বামন পুরাণ
Vamana Purana
Vamana Purana
Text in देवनागरी script
Devotional text
বাংলা script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।। त्रैलोक्यराज्यमाक्षिप्य बलेरिन्द्राय यो ददौ। श्रीधराय नमस्तस्मै छद्मवामनरूपिणे।। १-१ पुलस्त्यमृषिमासीनमाश्रमेवाग्विदांवरम्। नारदः परिपप्रच्छ पुराणं वामनाश्रयम्।।१-२ कथं भगवता ब्रह्मन् विष्णुना प्रभविष्णुना। वामनत्वं धृतं पूर्वं तन्ममाचक्ष्व पृच्छतः।। १-३ कथं च वैष्णवो भूत्वा प्रह्लादो दैत्यसत्तमः। त्रिदशैर्युयुधे सार्थमत्र मे संशयो महान्। १-४ श्रूयते च द्विजश्रेष्ठ दक्षस्य दुहिता सती। शंकरस्य प्रिया भार्या बभूव वरवर्णिनी।। १-५ किमर्थं सा परित्यज्य स्वशरीरं वरानना। जाता हिमवतो गेहे गिरीन्द्रस्य महात्मनः।। १-६ पुनश्च देवदेवस्य पत्नीत्वमगमच्छुभा। एतन्मे संशयं छिन्धि सर्ववित् त्वं मतोऽसि मे।। १-७ तीर्थानां चैव माहात्म्यं दानानां चैव सत्तम। व्रतानां विविधानां च विधिमाचक्ष्व मे द्विज।। १-८ एवमुक्तो नारदेन पुलस्त्यो मुनिसत्तमः। प्रोवाच वदतां श्रेष्ठो नारदं तपसो निधिम्।। १-९ पुलस्त्य उवाच पुराणं वामनं वक्ष्ये क्रमान्निखिलमादितः। अवधानं स्थिरं कृत्वा श्रृणुष्व मुनिसत्तम ।। १-१० पुरा हैमवती देवी मन्दरस्थं महेश्वरम्। उवाच वचनं दृष्ट्वा ग्रीष्मकालमुपस्थितम्।। १-११ ग्रीष्मः प्रवृत्तो देवेश न च ते विद्यते गृहम्। यत्र वातातपौ ग्रीष्मे स्थितयोर्नौ गमिष्यतः।। १-१२ एवमुक्तो भवान्या तु शंकरो वाक्यमब्रवीत्। निराश्रयोऽहं सुदती सदाऽरण्यचरः शुभे।। १-१३ इत्युक्ता शंकरेणाथ वृक्षच्छायासु नारद। निदाघकालमनयत् समं शर्वेण सा सती।। १-१४ निदाघान्ते समुद्भूतो निर्जनाचरितोऽद्भुतः। घनान्धकारिताशो वै प्रावृट्कालोऽतिरागवान्।। १-१५ तं दृष्ट्वा दक्षतनुजा प्रावृट्कालमुपस्थितम्। प्रोवाच वाक्यं देवेशं सती सप्रणयं तदा।। १-१६ विवान्ति वाता हृदयावदारणा गर्जन्त्यमी लोयधरा महेश्वर। स्फुरन्ति नीलाभ्रगणेषु विद्युतो वाशन्ति केकारवमेव बर्हिणः।। १-१७ पतन्ति धारा गगनात् परिच्युता बका बलाकाश्च सरन्ति तोयदान्। कदम्बसर्ज्जार्जुनकेतकीद्रुमाः पुष्पाणि मुञ्चन्ति सुमारुताहताः।। १-१८ श्रुत्वैव मेघस्य दृढं तु गर्जितं त्यजन्ति हंसाश्च सरांसि तत्क्षणात्। यथाश्रयान् योगिगणः समन्तात् प्रवृद्धमूलानपि संत्यजन्ति।। १-१९ इमानि यूथानि वने मृगाणां चरन्ति धावन्ति रमन्ति शंभो। तथाऽचिराभाः सुतरां स्फुरन्ति पश्येह नीलेषु घनेषु देव। नूनं समृद्धिं सलिलस्य दृष्ट्वा चरन्ति शूरास्तरुणद्रुमेषु।। १-२० उद्वृत्तवेगाः सहसैव निम्नगा जाताः शशङ्काङ्कितचारुमैले। किमत्र चित्रं यदनुज्ज्वलं जनं निषेव्य योषित् भवति त्वशीला।। १-२१ नीलैश्च मेघैश्च समावृतं नभः पुष्पैश्च सर्ज्जा मुकुलैश्च नीपाः। फलैश्च बिल्वाः पयसा तथापगाः पत्रैः सपद्मैश्च महासरांसि।। १-२२ काले सुरौद्रे ननु ते ब्रवीमि। गृहं कुरुष्वात्र महाचजलोत्तमे सुनिर्वृता येन भवामि शंभो।। १-२३ इत्थं त्रिनेत्रः श्रुतिरामणीयकं श्रुत्वा वचो वाक्यमिदं बभाषे। न मेऽस्ति वित्तं गृहसंचयार्थे मृगारिचर्मावरणं मम प्रिये।। १-२४ ममोपवीतं भुजगेश्वरः शुभे कर्णेऽपि पद्मश्च तथैव पिङ्गलः। केयूरमेकं मम कम्बलस्त्वहिर्द्वितीयमन्यो भुजगो धनंजयः।। १-२५ नागस्तथैवाश्वतरो हि कङ्कणं सव्येतरे तक्षक उत्तरे तथा। नीलोऽपि नीलाञ्जनतुल्यवर्णः श्रोणीतटे राजति सुप्रतिष्ठः।। १-२६ पुलस्त्य उवाच इति वचनमथोग्रं शंकरात्सा मृडानी ऋतमपि तदसत्यं श्रीमदाकर्ण्य भीता। अवनितलमवेक्ष्य स्वामिनो वासकृच्छ्रात् परिवदति सरोषं लज्जयोच्छ्वस्य चोष्णम्।। १-२७ देव्युवाच कथं हि देवदेवेश प्रावट्कालो गमिष्यति। वृक्षमूले स्थिताया मे सुदुःखेन वदाम्यतः।। १-२८ शङ्कर उवाच घनावस्थितदेहायाः प्रावृट्कालः प्रयास्यति। यथाम्बुधारा न तव निपतिष्यन्ति विग्रहे।१.२९ पुलस्त्य उवाच ततो हरस्तद्घनखण्डमुन्नत मारुह्य तस्थौ सह दक्षकन्यया ततोऽभवन्नाम तदेश्वरस्य जीमूतकेतुस्त्विति विश्रुतं दिवि।। १-३० इति श्रीवामनपुराणे प्रथमोऽध्यायः ।। पुलस्त्य उवाच ततस्त्रिनेत्रस्य गतः प्रावृट्कालो घनोपरि। लोकानन्दकरी रम्या शरत् समभवन्मुने।। २-१ त्यजन्ति नीलाम्बुधरा नभस्तलं वृक्षांश्च कङ्काः सरितस्तटानि। पद्माः सुगन्धं निलयानि वायसा रुरुर्विषाणं कलुषं जलाशयः।। २-२ विकासमायन्ति त पङ्कजानि चन्द्रांशवो भान्ति लताः सुपुष्पाः। नन्दन्ति हृष्टान्यपि गोकुलानि सन्तश्च संतोषमनुव्रजन्ति।। २-३ सरस्सु पद्म गगने च तारका जलाशयेष्वेव तथा पयांसि। सतां च चित्तं हि दिशां मुखैः समं वैमल्यमायान्ति शशङ्ककान्तयः।। २-४ एतादृशे हरः काले मेघपृष्ठाधिवासिनीम्। सतीमादाय शैलेन्द्रं मन्दरं समुपाययौ।। २-५ ततो मन्दरपृष्ठेऽसौ स्थितः समशिलातले। रराम शंभुर्भगवान् सत्या सह महाद्युतिः।। २-६ ततो व्यतीते शरदि प्रतिबुद्धे च केशवे। दक्षः प्रजापतिश्रेष्ठो यष्टुमारभत क्रतुम्।। २-७ द्वादशेव स चादित्यान् शक्रादींश्च सुरोत्तमान्। सकश्यपान् समामन्त्र्य सदस्यान् समचीकरत्।। २-८ अरुन्धत्या च सहितं वसिष्ठं शंसितव्रतम्। सहानसूययाऽत्रिं च सह धृत्या च कौशिकम्।। २-९ अहल्यया गौतमं च भरद्वाजममायया। चन्द्रया सहितं ब्रह्मन्नृषिमङ्गिरसं तथा।। २-१० आमन्त्र्य कृतवान्दक्षः सदस्यान् यज्ञसंसदि। विद्वान् गुणसंपन्नान् वेदवेदाड्गपारगान्।। २-११ धर्मं च स समाहूय भार्ययाऽहिंसया सह। निमन्त्र्य यज्ञवाटस्य द्वारपालत्वमादिशत्।। २-१२ अरिष्टनेमिनं चक्रे इध्माहरणकारिणम्। भृगुं च मन्त्रसंस्कारे सम्यग् दक्षं प्रयुक्तवान्।। २-१३ तथा चन्द्रमसं देवं रोहिण्या सहितं शुचिम्। धनानामाधिपत्ये च युक्तवान् हि प्रजापतिः।। २-१४ जामातृदुहितुश्वैव दौहित्रांश्च प्रजापतिः। सशंकरां सतीं मुक्त्वा मखे सर्वान् न्यमन्त्रयत्।। २-१५ नारद उवाच किमर्थं लोकपतिना धनाध्यक्षो महेश्वरः। ज्येष्ठः श्रेष्ठो वरिष्ठोऽपि आद्योऽपि न निमन्त्रितः।। २-१६ पुलस्त्य उवाच ज्येष्ठः श्रेष्ठो वरिष्ठोऽपि आद्योऽपि भगवान् शिवः। कपालीति विदित्वेशो दक्षेण न निमन्त्रितः।। २-१७ नारद उवाच किमर्थं देवताश्रेष्ठः शूलपाणिस्त्रिलोचनः कपाली भगवाञ्जातः कर्मणा केन शंकरः।। २-१८ श्रृणुष्वावहितो भूत्वा कथामेतां पुरातनीम्। प्रोक्तमादिपुराणे च ब्रह्मणाऽव्यक्तमूर्त्तिना।। २-१९ पुरा त्वेकार्णवं सर्वं जगत्स्थावरजङ्गमम्। नष्टचन्द्रार्कनक्षत्रं प्रणष्टपवनानलम्।। २-२० अप्रतर्क्यमविज्ञेयं भावाभावविवर्जितम्। निमग्नपर्वततरु तमोभूतं सुदुर्दशम्।। २-२१ तस्मिन् स शेते भगवान् निद्रां वर्षसहस्रिकीम्। रात्र्यन्ते सृजते लोकान् राजसं रूपमास्थितः।। २-२२ राजसः पञ्चवदनो वेदवेदाङ्गपारगः। स्रष्टा चराचरस्यास्य जगतोऽद्भुतदर्शनः।। २-२३ तमोमयस्तथैवान्यः समुद्भूतस्त्रिलोचनः। शूलपाणिः कपर्द्दी च अक्षमालां च दर्शयन्।। २-२४ ततो महात्मा ह्यसृजदहंकारं सुदारुणम्। येनाक्रान्तावुभौ देवौ तावेव ब्रह्मशंकरौ।। २-२५ अहंकारावृतो रुद्रः प्रत्युवाच पितामहम्। को भवानिह संप्राप्तः केन सृष्टोऽसि मां वद।। २-२६ पितामहोऽप्यहंकारात् प्रत्युवाचाथ को भवान्। भवतो जनकः कोऽत्र जननी वा तदुच्यताम्।। २-२७ इत्यन्योन्यं पुरा ताभ्यां ब्रह्मेशाभ्यां कलिप्रिय। परिवादोऽभवत् तत्र उत्पत्तिर्भवतोऽभवत्।। २-२८ भवानप्यन्तरिक्षं हि जातमात्रस्तदोत्पतत्। धारयन्नतुलां वीणां कुर्वन् किलकिलाध्वनिम्।। २-२९ ततो विनिर्जितः शंभुर्मानिना पद्मयोनिना। तस्थावधोमुखो दीनो ग्रहाक्रान्तो यथा शशी।। २-३० पराजिते लोकपतौ देवेन परमेष्टिना। क्रोधान्धकारितं रुद्रं पञ्चमोऽथ मुखोऽब्रवीत्।। २-३१ अहं ते प्रतिजानामि तमोमूर्तो त्रिलोचन। दिग्वासा वृषभारूढो लोकक्षयकरो भवान्।। २-३२ इत्युक्ताः शंकरः क्रुद्धो वदनं घोरचक्षुषा। निर्दग्धुकामस्त्वनिशं ददर्श भगवानजः।। २--३३ ततस्त्रिनेत्रस्य समुद्भवन्ति वक्त्राणि पञ्चाथ सुदर्शनानि। श्वेतं च रक्तं कनकावदातं नीलं तथा पिङ्गजटं च शुभ्रम्।। २-३४ वक्त्राणि दृष्ट्वाऽर्कसमानि सद्यः पैतामहं वक्त्रमुवाच वाक्यम्। समाहतस्याथ जलस्य बुद्बुदा भवन्ति किं तेषु पराक्रमोऽस्ति।। २-३५ तच्छ्रुत्वा क्रोधयुक्तेन शंकरेण महात्मना। नखाग्रेण शिरश्छिन्नं ब्राह्मं परुषवादिनम्।। २-३६ तच्छिन्नं शंकरस्यैव सव्ये करतलेऽपतत्। पतते न कदाचिच्च तच्छंकरकराच्छिरः।। २-३७ अथ क्रोधावृतेनापि ब्रह्मणाऽद्भुतकर्मणा। सृष्टस्तु पुरुषो धीमान् कवची कुण्डली शरी।। २-३८ धनुष्पाणिर्महाबाहुर्बाणशक्तिधरोऽव्ययः। चतुर्भुजो महातूणी आदित्यसमदर्शनः।। २-३९ स प्राह गच्छ दुर्बुद्धे मा त्वां शूलिन् निपातये। भवान् पापसमायुक्तः पापिष्ठं को जिघांसति।। २-४० इत्युक्ताः शंकरस्तेन पुरुषेण महात्मना। त्रपायुक्तो जगामाथ रुद्रो बदरिकाश्रमम्।। २-४१ नरनारायणस्थानं पर्वते हि हिमाश्रये। सरस्वती यत्र पुण्या स्यन्दते सरितां वरा।। २-४२ तत्र गत्वा च तं दृष्ट्वा नारायणमुवाच ह। भिक्षां प्रयच्छ भगवन् महाकापालिकोऽस्मि भोः।। २-४३ इत्युक्तो धर्मपुत्रस्तु रुद्रं वचनमब्रवीत्। सव्यं भुजं ताडयस्व त्रिशूलेन महेश्वर।। २-४४ नारायणवचः श्रुत्वा त्रिशूलेन त्रिलोचनः। सव्यं नारायणभुजं ताडयामास वेगवान्।। २-४५ त्रिशूलाभिहतान्मार्गात् तिस्रो धारा विनिर्ययुः। एका गगनमाक्रम्य स्थिता ताराभिमण्डिता।। २-४६ द्वितीया न्यपतद् भूमौ तां जग्राह तपोधनः। अत्रिस्तस्मात् समुद्भूतो दुर्वासाः शंकरांशतः।। २-४७ तृतीया न्यपतद् धारा कपाले रौद्रदर्शने। तस्माच्छिशुः समभवत् सन्नद्धकवचो युवा।। २-४८ श्यामावदातः शरचापपाणिर्गर्जन्यथा प्रावृषि तोयदोऽसौ। इत्थं ब्रुवन् कस्य विशातयामि स्कन्धाच्छिरस् तालफलं यथैव।। २-४९ तं शंकरोऽभ्येत्य वचो बभाषे नरं हि नारायणबाहुजातम्। निपातयैनं नर दुष्टवाक्यं ब्रह्मात्मजं सूर्यशतप्रकाशम्।। २-५० इत्येवमुक्तः स तु शंकरेण आद्यं धनुस्त्वाजगवं प्रसिद्धम्। जग्राह तूणानि तथाऽक्षयाणि युद्धाय वीरः स मतिं चकार।। २-५१ ततः प्रयुद्धौ सुभृशं महाबलौ ब्रह्मात्मजो बाहुभवश्च शार्वः। दिव्यं सहस्रं परिवत्सराणां ततो हरोऽभ्येत्य विरञ्चिमूचे।। २-५२ जितस्त्वदीयः पुरुषः पितामह नरेण दिव्यद्भुतकर्मणा बली। महापृषत्कैरभिपत्य ताडितस्तदद्भुतं चेह दिशो दशैव।। २-५३ ब्रह्मा तमीशं वचनं बभाषे नेहास्य जन्मान्यजितस्य शंभो। पराजितश्चेष्यतेऽसौ त्वदीयो नरो मदीयः पुरुषो महात्मा।। २-५४ इत्येवमुक्तो वचनं त्रिनेत्रश्चिक्षेप सूर्ये पुरुषं विरिञ्चेः। नरं नरस्यैव तदा स विग्रहे चिक्षेप धर्मप्रभवस्य देवः।। २-५५ इति श्रीवामनपुराणे द्वितीयोध्यायः ।। २ ।। पुलस्त्य उवाच ततः करतले रुद्रः कपाले दारुणे स्थिते। संतापमगमद् ब्रह्मंश्चिन्तया व्याकुलेन्द्रियः।। ३-१ ततः समागता रौद्रा नीलाञ्चनचयप्रभा। सरक्तमूर्द्धजा भीमा ब्रह्महत्या हरान्तिकम्।। ३-२ तामागतां हरो दृष्ट्वा पप्रच्छ विकरालिनीम्। काऽसि त्वमागता रौद्रे केनाप्यर्थेन तद्वद।। ३-३ कपालिनमथोवाच ब्रह्महत्या सुदारुणा। ब्रह्मवध्याऽस्मि संप्राप्तां मां प्रतीच्छ त्रिलोचन।। ३-४ इत्येवमुक्त्वा वचनं ब्रह्महत्या विवेश ह। त्रिशूलपाणिनं रुद्रं संप्रतापितविग्रहम्।। ३-५ ब्रह्महत्याभिभूतश्च शर्वो बदरिकाश्रमम्। आगच्छन्न ददर्शाथ नरनारायणावृषी।। ३-६ अदृष्ट्वा धर्मतनयौ चिन्ता शोकसमन्वितः। जगाम यमुनां स्नातुं साऽपि शुष्कजलाऽभवत्।। ३-७ कालिन्दीं शुष्कसलिलां निरीक्ष्य वृषकेतनः। प्लक्षजां स्नातुमगमदन्तर्द्धानं च सा गता।। ३-८ ततो नु पुष्करारण्यं मागधारण्यमेव च। सैन्धवारण्यमेवासौ गत्वा स्नातो यथेच्छया।। ३-९ तथैव नैमिषारण्यं धर्मारण्यं तथेश्वरः। स्नातो नैव च सा रौद्रा ब्रह्महत्या व्यमुञ्चत।। ३-१० सरित्सु तीर्थेषु तथाश्रमेषु पुण्येषु देवायतनेषु शर्वः। समायुतो योगयुतोऽपि पापान्नावाप मोक्षं जलदध्वजोऽसौ।। ३-११ ततो जगाम निर्विण्णः शंकरः कुरुजाङ्गलम्। तत्र गत्वा ददर्शाथ चक्रपाणिं खगध्वजम्।। ३-१२ तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम्। कृताञ्जलिपुटो भूत्वा हरः स्तोत्रमुदीरयत्।। ३-१३ हर उवाच नमस्ते देवतानाथ नमस्ते गरुडध्वज। शङ्खचक्रगदापाणे वासुदेव नमोऽस्तु ते।। ३-१४ नमस्ते निर्गुणानन्त अप्रतर्क्याय वेधसे ज्ञानाज्ञान निरालम्ब सर्वालम्ब नमोऽस्तु ते।। ३-१५ रजोयुक्त नमस्तेऽस्तु ब्रह्ममूर्ते सनातन। त्वया सर्वमिदं नाथ जगत्सृष्टं चराचरम्।। ३-१६ सत्त्वाधिष्ठित लोकेश विष्णुमूर्ते अधोक्षज। प्रजापाल महाबाहो जनार्दन नमोऽस्तु ते।। ३-१७ तमो मूर्त्ते अहं ह्येष त्वदंशक्रोधसंभवः। गुणाभियुक्त देवेश सर्वव्यापिन् नमोऽस्तु ते।। ३-१८ भूरियं त्वं जगन्नाथ जलाम्बरहुताशनः। वायुर्बुद्धिर्मनश्चापि शर्वरी त्वं नमोऽस्तु ते।। ३-१९ धर्मो यज्ञस्तपः सत्यमहिंसा शौचमार्जवम्। क्षमा दानं दया लक्ष्मीर्ब्रह्मचर्यं त्वमीश्वर।। ३-२० त्वं साङ्गाश्चतुरो वेदास्त्वं वेद्यो वेदपारगः। उपवेदा भवानीश सर्वोऽसि त्वं नमोऽस्तु ते।। ३-२१ नमो नमस्तेऽच्युत चक्रपाणे नमोऽस्तु ते माधव मीनमूर्ते। लोके भवान् कारुणिको मतो मे त्रायस्व मां केशव पापबन्धात्।। ३-२२ ममाशुभं नाशय विग्रहस्थं यद् ब्रह्महत्याऽभिभवं बभूव। दग्धोऽस्मि नष्टोऽस्म्यसमीक्ष्यकारी पुनीहि तीर्थोऽसि नमो नमस्ते।। ३-२३ पुलस्त्य उवाच इत्थं स्तुतश्चक्रधरः शंकरेण महात्मना। प्रोवाच भगवान् वाक्यं ब्रह्महत्याक्षयाय हि।। ३-२४ गिरिरुवाच।। महेश्वर श्रृणुष्वेमां मम वाचं कलस्वनाम्। ब्रह्महत्याक्षयकरीं शुभदां पुण्यवर्धनीम्।। ३-२५ योऽसौ प्राङ्मण्डले पुण्ये मदंशप्रभवोऽव्ययः। प्रयागे वसते नित्यं योगशायीति विश्रुतः।। ३-२६ चरणाद् दक्षिणात्तस्य विनिर्याता सरिद्वरा। विश्रुता वरणेत्येव सर्वपापहरा शुभा।। ३-२७ सव्यादन्या द्वितीया च असिरित्येव विश्रुता। ते उभे सरितच्छ्रेष्ठे लोकपूज्ये बभूवतुः।। ३-२८ ताभ्यां मध्ये तु यो देशस्तत्क्षेत्रं योगशायिनः। त्रैलोक्यप्रवरं तीर्थं सर्वपापप्रमोचनम्।३-२९ न तादृशोऽस्ति गगने न भूभ्यां न रसातले। तत्रास्ति नगरी पुण्या ख्याता वाराणसी शुभा। यस्यां हि भोगिनोऽपीश प्रयान्ति भवतो लयम्।। ३-३० विलासिनीनां रशनास्वनेन श्रुतिस्वनैर्ब्रह्मणपुंगवानाम्। शुचिस्वरत्वं गुरवो निशम्य हास्यादशासन्त मुहुर्मुहुस्तान्।। ३-३१ व्रजत्सु योषित्सु चतुष्पथेषु पदान्यलक्तारुणितानि दृष्ट्वा। ययौ शशी विस्मयमेव यस्यां किंस्वित् प्रयाता स्थलपद्मिनीयम्।। ३-३२ तुङ्गनि यस्यां सुरमन्दिराणि रुन्धन्ति चन्द्रं रजनीसुखेषु। दिवाऽपि सूर्यं पवनाप्लुताभिर्दीर्घाभिरेवं सुपताकिकाभिः।। ३-३३ भृङ्गाश्च यस्यां शशिकान्तभित्तौ प्रलोभ्यमानाः प्रतिबिम्बितेषु। आलेख्ययोषिद्विमलाननाब्जेष्वीयुर्भ्रमान्नैव च पुष्पकान्तम्।। ३-३४ परिश्रमश्चापि पराजितेषु नरेषु संमोहनखेलनेन। यस्यां जलक्रीडनसंगतासु न स्त्रीषु शंभो गृहदीर्घकासु।। ३-३५ न चैव कश्चित् परमन्दिराणि रुणद्धि शंभो सहसा ऋतेऽक्षन्। न चाबलानां तरसा पराक्रमं करोति यस्यां सुरतं हि मुक्त्वा।। ३-३६ पाशग्रन्थिर्गजेन्द्राणां दानच्छेदो मदच्युतौ। यस्यां मानमदौ पुंसां करिणां यौवनागमे।। ३-३७ प्रियदोषाः सदा यस्यां कौशिका नेतरे जनाः। तारागणेऽकुलीनत्वं गद्ये वृत्तच्युतिर्विभो।। ३-३८ भृतिलुब्धा विलासिन्यो भुजंगपरिवारिताः। चन्द्रभूषितदेहाश्च यस्यां त्वमिव शंकर।। ३-३९ ईदृशायां सुरेशान वाराणस्यां महाश्रमे। वसते भगवाँल्लोलः सर्वपापहरो रविः।। ३-४० दशाश्वमेधं यत्प्रोक्तं मदंशो यत्र केशवः। तत्र गत्वा सुरश्रेष्ठ पापमोक्षमवाप्स्यसि।। ३-४१ इत्येवमुक्तो गरु-डध्वजेन वृषध्वजस्तं शिरसा प्रणम्य। जगाम वेगाद् गरुडो यथाऽसौ वाराणसीं पापविमोचनाय।। ३-४२ गत्वा सुपुण्यां नगरीं सुतीर्थां दृष्ट्वा च लोलं सदशाश्वमेधम्। स्नात्वा च तीर्थेषु विमुक्तपापः स केशवं द्रष्टुमुपाजगाम।। ३-४३ केशवं शंकरो दृष्ट्वा प्रणिपत्येदमब्रवीत्। त्वत्प्रसादाद् हृषीकेश ब्रह्महत्या क्षयं गता।। ३-४४ नेदं कपालं देवेश मद्धस्तं परिमुञ्चति। कारणं वेद्मि न च तदेतन्मे वक्तुमर्हसि।। ३-४५ पुलस्त्य उवाच महादेववचः श्रुत्वा केशवो वाक्यमब्रवीत्। विद्यते कारणं रुद्र तत्सर्वं कथयामि ते।। ३-४६ योऽसौ ममाग्रतो दिव्यो ह्रदः पद्मोत्पलैर्युतः। एष तीर्थवरः पुण्यो देवगन्धर्वपूजितः।। ३-४७ एतस्मिन्प्रवरे तीर्थे स्नानं शंभो समाचर। स्नातमात्रस्य चाद्यैव कपालं परिमोक्ष्यति।। ३-४८ ततः कपाली लोके च ख्यातो रुद्र भविष्यसि। कपालमोचनेत्येवं तीर्थं चेदं भविष्यति।। ३-४९ पुलस्त्य उवाच एवमुक्तः सुरेशेन केशवेन महेश्वरः। कपालमोचने सस्नौ वेदोक्तविधिना मुने।। ३-५० स्नातस्य तीर्थे त्रिपुरान्तकस्य परिच्युतं हस्ततलात् कपालम्। नाम्ना बभूवाथ कपालमोचनं तत्तीर्थवर्यं भगवत्प्रसादात्।। ३-५१ इति श्रीवामपुराणे तृतीयोऽध्ययः ।। ३ ।। पुलस्त्य उवाच एवं कपाली संजातो देवर्षे भगवान्हरः। अनेन कारणेनासौ दक्षेण न निमन्त्रितः।। ४-१ कपालिजायेति सतीं विज्ञायाथ प्रजापतिः। यज्ञे चार्हापि दुहिता दक्षेण न निमन्त्रिता।। ४-२ एतस्मिन्नन्तरे देवीं द्रष्टुं गौतमनन्दिनी। जया जगाम शैलेन्द्रं मन्दरं चारुकन्दरम्।। ४-३ तामागतां सती दृष्ट्वा जयमेकामुवाच ह। किमर्थं विजया नागाज्जयन्ती चापराजिता।। ४-४ सा देव्या वचनं श्रुत्वा उवाच परमेश्वरीम्। गता निमन्त्रिताः सर्वा मखे मातामहस्य ताः।। ४-५ समं पित्रा गौतमेन मात्रा चैवाप्यहल्यया। अहं समागता द्रष्टुं त्वां तत्र गमनोत्सुका।। ४-६ किं त्वं न व्रजसे तत्र तथा देवो महेश्वरः। नामन्त्रिताऽसि तातेन उताहोस्विद् व्रजिष्यसि।। ४-७ गतास्तु ऋषयः सर्वे ऋषिपत्न्यः सुरास्तथा। मातृष्वसः शशाङ्कश्च सपत्नीको गतः क्रतुम्।। ४-८ चतुर्दशसु लोकेषु जन्तवो ये चराचराः। निमन्त्रिताः क्रतौ सर्वे किं नासि त्वं निमन्त्रिता।। ४-९ पुलस्त्य उवाच जयायास्तद्वचः श्रुत्वा वज्रपातसमं सती। मन्युनाऽभिप्लुता ब्रह्मन् पञ्चत्वमगमत् ततः।। ४-१० जया मृतां सतीं दृष्ट्वा क्रोधशोकपरिप्लुता। मुञ्चती वारि नेत्राभ्यां सस्वरं विललाप ह।। ४-११ आक्रन्दितध्वनिं श्रुत्वा शूलपाणिस्त्रिलोचनः। आः किमेतदितीत्युक्त्वा जयाभ्याशमुपागतः।। ४-१२ आगतो ददृशे देवीं लतामिव वनस्पतेः। कृत्तां परशुना भूमौ श्लथाङ्गीं पतितां सतीम्।। ४-१३ देवीं निपतितां दृष्ट्वा जयां पप्रच्छ शंकरः। किमियं पतिता भूमौ निकृत्तेव लता सती।। ४-१४ सा शंकरवचः श्रुत्वा जया वचनमब्रवीत्। श्रत्वा मखस्था दक्षस्य भगिन्यः पतिभिः सह।। ४-१५ आदित्याद्यास्त्रिलोकेश समं शक्रादिभिः सुरैः। मातृष्वसा विपन्नेयमन्तर्दुःखेन दह्यती।। ४-१६ पुलस्त्य उवाच एतच्छ्रुत्वा वचो रौद्रं रुद्रः क्रोधाप्लुतो बभौ। क्रुद्धस्य सर्वगात्रेभ्यो निश्चेरुः सहसाऽर्चिषः।। ४-१७ ततः क्रोधात् त्रिनेत्रस्य गात्ररोमोद्भवो मुने। गणाः सिंहमुखा जाता वीरभद्रपुरोगमाः।। ४-१८ गणैः परिवृतस्तस्मान्मन्दराद्धिमसाह्वयम्। गतः कनखलं तस्माद् यत्र दक्षोऽयजत् क्रतुम्।। ४-१९ ततो गणानामधिपो वीरभद्रो महाबलः। दिशि प्रतीच्युत्तरायां तस्थौ शूलधरो मुने।। ४-२० जया क्रोधाद् गदां गृह्य पूर्वदक्षिणतः स्थिता। मध्ये त्रिशूलधृक् शर्वस्तस्थौ क्रोधान्महामुने।। ४-२१ मृगारिवदनं दृष्ट्वा देवाः शक्रपुरोगमाः। ऋषयो यक्षगन्धर्वाः किमिदं त्वित्यचिन्तयन्।। ४-२२ ततस्तु धनुरादाय शरांश्चाशीविषोपमान्। द्वारपालस्तदा धर्मो वीरभद्रमुपाद्रवत्।। ४-२३ तमापतन्तं सहसा धर्मं दृष्ट्वा गणेश्वरः। करेणैकेन जग्राह त्रिशूलं वह्निसन्निभम्।। ४-२४ कार्मुकं च द्वितीयेन तृतीयेनाथ मार्गणान्। चतुर्थेन गदां गृह्य धर्ममभ्यद्रवद् गणः।। ४-२५ ततश्चतुर्भुजं दृष्ट्वा धर्मराजो गणेश्वरम्। तस्थावष्टभुजो भूत्वा नानायुधधरोऽव्ययः।। ४-२६ खड्गचर्मगदाप्रासपरश्वधवराङ्कुशैः। चापमार्गणभृत्तस्थौ हन्तुकामो गणेश्वरम्।। ४-२७ गणेश्वरोऽपि संक्रुद्धो हन्तुं धर्म सनातनम्। ववर्ष मार्गणास्तीक्ष्णान् यथा प्रावृषि तोयदः।। ४-२८ तावन्योन्यं महात्मानौ शरचापधरौ मुने। रुधिरारुणसिक्ताङ्गौ किंशुकाविव रेजतुः।। ४-२९ ततो वरास्त्रैर्गणनायकेन जितः स धर्मः तरसा प्रसह्य। पराङ्मुखोऽभूद्विमना मुनीन्द्र स वीरभद्रः प्रविवेश यज्ञम् ।। ४-३० यज्ञवाटं प्रविष्टं तं वीरभद्रं गणेश्वरम्। दृष्ट्वा तु सहसा देवा उत्तस्थुः सायुधा मुने।। ४-३१ वसवोऽष्टौ महाभागा ग्रहा नव सुदारुणाः। इन्द्राद्या द्वादशादित्या रुद्रास्त्वेकादशैव हि।। ४-३२ विश्वेदेवाश्च साध्याश्च सिद्धगन्धर्वपन्नगाः। यक्षाः किंपुरुषाश्चैव खगाश्चक्रधरास्तथा।। ४-३३ राजा वैवस्वताद्वंशाद् धर्मकीर्तिस्तु विश्रुतः। सोमवंशोद्भवश्चोग्रो भोजकीर्तिर्महाभुजः।। ४-३४ दितिजा दानवाश्चान्ये येऽन्ये तत्र समागताः। ते सर्वेऽभ्यद्रवन् रौद्रं वीरभद्रमुदायुधाः।। ४-३५ तानापतत एवाशु चापबाणधरो गणः। अभिदुद्राव वेगेन सर्वानेव शरोत्करैः।। ४-३६ ते शस्त्रवर्षमतुलं गणेशाय समुत्सृजन्। गणेशोऽपि वरास्त्रैस्तान् प्रचिच्छेद बिभेद च।। ४-३७ शरैः शस्त्रैश्च सततं वध्यमाना महात्मना। वीरभद्रेण देवाद्या अपहारमर्कुत।। ४-३८ ततो विवेश गणपो यज्ञमध्यं सुविस्तृतम्। जुह्वाना ऋषयो यत्र हवींषि प्रवितन्वते।। ४-३९ ततो महर्षयो दृष्ट्वा मृगेन्द्रवदनं गणम्। भीता होत्रं परित्यज्य जग्मुः शरणमच्युतम्।। ४-४० तानार्ताश्चक्रभृद् दृष्ट्वा महर्षींस्त्रस्तमानसान्। न भेतव्यमितीत्युक्त्वा समुत्तस्थौ वरायुधः।। ४-४१ समानम्य ततः शार्ङ्ग शरानग्निशिखोपमान्। मुमोच वीरभद्राय कायावरणदारणान्।। ४-४२ ते तस्य कायमासाद्य अमोघा वै हरेः शराः। निपेतुर्भुवि भग्नाशा नास्तिकादिव याचकाः।। ४-४३ शरास्त्वमोघान्मोघत्वमापन्नान्वीक्ष्य केशवः। दिव्यैरस्त्रैर्वीरभद्रं प्रच्छादयितुमुद्यतः।। ४-४४ तानस्त्रान्वासुदेवेन प्रक्षिप्तान्गणनायकः। वारयामास शूलेन गदया मार्गणैस्तथा।। ४-४५ दृष्ट्वा विपन्नान्यस्त्राणि गदां चिक्षेप माधवः। त्रिशूलेन समाहत्य पातयामास भूतले।। ४-४६ मुसलं वीरभद्राय प्रचिक्षेप हलायुधः। लाङ्गलं च गणेशोऽपि गदया प्रत्यवारयत्।। ४-४७ मुसलं सगदं दृष्ट्वा लाङ्गलं च निवारितम्। वीरभद्राय चिक्षेप चक्रं क्रोधात् खगध्वजः।। ४-४८ तमापतन्तं शतसूर्यकल्पं सुदर्शनं वीक्ष्य गणेश्वरस्तु। शूलं परित्यज्य जगाद चक्रं यथा मधुं मीनवपुः सुरेन्द्रः।। ४-४९ चक्रे निगीर्णे गणनायकेन क्रोधातिरक्तोऽसितचारुनेत्रः। मुरारिरभ्येत्य गणाधिपेन्द्रमुत्क्षिप्य वेगाद् भुवि निष्पिपेष।। ४-५० हरिबाहूरुवेगेन विनिष्पिष्टस्य भूतले। सहितं रुधिरोद्गारैर्मुकाच्चक्रं विनिर्गतम्।। ४-५१ ततो निःसृतमालोक्य चक्रं कैटभनाशनः। समादाय हृषीकेशो वीरभद्रो मुमोच ह।। ४-५२ हृषीकेशेन मुक्तस्तु वीरभद्रो जटाधरम्। गत्वा निवेदयामास वासुदेवात्पराजयम्।। ४-५३ ततो जटाधरो दृष्ट्वा गणेशं शोणिताप्लुतम्। निश्वसन्तं यथा नागं क्रोधं चक्रे तदाव्ययः।। ४-५४ ततः क्रोधाभिभूतेन वीरभद्रोऽथ शंभुना। पूर्वोद्दिष्टे तदा स्थाने सायुधस्तु निवेशितः।। ४-५५ वीरभद्रमथादिश्य भद्रकालीं च शंकरः। विवेश क्रोधताम्राक्षो यज्ञवाटं त्रिशूलभृत्।। ४-५६ ततस्तु देवप्रवरे जटाधरे त्रिशूलपाणौ त्रिपुरान्तकारिणि। दक्षस्य यज्ञं विशति क्षयंकरे जातो ऋषीणां प्रवरो हि साध्वसः।। ४-५७ इति श्रीवामनपुराणे चतुर्थोऽध्यायः ।। ४ ।। पुलस्त्य उवाच जटाधरं हरिर्दृष्ट्वा क्रोधादारक्तलोचनम्। तस्मात् स्थानादपाक्रम्य कुब्जाम्रेऽन्तर्हितः स्थितः।। ५-१ वसवोऽष्टौ हरं दृष्ट्वा सुस्रुवुर्वेगतो मुने। सा तु जाता सरिच्छ्रेष्ठा सीता नाम सरस्वती।। ५-२ एकादश तथा रुद्रास्त्रिनेत्रा वृषकेतनाः। कान्दिशीका लयं जग्मुः समभ्येत्यैव शंकरम्।। ५-३ विश्वेऽश्विनौ च साध्याश्च मरुतोऽनलभास्कराः। समासाद्य पुरोडाशं भक्षयन्तो महामुने।। ५-४ चन्द्रः सममृक्षगणैर्निशां समुपदर्शयन्। उत्पत्यारुह्य गगनं स्वमधिष्ठानमास्थितः।। ५-५ कश्यपाद्याश्च ऋषयो जपन्तः शतरुद्रियम्। पुष्पाञ्जलिपुटा भूत्वा प्रणताः संस्थिता मुने।। ५-६ असकृद् दक्षदयिता दृष्ट्वा रुद्रं बलाधिकम्। शक्रादीनां सुरेशानां कृपणं विललाप ह।। ५-७ ततः क्रोधाभिभूतेन शंकरेण महात्मना। तलप्रहारैरमरा बहवो विनिपातिताः।। ५-८ पादप्रहारैरमरा त्रिशुलेनापरे मुने। दृष्ट्यग्निना तथैवान्ये देवाद्याः प्रलयीकृताः।। ५-९ ततः पूषा हरं वीक्ष्य विनिघ्नन्तं सुरासुरान्। क्रोधाद् बाहू प्रसार्याथ प्रदुद्राव महेश्वरम्।। ५-१० तमापतन्तं भगवान् संनिरीक्ष्य त्रिलोचनः। बाहुभ्यां प्रतिजग्राह करेणैकेन शंकरः।। ५-११ कराभ्यां प्रगृहीतस्य शंभुनांशुमतोऽपि हि। कराङ्गुलिभ्यो निश्चेरुरसृग्धाराः समन्ततः।। ५-१२ ततो वेगेन महता अंशुमन्तं दिवाकरम्। भ्रामयामास सततं सिंहो मृगशिशुं यथा।। ५-१३ भ्रामितस्यातिवेगेन नारदांशुमतोऽपि हि। भुजौ हृस्वत्वमापन्नौ त्रुटितस्नायुबन्धनौ।। ५-१४ रुधिराप्लुतसर्वाङ्गमंशुमन्तं महेश्वरः। संनिरीक्ष्योत्ससर्जैनमन्यतोऽभिजगाम ह।। ५-१५ ततस्तु पूषा विहसन् दशनानि विदर्शयन्। प्रोवाचैह्येहि कापालिन् पुनः पुनरथेश्वरम्।। ५-१६ ततः क्रोधाभिभूतेन पूष्णे वेगेन शंभुना। मुष्टिनाहत्य दशनाः पातिता धरणीतले।। ५-१७ भग्नदन्तस्तथा पूषा शोणिताभिप्लुताननः। पपात भुवि निःसंज्ञो वज्राहत इवाचलः।। ५-१८ भगोऽभिवीभ्य पूषाणं पतितं रुधिरोक्षितम्। नेत्राभ्यां घोररूपाभ्यां वृषध्वजमवैक्षत।। ५-१९ त्रिपुरघ्नस्ततः क्रुद्धस्तलेनाहत्य चक्षुषी। निपातयामास भुवि क्षोभयन्सर्वदेवताः।। ५-२० ततो दिवाकराः सर्वे पुरस्कृत्य शतक्रतुम्। मरुद्भिश्च हुताशैश्च भयाज्जग्मुर्दिशो दश ।। ५-२१ प्रतियातेषु देवेषु प्रह्लादाद्या दितीश्वराः। नमस्कृत्य ततः सर्वे तस्थुः प्राञ्जलयो मुने।। ५-२२ ततस्तं यज्ञवाटं तु शंकरो घोरचक्षुषा। ददर्श दग्धुं कोपेन सर्वांश्चैव सुरासुरान्।। ५-२३ ततो निलिल्यिरे वीराः प्रणेमुर्दुद्रुवुस्तथा। भयादन्ये हरं दृष्ट्वा गता वैवस्वतक्षयम्।। ५-२४ त्रयोऽग्नयस्त्रिभिर्नेत्रैर्दुःसहं समवैक्षत। दृष्टमात्रास्त्रिनेत्रेण भस्मीभूताभवन् क्षणात्।। ५-२५ अग्नौ प्रणष्टे यज्ञोऽपि भूत्वा दिव्यवपुर्मृगः। दुद्राव विक्लवगतिर्दक्षिणा सहितोऽम्बरे।। ५-२६ तमेवानुससारेशश्चापमानम्य वेगवान्। शरं पाशुपतं कृत्वा कालरूपी महेश्वरः।। ५-२७ अर्द्धेन यज्ञवाटान्ते जटाधर इति श्रुतः। अर्द्धेन गगने शर्वः कालरूपी च कथ्यते।। ५-२८ नारद उवाच कालरूपी त्वयाख्यातः शंभुर्गगनगोचरः। लक्षणं च स्वरूपं च सर्वं व्याख्यातुमर्हसि।। ५-२९ पुलस्त्य उवाच स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालपूपिणः। येनाम्बरं मुनिश्रेष्ठ व्याप्तं लोकहितेप्सुना।। ५-३० यत्राश्विनी च भरणी कृत्तिकायास्तथांशकः। मेषो राशिः कुजक्षेत्रं तच्छिरः कालरूपिणः।। ५-३१ आग्नेयांशास्त्रयो ब्रह्मन् प्राजापत्यं कवेर्गृहम्। सौम्यार्द्धं वृषनामेदं वदनं परिकीर्तितम्।। ५-३२ मृगार्द्धमार्द्रादित्यांशास्त्रयः सौम्यगृहं त्विदम्। मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः।। ५-३३ आदित्यांशश्च पुष्यं च आश्लेषा शशिनो गृहम्। राशिः कर्कटको नाम पार्श्वे मखविनाशिनः। ५-३४ पित्र्यर्क्षं भगदैवत्यमुत्तरांशश्च केसरी। सूर्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिगीयते।। ५-३५ उत्तरांशास्त्रयः पाणिश्चित्रार्धं कन्यका त्वियम्। सोमपुत्रस्य सद्मैतद् द्वितीयं जठरं विभोः।। ५-३६ चित्रांशद्वितयं स्वातिर्विशाखायां शकत्रयम्। द्वितीयं शुक्रसदनं तुला नाभिरुदाहृता।। ५-३७ विशाखां शमनूराधा ज्येष्ठा भौमगृहं त्विदम्। द्वितीयं वृश्चिको राशिर्मेढ्रं कालस्वरूपिणः।। ५-३८ मूलं पूर्वोत्तरांशश्च देवाचार्यगृहं धनुः। ऊरुयुगलमीशस्य अमरर्षे प्रगीयते।। ५-३९ उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने। धनिष्ठार्धं शतभिषा जानुनी परमेष्ठिनः।। ५-४० धनिष्ठार्धं शतभिषा प्रौष्ठपद्यांशकत्रयम्। सौरेः सद्मापरमिदं कुम्भो जङ्घे च विश्रुते।। ५-४१ प्रोष्ठपद्यांशमेकं तु उत्तरा रेवती तथा। द्वितीयं जीवसदनं मीनस्तु चरणावुभौ।। ५-४२ एवं कृत्वा कालरूपं त्रिनेत्रो यज्ञं क्रोधान्मार्गणैराजघान। विद्धश्चासौ वेदनाबुद्धिमुक्तः खे संतस्थौ तारकाभिश्चिताङ्गः।। ५-४३ नारद उवाच राशयो गदिता ब्रह्मंस्त्वया द्वादश वै मम। तेषां विशेषतो ब्रूहि लक्षणानि स्वरूपतः।। ५-४४ पुलस्त्य उवाच स्वरूपं तव वक्ष्यामि राशीनां श्रृणु नारद। यादृशा यत्र संचारा यस्मिन् स्थाने वसन्ति च।। ५-४५ मेषः समानमूर्तिश्च अजाविकधनादिषु। संचारस्थानमेवास्य धान्यरत्नाकरादिषु।। ५-४६ नव शाद्वलसंछन्न वसुधायां च सर्वशः। नित्यं चरति फुल्लेषु सरसां पुलिनेषु च।। ५-४७ वृषः सदृशरूपो हि चरते गोकुलादिषु। तस्याधिवासभूमिस्तु कुषीवलधराश्रयः।। ५-४८ स्त्रीपुंसयोः समं रूपं शय्यासनपरिग्रहः। वीणावाद्यधृङ् मिथुनं गीतनर्तकशिल्पिषु।। ५-४९ स्थितः क्रीडारतिर्नित्यं विहारावनिरस्य तु। मिथुनं नाम विख्यातं राशिर्द्वेधात्मकः स्थितः।। ५-५० कर्किः कुलीरेण समः सलिलस्थः प्रकीर्तितः। केदारवापी पुलिने विविक्तावनिरेव च।। ५-५१ सिंहस्तु पर्वतारण्यदुर्गकन्दरभूमिषु। वसते व्याधपल्लीषु गह्वरेषु गुहासु च।। ५-५२ व्रीहिप्रदीपिककरा नावारूढा च कन्यका। चरते स्त्रीरतिस्थाने वसते नड्वलेषु च।। ५-५३ तुलापाणिश्च पुरुषो वीथ्यापणविचारकः। नगराध्वानशालासु वसते तत्र नारद।। ५-५४ श्वभ्रवल्मीकसंचारी वृश्चिको वृश्चिकाकृतिः। विषगोमयकीटादि पाषाणादिषु संस्थितः।। ५-५५ धनुस्तु रङ्गजघनो दीप्यमानो धनुर्धरः। वाजिशूरास्त्रविद्वीरः स्थायी गजरथादिषु।। ५-५६ मृगास्यो मकरो ब्रह्मन् वृषस्कन्धेक्षणाङ्गजः। मकरोऽसौ नदीचारी वसते च महोदधौ।। ५-५७ रिक्तकुम्भश्च पुरुषः स्कन्धधारी जलाप्लुतः। द्यूतशालाचरः कुम्भः स्थायी शौण्डिकसद्मसु।। ५-५८ मीनद्वयमथासक्तं मीनस्तीर्थाब्धिसंचरः। वसते पुण्यदेशेषु देवब्राह्मणसद्मसु।। ५-५९ लक्षणा गदितास्तुभ्यं मेषादीनां महामुने। न कस्यचित् त्वयाख्येयं गुह्यमेतत्पुरातनम्।। ५-६० एतन् मया ते कथितं सुरर्षे यथा त्रिनेत्रः प्रममाथ यज्ञम्। पुण्यं पुराणं परमं पवित्रमाख्यातवान्पापहरं शिवं च।। ५-६१ इति श्रीवामनपुराणे पञ्चमोऽध्यायः ।। ५ ।। पुलस्त्य उवाच।। हृद्भवो ब्रह्मणो योऽसौ धर्मो दिव्यवपुर्मुने। दाक्षायाणी तस्य भार्या तस्यामजनयत्सुतान्।। ६-१ हरिं कृष्णं च देवर्षे नारायणनरौ तथा। योगाभ्यासरतौ नित्यं हरिकृष्णौ बभूवतुः।। ६-२ नरनारायणौ चैव जगतो हितकाम्यया। तप्येतां च तपः सौम्यौ पुराणवृषिसत्तमौ।। ६-३ प्रालेयाद्रिं समागम्य तीर्थे बदरिकाश्रमे। गृणन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे।। ६-४ नरनारायणाभ्यां च जगदेतच्चराचरम्। तापितं तपसा ब्रह्मन् शक्रः क्षोभं तदा ययौ।। ६-५ संक्षुब्धस्तपसा ताभ्यां क्षोभणाय शतक्रतुः। रम्भाद्याप्सरसः श्रेष्ठाः प्रेषयत्स महाश्रमम्।। ६-६ कन्दर्पश्च सुदुर्धर्षश्चूताङ्कुरमहायुधः। समं सहचरेणैव वसन्तेनाश्रमं गतः।। ६-७ ततो माधवकन्दर्पौ ताश्चैवाप्सरसो वराः। बदर्याश्रममागम्य विचिक्रीडुर्यथेच्छया।। ६-८ ततो वसन्ते संप्राप्ते सिंशुका ज्वलनप्रभाः। निष्पत्राः सततं रेजुः शोभयन्तो धरातलम्।। ६-९ शिशिरं नाम मातङ्गं विदार्य नखरैरिव। वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने।। ६-१० मया तुषारौघकरी निर्जितः स्वेन तेजसा। तमेव हसतेत्युच्चैः वसन्तः कुन्दकुड्मलैः।। ६-११ वनानि कर्णिकाराणां पुष्पितानि विरेजिरे। यथा नरेन्द्रपुत्राणि कनकाभरणानि हि।। ६-१२ तेषामनु तथा नीपाः पिङ्करा इव रेजिरे। स्वामिसंलब्धसंमाना भृत्या राजसुतानिव।। ६-१३ रक्ताशोकवना भान्ति पुष्पिताः सहसोज्ज्वलाः। भृत्या वसन्तनृपतेः संग्रामेऽसृक्प्लुता इव।। ६-१४ मृगवृन्दाः पिञ्जरिता राजन्ते गहने वने। पुलकाभिर्वृता यद्वत् सज्जनाः सुहृदागमे।। ६-१५ मञ्जरीभिर्विराजन्ते नदीकूलेषु वेतसाः। वक्तुकामा इवाङ्गुल्या कोऽस्माकं सदृशो नगः।। ६-१६ रक्ताशोककरा तन्वी देवर्षे किंशुकाऽङ्घ्रिका। नीलाशोककचा श्यामा विकासिकमलानना।। ६-१७ नीलेन्दीवरनेत्रा च ब्रह्मन् बिल्वफलस्तनी। प्रफुल्लकुन्ददशना मञ्जरीकरशोभिता।। ६-१८ बन्धुजीवाधरा शुभ्रा सिन्दुवारनखाद्भता। पुंस्कोकिलस्वना दिव्या अङ्कोलवसना शुभा।। ६-१९ बर्हिवृन्दकलापा च सारसस्वरनूपुरा। प्राग्वंशरसना ब्रह्मन् मत्तहंसगतिस्तथा।। ६-२० पुत्रजीवांशुका भृङ्गरोमराजिविराजिता। वसन्तलक्ष्मीः संप्राप्ता ब्रह्मन् बदरिकाश्रमे।। ६-२१ ततो नारायणो दृष्ट्वा आश्रमस्यानवद्यताम्। समीक्ष्य च दिशः सर्वास्ततोऽनङ्गमपश्यत।। ६-२२ नारद उवाच।। कोऽसावनङ्गो ब्रह्मर्षे तस्मिन् बदरिकाश्रमे। यं ददर्श जगन्नाथो देवो नारायणोऽव्ययः।। ६-२३ पुलस्त्य उवाच।। कन्दर्पो हर्षतनयो योऽसौ कामो निगद्यते। स शंकरेण संदग्धो ह्यनङ्गत्वमुपागतः।। ६-२४ नारद उवाच।। किमर्थं कामदेवोऽसौ देवदेवेन शंभुना। दग्धस्तु कारणे कस्मिन्नेतद्व्याख्यातुमर्हसि।। ६-२५ पुलस्त्य उवाच।। यदा दक्षसुता ब्रह्मन् सती याता यमक्षयम्। विनाश्य दक्षयज्ञं तं विचचार त्रिलोचनः।। ६-२६ ततो वृषध्वजं दृष्ट्वा कन्दर्पः कुसुमायुधः। अपत्नीकं तदाऽस्त्रेण उन्मादेनाभ्यताडयत्।। ६-२७ ततो हरः शरेणाथ उन्मादेनाशु ताडितः। विचचार तदोन्मत्तः काननानि सरांसि च।। ६.२८ स्मरन् सतीं महादेवस्तथोन्मादेन ताडितः। न शर्म लेभे देवर्षे बाणविद्ध इव द्विपः।। ६.२९ ततः पपात देवेशः कालिन्दीसरितं मुने। निमग्ने शंकरे आपो दग्धाः कृष्णत्वमागताः।। ६.३० तदा प्रभृति कालिन्द्या भृङ्गाञ्जननिभं जलम्। आस्यन्दत् पुण्यतीर्था सा केशपाशमिवावनेः।। ६.३१ ततो नदीषु पुण्यासु सरस्सु च नदीषु च। पुलुनेषु च रम्येषु वापीषु नलिनीषु च।। ६.३२ पर्वतेषु च रम्येषु काननेषु च सानुषु। विचरन् स्वेच्छया नैव शर्म लेभे महेश्वरः।। ६.३३ क्षणं गायति देवर्षे क्षणं रोदिति शंकरः। क्षणं ध्यायति तन्वङ्गीं दक्षकन्यां मनोरमाम्।। ६.३४ ध्यात्वा क्षणं प्रस्वपिति क्षणं स्वप्नायते हरः। स्वप्ने तथेदं गदति तां दृष्ट्वा दक्षकन्यकाम्।। ६.३५ निर्घृणे तिष्ठ किं मूढे त्यजसे मामनिन्दिते। मुग्धे त्वया विरहितो दग्धोऽस्मि मदनाग्निना।। ६.३६ सति सत्यं प्रकुपिता मा कोपं कुरु सुन्दरि। पादप्रणामावनतमभिभाषितुमर्हसि।। ६.३७ श्रूयसे दृश्यसे नित्यं स्पृश्यसे वन्द्यसे प्रिये। आलिङ्ग्यसे च सततं किमर्थं नाभिभाषसे।। ६.३८ विलपन्तं जनं दृष्ट्वा कृपा कस्य न जायते। विशेषतः पतिं बाले ननु त्वमतिनिर्घृणा।। ६.३९ त्वयोक्तानि वचांस्येवं पूर्वं मम कृशोदरि। विना त्वया न जीवेयं तदसत्यं त्वया कृतम्।। ६.४० एह्येहि कामसंतप्तं परिष्वज सुलोचने। नान्यथा नश्यते तापः सत्येनापि शपे प्रिये।। ६.४१ इत्थं विलप्य स्वप्नान्ते प्रतिबुद्धस्तु तत्क्षणात्। उत्कूजति तथाऽरण्ये मुक्तकण्ठं पुनः पुनः।। ६.४२ तं कूजमानं विलपन्तमारात् समीक्ष्य कामो वृषकेतनं हि। विव्याध चापं तरसा विनाम्य संतापनाम्ना तु शरेण भूयः।। ६.४३ संतापनास्त्रेण तदा स विद्धो भूयः स संतप्ततरो बभूव। संतापयंश्चापि जगत्समग्रं फूत्कृत्य फूत्कृत्य विवासते स्म।। ६.४४ तं चापि भूयो मदनो जघान विजृण्भणास्त्रेण ततो विजृम्भे। ततो भृशं कामशरैर्वितुन्नो विजृम्भमाणः परितो भ्रमंश्च।। ६.४५ ददर्श यक्षाधिपतेस्तनूजं पाञ्चालिकं नाम जगत्प्रधानम्। दृष्ट्वा त्रिनेत्रो धनदस्य पुत्रं पार्श्वं समभ्येत्य वचो बभाषे। भ्रातृव्य वक्ष्यामि वचो यदद्य तत् त्वं कुरुष्वामितविक्रमोऽसि।। ६.४६ पाञ्चालिक उवाच।। यन्नाथ मां वक्ष्यसि तत्करिष्ये सुदुष्करं यद्यपि देवसंघैः। आज्ञापयस्वातुलवीर्यशंभो दासोऽस्मि ते भक्तियुतस्तथेश।। ६.४७ ईश्वर उवाच।। नाशं गतायां वरदाम्बिकायां कामाग्निना प्लुष्टसुविग्रहोऽस्मि। विजृम्भणोन्मादशरैर्विभिन्नो धृतिं न विन्दामि रतिं सुखं वा ।। ६.४८ विजृम्भणं पुत्र तथैव तापमुन्मादमुग्रं मदनप्रणुन्नम्। नान्यः पुमान् धारयितुं हि शक्तो मुक्त्वा भवन्तं हि ततः प्रतीच्छ।। ६.४९ पुलस्त्य उवाच।। इत्येवमुक्तो वृषभध्वजेन यक्षः प्रतीच्छत् स विजृम्भणादीन्। तोषं जगामाशु ततस्त्रिशूली तुष्टस्तदैवं वचनं बभाषे।। ६.५० हर उवाच।। यस्मात्त्वया पुत्र सुदुर्धराणि विजृम्भणादीनि प्रतीच्छितानि। तस्माद्वरं त्वां प्रतिपूजनाय दास्यामि लोकस्य च हास्यकारि।। ६.५१ यस्त्वां यदा पश्यति चैत्रमासे स्पृशेन्नरो वार्चयते च भक्त्या। वृद्धोऽथ बालोऽथ युवाथ योषित् सर्वे तदोन्मादधरा भवन्ति।। ६.५२ गायन्ति नृत्यन्ति रमन्ति यक्ष वाद्यानि यत्नादपि वादयन्ति। तवाग्रतो हास्यवचोऽभिरक्ता भवन्ति ते योगयुतास्तु ते स्युः।। ६.५३ ममैव नाम्ना भविताऽसि पूज्यः पाञ्चालिकेशः प्रथितः पृथिव्याम्। मम प्रसादाद् वरदो नराणां भविष्यसे पूज्यतमोऽभिगच्छ।। ६.५४ इत्येवमुक्तो विभुना स यक्षो जगाम देशान् सहसैव सर्वान्। कालञ्जरस्योत्तरतः सुपुण्यो देशो हिमाद्रेरपि दक्षिणस्थः।। ६.५५ तस्मिन् सुपुण्ये विषये निविष्टो रुद्रप्रसादादभिपूज्यतेऽसौ। तस्मिन् प्रयाते भगवांस्त्रिनेत्रो देवोऽपि विन्ध्यं गिरिमभ्यगच्छत्।। ६.५६ तत्रापि मदनो गत्वा ददर्श वृषकेतनम्। दृष्ट्वा प्रहर्त्तुकामं च ततः प्रादुद्रवद्धरः।। ६.५७ ततो दारुवनं घोरं मदनाभिसृतो हरः। विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः।। ६.५८ ते चापि ऋषयः सर्वे दृष्ट्वा मूर्ध्ना नताभवन्। ततस्तान् प्राह भगवान् भिक्षा मे प्रतिदीयताम्।। ६.५९ ततस्ते मौनिनस्तस्थुः सर्व एव महर्षयः। तदाश्रमाणि सर्वाणि परिचक्राम नारदः।। ६.६० तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः। प्रक्षोभमगमन् सर्वा हीनसत्त्वाः समन्ततः।। ६.६१ ऋते त्वरुन्धतीमेकामनसूयां च भामिनीम्। एताभ्यां भर्तृपूजासु तच्चिन्तासु स्थितं मनः।। ६.६२ ततः संक्षुभिताः सर्वा यत्र याति महेश्वरः। तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः।। ६.६३ त्यक्त्वाश्रमणि शून्यानि स्वानि ता मुनियोषितः। अनुजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम्।। ६.६४ ततस्तु ऋषयो दृष्ट्वा भार्गवाङ्गिरसो मुने। क्रोधान्विताब्रुवन्सर्वे लिङ्गेऽस्य पततां भुवि।। ६.६५ ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयन्। अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः।। ६.६६ ततः स पतितो लिङ्गो विभिद्य वसुधातलम्। रसातलं विवेशाशु ब्रह्मण्डं चोर्ध्वतोऽभिनत्।। ६.६७ ततश्चचाल पृथिवी गिरयः सरितो नगाः। पातालभुवनाः सर्वे जङ्गमाजङ्गमैर्वृताः।। ६.६८ संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पितामहः। जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम्।। ६.६९ तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः। उवाच देव भुवनाः किमर्थ क्षुभिता विभो।। ६.७० अथोवाच हरिर्ब्रह्मन् शार्वो लिङ्गो महर्षिभिः। पातितस्तस्य भारार्ता संचचाल वसुंधरा।। ६.७१ ततस्तदद्भुततमं श्रुत्वा देवः पितामहः। तत्र गच्छाम देवेश एवमाह पुनः पुनः।। ६.७२ ततः पितामहो देवः केशवश्च जगत्पतिः। आजग्मतुस्तमुद्देशं यत्र लिङ्गं भवस्य तत्।। ६.७३ ततोऽनन्तं हरिर्लिङ्गं दृष्ट्वारुह्य खगेश्वरम्। पातालं प्रविवेशाथ विस्मयान्तरितो विभुः।। ६.७४ ब्रह्म पद्मविमानेन उर्ध्वमाक्रम्य सर्वतः। नैवान्तमलभद् ब्रह्मन् विस्मितः पुनरागतः।। ६.७५ विष्णुर्गत्वाऽथ पातालान् सप्त लोकपरायणः। चक्रपाणिर्विनिष्क्रान्तो लेभेऽन्तं न महामुने।। ६.७६ विष्णुः पितामहश्चोभौ हरलिङ्गं समेत्य हि। कृताञ्जलिपुटौ भूत्वा स्तोतुं देवं प्रचक्रतुः।। ६.७७ हरिब्रह्माणावूचतुः।। नमोऽस्तु ते शूलपाणे नमोऽस्तु वृषभध्वज। जीमूतवाहन कवे शर्व त्र्यम्बक शंकर।। ६.७८ महेश्वर महेशान सुपर्णाक्ष वृषाकपे। दक्षयज्ञक्षयकर कालरूप नमोऽस्तु ते।। ६.७९ त्वमादिरस्य जगतस्त्वं मध्यं परमेश्वर। भवानन्तश्च भगवान् सर्वगस्त्वं नमोऽस्तु ते।। ६.८० पुलस्त्य उवाच।। एवं संस्तूयमानस्तु तस्मिन् दारुवने हरः। स्वरूपी ताविदं वाक्यमुवाच वदतां वरः।। ६.८१ हर उवाच।। किमर्थं देवतानाथौ परिभूतक्रमं त्विह। मां स्तुवाते भृशास्वस्थं कामतापितविग्रहम्।। ६.८२ देवावूचतुः ।। भक्तः पातितं लिङ्गं यदेतद् भुवि शंकर। एतत् प्रगृह्यतां भूय अतो देव स्तुवावहे।। ६.८३ हर उवाच।। यद्यर्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ। तदेतत्प्रतिगृह्णीयां नान्यथेति कथंचन।। ६.८४ ततः प्रोवाच भगवानेवमस्त्विति केशव। ब्रह्म स्वयं च जग्राह लिङ्गं कनकपिङ्गलम्।। ६.८५ ततश्चकार भगवांश्चातुर्वर्ण्यं हरार्चने। शास्त्राणि चैषां मुख्यानि नानोक्तिविदितानि च ।। ६.८६ आद्यं शैवं परिख्यातमन्यत्पाशुपतं मुने। तृतीयं कालवदनं चतुर्थं च कपालिनम्।। ६.८७ शैवश्चासीत्स्वयं शक्तिर्वसिष्ठस्य प्रियः श्रुतः। तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः।। ६.८८ महापाशुपतश्चासीद्भरद्वाजस्तपोधनः। तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः।। ६.८९ कालस्यो भगवानासीदापस्तम्बस्तपोधनः। तस्य शिष्योभवद्वैश्यो नाम्ना क्राथेश्वरो मुने।। ६.९० महाव्रती च धनदस्तस्य शिष्यश्च विर्यवान्। कर्णोदर इति ख्यातो जात्या शूद्रो महातपाः।। ६.९१ एवं स भगवान्ब्रह्म पूजनाय शिवस्य तु। कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः।। ६.९२ गते ब्रह्मणि शर्वोऽपि उपसंहृत्य तं तदा। लिङ्गं चित्रवने सूक्ष्मं प्रतिष्ठाप्य चचार ह। ६.९३ विचरन्तं तदा भूयो महेशं कुसुमायुधः। आरात्स्थित्वाऽग्रतो धन्वी संतापयितुमुद्यतः।। ६.९४ ततस्तमग्रतो दृष्ट्वा क्रोधाध्मातदृशा हरः। स्मरमालोकयामास शिखाग्राच्चरणान्तिकम्।। ६.९५ आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि। प्रादह्यत तदा ब्रह्मन् पादादारभ्य कक्षवत्।। ६.९६ प्रदह्यमानौ चरणौ दृष्ट्वाऽसौ कुसुमायुधः। उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा।। ६.९७ यदासीन्मुष्टिबन्धं तु रुक्मपृष्ठं महाप्रभम्। स चम्पकतरुर्जातः सुगन्धाढ्यो गुणाकृतिः।। ६.९८ नाहस्थानं शुभाकारं यदासीद्वज्रभूषितम्। तज्जातं केसरारण्यं बकुलं नामतो मुने।। ६.९९ या च कोटी शुभा ह्यासीदिन्द्रनीलविभूषिता। जाता सा पाटला रम्या भृङ्गराजिविभूषिता।। ६.१०० नाहोपरि तथा मुष्टौ स्थानं शशिमणिप्रभम्। पञ्चगुल्माऽभवज्जाती शशाङ्ककिरणोज्ज्वला।। ६.१०१ ऊर्ध्व मुष्ट्या अधः कोट्योः स्थानं विद्रुमभूषितम्। तस्माद्बहुपुटा मल्ली संजाता विविधा मुने।। ६.१०२ पुष्पोत्तमानि रम्याणि सुरभीणि च नारद। जातियुक्तानि देवेन स्वयमाचरितानि च।। ६.१०३ मुमोच मार्गणान् भूम्यां शरीरे दह्यति स्मरः। फलोपगानि वृक्षाणि संभूतानि सहस्रशः।। ६.१०४ चूतादीनि सुगन्धीनि स्वादूनि विविधानि च। हरप्रसादाज्जातानि भोज्यान्यपि सुरोत्तमैः।। ६.१०५ एवं दग्ध्वा स्मरं रुद्रः संयम्य स्वतनुं विभुः। पुष्यार्था शिशिराद्रिं स जगाम तपसेऽव्ययः।। ६.१०६ एवं पुरा देववरेण शंभुना कामस्तु दग्धः सशरः सचापः। ततस्त्वनङ्गेति महाधनुर्द्धरो देवैस्तु गीतः सुरपूर्वपूजितः।। ६.१०७ इति श्रीवामनपुराणे षष्ठोऽध्यायः ।। ६ ।। पुलस्त्य उवाच ततोऽनङ्गं विभुर्दृष्ट्वा ब्रह्मन् नारायणो मुनिः। प्रहस्यैवं वचः प्राह कन्दर्प इह आस्यताम्।। ७.१ तदक्षुब्धत्वमीक्ष्यास्य कामो विस्मयमागतः। वसन्तोऽपि महाचिन्तां जगामाशु महामुने।। ७.२ ततश्चाप्सरसो दृष्ट्वा स्वागतेनाभिपूज्य च। वसन्तमाह भगवानेह्येहि स्थीयतामिति।। ७.३ ततो विहस्य भगवान् मञ्जरीं कुसुमावृताम्। आदाय प्राक्सुवर्णाङ्गीमूर्वोर्बालां विनिर्ममे।। ७.४ ऊरूद्भवां स कन्दर्पो दृष्ट्वा सर्वाङ्गसुन्दरीम्। अमन्यत तदाऽनङ्गः किमियं सा प्रिया रतिः।। ७.५ तदेव वदनं चारु स्वक्षिभ्रूकुटिलालकम्। सुनासावंशाधरोष्ठमालोकनपरायणम्।। ७.६ तावेवाहार्य विरलौ पीवरौ मग्नचूचुकौ। राजेतेऽस्यः कुचौ पीनौ सज्जनाविव संहतौ।। ७.७ तदेव तनु चार्वङ्ग्या वलित्रयविभूषितम्। उदरं राजते श्लक्ष्णं रोमावलिविभूषितम्।। ७.८ रोमावलीच जघनाद् यान्ती स्तनतटं त्वियम्। राजते भृङ्गमालेव पुलिनात् कमलाकरम्।। ७.९ जघनं त्वतिविस्तीर्ण भात्यस्या रशनावृतम्। श्रीरोदमथने नद्धं भूजंगेनेव मन्दरम्।। ७.१० कदलीस्तम्भसदृशैरूर्ध्वमूलैरथोरुभिः। विभाति सा सुचार्वङ्गी पद्मकिञ्जल्कसन्निभा।। ७.११ जानुनी गूढगुल्फे च शुभे जङ्घे त्वरोमशे। विभातोऽस्यास्तथा पादावलक्तकसमत्विषौ।। ७.१२ इति संचिन्तयन् कामस्तामनिन्दितलोचनाम्। कामातुरोऽसौ संजातः किमुतान्यो जनो मुने।। ७.१३ माधवोऽप्युर्वशीं दृष्ट्वा संचिन्तयत नारद। किंस्वित् कामनरेन्द्रस्य राजधानी स्वयं स्थिता।। ७.१४ आयाता शशिनो नूनमियं कान्तिर्निशाक्षये। रविरश्मिप्रतापार्तिभीता शरणमागता।। ७.१५ इत्थं संचितयन्नेव अवष्टभ्याप्सरोगणम्। तस्थौ मुनिरिव ध्यानमास्थितः स तु माधवः।। ७.१६ ततः स विस्मितान् सर्वान् कन्दर्पादीन् महामुने। दृष्ट्वा प्रोवाच वचनं स्मितं कृत्वा शुभव्रतः।। ७.१७ इयं ममोरुसंभृता कामाप्सरस माधव। नीयतां सुरलोकाय दीयतां वासवाय च।। ७.१८ इत्युक्ताः कम्पमानास्ते जग्मुर्गृह्योर्वशीं दिवम्। सहस्राक्षाय तां प्रादाद् रूपयौवनशालिनीम्।। ७.१९ आचक्षुश्चरितं ताभ्यां धर्मजाभ्यां महामुने। देवराजाय कामाद्यास्ततोऽभूद् विस्मयः परः।। ७.२० एतादृशं हि चरितं ख्यातिमग्र्यां जगाम ह। पातालेषु तथा मर्त्ये दिक्ष्वष्टासु जगाम च।। ७.२१ एकदा निहते रौद्रो हिरण्यकशिपौ मुने। अभिषिक्तस्तदा राज्ये प्रह्लादे नाम दानवः।। ७.२२ तस्मिञ्शासति दैत्येन्द्रे देवब्राह्मणपूजके। मखानि भुवि राजानो यजन्ते विधिवत्तदा।। ७.२३ ब्राह्मणाश्च तपो धर्मं तीर्थयात्राश्च कुर्वते। वैश्याश्च पशुवृत्तिस्थाः शूद्राः शुश्रूषणे रताः।। ७.२४ चातुर्वर्ण्यं ततः स्वे स्वे आश्रमे धर्मकर्मणि। आवर्त्तत ततो देवा वृत्त्या युक्ताभवन् मुने।। ७.२५ ततस्तु च्यवनो नाम भार्गवेन्द्रो महातपाः। जगाम नर्मदां स्नातुं तीर्थं चैवाकुलीश्वरम्।। ७.२६ तत्र दृष्ट्वा महादेवं नदीं स्नातुमवातरत्। अवतीर्णं प्रजग्राह नागः केकरलोहितः।। ७.२७ गृहीतस्तेन नागेन सस्मार मनसा हरिम्। संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः।। ७.२८ नीतस्तेनातिरौद्रेण पन्नगेन रसातलम्। निर्विषश्चापि तत्याज च्यवनं भुजगोत्तमः।। ७.२९ संत्यक्तमात्रो नागेन च्यवनो भार्गवोत्तमः। चचार नागकन्याभिः पूज्यमानः समन्ततः।। ७.३० विचरन् प्रविवेशाथ दानवानां महत् पुरम्। संपूज्यमानो दैत्येन्द्रः प्रह्लादोऽथ ददर्श तम्।। ७.३१ भृगुपुत्रे महातेजाः पूजां चक्रे यथार्हतः। संपूजितोपविष्टश्च पृष्टश्चागमनं प्रति।। ७.३२ स चोवाच महाराज महातीर्थं महाफलम्। स्नातुमेवागतोऽस्म्यद्य द्रष्टुञ्चैवाकुलीश्वरम्।। ७.३३ नद्यामेवावतीर्णोऽस्मि गृहीतश्चाहिना बलान्। समानीतोऽस्मि पाताले दृष्टश्चात्र भवानपि।। ७.३४ एतच्छ्रुत्वा तु वचनं च्यवनस्य दितीश्वरः। प्रोवाच धर्मसंयुक्तं स वाक्यं वाक्यकोविदः।। ७.३५ प्रह्लाद उवाच भगवन् कानि तीर्थानि पृथिव्यां कानि चाम्बरे। रसातले च कानि स्युरेतद् वक्तुं ममार्हसि।। ७.३६ च्यवन उवाच पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम्। चक्रतीर्थं महाबाहो रसातलतले विदुः।। ७.३७ पुलस्त्य उवाच श्रुत्वा तद्भार्गववचो दैत्यराजो महामुने। नेमिषै गन्तुकामस्तु दानवानिदमब्रवीत्।। ७.३८ प्रह्लाद उवाच उत्तिष्ठध्वं गमिष्यामः स्नातुं तीर्थं हि नैमिषम्। द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम्।। ७.३९ पुलस्त्य उवाच इत्युक्ता दानवेन्द्रेण सर्वे ते दैत्यदानवाः। चक्रुरुद्योगमतुलं निर्जग्मुश्च रसातलात्।। ७.४० ते समभ्येत्य दैतेया दानवाश्च महाबलाः। नेमिषारण्यमागत्य स्नानं चक्रुर्मुदान्विताः।। ७.४१ ततो दितीश्वरः श्रीमान् मृगव्यां स चचार ह। चरन् सरस्वतीं पुण्यां ददर्श विमलोदकाम्।। ७.४२ तस्यादूरे महाशाखं शालवृक्षं शरैश्चितम्। ददर्श बाणानपरान् मुखे लग्नान् परस्परम्।। ७.४३ ततस्तानद्भुताकारान् बाणान् नागोपवीतकान्। दृष्ट्वाऽतुलं तदा चक्रे क्रोधं दैत्येश्वरः किल।। ७.४४ स ददर्श ततोऽदूरात्कृष्णाजिनधरौ मुनी। समुन्नतजटाभारौ तपस्यासक्तमानसौ।। ७.४५ तयोश्च पार्श्वयोर्दिव्ये धनुषी लक्षणान्विते। शार्ङ्गमाजगवं चैव अक्षय्यौ च महेषुधी।। ७.४६ तौ दृष्ट्वाऽमन्यत तदा दाम्बिकाविति दानवः। ततः प्रोवाच वचनं तावुभौ पुरुषोत्तमौ।। ७.४७ किं भवद्भ्यां समारब्धं दम्भं धर्मविनाशनम्। क्व तपः क्व जटाभारः क्व चेमौ प्रवरायुधौ।। ७.४८ अथोवाच नरो दैत्यं का ते चिन्ता दितीश्वर। सामर्थ्ये सति यः कुर्यात् तत्संपद्येत तस्य हि।। ७.४९ अथोवाच दितीशस्तौ का शक्तिर्युवयोरिह। मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके।। ७.५० नरस्तं प्रत्युवाचाथ आवाभ्यां शक्तिरूर्जिता। न कश्चिच्छक्नुयाद् योद्धुं नरनारायणौ युधि।। ७.५१ दैत्येश्वरस्ततः क्रुद्धः प्रतिज्ञामारुरोह च। यथा कथंचिज्जेष्यामि नरनारायणौ रणे।। ७.५२ इत्येवमुक्त्वा वचनं महात्मा दितीश्वरः स्थाप्य बलं वनान्ते। वितत्य चापं गुणमाविकृष्य तलध्वनिं घोरतरं चकार।। ७.५३ ततो नरस्त्वाजगवं हि चापमानम्य बाणान् सुबहूञ्शिताग्रान्। मुमोच तानप्रतिमैः पृषत्कैश्चिच्छेद दैत्यस्तपनीयपुङ्खैः।। ७.५४ छिन्नान् समीक्ष्याथ नरः पृषत्कान् दैत्येश्वरेणाप्रतिमेव संख्ये। क्रुद्धः समानम्य महाधनुस्ततो मुमोच चान्यान् विविधान् पृषत्कान्।। ७.५५ एकं नरो द्वौ दितिजेश्वरश्च त्रीन् धर्मसूनुश्चतुरो दितीशः। नरस्तु बाणान् प्रमुमोच पञ्च षड् दैत्यनाथो निशितान् पृषत्कान्।। ७.५६ सप्तर्षिमुख्यो द्विचतुश्च दैत्यो नरस्तु षट् त्रीणि च दैत्यमुख्ये। षट्त्रीणि चैकं च दितीश्वरेण मुक्तानि बाणानि नराय विप्र।। ७.५७ एकं च षट् पञ्च नरेण मुक्तास्त्वष्टौ शराः सप्त च दानवेन। षट् सप्त चाष्टौ नव षण्नरेण द्विसप्ततिं दैत्यपतिः ससर्ज्ज।। ७.५८ शतं नरस्त्रीणि शतानि दैत्यः षड् धर्मपुत्रो दश दैत्यराजः। ततोऽप्यसंख्येयतरान् हि बाणान् मुमोचतुस्तौ सुभृशं हि कोपात्।। ७.५९ ततो नरो बाणगणैरसख्यैरवास्तरद्भूमिमथो दिशः खम्। स चापि दैत्यप्रवरः पृषत्कैश्चिच्छेद वेगात् तपनीयपुङ्खैः।। ७.६० ततः पतत्त्रिभिर्वीरौ सुभृशं नरदानवौ। युद्धे वरास्त्रैर्युध्येतां घोररूपैः परस्परम्।। ७.६१ ततस्तु दैत्येन वरास्त्रपाणिना चापे नियुक्तं तु पितामहास्त्रम्। महेश्वरास्त्रं पुरुषोत्तमेव समं समाहत्य निपेततुस्तौ।। ७.६२ ब्रह्मास्त्रे तु प्रशमिते प्रह्लादः क्रोधमूर्छितः। गदां प्रगृह्य तरसा प्रचस्कन्द रथोत्तमात्।। ७.६३ गदापाणिं समायान्तं दैत्यं नारायणस्तदा। दृष्ट्वाऽथ पृष्ठतश्चक्रे नरं योद्धुमनाः स्वयम्।। ७.६४ ततो दितीशः सगदः समाद्रवत् सशार्ङ्गपाणिं तपसां निधानम्। ख्यातं पुराणर्षिमुदारविक्रमं नारायणं नारद लोकपालम्।। ७.६५ इति श्रीवामनपुराणे सप्तमोऽध्यायः ।। ७ ।। पुलस्त्य उवाच शार्ङ्गपाणिनमायान्तं दृष्ट्वाऽग्रे दानवेश्वरः। परिभ्राम्य गदां वेगात् मूर्ध्नि साध्यमताडयत्।। ८.१ ताडितस्याथ गदया धर्मपुत्रस्य नारद। नेत्राभ्यामपतद् वारि वह्निवर्षनिभं भुवि।। ८.२ मूर्ध्नि नारायणस्यापि सा गदा दानवार्पिता। जगाम शतधा ब्रह्मञ्शैलश्रृङ्गे यथाऽशनिः।। ८.३ ततो निवृत्य दैत्येन्द्रः समास्थाय रथं द्रुतम्। आदाय कार्मुकं वीरस्तूणद् बाणं समाददे।। ८.४ आनम्य चापं वेगेन गार्द्धपत्राञ्शिलीमुखान्। मुमोच साध्याय तदा क्रोधान्धकारिताननः।। ८.५ तानापतत एवाशु बाणांश्चन्द्रार्द्धसन्निभान्। चिच्छेद बाणैरपरैर्निर्बिभेद च दानवम्।। ८.६ ततो नारायणं दैत्यो दैत्यं नारायणः शरैः। आविध्येतां तदाऽन्योन्यं मर्मभिद्भिरजिह्मगैः।। ८.७ ततोऽम्बरे संनिपातो देवानामभवन्मुने। दिदृक्षूणां तदा युद्धं लघु चित्रं च सुष्ठु च।। ८.८ ततः सुराणां दुन्दुभ्यस् त्ववाद्यन्त महास्वनाः। पुष्पवर्षमनौपम्यं मुमुचुः साध्यदैत्ययोः।। ८.९ ततः पश्यत्सु देवेषु गगनस्थेषु तावुभौ। अयुध्येतां महेष्वासौ प्रेक्षकप्रीतिवर्द्धनम्।। ८.१० बबन्धतुस्तदाकाशं तावुभौ शरवृष्टिभिः। दिशश्च विदिशश्चैव छादयेतां शरोत्करैः।। ८.११ ततो नारायणश्चापं समाकृष्य महामुने। बिभेद मार्गणैस्तीक्ष्णैः प्रह्लादं सर्वमर्मसु।। ८.१२ तथा दैत्येश्वरः क्रुद्धश्चापमानम्य वेगवान्। बिभेद हृदये बाह्वोर्वदने च नरोत्तमम्।। ८.१३ ततोऽस्यतो दैत्यपतेः कार्मुकं मुष्टिबन्धनात्। चिच्छेदैकेन बाणेन चन्द्रार्धाकारवर्चसा।। ८.१४ अपास्यत धनुश्छिन्नं चापमादाय चापरम्। अधिज्यं लाघवात् कृत्वा ववर्ष निशिताञ्शरान्।। ८.१५ तानप्यस्य शरान् साध्यश्छित्त्वा बाणैरवारयत्। कार्मुकं च क्षुरप्रेण चिच्छेद पुरुषोत्तमः।। ८.१६ छिन्नं छिन्नं धनुर्दैत्यस्त्वन्यदन्यत्समाददे। समादत्तं तदा साध्यो मुने चिच्छेद लाघवात्।। ८.१७ संछिन्नेष्वथ चापेषु जग्राह दितिजेश्वरः। परिघं दारुणां दीर्घं सर्वलोहमयं दृढम्।। ८.१८ परिगृह्याथ परिघं भ्रामयामास दानवः। भ्राम्यमाणं स चिच्छेद नाराचेन महामुनिः।। ८.१९ छिन्ने तु परिघे श्रीमान् प्रह्लादो दानवेश्वरः। मुद्गरं भ्राम्य वेगेन प्रचिक्षेप नराग्रजे।। ८.२० तमापतन्तं बलवान् मार्गणैर्दशभिर्मुने। चिच्छेद दशधा साध्यः स छिन्नो न्यपतद् भुवि।। ८.२१ मुद्गरे वितथे जाते प्रासमाविध्य वेगवान्। प्रचिक्षेप नराग्र्याय तं च चिच्छेद धर्मजः।। ८.२२ प्रासे छिन्ने ततो दैत्यः शक्तिमादाय चिक्षिपे। तां च चिच्छेद बलवान् क्षुरप्रेण महातपाः।। ८.२३ छिन्नेषु तेषु शस्त्रेषु दानवोऽन्यन्महद्धनुः। समादाय ततो बाणैरवतस्तार नारद।। ८.२४ ततो नारायणो देवो दैत्यनाथं जगद्गुरुः। नाराचेन जघानाथ हृदये सुरतापसः।। ८.२५ संभिन्निहृदयो ब्रह्मन् देवेनाद्भुतकर्मणा। निपपात रथोपस्थे तमपोवाह सारथिः।। ८.२६ स संज्ञां सुचिरेणैव प्रतिलभ्य दितीश्वरः। सुदृढं चापमादाय भूयो योद्धमुपागतः।। ८.२७ तमागतं संनिरीक्ष्य प्रत्युवाच नराग्रजः। गच्छ दैत्येन्द्र योत्स्यामः प्रातस्त्वाह्निकमाचर।। ८.२८ एवमुक्तो दितीशस्तु साध्येनाद्भुतकर्मणा। जगाम नैमिषारण्यं क्रियां चक्रे तदाऽऽह्निकीम्।। ८.२९ एवं युध्यति देवे च प्रह्लादो ह्यसुरो मुने। रात्रौ चिन्तयते युद्धे कथं जेष्यामि दाम्भिकम्।। ८.३० एवं नारायणेनाऽसौ सहायुध्यत नारद। दिव्यं वर्षसहस्रं तु दैत्यो देवं न चाजयत्।। ८.३१ ततो वर्षसहस्रान्ते ह्यजिते पुरुषोत्तमे। पीतवाससमभ्येत्य दानवो वाक्यमब्रवीत्।। ८.३२ किमर्थं देवदेवेश साध्यं नारायणं हरिम्। विजेतुं नाऽद्य शक्नोमि एतन्मे कारणं वद।। ८.३३ पीतवासा उवाच दुर्जयोऽसौ महाबाहुस्त्वया प्रह्लाद धर्मजः। साध्यो विप्रवरो धीमान् मृधे देवासुरैरपि।। ८.३४ प्रह्लाद उवाच यद्यसौ दुर्जयो देव मया साध्यो रणाजिरे। तत्कथं यत्प्रतिज्ञातं तदसत्यं भविष्यति।। ८.३५ हीनप्रतिज्ञो देवेश कथं जीवेत मादृशः। तस्मात्तवाग्रतो विष्णो करिष्ये कायशोधनम्।। ८.३६ पुलस्त्य उवाच इत्येवमुक्त्वा वचनं देवाग्रे दानवेश्वरः। शिरःस्नातस्तदा तस्थौ गृणन् ब्रह्म सनातनम्।। ८.३७ ततो दैत्यपतिं विष्णुं पीतवासाऽब्रवीद्वचः। गच्छ जेष्यसि भक्त्या तं न युद्धेन कथंचन।। ८.३८ प्रह्लाद उवाच मया जितं देवदेव त्रैलोक्यमपि सुव्रत। जितोऽयं त्वत्प्रसादेन शक्रः किमुत धर्मजः।। ८.३९ असौ यद्यजयो देव त्रैलोक्येनापि सुव्रतः। न स्थातुं त्वत्प्रसादेव शक्यं किमु करोम्यज।। ८.४० पीतवासा उवाच सोऽहं दानवशार्दूल लोकानां हितकाम्यया। धर्मं प्रवर्त्तापयितुं तपश्चर्यां समास्थितः।। ८.४१ तस्माद्यदिच्छसि जयं तमाराधय दानव। तं पराजेष्यसे भक्त्या तस्माच्छुश्रूष धर्मजम्।। ८.४२ पुलस्त्य उवाच इत्युक्तः पीतवासेन दानवेन्द्रो महात्मना। अब्रवीद्वचनं हृष्टः समाहूयाऽन्धकं मुने।। ८.४३ दैत्याश्च दानवाश्चैव परिपाल्यास्त्वयान्धक। मयोत्सृष्टमिदं राज्यं प्रतीच्छस्व महाभुज।। ८.४४ इत्येवमुक्तो जग्राह राज्यं हैरण्यलोचनिः। प्रह्लादोऽपि तदाऽगच्छत् पुण्यं बदरिकाश्रमम्।। ८.४५ दृष्ट्वा नारायणं देवं नरं च दितिजेश्वरः। कृताञ्जलिपुटो भूत्वा ववन्दे चरणौ तयोः।। ८.४६ तमुवाच महातेजा वाक्यं नारायणोऽव्ययः। किमर्थं प्रणतोऽसीह मामजित्वा महासुर।। ८.४७ प्रह्लाद उवाच कस्त्वां जेतुं प्रभो शक्तः कस्त्वत्तः पुरुषोऽधिकः। त्वं हि नारायणोऽनन्तः पीतवासा जनार्दनः।। ८.४८ त्वं देवः पुण्डरीकाक्षस्त्वं विष्णुः शार्ङ्गचापधृक्। त्वमव्ययो महेशानः शाश्वतः पुरुषोत्तमः।। ८.४९ त्वां योगिनश्चिन्तयन्ति चार्चयन्ति मनीषिणः। जपन्ति स्नातकास्त्वां च यजन्ति त्वां च याज्ञिकाः।। ८.५० त्वमच्युतो हृषीकेशश्चक्रपाणिर्धराधरः। महामीनो हयशिरास्त्वमेव वरकच्छपः।। ८.५१ हिरण्याक्षरिपुः श्रीमान् भगवानथ सूकरः। मत्पितुर्नाशनकरो भवानपि नृकेसरी।। ८.५२ ब्रह्म त्रिनेत्रोऽमरराड् हुताशः प्रेताधिपो नीरपतिः समीरः। सूर्यो मृगाङ्कोऽचलजङ्गमाद्यो भवान् विभो नाथ खगेन्द्रकेतो।। ८.५३ त्वं पृथ्वी ज्योतिराकाशं जलं भूत्वा सहस्रशः। त्वया व्याप्तं जगत्सर्वं कस्त्वां जेष्यति माधव।। ८.५४ भक्त्या यदि हृषीकेश तोषमेषि जगद्गुरो। नान्यथा त्वं प्रशक्तोऽसि जेतुं सर्वगताव्यय।। ८.५५ भगवानुवाच परितुष्टोऽस्मि ते दैत्य स्तवेनानेन सुव्रत। भक्त्या त्वनन्यया चाहं त्वया दैत्य पराजितः।। ८.५६ पराजितश्च पुरुषो दैत्य दण्डं प्रयच्छति। दण्डार्थं ते प्रदास्यामि वरं वृणु यमिच्छसि।। ८.५७ प्रह्लाद उवाच नारायण वरं याचे यं त्वं मे दातुमर्हसि। तन्मे पापं लयं यातु शारीरं मानसं तथा।। ८.५८ वाचिकं च जगन्नाथ यत्त्वया सह युध्यतः. नरेण यद्यप्यभवद् वरमेतत्प्रयच्छ मे।। ८.५९ नारायण उवाच एवं भवतु दैद्येन्द्र पापं ते यातु संक्षयम्। द्वितीयं प्रार्थय वरं तं ददामि तवासुर।। ८.६० प्रह्लाद उवाच या या जायेत मे बुद्धिः सा सा विष्णो त्वदाश्रिता। देवार्चने च निरता त्वच्चित्ता त्वत्परायणा।। ८.६१ नारायण उवाच एवं भविष्यत्यसुर वरमन्यं यमिच्छसि। तं वृणीष्व महाबाहो प्रदास्याम्यविचारयन्।। ८.६२ प्रह्लाद उवाच सर्वमेव मया लब्धं त्वत्प्रसादादधोक्षज। त्वत्पादपङ्कजाभ्यां हि ख्यातिरस्तु सदा मम।। ८.६३ एवमस्त्वपरं चास्तु नित्यमेवाक्षयोऽव्ययः। अजरश्चामरश्चापि मत्प्रसादाद् भविष्यसि।। ८.६४ गच्छस्व दैत्यशार्दूल स्वमावासं क्रियारतः। न कर्मबन्धो भवतो मच्चित्तस्य भविष्यति।। ८.६५ प्रशासयदमून् दैत्यान् राज्यं पालय शाश्वतम्। स्वजातिसदृशं दैत्य कुरु धर्ममनुत्तमम्।। ८.६६ पुलस्त्य उवाच इत्युक्तो लोकनाथेन प्रह्लादो देवमब्रवीत्। कथं राज्यं समादास्ये परित्यक्तं जगद्गुरो।। ८.६७ तमुवाच जगत्स्वामी गच्छ त्वं निजमाश्रयम्। हितोपदेष्टा दैत्यानां दानवानां तथा भव।। ८.६८ नारायणेनैवमुक्तः स तदा दैत्यनायकः। प्रणिपत्य विभुं तुष्टो जगाम नगरं निजम्।। ८.६९ दृष्टः सभाजितश्चापि दानवैरन्धकेन च। निमन्त्रितश्च राज्याय न प्रत्यैच्छत्स नारद।। ८.७० राज्यं परित्यज्य महाऽसुरेन्द्रो नियोजयन् सत्पथि दानवेन्द्रान्। ध्यायन् स्मरन् केशवमप्रमेयं तस्थौ तदा योगविशुद्धदेहः।। ८.७१ एवं पुरा नारद दानवेन्द्रो नारायणेनोत्तमपूरुषेण। पराजितश्चापि विमुच्य राज्यं तस्थौ मनो धातरि सन्निवेश्य।। ८.७२ इति श्रीवामनपुराणे अष्टमोऽध्यायः ।। ८ ।। नारद उवाच नेत्रहीनः कथं राज्ये प्रह्लादेनान्धको मुने। अभिषिक्तो जानताऽपि राजधर्मं सनातनम्।। ९.१ पुलस्त्य उवाच लब्धचक्षुरसौ भूयो हिरण्याक्षेऽपि जीवति। ततोऽभिषिक्तो दैत्येन प्रह्लादेन निजे पदे।। ९.२ नारद उवाच राज्येऽन्धकोऽभिषिक्तस्तु किमाचरत सुव्रत। देवादिभिः सह कथं समास्ते तद् वदस्व मे।। ९.३ पुलस्त्य उवाच राज्येऽभिषिक्तो दैत्येन्द्रो हिरण्याक्षसुतोऽन्धकः। तपसाराध्य देवेशं शूलपाणिं त्रिलोचनम्।। ९.४ अजेयत्वमवध्यत्वं सुरसिद्धर्षिपन्नगैः। अदाह्यत्वं हुताशेन अक्लेद्यत्वं जलेन च।। ९.५ एवं स वरलब्धस्तु दैत्यो राज्यमपालयत्। शुक्रं पुरोहितं कृत्वा समध्यास्ते ततोऽन्धकः।। ९.६ ततश्चक्रे समुद्योगं देवानामन्धकोऽसुरः। आक्रम्य वसुधां सर्वां मनुजेन्द्रान् पराजयत्।। ९.७ पराजित्य महीपालान् सहायार्थे नियोज्य च। तैः समं मेरुशिखरं जगामाद्भुतदर्शनम्।। ९.८ शक्रोऽपि सुरसैन्यानि समुद्योज्य महागजम्। समारुह्यामरावत्यां गुप्तिं कृत्वा विनिर्ययौ।। ९.९ शक्रस्यानु तथैवान्ये लोकपाला महौजसः। आरुह्य वाहनं स्वं स्वं सायुधा निर्ययुर्बहिः।। ९.१० देवसेनाऽपि च समं शक्रोणाद्भुतकर्मणा निर्जगामातिवेगेन गजवाजिराथादिभिः।। ९.११ अग्रतो द्वादशादित्याः पृष्ठतश्च त्रिलोचनाः। मध्येऽष्टौ वसवो विश्वे साध्याश्विमरुतां गणाः। यक्षविद्याधराद्याश्च स्वं स्वं वाहनमास्थिताः।। ९.१२ नारद उवाच रुद्रादीनां वदस्वेह वाहनानि च सर्वशः। एकैकस्यापि धर्मत्र परं कौतूहलं मम।। ९.१३ पुलस्त्य उवाच श्रृणुष्व कथयिष्यामि सर्वेषामपि नारद। वाहनानि समासेन एकैकस्यानुपूर्वशः।। ९.१४ रुद्रहस्ततलोत्पन्नो महावीर्यो महाजवः। श्वेतवर्णो गजपतिर्देवराजस्य वाहनम्।। ९.१५ रुद्रोरुसंभवो भीमः कृष्णवर्णो मनोजवः। पौण्ड्रको नाम महिषो धर्मराजस्य नारद।। ९.१६ रुद्रकर्ममलोद्भूतः श्यामो जलधिसंज्ञकः। शिशुमारो दिव्यगतिः वाहनं वरुणस्य च।। ९.१७ रौद्रः शकटचक्राक्षः शैलाकारो नरोत्तमः। अम्बिकापादसंभूतो वाहनं धनदस्य तु।। ९.१८ एकादशानां रुद्राणां वाहनानि महामुने। गन्धर्वाश्च महावीर्या भुजगेन्द्राश्च दारुणाः। श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि च।। ९.१९ रथं चन्द्रमसश्चार्द्धूसहस्रं हंसवाहनम्। हरयो रथवाहाश्च आदित्या मुनिसत्तम।। ९.२० कुञ्जरस्थाश्च वसवो यक्षाश्च नरवाहनाः। किन्नरा भुजगारूढा हयारूढौ तथाश्विनौ।। ९.२१ सारङ्गधिष्ठिता ब्रह्मन् मरुतो घोरदर्शनाः। शुकारूढाश्च कवयो गन्धर्वाश्च पदातिनः।। ९.२२ आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः। संनह्य निर्ययुर्हृष्टा युद्धाय सुमहौजसः।। ९.२३ नारद उवाच गदितानि सुरादीनां वाहनानि त्वया मुने। दैत्यानां वाहनान्येवं यथावद् वक्तुमर्हसि।। ९.२४ पुलस्त्य उवाच श्रृणुष्व दानवादीनां वाहनानि द्विजोत्तम। कथयिष्यामि तत्त्वेन यथावच्छ्रोतुमर्हसि।। ९.२५ अन्धकस्य रथो दिव्यो युक्तः परमवाजिभिः। कृष्णवर्णैः सहस्रारस् त्रिनल्वपरिमाणवान्।। ९.२६ प्रह्लादस्य रथो दिव्यश्चन्द्रवर्णैर्हयोत्तमैः। उह्यमानस्तथाऽष्टाभिः श्वेतरुक्ममयः शुभः।। ९.२७ विरोचनस्य च गजः कुजम्भस्य तुरंगमः। जम्भस्य तु रथो दिव्यो हयैः काञ्जनसन्निभैः।। ९.२८ शङ्कुकर्णस्य तुरगो हयग्रीवस्य कुञ्जरः। रथो मयस्य विख्यातो दुन्दुभेश्च महोरगः। शम्बरस्य विमानोऽभूदयः शङ्कोर्मृगाधिपः।। ९.२९ बलवृत्रौ च बलिनौ गदामुसलधारिणौ। पद्भ्यां दैवतसैन्यानि अभिद्रवितुमुद्यतौ।। ९.३० ततो रणोऽभूत् तुमुलः संकुलोऽतिभयंकरः। रजसा संवृतो लोकी पिङ्गवर्णेन नारद।। ९.३१ नाज्ञासीच्च पिता पुत्रं न पुत्रः पितरं तथा। स्वानेवान्ये निजघ्नुर्वै परानन्ये च सुव्रत ।। ९.३२ अभिद्रुतो महावेगो रथोपरि रथस्तदा। गजो मत्तगजेन्द्रं च सादी सादिनमभ्यगात्।। ९.३३ पदातिरपि संक्रुद्धः पदातिनमथोल्बणम्। परस्परं तु प्रत्यघ्नन्नन्योन्यजयकाङ्क्षिणः।। ९.३४ ततस्तु संकुले तस्मिन् युद्धे दैवासुरे मुने। प्रावर्तत नदी घोरा शमयन्ती रणाद्रजः।। ९.३५ शोणितोदा रथावर्त्ता योधसंघट्टवाहिनी। गजकुम्भमहाकूर्मा शरमीना दुरत्यया।। ९.३६ तीक्ष्णाग्रप्रासमकरा महासिग्राहवाहिनी। अन्त्रशैवलसंकीर्णा पताकाफेनमालिनी।। ९.३७ गृध्रकङ्कमहाहंसा श्येनचक्राह्वमण्डिता। वनवायसकादम्बा गोमायुश्वापदाकुला।। ९.३८ पिशाचमुनिसंकीर्णा दुस्तरा प्राकृतैर्जनैः। रथप्लवैः संतरन्तः शूरास्तां प्रजगाहिरे।। ९.३९ आगुल्फादवमज्जन्तः सूदयन्तः परस्परम्। समुत्तरन्तो वेगेन योधा जयधनेप्सवः।। ९.४० ततस्तु रौद्रो सुरदैत्यसादने महाहवे भीरुभयंकरेऽथ। रक्षांसि यक्षाश्च सुसंप्रहृष्टाः पिशाचयूथास्त्वभिरेमिरे च।। ९.४१ पिबन्त्यसृग्गाढतरं भटानामालिङ्ग्य मांसानि च भक्षयन्ति। वसां विलुम्पन्ति च विस्फुरन्ति गर्जन्त्यथान्योन्यमथो वयांसि।। ९.४२ मुञ्चन्ति फेत्काररवाञ्शिवाश्च क्रन्दन्ति योधा भुवि वेदनार्त्ताः। शस्त्रप्रतप्ता निपतन्ति चान्ये युद्धं श्मशानप्रतिमं बभूव।। ९.४३ तस्मिञ्शिवाघोररवे प्रवृत्ते सुरासुराणां सुभयंकरे ह। युद्धं बभौ प्राणपणोपविद्धं द्वन्द्वेऽतिशस्त्राक्षगतो दुरोदरः।। ९.४४ हिरण्यचक्षुस्तनयो रणेऽन्धको रथे स्थितो वाजिसहस्रयोजिते। मत्तेभपृष्टस्थितमुग्रतेजसं समेयिवान् देवपतिं शतक्रतुम्।। ९.४५ समापतन्तं महिषाधिरूढं यमं प्रतीच्छद् बलवान् दितीशः। प्रह्लादनामा तुरगाष्टयुक्तं रथं समास्थाय समुद्यतास्त्रः।। ९.४६ विरोचनश्चापि जलेश्वरं त्वगाज्जम्भस्त्वथागाद् धनदं बलाढ्यम्। वायुं समभ्येत्य च शम्बरोऽथ मयो हुताशं युयुधे मुनीन्द्र।। ९.४७ अन्ये हयग्रीवमुखा महाबला दितेस्तनूजा दनुपुंगवाश्च। सुरान् हुताशार्कवसूरकेश्वरान् द्वन्द्वं समासाद्य महाबलान्विताः।। ९.४८ गर्जन्त्यथान्योन्यमुपेत्य युद्धे चापानि कर्षन्त्यतिवेगिताश्च। मुञ्चन्ति नाराचगणान् सहस्रश अगच्छ हे तिष्ठसि किं ब्रुवन्तः।। ९.४९ शरैस्तु तीक्ष्णैरतितापयन्तः शस्त्रैरमोघैरभिताडयन्तः। मन्दाकिनीवेगनिभां वहन्तीम् प्रवर्तयन्तो भयदां नदीं च।। ९.५० त्रैलोक्यमाकांक्षिभिरुग्रवेगैः सुरासुरैर्नारद संप्रयुद्धे। पिशाचरक्षोगणपुष्टिवर्धनीमुत्तर्तुमिच्छद्भिरसृग्नदी बभौ।। ९.५१ वाद्यन्ति तूर्याणि सुरासुराणाम् पश्यन्ति खस्था मुनिसिद्धसंघाः। नयन्ति तानप्सरसां गणाग्र्या हता रणे येऽभिमुखास्तु शूराः।। ९.५२ इती श्रीवामनपुराणे नवमोऽध्यायः ।। ९ ।। पुलस्त्य उवाच ततः प्रवृत्ते संग्रामे भीरूणां भयवर्धने। सहस्रक्षो महाचापमादाय व्यसृजच्छरान्।। १०.१ अन्धकोऽपि महावेगं धनुराकृष्य भास्वरम्। पुरंदराय चिक्षेप शरान् बर्हिणवाससः।। १०.२ तावन्योन्यं सुतीक्ष्णाग्रैः शरैः संनतपर्वभिः। रुक्मपुङ्खैर्महावेगैराजघ्नतुरुभावपि।। १०.३ ततः क्रुद्धः शतमखः कुलिशं भ्राम्य पाणिना। चिक्षेप दैत्यराजाय तं ददर्श तथान्धकः।। १०.४ आजघान च बाणौघैरस्त्रैः शस्त्रैः स नारद। तान् भस्मसात्तदा चक्रे नगानिव हुताशनः।। १०.५ ततोऽतिवेगिनं वज्रं दृष्ट्वा बलवतां वरः। समाप्लुत्य रथात्तस्थौ भुवि बाहु सहायवान्।। १०.६ रथं सारथिना सार्धं साश्वध्वजसकूबरम्। भस्म कृत्वाथ कुलिशमन्धकं समुपाययौ।। १०.७ तमापतन्तं वेगेन मुष्टिनाहत्य भूतले। पातयामास बलवान् जगर्ज च तदाऽन्धकः।। १०.८ तं गर्जमानं वीक्ष्याथ वासवः सायकैर्दृढम्। ववर्ष तान् वारयन् स समभ्यायाच्छतक्रतुम्।। १०.९ आजघान तलेनेभं कुम्भमध्ये पदा करे। जानुना च समाहत्य विषाणं प्रबभञ्ज च ।। १०.१० वाममुष्ट्या तथा पार्श्वं समाहत्यान्धकस्त्वरन्। गजेन्द्रं पातयामास प्रहारैर्जर्जरीकृतम्।। १०.११ गजेन्द्रात् पतमानाच्च अवप्लुत्य शतक्रतुः। पाणिना वज्रमादाय प्रविवेशामरावतीम्।। १०.१२ पराङ्मुखे सहस्राक्षे तदा दैवतबलं महत्। पातयामास द्रत्येन्द्रः पादमुष्टितलादिभिः।। १०.१३ ततो वैवस्वतो दण्डं परिभ्राम्य द्विजोत्तम। समभ्यधावत् प्रह्लादं हन्तुकामः सुरोत्तमः।। १०.१४ तमापतन्तं बाणोघैर्ववर्ष रविनन्दनम्। हिरण्यकशिपोः पुत्रश्चापमानम्य वेगवान्।। १०.१५ तां बाणवृष्टिमतुलां दण्डेनाहत्य भास्करिः। शातयित्वा प्रचिक्षेप दण्डं लोकभयंकरम्।। १०.१६ स वायुपथमास्थाय धर्मराजकरे स्थितः। जज्वाल कालग्निनिभो यद्वद् दग्धुं जगत्त्रयम्।। १०.१७ जाज्वल्यमानमायान्तं दण्डं दृष्ट्वा दितेः सुताः। प्राक्रोशन्ति हतः कष्टं प्रह्लादोऽयं यमेन हि।। १०.१८ तमाक्रन्दितमाकर्ण्य हिरण्याक्षसुतोऽन्धकः। प्रोवाच मा भैष्ट मयि स्थिते कोऽयं सुराधमः।। १०.१९ इत्येवमुक्त्वा वचनं वेगेनाभिससार च। जग्राह पाणिना दण्डं हसन् सव्येन नारद।। १०.२0 तमादाय ततो वेगाद् भ्रामयामास चान्धकः। जगर्ज च महानादं यथा प्रावृषि तोयदः।। १०.२१ प्रह्लादं रक्षितं दृष्ट्वा दण्डाद् दैत्येश्वरेण हि। साधुवादं ददुर्हृष्टा दैत्यदानवयूथपाः।। १०.२२ भ्रामयन्तं महादण्डं दृष्ट्वा भानुसुतो मुने। दुःसहं दुर्धरं मत्वा अन्तर्धानमगाद् यमः।। १०.२३ अन्तर्हिते धर्मराजे प्रह्लादोऽपि महामुने। दारयामास बलवान् देवसैन्यं समन्ततः।। १०.२४ वरुणः शिशुमारस्थो बद्ध्वा पाशैर्महाऽसुरान्। गदया दारयामास तमभ्यागाद् विरोचनः।। १०.२५ तोमरैर्वज्रसंस्पर्शैः शक्तिभिर्मार्गणैरपि। जलेशं ताडयामास मुद्गरैः कणपैरपि।। १०.२६ ततस्तं गदयाऽभ्येत्य पातयित्वा धरातले। अभिद्रुत्य बबन्धाथ पाशैर्मत्तगजं बली।। १०.२७ तान् पाशाञ्शतधा चक्रे वेगाच्च दनुजेश्वरः। वरुणं च समभ्येत्य मध्ये जग्राह नारद।। १०.२८ ततो दन्ती च श्रृङ्गाभ्यां प्रचिक्षेप तदाऽव्ययः। ममर्द च तथा पद्भ्यां सवाहं सलिलेश्वराम्।। १०.२९ तं मर्द्यमानं वीक्ष्याथ शशाङ्कः शिशिरांशुमान्। अभ्येत्य ताडयामास मार्गणैः कायदारणैः।। १०.३0 स ताड्यमानः शिशिरांशुबाणैरवाप पीडां परमां गजेन्द्रः। दुष्टश्च वेगात् पयसामधीशं मुहुर्मुहुः पादतलैर्ममर्द।। १०.३१ स मृद्यमानो वरुणो गजेन्द्रं पद्भ्यां सुगाढं जगृहे महर्षे। पादेषु भूमिं करयोः स्पृशंश्च मूर्द्धानमुल्लाल्य बलान्महात्मा।। १०.३२ गृह्याङ्गुलीभिश्च गजस्य पुच्छं कृत्वेह बन्धं भुजगेश्वरेण। उत्पाट्य चिक्षेप विरोचनं हि सकुञ्जरं खे सनियन्तृवाहम्।। १०.३३ क्षिप्तो जलेशेन विरोचनस्तु सकुञ्जरो भूमितले पपात। साट्टं सन्यत्रार्गलहर्म्यभूमि पुरं सुकेशेरिव भास्करेण।। १०.३४ ततो जलेशः सगदः सपाशः समभ्यधावद् दितिजं निहन्तुम्। ततः समाक्रन्दमनुत्तमं हि मुक्तं तु दैत्यैर्घनरावतुल्यम्।। १०.३५ हा हा हतोऽसौ वरुणेन वीरो विरोचनो दानवसैन्यपालः। प्रह्लाद हे जम्भकुजम्भकाद्या रक्षध्वमभ्येत्य सहान्धकेन।। १०.३६ अहो महात्मा बलवाञ्जलेशः संचूर्णयन् दैत्यभटं सवाहम्। पाशेन बद्ध्वा गदया निहन्ति यथा पशुं वाजिमखे महेन्द्रः।। १०.३७ श्रुतत्वाथ शब्दं दितिजैः समीरितं जम्भप्रधाना दितिजेश्वरास्ततः। समभ्यधावंस्त्वरिता जलेश्वरं यथा पतङ्गा ज्वलितं हुताशनम्।। १०.३८ तानागतान् वै प्रसमीक्ष्य देवः प्राह्लादिमुत्सृज्य वितत्य पाशम्। गदां समुद्भ्राम्य जलेश्वरस्तु दुद्राव तान् जम्भमुखानरातीन्।। १०.३९ जम्भं च पाशेन तथा निहत्य तारं तलेनाशनिसंनिभेन। पादेन वृत्रं तरसा कुजम्भं निपातयामास बलं च मुष्ट्या।। १०.४0 तेनार्दिता देववरेण दैत्याः संप्राद्रवन् दिक्षु विमुक्तशस्त्राः। ततोऽन्धकः सत्वरितोऽभ्युपेयाद् रणाय योद्धुं जलनायकेन।। १०.४१ तमापतन्तं गदया जघान पाशेन बद्ध्वा वरुणोऽसुरेशम्। तं पाशमाविध्य गदां प्रगृह्य चिक्षेप दैत्यः स जलेश्वराय।। १०.४२ तमापतन्तं प्रसमीक्ष्य पाशं गदां च दाक्षायणिनन्दनस्तु। विवेश वेगात् पयसां निधानं ततोऽन्धको देवबलं ममर्द।। १०.४३ ततो हुताशः सुरशत्रुसैन्यं ददाह रोषात् पवनावधूतः। तमभ्ययाद् दानवविश्वकर्मा मयो महाबाहुरुदग्रवीर्यः।। १०.४४ तमापतन्तं सह शम्बरेण समीक्ष्य वह्निः पवनेन सार्धम्। शक्त्या मयं शम्बरमेत्य कण्ठे संताड्य जग्राह बलान्महर्षे।। १०.४५ शक्त्या स कायावरणे विदारिते संभिन्नदेहो न्यपतत् पृथिव्याम्। मयः प्रजज्वाल च शम्वरोऽपि कण्ठावलग्ने ज्वलने प्रदीप्ते।। १०.४६ स दह्यमानो दितिजोऽग्निनाऽथ सुविस्वरं घोरतरं रुराव। सिंहाभिपन्नो विपिने यथैव मत्तो गजः क्रन्दति वेदनार्त्तः।। १०.४७ तं शब्दमाकर्ण्य च शम्बरस्य दैत्येश्वरः क्रोधविरक्तदृष्टिः। आः किं किमेतन्ननु केन युद्धे जितो मयः शम्बरदानवश्च।। १०.४८ ततोऽब्रुवन् दैत्यभटा दितीशं प्रदह्यते ह्येष हुताशनेन। रक्षस्व चाभ्येत्य न शक्यतेऽन्यैर्हुताशनो वारयितुं रणाग्रे।। १०.४९ इत्थं स दैत्यैरभिनोदितस्तु हिरण्यचक्षुस्तनयो महर्षे। उद्यम्य वेगात् परिघं हुताशं समाद्रवत् तिष्ठ तिष्ठ ब्रुवन् हि।। १०.५0 श्रुत्वाऽन्धकस्यापि वचोऽव्ययात्मा संक्रुद्धचित्तस्त्वरितो हि दैत्यम्। उत्पाट्य भूम्यां च विनिष्पिपेष ततोऽन्धकः पावकमाससाद।। १०.५१ समाजघानाथ हुताशनं हि वरायुधेनाथ वराङ्गमध्ये। समाहतोऽग्निः परिमुच्य शम्बरं तथाऽन्धकं स त्वरितोऽभ्यधावत्।। १०.५२ तमापतन्तं परिघेण भूयः समाहनन्मूर्ध्नि तदान्धकोऽपि। स ताडितोऽग्निर्दितिजेश्वरेण भयात् प्रदुद्राव रणाजिराद्वि।। १०.५३ ततोऽन्धको मारुतचन्द्रभास्करान् साध्यान् सरुद्राश्विवसून् महोरगान्। यान् याञ्शरेण स्पृशते पराक्रमी पराङ्मुखांस्तान्कृतवान् रणाजिरात्।। १०.५४ ततो विजित्यामरसैन्यमुग्रं सेन्द्रं सरुद्रं सयमं ससोमम्। संपूज्यमानो दनुपुंगवैस्तु तदाऽन्धको भूमिमुपाजगाम।। १०.५५ आसाद्य भूमिं करदान् नरेन्द्रान् कृत्वा वशे स्थाप्य चराचरं च। जगत्समग्रं प्रविवेश धीमान् पातालमग्र्यं पुरमश्मकाह्वम्।। १०.५६ तत्र स्थितस्यापि महाऽसुरस्य गन्धर्वविद्याधरसिद्धसंघाः। सहाप्सरोभिः परिचारणाय पातालमभ्येत्य समावसन्तःश्।। १०.५७ इति श्रीवामनपुराणे दशमोऽध्यायः ।। १० ।। नारद उवाच यदेतद् भवता प्रोक्तं सुकेशिनगरोऽम्बरात्। पातितो भुवि सूर्येण तत्कदा कुत्र कुत्र च ।। ११.१ सुकेशीति च कश्चासौ केन दत्तः पुरोऽस्य च। किमर्थं पातितो भूम्यामाकाशाद् भास्करेण हि।। ११.२ पुलस्त्य उवाच श्रृणुष्वावहितो भूत्वा कथामेतां पुरातनीम्। यथोक्तवान् स्वयंभूर्मां कथ्यमानां मयाऽनघ।। ११.३ आसीन्निशाचरपतिर्विद्युत्केशीति विश्रुतः। तस्य पुत्रो गुणज्येष्ठः सुकेशिरभवत्ततः।। ११.४ तस्य तुष्टस्तथेशानः पुरमाकाशचारिणम्। प्रादादजेयत्वमपि शत्रुभिश्चाप्यवध्यताम्।। ११.५ स चापि शंकरात् प्राप्य वरं गगनगं पुरम्। रेमे निशाचरैः सार्द्धं सदा धर्मपथि स्थितः।। ११.६ स कदाचिद् गतोऽरण्यं मागधं राक्षसेश्वरः। तत्राश्रमांस्तु ददृशे ऋषीणां भावितात्मनाम्।। ११.७ महर्षिन् स तदा दृष्ट्वा प्रणिपत्याभिवाद्य च। प्रत्युवाच ऋषीन् सर्वान् कृतासनपरिग्रहः।। ११.८ सुकेशिरुवाच प्रष्टुमिच्छामि भवतः संशयोऽयं हृदि स्थितः। कथयन्तु भवन्तो मे न चैवाज्ञापयाम्यहम्।। ११.९ किंस्विच्छ्रेयः परे लोके किमु चेह द्विजोत्तमाः। केन पूज्यस्तथा सत्सु केनासौ सुखमेधते।। ११.१० पुलस्त्य उवाच इत्थं सुकेशिवचनं निशम्य परमर्षयः। प्रोचुर्विमृश्य श्रेयोऽर्थमिह लोके परत्र च।। ११.११ ऋषय ऊचुः श्रूयतां कथयिष्यामस्तव राक्षसपुंगव। यद्धि श्रेयो भवेद् वीर इह चामुत्र चाव्ययम्।। ११.१२ श्रेयो धर्मः परे लोके इह च क्षणदाचर। तस्मिन् समाश्रितः सत्सु पूज्यस्तेन सुखी भवेत्।। ११.१३ सुकेशिरुवाच किं लक्षणो भवेद् धर्मः किमाचरणसत्क्रियः। यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम्।। ११.१४ ऋषय ऊचुः देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः। स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृता।। ११.१५ दैत्यानां बाहुशलित्वं मात्सर्यं युद्धसत्क्रिया। वेदनं नीतिशास्त्राणां हरभक्तिरुदाहृता।। ११.१६ सिद्धानामुदितो धर्मो योगयुक्तिरनुत्तमा। स्वाध्यायं ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा।। ११.१७ उत्कृष्टोपासनं ज्ञेयं नृत्यवाद्येषु वेदिता। सरस्वत्यां स्थिरा भक्तिर्गान्धर्वो धर्म उच्यते।। ११.१८ विद्याधरत्वमतुलं विज्ञानं पौरुषे मतिः। विद्याधराणां धर्मोऽयं भवान्यां भक्तिरेव च।। ११.१९ गन्धर्वविद्या वेदित्वं भक्तिर्भानौ तथा स्थिरा। कौशल्यं सर्वशिल्पानां धर्मः किंपुरुषः स्मृतः।। ११.२० ब्रह्मचर्यममानित्वं योगाभ्यासरतिर्दृढा। सर्वत्र कामचारित्वं धर्मोऽयं पैतृकः स्मृतः।। ११.२१ ब्रह्मचर्यं यताशित्वं जप्यं ज्ञानं च राक्षस। नियमाद्धर्मवेदित्वमार्षो धर्मः प्रचक्ष्यते।। ११.२२ स्वाध्यायं ब्रह्मचर्यं च दानं यजनमेव च। अकार्पण्यमनायासं दयाऽहिंसा क्षमा दमः।। ११.२३ जितेन्द्रियत्वं शौचं च माङ्गल्यं भक्तिरच्युते। शंकरे भास्करे देव्यां धर्मोऽयं मानवः स्मृतः।। ११.२४ धनाधिपत्यं भोगानि स्वाध्यायं शंकरार्चनम्। अहंकारमशौण्डीर्यं धर्मोऽयं गुह्यकेष्विति।। ११.२५ परदारावमर्शित्वं पारक्येऽर्थे च लोलुपा। स्वाध्यायं त्र्यम्बके भक्तिर्धर्मोऽयं राक्षसः स्मृतः।। ११.२६ अविवेकमथाज्ञानं शौचहानिरसत्यता। पिशाचानामयं धर्मः सदा चामिषगृध्नुता।। ११.२७ योनयो द्वादशैवैतास्तासु धर्माश्च राक्षस। ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः।। ११.२८ सुकेशिरुवाच भवद्भिरुक्ता ये धर्माः शाश्वता द्वादशाव्ययाः। तत्र ये मानवा धर्मास्तान् भूयो वक्तुमर्हथ।। ११.२९ ऋषयऊचुः श्रृणुष्व मनुजादीनां धर्मास्तु क्षणदाचर। ये वसन्ति महीपृष्ठे नरा द्वीपेषु सप्तसु।। ११.३० योजनानां प्रमाणेन पञ्चाशत्कोटिरायता। जलोपरि महीयं हि नौरिवास्ते सरिज्जले।। ११.३१ तस्योपरि च देवेशो ब्रह्म शौलेन्द्रमुत्तमम्। कर्णिकाकारमत्युच्चं स्थापयामास सत्तम।। ११.३२ तस्येमां निर्ममे पुण्यां प्रजां देवश्चतुर्दिशम्। स्थानानि द्वीपसंज्ञानि कृतवांश्च प्रजापतिः।। ११.३३ तत्र मध्ये च कृतवाञ्जम्बूद्वीपमिति श्रुतम्। तल्लक्षं योजनानां च प्रमाणेन निगद्यते।। ११.३४ ततो जलनिधी रौद्रो बाह्यतो द्विगुणः स्थितः। तस्यापि द्विगुणः प्लक्षो बाह्यतः संप्रतिष्ठितः।। ११.३५ ततस्त्विक्षुरसोदश्च बाह्यतो वलयाकृतिः। द्विगुणः शाल्मलिद्वीपो द्विगुणोऽस्य महोदधेः।। ११.३६ सुरोदो द्विगुणस्तस्य तस्माच्च द्विगुणः कुशः। घृतोदो द्विगुणश्चैव कुशद्वीपात् प्रकीर्तितः।। ११.३७ घृतोदाद् द्विगुणः प्रोक्तः क्रौञ्चद्वीपो निशाचर। ततोऽपि द्विगुणः प्रोक्तः समुद्रो दधिसंज्ञितः।। ११.३८ समुद्राद् द्विगुणः शाकः शाकाद् दुग्धाब्धिरुत्तमः। द्विगुणः संस्थितो यत्र शेषपर्यङ्कगो हरिः। एते च द्विगुणाः सर्वे परस्परमपि स्थिताः।। ११.३९ चत्वारिंशदिमाः कोट्यो लक्षाश्च नवतिः स्मृताः। योजनानां राक्षसेन्द्र पञ्च चाति सुविस्तृताः। जम्बूद्वीपात् समारभ्य यावत्क्षीराब्धिरन्ततः।। ११.४० तस्माच्च पुष्करद्वीपः स्वादूदस्तदनन्तरम्। कोट्यश्चतस्रो लक्षाणां द्विपञ्चाशच्च राक्षस।। ११.४१ पुष्करद्वीपमानोऽयं तावदेव तथोदधिः। लक्षमण्डकटाहेन समन्तादभिपूरितम्।। ११.४२ एवं द्वीपास्त्विमे सप्त पृथग्धर्माः पृथक्क्रियाः। गदिष्यामस्तव वयं श्रृणुष्व त्वं निशाचर।। ११.४३ प्लक्षादिषु नरा वीर ये वसन्ति सनातनाः। शाकान्तेषु न तेष्वस्ति युगावस्था कथंचन।। ११.४४ मोदन्ते देववत्तेषां धर्मो दिव्य उदाहृतः। कल्पान्ते प्रलयस्तेषां निगद्येत महाभुज।। ११.४५ ये जनाः पुष्करद्वीपे वसन्ते रौद्रदर्शने। पैशाचमाश्रिता धर्मं कर्मान्ते ते विनाशिनः।। ११.४६ सुकेशिरुवाच किमर्थं पुष्करद्वीपो भवद्भिः समुदाहृतः। दुर्दर्शः शौचरहितो घोरः कर्मान्तनाशकृत्।। ११.४७ तस्मिन् निशाचर द्वीपे नरकाः सन्ति दारुणाः। रौरवाद्यास्ततो रौद्रः पुष्करो घोरदर्शनः।। ११.४८ सुकेशिरुवाच कियन्त्येतानि रौद्राणि नरकाणि तपोधनः। कियन्मात्राणि मार्गेण का च तेषु स्वरूपता।। ११.४९ ऋषय ऊचुः श्रृणुष्व राक्षसश्रेष्ठ प्रमाणं लक्षणं तथा। सर्वेषां रौरवादीनां संख्या या त्वेकविंशतिः।। ११.५० द्वे सहस्रे योजनानां ज्वलिताङ्गारविस्तृते। रौरवो नाम नरकः प्रथमः परिकीर्त्तितः।। ११.५१ तप्तताम्रमयी भूमिरधस्ताद्वह्नितापिता। द्वितीयो द्विगुणस्तस्मान्महारौरव उच्यते।। ११.५२ ततोऽपि द्विःस्थितश्चान्यस्तमिस्रो नरकः स्मृतः। अन्धतामिस्रको नाम चतुर्थो द्विगुणः परः।। ११.५३ ततस्तु कालचक्रेति पञ्चमः परिगीयते। अप्रतिष्ठं च नरकं घटीयन्त्रं च सप्तमम्।। ११.५४ असिपत्रवनं चान्यत्सहस्राणि द्विसप्ततिः। योजनानां परिख्यातमष्टमं नरकोत्तमम्।। ११.५५ नममं तप्तकुम्भं च दशमं कूटशाल्मलिः। करपत्रस्तथैवोक्तस्तथाऽन्यः श्वानभोजनः।। ११.५६ संदंशो लोहपिण्डश्च करम्भसिकता तथा। घोरा क्षारनदी चान्या तथान्यः कृमिभोजनः। तथाऽष्टादशमी प्रोक्ता घोरा वैतरणी नदी।। ११.५७ तथाऽपरः शोणितपूयभोजनः क्षुराग्रधारो निशितश्च चक्रकः। संशोषणो नाम तथाप्यनन्तः प्रोक्तास्तवैते नरकाः सुकेशिन्।। ११.५८ इति श्रीवामनपुराणे एकादशोऽध्यायः ।। ११ ।। सुकेशिरुवाच कर्मणा नरकानेतान् केन गच्छन्ति वै कथम्। एतद् वदन्तु विप्रेन्द्राः परं कौतूहलं मम।। १२.१ ऋषय ऊचुः कर्मणा येन येनेह यान्ति शालकटंकट। स्वकर्मफलभोगार्थं नरकान् मे श्रृणुष्व तान्।। १२.२ वेददेवद्विजातीनां यैर्निन्दा सततं कृता। ये पुराणेतिहासार्थान् नाभिनन्दन्ति पापिनः।। १२.३ कुरुनिन्दाकरा ये च सखविघ्नकराश्च ये। दातुर्निवारकाये च तेषु ते निपतन्ति हि ।। १२.४ सुहृद्दम्पतिसोदर्यस्वामिभृत्यपितासुतान्। याज्योपाध्याययोर्यैश्च कृतो भेदोऽधमैर्मिथः।। १२.५ कन्यामेकस्य दत्त्वा च ददत्यन्यस्य येऽधमाः। करपत्रेण पाट्यन्ते ते द्विधा यमकिंकरैः।। १२.६ परोपतापजनकाश्चन्दनोशीरहारिणः। बालव्यजनहर्त्तारः करम्भसिकताश्रिताः।। १२.७ निमन्त्रितोऽन्यतो भुङ्क्ते श्राद्धे दैवे सपैतृके। स द्विधा कृष्यते मूढस्तीक्ष्णतुण्डैः खगोत्तमैः।। १२.८ मर्माणि यस्तु साधूनां तुदन् वाग्भिर्निकृन्तति। तस्योपरि तुदन्तस्तु तुण्डैस्तिष्ठन्ति पत्त्रिणः।। १२.९ यः करोति च पैशुन्यं साधूनामन्यथामतिः। वज्रतुण्डनखा जिह्वामाकर्षन्तेऽस्य वायसाः।। १२.१० मातापितृगुरूणां च येऽवज्ञां चक्रुरुद्धताः। मज्जन्ते पूयविण्मूत्रे त्वप्रतिष्ठे ह्यधोमुखाः।। १२.११ देवताऽतिथिभूतेषु भृत्येष्वभ्यागतेषु च। अभुक्तवत्सु येऽश्नन्ति बालपित्रग्निमातृषु।। १२.१२ दुष्टचासृक्पूयनिर्यासं भुञ्जते त्वधमा इमे। सूचीमुखाश्च जायन्ते क्षुधार्त्ता गिरिविग्रहाः।। १२.१३ एकपङ्क्त्युपविष्टानां विषमं भोजयन्ति ये। विड्भोजनं राक्षसेन्द्र नरकं ते व्रजन्ति च।। १२.१४ एकसार्थप्रयातं ये पश्यन्तश्चार्थिनं नराः। असंविभज्य भुञ्जन्ति ते यान्ति श्लेष्मभोजनम्।। १२.१५ गोब्राह्मणाग्नयः स्पृष्टा यैरुच्छिष्टैः क्षपाचर। क्षिप्यन्ते हि करास्तेषां तप्तकुम्भे सुदारुणे।। १२.१६ सूर्येन्दुतारका दृष्टा यैरुच्छिष्टैश्च कामतः। तेषां नेत्रगतो वह्निर्धम्यते यमकिंकरैः।। १२.१७ मित्रजायाथ जननी ज्येष्ठो भ्राता पिता स्वसा। जामयो गुरवो वृद्धा यैः संस्पृष्टाः पदा नृभिः।। १२.१८ बद्धाङ्घ्रयस्ते विगडैर्लोहैर्वह्निप्रतापितैः। क्षिप्यन्ते रौरवे घोरे ह्याजानुपरिदाहिनः।। १२.१९ पायसं कृशरं मांसं वृथा भुक्तानि यैर्नरैः। तेषामयोगुडास्तप्ताः क्षिप्यन्ते वदनेऽद्भुताः।। १२.२० गुरुदेवद्विजातीनां वेदानां च नराधमैः। निन्दा निशामिता यैस्तु पापानामिति कुर्वताम्।। १२.२१ तेषां लोहमयाः कीला वह्निवर्णाः पुनः पुनः। श्रवणेषु निखन्यन्ते धर्मराजस्य किंकरैः।। १२.२२ प्रपादेवकुलारामान् विप्रवेश्मसभामठान्। कूपवापीतडागांश्च भङ्क्त्वा विध्वंसयन्ति ये।। १२.२३ तेषां विलपतां चर्म देहतः क्रियते पृथक्। कर्त्तिकाभिः सुतीक्ष्णाभिः सुरौद्रैर्यमकिंकरैः।। १२.२४ गोब्राह्मणार्कमग्निं च ये वै मेहन्ति मानवाः। तेषां गुदेन चान्त्राणि विनिःकृन्तन्ति वायसाः।। १२.२५ स्वपोषणपरो यस्तु परित्यजति मानवः। पुत्रभृत्यकलत्रादिबन्धुवर्गमकिञ्चनम्। दुर्भिक्षे संभ्रमे चापि स श्वभोज्ये निपात्यते।। १२.२६ शरणागतं ये त्यजन्ति ये च बन्धनपालकाः। पतन्ति यन्त्रपीडे ते ताड्यमानास्तु किंकरैः।। १२.२७ क्लेशयन्ति हि विप्रादीन् ये ह्यकर्मसु पापिनः। ते पिष्यन्ते शिलापेषे शोष्यन्तेऽपि च शोषकैः।। १२.२८ न्यासापहारिणः पापा बध्यन्ते निगडैरपि। श्रुत्क्षामाः शुष्कताल्वोष्ठाः पात्यन्ते वृश्चिकाशने।। १२.२९ पर्वमैथुनिनः पापाः परदाररताश्च ये। ते वह्नितप्तां कूटाग्रामालिङ्गन्ते च शाल्मलीम्।। १२.३० उपाध्यायमधःकृत्य यैरधीतं द्विजाधमैः। तेषामध्यापको यश्च स शिलां शिरसा वहेत्।। १२.३१ मूत्रश्लेष्मपुरीषाणि यैरुत्सृष्टानि वारिणि। ते पात्यन्ते च विण्मूत्रे दुर्गन्धे पूयपूरिते।। १२.३२ श्राद्धातिथेयमन्योन्यं यैर्भुक्तं भुवि मानवैः। परस्परं भक्षयन्ते मांसानि स्वानि बालिशाः।। १२.३३ वेदवह्निगुरुत्यागी भार्यापित्रोस्तथैव च। गिरिश्रृड्गादधःपातं पात्यन्ते यमकिंकरैः।। १२.३४ पुनर्भूपतयो ये च कन्या विध्वंसकाश्च ये। तद्गर्भश्राद्धभुग् यश्च कृमीन्भक्षेत्पिपीलिकाः।। १२.३५ चाण्डालादन्त्यजाद्वापि प्रतिगृह्णाति दक्षिणाम्। याजको यजमानश्च सोऽस्मान्तः स्थूलकीटकः।। १२.३६ पृष्ठमांसाशिनो मूढास्तथैवोत्कोचजीविनः। क्षिप्यन्ते वृकभक्षे ते नरके रजनीचर।। १२.३७ स्वर्णस्तेयी च ब्रह्मघ्नः सुरापो गुरुलल्पगः। तथा गोभूमिहर्त्तरो गोस्त्रीबालहनाश्च ये।। १२.३८ एते नरा द्विजा ये च गोषु विक्रयिणस्तथा। सोमविक्रयिणो ये च वेदविक्रयिणस्तथा।। १२.३९ कूटसभ्यास्त्वशौचाश्च नित्यनैमित्तनाशकाः। कूटसाक्ष्यप्रदा ये च ते महारौरवे स्थिताः।। १२.४० दशवर्ष सहस्राणि तावत् तामिस्रके स्थिताः। तावच्चैवान्धतामिस्रे असिपत्रवने ततः।। १२.४१ तावच्चैव घटीयन्त्रे तप्तकुम्भे ततः परम्। प्रपातो भवते तेषां यैरिदं दुष्कृतं कृतम्।। १२.४२ ये त्वेते नरका रौद्रा रौरवाद्यास्तवोदिताः। ते सर्वे क्रमशः प्रोक्ताः कृतघ्ने लोकनिन्दिते।। १२.४३ यथा सुराणां प्रवरो जनार्दनो यथा गिरीणामपि शैशिराद्रिः। यथायुधानां प्रवरं सुदर्शनं यथा खगानां विनतातनूजः। महोरगाणां प्रवरोऽप्यनन्तो यथा च भूतेषु मही प्रधाना।। १२.४४ नदीषु गङ्गा जलजेषु पद्मं सुरारिमुख्येषु हराङ्घ्रिभक्तः। क्षेत्रेषु यद्वत्कुरुजङ्गलं वरं तीर्थेषु यद्वत् प्रवरं पृथूदकम्।। १२.४५ सरस्सु चैवोत्तरमानसं यथा वनेषु पुण्येषु हि नन्दनं यथा। लोकेषु यद्वत्सदनं विरिञ्चेः सत्यं यथा धर्मविधिक्रियासु।। १२.४६ यथाऽश्वमेधः प्रवरः क्रतूनां पुत्रो यथा स्पर्शवतां वरिष्ठः। तपोधनानामपि कुम्भयोनिः श्रुतिर्वरा यद्वदिहागमेषु।। १२.४७ मुख्यः पुराणेषु यथैव मात्स्यः स्वायंभुवोक्तिस्त्वपि संहितासु। मनुः स्मृतीनां प्रवरो यथैव तिथीषु दर्शा विषुवेषु दानम्।। १२.४८ तेजस्विनां यद्वदिहार्क उक्तो ऋक्षेषु चन्द्रो जलधिर्ह्वदेषु। भवान् यथा राक्षससत्तमेषु पाशेषु नागस्तिमितेषु बन्धः।। १२.४९ धान्येषु शालिर्द्विपदेषु विप्रः चतुष्पदे गौः श्वपदां मृगेन्द्रः। पुष्पेषु जाती नगरेषु काञ्ची नारीषु रम्भा श्रमीणां गृहस्थः।। १२.५० कुशस्थली श्रेष्ठतमा पुरेषु देशेषु सर्वेषु च मध्यदेशः। फलेषु चूतो मुकुलेष्वशोकः सर्वौषधीनां प्रवरा च पथ्या।। १२.५१ मूलेषु कन्दः प्रवरो यथोक्तो व्याधिष्वजीर्णं क्षणदाचरेन्द्र। श्वेतेषु दुग्धं प्रवरं यथैव कार्पासिकं प्रावरणेषु यद्वत्।। १२.५२ कलासु मुख्या गणितज्ञता च विज्ञानमुख्येषु यथेन्द्रजालम्। शाकेषु मुख्या त्वपि काकमाची रसेषु मुख्यं लवणं यथैव।। १२.५३ तुङ्गेषु तालो नलिनीषु पम्पा वनौकसेष्वेव च ऋक्षराजः। महीरुहेष्वेव यथा वटश्च यथा हरो ज्ञानवतां वरिष्ठः।। १२.५४ यथा सतीनां हिमवत्सुता हि यथार्जुनीनां कपिला वरिष्ठा। यथा वृषाणामपि नीलवर्णो यथैव सर्वेष्वपि दुःसहेषु। दुर्गेषु रौद्रेषु निशाचरेश नृपातनं वैतरणी प्रधाना।। १२.५५ पापीयसां तद्वदिह कृतघ्नः सर्वेषु पापेषु निशाचरेन्द्र। ब्रह्मघ्नगोघ्नादिषु निष्कृतिर्हि विद्येत नैवास्य तु दुष्टचारिणः। न निष्कृतिश्चास्ति कृतघ्नवृत्तेः सुहृत्कृतं नाशयतोऽब्दकोटिभिः।। १२.५६ इति श्रीवामनपुराणे द्वादशोऽध्यायः ।। १२ ।। सुकेशिरुवाच भवद्भिरुदिता घोरा पुष्करद्वीपसंस्थितिः। जम्बूद्वीपस्य संस्थानं कथयन्तु महर्षयः।। १३.१ ऋषय ऊचुः जम्बूद्वीपस्य संस्थानं कथ्यमानं निशामय। नवभेदं सुविस्तीर्णं स्वर्गमोक्षफलप्रदम्।। १३.२ मध्ये त्विलावृतो वर्षो भद्रश्वः पूर्वतोऽद्भुतः। पूर्व उत्तरतश्चापि हिरण्यो राक्षसेश्वर।। १३.३ पूर्वदक्षिणतश्चापि किंनरो वर्ष उच्यते। भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपश्चिमे।। १३.४ पश्चिमे केतुमालश्च रम्यकः पश्चिमोत्तरे। उत्तरे च कुरुर्वर्षः कल्पवृक्षसमावृतः।। १३.५ पुण्या रम्या नवैवैते वर्षाः शालकटंकट। इलावृताद्या ये चाष्टौ वर्षं मुक्त्वैव भारतम्।। १३.६ न तेष्वस्ति युगावस्था जरामृत्युभयं न च। तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः। विपर्ययो न तेष्वस्ति नोत्तमाधममध्यमाः।। १३.७ यदेतद् भारतं वर्षं नवद्वीपं निशाचर। सागरान्तरिताः सर्वे अगम्याश्च परस्परम्।। १३.८ इन्द्रद्वीपः कसेरुमांस्ताम्रवर्णो गभस्तिमान्। नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा।। १३.९ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः। कुमाराख्यः परिख्यातो द्वीपोऽयं दक्षिणोत्तरः।। १३.१० पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः। आन्ध्रा दक्षिणतो वीर तुरुष्कास्त्वपि चोत्तरे।। १३.११ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्तरवासिनः। इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः।। १३.१२ तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते। स्वर्गापवर्गप्राप्तिश्च पुण्यं पापं तथैव च ।। १३.१३ महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः। विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः।। १३.१४ तथान्ये शतसाहस्रा भूधरा मध्यवासिनाः। विस्तारोच्छ्रायिणो रम्या विपुलाः शुभसानवः।। १३.१५ कोलाहलः सवैभ्राजो मन्दरो दुर्दराचलः। वातंधमो वैद्युतश्च मैनाकः सरसस्तथा।। १३.१६ तुङ्गप्रस्थो नागगिरिस्तथा गोवर्धनाचलः। उज्जायनः पुष्पगिरिरर्बुदो रैवतस्तथा।। १३.१७ ऋष्यमूकः सगोमन्तश्चित्रकूटः कृतस्मरः। श्रीपर्वतः कोङ्कणश्च शतशोऽन्येऽपि पर्वताः।। १३.१८ तैर्विमिश्रा जनपदा म्लेच्छा आर्याश्च भागशः। तैः पीयन्ते सरिच्छ्रेष्ठा यास्ताः सम्यङ् निशामयः।। १३.१९ सरस्वती पञ्चरूपा कालिन्दी सहिरण्वती। शतद्रुश्चन्द्रिका नीला वितस्तैरावती कुहूः।। १३.२० मधुरा हाररावी च उशीरा धातुकी रसा। गोमती धूतपापा च बाहुदा सदृषद्वती।। १३.२१ निश्चिरा गण्डकी चित्रा कौशिकी च वधूसरा। सरयूश्च सलौहित्या हिमवत्पादनिःसृताः।। १३.२२ वेदस्मृतिर्वेदसिनी वृत्रघ्नी सिन्धुरेव च। पर्णाशा नन्दिनी चैव पावनी च मही तथा।। १३.२३ पारा चर्मण्वती लूपी विदिशा वेणुमत्यपि। सिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः।। १३.२४ शोणो महानदश्चैव नर्मदा सुरसा कृपा। मन्दाकिनी दशार्णा च चित्रकूटापवाहिका।। १३.२५ चित्रोत्पला वै तमसा करमोदा पिशाचिका। तथान्या पिप्पलश्रोणी विपाशा वञ्जुलावती।। १३.२६ सत्सन्तजा शुक्तिमती मञ्जिष्ठा कृत्तिसा वसुः। ऋक्षपादप्रसूता च तथान्या बलवाहिनी।। १३.२७ शिवा पयोष्णी निर्विन्ध्या तापी सनिषधावती। वेण वैतरणी चैव सिनीबाहुः कुमुद्वती।। १३.२८ तोया चैव महागौरी दुर्गन्धा वाशिलाः तथा। विन्ध्यपादप्रसूताश्च नद्यः पुण्यजलाः शुभाः।। १३.२९ गोदावरी भीमरथी कृष्णा वेणा सरस्वती। तुङ्गभद्रा सुप्रयोगा वाह्या कावेरिरेव च।। १३.३० दुग्धोदा नलिनी रेव वारिसेना कलस्वना। एतास्त्वपि महानद्यः सह्यपादविनिर्गताः।। १३.३१ कृतमाला ताम्रपर्णी वञ्जुला चोत्पलावती। सिनी चैव सुदामा च शुक्तिमत्प्रभवास्त्विमाः।। १३.३२ सर्वाः पुण्याः सरस्वत्यः पापप्रशमनास्तथा। जगतो मातरः सर्वाः सर्वाः सागरयोषितः।। १३.३३ अन्याः सहस्रशश्चात्र क्षुद्रनद्यो हि राक्षस। सदाकालवहाश्चान्याः प्रावृट्कालवहास्तथा। उदङ्मध्योद्भवा देशाः पिबन्ति स्वेच्छया शुभाः।। १३.३४ मत्स्याः कुशट्टाः कुणिकुण्डलाश्च पाञ्चालकाश्याः सह कोसलाभिः।। १३.३५ वृकाः शबरकौवीराः सभूलिङ्गा जनास्त्विमे। शकाश्चैव समशका मध्यदेश्या जनास्त्विमे।। १३.३६ बाह्लीका वाटधानाश्च आभीराः कालतोयकाः। अपरान्तास्तथा शूद्राः पह्लवाश्च सखेटकाः।। १३.३७ गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः। शातद्रवा ललित्थाश्च पारावतसमूषकाः।। १३.३८ माठरोदकधाराश्च कैकैया दशमास्तथा। क्षत्रियाः प्रातिवैश्याश्च वैश्यशूद्रकुलानि च।। १३.३९ काम्बोजा दरदाश्चैव बर्बरा ह्यङ्गलौकिकाः। चीनाश्चैव तुषाराश्च बहुधा बाह्यतोदराः।। १३.४० आत्रेयाः सभरद्वाजाः प्रस्थलाश्च दशेरकाः। लम्पकास्तावकारामाः शूलिकास्तङ्गणैः सह।। १३.४१ औरसाश्चालिमद्राश्च किरातानां च जातयः। तामसाः क्रममासाश्च सुपार्श्वाः पुण्ड्रकास्तथा।। १३.४२ कुलूताः कुहुका ऊर्णास्तूणीपादाः सुकुक्कुटाः। माण्डव्या मालवीयाश्च उत्तरापथवासिनः।। १३.४३ अङ्गा वङ्गा मुद्गरवास्त्वन्तर्गिरिबहिर्गिराः। तथा प्रवङ्गा वाङ्गेया मांसादा बलदन्तिकाः।। १३.४४ ब्रह्मोत्तरा प्राविजया भार्गवाः केशबर्बराः। प्रग्ज्योतिषाश्च शूद्रश्च विदेहास्ताम्रलिप्तकाः।। १३.४५ माला मगधगोनन्दाः प्राच्य जनपदास्त्विमे। पुण्ड्राश्च केरलाश्चैव चौडाः कुल्याश्च राक्षस।। १३.४६ जातुषा मूषिकादाश्च कुमारादा महाशकाः। महाराष्ट्रा माहिषिकाः कालिङ्गाश्चैव सर्वशः।। १३.४७ आभीराः सह नैषीका आरण्याः शबराश्च ये। बलिन्ध्या विन्ध्यमौलेया वैदर्भा दण्डकैः सह।। १३.४८ पौरिकः सौशिकाश्चैव अश्मका भोगवर्द्धनाः। वैषिकाः कुन्दला अन्ध्रा उद्भिदा नलकारकाः। दाक्षिणात्या जनपदास्त्विमे शालकटङ्कटः।। १३.४९ सूर्पारका कारिवना दुर्गास्तालीकटैः सह। पुलीयाः ससिनीलाश्च तापसास्तामसास्तथा।। १३.५० कारस्करास्तु रमिनो नासिक्यान्तरनर्मदाः। भारकच्छाः समाहेयाः सह सारस्वतैरपि।। १३.५१ वात्सेयाश्च सुराष्ट्राश्च आवन्त्याश्चार्बुदैः सह। इत्येते पश्चिमामाशां स्थिता जानपदा जनाः।।। १३.५२ कारुषाश्चैकलव्याश्च मेकलाश्चोत्कलैः सह। उत्तमर्णा दशार्णाश्च भोजाः किंकवरैः सह।। १३.५३ तोशला कोशलाश्चैव त्रैपुराश्चैल्लिकास्तथा। तुरुसास्तुम्बराश्चैव वहनाः नैषधैः सह।। १३.५४ अनूपास्तुण्डिकेराश्च वीतहोत्रास्त्ववन्तयः। सुकेशे वन्ध्यमूलस्थस्त्विमे जनपदाः स्मृताः।। १३.५५ अथो देशान् प्रवक्ष्यामः पर्वताश्रयिणस्तु ये। निराहारा हंसमार्गाः कुपथास्तङ्गणाः खशाः।। १३.५६ कुथप्रावरणाश्चैव ऊर्णाः पुण्याः सहूहुकाः। त्रिगर्त्ताश्च किराताश्च तोमराः शिशिराद्रिकाः।। १३.५७ इमे तवोक्ता विषयाः सुविस्तराद् द्वीपे कुमारे रजनीचरेश। एतेषु देशेषु च देशधर्मान् संकीर्त्यमानान् श्रृणु तत्त्वतो हि।। १३.५८ इती श्रीवामनपुराणे त्रयोदशोऽध्यायः ।। १३ ।। ऋषयऊचुः अहिंसा सत्यमस्तेयं दानं क्षान्तिर्दमः शमः। अकार्पण्यं च शौचं च तपश्च रजनीचर।। १४.१ दशाङ्गो राक्षसश्रेष्ठ धर्मोऽसौ सार्ववर्णिकः। ब्राह्मणस्यापि विहिता चातुराश्रम्यकल्पना।। १४.२ सुकेशिरुवाच विप्राणां चातुराश्रम्यं विस्तरान्मे तपोधनाः। आचक्षध्वं न मे तृप्तिः श्रृण्वतः प्रतिपद्यते।। १४.३ ऋषय ऊचुः कृतोपनयनः सम्यग् ब्रह्मचारी गुरौ वसेत्। तत्र धर्मोऽस्य यस्तं च कथ्यमानं निशामय।। १४.४ स्वाध्यायोऽथाग्निशुश्रूषा स्नानं भिक्षाटनं तथा। गुरोर्निंवेद्य तच्चाद्यमनुज्ञातेन सर्वदा।। १४.५ गुरोः कर्मणि सोद्योगः सम्यक्प्रीत्युपपादनम्। तेनाहूतः पठेच्चैव तत्परो नान्यमानसः।। १४.६ एकं द्वौ सकलान् वापि वेदान् प्राप्य सुरोर्मुखात्। अनुज्ञातो वरं दत्त्वा गुरवे दक्षिणां ततः।। १४.७ गार्हस्थ्याश्रमकामस्तु गार्हस्थ्याश्रममावसेत्। वानप्रस्थाश्रमं वाऽपि चतुर्थं स्वेच्छयात्मनः।। १४.८ तत्रैव वा गुरोर्गेहे द्विजो निष्ठामवाप्नुयात्। गुरोरभावे तत्पुत्रे तच्छिष्ये तत्सुतं विना।। १४.९ शुश्रूषन् निरभीमानो ब्रह्मचर्याश्रमं वसेत्। एवं जयति मृत्युं स द्विजः शालकटङ्कट।। १४.१० उपावृत्तस्ततस्तस्माद् गृहस्थाश्रमकाम्यया। असमानर्षिकुलजां कन्यामुद्वहेद् निशाचर।। १४.११ स्वकर्मणा धनं लब्ध्वा पितृदेवातिथीनपि। सम्यक् संप्रीणयेद् भक्त्या सदाचाररतो द्विजः।। १४.१२ सदाचारो निगदितो युष्माभिर्मम सुव्रताः। लक्षणं श्रोतुमिच्छामि कथयध्वं तमद्य मे।। १४.१३ ऋषय ऊचुः सदाचारो निगदितस्तव योऽस्माभिरादरात्। लक्षणं तस्य वक्ष्यामस्तच्छृणुष्व निशाचर।। १४.१४ गृहस्थेन सदा कार्यमाचारपरिपालनम्। न ह्याचारविहीनस्य भद्रमत्र परत्र च।। १४.१५ यज्ञदानतपांसीह पुरुषस्य न भूतये। भवन्ति यः समुल्लङ्घ्य सदाचारं प्रवर्तते।। १४.१६ हुराचारो हि पुरुषो नेह नामुत्र नन्दते। कार्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम्।। १४.१७ तस्य स्वरूपं वक्ष्यामः सदाचारस्य राक्षस। श्रृणुष्वैकमनास्तच्च यदि श्रेयोऽभिवाञ्छसि।। १४.१८ धर्मोऽस्य मूलं धनमस्य शाखा पुष्पं च कामः फलमस्य मोक्षः। असौ सदाचारतरुः सुकेशिन् संसेवितो येन स पुण्यभोक्त।। १४.१९ ब्रह्मो मुहूर्ते प्रथमं विबुध्येदनुस्मरेद् देववरान् महर्षिन्। प्राभातिकं मङ्गलमेव वाच्यं यदुक्तवान् देवपतिस्त्रिनेत्रः।। १४.२० सुकेशिरुवाच किं तदुक्तं सुप्रभातं शंकरेण महात्मना। प्रभाते यत् पठन्मर्त्यो मुच्यते पापबन्धनात्।। १४.२१ ऋषय ऊचुः श्रूयतां राक्षसश्रेष्ठ सुप्रभातं हरोदितम्। श्रुत्वा स्मृत्वा पठित्वा च सर्वपापैः प्रमुच्यते।। १४.२२ ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च। गुरुश्च शुक्रः सह भानुजेन कुर्वन्तु सर्वे मम सुप्रभातम्।। १४.२३ भृगुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहः सगौतमः। रैभ्यो मरीचिश्च्यवनो ऋभुश्च कुर्वन्तु सर्वे मम सुप्रभातम्।। १४.२४ सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च। सप्त स्वराः सप्त रसातलाश्च कुर्वन्तु सर्वे मम सुप्रभातम्।। १४.२५ पृथ्वी सगन्धा सरसास्तथाऽऽपः स्पर्शश्च वायुर्ज्वलनः सतेजाः। नभः सशब्दं महता सहैव यच्छन्तु सर्वे मम सुप्रभातम्।। १४.२६ सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवराश्च सप्त। भूरादि कृत्वा भुवनानि सप्त ददन्तु सर्वे मम सुप्रभातम्।। १४.२७ इत्थं प्रभाते परमं पवित्रं पठेत् स्मरेद्वा श्रृणुयाच्च भक्त्या। दुःस्वप्ननाशोऽनघ सुप्रभातं भवेच्च सत्यं भगवत्प्रसादात्।। १४.२८ ततः समुत्थाय विचिन्तयेन धर्मं तथार्थं च विहाय शय्याम्। उत्थाय पश्चाद्धरिरित्युदीर्य गच्छेत् तदोत्सर्गविधिं हि कर्तुम्।। १४.२९ न देवगोब्राह्मणवह्निमार्गे न राजमार्गे न चतुष्पथे च। कुर्यादथोत्सर्गमपीह गोष्ठे पूर्वापरां चैव समाश्रितो गाम्।। १४.३० ततस्तु शौचार्थमुपाहरेन्मृदं गुदे त्रयं पाणितले च सप्त। तथोभयोः पञ्च चतुस्तथैकां लिङ्गे तथैकां मृदमाहरेत।। १४.३१ नान्तर्जलाद्राक्षस मूषिकस्थलात् शौचावशिष्टा शरणात् तथान्या। वल्मीकमृच्चैव हि शौचनाय ग्राह्य सदाचारविदा नरेण।। १४.३२ उदङ्मुखः प्राङ्मुखो वापि विद्वान् प्रक्षाल्य पादौ भुवि संनिविष्टः। समाचमेदद्भिरफेनिलाभिरादौ परिमृज्य मुखं द्विरद्भिः।। १४.३३ ततः स्पृशेत्खानि शिरः करेण संध्यामुपासीत ततः क्रमेण। केशांस्तु संशोध्य च दन्तधावनं कृत्वा तथा दर्पणदर्शनं च।। १४.३४ कृत्वा शिरःस्नानमथाङ्गिकं वा संपूज्य तोयेन पितॄन् सदेवान्। होमं च कृत्वालभनं शुभानां कृत्वा बहिर्निर्गमनं प्रशस्तम्।। १४.३५ दूर्वादधिसर्पिरथोदकुम्भं धेनुं सवत्सां वृषभं सुवर्णम्। मृद्गोमयं स्वस्तिकमक्षतानि लाजामधु ब्राह्मणकन्यकां च।। १४.३६ श्वेतानि पुष्पाण्यथ शोभनानि हुताशनं चन्दनमर्कबिम्बम्। अश्वत्थवृक्षं च समालभेत ततस्तु कुर्यान्निजजातिधर्मम्।। १४.३७ देशानुशिष्टं कुल धर्ममग्र्यं स्वगोत्रधर्मं न हि संत्यजेत। तेनार्थसिद्धिं समुपाचरेत नासत्प्रलापं न च सत्यहीनम्।। १४.३८ न निष्ठुरं नागमशास्त्रहीनं वाक्यं वदेत्साधुजनेन येन। निन्द्यो भवेन्नैव च धर्मभेदी संगं न चासत्सु नरेषु कुर्यात्।। १४.३९ संध्यासु वर्ज्यं सुरतं दिवा च सर्वासु योनीषु पराबलासु। आगारशून्येषु महीतलेषु रजस्वलास्वेव जलेषु वीर।। १४.४० वृथाऽटनं वृथा दानं वृथा च पशुमारणम्। न कर्त्तव्यं गृहस्थेन वृता दारपरिग्रहम्।। १४.४१ वृथाऽटनान्नित्यहानिर्वृथा दानाद्धनक्षयः। वृथा पशुघ्नः प्राप्नोति पातकं नरकप्रदम्।। १४.४२ संतत्या हानिरश्लाघ्या वर्णसंकरतो भयम्। भेतव्यं च भवेल्लोके वृथादारपरिग्रहात्।। १४.४३ परस्वे परदारे च न कार्या बुद्धिरुत्तमैः। परस्वं नरकायैव परदाराश्च मृत्यवे।। १४.४४ नेक्षेत् परस्त्रियं नग्नां न संभाषेन तस्करान्। उद्क्यादर्शनं स्पर्शं संभाषं च विवर्जयेत्।। १४.४५ नैकासने तथा स्थेयं सोदर्या परजायया। तथैव स्यान्न मातुश्च तथा स्वदुहितुस्त्वपि।। १४.४६ न च स्नायीत वै नग्नो न शयीत कदाचन। दिग्वाससोऽपि न तथा परिभ्रमणमिष्यते।। भिन्नासनभाजनादीन् दूरतः परिवर्जयेत्।। १४.४७ नन्दासु नाभ्यङ्गमुपाचरेत क्षौरं च रिक्तासु जयासु मांसम्। पूर्णासु योषित्परिवर्जयेत भद्रासु सर्वाणि समाचरेत।। १४.४८ नाभ्यङ्गमर्के न च भूमिपुत्रे क्षौरं च शुक्रे रविजे च मांसम्। बुधेषु योषिन्न समाचरेत शेषेषु सर्वाणि सदैव कुर्यात्।। १४.४९ चित्रासु हस्ते श्रवणे च तैलं क्षौरं विशाखास्वभिजित्सुवर्ज्यम्। मूले मृगे भाद्रपदासु मांसं योषिन्मघा कृत्तिकयोत्तरासु।। १४.५० सदैव वर्ज्यं शयनमुदक्शिरासु तथा प्रतीच्यां रजनीचरेश। भुञ्जीत नैवेह च दक्षिणामुखो न च प्रतीच्यामभिभोजनीयम्।। १४.५१ देवालयं चैत्यतरुं चतुष्पथं विद्याधिकं चापि गुरुं प्रदक्षिणम्। माल्यान्नपानं वसनानि यत्नतो नान्यैर्धृतांश्चापि हि धारयेद् बुधः।। १४.५२ स्नायाच्छिरःस्नानतया च नित्यं न कारणं चैव विना निशासु। ग्रहोपरागे स्वजनापयाते मुक्त्वा च जन्मर्क्षगते शशाङ्के।। १४.५३ नाभ्यङ्गितं कायमुपस्पृशेच्च स्नातो न केशान् विधुनीत चापि। गात्राणि चैवाम्बरपाणिना च स्नातो विमृज्याद् रजनीचरेश।। १४.५४ वसेच्च देशेषु सुराजकेषु सुसंहितेष्वेव जनेषु नित्यम्। अक्रोधना न्यायपरा अमत्सराः कृषीवला ह्योषधयश्च यत्र।। १४.५५ न तेषु देशेषु वसेत बुद्धिमान् सदा नृपो दण्डरुचिस्त्वशक्तः। जनोऽपि नित्योत्सवबद्धवैरः सदा जिगीषुश्च निशाचरेन्द्र।। १४.५६ इति श्रीवामनपुराणे चतुर्दशोऽध्यायः ।। १४ ।। पुलस्त्य उवाच ततः सुकेशिर्देवर्षे गत्वा स्वपुरमुत्तमम्। समाहूयाब्रवीत् सर्वान् राक्षसान् धार्मिकं वचः।। १५.१ अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः। दानं दया च क्षान्तिश्व ब्रह्मचर्यममानिता।। १५.२ शुभा सत्या च मधुरा वाङ् नित्यं सत्क्रिया रतिः। सदाचारनिषेवित्वं परलोकप्रदायकाः।। १५.३ इत्यूचुर्मुनयो मह्यं धर्ममाद्यं पुरातनम्। सोहमाज्ञापये सर्वान् क्रियतामविकल्पतः।। १५.४ पुलस्त्य उवाच ततः सुकेशिवचनात् सर्व एव निशाचराः। त्रयोदशाङ्गं ते धर्म चक्रुर्मुदितमानसाः।। १५.५ ततः प्रवृद्धिं सुतरामगच्छन्त निशाचराः। पुत्रपौत्रार्थसंयुक्ताः सदाचारसमन्विताः।। १५.६ तज्ज्योतिस्तेजसस्तेषां राक्षसानां महात्मनाम्। गन्तुं नाशक्नुवन् सूर्यो नक्षत्राणि न चन्द्रमाः।। १५.७ ततस्त्रिभुवने ब्रह्मन् निशाचरपुरोऽभवत्। दिवा चन्द्रस्य सदृशः क्षणदायां च सूर्यवत्।। १५.८ न ज्ञायते गतिर्व्योम्नि भास्करस्य ततोऽम्बरे। शशङ्कमिति तेजस्त्वादमन्यन्त पुरोत्तमम्।। १५.९ स्वं विकासं विमुञ्चन्ति निशामिति व्यचिन्तयन्। कमलाकरेषु कमला मित्रमित्यवगम्य हि। रात्रौ विकसिता ब्रह्मन् विभूतिं दातुमीप्सवः।। १५.१० कौशिका रात्रिसमयं बुद्ध्वा निरगमन् किल। तान् वायसास्तदा ज्ञात्वा दिवा निघ्नन्ति कौशिकान्।। १५.११ स्नातकास्त्वापगास्वेव स्नानजप्यपरायणाः। आकण्ठमग्नास्तिष्ठन्ति रात्रौ ज्ञात्वाऽथ वासरम्।। १५.१२ न व्ययुज्यन्त चक्राश्च तदा वै पुरदर्शने। मन्यमानास्तु दिवसमिदमुच्चैर्ब्रुवन्ति च।। १५.१३ नूनं कान्ताविहीनेन केनचिच्चक्रपत्त्रिणा। उत्सृष्टं जीवितं शून्ये फूत्कृत्य सरितस्तटे।। १५.१४ ततोऽनुकृपयाविष्टो विवस्वांस्तीव्ररश्मिभिः। संतापयञ्जगत् सर्वं नास्तमेति कथंचन।। १५.१५ अन्ये वदन्ति चक्राह्वो नूनं कश्चिन् मृतो भवेत्। तत्कान्तया तपस्तप्तं भर्तृशोकार्त्तया बत।। १५.१६ आराधितस्तु भगवांस्तपसा वै दिवाकरः। तेनासौ शशिनिर्जेता नास्तमेति रविर्ध्रुवम्।। १५.१७ यज्विनो होमशालासु सह ऋत्विग्भिरध्वरे। प्रावर्त्तयन्त कर्माणि रात्रावपि महामुने।। १५.१८ महाभागवताः पूजां विष्णोः कुर्वन्ति भक्तितः। रवौ शशिनि चैवान्ये ब्रह्मणोऽन्ये हरस्य च।। १५.१९ कामिनश्चाप्यमन्यन्त साधु चन्द्रमसा कृतम्। यदियं रजनी रम्या कृता सततकौमुदी।। १५.२० अन्येऽब्रुवँल्लोकगुरुरस्माभिश्चक्रभृद् वशी। निर्व्याजेन महागन्धैरर्चितः कुसुमैः शुभैः।। १५.२१ सह लक्ष्म्या महायोगी नभस्यादिचतुर्ष्वपि। अशून्यशयना नाम द्वितीया सर्वकामदा।। १५.२२ तेनासौ भगवान् प्रीतः प्रादाच्छयनमुत्तमम्। अशून्यं च महाभोगैरनस्तमितशेखरम्।। १५.२३ अन्येऽब्रुवन् ध्रुवं देव्या रोहिण्या शशिनः क्षयम्। दृष्ट्वा तप्तं तपो घोरं रुद्राराधनकाम्यया।। १५.२४ पुण्यायामक्षयाष्टम्यां वेदोक्तविधिना स्वयम्। तुष्टेन शंभुना दत्तं वरं चास्यै यदृच्छया।। १५.२५ अन्येऽब्रुवन् चन्द्रमसा ध्रुवमाराधितो हरिः। व्रतेनेह त्वखण्डेन तेनाखण्डः शशी दिवि।। १५.२६ अन्येऽब्रवञ्छशाङ्केन ध्रुवं रक्षा कृतात्मनः। पदद्वयं समभ्यर्च्य विष्णोरमिततेजसः।। १५.२७ तेनासौ दीप्तिमांश्चन्द्रः परिभूय दिवाकरम्। अस्माकमानन्दकरो दिवा तपति सूर्यवत्।। १५.२८ लक्ष्यते कारणैरन्यैर्बहुभिः सत्यमेव हि। शशाङ्कनिर्जितः सूर्यो न विभाति यथा पुरा।। १५.२९ यथामी कमलाः श्लक्ष्णा रणद्भृङ्गणावृताः। विकचाः प्रतिभासन्ते जातः सूर्योदयो ध्रुवम्।। १५.३० यथा चामी विभासन्ति विकचाः कुमुदाकराः। अतो विज्ञायते चन्द्र उदितश्च प्रतापवान्।। १५.३१ एवं संभाषतां तत्र सूर्यो वाक्यानी नारद। अमन्यत किमेतद्धि लोको वक्ति शुभाशुभम्।। १५.३२ एवं संचिन्त्य भगवान् दध्यौ ध्यानं दिवाकरः। आसमन्ताज्जगद् ग्रस्तं त्रैलोक्यं रजनीचरैः।। १५.३३ ततस्तु भगवाञ्ज्ञात्वा तेजसोऽप्यसहिष्णुताम्। निशाचरस्य वृद्धिं तामचिन्तयत योगवित्।। १५.३४ ततोऽज्ञासीच्च तान् सर्वान् सदाचाररताञ्शुचीन्। देवब्राह्मणपूजासु संसक्तान् धर्मसंयुतान्।। १५.३५ ततस्तु रक्षःक्षयकृत् तिमिरद्विपकेसरी। महांशुनखरः सूर्यस्तद्विघातमचिन्तयत्।। १५.३६ ज्ञातवांश्च ततश्छिद्रं राक्षसानां दिवस्पतिः। स्वधर्मविच्युतिर्नाम सर्वधर्मविघातकृत्।। १५.३७ ततः क्रोधाभिभूतेन भानुना रिपुभेदिभिः। भानुभी राक्षसपुरं तद् दृष्टं च यथेच्छया।। १५.३८ स भानुना तदा दृष्टः क्रोधाध्मातेन चक्षुषा। निपपाताम्बराद् भ्रष्टः क्षीणपुण्य इव ग्रहः।। १५.३९ पतमानं समालोक्य पुरं शालकटङ्कटः। नमो भवाय शर्वाय इदमुच्चैरुदीरयत्।। १५.४० तमाक्रन्दितमाकर्ण्य चारणा गगनेचराः। हा देति चुक्रुशुः सर्वे हरभक्तः पतत्यसौ।। १५.४१ तच्चारणवचः शर्वः श्रुतवान् सर्वगोऽव्ययः। श्रुत्वा संचिन्तयामास केनासौ पात्यते भुवि।। १५.४२ ज्ञातवान् देवपतिना सहस्रकिरणेन तत्। पातितं राक्षसपुरं ततः क्रुद्धस्त्रिलोचनः।। १५.४३ क्रुद्धस्तु भगवन्तं तं भानुमन्तमपश्यत। दृष्टमात्रस्त्रिणेत्रेण निपपात ततोऽमबरात्।। १५.४४ गगनात् स परिभ्रष्टः पथि वायुनिषेविते। यदृच्छया निपतितो यन्त्रमुक्तो यथोपलः।। १५.४५ ततो वायुपथान्मुक्तः किंशुकोज्ज्वलविग्रहः। निपपातान्तरिक्षात् स वृतः किन्नरचारणैः।। १५.४६ चारणेर्वेष्टितो भानुः प्रविभात्यम्बरात् पतन्। अर्द्धपक्वं यथा तालात् फलं कपिभिरावृतम्।। १५.४७ ततस्तु ऋषयोऽभ्येत्य प्रत्यूचुर्भानुमालिनम्। निपतस्व हरिक्षेत्रे यदि श्रेयोऽभिवाञ्छसि।।१५.४८ ततोऽब्रवीत् पतन्नेव विवस्वांस्तांस्तपोधनान्। किं तत् क्षेत्रं हरेः पुण्यं वदध्वं शीघ्रमेव मे।। १५.४९ तमूचुर्मुनयः सूर्यं श्रृणु क्षेत्रं महाफलम्। साम्प्रतं वासुदेवस्य भावि तच्छंकरस्य च।। १५.५० योगशायिनमारभ्य यावत् केशवदर्शनम्। एतत् क्षेत्रं हरेः पुण्यं नाम्ना वाराणसी पुरी।। १५.५१ तच्छ्रुत्वा भगवान् भानुर्भवनेत्राग्नितापितः। वरणायास्तथैवास्यास्त्वन्तरे निपपात ह।। १५.५२ ततः प्रदह्यति तनौ निमज्यास्यां लुलद् रविः। वरणायां समभ्येत्य न्यमज्जत यथेच्छया।। १५.५३ भूयोऽसि वरणां भूयो भूयोऽपि वरणामसिम्। लुलं स्त्रिणेत्रवह्न्यार्त्तो भ्रमतेऽलातचक्रवत्।। १५.५४ एतस्मिन्नन्तरे ब्रह्मन् ऋषयो यक्षराक्षसाः। नागा विद्याधराश्चापि पक्षिणोऽप्सरसस्तथा।। १५.५५ यावन्तो भास्कररथे भूतप्रेतादयः स्थिताः। तावन्तो ब्रह्मसदनं गता वेदयितुं मुने।। १५.५६ ततो ब्रह्म सुरपतिः सुरैः सार्ध समभ्यगात्। रम्यं महेश्वरावासं मन्दरं रविकारणात्।। १५.५७ गत्वा दृष्ट्वा च देवेशं शंकरं शूलपाणिनम्। प्रसाद्य भास्करार्थाय वाराणस्यामुपानयत्।। १५.५८ ततो दिवाकरं भूयः पाणिनादाय शंकरः। कृत्वा नामास्य लोलेति रथमारोपयत् पुनः।। १५.५९ आरोपिते दिनकरे ब्रह्माऽभ्येत्य सुकेशिनम्। सबान्धवं सनगरं पुनरारोपयद् दिवि।। १५.६० समारोप्य सुकेशिं च परिष्वज्य च शंकरम्। प्रणम्य केशवं देवं वैराजं स्वगृहं गतः।। १५.६१ एवं पुरा नारद भास्करेण पुरं सुकेशेर्भुवि सन्निपातितम्। दिवाकरो भूमितले भवेन क्षिप्तस्तु दृष्ट्या न च संप्रदग्धः।। १५.६२ आरोपितो भृमितलाद् भवेन भूयोऽपि भानुः प्रतिभासनाय। स्वयंभुवा चापि निशाचरेन्द्रस्त्वारोपितः खे सपुरः सबन्धुः।। १५.६३ इति श्रीवामनपुराणे षोडशोऽध्यायः ।। १५ ।। नारद उवाच यानेतान् भगवान् प्राह कामिभिः शशिनं प्रति। आराधनाय देवाभ्यां हरीशाभ्यां वदस्व तान्।। १६.१ पुलस्त्य उवाच श्रृणुष्व कामिभिः प्रोक्तान् व्रतान् पुण्यान् कलिप्रिय। आराधनाय शर्वस्य केशवस्य च धीमतः।। १६.२ यदा त्वाषाढी संयाति व्रजते चोत्तरायणम्। तदा स्वपिति देवेशो भोगिभोगे श्रियः पतिः।। १६.३ प्रतिसुप्ते विभौ तस्मिन् देवगन्धर्वगुह्यकाः। देवानां मातरश्चापि प्रसुप्ताश्चाप्यनुक्रमात्।। १६.४ नारद उवाच कथयस्व सुरादीनां शयने विधिमुत्तमम्। सर्वमनुक्रमेणैव पुरस्कृत्य जनार्दनम्।। १६.५ पुलस्त्य उवाच मिथुनाभिगते सूर्ये शुक्लपक्षे तपोधन। एकादश्यां जगत्स्वामी शयनं परिकल्पयेत्।। १६.६ शेषाहिभोगपर्यङ्कं कृत्वा संपूज्य केशवम्। कृत्वोपवीतकं चैव सम्यक्संपूज्य वै द्विजान्।। १६.७ अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः। लब्ध्वा पीताम्बरधरः स्वस्ति निद्रां समानयेत्।। १६.८ त्रयोदश्यां ततः कामः स्वपते शयने शुभे। कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते।। १६.९ चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले। सौवर्णपङ्कजकृते सुखास्तीर्णोपधानके।। १६.११ पौर्णमास्यामुमानाथः स्वपते चर्मसंस्तरे। वैयाघ्रे च जटाभारं समुद्ग्रन्थ्यान्यचर्मणा।। १६.११ ततो दिवाकरो राशिं संप्रयाति च कर्कटम्। ततोऽमराणां रजनी भवते दक्षिणायनम्।। १६.१२ ब्रह्मा प्रतिपदि तथा नीलोत्पलमयेऽनघ। तल्पे स्वपिति लोकानां दर्शयन् मार्गमुत्तमम्।। १६.१३ विश्वकर्मा द्वितीयायां तृतीयायां गिरेः सुता। विनायकश्चतुर्थ्यां तु पञ्चम्यामपि धर्मराट्।। १६.१४ षष्ठ्यां स्कन्दः प्रस्वपिति सप्तम्यां भगवान् रविः। कात्यायनी तथाष्टम्यां नवम्यां कमलालया।। १६.१५ दशम्यां भुजगेन्द्राश्च स्वपन्ते वायुभोजनाः। एकादश्यां तु कृष्णायां साध्या ब्रह्मन् स्वपन्ति च।। १६.१६ एष क्रमस्ते गदितो नभादौ स्वपने मुने। स्वपत्सु तत्र देवेषु प्रावृट्कालः समाययौ।। १६.१७ कङ्काः समं बलाकाभिरारोहन्ति नगोत्तमान्। वायसाश्चापि सुर्वन्ति नीडानि ऋषिपुंगव। वायसाश्च स्वपन्त्येते ऋतौ गर्भभरालसाः।। १६.१८ यस्यां तिथ्यां प्रस्वपिति विश्वकर्मा प्रजापतिः। द्वितीया सा शुभा पुण्या अशून्यशयनोदिता।। १६.१९ तस्यां तिथावर्च्य हरिं श्रीवत्साङ्कं चतुर्भुजम्। पर्यङ्कस्थं समं लक्ष्म्या गन्धपुष्पादिभिर्मुने।। १६.२१ ततो देवाय शय्यायां फलानि प्रक्षिपेत् क्रमात्। सुरभीणी निवेद्येत्थं विज्ञाप्यो मधुसूदनः।। १६.२१ यथा हि लक्ष्म्या न वियुज्यसे त्वं त्रिविक्रमानन्त जगन्निवास। तथाऽस्त्वशून्यं शयनं सदैव अस्माकमेवेह तव प्रसादात्।। १६.२२ यथा त्वशून्यं तव देव तल्पं समं हि लक्ष्म्या वरदाच्युतेश। सत्येन तेनामितवीर्य विष्णो गार्हस्थ्यनाशो मम नास्तु देव।। १६.२३ इत्युच्चार्य प्रणम्येशं प्रसाद्य च पुनः पुनः। नक्तां भुञ्जीत देवर्षे तैलक्षारविवर्जितम्।। १६.२४ द्वितीयेऽह्नि द्विजाग्र्याय फलान् दद्याद् विचक्षणः। लक्ष्मीधरः प्रीयतां मे इत्युच्चार्य निवेदयेत्।। १६.२५ अनेन तु विधानेन चातुर्मास्यव्रतं चरेत्। यावद् वृश्चिकराशिस्थः प्रतिभाति दिवाकरः।। १६.२६ ततो विबुध्यन्ति सुराः क्रमशः क्रमशो मुने। तुलास्थेऽर्के हरिः कामः शिवः पश्चाद्विबुध्यते।। १६.२७ तत्र दानं द्वितीयायां मूर्त्तिर्लक्ष्मीधरस्य तु। सशय्यास्तरणोपेता यथा विभवमात्मनः।। १६.२८ एष व्रतस्तु प्रथमः प्रोक्तस्तव महामुने। यस्मिंश्चीर्णे वियोगस्तु न भवेदिह कस्यचित्।। १६.२९ नभस्ये मासि च तथा या स्यात्कृष्णाष्टमी शुभा। युक्ता मृगशिरेणैव सा तु कालाष्टमी स्मृता।। १६.३१ तस्यां सर्वेषु लिङ्गेषु तिथौ स्वपिति शंकरः। वसते संनिधाने तु तत्र पूजाऽक्षया स्मृता।। १६.३१ तत्र स्नायीत वै विद्वान् गोमूत्रेण जलेन च। स्नातः संपूजयेत् पुष्पैर्धत्तूरस्य त्रिलोचनम्।। १६.३२ धूपं केसरनिर्यासं नैवेद्यं मधुसर्पिषी। प्रीयतां मे विरूपाक्षस्त्वित्युच्चार्य च दक्षिणाम्। विप्राय दद्यान्नैवेद्यं सहिरण्यं द्विजोत्तम।। १६.३३ तद्वदाश्वयुजे मासि उपवासी जितेन्द्रियः। नवम्यां गोमयस्नानं कुर्यात्पूजां तु पङ्कजैः। धूपयेत् सर्जनिर्यासं नैवेद्यं मधुमोदकैः।। १६.३४ कृतोपवासस्त्वष्टम्यां नवम्यां स्नानमाचरेत्। प्रीयतां मे हिरण्याक्षो दक्षिणा सतिला स्मृता।। १६.३५ कार्त्तिके पयसा स्नानं करवीरेण चार्चनम्। धूपं श्रीवासनिर्यासं नैवेद्यं मधुपायसम्।। १६.३६ सनैवेद्यं च रजतं दातव्यं दानमग्रजे। प्रीयतां भगवान् स्थाणुरिति वाच्यमनिष्ठुरम्।। १६.३७ कृत्वोपवासमष्टम्यां नवम्यां स्नानमाचरेत्। मासि मार्गशिरे स्नानं दध्नार्चा भद्रया स्मृता।। १६.३८ धूपं श्रीवृक्षनिर्यासं नैवेद्यं मधुनोदनम्। संनिवेद्या रक्तशालिर्दक्षिणा परिकीर्त्तिता। नमोऽस्तु प्रीयतां शर्वस्त्विति वाच्यं च पण्डितैः।। १६.३९ पौषे स्नानं च हविषा पूजा स्यात्तगरैः शुभैः। धूपो मधुकनिर्यासो नैवेद्यं मधु शष्कुली।। १६.४१ समुद्गा दक्षिणा प्रोक्ता प्रीणनाय जगद्गुरोः। वाच्यं नमस्ते देवेश त्र्यम्बकेति प्रकीर्तयेत्।। १६.४१ माघे कुशोदकस्नानं मृगमदेन चार्चनम्। धूपः कदम्बनिर्यासो नैवेद्यं सतिलोदनम्।। १६.४२ पयोभक्तं सनैवेद्यं सरुक्मं प्रतिपादयेत्। प्रीयतां मे महादेव उमापतिरितीरयेत्।। १६.४३ एवमेव समुद्दिष्टं षड्भिर्मासैस्तु पारणम्। पारणान्ते त्रिनेत्रस्य स्नपनं कारयेत्क्रमात्।। १६.४४ गोरोचनायाः सहिता गुडेन देवं समालभ्य च पूजयेत। प्रीयस्व दीनोऽस्मि भवन्तमीश मच्छोकनाशं प्रकुरुष्व योग्यम्।। १६.४५ ततस्तु फाल्गुने मासि कृष्णाष्टम्यां यतव्रत। उपवासं समुदीतं कर्तव्यं द्विजसत्तम।। १६.४६ द्वितीयेऽह्नि ततः स्नानं पञ्चगव्येन कारयेत्। पूजयेत्कुन्दकुसुमैर्धूपयेत् चन्दनं त्वपि।। १६.४७ नैवेद्यं सघृतं दद्यात् ताम्रपात्रे गुडोदनम्। दक्षिणां च द्विजातिभ्यो नैवेद्यसहितां मुने। वासोयुगं प्रीणयेच्च रुद्रमुच्चार्य नामतः।। १६.४८ चैत्रे चोदुम्बरफलैः स्नानं मन्दारकार्चनम्। गुग्गुलुं महिषाख्यं च घृताक्तं धूपयेद् बुधः।। १६.४९ समोदकं तथा सर्पिः प्रीणनं विनिवेदयेत्। दक्षिणा च सनैवेद्यं सृगाजिनमुदाहृतम्।। १६.५१ नाट्येश्वर नमस्तेऽस्तु इदमुच्चार्य नारद। प्रीणनं देवनाथाय कुर्याच्छ्रद्धासमन्वितः।। १६.५१ वैशाखे स्नानमुदितं सुगन्धकुसुमाम्भसा। पूजनं शंकरस्योक्तं चूतमञ्जरिभिर्विभो।। १६.५२ धूपं सर्जाज्ययुक्तं च नैवेद्यं सफलं घृतम्। नामजप्यमपीशस्य कालघ्नेति विपश्चिता।। १६.५३ जलकुम्भान् सनैवेद्यान् ब्राह्मणाय निवेदयेत्। सोपवीतान् सहान्नाद्यांस्तच्चित्तैस्तत्परायणैः।। १६.५४ ज्येष्ठे स्नानं चामलकैः पूजाऽर्ककुसुमैस्तथा। धूपयेत्तत्त्रिनेत्रं च आयत्यां पुष्टिकारकम्।। १६.५५ सक्तूंश्च सघृतान् देवे दध्नाक्तान् विनिवेदयेत्। उपानद्युगलं छत्रं दानं दद्याच्च भक्तिमान्।। १६.५६ नमस्ते भगनेत्रघ्न पूष्णो दशननाशन। इदमुच्चारयेद्भक्त्या प्रीणनाय जगत्पतेः।। १६.५७ आषाढे स्नानमुदितं श्रीफलैरर्चनं तथा। धत्तूरकुसुमैः शुक्लैर्धूपयेत् सिल्हकं तथा।। १६.५८ नैवेद्याः सघृताः पूपाः दक्षिणा सघृता यवाः। नमस्ते दक्षयज्ञघ्न इदमुच्चैरुदीरयेत्।। १६.५९ श्रावणे मृगभोज्येन स्नानं कृत्वाऽर्चयेद्धरम्। श्रीवृक्षपत्रः सफलैर्धूपं दद्यात् तथाऽगुरुम्।। १६.६१ नैवेद्यं सघृतं दद्यात् दधि पूपान् समोदकान्। दध्योदनं सकृसरं माषधानाः सशष्कुलीः।। १६.६१ दक्षिणां श्वेतवृषभं धेनुं च कपिलां शुभाम्। कनकं रक्तवसनं प्रदद्याद् ब्राह्मणाय हि। गङ्गाधरेति जप्तव्यं नाम शंभोश्च पण्डितैः।। १६.६२ अमीभिः षड्भिरपरैर्मासैः पारणमुत्तमम्। एवं संवत्सरं पूर्णं संपूज्य वृषभध्वजम्। अक्षयान् लभते कामान् महेश्वरवचो यथा।। १६.६३ इदमुक्तं व्रतं पुण्यं सर्वाक्षयकरं शुभम्। स्वयं रुद्रेण देवर्षे तत्तथा न तदन्यथा।। १६.६४ इति श्रीवामनपुराणे सप्तदशोऽध्यायः ।। १६ ।। पुलस्त्य उवाच मासि चाश्वयुजे ब्रह्मन् यदा पद्मं जगत्पतेः। नाभ्या निर्याति हि तदा देवेष्वेतान्यथोऽभवन्।। १७.१ [१]कन्दर्पस्य कराग्रे तु कदम्बश्चारुदर्शनः। तेन तस्य परा प्रीतिः कदम्बेन विवर्द्धते।। १७.२ यक्षाणामधिपस्यापि मणिभद्रस्य नारद। वटवृक्षः समभवत् तस्मिंस्तस्य रतिः सदा।। १७.३ महेश्वरस्य हृदये धत्तूरविटपः शुभः। संजातः स च शर्वस्य रतिकृत् तस्य नित्यशः।। १७.४ ब्रह्मणो मध्यतो देहाञ्जातो मरकतप्रभः। खदिरः कण्टकी श्रेयानभवद्विश्वकर्मणः।। १७.५ गिरिजायाः करतले कुन्दगुल्मस्त्वजायत। गणाधिपस्य कुम्भस्थो राजते सिन्धुवारकः।। १७.६ यमस्य दक्षिणे पार्श्वे पालाशो दक्षिणोत्तरे। कृष्णोदुम्बरको रुद्राज्जातः क्षोभकरो वृषः।। १७.७ स्कन्दस्य बन्धुजीवस्तु रवेरश्वत्थ एव च। कात्यायन्याः शमीजाता बिल्वो लक्ष्म्याः करेऽभवत्।। १७.८ नागानां पतये ब्रह्मञ्छरस्तम्बो व्यजायत। वासुकेर्विस्तृते पुच्छे पृष्ठे दूर्वा सिता सिता।। १७.९ साध्यानां हृदये जातो वृक्षो हरितचन्दनः। एवं जातेषु सर्वेषु तेन तत्र रतिर्भवेत्।। १७.१० तत्र रम्ये शुभे काले या शुक्लैकादशी भवेत्। तस्यां संपूजयेद् विष्णुं तेन खण्डोऽस्य पूर्यते।। १७.११ पुष्षैः पत्रैः फलैर्वापि गन्धवर्णरसान्वितैः। ओषधीभिश्च मुख्याभिर्यावत्स्याच्छरदागमः।। १७.१२ घृतं तिला व्रीहियवा हिरण्यकनकादि यत्। मणिमुक्ता प्रवालानि वस्त्राणि विविधानि च।। १७.१३ रसानि स्वादुकट्वम्लकषायलवणानि च। तिक्तानि च निवेद्यानि तान्यखण्डानि यानि हि।। १७.१४ तत्पूजार्थं प्रदातव्यं केशवाय महात्मने। यदा संवत्सरं पूर्णमखण्डं भवते गृहे।। १७.१५ कृतोपवासो देवर्षे द्वितीयेऽहनि संयतः। स्नानेन तेन स्नायीत येनाखण्डं हि वत्सरम्।। १७.१६ सिद्धार्तकैस्तिलैर्वापि तेनैवोद्वर्तनं स्मृतम्। हविषा पद्मनाभस्य स्नानमेव समाचरेत्। होमे तदेव गदितं दाने शक्तिर्निजा द्विज।। १७.१७ पूजयेताथ कुसुमैः पादादारभ्य केशवम्। धूपयेद् विविधं धूपं येन स्याद् वत्सरं परम्।। १७.१८ हिरण्यरत्नवासोभिः पूजयेत जगद् गुरुम्। रागखाण्डवचोष्याणि हविष्याणि निवेदयेत्।। १७.१९ ततः संपूज्य देवेशं पद्मनाभं जगद् गुरुम्। विज्ञापयेन्मुनिश्रेष्ठ मन्त्रेणानेन सुव्रत।। १७.२० नमोऽस्तु ते पद्मनाभ पद्माधव महाद्युते। धर्मार्थकाममोक्षणि त्वखण्डानि भवन्तु मे।। १७.२१ विकासिपद्मपत्राक्ष यथाऽखण्डोसि सर्वतः। तेन सत्येन धर्माद्य अखण्डाः सन्तु केशव।। १७.२२ एवं संवत्सरं पूर्णं सोपवासो जितेन्द्रियः। अखण्डं पारयेद् ब्रह्मन् व्रतं वै सर्ववस्तुषु।। १७.२३ अस्मिंश्चीर्णे व्रतं व्यक्तं परितुष्यन्ति देवताः। धर्मार्थकाममोक्षाद्यास्त्वक्षयाः संभवन्ति हि।। १७.२४ एतानि ते मयोक्तानि व्रतान्युक्तानि कामिभिः। प्रवक्ष्याम्यधुना त्वेतद्वैष्णवं पञ्जरं शुभम्।। १७.२५ नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम्। प्राच्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः।। १७.२६ गदां कौमोदकीं गृह्य पद्मनाभामितद्युते। याम्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः।। १७.२७ हलमादाय सौनन्दं नमस्ते पुरषोत्तम। प्रतीच्यां रक्ष मे विष्णो भवन्तं शरणं गतः।। १७.२८ मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम्। उत्तरस्यां जगन्नाथ भवन्तं शरणं गतः।। १७.२९ शार्ङ्गमादाय च धनुरस्त्रं नारायणं हरे। नमस्ते रक्ष रक्षघ्न ऐशान्यां शरणं गतः।। १७.३० पाञ्चजन्यं महाशङ्खमन्तर्बोध्यं च पङ्कजम्। प्रगृह्य रक्ष मां विष्णो आग्नेय्यां यज्ञसूकर।। १७.३१ चर्म सूर्यशतं गृह्य खङ्गं चन्द्रमसं तथा। नैर्ऋत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन्।। १७.३२ वैजयन्तीं प्रगृह्य त्वं श्रीवत्सं कण्ठभूषणम्। वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते।। १७.३३ वैनतेयं समारुह्य अन्तरिक्षे जनार्दन। मां त्वं रक्षाजित सदा नमस्ते त्वपराजति।। १७.३४ विशालाक्षं समारुह्य रक्ष मां त्वं रसातले। अकूपार नमस्तुभ्यं महामोह नमोऽस्तु ते।। १७.३५ करशीर्षाङ्घ्रपर्वेषु तथाऽष्टबाहुपञ्जरम्। कृत्वा रक्षस्व मां देव नमस्ते पुरुषोत्तम।। १७.३६ एतदुक्तं भगवता वैष्णवं पञ्जरं महत्। पुरा रक्षार्थमीशेन कात्यायन्या द्विजोत्तम।। १७.३७ नाशयामास सा यत्र दानवं महिषासुरम्। नमरं रक्तबीजं च तथान्यान् सुरकण्टकान्।। १७.३८ नारद उवाच काऽसौ कात्यायानी नाम या जघ्ने महिषासुरम्। नमरं रक्तबीजं च तथाऽन्यान् कुरकण्टकान्।। १७.३९ कश्चासौ महिषो नाम कुले जातश्च कस्य सः। कश्चासौ रक्तबीजाख्यो नमरः कस्य चात्मजः। एतद्विस्तरतस्तात यथावद् वक्तुमर्हसिः।। १७.४० पुलस्त्य उवाच श्रूयतां संप्रवक्ष्यामि कथां पापप्रणाशिनीम्। सर्वदा वरदा दुर्गा येयं कात्यायनी मुने।। १७.४१ पुराऽसुरवरौ रौद्रौ जगत्क्षोभकरावुभौ। रम्भश्चैव करम्भश्च द्वावास्तां सुमहाबलौ।। १७.४२ तावपुत्रौ च देवर्षे पुत्रार्थं तेपतुस्तपः। बहून् वर्षगणान् दैत्यौ स्थितौ पञ्चनदे जले।। १७.४३ तत्रैको जलमध्यस्थो द्वितीयोऽप्यग्निपंचमी। करम्भश्चैव रम्भश्च यक्षं मालवटं प्रति।। १७.४४ एकं निमग्नं सलिले ग्राहरूपेण वासवः। चरणाभ्यां समादाय निजघान यथेच्छया।। १७.४५ ततो भ्रातरि नष्टे च रम्भः कोपपरिप्लुतः। वह्नौ स्वशीर्षं संछिद्य होतुमैच्छन् महाबलः।। १७.४६ ततः प्रगृह्य केशेषु खङ्गं च रविसप्रभम्। छेत्तुकामो निजं शीर्षं वह्निना प्रतिषेधितः।। १७.४७ उक्तश्च मा दैत्यवर नाशयात्मानमात्मना। दुस्तरा परवध्याऽपि स्ववध्याऽप्यतिदुस्तरा।। १७.४८ यच्च प्रार्थयसे वीर तद्ददामि यथेप्सितम्। मा म्रियस्व मृतस्येह नष्टा भवति वै कथा।। १७.४९ ततोऽब्रवीद् वचो रम्भो वरं चेन्मे ददासि हि। त्रैलोक्यविजयी पुत्रः स्यान्मे त्वत्तेजसाऽधिकः।। १७.५० अजेयो दैवतैः सर्वैः पुंभिर्दैत्यैश्च पावक। महाबलो वायुरिव कामरूपी कृतास्त्रवित्।। १७.५१ तं प्रोवाच कविर्ब्रह्मन् बाडमेवं भविष्यति। यस्यां चित्तं समालम्बि करिष्यसि ततः सुतः।। १७.५२ इत्येवमुक्तो देवेन वह्निना दानवो ययौ। द्रष्टुं मालवटं यक्षं यक्षैश्च परिवारितम्।। १७.५३ तेषां पद्मनिधिस्तत्र वसते नान्यचेतनः। गजश्च महिषाश्चाश्वा गावोऽजाविपरिप्लुताः।। १७.५४ तान् दृष्ट्वैव तदा चक्रे भावं दानवपार्थिवः। महिष्यां रूपयुक्तायां त्रिहायण्यां तपोधन।। १७.५५ सा समागाच्च दैत्येन्द्रं कामयन्ती तरस्विनी। स चापि गमनं चक्रे भवितव्यप्रचोदितः।। १७.५६ तस्यां समभवद् गर्भस्तां प्रगृह्याथ दानवः। पातालं प्रविवेशाथ ततः स्वभवनं गतः।। १७.५७ दृष्टश्च दानवैः सर्वैः परित्यक्तश्च बन्धुभिः। अकार्यकारकेत्येवं भूयो मालव़टं गतः।। १७.५८ साऽपि तेनैव पतिना महिषी चारुदर्शना। समं जगाम तत् पुण्यं यक्षमण्डलमुत्तमम्।। १७.५९ ततस्तु वसतस्तस्य श्यामा सा सुषुवे मुने। अजीजनत् सुतं शुभ्रं महिषं कामरूपिणम्।। १७.६० एतामृतुमतीं जातां महिषोऽन्यो ददर्श ह। सा चाभ्यगाद् दितिवरं रक्षन्ती शीलमात्मनः।। १७.६१ तमुन्नामितनासं च महिषं वीक्ष्य दानवः। खङ्ग निष्कृष्य तरसा महिषं समुपाद्रवत्।। १७.६२ तेनापि दैत्यस्तीक्ष्णाभ्यां श्रृङ्गाभ्यां हृदि ताडितः। निर्भिन्नहृदयो भूमौ निपपात ममार च ।। १७.६३ मृते भर्तरि सा श्यामा यक्षाणां शरणं गता। रक्षिता गुह्यकैः साध्वी निवार्य महिषं ततः।। १७.६४ ततो निवारितो यक्षैर्हयारिर्मदनातुरः। निपपात सरो दिव्यं ततो दैत्योऽभवन्मृतः।। १७.६५ नमरो नाम विख्यातो महाबलपराक्रमः। यक्षानाश्रित्य तस्थौ स कालयन् श्वापदान् मुने।। १७.६६ स च दैत्येश्वरो यक्षैर्मालवटपुरस्सरैः। चितामारोपितः सा च श्यामा तं चारुहत् पतिम्।। १७.६७ ततोऽग्निमध्यादुत्तस्थौ पुरुषो रौद्रदर्शनः। व्यद्रावयत् स तान् यक्षान् खङ्गपाणिर्भयंकरः।। १७.६८ ततो हतास्तु महिषाः सर्व एव महात्मना। ऋते संरक्षितारं हि महिषं रम्भनन्दनम्।। १७.६९ स नामतः स्मृतो दैत्यो रक्तबीजो महामुने। योऽजयत् सर्वतो देवान् सेन्द्ररुद्रार्कमारुतान्।। १७.७० एवं प्रभावा दनुपुंगवास्ते तेजोऽधिकस्तत्र बभौ हयारिः। राज्येऽभिषिक्तश्च महाऽसुरेन्द्रैर्विनिर्जितैः शम्बरतारकाद्यैः।। १७.७१ अशक्नुवद्भिः सहितैश्च देवैः सलोकपालैः सहुताशभास्करैः। स्थानानि त्यक्तानि शशीन्द्रभास्करैर्धर्मश्च दूरे प्रतियोजितश्च।। १७.७२ इति श्रीवामनपुराणे अष्टादशोऽध्यायः ।। १७ ।। पुलस्त्य उवाच ततस्तु देवा महिषेण निर्जिताः स्थानानि संत्यज्य सवाहनायुधाः। जग्मुः पुरस्कृत्य पितामहं ते द्रष्टुं तदा चक्रधरं श्रियः पतिम्।। १८.१ गत्वा त्वपश्यंश्च मिथः सुरोत्तमौ स्थितौ खगेन्द्रासनशंकरौ हि। दृष्ट्वा प्रणम्यैव च सिद्दिसाधकौ न्यवेदयंस्तन्महिषादिचेष्टितम्।। १८.२ प्रभोऽश्विसूर्येन्द्वनिलाग्निवेधसां जलेशशक्रादिषु चाधिकारान्। आक्रम्य नाकात्तु निराकृता वयं कृतावनिस्था महिषासुरेण।। १८.३ एतद् भवन्तौ शरणागतानां श्रुत्वा वचो ब्रूत हितं सुराणाम्। न चेद् व्रजामोऽद्य रसातलं हि संकाल्यमाना युधि दानवेन।। १८.४ इत्थं मुरारिः सह शंकरेण श्रुत्वा वचो विप्लुतचेतसस्तान्। दृष्ट्वाऽथ चक्रे सहसैव कोपं कालाग्निकल्पो हरिरव्ययात्मा।। १८.५ ततोऽनुकोपान्मधुसूदनस्य सशंकरस्यापि पितामहस्य। तथैव शक्रादिषु दैवतेषु महर्द्धि तेजो वदनाद् विनिःसृतम्।। १८.६ तच्चैकतां पर्वतकूटसन्निभं जगाम तेजः प्रवराश्रमे मुने। कात्यायनस्याप्रतिमस्य तेन महर्षिणा तेज उपाकृतं च।। १८.७ तेनार्षिसृष्टेन च तेजसा वृतं ज्वलत्प्रकाशार्कसहस्रतुल्यम्। तस्माच्च जाता तरलायताक्षी कात्यायनी योगविशुद्धदेहा।। १८.८ माहेश्वराद् वक्त्रमथो बभूव नेत्रत्रयं पावकतेजसा च। याम्येन केशा हरितेजसा च भुजास्तथाष्टादश संप्रजज्ञिरे।। १८.९ सौम्येन युग्मं स्तनयोः सुसंहतं मध्यं तथैन्द्रेण च तेजसाऽभवत्। ऊरू च जङ्घे च नितम्बसंयुते जाते जलेशस्य तु तेजसा हि।। १८.१० पादौ च लोकप्रपितामहस्य पद्माभिकोशप्रतिमौ बभूवतुः। दिवाकराणमपि तेजसाऽङ्गुलीः कराङ्गुलीश्च वसुतेजसैव।। १८.११ प्रजापतीनां दशनाश्च तेजसा याक्षेण नासा श्रवणौ च मारुतात्। साध्येन च भ्रूयुगलं सुकान्तिमत् कन्दर्पबाणासनसन्निभं बभौ।। १८.१२ तथार्षितेजोत्तममुत्तमं महन्नाम्ना पृथिव्यामभवत् प्रसिद्धम्। कात्यायनीत्येव तदा बभौ सा नाम्ना च तेनैव जगत्प्रसिद्धा।। १८.१३ ददौ त्रिशूलं वरदस्त्रिशूली चक्रं मुरारिर्वरुणश्च शङ्खम्। शक्तिं हुताशः श्वसनश्च चापं तूणौ तथाक्षय्यशरौ विवस्वान्।। १८.१४ वज्रं तथेन्द्रः सह घण्टया च यमोऽथ दण्डं धनदो गदां च। ब्रह्मऽक्षमालां सकमण्डलुं च कालोऽसिमुग्रं सह चर्मणा च।। १८.१५ हारं च सोमः सह चामरेण मालं समुद्रो हिमवान् मृगेन्द्रम्। चूडामणिं कुण्डलमर्द्धचन्द्रं प्रादात् कुठारं वसुशिल्पकर्त्ता।। १८.१६ गन्धर्वराजो रजतानुलिप्तं पानस्य पूर्णं सदृशं च भाजनम्। भुजंगहारं भुजगेश्वरोऽपि अम्लानपुष्पामृतवः स्रजं च।। १८.१७ तदाऽतितुष्टा सुरसत्तमानां अट्टाट्टहासं मुमुचे त्रिनेत्रा। तां तुष्टुवुर्देववराः सहेन्द्राः सविष्णुरुद्रेन्द्वनिलाग्निभास्कराः।। १८.१८ नमोऽस्तु दैव्यै सुरपूजितायै या संस्थिता योगविशुद्धदेहा। निद्रास्वरूपेण महीं वितत्य तृष्णा त्रपा क्षुद् भयदाऽथ कान्तिः।। १८.१९ श्रद्धा स्मृतिः पुष्टिरथो क्षमा च छाया च शक्तिः कमलालया च। वृत्तिर्दया भ्रान्ति रथेह माया नमोऽस्तु दैव्यै भवरूपिकायै।। १८.२० ततः स्तुताः देववरैर्मृगेन्द्रमारुह्य देवी प्रगताऽवनीध्रम्। विन्ध्यं महापर्वतमुच्चश्रृङ्गं चकार यं निम्नतरं त्वगस्त्यः।। १८.२१ नारद उवाच किर्मथमद्रिं भगवानगस्त्यस्तं निम्नश्रृङ्गं कृतवान् महर्षिः। कस्मै कृते केन च कारणेन एतद् वदस्वामलसत्त्ववृत्ते।। १८.२२ पुलस्त्य उवाच पुरा हि विन्ध्येन दिवाकरस्य गतिर्निरुद्धा गगनेचरस्य। रविस्ततः कुम्भभवं समेत्य होमावसाने वचनं बभाषे।। १८.२३ समागतोऽहं द्विज दूरतस्त्वां कुरुष्व मामुद्धरणं मुनीन्द्र। ददस्व दानं मम यन्मनीषिनं चरामि येन त्रिदिवेषु निर्वृतः।। १८.२४ इत्थं दिवाकरवचो गुणसंप्रयोगि श्रुत्वा तदा कलशजो वचनं बभाषे। दानं ददामि तव यन्मनसस्त्वभीष्टं नार्थि प्रयाति विमुखो मम कश्चिदेव।। १८.२५ श्रुत्वा वचोऽमृतमयं कलशोद्भवस्य प्राह प्रभुः करतले विनिधाय मूर्ध्नि। एषोऽद्य मे गिरिवरः प्ररुणाद्धि मार्गं विन्ध्यस्य निम्नकरणे भगवन् यतस्व।। १८.२६ इति रविवचनादथाह कुम्भजन्मा कुतमिति विद्धि मया हि नीचश्रृङ्गम्। तव किरणजितो भविष्यते महीध्रो मम चरणसमाश्रितस्य का व्यथा ते।। १८.२७ इत्येवमुक्त्वा कलशोद्भवस्तु सूर्यं हि संस्तूय विनम्य भक्त्या। जगाम संत्यज्य हि दण्डकं हि विन्ध्याचलं वृद्धवपुर्महर्षिः।। १८.२८ गत्वा वचः प्राह मुनिर्महीध्रं यास्ये महातीर्थवरं सुपुण्यम्। वृद्धोस्म्यशक्तश्च तवाधिरोढुं तस्माद् भवान् नीचतरोऽस्तु सद्यः।। १८.२९ इत्येवमुक्तो मुनिसत्तमेन स नीचश्रृङ्गस्त्वभवन्महीध्रः। समाक्रमच्चापि महर्षिमुकख्यः प्रोल्लङ्घ्य विन्ध्यं त्विदमाह शैलम्।। १८.३० यावन्न भूयो निजमाव्रजामि महाश्रमं धौतवपुः सुतीर्थात्। त्वया न तावत्त्विह वर्धितव्यं नो चेद् विशप्स्येऽहमवज्ञया ते।। १८.३१ इत्येवमुक्त्वा भगवाञ्जगाम दिशं स याम्यां सहसाऽन्तरिक्षम्। आक्रम्य तस्थौ स हि तां तदाशां काले व्रजाम्यत्र यदा मुनीन्द्रः।। १८.३२ तत्राश्रमं रम्यतरं हि कृत्वा संशुद्धजाम्बूनदतोरणान्तम्। तत्राथ निक्षिप्य विदर्भपुत्रीं स्वमाश्रमं सौम्यमुपाजगाम।। १८.३३ ऋतावृतौ पर्वकालेषु नित्यं तमम्बरे ह्याश्रममावसत् सः। शेषं च कालं स हि दण्डकस्थस्तपश्चचारामितकान्तिमान् मुनिः।। १८.३४ विनन्ध्योऽपि दृष्ट्वा गगने महाश्रमं वृद्धिं न यात्येव भयान्महर्षेः। नासौ निवृत्तेति मतिं विधाय स संस्थितो नीचतराग्रश्रृङ्गः।। १८.३५ एवं त्वगस्त्येन महाचलेन्द्रः स नीचश्रृङ्गे हि कृतो महर्षे। तस्योर्ध्वश्रृङ्गे मुनिसंस्तुता सा दुर्गा स्थिता दानवनाशनार्थम्।। १८.३६ देवाश्च सिद्धाश्च महोरगाश्च विद्याधरा भूतगणाश्च सर्वे। सर्वाप्सरोभिः प्रतिरामयन्तः कात्यायनीं तस्थुरपेतशोकाः।। १८.३७ इति श्रीवामनपुराणे एकोनविंशोऽध्यायः ।। १८ ।। श्रीभगवानुवाच।। आद्यं मात्स्यं महद्रूपं संस्थितं मानसे ह्रदे। सर्वपापक्षयकरं कीर्तनस्पर्शनादिभिः।। ९०.१ कौर्ममन्यत्सन्निधानं कोशिक्यां पापनाशनम्। हयशीर्षं च कृष्णांशे गोविन्दं हस्तिनापुरे।। ९०.२ त्रिविक्रमं च कालिन्द्यां लिङ्गभेदे भवं विभुम्। केदारे माधवं शौरिं कुब्जाम्रे हृष्टमूर्धजम्।। ९०.३ नारायणं बदर्यां च वाराहे गरुडासनम्। जयेशं भद्रकर्णे च विपाशायां द्विजप्रियम्।। ९०.४ [१]रूपधारमिरावत्यां कुरुक्षेत्रे कुरुध्वजम्। कृतशौचे नृसिंहं च गोकर्णे विश्वकर्मिणम्।। ९०.५ प्राचीने कामपालं च पुण्डरीकं महाम्भसि। विशाखयूपे ह्यजितं हंसं हंसपदे तथा।। ९०.६ पयोष्णायामखण्डं च वितस्तायां कुमारिलम्। मणिमत्पर्वते शंभुं ब्रह्मण्ये च प्रजापतिम्।। ९०.७ मधुनद्यां चक्रधरं शूलबाहुं हिमालये। विद्धि विष्णुं मुनिश्रेष्ट स्थितमोषधिसानुनि।। ९०.८ भृगुतुङ्गे सुवर्णाक्षं नैमिषे पीतवाससम्। गयायां गोपतिं देवं गदापाणिनमीश्वरम्।। ९०.९ [२]त्रैलोक्यनाथं वरदं गोप्रतारे कुशेशयम्। अर्द्धनारीश्वरं पुण्ये माहेन्द्रे दक्षिणे गिरौ।। ९०.१० गोपालमुत्तरे नित्यं महेन्द्रे सोमपीथिनम्। वैकुण्ठमपि सह्याद्रौ पारियात्रऽपराजितम्।। ९०.११ कशेरुदेशे देवेशं विश्वरूपं तपोधनम्। मलयाद्रौ च सौगन्धिं विन्ध्यपादे सदाशिवम्।। ९०.१२ [३]अवन्तिविषये विष्णुं निषधेष्वमरेश्वरम्। पाञ्चालिकं च ब्रह्मर्षे पाञ्चालेषु व्यवस्थितम्।। ९०.१३ महोदये हयग्रीवं प्रयागे योगशायिनम्। स्वयंभुवं मधुवते अयोगन्धिं च पुष्करे।। ९०.१४ तथैव विप्रप्रवर वाराणस्यां च केशवम्। अविमुक्तकमत्रैव लोलश्चात्रैव गीयते।। ९०.१५ पद्मायां पद्मकिरणं समुद्रे वडवासुखम्। कुमारधारे बाह्लीशं कार्तिकेयं च बर्हिणम्।। ९०.१६ अजेशे शंभुमनघं स्थाणुं च कुरुजाङ्गले। वनमालिनमाहुर्मां किष्किन्धावासिनो जनाः।। ९०.१७ वीरं कुवलायारूढं शङ्खचक्रगदाधरम्। श्रीवत्साङ्कमुदाराङ्गं नर्मदायां श्रियः पतिम्।। ९०.१८ माहिष्मत्यां त्रिनयनं तत्रैव च हुताशनम्। अर्बुदे च त्रिसौपर्ण क्ष्माधरं सूकराचले।। ९०.१९ त्रिणाचिकेतं ब्रह्मर्षे प्रभासे च कपर्दिनम्। तथैवात्रापि विख्यातं तृतीयं शशिशेखरम्।। ९०.२० उदये शशिनं सूर्यं ध्रुवं च त्रितयं स्थितम्। हेमकूटे हिरण्याक्षं स्कन्दं शरवणे मुने।। ९०.२१ महालये स्मृतं रुद्रमुत्तरेषु कुरुष्वथ। पद्मनाभं मुनिश्रेष्ठ सर्वसौख्यप्रदायकम्।। ९०.२२ सप्तगोदावरे ब्रह्मन् विख्यातं हाटकेश्वरम्। तत्रैव च महाहंसं प्रयागेऽपि वटेश्वरम्।। ९०.२३ शोणे च रुक्मकवचं कुण्डिने घ्राणतर्पणम्। भिल्लीवने महायोगं माद्रेषु पुरुषोत्तमम्।। ९०.२३ प्लक्षावतरणे विश्वं श्रीनिवासं द्विजोत्तम शूर्पारके चतुर्बाहुं मगधायां सुधापतिम्।। ९०.२५ गिरिव्रजे पशुपतिं श्रीकण्ठं यमुनातटे। वनस्पतिं समाख्यातं दण्डकारण्यवासिनम्।। ९०.२६ कालिञ्जरे नीलकण्ठं सरय्वां शंभुमुत्तमम्। हंसयुक्तं महाकोश्यां सर्वपापप्रणाशनम्।। ९०.२७ गोकर्णे दक्षिणे शर्वं वासुदेवं प्रजामुखे। विन्घ्यश्रृङ्गे महाशौरिं कन्थायां मधुसूदनम्।। ९०.२८ त्रिकूटशिखरे ब्रह्मन् चक्रपाणिनमीश्वरम्। लौहदण्डे हृषीकेशं कोसलायां मनोहरम्।। ९०.२९ महाबाहुं सुराष्ट्रे च नवराष्ट्रे यशोधरम्। भूधरं देवकानद्यां विदेहायां कुशप्रियम्।। ९०.३० गोमत्यां छादितगदं शङ्खोद्धारे च शङ्खिनम्। सुनेत्रं सैन्धवारण्ये शूरं शूरपुरे स्थितम्।। ९०.३१ रुद्राख्यं च हिरण्वत्यां वीरभद्रं त्रिविष्टपे। [४]शङ्कुकर्णं च भीमायां भीमं शालवने विदुः।। ९०.३२ विश्वामित्रं च गदितं कैलासे वृषभध्वजम्। महेशं महिलाशैले कामरूपे शशिप्रभम्।। ९०.३३ बलभ्यामपि गोमित्रं कटाहे पङ्कजप्रियम्। उपेन्द्रं सिंहलद्वीपे शक्राह्वे कुन्दमालिनम्।। ९०.३३ रसातले च विख्यातं सहस्रशिरसं मुने। कालाग्निरुद्रं तत्रैव तथाऽन्यं कृत्तिवाससम्।। ९०.३५ सुतले कूर्ममचलं वितले पङ्कजासनम्। महातले गुरो ख्यातं देवेशं छागलेश्वरम्।। ९०.३६ तले सहस्रचरणं सहस्रभुजमीश्वरम्। सहस्राक्षं परिख्यातं मुसलाकृष्टदानवम्।। ९०.३७ पाताले योगिनामीशं स्थितञ्च हरिशंकरम्। धरातले कोकनदं मेदिन्यां चक्रपाणिनम्।। ९०.३८ भुवर्लोके च गरुडं स्वर्लोके विष्णुमव्ययम्। महर्ल्लोके तथाऽगस्त्यं कपिलं च जने स्थितम्।। ९०.३९ तपोलोकेऽखिलं ब्रह्मन् वाङ्मयं सत्यसंयुतम्। ब्रह्माणं ब्रह्मलोके च सप्तमे वै प्रतिष्ठितम्।। ९०.४० सनातनं तथा शैवे परं ब्रह्म च वैष्णवे। अप्रतर्क्यं निरालम्बे निराकाशे तपोमयम्।। ९०.४१ जम्बुद्वीपे चतुर्बाहुं कुशद्वीपे कुशेशयम्। प्लक्षद्वीपे मुनिश्रेष्ठ ख्यातं गरुडवाहनम्।। ९०.४२ पद्मनाभं तथा क्रौञ्चे शाल्मले वृषभध्वजम्। सहस्रांशुः स्थितः शाके धर्मराट् पुष्करे स्थितः।। ९०.४३ तथा पृथिव्यां ब्रह्मर्षे शालग्रामे स्थितोऽस्मयहम्। सजलस्थलपर्यन्तं चरेषु स्तावरेषु च।। ९०.४४ एतानि पुण्यानि ममालयानि ब्रह्मन् पुराणानि सनातनानि। धर्मप्रदानीह महौजसानि संकीर्तनीयान्यघनाशनानि।। ९०.४५ संकीर्तनात् स्मरणाद् दर्शनाच्च संस्पर्शनादेव च देवतायाः। धर्मार्थकामाद्यपवर्गमेव लभन्ति देवा मनुजाः ससाध्याः। ९०.४६ एतानि तुभ्यं विनिवेदितानि ममालयानीह तपोमयानि। उत्तिष्ठ गच्छामि महासुरस्य यज्ञं सुराणां हि हिताय विप्र।। ९०.४७ पुलस्त्य उवाच।। इत्येवमुक्त्वा वचनं महर्षे विष्णुर्भरद्वाजमृषिं महात्मा। विलासलीलागमनो गिरीन्द्रात् स चाभ्यगच्छत् कुरुजाङ्गलं हि।। ९०.४८ इति श्रीवामनपुराणे त्रिषष्टितमोऽध्यायः ।। ९० ।। नारद उवाच कथं कात्यायनी देवी सानुगं महिषासुरम्। सवाहनं हतवती तथा विस्तरतो वद।। २०.१ एतच्च संशयं ब्रह्मन् हृदि मे परिवर्तते। विद्यमानेषु शस्त्रेषु यत्पद्भ्यां तममर्दयत्।। २०.२ पुलस्त्य उवाच श्रृणुष्वावहितो भूत्वा कथामेतां पुरातनीम्। वृत्तां देवयुगस्यादौ पुण्यां पापभयापहाम्।। २०.३ एवं स नमरः क्रुद्धः समापतत वेगवान्। सगजाश्वरथो ब्रह्मन् दृष्टो देव्या यथेच्छया।। २०.४ ततो बाणगणैर्दैत्यः समानम्याथ कार्मुकम्। ववर्ष शैलं धारौघैर्द्यौरिवाम्बुदवृष्टिभिः।। २०.५ शरवर्षेण तेनाथ विलोक्याद्रिं समावृतम्। क्रुद्धा भगवती वेगादाचकर्ष धनुर्वरम्।। २०.६ तद्धनुर्दानवे सैन्ये दुर्गया नामितं बलात्। सुवर्णपृष्ठं विबभौ विद्युदम्बुधरेष्विव।। २०.७ बाणैः सुररिपूनन्यान् खड्गेनान्यान् शुभव्रत। गदया मुसलेनान्यांश्चर्मणाऽन्यानपातयत्।। २०.८ एकोऽप्यसौ बहून् देव्याः केसरी कालसंनिभः। विधुन्वन् केसरसटां निषूदयति दानवान्।। २०.९ कुलिशाभिहता दैत्याः शक्त्या निर्भिन्नवक्षसः। लाङ्गलैर्दारितग्रीवा विनिकृत्ताः परश्वधैः।। २०.१० दण्डनिर्भिंन्नशिरसश्चक्रविच्छिन्नबन्धनाः। चेलुः पेतुश्च मम्लुश्च तत्यजुश्चापरे रणम्।। २०.११ ते वध्यमाना रौद्रया दुर्गया दैत्यदानवाः। कालरात्रिं मन्यमाना दुद्रुवुर्भयपीडिताः।। २०.१२ सैन्याग्रं भग्नमालोक्य दुर्गामग्रे तथा स्थिताम्। दृष्ट्वाजगाम नमरो मत्तकुञ्जरसंस्थितः।। २०.१३ समागम्य च वेगेन देव्याः शक्तिं मुमोच ह। त्रिशूलमपि सिंहाय प्राहिणोद् दानवो रणे।। २०.१४ तावापतन्तौ देव्या तु हुंकारेणाथ भस्मसात्। कृतावथ गजेन्द्रेण गृहीतो मध्यतो हरिः।। २०.१५ अथोत्पत्य च वेगेन तलेनाहत्य दानवम्। गतासुः कुञ्जरस्कन्धात् क्षिप्य दैव्यै निवेदितः।। २०.१६ गृहीत्वा दानवं मध्ये ब्रह्मन् कात्यायनी रुषा। सव्येन पाणिना भ्राम्य वादयत् पटहं यथा।। २०.१७ ततोऽट्टहासं मुमुचे तादृशे वाद्यतां गते। हास्यात् समुद्भवंस्तस्या भूता नानाविधाऽद्भुताः।। २०.१८ केचिद् व्याघ्रमुखा रौद्रा वृकाकारास्तथा परे। हयास्या महिषास्याश्च वराहवदनाः परे।। २०.१९ आखुकुक्कुटवक्त्राश्च गोऽजाविकमुखास्तथा। नानावक्त्राक्षिचरणा नानायुधधरास्तथा।। २०.२० गायन्त्यन्ये हसन्त्यन्ये रमन्त्यन्ये तु संघशः। वादयन्त्यपरे तत्र स्तुवन्त्यन्ये तथाम्बिकाम्।। २०.२१ सा तैर्भूतगणैर्देवी सार्द्ध तद्दानवं बलम्। शातयामास चाक्रम्य यथा सस्यं महाशनिः।। २०.२२ सेनाग्रे निहते तस्मिन् तथा सेनाग्रगामिनि। चिक्षुरः सैन्यपालस्तु योधयामास देवताः।। २०.२३ कार्मुकं दृढमाकर्णमाकृष्य रथिनां वरः। ववर्ष शरजालानि यथा मेघो वसुन्धराम्।। २०.२४ तान् दुर्गा स्वशरैश्छित्त्वा शरसंघान् सुपर्वभिः। सौवर्णपुङ्खानपराञ्शरान् जग्राह षोडश।। २०.२५ ततश्चतुर्भिश्चतुरस्तुरङ्गानपि भामिनी। हत्वा सारथिमेकेन ध्वजमेकेन चिच्छिदे।। २०.२६ ततस्तु सशरं चापं चिच्छेदैकेषुणाऽम्बिका। छिन्ने धनुषु खङ्गं च चर्म चादत्तवान् बली।। २०.२७ तं खङ्गं चर्मणा सार्धं दैत्यस्याधुन्वतो बलात्। शरैश्चतुर्भिश्चिच्छेद ततः शूलं समाददे।। २०.२८ समुद्भ्राम्य महच्छूलं संप्राद्रवदथाम्बिकाम्। क्रोष्टुको मुदितोऽरण्ये मृगराजवधूं यथा।। २०.२९ तस्याभिपततः पादौ करौ शीर्ष च पञ्चभिः। शरैश्चिच्छेद संक्रुद्धा न्यपतिन्निहतोऽसुरः।। २०.३० तस्मिन् सेनापतौ क्षुण्णे तदोग्रास्यो महासुरः। समाद्रवत वेगेन करालास्यश्च दानवः।। २०.३१ बाष्कलश्चोद्धतश्चैव उदग्राख्योग्रकार्मुकः। दुर्द्धरो दुर्मुखश्चैव बिडालनयनोऽपरः।। २०.३२ एतेऽन्ये च महात्मानो दानवा बलिनां वराः। कात्यायनीमाद्रवन्त नानाशस्त्रास्त्रपाणयः।। २०.३३ तान् दृष्ट्वा लीलया दुर्गा वीणां जग्राह पाणिना। वादयामास हसती तथा डमरुकं वरम्।। २०.३४ यथा यथा वादयते देवी वाद्यानि तानि तु। तथा तथा भूतगणा नृत्यन्ति च हसन्ति च।। २०.३५ ततोऽसुराः शस्त्रधराः समभ्येत्य सरस्वतीम्। अभ्यघ्नंस्तांश्च जग्राह केशेषु परमेश्वरी।। २०.३६ प्रहृह्य केशेषु महासुरांस्तान् उत्पत्य सिंहात्तु नगस्य सानुम्। ननर्त वीणां परिवादयन्ती पपौ च पानं जगतो जनित्री।। २०.३७ ततस्तु देव्या बलिनो महासुरा दोर्दण्डनिर्धूतविशीर्णदर्पाः। विस्रस्तवस्त्रा व्यसवश्च जाताः ततस्तु तान् वीक्ष्य महासुरेन्द्रान्।। २०.३८ देव्या महौजा महिषासुरस्तु व्यद्रावयद् भूतगणान् खुराग्रैः। तुण्डेन पुच्छेन तथोरसाऽन्यान् निःश्वासवातेन च भूतसंघान्।। २०.३९ नादेन चैवाशनिसन्निभेन विषाणकोट्या त्वपरान् प्रमथ्य। दुद्राव सिंहं युधि हन्तुकामः ततोऽम्बिका क्रोधवशं जगाम।। २०.४० ततः स कोपादथ तीक्ष्णश्रृङ्गः क्षिप्रं गिरीन् भूमिमशीर्णयच्च। संक्षोभयंस्तोयनिधीन् घनांश्च विध्वंसयन् प्राद्रवताथ दुर्गाम्।। २०.४१ सा चाथ पाशेन बबन्ध दुष्टं स चाप्यभूत् क्लिन्नकटः करीन्द्रः। करं प्रचिच्छेद च हस्तिनोऽग्रं स चापि भृयो महिषोऽभिजातः।। २०.४२ ततोऽस्य शूलं व्यसृजन्मृडानी स शीर्णमूलो न्यपतत् पृथिव्याम्। शक्तिं प्रचिक्षेप हुताशदत्तां सा कुण्ठिताग्रा न्यपतन्महर्षे।। २०.४३ चक्रं हरेर्दानवचक्रहन्तुः क्षिप्तं त्वचक्रत्वमुपागतं हि। गदां समाविध्य धनेश्वरस्य क्षिप्ता तु भग्ना न्यपतत् पृथिव्याम्।। २०.४४ जलेशपाशोऽपि महासुरेण विषाणतुण्डाग्रखुरप्रणुन्नः। निरस्य तत्कोपितया च मुक्तो दण्डस्तु याम्यो बहुखण्डतां गतः।। २०.४५ वज्रं सुरेन्द्रस्य च विग्रहेऽस्य मुक्तं सुसूक्ष्मत्वमुपाजगाम। संत्यज्य सिंहं महिषासुरस्य दुर्गाऽधिरूढा सहसैव पृष्ठम्।। २०.४६ पृष्ठस्थितायां महिषासुरोऽपि पोप्लूयते वीर्यमदान्मृडान्याम्। सा चापि पद्भ्यां मृदुकोमलाभ्यां ममर्द तं क्लिन्नमिवाजिनं हि।। २०.४७ स मृद्यमानो धरणीधराभो देव्या बली हीनबलो बभूव। ततोऽस्य शूलेन बिबेद कण्ठं तस्मात् पुमान् खङ्गधरो विनिर्गतः।। २०.४८ निष्क्रान्तमात्रं हृदये पदा तम् आहत्य संगृह्य कचेषु कोपात्। शिरः प्रचिच्छेद वरासिनाऽस्य हाहा कृतं दैत्यबलं तदाऽभूत्।। २०.४९ सचण्डमुण्डाः समयाः सताराः सहासिलोम्ना भयकातराक्षाः। संताड्यमानाः प्रमथैर्भवान्याः पातालमेवाविविशुर्भयार्ताः।। २०.५० देव्या जयं देवगणा विलोक्य स्तुवन्ति देवीं स्तुतिभिर्महर्षे। नारायणीं सर्वजगत्प्रतिष्ठां कात्यायनीं घोरमुखीं सुरूपाम्।। २०.५१ संस्तूयमाना सुरसिद्धसंघैर्न्निषण्णभूता हरपादमूले। भूयो भविष्याम्यमरार्थमेवमुक्त्वा सुरांस्तान् प्रविवेश दुर्गा।। २०.५२ इति श्रीवामनपुराणे एकविंशोऽध्यायः ।। २० ।। नारद उवाच पुलस्त्य कथ्यतां तावद् देव्या भूयः समुद्भवः। महत्कौतूहलं मेऽद्य विस्तराद् ब्रह्मवित्तम।। २१.१ पुलस्त्य उवाच श्रूयतां कथयिष्यामि भूयोऽस्याः संभवं मुने। शुम्भासुरवधार्थाय लोकानां हितकाम्यया।। २१.२ या सा हिमवतः पुत्री भवेनोढा तपोधना। उमा नाम्ना च तस्याः सा कोशाञ्जाता तु कौशिकी।। २१.३ संभीय विन्ध्यं गत्वा च भूयो भूतगणैर्वृता। शुम्भं चैव निशुम्भं च वधिष्यति वरायुधैः।। २१.४ नारद उवाच ब्रह्मंस्त्वया समाख्याता मृता दक्षात्मजा सती। सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि।। २१.५ यथा च पार्वतीकोशात् समुद्भूता हि कौशिकी। यथा हतवती शुम्भं निशुम्भं च महासुरम्।। २१.६ कस्य चेमौ सुतौ वीरौ ख्यातौ शुम्भनिशुम्भकौ। एतद् विस्तरतः सर्वं यथावद् वक्तुमर्हसि।। २१.७ पुलस्त्य उवाच एतत्ते कथयिष्यामि पार्वत्याः संभवं मुने। श्रृणुष्वावहितो भूत्वा स्कन्दोत्पत्तिं च शाश्वतीम्।। २१.८ भगवंस्तत्प्रसादेन देव्याश्चरितमुत्तमम् । श्रुतं विस्तारतो ब्रूहि पार्वत्याः समभवं मुने ॥ २१.९ रुद्रः सत्यां प्रणष्टायां ब्रह्मचारिव्रते स्तितः। निराश्रयत्वमापन्नस्तपस्तप्तुं व्यवस्थितः।। २१.११ स चासीद् देवसेनानीर्दैत्यदर्पविनाशनः।। २१.११ ततो निराकृता देवाः सेनानाथेन शंभुना। दानवेन्द्रेण विक्रम्य महिषेण पराजिताः।। २१.१२ ततो जग्मुः सुरेशानं द्रष्टुं चक्रगदाधरम्। श्वेतद्वीपे महाहंसं प्रपन्नाः शरणं हरिम्।। २१.१३ तानागतान् सुरान् दृष्ट्वा ततः शक्रपुरोगमान्। विहस्य मेघगम्भीरं प्रोवाच पुरुषोत्तमः।। २१.१४ किं जितास्त्वसुरेन्द्रेण महिषेण दुरात्मना। येन सर्वे समेत्यैवं मम पार्श्वमुपागताः।। २१.१५ तद् युष्माकं हितार्थाय यद् वदामि सुरोत्तमाः। तत्कुरुध्वं जयो येन समाश्रित्य भवेद्धि वः।। २१.१६ य एते पितरो दिव्यास्त्वग्निष्वात्तेति विश्रुताः। अमीषां मानसी कन्या मेना नाम्नाऽस्ति देवताः।। २१.१७ तामाराध्य महातिथ्यां श्रद्धया परयाऽमराः। प्रार्थयध्वं सतीं मेनां प्रालेयाद्रेरिहार्थतः।। २१.१८ तस्यां सा रूपसंयुक्ता भविष्यति तपस्विनी। दक्षकोपाद् यया मुक्तं मलवज्जीवितं प्रियम्।। २१.१९ सा शंकरात् स्वतेजोंऽशं जनयिष्यति यं सुतम्। स हनिष्यति दैत्येन्द्रं महिषं सपदानुगम्।। २१.२० तस्माद् गच्छत पुण्यं तत् कुरुक्षेत्रं महाफलम्। तत्र पृथूदके तीर्थे पूज्यन्तां पितरोऽव्ययाः।। २१.२१ महातिथ्यां महापुण्ये यदि शत्रुपराभवम्। जिहासतात्मनः सर्वे इत्थं वै क्रियतामिति।। २१.२२ पुलस्त्य उवाच इत्युक्त्वा वासुदेवेन देवाः शक्रपुरोगमाः। कृताञ्जलिपुटा भूत्वा पप्रच्छुः परमेश्वरम्।। २१.२३ देवा ऊचुः कोऽयं कुरुक्षेत्र इति यत्र पुण्यं पृथूदकम्। उद्भवं तस्य तीर्थस्य भगवान् प्रब्रवीतु नः।। २१.२४ केयं प्रोक्ता महापुण्या तिथीनामुत्तमा तिथिः। यस्यां हि पितरो दिव्याः पूज्याऽस्माभिः प्रयत्नतः।। २१.२५ ततः सुराणां वचनान्मुरारिः कैटभार्दनः। कुरुक्षेत्रोद्भवं पुण्यं प्रोक्तवांस्तां तिथीमपि।। २१.२६ श्रीभगवानुवाच सोमवंशोद्भवो राजा ऋक्षो नाम महाबलः। कृतस्यादौ समभवदृक्षात् संवरणोऽभवत्।। २१.२७ स च पित्रा निजे राज्ये बाल एवाभिषेचितः। बाल्येऽपि धर्मनिरतो मद्भक्तश्च सदाऽभवत्।। २१.२८ पुरोहितस्तु तस्यासीद् वसिष्ठो वरुणात्मजः। स चास्याध्यापयामास साङ्गान् वेदानुदारधीः।। २१.२९ ततो जगाम चारण्यं त्वनध्याये नृपात्मजः। सर्वकर्मसु निक्षिप्य वसिष्ठं तपसां निधिम्।। २१.३० ततो मृगयाव्याक्षेपाद् एकाकी विजनं वनम्। वैभ्राजं स जगामाथ अथोन्मादनमभ्ययात्।। २१.३१ ततस्तु कौतुकाविष्टः सर्वर्तुकुसुमे वने। अवितृप्तः सुगन्धस्य समन्ताद् व्यचरद् वनम्।। २१.३२ स वनान्तं च ददृशे फुल्लकोकनदावृतम्। कह्लारपद्मकुमुदैः कमलेन्दीवरैरपि।। २१.३३ तत्र क्रीडन्ति सततमप्सरोऽमरकन्यकाः। तासां मध्ये ददर्शाथ कन्यां संवरणोऽधिकाम्।। २१.३४ दर्शनादेव स नृपः काममार्गणपीडितः। जातः सा च तमीक्ष्यैव कामबाणातुराऽभवत्।। २१.३५ उभौ तौ पीडितौ मोहं जग्मतुः काममार्गणैः। राजा चलासनो भूम्यां निपपात तुरङ्गमात्।। २१.३६ तमभ्येत्य महात्मानो गन्धर्वाः कामरूपिणः। सिषिचुर्वारिणाऽभ्येत्य लब्धसंज्ञोऽभवत् क्षणात्।। २१.३७ सा चाप्सरोभिरुत्पात्य नीता पितृकुलं निजम्। ताभिराश्वासिता चापि मधुरैर्वचनाम्बुभिः।। २१.३८ स चाप्यरुह्य तुरगं प्रतिष्ठानं पुरोत्तमम्। गतस्तु मेरुशिखरं कामचारी यथाऽमरः।। २१.३९ यदाप्रभृति सा दृष्टा आर्क्षिणा तपती गिरौ। तदाप्रभृति नाश्नाति दिवा स्वपिति नो निशि।। २१.४० ततः सर्वविदव्यग्रो विदित्वा वरुणात्मजः। तपतीतापितं वीरं पार्थिवं तपसां निधिः।। २१.४१ समुत्पत्य महायोगी गगनं रविमण्डलम्। विवेश देवं तिग्मांशु ददर्श स्यन्दने स्थितम्।। २१.४२ तं दृष्ट्वा भास्करं देवं प्रणमद् द्विजसत्तमः। प्रतिप्रणमितश्चासौ भास्करेणाविशद् रथे।। २१.४३ ज्वलज्जटाकलापोऽसौ दिवाकरसमीपगः। शोभते वारुणिः श्रीमान् द्वितीय इव भास्करः।। २१.४४ ततः संपूजितोऽर्घाद्यैर्भास्करेण तपोधनः। पृष्टश्चागमने हेतुं प्रत्युवाच दिवाकरम्।। २१.४५ समायातोऽस्मि देवेश याचितुं त्वां महाद्युते। सुतां संवरणस्यार्थे तस्य त्वं दातुमर्हसि।। २१.४६ ततो वसिष्ठाय दिवाकरेण निवेदिता सा तपती तनूजा। गृहागताय द्विजपुंगवाय राज्ञोऽर्थतः संवरणस्य देवाः।। २१.४७ सावित्रिमादाय ततो वसिष्ठः स्वमाश्रमं पुण्यमुपाजगाम। सा चापि संस्मृत्य नृपात्मजं तं कृताञ्जलिर्वारुणिमाह देवी।। २१.४८ तपत्युवाच ब्रह्मन् मया खेदमुपेत्य यो हि सहाप्सरोभिः परिचारिकाभिः। दृष्टो ह्यरण्येऽमरगर्भतुल्यो नृपात्मजो लक्षणतोऽभिजाने।। २१.४९ पादौ शुभौ चक्रगदासिचिह्नौ जङ्घे तथोरू करिहस्ततुल्यौ। कटिस्तथा सिंहकटिर्यथैव क्षामं च मध्यं त्रिबलीनिबद्धम्।। २१.५० ग्रीवाऽस्य शङ्खाकृतिमादधाति भुजौ च पीनौ कठिनौ सुदीर्घौ। हस्तौ तथा पद्मदलोद्भवाङ्कौ छत्राकृतिस्तस्य शिरो विभाति।। २१.५१ नीलाश्च केशाः कुटिलाश्च तस्य कर्णौ समांसौ सुसमा च नासा। दीर्घाश्च तस्याङ्गुलयः सुपर्वाः पद्भ्यां कराभ्यां दशनाश्च शुभ्राः।। २१.५२ समुन्नतः षड्भिरुदारवीर्यस्त्रिभिर्गभीरस्त्रिपु च प्रलम्बः। रक्तस्तथा पञ्चसु राजपुत्रः कृष्णश्चतुर्भिस्त्रिभिरानतोऽपि।। २१.५३ द्वाभ्यां च शुक्लः सुरभिश्चतुर्भिः दृश्यन्ति पद्मानि दशैव चास्य। वृतः स भर्ता भगवान् हि पूर्वं तं राजपुत्रं भुवि संविचिन्त्य।। २१.५४ ददस्व मां नाथ तपस्विनेऽस्मै गुणोपपन्नाय समीहिताय। नेहान्यकामां प्रवदन्ति सन्तो दातुं तथाऽन्यस्य विभो क्षमस्व।। २१.५५ देवदेव उवाच इत्येवमुक्तः सवितुश्च पुत्र्या ऋषिस्तदा ध्यानपरो बभूव। ज्ञात्वा च तत्रार्कसुतां सकामां मुदा युतो वाक्यमिदं जगाद।। २१.५६ स एव पुत्रि नृपतेस्तनूजो दृष्टः पुरा कामयसे यमद्य। स एव चायाति ममाश्रमं वै ऋक्षात्मजः संवरणो हि नाम्ना।। २१.५७ अथाजगाम स नृपस्य पुत्रस्तमाश्रमं ब्राह्मणपुंगवस्य। दृष्ट्वा वसिष्ठं प्रणिपत्य मूर्ध्ना स्थितस्त्वपश्यत् तपतीं नरेन्द्रः। २१.५८ दृष्ट्वा च तां पद्मविशालनेत्रां तां पूर्वदृष्टामिति चिन्तयित्वा। पप्रच्छ केयं ललना द्विजेन्द्र स वारुणिः प्राह नराधिपेन्द्रम्।। २१.५९ इयं विवस्वद्दुहिता नरेन्द्र नाम्ना प्रसिद्धा तपती पृथिव्याम्। मया तवार्थाय दिवाकरोऽर्थितः प्रादान्मया त्वाश्रममानिनिन्ये।। २१.६० तस्मात् समुत्तिष्ट नरेन्द्र देव्याः पाणिं तपत्या विधिवद् गृहाण। इत्येवमुक्तो नृपतिः प्रहृष्टो जग्राह पाणिं विधिवत् तपत्याः।। २१.६१ सा तं पतिं प्राप्य मनोऽभिरामं सूर्यात्मजा शक्रसमप्रभावम्। रराम तन्वी भवनोत्तमेषु यता महैन्द्रं दिवि दैत्यकन्या।। २१.६२ देवदेव उवाच तस्यां तपत्यां नरसत्तमेन जातः सुतः पार्थिवलक्षणस्तु। स जातकर्मादिभिरेव संस्कृतो विवर्द्धताज्येन हुतो यथाऽग्निः।। २२.१ कृतोऽस्य चूडाकरणश्च देवा विप्रेण मित्रावरुणात्मजेन। नवाब्दिकस्य व्रतबन्धनं च वेदे च शास्त्रे विधिपारगोऽभूत्।। २२.२ ततश्चतुःषड्भिरपीह वर्षैः सर्वज्ञतामभ्यगमत् ततोऽसौ। ख्यातः पृथिव्यां पुरुषोत्तमोऽसौ नाम्ना कुरुः संवरणस्य पुत्रः।। २२.३ ततो नरपतिर्दृष्ट्वा धार्मिकं तनयं शुभम्। दारक्रियार्थमकरोद् यत्नं शुभकुले ततः।। २२.४ सौदामिनीं सुदाम्नस्तु सुतां रूपाधिकां नृपः। कुरोरर्थाय वृतवान् स प्रादात् कुरवेऽपि ताम्।। २२.५ स तां नृपसुतां लब्ध्वा धर्मार्थावविरोधयन्। रेमे तन्व्या सह तया पौलोम्या मघवानिव।। २२.६ ततो नरपतिः पुत्रं राज्यभारक्षमं बली। विदित्वा यौवराज्याय विधानेनाभ्यषेचयत्।। २२.७ ततो राज्येऽभिषिक्तस्तु कुरुः पित्रा निजे पदे। पालयामास स महीं पुत्रवच्च स्वयं प्रजाः।। २२.८ स एव क्षेत्रपालोऽभूत् पशुपालः स एव हि। स सर्वपालकश्चासीत् प्रजापालो महाबलः।। २२.९ ततोऽस्य बुद्धिरुत्पन्ना कीर्तिर्लोके गरीयसी। यावत्कीर्तिः सुसंस्था हि तावद्वासः सुरैः सह।। २२.१० स त्वेवं नृपतिश्रेष्ठो याथातथ्यमवेक्ष्य च। विचचार महीं सर्वां कीर्त्यर्थं तु नराधिपः।। २२.११ ततो द्वैतवनं नाम पुण्यं लोकेश्वरो बली।। तदासाद्य सुसंतुष्टो विवेशाभ्यान्तरं ततः।। २२.१२ तत्र देवीं ददर्शाथ पुण्यां पापविमोचनीम्। प्लक्षजां ब्रह्मणः पुत्रीं हरिजिह्वां सरस्वतीम्।। २२.१३ सुदर्शनस्य जननीं ह्रदं कृत्वा सुविस्तरम्। स्थितां भगवतीं कूले तीर्थकोटिभिराप्लुताम्।। २२.१४ तस्यास्तज्जलमीक्ष्यैव स्नात्वा प्रीतोऽभवन्नृपः। समाजगाम च पुनः ब्रह्मणो वेदिमुत्तराम्।। २२.१५ समन्तपञ्चकं नाम धर्मस्थानमनुत्तमम्। आसमन्ताद् योजनानि पञ्च पञ्च च सर्वतः।। २२.१६ देवा ऊचुः कियन्त्यो वेदयः सन्ति ब्रह्मणः पुरुषोत्तम। येनोत्तरतया वेदिर्गदिता सर्वपञ्चका।। २२.१७ देवदेव उवाच वेदयो लोकनाथस्य पञ्च धर्मस्य सेतवः। यासु यष्टं सुरेशेन लोकनाथेन शंभुना।। २२.१८ प्रयागो मध्यमा वेदिः पूर्वा वेदिर्गयाशिरः। विरजा दक्षिणा वेदिरनन्तफलदायिनी।। २२.१९ प्रतीची पुष्करा वेदिस्त्रिभिः कुण्डैरलंकृता। समन्तपञ्चका चोक्ता वेदिरेवोत्तराऽव्यया।। २२.२० तममन्यत राजर्षिरिदं क्षेत्रं महाफलम्। करिष्यामि कृषिष्यामि सर्वान् कामान् यथेप्सितान्।। २२.२१ इति संचिन्त्य मनसा त्यक्त्वा स्यन्दनमुत्तमम्। चक्रे कीर्त्यर्थमतुलं संस्थानं पार्थिवर्षभः।। २२.२२ कृत्वा सीरं स सौवर्णं गृह्य रुद्रवृषं प्रभुः। पौण्ड्रकं याम्यमहिषं स्वयं कर्षितुमुद्यतः।। २२.२३ तं कर्षन्तं नरवरं समभ्येत्य शतक्रतुः। प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः।। २२.२४ तं कर्षन्तं नरवरं समभ्येत्य शतक्रतुः। प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः।। २२.२५ राजाऽब्रवीत् सुरवरं तपः सत्यं क्षमां दयाम्। कृषामि शौचं दानं च योगं च ब्रह्मचारिताम्।। २२.२६ तस्योवाच हरिर्देवः कस्माद्बीजो नरेश्वर। लब्धोऽष्टाङ्गेति सहसा अवहस्य गतस्ततः।। २२.२७ गतेऽपि शक्र राजर्षिरहन्यहनि सीरधृक्। कृषतेऽन्यान् समन्ताच्च सप्तक्रोशान् महीपतिः।। २२.२८ ततोऽहमब्रुवं गत्वा कुरो किमिदमित्यथ। तदाऽष्टाङ्गं महाधर्मं समाख्यातं नृपेण हि।। २२.२९ ततो मयाऽस्य गदितं नृप बीजं क्व तिष्ठति। स चाह मम देहस्थं बीजं तमहमब्रुवम्। देह्यहं वापयिष्यामि सीरं कृषतु वै भवान्।। २२.३० ततो नृपतिना बाहुर्दक्षिणः प्रसृतः कृतः। प्रसृतं तं भुजं दृष्ट्वा मया चक्रेण वेगतः।। २२.३१ सहस्रधा ततश्छिद्य दत्तो युष्माकमेव हि। ततः सव्यो भुजो राज्ञा दत्तश्छिन्नोऽप्यसौ मया।। २२.३२ तथैवोरुयुगं प्रादान्मया छिन्नौ च तावुभौ। ततः स मे शिरः प्रादात् तेन प्रीतोऽस्मि तस्य च। वरदोऽस्मीत्यथेत्युक्ते कुरुर्वरमयाचत।। २२.३३ यावदेतन्मया कृष्टं धर्मक्षेत्रं तदस्तु च। स्नातानां च मृतानां च महापुण्यफलं त्विह।। २२.३४ उपवासं च दानं च स्नानं जप्यं च माधव। होमयज्ञादिकं चान्यच्छुभं वाप्यशुभं विभो।। २२.३५ त्वत्प्रसादात् हृषीकेश शङ्खचक्रगदाधर। अक्षयं प्रवरे क्षेत्रे भवत्वत्र महाफलम्।। २२.३६ तथा भवान् सुरैः सार्धं समं देवेन शलिना। वस त्वं पुण्डरीकाक्ष मन्नामव्यञ्जकेऽच्युत। इत्येवमुक्तस्तेनाहं राज्ञा बाढमुवाच तम्।। २२.३७ तथा च त्वं दिव्यवपुर्भव भूयो महीपते। तथाऽन्तकाले मामेव लयमेष्यसि सुव्रत।। २२.३८ कीर्तिश्च शाश्वती तुभ्यं भविष्यति न संशयः। तत्रैव याजका यज्ञान् यजिष्यन्ति सहस्रशः।। २२.३९ तस्य क्षेत्रस्य रक्षार्थं ददौ स पुरुषोत्तमः। यक्षं च चन्द्रनामानं वासुकिं चापि पन्नगम्।। २२.४० विद्याधरं शङ्कुकर्णं सुकेशिं राक्षसेश्वरम्। अजावनं च नृपतिं महादेवं च पावकम्।। २२.४१ एतानि सर्वतोऽभ्येत्य रक्षन्ति कुरुजाङ्गलम्। अमीषां बलिनोऽन्ये च भृत्याश्चैवानुयायिनः।। २२.४२ अष्टौ सहस्राणि धनुर्धराणां ये वारयन्तीह सुदुष्कृतान् वै। स्नातुं न यच्छन्ति महोग्ररूपास्त्वन्यस्य भूताः सचराचराणाम्।। २२.४३ तस्यैव मध्ये बहुपुण्य उक्तः पृथूदकः पापहरः शिवश्च। पुण्या नदी प्राङ्मुखतां प्रयाता यत्रौघयुक्तस्य शुभा जलाढ्या।। २२.४४ पूर्वं प्रजेयं प्रपितामहेन सृष्टा समं भूतगणैः समस्तैः। मही जलं वह्निसमीरमेव खं त्वेवमादौ विबभौ पृथूदकः।। २२.४५ तथा च सर्वाणि महार्णवानि तीर्थानि नद्यः स्रवणाः सरांसि। संनिर्मितानीह महाभुजेन तच्चैक्यमागात् सलिलं महीषु।। २२.४६ सरोमाहात्म्यम् देवदेव उवाच सरस्वतीदृषद्वत्योरन्तरे कुरुजाङ्गले मुनिप्रवरमासीनं पुराणं लोमहर्षणम् अपृच्छन्त द्विजवराः प्रभावं सरसस्तदा ४७ प्रमाणं सरसो ब्रूहि तीर्थानां च विशेषतः देवतानां च माहात्म्यमुत्पत्तिं वामनस्य च ४८ एतच्छ्रुत्वा वचस्तेषां रोमहर्षसमन्वितः प्रणिपत्य पुराणर्षिरिदं वचनमब्रवीत् ४९ लोमहर्षण उवाच ब्रह्मणमग्र्यं कमलासनस्थं विष्णुं तथा लक्ष्मिसमन्वितं च रुद्रं च देवं प्रणिपत्य मूर्ध्ना तीर्थं महद् ब्रह्मसरः प्रवक्ष्ये ५० रन्तुकादौजसं यावत् पावनाच्च चतुर्मुखम् सरः संनिहितं प्रोक्तं ब्रह्मणा पूर्वमेव तु ५१ कलिद्वापरयोर्मध्ये व्यासेन च महात्मना सरःप्रमाणं यत्प्रोक्तं तच्छृणुध्वं द्विजोत्तमाः ५२ विश्वेश्वरादस्थिपुरं तथा कन्या जरद्गवी यावदोघवती प्रोक्ता तावत्संनिहितं सरः ५३ मया श्रुतं प्रमाणं यत् पठ्यमानं तु वामने तच्छृणुध्वं द्विजश्रेष्ठाः पुण्यं वृद्धिकरं महत् ५४ विश्वेश्वराद् देववरा नृपावनात् सरस्वती सरः संनिहितं ज्ञेयं समन्तादर्थयोजनम् ५५ एतदाश्रित्य देवाश्च ऋषयश्च समागताः सेवन्ते मुक्तिकामार्थं स्वर्गार्थे चापरे स्थिताः ५६ ब्रह्मणा सेवितमिदं सृष्टिकामेन योगिना विष्णुना स्थितिकामेन हरिरूपेण सेवितम् ५७ रुद्रेण च सरोमध्यं प्रविष्टेन महात्मना सेव्य तीर्थं महातेजाः स्थाणुत्वं प्राप्तवान् हरः ५८ आद्यैषा ब्रह्मणो वेदिस्ततो रामहृदः स्मृतः कुरुणा च यतः कृष्टं कुरुक्षेत्रं ततः स्मृतम् ५९ तरन्तुकारन्तुकयोर्यदन्तरं यदन्तरं रामहृदाच्चतुर्मुखम् एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते ६० इति श्रीवामनपुराणे सरोमाहात्म्ये द्वाविंशोऽध्यायः ऋषय ऊचुः ब्रूहि वामनमाहात्म्यमुत्पत्तिं च विशेषतः यथा बलिर्नियमितो दत्तं राज्यं शतक्रतोः १ लोमहर्षण उवाच शृणुध्वं मुनयः प्रीता वामनस्य महात्मनः उत्पत्तिं च प्रभावं च निवासं कुरुजाङ्गले २ तदेव वंशं दैत्यानां शृणुध्वं द्विजसत्तमाः यस्य वंशे समभवद् बलिर्वैरोचनिः पुरा ३ दैत्यानामादिपुरुषो हिरण्यकशिपुः पुरा तस्य पुत्रो महातेजाः प्रह्लादो नाम दानवः ४ तस्माद् विरोचनो जज्ञे बलिर्जज्ञे विरोचनात् हते हिरण्यकशिपौ देवानुत्साद्य सर्वतः ५ राज्यं कृतं च तेनेष्टं त्रैलोक्ये सचराचरे कृतयत्नेषु देवेषु त्रैलोक्ये दैत्यतां गते ६ जये तथा बलवतोर्मयशम्बरयोस्तथा शुद्धासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ७ संप्रवृत्ते दैत्यपथे अयनस्थे दिवाकरे प्रह्लादशम्बरमयैरनुह्रादेन चैव हि ८ दिक्षु सर्वासु सुप्तासु गगने दैत्यपालिते देवेषु मखशोभां च स्वर्गस्थां दर्शयत्सु च ९ प्रकृतिस्थे ततो लोके वर्त्तमाने च सत्पथे अभावे सर्वपापानां धर्मभावे सदोत्थिते १० चतुष्पादे स्थिते धर्मे ह्यधर्मे पादविग्रहे प्रजापालनयुक्तेषु भ्राजमानेषु राजसु स्वधर्मसंप्रयुक्तेषु तथाश्रमनिवासिषु ११ अभिषिक्तोऽसुरैः सर्वैर्दैत्यराज्ये बलिस्तदा हृष्टेष्वसुरसंघेषु नदत्सु मुदितेषु च १२ अथाभ्युपगता लक्ष्मीर्बलिं पद्मान्तरप्रभा पद्मोद्यतकरा देवी वरदा सुप्रवेशिनी १३ श्रीरुवाच बले बलवतां श्रेष्ठ दैत्यराज महाद्युते प्रीतास्मि तव भद्रं ते देवराजपराजये १४ यत्त्वया युधि विक्रम्य देवराज्यं पराजितम् दृष्ट्वा ते परमं सत्त्वं ततोऽहं स्वयमागता १५ नाश्चर्यं दानवव्याघ्र हिरण्यकशिपोः कुले प्रसूतस्यासुरेन्द्र स्य तव कर्मेदमीदृशम् १६ विशेषितस्त्वया राजन् दैत्येन्द्र ः! प्रपितामहः येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम् १७ एवमुक्त्वा तु सा देवी लक्ष्मीर्दैत्यनृपं बलिम् प्रविष्टा वरदा सेव्या सर्वदेवमनोरमा १८ तुष्टाश्च देव्यः प्रवराः ह्रीः कीर्तिर्द्युतिरेव च प्रभा धृतिः क्षमा भूतिरृद्धिर्दिव्या महामतिः १९ श्रुतिःस्मृतिरिडा कीर्तिः शान्तिः पुष्टिस्तथा क्रिया सर्वाश्चाप्सरसो दिव्या नृत्तगीतविशारदाः २० प्रपद्यन्ते स्म दैत्येन्द्रं त्रैलोक्यं सचराचरम् प्राप्तमैश्वर्यमतुलं बलिना ब्रह्मवादिना २१ इति वामनपुराणे पुलस्त्यनारदसंवादे सरोमाहात्म्ये त्रयोविंशतितमोऽध्यायः ऋषय ऊचुः देवानां ब्रूहि नः कर्म यद्वृत्तास्ते पराजिताः कथं देवातिदेवोऽसौ विष्णुर्वामनतां गतः १ लोमहर्षण उवाच बलिसंस्थं च त्रैलोक्यं दृष्ट्वा देवः पुरन्दरः मेरुप्रस्थं ययौ शक्रः स्वमातुर्निलयं शुभम् २ समीपं प्राप्य मातुश्च कथयामास तां गिरम् आदित्याश्च यथा युद्धे दानवेन पराजिताः ३ अदितिरुवाच यद्येवं पुत्र युष्माभिर्न शक्यो हन्तुमाहवे बलिर्विरोचनसुतः सर्वैश्चैव मरुद्गणैः ४ सहस्रशिरसा शक्यः केवलं हन्तुमाहवे तेनैकेन सहस्राक्ष न स ह्यन्येन शक्यते ५ तद्वत् पृच्छामि पितरं कश्यपं ब्रह्मवादिनम् पराजयार्थं दैत्यस्य बलेस्तस्य महात्मनः ६ ततोऽदित्या सह सुराः संप्राप्ताः कश्यपान्तिकम् तत्रापश्यन्त मारीचं मुनिं दीप्ततपोनिधिम् ७ आद्यं देवगुरुं दिव्यं प्रदीप्तं ब्रह्मवर्चसा तेजसा भास्कराकारं स्थितमग्निशिखोपमम् ८ न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनाम्बरम् वल्कलाजिनसंवीतं प्रदीप्तमिव तेजसा ९ हुताशमिव दीप्यन्तमाज्यगन्धपुरस्कृतम् स्वाध्यायवन्तं पितरं वपुष्मन्तमिवानलम् १० ब्रह्मवादिसत्यवादिसुरासुरगुरुं प्रभुम् ब्राह्मण्याप्रतिमं लक्ष्म्या कश्यपं दीप्ततेजसम् ११ यः स्रष्टा सर्वलोकानां प्रजानां पतिरुत्तमः आत्मभावविशेषेण तृतीयो यः प्रजापतिः १२ अथ प्रणम्य ते वीराः सहादित्या सुरर्षभाः ऊचुः प्राञ्जलयः सर्वे ब्रह्माणमिव मानसाः १३ अजेयो युधि शक्रेण बलिर्दैत्यो बलाधिकः तस्माद् विधत्त नः श्रेयो देवानां पुष्टिवर्धनम् १४ श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपः प्रभुः अकरोद् गमने बुद्धिं ब्रह्मलोकाय लोककृत् १५ कश्यप उवाच शक्र गच्छाम सदनं ब्रह्मणः परमाद्भुतम् तथा पराजयं सर्वे ब्रह्मणः ख्यातुमुद्यताः १६ सहादित्या ततो देवायाताः काश्यपमाश्रमम् प्रस्थिता ब्रह्मसदनं महर्षिगणसेवितम् १७ ते मुहूर्तेन संप्राप्ता ब्रह्मलोकं सुवर्चसः दिव्यैः कामगमैर्यानैर्यथार्हैस्ते महाबलाः १८ ब्रह्माणं द्र ष्टुमिच्छन्तस्तपोराशिनमव्ययम् अध्यगच्छन्त विस्तीर्णां ब्रह्मणः परमां सभाम् १९ षट्पदोद्गीतमधुरां सामगैः समुदीरिताम् श्रेयस्करीममित्रघ्नीं दृष्ट्वा संजहृषुस्तदा २० ऋचो बह्वृचमुख्यैश्च प्रोक्ताः क्रमपदाक्षराः शुश्रुवुर्विबुधव्याघ्रा विततेषु च कर्मसु २१ यज्ञविद्यावेदविदः पदक्रमविदस्तथा स्वरेण परमर्षीणां सा बभूव प्रणादिता २२ यज्ञसंस्तवविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः छन्दसां चैव चार्थज्ञैः सर्वविद्याविशारदैः २३ लोकायतिकमुख्यैश्च शुश्रुवुः स्वरमीरितम् तत्र तत्र च विप्रेन्द्रा नियताः शंसितव्रताः २४ जपहोमपरा मुख्या ददृशुः कश्यपात्मजाः तस्यां सभायामास्ते स ब्रह्मा लोकपितामहः २५ सुरासुरगुरुः श्रीमान् विद्यया वेदमायया उपासन्त च तत्रैव प्रजानां पतयः प्रभुम् २६ दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमाः भृगुरत्रिर्वसिष्ठश्च गौतमो नारदस्तथा २७ विद्यास्तथान्तरिक्षं च वायुस्तेजो जलं महो शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च २८ प्रकृतिश्च विकारश्च यच्चान्यत् कारणं महत् साङ्गोपाङ्गाश्च चत्वारो वेदा लोकपतिस्तथा २९ नयाश्च क्रतवश्चैव सङ्कल्पः प्राण एव च एते चान्ये च बहवः स्वयंभुवमुपासते ३० अर्थो धर्मश्च कामश्च क्रोधो हर्षश्च नित्यशः शुक्रो बृहस्पतिश्चैव संवर्त्तोऽथ बुधस्तथा ३१ शनैश्चरश्च राहुश्च ग्रहाः सर्वे व्यवस्थिताः मरुतो विश्वकर्मा च वसवश्च द्विजोत्तमाः ३२ दिवाकरश्च सोमश्च दिवा रात्रिस्तथैव च अर्द्धमासाश्च मासाश्च ऋतवः षट् च संस्थिताः ३३ तां प्रविश्य सभां दिव्यां ब्रह्मणः सर्वकामिकाम् कश्यपस्त्रिदशैः सार्द्धं पुत्रैर्धर्मभृतां वरः ३४ सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम् ब्राह्म्या श्रिया सेव्यमानामचिन्त्यां विगतक्लमाम् ३५ ब्रह्माणं प्रेक्ष्य ते सर्वे परमासनमास्थितम् शिरोभिः प्रणता देवं देवा ब्रह्मर्षिभिः सह ३६ ततः प्रणम्य चरणौ नियताः परमात्मनः विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः ३७ दृष्ट्वा तु तान् सुरान् सर्वान् कश्यपेन सहागतान् आह ब्रह्मा महातेजा देवानां प्रभुरीश्वरः ३८ इति श्रीवामनपुराणे पुलस्त्यनारदसंवादे सरोमाहात्म्ये चतुर्विंशोऽध्यायः २४ ब्रह्मोवाच यदर्थमिह संप्राप्ता भवन्तः सर्व एव हि चिन्तयाम्यहमप्यग्रे तदर्थं च महाबला १ भविष्यति च वः सर्वं काङ्क्षितं यत् सुरोत्तमाः बलेर्दानवमुख्यस्य योऽस्य जेता भविष्यति २ न केवलं सुरादीनां गतिर्मम स विश्वकृत् त्रैलोक्यस्यापि नेता च देवानामपि स प्रभुः ३ यः प्रभुः सर्वलोकानां विश्वेशश्च सनातनः पूर्वजोऽयं सदाप्याहुरादिदेवं सनातनम् ४ तं देवापि महात्मानं न विदुः कोऽप्यसाविति देवानस्मान् श्रुतिं विश्वं स वेत्ति पुरुषोत्तमः ५ तस्यैव तु प्रसादेन प्रवक्ष्ये परमां गतिम् यत्र योगं समास्थाय तपश्चरति दुश्चरम् ६ क्षीरोदस्योत्तरे कूले उदीच्यां दिशि विश्वकृत् अमृतं नाम परमं स्थानमाहुर्मनीषिणः ७ भवन्तस्तत्र वै गत्वा तपसा शंसितव्रताः अमृतं स्थानमासाद्य तपश्चरत दुश्चरम् ८ ततः श्रोष्यथ संघुष्टां स्निग्धगम्भीरनिःस्वनाम् उष्णान्ते तोयदस्येव तोयपूर्णस्य निःस्वनम् ९ रक्तां पुष्टाक्षरां रम्यामभयां सर्वदा शिवाम् वाणीं परमसंस्कारां वदतां ब्रह्मवादिनाम् १० दिव्यां सत्यकरीं सत्यां सर्वकल्मषनाशिनीम् सर्वदेवाधिदेवस्य ततोऽसौ भावितात्मनः ११ तस्य व्रतसमाप्त्यां तु योगव्रतविसर्जने अमोघं तस्य देवस्य विश्वतेजो महात्मनः १२ कस्य किं वो वरं देवा ददामि वरदः स्थितः स्वागतं वः सुरश्रेष्ठा मत्समीपमुपागताः १३ ततोऽदितिः कश्यपश्च गृह्णीयातां वरं तदा प्रणम्य शिरसा पादौ तस्मै देवाय धीमते १४ भगवानेव नः पुत्रो भवत्विति प्रसीद नः उक्तश्च परया वाचा तथास्त्विति स वक्ष्यति १५ देवा ब्रुवन्ति ते सर्वे कस्यपोऽदितिरेव च तथास्त्विति सुराः सर्वे प्रणम्य शिरसा प्रभुम् श्वेतद्वीपं समुद्दिश्य गताः सौम्यदिशं प्रति १६ तेऽचिरेणैव संप्राप्ताः क्षीरोदं सरितां पतिम् यथोद्दिष्टं भगवता ब्रह्मणा सत्यवादिना १७ ते क्रान्ताः सागरान् सर्वान् पर्वतांश्च सकाननान् नदीश्च विविधा दिव्याः पृथिव्यां ते सुरोत्तमाः १८ अपश्यन्त तमो घोरं सर्वसत्त्वविवर्जितम् अभास्करममर्यादं तमसा सर्वतो वृतम् १९ अमृतं स्थानमासाद्य कश्यपेन महात्मना दीक्षिताः कामदं दिव्यं व्रतं वर्ष सहस्रकम् २० प्रसादार्थं सुरेशाय तस्मै योगाय धीमते नारायणाय देवाय सहस्राक्षाय भूतये २१ ब्रह्मचर्येण मौनेन स्थाने वीरासनेन च क्रमेण च सुराः सर्वे तप उग्रं समास्थिताः २२ कश्यपस्तत्र भगवान् प्रसादार्थं महात्मनः उदीरयत वेदोक्तं यमाहुः परमं स्तवम् २३ इति श्रीवामनपुराणे सरोमाहात्म्ये पञ्चविंशतितमोऽध्यायः ओं नमो भगवते वासुदेवाय।। कश्यप उवाच एकशृङ्ग वृषासिन्धो वृषाकपे सुरवृष अनादिसंभव रुद्र कपिल विष्वक्सेन सर्वभूतपते ध्रुव धर्माधर्म वैकुण्ठ वृषावर्त्त अनादिमध्यनिधन धनञ्जय शुचिश्रवः पृश्नितेजः निजय ५ अमृतेशय सनातन त्रिधाम तुषित महातत्त्व लोकनाथ पद्मनाभ विरिञ्चे बहुरूप अक्षय अक्षर हव्यभुज खण्डपरशो शक्र मुञ्जकेश हंस महादक्षिण हृषीकेश सूक्ष्म महानियमधर विरज लोकप्रतिष्ठ अरूप अग्रज धर्मज धर्मनाभ १० गभस्तिनाभ शतक्रतुनाभ चन्द्र रथ सूर्यतेजः समुद्र वासः अजः सहस्रशिरः सहस्रपाद अधोमुख महापुरुष पुरुषोत्तम सहस्रबाहो सहस्रमूर्ते सहस्रास्य सहस्रसंभव सहस्रसत्त्वं त्वामाहुः । पुष्पहास चरम त्वमेव वौषट् १५ वषट्कारं त्वामाहुरग्र्यं मखेषु प्राशितारं सहस्रधारं च भूश्च भुवश्च स्वश्च त्वमेव वेदवेद्य ब्रह्मशय ब्राह्मणप्रिय त्वमेव द्यौरसि मातरिश्वासि धर्मोऽसि होता पोता मन्ता नेता होमहेतुस् त्वमेव अग्र्य विश्वधाम्ना त्वमेव दिग्भिः सुभाण्ड २० इज्योऽसि सुमेधोऽसि समिधस्त्वमेव मतिर्गतिर्दाता त्वमसि । मोक्षोऽसि योगोऽसि । सृजसि । धाता परमयज्ञोऽसि सोमोऽसि दीक्षितोऽसि दक्षिणासि विश्वमसि । स्थविर हिरण्यनाभ नारायण त्रिनयन आदित्यवर्ण आदित्यतेजः महापुरुष २५ पुरुषोत्तम आदिदेव सुविक्रम प्रभाकर शंभो स्वयंभो भूतादिः महाभूतोऽसि विश्वभूत विश्वं त्वमेव विश्वगोप्तासि पवित्रमसि विश्वभव ऊर्ध्वकर्म अमृत दिवस्पते वाचस्पते घृतार्चे अनन्तकर्म वंश प्राग्वंश विश्वपास्त्वमेव वरार्थिनां वरदोऽसि त्वम् ३० चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्जभिरेव च हूयते च पुनर्द्वाभ्यां तुभ्यं होत्रात्मने नमः इति श्रीवामनपुराणे सरोमाहात्म्ये षड्विंशतितमोऽध्यायः लोमहर्षण उवाच नारायणस्तु भगवाञ्छ्रुत्वैवं परमं स्तवम् ब्रह्मज्ञेन द्विजेन्द्रे ण कश्यपेन समीरितम् १ उवाच वचनं सम्यक् तुष्टः पुष्टपदाक्षरम् श्रीमान् प्रीतमना देवो यद्वदेत् प्रभुरीश्वरः २ वरं वृणुध्वं भद्रं वो वरदोऽस्मि सुरोत्तमाः कश्यप उवाच प्रीतोऽसि नः सुरश्रेष्ठ सर्वेषामेव निश्चयः ३ वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः अदित्या अपि च श्रीमान् भगवानस्त वै सुतः ४ अदितिर्देवमाता च एतमेवार्थमुत्तमम् पुत्रार्थं वरदं प्राह भगवन्तं वरार्थिनी ५ देवा ऊचुः निःश्रेयसार्थं सर्वेषां दैवतानां महेश्वर त्राता भर्ता च दाता च शरणं भव नः सदा ६ ततस्तानब्रवीद्विष्णुर्देवान् कश्यपमेव च सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः मुहूर्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ७ हत्वासुरागणान् सर्वान् यज्ञभागाग्रभोजिनः हव्यादांश्च सुरान् सर्वान् कव्यादांश्च पितॄनपि ८ करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा यथायातेन मार्गेण निवर्तध्वं सुरोत्तमाः ९ लोमहर्षण उवाच एवमुक्ते तु देवेन विष्णुना प्रभविष्णुना ततः प्रहृष्टमनसः पूजयन्ति स्म तं प्रभुम् १० विश्वेदेवा महात्मानः कश्यपोऽदितिरेव च नमस्कृत्य सुरेशाय तस्मै देवाय रंहसा ११ प्रयाताः प्राग्दिशं सर्वे विपुलं कश्यपाश्रमम् ते कश्यपाश्रमं गत्वा कुरुक्षेत्रवनं महत् १२ प्रसाद्य ह्यदितिं तत्र तपसे तां न्ययोजयन् सा चचार तपो घोरं वर्षाणामयुतं तदा १३ तस्या नाम्ना वनं दिव्यं सर्वकामप्रदं शुभम् आराधनाय कृष्णस्य वाग्जिता वायुभोजना १४ दैत्यैर्निराकृतान् दृष्ट्वा तनयानृषिसत्तमाः वृथापुत्राहमिति सा निर्वेदात् प्रणयाद्धरिम् तुष्टाव वाग्भिरग्र्याभिः परमार्थावबोधिनी १५ शरण्यं शरणं विष्णुं प्रणता भक्तवत्सलम् देवदैत्यमयं चादिमध्यमान्तस्वरूपिणम् १६ अदितिरुवाच नमः कृत्यार्तिनाशाय नमः पुष्करमालिने नमः परमकल्याण कल्याणायादिवेधसे १७ नमः पङ्कजनेत्राय नमः पङ्कजनाभये नमः पङ्कजसंभूतिसंभवायात्मयोनये १८ श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे नमः पद्मासिहस्ताय नमः कनकरेतसे १९ तथात्मज्ञानयज्ञाय योगिचिन्त्याय योगिने निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे २० जगच्च तिष्ठते यत्र जगतो यो न दृश्यते नमः स्थूलातिसूक्ष्माय तस्मै देवाय शार्ङ्गिणे २१ यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः अपश्यद्भिर्जगद्यश्च दृश्यते हृदि संस्थितः २२ बहिर्ज्योतिरलक्ष्यो यो लक्ष्यते ज्योतिषः परः यस्मिन्नेव यतश्चैव यस्यैतदखिलं जगत् २३ तस्मै समस्तजगताममराय नमो नमः आद्यः प्रजापतिः सोऽपि पितॄणां परमः पतिः पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे २४ यः प्रवृत्तैर्निवृत्तैश्च कर्मभिस्तु विरज्यते स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते २५ यस्तु संचित्यमानोऽपि सर्वं पापं व्यपोहति नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे २६ ये पश्यन्त्यखिलाधारमीशानमजमव्ययम् न पुनर्जन्ममरणं प्राप्नुवन्ति नमामि तम् २७ यो यज्ञो यज्ञपरमैरिज्यते यज्ञसंस्थितः तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् २८ गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः यस्तस्मै वेदवेद्याय नित्याय विष्णवे नमः २९ यतो विश्वं समुद्भूतं यस्मिन् प्रलयमेष्यति विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने ३० आब्रह्मस्तम्बपर्यन्तं व्याप्तं येन चराचरम् मायाजालसमुन्नद्धं तमुपेन्द्रं नमाम्यहम् ३१ योऽत्र तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ३२ मूर्त्तं तमोऽसुरमयं तद्विधो विनिहन्ति यः रात्रिजं सूर्यरूपी च तमुपेन्द्रं नमाम्यहम् ३३ यस्याक्षिणी चन्द्र सूर्यौ सर्वलोकशुभाशुभम् पश्यतः कर्म सततं तमुपेन्द्रं नमाम्यहम् ३४ यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् नानृतं तमजं विष्णुं नमामि प्रभवाव्ययम् ३५ यद्येतत्सत्यमुक्तं मे भूयश्चातो जनार्दन सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ३६ इति श्रीवामनपुराणे सरोमाहात्म्ये सप्तविंशतितमोऽध्यायः लोमहर्षण उवाच एवं स्तुतोऽथ भगवान् वासुदेव उवाच ताम् अदृश्यः सर्वभूतानां तस्याः संदर्शने स्थितः १ श्रीभगवानुवाच मनोरथांस्त्वमदिते यानिच्छस्यभिवाञ्छितान् तांस्त्वं प्राप्स्यसि धर्मज्ञे मत्प्रसादान्न संशयः २ शृणु त्वं च महाभागे वरो यस्ते हृदि स्थितः मद्दर्शनं हि विफलं न कदाचिद् भविष्यति ३ यश्चेह त्वद्वने स्थित्वा त्रिरात्रं वै करिष्यति सर्वे कामाः समृध्यन्ते मनसा यानिहेच्छति ४ दूरस्थोऽपि वनं यस्तु अदित्याः स्मरते नरः सोऽपि याति परं स्थानं किं पुनर्निवसन् नरः ५ यश्चेह ब्राह्मणान् पञ्च त्रीन् वा द्वावेकमेव वा भोजयेच्छ्रद्धया युक्तः स याति परमां गतिम् ६ अदितिरुवाच यदि देव प्रसन्नस्त्वं भक्त्या मे भक्तवत्सल त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ७ हृतं राज्यं हृतश्चास्य यज्ञभाग इहासुरैः त्वयि प्रसन्ने वरद तत् प्राप्नोतु सुतो मम ८ हृतं राज्यं न दुःखाय मम पुत्रस्य केशव प्रपन्नदायविभ्रंशो बाधां मे कुरुते हृदि ९ श्रीभगवानुवाच कृतः प्रसादो हि मया तव देवि यथेप्सितम् स्वांशेन चैव ते गर्भे संभविष्यामि कश्यपात् १० तव गर्भे समुद्भूतस्ततस्ते ये त्वरातयः तानहं च हनिष्यामि निवृत्ता भव नन्दिनि ११ अदितिरुवाच प्रसीद देवदेवेश नमस्ते विश्वभावन नाहं त्वामुदरे वोढुमीश शक्ष्यामि केशव यस्मिन् प्रतिष्ठितं सर्वं विश्वयोनिस्त्वमीश्वरः १२ श्रीभगवानुवाच अहं त्वां च वहिष्यामि आत्मानं चैव नन्दिनि न च पीडां करिष्यामि स्वस्ति तेऽस्तु व्रजाम्यहम् १३ इत्युक्त्वान्तर्हिते देवेऽदितिर्गर्भं समादधे गर्भस्थिते ततः कृष्णे चचाल सकला क्षितिः चकम्पिरे महाशैला जग्मुः क्षोभं महाब्धयः १४ यतो यतोऽदितिर्याति ददाति पदमुत्तमम् ततस्ततः क्षितिः खेदान्ननाम द्विजपुङ्गवाः १५ दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना १६ इति श्रीवामनपुराणे सरोमाहात्म्ये अष्टाविंशतितमोऽध्यायः लोमहर्षण उवाच निस्तेजसोऽसुरान् दृष्ट्वा समस्तानसुरेश्वरः प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् १ बलिरुवाच तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना किमेते सहसैवाद्य ब्रह्मदण्डहता इव २ दुरिष्टं किं तु दैत्यानां किं कृत्या विधिनिर्मिता नाशायैषां समुद्भूता येन निस्तेजसोऽसुराः ३ लोमहर्षण उवाच इत्यसुरवरस्तेन पृष्टः पौत्रेण ब्राह्मणाः चिरं ध्यात्वा जगादेदमसुरं तं तदा बलिम् ४ प्रह्लाद उवाच चलन्ति गिरयो भूमिर्जहाति सहसा धृतिम् सद्यः समुद्रा ः! क्षुभिता दैत्या निस्तेजसः कृताः ५ सूर्योदये यथा पूर्वं तथा गच्छन्ति न ग्रहाः देवानां च परा लक्ष्मीः करणेनानुमीयते ६ महदेतन्महाबाहो कारणं दानवेश्वर न ह्यल्पमिति मन्तव्यं त्वया कार्यं कथञ्चन ७ लोमहर्षण उवाच इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः अत्यर्थभक्तो देवेशं जगाम मनसा हरिम् ८ स ध्यानपथगं कृत्वा प्रह्लादश्च मनोऽसुरः विचारयामास ततो यथा देवो जनार्दनः ९ स ददर्शोदरेऽदित्याः प्रह्लादो वामनाकृतिम् तदन्तश्च वसून् रुद्रा नश्विनौ सरुतास्तथा १० साध्यान् विश्वे तथादित्यान् गन्धर्वोरगराक्षसान् विरोचनं च तनयं बलिं चासुरनायकम् ११ जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् आत्मानमुर्वीं गगनं वायुं वारि हुताशनम् १२ समुद्रा द्रि सरिद्द्वीपान् सरांसि च पशून् महीम् वयोमनुष्यानखिलांस्तथैव च सरीसृपान् १३ समस्तलोकस्रष्टारं ब्रह्माणं भवमेव च ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन् १४ संपश्यन् विस्मयाविष्टः प्रकृतिस्थः क्षणात् पुनः प्रह्लादः प्राह दैत्येन्द्रं बलिं वैरोचनिं ततः १५ तत्संज्ञातं मया सर्वं यदर्थं भवतामियम् तेजसो हानिरुत्पन्ना शृण्वन्तु तदशेषतः १६ देवदेवो जगद्योनिरयोनिर्जगदादिजः अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः १७ परावराणां परमः परापरसतां गतिः प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः स्थितिं कर्तु जगन्नाथः सोऽचिन्त्यो गर्भतां गतः १८ प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः त्रैलोक्यमंशेन सनाथमेकः कर्त्तुं महात्मादितिजोऽवतीर्णः १९ न यस्य रुद्रो न च पद्मयोनिर्नेन्द्रो न सूर्येन्दुमरीचिमिश्राः जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः २० यमक्षरं वेदविदो वदन्ति विशन्ति यं ज्ञानविधूतपापाः यस्मिन् प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् २१ भृतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम् लयं च यस्मिन् प्रलये प्रयान्ति तं वासुदेवं प्रणतोऽस्म्यचिन्त्यम् २२ न यस्य रूपं न बलं प्रभावो न च प्रतापः परमस्य पुंसः विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमामि नित्यम् २३ रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहित्री रसना रसस्य घ्राणं च गन्धग्रहणे नियुक्तं न घ्राणचक्षुः श्रवणादि तस्य २४ स्वयंप्रकाशः परमार्थतो यः सर्वेश्वरो वेदितव्यः स युक्त्या शक्यं तमीड्यमनघं च देवं ग्राह्यं नतोऽहं हरिमीशितारम् २५ येनैकदंष्ट्रेण समुद्धृतेयं धराचला धारयतीह सर्वम् शेते ग्रसित्वा सकलं जगद्यस्तमीड्यमीशं प्रणतोऽस्मि विष्णुम् २६ अंशावतीर्णेन च येन गर्भे हृतानि तेजांसि महासुराणाम् नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम् २७ देवो जगद्योनिरयं महात्मा स षोडशांशेन महासुरेन्द्रा ः! सुरेन्द्र मातुर्जठरं प्रविष्टो हृतानि वस्तेन बलं वपूंषि २८ बलिरुवाच तात कोऽयं हरिर्नाम यतो नो भयमागतम् सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः २९ विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च हयशिरा अश्वशिरा भङ्गकारो महाहनुः ३० प्रतापी प्रघशः शंभुः कुक्कुराक्षश्च दुर्जयः एते चान्ये च मे सन्ति दैतेया दानवास्तथा ३१ महाबला महावीर्या भूभारधरणक्षमाः एषामेकैकशः कृष्णो न वीर्यार्द्धेन संमितः ३२ लोमहर्षण उवाच पौत्रस्यैतद् वचः श्रुत्वा प्रह्लादो दैत्यसत्तमः सक्रोधश्च बलिं प्राह वैकुण्ठाक्षेपवादिनम् ३३ विनाशमुपयास्यन्ति दैत्या ये चापि दानवाः येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ३४ देवदेवं महाभागं वासुदेवमजं विभुम् त्वामृते पापसङ्कल्प कोऽन्य एवं वदिष्यति ३५ य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः सब्रह्मकास्तथा देवाः स्थावरान्ता विभूतयः ३६ त्वं चाहं च जगच्चेदं साद्रि द्रुमनदीवनम् ससमुद्र द्वीपलोकोऽयं यश्चेदं सचराचरम् ३७ यस्याभिवाद्यवन्द्यस्य व्यापिनः परमात्मनः एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ३८ ऋते विनाशाभिमुखं त्वामेकमविवेकिनम् दुर्बुद्धिमजितात्मानं वृद्धानां शासनातिगम् ३९ शोच्योऽहं यस्य मे गेहे जातस्तव पिताधमः यस्य त्वमीदृशः पुत्रो देवदेवावमानकः ४० तिष्ठत्वनेकसंसारसंघातौघविनाशिनि कृष्णे भक्तिरहं तावदवेक्ष्यो भवता न किम् ४१ न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः इति जानात्ययं लोको भवांश्च दितिनन्दन ४२ जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम निन्दां करोषि तस्य त्वमकुर्वन् गौरवं मम ४३ विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले ममापि सर्वजगतां गुरुर्नारायणो हरिः ४४ निन्दां करोषि तस्मिंस्त्वं कृष्णे गुरुगुरोर्गुरौ यस्मात् तस्मादिहैव त्वमैश्वर्याद् भ्रंशमेष्यसि ४५ स देवो जगतां नाथो बले प्रभुर्जनार्दनः नन्वहं प्रत्यवेक्ष्यस्ते भक्तिमानत्र मे गुरुः ४६ एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम् नापेक्षितस्त्वया यस्मात् तस्माच्छापं ददामि ते ४७ यथा मे शिरसश्छेदादिदं गुरुतरं बले त्वयोक्तमच्युताक्षेपं राज्यभ्रष्टस्तथा पत ४८ यथा न कृष्णादपरः परित्राणं भवार्णवे तथाचिरेण पश्येयं भवन्तं राज्यविच्युतम् ४९ इति श्रीवामनपुराणे सरोमाहात्म्ये नवविंशतितमोऽध्यायः लोमहर्षण उवाच इति दैत्यपतिः श्रुत्वा वचनं रौद्र मप्रियम् प्रसादयामास गुरुं प्रणिपत्य पुनः पुनः १ बलिरुवाच प्रसीद तात मा कोपं कुरु मोहहते मयि बलावलेपमूढेन मयैतद्वाक्यमीरितम् २ मोहापहतविज्ञानः पपोऽहं दितिजोत्तम यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ३ राज्यभ्रंशं यशोभ्रंशं प्राप्स्यामीति ततस्त्वहम् विषण्णोऽसि यथा तात तथैवाविनये कृते ४ त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम् संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ५ प्रसीद तात मा कोपं कर्तुमर्हसि दैत्यप त्वत्कोपपरिदग्धोऽहं परितप्ये दिवानिशम् ६ प्रह्लाद उवाच वत्स कोपेन मे मोहो जनितस्तेन ते मया शापो दत्तो विवेकश्च मोहेनापहृतो मम ७ यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर तत्कथं सर्वगं जानन् हरिं कच्चिच्छपाम्यहम् ८ यो यः शापो मया दत्तो भवतोऽसुरपुङ्गव भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीद वै ९ अद्यप्रभृति देवेशे भगवत्यच्युते हरौ भवेथा भक्तिमानीशे स ते त्राता भविष्यति १० शापं प्राप्य च मे वीर देवेशः संस्मृतस्त्वया तथा तथा वदिष्यामि श्रेयस्त्वं प्राप्स्यसे यथा ११ लोमहर्षण उवाच अदितिर्वरमासाद्य सर्वकामसमृद्धिदम् क्रमेण ह्युदरे देवो वृद्धिं प्राप्तो महायशाः १२ ततो मासेऽथ दशमे काले प्रसव आगते अजायत स गोविन्दो भगवान् वामनाकृतिः १३ अवतीर्णे जगन्नाथे तस्मिन् सर्वामरेश्वरे देवाश्च मुमुचुर्दुःखं देवमातादितिस्तथा १४ ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः धर्मे च सर्वभूतानां तदा मतिरजायत १५ नोद्वेगश्चाप्यभूद् देहे मनुजानां द्विजोत्तमाः तदा हि सर्वभूतानां धर्मे मतिरजायत १६ तं जातमात्रं भगवान् ब्रह्मा लोकपितामहः जातकर्मादिकां कृत्वा क्रियां तुष्टाव च प्रभुम् १७ ब्रह्मोवाच जयाधीश जयाजेय जय विश्वगुरो हरे जन्ममृत्युजरातीत जयानन्त जयाच्युत १८ जयाजित जयाशेष जयाव्यक्तस्थिते जय परमार्थार्थ सर्वज्ञ ज्ञानज्ञेयार्थनिःसृत १९ जयाशेष जगत्साक्षिञ्जगत्कर्तर्जगद्गुरो जगतोऽजगदन्तेश स्थितौ पालयते जय २० जयाखिल जयाशेष जय सर्वहृदिस्थित जयादिमध्यान्तमय सर्वज्ञानमयोत्तम २१ मुमुक्षुभिरनिर्देश्य नित्यहृष्ट जयेश्वर योगिभिर्मुक्तिकामैस्तु दमादिगुणभूषण २२ जयातिसूक्ष्म दुर्ज्ञेय जय स्थूल जगन्मय जय सूक्ष्मातिसूक्ष्म त्वं जयानिन्द्रि य सेन्द्रि य २३ जय स्वमायायोगस्थ शेषभोग जयाक्षर जयैकदंष्ट्रप्रान्तेन समुद्धृतवसुंधर २४ नृकेसरिन् सुरारातिवक्षःस्थलविदारण साम्प्रतं जय विश्वात्मन् मायावामन केशव २५ निजमायापरिच्छिन्न जगद्धातर्जनार्दन जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो २६ वर्द्धस्व वर्धितानेकविकारप्रकृते हरे त्वय्येषा जगतामीशे संस्थिता धर्मपद्धतिः २७ न त्वामहं न चेशानो नेन्द्रा द्यास्त्रिदशा हरे ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः २८ त्वं मायापटसंवीतो जगत्यत्र जगत्पते कस्त्वां वेत्स्यति सर्वेश त्वत्प्रसादं विना नरः २९ त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो स एव केवलं देवं वेत्ति त्वां नेतरो जनः ३० तदीश्वरेश्वरेशान विभो वर्द्धस्व भावन प्रभवायास्य विश्वस्य विश्वात्मन् पृथुलोचन ३१ लोमहर्षण उवाच एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः प्रहस्य भावगम्भीरमुवाचारूढसंपदम् ३२ स्तुतोऽहं भवता पूर्वमिन्द्रा द्यैः कश्यपेन च मया च वः प्रतिज्ञातमिन्द्र स्य भुवनत्रयम् ३३ भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि मयाश्रुतम् यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ३४ सोऽहं तथा करिष्यामि यथेन्द्रो जगतः पतिः भविष्यति सहस्राक्षः सत्यमेतद् ब्रवीमि वः ३५ ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान् यज्ञोपवीतं भगवान् ददौ तस्य बृहस्पतिः ३६ आषाढमददाद् दण्डं मरीचिर्ब्रह्मणः सुतः कमण्डलुं वसिष्ठश्च कौशं चीरमथाङ्गिराः आसनं चैव पुलहः पुलस्त्यः पीतवाससी ३७ उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः शास्त्राण्यशेषाणि तथा सांख्ययोगोक्तयश्च याः ३८ स वामनो जटी दण्डी छत्री धृतकमण्डलुः सर्वदेवमयो देवो बलेरध्वरमभ्यगात् ३९ यत्र यत्र पदं विप्रा भूभागे वामनो ददौ ददाति भूमिर्विवरं तत्र तत्राभिपीडिता ४० स वामनो जडगतिर्मृदु गच्छन् सपर्वताम् साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम् ४१ बृहस्पतिस्तु शनकैर्मार्गं दर्शयते शुभम् तथा क्रीडाविनोदार्थमतिजाड्यगतोऽभवत् ४२ ततः शेषो महानागो निःसृत्यासौ रसातलात् साहाय्यं कल्पयामास देवदेवस्य चक्रिणः ४३ तदद्यापि च विख्यातमहेर्विलमनुत्तमम् तस्य संदर्शनादेव नागेभ्यो न भयं भवेत् ४४ इति श्रीवामनपुराणे सरोमाहात्म्ये त्रिंशत्तमोऽध्यायः
About this parayana — Vishnu
Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.
How to chant
Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.