूं शतशॊ वयधमच छरैः
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः
विच्छिन्नानि तथा राजन बलान्य आसन विशां पते
तद बलं भरतश्रेष्ठ वध्यमानं तथा निशि
परदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम
उत्सृज्य वाहान समरे चॊदयन्तस तथापरे
संभ्रान्ताः पर्यधावन्त तस्मिंस तमसि दारुणे
विजित्य समरे यॊधांस तावकान भरतर्षभ
दध्मतुर मुदितौ शङ्खौ वासुदेवधनंजयौ
धृष्टद्युम्नॊ महाराज दरॊणं विद्ध्वा तरिभिः शरैः
चिच्छेद धनुषस तूर्णं जयां शरेण शितेन ह
तन निधाय धनुर नीडे दरॊणः कषत्रिय मर्दनः
आददे ऽनयद धनुः शूरॊ वेगवत सारवत्तरम
धृष्टद्युम्नं ततॊ दरॊणॊ विद्ध्वा सप्तभिर आशुगैः
सारथिं पञ्चभिर बाणै राजन विव्याध संयुगे
तं निवार्य शरैस तूर्णं धृष्टद्युम्नॊ महारथः
वयधमत कौरवीं सेनां शतशॊ ऽथ सहस्रशः
वध्यमाने बले तस्मिंस तव पुत्रस्य मारिष
परावर्तत नदी घॊरा शॊणितौघतरङ्गिणी
उभयॊः सेनयॊर मध्ये नराश्वद्विपवाहिनी
यथा वैतरणी राजन यम राष्ट्रपुरं परति
दरवयित्वा तु तत सैन्यं धृष्टद्युम्नः परतापवान
अत्यराजत तेजस्वी शक्रॊ देवगणेष्व इव
अथ दध्मुर महाशङ्खान धृष्टद्युम्न शिखण्डिनौ
यमौ च युयुधानश च पाण्डवश च वृकॊदरः
जित्वा रथसहस्राणि तावकानां महारथाः
सिंहनाद रवांश चक्रुः पाण्डवा जितकाशिनः
पश्यतस तव पुत्रस्य कर्णस्य च मदॊत्कटाः
तथा दरॊणस्य शूरस्य दरौणेश चैव विशां पते
[स]
विद्रुतं सवबलं दृष्ट्वा वध्यमानं महात्मभिः
करॊधेन महताविष्टः पुत्रस तव विशां पते
अभ्येत्य सहसा कर्णं दरॊणं च जयतां वरम
अमर्षवशम आपन्नॊ वाक्यज्ञॊ वाक्यम अब्रवीत
भवद्भ्याम इह संग्रामॊ करुद्धाभ्यां संप्रवर्तितः
आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना
निहन्यमानां पाण्डूनां बलेन मम वाहिनीम
भूत्वा तद विजये शक्ताव अशक्ताव इव पश्यतः
यद्य अहं भवतॊस तयाज्यॊ न वाच्यॊ ऽसिं तदैव हि
आवां पाण्डुसुतान संख्ये जेष्याव इति मानदौ
तदैवाहं वचः शरुत्वा भवद्भ्याम अनुसंमतम
कृतवान पाण्डवैः सार्धं वैरं यॊधविनाशनम
यदि नाहं परित्याज्यॊ भवद्भ्यां पुरुषर्षभौ
युध्येताम अनुरूपेण विक्रमेण सुविक्रमौ
वाक परतॊदेन तौ वीरौ परणुन्नौ तनयेन ते
परावर्तयेतां तौ युद्धं घट्टिताव इव पन्नगौ
ततस तौ रथिनां शरेष्ठौ सर्वलॊकधनुर्धरौ
शैनेय परमुखान पार्थान अभिदुद्रुवतू रणे
तथैव सहिताः पार्थाः सवेन सैन्येन संवृताः
अभ्यवर्तन्त तौ वीरौ नर्दन्मानौ मुहुर मुहुः
अथ दरॊणॊ महेष्वासॊ दशभिः शिनिपुंगवम
अविध्यत तवरितं करुद्धः सर्वशस्त्रभृतां वरः
कर्णश च दशभिर बाणैः पुत्रश च तव सप्तभिः
दशभिर वृषसेनश च सौबलश चापि सप्तभिः
एते कौरव संक्रन्दे शैनेयं पर्यवारयन
दृष्ट्वा च समरे दरॊणं निघ्नन्तं पाण्डवीं चमूम
विव्यधुः सॊमकास तूर्णं समन्ताच छरवृष्टिभिः
ततॊ दरॊणॊ ऽहरत पराणान कषत्रियाणां विशां पते
रश्मिभिर भास्करॊ राजंस तमसाम इव भारत
दरॊणेन वध्यमानानां पाञ्चालानां विशां पते
शुश्रुवे तुमुलः शब्दः करॊशताम इतरेतरम
पुत्रान अन्ये पितॄन अन्ये भरातॄन अन्यच मातुलान
भागिनेयान वयस्यांश च तथा संबन्धिबान्धवान
उत्सृज्यॊत्सृज्य गच्छन्ति तवरिता जीवितेप्सवः
अपरे मॊहिता मॊहात तम एवाभिमुखा ययुः
पाण्डवानां रणे यॊधाः परलॊकं तथापरे
सा तथा पाण्डवी सेना वध्यमाना महात्मभिः
निशि संप्राद्रवद राजन्न उत्सृज्यॊल्काः सहस्रशः
पश्यतॊ भीमसेनस्य विजयस्याच्युतस्य च
यमयॊर धर्मपुत्रस्य पार्षतस्य च पश्यतः
तमसा संवृते लॊके न पराज्ञायत किं चन
कौरवाणां परकाशेन दृश्यन्ते तु दरुताः परे
दरवमाणं तु तत सैन्यं दरॊणकर्णौ महारथौ
जघ्नतुः पृष्ठतॊ राजन किरन्तौ सायकान बहून
पाञ्चालेषु परभग्नेषु दीर्यमाणेषु सर्वशः
जनार्दनॊ दीनमनाः परत्यभाषत फल्गुनम
दरॊणकर्णौ महेष्वासाव एतौ पार्षत सात्यकी
पाञ्चालांश चैव सहितौ जघ्नतुः सायकैर भृशम
एतयॊः शरवर्षेण परभग्ना नॊ महारथाः
वार्यमाणापि कौन्तेय पृतना नावतिष्ठते
एताव आवां सर्वसैन्यैर वयूढैः सम्यग उदायुधैः
दरॊणं च सूतपुत्रं च परयतावः परबाधितुम
एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ
उपेक्षितौ बलं करुद्धौ नाशयेतां निशाम इमाम
एष भीमॊ ऽभियात्य उग्रः पुनरावर्त्य वाहिनीम
वृकॊदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः
पुनर एवाब्रवीद राजन हर्षयन्न इव पाण्डवम
एष भीमॊ रणश्लाघी वृतः सॊमक पाण्डवैः
रुषितॊ ऽभयेति वेगेन दरॊणकर्णौ महाबलौ
एतेन सहितॊ युध्य पाञ्चालैश च महारथैः
आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन
ततस तौ पुरुषव्याघ्राव उभौ माधव पाण्डवौ
दरॊणकर्णौ समासाद्य दिष्ठितौ रणमूर्धनि
ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत
ततॊ दरॊणश च कर्णश च परान ममृदतुर युधि
स संप्रहारस तुमुलॊ निशि परत्यभवन महान
यथा सागरयॊ राजंश चन्द्रॊदयविवृद्धयॊः
तत उत्सृज्य पाणिभ्यः परदीपांस तव वाहिनी
युयुधे पाण्डवैः सार्धम उन्मत्तवद अहः कषये
रजसा तमसा चैव संवृते भृशदारुणे
केवलं नामगॊत्रेण परायुध्यन्त जयैषिणः
अश्रूयन्त हि नामानि शराव्यमाणानि पार्थिवैः
परहरद्भिर महाराज सवयंवर इवाहवे
निःशब्दम आसीत सहसा पुनः शब्दॊ महान अभूत
करुद्धानां युध्यमानानां जयतां जीयताम अपि
यत्र यत्र सम दृश्यन्ते परदीपाः कुरुसत्तम
तत्र तत्र सम ते शूरा निपतन्ति पतंगवत
तथा संयुध्यमानानां विगाढाहून महानिशा
पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः
[स]
ततः कर्णॊ रणे दृष्ट्वा पार्षतं परवीरहा
आजघानॊरसि शरैर दशभिर मर्मभेदिभिः
परतिविव्याध तं तूर्णं धृष्टद्युम्नॊ ऽपि मारिष
पञ्चभिः सायकैर हृष्टस तिष्ठ तिष्ठेति चाब्रवीत
ताव अन्यॊन्यं शरैः संख्ये संछाद्य सुमहारथौ
पुनः पूर्णायतॊत्सृष्टैर विव्यधाते परस्परम
ततः पाञ्चाल मुख्यस्य धृष्टद्युम्नस्य संयुगे
सारथिं चतुरश चाश्वान कर्णॊ विव्याध सायकैः
कार्मुकप्रवरं चास्य परचिच्छेद शितैः शरैः
सारथिं चास्य भल्लेन रथनीडाद अपातयत
धृष्टद्युम्नस तु विरथॊ हताश्वॊ हतसारथिः
गृहीत्वा परिघं घॊरं कर्णस्याश्वान अपीपिषत
विद्धश च बहुभिस तेन शरैर आशीविषॊपमैः
ततॊ युधिष्ठिरानीकं पद्भ्याम एवान्ववर्तत
आरुरॊह रथं चापि सहदेवस्य मारिष
कर्णस्यापि रथे वाहान अन्यान सूतॊ नययॊजयत
शङ्खवर्णान महावेगान सैन्धवान साधु वाहिनः
लब्धलक्ष्यस तु राधेयः पाञ्चालानां महारथान
अभ्यपीडयद आयस्तः शरैर मेघ इवाचलान
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः
संप्राद्रवत सुसंत्रस्ता सिंहेनेवार्दिता मृगी
पतितास तुरगेभ्यश च गजेभ्यश च महीतले
रथेभ्यश च नरास तूर्णम अदृश्यन्त ततस ततः
धावमानस्य यॊधस्य कषुरप्रैः स महामृधे
बाहू चिच्छेद वै कर्णः शिरश चैव सकुण्डलम
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते
वाजिपृष्ठ गतस्यापि भूमिष्ठस्य च मारिष
नाज्ञासिषुर धावमाना बहवश च महारथाः
संछिन्नान्य आत्मगात्राणि वाहनानि च संयुगे
ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह
तृणप्रस्पन्दनाच चापि सूतपुत्रं सम मेनिरे
अपि सवं समरे यॊधं धावमानं विचेतसः
कर्णम एवाभ्यमन्यन्त ततॊ भीता दरवन्ति ते
तान्य अनीकानि भग्नानि दरवमाणानि भारत
अभ्यद्रवद दरुतं कर्णः पृष्ठतॊ विकिरञ शरान
अवेक्षमाणास ते ऽनयॊन्यं सुसंमूढा विचेतसः
नाशक्नुवन्न अवस्थातुं काल्यमाना महात्मना
कर्णेनाभ्याहता राजन पाञ्चालाः परमेषुभिः
दरॊणेन च दिशः सर्वा वीक्षमाणाः परदुद्रुवुः
ततॊ युधिष्ठिरॊ राजा सवसैन्यं परेक्ष्य विद्रुतम
अपयाने मतिं कृत्वा फल्गुनं वाक्यम अब्रवीत
पश्य कर्णं महेष्वासं धनुष्पाणिम अवस्थितम
निशीथे दारुणे काले तपन्तम इव भास्करम
कर्ण सायकनुन्नानां करॊशताम एष निस्वनः
अनिशं शरूयते पार्थ तवद्बन्धूनाम अनाथवत
यथा विसृजतश चास्य संदधानस्य चाशुगान
पश्यामि जय विक्रान्तं कषपयिष्यति नॊ धरुवम
यद अत्रानन्तरं कार्यं पराप्तकालं परपश्यसि
कर्णस्य वधसंयुक्तं तत कुरुष्व धनंजय
एवम उक्तॊ महाबाहुः पार्थः कृष्णम अथाब्रवीत
भीतः कुन्तीसुतॊ राजा राधेयस्यातिविक्रमात
एवंगते पराप्तकालं कर्णानीके पुनः पुनः
भवान वयवस्यतां कषिप्रं दरवते हि वरूथिनी
दरॊण सायकनुन्नानां भग्नानां मधुसूदन
कर्णेन तरास्यमानानाम अवस्थानं न विद्यते
पश्यामि च तथा कर्णं विचरन्तम अभीतवत
दरवमाणान रथॊदारान किरन्तं विशिखैः शितैः
नैतद अस्यॊत्सहे सॊढुं चरितं रणमूर्धनि
परत्यक्षं वृष्णिशार्दूल पादस्पर्शम इवॊरगः
स भवान अत्र यात्वाशु यत्र कर्णॊ महारथः
अहम एनं वधिष्यामि मां वैष मधुसूदन
[वासु]
पश्यामि कर्णं कौन्तेय देवराजम इवाहवे
विचरन्तं नरव्याघ्रम अतिमानुष विक्रमम
नैतस्यान्यॊ ऽसमि समरे परत्युद्यात धनंजय
ऋते तवां पुरुषव्याघ्र राक्षसाद वा घटॊत्कचात
न तु तावद अहं मन्ये पराप्तकालं तवानघ
समागमं महाबाहॊ सूतपुत्रेण संयुगे
दीप्यमाना महॊल्केव तिष्ठत्य अस्य हि वासवी
तवदर्थं हि महाबाहॊ रौद्ररूपं बिभर्ति च
घटॊत्कचस तु राधेयं परत्युद्यातु महाबलः
स हि भीमेन बलिना जातः सुरपराक्रमः
तस्मिन्न अस्त्राणि दिव्यानि राक्षसान्य असुराणि च
सततं चानुरक्तॊ वॊ हितैषी च घटॊत्कचः
विजेष्यति रणे कर्णम इति मे नात्र संशयः
[वासु]
एवम उक्त्वा महाबाहुः पार्थं पुष्कर लॊचनः
आजुहावाथ तद रक्षस तच चासीत परादुर अग्रतः
कवची स शरी खड्गी सधन्वा च विशां पते
अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम
अब्रवीत तं तदा हृष्टस तव अयम अस्म्य अनुशाधि माम
ततस तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम
अभ्यभाषत हैडिम्बं दाशार्हः परहसन्न इव
घटॊत्कच विजानीहि यत तवां वक्ष्यामि पुत्रक
पराप्तॊ विक्रमकालॊ ऽयं तव नान्यस्य कस्य चित
स भवान मज्जमानानां बन्धूनां तवं पलवॊ यथा
विविधानि तवास्त्राणि सन्ति माया च राक्षसी
पश्य कर्णेन हैडिम्ब पाण्डवानाम अनीकिनी
काल्यमाना यथा गावः पालेन रणमूर्धनि
एष कर्णॊ महेष्वासॊ मतिमान दृढविक्रमः
पाण्डवानाम अनीकेषु निहन्ति कषत्रियर्षभान
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः
न शक्नुवन्त्य अवस्थातुं पीड्यमानाः शरार्चिषा
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः
एते दरवन्ति पाञ्चालाः सिंहस्येव भयान मृगाः
एतस्यैवं परवृद्धस्य सूतपुत्रस्य संयुगे
निषेद्धा विद्यते नान्यस तवदृते भीमविक्रम
स तवं कुरु महाबाहॊ कर्म युक्तम इहात्मनः
मातुलानां पितॄणां च तेजसॊ ऽसत्रबलस्य च
एतदर्थं हि हैडिम्ब पुत्रान इच्छन्ति मानवाः
कथं नस तारयेद दुःखात स तवं तारय बान्धवान
तव हय अस्त्रबलं भीमं मायाश च तव दुस्तराः
संग्रामे युध्यमानस्य सततं भीमनन्दन
पाण्डवानां परभग्नानां कर्णेन शितसायकैः
मज्जतां धार्तराष्ट्रेषु भव पारं परंतप
रात्रौ हि राक्षसा भूयॊ भवन्त्य अमितविक्रमाः
बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः
जहि कर्णं महेष्वासं निशीथे मायया रणे
पार्था दरॊणं वधिष्यन्ति धृष्टद्युम्नपुरॊगमाः
केशवस्य वचः शरुत्वा बीभत्सुर अपि राक्षसम
अभ्यभाषत कौरव्य घटॊत्कचम अरिंदमम
घटॊत्कच भवांश चैव दीर्घबाहुश च सात्यकिः
मतौ मे सर्वसैन्येषु भीमसेनश च पाण्डवः
स भवान यातु कर्णेन दवैरथं युध्यतां निशि
सात्यकिः पृष्ठगॊपस ते भविष्यति महारथः
जहि कर्णं रणे शूरं सात्वतेन सहायवान
यथेन्द्रस तारकं पूर्वं सकन्देन सह जघ्निवान
[घ]
अलम एवास्मि कर्णाय दरॊणायालं च सत्तम
अन्येषां कषत्रियाणां च कृतास्त्राणां महात्मनाम
अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि
यं जनाः संप्रवक्ष्यन्ति यावद भूमिर धरिष्यति
न चात्र शूरान मॊक्ष्यामि न भीतान न कृताञ्जलीन
सर्वाम एव वधिष्यामि राक्षसं धर्मम आस्थितः
[घ]
एवम उक्त्वा महाबाहुर हैडिम्बः परवीरहा
अभ्ययात तुमुले कर्णं तव सैन्यं विभीषयन
तम आपतन्तं संक्रुद्धं दीप्तास्यम इव पन्नगम
अभ्यस्यन परमेष्वासः परतिजग्राह सूतजः
तयॊः समभवद युद्धं कर्ण राक्षसयॊर निशि
गर्जतॊ राजशार्दूल शक्र परह्रादयॊर इव
[स]
दृष्ट्वा घटॊत्कचं राजन सूतपुत्र रथं परति
परयान्तं तवयरा युक्तं जिघांसुं कर्णम आहवे
अब्रवीत तव पुत्रस तु दुःशासनम इदं वचः
एतद रक्षॊरणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम
अभियाति दरुतं कर्णं तद वारय महारथम
वृतः सैन्येन महता याहि यत्र महाबलः
कर्णॊ वैकर्तनॊ युद्धे राक्षसेन युयुत्सति
रक्ष कर्णं रणे यत्तॊ वृतः सैन्येन मानद
एतस्मिन्न अन्तरे राजञ जटासुरसुतॊ बली
दुर्यॊधनम उपागम्य पराह परहरतां वरः
दुर्यॊधन तवामित्रान परख्यातान युद्धदुर्मदान
पाण्डवान हन्तुम इच्छामि तवयाज्ञप्तः सहानुगान
जटासुरॊ मम पिता रक्षसाम अग्रणीः पुरा
परयुज्य कर्म रक्षॊघ्नं कषुद्रैः पार्थैर निपातितः
तस्यापचितिम इच्छामि तवद दिष्टॊ गन्तुम ईश्वर
तम अब्रवीत ततॊ राजा परीयमाणः पुनः पुनः
दरॊणकर्णादिभिः सार्धं पर्याप्तॊ ऽहं दविषद वधे
तवं तु गच्छ मयाज्ञप्तॊ जहि युद्धं घटॊक्तचम
तथेत्य उक्त्वा महाकायः समाहूय घटॊत्कचम
जटासुरिर भैमसेनिं नाना शस्तैर अवाकिरत
अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम
हैडिम्बः परममाथैकॊ महावातॊ ऽमबुदान इव
ततॊ मायामयं दृष्ट्वा रथं तूर्णम अलम्बलः
घटॊत्कचं शरव्रातैर नाना लिङ्गैः समार्दयत
विद्ध्वा च बहुभिर बाणैर भैमसेनिम अलम्बलः
वयद्रावयच छरव्रातैः पाण्डवानाम अनीकिनीम
तेन विद्राव्यमाणानि पाणु सैन्यानि मारिष
निशीथे विप्रकीर्यन्ते वातनुन्ना घना इव
घटॊत्कच शरैर नुन्ना तथैव कुरु वाहिनी
निशीथे पराद्रवद राजन्न उत्सृज्यॊल्काः सहस्रशः
अलम्बलस ततः करुद्धॊ भैमसेनिं महामृधे
आजघ्ने निशितैर बाणैस तॊत्त्रैर इव महाद्विपम
तिलशस तस्य तद यानं सूतं सर्वायुधानि च
घटॊत्कचः परचिच्छेद पराणदच चातिदारुणम
ततः कर्णं शरव्रातैः कुरून अन्यान सहस्रशः
अलम्बलं चाभ्यवर्षन मेघॊमेरुम इवाचलम
ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम
उपर्य उपरि चान्यॊन्यं चतुरङ्गं ममर्द ह
जटासुरिर महाराज विरथॊ हतसारथिः
घटॊत्कचं रणे करुद्धॊ मुष्टिनाभ्यहनद दृढम
मुष्टिनाभिहतस तेन परचचाल घटॊत्कचः
कषितिकम्पे यथा शैलः स वृक्षगणगुल्मवान
ततः स परिघाभेन दविट संघघ्नेन बाहुना
जटासुरिं भैमसेनिर अवधीन मुष्टिना भृशम
तं परमथ्य तथ करुद्धस तूर्णं हैडिम्बिर आक्षिपत
दॊर्भ्याम इन्द्रध्वजाहाभ्यां निष्पिपेष महीतले
अलम्बलॊ ऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम
घटॊत्कचं रणे रॊषान निष्पिपेष महीतले
तयॊः समभवद युद्धं गर्जतॊर अतिकाययॊः
घटॊत्कचालम्बलयॊस तुमुलं लॊमहर्षणम
विशेषयन्ताव अन्यॊन्यं मायाभिर अतिमायिनौ
युयुधाते महावीर्याव इन्द्र वैरॊचनाव इव
पावकाम्बुनिधी भूत्वा पुनर गरुड तक्षकौ
पुनर मेघमहावातौ पुनर वज्रमहाचलौ
पुनः कुञ्जरशार्दूलौ पुनः सवर्भानु भास्करौ
एवं माया शतसृजाव अन्यॊन्यवधकाङ्क्षिणौ
भृशं चित्रम अयुध्येताम अलम्बल घटॊत्कचौ
परिघैश च गदाभिश च परासमुद्गर पट्टिशैः
मुसलैः परताग्रैश च ताव अन्यॊन्यं निजघ्नतुः
हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः
युयुधाते महामायौ राक्षस परवरौ युधि
ततॊ घटॊत्कचौ राजन्न अलम्बल वधेप्सया
उत्पपात भृशं करुद्धः शयेनवन निपपात ह
गृहीत्वा च महाकायं राक्षसेन्द्रम अलम्बलम
उद्यम्य नयवधीद भूमौ मयं विष्णुर इवाहवे
ततॊ घटॊत्कचः खड्गम उद्गृह्याद्भुत दर्शनम
चकर्त कायाद धि शिरॊ भीमं विकृतदर्शनम
तच्छिरॊ रुधिराभ्यक्तं गृह्य केशेषु राक्षसः
घटॊत्कचॊ ययाव आशु दुर्यॊधन रथं परति
अभ्येत्य च महाबाहुः समयमानः स राक्षसः
रथे ऽसय निक्षिप्य शिरॊ विकृताननमूर्धजम
पराणदद भैरवं नादं परावृषीव बलाहकः
अब्रवीच च ततॊ राजन दुर्यॊधनम इदं वचः
एष ते निहतॊ बन्धुस तवया दृष्टॊ ऽसय विक्रमः
पुनर दरष्टासि कर्णस्य निष्ठाम एतां तथात्मनः
एवम उक्त्वा ततः परायात कर्णं परति जनेश्वर
किरञ शरशतांस तीक्ष्णान विमुञ्चन कर्ण मूर्धनि
ततः समभवद युद्धं घॊररूपं भयानकम
विस्मापनं महाराज नरराक्षसयॊर मृधे
[धृ]
यत्र वैकर्तनः कर्णॊ राक्षसश च घटॊत्कचः
निशीथे समसज्जेतां तद युद्धम अभवत कथम
कीदृशं चाभवद युद्धं तस्य घॊरस्य रक्षसः
रथश च कीदृशस तस्य मायाः सर्वायुधानि च
किंप्रमाणा हयास तस्य रथकेतुर धनुस तथा
कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम
पृष्ठस तवम एतद आचक्ष्व कुशलॊ हय असिसंजय
[घ]
लॊहिताक्षॊ महाकायस ताम्रास्यॊ निम्नितॊदरः
ऊर्ध्वरॊमा हरि शमश्रुः शङ्कुकर्णॊ महाहनुः
आकर्णाद दारितास्यश च तीक्ष्णदंष्ट्रः करालवान
सुदीर्घ ताम्रजिह्वौष्ठॊ लम्बभ्रूः सथूलनासिकः
नीलाङ्गॊ लॊहितग्रीवॊ निरि वर्ष्मा भयंकरः
महाकायॊ महाबाहुर महाशीर्षॊ महाबलः
विकचः परुषस्पर्शॊ विकटॊद्बद्ध पिण्डिकः
सथूलस्फिग गूढनाभिश च शिथिलॊपचयॊ महान
तथैव हस्ताभरणी महामायॊ ऽङगदी तथा
उरसा धारयन निष्कम अग्निमालां यथाचलः
तस्य हेममयं चित्रं बहुरूपाङ्गशॊभितम
तॊरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्य अशॊभत
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम
धारयन विपुलं कांस्यं कवचं च महाप्रभम
किङ्किणीशतनिर्घॊषं रक्तध्वजपताकिनम
ऋक्षचर्मावनद्धाङ्गं नल्व मात्रं महारथम
सर्वायुधवरॊपेतम आस्थितॊ धवजमालिनम
अष्टचक्रसमायुक्तं मेघगम्भीर निस्वनम
तत्र मातङ्गसंकाशा लॊहिताक्षा विभीषणाः
कामवर्णजवा युक्ता बलवन्तॊ ऽवहन हयाः
राक्षसॊ ऽसय विरूपाक्षः सूतॊ दीप्तास्य कुण्डलः
रश्मिभिः सूर्यरश्म्य आभैः संजग्राह हयान रणे
स तेन सहितस तस्थाव अरुणेन यथा रविः
संसक्त इव चाभ्रेण यथाद्रिर महता महान
दिवस्पृक सुमहान केतुः सयन्दने ऽसय समुच्छ्रितः
रथॊत्तमाग्नः करव्यादॊ गृध्रः परमभीषणः
वासवाशनि निर्घॊषं दृढज्यम अभिविक्षिपन
वयक्तं किष्कु परीणाहं दवादशारत्नि कार्मुकम
रथाक्षमात्रैर इषुभिः सर्वाः परच्छादयन दिशः
तस्यां वीरापहारिण्यां निशायां कर्णम अभ्ययात
तस्य विक्षिपतश चापं रथे विष्टभ्य तिष्ठतः
अश्रूयत धनुर घॊषॊ विस्फूर्जितम इवाशनेः
तेन वित्रास्यमानानि तव सैन्यानि भारत
समकम्पन्त सर्वाणि सिन्धॊर इव महॊर्मयः
तम आपतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम
उत्स्मयन्न इव राधेयस तवरमाणॊ ऽभयवारयत
ततः कर्णॊ ऽभययाद एनम अस्यन्न अस्यन्तम अन्तिकात
मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम
स संनिपातस तुमुलस तयॊर आसीद विशां पते
कर्ण राक्षसयॊ राजन्न इन्द्र शम्बरयॊर इव
तौ परगृह्य महावेगे धनुषी भीमनिस्वने
पराच्छादयेताम अन्यॊन्यं तक्षमाणौ महेषुभिः
ततः पूर्णायतॊत्सृष्टैः शरैः संनतपर्वभिः
नयवारयेताम अन्यॊन्यं कांस्ये निर्भिद्य वर्मणी
तौ नखैर इव शार्दूलौ दन्तैर इव महाद्विपौ
रथशक्तिभिर अन्यॊन्यं विशिखैश च ततक्षतुः
संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान
धक्ष्यमाणौ शरव्रातैर नॊदीक्षितुम अशक्नुताम
तौ तु विक्षत सर्वाग्नौ रुधिरौघपरिप्लुतौ
वयभ्राजेतां यथा वारि परस्रुतौ गौरिकाचलौ
तौ शराग्र विभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम
नाकम्पयेताम अन्यॊन्यं यतमानौ महाद्युती
तत परवृत्तं निशायुद्धं चरं समम इवाभवत
पराणयॊर दीव्यतॊ राजन कर्ण राक्षसयॊर मृधे
तस्य संदधतस तीक्ष्णाञ शरांश चासक्तम अस्यतः
धनुर घॊषेण वित्रस्ताः सवे परे च तदाभवन
घटॊत्कचं यदा कर्णॊ विशेषयति नॊ नृप
ततः परादुष्करॊद दिव्यम अस्त्रम अस्त्रविदां वरः
कर्णेन विहितं दृष्ट्वा दिव्यम अस्त्रं घटॊत्कचः
परादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः
शूलम उद्गर धारिण्या शैलपादप हस्तया
रक्षसां घॊररूपाणां महत्या सेनया वृतः
तम उद्यतमहाचापं दृष्ट्वा ते वयथिता नृपाः
भूतान्तकम इवायान्तं कालदण्डॊग्र धारिणम
घटॊत्कच परमुक्तेन सिंहनादेन भीषिताः
परसुस्रुवुर गजा मूत्रं विव्यथुश च नरा भृशम
ततॊ ऽशमवृष्टिर अत्युग्रा महत्य आसीत समन्ततः
अर्धरात्रे ऽधिकबलैर विमुक्ता रक्षसां बलैः
आयसानि च चक्राणि भुशुण्ड्यः शक्तितॊमराः
पतन्त्य अविरलाः शूलाः शतध्न्यः पट्टिशास तथा
तद उग्रम अतिरौद्रं च दृट्वा युद्धं नराधिपाः
पुत्राश च तव यॊधाश च वयथिता विप्रदुद्रुवुः
तत्रैकॊ ऽसत्रबलश्लाघी कर्णॊ मानी न विव्यथे
वयधमच च शरैर मायां घटॊत्कच विनिर्मिताम
मायायां तु परहीणायाम अमर्षात स घटॊत्कचः
विससर्ज शरान घॊरान सूतपुत्रं त आविशन
ततस ते रुधिराभक्ता भित्त्वा कर्णं महाहवे
विविशुर धरणीं बाणाः संक्रुद्धा इव पन्नगाः
सूतपुत्रस तुसंक्रुद्धॊ लघुहस्तः परतापवान
घटॊत्कचम अतिक्रम्य बिभेद दशभिः शरैः
घटॊत्कचॊ विनिर्भिन्नः सूतपुत्रेण मर्मसु
चक्रं दिव्यं सहस्रारम अगृह्णाद वयथितॊ भृशम
कषुरान्तम बालसूर्याभं मणिरत्नविभूषितम
चिक्षेपाधिरथेः करुद्धॊ भैम सेनिर जिघंसया
परविद्धम अतिवेगेन विक्षिप्तं कर्ण सायकैः
अभाग्यस्येव संकल्पस तन मॊघम अपतद भुवि
घटॊत्कचस तु संक्रुद्धॊ दृष्ट्वा चक्रं निपातितम
कर्णं पराच्छादयद बाणैः सवर्भानुर इव भास्करम
सूतपुत्रस तव असंभ्रान्तॊ रुद्रॊपेन्द्रेन्द्र विक्रमः
घटॊत्कच रथं तूर्णं छादयाम आस पत्रिभिः
घटॊत्कचेन करुद्धेन गदा हेमाङ्गदा तदा
कषिप्ता भराम्य शरैः सापि कर्णेनाभ्याहतापतत
ततॊ ऽनतरिक्षम उत्पत्य कालमेघ इवॊन्नदन
परववर्ष महाकायॊ दरुमवर्षं नभस्तलात
ततॊ मायाविनं कर्णॊ भीमसेन सुतं दिवि
मार्गणैर अभिविव्याध धनं सूर्य इवांशुभिः
तस्य सर्वान हयान हत्वा संछिद्य शतधा रथम
अभ्यवर्षच छरैः कर्णः पर्जन्य इव वृष्टिमान
न चास्यासीद अनिर्भिन्नं गात्रे दव्यङ्गुलम अन्तरम
सॊ ऽदृश्यत मुहूर्तेन शवाविच छललितॊ यथा
न हयान न रथं तस्य न धवजं न घटॊत्कचम
दृष्टवन्तः सम समरे शरौघैर अभिसंवृतम
स तु कर्णस्य तद दिव्यम अस्त्रम अस्त्रेण शातयन
मायायुद्धेन मायावी सूतपुत्रम अयॊधयत
सॊ ऽयॊधयत तदा कर्णं मायया लाघवेन च
अलक्ष्यमाणॊ ऽथ दिवि शरजालेषु संपतन
भैमसेनिर महामायॊ मायया कुरुसत्तम
परचकार महामायां मॊहयन्न इव भारत
स सम कृत्वा विरूपाणि वदनान्य अशुभाननः
अग्रसत सूतपुत्रस्य दिव्यान्य अस्त्राणि मायया
पुनश चापि महाकायः संछिन्नः शतधा रणे
गतसत्त्वॊ निरुत्साहः पतितः खाद वयदृश्यत
हतं तं मन्यमानाः सम पराणदन कुरुपुंगवः
अथ देहैर नवैर अन्यैर दिक्षु सर्वास्व अदृश्यत
पुनश चापि महाकायः शतशीर्षः शतॊदरः
वयदृश्यत महाबाहुर मैनाक इव पर्वतः
अङ्गुष्ठ मात्रॊ भूत्वा च पुनर एव स राक्षसः
सागरॊर्मिर इवॊद्धूतस तिर्यग ऊर्ध्वम अवर्तत
वसुधां दारयित्वा च पुनर अप्सु नयमज्जत
अदृश्यत तदा तत्र पुनर उन्मज्जितॊ ऽनयतः
सॊ ऽवतीर्य पुनस तस्थौ रथे हेमपरिष्कृते
कषितिं दयां च दिशश चैव माययावृत्य दंशितः
गत्वा कर्ण रथाभ्याशं विचलत कुण्डलाननः
पराह वाक्यम असंभ्रान्तः सूतपुत्रं विशां पते
तिष्ठेदानीं न मे जीवन सूतपुत्र गमिष्यसि
युद्धश्रद्धाम अहं ते ऽदय विनेष्यामि रणाजिरे
इत्य उक्त्वा रॊषताम्राक्षं रक्षः करूरपराक्रमम
उत्पपातान्तरिक्षं च जहास च सुविस्वरम
कर्णम अभ्याहनच चैव गजेन्द्रम इव केसरी
रथाक्षमात्रैर इषुभिर अभ्यवर्षद घटॊत्कचः
रथिनाम ऋषभं कर्णं धाराभिर इव तॊयदः
शरवृष्टिं च तां कर्णॊ दूरप्राप्ताम अशातयत
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ
घटॊत्कचस ततॊ मायां ससर्जान्तर्हितः पुनः
सॊ ऽभवद गिरिर इत्य उच्चः शिखरैस तरुसंकटैः
शूलप्रासासि मुसलजलप्रस्रवणॊ महान
तम अञ्जन चयप्रख्यं कर्णॊ दृष्ट्वा महीधरम
परपातैर आयुधान्य उग्राण्य उद्वहन्तं न चुक्षुभे
समयन्न इव ततः कर्णॊ दिव्यम अस्त्रम उदीरयत
ततः सॊ ऽसत्रेण शैलेन्द्रॊ विक्षिप्तॊ वै वयनश्यत
ततः स तॊयदॊ भूत्वा नीलः सेन्द्रायुधॊ दिवि
अश्मवृष्टिभिर अत्युग्रः सूतपुत्रम अवाकिरत
अथ संधाय वायव्यम अस्त्रम अस्त्रविदां वरः
वयधमत कालमेघं तं कर्णॊ वैकर्तनॊ वृषा
स मार्गणगणैः कर्णॊ दिशः परच्छाद्य सर्वशः
जघानास्त्रं महाराज घटॊत्कच समीरितम
ततः परहस्य समरे भैमसेनिर महाबलः
परादुश्चक्रे महामायां कर्णं परति महारथम
स दृष्ट्वा पुनर आयान्तं रथेन रथिनां वरम
घटॊत्कचम असंभ्रान्तं राक्षसैर बहुभिर वृतम
सिंहशार्दूलसदृशैर मत्तद्विरदविक्रमैः
गजस्थैश च रथस्थैश च वाजिपृष्ठ गतैस तथा
नानाशस्त्रधरैर घॊरैर नाना कवचभूषणैः
वृतं घटॊत्कचं करूरैर मरुद्भिर इव वासवम
दृष्ट्वा कर्णॊ महेष्वासॊ यॊधयाम आस राक्षसम
घटॊत्कचस ततः कर्णं विद्ध्वा पञ्चभिर आशुगैः
ननाद भैरवं नादं भीषयन सर्वपार्थिवान
भूयश चाञ्जलिकेनाथ स मार्गणगणं महत
कर्ण हस्तस्थितं चापं चिच्छेदाशु घटॊत्कचः
अथान्यद धनुर आदाय दृढं भारसहं महत
वयकर्षत बलात कर्ण इन्द्रायुधम इवॊच्छ्रितम
ततः कर्णॊ महाराज परेषयाम आस सायकान
सुवर्णपुङ्खाञ शत्रुघ्नान खचरान राक्षसान परति
तद बाणैर अर्दितं यूथं रक्षसां पीनवक्षसाम
सिंहेनेवार्दितं वन्यं गजानाम आकुलं कुलम
विधम्य राक्षसान बाणैः साश्वसूत गजान विभुः
ददाह भगवान वह्निर भूतानीव युगक्षये
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः
पुरेव तरिपुरं दग्ध्वा दिवि देवॊ महेश्वरः
तेषु राजसहस्रेषु पाण्डवेयेषु मारिष
नैनं निरीक्षितुम अपि कश चिच छक्नॊति पार्थिव
ऋते घटॊत्कचाद राजन राक्षसेन्द्रान महाबलात
भीमवीर्यबलॊपेतात करुद्धाद वैवस्वताद इव
तस्य करुद्धस्य नेत्राभ्यां पावकः समजायत
महॊल्काभ्यां यथा राजन सार्चिषः सनेहबिन्दवः
तलं तलेन संहत्य संदश्य दशनच छदम
रथम आस्थाय च पुनर मायया निर्मितं पुनः
युक्तं गजनिभैर वाहैः पिशाचवचनैः खरैः
ससूतम अब्रवीत करुद्धः सूतपुत्राय मा वह
स ययौ घॊररूपेण रथेन रथिनां वरः
दवैरथं सूतपुत्रेण पुनर एव विशां पते
स चिक्षेप पुनः करुद्धः सूतपुत्राय राक्षसः
अष्टचक्रां महाघॊराम अशनिं रुद्र निर्मिताम
ताम अवप्लुत्य जग्राह कर्णॊ नयस्य रथे धनुः
चिक्षेप चैनां तस्यैव सयन्दनात सॊ ऽवपुप्लुवे
साश्वसूत धवजं यानं भस्मकृत्वा महाप्रभा
विवेश वसुधां भित्त्वा सुरास तत्र विसिस्मियुः
कर्णं तु सर्वभूतानि पूजयाम आसुर अञ्जसा
यद अवप्लुत्य जग्राह देव सृष्टां महाशनिम
एवं कृत्वा रणे कर्ण आरुरॊह रथं पुनः
ततॊ मुमॊच नाराचान सूतपुत्रः परंतपः
अशक्यं कर्तुम अन्येन सर्वभूतेषु मानद
यद अकार्षीत तदा कर्णः संग्रामे भीमदर्शने
स हन्यमानॊ नाराचैर धाराभिर इव पर्वतः
गन्धर्वनगराकारः पुनर अन्तरधीयत
एवं स वै महामायॊ मायया लाघवेन च
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः
निहन्यमानेष्व अस्त्रेषु मायया तेन रक्षसा
असंभ्रान्तस ततः कर्णस तद रक्षः परत्ययुध्यत
ततः करुद्धॊ महाराज भैमसेनिर महाबलः
चकार बहुधात्मानं भीषयाणॊ नराधिपान
ततॊ दिग्भ्यः समापेतुः सिंहव्याघ्र तरक्षवः
अग्निजिह्वाश च भुजगा विहगाश चाप्य अयॊमुखाः
स कीर्यमाणॊ निशितैः कर्ण चापच्युतैः शरैः
नगराद्रिवनप्रख्यस तत्रैवान्तरधीयत
राक्षसाश च पिशाचाश च यातुधानाः शलावृकाः
ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन
अथैनं वाग्भिर उग्राभिस तरासयां चक्रिरे तदा
उद्यतैर बहुभिर घॊरैर आयुधैः शॊणितॊक्षितैः
तेषाम अनेकैर एकैकं कर्णॊ दिव्याध चाशुगैः
परतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम
आजघान हयान अस्य शरैः संनतपर्वभिः
ते भग्ना विकृताङ्गाश च छिन्नपृष्ठाश च सायकैः
वसुधाम अन्वपद्यन्त पश्यतस तस्य रक्षसः
स भग्नमायॊ हैडिम्बः कर्णं वैकर्तनं ततः
एष ते विदधे मृत्युम इत्य उक्त्वान्तरधीयत
[स]
तस्मिंस तथा वर्तमाने कर्ण राक्षसयॊर मृधे
अलायुधॊ राक्षसेन्द्रॊ वीर्यवान अभ्यवर्तत
महत्या सेनया युक्तः सुयॊधनम उपागमत
राक्षसानां विरूपाणां सहस्रैः परिवारितः
नानारूपधरैर वीरैः पूर्ववैरम अनुस्मरन
तस्य जञातिर हि विक्रान्तॊ बराह्मणादॊ बकॊ हतः
किर्मीरश च महातेजा हिडिम्बश च सखा तथा
स दीर्घकालाध्युषितं पूर्ववैरम अनुस्मरन
विज्ञायैतन निशायुद्धं जिघांसुर भीमम आहवे
स मत्त इव मातङ्गः संक्रुद्ध इव चॊरगः
दुर्यॊधनम इदं वाक्यम अब्रवीद युद्धलालसः
विदितं ते महाराज यथा भीमेन राक्षसाः
हिडिम्बबककिर्मीरा निहता मम बान्धवाः
परामर्शश च कन्याया हिडिम्बायाः कृतः पुरा
किम अन्यद राक्षसान अन्यान अस्मांश च परिभूय ह
तम अहं सगणं राजन स वाजिरथकुञ्जरम
हैडिम्बं च सहामात्यं हन्तुम अभ्यागतः सवयम
अद्य कुन्तीसुतान सर्वान वासुदेव पुरॊगमान
हत्वा संभक्षयिष्यामि सर्वैर अनुचरैः सह
निवारय बलं सर्वं वयं यॊत्स्याम पाण्डवान
तस्य तद वचनं शरुत्वा हृष्टॊ दुर्यॊधनस तदा
परतिपूज्याब्रवीद वाक्यं भरातृभिः परिवारितः
तवां पुरस्कृत्य सगणं वयं यॊत्स्यामहे परान
न हि वैरान्त मनसः सथास्यन्ति मम सैनिकाः
एवम अस्त्व इति राजानम उक्त्वा राक्षसपुंगवः
अभ्ययात तवरितॊ भीमं सहितः पुरुषाशनैः
दीप्यमानेन वपुषा रथेनादित्यवर्चसा
तादृशेनैव राजेन्द्र यादृशेन घटॊत्कचः
तस्याप्य अतुलनिर्घॊषॊ बहु तॊरणचित्रितः
ऋक्षचर्मावनद्धाङ्गॊ नल्व मात्रॊ महारथः
तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः
शतं युक्ता महाकाया मांसशॊणितभॊजनाः
तस्यापि रथनिर्घॊषॊ महामेघरवॊपमः
तस्यापि सुमहच चापं दृढज्यं बलवत्तरम
तस्याप्य अक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः
सॊ ऽपि वीरॊ महाबाहुर यथैव स घटॊत्कचः
तस्यापि गॊमायुबडाभिगुप्तॊ; बभूव केतुर जवलनार्कतुल्यः
स चापि रूपेण घटॊत्कचस्य; शरीमत्तमॊ वयाकुलदीपितास्यः
दीप्ताङ्गदॊ दीप्तकिरीट माली; बद्धस्रग उष्णीष निबद्धखड्गः
गदी भुशुण्डी मुसली हरी च; शरासनी वारणतुल्यवर्ष्मा
रथेन तेनानल वर्चसा च; विद्रावयन पाण्डव वाहिनीं ताम
रराज संख्ये परिवर्तमानॊ; विद्युन्माली मेघ इवान्तरिक्षे
ते चापि सर्वे परवरा नरेन्द्रा; महाबला वर्मिणश चर्मिणश च
हर्षान्विता युयुधुस तत्र राजन; समन्ततः पाण्डव यॊधवीराः
[स]
तम आगतम अभिप्रेक्ष्य भीमकर्माणम आहवे
हर्षम आहारयां चक्रुः कुरवः सर्व एव ते
तथैव तव पुत्रास ते दुर्यॊधन पुरॊगमाः
अप्लवाः पलवम आसाद्य तर्तुकामा इवार्णवम
पुनर्जातम इवात्मानं मन्वानाः पार्थिवास तदा
अलायुधं राक्षसेन्द्रं सवागतेनाभ्यपूजयन
तस्मिंस तव अमानुषे युद्धे वर्तमाने भयावहे
कर्ण राक्षसयॊर नक्तं दारुणप्रतिदर्शने
उपप्रैक्षन्त पाञ्चालाः समयमानाः सराजकाः
तथैव तावका राजन घूर्णमानास ततस ततः
चुक्रुशुर नेदम अस्तीति दरॊण दरौणिकृपादयः
तत कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे
सर्वम आविघ्नम अभवद धाहा भूतम अचेतनम
तव सैन्यं महाराज निराशं कर्ण जीविते
दुर्यॊधनस तु संप्रेक्ष्य कर्णम आर्तिं परां गतम
अलायुधं राक्षसेन्द्रम आहूयेदम अथाब्रवीत
एष वैकर्तनः कर्णॊ हैडिम्बेन समागतः
कुरुते कर्म सुमहद यद अस्यौपयिकं मृधे
पश्यैतान पार्थिवाञ शूरान निहतान भैमसेनिना
नानाशस्त्रैर अभिहतान पादपान इव दन्तिना
तवैष भागः समरे राजमध्ये मया कृतः
तवैवानुमते वीर तं विक्रम्य निबर्हय
पुरा वैकर्तनं कर्णम एष पापॊ घटॊत्कचः
मायाबलम उपाश्रित्य कर्शयत्य अरिकर्शनः
एवम उक्तः स राज्ञा तु राक्षसस तीव्रविक्रमः
तथेत्य उक्त्वा महाबाहुर घटॊत्कचम उपाद्रवत
ततः कर्णं समुत्सृज्य भैमसेनिर अपि परभॊ
परत्यमित्रम उपायान्तं मर्दयाम आस मार्गणैः
तयॊः समभवद युद्धं करुद्धयॊ राक्षसेन्द्रयॊः
मत्तयॊर वाशिता हेतॊर दविपयॊर इव कानने
रक्षसा विप्रमुक्तस तु कर्णॊ ऽपि रथिनां वरः
अभ्यद्रवद भीमसेनं रथेनादित्यवर्चसा
तम आयान्तम अनादृत्य दृष्ट्वा गरस्तं घटॊत्कचम
अलायुधेन समरे सिंहेनेव गवां पतिम
रथेनादित्यवपुषा भीमः परहरतां वरः
किरञ शरौघान परययाव अलायुध रथं परति
तम आयान्तम अभिप्रेक्ष्य स तदालायुधः परभॊ
घटॊत्कचं समुत्सृज्य भीमसेनं समाह्वयत
तं भीमः सहसाभ्येत्य राक्षसान्त करः परभॊ
सगणं राक्षसेन्द्रं तं शरवर्षैर अवाकिरत
तथैवालायुधॊ राजञ शिला धौतैर अजिह्मगैः
अभ्यवर्षत कौन्तेयं पुनः पुनर अरिंदमः
तथा ते राक्षसाः सर्वे भीमसेनम उपाद्रवन
नानाप्रहरणा भीमास तवत्सुतानां जयैषिणः
स ताड्यमानॊ बलिभिर भीमसेनॊ महाबलः
पञ्चभिः पञ्चभिः सर्वांस तान अविध्यच छितैः शरैः
ते वध्यमाना हीमेन राक्षसाः खरयॊनयः
विनेदुस तुमुलान नादान दुद्रुवुश च दिशॊ दश
तांस तरास्यमानान भीमेन दृष्ट्वा रक्षॊ महाबलम
अभिदुद्राव वेगेन शरैश चैनम अवाकिरत
तं भीमसेनः समरे तीक्ष्णाग्रैर अक्षिणॊच छरैः
अलायुधस तु तान अस्तान भीमेन विशिखान रणे
चिच्छेद कांश चित समरे तवरया कांश चिद अग्रहीत
स तं दृष्ट्वा राक्षसेन्द्रं भीमॊ भीमपराक्रमः
गदां चिक्षेप वेगेन वज्रपातॊपमां तदा
ताम आपतन्तीं वेगेन गदां जवालाकुलां ततः
गदया ताडयाम आस सा गदा भीमम आव्रजत
स राक्षसेन्द्रं कौन्तेयः शरवर्षैर अवाकिरत
तान अप्य अस्याकरॊन मॊघान राक्षसॊ निशितैः शरैः
ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः
शासनाद राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान
पाञ्चालाः सृञ्जयाश चैव वाजिनः परमद्विपाः
न शान्तिं लेभिरे तत्र रक्षसैर भृशपीडिताः
तं तु दृष्ट्वा महाघॊरं वर्तमानं महाहवे
अब्रवीत पुरुषश्रेष्ठॊ धनंजयम इदं वचः
पश्यं भीमं महाबाहॊ राक्षसेन्द्र वशंगतम
पदवीम अस्य गच्छ तवं मा विचारय पाण्डव
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ
सहिता दरौपदेयाश च कर्णं यान्तु महारथाः
नकुलः सहदेवश च युयुधानश च वीर्यवान
इतरान राक्षसान घनन्तु शासनात तव पाण्डव
तवम अपीमां महाबाहॊ चमूं दरॊण पुरस्कृताम
वारयस्व नरव्याघ्र महद धि भयम आगतम
एवम उक्ते तु कृष्णेन यथॊद्दिष्टा महारथाः
जग्मुर वैकर्तनं कर्णं राक्षसांश चेतरान रणे
अथ पूर्णायतॊत्सृष्टैः शरैर आशीविषॊपमैः
धनुश चिच्छेद भीमस्य राक्षसेन्द्रः परतापवान
हयांश चास्य शितैर बाणैः सारथिं च महाबलः
जघान मिषतः संख्ये भीमसेनस्य भारत
सॊ ऽवतीर्य रथॊपस्थाद धताश्वॊ हतसारथिः
तस्मै गुर्वीं गदां घॊरां स विनद्यॊत ससर्ज ह
ततस तां भीमनिर्घॊषाम आपतन्तीं महागदाम
गदया राक्षसॊ घॊरॊ निजघान ननाद च
तद दृष्ट्वा राक्षसेन्द्रस्य घॊरं कर्म भयावहम
भीमसेनः परहृष्टात्मा गदाम आशु परामृशत
तयॊः समभवद युद्धं तुमुलं नररक्षसॊः
गदा निपातसंह्रादैर भुवं कम्पयतॊर भृशम
गदा विमुक्तौ तौ भूयः समासद्येतरेतरम
मुष्टिभिर वज्रसंह्रादैर अन्यॊन्यम अभिजघ्नतुः
रथचक्रैर युगैर अक्षैर अधिष्ठानैर उपस्करैः
यथासन्नम उपादाय निजघ्नतुर अमर्षणौ
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम
मत्ताव इव महानागाव अकृष्येतां पुनः पुनः
तम अपश्यद धृषीकेशः पाण्डवानां हिते रतः
स भीमसेन रक्षार्थं हैडिम्बं परत्यचॊदयत
[स]
संप्रेक्ष्य समरे भीमं रक्षसा गरस्तम अन्तिकात
वासुदेवॊ ऽबरवीद वाक्यं घटॊत्कचम इदं तदा
पश्य भीमं महाबाहॊ रक्षसा गरस्तम अन्तिकात
पश्यतां सर्वसैन्यानां तव चैव महाद्युते
स कर्णं तवं समुत्सृज्य राक्षसेन्द्रम अलायुधम
जहि कषिप्रं महाबाहॊ पश्चात कर्णं वधिष्यसि
स वार्ष्णेय वचः शरुत्वा कर्णम उत्सृज्य वीर्यवान
युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटॊत्कचः
तयॊः सुतुमुलं युद्धं बभूव निशि रक्षसॊः
अलायुधस्य यॊधांस तु राक्षसान भीमदर्शनान
वेगेनापततः शूरान परगृहीतशरासनान
आत्तायुधः सुसंक्रुद्धॊ युयुधानॊ महारथः
नकुलः सहदेवश च चिच्छिदुर निशितैः शरैः
सर्वांश च समरे राजन किरीटी कषत्रियर्षभान
परिचिक्षेप बीभत्सुः सर्वथ परक्षिपञ शरान
कर्णश च समरे राजन वयद्रावयत पार्थिवान
धृष्टद्युम्न शिखण्ड्यादीन पाञ्चालानां महारथान
तान वध्यमानान दृष्ट्वा तु भीमॊ भीमपराक्रमः
अभ्ययात तवरितः कर्णं विशिखन्न विकिरन रणे
ततस ते ऽपय आययुर हत्वा राक्षसान्य अत्र सूतजः
नकुलः सहदेवश च सात्यकिश च महारथः
ते कर्णं यॊधयाम आसुः पाञ्चाला दरॊणम एव च
अलायुधस तु संक्रुद्धॊ घटॊत्कचम अरिंदमम
परिघेणातिकायेन ताडयाम आस मूर्धनि
स तु तेन परहारेण भैमसेनिर महाबलः
ईषन मूर्छान्वितॊ ऽऽतमानं संस्तम्भयत वीर्यवान
ततॊ दीप्ताग्निसंकाशां शतघण्टाम अलंकृताम
चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम
सा हयान सारथिं चैव रथं चास्य महास्वना
चूर्णयाम आस वेगेन विसृष्टा भीमकर्मणा
स भग्नहयचक्राक्षॊ विशीर्णध्वजकूबरः
उत्पपात रथात तूर्णं मायाम आस्थाय राक्षसीम
स समास्थाय मायां तु ववर्ष रुधिरं बहु
विद्युद विभ्राजितं चासीत तिमिराभ्राकुलं नभः
ततॊ वज्रनिपाताश च साशनिस्तनयित्नवः
महांश चटचटा शब्दस तत्रासीद धि महाहवे
तां परेक्ष्य विहितां मायां राक्षसॊ राक्षसेन तु
ऊर्ध्वम उत्पत्य हैडिम्बस तां मायां माययावधीत
सॊ ऽभिवीक्ष्य हतां मायां मायावी माययैव हि
अश्मवर्षं सुतुमुलं विससर्ज घटॊत्कचे
अश्मवर्षं स तद घॊरं शरवर्षेण वीर्यवान
दिशॊ विध्वंसयाम आस तद अद्भुतम इवाभवत
ततॊ नानाप्रहरणैर अन्यॊन्यम अभिवर्षताम
आयसैः परिघैः शूलैर गदामुसलमुद्गलैः
पिनाकैः करवालैर्श च तॊमरप्रासकम्पनैः
नाराचैर निशितैर भल्लैः शरैश चक्रैः परश्वधैः
अयॊ गुडैर भिण्डिपालैर गॊशीर्षॊलूखलैर अपि
उत्पाट्य च महाशाखैर विविधैर जगती रुहैः
शमी पीलु करीरैश च शम्याकैश चैव भारत
इङ्गुदैर बदरीभिश च कॊविदारैश च पुष्पितैः
पलाशैर अरिमेदैश च पलक्षन्यग्रॊधपिप्पलैः
मयद्भिः समरे तस्मिन्न अन्यॊन्यम अभिजघ्नतुः
विविधैः पर्वताग्रैश च नानाधातुभिर आचितैः
तेषां शब्धॊ महान आसीद वज्राणां भिद्यताम इव
युद्धं तद अभवद घॊरं भैम्य अलायुधयॊर नृप
हरीन्द्रयॊर यथा राजन वालिसुग्रीवयॊः पुरा
तौ युद्ध्वा विविधैर घॊरैर आयुधैर विशिखैस तथा
परगृह्य निशितौ खड्गाव अन्यॊन्यम अभिजघ्नतुः
ताव अन्यॊन्यम अभिद्रुत्य केशेषु सुमहाबलौ
भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ
तौ भिन्नगात्रौ परस्वेदं सुस्रुवाते जनाधिप
रुधिरं च महाकायाव अभिवृष्टाव इवाचलौ
अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम
बलेनाक्षिप्य हैडिम्बश चकर्तास्य शिरॊमहत
सॊ ऽपहृत्य शिरस तस्य कुण्डलाभ्यां विभूषितम
तदा सुतुमुलं नादं ननाद सुमहाबलः
हतं दृष्ट्वा महाकायं बकज्ञातिम अरिंदमम
पाञ्चालाः पाण्डवाश चैव सिंहनादान विनेदिरे
ततॊ भेरीसहस्राणि शङ्खानाम अयुतानि च
अवादयन पाण्डवेयास तस्मिन रक्षसि पातिते
अतीव सा निशा तेषां बभूव विजयावहा
विद्यॊतमाना विबभौ समन्ताद दीपमालिनी
अलायुधस्य तु शिरॊ भैमसेनिर महाबलः
दुर्यॊधनस्य परमुखे चिक्षेप गतचेतनम
अथ दुर्यॊधनॊ राजा दृष्ट्वा हतम अलायुधम
बभूव परमॊद्विग्नः सह सैन्येन भारत
तेन हय अस्य परतिज्ञातं भीमसेनम अहं युधि
हन्तेति सवयम आगम्य समरता वैरम उत्तमम
धरुवं स तेन हन्तव्य इत्य अमन्यन्त पार्थिवः
जीवितं चिरकालाय भरातॄणां चाप्य अमन्यत
स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै
परतिज्ञां भीमसेनस्य पूर्णाम एवाभ्यमन्यत
[स]
निहत्यालायुधं रक्षः परहृष्टात्मा घटॊत्कचः
ननाद विविधान नादान वाहिन्याः परमुखे सथितः
तस्य तं तुमुलं शब्दं शरुत्वा कुञ्जरकम्पनम
तावकानां महाराज भयम आसीत सुदारुणम
अलायुध विषक्तं तु भैमसेनिं महाबलम
दृष्ट्वा कर्णॊ महाबाहुः पाञ्चालान समुपाद्रवत
दशभिर दशभिर बाणैर धृष्टद्युम्न शिखण्डिनौ
दृढैः पूर्णायतॊत्सृष्टैर बिभेद नतपर्वभिः
ततः परमनाराचैर युधामन्यूत्तमौजसौ
सात्यकिं च रथॊदारं कम्पयाम आस मार्गणैः
तेषाम अभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम
मण्डलान्य एव चापानि वयदृश्यन्त जनाधिप
तेषां जयातलनिर्घॊषॊ रथनेमि सवनश च ह
मेघानाम इव घर्मान्ते बभूव तुमुलॊ निशि
जयानेमिघॊषस्तनयित्नुमान वै; धनुस तडिन मण्डलकेतुशृङ्गः
शरौघवर्षाकुल वृष्टिमांश च; संग्राममेघः स बभूव राजन
तद उधतं शैल इवाप्रकम्प्यॊ; वर्षं महच छैलसमानसारः
विध्वंसयाम आस रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी
ततॊ ऽतुलैर वज्रनिपात कल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः
शत्रून वयपॊहत समरे महात्मा; वैकर्तनः पुत्र हिते रतस ते
संछिन्नभिन्न धवजिनश च के चित; के चिच छरैर अर्दित भिन्नदेहाः
के चिद विसूता विहयाश च के चिद; वैकर्तनेनाशु कृता बभूवुः
अविन्दमानास तव अथ शर्म संख्ये; यौधिष्ठिरं ते बलम अन्वपद्यन
तान परेक्ष्य भग्नान विमुखीकृतांश च; घटॊत्कचॊ रॊषम अतीव चक्रे
आस्थाय तं काञ्चनरत्नचित्रं; रथॊत्तमं सिंह इवॊननाद
वैकर्तनं कर्णम उपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः
तौ कर्णिनाराच शिलीमुखैश; च नालीकदण्डैश च स वत्सदन्तैः
वराहकर्णैः स विषाण शृङ्गैः; कषुरप्र वर्षैश च विनेदतुः खम
तद बाणधारावृतम अन्तरिक्षं; तिर्यग्गताभिः समरे रराज
सुवर्णपुङ्ख जवलितप्रभाभिर; विचित्रपुष्पाभिर इव सरजाभिः
समं हि ताव आप्रतिम परभावाव; अन्यॊन्यम आजघ्नतुर उत्तमास्त्रैः
तयॊर हि वीरॊत्तमयॊर न कश चिद; ददर्श तस्मिन समरे विशेषम
अतीव तच चित्रम अतीव रूपं; बभूव युद्धं रविभीम सून्वॊः
समाकुलं शस्त्रनिपात घॊरं; दिवीव राह्वंशुमतॊः परतप्तम
घटॊत्कचॊ यदा कर्णं न विशेषयते नृप
तदा परादुश्चकारॊग्रम अस्त्रम अस्त्रविदां वरः
तेनास्त्रेण हयान पूर्वं हत्वा कर्णस्य राक्षसः
सारथिं चैव हैडिम्बः कषिप्रम अन्तरधीयत
[धृ]
तथा हय अन्तर्हिते तस्मिन कूटयॊधिनि राक्षसे
मामकैः परतिपन्नं यत तन ममाचक्ष्व संजय
[स]
अन्तर्हितं राक्षसं तं विदित्वा; संप्राक्रॊशन कुरवः सर्व एव
कथं नायं राक्षसः कूटयॊधी; हन्यात कर्णं समरे ऽदृश्यमानः
ततः कर्णॊ लघुचित्रास्त्र यॊधी; सर्वा दिशॊ वयावृणॊद बाणजालैः
न वै किं चिद वयापतत तत्र भूतं; तमॊ भूते सायकैर अन्तरिक्षे
न चाददानॊ न च संदधानॊ; न चेषुधी सपृशमानः कराग्रैः
अदृश्यद वै लाघवात सूतपुत्रः; सर्वं बाणैश छादयानॊ ऽनतरिक्षम
ततॊ मायां विहिताम अन्तरिक्षे; घॊरां भीमां दारुणां राक्षसेन
संपश्यामॊ लॊहिताभ्र परकाशां; देदीप्यन्तीम अग्निशिखाम इवॊग्राम
ततस तस्या विद्युतः परादुरासन्न; उल्काश चापि जवलिताः कौरवेन्द्र
घॊषश चान्यः परादुरासीत सुघॊरः; सहस्रशॊ नदतां दुन्दुभीनाम
ततः शराः परापतन रुक्मपुङ्खाः; शक्त्याः परासा मुसलान्य आयुधानि
परश्वधास तैलधौताश च खड्गाः; परदीप्ताग्राः पट्टिशास तॊमराश च
मयूखिनः परिघा लॊहबद्धा; गदाश चित्राः शितधाराश च शूलाः
गुर्व्यॊ गदा हेमपट्टावनद्धाः; शतघ्न्यश च परादुरासन समन्तात
महाशिलाश चापतंस तत्र तत्र; सहस्रशः साशनयः सवज्राः
चक्राणि चानेक शतक्षुराणि; परादुर्बभूवुर जवलनप्रभाणि
तां शक्तिपाषाण परश्वधानां; परासासिवज्राशनिमुद्गराणाम
वृष्टिं विशालां जवलितां पतन्तीं; कर्णः शरौघैर न शशाक हन्तुम
शराहतानाम अततां हयानां; वज्राहतानां पततां गजानाम
शिला हतानां च महारथानां; महान निनादः पततां बभूव
सुभीम नानाविध शस्त्रपातैर; घटॊत्कचेनाभिहतं समन्तात
दौर्यॊधनं तद बलम आर्तरूपम; आवर्तमानं ददृशे भरमन्तम
हाहाकृतं संपरिवर्तमानं; संलीयमानं च विषण्णरूपम
ते तव आर्य भावात पुरुषप्रवीराः; पराङ्मुखा न बभूवुस तदानीम
तां राक्षसीं घॊरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम
दृष्ट्वा बलौघांश च निपात्यमानान; महद भयं तव पुत्रान विवेश
शिवाश च वैश्वानरदीप्तजिह्वाः; सुभीम नादाः शतशॊ नदन्त्यः
रक्षॊगणान नर्दतश चाभिवीक्ष्य; नरेन्द्र यॊधा वयथिता बभूवुः
ते दीप्तजिह्वानन तीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाश कायाः
नभॊगताः शक्तिविषक्त हस्ता; मेघा वयमुञ्चन्न इव वृष्टिमार्गम
तैर आहतास ते शरशक्तिशूलैर; गदाभिर उग्रैः परिघैश च दीप्तैः
वज्रैः पिनाकैर अशनिप्रहारैश; चक्रैः शतघ्न्युन्मथिताश च पेतुः
हुडा भुशुण्ड्यॊ ऽशमगुडाः शतध्न्यः; सथूणाश च कार्ष्णायस पट्टनद्धाः
अवाकिरंस तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं परादुरासीत
निष्कीर्णान्त्रा विहतैर उत्तमाङ्गैः; संभग्नाङ्गाः शेरते तत्र शूराः
भिन्ना हयाः कुञ्जराश चावभग्नाः; संचूर्णिताश चैव रथाः शिलाभिः
एवं महच छस्त्र वर्षं सृजन्तस; ते यातुधाना भुवि घॊररूपाः
मायाः सृष्टास तत्र घटॊत्कचेन; नामुञ्चन वै याचमानं न भीतम
तस्मिन घॊरे कुरुवीरावमर्दे; कालॊत्सृष्टे कषत्रियाणाम अभावे
ते वै भग्नाः सहसा वयद्रवन्त; पराक्रॊशन्तः कौरवाः सर्व एव
पलायध्वं कुरवॊ नैतद अस्ति; सेन्द्रा देवा घनन्ति नः पाण्डवार्थे
तथा तेषां मज्जतां भारतानां; न सम दवीपस तत्र कश चिद बभूव
तस्मिन संक्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम
अनीकानां परविभागे ऽपरकाशे; न जञायन्ते कुरवॊ नेतरे वा
निर्मर्यादे विद्रवे घॊररूपे; सर्वा दिशः परेक्षमाणाः सम शून्याः
तां शस्त्रवृष्टिम उरसा गाहमानं; कर्णं चैकं तत्र राजन्न अपश्यम
ततॊ बाणैर आवृणॊद अन्तरिक्षं; दिव्यां मायां यॊधयन राक्षसस्य
हरीमान कुर्वन दुष्करम आर्य कर्म; नैवामुह्यत संयुगे सूतपुत्रः
ततॊ भीताः समुदैक्षन्त कर्णं; राजन सर्वे सैन्धवा बाह्लिकाश च
असंमॊहं पूजयन्तॊ ऽसय संख्ये; संपश्यन्तॊ विजयं राक्षसस्य
तेनॊत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश चतुरॊ ऽशवाञ जघान
ते जानुभिर जगतीम अन्वपद्यन; गतासवॊ निर्दशनाक्षि जिह्वाः
ततॊ हताश्वाद अवरुह्य वाहाद; अन्तर मनाः कुरुषु पराद्रवत्सु
दिव्ये चास्त्रे मायया वध्यमाने; नैमामुह्यच चिन्तयन पराप्तकालम
ततॊ ऽबरुवन कुरवः सर्व एव; कर्णं दृष्ट्वा घॊररूपां च मायाम
शक्त्या रक्षॊ जहि कर्णाद य तूर्णं; नश्यन्त्य एते कुरवॊ धार्तराष्ट्राः
करिष्यतः किं च नॊ भीम पार्थौ; पतन्तम एनं जहि रक्षॊ निशीथे
यॊ नः संग्रामाद घॊररूपाद विमुच्येत; स नः पार्थान समरे यॊधयेत
तस्माद एनं राक्षसं घॊररूपं; जहि शक्त्या दत्तया वासवेन
मा कौरवाः सर्व एवेन्द्र कल्पा; रात्री मुखे कर्ण नेशुः स यॊधाः
स वध्यमानॊ रक्षसा वै निशीथे; दृष्ट्वा राजन नश्यमानं बलं च
महच च शरुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमॊक्षाय कर्णः
स वै करुद्धः सिंह इवात्यमर्षी; नामर्षयत परतिघातं रणे तम
शक्तिं शरेष्ठां वैजयन्तीम असह्यां; समाददे तस्य वधं चिकीर्षन
यासौ राजन निहिता वर्षपूगान; वधायाजौ सत्कृता फल्गुनस्य
यां वै परादात सूतपुत्राय शक्रः; शक्तिं शरेष्ठां कुण्डलाभ्यां निमाय
तां वै शक्तिं लेलिहानां परदीप्तां; पाशैर युक्ताम अन्तकस्येव रात्रिम
मृत्यॊः सवसारं जवलिताम इवॊल्कां; वैकर्तनः पराहिणॊद राक्षसाय
ताम उत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर बाहुसंस्थां जवलन्तीम
भीतं रक्षॊ विप्रदुद्राव राजन; कृत्वात्मानं विन्ध्यपादप्रमाणम
दृष्ट्वा शक्तिं कर्ण बाह्वन्तरस्थां; नेदुर भूतान्य अन्तरिक्षे नरेन्द्र
ववुर तावास तुमुलाश चापि राजन; स निर्घाता चाशानिर गां जगाम
सा तां मायां भस्मकृत्वा जवलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य
ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणाम अन्तराण्य आविशन्ती
युद्ध्वा चित्रैर विविधैः शस्त्रपूगैर; दिव्यैर वीरॊ मानुषै राक्षसैश च
नदन नादान विविधान भैरवांश च; पराणान इष्टांस तयाजितः शक्र शक्त्या
इदं चान्यच चित्रम आश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय
तस्मिन काले शक्तिनिर्भिन्न मर्मा; बभौ राजन मेघशैलप्रकाशः
ततॊ ऽनतरिक्षाद अपतद गतासुः; स राक्षसेन्द्रॊ भुवि भिन्नदेहः
अवाक्शिराः सतब्धगात्रॊ विजिह्वॊ; घटॊत्कचॊ महद आस्थाय रूपम
स तद रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात
हतॊ ऽपय एवं तव सैन्य एकदेशम; अपॊथयत कौरवान भीषयाणः
ततॊ मिश्राः पराणदन सिंहनादैर; भेर्यः शङ्खा मुरजाश चानकाश च
दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः पराणदन कौरवेयाः
ततः कर्णः कुरुभिः पूज्यमानॊ; यथा शक्रॊ वृत्रवधे मरुद्भिः
अन्वारूढस तव पुत्रं रथस्यं; हृष्टश चापि पराविशत सवं स सैन्यम
[स]
हैडिम्बं निहतं दृष्ट्वा विकीर्णम इव पर्वतम
पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः
वासुदेवस तु हर्षेण महताभिपरिप्लुतः
ननाद सिंहवन नादं वयथयन्न इव भारत
विनद्य च महानादं पर्यष्वजत फल्गुनम
स विनद्य महानादम अभीशून संनियम्य च
ननर्त हर्षसंवीतॊ वातॊद्धूत इव दरुमः
ततॊ विनिर्भ्राम्य पुनः पार्थम आस्फॊट्य चासकृत
रथॊपस्थ गतॊ भीमं पराणदत पुनर अच्युतः
परहृष्टमनसं जञात्वा वासुदेवं महाबलम
अब्रवीद अर्जुनॊ राजन नातिहृष्टमना इव
अतिहर्षॊ ऽयम अस्थाने तवाद्य मधुसूदन
शॊकस्थाने परे पराप्ते हैडिम्बस्य वधेन वै
विमुखानि च सैन्यानि हतं दृष्ट्वा घटॊत्कचम
वयं च भृशम आविग्ना हैडिम्बस्य निपातनात
नैतत कारणम अल्पं हि भविष्यति जनार्दन
तद अद्य शंस मे पृष्टः सत्यं सत्यवतां वर
यद्य एतन न रहस्यं ते वक्तुम अर्हस्य अरिंदम
धैर्यस्य वैकृतं बरूहि तवम अद्य मधुसूदन
समुद्रस्येव संक्षॊभॊ मेरॊर इव विसर्पणम
तथैतल लाघवं मन्ये तव कर्म जनार्दन
[वासु]
अतिहर्षम इमं पराप्तं शृणु मे तवं धनंजय
अतीव मनसः सद्यः परसादकरम उत्तमम
शक्तिं घटॊत्कचेनेमां वयंसयित्वा महाद्युते
कर्णं निहतम एवाजौ विद्धि सद्यॊ धनंजय
शक्तिहस्तं पुनः कर्णं कॊ लॊके ऽसति पुमान इह
य एनम अभितस तिष्ठेत कार्त्तिकेयम इवाहवे
दिष्ट्यापनीत कवचॊ दिष्ट्यापहृत कुण्डलः
दिष्ट्या च वयंसिता शक्तिर अमॊघस्य घटॊत्कचे
यदि हि सत्यात स कवचस तथैव च सकुण्डलः
सामरान अपि लॊकांस तरीन एकः कर्णॊ जयेद बली
वासवॊ वा कुबेरॊ वा वरुणॊ वा जलेश्वरः
यमॊ वा नॊत्सहेत कर्णं रणे परतिसमासितुम
गाण्डीवम आयम्य भवांश चक्रं वाहं सुदर्शनम
न शक्तौ सवॊ रणे जेतुं तथायुक्तं नरर्षभम
तवद्धितार्थं तु शक्रेण मायया हृतकुण्डलः
विहीनकवचश चायं कृतः परपुरंजयः
उत्कृत्य कवचं यस्मात कुण्डले विमले च ते
परादाच छक्राय कर्णॊ वै तेन वैकर्तनः समृतः
आशीविष इव करुद्धः सतम्भितॊ मन्त्रतेजसा
तथाद्य भाति कर्णॊ मे शान्तज्वाल इवानलः
यदा परभृति कर्णाय शक्तिर दत्ता महात्मना
वासवेन महाबाहॊ पराप्ता यासौ घटॊत्कचे
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च
तां पराप्यामन्यत वृषा सततं तवां हतं रणे
एवंगते ऽपि शक्यॊ ऽयं हन्तुं नान्येन केन चित
ऋते तवा पुरुषव्याघ्र शपे सत्येन चानघ
बरह्मण्यः सत्यवादी च तपस्वी नियतव्रतः
रिपुष्व अपि दयावांश च तस्मात कर्णॊ वृषा समृपः
युद्धशौण्डॊ महाबाहुर नित्यॊद्यत शरासनः
केसरीव वने मर्दन मत्तमातङ्गयूथपान
विमदान रथशार्दूलान कुरुते रणमूर्धनि
मध्यं गत इवादित्यॊ यॊ न शक्यॊ निरीक्षितुम
तवदीयैः पुरुषव्याघ्र यॊधमुख्यैर महात्मभिः
शरजालसहस्रांशुः शरदीव दिवाकरः
तपान्ते तॊयदॊ यद्वच छरधाराः कषरत्य असौ
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान
सॊ ऽदय मानुषतां पराप्तॊ विमुक्तः शक्रदत्तया
एकॊ हि यॊगॊ ऽसय भवेद वधाय; छिद्रे हय एनं सवप्रमत्तः परमत्तम
कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं तवं तु संज्ञां विचार्य
जरासंधश चेदिराजॊ महात्मा; महाबलश चैकलब्यॊ निषादः
एकैकशॊ निहताः सर्व एव; यॊगैस तैस तैस तवद्धितार्थं मयैव
अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः
अलायुधः परसैन्यावमर्दी; घटॊत्कचश चॊग्रकर्मा तरस्वी
[अर्ज]
कथम अस्मद्धितार्थं ते कैश च यॊगैर जनार्दन
जरासंधप्रभृतयॊ घातिताः पृथिवीष्वराः
[वासु]
जरा संघश चेदिराजॊ नैषादिश च महाबलः
यदि सयुर न हताः पूर्वम इदानीं सयुर भयंकराः
सुयॊधनस तान अपश्यं कृषुयाद रथसत्तमान
ते ऽसमाभिर नित्यसंदुष्टाः संश्रयेयुश च कौरवान
ते हि वीरा महात्मानः कृतास्त्रा दृढयॊधिनः
धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुर अमरा इव
सूतपुत्रॊ जरासंधश चेदिराजॊ निषादजः
सुयॊधनं समाश्रित्य पतेरन पृथिवीम इमाम
यॊगैर अपि हता यैस ते तान मे शृणु धनंजय
अजय्या हि विना यॊगैर मृधे ते दैवतैर अपि
एकैकॊ हि पृथक तेषां समस्तां सुरवाहिनीम
यॊधयेत समरे पार्थ लॊकपालाभिरक्षिताम
जरासंधॊ हि रुषितॊ रौहिणेय परधर्षितः
अस्मद्वधार्थं चिक्षेप गदां वै लॊहिता मुखीम
सीमन्तम इव कुर्वाणां नभसः पावकप्रभाम
वयदृश्यतापतन्ती सा शक्र मुक्ता यथाशनिः
ताम आपतन्तीं दृष्ट्वैव गदां रॊहिणिनन्दनः
परतिघातार्थम अस्त्रं वै सथूणाकर्णम अवासृजत
अस्त्रवेगप्रतिहता सा गदा परापतद भुवि
दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान
तत्र सम राक्षसी घॊरा जरा नामाशु विक्रमा
संधयाम आस तं जातं जराल्संधम अरिंदमम
दवाभ्यां जातॊ हि मातृभ्याम अर्धदेहः पृथक पृथक
तया स संधितॊ यस्माज जरासंधस ततः समृतः
सा तु भूमिगता पार्थ हता स सुतबान्धवा
गदया तेन चास्त्रेण सथूणाकर्णेन राक्षसी
विना भूतः सगदया जरासंधॊ महामृधे
निहतॊ भीमसेनेन पश्यतस ते धनंजय
यदि हि सयाद गदापाणिर जरासंधः परतापवान
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरॊत्तम
तवद्धितार्थं हि नैषादिर अङ्गुष्ठेन वियॊजितः
दरॊणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः
स तु बद्धाङ्गुलि तराणॊ नैषादिर दृढविक्रमः
अस्यन्न एकॊ वनचरॊ बभौ राम इवापरः
एकलब्यं हि साङ्गुष्ठम अशक्ता देवदानवाः
स राक्षसॊरगाः पार्थ विजेतुं युधि कर्हि चित
किम उ मानुषमात्रेण शक्यः सयात परतिवीक्षितुम
दृढमुष्टिः कृती नित्यम अस्यमानॊ दिवानिशम
तवद्धितार्थं तु स मया हतः संग्राममूधनि
चेदिराजश च विक्रान्तः परत्यक्षं निहतस तव
स चाप्य अशक्यः संग्रामे जेतुं सर्वैः सुरासुरैः
वधार्थं तस्य जातॊ ऽहम अन्येषां च सुरद्विषाम
तवत्सहायॊ नरव्याघ्र लॊकानां हितकाम्यया
हिडिम्बबककिर्मीरा भीमसेनेन पातिताः
रावणेन समप्राणा बरह्म यज्ञविनाशनाः
हतस तथैव मायावी हैडिम्बेनाप्य अलायुधः
हैडिम्बश चाप्य उपायेन शक्त्या कर्णेन घातितः
यदि हय एनं नाहनिष्यत कर्णः शक्त्या महामृधे
मया वध्यॊ ऽभविष्यत स भैमसेनिर घटॊत्कचः
मया न निहतः पूर्वम एष युष्पत परियेप्सया
एष हि बराह्मण दवेषी यज्ञद्वेषी च राक्षसः
धर्मस्य लॊप्ता पापात्मा तस्माद एष निपातितः
वयंसिता चाप्य उपायेन शक्रदत्ता मयानघ
ये हि धर्मस्य लॊप्तारॊ वध्यास ते मम पाण्डव
धर्मसंस्थापनार्थं हि परतिज्ञैषा ममाव्यया
बरह्मसत्यं दमः शौचं धर्मॊ हरीः शरीर धृतिः कषमा
यत्र तत्र रमे नित्यम अहं सत्येन ते शपे
न विषादस तवया कार्यः कर्म वैकर्तनं परति
उपदेक्ष्याम्य उपायं ते येन तं परसहिष्यसि
सुयॊधनं चापि रणे हनिष्यति वृकॊदरः
तस्य चापि वधॊपायं वक्ष्यामि तव पाण्डवः
वर्धते तुमुलस तव एष शब्दः परचमूं परति
विद्रवन्ति च सैन्यानि तवदीयानि दिशॊ दश
लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव
दहत्य एष च वः सैन्यं दरॊणः परहरतां वरः
[धृ]
एकवीर वधे मॊघा शक्तिः सूतात्मजे यदा
कस्मात सर्वान समुत्सृज्य स तां पार्थे न मुक्तवान
तस्मिन हते हता हि सयुः सर्वे पाण्डव सृञ्जयाः
एकवीर वधे कस्मान न युद्धे जयम आदधत
आहूतॊ न निवर्तेयम इति तस्य महाव्रतम
सवयम आह्वयितव्यः ससूतपुत्रेण फल्गुनः
ततॊ दवैरथम आनीय फल्गुनं शक्रदत्तया
न जघान वृषा कस्मात तन ममाचक्ष्व संजय
नूनं बुद्धिविहीनश चाप्य असहायश च मे सुतः
शत्रुभिर वयसितॊपायः कथं नु स जयेद अरीन
या हय अस्य परमा शक्तिर जयस्य च परायणम
सा शक्तिर वासुदेवेन वयंसितास्य घटॊत्कचे
कुणेर यथा हस्तगतं हरियेद बिल्वं बलीयसा
तथा शक्तिर अमॊघा सा मॊघी भूता घटॊत्कचे
यथा वराहस्य शुनश च युध्यतॊस; तयॊर अभावे शवपचस्य लाभः
मन्ये विद्वन वासुदेवस्य तद्वद; युद्धे लाभः कर्ण हैडिम्बयॊर वै
घटॊत्कचॊ यदि हन्याद धि कर्णं; परॊ लाभः स भवेत पाण्डवानाम
वैकर्तनॊ वा यदि तं निहन्यात; तथापि कृत्यं शक्तिनाशात कृतं सयात
इति पराज्ञः परज्ञयैतद विचार्य; घटॊत्कचं सूतपुत्रेण युद्धे
अयॊधयद वासुदेवॊ नृसिंहः; परियं कुर्वन पाण्डवानां हितं च
एतच चिकीर्षितं जञात्वा कर्णे मधुनिहा नृप
नियॊजयाम आस तदा दवैरथे राक्षसेश्वरम
घटॊत्कचं महावीर्यं महाबुद्धिर जनार्दनः
अमॊघाया विघातार्थं राजन दुर्मन्त्रिते तव
तदैव कृतकार्या हि वयं सयाम कुरूद्वह
न रक्षेद यदि कृष्णस तं पार्थं कर्णान महारथात
साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद भुवि
विना जनार्दनं पार्थॊ यॊगानाम ईश्वरं परभुम
तैस तैर उपायैर बहुभी रक्ष्यमाणः स पार्थिव
जयत्य अभिमुखः शत्रून पार्थः कृष्णेन पालितः
स विशेषं तव अमॊघायाः कृष्णॊ ऽरक्षत पाण्डवम
हन्यात कषिप्ता हि कौन्तेयं शक्तिर वृक्षम इवाशनिः
[धृ]
विरॊधी च कुमन्त्री च पराज्ञमानी ममात्मजः
यस्यैष समतिक्रान्तॊ वधॊपायॊ जयं परति
तवापि समतिक्रान्तम एतद गावल्गणे कथम
एतम अर्थं महाबुद्धे यत तवया नावबॊधितः
[स]
दुर्यॊधनस्य शकुनेर मम दुःशासनस्य च
रात्रौ रात्रौ भवत्य एषा नित्यम एव समर्थना
शवः सर्वसैन्यान उत्सृज्य जहि कर्ण धनंजयम
परेष्यवत पाण्डुपाञ्चालान उपभॊक्ष्यामहे ततः
अथ वा निहते पार्थे पाण्डुष्व अन्यतमं ततः
सथापयेद युधि वार्ष्णेयस तस्मात कृष्णॊ निपात्यताम
कृष्णॊ हि मूलं पाण्डूनां पार्थः सकन्ध इवॊद्गतः
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः
कृष्णाश्रयाः कृष्ण बलाः कृष्ण नाथाश च पाण्डवाः
कृष्णः परायणं चैषां जयॊतिषाम इव चन्द्रमाः
तस्मात पर्णानि शाखाश च सकन्धं चॊत्सृज्य सूतज
कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा
हन्याद यदि हि दाशार्हं कर्णॊ यादवनन्दनम
कृत्स्ना वसुमती राजन वशे ते सयान न संशयः
यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनॊ महात्मा
ननु तव वसुधा नरेन्द्र सर्वा; स गिरिसमुद्र वना वशं वरजेत
सा तु बुद्धिः कृताप्य एवं जाग्रति तरिदशेश्वरे
अप्रमेये हृषीकेशे युद्धकाले वयमुह्यत
अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः
न हय एनम ऐच्छत परमुखे सौतेः सथापयितुं रणे
अन्यांश चास्मै रथॊदारान उपस्थापयद अच्युतः
अमॊघां तां कथं शक्तिं मॊघां कुर्याम इति परभॊ
ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः
पप्रच्छ रथशार्दूल कर्णं परति महारथम
अयं च परत्ययः कर्णे शक्त्या चामितविक्रम
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा
[वासु]
दुःषासनश च कर्णश च शकुनिश च स सैन्धवः
सततं मन्त्रयन्ति सम दुर्यॊधन पुरॊगमाः
कर्ण कर्ण महेष्वास रणे ऽमितपराक्रम
नान्यस्य शक्तिर एषा ते मॊक्तव्या जयतां वर
ऋते महारथात पार्थात कुन्तीपुत्राद धनंजयात
स हि तेषाम अतियशा देवानाम इव वासवः
तस्मिन विनिहते सर्वे पाण्डवाः सृञ्जयैः सह
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः
तथेति च परतिज्ञातं कर्णेन शिनिपुंगव
हृदि नित्यं तु कर्णस्य वधॊ गाण्डीवधन्वनः
अहम एव तु राधेयं मॊहयामि युधां वर
यतॊ नावसृजच छक्तिं पाण्डवे शवेतवाहने
फल्गुनस्य हि तां मृत्युम अवगम्य युयुत्सतः
न निद्रा न च मे हर्षॊ मनसॊ ऽसति युधां वर
घटॊत्कचे वयंसितां तु दृष्ट्वा तां शिनिपुंगव
मृत्यॊर आस्यान्तरान मुक्तं पश्याम्य अद्य धनंजयम
न पिता न च मे माता न यूयं भरातरस तथा
न च पराणास तथा रक्ष्या यथा बीभत्सुर आहवे
तरैलॊक्यराज्याद यत किं चिद भवेद अन्यत सुदुर्लभम
नेच्छेयं सात्वताहं तद विना पार्थं धनंजयम
अतः परहर्षः सुमहान युयुधानाद्य मे ऽभवत
मृतं परत्यागतम इव दृष्ट्वा पार्थं धनंजयम
अतश च परहितॊ युद्धे मया कर्णाय राक्षसः
न हय अन्यः समरे रात्रौ शक्तः कर्णं परबाधितुम
[स]
इति सात्यकये पराह तदा देवकिनन्दनः
धनंजय हिते युक्तस तत्प्रिये सततं रतः
[धृ]
कर्णदुर्यॊधनादीनां शकुनेः सौबलस्य च
अपनीतं महत तात तव चैव विशेषतः
यद आजानीत तां शक्तिम एकघ्नीं सततं रणे
अनिवार्याम असह्यां च देवैर अपि स वासवैः
सा किमर्थं न कर्णेन परवृत्ते समरे पुरा
न देवकी सुते मुक्ता फल्गुने वापि संजय
[स]
संग्रामाद विनिवृत्तानां सर्वेषां यॊ विशां पते
रात्रौ कुरु कुलश्रेष्ठ मन्त्रॊ ऽयं समजायत
परभातमात्रे शवॊभूते केशवायार्जुनाय वा
शक्तिर एष विमॊक्तव्या कर्ण कर्णेति नित्यशः
ततः परभातसमये राजन कर्णस्य दैवतैः
अन्येषां चैव यॊधानां सा बुद्धिर नश्यते पुनः
दैवम एव परं मन्ये यत कर्णॊ हस्तसंस्थया
न जघान रणे पार्थं कृषणं वा देवकी सुतम
तस्य हस्तिस्थिता शक्तिः कालरात्रिर इवॊद्यता
दैवॊपहतबुद्धित्वान न तां कर्णॊ विमुक्तवान
कृष्णे वा देवकीपुत्रे मॊहितॊ देव मायया
पार्थे वा शक्र कल्पे वै वधार्थं वासवी परभॊ
[धृ]
दैवेनैव हता यूयं सवबुद्ध्या केशवस्य च
गता हि वासवी हत्वा तृणभूतं घटॊत्कचम
कर्णश च मम पुत्राश च सर्वे चान्ये च पार्थिवाः
अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम
भूय एव तु मे शंस यथा युद्धम अवर्तत
कुरूणां पाण्डवानां च हैडिम्बे निहते तदा
ये च ते ऽभयद्रवन दरॊणं वयाढानीकाः परहारिणः
सृञ्जयाः सह पाञ्चालैस ते ऽपय अकुर्वन कथं रणम
सौमदत्तेर वधाद दरॊणम आयस्तं सैधवस्य च
अमर्षाज जीवितं तयक्त्वा गाहमानं वरूथिनीम
जृम्भमाणम इव वयाघ्रं वयात्ताननम इवान्तकम
कथं परत्युद्ययुर दरॊणम अस्यन्तं पाण्डुसृञ्जयाः
आचार्यं ये च ते ऽरक्षन दुर्यॊधन पुरॊगमाः
दरौणिकर्णकृपास तात ते ऽपय अकुर्वन किम आहवे
भारद्वाजं जिघांसन्तौ सव्यसाचि वृकॊदरौ
समार्छन मामका युद्धे कथं संजय शंस मे
सिन्धुराजवधेनेमे घटॊत्कच वधेन ते
अमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि
[स]
हते घटॊत्कचे राजन कर्णेन निशि राक्षसे
परणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु
आपतत्सु च वेगेन वध्यमाने बले ऽपि च
विगाढायां रजन्यां च राजा दैन्यं परं गतः
अब्रवीच च महाबाहुर भीमसेनं परंतपः
आवारय महाबाहॊ धार्तराष्ट्रस्य वाहिनीम
हैडिम्बस्याभिघातेन मॊहॊ माम आविशन महान
एवं भीमं समादिश्य सवरथे समुपाविशत
अश्रुपूर्णमुखॊ राजा निःश्वसंश च पुनः पुनः
कश्मलं पराविशद घॊरं दृष्ट्वा कर्णस्य विक्रमम
तं तथा वयथितं दृष्ट्वा कृष्णॊ वचनम अब्रवीत
मा वयथां कुरु कौन्तेय नैतत तवय्य उपपद्यते
वैक्लव्यं भरतश्रेष्ठ यथा पराकृतपूरुषे
उत्तिष्ठ राजन युध्यस्व वह गुर्वीं धुरं विभॊ
तवयि वैक्लव्यम आपन्नॊ संशयॊ विजये भवेत
शरुत्वा कृष्णस्य वचनं धर्मराजॊ युधिष्ठिरः
विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनम अब्रवीत
विदिता ते महाबाहॊ धर्माणां परमा गतिः
बरह्महत्या फलं तस्य यः कृतं नावबुध्यते
अस्माकं हि वनस्थानां हैडिम्बेन महात्मना
बलेनापि सता तेन कृतं साह्यं जनार्दन
अस्त्रहेतॊर गतं जञात्वा पाण्डवं शवेतवाहनम
असौ कृष्ण महेष्वासः काम्यके माम उपस्थितः
उषितश च सहास्माभिर यावन नासीद धनंजयः
गन्धमादन यात्रायां दुर्गेभ्यश च सम तारिताः
पाञ्चाली च परिश्रान्ता पृष्ठेनॊढा महात्मना
आरम्भाच चैव युद्धानां यद एष कृतवान परभॊ
मदर्थं दुष्करं कर्मकृतं तेन महात्मना
सवभावाद या च मे परीतिः सहदेवे जनार्दन
सैव मे दविगुणा परीती राक्षसेन्द्रे घटॊत्कचे
भक्तश च मे महाबाहुः परियॊ ऽसयाहं परियश च मे
येन विन्दामि वार्ष्णेय कश्मलं शॊकतापितः
पश्य सैन्यानि वार्ष्णेय दराव्यमाणानि कौरवैः
दरॊणकर्णौ च संयत्तौ पश्य युद्धे महारथौ
निशीथे पाण्डवं सैन्यम आभ्यां पश्य परमर्दितम
गजाभ्याम इव मत्ताभ्यां यथा नडवनं महत
अनादृत्य बलं बाह्वॊर भीमसेनस्य माधव
चित्रास्त्रतां च पार्थस्य विक्रमन्ते सम कौरवाः
एष दरॊणश च कर्णश च राजा चैव सुयॊधनः
निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे
कथम अस्मासु जीवत्सु तवयि चैव जनार्दन
हैडिम्बः पराप्तवान मृत्युं सूतपुत्रेण संगतः
कदर्थी कृत्यनः सर्वान पश्यतः सव्यसाचिनः
निहतॊ राक्षसः कृष्ण भैमसेनिर महाबलः
यदाभिमन्युर निहतॊ धार्तराष्ट्रैर दुरात्मभिः
नासीत तत्र रणे कृष्ण सव्यसाची महारथः
निरुद्धाश च वयं सर्वे सैन्धवेन दुरात्मना
निमित्तम अभवद दरॊणः सपुत्रस तत्र कर्मणि
उपदिष्टॊ वधॊपायः कर्णस्य गुरुणा सवयम
वयायच्छतश च खड्गेन दविधा खड्गं चकार ह
वयसने वर्तमानस्य कृतवर्मा नृशंसवत
अश्वाञ जघान सहसा तथॊभौ पार्ष्णिसारथी
तथेतरे महेष्वासाः सौभद्रं युध्य अपातयन
अल्पे च कारणे कृष्णे हतॊ गाण्डीवधन्वना
सैन्धवॊ यादव शरेष्ठ तच च नातिप्रियं मम
यदि शत्रुवधे नयाय्यॊ भवेत कर्तुं च पाण्डवैः
दरॊणकर्णौ रणे पूर्वं हन्तव्याव इति मे मतिः
एतौ मूलं हि दुःखानाम अस्माकं पुरुषर्षभ
एतौ रणे समासाद्य पराश्वस्तः सुयॊधनः
यत्र वध्यॊ भवेद दरॊणः सूतपुत्रश च सानुगः
तत्रावधीन महाबाहुः सैन्धवं दूरवासिनम
अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः
ततॊ यास्याम्य अहं वीर सवयं कर्ण जिघांसया
भीमसेनॊ महाबाहुर दरॊणानीकेन संगतः
एवम उक्त्वा ययौ तूर्णं तवरमाणॊ युधिष्ठिरः
स विस्फार्य महच चापं शङ्खं परध्माप्य भैरवम
ततॊ रथसहस्रेण गजानां च शतैस तरिभिः
वाजिभिः पञ्च साहस्रैस तरिसाहस्रैः परभद्रकैः
वृतः शिखण्डी तवरितॊ राजानं पृष्ठतॊ ऽनवयात
ततॊ भेरीः समाजघ्नुः शङ्खान दध्मुश च दंशिताः
पाञ्चालाः पाण्डवाश चैव युधिष्ठिरपुरॊगमाः
ततॊ ऽबरवीन महाबाहुर वासुदेवॊ धनंजयम
एष परयाति तवरितॊ करॊधाविष्टॊ युधिष्ठिरः
जिघांसुः सूतपुत्रस्य तस्यॊपेक्षा न युज्यते
एवम उक्त्वा हृषीकेशः शीघ्रम अश्वान अचॊदयत
दूरं च यात्म राजानम अन्वगच्छज जनार्दनः
तं दृष्ट्वा सहसा यान्तं सूतपुत्र जिघांसया
शॊकॊपहतसंकल्पं दह्यमानम इवाग्निना
अभिगम्याब्रवीद वयासॊ धर्मपुत्रं युधिष्ठिरम
कर्णम आसाद्य संग्रामे दिष्ट्या जीवति फल्गुनः
सव्यसाचि वधाकाङ्क्षी शक्तिं रक्षितवान हि सः
न चागाद वैरथं जिष्णुर दिष्ट्या तं भरतर्षभ
सृजेतां सपर्धिनाव एतौ दिव्यान्य अस्त्राणि सर्वशः
वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः
वासवीं समरे शक्तिं धरुवं मुञ्चेद युधिष्ठिर
ततॊ भवेत ते वयसनं घॊरं भरतसत्तम
दिष्ट्या रक्षॊ हतं युद्धे सूतपुत्रेण मानद
वासवीं कारणं कृत्वा कालेनापहतॊ हय असौ
तवैव कारणाद रक्षॊ निहतं तात संयुगे
मा करुधॊ भरतश्रेष्ठ मा च शॊके मनः कृथाः
पराणिनाम इह सर्वेषाम एषा निष्ठा युधिष्ठिर
भरातृभिः सहितः सर्वैः पार्थिवैश च महात्मभिः
कौरवान समरे राजन्न अभियुध्यस्व भारत
पञ्चमे दिवसे चैव पृथिवी ते भविष्यति
नित्यं च पुरुषव्याघ्र धर्मम एव विचिन्तय
आनृशंस्यं तपॊ दानं कषमां सत्यं च पाण्डव
सेवेथाः परमप्रीतॊ यतॊ धर्मस ततॊ जयः
इत्य उक्त्वा पाण्डवं वयासत तत्रैवान्तरधीयत
[स]
घटॊत्कचे तु निहते सूतपुत्रेण तां निशाम
दुःखामर्ष वशं पराप्तॊ धर्मपुत्रॊ युधिष्ठिरः
दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव
धृष्टद्युम्नम उवाचेदं कुम्भयॊनिं निवारय
तवं हि दरॊण विनाशाय समुत्पन्नॊ हुताशनात
स शरः कवची खड्गी धन्वी च परतापनः
अभिद्रव रणे हृष्टॊ न च ते भीः कथं चन
जनमेजयः शिखण्डी च दौर्मुखिश च यशॊ धनः
अभिद्रवन्तु संहृष्टाः कुम्भयॊनिं समन्तताः
नकुलः सहदेवश च दरौपदेयाः परभद्रकाः
दरुपदश च विराटश च पुत्रभ्रातृसमन्वितौ
सात्यकिः केकयाश चैव पाण्डवश च धनंजयः
अभिद्रवन्तु वेगेन भारद्वाज वधेप्सया
तथैव रथिनः सर्वे हस्त्यश्वं यच च किं चन
पादाताश च रणे दरॊणं परापयन्तु महारथम
तथाज्ञप्तास तु ते सर्वे पाण्डवेन महात्मना
अभ्यद्रवन्त वेगेन कुम्भयॊनिं युयुत्सया
आगच्छतस तान सहसा सर्वॊद्यॊगेन पाण्डवान
परतिजग्राह समरे दरॊणः शस्त्रभृतां वरः
ततॊ दुर्यॊधनॊ राजा सर्वॊद्यॊगेन पाण्डवान
अभ्यद्रवत सुसंक्रुद्ध इच्छन दरॊणस्य जीवितम
ततः परववृते युद्धं शरान्तवाहन सैनिकम
पाण्डवानां कुरूणां च गर्जताम इतरेतरम
निद्रान्धास ते महाराज परिश्रान्ताश च संयुगे
नाभ्यपद्यन्त समरे कां चिच चेष्टां महारथाः
तरियामा रजनी चैषा घॊररूपा भयानका
सहस्रयाम परतिमा बभूव पराणहारिणी
वध्यतां च तथा तेषां कषतानां च विशेषतः
अहॊरात्रिः समाजज्ञे निद्रान्धानां विशेषतः
सर्वे हय आसन निरुत्साहाः कषत्रिया दीनचेतसः
तव चैव परेषां च गतास्त्रा विगतेषवः
ते तथा परयन्तश च हरीमन्तश च विशेषतः
सवधर्मम अनुपश्यन्तॊ न जहुर सवाम अनीकिनीम
शस्त्राण्य अन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः
गजेष्व अन्ये रथेष्व अन्ये हयेष्व अन्ये च भारत
निध्रान्धा नॊ बुबुधिरे कां चिच चेष्टां नराधिपाः
ते ऽनयॊन्यं समरे यॊधाः परेषयन्त यमक्षयम
सवप्नायमानास तव अपरे परान इति विचेतसः
आत्मानं समरे जघ्नु सवान एव च परान अपि
नाना वाचॊ विमुञ्चन्तॊ निद्रान्धास ते महारणे
यॊद्धव्यम इति तिष्ठन्तॊ निद्रा संसक्तलॊचनाः
संमर्द्यान्ये रणे के चिन निद्रान्धाश च परस्परम
जघ्नुः शूरा रणे राजंस तस्मिंस तमसि दारुणे
हन्यमानं तथात्मानं परेभ्यॊ बहवॊ जनाः
नाभ्यजानन्त समरे निद्रया मॊहिता भृशम
तेषाम एतादृशीं चेष्टां विज्ञाय पुरुषर्षभः
उवाच वाक्यं बीभत्सुर उच्चैः संनादयन दिशः
शरान्ता भवन्तॊ निद्रान्धाः सर्व एव स वासवाः
तमसा चावृते सैन्ये रजसा बहुलेन च
ते यूयं यदि मन्यध्वम उपारमत सैनिकाः
निमीलयत चात्रैव रणभूमौ मुहूर्तकम
ततॊ विनिद्र विश्रान्ताश चन्द्रमस्य उदिते पुनः
संसाधयिष्यथान्यॊन्यं सवर्गाय कुरुपाण्डवाः
तद वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते
अरॊचयन्त सैन्यानि तथा चान्यॊन्यम अब्रुवन
चुक्रुशुः कर्ण कर्णेति राजन दुर्यॊधनेति च
उपारमत पाण्डूनां विरता हि वरूथिनी
तथा विक्रॊशमानस्य फल्गुनस्य ततस ततः
उपारमत पाण्डूनां सेना तव च भारत
ताम अस्य वाचं देवाश च ऋषयश च महात्मनः
सर्वसैन्यानि चाक्षुद्राः परहृष्टाः पत्यपूजयन
तत संपूज्य वचॊ ऽकरूरं सर्वसैन्यानि भारत
मुहूतम अस्वपन राजञ शरान्तानि भरतर्षभ
सा तु संप्राप्य विश्रामं धवजिनी तव भारत
सुखम आप्तवती वीरम अर्जुनं परत्यपूजयत
तवयि वेदास तथास्त्राणि तवयि बुद्धिपराक्रमौ
धर्मस तवयि महाबाहॊ दया भूतेषु चानघ
यच चाश्वस्तास तवेच्छामः शर्म पार्थ तद अस्तु ते
मनसश च परियान अर्थान वीर कषिप्रम अवाप्नुहि
इति ते तं नरव्याघ्रं परशंसन्तॊ महारथाः
निद्रया समवाक्षिप्तास तूष्णीम आसन विशां पते
अश्वपृष्ठेषु चाप्य अन्ये रथनीडेषु चापरे
गजस्कन्धगताश चान्ये शेरते चापरे कषितौ
सायुधाः सगदाश चैव स खड्गाः स परश्वधाः
स परासकवचाश चान्ये नराः सुप्ताः पृथक पृथक
गजास ते पन्नगाभॊगैर हस्तैर भूरेणु रूषितैः
निद्रान्धा वसुधां चक्रुर घराणनिःश्वासशीतलाम
गजाः शुशुभिरे तत्र निःश्वसन्तॊ महीतले
विशीर्णा गिरयॊ यद्वन निःश्वसद्भिर महॊरगैः
समां च विषमां चक्रुः खुराग्रैर विक्षतां महीम
हयाः काञ्चनयॊक्त्राश च केसरालम्बिभिर युगैः
सुषुपुस तत्र राजेन्द्र युक्ता वाहेषु सर्वशः
तत तथा निद्रया भग्नम अवाचम अस्वपद बलम
कुशलैर इव विन्यस्तं पटे चित्रम इवाद्भुतम
ते कषत्रियाः कुण्डलिनॊ युवानः; परस्परं सायकविक्षताङ्गाः
कुम्भेषु लीनाः सुषुपुर गजानां; कुचेषु लग्ना इव कामिनीनाम
ततः कुमुदनाथेन कामिनी गण्डपाण्डुना
नेत्रानन्देन चन्द्रेण माहेन्द्री दिग अलंकृता
ततॊ मुहूर्ताद भगवान पुरस्ताच छशलक्षणः
अरुणं दर्शयाम आस गरसञ जयॊतिः परभं परभुः
अरुणस्य तु तस्यानु जातरूपसमप्रभम
रश्मिजालं महच चन्द्रॊ मन्दं मन्दम अवासृजत
उत्सारयन्तः परभया तमस ते चन्द्ररश्मयः
पर्यगच्छञ शनैः सर्वा दिशः खं च कषितिं तथा
ततॊ मुहूर्ताद भुवनं जयॊतिर भूतम इवाभवत
अप्रख्यम अप्रकाशं च जगामाशु तमस तथा
परतिप्रकाशिते लॊके दिवा भूते निशाकरे
विचेरुर न विचेरुश च राजन नक्तंचरास ततः
बॊध्यमानं तु तत सैन्यं राजंश चन्द्रस्य रश्मिभिः
बुबुधे शतपत्राणां वनं महद इवाम्भसि
यथा चन्द्रॊदयॊद्भूतः कषुभितः सागरॊ भवेत
तथा चन्द्रॊदयॊद्भूतः स बभूव बलार्णवः
ततः परववृते युद्धं पुनर एव विशां पते
लॊके लॊकविनाशाय परं लॊकम अभीप्सताम
[स]
ततॊ दुर्यॊधनॊ दरॊणम अभिगम्येदम अब्रवीत
अमर्षवशम आपन्नॊ जनयन हर्षतेजसी
न मर्षणीयाः संग्रामे विश्रमन्तः शरमान्विताः
सपत्ना गलान मनसॊ लब्धलक्ष्या विशेषतः
तत तु मर्षितम अस्माभिर भवतः परियकाम्यया
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः
सर्वथा परिहीनाः सम तेजसा च बलेन च
भवता पाल्यमानास ते विवर्धन्ते पुनः पुनः
दिव्यान्य अस्त्राणि सर्वाणि बरह्मास्त्रादीनि यान्य अपि
तानि सर्वाणि तिष्ठन्ति भवत्य एव विशेषतः
न पाण्डवेया न वयं नान्ये लॊके धनुर्धराः
युध्यमानस्य ते तुल्याः सत्यम एतद बरवीमि ते
स सुरासुरगन्धर्वान इमाँल लॊकान दविजॊत्तम
सर्वास्त्रविद भवान हन्याद दिव्यैर अस्त्रैर न संशयः
स भवान मर्षयत्य एनांस तवत्तॊ भीतान विशेषतः
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम
एवम उद्धर्षितॊ दरॊणः कॊपितश चात्मजेन ते
स मन्युर अब्रवीद राजन दुर्यॊधनम इदं वचः
सथविरः सन परं शक्त्या घटे दुर्यॊधनाहवे
अतः परं मया कार्यं कषुद्रं विजयगृद्धिना
अनस्त्रविद अयं सर्वॊ हन्तव्यॊ ऽसत्रविदा जनः
यद भवान मन्यते चापि शुभं वा यदि वाशुभम
तद वै कर्तास्मि कौरव्य वचनात तव नान्यथा
निहत्य सर्वपाञ्चालान युद्धे कृत्वा पराक्रमम
विमॊक्ष्ये कवचं राजन सत्येनायुधम आलभे
मन्यसे यच च कौन्तेयम अर्जुनं शरान्तम आहवे
तस्य वीर्यं महाबाहॊ शृणु सत्येन कौरव
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः
उत्सहन्ते रणे सॊढुं कुपितं सव्यसाचिनम
खाण्डवे येन भगवान परत्युद्यातः सुरेश्वरः
सायकैर वारितश चापि वर्षमाणॊ महात्मना
यक्षा नागास तथा दैत्या ये चान्ये बलगर्विताः
निहताः पुरुषेन्द्रेण तच चापि विदितं तव
गन्धर्वा घॊषयात्रायां चित्रसेनादयॊ जिताः
यूयं तैर हरियमाणाश च मॊक्षिता दृढधन्विना
निवातकवचाश चापि देवानां शत्रवस तथा
सुरैर अवध्याः संग्रामे तेन वीरेण निर्जिताः
दानवानां सहस्राणि हिरण्यपुरवासिनाम
विजिग्ये पुरुषव्याघ्रः स शक्यॊ मानुषैः कथम
परत्यक्षं चैव ते सर्वं यथाबलम इदं तव
कषपितं पाण्डुपुत्रेण चेष्टतां नॊ विशां पते
तं तथाभिप्रशंसन्तम अर्जुनं कुपितस तदा
दरॊणं तव सुतॊ राजन पुनर एवेदम अब्रवीत
अहं दुःशासनः कर्णः शकुनिर मातुलश च मे
हनिष्यामॊ ऽरजुनं संख्ये दवैधी कृत्याद्य भारतीम
तस्य तद वचनं शरुत्वा भारद्वाजॊ हसन्न इव
अन्ववर्तत राजानं सवस्ति ते ऽसत्व इति चाब्रवीत
कॊ हि गाण्डीवधन्वानं जवलन्तम इव तेजसा
अक्षयं कषपयेत कश चित कषत्रियः कषत्रियर्षभम
तं न वित्तपतिर नेन्द्रॊ न यमॊ न जलेश्वरः
नासुरॊरग रक्षांसि कषपयेयुः सहायुधम
मूढास तव एतानि भाषन्ते यानीमान्य आत्थ भारत
युद्धे हय अर्जुनम आसाद्य सवस्तिमान कॊ वरजेद गृहान
तवं तु सर्वातिशङ्कित्वान निष्ठुरः पापनिश्चयः
शरेयसस तवद्धिते युक्तांस तत तद वक्तुम इहेच्छसि
गच्छ तवम अपि कौन्तेयम आत्मार्थेभ्यॊ हि माचिरम
तवम अप्य आशंससे यॊद्धुं कुलजः कषत्रियॊ हय असि
इमान किं पार्थिवान सर्वान घातयिष्यस्य अनागसः
तवम अस्य मूलं वैरस्य तस्माद आसादयार्जुनम
एष ते मातुलः पराज्ञः कषत्रधर्मम अनुव्रतः
दूर्द्यूत देवी गान्धारिः परयात्व अर्जुनम आहवे
एषॊ ऽकषकुशलॊ जिह्मॊ दयूतकृत कितवः शठः
देविता निकृतिप्रज्ञॊ युधि जेष्यति पाण्डवान
तवया कथितम अत्यन्तं कर्णेन सह हृष्टवत
असकृच छून्यवन मॊहाद घृतराष्ट्रस्य शृण्वतः
अहं च तात कर्णश च भराता दुःशासनश च मे
पाण्डुपुत्रान हनिष्यामः सहिताः समरे तरयः
इति ते कत्थमानस्य शरुतं संसदि संसदि
अनुतिष्ठ परतिज्ञां तां सत्यवाग भव तैः सह
एष ते पाण्डवः शत्रुर अविषह्यॊ ऽगरतः सथितः
कषत्रधर्मम अवेक्षस्व शलाघ्यस तव वधॊ जयात
दत्तं भुक्तम अधीतं च पराप्तम ऐश्वर्यम ईप्सितम
कृतकृत्यॊ ऽनृणश चासि मा भैर युध्यस्व पाण्डवम
इत्य उक्त्वा समरे दरॊणॊ नयवर्तत यतः परे
दवैधी कृत्यततः सेनां युद्धं समभवत तदा
[स]
तरिभागमात्रशेषायां रात्र्यां युद्धम अवर्तत
कुरूणां पाण्डवानां च संहृष्टानां विशां पते
अथ चन्द्रप्रभां मुष्णन्न आदियस्य पुरःसरः
अरुणॊ ऽभयुदयां चक्रे ताम्री कुर्वन्न इवाम्बरम
ततॊ दवैधी कृते सैन्ये दरॊणः सॊमक पाण्डवान
अभ्यद्रवत सपाञ्चालान दुर्यॊधन पुरॊगमः
दवैधी भूतान कुरून दृष्ट्वा माधवॊ ऽरजुनम अब्रवीत
सपत्नान सव्यतः कुर्मि सव्यसाचिन्न इमान कुरून
स माधवम अनुज्ञाय कुरुष्वेति धनंजयः
दरॊणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत
अभिप्रायं तु कृष्णस्य जञात्वा परपुरंजयः
आजिशीर्ष गतं दृष्ट्वा भीमसेनं समासदत
[भम]
अर्जुनार्जुन बीभत्सॊ शृणु मे तत्त्वतॊ वचः
यदर्थं कषत्रिया सूते तस्य कालॊ ऽयम आगतः
अस्मिंश चेद आगतॊ काले शरेयॊ न परतिपत्स्यसे
असंभावित रूपः सन्न आनृशंस्यं करिष्यसि
सत्यश्री धर्मयशसां वीर्येणानृण्यम आप्नुहि
भिन्ध्य अनीकं युधां शरेष्ठ सव्यसाचिन्न इमान कुरु
[स]
स सव्यसाची भीमेन चॊदितः केशवेन च
कर्ण दरॊणाव अतिक्रम्य समन्तात पर्यवारयत
तम आजिशीर्षम आयान्तं दहन्तं कषत्रियर्षभान
पराक्रान्तं पराक्रम्य यतन्तः कषत्रियर्षभाः
नाशक्नुवन वारयितुं वर्धमानम इवानलम
अथ दुर्यॊधनः कर्णः शकुनिश चापि सौबलः
अभ्यवर्षञ शरव्रातैः कुन्तीपुत्रं धनंजयम
तेषाम अस्त्राणि सर्वेषाम उत्तमास्त्रविदां वरः
कदर्थी कृत्यराजेन्द्र शरवर्षैर अवाकिरत
अस्त्रैर अस्त्राणि संवार्य लघुहस्तॊ धनंजयः
सर्वान अविध्यन निशितैर दशभिर दशभिः शरैः
उद्धूता रजसॊ वृष्टिं शरवृष्टिस तथैव च
तमश च घॊरं शब्दश च तदा समभवन महान
न दयौर न भूमिर न दिशः पराज्ञायन्त तथागते
सैन्येन रजसा मूढं सर्वम अन्धम इवाभवत
नैव ते न वयं राजन परज्ञासिष्म परस्परम
उद्देशेन हि तेन सम समयुध्यन्त पार्थिवाः
विरथा रथिनॊ राजन समासाद्य परस्परम
केषेशु समसज्जन्त कवचेषु भुजेषु च
हताश्वा हतसूताश च निश्चेष्टा रथिनस तदा
जीवन्त इव तत्र सम वयदृश्यन्त भयार्दिताः
हतान गजान समाश्लिष्य पर्वतान इव वाजिनः
गतसत्त्वा वयदृश्यन्त तथैव सह सादिभिः
ततस तव अभ्यवसृत्यैव संग्रामाद उत्तरां दिशम
अतिष्ठद आहवे दरॊणॊ विधूम इव पावकः
तम आजिशीर्षाद एकान्तम अपक्रान्तं निशाम्य तु
समकम्पन्त सैन्यानि पाण्डवानां विशां पते
भराजमानं शरिया युक्तं जवलन्तम इव तेजसा
दरॊणं दृष्ट्वारयस तरेसुश चेलुर मम्लुश च मारिष
आह्वयन्तं परानीकं परभिन्नम इव वारणम
नैनं शशंसिरे जेतुं दानवा वासवं यथा
के चिद आसन निरुत्साहाः के चित करुद्धा मनस्विनः
विस्त्मिताश चाभवन के चित के चिद आसन्न अमर्षिताः
हस्तैर हस्ताग्रम अपरे परत्यपिंषन नराधिपाः
अपरे दशनैर ओष्ठान अदशन करॊधमूर्छिताः
वयाक्षिपन्न आयुधान अन्ये ममृदुश चापरे भुजान
अन्ये चान्वपतन दरॊणं तयक्तात्मानॊ महौजसः
पाञ्चालास तु विशेषेण दरॊण सायकपीडिताः
समसज्जन्त राजेन्द्र समरे भृशवेदनाः
ततॊ विराटद्रुपदौ दरॊणं परतिययू रणे
तथा चरन्तं संग्रामे भृशं समरदुर्जयम
दरुपदस्य ततः पौत्रास तरय एव विशां पते
चेदयश च महेष्वासा दरॊणम एवाभ्ययुर युधि
तेषां दरुपद पौत्राणां तरयाणां निशितैः शरैः
तरिभिर दरॊणॊ ऽहरत पराणांस ते हता नयपतन भुवि
ततॊ दरॊणॊ ऽजयद युद्धे चेदिकेकयसृञ्जयान
मत्स्यांश चैवाजयत सर्वान भारद्वाजॊ महारथः
ततस तु दरुपदः करॊधाच छरवर्षम अवाकिरत
दरॊणं परति महाराज विराटश चैव संयुगे
ततॊ दरॊणः सुपीताभ्यां भल्लाभ्याम अरिमर्दनः
दरुपदं च विराटं च परैषीद वैवस्तवक्षयम
हते विराटे दरुपदे केकयेषु तथैव च
तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च
हतेषु तरिषु वीरेषु दरुपदस्य च नप्तृषु
दरॊणस्य कर्म तद दृष्ट्वा कॊपदुःखसमन्वितः
शशाप रथिनां मध्ये धृष्टद्युम्नॊ महामनाः
इष्टापूर्तात तथा कषात्राद बराह्मण्याच च स नश्यतु
दरॊणॊ यस्याद्य मुच्येत यॊ वा दरॊणात पराङ्मुखः
इति तेषां परतिश्रुत्य मध्ये सर्वधनुष्मताम
आयाद दरॊणं सहानीकः पाञ्चाल्यः परवीरहा
पाञ्चालास तव एकतॊ दरॊणम अभ्यघ्नन पाण्डवान यतः
दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः
सॊदर्याश च यथामुख्यास ते ऽरक्षन दरॊणम आहवे
रक्ष्यमाणं तथा दरॊणं समरे तैर महात्मभिः
यतमानापि पाञ्चाला न शेकुः परतिवीक्षितुम
तत्राक्रुध्यद भीमसेनॊ धृष्टद्युम्नस्य मारिष
स एनं वाग्भिर उग्राभिस ततक्ष पुरुषर्षभ
दरुपदस्य कुले जातः सर्वास्त्रेष्व अस्त्रवित्तमः
कः कषत्रियॊ मन्यमानः परेक्षेतारिम अवस्थितम
पितृपुत्र वधं पराप्य पुमान कः परिहापयेत
विशेषतस तु शपथं शपित्वा राजसंसदि
एष वैश्वानर इव समिद्धः सवेन तेजसा
शरचापेन्धनॊ दरॊणः कषत्रं दहति तेजसा
पुरा करॊति निःशेषां पाण्डवानाम अनीकिनीम
सथिताः पश्यत मे कर्म दरॊणम एव वरजाम्य अहम
इत्य उक्त्वा पराविशत करुद्धॊ दरॊणानीकं वृकॊदरः
दृढैः पूर्णायतॊत्सृष्टैर दरावयंस तव वाहिनीम
धृष्टद्युम्नॊ ऽपि पाञ्चाल्यः परविश्य महतीं चमूम
आससाद रणे दरॊणं तदासीत तुमुलं महत
नैव नस तादृशं युद्धं दृष्टपूर्वं न च शरुतम
यथा सूर्यॊदये राजन समुत्पिञ्जॊ ऽभवन महान
संसक्तानि वयदृश्यन्त रथवृन्दानि मारिष
हतानि च विकीर्णानि शरीराणि शरीरिणाम
के चिद अन्यत्र गच्छन्तः पथि चान्यैर उपद्रुताः
विमुखाः पृष्ठतश चान्ये ताड्यन्ते पार्थिवॊ ऽपरे
तथा संसक्तयुद्धं तद अभवद भृशदारुणम
अतः संध्यागतः सूर्यः कषणेन समपद्यत
[स]
ते तथैव महाराज दंशिता रणमूर्धनि
संध्यागतं सहस्रांशुम आदित्यम उपतस्थिरे
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे
परकाशितेषु लॊकेषु पुनर युद्धम अवर्तत
दवंद्वानि यानि तत्रासन संसक्तानि पुरॊदयात
तान्य एवाभ्युदिते सूर्ये समसज्जन्त भारत
रथैर हया हयैर नागाः पादाताश चापि कुञ्जरैः
हया हयैः समाजग्मुः पादाताश च पदातिभिः
संसक्ताश च वियुक्ताश च यॊधाः संन्यपतन रणे
ते रात्रौ कृतकर्माणः शरान्ताः सूर्यस्य तेजसा
कषुत्पिपासापरीताङ्गा विसंज्ञा बहवॊ ऽभवन
शङ्खभेरि मृदङ्गानां कुञ्जराणां च गर्जताम
विस्फारित विकृष्टानां कार्मुकाणां च कूजताम
शब्दः समभवद राजन दिविस्पृग भरतर्षभ
दरवतां च पदातीनां शस्त्राणां विनिपात्यताम
हयानां हेषतां चैव रथानां च निवर्तताम
करॊशतां गर्जतां चैव तदासीत तुमुलं महत
विवृद्धस तुमुलः शब्दॊ दयाम अगच्छन महास्वनः
नानायुध निकृत्तानां चेष्टताम आतुरः सवनः
भूमाव अश्रूयत महांस तदासीत कृपणं महत
पततां पतितानां च पत्त्यश्वरथहस्तिनाम
तेषु सर्वेष्व अनीकेषु वयतिषक्तेष्व अनेकशः
सवे सवाञ जघ्नुः परे सवांश च सवे परांश च परान परे
वीरबाहुविसृष्टाश च यॊधेषु च गजेषु च
असयः परत्यदृश्यन्त वाससां नेजनेष्व इव
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः
स एव शब्दस तद रूपॊ वाससां निज्यताम इव
अर्धासिभिस तथा खड्गैस तॊमरैः सपरश्वधैः
निकृष्ट युद्धं संसक्तं महद आसीत सुदारुणम
गजाश कायप्रभवां नरदेव परवाहिनीम
शस्त्रमत्स्य सुसंपूर्णां मांसशॊणितकर्दमाम
आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम
नदीं परावर्तयन वीराः परलॊकप्रवाहिनीम
शरशक्त्यर्दिताः कलान्ता रात्रिमूढाल्प चेतसः
विष्टभ्य सर्ग गात्राणि वयतिष्ठन गजवाजिनः
संशुक्ष्क वदना वीराः शिरॊभिश चारुकुण्डलैः
युद्धॊपकरणैश चान्यैर अत्र तत्र परकाशितैः
करव्यादसंघैर आकीर्णं मृतैर अर्धमृतैर अपि
नासीद रथपथस तत्र सर्वम आयॊधनं परति
मज्जत्सु चक्रेषु रथान सत्त्वम आस्थाय वाजिनः
कथं चिद अवहञ शरान्ता वेपमानाः शरार्दिताः
कुलसत्त्वबलॊपेता वाजिनॊ वारणॊपमाः
विह्वलं तत समुद्भ्रान्तं स भयं भारतातुरम
बलम आसीत तदा सर्वम ऋते दरॊणार्जुनाव उभौ
ताव एवास्तां निलयनं ताव आर्तायनम एव च
ताव एवान्ये समासाद्य जग्मुर वैवस्तवक्षयम
आविघ्नम अभवत सर्वं कौरवाणां महद बलम
पाञ्चालानां च संसक्तं न पराज्ञायत किं चन
अन्तकाक्रीड सदृशे भीरूणां भयवर्धने
पृथिव्यां राजवंशानाम उत्थिते महति कषये
न तत्र कर्णं न दरॊणं नार्जुनं न युधिष्ठिरम
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम
न च दुःशासनं दरौणिं न दुर्यॊधन सौबलौ
न कृपं मद्रराजं वा कृतवर्माणम एव च
न चान्यान नैव चात्मानं न कषितिं न दिशस तथा
पश्याम राजन संसक्तान सैन्येन रजसावृतान
संभ्रान्ते तुमुले घॊरे रजॊ मेधे समुत्थिते
दवितीयाम इव संप्राप्ताम अमन्यन्त निशां तदा
न जञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः
न दिशॊ न दिवं नॊर्वीं न समं विषमं तथा
हस्तसंस्पर्शम आपन्नान परान वाप्य अथ वा सवकान
नयपातयंस तदा युद्धे नराः सम विजयैषिणः
उद्धूतत्वात तु रजसः परसेकाच छॊणितस्य च
परशशाम रजॊ भौमं शीघ्रत्वाद अनिलस्य च
तत्र नागा हया यॊधा रथिनॊ ऽथ पदातयः
पारिजात वनानीव वयरॊचन रुधिरॊक्षिताः
ततॊ दुर्यॊधनः कर्णॊ दरॊणॊ दुःशासनस तथा
पाण्डवैः समसज्जन्त चतुर्भिश चतुरॊ रथाः
दुर्यॊधनः सह भरात्रा यमाभ्यां समसज्जत
वृकॊदरेण राधेयॊ भारद्वाजेन चार्जुनः
तद घॊरं महद आश्चर्यं सर्वे परैक्षन समन्ततः
रथर्षभाणाम उग्राणां संनिपातम अमानुषम
रथमार्गैर विचित्रैश च विचित्ररथसंकुलम
अपश्यन रथिनॊ युद्धं विचित्रं चित्रयॊधिनाम
यतमानाः पराक्रान्ताः परस्परजिगीषवः
जीमूता इव घर्मान्ते शरवर्षैर अवाकिरन
ते रथान सूर्यसंकाशान आस्थिताः पुरुषर्षभाः
अशॊभन्त यथा मेघाः शारदाः समुपस्थिताः
सपर्धिनस ते महेष्वासाः कृतयत्ना धनुर्धराः
अभ्यगच्छंस तथान्यॊन्यं मत्ता गजवृषा इव
न नूनं देहभेदॊ ऽसति काले तस्मिन समागते
यत्र सर्वे न युगपद वयशीर्यन्त महारथाः
बाहुभिश चरणैश छिन्नैः शिरॊभिश चारुकुण्डलैः
कार्मुकैर विशिखैः परासैः खड्गैः परशु पट्टिशैः
नालीकक्षुर नाराचैर नखरैः शक्तितॊमरैः
अन्यैश च विविधाकारैर धौतैः परहरणॊत्तमैः
चित्रैश च विविधाकारैः शरीरावरणैर अपि
विचित्रैश च रथैर भग्नैर हतैश च गजवाजिभिः
शून्यैश च नगराकारैर हतयॊधध्वजै रथैः
अमनुष्यैर हयैर तरस्तैः कृष्यमाणैस ततस ततः
वातायमानैर असकृद धतवीरैर अलंकृतैः
वयजनैः कङ्कटैश चैव धवजैश च विनिपातितैः
छत्रैर आभरणैर वस्त्रैर माल्यैश च सुसुगन्धिभिः
हारैः किरीटैर मुकुटैर उष्णीषैः किङ्किणी गणैः
उरस्यैर मणिभिर निष्कैश चूडामणिभिर एव च
आसीद आयॊधनं तत्र नभस तारागणैर इव
ततॊ दुर्यॊधनस्यासीन नकुलेन समागमः
अमर्षितेन करुद्धस्य करुद्धेनामर्षितस्य च
अपसव्यं चकाराथ माद्रीपुत्रस तवात्मजम
किरञ शरशतैर हृष्टस तत्र नादॊ महान अभूत
अपसव्यं कृतः संख्ये भरातृव्येनात्यमर्षिणा
सॊ ऽमर्षितस तम अप्य आजौ परतिचक्रे ऽपसव्यतः
ततः परतिचिकीर्षन्तम अपसव्यं तु ते सुतम
नयवारयत तेजस्वी नकुलश चित्रमार्गवित
सर्वतॊ विनिवार्यैनं शरजालेन पीडयन
विमुखं नकुलश चक्रे तत सैन्याः समपूजयन
तिष्ठ तिष्ठेति नकुलॊ बभाषे तनयं तव
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च
[स]
ततॊ दुःशासनः करुद्धः सहदेवम उपाद्रवत
रथवेगेन तीव्रेण कम्पयन्न इव मेदिनीम
तस्यापतत एवाशु भल्लेनामित्रकर्शनः
माद्री सुतः शिरॊ यन्तुः स शिरस तराणम अच्छिनत
नैनं दुःशासनः सूतं नापि कश चन सैनिकः
हृतॊतमाग्नम आशुत्वात सहसेवेन बुद्धवान
यदा तव अस्मगृहीतत्वात परयान्त्य अश्वा यथासुखम
ततॊ दुःशासनः सूतं बुद्धवान गतचेतसम
सहयान संनिगृह्याजौ सवयं हयविशारदः
युयुधे रथिनां शरेष्ठश चित्रं लघु च सुष्ठु च
तद अस्यापूजयन कर्म सवे परे चैव संयुगे
हतसूत रथेनाजौ वयचरद यद अभीतवत
सहदेवस तु तान अश्वांस तीक्ष्णैर बाणैर अवाकिरत
पीड्यमानाः शरैश चाशु पराद्रवंस ते ततस ततः
स रश्मिशु विषक्तत्वाद उत्ससर्ज शरासनम
धनुषा कर्म कुर्वंस तु रश्मीन स पुनर उत्सृजत
छिद्रेषु तेषु तं बाणैर माद्रीपुत्रॊ ऽभयवाकिरत
परीप्संस तवत्सुतं कर्णस तदन्तरम अवापतत
वृकॊदरॊ ऽतः कर्णं तरिभिर भल्लैः समाहितैः
आकर्णपूर्णैर अभ्यघ्नन बाह्वॊर उरसि चानदत
संन्यवर्तत तं कर्णः संघट्टित इवॊरगः
तद अभूत तुमुलं युद्धं भीम राधेययॊर तदा
तौ वृषाव इव संक्रुद्धौ विवृत्तनयनाव उभौ
वेगेन महतान्यॊन्यं संरब्धाव अभिपेततुः
अभिसंश्लिष्टयॊस तत्र तयॊर आहवशौण्डयॊः
अभिन्न शरपातत्वाद गया युद्धम अवर्तत
गदया भीमसेनस तु कर्णस्य रथकूबरम
बिभेदाशु तदा राजंस तद अद्भुतम इवाभवत
ततॊ भीमस्य राधेयॊ गदाम आदाय वीर्यवान
अवासृजद रथे तां तु बिभेद गदया गदाम
ततॊ भीमः पुनर गुर्वीं चिक्षेपाधिरथेर गदाम
तां शरैर दशभिः कर्णः सुपुङ्खैः सुसमाहितैः
परत्यविध्यत पुनश चान्यैः सा भीमं पुनर आव्रजत
तस्याः परतिनिपातेन भीमस्य विपुलॊ धवजः
पपात सारथिश चास्य मुमॊह गदया हतः
स कर्णे सायकान अष्टौ वयसृजत करॊधमूर्छितः
धवजे शरासने चैव शरावापे च भारत
ततः पुनस तु राधेयॊ हयान अस्य रथेषुभिः
ऋष्यवर्णाञ जघानाशु तथॊभौ पार्ष्णिसारथी
स विपन्नरथॊ भीमॊ नकुलस्याप्लुतॊ रथम
हरिर यथा गिरेः शृङ्गं समाक्रामद अरिंदमः
तथा दरॊणार्जुनौ चित्रम अयुध्येतां महारथौ
आचार्य शिष्यौ राजेन्द्र कृतप्रहरणौ युधि
लघु संधानयॊगाभ्यां रथयॊश च रणेन च
मॊहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च
उपारमन्त ते सर्वे यॊद्धा अस्माकं परे तथा
अदृष्टपूर्वं पश्यन्तस तद युद्धं गुरु शिष्ययॊः
विचित्रान पृतना मध्ये रथमार्गान उदीर्यतः
अन्यॊन्यम अपसव्यं च कर्तुं वीरौ तदैषितः
पराक्रमं तयॊर यॊधा ददृशुस तं सुविस्मिताः
तयॊः समभवद युद्धं दरॊण पाण्डवयॊर महत
आमिषार्थं महाराज गगने शयेनयॊर इव
यद यच चकार दरॊणस तु कुन्तीपुत्र जिगीषया
तत तत परतिजघानाशु परहसंस तस्य पाण्डवः
यदा दरॊणॊ न शक्नॊति पाण्डवस्य विशेषणे
ततः परादुश्चकारास्त्रम अस्त्रमार्ग विशारदः
ऐन्द्रं पाशुपतं तवाष्ट्रं वायव्यम अथ वारुणम
मुक्तं मुक्तं दरॊण चापात तज जघान धनंजयः
अस्त्राण्य अस्त्रैर यदा तस्य विधिवद धन्ति पाण्डवः
ततॊ ऽसत्रैः परमैर दिव्यैर दरॊणः पार्थम अवाकिरत
यद यद अस्त्रं स पार्थाय परयुङ्क्ते विजिगीषया
तस्यास्त्रस्य विघातार्थं तत तत स कुरुते ऽरजुनः
स वध्यमानेष्व अस्त्रेषु दिव्येष्व अपि यथाविधि
अर्जुनेनार्जुनं दरॊणॊ मनसैवाभ्यपूजयत
मेने चात्मानम अधिकं पृथिव्याम अपि भारत
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः
वार्यमाणस तु पार्थेन तथा मध्ये महात्मनाम
यतमानॊ ऽरजुनं परीत्या परत्यवारयद उत्स्मयन
ततॊ ऽनतरिक्षे देवाश च गन्धर्वाश च सहस्रशः
ऋषयः सिद्धसंघाश च वयतिष्ठन्त दिदृक्षया
तद अप्सरॊभिर आकीर्णं यक्षराक्षस संकुलम
शरीमद आकाशम अभवद भूयॊ मेघाकुलं यथा
तत्र समान्तर्हिता वाचॊ वयचरन्त पुनः पुनः
दरॊणस्य सतवसंयुक्ताः पार्थस्य च महात्मनः
विसृज्यमानेष्व अस्त्रेषु जवालयत्सु दिशॊ दश
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम
न दैवं न च गान्धर्वं बराह्मं धरुवम इदं परम
विचित्रम इदम आश्चर्यं न नॊ दृष्टं न च शरुतम
अति पाण्डवम आचार्यॊ दरॊणं चाप्य अति पाण्डवः
नानयॊर अन्तरं दरष्टुं शक्यम अस्त्रेण केन चित
यदि रुद्रॊ दविधाकृत्ययुध्येतात्मानम आत्मना
तत्र शक्यॊपमा कर्तुम अन्यत्र तु न विद्यते
जञानम एकस्थम आचार्ये जञानं यॊगश च पाण्डवे
शौर्यम एकस्थम आचार्ये बलं शौर्यं च पाण्डवे
नेमौ शक्यौ महेष्वासौ रणे कषेपयितुं परैः
इच्छमानौ पुनर इमौ हन्येतां सामरं जगत
इत्य अब्रुवन महाराज दृष्ट्वा तौ पुरुषर्षभौ
अन्तर्हितानि भूतानि परकाशानि च संघशः
ततॊ दरॊणॊ बराह्मम अस्त्रं परादुश्चक्रे महामतिः
संतापयन रणे पार्थं भूतान्य अन्तर्हितानि च
ततश चचाल पृथिवी स पर्वत वनद्रुमा
ववौ च विषमॊ वायुः सागराश चापि चुक्षुभुः
ततस तरासॊ महान आसीत कुरुपाण्डवसेनयॊः
सर्वेषां चैव भूतानाम उद्यते ऽसत्रे महात्मना
ततः पार्थॊ ऽपय असंभ्रान्तस तद अस्त्रं परतिजघ्निवान
बरह्मास्त्रेणैव राजेन्द्र ततः सर्वम अशीशमत
यदा न गम्यते पारं तयॊर अन्यतरस्य वा
ततः संकुलयुद्धेन तद युद्धं वयकुली कृतम
नाज्ञायत ततः किं चित पुनर एव विशां पते
परवृत्ते तुमुले युद्धे दरॊण पाण्डवयॊर मृधे
शरजालैः समाकीर्णे मेघजालैर इवाम्बरे
न सम संपतते कश चिद अन्तरिक्षचरस तदा
[स]
तस्मिंस तथा वर्तमाने नराश्वगजसंक्षये
दुःशासनॊ महाराज धृष्टद्युम्नम अयॊधयत
स तु रुक्मरथासक्तॊ दुःशासन शरार्दितः
अमर्षात तव पुत्रस्य शरैर वाहान अवाकिरत
कषणेन स रथस तस्य स धवजः सह सारथिः
नादृश्यत महाराज पार्षतस्य शरैश चितः
दुःशासनस तु राजेन्द्र पाञ्चाल्यस्य महात्मनः
नाशकत परमुखे सथातुं शरजालप्रपीडितः
स तु दुःशासनं बाणैर विमुखीकृत्य पार्षतः
किरञ शरसहस्राणि दरॊणम एवाभ्ययाद रणे
परत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम
सॊदर्याणां तरयश चैव त एनं पर्यवारयन
तं यमौ पृष्ठतॊ ऽनवैतां रक्षन्तौ पुरुषर्षभौ
दरॊणायाभिमुखं यान्तं दीप्यमानम इवानलम
संप्रहारम अकुर्वंस ते सर्वे सप्त महारथाः
अमर्षिताः सत्त्ववन्तः कृत्वा मरणम अग्रतः
शुद्धात्मानः शुद्धवृत्ता राजन सवर्गपुरस्कृताः
आर्यं युद्धम अकुर्वन्त परस्परजिगीषवः
शुक्लाभिजन कर्माणॊ मतिमन्तॊ जनाधिपाः
धर्मयुद्धम अयुध्यन्त परेक्षन्तॊ गतिम उत्तमाम
न तत्रासीद अधर्मिष्ठम अशस्त्रं युद्धम एव च
नात्र कर्णी न नालीकॊ न लिप्तॊ न च वस्तकः
न सूची कपिशॊ नात्र न गवास्थिर गजास्थिकः
इषुर आसीन न संश्लिष्टॊ न पूतिर न च जिह्मगः
ऋजून्य एव विशुद्धानि सर्वे शस्त्राण्य अधारयन
सुयुद्धेन पराँल लॊकान ईप्सन्तः कीर्तिम एव च
तदासीत तुमुलं युद्धं सर्वदॊषविवर्जितम
चतुर्णां तव यॊधानां तैस तरिभिः पाण्डवैः सह
धृष्टद्युम्नस तु तान हित्वा तव राजन रथर्षभान
यमाभ्यां वारितान दृष्ट्वा शीघ्रास्त्रॊ दरॊणम अभ्ययात
निवारितास तु ते वीरास तयॊः पुरुषसिंहयॊः
समसज्जन्त चत्वारॊ वाताः पर्वतयॊर इव
दवाभ्यां दवाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ
समासक्तौ ततॊ दरॊणं धृष्टद्युम्नॊ ऽभयवर्तत
दृष्ट्वा दरॊणाय पाञ्चाल्यं वरजन्तं युद्धदुर्मदम
यमाभ्यां तांश च संसक्तांस तदन्तरम उपाद्रवत
दुर्यॊधनॊ महाराज किरञ शॊणितभॊजनान
तं सात्यकिः शीघ्रतरं पुनर एवाभ्यवर्तत
तौ परस्परम आसाद्य समिप्पे कुरु माधवौ
हसमानौ नृशार्दूलाव अभीतौ समगच्छताम
बाल्ये वृत्तानि सर्वाणि परीयमाणौ विचिन्त्य तौ
अन्यॊन्यं परेक्षमाणौ च हसमानौ पुनः पुनः
अथ दुर्यॊधनॊ राजा सात्यकिं परत्यभाषत
परियं सखायं सततं गर्हयन वृत्तम आत्मनः
धिक करॊधं धिक सखे लॊभं धिन मॊहं धिग अमर्षितम
धिग अस्तु कषात्रम आचारं धिग अस्तु बलम औरसम
यत तवं माम अभिसंधत्से तवां चाहं शिनिपुंगव
तवं हि पराणैः परियतरॊ ममाहं च सदा तव
समरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ
तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे
किम अन्यत करॊधलॊभाभ्यां युध्यामि तवाद्य सात्वत
तं तथा वादिनं राजन सात्यकिः परत्यभाषत
परहसन विशिखांस तीक्ष्णान उद्यम्य परमास्त्रवित
नेयं सभा राजपुत्र न चाचार्य निवेशनम
यत्र करीडितम अस्माभिस तदा राजन समागतैः
[दुर]
कव सा करीडा गतास्माकं बाल्ये वै शिनिपुंगव
कव च युद्धम इदं भूयः कालॊ हि दुरतिक्रमः
किं नु नॊ विद्यते कृत्यं धनेन धनलिप्सया
यत्र युध्यामहे सर्वे धनलॊभात समागताः
[सम्जय]
तं तथा वादिनं तत्र राजानं माधवॊ ऽबरवीत
एवंवृत्थं सदा कषत्रं यद धन्तीह गुरून अपि
यदि ते ऽहं परियॊ राजञ जहि मां माचिरं कृथाः
तवत्कृते सुकृताँल लॊकान गच्छेयं भरतर्षभ
या ते शक्तिर बलं चैव तत कषिप्रं मयि दर्शय
नेच्छाम्य एतद अहं दरष्टुं मित्राणां वयसनं महत
इत्य एवं वयक्तम आभाष्य परतिभाष्य च सात्यकिः
अभ्ययात तूर्णम अव्यग्रॊ निरपेक्षॊ विशां पते
तम आयान्तम अभिप्रेक्ष्य परत्यगृह्णात तवात्मजः
शरैश चावाकिरद राजञ शैनेयं तनयस तव
ततः परववृते युद्धं कुरु माधव सिंहयॊः
अन्यॊन्यं करुद्धयॊर घॊरं यथा दविरदसिंहयॊः
ततः पूर्णायतॊत्सृष्टैः सात्वतं युद्धदुर्मदम
दुर्यॊधनः परत्यविध्यद दशभिर निशितैः शरैः
तं सात्यकिः परत्यविद्धत तथैव दशभिः शरैः
पञ्चाशता पुनश चाजौ तरिंशता दशभिश च ह
तस्य संधधतश चेषून संहितेषुं च कार्मुकम
अच्छिनत सात्यकिस तूर्णं शरैश चैवाभ्यवीवृषत
स गाढविद्धॊ वयथितः परत्यपायाद रथान्तरम
दुर्यॊधनॊ महाराज दाशार्ह शरपीडितः
समाश्वस्य तु पुत्रस ते सात्यकिं पुनर अभ्ययात
विसृजन्न इषुजालानि युयुधान रथं परथि
तथैव सात्यकिर बाणान दुर्यॊधन रथं परति
परततं वयसृजद राजंस तत संकुलम अवर्तत
तत्रेषुभिः कषिप्यमाणैः पतद्भिश च समन्ततः
अग्नेर इव महाकक्षे शब्दः समभवन महान
तत्राभ्यधिकम आलक्ष्य माधवं रथसत्तमम
कषिप्रम अभ्यपतत कर्णः परीप्संस तनयं तव
न तु तं मर्षयाम आस भीमसेनॊ महाबलः
अभ्ययात तवरितः कर्णं विसृजन सायकान बहून
तस्य कर्णः शितान बाणान परतिहन्य हसन्न इव
धनुः शरांश च चिच्छेद सूतं चाभ्यहनच छरैः
भीमसेनस तु संक्रुद्धॊ गदाम आदाय पाण्डवः
धवजं धनुश च सूतं च संममर्दाहवे रिपॊः
अमृष्यमाणः कर्णस तु भीमसेनम अयुध्यत
विविधैर इषुजालैश च नानाशस्त्रैश च संयुगे
संकुले वर्तमाने तु राजा धर्मसुतॊ ऽबरवीत
पाञ्चालानां नरव्याघ्रान मत्स्यानां च नरर्षभान
ये नः पराणाः शिरॊ ये नॊ ये नॊ यॊधा महाबलाः
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः
किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः
कषत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः
जयन्तॊ वध्यमाना वा गतिम इष्टां गमिष्यथ
जित्वा च बहुभिर यज्ञैर यक्ष्यध्वं भूरिदक्षिणैः
हता वा देवसाद भूत्वा लॊकान पराप्स्यथ पुष्कलान
ते राज्ञा चॊदिता वीरा यॊत्स्यमाना महारथाः
चतुर्धा वहिनीं कृत्वा तवरिता दरॊणम अभ्ययुः
पाञ्चालास तव एकतॊ दरॊणम अभ्यघ्नन बहुभिः शरैः
भीमसेनपुरॊगाश च एकतः पर्यवारयन
आसंस तु पाण्डुपुत्राणां तरयॊ ऽजिह्मा महारथाः
यमौ च भीमसेनश च पराक्रॊशन्त धनंजयम
अभिद्रवार्जुन कषिप्रं कुरून दरॊणाद अनानुद
तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम
कौरवेयांस ततः पार्थः सहसा समुपाद्रवत
पाञ्चालान एव तु दरॊणॊ धृष्टद्युम्नपुरॊगमान
पाञ्चालानां ततॊ दरॊणॊ ऽपय अकरॊत कदनं महत
यथा करुद्धॊ रणे शक्रॊ दानवानां कषयं पुरा
दरॊणास्त्रेण महाराज वध्यमानाः परे युधि
नात्रसन्त रणे दरॊणात सत्त्ववन्तॊ महारथाः
वध्यमाना महाराज पाञ्चालाः सृञ्जयास तथा
दरॊणम एवाभ्ययुर युद्धे मॊहयन्तॊ महारथम
तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः
अभवद भैरवॊ नादॊ वध्यतां शरशक्तिभिः
वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना
उदीर्यमाणे दरॊणास्त्रे पाण्डवान भयम आविशत
दृष्ट्वाश्वनरसंघानां विपुलं च कषयं युधि
पाण्डवेया महाराज नाशंसुर विजयं तदा
कच चिद दरॊणॊ न नः सर्वान कषपयेत परमास्त्रवित
समिद्धः शिशिरापाये दहन कक्षम इवानलः
न चैनं संयुगे कश चित समर्थः परतिवीक्षितुम
न चैनम अर्जुनॊ जातु परतियुध्येत धर्मवित
तरस्तान कुन्तीसुतान दृष्ट्वा दरॊण सायकपीडितान
मतिमाञ शरेयसे युक्तः केशवॊ ऽरजुनम अब्रवीत
नैष युद्धेन संग्रामे जेतुं शक्यः कथं चन
अपि वृत्रहणा युद्धे रथयूथप यूथपः
आस्थीयतां जये यॊगॊ धर्मम उत्सृज्य पाण्डव
यथा वः संयुगे सर्वान न हन्याद रुक्मवाहनः
अश्वत्थाम्नि हते नैष युध्येद इति मतिर मम
तं हतं संयुगे कश चिद अस्मै शंसतु मानवः
एतन नारॊचयद राजन कुन्तीपुत्रॊ धनंजयः
अन्ये तव अरॊचयन सर्वे कृच्छ्रेण तु युधिष्ठिरः
ततॊ भीमॊ महाबाहुर अनीके सवे महागजम
जघान गदया राजन्न अश्वत्थामानम इत्य उत
भीमसेनस तु सव्रीडम उपेत्य दरॊणम आहवे
अश्वत्थामा हत इति शब्दम उच्चैश चकार ह
अश्वत्त्मामेति हि गजः खयातॊ नाम्ना हतॊ ऽभवत
कृत्वा मनसि तं भीमॊ मिथ्या वयाहृतवांस तदा
भीमसेन वचः शरुत्वा दरॊणस तत्परमप्रियम
मनसा सन्नगात्रॊ ऽभूद यथा सैकतम अम्भसि
शङ्कमानः स तन मिथ्या वीर्यज्ञः सवसुतस्य वै
हतः स इति च शरुत्वा नैव धैर्याद अकम्पत
स लब्ध्वा चेतनां दरॊणः कषणेनैव समाश्वसत
अनुचिन्त्यात्मनः पुत्रम अविषह्यम अरातिभिः
स पार्षतम अभिद्रुत्य जिघांसुर मृत्युम आत्मनः
अवाकिरत सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम
तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः
तथा चरन्तं संग्रामे सर्वतॊ वयकिरच छरैः
ततः परादुष्करॊद दरॊणॊ बराह्मम अस्त्रं परंतपः
वधाय तेषां शूराणां पाञ्चालानाम अमर्षितः
ततॊ वयरॊचत दरॊणॊ विनिघ्नन सर्वसॊमकान
शिरांस्य अपातयच चापि पाञ्चालानां महामृधे
तथैव परिघाकारान बाहून कनकभूषणान
ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः
मेदिन्याम अन्वकीर्यन्त वातनुन्ना इव दरुमाः
कुञ्जराणां च पततां हयौघानां च भारत
अगम्यरूपा पृथिवी मांसशॊणितकर्दमा
हत्वा विंशतिसाहस्रान पाञ्चालानां रथव्रजान
अतिष्ठद आहवे दरॊणॊ विधूमॊ ऽगनिर इव जवलन
तथैव च पुनः करुद्धॊ भारद्वाजः परतापवान
वसु दानस्य भल्लेन शिरः कायाद अपाहरत
पुनः पञ्चशतान मस्त्यान षट सहस्रांश च सृञ्जयान
हस्तिनाम अयुतं हत्वा जघानाश्वायुतं पुनः
कषत्रियाणाम अभावाय दृष्ट्वा दरॊणम अवस्थितम
ऋषयॊ ऽभयागमंस तूर्णं हव्यवाहपुरॊगमाः
विश्वामित्रॊ जमदग्निर भारद्वाजॊ ऽथ गौतमः
वसिष्ठः कश्यपॊ ऽतरिश च बरह्मलॊकं निनीषवः
सिकताः पृश्नयॊ गर्गा बालखिल्या मरीचिपाः
भृगवॊ ऽङगिरसश चैव सूक्ष्माश चान्ये महर्षयः
त एनम अब्रुवन सर्वे दरॊणम आहवशॊभिनम
अधर्मतः कृतं युद्धं समयॊ निधनस्य ते
नयस्यायुधं रणे दरॊण समेत्यास्मान अवस्थितान
नातः करूरतरं कर्म पुनः कर्तुं तवम अर्हसि
वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च
बराह्मणस्य विशेषेण तवैतन नॊपपद्यते
नयस्यायुधम अमॊघेषॊ तिष्ठ वर्त्मनि शाश्वते
परिपूर्णश च कालस ते वस्तुं लॊके ऽदय मानुषे
इति तेषां वचः शरुत्वा भीमसेन वचश च तत
धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत
स दह्यमानॊ वयथितः कुन्तीपुत्रं युधिष्ठिरम
अहतं वा हतं वेति पप्रच्छ सुतम आत्मनः
सथिरा बुद्धिर हि दरॊणस्य न पार्थॊ वक्ष्यते ऽनृतम
तरयाणाम अपि लॊकानाम ऐश्वर्यार्थे कथं चन
तस्मात तं परिपप्रच्छ नान्यं कं चिद विशेषतः
तस्मिंस तस्य हि सत्याशा बाल्यात परभृति पाण्डवे
ततॊ निष्पाण्डवाम उर्वीं करिष्यन्तं युधां पतिम
दरॊणं जञात्वा धर्मराजं गॊविन्दॊ वयथितॊ ऽबरवीत
यद्य अर्धदिवसं दरॊणॊ युध्यते मन्युम आस्थितः
सत्यं बरवीमि ते सेना विनाशं समुपैष्यति
स भवांस तरातुनॊ दरॊणात सत्याज जयायॊ ऽनृतं भवेत
अनृतं जीवितस्यार्थे वचन न सपृश्यते ऽनृतैः
तयॊः संवदतॊर एवं भीमसेनॊ ऽबरवीद इदम
शरुत्वैव तं महाराज वधॊपायं महात्मनः
गाहमानस्य ते सेनां मालवस्येन्द्र वर्मणः
अश्वत्थामेति विख्यातॊ गजः शक्र गजॊपमः
निहतॊ युधि विक्रम्य ततॊ ऽहं दरॊणम अब्रुवम
अश्वत्थामा हतॊ बरह्मन निवर्तस्वाहवाद इति
नूनं नाश्रद्दधद वाक्यम एष मे पुरुषर्षभः
स तवं गॊविन्द वाक्यानि मानयस्व जयैषिणः
दरॊणाय निहतं शंस राजञ शारद्वती सुतम
तवयॊक्तॊ नैष युध्येत जातु राजन दविजर्षभः
सत्यवान हि नृलॊके ऽसमिन भवान खयातॊ जनाधिप
तस्य तद वचनं शरुत्वा कृष्ण वाक्यप्रचॊदितः
भावित्वाच च महाराज वक्तुं समुपचक्रमे
तम अतथ्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः
अव्यक्तम अब्रवीद राजन हतः कुञ्जर इत्य उत
तस्य पूर्वं रथः पृथ्व्याश चतुरङ्गुल उत्तरः
बभूवैवं तु तेनॊक्ते तस्य वाहास्पृशन महीम
युधिष्ठिरात तु तद वाक्यं शरुत्वा दरॊणॊ महारथः
पुत्रव्यसनसंतप्तॊ निराशॊ जीविते ऽभवत
आगः कृतम इवात्मानं पाण्डवानां महात्मनाम
ऋषिवाक्यं च मन्वानः शरुत्वा च निहतं सुतम
विचेताः परमॊद्विग्नॊ धृष्टद्युम्नम अवेक्ष्य च
यॊद्धुं नाशक्नुवद राजन यथापूर्वम अरिंदम
तं दृष्ट्वा परमॊद्विग्नं शॊकॊपहतचेतसम
पाञ्चालराजस्य सुतॊ धृष्टद्युम्नः समाद्रवत
य इष्ट्वा मनुजेन्द्रेण दरुपदेन महामखे
लब्ध्वा दरॊण विनाशाय समिद्धाद धव्यवाहनात
सधनुर जैत्रम आदाय घॊरं जलदनिस्वनम
दृढज्यम अजरं दिव्यं शरांश चाशीविषॊपमान
संदधे कार्मुके तस्मिञ शरम आशीविषॊपमम
दरॊणं जिघांसुः पाञ्चाल्यॊ महाज्वालम इवानलम
तस्य रूपं शरस्यासीद धनुर्ज्या मण्डलान्तरे
दयॊततॊ भास्करस्येव घनान्ते परिवेशिनः
पार्षतेन परामृष्टं जवलन्तम इव तद धनुः
अन्तकालम इव पराप्तं मेनिरे वीक्ष्य सैनिकाः
तम इषुं संहितं तेन भारद्वाजः परतापवान
दृष्ट्वामन्यत देहस्य कालपर्यायम आगतम
ततः स यत्नम आतिष्ठद आचार्यस तस्य वारणे
न चास्यास्त्राणि राजेन्द्र परादुरासन महात्मनः
तस्य तव अहानि चत्वारि कषपा चैकास्यतॊ गता
तस्य चाह्नस तरिभागेन कषयं जग्मुः पतत्रिणः
स शरक्षयम आसाद्य पुत्रशॊकेन चार्दितः
विविधानां च दिव्यानाम अस्त्राणाम अप्रसन्नताम
उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचॊदितः
तेजसा परेर्यमाणश च युयुधे सॊ ऽतिमानुषम
अथान्यत स समादाय दिव्यम आङ्गिरसं धनुः
शरांश च शरवर्षेण महता समवाकिरत
ततस तं शरवर्षेण महता समवाकिरत
वयशातयच च संक्रुद्धॊ धृष्टद्युम्नम अमर्षणः
तं शरं शतधा चास्य दरॊणश चिच्छेद सायकैः
धवजं धनुश च निशितैः सारथिं चाप्य अपातयत
धृष्टद्युम्नः परहस्यान्यत पुनर आदाय कार्मुकम
शितेन चैनं बाणेन परत्यविध्यत सतनान्तरे
सॊ ऽतिविद्धॊ महेष्वासः संभ्रान्त इव संयुगे
भल्लेन शितधारेण चिच्छेदास्य महद धनुः
यच चास्य बाणं विकृतं धनूंषि च विशां पते
सर्वं संछिद्य दुर्धर्षॊ गदां खड्गम अथापि च
धृष्टद्युम्नं ततॊ ऽविध्यन नवभिर निशितैः शरैः
जीवितान्तकरैः करुद्धैः करुद्ध रूपं परंतपः
धृष्टद्युम्न रथस्याश्वान सवरथाश्वैर महारथः
अमिश्रयद अमेयात्मा बराह्मम अस्त्रम उदीरयन
ते मिश्रा बह्व अशॊभन्त जवना वातरंहसः
पारावत सवर्णाश च शॊणाश च भरतर्षभ
यथा स विद्युतॊ मेघा नदन्तॊ जललागमे
तथा रेजुर महाराज मिश्रिता रणमूर्धनि
ईषा बन्धं चक्रबन्धं रथबन्धं तथैव च
परणाशयद अमेयात्मा धृष्टद्युम्नस्य स दविजः
स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः
उत्तमाम आपदं पराप्य गदां वीरः परामृशत
ताम अस्य विशिखैस तीक्ष्णैः कषिप्यमाणां महारथः
निजघान शरैर दरॊणः करुद्धः सत्यपराक्रमः
तां दृष्ट्वा तु नरव्याघ्रॊ दरॊणेन निहतां शरैः
विमलं खड्गम आदत्त शतचन्द्रं च भानुमत
असंशयं तथा भूते पाञ्चाल्यः साध्व अमन्यत
वधम आचार्य मुख्यस्य पराप्तकालं महात्मनः
ततः सवरथनीडस्थः सवरथस्य रथेषया
अगच्छद असिम उद्यम्य शतचन्द्रं च भानुमत
चिकीर्षुर दुष्करं कर्म धृष्टद्युम्नॊ महारथः
इयेष वक्षॊ भेत्तुं च भारद्वाजस्य संयुगे
सॊ ऽतिष्ठद युगमध्ये वै युगसंनहनेषु च
शॊणानां जघनार्धेषु तत सैन्याः समपूजयन
तिष्ठतॊ युगपालीषु शॊणान अप्य अधितिष्ठतः
नापश्यद अन्तरं दॊणस तद अद्भुतम इवाभवत
कषिप्रं शयेनस्य चरतॊ यथैवामिष गृद्धिनः
तद्वद आसीद अभीसारॊ दरॊणं परार्थयतॊ रणे
तस्याश्वान रथशक्त्यासौ तदा करुद्धः पराक्रमी
सर्वान एकैकशॊ दरॊणः कपॊताभान अजीघनत
ते हता नयपतन भूमौ धृष्टद्युम्नस्य वाजिनः
शॊणाश च पर्यमुच्यन्त रथबन्धाद विशां पते
तान हयान निहतान दृष्ट्वा दविजाग्र्येण स पार्षतः
नामृष्यत युधां शरेष्ठॊ याज्ञसेनिर महारथः
विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः
दरॊणम अभ्यपतद राजन वैनतेय इवॊरगम
तस्य रूपं बभौ राजन भारद्वाजं जिघांसतः
यथा रूपं परं विष्णॊर हिरण्यकशिपॊर वधे
सॊ ऽचिरद विविधान मार्गान परकारान एकविंशतिम
भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम
परिवृत्तं निवृत्तंच खड्गं चर्म च धारयन
संपातं समुदीर्णं च दर्शयाम आस पार्षतः
ततः शरसहस्रेण शतचन्द्रम अपातयत
खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स दविजः
ते तु वैतस्तिका नाम शरा हय आसन्न घातिनः
निकृष्ट युद्धे दरॊणस्य नान्येषां सन्ति ते शराः
शारद्वतस्य पार्थस्य दरौणेर वैकर्तनस्य च
परद्युम्न युयुधानाभ्याम अभिमन्यॊश च ते शराः
अथास्येषुं समाधत्त दृढं परमसंशितम
अन्तेवासिनम आचार्यॊ जिघांसुः पुत्र संमितम
तं शरैर दशभिस तीक्ष्णैश चिच्छेद शिनिपुंगवः
पश्यतस तव पुत्रस्य कर्णस्य च महात्मनः
गरस्तम आचार्य मुख्येन धृट्षद्युम्नम अमॊचयत
चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम
दरॊणकर्णान्तर गतं कृपस्यापि च भारत
अपश्येतां महात्मानौ विष्वक्सेन धनंजयौ
अपूजयेतां वार्ष्णेयं बरुवाणौ साधु साध्व इति
दिव्यान्य अस्त्राणि सर्वेषां युधि निघ्नन्तम अच्युतम
अभिपत्य ततः सेनां विष्वक्सेन धनंजयौ
धनंजयस ततः कृष्णम अब्रवीत पश्य केशव
आचार्य वरमुख्यानां मध्ये करीडन मधूद्वहः
आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम
यच छिक्षयानुद्धतः सन रणे चरति सात्यकिः
महारथान उपक्रीडन वृष्णीनां कीर्तिवर्धनः
तम एते परतिनन्दन्ति सिद्धाः सैन्याश च विस्मिताः
अजय्यं समरे दृष्ट्वा साहु साध्व इति सात्वतम
यॊधाश चॊभयतः सर्वे कर्मभिः समपूजयन
[स]
करूरम आयॊधनं जज्ञे तस्मिन राजसमागमे
रुद्रस्येव हि करुद्धस्य निघ्नतस तु पशून यथा
हस्तानाम उत्तमाङ्गानां कार्मुकाणां च भारत
छत्राणां चापविद्धानां चामराणां च संयुगे
भग्नचक्रै रथैश चापि पातितैश च महाध्वजैः
सादिभिश च हतैः शूरैः संकीर्णा वसुधाभवत
बाणपात निकृत्तास तु यॊधास ते कुरुसत्तम
चेष्टन्तॊ विविधाश चेष्टा वयदृश्यन्त महाहवे
वर्तमाने तथा युद्धे घॊरे देवासुरॊपमे
अब्रवीत कषत्रियांस तत्र धर्मराजॊ युधिष्ठिरः
अभिद्रवत संयत्ताः कुम्भयॊनिं महारथाः
एष वै पार्षतॊ वीरॊ भारद्वाजेन संगतः
घटते च यथाशक्ति भारद्वाजस्य नाशने
यादृशानि हि रूपाणि दृश्यन्ते नॊ महारणे
अद्य दरॊणं रणे करुद्धः पातयिष्यति पार्षतः
ते यूयं सहिता भूत्वा कुम्भयॊनिं परीप्सत
युधिष्ठिर समाज्ञप्ताः सृञ्जयानां महारथाः
अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः
तान समापततः सर्वान भारद्वाजॊ महारथः
अभ्यद्रवत वेगेन मर्तव्यम इति निश्चितः
परयाते सत्यसंधे तु समकम्पत मेदिनी
ववुर वाताः स निर्घातास तरासयन्ति वरूथिनीम
पपात महती चॊल्का आदित्यान निर्गतेव ह
दीपयन्तीव तापेन शंसन्तीव महद भयम
जज्वलुश चैव शस्त्राणि भारद्वाजस्य मारिष
रथाः सवनन्ति चात्यर्थं हयाश चाश्रूण्य अवासृजन
हतौजा इव चाप्य आसीद भारद्वाजॊ महारथः
ऋषीणां बरह्मवादानां सवर्गस्य गमनं परति
सुयुद्धेन ततः पराणान उत्स्रष्टुम उपचक्रमे
ततश चतुर्दिशं सैन्यैर दरुपदस्याभिसंवृतः
निर्दहन कषत्रिय वरातान दरॊणः पर्यचरद रणे
हत्वा विंशतिसाहस्रान कषत्रियान अरिमर्दनः
दशायुतानि तीक्ष्णाग्रैर अवधीद विशिखैः शितैः
सॊ ऽतिष्ठद आहवे यत्तॊ विधूम इव पावकः
कषत्रियाणाम अभावाय बराह्मम आत्मानम आस्थितः
पाञ्चाल्यं विरथं भीमॊ हतसर्वायुधं वशी
अविषण्णं महात्मानं तवरमाणः समभ्ययात
ततः सवरथम आरॊप्य पाञ्चाल्यम अरिमर्दनः
अब्रवीद अभिसंप्रेक्ष्य दरॊणम अस्यन्तम अन्तिकात
न तवदन्य इहाचार्यं यॊद्धुम उत्सहते पुमान
तवरस्व पराग वधायैव तवयि भारः समाहितः
स तथॊक्तॊ महाबाहुः सर्वभारसहं नवम
अभिपत्याददे कषिप्रम आयुधप्रवरं दृढम
संरब्धश चशरान अस्यन दरॊणं दुर्वारणं रणे
विवारयिषुर आचार्यं शरवर्षैर अवाकिरत
तौ नयवारयतां शरेष्ठौ संरब्धौ रणशॊभिनौ
उदीरयेतां बराह्माणि दिव्यान्य अस्त्राण्य अनेकशः
स महास्त्रैर महाराज दरॊणम आच्छादयद रणे
निहत्य सर्वाण्य अस्त्राणि भारद्वाजस्य पार्षतः
स वसातीञ शिबींश चैव बाह्लीकान कौरवान अपि
रक्षिष्यमाणान संग्रामे दरॊणं वयधमद अच्युतः
धृष्टद्युम्नस तदा राजन गभस्तिभिर इवांशुमान
बभौ परच्छादयन नाशाः शरजालैः समन्ततः
तस्य दरॊणॊ धनुश छित्त्वा विद्ध्वा चैनं शिलीमुखैः
मर्माण्य अभ्यहनद भूयः स वयथां परमाम अगात
ततॊ भीमॊ दृढक्रॊधॊ दरॊणस्याल्शिष्य तं रथम
शनकैर इव राजेन्द्र दरॊणं वचनम अब्रवीत
यदि नाम न युध्येरञ शिक्षिता बरह्म बन्धवः
सवकर्मभिर असंतुष्टा न सम कषत्रं कषयं वरजेत
अहिंसा सर्वभूतेषु धर्मं जयायस्तरं विदुः
तस्य च बराह्मणॊ मूलं भवांश च बरह्मवित्तमः
शवपाकवन मलेच्छ गणान हत्वा चान्यान पृथग्विधान
अज्ञानान मूढवद बरह्मन पुत्रदारधनेप्सया
एकस्यार्थे बहून हत्वा पुत्रस्याधर्मविद यथा
सवकर्मस्थान विकर्मस्थॊ न वयपत्रपसे कथम
स चाद्य पतितः शेते पृष्टेनावेदितस तव
धर्मराजेन तद वाक्यं नातिशङ्कितुम अर्हसि
एवम उक्तस ततॊ दरॊणॊ भीमेनॊत्सृज्य तद धनुः
सर्वाण्य अस्त्राणि धर्मात्मा हातु कामॊ ऽभयभाषत
कर्ण कर्ण महेष्वास कृप दुर्यॊधनेति च
संग्रामे करियतां यत्नॊ बरवीम्य एष पुनः पुनः
पाण्डवेभ्यः शिवं वॊ ऽसतु शस्त्रम अभ्युत्सृजाम्य अहम
इति तत्र महाराज पराक्रॊशद दरौणिम एव च
उत्सृज्य च रणे शस्त्रं रथॊपस्थे निवेश्य च
अभयं सर्वभूतानां परददौ यॊगयुक्तवान
तस्य तच छिद्रम आज्ञाय धृष्टद्युम्नः समुत्थितः
खड्गी रथाद अवप्लुत्य सहसा दरॊणम अभ्ययात
हाहाकृतानि भूतानि मानुषाणीतराणि च
दरॊणं तथागतं दृष्ट्वा धृष्टद्युम्न वशंगतम
हाहाकारं भृशं चक्रुर अहॊ धिग इति चाब्रुवन
दरॊणॊ ऽपि शस्त्राण्य उत्सृज्य परमं साम्यम आस्थितः
तथॊक्त्वा यॊगम आस्थाय जयॊतिर भूतॊ महातपाः
दिवम आक्रामद आचार्यः सद्भिः सह दुराक्रमम
दवौ सूर्याव इति नॊ बुद्धिर आसीत तस्मिंस तथागते
एकाग्रम इव चासीद धि जयॊतिर्भिः पूरितं नभः
समपद्यत चार्काभे भारद्वाज निशाकरे
निमेष मात्रेण च तज जयॊतिर अन्तरधीयत
आसीत किलकिला शब्दः परहृष्टानां दिवौकसाम
बरह्मलॊकं गते दरॊणे धृष्टद्युम्ने च मॊहिते
वयम एव तदाद्राक्ष्म पञ्च मानुषयॊनयः
यॊगयुक्तं महात्मानं गच्छन्तं परमां गतिम
अहं धनंजयः पार्थः कृपः शारद्वतॊ दविजः
वासुदेवश च वार्ष्णेयॊ धर्मराजश च पाण्डवः
अन्ये तु सर्वे नापश्यन भारद्वाजस्य धीमतः
महिमानं महाराज यॊगमुक्तस्य गच्छतः
गतिं परमिकां पराप्तम अजानन्तॊ नृयॊनयः
नापश्यन गच्छमानं हि तं सार्धम ऋषिपुंगवैः
आचार्यं यॊगम आस्थाय बरह्मलॊकम अरिंदमम
वितुन्नाङ्गं शरशतैर नयस्तायुधम असृक कषरम
धिक्कृतः पार्तषस तं तु सर्वभूतैः परामृशत
तस्य मूर्धानम आलम्ब्य गतसत्त्वस्य देहिनः
किं चिद अब्रुवतः कायाद विचकर्तासिना शिरः
हर्षेण महता युक्तॊ भारद्वाजे निपातिते
सिंहनाद रवं चक्रे भामयन खड्गम आहवे
आकर्णपलितः शयामॊ वयसाशीति पञ्चकः
तवत्कृते वयचरत संख्ये स तु षॊडद वर्षवत
उक्तवांश च महाबाहुः कुन्तीपुत्रॊ धनंजयः
जीवन्तम आनयाचार्यं मा वधीर दरुपदात्मजः
न हन्तव्यॊ न हन्तव्य इति ते सैनिकाश च ह
उत्क्रॊशन्न अर्जुनश चैव सानुक्रॊशस तम आद्रवत
करॊशमाने ऽरजुने चैव पार्थिवेषु च सर्वशः
धृष्टद्युम्नॊ ऽवधीद दरॊणं रथतल्पे नरर्षभम
शॊणितेन परिक्लिन्नॊ रथाद भूमिम अरिंदमः
लॊहिताङ्ग इवादित्यॊ दुर्दर्शः समपद्यत
एवं तं निहतं संख्ये ददृशे सैनिकॊ जनः
धेष्टद्युम्नस तु तद राजन भारद्वाज शिरॊमहत
तावकानां महेष्वासः परमुखे तत समाक्षिपत
ते तु दृष्ट्वा शिरॊ राजन भारद्वाजस्य तावकाः
पलायनकृतॊत्साहा दुद्रुवुः सर्वतॊदिशम
दरॊणस तु दिवम आस्थाय नक्षत्रपथम आविशत
अहम एव तदाद्राक्षं दरॊणस्य निधनं नृप
ऋषेः परसादात कृष्णस्य सत्यवत्याः सुतस्य च
विधूमाम इव संयान्तीम उल्कां परज्वलिताम इव
अपश्याम दिवं सतब्ध्वा गच्छन्तं तं महाद्युतिम
हते दरॊणे निरुत्साहान कुरून पाण्डव सृञ्जयाः
अभ्यद्रवन महावेगास ततः सैन्यं वयदीर्यत
निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः
तावका निहते दरॊणे गतासव इवाभवन
पराजयम अथावाप्य परत्र च महद भयम
उभयेनैव ते हीना नाविन्दन धृतिम आत्मनः
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः
नाध्यगच्छंस तदा राजन कबन्धायुत संकुले
पाण्डवास तु जयं लब्ध्वा परत्र च महद यशः
बाणशब्दरवांश चक्रुः सिंहनादांश च पुष्कलान
भीमसेनस ततॊ राजन धृष्टद्युम्नश च पार्षतः
वरूथिन्याम अनृत्येतां परिष्वज्य परस्परम
अब्रवीच च तदा भीमः पार्षतं शत्रुतापनम
भूयॊ ऽहं तवां विजयिनं परिष्वक्ष्यामि पार्षत
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे
एतावद उक्त्वा भीमस तु हर्षेण महता युतः
बाहुशब्देन पृथिवीं कम्पयाम आस पाण्डवः
तस्य शब्देन वित्रस्ताः पराद्रवंस तावका युधि
कषत्रधर्मं समुत्सृज्य पलायनपरायणाः
पाण्डवास तु जयं लब्ध्वा हृष्टा हय आसन विशां पते
अरिक्षयं च संग्रामे तेन ते सुखम आप्नुवन
ततॊ दरॊणे हते राजन कुरवः शस्त्रपीडिताः
हतप्रवीरा विध्वस्ता भृशं शॊकपरायणाः
विचेतसॊ हतॊत्साहाः कश्मलाभिहतौजसः
आर्तस्वरेण महता पुत्रं ते पर्यवारयन
रजस्वला वेपमाना वीक्षमाणा दिशॊ दश
अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते
स तैः परिवृतॊ राजा तरस्तैः कषुद्रमृगैर इव
अशक्नुवन्न अवस्थातुम अपायात तनयस तव
कषुत्पिपासापरिश्रान्तास ते यॊधास तव भारत
आदित्येन च संतप्ता भृशं विमनसॊ ऽभवन
भास्करस्येव पतनं समुद्रस्येव शॊषणम
विपर्यासं यथा मेरॊर वासवस्येव निर्जयम
अमर्षणीयं तद दृष्ट्वा भारद्वाजस्य पातनम
तरस्तरूपतरा राजन कौरवाः पराद्रवन भयात
गान्धारराजः शकुनिस तरस्तस तरस्ततरैः सह
हतं रुक्मरथं दृष्ट्वा पराद्रवत सहितॊ रथैः
वरूथिनीं वेगवतीं विद्रुतां स पताकिनीम
परिगृह्य महासेनां सूतपुत्रॊ ऽपयाद भयात
रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम
मद्राणाम ईश्वरः शल्यॊ वीक्षमाणॊ ऽपयाद भयात
हतप्रवीरैर भूयिष्ठं दविपैर बहु पदातिभिः
वृतः शारद्वतॊ ऽगच्छत कष्टं कथम इति बरुवन
भॊजानीकेन शिष्टेन कलिङ्गारट्ट बाह्लिकैः
कृतवर्मा वृतॊ राजन परायान सुजवनैर हयैः
पदातिगणसंयुक्तस तरस्तॊ राजन भयार्दितः
उलूकः पराद्रवत तत्र दृष्ट्वा दरॊणं निपातितम
दर्शनीयॊ युवा चैव शौर्ये च कृतलक्षणः
दुःशासनॊ भृशॊद्विग्नः पराद्रवद गजसंवृतः
गजाश्वरथसंयुक्तॊ वृतश चैव पदातिभिः
दुर्यॊधनॊ महाराज परायात तत्र महारथः
गजान रथान समारुह्य परस्यापि हयाञ जनाः
परकीर्णकेशा विध्वस्ता न दवाव एकत्र धावतः
नेदम अस्तीति पुरुषा हतॊत्साहा हतौजसः
उत्सृज्य कवचान अन्ये पराद्रवंस तावका विभॊ
अन्यॊन्यं ते समाक्रॊशन सैनिका भरतर्षभ
तिष्ठ तिष्ठेति न च ते सवयं तत्रावतस्थिरे
धुर्यान परमुच्य तु रथाद धतसूतान सवलंकृतान
अधिरुह्य हयान यॊधाः कषिप्रं पद्भिर अचॊदयन
दरवमाणे तथा सैन्ये तरस्तरूपे हतौजसि
परतिस्रॊत इव गराहॊ दरॊणपुत्रः परान इयात
हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः
कथं चित संकटान मुक्तॊ मत्तद्विरदविक्रमः
दरवमाणं बलं दृष्ट्वा पलायनकृतक्षणम
दुर्यॊधनं समासाद्य दरॊणपुत्रॊ ऽबरवीद इदम
किम इयं दरवते सेना तरस्तरूपेव भारत
दरवमाणां च राजेन्द्र नावस्थापयसे रणे
तवं चापि न यथा पूर्वं परकृतिस्थॊ नराधिप
कर्णप्रभृतयश चेमे नावतिष्ठन्ति पार्थिवाः
अन्येष्व अपि च युद्धेषु नैव सेनाद्रवत तदा
कच चित कषेमं महाबाहॊ तव सैन्यस्य भारत
कस्मिन्न इदं हते राजन रथसिंहे बलं तव
एताम अवस्थां संप्राप्तं तन ममाचक्ष्व कौरव
तत तु दुर्यॊधनः शरुत्वा दरॊणपुत्रस्य भाषितम
घॊरम अप्रियम आख्यातुं नाशकत पार्थिवर्षभः
भिन्ना नौर इव ते पुत्रॊ निमग्नः शॊकसागरे
बाष्पेण पिहितॊ दृष्ट्वा दरॊणपुत्रं रथे सथितम
ततः शारद्वतं राजा सव्रीडम इदम अब्रवीत
शंसेह सर्वं भद्रं ते यथा सैन्यम इदं दरुतम
अतः शारद्वतॊ राजन्न आर्तिं गच्छन पुनः पुनः
शशंस दरॊणपुत्राय यथा दरॊणॊ निपातितः
[कृप]
वयं दरॊणं पुरस्कृत्य पृथिव्यां परवरं रथम
परावर्तयाम संग्रामं पाञ्चालैर एव केवलैः
ततः परवृत्ते संग्रामे विमिश्राः कुरु सॊमकाः
अन्यॊन्यम अभिगर्जन्तः शस्त्रैर देहान अपातयन
ततॊ दरॊणॊ बराह्मम अस्त्रं विकुर्वाणॊ नरर्षभः
अहनच छात्रवान भल्लैः शतशॊ ऽथ सहस्रशः
पाण्डवाः केकया मत्स्याः पाञ्चालाश च विशेषतः
संख्ये दरॊण रथं पराप्य वयनशन कालचॊदिताः
सहस्रं रथसिंहानां दविसाहस्रं च दन्तिनाम
दरॊणॊ बरह्मास्त्र निर्दग्धं परेषयाम आस मृत्यवे
आकर्णपलितः शयामॊ वयसाशीति पञ्चकः
रणे पर्यचरद दरॊणॊ वृद्धः षॊडशवर्षवत
कलिश्यमानेषु सैन्येषु वध्यमानेषु राजसु
अमर्षवशम आपन्नाः पाञ्चाला विमुखाभवन
तेषु किं चित परभग्नेषु विमुखेषु सपत्नजित
दिव्यम अस्त्रं विकुर्वाणॊ बभूवार्क इवॊदितः
स मध्यं पराप्य पाण्डूनां शररश्मिः परतापवान
मध्यं गत इवादित्यॊ दुष्प्रेक्ष्यस ते पिताभवत
ते दह्यमाना दरॊणेन सूर्येणेव विराजता
दग्धवीर्या निरुत्साहा बभूवुर गतचेतसः
तान दृष्ट्वा पीडितान बाणैर दरॊणेन मधुसूदनः
जयैषी पाण्डुपुत्राणाम इदं वचनम अब्रवीत
नैष जातु परैः शक्यॊ जेतुं शस्त्रभृतां वरः
अपि वृत्रहणा संख्ये रथयूथप यूथपः
ते यूयं धर्मम उत्सृज्य जयं रक्षत पाण्डवाः
यथा वः संयुगे सर्वान न हन्याद रुक्मवाहनः
अश्वत्थाम्नि हते नैष युध्येद इति मतिर मम
हतं तं संयुगे कश चिद आख्यात्व अस्मै मृषा नरः
एतन नारॊचयद वाक्यं कुन्तीपुत्रॊ धनंजयः
अरॊचयंस तु सर्वे ऽनये कृच्छ्रेण तु युधिष्ठिरः
भीमसेनस तु सव्रीडम अब्रवीत पितरं तव
अश्वत्थामा हत इति तच चाबुध्यत ते पिता
स शङ्कमानस तन मिथ्या धर्मराजम अपृच्छत
हतं वाप्य अहतं वाजौ तवां पिता पुत्रवत्सलः
तद अतथ्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः
अश्वत्थामानम आहेदं हतः कुञ्जर इत्य उत
भीमेन गिरिवर्ष्माणं मालवस्येन्द्र वर्मणः
उपसृत्य तदा दरॊणम उच्चैर इदम अभाषत
यस्यार्थे शस्त्रम आधत्से यम अवेक्ष्य च जीवसि
पुत्रस ते दयितॊ नित्यं शॊ ऽशवत्थामा निपातितः
तच छरुत्ता विमनास तत्र आचार्यॊ महद अप्रियम
नियम्य दिव्यान्य अस्त्राणि नायुध्यत यथा पुरा
तं दृष्ट्वा परमॊद्विग्नं शॊकॊपहतचेतसम
पाञ्चालराजस्य सुतः करूरकर्मा समाद्रवत
तं दृष्ट्वा विहितं मृत्युं लॊकतत्त्वविचक्षणः
दिव्यान्य अस्त्राण्य अथॊत्सृज्य रणे पराय उपाविशत
ततॊ ऽसय केशान सव्येन गृहीत्वा पाणिना तदा
पार्षतः करॊशमानानां वीराणाम अच्छिनच छिरः
न हन्तव्यॊ न हन्तव्य इति ते सर्वतॊ ऽबरुवन
तथैव चार्जुनॊ वाहाद अवरुह्यैनम आद्रवत
उद्यम्य बाहू तवरितॊ बरुवाणश च पुनः पुनः
जीवन्तम आनयाचार्यं मा वधीर इति धर्मवित
तथापि वार्यमाणेन कौरवैर अर्जुनेन च
हत एव नृशंसेन पिता तव नरर्षभ
सैनिकाश च ततः सर्वे पराद्रवन्त भयार्दिताः
वयं चापि निरुत्साहा हते पितरि ते ऽनघ
[स]
तच छरुत्वा दरॊणपुत्रस तु निधनं पितुर आहवे
करॊधम आहारयत तीव्रं पदाहत इवॊरगः
[धृ]
अधर्मेण हतं शरुत्वा धृष्टद्युम्नेन संजय
बराह्मणं पितरं वृद्धम अश्वत्थामा किम अब्रवीत
मानुषं वारुणाग्नेयं बराह्मम अस्त्रं च वीर्यवान
ऐन्द्रं नारायणं चैव यस्मिन नित्यं परतिष्ठितम
तम अधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय
शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत
येन रामाद अवाप्येह धनुर्वेदं महात्मना
परॊक्तान्य अस्त्राणि दिव्यानि पुत्राय गुरु काङ्क्षिणे
एकम एव हि लॊके ऽसमिन्न आत्मनॊ गुणवत्तरम
इच्छन्ति पुत्रं पुरुषा लॊके नान्यं कथं चन
आचार्याणां भवन्त्य एव रहस्यानि महात्मनाम
तानि पुत्राय वा दद्युः शिष्यायानुगताय वा
स शिल्पं पराप्य तत सर्वं स विशेषं च संजय
शूरः शारद्वती पुत्रः संख्ये दरॊणाद अनन्तरः
रामस्यानुमतः शास्त्रे पुरंदरसमॊ युधि
कार्तवीर्य समॊ वीर्ये बृहस्पतिसमॊ मतौ
महीधर समॊ धृत्या तेजसाग्निसमॊ युवा
समुद्र इव गाम्भीर्ये करॊधे सर्वविषॊपमः
स रथी परथमॊ लॊके दृढधन्वा जितक्लमः
शीघ्रॊ ऽनिल इवाक्रन्दे चरन करुद्ध इवान्तकः
अस्यता येन संग्रामे धरण्यभिनिपीडिता
यॊ न वयथति संग्रामे वीरः सत्यपराक्रमः
वेद सनातॊ वरतस्नातॊ धनुर्वेदे च पारगः
महॊदधिर इवाक्षॊभ्यॊ रामॊ दाशरथिर यथा
तम अधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे
शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत
धृष्टद्युम्नस्य यॊ मृत्युः सृष्टस तेन महात्मना
यथा दरॊणस्य पाञ्चाल्यॊ यज्ञसेन सुतॊ ऽभवत
तं नृशंसेन पापेन करूरेणात्यल्प दर्शिना
शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत
[स]
छद्मना निहतं शरुत्वा पितरं पप कर्मणा
बाष्पेणापूर्यत दरौणी रॊषेण च नरर्षभ
तस्य करुद्धस्य राजेन्द्र वपुर दिव्यम अदृश्यत
अन्तकस्येव भूतानि जिहीर्षॊः कालपर्यये
अश्रुपूर्णे ततॊ नेत्रे अपमृज्य पुनः पुनः
उवाच कॊपान निःश्वस्य दुर्यॊधनम इदं वचः
पिता मम यथा कषुद्रौर नयस्तशस्त्रॊ निपातितः
धर्मध्वजवता पापं कृतं तद विदितं मम
अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे शरुतम
युद्धेष्व अपि परवृत्तानां धरुवौ जयपराजयौ
दवयम एतद भवेद राजन वधस तत्र परशस्यते
नयायवृत्तॊ वधॊ यस तु संग्रामे युध्यतॊ भवेत
न स दुःखाय भवति तथा दृष्टॊ हि स दविजः
गतः स वीरलॊकाय पिता मम न संशयः
न शॊच्यः पुरुषव्याघ्रस तथा स निधनं गतः
यत तु धर्मप्रवृत्तः सन केशग्रहणम आप्तवान
पश्यतां सर्वसैन्यानां तन मे मर्माणि कृन्तति
कामात करॊधाद अवज्ञानाद दर्पाद बाल्येन वा पुनः
वैधर्मिकानि कुर्वन्ति तथा परिभवेन च
तद इदं पार्षतेनेह महद आधर्मिकम कृतम
अवज्ञाय च मां नूनं नृशंसेन दुरात्मना
तस्यानुबन्धं स दरष्टा धृष्टद्युम्नः सुदारुणम
अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः
यॊ हय असौ छद्मनाचार्यं शस्त्रं सन्यासयत तदा
तस्याद्य धर्मराजस्य भूमिः पास्यति शॊणितम
सर्वॊपायैर यतिष्यामि पाञ्चालानाम अहं वधे
धृष्टद्युम्ने च समरे हन्ताहं पापकारिणम
कर्मणा येन तेनेह मृदुना दारुणेन वा
पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव
यदर्थं पुरुषव्याघ्र पुत्रम इच्छन्ति मानवाः
परेत्य चेह च संप्राप्तं तराणाय महतॊ भयात
पित्रा तु मम सावस्था पराप्ता निर्बन्धुना यथा
मयि शैलप्रतीकाशे पुत्र शिष्ये च जीवति
धिन ममास्त्राणि दिव्यानि धिग बाहू धिक पराक्रमम
यन मां दरॊणः सुतं पराप्य केशग्रहणम आप्तवान
स तथाहं करिष्यामि यथा भरतसत्तम
परलॊकगतस्यापि गमिष्याम्य अनृणः पितुः
आर्येण तु न वक्तव्या कदा चित सतुतिर आत्मनः
पितुर वधम अमृष्यंस तु वक्ष्याम्य अद्येह पौरुषम
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः
मृद्नतः सर्वसैन्यानि युगान्तम इव कुर्वतः
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ
मद अन्यॊ नास्ति लॊके ऽसमिन्न अर्जुनाद वास्त्रवित्तमः
अहं हि जवलतां मध्ये मयूधानाम इवांशुमान
परयॊक्ता देव सृष्टानाम अस्त्राणां पृतना गतः
कृशाश्वतनया हय अद्य मत परयुक्ता महामृधे
दर्शयन्तॊ ऽऽतमनॊ वीर्यं परमथिष्यन्ति पाण्डवान
अद्य सर्वा दिशॊ राजन धाराभिर इव संकुलाः
आवृताः पत्रिभिस तीक्ष्णैर दरष्टारॊ मामकैर इह
किरन हि शरजालानि सर्वतॊ भैरव सवरम
शत्रून निपातयिष्यामि महावात इव दरुमान
न च जानाति बीभत्सुस तद अस्त्रं न जनार्दनः
न भीमसेनॊ न यमौ न च राजा युधिष्ठिरः
न पार्षतॊ दुर्तामासौ न शिखण्डी न सात्यकिः
यद इदं मयि कौरव्य स कल्यं स निवर्तनम
नारायणाय मे पित्रा परणम्य विधिपूर्वकम
उपहारः पुरा दत्तॊ बरह्मरूप उपस्थिते
तं सवयं परतिगृह्याथ भगवान स वरं ददौ
वव्रे पिता मे परमम अस्त्रं नारायणं ततः
अथैनम अब्रवीद राजन भगवान देव सत्तमः
भविता तवत्समॊ नान्यः कश चिद युधि नरः कव चित
न तव इदं सहसा बरह्मन परयॊक्तव्यं कथं चन
न हय एतद अस्त्रम अन्यत्र वधाच छत्रॊर निवर्तते
न चैतच छक्यते जञातुं कॊ न वध्येद इति परभॊ
अवध्यम अपि हन्याद धि तस्मान नैतत परयॊजयेत
वधः संख्ये दरवश चैव शस्त्राणां च विसर्जनम
परयाचनं च शत्रूणां गमनं शरणस्य च
एते परशमने यॊगा महास्त्रस्य परंतप
सर्वथा पीडितॊ हि सयाद अवध्यान पीडयन रणे
तज जग्राह पिता मह्यम अब्रवीच चैव स परभुः
तवं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्य अनेकशः
अनेनास्त्रेण संग्रामे तेजसा च जवलिष्यसि
एवम उक्त्वा स भगवान दिवम आचक्रमे परभुः
एतन नारायणाद अस्त्रं तत पराप्तं मम बन्धुना
तेनाहं पाण्डवांश चैव पाञ्चालान मत्स्यकेकयान
विद्रावयिष्यामि रणे शचीपतिर इवासुरान
यथा यथाहम इच्छेयं तथा भूत्वा शरा मम
निपतेयुः सपत्नेषु विक्रमत्स्व अपि भारत
यथेष्टम अश्ववर्षेण परवर्षिष्ये रणे सथितः
अयॊमुखैश च विहगैर दरावयिष्ये महारथान
परश्वधांश च विविधान परसक्ष्ये ऽहम असंशयम
सॊऽहं नारायणास्त्रेण महता शत्रुतापन
शत्रून विध्वंसयिष्यामि कदर्थी कृत्यपाण्डवान
मित्र बरह्म गुरु दवेषी जाल्मकः सुविगर्हितः
पाञ्चालापसदश चाद्य न मे जीवन विमॊक्ष्यते
तच छरुत्वा दरॊणपुत्रस्य पर्यवर्तत वाहिनी
ततः सर्वे महाशङ्खान दध्मुः पुरुषसत्तमाः
भेरीश चाभ्यहनन हृष्टा दिण्डिमांश च सहस्रशः
तथा ननाद वसुधा खुरनेमिप्रपीडिता
स शब्दस तुमुलः खं दयां पृथिवीं च वयनादयत
तं शब्दं पाण्डवाः शरुत्वा पर्जन्यनिनदॊपमम
समेत्य रथिनां शरेष्ठाः सहिताः संन्यमन्त्रयन
तथॊक्त्वा दरॊणपुत्रॊ ऽपि तथॊपस्पृश्य भारत
परादुश्चकार तद दिव्यम अस्त्रं नारायणं तदा
[स]
परादुर्भूते ततस तस्मिन्न अस्त्रे नारायणे तदा
परावात सपृषतॊ वायुर अनभ्रे सतनयित्नुमान
चचाल पृथिवी चापि चुक्षुभे च महॊदधिः
परतिस्रॊतः परवृत्ताश च गन्तुं तत्र समुद्रगाः
शिखराणि वयदीर्यन्त गिरीणां तत्र भारत
अपसव्यं मृगाश चैव पाण्डुपुत्रान परचक्रिरे
तमसा चावकीर्यन्त सूर्यश च कलुषॊ ऽभवत
संपतन्ति च भूतानि करव्यादानि परहृष्टवत
देवदानवगन्धर्वास तरस्ता आसन विशां पते
कथं कथाभवत तीव्रा दृष्ट्वा तद वयाकुलं महत
वयथिताः सर्वराजानस तदा हय आसन विचेतसः
तद दृष्ट्वा घॊररूपं तु दरौणेर अस्त्रं भयावहम
[धृ]
निवर्तितेषु सैन्येषु दरॊणपुत्रेण संयुगे
भृशं शॊकाभितप्तेन पितुर वधम अमृष्यता
कुरून आपततॊ दृष्ट्वा धृष्टद्युम्नस्य रक्षणे
कॊ मन्त्रः पाण्डवेष्व आसीत तन ममाचक्ष्व संजय
[स]
पराग एव विद्रुतान दृष्ट्वा धार्तराष्ट्रान युधिष्ठिरः
पुनश च तुमुलं शब्दं शरुत्वार्जुनम अभाषत
आचार्ये निहते दरॊणे धृष्टद्युम्नेन संयुगे
निहते वज्रहस्तेन यथा वृत्रे महासुरे
नाशंसन्त जयं युद्धे दीनात्मानॊ धनंजय
आत्मत्राणे मतिं कृत्वा पराद्रवन कुरवॊ यथा
के चिद भरान्तै रथैस तूर्णं निहतपार्ष्णि यन्तृभिः
विपताक धवजच छत्त्रैः पार्थिवाः शीर्णकूबरैः
भग्ननीडैर आकुलाश्वैर आरुह्यन ये विचेतसः
भीताः पादैर हयान केच चित तवरयन्तः सवयं रथैः
युगचक्राक्ष भग्नैश च दरुताः के चिद भयातुराः
गजस्कन्धेषु संस्यूता नाराचैश चलितासनाः
शरार्तैर विद्रुतैर नागैर हृताः के चिद दिशॊ दश
विशस्त्र कवचाश चान्ये वाहनेभ्यः कषितिं गताः
संछन्ना नेमिषु गता मृदिताश च हयद्विपैः
करॊशन्तस तात पुत्रेति पालयन्तॊ ऽपरे भयात
नाभिजानन्ति चान्यॊन्यं कश्मलाभिहतौजसः
पुत्रान पितॄन सखीन भरातॄन समारॊप्य दृढक्षतान
जलेन कलेदयन्त्य अन्ये विमुच्य कवचान्य अपि
अवस्थां तादृशीं पराप्य हते दरॊणे दरुतं बलम
पुनरावर्तितं केन यदि जानासि शंस मे
हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम
रथनेमि सवनश चात्र विमिश्रः शरूयते महान
एते शब्दा भृशं तीव्राः परवृत्ताः कुरु सागरे
मुहुर मुहुर उदीर्यन्तः कम्पयन्ति हि मामकान
य एष तुमुलः शब्दः शरूयते लॊमहर्षणः
सेन्द्रान अप्य एष लॊकांस तरीन भुञ्ज्याद इति मतिर मम
मन्ये वज्रधरस्यैष निनादॊ भैरवस्वनः
दरॊणे हते कौरवार्थं वयक्तम अभ्येति वासवः
परहृष्टलॊम कूपाः सम संविग्नरथकुञ्जराः
धनंजय गुरुं शरुत्वा तत्र नादं सुभीषणम
क एष कौरवान दीर्णान अवस्थाप्य महारथः
निवर्तयति युद्धार्थं मृधे देवेश्वरॊ यथा
[अर्जुन]
उद्यम्यात्मानम उग्राय कर्मणे धैर्यम आस्थिताः
धमन्ति कौरवाः शङ्खान्य अस्य वीर्यम उपाश्रिताः
यत्र ते संशयॊ राजन नयस्तशस्त्रे गुरौ हते
धार्तराष्ट्रान अवस्थाप्य क एष नदतीति ह
हरीमन्तं तं महाबाहुं मत्तद्विरदगामिनम
वयाख्यास्याम्य उग्रकर्माणं कुरूणाम अभयंकरम
यस्मिञ जाते ददौ दरॊणॊ गवां दशशतं धनम
बराह्मणेभ्यॊ महार्हेभ्यः सॊ ऽशवत्थामैष गर्जति
जातमात्रेण वीरेण यनॊच्चैःश्रवसा इव
हेषता कम्पिता भूमिर लॊकाश च सकलास तरयः
तच छरुत्वान्तर्हितं भूतं नाम चास्याकरॊत तदा
अश्वत्थामेति सॊ ऽदयैष शूरॊ नदति पाण्डव
यॊ ऽदयानाथ इवाक्रम्य पार्षतेन हतस तथा
कर्मणा सुनृशंसेन तस्य नाथॊ वयवस्थितः
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत
तन न जातु कषमेद दरौणिर जानन पौरुषम आत्मनः
उपचीर्णॊ गुरुर मिथ्या भवता राज्यकारणात
धर्मज्ञेन सता नाम सॊ ऽधर्मः सुमहान कृतः
सर्वधर्मॊपपन्नॊ ऽयं मम शिश्यश च पाण्डवः
नायं वक्ष्यति मिथ्येति परत्ययं कृतवांस तवयि
स सत्यकञ्चुकं नाम परविष्टेन ततॊ ऽनृतम
आचार्य उक्तॊ भवता हतः कुञ्जर इत्य उत
ततः शस्त्रं समुत्सृज्य निर्ममॊ गतचेतनः
आसीत स विह्वलॊ राजन यथादृष्टस तवया विभुः
स तु शॊकेन चाविष्टॊ विमुखः पुत्रवत्सलः
शाश्वतं धर्मम उत्सृज्य गुरुः शिष्येण घातितः
नयस्तशस्त्रम अधर्मेण घातयित्वा गुरुं भवान
रक्षत्व इदानीं सामात्यॊ यदि शक्नॊषि पार्षतम
गरस्तम आचार्य पुत्रेण करुद्धेन हतबन्धुना
सर्वे वयं परित्रातुं न शक्ष्यामॊ ऽदय पार्षतम
सौहार्दं सर्वभूतेषु यः करॊत्य अतिमात्रशः
सॊ ऽदय केशग्रहं शरुत्वा पितुर धक्ष्यति नॊ रणे
विक्रॊशमाने हि मयि भृशम आचार्य गृद्धिनि
अवकीर्य सवधर्मं हि शिष्येण निहतॊ गुरुः
यदा गतं वयॊ भूयः शिष्टम अल्पतरं च नः
तस्येदानीं विकारॊ ऽयम अधर्मॊ यत्कृतॊ महान
पितेव नित्यं सौहार्दात पितेव स हि धर्मतः
सॊ ऽलपकालस्य राज्यस्य कारणान निहतॊ गुरुः
धृतराष्ट्रेण भीष्माय दरॊणाय च विशां पते
विसृष्टा पृथिवी सर्वा सह पुत्रैश च तत्परैः
स पराप्य तादृशीं वृत्तिं सत्कृतः सततं परैः
अवृणीत सदा पुत्रान माम एवाभ्यधिकं गुरुः
अक्षीयमाणॊ नयस्तास्त्रस तवद्वाक्येनाहवे हतः
न तव एनं युध्यमानं वै हन्याद अपि शतक्रतुः
तस्याचार्यस्य वृद्धस्य दरॊहॊ नित्यॊपकारिणः
कृतॊ हय अनार्यैर अस्माभी राज्यार्थे लघु बुद्धिभिः
पुत्रान भरातॄन पितॄन दाराञ जीवितं चैव वासविः
तयजेत सर्वं मम परेम्णा जानात्य एतद धि मे गुरुः
स मया राज्यकामेन हन्यमानॊ ऽपय उपेक्षितः
तस्माद अवाक्शिरा राजन पराप्तॊ ऽसमि नरकं विभॊ
बराह्मणं वृद्धम आचार्यं नयस्तशस्त्रं यथा मुनिम
घातयित्वाद्य राज्यार्थे मृतं शरेयॊ न जीवितम
[स]
अर्जुनस्य वचः शरुत्वा नॊचुस तत्र महारथाः
अप्रियं वा परियं वापि महाराज धनंजयम
ततः करुद्धॊ महाबाहुर भीमसेनॊ ऽभयभाषत
उत्स्मयन्न इव कौन्तेयम अर्जुनं भरतर्षभ
मुनिर यथारण्य गतॊ भाषसे धर्मसंहितम
नयस्तदण्डॊ यथा पार्थ बराह्मणः संशितव्रतः
कषतास तराता कषताञ जीवन कषान्तस तविष्व अपि साधुषु
कषत्रियः कषितिम आप्नॊति कषिप्रं धर्मं यशः शरियम
स भवान कषत्रिय गुणैर युक्तः सर्वैः कुलॊद्वहः
अविपश्चिद यथा वाक्यं वयाहरन नाद्य शॊभसे
पराक्रमस ते कौन्तेय शक्रस्येव शचीपतेः
न चातिवर्तसे धर्मं वेलाम इव महॊदधिः
न पूजयेत तवा कॊ ऽनवद्य यत तरयॊदश वार्षिकम
अमर्षं पृष्टतः कृत्वा धर्मम एवाभिकाङ्क्षसे
दिष्ट्या तात मनस ते ऽदय सवधर्मम अनुवर्तते
आनृशंस्ये च ते दिष्ट्या बुद्धिः सततम अच्युत
यत तु धर्मप्रवृत्तस्य हृतं राज्यम अधर्मतः
दरौपदी च परामृष्टा सभाम आनीय शत्रुभिः
वनं परव्राजिताश चास्म वल्कलाजिनवाससः
अनर्हमाणास तं भावं तरयॊदश समाः परैः
एतान्य अमर्षस्थानानि मर्षितानि तवयानघ
कषत्रधर्मप्रसक्तेन सर्वम एतद अनुष्ठितम
तम अधर्मम अपाक्रष्टुम आरब्धः सहितस तवया
सानुबन्धान हनिष्यामि कषुद्रान राज्यहरान अहम
तवया तु कथितं पूर्वं युद्धायाभ्यागता वयम
घटामश च यथाशक्ति तवं तु नॊ ऽदय जुगुप्ससे
सवधर्मं नेच्छसे जञातुं मिथ्यावचनम एव ते
भयार्दितानाम अस्माकं वाचा मर्माणि कृन्तसि
वपन वरणे कषारम इव कषतानां शत्रुकर्शन
विदीर्यते मे हृदयं तवया वाक्शल्य पीडितम
अधर्मम एतद विपुलं धार्मिकः सन्नबुध्यसे
यत तवम आत्मानम अस्मांश च परशंस्यान न परशंससि
यः कलां षॊडशीं तवत्तॊ नार्हते तं परशंससि
सवयम एवात्मनॊ वक्तुं न युक्तं गुणसंस्तवम
दारयेयं महीं करॊधाद विकिरेयं च पर्वतान
आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम
गिरिप्रकाशान कषितिजान भुञ्जेयम अनिलॊ यथा
स तवम एवंविधं जानन भरातरं मां नरर्षभ
दरॊणपुत्राद भयंकर्तुं नार्हस्य अमितविक्रम
अथ वा तिष्ठ बीभत्सॊ सह सर्वैर नरर्षभैः
अहम एनं गदापाणिर जेष्याम्य एकॊ महाहवे
ततः पाञ्चालराजस्य पुत्रः पार्थम अथाब्रवीत
संक्रुद्धम इव नर्दन्तं हिरण्यकशिपुं हरिः
बीभत्सॊ विप्र कर्माणि विदितानि मनीषिणाम
याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ
षष्ठम अध्ययनं नाम तेषां कस्मिन परतिष्ठितः
हतॊ दरॊणॊ मया यत तत किं मां पार्थ विगर्हसे
अपक्रान्तः सवधर्माच च कषत्रधर्मम उपाश्रितः
अमानुषेण हन्त्य अस्मान अस्त्रेण कषुद्रकर्मकृत
तथा मायां परयुञ्जानम असह्यं बराह्मण बरुवम
माययैव निहन्याद यॊ न युक्तं पार्थ तत्र किम
तस्मिंस तथा मया शस्ते यदि दरौणायनी रुषा
कुरुते भैरवं नादं तत्र किं मम हीयते
न चाद्भुतम इदं मन्ये यद दरौणिः शुद्धगर्जया
घातयिष्यति कौरव्यान परित्रातुम अशक्नुवन
यच च मां धार्मिकॊ भूत्वा बरवीषि गुरु घातिनम
तदर्थम अहम उत्पन्नः पाञ्चाल्यस्य सुतॊ ऽनलात
यस्य कार्यम अकार्यं वा युध्यतः सयात समं रणे
तं कथं बराह्मणं बरूयाः कषत्रियं वा धनंजय
यॊ हय अनस्त्रविदॊ हन्याद बरह्मास्त्रैः करॊधमूर्छितः
सर्वॊपायैर न स कथं वध्यः पुरुषसत्तम
विधर्मिणं धर्मविद्भिः परॊक्तं तेषां विषॊपमम
जानन धर्मार्थतत्त्वज्ञः किम अर्जुन विगर्हसे
नृशंसः स मयाक्रम्य रथ एव निपातितः
तन माभिनन्द्यं बीभत्सॊ किमर्थं नाभिनन्दसे
कृते रणे कथं पार्थ जवलनार्कविषॊपमम
भीमं दरॊण शिरश छेदे परशस्यं न परशंससि
यॊ ऽसौ ममैव नान्यस्य बान्धवान युधि जघ्निवान
छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः
तच च मे कृन्तते मर्म यन न तस्य शिरॊमया
निषादविषये कषिप्तं जयद्रथ शिरॊ यथा
अवधश चापि शत्रूणाम अधर्मः शिष्यते ऽरजुन
कषत्रियस्य हय अयं धर्मॊ हन्याद धन्येत वा पुनः
स शत्रुर निहतः संख्ये मया धर्मेण पाण्डव
यथा तवया हतः शूरॊ भगदत्तः पितुः सखा
पितामहं रणे हत्वा मन्यसे धर्मम आत्मनः
मया शत्रौ हते कस्मात पापे धर्मं न मन्यसे
नानृतः पाण्डवॊ जयेष्ठॊ नाहं वाधार्मिकॊ ऽरजुन
शिष्यध्रुङ निहतः पापॊ युध्यस्व विजयस तव
[धृ]
साङ्गा वेदा यथान्यायं येनाधीता महात्मना
यस्मिन साक्षाद धनुर्वेदॊ हरीनिषेधे परतिष्ठितः
तस्मिन्न आक्रुश्यति दरॊणे महर्षितनये तदा
नीचात्मना नृशंसेन करुद्रेण गुरु घातिना
यस्य परसादात कर्माणि कुर्वन्ति पुरुषर्षभाः
अमानुषाणि संग्रामे देवैर असुकराणि च
तस्मिन्न आक्रुश्यति दरॊणे समक्षं पापकर्मिणः
नामर्षं तत्र कुर्वन्ति धिक कषत्रं धिग अमर्षितम
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः
शरुत्वा किम आहुः पाञ्चाल्यं तन ममाचक्ष्व संजय
[स]
शरुत्वा दरुपदपुत्रस्य ता वाचः करूरकर्मणः
तूष्णीं बभूवू राजानः सर्व एव विशां पते
अर्जुनस तु कटाक्षेण जिह्मं परेक्ष्य च पार्षतम
सबाष्पम अभिनिःश्वस्य धिग धिग धिग इति चाब्रवीत
युधिष्ठिरश च भीमश च यमौ कृष्णस तथापरे
आसन सुव्रीडिता राजन सात्यकिर इदम अब्रवीत
नेहास्ति पुरुषः कश चिद य इमं पापपूरुषम
भाषमाणम अकल्याणं शीघ्रं हन्यान नराधमम
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते
गुरुम आक्रॊशतः कषुद्रन चाधर्मेण पात्यसे
याप्यस तवम असि पार्थैश च सर्वैश चान्धकवृष्णिभिः
यत कर्म कलुषं कृत्वा शलाघसे जनसंसदि
अकार्यं तादृशं कृत्वा पुनर एव गुरुं कषिपन
वध्यस तवं न तवयार्थॊ ऽसति मुहूर्तम अपि जीवता
कस तव एतद वयवसेद आर्यस तवदन्यः पुरुषाधमः
निगृह्य केशेषु वधं गुरॊर धर्मात्मनः सतः
सप्तावरे तथा पूर्वे बान्धवास ते निपातिताः
यशसा च परित्यक्तास तवां पराप्य कुलपांसनम
उक्तवांश चापि यत पार्थं भीष्मं परति नरर्षभम
तथान्तॊ विहितस तेन सवयम एव महात्मना
तस्यापि तव सॊदर्यॊ निहन्ता पापकृत्तमः
नान्यः पाञ्चाल पुत्रेभ्यॊ विद्यते भुवि पापकृत
स चापि सृष्टः पित्रा ते भीष्मस्यान्त करः किल
शिखण्डी रक्षितस तेन स च मृत्युर महात्मनः
पाञ्चालाश चलिता धर्मात कषुद्रा मित्र गुरु दरुहः
तवां पराप्य सह सॊदर्यं धिक्कृतं सर्वसाधुभिः
पुनश चेद ईदृशीं वाचं मत्समीपे वदिष्यसि
शिरस ते पातयिष्यामि गदया वज्रकल्पया
सात्वतेनैवम आक्षिप्तः पार्षतः परुषाक्षरम
संरब्धः सात्यकिं पराह संक्रुद्धः परहसन्न इव
शरूयते शरूयते चेति कषम्यते चेति माधव
न चानार्य शुभं साधुं पुरुषं कषेप्तुम अर्हसि
कषमा परशस्यते लॊके न तु पापॊ ऽरहति कषमाम
कषमावन्तं हि पापात्मा जितॊ ऽयम इति मन्यते
स तवं कषुद्रसमाचारॊ नीचात्मा पापनिश्चयः
आ केशाग्रान नखाग्राच च वक्तव्यॊ वक्तुम इच्छसि
यः स भूरिश्रवाश छिन्ने भुजे परायगतस तवया
वार्यमाणेन निहतस ततः पापतरं नु किम
वयूहमानॊ मया दरॊणॊ दिव्येनास्त्रेण संयुगे
विसृष्टशस्त्रॊ निहतः किं तत्र करूर दुष्कृतम
अयुध्यमानं यस तव आजौ तथा परायगतं मुनिम
छिन्नबाहुं परैर हन्यात सात्यके स कथं भवेत
निहत्य तवां यदा भूमौ स विक्रामति वीर्यवान
किं तदा न निहंस्य एनं भूत्वा पुरुषसत्तमः
तवया पुनर अनार्येण पूर्वं पार्थेन निर्जितः
यदा तदा हतः शूरः सौमदत्तिः परतापवान
यत्र यत्र तु पाण्डूनां दरॊणॊ दरावयते चमूम
किरञ शरसहस्राणि तत्र तत्र परयाम्य अहम
स तवम एवंविधं कृत्वा कर्म चाण्डालवत सवयम
वक्तुम इच्छसि वक्तव्यः कस्मान मां परुषाण्य अथ
कर्ता तवं कर्मणॊग्रस्य नाहं वृष्णिकुलाधम
पापानां च तवम आवासः कर्मणां मा पुनर वद
जॊषम आस्स्व न मां भूयॊ वक्तुम अर्हस्य अतः परम
अधरॊत्तरम एतद धि यन मा तवं वक्तुम इच्छसि
अथ वक्ष्यसि मां मौर्ख्याद भूयः परुषम ईदृशम
गमयिष्यामि बाणैस तवां युधि वैवस्वतक्षयम
न चैव मूर्ख धर्मेण केवलेनैव शक्यते
तेषाम अपि हय अधर्मेण चेष्टितं शृणु यादृशम
वञ्चितः पाण्डवः पर्वम अधर्मेण युधिष्ठिरः
दरौपदी च परिक्लिष्टा तथाधर्मेण सात्यके
परव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया
सर्वस्वम अपकृष्टं च तथाधर्मेण बालिश
अधर्मेणापकृष्टश च मद्रराजः परैर इतः
इतॊ ऽपय अधर्मेण हतॊ भीष्मः कुरुपितामहः
भूरिश्रवा हय अधर्मेण तवया धर्मविदा हतः
एवं परैर आचरितं पाण्डवेयैश च संयुगे
रक्षमाणैर जयं वीरैर धर्मज्ञैर अपि सात्वत
दुर्ज्ञेयः परमॊ धर्मस तथाधर्मः सुदुर्विदः
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम
एवमादीनि वाक्यानि करूराणि परुषाणि च
शरावितः सात्यकिः शरीमान आकम्पित इवाभवत
तच छरुत्वा करॊधताम्राक्षः सात्यकिस तव आददे गदाम
विनिःश्वस्य यथा सर्पः परणिधाय रथे धनुः
ततॊ ऽभिपत्य पाञ्चाल्यं संरम्भेणेदम अब्रवीत
न तवां वक्ष्यामि परुषं हनिष्ये तवां वधक्षमम
तम आपतन्तं सहसा महाबलम अमर्षणम
पाञ्चाल्यायाभिसंक्रुद्धम अन्तकायान्तकॊपमम
चॊदितॊ वासुदेवेन भीमसेनॊ महाबलः
अवप्लुत्य रथात तूर्णं बाहुभ्यां समवारयत
दरवमाणं तथा करुद्धं सात्यकिं पाण्डवॊ बली
परस्कन्दमानम आदाय जगाम बलिनं बलात
सथित्वा विष्टभ्य चरणौ भीमेन शिनिपुंगवः
निगृहीतः पदे षष्ठे बलेन बलिनां वरः
अवरुह्य रथात तं तु हरियमाणं बलीयसा
उवाच शलक्ष्णया वाचा सहदेवॊ विशां पते
अस्माकं पुरुषव्याघ्र मित्रम अन्यन न विद्यते
परम अन्धकवृष्णिभ्यः पाञ्चालेभ्यश च माधव
तथैवान्धकवृष्णीनां तव चैव विशेषतः
कृष्णस्य च तथास्मत्तॊ मित्रम अन्यन न विद्यते
पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम
नान्यद अस्ति परं मित्रं मन्यते च यथा भवान
स भवान ईदृशं मित्रं मन्यते च यथा भवान
भवन्तश च यथास्माकं भवतां च तथा वयम
स एवं सर्वधर्मज्ञॊ मित्र धर्मम अनुस्मरन
नियच्छ मन्युं पाञ्चाल्यात परशाम्य शिनिपुंगव
पार्षतस्य कषम तवं वै कषमतां तव पार्षतः
वयं कषमयितारश च किम अन्यत्र शमाद भवेत
परशाम्यमाने शैनेये सहदेवेन मारिष
पाञ्चालराजस्य सुतः परहसन्न इदम अब्रवीत
मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम
आसादयतु माम एष धराधरम इवानिलः
यावद अस्य शितैर बाणैः संरम्भं विनयाम्य अहम
युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे
किं नु शक्यं मया कर्तुं कार्यं यद इदम उद्यतम
सुमहत पाण्डुपुत्राणाम आयान्त्य एते हि कौरवाः
अथ वा फल्गुनः सर्वान वारयिष्यति संयुगे
अहम अप्य अस्य मूर्धानं पातयिष्यामि सायकैः
मन्यते छिन्नबाहुं मां भूरिश्रवसम आहवे
उत्सृजैनम अहं वैनम एष मां वा हनिष्यति
शृण्वन पाञ्चाल वाक्यानि सात्यकिः सर्पवच छवसन
भीम बाह्वन्तरे सक्तॊ विस्फुरत्य अनिशं बली
तवरया वासुदेवश च धर्मराजश च मारिष
यत्नेन महता वीरौ वारयाम आसतुस ततः
निवार्य परमेष्वासौ करॊधसंरक्तलॊचनौ
युयुत्सवः परान संख्ये परतीयुः कषत्रियर्षभाः
[स]
ततः स कदनं चक्रे रिपूणां दरॊणनन्दनः
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः
धवजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम
अश्वकिंपुरुषाकीर्णं शतासन लतावृतम
शूलक्रव्याद संघुष्टं भूतयक्षगणाकुलम
निहत्य शात्रवान भल्लैः सॊ ऽचिनॊद देहपर्वतम
ततॊ वेगेन महता विनद्य स नरर्षभः
परतिज्ञां शरावयाम आस पुनर एव तवात्मजम
यस्माद युध्यन्तम आचार्यं धर्मकञ्चुकम आस्थितः
मुञ्च शस्त्रम इति पराह कुन्तीपुत्रॊ युधिष्ठिरः
तस्मात संपश्यतस तस्य दरावयिष्यामि वाहिनीम
विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यम एव तु
सर्वान एतान हनिष्यामि यदि यॊत्स्यन्ति मां रणे
सत्यं ते परतिजानामि परावर्तय वानिहीम
तच छरुत्वा तव पुत्रस तु वाहिनीं पर्यवर्तयत
सिंहनादेन महता वयपॊह्य सुमहद भयम
ततः समागमॊ राजन कुरुपाण्डवसेनयॊः
पुनर एवाभवत तीव्रः पूर्णसागरयॊर इव
संरब्धा हि सथिरी भूता दरॊणपुत्रेण कौरवाः
उदग्राः पाण्डुपाञ्चाला दरॊणस्य निधनेन च
तेषां परमहृष्टानां जयम आत्मनि पश्यताम
संरब्धानां महावेगः परादुरासीद रणाजिरे
यथा शिलॊच्चये शैलः सागरे सागरॊ यथा
परतिहन्येत राजेन्द्र तथासन कुरुपाण्डवाः
ततः शङ्खसहस्राणि भेरीणाम अयुतानि च
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः
ततॊ निर्मथ्यमानस्य सागरस्येव निस्वनः
अभवत तस्य सैन्यस्य सुमहान अद्भुतॊपमः
परादुश्चक्रे ततॊ दरौणिर अस्त्रं नारायणं तदा
अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम
परादुरासंस ततॊ बाणा दीप्ताग्राः खे सहस्रशः
पाण्डवान भक्षयिष्यन्तॊ दीप्तास्या इव पन्नगाः
ते दिशः खं च सैन्यं च समावृण्वन महाहवे
मुहूर्ताद भास्करस्येव राजँल लॊकं गभस्तयः
तथापरे दयॊतमाना जयॊतींषीवाम्बरे ऽमले
परादुरासन महीपाल कार्ष्णायसमया गुडाः
चतुर्दिशं विचित्राश च शतघ्न्यॊ ऽथ हुताशदाः
चक्राणि च कषुरान्तानि मण्डलानीव भास्वतः
शस्त्राकृतिभिर आकीर्णम अतीव भरतर्षभ
दृष्ट्वान्तरिक्षम आविग्नाः पाण्डुपाञ्चाल सृञ्जयाः
यथा यथा हय अयुध्यन्त पाण्डवानां महारथाः
तथा तथा तद अस्त्रं वै वयवर्धत जनाधिप
वध्यमानास तथास्त्रेण तेन नारायणेन वै
दह्यमानानलेनेव सर्वतॊ ऽभयर्दिता रणे
यथा हि शिशिरापाये दहेत कक्षं हुताशनः
तथा तद अस्त्रं पाण्डूनां ददाह धवजिनीं परभॊ
आपूर्यमाणेनास्त्रेण सैन्ये कषीयति चाभिभॊ
जगाम परमं तरासं धर्मपुत्रॊ युधिष्ठिरः
दरवमाणं तु तत सैन्यं दृष्ट्वा विगतचेतनम
मध्यस्थतां च पार्थस्य धर्मपुत्रॊ ऽबरवीद इदम
धृष्टद्युम्न पलायस्व सह पाञ्चाल सेनया
सात्यके तवं च गच्छस्व वृष्ण्यन्धकवृतॊ गृहान
वासुदेवॊ ऽपि धर्मात्मा करिष्यत्य आत्मनः कषमम
उपदेष्टुं समर्थॊ ऽयं लॊकस्य किम उतात्मनः
संग्रामस तु न कर्तव्यः सर्वसैन्यान बरवीमि वः
अहं हि सह सॊदर्यैः परवेक्ष्ये हव्यवाहनम
भीष्मद्रॊणार्णवं तीर्त्वा संग्रामं भीरु दुस्तरम
अवसत्स्याम्य असलिले सगणॊ दरौणिगॊष्पदे
कामः संपद्यताम अस्य बीभत्सॊर आशु मां परति
कल्याण वृत्त आचार्यॊ मया युधि निपातितः
येन बालः स सौभद्रॊ युद्धानाम अविशारदः
समर्थैर बहुभिः करूरैर घातितॊ नाभिपालितः
येनाविब्रुवता परश्नं तथा कृष्णा सभां गता
उपेक्षिता सपुत्रेण दासभावं नियच्छती
जिघांसुर धार्तराष्ट्रश च शरान्तेष्व अश्वेषु फल्गुनम
कवचेन तथायुक्तॊ रक्षार्थं सैन्धवस्य च
येन बरह्मास्त्र विदुषा पाञ्चालाः सत्यजिन मुखाः
कुर्वाणा मज्जये यत्नं स मूला विनिपातिताः
येन परव्राज्यमानाश च राज्याद वयम अधर्मतः
निवार्यमाणेनास्माभिर अनुगन्तुं तद एषिताः
यॊ ऽसाव अत्यन्तम अस्मासु कुर्वाणः सौहृदं परम
हतस तदर्थे मरणं गमिष्यामि स बान्धवः
एवं बरुवति कौन्तेये दाशार्हस तवरितस ततः
निवार्य सैन्यं बाहुभ्याम इदं वचनम अब्रवीत
शीघ्रं नयस्यत शस्त्राणि वाहेभ्यश चावरॊहत
एष यॊगॊ ऽतर विहितः परतिघातॊ महात्मना
दविपाश्वस्यन्दनेभ्यश च कषितिं सर्वे ऽवरॊहत
एवम एतन न वॊ हन्याद अस्त्रं भूमौ निरायुधान
यथा यथा हि युध्यन्ते यॊधा हय अस्त्रबलं परति
तथा तथा भवन्त्य एते कौरवा बलवत्तराः
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्यॊ ऽवरुह्य ये
तान नैतद अस्त्रं संग्रामे निहनिष्यति मानवान
ये तव एतत परतियॊत्स्यन्ति मनसापीह के चन
निहनिष्यति तान सर्वान रसातलगतान अपि
ते वचस तस्य तत्ल्श्रुत्वा वासुदेवस्य भारत
ईषुः सर्वे ऽसत्रम उत्स्रष्टुं मनॊभिः करणेन च
तत उत्स्रष्टुकामांस तान अस्त्राण्य आलक्ष्य पाण्डवः
भीमसेनॊ ऽबरवीद राजन्न इदं संहर्षयन वचः
न कथं चन शस्त्राणि मॊक्तव्यानीह केन चित
अहम आवारयिष्यामि दरॊणपुत्रास्त्रम आशुगैः
अथ वाप्य अनया गुर्व्या हेमविग्रहया रणे
कालवद विचरिष्यामि दरौणेर अस्त्रं विशातयन
न हि मे विक्रमे तुल्यः कश चिद अस्ति पुमान इह
यथैव सवितुस तुल्यं जयॊतिर अन्यन न विद्यते
पश्यध्वं मे दृढौ बाहू नागराजकरॊपमा
समर्थौ पर्वतस्यापि शैशिरस्य निपातने
नागायुत समप्राणॊ हय अहम एकॊ नरेष्व इह
शक्रॊ यथा परतिद्वंद्वॊ दिवि देवेषु विश्रुतः
अद्य पश्यत मे वीर्यं बाह्वॊः पीनांसयॊर युधि
जवलमानस्य दीप्तस्य दरौणेर अस्त्रस्य वारणे
यदि नारायणास्त्रस्य परतियॊद्धा न विद्यते
अद्यैनं परतियॊत्स्यामि पश्यत्सु कुरु पाण्डुषु
एवम उक्त्वा ततॊ भीमॊ दरॊणपुत्रम अरिंदमः
अभ्ययान मेघघॊषेण रथेनादित्यवर्चसा
स एनम इषुजालेन लघुत्वाच छीघ्र विक्रमः
निमेष मात्रेणासाद्य कुन्तीपुत्रॊ ऽभयवाकिरत
ततॊ दरौणिः परहस्यैनम उदासम अभिभाष्य च
अवाकिरत परदीप्ताग्रैः शरैस तैर अभिमन्त्रितैः
पन्नगैर इव दीप्तास्यैर वमद्भिर अनलं रणे
अवकीर्णॊ ऽभवत पार्थः सफुलिङ्गैर इव काञ्चनैः
तस्य रूपम अभूद राजन भीमसेनस्य संयुगे
खद्यॊतैर आवृतस्येव पर्वतस्य दिनक्षये
तद अस्त्रं दरॊणपुत्रस्य तस्मिन परतिसमस्यति
अवर्धत महाराज यथाग्निर अनिलॊद्धतः
विवर्धमानम आलक्ष्य तद अस्त्रं भीमविक्रमम
पाण्डुसैन्यम ऋते भीमं सुमहद भयम आविशत
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले
अवारॊहन रथेभ्यश च हस्त्यश्वेभ्यश च सर्वशः
तेषु निक्षिप्तशस्त्रेषु वानहेभ्यश चयुतेषु च
तद अस्त्रवीर्यं विपुलं भीम मूर्धन्य अथापतत
हाहाकृतानि भूतानि पाण्डवाश च विशेषतः
भीमसेनम अपश्यन्त तेजसा संवृतं तदा
[स]
भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः
तेजसः परतिघातार्थं वारुणेन समावृणॊत
नालक्षयत तं कश चिद वारुणास्त्त्रेण संवृतम
अर्जुनस्य लघुत्वाच च संवृतत्वाच च तेजसः
साश्वसूत रथॊ भीमॊ दरॊणपुत्रास्त्र संवृतः
अग्नाव अग्निर इव नयस्तॊ जवालामाली सुदुर्दृशः
यथा रात्रिक्षये राजञ जयॊतींष्य अस्तगिरिं परति
समापेतुस तथा बाणा भीमसेनरथं परति
स हि भीमॊ रथश चास्य हयाः सूतश च मारिष
संवृता दरॊणपुत्रेण पावकान्तर गताभवन
यथा दग्ध्वा जगत कृत्स्नं समये स चराचरम
गच्छेद अग्निर विभॊर आस्यं तथास्त्रं भीमम आवृणॊत
सूर्यम अग्निः परविष्टः सयाद यथा चाग्निं दिवाकरः
तथा परविष्टं तत तेजॊ न पराज्ञायत किं चन
विकीर्णम अस्त्रं तद दृष्ट्वा तथा भीम रथं परति
सर्वसैन्यानि पाण्डूनां नयस्तशस्त्राण्य अचेतसः
उदीर्यमाणं दरौणिं च निष्प्रति दवंद्वम आहवे
युधिष्ठिरपुरॊगांश च विमुखांस तान महारथान
अर्जुनॊ वासुदेवश च तवरमाणौ महाद्युती
अवप्लुत्य रथाद वीरौ भीमम आद्रवतां ततः
ततस तद दरॊणपुत्रस्य तेजॊ ऽसत्रबलसंभवम
विगाह्य तौ सुबलिनौ माययाविशतां तदा
नयस्तशस्त्रौ ततस तौ तु नादहद अस्त्रजॊ ऽनलः
वारुणास्त्र परयॊगाच च वीर्यवत्त्वाच च कृष्णयॊः
ततश चकृषतुर भीमं तस्य सर्वायुधानि च
नारायणास्त्र शान्त्य अर्थं नरनारायणौ बलात
अपकृष्यमाणः कौन्तेयॊ नदत्य एव महारथः
वर्धते चैव तद घॊरं दरौणेर अस्त्रं सुदुर्जयम
तम अब्रवीद वासुदेवः किम इदं पाण्डुनन्दन
वार्यमाणॊ ऽपि कौन्तेय यद युद्धान न निवर्तसे
यदि युद्धेन जेयाः सयुर इमे कौरवनन्दनाः
वयम अप्य अत्र युध्येम तथा चेमे नरर्षभाः
रथेभ्यस तव अवतीर्णास तु सर्व एव सम तावकाः
तस्मात तवम अपि कौन्तेय रथात तूर्णम अपाक्रम
एवम उक्त्वा ततः कृष्णॊ रथाद भूमिम अपातयत
निःश्वसन्तं यथा नागं करॊधसंरक्तलॊचनम
यदापकृष्टः स रथान नयासितश चायुधं भुवि
ततॊ नारायणास्त्रं तत परशान्तं शत्रुतापनम
तस्मिन परशान्ते विधिना तदा तेजसि दुःसहे
बभूवुर विमलाः सर्वा दिशः परदिश एव च
परववुश च शिवा वाताः परशान्ता मृगपक्षिणः
वाहनानि च हृष्टानि यॊधाश च मनुजेश्वर
वयपॊढे च ततॊ घॊरे तस्मिंस तेजसि भारत
बभौ भीमॊ निशापाये धीमान सूर्य इवॊदितः
हतशेषं बलं तत्र पाण्डवानाम अतिष्ठत
अस्त्रव्युपरमाद धृष्टं तव पुत्र जिघांसया
वयवस्थिते बले तस्मिन अस्त्रे परतिहते तथा
दुर्यॊधनॊ महाराज दरॊणपुत्रम अथाब्रवीत
अश्वत्थामन पुनः शीघ्रम अस्त्रम एतत परयॊजय
वयवस्थिता हि पाञ्चालाः पुनर एव जयैषिणः
अश्वत्थामा तथॊक्तस तु तव पुत्रेण मारिष
सुदीनम अभिनिःश्वस्य राजानम इदम अब्रवीत
नैतद आवर्तते राजन्न अस्त्रं दविर नॊपपद्यते
आवर्तयन निहन्त्य एतत परयॊक्तारं न संशयः
एष चास्त्रप्रतीघातं वासुदेवः परयुक्तवान
अन्यथा विहितः संख्ये वधः शत्रॊर जनाधिप
पराजयॊ वा मृत्युर वा शरेयॊ मृत्युर न निर्जयः
निर्जिताश चारयॊ हय एते शस्त्रॊत्सर्गान मृतॊपमाः
[दुर]
आचार्य पुत्र यद्य एतद दविर अस्त्रं न परयुज्यते
अन्यैर गुरुघ्ना वध्यन्ताम अस्त्रैर अस्त्राविदां वर
तवयि हय अस्त्राणि दिव्यानि यथा सयुस तर्यम्बके तथा
इच्छतॊ न हि ते मुच्येत करुद्धस्यापि पुरंदरः
[धृ]
तस्मिन्न अस्त्रे परतिहते दरॊणे चॊपधिना हते
तथा दुर्यॊधनेनॊक्तॊ दरौणिः किम अकरॊत पुनः
दृष्ट्वा पार्थांश च संग्रामे युद्धाय समवस्थितान
नारायणास्त्र निर्मुक्तांश चरतः पृतना मुखे
[स]
जानन पितुः स निधनं सिंहलाङ्गूल केतनः
सक्रॊधॊ भयम उत्सृज्य अभिदुद्राव पार्षतम
अभिद्रुत्य च विंशत्या कषुद्रकाणां नरर्षभः
पञ्चभिश चातिवेगेन विव्याध पुरुषर्षभम
धृष्टद्युम्नस ततॊ राजञ जवलन्तम इव पावकम
दरॊणपुत्रं तरिषष्ट्या तु राजन विव्याध पत्रिणाम
सारथिं चास्य विंशत्या सवर्णपुङ्खैः शिलाशितैः
हयांश च चतुरॊ ऽविध्यच चतुर्भिर निशितैः शरैः
विद्ध्वा विद्ध्वानदद दरौणिः कम्पयन्न इव मेदिनीम
आददत सर्वलॊकस्य पराणान इव महारणे
पार्षतस तु बली राजन कृतास्त्रः कृतनिश्रमः
दरौणिम एवाभिदुद्राव कृत्वा मृत्युं निवर्तनम
ततॊ बाणमयं वर्षं दरॊणपुत्रस्य मूर्धनि
अवासृजद अमेयात्मा पाञ्चाल्यॊ रथिनां वरः
तं दरौणिः समरे करुद्धश छादयाम आस पत्रिभिः
विव्याध चैनं दशभिः पितुर वधम अनुस्मरन
दवाभ्यां च सुविकृष्टाभ्यां कषुराभ्यां धवजकार्मुके
छित्त्वा पाञ्चालराजस्य दरौणिर अन्यैः समार्दयत
वयश्व सूत रथं चैनं दरौणिश चक्रे महाहवे
तस्य चानुचरान सर्वान करुद्धः पराच्छादयच छरैः
परद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते
संभ्रान्तरूपम आर्तं च शरवर्ष परिक्षतम
दृष्ट्वा च विमुखान यॊधान धृष्टद्युम्नं च पीडितम
शैनेयॊ ऽचॊदयत तूर्णं रणं दरौणिरथं परति
अष्टभिर निशितैश चैव सॊ ऽशवत्थामानम आर्दयत
विंशत्या पुनर आहत्य नानारूपैर अमर्षणम
विव्याध च तथा सूतं चतुर्भिश चतुरॊ हयान
सॊ ऽतिविद्धॊ महेष्वासॊ नाना लिङ्गैर अमर्षणः
युयुधानेन वै दरौणिः परहसन वाक्यम अब्रवीत
शैनेयाभ्यवपत्तिं ते जानाम्य आचार्य घातिनः
न तव एनं तरास्यसि मया गरस्तम आत्मानम एव च
एवम उक्त्वार्क रश्म्याभं सुपर्वाणं शरॊत्तमम
वयसृजत सात्वते दरौणिर वज्रं वृत्रे यथा हरिः
स तं निर्भिद्य तेनास्तः सायकः स शरावरम
विवेश वसुधां भित्त्वा शवसन बिलम इवॊरगः
स भिन्नकवचः शूरस तॊत्त्रार्दित इव दविपः
विमुच्य स शरं चापं भूरि वरणपरिस्रवः
सीदन रुधिरसिक्तश च रथॊपस्थ उपाविशत
सूतेनापहृतस तूर्णं दरॊणपुत्राद रथान्तरम
अथान्येन सुपुङ्खेन शरेण नतपर्वणा
आजघान भरुवॊर मध्ये धृष्टद्युम्नं परंतपः
स पूर्वम अतिविद्धश च भृशं पश्चाच च पीडितः
ससाद युधि पाञ्चाल्यॊ वयपाश्रयत च धवजम
तं मत्तम इव सिंहेन राजन कुञ्जरम अर्दितम
जवेनाभ्यद्रवञ शूराः पञ्च पाण्डवतॊ रथाः
किरीटी भीमसेनश च वृद्धक्षत्रश च पौरवः
युवराजश च चेदीनां मालवश च सुदर्शनः
पञ्चभिः पञ्चभिर बाणैर अभ्यघ्नन सर्वतः समम
आशीविषाभैर विशद्भिः पञ्चभिश चापि ताञ शरैः
चिच्छेद युगपद दरौणिः पञ्चविंशतिसायकान
सप्तभिश च शितैर बाणैः पौरवं दरौणिर आर्दयत
मालवं तरिभिर एकेन पार्थं षड्भिर वृकॊदरम
ततस ते विव्यधुः सर्वे दरौणिं राजन महारथाः
युगपच च पृथक चैव रुक्मपुङ्खैः शिलाशितैः
युवराजस तु विंशत्या दरौणिं विव्याध पत्रिणाम
पार्थश च पुनर अष्टाभिस तथा सर्वे तरिभिस तरिभिः
ततॊ ऽरजुनं षड्भिर अथाजघान; दरौणायनिर दशभिर वासुदेवम
भीमं दशार्धैर युवराजं चतुर्भिर; दवाभ्यां छित्त्वा कार्मुकं च धवजं च
पुनः पार्थं शरवर्षेण विद्ध्वा; दरौणिर घॊरं सिंहनादं ननाद
तस्यास्यतः सुनिशितान पीतधारान; दरौणेः शरान पृष्ठतश चाग्रतश च
धरा वियद दयौः परदिशॊ दिशश च; छन्ना बाणैर अभवन घॊररूपैः
आसीनस्य सवरथं तूग्र तेजाः; सुदर्शनस्येन्द्र केतुप्रकाशौ
भुजौ शिरश चेन्द्र समानवीर्यस; तरिभिः शरैर युगपत संचकर्त
स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश चापि बाणैः
छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच छिर उच्चकर्त
युवानम इन्दीवरदाम वर्णं; चेदिप्रियं युवराजं परहस्य
बाणैस तवरावाञ जवलिताग्निकल्पैर; विद्ध्वा परादान मृत्यवे साश्वसूतम
तान निहत्य रणे वीरॊ दरॊणपुत्रॊ युधां पतिः
दध्मौ परमुदितः शङ्खं बृहन्तम अपराजितः
ततः सर्वे च पाञ्चाला भीमसेनश च पाण्डवः
धृष्टद्युम्न रथं भीतास तयक्त्वा संप्राद्रवन दिशः
तान परभग्नांस तथा दरौणिः पृष्ठतॊ विकिरञ शरैः
अभ्यवर्तत वेगेन कालवत पाण्डुवाहिनीम
ते वध्यमानाः समरे दरॊणपुत्रेण कषत्रियाः
दरॊणपुत्रं भयाद राजन दिक्षु सर्वासु मेनिरे
[स]
तत परभग्नं बलं दृष्ट्वा कुन्तीपुत्रॊ धनंजयः
नयवारयद अमेयात्मा दरॊणपुत्र वधेप्सया
ततस ते सैनिका राजन नैव तत्रावतस्थिरे
संस्थाप्यमाना यत्नेन गॊविन्देनार्जुनेन च
एक एव तु बीभत्सुः सॊमकावयवैः सह
मत्स्यैर अन्यैश च संधाय कौरवैः संन्यवर्तत
ततॊ दरुतम अतिक्रम्य सिंहलाङ्गूल केतनम
सव्यसाची महेष्वासम अश्वत्थामानम अब्रवीत
या शक्तिर यच च ते वीर्यं यज जञानं यच च पौरुषम
धार्तराष्ट्रेषु या परीतिः परद्वेषॊ ऽसमासु यश च ते
यच च भूयॊ ऽसति तेजस तत्परमं मम दर्शय
स एव दरॊण हन्ता ते दर्पं भेत्स्यति पार्षतः
कालानलसमप्रख्यॊ दविषताम अन्तकॊ युधि
समासादय पाञ्चाल्यं मां चापि सह केशवम
[धृ]
आचार्य पुत्रॊ मानार्हॊ बलवांश चापि संजय
परीतिर धनंजये चास्य परियश चापि स वासवेः
न भूतपूर्वं बीभत्सॊर वाक्यं परुषम ईदृशम
अथ कस्मात स कौन्तेयः सखायं रूक्षम अब्रवीत
[स]
युवराजे हते चैव वृद्धक्षत्रे च पौरवे
इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते
युधिष्ठिरस्य तैर वाक्यैर मर्मण्य अपि च घट्टिते
अन्तर भेदे च संजाते दुःखं संस्मृत्य च परभॊ
अभूतपूर्वॊ बीभत्सॊर दुःखान मन्युर अजायत
तस्माद अनर्हम अश्लीलम अप्रियं दरौणिम उक्तवान
मान्यम आचार्य तनयं रूक्षं कापुरुषॊ यथा
एवम उक्तः शवसन करॊधान महेष्वासतमॊ नृप
पार्थेन परुषं वाक्यं सर्वमर्म घनया गिरा
दरौणिश चुकॊप पार्थाय कृष्णाय च विशेषतः
स तु यत्तॊ रथे सथित्वा वार्य उपस्पृश्य वीर्यवान
देवैर अपि सुदुर्धर्षम अस्त्रम आग्नेयम आददे
दृश्याद दृश्यान अरिगणान उद्दिश्याचार्यनन्दनः
सॊ ऽभिमन्त्र्य शरं दीप्तं विधूमम इव पावकम
सर्वतः करॊधम आविश्य चिक्षेप परवीरहा
ततस तुमुलम आकाशे शरवर्णम अजायत
ववुश च शिशिरा वाताः सूर्यॊ नैव तताप च
चुक्रुशुर दानवाश चापि दिक्षु सर्वासु भैरवम
रुधिरं चापि वर्षन्तॊ विनेदुस तॊयदाम्बरे
पक्षिणः पशवॊ गावॊ मुनयश चापि सुव्रताः
परमं परयतात्मानॊ न शान्तिम उपलेभिरे
भरान्तसर्वमहाभूतम आवर्जितदिवाकरम
तरैलॊक्यम अभिसंतप्तं जवराविष्टम इवातुरम
शरतेजॊ ऽभिसंतप्ता नागा भूमिशयास तथा
निःश्वसन्तः समुत्पेतुस तेजॊ घॊरं मुमुक्षवः
जलजानि च सत्त्वानि दह्यमानानि भारत
न शान्तिम उपजग्मुर हि तप्यमानैर जलाशयैः
दिशः खं परदिशश चैव भुवं च शरवृष्टयः
उच्चावचा निपेतुर वै गरुडानिलरंहसः
तैः शरैर दरॊणपुत्रस्य वज्रवेगसमाहितैः
परदग्धाः शत्रवः पेतुर अग्निदग्धा इव दरुमाः
दह्यमाना महानागाः पेतुर उर्व्यां समन्ततः
नदन्तॊ भैरवान नादाञ जलदॊपम निस्वना
अपरे परद्रुतास तत्र दह्यमाना महागजाः
तरेसुस तथापरे घॊरे वने दावाग्निसंवृताः
दरुमाणां शिखराणीव दावदग्धानि मारिष
अश्ववृन्दान्य अदृश्यन्त रथवृन्दानि चाभिभॊ
अपतन्त रथौघाश च तत्र तत्र सहस्रशः
तत सैन्यं भगवान अग्निर ददाह युधि भारत
युगान्ते सर्वभूतानि संवर्तक इवानकः
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे
परहृष्टास तावका राजन सिंहनादान विनेदिरे
ततस तूर्यसहस्राणि नाना लिङ्गानि भारत
तूर्णम आजघ्निरे हृष्टास तावका जितकाशिनः
कृत्स्ना हय अक्षौहिणी राजन सव्यसाची च पाण्डवः
तमसा संवृते लॊके नादृश्यत महाहवे
नैव नस तादृशं राजन दृष्टपूर्वं न च शरुतम
यादृशं दरॊणपुत्रेण सृष्टम अस्त्रम अमर्षिणा
अर्जुनस तु महाराज बराह्मम अस्त्रम उदैरयत
सर्वास्त्रप्रतिघाताय विहितं पद्मयॊनिना
ततॊ मुहूर्ताद इव तत तमॊ वयुपशशाम ह
परववौ चानिलः शीतॊ दिशश च विमलाभवन
तत्राद्भुतम अपश्याम कृत्स्नाम अक्षौहिणीं हताम
अनभिज्ञेय रूपां च परदग्धाम अस्त्रमायया
ततॊ वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ
सहितौ संप्रदृश्येतां नभसीव तमॊनुदौ
स पताक धवजहयः सानुकर्ष वरायुधः
परबभौ स रथॊ मुक्तस तावकानां भयंकरः
ततः किलकिला शब्दः शङ्खभेरी रवैः सह
पाण्डवानां परहृष्टानां कषणेन समजायत
हताव इति तयॊर आसीद एनयॊर उभयॊर मतिः
तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ
ताव अक्षतौ परमुदितौ दध्मतुर वारिजॊत्तमौ
दृष्ट्वा परमुदितान पार्थांस तवदीया वयथिताभवन
विमुक्तौ च महात्मानौ दृष्ट्वा दरौणिः सुदुःखितः
मुहूर्तं चिन्तयाम आस किं तव एतद इति मारिष
चिन्तयित्वा तु राजेन्द्र धयानशॊकपरायणः
निःश्वसन दीर्घम उष्णं च विमनाश चाभवत तदा
ततॊ दरौणिर धनुर नयस्य रथात परस्कन्द्य वेगितः
धिग धिक सर्वम इदं मिथ्येत्य उक्त्वा संप्राद्रवद रणात
ततः सनिग्धाम्बुदाभासं वेद वयासम अकल्मषम
आवासं च सरस्वत्याः स वै वयासं ददर्श ह
तं दरौणिर अग्रतॊ दृष्ट्वा सथितं कुरुकुलॊद्वह
सन्नकण्ठॊ ऽबरवीद वाक्यम अभिवाद्य सुदीनवत
भॊ भॊ माया यदृच्छा वा न विद्मः किम इदं भवेत
अस्त्रं तव इदं कथं मिथ्या मम कश च वयतिक्रमः
अधरॊत्तरम एतद वा लॊकानां वा पराभवः
यद इमौ जीवतः कृष्णौ कालॊ हि दुरतिक्रमः
नासुरामर गन्धर्वा न पिशाचा न राक्षसाः
न सर्पयक्षपतगा न मनुष्याः कथं चन
उत्सहन्ते ऽनयथा कर्तुम एतद अस्त्रं मयेरितम
तद इदं केवलं हत्वा युक्ताम अक्षौहिणीं जवलत
केनेमौ मर्त्यधर्माणौ नावधीत केशवार्जुनौ
एतत परब्रूहि भगवन मया पृष्टॊ यथातथम
[व]
महान्तम एतदर्थं मां यं तवं पृच्छसि विस्मयात
तत परवक्ष्यामि ते सर्वं समाधाय मनः शृणु
यॊ ऽसौ नारायणॊ नाम पूर्वेषाम अपि पूर्वजः
अजायत च कार्यार्थं पुत्रॊ धर्मस्य विश्वकृत
स तपस तीव्रम आतस्थे मैनाकं गिरिम आस्थितः
ऊर्ध्वबाहुर महातेजा जवलनादित्य संनिभः
षष्टिं वर्षसहस्राणि तावन्त्य एव शतानि च
अशॊषयत तदात्मानं वायुभक्षॊ ऽमबुजेक्षणः
अथापरं तपस तप्त्वा दविस ततॊ ऽनयत पुनर महत
दयावापृथिव्यॊर विवरं तेजसा समपूरयत
स तेन तपसा तात बरह्मभूतॊ यदाभवत
ततॊ विश्वेश्वरं यॊनिं विश्वस्य जगतः पतिम
ददर्श भृशदुर्दर्शं सर्वा देवैर अपीश्वरम
अणीयसाम अणीयांसं बृहद्भ्यश च बृहत्तरम
रुद्रम ईशानम ऋषभं चेकितानम अजं परम
गच्छतस तिष्ठतॊ वापि सर्वभूतहृदि सथितम
दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं परचेतसम
दिव्यं चापम इषुधी चाददानं; हिरण्यवर्माणम अनन्तवीर्यम
पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं सवायतासिम
सुभ्रुं जटामण्डलचन्द्र मौलिं; वयाघ्राजिनम परिघं दण्डपाणिम
शुभाङ्गदं नागयज्ञॊपवीतिं; विश्वैर गणैः शॊभितं भूतसंघैः
एकीभूतं तपसां संनिधानं; वयॊ ऽतिगैः सुष्ठुतम इष्टवाग्भिः
जलं दिवं खं कषितिं चन्द्रसूर्यौ; तथा वाय्वग्नी परतिमानं जगच च
नालं दरष्टुं यमजं भिन्नवृत्ता; बरह्म दविषघ्नम अमृतस्य यॊनिम
यं पश्यन्ति बराह्मणाः साधुवृत्ताः; कषीणे पापे मनसा ये विशॊकाः
स तन्निष्ठस तपसा धर्मम ईड्यं; तद भक्त्या वै विश्वरूपं ददर्श
दृष्ट्वा चैनं वान मनॊ बुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम
अक्षमाला परिक्षिप्तं जयॊतिषां परमं निधिम
ततॊ नारायणॊ दृष्ट्वा ववन्दे विश्वसंभवम
वरदं पृथुचार्व अङ्ग्या पार्वत्या सहितं परभुम
अजम ईशानम अव्यग्रं कारणात्मानम अच्युतम
अभिवाद्याथ रुद्राय सद्यॊ ऽनधकनिपातिने
पद्माक्षस तं विरूपाक्षम अभितुष्टाव भक्तिमान
तवत संभूता भूतकृतॊ वरेण्य; गॊप्तारॊ ऽदय भुवनं पूर्वदेवाः
आविश्येमां धरणीं ये ऽभयरक्षन; पुरा पुराणां तव देव सृष्टिम
सुरासुरान नागरक्षःपिशाचान; नरान सुपर्णान अथ गन्धर्वयक्षान
पृथग्विधान भूतसंघांश च विश्वांस; तवत संभूतान विद्म सर्वांस तथैव
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं तवाष्ट्रं कर्म सौम्यं च तुभ्यम
रूपं जयॊतिः शब्द आकाशवायुः; सपर्शः सवाद्यं सलिलं गन्ध उर्वी
कामॊ बरह्मा बरह्म च बराह्मणाश च; तवत संभूतं सथास्नु चरिष्णु चेदम
अद्भ्यः सतॊका यान्ति यथा पृथक्त्वं; ताभिश चैक्यं संक्षये यान्ति भूयः
एवं विद्वान परभवं चाप्य अयं च; हित्वा भूतानां तत्र सायुज्यम एति
दिव्याव ऋतौ मानसौ दवौ सुपर्णाव; अवाक्शाखः पिप्पलः सप्त गॊपाः
दशाप्य अन्ये ये पुरं धारयन्ति; तवया सृष्टास ते हि तेभ्यः परस तवम
भूतं भव्यं भविता चाप्य अधृष्यं; तवत संभूता भुवनानीह विश्वा
भक्तं च मां भजमानं भजस्व; मा रीरिषॊ माम अहिताहितेन
आत्मानं तवाम आत्मनॊ ऽनन्यभावॊ; विद्वान एवं गच्छति बरह्म शुक्रम
अस्तौषं तवां तव संमानम इच्छन; विचिन्वन वै सवृषं देववर्य
सुदुर्लभान देहि वरान ममेष्टान; अभिष्टुतः परतिकार्षीश च मा माम
तस्मै वरान अचिन्त्यात्मा नीलकण्ठः पिनाक धृक
अर्हते देव मुख्याय परायच्छद ऋषिसंस्तुतः
[नीलकण्ठ]
मत्प्रसादान मनुष्येषु देवगन्धर्वयॊनिषु
अप्रमेयबलात्मा तवं नारायण भविष्यसि
न च तवा परसहिष्यन्ति देवासुरमहॊरगाः
न पिशाचा न गन्धर्वा न च विश्वे वियॊनिजाः
न सुपर्णास तथा नागा न च विश्वे वियॊनिजाः
न कश चित तवां च देवॊ ऽपि समरेषु विजेष्यति
न शस्त्रेण न वज्रेण नाग्निना न च वायुना
नार्द्रेण न च शुष्केण तरसेन सथावरेण वा
कश चित तव रुजं कर्ता मत्प्रसादात कथं चन
अपि चेत समरं गत्वा भविष्यसि ममाधिकः
[व]
एवम एते वरा लब्धाः पुरस्ताद विद्धि शौरिणा
स एष देवश चरति मायया मॊहयञ जगत
तस्यैव तपसा जातं नरं नाम महामुनिम
तुल्यम एतेन देवेन तं जानीह्य अर्जुनं सदा
ताव एतौ पूर्वदेवानां परमॊपचिताव ऋषी
लॊकयात्रा विधानार्थं संजायेते युगे युगे
तथैव कर्मणः कृत्स्नं महतस तपसॊ ऽपि च
तेजॊ मन्युश च विद्वंस तवं जातॊ रौद्रॊ महामते
स भवान देववत पराज्ञॊ जञात्वा भव मयं जगत
अवाकर्षस तवम आत्मानं नियमैस तत्प्रियेप्सया
शुभम और्वं नवं कृत्वा महापुरुषविग्रहम
ईजिवांस तवं जपैर हॊमैर उपहारैश च मानद
स तथा पूज्यमानस ते पूर्वदेवॊ ऽपय अतूतुषत
पुष्कलांश च वरान परादात तव विद्वन हृदि सथितान
जन्म कर्म तपॊयॊगास तयॊस तव च पुष्कलाः
ताभ्यां लिङ्गे ऽरचितॊ देवस तवयार्चायां युगे युगे
सर्वरूपं भवं जञात्वा लिङ्गे यॊ ऽरचयति परभुम
आत्मयॊगाश च तस्मिन वै शास्त्रयॊगाश च शाश्वताः
एवं देवा यजन्तॊ हि सिद्धाश च परमर्षयः
परार्थयन्ति परं लॊके सथानम एव च शाश्वतम
स एष रुद्र भक्तश च केशवॊ रुद्र संभवः
कृष्ण एव हि यष्टव्यॊ यज्ञैश चैष सनातनः
सर्वभूतभवं जञात्वा लिङ्गे ऽरचयति यः परभुम
तस्मिन्न अभ्यधिकां परीतिं करॊति वृषभध्वजः
[स]
तस्य तद वचनं शरुत्वा दरॊणपुत्रॊ महारथः
नमश चकार रुद्राय बहु मेने च केशवम
हृष्टलॊमा च वश्यात्मा नमस्कृत्य महर्षये
वरूथिनीम अभिप्रेत्य अवहारम अकारयत
ततः परत्यवहारॊ ऽभूत पाण्डवानां विशां पते
कौरवाणां च दीनानां दरॊणे युधि निपातिते
युद्धं कृत्वा दिनान पञ्च दरॊणॊ हत्वा वरूथिनीम
बरह्मलॊकं गतॊ राजन बराह्मणॊ वेदपारगः
[धृ]
तस्मिन्न अतिरथे दरॊणे निहते तत्र संजय
मामकाः पाण्डवाश चैव किम अकुर्वन्न अतः परम
[स]
तस्मिन्न अतिरथे दरॊणे निहते पार्षतेन वै
कौरवेषु च भग्नेषु कुन्तीपुत्रॊ धनंजयः
दृष्ट्वा सुमहद आश्चर्यम आत्मनॊ विजयावहम
यदृच्छयागतं वयासं पप्रच्छ भरतर्षभ
संग्रामे निघ्नतः शत्रूञ शरौघैर विमलैर अहम
अग्रतॊ लक्षये यान्तं पुरुषं पावकप्रभम
जवलन्तं शूलम उद्यम्य यां दिशं परतिपद्यते
तस्यां दिशि विशीर्यन्ते शत्रवॊ मे महामुने
न पद्भ्यां सपृशते भूमिं न च शूलं विमुञ्चति
शूलाच छूलसहस्राणि निष्पेतुस तस्य तेजसा
तेन भग्नान अरीन सर्वान मद भग्नान मन्यते जनः
तेन दग्धानि सैन्यानि पृष्ठतॊ ऽनुदहाम्य अहम
भगवंस तन ममाचक्ष्व कॊ वै स पुरुषॊत्तमः
शूलपाणिर महान कृष्ण तेजसा सूर्यसंनिभः
[व]
परजापतीनां परथमं तेजसं पुरुषं विभुम
भुवनं भूर भुवं देवं सर्वलॊकेश्वरं परभुम
ईशानं वरदं पार्थ दृष्टवान असि शंकरम
तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम
महादेवं महात्मानम ईशानं जटिलं शिवम
तर्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम
दातारं चैव भक्तानां परसादविहितान वरान
तस्य ते पार्षदा दिव्या रूपैर नानाविधैर विभॊः
वामना जटिला मुण्डा हरस्वग्रीवा महॊदराः
महाकाया महॊत्साहा महाकर्णास तथापरे
आननैर विकृतैः पादैः पार्थ वेषैश च वैकृतैः
ईदृशैः स महादेवः पूज्यमानॊ महेश्वरः
स शिवस तात तेजस्वी परसादाद याति ते ऽगरतः
तस्मिन घॊरे तदा पार्थ संग्रामे लॊमहर्षणे
दरॊणकर्णकृपैर गुप्तां महेष्वासैः परहारिभिः
कस तां सेनां तदा पार्थ मनसापि परधर्षयेत
ऋते देवान महेष्वासाद बहुरूपान महेश्वरात
सथातुम उत्सहते कश चिन न तस्मिन्न अग्रतः सथिते
न हि भूतं समं तेन तरिषु लॊकेषु विद्यते
गन्धेनापि हि संग्रामे तस्य करुद्धस्य शत्रवः
विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च
तस्मै नमस तु कुर्वन्तॊ देवास तिष्ठन्ति वै दिवि
ये चान्ये मानवा लॊके ये च सवर्गजितॊ नराः
ये भक्ता वरदं देवं शिवं रुद्रम उपा पतिम
इह लॊके सुखं पराप्य ते यान्ति परमां गतिम
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे
कपर्दिने करालाय हर्यक्ष्णे वरदाय च
याम्यायाव्यक्त केशाय सद्वृत्ते शंकराय च
काम्याय हरि नेत्राय सथाणवे पुरुषाय च
हरि केशाय मुण्डाय कृशायॊत्तरणाय च
भास्कराय सुतीर्थाय देवदेवाय रंहसे
बहुरूपाय शर्वाय परियाय परियवाससे
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
गिरिशाय परशान्ताय पतये चीरवाससे
हिरण्यबाहवे चैव उग्राय पतये दिशाम
पर्जन्यपतये चैव भूतानां पतये नमः
वृक्षाणां पतये चैव अपां च पतये तथा
वृक्षैर आवृतकायाय सेनान्ये मध्यमाय च
सरुव हस्ताय देवाय धन्विने भार्गवाय च
बहुरूपाय विश्वस्य पतये चीरवाससे
सहस्रशिरसे चैव सहस्रनयनाय च
सहस्रबाहवे चैव सहस्रचरणाय च
शरणं पराप्य कौन्तेय वरदं भुवनेश्वरम
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम
परजानां पतिम अव्यग्रं भूतानां पतिम अव्ययम
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम
वृषाङ्कं वृषभॊदारं वृषभं वृषभेक्षणम
वृषायुधं वृषशरं वृषभूतं महेश्वरम
महॊदरं महाकायं दवीपिचर्म निवासिनम
लॊकेशं वरदं मुण्डं बरह्मण्यं बराह्मण परियम
तरिशूलपाणिं वरदं खड्गचर्म धरं परभुम
पिनाकिनं खण्ड परशुं लॊकानां पतिम ईश्वरम
परपद्ये शरणं देवं शरण्यं चीरवाससम
नमस तस्मै सुरेशाय यस्य वैश्वरणः सखा
सुवाससे नमॊ नित्यं सुव्रताय सुधन्विने
सरुव हस्ताय देवाय सुखधन्वाय धन्विने
धन्वन्तराय धनुषे धन्वाचार्याय धन्विने
उग्रायुधाय देवाय नमः सुरवराय च
नमॊ ऽसतु बहुरूपाय नमश च बहुधन्विने
नमॊ ऽसतु सथाणवे नित्यं सुव्रताय सुधन्विने
नमॊ ऽसतु तरिपुरघ्नाय भग घनाय च वै नमः
वनस्पतीनां पतये नराणां पतये नमः
अपां च पतये नित्यं यज्ञानां पतये नमः
पूष्णॊ दन्तविनाशाय तर्यक्षाय वरदाय च
नीलकण्ठाय पिङ्गाय सवर्णकेशाय वै नमः
कर्माणि चैव दिव्यानि महादेवस्य धीमतः
तानि ते कीर्तयिष्यामि यथा परज्ञं यथा शरुतम
न सुरा नासुरा लॊके न गन्धर्वा न राक्षसाः
सुखम एधन्ति कुपिते तस्मिन्न अपि गुहा गताः
विव्याध कुपितॊ यज्ञं निर्भयस तु भवस तदा
धनुषा बाणम उत्सृज्य स घॊषं विननाद च
ते न शर्म कुतः शान्तिं लेभिरे सम सुरास तदा
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे
तेन जयातलघॊषेण सर्वे लॊकाः समाकुलाः
बभूवुर वशगाः पार्थ निपेतुश च सुरासुराः
आपश चुक्षुभिरे सर्वाश चकम्पे च वसुंधरा
पर्वताश च वयशीर्यन्त दिशॊ नागाश च मॊहिताः
अन्धाश च तमसा लॊका न परकाशन्त संवृताः
जघ्निवान सह सूर्येण सर्वेणां जयॊतिषां परभाः
चुक्रुशुर भयभीताश च शान्तिं चक्रुस तथैव च
ऋषयः सर्वभूतानाम आत्मनश च सुखैषिणः
पूषाणम अभ्यद्रवत शंकरः परहसन्न इव
पुरॊडाशं भक्षयतॊ दशनान वै वयशातयत
ततॊ निश्चक्रमुर देवा वेपमाना नताः सम तम
पुनश च संदधे दीप्तं देवानां निशितं शरम
रुद्रस्य यज्ञभागं च विशिष्टं ते नव अकल्पयन
भयेन तरिदशा राजञ शरणं च परपेदिरे
तेन चैवातिकॊपेन स यज्ञः संधितस तदा
यत्ताश चापि सुरा आसन यत्ताश चाद्यापि तं परति
असुराणां पुराण्य आसंस तरीणि वीर्यवतां दिवि
आयसं राजतं चैव सौवर्णम अपरं महत
आयसं तारकाक्षस्य कमलाक्षस्य राजतम
सौवर्णं परमं हय आसीद विद्युन्मालिन एव च
न शक्तस तानि मघवान भेत्तुं सर्वायुधैर अपि
अथ सर्वे ऽमरा रुद्रं जग्मुः शरणम अर्दिताः
ते तम ऊचुर महात्मानं सर्वे देवाः स वासवाः
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु
निपातयिष्यसे चैनान असुरान भुवनेश्वर
स तथॊक्तस तथेत्य उक्त्वा देवानां हितकाम्यया
अतिष्ठत सथाणुभूतः स सहस्रं परिवत्सरान
यदा तरीणि समेतानि अन्तरिक्षे पुराणि वै
तरिपर्वणा तरिशल्येन तेन तानि बिभेद सः
पुराणि न च तं शेकुर दानवाः परतिवीक्षितुम
शरं कालाग्निसंयुक्तं विष्णुसॊमसमायुतम
बालम अङ्कगतं कृत्वा सवयं पञ्च शिखं पुनः
उमा जिज्ञासमाना वै कॊ यम इत्य अब्रवीत सुरान
बाहुं सवज्रं शक्रस्य करुद्धस्यास्तम्भयत परभु
स एष भगवान देवः सर्वलॊकेश्वरः परभुः
न संबुबुधिरे चैनं देवास तं भुवनेश्वरम
स परजापतयः सर्वे बालार्कसदृशप्रभम
अथाभ्येत्य ततॊ बरह्मा दृष्ट्वा च स महेश्वरम
अयं शरेष्ठ इति जञात्वा ववन्दे तं पितामहः
ततः परसादयाम आसुर उमां रुद्रं च ते सुराः
अभवच च पुनर बाहुर यथा परकृतिवज्रिणः
तेषां परसन्नॊ भगवान सपत्नीकॊ वृषध्वजः
देवानां तरिदशश्रेष्ठॊ दक्षयज्ञविनाशनः
स वै रुद्रः स च शिवः सॊ ऽगनिः शर्वः स सर्ववित
स चेन्द्रश चैव वायुश च सॊ ऽशविनौ स च विद्युतः
स भवः स च पर्जन्यॊ महादेवः स चानघः
स चन्द्रमाः स चेशानः स सूर्यॊ वरुणश च सः
स कालः सॊ ऽनतकॊ मृत्युः स यमॊ रात्र्यहानि च
मासार्ध मासा ऋतवः संध्ये संवत्सरश च सः
स च धाता विधाता च विश्वात्मा विश्वकर्मकृत
सर्वासां देवतानां च धारयत्य अवपुर वपुः
सर्वैर देवैः सतुतॊ देवः सैकदा बहुधा च सः
शतधा सहस्रधा चैव तथा शतसहस्रधा
ईदृशः स महादेवॊ भूयश च भगवान अजः
न हि सर्वे मया शक्या वक्तुं भगवतॊ गुणाः
सर्वैर गरहैर गृहीतान वै सर्वपापसमन्वितान
स मॊचयति सुप्रीतः शरण्यः शरणागतान
आयुर आरॊग्यम ऐश्वर्यं वित्तं कामांश च पुष्कलान
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यम उच्यते
स चैव वयाहृते लॊके मनुष्याणां शुभाशुभे
ऐश्वर्याच चैव कामानाम ईश्वरः पुनर उच्यते
महेश्वरश च भूतानां महताम ईश्वरश च सः
बहुभिर बहुधा रूपैर विश्वं वयाप्नॊति वै जगत
अस्य देवस्य यद वक्त्रं समुद्रे तद अतिष्ठत
एष चैव शमशानेषु देवॊ वसति नित्यशः
यजन्त्य एनं जनास तत्र वीर सथान इतीश्वरम
अस्य दीप्तानि रूपाणि घॊराणि च बहूनि च
लॊके यान्य अस्य कुर्वन्ति मनुष्याः परवदन्ति च
नामधेयानि लॊकेषु बहून्य अत्र यथार्थवत
निरुच्यन्ते महत्त्वाच च विभुत्वात कर्मभिस तथा
वेदे चास्य समाम्नातं शतरुद्रीयम उत्तमम
नाम्ना चानन्त रुद्रेति उपस्थानं महात्मनः
स कामानां परभुर देवॊ ये दिव्या ये च मानुषाः
स विभुः स परभुर देवॊ विश्वं वयाप्नुवते महत
जयेष्ठं भूतं वदन्त्य एनं बराह्मणा मुनयस तथा
परथमॊ हय एष देवानां मुखाद अस्यानलॊ ऽभवत
सर्वथा यत पशून पाति तैश च यद रमते पुनः
तेषाम अधिपतिर यच च तस्मात पशुपतिः समृतः
नित्येन बरह्मचर्येण लिङ्गम अस्य यदा सथितम
महयन्ति च लॊकाश च महेश्वर इति समृतः
ऋषयश चैव देवाश च गन्धर्वाप्सरसस तथा
लिङ्गम अस्यार्चयन्ति सम तच चाप्य ऊर्ध्वं समास्थितम
पूज्यमाने ततस तस्मिन मॊदते स महेश्वरः
सुखी परीतश च भवति परहृष्टश चैव शंकरः
यद अस्य बहुधा रूपं भूतभव्य भवत सथितम
सथावरं जङ्गमं चैव बहुरूपस ततः समृतः
एकाक्षॊ जाज्वलन्न आस्ते सर्वतॊ ऽकषिमयॊ ऽपि वा
करॊधाद्यश चाविशल लॊकांस तस्माच छर्व इति समृतः
धूम्रं रूपं च यत तस्य धूर्जटिस तेन उच्यते
विश्वे देवाश च यत तस्मिन विश्वरूपस ततः समृतः
तिस्रॊ देवीर यदा चैव भजते भुवनेश्वरः
दयाम अपः पृथिवीं चैव तर्यम्बकश च ततः समृतः
समेधयति यन नित्यं सर्वार्थान सर्वकर्मसु
शिवम इच्छन मनुष्याणां तस्माद एश शिवः समृतः
सहस्राक्षॊ ऽयुताक्षॊ वा सर्वतॊ ऽकषिमयॊ ऽपि वा
यच च विश्वं महत पाति महादेवस ततः समृतः
दहत्य ऊर्ध्वं सथितॊ यच च पराणॊत्पत्तिः सथितिश च यत
सथितलिङ्गश च यन नित्यं तस्मात सथाणुर इति समृतः
विषमस्थः शरीरेषु समश च पराणिनाम इह
स वायुर विषमस्थेषु पराणापानशरीरिषु
पूजयेद विग्रहं यस तु लिङ्गं वापि समर्चयेत
लिङ्गं पूजयिता नित्यं महतीं शरियम अश्नुते
ऊरुभ्याम अर्धम आग्नेयं सॊमार्धं च शिवा तनुः
आत्मनॊ ऽरधं च तस्याग्निः सॊमॊ ऽरधं पुनर उच्यते
तैजसी महती दीप्ता देवेभ्यश च शिवा तनुः
भास्वती मानुषेष्व अस्य तनुर घॊराग्निर उच्यते
बरह्मचर्यं चरत्य एष शिवा यास्य तनुस तया
यास्य घॊरतरा मूर्तिः सर्वान अत्ति तयेश्वरः
यन निर्दहति यत तीक्ष्णॊ यद उग्रॊ यत परतापवान
मांसशॊणितमज्जादॊ यत ततॊ रुद्र उच्यते
एष देवॊ महादेवॊ यॊ ऽसौ पार्थ तवाग्रतः
संग्रामे शात्रवान निघ्नंस तवया दृष्टः पिनाक धृक
एष वै भगवान देवः संग्रामे यति ते ऽगरतः
येन दत्तानि ते ऽसत्राणि यैस तवया दानवा हताः
धन्यं यशस्यम आयुष्यं पुण्यं वेदैश च संज्ञितम
देवदेवस्य ते पार्थ वयाख्यात्म शतरुद्रियम
सर्वार्थसाधकं पुण्यं सर्वकिल्बिष नाशनम
सर्वपापप्रशमनं सर्वदुःखभयापहम
चतुर्विधम इदं सतॊत्रं यः शृणॊति नरः सदा
विजित्य सर्वाञ शत्रून स रुद्र लॊके महीयते
चरितं महात्मनॊ दिव्यं सांग्रामिकम इदं शुभम
पठन वै शतरुद्रीयं शृण्वंश च सततॊत्थितः
भक्तॊ विश्वेश्वरं देवं मानुषेषु तु यः सदा
वरान स कामाँल लभते परसन्ने तर्यम्बके नरः
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः
यस्य मन्त्री च गॊप्ता च पार्श्वतस ते जनार्दनः
[स]
एवम उक्त्वार्जुनं संख्ये पराशर सुतस तदा
जगाम भरतश्रेष्ठ यथागतम अरिंदम

About this parayana

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

daily-pujasanskritparayanadevotionalmahabharatascriptureepicitihasa