મહાભારત — આશ્રમવાસિક પર્વ
Mahabharata — Ashramavasika Parva
Mahabharata — Ashramavasika Parva
Text in देवनागरी script
Devotional text
ગુજરાતી script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.
[ज] पराप्य राज्यं महाभागाः पाण्डवा मे पितामहाः कथम आसन महाराजे धृतराष्ट्रे महात्मनि स हि राजा हतामात्यॊ हतपुत्रॊ नराश्रयः कथम आसीद धतैश्वर्यॊ गान्धारी च यशस्विनी कियन्तं चैव कालं ते पितरॊ मम पूर्वकाः सथिता राज्ये महात्मानस तन मे वयाख्यातुम अर्हसि [वै] पराप्य राज्यं महात्मानः पाण्डवा हतशत्रवः धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन धृतराष्ट्रम उपातिष्ठद विदुरः संजयस तथा युयुत्सुश चापि मेधावी वैश्यापुत्रः स कौरवः पाण्डवः सर्वकार्याणि संपृच्छन्ति सम तं नृपम चक्रुस तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम पादाभिवन्दनं कृत्वा धर्मराज मते सथिताः ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे कुन्तिभॊजसुता चैव गन्धारीम अन्ववर्तत दरौपदी च सुभद्रा च याश चान्याः पाण्डव सत्रियः समां वृत्तिम अवर्तन्त तयॊः शवश्रॊर यथाविधि शयनानि महार्हाणि वासांस्य आभरणानि च राजार्हाणि च सर्वाणि भक्ष्यभॊज्यान्य अनेकशः युधिष्ठिरॊ महाराज धृतराष्ट्रे ऽभयुपाहरत तथैव कुन्ती गान्धार्यां गुरुवृत्तिम अवर्तत विदुरः संजयश चैव युयुत्सुश चैव कौरवः उपासते सम तं वृद्धं हतपुत्रं जनाधिपम सयालॊ दरुणस्य यश चैकॊ दयितॊ बराह्मणॊ महान स च तस्मिन महेष्वासः कृपः समभवत तदा वयासस्य भगवान नित्यं वासं चक्रे नृपेण ह कथाः कुर्वन पुराणर्षिर देवर्षिनृप रक्षसाम धर्मयुक्तानि कार्याणि वयवहारान्वितानि च धृतराष्ट्राभ्यनुज्ञातॊ विदुरस तान्य अकारयत सामन्तेभ्यः परियाण्य अस्य कार्याणि सुगुरूण्य अपि पराप्यन्ते ऽरथैः सुलघुभिः परभावाद विदुरस्य वै अकरॊद बन्धमॊक्षांश च वध्यानां मॊक्षणं तथा न च धर्मात्मजॊ राजा कदा चित किं चिद अब्रवीत विहारयात्रासु पुनः कुरुराजॊ युधिष्ठिरः सर्वान कामान महातेजाः परददाव अम्बिका सुते आरालिकाः सूपकारा रागखाण्डविकास तथा उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा वासांसि च महार्हाणि माल्यानि विविधानि च उपाजह्रुर यथान्यायं धृतराष्ट्रस्य पाण्डवाः मैरेयं मधु मांसानि पानकानि लघूनि च चित्रान भक्ष्यविकारांश च चक्रुर अस्य यथा पुरा ये चापि पृथिवीपालाः समाजग्मुः समन्ततः उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा कुन्ती च दरौपदी चैव सात्वती चैव भामिनी उलूपी नागकन्या च देवी चित्र अङ्गदा तथा धृष्टकेतॊश च भगिनी जरा सन्धस्य चात्मजा किंकराः समॊपतिष्ठन्ति सर्वाः सुबलजां तथा यथा पुत्र वियुक्तॊ ऽयं न किं चिद दुःखम आप्नुयात इति राजन वशाद भरातॄन नित्यम एव युधिष्ठिरः एवं ते धर्मराजस्य शरुत्वा वचनम अर्थवत सविशेषम अवर्तन्त भीमम एकं विना तदा न हि तत तस्य वीरस्य हृदयाद अपसर्पति धृतराष्ट्रस्य दुर्बुद्धेर यद्वृत्तं दयूतकारितम [वै] एवं संपूजितॊ राजा पाण्डवैर अम्बिका सुतः विजहार यथापूर्वम ऋषिभिः पर्युपासितः बरह्म देयाग्र हारांश च परददौ स कुरूद्वहः तच च कुन्तीसुतॊ राजा सर्वम एवान्वमॊदत आनृशंस्य परॊ राजा परीयमाणॊ युधिष्ठिरः उवाच स तदा भरातॄन अमात्यांश च महीपतिः मया चैव भवद्भिश च मान्य एष नराधिपः निदेशे धृतराष्ट्रस्य यः सथास्यति स मे सुहृत विपरीतश च मे शत्रुर निरस्यश च भवेन नरः परिदृष्टेषु चाहःसु पुत्राणां शराद्धकर्मणि ददातु राजा सर्वेषां यावद अस्य चिकीर्षितम ततः स राजा कौरव्यॊ धृतराष्ट्रॊ महामनाः बराह्मणेभ्यॊ महार्हेभ्यॊ ददौ वित्तान्य अनेकशः धर्मराजश च भीमश च सव्यसाची यमाव अपि तत सर्वम अन्ववर्तन्त धृतराष्ट्र वयपेक्षया कथं नु राजा वृद्धः सन पुत्रशॊकसमाहतः शॊकम अस्मत कृतं पराप्य न मरियेतेति चिन्त्यते यावद धि कुरुमुख्यस्य जीवत पुत्रस्य वै सुखम बभूव तद अवाप्नॊतु भॊगांश चेति वयवस्थिताः ततस ते सहिताः सर्वे भरातरः पञ्च पाण्डवाः तथा शीलाः समातस्थुर धृतराष्ट्रस्य शासने धृतराष्ट्रश च तान वीरान विनीतान विनये सथितान शिष्यवृत्तौ सथितान नित्यं गुरुवत पर्यपश्यत गान्धारी चैव पुत्राणां विविधैः शराद्धकर्मभिः आनृष्यम अगमत कामान विप्रेभ्यः परतिपाद्य वै एवं धर्मभृतां शरेष्ठॊ धर्मराजॊ युधिष्ठिरः भरातृभिः सहितॊ धीमान पूजयाम आस तं नृपम [वै] स राजा सुमहातेजा वृद्धः कुरुकुलॊद्वहः नापश्यत तदा किं चिद अप्रियं पाण्डुनन्दने वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु परीतिमान अभवद राजा धृतराष्ट्रॊ ऽमबिका सुतः सौबलेयी च गान्धारी पुत्रशॊकम अपास्य तम सदैव परीतिम अत्यासीत तनयेषु निजेष्व इव परियाण्य एव तु कौरव्यॊ नाप्रियाणि कुरूद्वह वैचित्रवीर्ये नृपतौ समाचरति नित्यदा यद यद बरूते च किं चित सा धृतराष्ट्रॊ नराधिपः गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी तत स राजा महाराज पाण्ण्डवानां धुरंधरः पूजयित्वा वचस तत तद अकार्षीत परवीरहा तेन तस्याभवत परीतॊ वृत्तेन स नराधिपः अन्वतप्यच च संस्मृत्य पुत्रं मन्दम अचेतसम सदा च परातर उत्थाय कृतजप्यः शुचिर नृपः आशास्ते पाण्डुपुत्राणां समरेष्व अपराजयम बराह्मणान वाचयित्वा च हुत्वा चैव हुताशनम आयुष्यं पाण्डुपुत्राणाम आशास्ते स नराधिपः न तां परीतिं मराम आप पुत्रेभ्यः स महीपतिः यां परीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः बराह्मणानां च वृद्धानां कषत्रियाणां च भारत तथा विट शूद्र संघानाम अभवत सुप्रियस तदा यच च किं चित पुरा पापं धृतराष्ट्र सुतैः कृतम अकृत्वा हृदि तद राजा तं नृपं सॊ ऽनववर्तत यश च कश चिन नरः किं चिद अप्रियं चाम्बिका सुते कुरुते दवेष्यताम एति स कौन्तेयस्य धीमतः न राज्ञॊ धृतराष्ट्रस्य न च दुर्यॊधनस्य वै उवाच दुष्कृतं किं चिद युधिष्ठिर भयान नरः धृत्या तुष्टॊ नरेन्द्रस्य गान्धारी विदुरस तथा शौचेन चाजात शत्रॊर न तु भीमस्य शत्रुहन अन्ववर्तत भीमॊ ऽपि निष्टनन धर्मजं नृपम धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः राजानम अनुवर्तन्तं धर्मपुत्रं महामतिम अन्ववर्तत कौरव्यॊ हृदयेन पराङ्मुखः [वै] युधिष्ठिरस्य नृपतेर दुर्यॊधन पितुस तथा नान्तरं ददृशू राजन पुरुषाः परणयं परति यदा तु कौरवॊ राजा पुत्रं सस्मार बालिशम तदा भीमं हृदा राजन्न अपध्याति स पार्थिवः तथैव भीमसेनॊ ऽपि धृतराष्ट्रं जनाधिपम नामर्षयत राजेन्द्र सदैवातुष्टवद धृदा अप्रकाशान्य अप्रियाणि चकारास्य वृकॊदरः आज्ञां परत्यहरच चापि कृतकैः पुरुषैः सदा अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरॊत संश्रवे धृतराष्ट्रस्य गान्धार्याश चाप्य अमर्षणः समृत्वा दुर्यॊधनं शत्रुं कर्ण दुःशासनाव अपि परॊवाचाथ सुसंरब्धॊ भीमः स परुषं वचः अन्धस्य नृपतेः पुत्रा मया परिघबाहुना नीता लॊकम अमुं सर्वे नानाशस्त्रात्त जीविताः इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ ययॊर अन्तरम आसाद्य धार्तराष्ट्राः कषयं गताः ताव इमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ याभ्यां दुर्यॊधनॊ नीतः कषयं ससुत बान्धवः एताश चान्याश च विविधाः शल्य भूता जनाधिपः वृकॊदरस्य ता वाचः शरुत्वा निर्वेदम आगमत सा च बुद्धिमती देवी कालपर्याय वेदिनी गान्धारी सर्वधर्मज्ञा तान्य अलीकानि शुश्रुवे ततः पञ्चदशे वर्षे समतीते नराधिपः राजा निर्वेदम आपेदे भीम वाग बाणपीडितः नान्वबुध्यत तद राजा कुन्तीपुत्रॊ युधिष्ठिरः शवेताश्वॊ वाथ कुन्ती वा दरौपदी व यशस्विनी माद्रीपुत्रौ च भीमस्य चित्तज्ञाव अन्वमॊदताम राज्ञस तु चित्तं रक्षन्तौ नॊचतुः किं चिद अप्रियम ततः समानयाम आस धृतराष्ट्रः सुहृज्जनम बाष्पसंदिग्धम अत्यर्थम इदम आह वचॊ भृशम [धृ] विदितं भवताम एतद यथावृत्तः कुरु कषयः ममापराधात तत सर्वम इति जञेयं तु कौरवाः यॊ ऽहं दुष्टमतिं मूढं जञातीनां भयवर्धनम दुर्यॊधनं कौरवाणाम आधिपत्ये ऽभयषेचयम यच चाहं वासुदेवस्य वाक्यं नाश्रौषम अर्थवत वध्यतां साध्व अयं पापः सामात्य इति दुर्मतिः पुत्रस्नेहाभिभूतश च हितमुक्तॊ मनीषिभिः विदुरेणाथ भीष्मेण दरॊणेन च कृपेण च पदे पदे भगवता वयासेन च महात्मना संजयेनाथ गान्धार्या तद इदं तप्यते ऽदय माम यच चाहं पाण्डुपुत्रेण गुणवत्सु महात्मसु न दत्तवाञ शरियं दीप्तां पितृपैतामहीम इमाम विनाशं पश्यमानॊ हि सर्वराज्ञां गदाग्रजः एतच छरेयः स परमम अमन्यत जनार्दनः सॊ ऽहम एतान्य अलीकानि निवृत्तान्य आत्मनः सदा हृदये शल्य भूतानि धारयामि सहस्रशः विशेषतस तु दह्यामि वर्षं पञ्चदशं हि वै अस्य पापस्य शुद्ध्य अर्थं नियतॊ ऽसमि सुदुर्मतिः चतुर्थे नियते काले कदा चिद अपि चाष्टमे तृष्णा विनयनं भुञ्जे गान्धारी वेद तन मम करॊत्य आहारम इति मां सर्वः परिजनः सदा युधिष्ठिर भयाद वेत्ति भृशं तप्यति पाण्डवः भूमौ शये जप्यपरॊ दर्भेष्व अजिन संवृतः नियमव्यपदेशेन गान्धारी च यशस्विनी हतं पुत्रशतं शूरं संग्रामेष्व अपलायिनम नानुतप्यामि तच चाहं कषत्रधर्मं हि तं विदुः इत्य उक्त्वा धर्मराजानम अभ्यभाषत कौरवः भद्रं ते यादवी मातर वाक्यं चेदं निबॊध मे सुखम अस्म्य उषितः पुत्र तवया सुपरिपालितः महादानानि दत्तानि शराद्धानि च पुनः पुनः परकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम गान्धारी हतपुत्रेयं धैर्येणॊदीक्षते च माम दरौपद्या हय अपकर्तारस तव चैश्वर्यहारिणः समतीता नृशंसास ते धर्मेण निहता युधि न तेषु परतिकर्तव्यं पश्यामि कुरुनन्दन सर्वे शस्त्रजिताँल लॊकान गतास ते ऽभिमुखं हताः आत्मनस तु हितं मुख्यं परतिकर्तव्यम अद्य मे गान्धार्याश चैव राजेन्द्र तदनुज्ञातुम अर्हसि तवं हि धर्मभृतां शरेष्ठः सततं धर्मवत्सलः राजा गुरुः पराणभृतां तस्माद एतद बरवीम्य अहम अनुज्ञातस तवया वीर संश्रयेयं वनान्य अहम चीरवल्कल भृद राजन गान्धार्या सहितॊ ऽनया तवाशिषः परयुञ्जानॊ भविष्यामि वनेचरः उचितं नः कुले तात सर्वेषां भरतर्षभ पुत्रेष्व ऐश्वर्यम आधाय वयसॊ ऽनते वनं नृप तत्राहं वायुभक्षॊ वा निराहारॊ ऽपि वा वसन पत्न्या सहानया वीर चरिष्यामि तपः परम तवं चापि फलभाक तात तपसः पार्थिवॊ हय असि फलभाजॊ हि राजानः कल्याणस्येतरस्य वा [य] न मां परीणयते राज्यं तवय्य एवं दुःखिते नृप धिन माम अस्तु सुदुर्बुद्धिं राज्यसक्तं परमादिनम यॊ ऽहं भवन्तं दुःखार्तम उपवासकृशं नृप यताहारं कषितिशयं नाविन्दं भरातृभिः सह अहॊ ऽसमि वञ्चितॊ मूढॊ भवता गूढबुद्धिना विश्वासयित्वा पूर्वं मां यद इदं दुःखम अश्नुथाः किं मे राज्येन भॊगैर वा किं यज्ञैः किं सुखेन वा यस्य मे तवं महीपाल दुःखान्य एतान्य अवाप्तवान पीडितं चापि जानामि राज्यम आत्मानम एव च अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर भवान पिता भवान माता भवान नः परमॊ गुरुः भवता विप्रहीणा हि कव नु तिष्ठामहे वयम औरसॊ भवतः पुत्रॊ युयुत्सुर नृपसत्तम अस्तु राजा महाराज यं चान्यं मन्यते भवान अहं वनं गमिष्यामि भवान राज्यं परशास्त्व इदम न माम अयशसा दग्धं भूयस तवं दग्धुम अर्हसि नाहं राजा भवान राजा भवता परवान अहम कथं गुरुं तवां धर्मज्ञम अनुज्ञातुम इहॊत्सहे न मन्युर हृदि नः कश चिद दुर्यॊधनकृते ऽनघ भवितव्यं तथा तद धि वयं ते चैव मॊहिताः वयं हि पुत्रा भवतॊ यथा दुर्यॊधनादयः गान्धारी चैव कुन्ती च निर्वेशेषे मते मम स मां तवं यदि राजेन्द्र परित्यज्य गमिष्यसि पृष्ठतस तवानुयास्यामि सत्येनात्मानम आलभे इयं हि वसुसंपूर्णा मही सागरमेखला भवता विप्रहीणस्य न मे परीतिकरी भवेत भवदीयम इदं सर्वं शिरसा तवां परसादये तवदधीनाः सम राजेन्द्र वयेतु ते मानसॊ जवरः भवितव्यम अनुप्राप्तं मन्ये तवां तज जनाधिप दिष्ट्या शुश्रूषमाणस तवां मॊक्ष्यामि मनसॊ जवरम [धृ] तापस्ये मे मनस तात वर्तते कुरुनन्दन उचितं हि कुले ऽसमाकम अरण्यगमनं परभॊ चिरम अस्म्य उषितः पुत्र चिरं शुश्रूषितस तवया वृद्धं माम अभ्यनुज्ञातुं तवम अर्हसि जनाधिप [वै] इत्य उक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम उवाच वचनं राजा धृतराष्ट्रॊ ऽमबिका सुतः संजयं च महामात्रं कृपं चापि महारथम अनुनेतुम इहेच्छामि भवद्भिः पृथिवीपतिम गलायते मे मनॊ हीदं मुखं च परिशुष्यति वयसा च परकृष्टेन वाग वयायामेन चैव हि इत्य उक्त्वा स तु धर्मात्मा वृद्धॊ राजा कुरूद्वहः गान्धारीं शिश्रिये धीमान सहसैव गतासुवत तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरु पार्थिवम आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा [य] यस्य नागसहस्रेण दश संख्येन वै बलम सॊ ऽयं नारीम उपाश्रित्य शेते राजा गतासुवत आयसी परतिमा येन भीमसेनस्य वै पुरा चूर्णीकृता बलवता सबलार्थी शरितः सत्रियम धिग अस्तु माम अधर्मज्ञं धिग बुद्धिं धिक च मे शरुतम यत्कृते पृथिवीपालः शेते ऽयम अतथॊचितः अहम अप्य उपवत्स्यामि यथैवायं गुरुर मम यदि राजा न भुङ्क्ते ऽयं गान्धारी च यशस्विनी [वै] ततॊ ऽसय पाणिना राजा जलशीतेन पाण्डवः उरॊ मुखं च शनकैः पर्यमार्जत धर्मवित तेन रत्नौषधिमता पुण्येनच सुगन्धिना पाणिस्पर्शेन राज्ञस तु राजा संज्ञाम अवाप ह [धृ] सपृश मां पाणिना भूयः परिष्वज च पाण्डव जीवामीव हि संस्पर्शात तव राजीवलॊचन मूर्धानं च तवाघ्रातुम इच्छामि मनुजाधिप पाणिभ्यां च परिस्प्रष्टुं पराणा हि न जहुर मम अष्टमॊ हय अद्य कालॊ ऽयम आहारस्य कृतस्य मे येनाहं कुरुशार्दूल न शक्नॊमि विचेष्टितुम वयायामश चायम अत्यर्थं कृतस तवाम अभियाचता ततॊ गलान मनास तात नष्टसंज्ञ इवाभवम तवामृत समस्पर्शं हस्तस्पर्शम इमं विभॊ लब्ध्वा संजीवितॊ ऽसमीति मन्ये कुरुकुलॊद्वह [वै] एवम उक्तस तु कौन्तेयः पित्रा जयेष्ठेन भारत पस्पर्श सर्वगात्रेषु सौहार्दात तं शनैस तदा उपलभ्य तथ पराणान धृतराष्ट्रॊ महीपतिः बाहुभ्यां संपरिष्वज्य मूर्ध्न्य आजिघ्रत पाण्डवम विदुरादयश च ते सर्वे रुरुदुर दुःखिता भृशम अतिदुःखाच च राजानं नॊचुः किं चन पाण्डवाः गान्धारी तव एव धर्मज्ञा मनसॊद्वहती भृशम दुःखान्य अवारयद राजन मैवम इत्य एव चाब्रवीत इतरास तु सत्रियः सर्वाः कुन्त्या सह सुदुःखिताः नेत्रैर आगतविक्लेशैः परिवार्य सथिताभवन अथाब्रवीत पुनर वाक्यं धृतराष्ट्रॊ युधिष्ठिरम अनुजानीहि मां राजंस तापस्ये भरतर्षभ गलायते मे मनस तात भूयॊ भूयः परजल्पतः न माम अतः परं पुत्र परिक्लेष्टुम इहार्हसि तस्मिंस तु कौरवेन्द्रे तं तथा बरुवति पाण्डवम सर्वेषाम अवरॊधानाम आर्तनादॊ महान अभूत दृष्ट्वा कृशं विवर्णं च राजानम अतथॊचितम उपवासपरिश्रान्तं तवग अस्थि परिवारितम धर्मपुत्रः स पितरं परिष्वज्य महाभुजः शॊकजं बाष्पम उत्सृज्य पुनर वचनम अब्रवीत न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा यथा तव परियं राजंश चिकीर्षामि परंतप यदि तव अहम अनुग्राह्यॊ भवतॊ दयितॊ ऽपि वा करियतां तावद आहारस ततॊ वेत्स्यामहे वयम ततॊ ऽबरवीन महातेजा धर्मपुत्रं स पार्थिवः अनुज्ञातस तवया पुत्र भुञ्जीयाम इति कामये इति बरुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम ऋषिः सत्यवती पुत्रॊ वयासॊ ऽभयेत्य वचॊ ऽबरवीत [वयास] युधिष्ठिर महाबाहॊ यद आह कुरुनन्दनः धृतराष्ट्रॊ महात्मा तवां तत कुरुष्वाव्विचारयन अयं हि वृद्धॊ नृपतिर हतपुत्रॊ विशेषतः नेदं कृच्छ्रं चिरतरं सहेद इति मतिर मम गान्धारी च महाभागा पराज्ञा करुणवेदिनी पुत्रशॊकं महाराज धैर्येणॊद्वहते भृशम अहाम अप्य एतद एव तवां बरवीमि कुरु मे वचः अजुज्ञां लभतां राजा मा वृथेह मरिष्यति राजर्षीणां पुराणानाम अनुयातु गतिं नृपः राजर्षीणां हि सर्वेषाम अन्ते वनम उपाश्रयः [वै] इत्य उक्तः स तदा राजा वयासेनाद्भुत कर्मणा परत्युवाच महातेजा धर्मराजॊ युधिष्ठिरः भगवान एव नॊ मान्यॊ भगवान एव नॊ गुरुः भगवान अस्य राज्यस्य कुलस्य च परायणम अहं तु पुत्रॊ भगवान पिता राजा गुरुश च मे निदेशवर्ती च पितुः पुत्रॊ भवति धर्मतः इत्य उक्तः स तु तं पराह वयासॊ धर्मभृतां वरः युधिष्ठिरं महातेजाः पुनर एव विशां पते एवम एतन महाबाहॊ यथा वदसि भारत राजायं वृद्धतां पराप्तः परमाणे परमे सथितः सॊ ऽयं मयाभ्यनुज्ञातस तवया च पृथिवीपते करॊतु सवम अभिप्राय मास्य विघ्नकरॊ भव एष एव परॊ धर्मॊ राजर्षीणां युधिष्ठिर समरे वा भवेन मृत्युर वने वा विधिपूर्वकम पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता शिष्यभूतेन राजायं गुरुवत पर्युपासितः करतुभिर दक्षिणावद्भिर अन्नपर्वत शॊभितैः महद्भिर इष्टं भॊगश च भुक्ताश पुत्रश च पालिताः पुत्र संस्थं च विपुलं राज्यं विप्रॊषिते तवयि तरयॊदश समा भुक्तं दत्तं च विविधं वसु तवया चायं नरव्याघ्र गुरुशुश्रूषया नृपः आराधितः सभृत्येन गान्धारी च यशस्विनी अनुजानीहि पितरं समयॊ ऽसय तपॊ विधौ न मन्युर विद्यते चास्य सुसूक्ष्मॊ ऽपि युधिष्ठिर एतावद उक्त्वा वचनम अनुज्ञाप्य च पार्थिवम तथास्त्व इति च तेनॊक्तः कौन्तेयेन ययौ वनम गते भगवति वयासे राजा पाण्डुसुतस ततः परॊवाच पितरं वृद्धं मन्दं मन्दम इवानतः यद आह भगवान वयासॊ यच चापि भवतॊ मतम यद आह च महेष्वासः कृपॊ विदुर एव च युयुत्सुः संजयश चैव तत कर्तास्म्य अहम अञ्जसा सर्वे हय एते ऽनुमान्या मे कुलस्यास्य हितैषिणः इदं तु याचे नृपते तवाम अहं शिरसा नतः करियतां तावद आहारस ततॊ गच्छाश्रमं परति [वै] ततॊ राज्ञाभ्यनुज्ञातॊ धृतराष्ट्रः परतापवान ययौ सवभवनं राजा गान्धार्यानुगतस तदा मन्दप्राणगतिर धीमान कृच्छ्राद इव समुद्धरन पदातिः स महीपालॊ जीर्णॊ गजपतिर यथा तम अन्वगच्छद विदुरॊ विद्वान सूतश च संजयः स चापि परमेष्वासः कृपः शारद्वतस तथा स परविश्य गृहं राजा कृतपूर्वाह्णिक करियः तर्पयित्वा दविजश्रेष्ठान आहारम अकरॊत तदा गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी वधूभिर उपचारेण पूजिताभुङ्क्त भारत कृताहारं कृताहाराः सर्वे ते विदुरादयः पाण्डवाश च कुरुश्रेष्ठम उपातिष्ठन्त तं नृपम ततॊ ऽबरवीन महाराज कुन्तीपुत्रम उपह्वरे निषण्णं पाणिना पृष्ठे संस्पृशन्न अम्बिका सुतः अप्रमादस तवया कार्यः सर्वथा कुरुनन्दन अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते तत तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन राज्यं धर्मं च कौन्तेय विद्वान असि निबॊध तत विद्या वृद्धान सदैव तवम उपासीथा युधिष्ठिर शृणुयास ते च यद बरूयुः कुर्याश चैवाविचारयन परातर उत्थाय तान राजन पूजयित्वा यथाविधि कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यम आत्मनः ते तु संमानिता राजंस तवया राज्यहितार्थिना परवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन इन्द्रियाणि च सर्वाणि वाजिवत परिपालय हिताय वै भविष्यन्ति रक्षितं दरविणं यथा अमात्यान उपधातीतान पितृपैतामहाञ शुचीन दान्तान कर्मसु सर्वेषु मुख्यान मुख्येषु यॊजयेः चारयेथाश च सततं चारैर अव्विदितैः परान परीक्षितैर बहुविधं सवराष्ट्रेषु परेषु च पुरं च ते सुगुप्तं सयाद दृढप्राकारतॊरणम अट्टाट्टालक संबाधं षट पथं सर्वतॊदिशम तस्य दवाराणि कार्याणि पर्याप्तानि बृहन्ति च सर्वतः सुविभक्तानि यन्त्रैर आरक्षितानि च पुरुषैर अलम अर्थज्ञैर विदितैः कुलशीलतः आत्मा च रक्ष्यः सततं भॊजनादिषु भारत विहाराहार कालेषु माल्यशय्यासनेषु च सत्रियश च ते सुगुप्ताः सयुर वृद्धैर आप्तैर अधिष्ठिताः शीलवद्भिः कुलीनैश च विद्वद्भिश च युधिष्ठिर मन्त्रिणश चैव कुर्वीथा दविजान विद्या विशारदान विनीतांश च कुलीनांश च धर्मार्थकुशलान ऋजून तैः सार्धं मन्त्रयेथास तवं नात्यर्थं बहुभिः सह समस्तैर अपि च वयस्तैर वयपदेशेन केन चित सुसंवृतं मन्त्रगृहं सथलं चारुह्य मन्त्रयेः अरण्ये निःशलाके वा न च रात्रौ कथं चन वानराः पक्षिणश चैव ये मनुष्यानुकारिणः सर्वे मन्त्रगृहे वर्ज्या ये चापि जड पङ्गुकाः मन्त्रभेदे हि ये दॊषा भवन्ति पृथिवीक्षिताम न ते शक्याः समाधातुं कथं चिद इति मे मतिः दॊषांश च मन्त्रभेदेषु बरूयास तवं मन्त्रिमण्डले अभेदे च गुणान राजन पुनः पुनर अरिंदम पौरजानपदानां च शौचाशौचं युधिष्ठिरः यथा सयाद विदितं राजंस तथा कार्यम अरिंदम [धृ] वयवहाराश च ते तात नित्यम आप्तैर अधिष्ठिताः यॊज्यास तुष्टैर हितै राजन नित्यं चारैर अनुष्ठिताः परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत परणयेयुर यथान्यायं पुरुषास ते युधिष्ठिर आदान रुचयश चैव परदाराभिमर्शनः उग्रदण्डप्रधानाश च मिथ्या वयाहारिणस तथा आक्रॊष्टारश च लुब्धाश च हन्तारः साहस परियाः सभा विहारभेत्तारॊ वर्णानां च परदूषकाः हिरण्यदण्ड्या वध्याश च कर्तव्या देशकालतः परातर एव हि पश्येथा ये कुर्युर वययकर्म ते अलंकारम अथॊ भॊज्यम अत ऊर्ध्वं समाचरेः पश्येथाश च ततॊ यॊधान सदा तवं परिहर्षयन दूतानां च चराणां च परदॊषस ते सदा भवेत सदा चापररात्रं ते भवेत कार्यार्थनिर्णये मध्यरात्रे विहारस ते मध्याह्ने च सदा भवेत सर्वे तव आत्ययिकाः कालाः कार्याणां भरतर्षभ तथैवालंकृतः काले तिष्ठेथा भूरि रक्षिणः चक्रवत कर्मणां ताथ पर्यायॊ हय एष नित्यशः कॊशस्य संच्चये यत्नं कुर्वीथा नयायतः सदा दविविधस्य महाराज विपरीतं विवर्जयेः चारैर विदित्वा शत्रूंश च ये ते राज्यान्तरायिणः तान आप्तैः पुरुषैर दूराद घातयेथाः परस्परम कर्म दृष्ट्याथ भृत्यांस तवं वरयेथाः कुरूद्वह कारयेथाश च कर्माणि युक्तायुक्तैर अधिष्ठितैः सेना परणेता च भवेत तव तात दृढव्रतः शूरः कलेशसहश चैव परियश च तव मानवः सर्वे जानपदाश चैव तव कर्माणि पाण्डव पौरॊगवाश च सभ्याश च कुर्युर ये वयवहारिणः सवरन्ध्रं पररन्ध्रं च सवेषु चैव परेषु च उपलक्षयितव्यं ते नित्यम एव युधिष्ठिर देशान्तरस्थाश च नरा विक्रान्ताः सर्वकर्मसु मात्राभिर अनुरूपाभिर अनुग्राह्या हितास तवया गुणार्थिनां गुणः कार्यॊ विदुषां ते जनाधिप अविचाल्याश च ते ते सयुर यथा मेरुर महागिरिः [धृ] मण्डलानि च बुध्येथाः परेषाम आत्मनस तथा उदासीनगुणानां च मध्यमानां तथैव च चतुर्णां शत्रुजातानां सर्वेषाम आततायिनाम मित्रं चामित्रमित्रं च बॊद्धव्यं ते ऽरिकर्शन तथामात्या जनपदा दुर्गाणि विषमाणि च बलानिच कुरुश्रेष्ठ भवन्त्य एषां यथेच्च्छकम ते च दवादश कौन्तेय राज्ञां वै विविधात्मकाः मन्त्रिप्रधानाश च गुणाः षष्टिर दवादश च परभॊ एतान मण्डलम इत्य आहुर आचार्या नीतिकॊविदाः अत्र षाड्गुण्यम आयत्तं युधिष्ठिर निबॊध तत वृद्धिक्षयौ च विज्ञेयौ सथानं च कुरुनन्दन दविसप्तत्या महाबाहॊ ततः षाड्गुण्य चारिणः यदा सवपक्षॊ बलवान परपक्षस तथा बलः विगृह्य शत्रून कौन्तेय यायात कषितिपतिस तदा यदा सवपक्षे ऽबलवांस तदा संधिं समाश्रयेत दरव्याणां संचयश चैव कर्तव्यः सयान महांस तथा यदा समर्थॊ यानाय नचिरेणैव भारत तदा सर्वं विधेयं सयात सथानं च न विभाजयेत भूमिर अल्पफला देया विपरीतस्य भारत हिरण्यं कुप्य भूयिष्ठं मित्रं कषीणम अकॊशवत विपरीतान न गृह्णीयात सवयं संधिविशारदः संध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ वविपरीतस तु ते ऽदेयः पुत्र कस्यां चिद आपदि तस्य परमॊक्षे यत्नं च कुर्याः सॊपाय मन्त्रवित परकृतीनां च कौन्तेय राजा दीनां विभावयेत करमेण युगपद दवंद्वं वयसनानां बलाबलम पीडनं सतम्भनं चैव कॊशभङ्गस तथैव च कार्यं यत्नेन शत्रूणां सवराष्ट्रं रक्षता सवयम न च हिंस्यॊ ऽभयुपगतः सामन्तॊ वृद्धिम इछता कौन्तेय तं न हिंसेत यॊ महीं विजिगीषते गणानां भेदने यॊगं गच्छेथाः सह मन्त्रिभिः साधु संग्रहणाच चैव पापनिग्रहणात तथा दुर्बलाश चापि सततं नावष्टभ्या बलीयसा तिष्ठेथा राजशार्दूल वैतसीं वृत्तिम आस्थितः यद्य एवम अभियायाच च दुर्बलं बलवान नृपः सामादिभिर उपायैस तं करमेण विनिवर्तयेत अशक्नुवंस तु युद्धाय निस्पतेत सह मन्त्रिभिः कॊशेन पौरैर दण्डेन ये चान्ये परियकारिणः असंभवे तु सर्वस्य यथामुख्येन निष्पतेत करमेणानेन मॊक्षः सयाच छरीरम अपि केवलम [धृ] संधिविग्रहम अप्य अत्र पश्येथा राजसत्तम दवियॊनिं तरिविधॊपायं बहु कल्पं युधिष्ठिर राजेन्द्र पर्युपासीथाश छित्त्वा दवैविध्यम आत्मनः तुष्टपुष्टबलः शत्रुर आत्मवान इति च समरेत पर्युपासन काले तु विपरीतं विधीयते आमर्द काले राजेन्द्र वयपसर्पस ततॊ वरः वयसनं भेदनं चैव शत्रूणां कारयेत ततः कर्शनं भीषणं चैव युद्धि चापि बहु कषयम परयास्यमानॊ नृपतिस तरिविधं परिचिन्तयेत आत्मनश चैव शत्रॊश च शक्तिं शास्त्रविशारदः उत्साहप्रभु शक्तिभ्यां मन्त्रशक्त्या च भारत उपपन्नॊ नरॊ यायाद विपरीतम अतॊ ऽनयथा आददीत बलं राजा मौलं मित्रबलं तथा अटवी बलं भृतं चैव तथा शरेणी बलं च यत तत्र मित्रबलं राजन मौलेन न विशिष्यते शरेणी बलं भृतं चैव तुल्य एवेति मे मतिः तथा चारबलं चैव परस्परसमं नृप विज्ञेयं बलकालेषु रज्ञा काल उपस्थिते आपदश चापि बॊद्ध्यव्या बहुरूपा नराधिप भवन्ति राज्ञां कौरव्य यास ताः पृथग अतः शृणु विकल्पा बहवॊ राजन्न आपदां पाण्डुनन्दन सामादिभिर उपन्यस्य शमयेत तान नृपः सदा यात्रां यायाद बलैर युक्तॊ राजा षड्भिः परंतप संयुक्तॊ देशकालाभ्यां बलैर आत्मगुणैस तथा तुष्टपुष्टबलॊ यायाद राजा वृद्ध्युदये रतः आहूतश चाप्य अथॊ यायाद अनृताव अपि पार्थिवः सथूणाश्मानं वाजिरथप्रधानां; धवजद्रुमैः संवृतकूलरॊधसम पदातिनागैर बहु कर्दमां नदीं; सपत्ननाशे नृपतिः परयायात अथॊपपत्त्या शकटं पद्मं वज्रं च भारत उशना वेद यच छास्त्रं तत्रैतद विहितं विभॊ सादयित्वा परबलं कृत्वा च बलहर्षणम सवभूमौ यॊजयेद युद्धं परभूमौ तथैव च लब्धं परशमयेद राजा निक्षिपेद धनिनॊ नरान जञात्वा सवविषयं तं च सामादिभिर उपक्रमेत सर्तथैव महाराज शरीरं धारयेद इह परेत्येह चैव कर्तव्यम आत्मनिःश्रेयसं परम एवं कुर्वञ शुभा वाचॊ लॊके ऽसमिञ शृणुते नृपः परेत्य सवर्गं तथाप्नॊति परजा धर्मेण पालयन एवं तवया कुरु शरेठ वर्तितव्यं परजाहितम उभयॊर लॊकयॊस तात पराप्तये नित्यम एव च भीष्मेण पूर्वम उक्तॊ ऽसि कृष्णेन विदुरेण च मयाप्य अवश्यं वक्तव्यं परीत्या ते नृपसत्तम एतत सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण परियस तथा परजानां तवं सवर्गे सुखम अवाप्स्यसि अश्वमेध सहस्रेण यॊ यजेत पृथिवीपतिः पालयेद वापि धर्मेण परजास तुल्यं फलं लभेत [य] एवम एतत करिष्यामि यथात्थ पृथिवीपते भूयश चैवानुशास्यॊ ऽहं भवता पार्थिवर्षभ भीष्मे सवर्गम अनुप्राप्ते गते च मधुसूदने विदुरे संजये चैव कॊ ऽनयॊ मां वक्तुम अर्हति यत तु माम अनुशास्तीह भवान अद्य हिते सथितः कर्तास्म्य एतन महीपाल निर्वृतॊ भव भारत [वै] एवम उक्तः स राजर्षिर धर्मराजेन धीमता कौन्तेयं समनुज्ञातुम इयेष भरतर्षभ पुत्र विश्रम्यतां तावन ममापि बलवाञ शरमः इत्य उक्त्वा पराविशद राजा गान्धार्या भवनं तदा तम आसनगतं देवी गान्धारी धर्मचारिणी उवाच काले कालज्ञा परजापतिसमं पतिम अनुज्ञातः सवयं तेन वयासेनापि महर्षिणा युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि [धृ] गान्धार्य अहम अनुज्ञातः सवयं पित्रा महात्मना युधिष्ठिरस्यानुमते गन्तास्मि नचिराद वनम अहं हि नाम सर्वेषां तेषां दुर्द्यूत देविनाम पुत्राणां दातुम इच्छामि परेत्य भावानुगं वसुम सर्वप्रकृतिसांनिध्यं कारयित्वा सववेश्मनि [वै] इत्य उक्त्वा धर्मराजाय परेषयाम आस पार्थिवः स च तद वचनात सर्वं समानिन्ये महीपतिः ततॊ निष्क्रम्य नृपतिस तस्माद अन्तःपुरात तदा सर्वं सुहृज्जनं चैव सर्वश च परकृतीस तथा समवेतांश च तान सर्वान पौरजान पदान अथ बराह्मणांश च महीपालान नानादेशसमागतान ततः पराह महातेजा धृतराष्ट्रॊ महीपतिः शृण्वन्त्य एकाग्रमनसॊ बराह्मणाः कुरुजाङ्गलाः कषत्रियाश चैव वैश्याश च शूद्राश चैव समागताः भवन्तः कुरवश चैव बहु कालं सहॊषिताः परस्परस्य सुहृदः परस्परहिते रताः यद इदानीम अहं बरूयाम अस्मिन काल उपस्थिते तथा भवद्भिः कर्तव्यम अविचार्य वचॊ मम अरण्यगमने बुद्धिर गान्धारी सहितस्य मे वयासस्यानुमते राज्ञस तथा कुन्तीसुतस्य च भवन्तॊ ऽपय अनुजानन्तु मा वॊ ऽनया भूद विचारणा अस्माकं भवतां चैव येयं परीतिर हि शाश्वती न चान्येष्व अस्ति देशेषु राज्ञाम इति मतिर मम शरान्तॊ ऽसमि वयसानेन तथा पुत्र विनाकृतः उपवासकृशश चास्मि गान्धारी सहितॊ ऽनघाः युधिष्ठिर गते राज्ये पराप्तश चास्मि सुखं महत मन्ये दुर्यॊधनैश्वर्याद विशिष्टम इति सत्तमाः मम तव अन्धस्य वृद्धस्य हतपुत्रस्य कागतिः ऋते वनं महाभागास तन मानुज्ञातुम अर्हथ तस्य तद वचनं शरुत्वा सर्वे ते कुरुजाङ्गलाः बाष्पसंदिग्धया वाचा रुरुदुर भरतर्षभ तान अविब्रुवतः किं चिद दुःखशॊकपरायणान पुनर एव महातेजा धृतराष्ट्रॊ ऽबरवीद इदम [धृ] शंतनुः पालयाम आस यथावत पृथिवीम इमाम तथा विचित्रवीर्यश च भीष्मेण परिपालितः पालयाम आस वस तातॊ विदितं वॊ नसंशयः यथा च पाण्डुर भराता मे दयितॊ भवताम अभूत स चापि पालयाम आस यथावत तच च वेत्थ ह मया च भवतां सम्यक शुश्रूषा या कृतानघाः असम्यग वा महाभागास तत कषन्तव्यम अतन्द्रितैः यच च दुर्यॊधनेनेदं राज्यं भुक्तम अकण्टलम अपि तत्र न वॊ मन्दॊ दुर्बुद्धिर अपराद्धवान तस्यापराधाद दुर्बुद्धेर अभिमानान महीक्षिताम विमर्दः सुमहान आसीद अनयान मत्कृताद अथ तन मया साधु वापीदं यदि वासाधु वै कृतम तद वॊ हृदि न कर्तव्यं माम अनुज्ञातुम अर्हथ वृद्धॊ ऽयं हतपुत्रॊ ऽयं दुःखितॊ ऽयं जनाधिपः पूर्वराज्ञां च पुत्रॊ ऽयम इति कृत्वानुजानत इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी गान्धारी पुत्रशॊकार्ता तुल्यं याचति वॊ मया हतपुत्राव इमौ वृद्धौ विदित्वा दुःखितौ तथा अनुजानीत भद्रं वॊ वरजावः शरणं च वः अयं च कौरवॊ राजा कुन्तीपुत्रॊ युधिष्ठिरः सर्वैर भवद्भिर दरष्टव्यः समेषु विषमेषु च न जातु विषमं चैव गमिष्यति कदा चन चत्वारः सचिवा यस्य भरातरॊ विपुलौजसः लॊकपालॊपमा हय एते सर्वे धर्मार्थदर्शिनः बरह्मेव भगवान एष सर्वभूतजगत्पतिः युधिष्ठिरॊ महातेजा भवतः पालयिष्यति अवश्यम एव वक्तव्यम इति कृत्वा बरवीमि वः एष नयासॊ मया दत्तः सर्वेषां वॊ युधिष्ठिरः भवन्तॊ ऽसय च वीरस्य नयासभूता मया कृताः यद्य एव तैः कृतं किं चिद वयलीकं वा सुतैर मम यद्य अन्येन मदीयेन तदनुज्ञातुम अर्हथ भवद्भिर हि न मे मन्युः कृतपूर्वः कथं चन अत्यन्तगुरु भक्तानाम एषॊ ऽञजलिर इदं नमः तेषाम अस्थिरबुद्धीनां लुब्धानां कामचारिणाम कृते याचामि वः सर्वान गान्धारी सहितॊ ऽनघाः इत्य उक्तास तेन ते राज्ञा पौरजानपदा जनाः नॊचुर बाष्पकलाः किं चिद वीक्षां चक्रुः परस्परम [वै] एवम उक्तास तु ते तेन पौरजानपदा जनाः वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन तूष्णींभूतांस ततस तांस तु बाष्पकण्ठान महीपतिः धृतराष्ट्रॊ महीपालः पुनर एवाभ्यभाषत वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया विलपन्तं बहुविधं कृपणं चैव सत्तमाः पित्रा सवयम अनुज्ञातं कृष्णद्वैपायनेन वै वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च सॊ ऽहं पुनः पुनर याचे शिरसावनतॊ ऽनघाः गान्धार्या सहितं तन मां समनुज्ञातुम अर्हथ शरुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते रुरुदुः सर्वतॊ राजन समेताः कुरुजाङ्गलाः उत्तरीयैः करैश चापि संछाद्य वदनानि ते रुरुदुः शॊकसंतप्ता मुहूर्तं पितृमातृवत हृदयैः शून्यभूतैस ते धृतराष्ट्र परवासजम दुःखं संधारयन्तः सम नष्टसंज्ञा इवाभवन ते विनीय तम आयासं कुरुराजवियॊगजम शनैः शनैस तदान्यॊन्यम अब्रुवन सवमतान्य उत ततः संधाय ते सर्वे वाक्यान्य अथ समासतः एकस्मिन बराह्मणे राजन्न आवेश्यॊचुर नराधिपम ततः सवचरणे वृद्धः संमतॊ ऽरथविशारदः साम्बाख्यॊ बह्व ऋचॊ राजन वक्तुं समुपचक्रमे अनुमान्य महाराजं तत सदः संप्रभाष्य च विप्रः परगल्भॊ मेधावी स राजानम उवाच ह राजन वाक्यं जनस्यास्य मयि सर्वं समर्पितम वक्ष्यामि तद अहं वीर तज जुषस्व नराधिप यथा वदसि राजेन्द्र सर्वम एतत तथा विभॊ नात्र मिथ्या वचः किं चित सुहृत तवं नः परस्परम न जात्व अस्य तु वंशस्य राज्ञां कश चित कदा चन राजासीद यः परजा पालः परजानाम अप्रियॊ भवेत पितृवद भरातृवच चैव भवन्तः पालयन्ति नः न च दुर्यॊधनः किं चिद अयुक्तं कृतवान नृप यथा बरवीति धर्मज्ञॊ मुनिः सत्यवती सुतः तथा कुरु महाराज स हि नः परमॊ गुरुः तयक्ता वयं तु भवता दुःखशॊकपरायणाः भविष्यामश चिरं राजन भवद्गुणशतैर हृताः यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च भीष्म वीर्यॊपगूढेन पित्रा च तव पार्थिव भवद बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता तथा दुर्यॊधनेनापि राज्ञा सुपरिपालिताः न सवल्पम अपि पुत्रस ते वयलीकं कृतवान नृप पितरीव सुविश्वस्तास तस्मिन्न अपि नराधिपे वयम आस्म यथा सम्यग भवतॊ विदितं तथा तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता पाल्यमाना धृतिमता सुखं विन्दामहे नृप राजर्षीणां पुराणानां भवतां वंशधारिणाम कुरु संवरणादीनां भरतस्य च धीमतः वृत्तं समनुयात्य एष धर्मात्मा भूरिदक्षिणः नात्र वाच्यं महाराज सुसूक्ष्मम अपि विद्यते उषिताः सम सुखं नित्यं भवता परिपालिताः सुसूक्ष्मं च वयलीकं ते सपुत्रस्य न विद्यते यत तु जञातिविमर्दे ऽसमिन्न आत्थ दुर्यॊधनं परति भवन्तम अनुनेष्यामि तत्रापि कुरुनन्दन [बराह्मण] न तद दुर्यॊधनकृतं न च तद भवता कृतम न कर्ण सौबलाभ्यां च कुरवॊ यत कषयं गताः दैवं तत तु विजानीमॊ यन न शक्यं परबाधितुम दैवं पुरुषकारेण न शक्यम अतिवर्तितुम अक्षौहिण्यॊ महाराज दशाष्टौ च समागताः अष्टादशाहेन हता दशभिर यॊधपुंगवैः भीष्मद्रॊणकृपाद्यैश च कर्णेन च महात्मना युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह चतुर्भिः पाण्डुपुत्रैश च भीमार्जुनयमैर नृप जनक्षयॊ ऽयं नृपते कृतॊ दैवबलात्कृतैः अवश्यम एव संग्रामे कषत्रियेण विशेषतः कर्तव्यं निधनं लॊके शस्त्रेण कषत्रबन्धुना तैर इयं पुरुषव्याघ्रैर विद्या बाहुबलान्वितैः पृथिवी निहता सर्वा सहया सरथ दविपा न स राजापराध्नॊति पुत्रस तव महामनाः न भवान न च ते भृत्या न कर्णॊ न च सौबलः यद विनष्टाः कुरुश्रेष्ठा राजानश च सहस्रशः सर्वं दैवकृतं तद वै कॊ ऽतर किं वक्तुम अर्हति गुरुर मतॊ भवान अस्य कृत्स्नस्य जगतः परभुः धर्मात्मानम अतस तुभ्यम अनुजानीमहे सुतम लभतां वीरलॊकान स ससहायॊ नराधिपः दविजाग्र्यैः समनुज्ञातस तरिदिवे मॊदतां सुखी पराप्स्यते च भवान पुण्यं धर्मे च परमां सथितिम वेद पुण्यं च कार्त्स्न्येन सम्यग भरतसत्तम दृष्टापदानाश चास्माभिः पाण्डवाः पुरुषर्षभाः समर्थास तरिदिवस्यापि पालने किं पुनः कषितेः अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च परजाः कुरु कुलश्रेष्ठ पाण्डवाञ शीलभूषणान बरह्म देयाग्रहारांश च परिहारांश च पार्थिव पूर्वराजातिसर्गांश च पालयत्य एव पाण्डवः दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणॊ यथा अक्षुद्र सच्चिवश चायं कुन्तीपुत्रॊ महामनाः अप्य अमित्रे दयावांश च शुचिश च भरतर्षभ ऋजु पश्यति मेघावी पुत्रवत पाति नः सदा विप्रियं च जनस्यास्य संसर्गाद धर्मजस्य वै न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः मन्दा मृदुषु कौरव्यास तीक्ष्णेष्व आशीविषॊपमाः वीर्यवन्तॊ महात्मानॊ पौराणां च हिते रताः न कुन्ती न च पाञ्चाली न चॊलूपी न सात्वती अस्मिञ जने करिष्यन्ति परतिकूलानि कर्हि चित भवत कृतम इमं सनेहं युधिष्ठिर विवर्धितम न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः अधर्मिष्ठान अपि सतः कुन्तीपुत्रा महारथाः मानवान पालयिष्यन्ति भूत्वा धर्मपरायणाः स राजन मानसं दुःखम अपनीय युधिष्ठिरात कुरु कार्याणि धर्म्याणि नमस ते भरतर्षभ [वै] तस्य तद वचनं धर्म्यम अनुबन्ध गुणॊत्तरम साधु साध्व इति सर्वः सजनः परतिगृहीतवान धृतराष्ट्रश च तद वाक्यम अभिपूज्य पुनः पुनः विसर्जयाम आस तदा सर्वास तु परकृतीः शनैः स तैः संपूजितॊ राजा शिवेनावेक्षितस तदा पराञ्जलिः पूजयाम आस सजनं भरतर्षभ ततॊ विवेश भुवनं गान्धार्या सहितॊ नृपः वयुष्टायां चैव शर्वर्या यच चकार निबॊध तत [वै] वयुषितायां रजन्यां तु धृतराष्ट्रॊ ऽमबिका सुतः विदुरं परेषयाम आस युधिष्ठिर निवेशनम स गत्वा राजवचनाद उवाचाच्युतम ईश्वरम युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः धृतराष्ट्रॊ महाराज वनवासाय दीक्षितः गमिष्यति वनं राजन कार्तिकीम आगताम इमाम स तवा कुरु कुलश्रेष्ठ किं चिद अर्थम अभीप्सति शराद्धम इच्छति दातुं स गाङ्गेयस्य महात्मनः दरॊणस्य सॊमदत्तस्य बाह्लीकस्य च धीमतः पुत्राणां चैव सर्वेषां ये चास्य सुहृदॊ हताः यदि चाभ्यनुजानीषे सैन्धवापसदस्य च एतच छरुत्वा तु वचनं विदुरस्य युधिष्ठिरः हृष्टः संपूजयाम आस गुडा केशश च पाण्डवः न तु भीमॊ दृढक्रॊधस तद वचॊ जगृहे तदा विदुरस्य महातेजा दुर्यॊधनकृतं समरन अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः किरीटी किं चिद आनम्य भीमं वचनम अब्रवीत भीम राजा पिता वृद्धॊ वनवासाय दीक्षितः दातुम इच्छति सर्वेषां सुहृदाम और्ध्व देहिकाम भवता निर्जितं वित्तं दातुम इच्छति कौरवः भीष्मादीनां महाबाहॊ तदनुज्ञातुम अर्हसि दिष्ट्या तव अद्य महाबाहॊ धृतराष्ट्रः परयाचति याचितॊ यः पुरास्माभिः पश्य कालस्य पर्ययम यॊ ऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः परैर विनिहतापत्यॊ वनं गन्तुम अभीप्सति मा ते ऽनयत पुरुषव्याघ्र दानाद भवतु दर्शनम अयशस्यम अतॊ ऽनयत सयाद अधर्म्यं च महाभुज राजानम उपतिष्ठस्व जयेष्ठं भरातरम ईश्वरम अर्हस तवम असि दातुं वै नादातुं भरतर्षभ एवं बरुवाणं कौन्तेयं धर्मराजॊ ऽभयपूजयत भीमसेनस तु सक्रॊधः परॊवाचेदं वचस तदा वयं भीष्मस्य कुर्मेह परेतकार्याणि फल्गुन सॊमदत्तस्य नृपतेर भूरिश्रवस एव च बाह्लीकस्य च राजर्षेर दरॊणस्य च महात्मनः अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति शराद्धानि पुरुषव्याघ्र मादात कौरवकॊ नृपः इति मे वर्तते बुद्धिर मा वॊ नन्दन्तु शत्रवः कष्टात कष्टतरं यान्तु सर्वे दुर्यॊधनादयः यैर इयं पृथिवी सर्वा घातिता कुलपांसनैः कुतस तवम अद्य विस्मृत्य वैरं दवादश वार्षिकम अज्ञातवास गमनं दरौपदी शॊकवर्धनम कव तदा धृतराष्ट्रस्य सनेहॊ ऽसमास्व अभवत तदा कृष्णाजिनॊपसंव्वीतॊ हृताभरण भूषणः सार्धं पाञ्चाल पुत्र्या तवं राजानम उपजग्मिवान कव तदा दरॊण भीष्मौ तौ सॊमदत्तॊ ऽपि वाभवत यत्र तरयॊदश समा वने वन्येन जीवसि न तदा तवा पिता जयेष्ठः पितृत्वेनाभिवीक्षते किं ते तद विस्मृतं पार्थ यद एष कुलपांसनः दुर्वृत्तॊ विदुरं पराह दयूते किं जितम इत्य उत तम एवं वादिनं राजा कुन्तीपुत्रॊ युधिष्ठिरः उवाच भरातरं धीमाञ जॊषम आस्वेति भर्त्सयन [अर्ज] भीम जयेष्ठॊ गुरुर मे तवं नातॊ ऽनयद वक्तुम उत्सहे धृतराष्ट्रॊ हि राजर्षिः सर्वथा मानम अर्हति न समरन्त्य अपराद्धानि समरन्ति सुकृतानि च असंभिन्नार्थ मर्यादाः साधवः पुरुषॊत्तमाः इदं मद्वचनात कषत्तः कौरवं बरूहि पार्थिवम यावद इच्छति पुत्राणां दातुं तावद ददाम्य अहम भीष्मादीनां च सर्वेषां सुहृदाम उपकारिणाम मम कॊशाद इति विभॊ मा भूद भीमः सुदुर्मनाः [वै] इत्य उक्ते धर्मराजस तम अर्जुनं परत्यपूजयत भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम ततः स विदुरं धीमान वाक्यम आह युधिष्ठिरः न भीमसेने कॊपं स नृपतिः कर्तुम अर्हति परिक्लिष्टॊ हि भीमॊ ऽयं हिमवृष्ट्य आतपादिभिः दुःखैर बहुविधैर धीमान अरण्ये विदितं तव किं तु मद्वचनाद बरूहि राजानं भरतर्षभम यद यद इच्छसि यावच च गृह्यतां मद्गृहाद इति यन मात्सर्यम अयं भीमः करॊति भृशदुःखितः न तन मनसि कर्तव्यम इति वाच्यः स पार्थिवः यन ममास्ति धनं किं चिद अर्जुनस्य च वेश्मनि तस्य सवामी महाराज इति वाच्यः स पार्थिवः ददातु राजा विप्रेभ्यॊ यथेष्टं करियतां वययः पुत्राणां सुहृदां चैव गच्छत्व आनृण्यम अद्य सः इदं चापि शरीरं मे तवायत्तं जनाधिप धनानि चेति विद्धि तवं कषत्तर नास्त्य अत्र संशयः [वै] एवम उक्तस तु राज्ञा स विदुरॊ बुद्धिसत्तमः धृतराष्ट्रम उपेत्येदं वाक्यम आह महार्थवत उक्तॊ युधिष्ठिरॊ राजा भवद वचनम आदितः स च संश्रुत्य वाक्यं ते परशशंस महाद्युतिः बीभत्सुश च महातेजा निवेदयति ते गृहान वसु तस्य गृहे यच च पराणान अपि च केवलान धर्मराजश च पुत्रस ते राज्यं पराणान धनानि च अनुजानाति राजर्षे यच चान्यद अपि किं चन भीमस तु सर्वदुःखानि संस्मृत्य बहुलान्य उत कृच्छ्राद इव महाबाहुर अनुमन्य विनिःश्वसन स राज्ञा धर्मशीलेन भरात्रा बीभत्सुना तथा अनुनीतॊ महाबाहुः सौहृदे सथापितॊ ऽपि च न च मन्युस तवया कार्य इति तवां पराह धर्मराट संस्मृत्य भीमस तद वैरं यद अन्यायवद आचरेत एवं परायॊ हि धर्मॊ ऽयं कषत्रियाणां नराधिप युद्धे कषत्रिय धर्मे च निरतॊ ऽयं वृकॊदरः वृकॊदर कृते चाहम अर्जुनश च पुनः पुनः परसादयाव नृपते भवान परभुर इहास्ति यत परददातु भवान वित्तं यावद इच्छसि पार्थिव तवम ईश्वरॊ नॊ राज्यस्य पराणानां चेति भारत बरह्म देयाग्रहारांश च पुत्राणां चौर्ध्व देहिकम इतॊ रत्नानि गाश चैव दासीदासम अजाविकम आनयित्वा कुरुश्रेष्ठॊ बराह्मणेभ्यः परयच्छतु दीनान्ध कृपणेभ्यश च तत्र तत्र नृपाज्ञया बह्व अन्नरसपानाढ्याः सभा विदुर कारय गवां निपानान्य अन्यच च विविधं पुण्यकर्म यत इति माम अब्रवीद राजा पार्थैश चैव धनंजयः यद अत्रानन्तरं कार्यं तद भवान वक्तुम अर्हति इत्य उक्तॊ विदुरेणाथ धृतराष्ट्रॊ ऽभिनन्द्य तत मनश चक्रे महादाने कार्तिक्यां जनमेजय [वै] विदुरेणैवम उक्तस तु धृतराष्ट्रॊ जनाधिपः परीतिमान अभवद राजा राज्ञॊ जिष्णॊश च कर्मणा ततॊ ऽभिरूपान भीष्माय बराह्मणान ऋषिसत्तमान पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः कारयित्वान्न पानानि यानान्य आच्छादनानि च सुवर्णमणिरत्नानि दासीदास परिच्छदान कम्बलाजिन रत्नानि गरामान कषेत्रान अजाविकम अलंकारान गजान अश्वान कन्याश चैव वरस्त्रियः आदिश्यादिश्य विप्रेभ्यॊ ददौ स नृपसत्तमः दरॊणं संकीर्त्य भीष्मं च सॊमदत्तं च बाह्लिकम दुर्यॊधनं च राजानं पुत्रांश चैव पृथक पृथक जयद्रथ पुरॊगाश च सुहृदश चैव सर्वशः स शराद्धयज्ञॊ ववृधे बहु गॊधनदक्षिणः अनेकधनरत्नौघॊ युधिष्ठिर मते तदा अनिशं यत्र पुरुषा गणका लेखकास तथा युधिष्ठिरस्य वचनात तद आपृच्छन्ति तं नृपम आज्ञापय किम एतेभ्यः परदेयं दीयताम इति तद उपस्थितम एवात्र वचनान्ते परदृश्यते शते देये दशशतं सहस्रे चायुतं तथा दीयते वचनाद राज्ञः कुन्तीपुत्रस्य धीमतः एवं स वसु धाराभिर वर्षमाणॊ नृपाम्बुदः तर्पयाम आस विप्रांस तान वर्षन भूमिम इवाम्बुदः ततॊ ऽनन्तरम एवात्र सर्ववर्णान महीपतिः अन्नपानरसौघेन पलावयाम आस पार्थिवः सवस्त्र फेनरत्नौघॊ मृद अङ्गनिनद सवनः गवाश्वमकरावर्तॊ नारीरत्नमहाकरः गरामाग्रहार कुल्याढ्यॊ मणिहेमजलार्णवः जगत संप्लावयाम आस धृतराष्ट्र दयाम्बुधिः एवं सपुत्रपौत्राणां पितॄणाम आत्मनस तथा गान्धार्याश च महाराज परददाव और्ध्व देहिकम परिश्रान्तॊ यदासीत स ददद दानान्य अनेकशः ततॊ निर्वर्तयाम आस दानयज्ञं कुरूद्वहः एवं स राजा कौरव्यश चक्रे दानमहॊत्सवम नटनर्तक लास्याढ्यं बह्व अन्नरसदक्षिणम दशाहम एवं दानानि दत्त्वा राजाम्बिका सुतः बभूव पुत्रपौत्राणाम अनृणॊ भरतर्षभ [वै] ततः परभाते राजा स धृतराष्ट्रॊ ऽमबिका सुतः आहूय पाण्डवान वीरान वनवास कृतक्षणः गान्धारी सहितॊ धीमान अभिनन्द्य यथाविधि कार्त्तिक्यां कारयित्वेष्टिं बराह्मणैर वेदपारगैः अग्निहॊत्रं पुरस्कृत्य वल्कलाजिनसंवृतः वधू परिवृतॊ राजा निर्ययौ भवनात ततः ततः सत्रियः कुरव पाण्डवानां; याश चाप्य अन्याः कौरव राजवंश्याः तासां नादः परादुरासीत तदानीं; वैचित्रवीर्ये नृपतौ परयाते ततॊ लाजैः सुमनॊभिश च राजा; विचित्राभिस तद्गृहं पूजयित्वा संयॊज्यार्थैर भृत्यजनं च सर्वं; ततः समुत्सृज्य ययौ नरेन्द्रः ततॊ राजा पराञ्जलिर वेपमानॊ; युधिष्ठिरः सस्वनं बाष्पकण्ठः विलप्यॊच्चैर हा महाराज साधॊ; कव गन्तासीत्य अपतत तात भूमौ तथार्जुनस तीव्रदुःखाभितप्तॊ; मुहुर मुहुर निःश्वसन भरताग्र्यः युधिष्ठिरं मैवम इत्य एवम उक्त्वा; निगृह्याथॊदीधरत सीदमानः वृकॊदरः फल्गुनश चैव वीरौ; माद्रीपुत्रौ विदुरः संजयश च वैश्यापुत्रः सहितॊ गौतमेन; धौम्यॊ विप्राश चान्वयुर बाष्पकण्ठाः कुन्ती गान्धारीं बद्धनेत्रां वरजन्तीं; सकन्धासक्तं हस्तम अथॊद्वहन्ती राजा गान्धार्याः सकन्धदेशे ऽवसज्य; पाणिं ययौ धृतराष्ट्रः परतीतः तथा कृष्णा दरौपदी यादवी च; बालापत्या चॊत्तरा कौरवी च चित्राङ्गदा याश च काश चित सत्रियॊ ऽनयाः; सार्धं राज्ञा परस्थितास ता वधूभिः तासां नादॊ रुदतीनां तदासीद; राजन दुःखात कुररीणाम इवॊच्चैः ततॊ निष्पेतुर बराह्मणक्षत्रियाणां; विट शूद्राणां चैव नार्यः समन्तात तन निर्याणे दुःखितः पौरवर्गॊ; गहाह्वये ऽतीव बभूव राजन यथापूर्वं गच्छतां पाण्डवानां; दयूते राजन कौरवाणां सभायाम या नापश्यच चन्द्रमा नैव सूर्यॊ; रामाः कदा चिद अपि तस्मिन नरेन्द्रे महावनं गच्छति कौरवेन्द्रे; शॊकेनार्ता राजमार्गं परपेदुः [वै] ततः परासादहर्म्येषु वसुधायां च पार्थिव सत्रीणां च पुरुषाणां च सुमहान निःस्वनॊ ऽभवत स राजा राजमार्गेण नृनारी संकुलेन च कथं चिन निर्ययौ धीमान वेपमानः कृताञ्जलिः स वर्धमानद्वारेण निर्ययौ गजसाह्वयात विसर्जयाम आस च तं जनौघं स मुहुर मुहुः वनं गन्तुं च विदुरॊ राज्ञा सह कृतक्षणः संजयश च महामात्रः सूतॊ गावल्गणिस तथा कृपं निवर्तयाम आस युयुत्सुं च महारथम धृतराष्ट्रॊ महीपालः परिदाय युधिष्ठिरे निवृत्ते पौरवर्गे तु राजा सान्तःपुरस तदा धृतराष्ट्राभ्यनुज्ञातॊ निवर्तितुम इयेष सः सॊ ऽबरवीन मातरं कुन्तीम उपेत्य भरतर्षभ अहं राजानम अन्विष्ये भवती विनिवर्तताम वधू परिवृता राज्ञि नगरं गन्तुम अर्हसि राजा यात्व एष धर्मात्मा तपसे धृतनिश्चयः इत्य उक्ता धर्मराजेन बाष्पव्याकुललॊचना जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह सहदेवे महाराज मा परमादं कृथाः कव चित एष माम अनुरक्तॊ हि राजंस तवां चैव नित्यदा कर्णं समरेथाः सततं संग्रामेष्व अपलायिनम अवकीर्णॊ हि स मया वीरॊ दुष्प्रज्ञया तदा आयसं हृदयं नूनं मन्दाया मम पुत्रक यत सूर्यजम अपश्यन्त्याः शतधा न विदीर्यते एवंगते तु किं शक्यं मया कर्तुम अरिंदम मम दॊषॊ ऽयम अत्यर्थं खयापितॊ यन न सूर्यजः तन्निमित्तं महाबाहॊ दानं दद्यास तवम उत्तमम सदैव भरातृभिः सार्धम अग्रजस्यारि मर्दन दरौपद्याश च परिये नित्यं सथातव्यम अरिकर्शन भीमसेनार्जुनौ चैव नकुलश च कुरूद्वह समाधेयास तवया वीर तवय्य अद्य कुलधूर गता शवश्रू शवशुरयॊः पादाञ शुश्रूषन्ती वने तव अहम गान्धारी सहिता वत्स्ये तापसी मलपङ्किनी एवम उक्तः स धर्मात्मा भरातृभिः सहितॊ वशी विषादम अगमत तीव्रं न च किं चिद उवाच ह स मुहूर्तम इव धयात्वा धर्मपुत्रॊ युधिष्ठिरः उवाच मातरं दीनश चिन्ताशॊकपरायणः किम इदं ते वयवसितं नैवं तवं वक्तुम अर्हसि न तवाम अभ्यनुजानामि परसादं कर्तुम अर्हसि वयरॊचयः पुरा हय अस्मान उत्साह्य परियदर्शने विदुराया वचॊभिस तवम अस्मान न तयक्तुम अर्हसि निहत्य पृथिवीपालान राज्यं पराप्तम इदं मया तव परज्ञाम उपश्रुत्य वासुदेवान नरर्षभात कव सा बुद्धिर इयं चाद्य भवत्या या शरुता मया कषत्रधर्मे सथितिं हय उक्त्वा तस्याश चलितुम इच्छसि अस्मान उत्सृज्य राज्यं च सनुषां चेमां यशस्विनीम कथं वत्स्यसि शून्येषु वनेष्व अम्ब परसीद मे इति बाष्पकलां वाचं कुन्तीपुत्रस्य शृण्वती जगामैवाश्रु पूर्णाक्षी भीमस ताम इदम अब्रवीत यदा राज्यम इदं कुन्ति भॊक्तव्यं पुत्र निर्जितम पराप्तव्या राजधर्माश च तदेयं ते कुतॊ मतिः किं वयं कारिताः पूर्वं भवत्या पृथिवी कषयम कस्य हेतॊः परित्यज्य वनं गन्तुम अभीप्ससि वनाच चापि किम आनीता भवत्या बालका वयम दुःखशॊकसमाविष्टौ माद्रीपुत्राव इमौ तथा परसीद मातर मा गास तवं वनम अद्य यशस्विनि शरियं यौधिष्ठिरीं तावद भुङ्क्ष्व पार्थ बलार्जिताम इति सा निश्चितैवाथ वनवास कृतक्षणा लालप्यतां बहुविधं पुत्राणां नाकरॊद वचः दरौपदी चान्वयाच छवश्रूं विषण्णवदना तदा वनवासाय गच्छन्तीं रुदती भद्रया सह सा पुत्रान रुदतः सर्वान मुहुर मुहुर अवेक्षती जगामैव महाप्राज्ञा वनाय कृतनिश्चया अन्वयुः पाण्डवास तां तु सभृत्यान्तःपुरास तदा ततः परमृज्य साश्रूणि पुत्रान वचनम अब्रवीत [कुन्ती] एवम एतन महाबाहॊ यथा वदसि पाण्डव कृतम उद्धर्षणं पूर्वं मया वः सीदतां नृप दयूतापहृत राज्यानां पतितानां सुखाद अपि जञातिभिः परिभूतानां कृतम उद्धर्षणं मया कथं पाण्डॊर न नश्येत संततिः पुरुषर्षभाः यशश च वॊ न नश्येत इति चॊद्धर्षणं कृतम यूयम इन्द्रसमाः सर्वे देवतुल्यपराक्रमाः मा परेषां मुखप्रेक्षाः सथेत्य एवं तत कृतं मया कथं धर्मभृतां शरेष्ठॊ राजा तवं वासवॊपमः पुनर वने न दुःखी सया इति चॊद्धर्षणं कृतम नागायुत समप्राणः खयातिविक्रमपौरुषः नायं भीमॊ ऽतययं गच्छेद इति चॊद्धर्षणं कृतम भीमसेनाद अवरजस तथायं वासवॊपमः विजयॊ नावसीदेत इति चॊद्धर्षणं कृतम नकुलः सहदेवश च तथेमौ गुरुवर्तिनौ कषुधा कथं न सीदेताम इति चॊद्धर्षणं कृतम इयं च बृहती शयामा शरीमत्य आयतलॊचना वृथा सभा तले कलिष्टा मा भूद इति च तत कृतम परेक्षन्त्या मे तदा हीमां वेपन्तिं कदलीम इव सत्री धर्मिणीम अनिन्द्याङ्गीं तथा दयूतपराजिताम दुःशासनॊ यदा मौढ्याद दासीवत पर्यकर्षत तदैव विदितं मह्यं पराभूतम इदं कुलम विषण्णाः कुरवश चैव तदा मे शवशुरादयः यथैषा नाथम इच्छन्ती वयलपत कुररी यथा केशपक्षे परामृष्टा पापेन हतबुद्धिना यदा दुःशासनेनेषा तदा मुह्याम्य अहं नृप युष्मत्तेजॊ विवृद्ध्य अर्थं मया हय उद्धर्षणं कृतम तदानीं विदुरा वाक्यैर इति तद वित्तपुत्रकाः कथं न राजवंशॊ ऽयं नश्येत पराप्य सुतान मम पाण्डॊर इति मया पुत्र तस्माद उद्धर्षणं कृतम न तस्य पुत्रः पौत्रौ वा कृत एव स पार्थिव लभते सुकृताँल लॊकान यस्माद वंशः परणश्यति भुक्तं राज्यफलं पुत्रा भर्तुर मे विपुलं पुरा महादानानि दत्तानि पीतः सॊमॊ यथाविधि साहं नात्म फलार्थं वै वासुदेवम अचूचुदम विदुरायाः परलापैस तैः पलावनार्थ तु तत कृतम नाहं राज्यफलं पुत्र कामये पुत्र निर्जितम पतिलॊकान अहं पुण्यान कामये तपसा विभॊ शवश्रू शवशुरयॊः कृत्वा शुश्रूषां वनवासिनॊः तपसा शॊषयिष्यामि युधिष्ठिर कलेवरम निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह धर्मे ते धीयतां बुद्धिर मनस ते महद अस्तु च [वै] कुन्त्यास तु वचनं शरुत्वा पण्डवा राजसत्त्नम वरीडिताः संन्यवर्तन्त पाञ्चाल्या साहितानघाः ततः शब्दॊ महान आसीत सर्वेषाम एव भारत अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम परदक्षिणम अथावृत्य राजानं पाण्डवास तदा अभिवाद्य नयवर्तन्त पृथां ताम अनिवर्त्य वै ततॊ ऽबरवीन महाराजॊ धृतराष्ट्रॊ ऽमबिका सुतः गान्धारीं विदुरं चैव समाभाष्य निगृह्य च युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम यथा युधिष्ठिरः पराह तत सर्वं सत्यम एव हि पुत्रैश्वर्यं महद इदम अपास्या च महाफलम का नु गच्छेद वनं दुर्गं पुत्रान उत्सृज्य मूढवत राज्यस्थया तपस तप्तं दानं दत्तं वरतं कृतम अनया शक्यम अद्येह शरूयतां च वचॊ मम गान्धारि परितुष्टॊ ऽसमि वध्वाः शुश्रूषणेन वै तस्मात तवम एनां धर्मज्ञे समनुज्ञातुम अर्हसि इत्य उक्ता सौबलेयी तु राज्ञा कुन्तीम उवाच ह तत सर्वं राजवचनं सवं च वाक्यां विशेषवत न च सा वनवासाय देवीं कृतमतिं तदा शक्नॊत्य उपावर्तयितुं कुन्तीं धर्मपरां सतीम तस्यास तु तं सथिरं जञात्वा वयवसायं कुरु सत्रियः निवृत्तांश च कुरुश्रेष्ठान दृष्ट्वा पररुरुदुस तदा उपावृत्तेषु पार्थेषु सर्वेष्व अन्तःपुरेषु च ययौ राजा महाप्राज्ञॊ धृतराष्ट्रॊ वनं तदा पाण्डवा अपि दीनास ते दुःखशॊकपरायणाः यानैः सत्री सहिताः सर्वे पुरं परविविशुस तदा तम अहृष्टम इवाकूजं गतॊत्सावम इवाभवत नगरं हास्तिनपुरं सस्त्री वृद्धकुमारकम सर्वे चासन निरुत्साहाः पाण्डवा जातमन्यवः कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः धृतराष्ट्रस तु तेनाह्ना गत्वा सुमहद अन्तरम ततॊ भागी रथी तीरे निवासम अकरॊत परभुः परादुष्कृता याथा नयायम अग्नयॊ वेदपारगैः वयराजन्त दविज शरेष्ठैस तत्र तत्र तपॊधनैः परादुष्कृताग्निर अभवत स च वृद्धॊ नराधिपः स राजाग्नीन पर्युपास्य हुत्वा च विधिवत तदा संध्यागतं सहस्रांशुम ऊपातिष्ठत भारत विदुरः संजयश चैव राज्ञः शय्यां कुशैस ततः चक्रतुः कुरुवीरस्य गान्धार्या चाविदूरतः गान्धार्याः संनिकर्षे तु निषसाद कुशेष्व अथ युधिष्ठिरस्य जननी कुन्ती साधुव्रते सथिता तेषां सांश्रवणे चापि निषेदुर वविदुरादयः याजकश च यथॊद्देशं दविजा ये चानुयायिनः पराधीत दविजमुख्या सा संप्रज्वालित पावका बभूव तेषां रजनी बरह्मीव परीतिवर्धनी ततॊ रात्र्यां वयतीतायां कृतपूर्वाह्णिक करियाः हुत्वाग्निं विधिवत सर्वे परययुस ते यथाक्रमम उदङ्मुखा निरीक्षन्त उपवासा परायणाः स तेषाम अतिदुःखॊ ऽबभून निवासः परथमे ऽहनि शॊचतां शॊच्यमानानां पौरजानपदैर जनैः [वै] ततॊ भागी रथी तीरे मेध्ये पुण्यजनॊचिते निवासम अकरॊद राजा विदुरस्या मते सथिताः तत्रैनं पर्युपातिष्ठन बराह्मणा राष्ट्रवासिनः कषत्रविट शूद्र संघाश च बहवॊ भरतर्षभ स तैः परिवृतॊ राजा कथाभिर अभिनन्द्य तान अनुजज्ञे सशिष्यान वै विधिवत परतिपूज्य च सायाह्ने स महीपालस ततॊ गङ्गाम उपेत्य ह चकार विधिवच छौचं गान्धारी च यशस्विनी तथैवान्ये पृथक सर्वे तीर्थेष्व आप्लुत्य भारत चक्रुः सर्वाः करियास तत्र पुरुषा विदुरादयः कृतशौचं ततॊ वृद्धं शवशुरं कुन्तिभॊजजा गान्धारीं च पृथा राजन गङ्गातीरम उपानयत राज्ञस तु याजकैस तत्र कृतॊ वेदी परिस्तरः जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः ततॊ भागी रथी तीरात कुरु कषेत्रं जगाम सः सानुगॊ नृपतिर विद्वान नियतः संयतेन्द्रियः तत्राश्रमपदं धीमान अभिगम्य स पार्थिवः आससादाथ राजर्षिः शतयूपं मनीषिणम स हि राजा महान आसीत केकयेषु परंतपः सपुत्रं मनुजैश्वर्ये निवेश्य वनम आविशत तेनासौ सहितॊ राजा ययौ वयासाश्रमं तदा तत्रैनं विधिवद राजन परत्यगृह्णात कुरूद्वहम स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः शतयूपाश्रमे तस्मिन निवासम अकरॊत तदा तस्मै सर्वं विधिं राजन राजाचख्यौ महामतिः आरण्यकं महाराज वयासास्यानुमते तदा एवं स तपसा राजा धृतराष्ट्रॊ महामनाः यॊजयाम आस चात्मानं तांश चाप्य अनुचरांस तदा तथैव देवी गान्धारी वल्कलाजिनवासिनी कुन्त्या सह महाराज समानव्रतचारिणी कर्मणा मनसा वाचा चक्षुषा चापि ते नृप संनियम्येन्द्रियग्रामम आस्थिताः परमं तपः तवग अस्थि भूतः परिशुष्कमांसॊ; जटाजिनी वल्कलसंवृताङ्गः स पार्थिवस तत्र तपश चकार; महर्षिवत तीव्रम अपेतदॊषः कषत्ता च धर्मार्थविद अग्र्यबुद्धिः; ससंजयस तं नृपतिं सदारम उपाचरद घॊरतपॊ जितात्मा; तदा कृशॊ वल्कलचीरवासाः [वै] ततस तस्मिन मुनिश्रेष्ठा राजानं दरष्टुम अभ्ययुः नारदः पर्वतश चैव देवलश च महातपाः दवैपायनः सशिष्यश च सिद्धाश चान्ये मनीषिणः शतयूपश च राजर्षिर वृद्धः परमधार्मिकः तेषां कुन्ती महाराज पूजां चक्रे यथाविधि ते चापि तुतुषुस तस्यास तापसाः परिचर्यया तत्र धर्म्याः कथास तात चक्रुस ते परमर्षयः रमयन्तॊ महात्मानं धृतराष्ट्रं जनाधिपम कथान्तरे तु कस्मिंश चिद देवर्षिर नारदस तदा कथाम इमाम अकथयत सर्वप्रत्यक्षदर्शिवान पुरा परजापतिसमॊ राजासीद अकुतॊभयः सहस्रचित्य इत्य उक्तः शतयूप पितामहः सा पुत्रे राज्यम आसज्य जयेष्ठे परमधार्मिके सहस्रचित्यॊ धर्मात्मा परविवेश वनं नृपः स गत्वा तपसः पारं दीप्तस्य स नराधिपः पुरंदरस्य संस्थानं परतिपेदे महामनाः दृष्टपूर्वः स बहुशॊ राजन संपतता मया महेन्द्र सदने राजा तपसा दग्धकिल्बिषः तथा शैलालयॊ राजा भगदत्तपितामहाः तपॊबलेनैव नृपॊ महेन्द्र सदनं गतः तथा पृषध्रॊ नामासीद राजा वज्रधरॊपमः स चापि तपसा लेभे नाकपृष्ठम इतॊ नृपः अस्मिन्न अरण्ये नृपते मान्धातुर अपि चात्मजः पुरु कुत्सॊ नृपः सिद्धिं महतीं समवाप्तवान भार्या सामभवद यस्य नर्मदा सरितां वरा सॊ ऽसमिन्न अरण्ये नृपतिस तपस तप्त्वा दिवं गतः शशलॊमा च नामासीद राजा परमधार्मिकः स चाप्य अस्मिन वने तप्त्वा तपॊ दिवम अवाप्तवान दवैपायन परसादाच च तवम अपीदं तपॊवनम राजन्न अवाप्य दुष्प्रापां सिद्धिम अग्र्यां गमिष्यसि तवं चापि राजशार्दूल तपसॊ ऽनते शरिया वृतः गान्धारी साहितॊ गन्ता गतिं तेषां महात्मनाम पाण्डुः समरतिनित्यं च बलहन्तुः समीपतः तवां सदैव महीपाल स तवां शरेयसि यॊक्ष्यति तव शुश्रूषया चैव गान्धार्याश च यशस्विनी भर्तुः सालॊकतां कुन्ती गमिष्यति वधूस तव युधिष्ठिरस्य जननी स हि धार्मः सनातनः वयम एतत परपश्यामॊ नृपते दिव्यचक्षुषा परवेक्ष्यति महात्मानं विदुरश च युधिष्ठिरम संजयस तवद अनुध्यानात पूतः सवर्गम अवाप्स्यति एतच छरुत्वा कौरवेन्द्रॊ महात्मा; सहैव पत्न्या परीतिमान परत्यगृह्णात विद्वान वाक्यं नारदस्या परशस्य; चक्रे पूजां चातुलां नारदाय तथा सर्वे नारदं विप्रसंघाः; संपूजयाम आसुर अतीव राजन राज्ञः परीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास तदानीम [वै] नारदस्य तु तद वाक्यं परशशंसुर दविजॊत्तमाः शतयूपस तु राजर्षिर नारदं वाक्यम अब्रवीत अहॊ भगवता शरद्धा कुरुराजस्य वर्धिता सर्वस्या च जनस्यास्य मम चैव महाद्युते अस्ति का चिद विवक्षा तु मम तां गदतः शृणु धृतराष्ट्रं परति नृपं देवर्षे लॊकपूजित सर्ववृत्तान्ततत्त्वज्ञॊ भवान दिव्येन चक्षुषा युक्तः पश्यसि देवर्षे गतीर वै विविधा नृणाम उक्तवान नृपतीनां तवं महेन्द्रस्य सलॊकताम न तव अस्य नृपतेर लॊकाः कथितास ते महामुने सथानम अस्य कषितिपतेः शरॊतुम इच्छाम्य अहं विभॊ तवत्तः कीदृक कदा वेति तन ममाचक्ष्व पृच्छतः इत्य उक्तॊ नारदस तेन वाक्यं सार्व मनॊऽनुगम वयाजहार सतां मध्ये दिव्यदर्शी महातपाः यदृच्छया शक्र सदॊ गत्वा शक्रं शचीपतिम दृष्टवान अस्मि राजर्षे तत्र पाण्डुं नराधिपम तत्रेयं धृतराष्ट्रस्य कथा समभवन नृप तपसॊ दुश्चरस्यास्य यद अयं तप्यते नृपः तत्राहम इदम अश्रौषं शक्रस्य वदतॊ नृप वर्षाणि तरीणि शिष्टानि राज्ञॊ ऽसय परमायुषः ततः कुबेरभवनं गान्धारी साहितॊ नृपः विहर्ता धृतराष्ट्रॊ ऽयं राजराजाभिपूजितः कामगेन विमानेन दिव्याभरणभूषितः ऋषिपुत्रॊ महाभागस तपसा दग्धकिल्बिषः संचरिष्यति लॊकांश च देवगन्धर्वरक्षसाम सवच्छन्देनेति धर्मात्मा यन मां तवं परिपृच्छसि देव गुह्यम इदां परीत्या मया वः कथितं महत भवन्तॊ हि शरुतधनास तपसा दग्धकिल्बिषाः इति ते तस्य तच छरुत्वा देवर्षेर मधुरं वचः सर्वे सुमनसः परीता बभूवुः स च पार्थिवः एवं कथाभिर अन्वास्य धृतराष्ट्रं मनीषिणः विप्रजग्मुर यथाकामं ते सिद्धगतिम आस्थिताः [वै] वनं गते कौरवेन्द्रे दुःखशॊकसमाहताः बभूवुः पाण्डवा राजन मातृशॊकेन चार्दिताः तथा पौरजनः सर्वः शॊचन्न आस्ते जनाधिपम कुर्वाणाश च कथास तत्र बराह्मणा नृपतिं परति कथं नु राजा वृद्धः स वने वसति निर्जने गान्धारी च महाभागा सा च कुन्ती पृथा कथम सुखार्हः स हि राजर्षिर न सुखं तन महावनम किम अवस्थः समासाद्य परज्ञा चक्षुर हतात्मजः सुदुष्करं कृतवती कुन्तीपुत्रान अपश्यती राज्यश्रियं परित्यज्य वनवासम अरॊचयत विदुरः किम अवस्थश च भरातुः शुश्रूषुर आत्मवान स च गावल्गणिर धीमान भर्तृपिण्डानुपालकः आकुमारं च पौरास ते चिन्ताशॊकसमाहताः तत्र तत्र कथाश चक्रुः समासाद्य परस्परम पाण्डवाश चैव ते सर्वे भृशं शॊकपरायणाः शॊचन्तॊ मातरं वृद्धाम ऊषुर नातिचिरं पुरे तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम गान्धारीं च महाभागां विदुरं च महामतिम नैषां बभूव संप्रीतिस तान विचिन्तयतां तदा न राज्ये न च नारीषु न वेदाध्ययने तथा परं निर्वेदम अगमंश चिन्तयन्तॊ नराधिपम तच च जञातिवधं घॊरं संस्मरन्तः पुनः पुनः अभिमन्यॊश च बालस्य विनाशं रणमूर्धनि कर्णस्य च महाबाहॊः संग्रामेष्व अपलायिनः तथैव दरौपदेयानाम अन्येषां सुहृदाम अपि वधं संस्मृत्य ते वीरा नातिप्रमनसॊ ऽभवन हतप्रवीरां पृथिवीं हतरत्नां च भारत सदैव चिन्तयन्तस ते न निद्राम उपलेभिरे दरौपदी हतपुत्रा च सुभद्रा चैव भामिनी नातिप्रीति युते देव्यौ तदास्ताम अप्रहृष्टवत वैराट्यास तु सुतं दृष्ट्वा पितरं ते परिक्षितम धारयन्ति सम ते पराणांस तव पूर्वपितामहा [वै] एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः समरन्तॊ मातरं वीरा बभूवुर भृशदुःखिताः ये राजकार्येषु पुरा वयासक्ता नित्यशॊ ऽभवन ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे आविष्टा इव शॊकेन नाभ्यनन्दन्त किं चन संभाष्यमाणा अपि ते न किं चित परत्यपूजयन ते सम वीरा दुराधर्षा गाम्भीर्ये सागरॊपमाः शॊकॊपहतविज्ञाना नष्टसांज्ञा इवाभवन अनुस्मरन्तॊ जननीं ततस ते कुरुनन्दनाः कथं नु वृद्धमिथुनं वहत्य अद्य पृथा कृशा कथं च स महीपालॊ हतपुत्रॊ निराश्रयः पत्न्या सह वसत्य एकॊ वने शवापद सेविते सा च देवी महाभागा गान्धारी हतबान्धवा पतिम अन्धं कथं वृद्धम अन्वेति विजने वने एवं तेषां कथयताम औत्सुक्यम अभवत तदा गमने चाभवद बुद्धिर धृतराष्ट्र दिदृक्षया सहदेवास तु राजानं परणिपत्येदम अब्रवीत अहॊ मे भवतॊ दृष्टं हृदयंगमनं परति न हि तवा गौरवेणाहम अशकं वक्तुम आत्मना गमनं परति राजेन्द्र तद इदं समुपस्थितम दिष्ट्या दरक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम परासादहर्म्य संवृद्धाम अत्यन्तसुखभागिनीम कदा नु जननीं शरान्तां दरक्ष्यामि भृशदुःखिताम अनित्याः खलु मर्त्यानां गतयॊ भरतर्षभ कुन्ती राजसुता यत्र वसत्य असुखिनी वने सहदेव वचः शरुत्वा दरौपदी यॊषितां वरा उवाच देवी राजानम अभिपूज्याभिनन्द्य च कदा दरक्ष्यामि तां देवीं यदि जीवति सा पृथा जीवन्त्या हय अद्य नः परीतिर भविष्यति नराधिप एषा ते ऽसतु मतिर नित्यं धर्मे ते रमतां मनः यॊ ऽदय तवम अस्मान राजेन्द्र शरेयसा यॊजयिष्यसि अग्रपादस्थितं चेमं विद्धि राजन वधू जनम काङ्क्षन्तं दर्शनां कुन्त्या गान्धार्याः शवशुरस्य च इत्य उक्तः सा नृपॊ देव्या पाञ्चाल्या भरतर्षभ सेनाध्यक्षान समानाय्य सर्वान इदम अथाब्रवीत निर्यातयत मे सेनां परभूतरथकुञ्जराम दरक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम सत्र्यध्यक्षांश चाब्रवीद राजा यानानि विविधानि मे सज्जीक्रियन्तां सर्वाणि शिबिकाश च सहस्रशः शकटापण वेशाश च कॊशशिल्पिन एव च निर्यान्तु कॊपपालाश च कुरुक्षेत्राश्रमं परति यश च पौरजनः कश चिद दरष्टुम इच्छति पार्थिवम अनावृतः सुविहितः स च यातु सुरक्षितः सूदाः पौरॊगवश चैव सर्वं चैव महानम विविधं भक्ष्यभॊज्यं च शकटैर उह्यतां मम परयाणं घुष्यतां चैव शवॊभूत इति माचिरम करियन्तां पथि चाप्य अद्य वेश्मानि विविधानि च एवम आज्ञाप्य राजा स भरातृभिः सह पाण्डवः शवॊभूते निर्ययौ राजा सस्त्री बाल पुरस्कृतः स बहिर दिवसान एवं जनौघं परिपालयन नयवसन नृपतिः पञ्च ततॊ ऽगच्छद वनं परति [वै] आज्ञापयाम आस ततः सेनां भरतसत्तमः अर्जुन परमुखैर गुप्तां लॊकपालॊपमैर नरैः यॊगॊ यॊग इति परीत्या ततः शब्दॊ महान अभूत करॊशतां सादिनां तत्र युज्यतां युज्यताम इति के चिद यानैर नरा जग्मुः के चिद अश्वैर मनॊजवैः रथैश च नगराकारैः परदीप्तज्वलनॊपमैः गजेन्द्रैश च तथैवान्ये के चिद उष्ट्रैर नराधिप पदातिनस तथैवान्ये नखरप्रासयॊधिनः पौरजानपदाश चैव यानैर बहुविधैस तथा अन्वयुः कुरुराजानं धृतराष्ट्र दिदृक्षया स चापि राजवचनाम आचार्यॊ गौतमः कृपः सेनाम आदाय सेनानी परययाव आश्रमं परति ततॊ दविजैर वृतः शरीमान कुरुराजॊ युधिष्ठिरः संस्तूयमानॊ बहुभिः सूतमागधबन्दिभिः पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि रथानीकेन महता निर्ययौ कुरुनन्दनः गजैश चाचलसंकाशैर भीमकर्मा वृकॊदरः सज्जयन्त्रायुधॊपेतैः परययौ मारुतात्मजः माद्रीपुत्राव अपि तथा हयारॊहैः सुसंवृतौ जग्मतुः परीतिजननौ संनद्ध कवचध्वजौ अर्जुनश च महातेजा रथेनादित्यवर्चसा वशीश्वेतैर हयैर दिव्यैर युक्तेनान्वगमन नृपम दरौपदी परमुखाश चापि सत्री संग्घाः शिबिका गताः सत्र्यध्यक्षयुक्ताः परययुर विसृजन्तॊ ऽमितं वसु समृद्धनरनागाश्वं वेणुवीणा निनादितम शुशुभे पाण्डवं सैन्यं तत तदा भरतर्षभ नदीतीरेषु रम्येषु सरत्सु च विशां पते वासान कृत्वा करमेणाथ जग्मुस ते कुरुपुंगवाः युयुत्सुश च महातेजा धौम्यश चैव पुरॊहितः युधिष्ठिरस्य वचनात पुरगुप्तिं परचक्रतुः ततॊ युधिष्ठिरॊ राजा कुरुक्षेत्रम अवातरत करमेणॊत्तीर्य यमुनां नदीं परमपावनीम स ददर्शाश्रमं दूराद राजर्षेस तस्य धीमतः शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह ततः परमुदितः सर्वॊ जनस तद वनम अञ्जसा विवेश सुमहानादैर आपूर्य भरतर्षभ [वै] ततस ते पाण्डवा दूराद अवतीर्य पदातयः अभिजग्मुर नरपतेर आश्रमं विनयानताः स च पौरजनः सर्वॊ ये च राष्ट्रनिवासिनः सत्रियश च कुरुमुख्यानां पद्भिर एवान्वयुस तदा आश्रमं ते ततॊ जग्मुर धृतराष्ट्रस्य पाण्डवाः शून्यं मृगगणाकीर्णं कदली वनशॊभितम ततस तत्र समाजग्मुस तापसा विविधव्रताः पाण्डवान आगतान दरष्टुं कौतूहलसमन्विताः तान अपृच्छत ततॊ राजा कवासौ कौरव वंशभृत पिता जयेष्ठॊ गतॊ ऽसमाकम इति बाष्पपरिप्लुतः तम ऊचुस ते ततॊ वाक्यं यमुनाम अवगाहितुम पुष्पाणाम उदकुम्भस्य चार्थे गत इति परभॊ तैर आख्यातेन मार्गेण ततस ते परययुस तदा ददृशुश चाविदूरे तान सर्वान अथ पदातयः ततस ते सत्वरा जग्मुः पितुर दर्शनकाङ्क्षिणः सहदेवस तु वेगेन पराधाव्वद येन सा पृथा सस्वनं पररुदन धीमान मातुः पादाव उपस्पृशन सा च बाष्पाविल मुखी परददर्श परियं सुतम बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम गान्धार्याः कथयाम आस सहदेवम उपस्थितम अनन्तरं च राजानं भीमसेनम अथार्जुनम नकुलं च पृथा दृष्ट्वा तवरमाणॊपचक्रमे सा हय अग्रे ऽगच्छत तयॊर दम्पत्यॊर हतपुत्रयॊः कर्षन्ती तौ ततस ते तां दृष्ट्वा संन्यपतन भुवि तान राजा सवरयॊगेन सपर्शेन च महामनाः परत्यभिज्ञाय मेधावी समाश्वासायत परभुः ततस ते बाष्पम उत्सृज्य गान्धारी सहितं नृपम उपतस्थुर महात्मानॊ मतरं च यथाविधि सर्वेषां तॊयकलशाञ जघृहुस ते सवयं तदा पाण्डवा लब्धसंज्ञास ते मात्रा चाश्वासिताः पुनः ततॊ नार्यॊ नृसिंहानां स च यॊधजनस तदा पौरजानपदाश चैव ददृशुस तं नराधिपम निवेदयाम आस तदा जनं तं नामगॊत्रतः युधिष्ठिरॊ नरपतिः स चैनान परत्यपूजयत स तैः परिवृतॊ मेने हर्षबाष्पाविलेक्षणः राजात्मानं गृहगतं पुरेव गजसाह्वये अभिवादितॊ वधूभिश च कृष्णाद्याभिः स पार्थिवः गान्धार्या सहितॊ धीमान कुन्त्या च परत्यनन्दत ततश चाश्रमम आगच्छत सिद्धचारणसेवितम दिदृक्षुभिः समाकीर्णं नभस तारागणैर इव [वै] स तैः सह नरव्याघ्रैर भरातृभिर भरतर्षभ राजा रुचिरपद्माक्षैर आसां चक्रे तदाश्रमे तापसैश च महाभागैर नानादेशसमागतैः दरष्टुं कुरुपतेः पुत्रान पाण्डवान पृथुवक्षसः ते ऽबरुवञ जञातुम इच्छामः कतमॊ ऽतर युधिष्ठिरः भिमार्जुन यमाश चैव दरौपदी च यशस्विनी तान आचख्यौ तदा सूतः सर्वान नामाभिनामतः संजयॊ दरौपदीं चैव सर्वाश चान्याः कुरु सत्रियः य एष जाम्बूनदशुद्ध गौर; तनुर महासिंह इव परवृद्धः परचण्ड घॊणः पृथु दीर्घनेत्रस; ताम्रायतास्यः कुरुराज एषः अयं पुनर मत्तगजेन्द्र गामी; परतप्तचामीकरशुद्धगौरः पृथ्व आयतांसः पृथु दीर्घबाहुर; वृकॊदरः पश्यत पश्यतैनम यस तव एष पार्श्वे ऽसय महाधनुष्माञ; शयामॊ युवा वारणयूथपाभः सिंहॊन्नतांसॊ गजखेल गामी; पद्मायताक्षॊ ऽरजुन एष वीरः कुन्ती समीपे पुरुषॊत्तमौ तु; यमाव इमौ विष्णुमहेन्द्र कल्पौ मनुष्यलॊके सकले समॊ ऽसति; ययॊर न रूपे न बले न शीले इयं पुनः पद्मदलायताक्षी; मध्यं वयः किं चिद इव सपृशन्ती नीलॊत्पलाभा पुरदेवतेव; कृष्णा सथिता मूर्तिमतीव लक्ष्मीः अस्यास तु पार्श्वे कनकॊत्तमाभा; यैषा परभा मूर्तिमतीव गौरी मध्ये सथितैषा भगिनी दविजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य इयं सवसा राजचमू पतेस तु; परवृद्धनीलॊत्पल दाम वर्णा पस्पर्ध कृष्णेन नृपः सदा यॊ; वृकॊदरस्यैष परिग्ग्रहॊ ऽगर्यः इयं च राज्ञॊ मगधाधिपस्य; सुता जरासंध इति शरुतस्य यवीयसॊ माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी इन्दीवरश्याम तनुः सथिता तु; यैषापरासन्न महीतले च भार्या मता माद्रवतीसुतस्य; जयेष्ठस्य सेयं कमलायताक्षी इयं तु निष्टप्त सुवर्णगौरी; राज्ञॊ विराटस्य सुता सपुत्रा भार्याभिमन्यॊर निहतॊ रणे यॊ; दरॊणादिभिस तैर विरथॊ रथस्थैः एतास तु सीमन्त शिरॊरुहा या; शुक्लॊत्तरीया नरराज पत्न्यः राज्ञॊ ऽसय वृद्धस्य परं शताख्याः; सनुषा विवीरा हतपुत्र नाथाः एता यथामुख्यम उदाहृता वॊ; बराह्मण्य भावाद ऋजु बुद्धिसत्त्वाः सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः एवं स राजा कुरुवृद्ध वर्यः; समागतस तैर नरदेव पुत्रैः पप्रच्छ सर्वान कुशलं तदानीं; गतेषु सर्वेष्व अथ तापसेषु यॊधेषु चाप्य आश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम सत्री वृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत [धृ] युधिष्ठिर महाबाहॊ कच चित तात कुशल्य असि सहितॊ भरातृभिः सर्वैः पौरजानपदैस तथा ये च तवाम उपजीवन्ति कच चित ते ऽपि निरामयाः सचिवा भृत्य वर्गाश च गुरवश चैव ते विभॊ कच चिद वर्तसि पौराणां वृत्तिं राजर्षिसेविताम कच चिद दायान अनुच्छिद्य कॊशस ते ऽभिप्रपूर्यते अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः बराह्मणान अग्रहारैर वा यथा वद अनुपश्यसि कच चित ते परितुष्यन्ति शीलेन भरतर्षभ शत्रवॊ गुरवः पौरा भृत्या व सवजनॊ ऽपि वा कच चिद यजसि राजेन्द्र शरद्धावान पितृदेवताः अतिथींश चान्न पानेन कच चिद अर्चसि भारत कच चिच च विषये विप्राः सवकर्मनिरतास तव कषत्रिया वैश्य वर्गा वा शूद्रा वापि कुडुम्बिनः कच चित सत्रीबालवृद्धं ते न शॊचति न याचते जामयः पूजिताः कच चित तव गेहे नरर्षभ कच्च चिद राजर्षिवंशॊ ऽयं ताम आसाद्य महीपतिम यथॊचितं महाराज यशसा नावसीदति [वै] इत्य एवं वादिनं तं स नयायवत परत्यभाषत कुशलप्रश्न संयुक्तं कुशलॊ वाक्यकर्मणि कच चित ते वर्धते राजंस तपॊ मन्दश्रमस्य ते अपि मे जननी चेयं शुश्रूषुर विगतक्लमा अप्य अस्याः सफलॊ राजन वनवासॊ भविष्यति इयं च माता जयेष्ठा मे वीतवाताध्व कर्शिता घॊरेण तपसा युक्ता देवी कच चिन न शॊचति हतान पुत्रान महावीर्यान कषत्रधर्मपरायणान नापध्यायति वा कच चिद अस्मान पापकृतः सदा कव चासौ विदुरॊ राजन नैनं पश्यामहे वयम संजयः कुशली चायं कच चिन नु तपसि सथितः इत्य उक्तः परत्युवाचेदं धृतराष्ट्रॊ जनाधिपम कुशली विदुरः पुत्र तपॊ घॊरं समास्थितः वायुभक्षॊ निराहारः कृशॊ धमनि संततः कदा चिद दृश्यते विप्रैः शून्ये ऽसमिन कानने कव चित इत्य एवं वदतस तस्य जटी वीटा मुखः कृशः दिग वासा मलदिग्धाङ्गॊ वनरेणु समुक्षितः दूराद आरक्षितः कषत्ता तत्राख्यातॊ महीपतेः निवर्तमानः सहसा जनं दृष्ट्वाश्रमं परति तम अन्वधावन नृपतिर एक एव युधिष्ठिरः परविशन्तं वनं घॊरं लक्ष्यालक्ष्यं कव चित कव चित भॊ भॊ विदुर राजाहं दयितस ते युधिष्ठिरः इति बरुवन नरपतिस तं यत्नाद अभ्यधावत ततॊ विविक्त एकान्ते तस्थौ बुद्धिमतां वरः विदुरॊ वृक्षम आश्रित्य कं चित तत्र वनान्तरे तं राजा कषीणभूयिष्ठम आकृती मात्रसूचितम अभिजज्ञे महाबुद्धिं महाबुद्धिर युधिष्ठिरः युधिष्ठिरॊ ऽहम अस्मीति वाक्यम उक्त्वाग्रतः सथितः विदुरस्याश्रवे राजा स च परत्याह संज्ञया ततः सॊ ऽनिमिषॊ भूत्वा राजानं समुदैक्षत संयॊज्य विदुरस तस्मिन दृष्टिं दृष्ट्या समाहितः विवेश विदुरॊ धीमान गात्रैर गात्राणि चैव ह पराणान पराणेषु च दधद इन्द्रियाणीन्द्रियेषु च स यॊगबलम आस्थाय विवेश नृपतेस तनुम विदुरॊ धर्मराजस्य तेजसा परज्वलन्न इव विदुरस्य शरीरं तत तथैव सतब्धलॊचनम वृक्षाश्रितं तदा राजा ददर्श गतचेतनम बलवन्तं तथात्मानं मेने बहुगुणा तदा धर्मराजॊ महातेजास तच च सस्मार पाण्डवः पौराणम आत्मनः सर्वं विद्यावान स विशां पते यॊगधर्मं महातेजा वयासेन कथितं यथा धर्मराजस तु तत्रैनं संचस्कारयिषुस तदा दग्धु कामॊ ऽभवद विद्वान अथ वै वाग अभाषत भॊ भॊ राजन न दग्धव्यम एतद विदुर संज्ञिकम कलेवरम इहैतत ते धर्म एष सनातनः लॊकाः सन्तानका नाम भविष्यन्त्य अस्य पार्थिव यति धर्मम अवाप्तॊ ऽसौ नैव शॊच्यः परंतप इत्य उक्तॊ धर्मराजः स विनिवृत्य ततः पुनः राज्ञॊ वैचित्र वीर्यस्य तत सर्वं परत्यवेदयत ततः स राजा दयुतिमान स च सर्वॊ जनस तदा भीमसेनादयश चैव परं विस्मयम आगताः तच छरुत्वा परीतिमान राजा भूत्व धर्मजम अब्रवीत आपॊ मूलं फलं चैव ममेदं परतिगृह्यताम यदन्नॊ हि नरॊ राजंस तदन्नॊ ऽसयातिथिः समृतः इत्य उक्तः सा तथेत्य एव पराह धर्मात्मजॊ नृपम फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः ततस ते वृक्षमूलेषु कृतवास परिग्रहाः तां रात्रिं नयवसन सर्वे फलमूलजलाशनाः [वै] एवं सा रजनी तेषाम आश्रमे पुण्यकर्मणाम शिवा नक्षत्रसंपन्ना सा वयतीयाय भारत तत्र तत्र कथाश चासंस तेषां धर्मार्थलक्षणाः विचित्रपदसंचारा नाना शरुतिभिर अन्विताः पाण्डवास तव अभितॊ मातुर धरण्यां सुषुपुस तदा उत्सृज्य सुमहार्हाणि शयनानि नराधिप यद आहारॊ ऽभवद राजा धृतराष्ट्रॊ महामनाः तद आहारा नृपीरास ते नयवसंस तां निशं तदा वयतीतायां तु शर्वर्यां कृतपूर्वाह्णिक करियः भरातृभिः सह कौन्तेयॊ ददर्शाश्रममण्डलम सान्तःपुर परीवारः सभृत्यः सपुरॊहितः यथासुखं यथॊद्देशं धृतराष्ट्राभ्यनुज्ञया ददर्श तत्र वेदीश च संप्रज्वलित पावकाः कृताभिषेकैर मुनिभिर हुताग्निभिर उपस्थिताः वानेय पुष्पनिकरैर आज्यधूमॊद्गमैर अपि बराह्मेण वपुषा युक्ता युक्ता मुनिगणैश च ताः मृगयूथैर अनुद्विग्नैस तत्र तत्र समाश्रितैः अशङ्कितैः पक्षिगणः परगीतैर इव च परभॊ केकाभिर नीलकण्ठानां दात्यूहानां च कूजितैः कॊकॊलानां च कुहरैः शुभैः शरुतिमनॊहरैः पराधीत दविज घॊषैश च कव चित कव चिद अलंकृतम फलमूलसमुद्वाहैर महद्भिश चॊपशॊभितम ततः स राजा परददौ तापसार्थम उपाहृतान कलशान काञ्चनान राजंस तथैवॊदुम्बरान अपि अजिनानि परवेणीश च सरुक सरुवं च महीपतिः कमण्डलूंस तथा सथालीः पिठराणि च भारत भाजनानि च लौहानि पात्रीश च विविधा नृप यद यद इच्छति यावच च यद अन्यद अपि काङ्क्षितम एवं स राजा धर्मात्मा परीत्याश्रममण्डलम वसु विश्राण्य तत सर्वं पुनर आयान महीपतिः कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम ददर्शासीनम अव्यग्रं गान्धारी सहितं तदा मातरं चाविदूरस्थां शिष्यवत परणतां सथिताम कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम स तम अभ्यर्च्य राजानं नाम संश्राव्य चात्मनः निषीदेत्य अभ्यनुज्ञातॊ बृस्याम उपविवेश ह भीमसेनादयश चैव पाण्डवाः कौरवर्षभम अभिवाद्यॊपसंगृह्य निषेदुः पार्थिवाज्ञया स तैः परिवृतॊ राजा शुशुभे ऽतीव कौरवः बिभ्रद बराह्मीं शरियं दीप्तां देवैर इव बृहस्पतिः तथा तेषूपविष्टेषु समाजग्मुर महर्षयः शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः वयासश च भगवान विप्रॊ देवर्षिगणपूजितः वृतः शिष्यैर महातेजा दर्शयाम आस तं नृपम ततः स राजा कौरव्यः कुन्तीपुत्रश च वीर्यवान भीमसेनादयश चैव समुत्थायाभ्यपूजयन समागतस ततॊ वयासः शतयूपादिभिर वृतः धृतराष्ट्रं महीपालम अस्यताम इत्य अभाषत नवं तु विष्टारं कौश्यं कृष्णाजिनकुशॊत्तरम परतिपेदे तदा वयासास तदर्थम उपकल्पितम ते च सार्वे दविजश्रेष्ठा विष्टरेषु समन्ततः दवैपायनाभ्यनुज्ञाता निषेदुर विपुलौजसः [वै] तथा समुपविष्टेषु पाण्डवेषु महात्मसु वयासः सत्यवती पुत्रः परॊवाचामन्त्र्य पार्थिवम धृतराष्ट्र महाबाहॊ कच चित ते वर्धते तपः कच चिन मनस ते परीणानि वनवासे नराधिप कच्चिद धृदि न ते शॊकॊ राजान पुत्र विनाशजः कच्च चिज जञानानि सर्वाणि परसन्नानि तवानघ कच चिद बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम कच्च चिद वधूश च गान्धारी न शॊकेनाभिभूयते महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी आगमापाय तत्त्वज्ञा कच चिद एषा न शॊचति कच चित कुन्ती च राजंस तवां शुश्रूषुर अनहंकृता या परित्यज्य राज्यं सवं गुरुशुश्रूषणे रता कच चिद धर्मसुतॊ राजा तवया परीत्याभिनन्दितः भीमार्जुनयमाश चैव कच चिद एते ऽपि सान्त्विताः कच चिन नन्दसि दृष्ट्वैतान कच चित ते निर्मलं मनः कच चिद विशुद्धभावॊ ऽसि जातज्ञानॊ नराधिप एतद धि तरितयं शरेष्ठं सर्वभूतेषु भारत निर्वैरता महाराज सत्यम अद्रॊह एव च कच चित ते नानुतापॊ ऽसति वनवासेन भारत सवदते वन्यम अन्नं वा मुनिवासांसि वा विभॊ विदितं चापि मे राजन विदुरस्य महात्मनः गमनं विधिना येन धर्मस्य सुमहात्मनः माण्डव्य शापाद धि स वै धर्मॊ विदुरतां गतः महाबुद्धिर महायॊगी महात्मा सुमहामनाः बृहस्पतिर वा देवेषु शुक्रॊ वाप्य असुरेषु यः न तथा बुद्धिसंपन्नॊ यथा स पुरुषर्षभः तपॊबलव्ययं कृत्वा सुमहच चिरसंभृतम माण्डव्येनर्षिणा धर्मॊ हय अभिभूतः सनातनः नियॊगाद बरह्मणः पूर्वं मया सवेन बलेन च वैचित्र वीर्यके कषेत्रे जातः स सुमहामतिः भराता तव महाराज देवदेवः सनातनः धारणाच छरेयसॊ धयानाद यं धर्मं कवयॊ विदुः सत्येन संवर्धयति दमेन नियमेन च अहिंसया च दानेन तपसा च सनातनः येन यॊगबलाज जातः कुरुराजॊ युधिष्ठिरः धर्म इत्य एष नृपते पराज्ञेनामित बुद्धिना यथा हय अग्निर यथा वायुर यथापः पृथिवी यथा यथाकाशं तथा धर्म इह चामुत्र च सथितः सर्वगश चैव कौरव्य सर्वं वयाप्य चराचरम दृश्यते देवदेवः स सिद्धैर निर्दग्धकिल्बिषैः यॊ हि धर्मः स विदुरॊ विदुरॊ यः स पाण्डवः स एष राजन वश्यस ते पाण्डवः परेष्यवत सथितः परविष्टः स सवम आत्मानं भराता ते बुद्धिसत्तमः दिष्ट्या महात्मा कौन्तेयं महायॊगबलान्वितः तवां चापि शरेयसा यॊक्ष्ये नचिराद भरतर्षभ संशयच छेदनार्थं हि पराप्तं मां विद्धि पुत्रक न कृतं यत पुरा कैश चित कर्म लॊके महर्षिभिः आश्चर्यभूतं तपसः फलं संदर्शयामि वः किम इच्छसि महीपाल मत्तः पराप्तुम अमानुषम दरष्टुं सप्रष्टुम अथ शरॊतुं वद कर्तास्मि तत तथा [ज] वनवासं गते विप्र धृतराष्ट्रे महीपतौ सभार्ये नृपशार्दूल वध्वा कुन्त्या समन्विते विदुरे चापि संसिद्धे धर्मराजं वयपाश्रिते वसत्सु पाण्डुपुत्रेषु सर्वेष्व आश्रममण्डले यत तद अश्चर्यम इति वै कारिष्यांमीत्य उवाच ह वयासः परमतेज्जस्वी महर्षिस तद वदस्व मे वनवासे च कौरव्यः कियन्तं कालम अच्युतः युधिष्ठिरॊ नरपतिर नयवसत साजनॊ दविज किमाहाराश च ते तत्र ससैन्या नयवसन परभॊ सान्तःपुरा महात्मान इति तद बरूहि मे ऽनघ [वै] ते ऽनुज्ञातास तदा राजन कुरुराजेन पाण्डवाः विविधान्य अन्नपानानि विश्राम्यानुभवन्ति ते मासम एकं विजह्रुस ते ससैन्यान्तःपुरा वने अथ तत्रागमद वयासॊ यथॊक्तं ते मयानघ तथा तु तेषां सर्वेषां कथाभिर नृपसंनिधौ वयासम अन्वासतां राजन्न आजग्मुर मुनयॊ ऽपरे नारदाः पर्वतश चैव देवलश च महातपाः विश्वावसुस तुम्बुरुश च चित्रसेनश च भारत तेषाम अपि यथान्यायं पूजां चक्रे महामनाः धृतराष्ट्राभ्यनुज्ञातः कुरुराजॊ युधिष्ठिरः निषेदुस ते ततः सर्वे पूजां पराप्य युधिष्ठिरात आसनेष्व अथ पुण्येषु बर्हिष्केषु वरेषु च तेषु तत्रॊपविष्टेषु स तु राजा महामतिः पाण्डुपुत्रैः परिवृतॊ निषसादा कुरूद्वहः गान्धारी चैव्व कुन्ती च दरौपदी सात्वती तथा सत्रियश चान्यास तथान्याभिः सहॊपविविशुस ततः तेषां तत्र कथा दिव्या धर्मिष्ठाश चाभवन नृप ऋषीणां च पुराणानां देवासुरविमिश्रिताः ततः कथान्ते वयासस तं परज्ञा चक्षुषम ईश्वरम परॊवाच वदतां शरेष्ठः पुनर एव स तद वचः परीयमाणॊ महातेजाः सर्ववेदविदां वरः विदितं मम राजेन्द्द्र यत ते हृदि विवक्षितम दह्यमानस्य शॊकेन तव पुत्रकृतेन वै गान्धार्याश चैव यद दुःखं हृदि तिष्ठति पार्थिव कुन्त्याश च यन महाराज दरौपद्याश च हृदि सथितम यच च धारयते तीव्रं दुःखं पुत्रा विनाशजाम सुभद्रा कृष्ण भगिनी तच चापि विदितं मम शरुत्वा समागमम इमं सर्वेषां वस ततॊ नृप संशय छेदनायाहं पराप्तः कौरवनन्दन इमे च देवगन्धर्वाः सर्वे चैव महर्षयः पश्यन्तु तपसॊ वीर्यम अद्य मे चिरसंभृतम तद उच्यतां महाबाहॊ कं कामं परदिशामि ते परवणॊ ऽसमि वरं दातुं पश्यं मे तपसॊ बलम एवम उक्तः स राजेन्द्रॊ वयासेनामित बुद्धिना मुहूर्तम इव संच्चिन्त्य वचनायॊपचक्रमे धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि सफलं जीवितं च मे यन मे समगमॊ ऽदयेह भवद्भिः सह साधुभि अद्य चाप्य अवगच्छामि गतिम इष्टाम इहात्मनः भवद्भिर बरह्मकल्पैर यत समेतॊ ऽहं तपॊधनाः दर्शनाद एव भवतां पूतॊऽहं नात्र संशयः विद्यते न भयं चापि परलॊकान ममानघाः किं तु तस्य सुदुर्बुद्धेर मन्दस्यापनयैर भृषम दूयते मे मनॊ नित्यं समरतः पुत्रगृद्धिनः अपापाः पाण्डवा येन निकृताः पापबुद्धिना घातिता पृथिवी चेयं सहसा सनर दविपा राजानश च महात्मानॊ नानाजनपदेश्वराः आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ये ते पुत्रांश च दारांश च पराणांश च मनसः परियान परित्यज्य गताः शूराः परेतराजनिवेशनम का नु तेषां गतिर बरह्मन मित्रार्थे ये हता मृधे तथैव पुत्रपौत्राणां मम ये निहता युधि दूयते मे मनॊ ऽभीक्ष्णं घातयित्वा महाबलम भीष्मं शांतनवं वृद्धं दरॊणं च दविजसत्तमम मम पुत्रेण मूढेन पापेन सुहृद दविषा कषयं नीतं कुलं दीप्तं पृथिवी राज्यम इच्छता एतत सर्वम अनुस्मृत्य दह्यमानॊ दिवानिशम न शान्तिम अधिगच्छामि दुःखशॊकसमाहतः इति मे चिन्तयानस्य पितः शर्म न विद्यते [वै] तच छरुत्वा विविधं तस्य राजर्षेः परिदेवितम पुनर नवीकृतः शॊकॊ गान्धार्या जनमेजय कुन्त्या दरुपदपुत्र्याश च सुभद्रायास तथैव च तासां च वर नारीणां वधूनां कौरवस्य ह पुत्रशॊकसमाविष्टा गान्धारी तव इदम अब्रवीत शवशुरं बद्धनयना देवी पराञ्जलिर उत्थिता षॊडषेमानि वर्षाणि गतानि मुनिपुंगव अस्य राज्ञॊ हतान पुत्राञ शॊचतॊ न शमॊ विभॊ पुत्रशॊकसमाविष्टॊ निःश्वसन हय एष भूमिपः न शेते वसतीः सर्वा धृतराष्ट्रॊ महामुने लॊकान अन्यान समर्थॊ ऽसि सरष्टुं सर्वांस तपॊबलात किम उ लॊकान्तर गतान राज्ञॊ दर्शयितुं सुतान इयं च दरौपदी कृष्णा हतज्ञाति सुता भृशम शॊचात्य अतीव साध्वी ते सनुषाणां दयिता सनुषा तथा कृष्णस्य भगिनी सुभद्रा भद्र भाषिणी सौभद्र वधसंतप्ता भृशं शॊचति भामिनी इयं च भूरि शवरसॊ भार्या परमदुःखिता भर्तृव्यसनशॊकार्ता न शेते वसतीः परभॊ यस्यास तु शवशुरॊ धीमान बाह्लीकः स कुरूद्वहः निहतः सॊमदत्तश च पित्रा सह महारणे शरीमच चास्य महाबुद्धेः संग्ग्रामेष्व अपलायिनः पुत्रस्य ते पुत्रशतं निहातं यद रणाजिरे तस्य भार्या शतम इदं पुत्रशॊकसमाहतम पुनः पुनर वर्धयानं शॊकं राज्ञॊ ममैव च तेनारम्भेण महता माम उपास्ते महामुने ये च शूरा महात्मानः शवशुरा मे महारथाः सॊमदत्तप्रभृतयः का नु तेषां गतिः परभॊ तव परसादाद भगवान विशॊकॊ ऽयं महीपतिः कुर्यात कालम अहं चैव कुन्ती चेयं वधूस तव इत्य उक्तवत्यां गान्धार्यां कुन्ती वरतकृषानना परच्छन्नजातं पुत्रं तं सस्मारादित्य संभवम ताम ऋषिर वरदॊ वयासॊ दूरश्रवण दर्शनः अपश्यद दुःखितां देवीं मातरं सव्यसाचिनः ताम उवाच ततॊ वयासॊ यत ते कार्यं विवक्षितम तद बरूहि तवं महाप्राज्ञे यत ते मनसि वर्तते ततः कुन्ती शवशुरयॊः परणम्य शिरसा तदा उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम [कुन्ती] भगवञ शवशुरॊ मे ऽसि दैवतस्यापि दैवतम सा मे देवातिदेवस तवां शृणु सत्यां गिरं मम तपस्वी कॊपनॊ विप्रॊ दुर्वासा नाम मे पितुः भिक्षाम उपागतॊ भॊक्तुं तम अहं पर्यतॊषयम शौचेन तव आगसस तयागैः शुद्धेन मनसा तथा कॊपस्थानेष्व अपि महत्स्व अकुप्यं न कदा चन स मे वरम अदात परीतः कृतम इत्य अहम अब्रुवम अवश्यं ते गृहीतव्यम इति मां सॊ ऽबरवीद वचः ततः शापभयाद विप्रम अवॊचं पुनर एव तम एवम अस्त्व इति च पराह पुनर एव स मां दविजः धर्मस्य जननी भद्रे भवित्री तवं वरानने वशे सथास्यन्ति ते देवा यांस तवम आवाहयिष्यसि इत्य उक्त्वान्तर हितॊ विप्रस ततॊ ऽहं विस्मिताभवम न च सार्वास्व अवस्थासु समृतिर मे विप्रणश्यति अथ हर्म्यतलस्थाहं रविम उद्यन्तम ईक्षती संस्मृत्य तद ऋषेर वाक्यं सपृहयन्ती दिवाकरम सथिताहं बालभावेन तत्र दॊषम अबुध्यती अथ देवः सहस्रांशुर मत्समीप गतॊ ऽभवत दविधाकृत्वात्मनॊ देहं भूमौ च गगने ऽपि च तताप लॊकान एकेन दवितीयेनागमच च माम स माम उवाच वेपन्तीं वरं मत्तॊ वृणीष्व ह गम्यताम इति तं चाहं परणम्य शिरसावदम स माम उवाच तिग्मांशुर वृथाह्वानं न ते कषमम धक्ष्यामि तवां च विप्रं च येन दत्तॊ वरस तव तम अहं रक्षती विप्रं शापाद अनपराधिनम पुत्रॊ मे तवत्समॊ देव भवेद इति ततॊ ऽबरुवम ततॊ मां तेजसाविश्य मॊहयित्वा च भानुमान उवाच भविता पुत्रस तवेत्य अभ्यगमद दिवम ततॊ ऽहम अन्तर्भवने पितुर वृत्तान्तरक्षिणी गूढॊत्पन्नं सुतं बालं जले कर्णम अवासृजम नूनं तस्यैव देवस्य परसादात पुनर एव तु कन्याहम अभवं विप्र यथा पराह स माम ऋषिः स मया मूढया पुत्रॊ जञायमानॊ ऽपय उपेक्षितः तन मां दहति विप्रर्षे यथा सुविदितं तव यदि पापम अपापं वा तद एतद विवृतं मया तन मे भयं तवं भगवन वयपनॊतुम इहार्हसि यच चास्य राज्ञॊ विदितं हृदिस्थं भवतॊ ऽनघ तं चायं लभतां कामम अद्यैव मुनिसात्तम इत्य उक्तः परत्युवाचेदं वयासॊ वेदविदां वरः साधु सर्वम इदं तथ्यम एवम एव यथात्थ माम अपराधश च ते नास्ति कन्या भावं गता हय असि देवाश चैश्वर्यवन्तॊ वै शरीराण्य आविशन्ति वै सन्ति देव निकायाश च संकल्पाञ जनयन्ति ये वाचा दृष्ट्या तथा सपर्शात संघर्षेणेति पञ्चधा मनुष्यधर्मॊ दैवेन धर्मेण न हि युज्यते इति कुन्ति वयजानीहि वयेतु ते मानसॊ जवरः सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि सर्वं बलवतां धर्मः सर्वं बलवतां सवकम [वयास] भद्रे दरक्ष्यसि गान्धारि पुत्रान भरातॄन सखींस तथा वधूश च पतिभिः सार्धं निशि सुप्तॊत्थिता इव कर्णं दरक्ष्यति कुन्ती च सौभद्रं चापि यादवी दरौपदी पञ्च पुत्रांश च पितॄन भरातॄंस तथैव च पूर्वम एवैष हृदये वयवसायॊ ऽभवन मम यथास्मि चॊदितॊ राज्ञा भवत्या पृथयैव च न ते शॊच्या महात्मानः सर्व एव नरर्षभाः कषत्रधर्मपराः सन्तस तथा हि निधनं गताः भवितव्यम अवश्यं तत सुरकार्यम अनिन्दिते अवतेरुर ततः सर्वे देव भागैर महीतलम गन्धर्वाप्सरसश चैव पिशाचा गुह्य राक्षसाः तथा पुण्यजनाश चैव सिद्धा देवर्षयॊ ऽपि च देवाश च दानवाश चैव तथा बरह्मर्षयॊ ऽमलाः त एते निधनं पराप्ताः कुरुक्षेत्रे रणाजिरे गन्धर्वराजॊ यॊ धीमान धृतराष्ट्र इति शरुतः स एव मानुषे लॊके धृतराष्ट्रः पतिस तव पाण्डुं मरुद्गणं विद्धि विशिष्टतमम अच्युतम धर्मस्यांशॊ ऽभवत कषत्ता राजा चायं युधिष्ठिरः कलिं दुर्यॊधनं विद्धि शकुनिं दवापरं तथा दुःशासनादीन विद्धि तवं राक्षसाञ शुभदर्शने मरुद्गणाद भीमसेनं बलवन्तम अरिंदमम विद्धि च तव्वं नरम ऋषिम इमं पार्थं धनंजयम नारायणं हृषीकेशम अश्विनौ यमजाव उभौ दविधाकृत्वात्मनॊ देहम आदित्यं तपसा वरम लॊकांश च तापयानं वै विद्धि कर्णं च शॊभने यश च वैरार्थम उद्भूतः संघर्षजननस तथा यश च पाण्डव दायादॊ हतः षड्भिर महारथैः स सॊम इह सौभद्रॊ यॊगाद एवाभवद दविधा दरौपद्या सह संभूतं धृष्टद्युम्नं च पावकात अग्नेर भागं शुभं विद्धि राक्षसं तु शिखण्डिनम दरॊणं बृहस्पतेर भागं विद्धि दरौणिं च रुद्रजम भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम एवम एते महाप्राज्ञे देवा मानुष्यम एत्य हि ततः पुनर गताः सवर्गं कृते कर्मणि शॊभने यच च वॊ हृदि सर्वेषां दुःखम एनच चिरं सथितम तद अद्य वयपनेष्यामि परलॊककृताद भयात सर्वे भवन्तॊ गच्छन्तु नदीं भागीरथीं परथि तत्र दरक्ष्यथ तान सर्वान ये हतास्मिन रणाजिरे [वै] इति वयासस्य वचनं शरुत्वा सर्वे जनस तदा महता सिंहनादेन गङ्गाम अभिमुखॊ ययौ धृतराष्ट्रश च सामात्यः परययौ सह पाण्डवैः सहितॊ मुनिशार्दूलैर गन्धर्वैश च समागतैः ततॊ गङ्गां समासाद्य करमेण सजनार्णवः निवासम अकरॊत सार्वॊ यथाप्रीति यथासुखम राजा च पाण्डवैः सार्धम इष्टे देशे सहानुगः निवासम अकरॊद धीमान सस्त्री वृद्धपुरःसरः जगाम तद अहश चापि तेषां वर्षशतं यथा निशां परतीक्षमाणानां दिदृक्षूणां मृतान नृपान अथ पुण्यं गिरिवरम अस्तम अभ्यगमद रविः ततः कृताभिषेकास ते नैशं कर्म समाचरन [वै] ततॊ निशायां पराप्तायां कृतसायाह्निक करियाः वयासम अभ्यगमन सर्वे ये तत्रासन समागताः धृतराष्ट्रस तु धर्मात्मा पाण्डवैः सहितस तदा शुचिर एकमनाः सार्धम ऋषिभिस तैर उपाविशत गान्धार्या सह नार्यस तु सहिताः समुपाविशन पौरजानपदश चापि जनः सार्वॊ यथा वयः ततॊ वयासॊ महातेजाः पुण्यं भागीरथी जलम अवगाह्याजुहावाथ सर्वाँल लॊकान महामुनिः पाण्डवानां च ये यॊधाः कौरवाणां च सर्वशः राजानश च महाभागा नानादेशनिवासिनः ततः सुतुमुलः शब्दॊ जनान्तर जनमेजय परादुरासीद यथापूर्वं कुरुपाण्डवसेनयॊः ततस ते पार्थिवाः सर्वे भीष्मद्रॊणपुरॊगमाः ससैन्याः सलिलात तस्मात समुत्तस्थुः सहस्रशः विराटद्रुपदौ चॊभौ सपुत्रौ सह सैनिकौ दरौपदेयाश च सौभद्रॊ राक्षसश च घटॊत्कचः कर्णदुर्यॊधनौ चॊभौ शकुनिश च महारथः दुःशासनादयश चैव धार्तराष्ट्रा महारथाः जारासंधिर भगदत्तॊ जलसंधश च पार्थिवः भूरिश्रवाः शलः शल्यॊ वृषसेनश च सानुजः लक्ष्मणॊ राजपुत्रश च धृष्टद्युम्नस्य चात्मजाः शिखण्डिपुत्राः सर्वे च धृष्टकेतुश च सानुजः अचलॊ वृषकश चैव राक्षसश चाप्य अलायुधः बाह्लीकः सॊमदत्तश च चेकितानश च पार्थिवः एते चान्ये च बहवॊ बहुत्वाद ये न कीर्तिताः सर्वे भासुरदेहास ते समुत्तस्थुर जलात ततः यस्य वीरस्य यॊ वेषॊ यॊ धवजॊ यच च वाहनम तेन तेन वयदृश्यन्त समुपेता नराधिपाः दिव्याम्बर धराः सर्वे सर्वे भराजिष्णु कुण्डलाः निर्वैरा निरहंकारा विगतक्रॊधमन्यवः गन्धर्वैर उपगीयन्तः सतूयमानाश च बन्दिभिः दिव्यमाल्याम्बरधरा वृताश चाप्सरसां गणैः धृतराष्ट्रस्य च तदा दिव्यं चक्षुर नराधिप मुनिः सत्यवती पुत्रः परीतः परादात तपॊबलात दिव्यज्ञानबलॊपेता गान्धारी च यशस्विनी ददर्श पुत्रांस तान सर्वान ये चान्ये ऽपि रणे हताः तद अद्भुतम अचिन्त्यं च सुमहद रॊमहर्षणम विस्मितः सजनः सर्वॊ ददर्शानिमिषेक्षणः तद उत्सव मदॊदग्रं हृष्टनारी नराकुलम ददृशे बलम आयान्तं चित्रं पटगतं यथा धृतराष्ट्रस तु तान सर्व्वान पश्यन दिव्येन चक्षुषा मुमुदे भरतश्रेष्ठ परसादात तस्य वै मुनेः [वै] ततस ते भरतश्रेष्ठाः समाजग्मुः परस्परम विगतक्रॊधमात्सर्याः सर्वे विगतकल्मषाः विधिं परमम आस्थाय बरह्मर्षिविहितं शुभम साम्प्रीत मनसः सर्वे देवलॊक इवामराः पुत्रः पित्रा च मात्रा च भार्या च पतिना सह भराता भरात्रा सखा चैव सख्या राजन समागताः पाण्डवास तु महेष्वासं कर्णं सौभद्रम एव च संप्रहर्षात समाजग्मुर दरौपदेयांश च सर्वशः ततस ते परीयमाणा वै कर्णेन सह पाण्डवाः समेत्य पृथिवीपालाः सौहृदे ऽवस्थिताभवन ऋषिप्रसादात ते ऽनये च कषत्रिया नष्टमन्यवः असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः एवं समागताः सर्वे गुरुभिर बान्धवैस तथा पुत्रैश च पुरुषव्याघ्राः कुरवॊ ऽनये च मानवाः तां रात्रिम एकां कृत्स्नां ते विहृत्य परीतमानसाः मेनिरे परितॊषेण नृपाः सवर्गसदॊ यथा नात्र शॊकॊ भयं तरासॊ नारतिर नायशॊ ऽभवत परस्परं समागम्य यॊधानां भरतर्षभ समागतास ताः पितृभिर भरातृभिः पतिभिः सुतैः मुदं परमिकां पराप्य नार्यॊ दुःखम अथात्यजन एकां रात्रिं विहृत्यैवं ते वीरास ताश च यॊषितः आमन्त्र्यान्यॊन्यम आश्लिष्य ततॊ जग्मुर यथागतम ततॊ विसर्जयाम आस लॊकांस तान मुनिपुंगवः कषणेनान्तर्हिताश चैव परेक्षताम एव ते ऽभवन अवगाह्य महात्मानः पुण्यां तरिपथगां नदीम सरथाः सध्वजाश चैव सवानि सथानानि भेजिरे देवलॊकं ययुः के चित के चिद बरह्म सदस तथा के चिच च वारुणं लॊकं के चित कौबेरम आप्नुवन तथा वैवस्वतं लॊकं के चिच चैवाप्नुवन नृपाः राक्षसानां पिशाचानां के चिच चाप्य उत्तरान कुरून विचित्रगतयः सर्वे या अवाप्यामरैः सह आजग्मुस ते महात्मानः सवाहाः सपदानुगाः गतेषु तेषु सर्वेषु सलिलस्थॊ महामुनिः धर्मशीलॊ महातेजाः कुरूणां हितकृत सदा ततः परॊवाच ताः सर्वाः कषत्रिया निहतेश्वराः या याः पतिकृताँल लॊकान इच्छन्ति परमस्त्रियः ता जाह्नवीजलं कषिप्रम अवगाहन्त्व अतन्द्रिताः ततस तस्य वचः शरुत्वा शरद्दधाना वराङ्गनाः शवशुरं समनुज्ञाप्य विविशुर जाह्नवीजलम विमुक्ता मानुषैर देहैस ततस ता भर्तृभिः सह समाजग्मुस तदा साध्व्याः सर्वा एव विशां पते एवं करमेण सर्वास ताः शीलवत्यः कुलस्त्रियः परविश्य तॊयं निर्मुक्ता जग्मुर भर्तृसलॊकताम दिव्यरूपसमायुक्ता दिव्याभरत भूषिताः दिव्यमाल्याम्बरधरा यथासां पतयस तथा ताः शीलसत्त्वसंपन्ना वितमस्का गल कलमाः सर्वाः सर्वगुणैर युक्ताः सवं सवं सथानं परपेदिरे यस्य यस्य च यः कामस तस्मिन काले ऽभवत तदा तं तं विसृष्टवान वयासॊ वरदॊ धर्मवत्सलः तच छरुत्वा नरदेवानां पुनरागमनं नराः जर्हृषुर मुदिताश चासन्न अन्यदेहगता अपि परियैः समागमं तेषां य इमं शृणुयान नरः परियाणि लभते नित्यम इह च परेत्य चैव ह इष्टबान्धव संयॊगम अनायासम अनामयम य इमं शरावयेद विद्वान संसिद्धिं पराप्नुयात पराम सवाध्याययुक्ताः पुरुषाः करिया युक्ताश च भारत अध्यात्मयॊगयुक्ताश च धृतिमन्तश च मानवाः शरुत्वा पर्व तव इदं नित्यम अवाप्स्यन्ति परां गतिम [सूत] एतच छरुत्व नृपॊ विद्वान हृष्टॊ ऽभूज जनमेजयः पितामहानां सर्वेषां गमनागमनं तदा अब्रवीच च मुदा युक्तः पुनरागमनं परति कथं नु तयक्तदेहानां पुनस तद रूपदर्शनम इत्य उक्तः स दविजश्रेष्ठॊ वयास शिष्यः परतापवान परॊवाच वदतां शरेष्ठस तं नृपं जनमेजयम अविप्रणाशः सर्वेषां कर्मणाम इति निश्चयः कर्मजानि शरीराणि तथैवाकृतयॊ नृप महाभूतानि नित्यानि भूताधिपति संश्रयात तेषां च नित्यसंवासॊ न विनाशॊ वियुज्यताम अनाशाय कृतं कर्म तस्य चेष्टः फलागमः आत्मा चैभिः समायुक्तः सुखदुःखम उपाश्नुते अविनाशी तथा नित्यं कषेत्रज्ञ इति निश्चयः भूतानाम आत्मभावॊ यॊ धरुवॊ ऽसौ संविजानताम यावन न कषीयते कर्म तावद अस्य सवरूपता संक्षीण कर्मा पुरुषॊ रूपान्यत्वं नियच्छति नानाभावास तथैकत्वं शरीरं पराप्य संहताः भवन्ति ते तथा नित्याः पृथग्भावं विजानताम अश्वमेधे शरुतिश चेयम अश्वसंज्ञपनं परति लॊकान्तर गता नित्यं पराणा नित्या हि वाजिनः अहं हितं वदाम्य एतत परियं चेत तव पार्थिव देव याना हि पन्थानः शरुतास ते यज्ञसंस्तरे सुकृतॊ यत्र ते यज्ञस तत्र देवा हितास तव यदा समन्विता देवाः पशूनां गमनेश्वराः गतिमन्तश च तेनेष्ट्वा नान्ये नित्या भवन्ति ते नित्ये ऽसमिन पञ्चके वर्गे नित्ये चात्मनि यॊ नरः अस्य नाना समायॊगं यः पश्यति वृथा मतिः वियॊगे शॊचते ऽतयर्थं स बाल इति मे मतिः वियॊगे दॊषदर्शी यः संयॊगम इह वर्जयेत असंगे संगमॊ नास्ति दुःखं भुवि वियॊगजम परापरज्ञस तु नरॊ नाभिमानाद उदीरितः अपरज्ञः परां बुद्धिं सपृष्ट्वा मॊहाद विमुच्यते अदर्शनाद आपतितः पुनश चादर्शनं गतः नाहं तं वेद्मि नासौ मां न च मे ऽसति विरागता येन येन शरीरेण करॊत्य अयम अनीश्वरः तेन तेन शरीरेण तद अवश्यम उपाश्नुते मानसं मनसाप्नॊति शारीरं च शरीरवान [वै] अदृष्ट्वा तु नृपः पुत्रान दर्शनं परतिलब्धवान ऋषिप्रसादात पुत्राणां सवरूपाणां कुरूद्वह स राजा राजधर्मांश च बरह्मॊपनिषदं तथा अवाप्तवान नरश्रेष्ठॊ बुद्धिनिश्चयम एव च विदुरश च महाप्राज्ञॊ ययौ सिद्धिं तपॊबलात धृतराष्ट्रः समासाद्य वयासं चापि तपस्विनम [ज] ममापि वरदॊ वयासॊ दर्शयेत पितरं यदि तद रूपवेष वयसं शरद्दध्यां सर्वम एव ते परियं मे सयात कृतार्थश च सयाम अहं कृतनिश्चयः परसादाद ऋषिपुत्रस्य मम कामः समृध्यताम [सूत] इत्य उक्तवचने तस्मिन नृपे वयासः परतापवान परसादम अकरॊद धीमान आनयच च परिक्षितम ततस तद रूपवयसम आगतं नृपतिं दिवः शरीमन्तं पितरं राजा ददर्श जनमेजयः शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम अमात्या ये बभूवुश च राज्ञस तांश च ददर्श ह ततः सॊ ऽवभृथे राजा मुदितॊ जनमेजयः पितरं सनापयाम आस सवयं सस्नौ च पार्थिवः सनात्वा च भरतश्रेष्ठः सॊ ऽऽसतीकम इदम अब्रवीत यायावर कुलॊत्पन्नं जरत्कारु सुतं तदा आस्तीक विविधाश्चर्यॊ यज्ञॊ ऽयम इति मे मतिः यद अद्यायं पिता पराप्तॊ मम शॊकप्रणाशनः [आस्तीक] ऋषेर दवैपायनॊ यत्र पुराणस तपसॊ निधिः यज्ञे कुरु कुलश्रेष्ठ तस्य लॊकाव उभौ जितौ शरुतं विचित्रम आख्यानं तवया पाण्डवनन्दन सर्पाश च भस्मसान नीता गताश च पदवीं पितुः कथं चित तक्षकॊ मुक्तः सत्यत्वात तव पार्थिव ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः पराप्तः सुविपुलॊ धर्मः शरुत्वा पापविनाशनम विमुक्तॊ हृदयग्रन्थिर उदारजनदर्शनात ये च पक्षधरा धर्मे सद्वृत्तरुचयश च ये यान दृष्ट्वा हीयते पापं तेभ्यः कार्या नमः करियाः [सूत] एतच छरुत्वा दविजश्रेष्ठात स राजा जनमेजयः पूजयाम आस तम ऋषिम अनुमान्य पुनः पुनः पपृच्छ तम ऋषिं चापि वैशम्पायनम अच्युतम कथा विशेषं धर्मज्ञॊ वनवासस्य सत्तम [ज] दृष्ट्वा पुत्रांस तथा पौत्रान सानुबन्धाञ जनाधिपः धृतराष्ट्रः किम अकरॊद राजा चैव युधिष्ठिरः [वै] तद दृष्ट्वा महद आश्चर्यं पुत्राणां दर्शनं पुनः वीतशॊकः स राजर्षिः पुनर आश्रमम आगमत इतरस तु जनः सर्वस ते चैव परमर्षयः परतिजग्मुर यथाकामं धृतराष्ट्राभ्यनुज्ञया पाण्डवास तु महात्मानॊ लघु भूयिष्ठ सैनिकाः अनुजग्मुर महात्मानं सदारं तं महीपतिम तम आश्रमगतं धीमान बरह्मर्षिर लॊकपूजितः मुनिः सत्यवती पुत्रॊ धृतराष्ट्रम अभाषत धृतराष्ट्र महाबाहॊ शृणु कौरवनन्दन शरुतं ते जञानवृद्धानाम ऋषीणां पुण्यकर्मणाम ऋद्धाभिजन वृद्धानां वेदवेदाङ्गवेदिनाम धर्मज्ञानां पुराणानां वदतां विविधाः कथाः मा सम शॊके मनः कार्षीद इष्टेन वयथते बुधः शरुतं देव रहस्यं ते नारदाद देव दर्शनात गतास ते कषत्रधर्मेण शस्त्रपूतां गतिं शुभाम यथादृष्टास तवया पुत्रा यथा कामविहारिणः युधिष्ठिरस तव अयं धीमान भवन्तम अनुरुध्यते सहितॊ भरातृभिः सर्वैः सदारः ससुहृज्जनः विसर्जयैनं यात्व एष सवराज्यम अनुशासताम मासः समधिकॊ हय एषाम अतीतॊ वसतां वने एतद धि नित्यं यत्नेन पदं रक्ष्यं परंतप बहु परत्यर्थिकं हय एतद राज्यं नाम नराधिप इत्य उक्तः कौरवॊ राजा वयासेनामित बुद्धिना युधिष्ठिरम अथाहूय वाग्मी वचनम अब्रवीत अजातशत्रॊ भद्रं ते शृणु मे भरातृभिः सह तवत्प्रसादान महीपाल शॊकॊ नास्मान परबाधते रमे चाहं तवया पुत्रपुरेव गजसाह्वये नाथेनानुगतॊ विद्वान परियेषु परिवर्तिना पराप्तं पुत्रफलं तवत्तः परीतिर मे विपुला तवयि न मे मन्युर महाबाहॊ गम्यतां पुत्र माचिरम भवन्तं चेह संप्रेक्ष्य तपॊ मे परिहीयते तपॊ युक्तं शरीरं च तवां दृष्ट्वा धारितं पुनः मातरौ ते तथैवेमे शीर्णपर्णकृताशने मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः दुर्यॊधनप्रभृतयॊ दृष्टा लॊकान्तरं गताः वयासस्य तपसॊ वीर्याद भवतश च समागमात परयॊजनं चिरं वृत्तं जीवितस्य च मे ऽनघ उग्रं तपः समास्थास्ये तवम अनुज्ञातुम अर्हसि तवय्य अद्य पिण्डः कीर्तिश च कुलं चेदं परतिष्ठितम शवॊ वाद्य वा महाबाहॊ गम्यतां पुत्र माचिरम राजनीतिः सुबहुशः शरुता ते भरतर्षभ संदेष्टव्यं न पश्यामि कृतम एतावता विभॊ इत्य उक्तवचनं तात नृपॊ राजानम अब्रवीत न माम अर्हसि धर्मज्ञ परित्यक्तुम अनागसम कामं गच्छन्तु मे सर्वे भरातरॊ ऽनुचरास तथा भवन्तम अहम अन्विष्ये मातरौ च यतव्रते तम उवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे तवय्य अधीनं कुरु कुलं पिण्डश च शवशुरस्य मे गम्यतां पुत्र पर्याप्तम एतावत पूजिता वयम राजा यद आह तत कार्यं तवया पुत्र पितुर वचः इत्य उक्तः सा तु गान्धार्या कुन्तीम इदम उवाच ह सनेहबाष्पाकुले नेत्रे परमृज्य रुदतीं वचः विसर्जयति मां राजा गान्धारी च यशस्विनी भवत्यां बद्धचित्तस तु कथं यास्यामि दुःखितः न चॊत्सहे तपॊविघ्नं कर्तुं ते धर्मचारिणि तपसॊ हि परं नास्ति तपसा विन्दते महत ममापि न तथा राज्ञि राज्ये बुद्धिर यथा पुरा तपस्य एवानुरक्तं मे मनः सार्वात्मना तथा शून्येयं च मही सर्वा न मे परीतिकरी शुभे बान्धवा नः परिक्षीणा बलं नॊ न यथा पुरा पाञ्चालाः सुभृशं कषीणाः कन्या मात्रावशेषिताः न तेषां कुर कर्तारं कं चित पश्याम्य अहं शुभे सर्वे हि भस्मसान नीता दरॊणेनैकेन संयुगे अवशेषास तु निहता दरॊणपुत्रेण वै निशि चेदयश चैव मत्स्याश च दृष्ट पूर्वास तथैव नः केवलं वृष्णिचक्रं तु वासुदेव परिग्रहात यं दृष्ट्वा सथातुम इच्छामि धर्मार्थं नान्यहेतुकम शिवेन पश्य नः सर्वान दुर्लभं दर्शनं तव भविष्यत्य अम्ब राजा हि तीव्रम आरप्स्यते तपः एतच छरुत्वा महाबाहुः सहदेवॊ युधां पतिः युधिष्ठिरम उवाचेदं बाष्पव्याकुललॊचनः नॊत्सहे ऽहं परित्यक्तुं मातरं पार्थिवर्षभ परतियातु भवान कषिप्रं तपस तप्स्याम्य अहं वने इहैव शॊषयिष्यामि तपसाहं कलेवरम पादशुश्रूषणे युक्तॊ राज्ञॊ मात्रॊस तथानयॊः तम उवाच तथा कुन्ती परिष्वज्य महाभुजम गम्यतां पुत्र मैव तवं वॊचः कुरु वचॊ मम आगमा वः शिवाः सन्तु सवस्था भवत पुत्रकाः उपरॊधॊ भवेद एवम अस्माकं तपसः कृते तवत सनेहा पाशबद्धा च हीयेयं तपसः परात तस्मात पुत्रक गच्छ तवं शिष्टम अल्पं हि नः परभॊ एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर मनः सहदेवस्य राजेन्द्र राज्ञश चैव विशेषतः ते मात्रा समनुज्ञाता राज्ञा च कुरु पुङ्गवाः अभिवाद्य कुरुश्रेष्ठम आमन्त्रयितुम आरभन राजन परतिगमिष्यामः शिवेन परतिनन्दिताः अनुज्ञातास तवया राजन गमिष्यामॊ विकल्मषाः एवम उक्तः स राजर्षिर धर्मराज्ञा महात्मना अनुजज्ञे जयाशीर्भिर अभिनन्द्या युधिष्ठिरम भीमं च बलिनां शरेष्ठं सांत्वयाम आस पार्थिवः स चास्य सम्यङ मेधावी परत्यपद्यत वीर्यवान अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च गान्धार्या चाभ्यनुज्ञातः कृतपादाभिवन्दनाः जनन्या समुपाघ्राताः परिष्वक्तश च ते नृपम चक्रुः परदक्षिणं सर्वे वत्सा इव निवारणे पुनः पुनर निरीक्षन्तः परजग्मुस ते परदक्षिणम तथैव दरौपदी साध्वी सर्वाः कौरव यॊषितः नयायतः शवशुरे वृत्तिं परयुज्य परययुस ततः शवश्रूभ्यां सामनुज्ञाताः परिष्वज्याभिनन्दिताः संदिष्टाश चेतिकर्तव्यं परययुर भर्तृभिः सह तथ परजज्ञे निनदः सूतानां युज्यताम इति उष्ट्राणां करॊशतां चैव हयानां हेषताम अपि ततॊ युधिष्ठिरॊ राजा सदारः सहसैनिकः नगरं हास्तिनपुरं पुनर आयात सबान्धवः [वै] दविवर्षॊपनिवृत्तेषु पाण्डवेषु यदृच्छया देवर्षिर नारदॊ राजन्न आजगाम युधिष्ठिरम तम अभ्यर्च्य महाबाहुः कुरुराजॊ युधिष्ठिरः आसीनं परिविश्वस्तं परॊवाच वदतां वरः चिरस्य खलु पश्यामि भगवन्तम उपस्थितम कच चित ते कुशलं विप्र शुभं वा परत्युपस्थितम के देशाः परिदृष्टास ते किं च कार्यं करॊमि ते तद बरूहि दविजमुख्य तवम अस्माकं च परियॊ ऽतिथिः [नारद] चिरदृष्टॊ ऽसि मे राजन्न आगतॊ ऽसमि तपॊवनात परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप [य] वदन्ति पुरुषा मे ऽदय गङ्गातीरनिवासिनः धृतराष्ट्रं महात्मानम आस्थितं परमं तपः अपि दृष्टस तवया तत्र कुशली स कुरूद्वहः गान्धारी च पृथा चैव सूतपुत्रश च संजयः कथं च वर्तते चाद्य पिता मम स पार्थिवः शरॊतुम इच्छामि भगवन यदि दृष्टस तवया नृपः [नारद] सथिरी भूय महाराज शृणु सर्वं यथातथम यथा शरुतं च दृष्टं च मया तस्मिंस तपॊवने वनवास निवृत्तेषु भवत्सु कुरुनन्दन कुरुक्षेत्रात पिता तुभ्यं गङ्गाद्वारं ययौ नृप गान्धार्या सहितॊ धीमान वध्वा कुन्त्या समन्वितः संजयेन च सूतेन साग्निहॊत्रः सयाजकः आतस्थे स तपस तीव्रं पिता तव तपॊधनः वीटां मुखे समाधाय वायुभक्षॊ ऽभवन मुनिः वने स मुनिभिः सर्वैः पूज्यमानॊ महातपाः तवग अस्थि मात्रशेषः स षण मासान अभवन नृपः गान्धारी तु जलाहारा कुन्ती मासॊपवासिनी संजयः षष्ठ भक्तेन वर्तयाम आस भारत अग्नींस तु याजकास तत्र जुहुवुर विधिवत परभॊ दृश्यतॊ ऽदृश्यतश चैव वने तस्मिन नृपस्य ह अनिकेतॊ ऽथ राजा स बभूव वनगॊचरः ते चापि सहिते देव्यौ संजयश च तम अन्वयुः संजयॊ नृपतेर नेता समेषु विषमेषु च गान्धार्यास तु पृथा राजंश चक्षुर आसीद अनिन्दिता ततः कदा चिद गङ्गायाः कच्छे स नृपसत्तमः गङ्गायाम आप्लुतॊ धीमान आश्रमाभिमुखॊ ऽभवत अथ वायुः समुद्भूतॊ दावाग्निर अभवन महान ददाह तद वनं सर्वं परिगृह्य समन्ततः दह्यत्सु मृगयूथेषु दविजिह्वेषु समन्ततः वराहाणां च यूथेषु संश्रयत्सु जलाशयान समाविद्धे वने तस्मिन पराप्ते वयसन उत्तमे निराहारतया राजा मन्दप्राणविचेष्टितः असमर्थॊ ऽपसरणे सुकृशौ मातरौ च ते ततः स नृपतिर दृष्ट्वा वह्निम आयान्तम अन्तिकात इदम आह ततः सूतं संजयं पृथिवीपते गच्छ संजय यत्राग्निर न तवां दहति कर्हि चित वयम अत्राग्निना युक्ता गमिष्यामः परां गतिम तम उवाच किलॊद्विग्नः संजयॊ वदतां वरः राजन मृत्युर अनिष्टॊ ऽयं भविता ते वृथाग्निना न चॊपायं परपश्यामि मॊक्षणे जातवेदसः यद अत्रानन्तरं कार्यं तद भवान वक्तुम अर्हति इत्य उक्तः संजयेनेदं पुनर आह स पार्थिवः नैष मृत्युर अनिष्टॊ नॊ निःसृतानां गृहात सवयम जलम अग्निस तथा वायुर अथ वापि विकर्शनम तापसानां परशस्यन्ते गच्चः संजय माचिरम इत्य उक्त्वा संजयं राजा समाधाय मनस तदा पराङ्मुखः सह गान्धार्या कुन्त्या चॊपाविशत तदा संजयस तं तथा दृष्ट्वा परदक्षिणम अथाकरॊत उवाच चैनं मेधावी युङ्क्ष्वात्मानम इति परभॊ ऋषिपुत्रॊ मनीषी स राजा चक्रे ऽसय तद वचः संनिरुध्येन्द्रिय गरामम आसीत काष्ठॊपमस तदा गान्धारी च महाभागा जननी च पृथा तव दावाग्निना समायुक्ते स च राजा पिता तव संजयस तु महामात्रस तस्माद दावाद अमुच्यत गङ्गाकूले मया दृष्टस तापसैः परिवारितः स तान आमन्त्र्य तेजस्वी निवेद्यैतच च सर्वशः परययौ संजयः सूतॊ हिमवन्तं महीधरम एवं स निधनं पराप्तः कुरुराजॊ महामनाः गान्धारी च पृथा चैव जनन्यौ ते नराधिप यदृच्छयानुव्रजता मया राज्ञः कलेवरम तयॊश च देव्यॊर उभयॊर दृष्टानि भरतर्षभ ततस तपॊवने तस्मिन समाजग्मुस तपॊधनाः शरुत्वा राज्ञस तथा निष्ठां न तव अशॊचन गतिं च ते तत्राश्रौषम अहं सर्वम एतत पुरुषसत्तम यथा च नृपतिर दग्धॊ देव्यौ ते चेति पाण्डव न शॊचितव्यं राजेन्द्र सवन्तः स पृथिवीपतिः पराप्तवान अग्निसंयॊगं गान्धारी जननी च ते [वै] एतच छरुत्वा तु सर्वेषां पाण्डवानां महात्मनाम निर्याणं धृतराष्ट्रस्य शॊकः समभवन महान अन्तःपुराणां च तदा महान आर्तस्वरॊ ऽभवत पौराणां च महाराज शरुत्वा राज्ञस तदा गतिम अहॊ धिग इति राजा तु विक्रुश्य भृशदुःखितः ऊर्ध्वबाहुः समरन मातुः पररुरॊद युधिष्ठिरः भीमसेनपुरॊगश च भरातरः सर्व एव ते अन्तःपुरेषु च तदा सुमहान रुदितस्वनः परादुरासीन महाराज पृथां शरुत्वा तथागताम तं च वृद्धां तथा दग्धं हतपुत्रं नराधिपम अन्वशॊचन्त ते सर्वे गान्धारीं च तपस्विनीम तस्मिन्न उपरते शब्दे मुहूर्ताद इव भारत निगृह्य बाष्पं धैर्येण धर्मराजॊ ऽबरवीद इदम [य] तथा महात्मनस तस्य तपस्य उग्रे च वर्ततः अनाथस्येव निधनं तिष्ठत्स्व अस्मासु बन्धुषु दुर्विज्ञेया हि गतयः पुरुषाणां मता मम यत्र वैचित्रवीर्यॊ ऽसौ दग्ध एवं दवाग्निना यस्य पुत्रशतं शरीमद अभवद बाहुशालिनः नागायुत बलॊ राजा स दग्धॊ हि दवाग्निना यं पुरा पर्यवीजन्त तालवृन्तैर वरस्त्रियः तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम सूतमागध संघैश च शयानॊ यः परबॊध्यते धरण्यां स नृपः शेते पापस्य मम कर्मभिः न तु शॊचामि गान्धारीं हतपुत्रां यशस्विनीम पतिलॊकम अनुप्राप्तां तथा भर्तृव्रते सथिताम पृथाम एव तु शॊचामि या पुत्रैश्वर्यम ऋद्धिमत उत्सृज्य सुमहद दीप्तं वनवासम अरॊचयत धिग राज्यम इदम अस्माकं धिग बलं धिक पराक्रमम कषत्रधर्मच धिग यस्मान मृता जीवामहे वयम सुसूक्ष्मा किल कालस्य गतिर दविज वरॊत्तम यत समुत्सृज्य राज्यं सा वनवासम अरॊचयत युधिष्ठिरस्य जननी भीमस्य विजयस्य च अनाथवत कथं दग्धा इति मुह्यामि चिन्तयन वृथा संतॊषितॊ वह्निः खाण्डवे सव्यसाचिना उपकारम अजानन स कृतघ्न इति मे मतिः यत्रादहत स भगवान मातरं सव्यसाचिनः कृत्वा यॊ बराह्मणच छद्म भिक्षार्थी समुपागतः धिग अग्निं धिक च पार्थस्य विश्रुतां सत्यसंधताम इदं कष्टतरं चान्यद भगवन परतिभाति मे वृथाग्निना समायॊगॊ यद अभूत पृथिवीपतेः तथा तपस्विनस तस्य राजर्षेः कौरवस्य ह कथम एवंविधॊ मृत्युः परशास्य पृथिवीम इमाम तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने वृथाग्निना समायुक्तॊ निष्ठां पराप्तः पिता मम मन्ये पृथा वेपमाना कृषा धमनि संतता हा तात धर्मराजेति समाक्रन्दन महाभये भीम पर्याप्नुहि भयाद इति चैवाभिवाशती समन्ततः परिक्षिप्ता माता मे ऽभूद दवाग्निना सहदेवः परियस तस्याः पुत्रेभ्यॊ ऽधिक एव तु न चैनां मॊक्षयाम आस वीरॊ माद्रवतीसुतः तच छरुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये तेषां तु पुरुषेन्द्राणां रुदतां रुधित सवनः परासादाभॊग संरुद्धॊ अन्वरौत्सीत स रॊदसी [नारद] नासौ वृथाग्निना दग्धॊ यथा तत्र शरुतं मया वैचित्रवीर्यॊ नृपतिस तत ते वक्ष्यामि भारत वनं परविशता तेन वायुभक्षेण धीमता अग्नयः कारयित्वेष्टिम उत्सृष्टा इति नः शरुतम याजकास तु ततस तस्य तान अग्नीन निर्जने वने समुत्सृज्य यथाकामं जग्मुर भरतसत्तम स विवृद्धस तदा वह्निर वने तस्मिन्न अभूत किल तेन तद वनम आदीप्तम इति मे तापसाब्रुवन स राजा जाह्नवी कच्छे यथा ते कथितं मया तेनाङ्गिना समायुक्तः सवेनैव भरतर्षभ एवम आवेदयाम आसुर मुनयस ते ममानघ ये ते भागीरथी तीरे मया दृष्टा युधिष्ठिर एवं सवेनाग्निना राजा समायुक्तॊ महीपते मा शॊचिथास तवं नृपतिं गतः स परमां गतिम गुरुशुश्रूषया चैव जननी तव पाण्डव पराप्ता सुमहतीं सिद्धिम इति मे नात्र संशयः कर्तुम अर्हसि कौरव्य तेषां तवम उदकक्रियाम भरातृभिः सहितः सर्वैर एतद अत्र विधीयताम [वै] तथा स पृथिवीपालः पाण्डवानां धुरंधरः निर्ययौ सह सॊदर्यैः सदारॊ भरतर्षभ पौरजान पदाश चैव राजभक्तिपुरस्कृताः गङ्गां परजग्मुर अभितॊ वाससैकेन संवृताः ततॊ ऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः युयुत्सुम अग्रतः कृत्वा ददुस तॊयं महात्मने गान्धार्याश च पृथायाश च विधिवन नामगॊत्रतः शौचं निवर्तयन्तस ते तत्रॊषुर नगराद बहिः परेषयाम आस स नरान विधिज्ञानाप्त कारिणः गङ्गा दवारं कुरुश्रेष्ठॊ यत्र दग्धॊ ऽभवन नृपः तत्रैव तेषां कुल्यानि गङ्गा दवारे ऽनवशात तदा कर्तव्यानीति पुरुषान दत्तदेयान महीपतिः दवादशे ऽहनि तेभ्यः स कृतशौचॊ नराधिपः ददौ शराद्धानि विधिवद दक्षिणावन्ति पाण्डवः धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः सुवर्णं रजतं गाश च शय्याश च सुमहाधनाः गान्धार्याश चैव तेजस्वी पृथायाश च पृथक पृथक संकीर्त्य नामनी राजा ददौ दानम अनुत्तमम यॊ यद इच्छति यावच च तावत स लभते दविजः शयनं भॊजनं यानं मणिरत्नम अथॊ धनम यानम आच्छादनं भॊगान दासीश च परिचारिकाः ददौ राजा समुद्दिश्य तयॊर मात्रॊर महीपतिः ततः स पृथिवीपालॊ दत्त्वा शराद्धान्य अनेकशः परविवेश पुनर धीमान नगरं वारणाह्वयम ते चापि राजवचनात पुरुषा ये गताभवन संकल्प्य तेषां कुल्यानि पुनः परत्यागमंस ततः माल्यैर गन्धैश च विविधैः पूजयित्वा यथाविधि कुल्यानि तेषां संयॊज्य तदाचख्युर महीपतेः समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम नारदॊ ऽपय अगमद राजन परमर्षिर यथेप्सितम एवं वर्षाण्य अतीतानि धृतराष्ट्रस्य धीमतः वनवासे तदा तरीणि नगरे दश पञ्च च हतपुत्रस्य संग्रामे दानानि ददतः सदा जञातिसंबन्धिमित्राणां भरातॄणां सवजनस्य च युधिष्ठिरस तु नृपतिर नातिप्रीत मनास तदा धारयाम आस तद राज्यं निहतज्ञातिबान्धवः
About this parayana — Rama
Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.
How to chant
Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.