ભગવદ્ ગીતા — અધ્યાય 10: વિભૂતિ યોગ
Bhagavad Gita — Chapter 10: Vibhuti Yoga
Bhagavad Gita — Chapter 10: Vibhuti Yoga
Text in देवनागरी script
Devotional text
ગુજરાતી script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.
मूल श्लोकःश्री भगवानुवाचभूय एव महाबाहो श्रृणु मे परमं वचः।यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।10.1।। मूल श्लोकःन मे विदुः सुरगणाः प्रभवं न महर्षयः।अहमादिर्हि देवानां महर्षीणां च सर्वशः।।10.2।। मूल श्लोकःयो मामजमनादिं च वेत्ति लोकमहेश्वरम्।असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते।।10.3।। मूल श्लोकःबुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः।सुखं दुःखं भवोऽभावो भयं चाभयमेव च।।10.4।। मूल श्लोकःअहिंसा समता तुष्टिस्तपो दानं यशोऽयशः।भवन्ति भावा भूतानां मत्त एव पृथग्विधाः।।10.5।। मूल श्लोकःमहर्षयः सप्त पूर्वे चत्वारो मनवस्तथा।मद्भावा मानसा जाता येषां लोक इमाः प्रजाः।।10.6।। मूल श्लोकःएतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।सोऽविकम्पेन योगेन युज्यते नात्र संशयः।।10.7।। मूल श्लोकःअहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।10.8।। मूल श्लोकःमच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्।कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च।।10.9।। मूल श्लोकःतेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।10.10।। मूल श्लोकःतेषामेवानुकम्पार्थमहमज्ञानजं तमः।नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता।।10.11।। मूल श्लोकःअर्जुन उवाचपरं ब्रह्म परं धाम पवित्रं परमं भवान्।पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।।10.12।। मूल श्लोकःआहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा।असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे।।10.13।। मूल श्लोकःसर्वमेतदृतं मन्ये यन्मां वदसि केशव।न हि ते भगवन् व्यक्ितं विदुर्देवा न दानवाः।।10.14।। मूल श्लोकःस्वयमेवात्मनाऽत्मानं वेत्थ त्वं पुरुषोत्तम।भूतभावन भूतेश देवदेव जगत्पते।।10.15।। मूल श्लोकःवक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः।याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि।।10.16।। मूल श्लोकःकथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया।।10.17।। मूल श्लोकःविस्तरेणात्मनो योगं विभूतिं च जनार्दन।भूयः कथय तृप्तिर्हि श्रृण्वतो नास्ति मेऽमृतम्।।10.18।। मूल श्लोकःश्री भगवानुवाचहन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः।प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे।।10.19।। मूल श्लोकःअहमात्मा गुडाकेश सर्वभूताशयस्थितः।अहमादिश्च मध्यं च भूतानामन्त एव च।।10.20।। मूल श्लोकःआदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी।।10.21।। मूल श्लोकःवेदानां सामवेदोऽस्मि देवानामस्मि वासवः।इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना।।10.22।। मूल श्लोकःरुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्।वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्।।10.23।। मूल श्लोकःपुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्।सेनानीनामहं स्कन्दः सरसामस्मि सागरः।।10.24।। मूल श्लोकःमहर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः।।10.25।। मूल श्लोकःअश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः।गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः।।10.26।। मूल श्लोकःउच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्।ऐरावतं गजेन्द्राणां नराणां च नराधिपम्।।10.27।। मूल श्लोकःआयुधानामहं वज्रं धेनूनामस्मि कामधुक्।प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।।10.28।। मूल श्लोकःअनन्तश्चास्मि नागानां वरुणो यादसामहम्।पितृ़णामर्यमा चास्मि यमः संयमतामहम्।।10.29।। मूल श्लोकःप्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्।।10.30।। मूल श्लोकःपवनः पवतामस्मि रामः शस्त्रभृतामहम्।झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी।।10.31।। मूल श्लोकःसर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन।अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्।।10.32।। मूल श्लोकःअक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः।।10.33।। मूल श्लोकःमृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्।कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा।।10.34।। मूल श्लोकःबृहत्साम तथा साम्नां गायत्री छन्दसामहम्।मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः।।10.35।। मूल श्लोकःद्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्।जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्।।10.36।। मूल श्लोकःवृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः।मुनीनामप्यहं व्यासः कवीनामुशना कविः।।10.37।। मूल श्लोकःदण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्।।10.38।। मूल श्लोकःयच्चापि सर्वभूतानां बीजं तदहमर्जुन।न तदस्ति विना यत्स्यान्मया भूतं चराचरम्।।10.39।। मूल श्लोकःनान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप।एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया।।10.40।। मूल श्लोकःयद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम्।।10.41।। मूल श्लोकःअथवा बहुनैतेन किं ज्ञातेन तवार्जुन।विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।।10.42।।
About this parayana — Vishnu
Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.
How to chant
Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.