ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← શબ્દ પર પાછા
ગુજરાતી interface

વરાહ પુરાણ

Varaha Purana

Varaha Purana

Text in देवनागरी script

Devotional text

🌐

ગુજરાતી script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.

खुरमध्यगतो यस्य मेरुः खणखणायते ।। १.१ ।।
दंष्ट्राग्रेणोद्धृता गौरुदधिपरिवृता पर्वतैर्निम्नगाभिः
साकं मृत्पिण्डवत् प्राग्बृहदुरुवपुषाऽनन्तरूपेण येन।
सोऽयं कंसासुरारिर्मुरनरकदशास्यान्तकृत्सर्वसंस्थः
कृष्णो विष्णुः सुरेशो नुदतु मम रिपूनादिदेवो वराहः।। १.२ ।।
यः संसारार्णवे नौरिव मरणजराव्याधिनक्रोर्मिभीमे
भक्तानां भीतिहर्ता मुरनरकदशास्यान्तकृत् कोलरूपी।
विष्णुः सर्वेश्वरोऽयं यमिह कृतधियो लीलया प्राप्नुवन्ति
मुक्तात्मानो नपापं भवत्तु नुदितारातिपक्षः क्षितीशः ।। १.३ ।।
सूत उवाच।
यस्मिन् काले क्षितिः पूर्वं वराहवपुषा तु सा।
उद्धृता विष्णुना भक्त्या पप्रच्छ परमेश्वरम् ।। १.४ ।।
धरण्युवाच।
कल्पे कल्पे भवानेव मां समुद्धरते विभो।
न चाहं वेद ते मूर्तिं नादिसर्गं च केशव।। १.५ ।।
वेदेषु चैव नष्टेषु मत्स्यो भूत्वा रसातलम्।
प्रविश्य तानपाकृष्य ब्रह्मणे दत्तवानसि ।। १.६ ।।
अन्यत् सुरासुरमयं त्वं समुद्रस्य मन्थने।
धृतवानसि कौर्म्येण मन्दरं मधुसूदन ।। १.७ ।।
पुनर्वाराहरूपेण मां गच्छन्तीं रसातलम् ।
उज्जहारैकदंष्ट्रेण भगवान् वै महार्णवात्।। १.८ ।।
अन्यद्धिरण्यकशिपुर्वरदानेन दर्पितः।
आबाधमानः पृथिवीं स त्वया विनिपातितः ।
बलिस्तु बद्धो भगवंस्त्वया वामनरूपिणा ।। १.९ ।।
पुनर्निःक्षत्रिया देव त्वया चापि पुरा कृता ।
जामदग्न्येन रामेण त्वया भूत्वाऽसकृत्प्रभो ।। १.१० ।।
पुनश्च रावणो रक्षः क्षपितं क्षात्रतेजसा ।
न च जानाम्यहं देव तव किञ्चिद्विचेष्टितम् ।। १.११ ।।
उद्धृत्य मां कथं सृष्टिं सृजसे किं च सा त्वया।
सकृद् ध्रियेत कृत्वा च पाल्यते चापि केन च ।। १.१२ ।।
केन वा सुलभो देव जायसे सततं विभो ।
कथं च सृष्टेरादिः स्यादवसानं कथं भवेत् ।। १.१३ ।।
कथं युगस्य गणना संख्याऽस्यानुचतुर्युगम् ।
के वा विशेषास्तेष्वस्मिन् का वाऽवस्था महेश्वर ।। १.१४ ।।
यज्वानः के च राजानः के च सिद्धिं परां गताः ।
एतत्सर्वं समासेन कथयस्व प्रसीद मे ।। १.१५ ।।
इत्युक्तः क्रोडरूपेण जहास परमेश्वरः ।
हसतस्तस्य कुक्षौ तु जगद्धात्री ददर्श ह ।।
रुद्रान् देवान् सवसवः सिद्धसंघान् महर्षिभिः ।। १.१६ ।।
सचन्द्रसूर्यग्रहसप्तलोका-
नन्तः स्थितांस्तावदुपात्तधर्मान् ।
इतीदृशं पश्यति सा समस्तं
यावत्क्षितिर्वेपितसर्वगात्रा ।। १.१७ ।।
उन्मीलितास्यस्तु यदा महात्मा
दृष्टो धरण्याऽमलसर्वगात्र्या ।
तावत्स्वरूपेण चतुर्भुजेन
महोदधौ सुप्तमथोऽन्वपश्यत् ।। १.१८ ।।
शेषपर्यङ्कशयने सुप्तं देवं जनार्दनम् ।
दृष्ट्वा तन्नाभिपङ्कस्थमन्तःस्थं च चतुर्मुखम्।
कृताञ्जलिपुटा देवी स्तुतिं धात्री जगाद ह ।। १.१९ ।।
धरण्युवाच।
नमः कमलपत्राक्ष नमस्ते पीतवाससे।
नमः सुरारिविध्वंसकारिणे परमात्मने ।। १.२० ।।
शेषपर्यङ्कशपने धृतवक्षस्थलश्रिये ।
नमस्ते सर्वदेवेश नमस्ते मोक्षकारिणे ।। १.२१ ।।
नमः शार्ङ्गासिचक्राय जन्ममृत्युविवर्जिते।
नमो नाभ्युत्थितमहत्कमलासनजन्मने ।। १.२२ ।।
नमो विद्रुमरक्तास्यपाणिपल्लवशोभिने ।
शरणं त्वां प्रसन्नाऽस्मि त्राहि नारीमनागसम् ।। १.२३ ।।
पूर्णनीलाञ्जनाकारं वाराहं ते जनार्दन।
दृष्ट्वा भीताऽस्मि भूयोऽपि जगत् त्वद्देहगोचरम्।
इदानीं कुरु मे नाथ दयां त्राहि महाभयात्।। १.२४ ।।
केशवः पातु मे पादौ जङ्घे नारायणो मम ।
माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ।। १.२५ ।।
नाभिं विष्णुस्तु मे पातु उदरं मधुसूदनः ।
ऊरुं त्रिविक्रमः पातु हृदयं पातु वामनः ।। १.२६ ।।
श्रीधरः पातु मे कण्ठं हृषीकेशो मुखं मम ।
पद्मनाभस्तु नयने शिरो दामोदरो मम ।। १.२७ ।।
एवं न्यस्य हरेर्न्यासमामानि जगती तदा ।
नमस्ते भगवन् विष्णो इत्युक्त्वा विरराम ह ।। १.२८ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे प्रथमोऽध्यायः ।। १ ।।
<b>सूत उवाच ।</b>
ततस्तुष्टो हरिर्भक्त्या धरण्यात्मशरीरगाम् ।
मायां प्रकाश्य तेनैव स्थितो वाराहमूर्त्तिना ।। २.१ ।।
जगाद किं ते सुश्रोणि प्रश्नमेनं सुदुर्लभम् ।
कथयामि पुराणस्य विषयं सर्वशास्त्रतः ।। २.२ ।।
पुराणानां हि सर्वेषामयं साधारणः स्मृतः ।
श्लोकं धरणि निश्चित्य निःशेषं त्वं पुनः श्रृणु ।। २.३ ।।
श्रीवराह उवाच ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।। २.४ ।।
आदिसर्गमहं तावत् कथयामि वरानने ।
यस्मादारभ्य देवानां राज्ञां चरितमेव च ।
ज्ञायते चतुरंशश्च परमात्मा सनातनः ।। २.५ ।।
आदावहं व्योम महत् ततोऽणुं-
रेकैव मत्तः प्रबभूव बुद्धिः ।
त्रिधा तु सा सत्त्वरजस्तमोभिः
पृथक्पृथक्तत्त्वरूपैरुपेता ।। २.६ ।।
तस्मिंस्त्रिकेऽहं तमसो महान् स
सदोच्यते सर्वविदां प्रधानः ।
उतस्मादपि क्षेत्रविदूर्जितोऽभूद्
बभूव वुद्धिस्तु ततो बभूव ।। २.७ ।।
तस्मात्तु तेभ्यो श्रवणादिहेतवस्
ततोऽक्षमाला जगतो व्यवस्थिता ।
भूतैर्गतैरेव च पिण्डमूर्ति-
र्मया भद्रे विहिता त्वात्मनैव ।। २.८ ।।
शून्यं त्वासीत् तत्र शब्दस्तु खं च
तस्माद् वायुस्तत एवानु तेजः ।
तस्मादापस्तत एवानु देवि
मया सृष्टा भवती भूतधात्री ।। २.९ ।।
योगे पृथिव्या जलवत् ततोऽपि
सबुद्बुदं कललं त्वण्डमेव ।
तस्मिन् प्रवृत्ते द्विगतेऽहमासी-
दापोमयश्चात्मनात्मानमादौ ।। २.१० ।।
सृष्ट्वा नारास्ता अथो तत्र चाहं
येन स्यान्मे नाम नारायणेति ।
कल्पे कल्पे तत्र संयामि भूयः
सुप्तस्य मे नाभिजः स्याद् यथाद्यः ।। २.११ ।।
एवंभूतस्य मे देवि नाभिपद्मे चतुर्मुखः ।
उत्तस्थौ स मया प्रोक्तः प्रजाः सृज महामते ।। २.१२ ।।
एवमुक्त्वा तिरोभावं गतोऽहं सोऽपि चिन्तयन् ।
आस्ते यावज्जगद्धात्रि नाध्यगच्छत किंचन ।। २.१३ ।।
तावत् तस्य महारोषो ब्रह्मणोऽव्यक्तजन्मनः।
संभूय तेन बालः स्यादङ्के रोषात्मसंभवः ।। २.१४ ।।
यो रुदन् वारितस्तेन ब्रह्मणाऽव्यक्तमूर्त्तिना ।
ब्रवीति नाम मे देहि तस्य रुद्रेति सो ददौ ।। २.१५ ।।
सोऽपि तेन सृजस्वेति प्रोक्तो लोकमिमं शुभे ।
अशक्तः सोऽथ सलिले ममज्ज तपसे धृतः ।। २.१६ ।।
तस्मिन् सलिलमग्ने तु पुनरन्यं प्रजापतिम् ।
ब्रह्मा ससर्ज्ज भूतेषु दक्षिणाङ्गुष्ठतो वरम् ।
वामे चैव तथाऽङ्गुष्ठे तस्य पत्नीमथासृजत् ।। २.१७ ।।
स तस्यां जनयामास मनुं स्वायंभुवं प्रभुः ।
तस्मात् संभाविता सृष्टिः प्रजानां ब्रह्मणा पुरा ।। २.१८ ।।
<i>धरण्युवाच ।</i>
विस्तरेण ममाचक्ष्व आदिसर्गं सुरेश्वर ।
ब्रह्मा नारायणाख्योऽयं कल्पादौ चाभवद् यथा ।। २.१९ ।।
श्रीभगवानुवाच ।
ससर्ज सर्वभूतानि यथा नारायणात्मकः ।
कथ्यमानं मया देवि तदशेषं क्षिते श्रृणु ।। २.२० ।।
गतकल्पावसाने तु निशि सुप्तोत्थितः शुभे ।
सत्त्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत ।। २.२१ ।।
नारायणः परोऽचिन्त्यः पराणामपि पूर्वजः ।
ब्रह्मस्वरूपी भगवाननादिः सर्वसंभवः ।। २.२२ ।।
इदं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ।। २.२३ ।।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।। २.२४ ।।
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकस्तस्य प्रादुर्भूतस्तमोमयः ।। २.२५ ।।
तमो मोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।। २.२६ ।।
पञ्चधाऽवस्थितः सर्गो ध्यायतोऽप्रतिबोधवान् ।
बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ।
स मुख्यसर्गो विज्ञेयः सर्गविद्भिर्विचक्षणैः ।। २.२७ ।।
पुनरन्यदभूत् तस्य ध्यायतः सर्गमुत्तमम्।
तिर्यक्स्त्रोतस्तु वै यस्मात् तिर्यक्स्त्रोतस्तु वै स्मृतः ।। २.२८ ।।
पश्वादयस्ते विख्याता उत्पथग्राहिणस्तु ते।
तमप्यसाधकं मत्वा तिर्यक्स्त्रोतं चतुर्मुखः ।। २.२९ ।।
ऊर्ध्वस्त्रोतस्त्रिधा यस्तु सात्त्विको धर्मवर्त्तनः ।
ततोर्ध्वचारिणो देवाः सर्वगर्भसमुद्भवाः ।। २.३० ।।
ते सुखप्रीतिवहुला बहिरन्तस्त्वनावृताः ।
तस्मिन् सर्गेऽभवत् प्रीतिर्निष्पद्यन्ते प्रजास्तदा ।। २.३० ।।
तदा सृष्ट्वाऽन्यसर्गं तु तदा दध्यौ प्रजापतिः ।
असाधकांस्तु तान् मत्वा मुख्यसर्गादिसंभवान् ।। २.३१ ।।
ततः स चिन्तयामास अर्वाक्स्त्रोतस्तु स प्रभुः ।
अर्वाक्स्त्रोतसि चोत्पन्ना मनुष्याः साधका मताः ।। २.३२ ।।
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ।
तस्मात् तु दुखः बहुला भूयोभूयश्च कारिणः ।। २.३३ ।।
इत्येते कथिताः सर्गाः षडेते सुभगे तव ।
प्रथमो महतः सर्गस्तन्मात्राणि द्वितीयकः ।। २.३४ ।।
वैकारिकस्तृतीयस्तु सर्गश्चैन्द्रियकः स्मृतः ।
इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः ।। २.३५ ।।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्स्त्रोतश्च यः प्रोक्तस्तैर्यक्स्त्रोतः स उच्यते ।। २.३६ ।।
तथोर्ध्वस्त्रोतसां श्रेष्ठः सप्तमः स तु मानवः ।
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ।। २.३७ ।।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ।
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ।। २.३८ ।।
इत्येते वै समाख्याता नव सर्गाः प्रजापतेः ।
प्राकृता वैकृताश्चैव जगतो मूलहेतवः ।
इत्येते कथिताः सर्गाः किमन्यच्छ्रोतुमिच्छसि ।। २.३९ ।।
<i>धरण्युवाच ।</i>
नवधा सृष्टिरुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः ।
कथं सा ववृधे देव एतन्मे कथयाच्युत ।। २.४० ।।
<i>श्रीवराह उवाच ।</i>
प्रथमं ब्रह्मणा सृष्टा रुद्राद्यास्तु तपोधनाः।
सनकादयस्ततः सृष्टा मरीच्यादय एव च ।। २.४१ ।।
मरीचिरत्रिश्च तथा अङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च महातेजाः प्रचेता भृगुरेव च ।
नारदो दशमश्चैव वसिष्ठश्च महातपाः ।। २.४२ ।।
सनकादयो निवृत्त्याख्ये तेन धर्मे प्रयोजिताः ।
प्रवृत्त्याख्ये मरीच्याद्या मुक्त्वैकं नारदं मुनिम् ।। २.४३ ।।
योऽसौ प्रजापतिस्त्वाद्यो दक्षिणाङ्गुष्ठसंभवः ।
तस्यादौ तत्र वंशेन जगदेतच्चराचरम् ।। २.४४ ।।
देवाश्च दानवाश्चैव गन्धर्वोरगपक्षिणः ।
सर्वे दक्षस्य कन्यासु जाताः परमधार्मिकाः ।। २.४५ ।।
योऽसौ रुद्रेति विख्यातः पुत्रः क्रोधसमुद्भवः ।
भ्रुकुटीकुटिलात् तस्य ललाटात् परमेष्ठिनः ।। २.४६ ।।
अर्द्धनारीनरवपुः प्रचण्डोऽतिभयंकरः ।
विभजात्मानमित्युक्तो ब्रह्मणाऽन्तर्दधे पुनः ।। २.४७ ।।
तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वं चकार सः ।
बिभेद पुरुषत्वं च दशधा चैकधा च सः ।
ततस्त्वेकादश ख्याता रुद्रा ब्रह्मसमुद्भवाः ।। २.४८ ।।
अयमुद्देशतः प्रोक्तो रुद्रसर्गो मयाऽनघे ।
इदानीं युगमाहात्म्यं कथयामि समासतः ।। २.४९ ।।
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् ।
एतस्मिन् ये महासत्त्वा राजानो भूरिदक्षिणाः ।
देवासुराश्च यं चक्रुर्धर्मं कर्म च तच्छृणु ।। २.५० ।।
आसीत् प्रथमकल्पे तु मनुः स्वायंभुवः पुरा ।
तस्य पुत्रद्वयं जज्ञे अतिमानुषचेष्टितम्।
प्रियव्रतोत्तानपादनामानं धर्मवत्सलम् ।। २.५१ ।।
तत्र प्रियव्रतो राजा महायज्वा तपोबलः ।
स चेष्ट्वा विविधैर्यज्ञैर्विपुलैर्भूरिदक्षिणैः ।। २.५२ ।।
सप्तद्वीपेषु संस्थाप्य भरतादीन् सुतान् निजान् ।
स्वयं विशालां वरदां गत्वा तेपे महत् तपः ।। २.५३ ।।
तस्मिन् स्थितस्य तपसि राज्ञो वै चक्रवर्त्तिनः ।
उपेयान्नारदस्तत्र दिदृक्षुर्धर्मचारिणम् ।। २.५४ ।।
स दृष्ट्वा नारदं व्योम्नि ज्वलद्भास्करतेजसम् ।
अभ्युत्थानेन राजेन्द्र उत्तस्थौ हर्षितस्तदा ।। २.५५ ।।
तस्यासनं च पाद्यं च सम्यक् तस्य निवेद्य वै ।
स्वागतादिभिरालापैः परस्परमवोचताम् ।
कथान्ते नारदं राजा पप्रच्छ ब्रह्मवादिनम् ।। २.५६ ।।
<i>प्रियव्रत उवाच ।</i>
भगवन् किञ्चिदाश्चर्यमेतस्मिन् कृतसंज्ञिते ।
युगे दृष्टं श्रुतं वाऽपि तन्मे कथय नारद ।। २.५७ ।।
<i>नारद उवाच ।</i>
आश्चर्यमेकं दृष्टं मे तच्छृणुष्व प्रियव्रत ।
ह्यस्तनेऽहनि राजेन्द्र श्वेताख्यं गतवानहम् ।
द्वीपं तत्र सरो दृष्टं फुल्लपङ्कजमालिनम् ।। २.५८ ।।
सरसस्तस्य तीरे तु कुमारीं पृथुलोचनाम् ।
दृष्ट्वाऽहं विस्मयापन्नस्तां कन्यामायतेक्षणाम् ।। २.५९ ।।
पृष्टवानस्मि राजेन्द्र तदा मधुरभाषिणीम् ।
काऽसि भद्रे कथं वाऽसि किं वा कार्यमिह त्वया ।
कर्त्तव्यं चारुसर्वाङ्गि तन्ममाचक्ष्व शोभने ।। २.६० ।।
एवमुक्ता मया सा हि मां दृष्ट्वाऽनिमिषेक्षणा ।
स्मृत्वा तूष्णीं स्थिता यावत् तावन्मे ज्ञानमुत्तमम् ।। २.६१ ।।
विस्मृतं सर्ववेदाश्च सर्वशास्त्राणि चैव ह ।
योगशास्त्राणि शिक्षाश्च वेदानां स्मृतयस्तथा ।। २.६२ ।।
सर्वं दृष्ट्वैव मे राजन् कुमार्याऽपहृतं क्षणात् ।
ततोऽहं विस्मयार्विष्टश्चिन्ताशोकसमन्वितः ।। २.६३ ।।
तामेव शरणं गत्वा यावत् पश्यामि पार्थिव ।
तावद् दिव्यः पुमांस्तस्याः शरीरे समदृश्यत ।। २.६४ ।।
तस्यापि पंसो हृदये त्वपरस्तस्य चोरसि ।
अन्यो रक्तेक्षणः श्रीमान् द्वादशादित्यसन्निभः ।। २.६५ ।।
एवं दृष्ट्वा पुमांसोऽत्र त्रयः कन्याशरीरगाः ।
क्षणेन तत्र कन्यैका न तान् पश्यामि सुव्रत ।। २.६६ ।।
ततः पृष्टा मया देवी सा कुमारी कथं मम ।
वेदा नष्टा ममाचक्ष्व भद्रे तन्नाशकारणम् ।। २.६७ ।।
कन्योवाच ।
माताऽहं सर्ववेदानां सावित्री नाम नामतः ।
मां न जानासि येन त्वं ततो वेदा हृतास्तव ।। २.६८ ।।
एवमुक्ते तया राजन् विस्मयेन तपोधन ।
पृष्टा क एते पुरुषा एतत्कथय शोभने ।। ६९ ।।
<i>कन्योवाच</i>
य एष मच्छरीरस्थः सर्वाङ्गैश्चारुलोचनः ।
एष ऋग्वेदनामा तु देवो नारायणः स्वयम् ।
वह्निभूतो दहत्याशु पापान्युच्चारणादनु ।। २.७० ।।
एतस्य हृदये योऽयं दृष्ट आसीत् त्वयात्मजः ।
स यजुर्वेदरूपेण स्थितो ब्रह्मा महाबलः ।। २.७१ ।।
तस्याप्युरसि संविष्टो य एष शुचिरुज्ज्वलः ।
स सामवेदनामा तु रुद्ररूपी व्यवस्थितः ।
एष आदित्यवत् पापान्याशु नाशयते स्मृतः ।। २.७२ ।।
एते त्रयो महावेदा ब्रह्मन् देवास्त्रयः स्मृताः ।
एते वर्णा अकाराद्याः सवनान्यत्र वै द्विज ।। २.७३ ।।
एतत्सर्वं समासेन कथितं ते द्विजोत्तम ।
गृहाण वेदान् शास्त्राणि सर्वज्ञत्वं च नारद ।। २.७४ ।।
एतस्मिन् वेदसरसि स्नानं कुरु महाव्रत ।
कृते स्नानेऽन्यजन्मीयं येन स्मरसि सत्तम ।। २.७५ ।।
एवमुक्त्वा तिरोभावं गता कन्या नराधिप ।
अहं तत्र कृतस्नानस्त्वां दिदृक्षुरिहागतः ।। २.७६ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे द्वितीयोऽध्यायः ।। २ ।।
प्रियव्रत उवाच ।
अन्यस्मिन् भगवन् जन्मन्यासीद् यत् तद् विचेष्टितम् ।
सर्वं कथय देवर्षे महत् कौतूहलं हि मे ।। ३.१ ।।
नादरद उवाच ।
स्नातस्य मम राजेन्द्र तस्मिन् वेदसरस्यथ ।
सावित्र्याश्च वचः श्रुत्वा तस्मिन् जन्मसहस्त्रकम् ।
स्मरणं तत्क्षणाज्जातं श्रृणु जन्मान्तरं मम ।। ३.२ ।।
अस्त्यवन्तीपुरं राजंस्तत्राहं प्राग् द्विजोत्तमः ।
नाम्ना सारस्वतः पूर्वं वेदवेदाङ्गपारगः ।। ३.३ ।।
बहुभृत्यपरीवारो बहुधान्यश्च पार्थिव ।
अन्यस्मिन् कृतसंज्ञे तु युगे परमबुद्धिमान् ।। ३.४ ।।
ततो ध्यातं मयैकान्ते किमनेन करोम्यहम् ।
द्वन्द्वेन सर्वमेतद्धि न्यस्त्वा पुत्रेषु याम्यहम् ।
तपसे धृतसंकल्पः सरः सारस्वतं द्रुतम् ।। ३.५ ।।
एवं चिन्त्य मया इष्टः कर्मकाण्डेन केशवः ।
श्राद्धैश्च पितरो देवा यज्ञैश्चान्ये तथा जनाः ।। ३.६ ।।
ततोऽहं निर्गतो राजंस्तपसे धृतमानसः ।
सारस्वतं नाम सरो यदेतत् पुष्करं स्मृतम् ।। ३.७ ।।
तत्र गत्वा मया विष्णुः पुराणः पुरुषः शिवः ।
आराधितो मया भक्त्या जपं नारायणात्मकम् ।। ३.८ ।।
ब्रह्मपारमयं राजन् जपता परमं स्तवम् ।
ततो मे भगवांस्तुष्टः प्रत्यक्षत्वं जगाम ह ।। ३.९ ।।
प्रियव्रत उवाच ।
कीदृशं ब्रह्मपारं तु श्रोतुमिच्छामि सत्तम ।
कथयस्व प्रसादेन देवर्षे सुप्रसन्नधीः ।। ३.१० ।।
नारद उवाच ।
परं पराणाममृतं पुराणं
पारं परं विष्णुमनन्तवीर्यम् ।
नमामि नित्यं पुरुषं पुराणं
परायणं पारगतं पराणाम् ।। ३.११ ।।
पुरातनं त्वप्रतिमं पुराणं
परापरं पारगमुग्रतेजसम् ।
गम्भीरगम्भीरधियां प्रधानं
नतोऽस्मि देवं हरिमीशितारम् ।। ३.१२ ।।
परात्परं चापरमं प्रधानं
परास्पदं शुद्धपदं विशालम् ।
परात्परेशं पुरुषं पुराणं
नारायणं स्तौमि विशुद्धभावः ।। ३.१३ ।।
पुरा पुरं शून्यमिदं ससर्ज्ज
तदा स्थितत्वात् पुरुषः प्रधानः ।
जने प्रसिद्धः शरणं ममास्तु
नारायणो वीतमलः पुराणः ।। ३.१४ ।।
पारं परं विष्णुमपाररूपं
पुरातनं नीतिमतां प्रधानम् ।
धृतक्षमं शान्तिधरं क्षितीशं
शुभं सदा स्तौमि महानुभावम् ।। ३.१५ ।।
सहस्त्रमूर्धानमनन्तपाद-
मनेकबाहुं शशिसूर्यनेत्रम् ।
क्षराक्षरं क्षीरसमुद्रनिद्रं
नारायणं स्तौम्यमृतं परेशम् ।। ३.१६ ।।
त्रिवेदगम्यं त्रिनवैकमूर्तिं
त्रिशुक्लसंस्थं त्रिहुताशभेदम् ।
त्रितत्त्वलक्ष्यं त्रियुगं त्रिनेत्रं
नमामि नारायणमप्रमेयम् ।। ३.१७ ।।
कृते सितं रक्ततनुं तथा च
त्रेतायुगे पूततनुं पुराणम् ।
तथा हरिं द्वापरतः कलौ च
कृष्णीकृतात्मानमथो नमामि ।। ३.१८ ।।
ससर्ज यो वक्त्रत एव विप्रान्
भुजान्तरे क्षत्रमथोरुयुग्मे ।
विशः पदाग्रेषु तथैव शूद्रान्
नमामि तं विश्वतनुं पुराणम् ।। ३.१९ ।।
परात्परं पारगतं प्रमेयं
युधांपतिं कार्यत एव कृष्णम्।
गदासिचर्मण्यभृतोत्थपाणिं
नमामि नारायणमप्रमेयम् ।। ३.२० ।।
इति स्तुतो देववरः प्रसन्नो
जगाद मां नीरदतुल्यघोषः ।
वरं वृणीष्वेत्यसकृत् ततोऽहं
तस्यैव देहे लयमिष्टवांश्च ।। ३.२१ ।।
इति श्रुत्वा वचो मह्यं देवदेवः सनातनः ।
उवाच प्रकृतिं विप्र संसरस्वाक्षयामिमाम् ।। ३.२२ ।।
ब्रह्मणो युगसाहस्त्रं तत्ते तस्मात् समुद्भवः ।
भविता ते तथा नाम दास्यते संप्रयोजनम् ।। ३.२३ ।।
नारं पानीयमित्युक्तं तं पितॄणां सदा भवान् ।
ददाति तेन ते नाम नारदेति भविष्यति ।। ३.२४ ।।
एवमुक्त्वा गतो देवः सद्योऽदर्शनमुच्चकैः ।
अहं कलेवरं त्यक्त्वा कालेन तपसा तदा ।। ३.२५ ।।
ब्रह्मणोऽङ्गे लयं प्राप्तस्तदोत्पत्तिं च पार्थिव ।
दिवसे तु पुनः सृष्टो दशभिस्तनयैः सह ।। ३.२६ ।।
दिनादिर्यो हि देवस्य ब्रह्मणोऽव्यक्तजन्मनः ।
स सृष्ट्यादिः समस्तानां देवादीनां न संशयः ।। ३.२७ ।।
सर्वस्य जगतः सृष्टिरेषैव प्रभुधर्मतः ।
एतन्मे प्राकृतं जन्म यन्मां पृच्छसि पार्थिव ।। ३.२८ ।।
तस्मान्नारायणं ध्यात्वा प्राप्तोऽस्मि परतो नृप ।
तस्मात् त्वमपि राजेन्द्र भव विष्णुपरायणः ।। ३.२९ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे तृतीयोऽध्यायः ।। ३ ।।
धरण्युवाच ।
योऽसौ नारायणो देवः परमात्मा सनातनः ।
भगवन् सर्वभावेन उताहो नेति शंस मे ।। ४.१ ।।
श्रीवराह उवाच ।
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ।। ४.२ ।।
इत्येताः कथितास्तस्य मूर्त्तयो भूतधारिणि ।
दर्शनं प्राप्तुमिच्छूनां सोपानानीव शोभते ।। ४.३ ।।
यत् तस्य परमं रूपं तन्न पश्यन्ति देवताः ।
अस्मदादिस्वरूपेण पूरयन्ति ततो धृतिम् ।। ४.४ ।।
ब्रह्मा भगवतो मूर्त्या रजसस्तमसस्तथा ।
याभिः संस्थाप्यते विश्वं स्थितौ संचाल्यते च ह ।। ४.५ ।।
त्वमेका तस्य देवस्य मूर्तिराद्या धराधरे ।
द्वितीया सलिलं मूर्तिस्तृतीया तैजसी स्मृता ।। ४.६ ।।
चतुर्थी वायुमूर्तिः स्यादाकाशाख्या तु पञ्चमी ।
एतास्तु मूरत्यस्तस्य क्षेत्रज्ञत्वं हि मद्धियाम् ।
मूर्त्तित्रयं तथा तस्य इत्येताश्चाष्टमूर्तयः ।। ४.७ ।।
आभिव्यप्तिमिदं सर्वं जगन्नारायणेन ह ।
इत्येतत् कथितं देवि किमन्यच्छ्रोतुमिच्छसि ।। ४.८ ।।
धरण्युवाच ।
नारदेनैवमुक्तस्तु तदा राजा प्रियव्रतः ।
कृतवान् किं ममाचक्ष्व प्रसादात् परमेश्वर ।। ४.९ ।।
श्रीवराह उवाच ।
भवतीं सप्तधा कृत्वा पुत्राणां च प्रदाय सः ।
प्रियव्रतस्तपस्तेपे नारदाच्छ्रुतविस्मयः ।। ४.१० ।।
नारायणात्मकं ब्रह्म परं जप्त्वा स्वयंभुवः ।
ततस्तुष्टमनाः पारं परं निर्वाणमाप्तवान् ।। ४.११ ।।
श्रृणु चान्यद् वरारोहे यद् वृत्तं परमेष्ठिनः ।
आराधनाय यततः पुराकाले नृपस्य ह ।। ४.१२ ।।
आसीदश्वशिरा नाम राजा परमधार्मिकः ।
सोऽश्वमेधेन यज्ञेन यष्ट्वा सुबहुदक्षिणः ।। ४.१३ ।।
स्नातश्चावभृथे सोऽथ ब्राह्मणैः परिवारितः ।
यावदास्ते स राजर्षिस्तावद् योगिवरो मुनिः ।
आययौ कपिलः श्रीमान् जैगीषव्यश्च योगिराट् ।। ४.१४ ।।
ततस्त्वरितमुत्थाय स राजा स्वागतक्रियाम् ।
चकार परया युक्तः स मुदा राजसत्तमः ।। ४.१५ ।।
तावर्च्चितावासनगौ दृष्ट्वा राजा महाबलः ।
पप्रच्छ तौ तिग्मधियौ योगज्ञौ स्वेच्छयागतौ ।। ४.१६ ।।
भवन्तौ संशयं विप्रौ पृच्छामि पुरुषोत्तमौ ।
कथमाराधयेद् देवं हरिं नारायणं परम् ।। ४.१७ ।।
विप्रावूचतुः ।
क एष प्रोच्यते राजंस्त्वया नारायणो गुरुः ।
आवां नारायणौ द्वौ तु त्वत्प्रत्यक्षगतौ नृप ।। ४.१८ ।।
अश्वशिरा उवाच ।
भवन्तौ ब्राह्मणौ सिद्धौ तपसा दग्धकिल्बिषौ ।
कथं नारायणावावामिति वाक्यमथेरितम् ।। ४.१९ ।।
शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ।
गरुडस्थो महादेवः कस्तस्य सदृशो भुवि ।। ४.२० ।।
तस्य राज्ञो वचः श्रुत्वा तौ विप्रौ संशितव्रतौ ।
जहसतुः पश्य विष्णुं राजन्निति जजल्पतुः ।। ४.२१ ।।
एवमुक्त्वा स कपिलः स्वयं विष्णुर्बभूव ह ।
जैगीषव्यश्च गरुडस्तत्क्षणात् समजायत ।। ४.२२ ।।
ततो हाहाकृतं त्वासीत् तत्क्षणाद् राजमण्डलम् ।
दृष्ट्वा नारायणं देवं गरुडस्थं सनातनम् ।। ४.२३ ।।
कृताञ्जलिपुटो भूत्वा ततो राजा महायशाः ।
उवाच शाम्यतां विप्रौ नायं विष्णुरथेदृशः ।। ४.२४ ।।
यस्य ब्रह्मा समुत्पन्नो नाभिपङ्कजमध्यतः ।
तस्माच्च ब्रह्मणो रुद्रः स विष्णुः परमेश्वरः ।। ४.२५ ।।
इति राजवचः श्रुत्वा तदा तौ मुनिपुंगवौ ।
चक्रतुः परमां मायां योगमायां विशेषतः ।। ४.२६ ।।
कपिलः पद्मनाभस्तु जैगीषव्यः प्रजापतिः ।
कमलस्थो बभौ ह्रस्वस्तस्य चाङ्के कुमारकः ।। ४.२७ ।।
ददर्श राजा रक्ताक्षं कालानलसमद्युतिम् ।
नेत्थं भवति विश्वेशो मायैषा योगिनां सदा ।
सर्वव्यापी हरिः श्रीमानिति राजा जगाद ह ।। ४.२८ ।।
ततो वाक्यावसाने तु तस्य राज्ञो हि संसदि ।
मशका मत्कुणा यूका भ्रमराः पक्षिणोरगाः ।। ४.२९ ।।
अश्वा गावो द्विपाः सिंहा व्याघ्रा गोमायवो मृगाः ।
अन्येऽपि पशवः कीटा ग्राम्यारण्याश्च सर्वशः ।
दृश्यन्ते राजभवने कोटिशो भूतधारिणि ।। ४.३० ।।
तं दृष्ट्वा भूतसंघातं राजा विस्मितमानसः ।
यावच्चिन्तयते किं स्यादेतदित्यवगम्य च ।
जैगीषव्यस्य माहात्म्यं कपिलस्य च धीमतः ।। ४.३१ ।।
कृताञ्जलिपुटो भूत्वा स राजाऽश्वशिरास्तदा ।
पप्रच्छ तावृषी भक्त्या किमिदं द्विजसत्तमौ ।। ४.३२ ।।
द्विजावूचतुः ।
आवां पृष्टौ त्वया राजन् कथं विष्णुरिहेज्यते ।
प्राप्यते वा महाराज तेनेदं दर्शितं तव ।। ४.३३ ।।
सर्वज्ञस्य गुणा ह्येते ये राजंस्तव दर्शिताः ।
स च नारायणो देवः सर्वज्ञः कामरूपवान् ।। ४.३४ ।।
सौम्यस्तु संस्थितः क्वापि प्राप्यते मनुजैः किल ।
आराधनेन चैतस्य वाक्यमर्थवदिष्यते ।। ४.३५ ।।
किन्तु सर्वशरीरस्थः परमात्मा जगत्पतिः ।
स्वदेहे दृश्यते भक्त्या नैकस्थानगतस्तु सः ।। ४.३६ ।।
अतोऽर्थं दर्शितं रूपं देवस्य परमात्मनः ।
आवयोस्तव राजेन्द्र प्रतीतिः स्याद् यथा तव ।
एवं सर्वगतो विष्णुस्तव देहे जनेश्वर ।। ४.३७ ।।
मन्त्रिणां भृत्यसङ्घस्य सुराद्या ये प्रदर्शिताः ।
पशवः कीटसङ्घाश्च तेऽपि विष्णुमया नृप ।। ४.३८ ।।
भावनां तु दृढां कुर्याद् यथा सर्वगतो हरिः ।
नान्यत् तत् सदृशं भूतमिति भावेन सेव्यते ।। ४.३९ ।।
एष ते ज्ञानसद्भावस्तव राजन् प्रकीर्तितः ।
परिपूर्णेन भावेन स्मरन् नारायणं हरिम् ।। ४.४० ।।
परिपूर्णेन बावेन स्मर नारायणं गुरुम् ।
पुष्पोपहारैर्धूपैश्च ब्राह्मणानां च तर्पणैः ।
ध्यानेन सुस्थितेनाशु प्राप्यते परमेश्वरः ।। ४.४१ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे चतुर्थोऽध्यायः ।। ४ ।।
अश्वशिरा उवाच ।
भवन्तौ मम संदेहमेकं छेत्तुमिहार्हतः ।
येन छिन्नेन जायेत मम संसारविच्युतिः ।। ५.१ ।।
एवमुक्ते नृपतिना तदा योगिवरो मुनिः ।
कपिलः प्राह धर्मात्मा राजानं यजतां वरम् ।। ५.२ ।।
कपिल उवाच ।
कस्ते मनसि संदेहो राजन् परमधार्मिक ।
छिन्दामि येन तच्छ्रुत्वा ब्रूहि यत्तेऽभिवाञ्छितम् ।। ५.३ ।।
राजोवाच ।
कर्मणा प्राप्यते मोक्ष उताहो ज्ञानिना मुने ।
एतन्मे संशयं छिन्धि यदि मेऽनुग्रहः कृतः ।। ५.४ ।।
कपिल उवाच ।
इमं प्रश्नं महाराज पुरा पृष्टो बृहस्पतिः ।
रैभ्येण ब्रह्मपुत्रेण राज्ञा च वसुना पुरा ।
वसुरासीन्नृपश्रेष्ठो विद्वान् दानपतिः पुरा ।। ५.५ ।।
चाक्षुषस्य मनोः काले ब्रह्मणोऽन्वयवर्द्धनः ।
वसुश्च ब्रह्मणः सद्म गतवांस्तद्दिदृक्षया ।। ५.६ ।।
पथि चैत्ररथं दृष्ट्वा विद्याधरवरं नृप ।
अपृच्छच्च वसुः प्रीत्या ब्रह्मणोऽवसरं प्रभो ।। ५.७ ।।
सोऽब्रवीद् देवसमितिर्वर्तते ब्रह्मणो गृहे ।
एवं श्रुत्वा वसुस्तस्थौ द्वारि ब्रह्मौकसस्तदा ।
तावत् तत्रैव रैभ्यस्तु आजगाम महातपाः ।। ५.८ ।।
स राजा प्रीतमनसा वसुः संपूर्णमानसः ।
उवाच पूजयित्वाग्रे क्व प्रयातोऽसि वै मुने ।। ५.९ ।।
रैभ्य उवाच ।
अहं बृहस्पतेः पार्श्वे आगतोऽस्मि महानृप ।
किञ्चित्कार्यान्तरं प्रष्टुमहं देवपुरोहितम् ।। ५.१० ।।
एवं वदति रैभ्ये तु ब्रह्मणस्तन्महत्सदः ।
उत्तस्थौ स्वानि धिष्ण्यानि गता देवगणाः प्रभो ।। ५.११ ।।
तावद् बृहस्पतिस्तत्र रैभ्येण सह संविदम् ।
कृत्वा स्वधिष्ण्यमगमद् वसुना च सुपूजितः ।। ५.१२ ।।
रैभ्य आङ्गिरसो राजा वसुश्चोपविवेश ह ।
उपविष्टेषु राजेन्द्र तेषु तेष्वपि सोऽब्रवीत् ।। ५.१३ ।।
बृहस्पतिर्देवगुरू रैभ्यं वचनमन्तिके ।
किं करोमि महाभाग वेदवेदाङ्गपारग ।। ५.१४ ।।
रैभ्य उवाच ।
बृहस्पते कर्मणा किं प्राप्यते ज्ञानिनाऽथवा ।
मोक्ष एतन्ममाचक्ष्व पृच्छतः संशयं प्रभो ।। ५.१५ ।।
बृहस्पतिरुवाच ।
यत्किंचित् कुरुते कर्म पुरुषः साध्वसाधु वा ।
सर्वं नारायणे न्यस्य कुर्वन् नैव च लिप्यते ।। ५.१६ ।।
श्रूयते च द्विजश्रेष्ठ संवादो विप्रलुब्धयोः ।
आत्रेयो ब्राह्मणः कश्चिद् वेदाभ्यासरतो मुनिः ।। ५.१७ ।।
वसत्यविरतं प्रातःस्नायी त्रिषवणे रतः ।
नाम्ना संयमनः पूर्वमेकस्मिन् दिवसे नदीम् ।
धर्मारण्ये गतः स्नातुं धन्यां भागीरथीं शुभाम् ।। ५.१८ ।।
तत्रासीनं महायूथं हरिणानां विचक्षणः ।
लुब्धो निष्ठुरको नाम धनुःपाणिः कृतान्तवत् ।
आययौ तं जिघांसुः स धनुष्यायोज्य सायकम् ।। ५.१९ ।।
ततः संयमनो विप्रो दृष्ट्वा तं मृगयारतम् ।
वारयामास मा भद्र जीवघातमिमं कुरु ।। ५.२० ।।
एतच्छ्रुत्वा वचो व्याधः स्मितपूर्वमिदं वचः ।
उवाच नाहं हिंसामि पृथग्जीवं द्विजोत्तम ।। ५.२१ ।।
परमात्मा त्वयं भूतैः क्रीडते भगवान् स्वयम् ।
कृता मृदा बलीवर्द्दास्तद्वदेतन्न संशयः ।। ५.२२ ।।
अहे भावः सदा ब्रह्मन्नविद्येयं मुमुक्षुणाम् ।
यात्राप्राणरतं सर्वं जगदेतद् विचेष्टितम् ।
तत्राहमिति यः शब्दः स साधुत्वं न गच्छति ।। ५.२३ ।।
इत्याकर्ण्य स विप्रेन्द्रो द्विजः संयमनस्तदा ।
विस्मयेनाब्रवीद् वाक्यं लुब्धं निष्ठुरकं द्विजः ।। ५.२४ ।।
किमेतदुच्यते भद्र प्रत्यक्षं हेतुमद्वचः ।
ततः श्रुत्वा मुनेर्विप्रं लुब्धकः प्राह धर्मवित् ।
कुत्वा लोहमयं जालं तस्याधो ज्वलनं ददौ ।। ५.२५ ।।
दत्त्वा वह्निं द्विजं प्राह ज्वाल्यतां काष्ठसचयः ।
ततो विप्रो मुखेनाग्निं प्रज्वाल्य विरराम ह ।। ५.२६ ।।
ज्वलिते तु पुनर्वह्नौ तं जालं लोहसंभवम् ।
पृथक्पृथक् सहस्त्राणि निन्येऽन्तर्जालकैर्द्विज ।
एकस्थानगतस्यापि वह्नेरायसजालकैः ।। ५.२७ ।।
ततो लुब्धोऽब्रवीद्विप्रमेकां ज्वालां महामुने ।
गृहाण येन शेषाणां करिष्यामीह नाशनम् ।। ५.२८ ।।
एवमुक्त्वा हुताशे तु तोयपूर्णं घटं द्रुतम् ।
चिक्षेप सहसा वह्निः प्रशशामाशु पूर्ववत् ।। ५.२९ ।।
ततोऽब्रवील्लुब्धकस्तु ब्राह्मणं तं तपोधनम् ।
भगवन् या त्वया ज्वाला गृहोतासीद्धुताशनात् ।
प्रयच्छ येन मार्गाणि मांसान्यानाय्य भक्षये ।। ५.३० ।।
एवमुक्तस्तदा विप्रो यावदायसजालकम् ।
पश्यत्येव न तत्राग्निर्मूलनाशे गतः क्षयम् ।। ५.३१ ।।
ततो विलक्षभावेन ब्राह्मणः शंसितव्रतः ।
तूष्णींभूतस्थितस्तावल्लुब्धको वाक्यमब्रवीत् ।। ५.३२ ।।
एतस्मिञ्ज्वलितो वह्निर्बहुशाखश्च सत्तम ।
मूलनाशे भवेन्नाशस्तद्वदेतदपि द्विज ।। ५.३३ ।।
आत्मा स प्रकृतिस्थश्च भूतानां संश्रयो भवेत् ।
भूय एषा जगत्सृष्टिस्तत्रैव जगतो भवेत् ।। ५.३४ ।।
पिण्डग्रहणधर्मेण यदस्य विहितं व्रतम् ।
तत्तदात्मनि संयोज्य कुर्वाणो नावसीदति ।। ५.३५ ।।
एवमुक्ते तु व्याधेन ब्राह्मणे राजसत्तम ।
पुष्पवृष्टिरथाकाशात् तस्योपरि पपात ह ।। ५.३६ ।।
विमानानि च दिव्यानि कामगानि महान्ति च ।
बहुरत्नानि मुख्यानि ददृशे ब्राह्मणोत्तमः ।। ५.३७ ।।
तेषु निष्ठुरकं लुब्धं सर्वेषु समवस्थितम् ।
ददृशे ब्राह्मणस्तत्र कामरूपिणमुत्तमम् ।। ५.३८ ।।
अद्वैतवासनासिद्धं योगाद् बहुशरीरकम् ।
दृष्ट्वा विप्रो मुदा युक्तः प्रययौ निजमाश्रमम् ।। ५.३९ ।।
एवं ज्ञानवतः कर्म्म कुर्वतोऽपि स्वजातिकम् ।
भवेन्मुक्तिर्द्विजश्रेष्ठ रैभ्य राजन् वसो ध्रुवम् ।। ५.४० ।।
एवं तौ संशयच्छेदं प्राप्तौ रैभ्यवसू नृप ।
बृहस्पतेस्ततो धिष्ण्याज्जग्मतुर्निजमाश्रमम् ।। ५.४१ ।।
तस्मात् त्वमपि राजेन्द्र देवं नारायणं प्रभुम् ।
अभेदेन स्वदेहस्थं पश्यन्नाराधय प्रभुम् ।। ५.४२ ।।
कपिलस्य वचः श्रुत्वा स राजाऽश्वशिरा विभुः ।
ज्येष्ठं पुत्रं समाहूय धन्यं स्थूलशिराह्वयम् ।
अभिषिच्य निजे राज्ये स राजा प्रययौ वनम् ।। ५.४३ ।।
नैमिषाख्यं वरारोहे तत्र यज्ञतनुं गुरुम् ।
तपसाराधयामास यज्ञमूर्तिं स्तवेन च ।। ५.४४ ।।
धरण्युवाच ।
कथं यज्ञतनोः स्तोत्रं राज्ञा नारायणस्य ह ।
स्तुतिः कृता महाभाग पुनरेतच्च शंस मे ।। ५.४५ ।।
श्रीवराह उवाच ।
नमामि याज्यं त्रिदशाधिपस्य
भवस्य सूर्यस्य हुताशनस्य ।
सोमस्य राज्ञो मरुतामनेक-
रूपं हरिं यज्ञनरं नमस्ये ।। ५.४६ ।।
सुभीमदंष्ट्रं शशिसूर्यनेत्रं
संवत्सरे चायनयुग्मकुक्षम् ।
दर्भाङ्गरोमाणमथेध्मशक्तिं
सनातनं यज्ञनरं नमामि ।। ५.४७ ।।
द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं शरीरेण दिशश्च सर्वाः ।
तमीड्यमीशं जगतां प्रसूतिं
जनार्दनं तं प्रणतोऽस्मि नित्यम् ।। ५.४८ ।।
सुरासुराणां च जयाजयाय
युगे युगे यः स्वशरीरमाद्यम् ।
सृजत्यनादिः परमेश्वरो य-
स्तं यज्ञमूर्तिं प्रणतोऽस्मि नाथम् ।। ५.४९ ।।
दधार मायामयमुग्रतेजा
जयाय चक्रं त्वमलांशुशुभ्रम् ।
गदासिशार्ङ्गादिचतुर्भुजोऽयं
तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ।। ५.५० ।।
क्वचित् सहस्त्रं शिरसां दधार
क्वचिन्महापर्वततुल्यकायम् ।
क्वचित् स एव त्रसरेणुतुल्यो
यस्तं सदा यज्ञनरं नमामि ।। ५.५१ ।।
चतुर्मुखो यः सृजते समग्रं
रथाङ्गपाणिः प्रतिपालनाय ।
क्षयाय कालानलसन्निभो य-
स्तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ।। ५.५२ ।।
संसारचक्रक्रमणक्रियायै
य इज्यते सर्वगतः पुराणः ।
यो योगिभिर्ध्यायते चाप्रमेयस्
तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ।। ५.५३ ।।
सम्यङ्मनस्यर्पितवानहं ते
यदा सुदृश्यं स्वतनौ नु तत्त्वम् ।
न चान्यदस्तोति मतिः स्थिरा मे
यतस्ततो मावतु शुद्धभावम् ।। ५.५४ ।।
इतीरितस्तस्य हुताशनार्चिः -
प्रख्यं तु तेजः पुरतो बभूव ।
तस्मिन् स राजा प्रविवेश बुद्धिं
कृत्वा लयं प्राप्तवान् यज्ञमूर्तौ ।। ५.५५ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चमोऽध्यायः ।। ५ ।।
धरण्युवाच ।
स वसुः संशयच्छेदं प्राप्य रैभ्यश्च सत्तमः ।
उभौ किं चक्रतुर्देव श्रुत्वा चाङ्गिरसं वचः ।। ६.१ ।।
श्रीवराह उवाच ।
स वसुः सर्वधर्मज्ञः स्वराज्यं प्रतिपालयन् ।
अयजद् बहुभिर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ।। ६.२ ।।
कर्मकाण्डेन देवेशं हरिं नारायणं प्रभुम् ।
तोषयामास राजेन्द्रस्तमभेदेन चिन्तयन् ।। ६.३ ।।
ततः कालेन महता तस्य राज्ञो मतिः किल ।
निवृत्तराज्यभोगस्य द्न्द्वस्यान्तमुपेयुषी ।। ६.४ ।।
ततः पुत्रं विवस्वन्तं श्रेष्ठं भ्रातृशतस्य ह ।
अभिषिच्य स्वके राज्ये तपोवनमुपागमत् ।। ६.५ ।।
पुष्करं नाम तीर्थानां प्रवरं यत्र केशवः ।
पुण्डरीकाक्षनामा तु पूज्यते तत्परायणैः ।। ६.६ ।।
तत्र गत्वा स राजर्षिः काश्मीराधिपतिर्वसुः ।
अतितीव्रेण तपसा स्वशरीरमशोषयत् ।। ६.७ ।।
पुण्डरीकाक्षपारं तु स्तवं भक्त्या जपन् बुधः ।
आरिराधयिषुर्देवं नारायणमकल्मषम् ।
स्तोत्रान्ते तल्लयं प्राप्तः स राजा राजसत्तमः ।। ६.८ ।।
धरण्युवाच ।
पुण्डरीकाक्षपारं तु स्तोत्रं देव कथं स्मृतम् ।
कीदृशं तन्ममाचक्ष्व परमेश्वर तत्त्वतः ।। ६.९ ।।
श्रीवराह उवाच ।
नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ।
नमस्ते सर्वलोकेश नमस्ते तिग्मचक्रिणे ।। ६.१० ।।
विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् ।
नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ।। ६.११ ।।
आदिदेवं महादेवं वेदवेदाङ्गपारगम् ।
गम्भीरं सर्वदेवानां नमामि मधुसूदनम् ।। ६.१२ ।।
विश्वमूर्तिं महामूर्तिं विद्यामूर्तिं त्रिमूर्तिकम् ।
कवचं सर्वदेवानां नमस्ये वारिजेक्षणम् ।। ६.१३ ।।
सहस्त्रशीर्षिणं देवं सहस्त्राक्षं महाभुजम् ।
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ।। ६.१४ ।।
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् ।
नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ।। ६.१५ ।।
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् ।
भावाभावविनिर्मुक्तं मस्ये सर्वगं हरिम् ।। ६.१६ ।।
नान्यत् किंचित् प्रपश्यामि व्यतिरिक्तं त्वयाऽच्युत ।
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ।। ६.१७ ।।
एवं तु वदतस्तस्य मूर्त्तिमान् पुरुषः किल ।
निर्गत्य देहान्नीलाभो घनचण्डो भयंकरः ।। ६.१८ ।।
रक्ताक्षो ह्रस्वकायस्तु दग्धस्थूणासमप्रभः ।
उवाच प्राञ्जलिर्भूत्वा किं करोमि नराधिप ।। ६.१९ ।।
राजोवाच ।
कोऽसि किं कार्यमिह ते कस्मादागतवानसि ।
एतन्मे कथय व्याध एतदिच्छामि वेदितुम् ।। ६.२० ।।
व्याध उवाच ।
पूर्वं कलियुगे राजन् राजा त्वं दक्षिणापथे ।
पूर्णधर्मोद्भवः श्रीमाञ्जनस्थाने विचक्षणः ।। ६.२१ ।।
स कदाचिद् भवान् वीर तुरगैः परिवारितः ।
अरण्यमागतो हन्तुं श्वापदानि विशेषतः ।। ६.२२ ।।
तत्र त्वयाऽन्यकामेन मृगवेषधरो मुनिः ।
दण्डयुग्मेन दूरे तु पातितो धरणीतले ।। ६.२३ ।।
सद्यो मृतश्च विप्रेन्द्रस्त्वं च राजन् मुदा युतः ।
हरिणोऽयं हत इति यावत् पश्यसि पार्थिव ।
तावन्मृगवपुर्विप्रो मृतः प्रस्त्रवणे गिरौ ।। ६.२४ ।।
तं दृष्ट्वा त्वं महाराज क्षुभितेन्द्रियमानसः ।
गृहं गतस्ततोऽन्यस्य कस्यचित् कथितं त्वया ।। ६.२५ ।।
ततः कतिपयाहस्य त्वया रात्रौ नरेश्वर ।
ब्रह्महत्याभयाद्भीतचितेनैतद् विचिन्तितम् ।
कृत्यं करोमि शान्त्यर्थं मुच्यते येन पातकात् ।। ६.२६ ।।
ततस्त्वया महाराज सकृन्नारायणं प्रभुम् ।
संचिन्त्य द्वादशी शुद्धा त्वया राजन्नुपोषिता ।। ६.२७ ।।
नारायणो मे सुप्रीत इति प्रोक्त्वा शुभेऽहनि ।
गौर्दत्ता विधिना सद्यो मृतोऽस्युदरशूलतः ।। ६.२८ ।।
अभुक्तो द्वादशीधर्मे यत् तत्रापि च कारणम् ।
कथयामि भवत्पत्नी नाम्ना नारायणी शुभा ।। ६.२९ ।।
सा कण्ठगेन प्राणेन व्याहृता तेन ते गतिः ।
कल्पमेकं महाराज जाता विष्णुपुरे तव ।। ६.३० ।।
अहं च तव देहस्थः सर्वं जानामि चाक्षयम् ।
ब्रह्मग्रहो महाघोरः पीडयामीति मे मतिः ।। ६.३१ ।।
तावद्विष्णोस्तु पुरुषैः किङ्करैर्मुसलैरहम् ।
प्रहतः संक्षयं यातस्ततस्ते रोमकूपतः ।
स्वर्गस्थस्यापि राजेन्द्र स्थितोऽहं स्वेन तेजसा ।। ६.३२ ।।
ततोऽहःकल्पनिर्वृत्ते रात्रिकल्पे च सत्तम ।
इदानीमादिसृष्टौ तु कृते नृपतिसत्तम ।। ६.३३ ।।
संभूतस्त्वं महाराज राज्ञः सुमनसो गृहे ।
काश्मीरदेशाधिपतेरहं चाङ्गरुहैस्तव ।। ६.३४ ।।
यज्ञैरिष्टं त्वयानेकैर्बहुभिश्चाप्तदक्षिणैः ।
न चाहं तैरपहतो विष्णुस्मरणवर्जितैः ।। ६.३५ ।।
इदानीं यत् त्वया स्तोत्रं पुण्डरीकाक्षपारकम् ।
पठितं तत्प्रभावेन विहायाङ्गरुहाण्यहम् ।
एकीभूतः पुनर्जातो व्याधरूपो नृपोत्तम ।। ६.३६ ।।
अहं भगवतः स्तोत्रं श्रुत्वा प्राक्पापमूर्त्तिना ।
मुक्तोऽस्मि धर्मबुद्धिर्मे वर्त्तते साम्प्रतं विभो ।। ६.३७ ।।
एतच्छ्रुत्वा वचो राजा परं विस्मयमागतः ।
वरेण छन्दयामास तं व्याधं राजसत्तमः ।। ६.३८ ।।
राजोवाच ।
स्मारितोऽस्मि यथा व्याध त्वया जन्मान्तरं गतम् ।
तथा त्वं मत्प्रसादेन धर्मव्याधो भविष्यसि ।। ६.३९ ।।
यश्चैतत् पुण्डरीकाक्षपारगं श्रृणुयात् परम् ।
तस्य पुष्करयात्रायां विधिस्नानफलं भवेत् ।। ६.४० ।।
श्रीवराह उवाच ।
एवमुक्त्वा ततो राजा विमानवरमास्थितः ।
परेण तेजसा योगमवापाशेषधारिणि ।। ६.४१ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे षष्ठोऽध्यायः ।। ६ ।।
धरण्युवाच ।
रैभ्योऽसौ मुनिशार्दूलः श्रुत्वा सिद्धं वसुं तदा ।
स्वयं किमकरोद् देव संशयो मे महानयम् ।। ७.१ ।।
श्रीवराह उवाच ।
स रैभ्यो मुनिशार्दूलः श्रुत्वा सिद्धं वसुं तदा ।
आजगाम गयां पुण्यां पितृतीर्थं तपोधनः ।
तत्र गत्वा पितॄन् भक्त्या पिण्डदानेन तर्पयत् ।। ७.२ ।।
ततो वै सुहमत्तीव्रं तपः परमदुश्चरम् ।
चरतस्तस्य तत्तीव्रं तपो रैभ्यस्य धीमतः ।
आजगाम महायोगी विमानस्थोऽतिदीप्तिमान् ।। ७.३ ।।
त्रसरेणुसमे शुद्धे विमाने सूर्यसन्निभे ।
परमाणुप्रमाणेन पुरुषस्तत्र दीप्तिमान् ।। ७.४ ।।
सोऽब्रवीद् रैभ्य किं कार्यं तपश्चरसि सुव्रत ।
एवमुक्त्वा दिवो भूमिं मापयामास वै पुमान् ।। ७.५ ।।
तत्रापि रथपञ्चाभं विमानं सूर्यसन्निभम् ।
युगपद् ब्रह्मभुवनं व्याप्नुवन्तं ददर्श सः ।। ७.६ ।।
ततः स विस्मयाविष्टो रैभ्यः प्रणतिपूर्वकम् ।
पप्रच्छ तं महायोगिन् को भवान् प्रब्रवीतु मे ।। ७.७ ।।
पुरुष उवाच ।
अहं रुद्रादवरजो ब्रह्मणो मानसः सुतः ।
नाम्ना सनत्कुमारेति जनलोके वसाम्यहम् ।। ७.८ ।।
भवतः पार्श्वमायातः प्रणयेन तपोधन ।
धन्योऽसि सर्वथा वत्स ब्रह्मणः कुलवर्धनः ।। ७.९ ।।
रैभ्य उवाच ।
नमोऽस्तु ते योगिवर प्रसीद
दयां मह्यं कुरुषे विश्वरूप ।
किमत्र कृत्यं वद योगिसिंह
कथं हि धन्योऽहमुक्तस्त्वया च ।। ७.१० ।।
सनत्कुमार उवाच ।
धन्यस्त्वमेव द्विजवर्यमुख्य
यद् वेदवादाभिरतः पितॄंश्च ।
प्रीणासि मन्त्रव्रतजप्यहोमै-
र्गयां समासाद्य तथाऽन्नपिण्डैः ।। ७.११ ।।
श्रृणुष्व चान्यं नृपतिर्बभूव
विशालनामा स पुरीं विशालाम् ।
उवास धन्यो धृतिमानपुत्रः
स्वयं विशालाधिपतिर्द्विजाग्र्यान् ।
पप्रच्छ पुत्रार्थममित्रसाह -
स्ते ब्राह्मणाश्चोचुरदीनसत्त्वाः ।। ७.१२ ।।
र्गत्वा गयामन्नदानैरनेकैः ।
ध्रुवं सुतस्ते भविता नृपेश
सुसंप्रदाता सकलक्षितीशः ।। ७.१३ ।।
इतीरितो ब्राह्मणैः स प्रहृष्टो
राजा विशालाधिपतिः प्रयत्नात् ।
आगत्य तेन प्रवरेण तीर्थे
मघासु भक्त्याऽथ कृतं पितॄणाम् ।। ७.१४ ।।
पिण्डप्रदानं विधिना प्रयत्ना-
ददद्वियत्युत्तममूर्तयस्तान् ।
पश्यन् स पुंसः सितपीतकृष्णा-
नुवाच राजा किमिदं भवद्भिः ।
उपेक्ष्यते शंसत सर्वमेव
कौतूहलं मे मनसि प्रवृत्तम् ।। ७.१५ ।।
सित उवाच ।
अहं सितस्ते जनकोऽस्मि तात
नाम्ना च वृत्तेन च कर्मणा च ।
अयं च मे जनको रक्तवर्णो
नृशंसकृद् ब्रह्महा पापकारी ।। ७.१६ ।।
अधीश्वरो नाम परः पिताऽस्य
कृष्णो वृत्त्या कर्मणा चापि कृष्णः ।
एतेन कृष्णेन हताः पुरा वै
जन्मन्यनेके ऋषयः पुराणाः ।। ७.१७ ।।
एतौ मृतौ द्वावपि पुत्र रौद्र-
मवीचिसंज्ञं नरकं प्रपन्नौ ।
अधीश्वरो मे जनकः परोऽस्य
कृष्णः पिता द्वावपि दीर्घकालम् ।
अहं च शुद्धेन निजेन कर्मणा
शक्रासनं प्रापितो दुर्लभं ततः ।। ७.१८ ।।
त्वया पुनर्मन्त्रविदा गयायां
पिण्डप्रदानेन बलादिमौ च ।
मेलापितौ तीर्थपिण्डप्रदान -
प्रभावतो मे नरकाश्रितावपि ।। ७.१९ ।।
पितॄन् पितामहांस्तत्र तथैव प्रपितामहान् ।
प्रीणयामीति तत्तोयं त्वया दत्तमरिंदम ।। ७.२० ।।
तेनास्मद्युगपद्योगो जातो वाक्येन सत्तम ।
तीर्थप्रभावाद् गच्छामः पितृलोकं न संशयः ।। ७.२१ ।।
अत्र पिण्डप्रदानेन एतौ तव पितामहौ ।
दुर्गतावपि संसिद्धौ पापकृद्विकृतिं गतौ ।। ७.२२ ।।
तीर्थप्रभाव एषोऽस्मिन् ब्रह्मघ्नस्यापि तत्सुतः ।
पुतः पिण्डप्रदानेन कुर्यादुद्धरणं पुनः ।। ७.२३ ।।
एतस्मात् कारणात् पुत्र अहमेतौ विगृह्य वै ।
आगतोऽस्मि भवन्तं वै द्रष्टुं यास्यामि साम्प्रतम् ।
एतस्मात् कारणाद् रैभ्य भवान् धन्यो मयोच्यते ।। ७.२४ ।।
सकृद् गयाभिगमनं सकृत्पिण्डप्रदापनम् ।
दुर्लभं त्वं पुनर्नित्यमस्मिन्नेव व्यवस्थितः ।। ७.२५ ।।
किमनु प्रोच्यते रैभ्य तव पुण्यमिदं प्रभो ।
येन साक्षाद् गदापाणिर्दृष्टो नारायणः स्वयम् ।। ७.२६ ।।
ततो गदाधरः साक्षादस्मिंस्तीर्थे व्यवस्थितः ।
अतोऽतिविख्याततमं तीर्थमेतद् द्विजोत्तम ।। ७.२७ ।।
श्रीवराह उवाच ।
एवमुक्त्वा महायोगी तत्रैवान्तरधीयत ।
रैभ्योऽपि च गदापाणेर्हरेः स्तोत्रमथाकरोत् ।। ७.२८ ।।
रैभ्य उवाच ।
गदाधरं विबुधजनैरभिष्टुतं
धृतक्षमं क्षुधितजनार्त्तिनाशनम् ।
शिवं विशालासुरसैन्यमर्दनं
नमाम्यहं हतसकलाशुभं स्मृतौ ।। ७.२९ ।।
पुराणपूर्वं पुरुषं पुरुष्टृतं
पुरातनं विमलमलं नृणां गतिम् ।
त्रिविक्रमं धृतधरणिं बलेर्हं
गदाधरं रहसि नमामि केशवम् ।। ७.३० ।।
सुशुद्धभावं विभवैरुपावृतं
श्रियावृतं विगतमलं विचक्षणम् ।
क्षितीश्वरैरपगतकिल्बिषैः स्तुतं
गदाधरं प्रणमति यः सुखं वसेत् ।। ७.३१ ।।
सुरासुरैरर्च्चितपादपङ्कजं
केयूरहाराङ्गदमौलिधारिणम् ।
अब्धौ शयानं च रथाङ्गपाणिनं
गदाधरं प्रणमति यः सुखं वसेत् ।। ७.३२ ।।
सितं कृते त्रेतायुगेऽरुणं विभुं
तथा तृतीये पीतवर्णमच्युतम् ।
कलौ घनालिप्रतिमं महेश्वरं
गदाधरं प्रणमति यः सुखं वसेत् ।। ७.३३ ।।
बीजोद्भवो यः सृजते चतुर्मुख-
स्तथैव नारायणरूपतो जगत् ।
प्रपालयेद् रुद्रवपुस्तथान्तकृद्
गदाधरो जयतु षडर्द्धमूर्तिमान् ।। ७.३४ ।।
सत्त्वं रजश्चैव तमो गुणास्त्रय-
स्त्वेतेषु नान्यस्य समुद्भवः किल ।
स चैक एव त्रिविधो गदाधरो
दधातु धैर्यं मम धर्ममोक्षयोः ।। ७.३५ ।।
संसारतोयार्णवदुःखतन्तुभि-
र्वियोगनक्रक्रमणैः सुभीषणैः ।
मज्जन्तमुच्चैः सुतरां महाप्लवे
गदाधरो मामु दधातु पोतवत् ।। ७.३६ ।।
स्वयं त्रिमूर्तिः स्वमिवात्मनात्मनि
स्वशक्तितश्चाण्डमिदं ससर्ज्ज ह ।
तस्मिञ्जलोत्थासनमार्यतेजसं
ससर्ज्ज यस्तं प्रणतोऽस्मि भूधरम् ।। ७.३७ ।।
मत्स्यादिनामानि जगत्सु केवलं
सुरादिसंरक्षणतो वृषाकपिः ।
मुख्यस्वरूपेण समन्ततो विभु-
र्गदाधरो मे विदधातु सद्गतिम् ।। ७.३८ ।।
श्रीवराह उवाच ।
एवं स्तुतस्तदा विष्णुर्भक्त्या रैभ्येण धीमता ।
प्रादुर्बभूव सहसा पीतवासा जनार्दनः ।। ७.३९ ।।
शङ्खचक्रगदापाणिर्गरुडस्थो वियद्गतः ।
उवाच मेघगम्भीरधीरवाक् पुरुषोत्तमः ।। ७.४० ।।
तुष्टोऽस्मि रैभ्य भक्त्या ते स्तुत्या च द्विजसत्तम ।
तीर्थस्नानेन च विभो ब्रूहि यत्तेऽभिवाञ्छितम् ।। ७.४१ ।।
रैभ्य उवाच ।
गतिं मे देहि देवेश यत्र ते सनकादयः ।
वसेयं तत्र येनाहं त्वत्प्रसादाद् गदाधर ।। ७.४२ ।।
देव उवाच ।
एवमस्त्विति ते ब्रह्मन्नित्युक्त्वाऽन्तरधीयत ।
भगवानपि रैभ्यस्तु दिव्यज्ञानसमन्वितः ।। ७.४३ ।।
क्षणाद् बभूव देवेन परितुष्टेन चक्रिणा ।
जगाम यत्र ते सिद्धाः सनकाद्या महर्षयः ।। ७.४४ ।।
एतच्च रैभ्यनिर्द्दिष्टं स्तोत्रं विष्णोर्गदाभृतः ।
यः पठेत् स गयां गत्वा पिण्डदानाद् विशिष्यते ।। ७.४५ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तमोऽध्यायः ।। ७ ।।
श्रीवराह उवाच ।
योऽसौ वसोः शरीरे तुव्याधो भूत्वा नृपस्य ह ।
स स्ववृत्त्यां स्थितः कालं चतुर्वर्षसहस्त्रिकम् ।। ८.१ ।।
एकैकं स्वकुटुम्बार्थे हत्वा वनचरं मृगम् ।
भृत्यातिथिहुताशानां प्रीणनं कुरुते सदा ।। ८.२ ।।
मिथिलायां वरारोहे सदा पर्वणि पर्वणि ।
पितॄणां कुरुते श्राद्धं स्वाचारेण विचक्षणः ।। ८.३ ।।
अग्निं परिचरन् नित्यं वदन् सत्यं सुभाषितम् ।
प्राणयात्रानुसक्तस्तु योऽसौ जीवं न पातयेत् ।। ८.४ ।।
एवं तु वसतस्तस्य धर्मबुद्धिर्महातपाः ।
पुत्रस्त्वर्जुनको नाम बभूव मुनिवद्वशी ।। ८.५ ।।
तस्य कालेन महता चारित्रेण च धीमतः ।
बभूवार्ज्जुनकी नाम कन्या च वरवर्णिनी ।। ८.६ ।।
तस्या यौवनकाले तु चिन्तयामास धर्मवित् ।
कस्येयं दीयते कन्या को वा योग्यश्च वै पुमान् ।। ८.७ ।।
इति चिन्तयतस्तस्य मतङ्गस्य सुतं प्रति ।
धर्मव्याधस्य सुव्यक्तं प्रसन्नाख्यं प्रति ब्रुवन् ।। ८.८ ।।
एवं संचिन्त्य मातङ्गः प्रसन्नं प्रति सोद्यतः ।
उवाच तस्य पितरं प्रसन्नायार्ज्जुनीं भवान् ।
गृहाण तपतां श्रेष्ठ स्वयं दत्तां महात्मने ।। ८.९ ।।
मतङ्ग उवाच ।
प्रसन्नोऽयं मम सुतः सर्वशास्त्रविशारदः ।
गृह्णाम्यर्जुनकीं कन्यां त्वत्सुतां व्याधसत्तम ।। ८.१० ।।
एवमुक्ते तदा कन्यां धर्मव्याधो महातपाः ।
मतङ्गपुत्राय ददौ प्रसन्नाय च धीमते ।। ८.११ ।।
धर्मव्याधस्तदा कन्यां दत्वा स्वगृहमीयिवान् ।
साऽपि श्वशुरयोर्भर्तुः शुश्रीषणपराऽभवत् ।। ८.१२ ।।
अथ कालेन महता सा कन्याऽर्जुनकी शुभा ।
उक्ता श्वश्रुवा सुता पुत्रि जीवहन्तुस्त्वमीदृशी ।
न जानासि तपश्चर्तुं भर्त्तुराराधनं तथा ।। ८.१३ ।।
साऽपि स्वल्पापराधेन भर्त्सिता तनुमध्यमा ।
पितुर्वेश्मगता बाला रोदमाना मुहुर्मुहुः ।। ८.१४ ।।
पित्रा पृष्टा किमेतत् ते पुत्रि रोदनकारणम् ।
एवमुक्ता तदा सा तु कथयामास भामिनी ।। ८.१५ ।।
श्वश्व्राऽहमुक्ता तीव्रेण कोपेन महता पितः ।
जीवहन्तुः सुतेत्युच्चैरसकृद् व्याधजेति च ।। ८.१६ ।।
एतच्छ्रुत्वा स धर्मात्मा धर्मव्याधो रुषान्वितः ।
मतङ्गस्य गृहं सोऽथ गत्वा जनपदैर्वृतम् ।। ८.१७ ।।
तस्यागतस्य संबन्धी मतङ्गो जयतां वरः ।
आसनाद्यर्ध्यपाद्येन पूजयित्वेदमब्रवीत् ।
किमागमनकृत्यं ते किं करोम्यागतक्रियाम् ।। ८.१८ ।।
व्याध उवाच ।
भोजनं किंचिदिच्छामि भोक्तुं चैतन्यवर्जितम् ।
कौतूहलेन येनाहमागतो भवतो गृहम् ।। ८.१९ ।।
मतङ्ग उवाच ।
गोधूमा व्रीमयश्चैव संस्कृता मम वेश्मनि ।
भुज्यतां धर्मविच्छ्रेष्ठ यथाकामं तपोधन ।। ८.२० ।।
व्याध उवाच ।
पश्यामि कीदृशास्ते हि गोधूमा व्रीहयो यवाः ।
स्वरूपेण च सन्त्येते येन वो वेद्मि सत्तम ।। ८.२१ ।।
श्रीवराह उवाच ।
एवमुक्ते मतङ्गेन शूर्पं गोधूमपूरितम् ।
अपरं तत्र व्रीहीणां धर्मव्याधाय दर्शितम् ।। ८.२२ ।।
दृष्ट्वा व्रीहीन् सगोधूमान् धर्मव्याधो वरासनात् ।
उत्थाय गन्तुमारेभे मतङ्गेन निवारितः ।। ८.२३ ।।
किमर्थं गन्तुमारब्धं त्वया वद महामते ।
अभुक्तेनैव संसिद्धं मद्गृहे चान्नमुत्तमम् ।
पाचयित्वा स्वयं चैव कस्मात् त्वं नाद्य भुञ्जसे ।। ८.२४ ।।
व्याध उवाच ।
सहस्त्रशः कोटिशश्च जीवान् हंसि दिने दिने ।
अथेदृशस्य पापस्य कोऽन्नं भुञ्जति सत्पुमान् ।। ८.२५ ।।
अचैतन्यं यदि गृहे विद्यतेऽन्नं सुसंस्कृतम् ।
इदानीमत्र संदृष्टा एते तु जलजन्तवः ।। ८.२६ ।।
(उप्ताः सहस्त्रतां यान्ति प्रतिसंवत्सरं मुने ।) ।। ८.२६ (१)।।
अहमेकं कुटुम्बार्थे हन्म्यरण्ये पशुं दिने ।
तं चेत् पितृभ्यः संस्कृत्य दत्त्वा भुञ्जामि सानुगः ।। ८.२७ ।।
त्वं तु जीवान् बहून् हत्वा स्वकुटुम्बेन सानुगः ।
भुञ्जन्नेतेन सततमभोज्यं तन्मतं मम ।। ८.२८ ।।
ब्रह्मणा तु पुरा सृष्टा ओषध्यः सर्ववीरुधः ।
यज्ञार्थं तत्तु भूतानां भक्ष्यमित्येव वै श्रुतिः ।। ८.२९ ।।
दिव्यो भौतस्तथा पैत्रो मानुषो ब्राह्म एव च ।
एते पञ्च महायज्ञा ब्रह्मणा निर्मिताः पुरा ।। ८.३० ।।
ब्राह्मणानां हितार्थाय इतरेषां च तन्मुखम् ।
इतरेषां तु वर्णानां ब्राह्मणैः कारिताः शुभाः ।। ८.३१ ।।
एवं यदि विभागः स्याद् वरान्नं तद् विशुध्यति ।
अन्यथा व्रीहयोऽप्येते एकैके मृगपक्षिणः ।
मन्तव्या दातृभोक्तृणां महामांसं तु तत् स्मृतम् ।। ८.३२ ।।
मया ते दुहिता दत्ता पुत्रार्थे देवरूपिणी ।
सा च त्वद्भार्यया प्रोक्ता दुहिता जन्तुघातिनः ।। ८.३३ ।।
अतोऽर्थमागतोऽहं ते गृहं प्रति समीक्षितुम् ।
आचारं देवपूजां च अतिथीनां च तर्पणम् ।। ८.३४ ।।
एतेषामेकमप्यत्र कुर्वन्नपि न दृश्यते ।
तद् गृहं गन्तुमिच्छामि पितॄणां श्राद्धकाम्यया ।। ८.३५ ।।
स्वगृहे नैव भुञ्जामि पितॄणां कार्यमित्युत ।
अहं व्याधो जीवघाती न तु त्वं लोकहिंसकः ।। ८.३६ ।।
मत्सुता जीवघातस्य यदोढा त्वत्सुतेन च ।
तन्महत्त्वं च संजातं प्रायश्चितं तपोधन ।। ८.३७ ।।
एवमुक्त्वा स चोत्थाय शप्त्वा नारीं तदा धरे ।
मा स्नुषाभिः समं श्वश्र्वा विश्वासो भवतु क्वचित् ।। ८.३८ ।।
मा च स्नुषा कदाचित् स्याद् या श्वश्रूं जीवतीमिषेत् ।
एवमुक्त्वा गतो व्याधः स्वगृहं प्रति भामिनि ।। ८.३९ ।।
ततो देवान् पितॄन् भक्तया पूजयित्वा विचक्षणः ।
पुत्रं चार्जुनकं स्थाप्य स्वसन्ताने महातपाः ।। ८.४० ।।
धर्मव्याधो जगामाशु तीर्थं त्रैलोक्यविश्रुतम् ।
पुरुषोत्तमाख्यं च परं तत्र गत्वा समाहितः ।
तपश्चचार नियतः पठन् स्तोत्रमिदं धरे ।। ८.४१ ।।
नमामि विष्णुं त्रिदशारिनाशनं
विशालवक्षस्थलसंश्रितश्रियम् ।
सुशासनं नीतिमतां परां गतिं
त्रिविक्रमं मन्दरधारिणं सदा ।। ८.४२ ।।
दामोदरं रञ्जितभूतलं धिया
यशोंशुशुभ्रं भ्रमराङ्गसप्रभम् ।
धराधरं नरकरिपुं पुरुष्टुतं
नमामि विष्णुं शरणं जनार्दनम् ।। ८.४३ ।।
(नरं नृसिंहं हरिमीश्वरं प्रभुं
त्रिधामनामानमनन्तवर्चसम् ।
सुसंस्कृतास्यं शरणं नरोत्तमं
व्रजामि देवं सततं तमच्युतम् ।। ८.४३ (१))
त्रिधा स्थितं तिग्मरथाङ्गपाणिनं
नयस्थितं तृप्तमनुत्तमैर्गुणैः ।
निःश्रेयसाख्यं क्षपितेतरं गुरुं
नमामि विष्णुं पुरुषोत्तमं त्वहम् ।। ८.४४ ।।
(हतौ पुराणौ मधुकैटभावुभौ
बिभर्त्ति च क्ष्मां शिरसा सदा हि सः ।
यथा स्तुतो मे प्रसभं सनातनो
दधातु विष्णुः सुखमूर्जितं मम ।। ८.४४ (१))
महावराहो हविषाम्बुभोजनो
जनार्दनो मे हितकृच्चितीमुखः ।
क्षितीधरो मामुदधिक्षयो महान्
स पातु विष्णुः शरणार्थिनं तु माम् ।। ८.४५ ।।
मायाततं येन जगत्त्रयं कृतं
यथाग्निनैकेन ततं चराचरम् ।
चराचरस्य स्वयमेव सर्वतः
स मेऽस्तु विष्णुः शरणं जगत्पतिः ।। ८.४६ ।।
भवे भवे यश्च ससर्ज्ज कं ततो
जगत् प्रसूतं सचराचरं त्विदम् ।
ततश्च रुद्रात्मवति प्रलीयते-
ऽन्वतो हरिर्विष्णुहरस्तथोच्यते ।। ८.४७ ।।
खात्मेन्दुपृथ्वीपवनाग्निभास्करा
जलं च यस्य प्रभवन्ति मूर्त्तयः ।
स सर्वदा मे भगवान् सनातनो
ददातु शं विष्णुरचिन्त्यरूपधृक् ।। ८.४८ ।।
इतीरिते तस्य सनातनः स्वयं
पुरो बभूवाद्भुतरूपदर्शनः ।
धरण्युवाच ।
आदौ कृतयुगे नाथ किं कृतं विश्वमूर्त्तिना ।
नारायणेन तत्सर्वं श्रोतुमिच्छामि तत्त्वतः ।। 9.1 ।।
श्रीवराह उवाच ।
पूर्वं नारायणस्त्वेको नासीत् किञ्चिद्धरेः परम् ।
सैक एव रतिं लेभे नैव स्वच्छन्दकर्मकृत् ।। 9.2 ।।
तस्य द्वितीयमिच्छन्तश्चिन्ता बुद्ध्यात्मिका बभौ ।
असावित्येव संज्ञाया क्षणं भास्करसन्निभा ।। 9.3 ।।
तस्या अपि द्विधा भूता चिन्ताऽभूद ब्रह्मवादिनी ।
उमेति संज्ञया यत्तत्सदा मर्त्ये व्यवस्थिता ।। 9.4 ।।
ओमित्येकाक्षरीभूता ससर्जेमां महीं तदा ।
भूः ससर्ज भुवं सोऽपि स्वः ससर्ज ततो महः ।। 9.5 ।।
ततश्च जन इत्येव तपश्चात्मा प्रलीयते ।
एतदोतं तथा प्रोतं सूत्रे मणिगणा इव ।। 9.6 ।।
जगत् प्रणवतो भूतं शून्यमेतत् स्थितं तदा ।
येयं मूर्तिर्भगवतः शंकरः स स्वयं हरिः ।। 9.7 ।।
शून्याँल्लोकानिमान् दृष्ट्वा सिसृक्षुर्मूर्त्तिमुत्तमाम् ।
क्षोभयित्वा मनोधाम तत्राकारः स्वमात्रतः ।। 9.8 ।।
स्थितस्तस्मिन् यदा क्षुब्धे ब्रह्माण्डमभवत्तदा ।
तस्मिंस्तु शकलीभूते भूर्लोकं च व्यवस्थितम् ।। 9.9 ।।
अपरं भुवनं प्रायान्मध्ये भास्करसन्निभम् ।
पुराणपुरुषो व्याप्य पद्मकोशे व्यवस्थितः ।। 9.10 ।।
स हि नारायणो देवः प्राजापत्येन तेजसा ।
अकाराद्यं स्वरं नाभ्यां हलं च विससर्ज ह ।। 9.11 ।।
अमूर्त्तसृष्टौ शास्त्राणि उदगायत् तदा दिशः ।
सुष्ट्वा पुनरमेयात्मा चिन्तयामास धारणम् ।। 9.12 ।।
तस्य चिन्तयतो नेत्रात् तेजः समभवन्महत् ।
दक्षिणं वह्निसङ्काशं वामं तुहिनसन्निभम् ।। 9.13 ।।
तं दृष्ट्वा चन्द्रसूर्यौ तु कल्पितौ परमेष्ठिना ।
ततः प्राणः समुत्तस्थौ वायुश्च परमेष्ठिनः ।। 9.14 ।।
स एव वायुर्भगवान् योऽद्यापि हृदिगो विभुः ।
तस्माद् वह्निः समुत्तस्थौ तस्मादग्नेर्जलं महत् ।। 9.15 ।।
य एवाग्निः स वै तेजो ब्राह्मं परमकारणम् ।
बाहुभ्यामप्यसौ तेजः क्षात्रं तेजः ससर्ज ह ।। 9.16 ।।
ऊरुभ्यामपि वैश्यांश्च पद्भ्यां शूद्रांस्तथा विभुः ।
ततस्तु ससृजे यक्षान् राक्षसांश्च तथा विभुः ।। 9.17 ।।
चतुर्विधैस्तु भूर्लोकं भुवर्लोकं वियच्चरैः ।
भूतैः स्वर्मार्गगैरन्यैः स्वर्लोकं समपूरयत् ।। 9.18 ।।
महर्लोकं तथा तैस्तैर्भूतैश्च सनकादिभिः ।
जनोलोकं ततश्चैव वैराजैः समपूरयत् ।। 9.19 ।।
तपोलोकं ततो देवस्तपोनिष्ठैरपूरयत् ।
अपुनर्मारकैर्देवैः सत्यलोकमपूरयत् ।। 9.20 ।।
सृष्टिं सृष्ट्वा तथा देवो भगवान् भूतभावनः ।
कल्पसंज्ञं स्वकं घस्त्रं जागर्ति परमेश्वरः ।। 9.21 ।।
तस्मिन् जगति भूर्लोको भुवर्लोकश्च जायते ।
स्वर्लोकश्च त्रयोऽप्येते जायन्ते नात्र संशयः ।। 9.22 ।।
सुप्ते तु देवे कल्पान्ते तावती रात्रिरिष्यते ।
त्रै लोक्यमेतत् सुप्तं स्यात् तथोपप्लवतां गतम् ।। 9.23 ।।
ततो रात्र्यां व्यतीतायामुत्थितः कमलेक्षणः ।
चिन्तयामास तान् वेदान् मातरं च चतुर्ष्वपि ।
चिन्तयानः स देवेशस्तान् वेदान् नाध्यगच्छत ।। 9.24 ।।
लोकमार्गस्थितिं कर्त्तुं निद्राज्ञानेन मोहितः ।
चिन्तयामास देवेशो नात्र वेदा व्यवस्थिताः ।। 9.25 ।।
ततः स्वमूर्तौ तोयाख्ये लीनान् दृष्ट्वा सुरेश्वरः ।
जिघृक्षुश्चिन्तयामास मत्स्यो भूत्वाविशज्जलम् ।। 9.26 ।।
एवं ध्यात्वा महामत्स्यस्तत्क्षणात् समजायत ।
विवेश च जलं देवः समन्तात् क्षोभयन्निव ।। 9.27 ।।
तस्मिन् प्रविष्टे सहसा जलं तु
महामहीधृग्वपुषि प्रकाशम् ।
मात्स्यं गते देववरे महोदधिं
हरिं स्तवैस्तुष्टुवुरुद्धृतक्षितिम् ।। 9.28 ।।
नमोऽस्तु वेदान्तरगाप्रतर्क्य
नमोऽस्तु नारायण मत्स्यरूप ।
नमोऽस्तु ते सुस्वर विश्वमूर्त्ते
नमोऽस्तु विद्याद्वयरूपधारिन् ।। 9.29 ।।
नमोऽस्तु चन्द्रार्कमरुत्स्वरूप
जलान्तविश्वस्थित चारुनेत्र ।
नमोऽस्तु विष्णोः शरणं व्रजामः
प्रपाहि नो मत्स्यतनुं विहाय ।। 9.30 ।।
त्वया ततं विश्वमनन्तमूर्त्ते
पृथग्गते किञ्चिदिहास्ति देव ।
भवान् न चास्य व्यतिरिक्तमूर्त्ति-
स्त्वत्तो वयं ते शरणं प्रपन्नाः ।। 9.31 ।।
खात्मेन्दुवह्निश्च मनश्च रूपं
पुराणमूर्त्तेस्तव चाब्जनेत्र ।
क्षमस्व शंभो यदि भक्तिहीनं
त्वया जगद्भासति देवदेव ।। 9.32 ।।
विरुद्धमेतत् तव देवरूपं
सुभीषणं सुस्वनमद्रितुल्यम् ।
पुराण देवेश जगन्निवास
शमं प्रयाह्यच्युत तीव्रभानो ।। 9.33 ।।
वयं हि सर्वे शरणं प्रपन्ना
भयाच्च ते रूपमिदं प्रपश्य ।
लोके समस्तं भवता विना तु
न विद्यते देहगतं पुराणम् ।। 9.34 ।।
एवं स्तुतस्तदा देवो जलस्थान् जगृहे च सः ।
वेदान् सोपनिषच्छास्त्रानन्तःस्थं रूपमास्थितः ।। 9.35 ।।
यावत्स्वमूर्तिर्भगवांस्तावदेव जगत् त्विदम् ।
कूटस्थे तल्लयं याति विकृतिस्थे विवर्द्धते ।। 9.36 ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे नवमोऽध्यायः ।। 9 ।।
श्रीवराह उवाच ।
एवं सृष्ट्वा जगत्सर्वं भगवान् लोकभावनः ।
विरराम ततः सृष्टिर्व्यवर्द्धत धरे तदा ।। १०.१ ।।
वृद्धायामथ सृष्टौ तु सर्वे देवाः पुरातनम् ।
नारायणाख्यं पुरुषं यजन्तो विविधैर्मखैः ।। १०.२ ।।
द्वीपेषु चैव सर्वेषु वर्षेषु च मखैर्हरिम् ।
देवाः सत्रैर्महद्भिस्ते यजन्तः श्रद्धयाऽन्विताः ।
तोषयामासुरत्यर्थं स्वं पूज्यं कर्तुमीप्सवः ।। १०.३ ।।
एवं तोषयतां तेषां बहुवर्षसहस्त्रिकम् ।
काले देवस्तदा तुष्टः प्रत्यक्षत्वं जगाम ह ।। १०.४ ।।
अनेकबाहूदरवक्त्रनेत्रो
महागिरेः श्रृङ्गमिवोल्लिखंस्तदा ।
उवाच किं कार्यमथो सुरेशो
ब्रूतां वरं देववरा वरं वः ।। १०.५ ।।
देवा ऊचुः ।
जयस्व गोविन्द महानुभाव
त्वया वयं नाथ वरेण देवाः ।
मनुष्यलोकेऽपि भवन्तमाद्यं
विहाय नास्मान्भवते ह कश्चित् ।। १०.६ ।।
रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
सर्वे भवन्तं शरणं गताः स्म
कुरुष्व पूज्यानिह विश्वमूर्ते ।। १०.७ ।।
एवमुक्तस्तदा तैस्तु महायोगेश्वरो हरिः ।
करोमि सर्वान् वः पूज्यानित्युक्त्वाऽन्तरधीयत ।। १०.८ ।।
देवा अपि निजौकांसि गतवन्तः सनातनम् ।
स्तुवन्तः परमेशोऽपि त्रिविधं भावमास्थितः ।। १०.९ ।।
एवं त्रिधा जगद्धाता भूत्वा देवान् महेश्वरः ।
आराध्य सात्त्विकं राजं तामसं च त्रिधा स्थितम् ।। १०.१० ।।
सात्त्विकेन पठेद् वेदान् यजेद् यज्ञेन देवताः ।
आत्मनोऽवयवो भूत्वा राजसेनापि केशवः ।। १०.११ ।।
स कालरूपिणं रौद्रं प्रकृत्या शूलपाणिनम् ।
आत्मनो राजसीं मूर्तिं पूजयामास भक्तितः ।
तामसेनापि भावेन असुरेषु व्यवस्थितः ।। १०.१२ ।।
एवं त्रिधा जगद्धाता भूत्वा देवान् महेश्वरः ।
आराधयामास ततो लोकोऽपि त्रिविधोऽभवत् ।। १०.१३ ।।
ब्रह्मविष्णुमहेशाननाम्ना गृह्य व्यवस्थितः ।
स च नारायणो देवः कृते युगवरे प्रभुः ।। १०.१४ ।।
त्रेतायां रुद्ररूपस्तु द्वापरे यज्ञमूर्तिमान् ।
कलौ नारायणो देवो बहुरूपो व्यजायत ।। १०.१५ ।।
तस्यादिकृत्ततो विष्णोश्चरितं भूरितेजसः ।
श्रृणुष्व सर्वं सुश्रोणि गदतो मम भामिनि ।। १०.१६ ।।
आसीत् कृतयुगे राजा सुप्रतीको महाबलः ।
तस्य भार्याद्वयं चासीदविशिष्टं मनोरमम् ।। १०.१७ ।।
विद्युत्प्रभा कान्तिमती तयोरेते तु नामनी ।
तयोः पुत्रं समं राजा न लेभे यत्नवानपि ।। १०.१८ ।।
यदा तदा मुनिश्रेष्ठमात्रेयं वीतकल्मषम् ।
तोषयामास विधिना चित्रकूटे नगोत्तमे ।। १०.१९ ।।
सक ऋषिस्तोषितस्तेन दीर्घकालं वरार्थिना ।
वरं दिदित्सया यावदब्रवीदत्रिजो मुनिः ।। १०.२० ।।
तावदिन्द्रोऽपि करिणा गतः पार्श्वेन तस्य ह ।
देवसैन्यैः परिवृतस्तूष्णीमेव महाबलः ।। १०.२१ ।।
तं दृष्ट्वाऽन्तर्गतप्रीतिमप्रीतिं प्रीतवान् मुनिः ।
चुकोप देवराजाय शापमुग्रं ससर्ज ह ।। १०.२२ ।।
यस्मात् त्वया ममावज्ञा कृता मूढ दिवस्पते ।
ततस्त्वं चालितो राज्यादन्यलोके वसिष्यसि ।। १०.२३ ।।
एवमुक्त्वाऽपि कोपेन सुरेशं तं च भूपतिम् ।
उवाच राजन् पुत्रस्ते भविता दृढविक्रमः ।। १०.२४ ।।
इन्द्ररूपोपमः श्रीमानुद्यच्छस्त्रः प्रतापवान् ।
विद्याप्रभावकर्म्मज्ञः क्रूरकर्मा भविष्यति ।
दुर्जयोऽतिबली राजा एवमुक्त्वा गतो मुनिः ।। १०.२५ ।।
सोऽपि राजा सुप्रतीको भार्यायां गर्भमावहत् ।
विद्युत्प्रभायां धर्मज्ञः साऽपि काले त्वसूयत ।। १०.२६ ।।
तस्याः पुत्रः समभवद् दुर्जयाख्यो महाबलः ।
जातकर्मादिसंस्कारं तस्य चक्रे मुनिः स्वयम् ।
(दुर्वासा नाम तपसो तस्य देहमकल्मषः ।। १०.२७ ।।)
तस्य चेष्टेर्बलेनासौ मुनेः सौम्यो बभूव ह ।
वेदशास्त्रार्थविद्यायां पारगो धर्मवान् शुचिः ।। १०.२८ ।।
या द्वितीयाऽभवत् पत्नी तस्य राज्ञो महात्मनः ।
नाम्ना कीर्त्तिमती धन्या तस्याः पुत्रो बभूव ह ।
नाम्ना सुद्युम्न इत्येवं वेदवेदाङ्गपारगः ।। १०.२९ ।।
अथ कालेन महता स राजा राजसत्तमः ।
सुप्रतीकः सुतं दृष्ट्वा दुर्जयं योग्यमन्तिके ।। १०.३० ।।
आत्मनो वृद्धभावं च वाराणस्याधिपो बली ।
चिन्तयामास राज्यार्थं दुर्जयं प्रति भामिनि ।। १०.३१ ।।
एवं संचिन्त्य धर्मात्मा तस्य राज्यं ददौ नृपः ।
स्वयं च चित्रकूटाख्यं पर्वतं स जगाम ह ।। १०.३२ ।।
दुर्जयोऽपि महद्राज्यं हस्त्यश्वरथवाजिभिः ।
संयोज्य चिन्तयामास राज्यवृद्धिं प्रति प्रभुः ।। १०.३३ ।।
एवं संचिन्त्य मेधावी हस्त्यश्वरथपत्तिभिः ।
समेतां वाहिनीं कृत्वा उत्तरां दिशमाश्रितः ।
तस्य चोत्तरतो देशाः सर्वे सिद्धा महात्मनः ।। १०.३४ ।।
भारताख्यमिदं वर्षं साधयित्वा सुदुर्जयः ।
ततः किंपुरुषं नाम वर्षं तेनापि साधितम् ।। १०.३५ ।।
ततः परतरं चान्यद्धरिवर्षं जिगाय सः ।
रम्यं हिरण्मयं चापि कुरुभद्राश्वमेव च ।
इलावृतं मेरुमध्यमेतत् सर्वं जिगाय सः ।। १०.३६ ।।
जित्वा जम्ब्वाख्यमेतद्धि द्वीपं यावदसौ नृपः ।
जगाम देवराजानं जेतुं सर्वसुरान्वितम् ।। १०.३७ ।।
मेरुपर्वतमारुह्य देवगन्धर्वदानवान् ।
गुह्यकान् किं नरान् दैत्यांस्ततो ब्रह्मसुतो मुनिः ।
नारदो दुर्जयजयं देवराजाय शंसत ।। १०.३८ ।।
तत इन्द्रस्त्वरायुक्तो लोकपालैः समन्वितः ।
जगाम दुर्जयं हन्तुं सोऽचिरेणास्त्रनिर्ज्जितम् ।
विहाय पर्वतं मेरुं मर्त्यलोकमिहागतः ।। १०.३९ ।।
पूर्वदेशे च देवेन्द्रो लोकपालैः समं प्रभुः ।
स्थितवांस्तस्य सुमहच्चरितं संभविष्यति ।। १०.४० ।।
दुर्जयश्च सुराञ्जित्वा यावत् प्रतिनिवर्त्तते ।
गन्धमादनपृष्ठे तु स्कन्धावारनिवेशनम् ।
कृत्वाऽवस्थितसंभारमागतं तापसौ तु तम् ।। १०.४१ ।।
तावगतावथाब्रूतां राजन् दुर्ज्जय लोकपाः ।
निवारितास्त्वया सर्वं लोकपालैर्विना जगत् ।
न प्रवर्त्तत तस्मान् नौ देहि तत्पदमुत्तमम् ।। १०.४२ ।।
एवमुक्ते ततस्तौ तु दुर्ज्जयः प्राह धर्मवित् ।
कौ भवन्ताविति ततस्तावूचतुररिंदमौ ।
विद्युत्सुविद्युन्नामानावसुराविति मानद ।। १०.४३ ।।
त्वया सम्प्रति चेच्छामो धर्म्यं सत्सु सुसंस्कृतौ ।
लोकपालमतं सर्वमावां कुर्म सुदुर्जय ।। १०.४४ ।।
एवमुक्ते दुर्ज्जयेन तौ स्वर्गे सन्निवेशितौ ।
लौकपालौ कृतौ सद्यस्ततोऽन्तर्धानं जग्मतुः ।। १०.४५ ।।
तयोरपि महत्कर्म चरितं च धराधरे ।
भविष्यति महाराजो दुर्जयो मन्दरोपरि ।। १०.४६ ।।
धनदस्य वनं दिव्यं दृष्ट्वा नन्दनसन्निभम् ।
मुदा बभ्राम रम्येऽस्मिन् स यावद्राजसत्तमः ।। १०.४७ ।।
तावत्सुवर्णवृक्षाधः कन्याद्वयमपश्यत ।
अतीवरूपसंपन्नमतीवाद्भुतदर्शनम् ।। १०.४८ ।।
दृष्ट्वा तु विस्मयाविष्टः क इमे शुभलोचने ।
एवं संचिन्त्य यावत् स क्षणमेकं व्यवस्थितः ।
तस्मिन् वने तावदुभौ तापसौ सोऽवलोकयत् ।। १०.४९ ।।
तौ दृष्ट्वा सहसा राजा ययौ प्रीत्या परां मुदम् ।
अवतीर्य द्विपात् तूर्णं नमश्चक्रे तयोः स्वयम् ।। १०.५० ।।
उपविष्टः स ताभ्यां तु कौश्ये दत्ते वरासने ।
पृष्टः कस्त्वं कुतश्चासि कस्य वा किमिह स्थितः ।। १०.५१ ।।
तौ प्रहस्याब्रवीद् राजा सुप्रतीकेति विश्रुतः ।
तस्य पुत्रः समुत्पन्नो दुर्जयो नाम नामतः ।। १०.५२ ।।
पृथिव्यां सर्वराजानो जिगीषन्निह सत्तमौ ।
आगतोऽस्मि ध्रुवं चैव स्मर्त्तव्योऽहं तपोधनौ ।
भवन्तौ कौ समाख्यातं ममानुग्रहकाङ्क्षया ।। १०.५३ ।।
तापसावूचतुः ।
आवां हेतृप्रहेत्राख्यौ मनोः स्वायंभुवः सुतौ ।
आवां देवविनाशाय गतौ स्वो मेरुपर्वतम् ।। १०.५४ ।।
तत्रावयोर्महासैन्यं गजाश्वरथसंकुलम् ।
जिगाय सर्वदेवानां शतशोऽथ सहस्त्रशः ।। १०.५५ ।।
ते च देवा महत्सैन्यं दृष्ट्वा सर्वं निपातितम् ।
असुरैरुज्झितप्राणं ततस्ते शरणं गताः ।। १०.५६ ।।
क्षीराब्धौ यत्र देवेशो हरिः शेते स्वयं प्रभुः ।
तत्र विज्ञापयामासुः सर्वे प्रणतिपूर्वकम् ।। १०.५७ ।।
देवदेव हरे सर्वं सैन्यं त्वसुरसत्तमैः ।
पराजितं परित्राहि भीतं विह्वल्लोचनम् ।। १०.५८ ।।
त्वया देवासुरे युद्धे पूर्वं त्राताः स्म केशव ।
सहस्त्रबाहोः क्रूरस्य समरे कालनेमिनः ।। १०.५९ ।।
इदानीमपि देवेश असुरौ देवकण्टकौ ।
हेतृप्रहेतृनामानौ बहुसैन्यपरिच्छदौ ।
तौ हत्वा त्राहि नः सर्वान् देवदेव जगत्पते ।। १०.६० ।।
एवमुक्तस्ततो देवो विष्णुर्नारायणः प्रभुः ।
अहं यास्यामि तौ हन्तुमित्युवाच जगत्पतिः ।। १०.६१ ।।
एवमुक्तास्ततो देवा मेरुपर्वतसन्निधौ ।
प्रतस्थुस्तेऽथ मनसा चिन्तयन्तो जनार्दनम् ।। १०.६२ ।।
तैः संचिन्तितमात्रस्तु देवश्चक्रगदाधरः ।
आवयोः सैन्यमाविश्य एक एव महाबलः ।। १०.६३ ।।
एकधा दशधात्मानं शतधा च सहस्त्रधा ।
लक्षधा कोटिधा कृत्वा स्वभूत्या च जगत्पतिः ।। १०.६४ ।।
एवं स्थिते देववरे अस्मत्सैन्ये महाबलः ।
यः कश्चिदसुरो राजन्नावयोर्बलमाश्रितः ।
स हतः पतितो भूमौ दृश्यते गतचेतनः ।। १०.६५ ।।
एवं तत् सहसा सैन्यं मायया विश्वमूर्तिना ।
निहतं साश्वकलिलं पत्तिद्विपसमाकुलम् ।। १०.६६ ।।
चतुरङ्गं बलं सर्वं हत्वा देवो रथाङ्गधृक् ।
आवां शोषावथो दृष्ट्वा गतोऽन्तर्द्धानमीश्वरः ।। १०.६७ ।।
आवयोरीदृशं कर्म दृष्टं देवस्य शार्ङ्गिणः ।
ततस्तमेव शरणं गतावाराधनाय वै ।। १०.६८ ।।
त्वं चास्मन्मित्रतनयः सुप्रतीकात्मजो नृप ।
इमे च आवयोः कन्ये गृहाण मनुजेश्वर ।
हेतृकन्या सुकेशी तु मिश्रकेशी प्रहेतृणः ।। १०.६९ ।।
दुर्जयस्त्वेवमुक्तस्तु हेतृणा ते उभे शुभे ।
कन्ये जग्राह धर्मेण भार्यार्थं मनुजेश्वरः ।। १०.७० ।।
ते लब्ध्वा सहसा राजा मुदा परमया युतः ।
आजगाम स्वकं राष्ट्रं निजसैन्यसमावृतः ।। १०.७१ ।।
ततः कालेन महता तस्य पुत्रद्वयं बभौ ।
सुकेश्याः सुप्रभः पुत्रो मिश्रकेश्याः सुदर्शनः ।। १०.७२ ।।
स राजा दुर्जयः श्रीमाँल्लब्ध्वा पुत्रद्वयं शुभम् ।
स्वयं कालान्तरे श्रीमाञ्जगामारण्यमन्तिके ।। १०.७३ ।।
तत्रस्थो वनजातीर्हि बधयन् वै भयंकराः ।
ददर्शारण्यमाश्रित्य मुनिं स्थितमकल्मषम् ।। १०.७४ ।।
तपस्यन्तं महाभागं नाम्ना गौरमुखं शुभम् ।
ऋषिवृन्दस्य गोप्तारं त्रातारं पापिनः स्वयम् ।। १०.७५ ।।
तस्याश्रमे विमलजलाविलेमरु-
त्सुगन्धिवृक्षप्रवरे द्विजन्मनः ।
रराज जीमूत इवाम्बरान्मही-
मुपागतः प्रवरविमानवद् गृहः ।। १०.७६ ।।
ज्वलनमखाग्निप्रतिभाषिताम्बरः
सुशुद्धसंवासितवेशकुट्टकः ।
शिष्यैः समुच्चारितसामनादकः
सुरूपयोषिदृषिकन्यकाकुलः ।
इतीदृशोऽस्यावसाथो वराश्रमे
सुपुष्पिताशेषतरुप्रसूनः ।। १०.७७ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे दशमोऽध्यायः ।। १० ।।
श्रीवराह उवाच ।
ततस्तमीदृशं दृष्ट्वा तदा गौरमुखाश्रमम् ।
दुर्ज्जयश्चिन्तयामास रम्यमाश्रममण्डलम् ।। ११.१ ।।
प्रविशाम्यत्र पश्यामि ऋषीन् परमधार्मिकान् ।
चिन्तयित्वा तदा राजा प्रविवेश तमाश्रमम् ।। ११.२ ।।
तस्य प्रविष्टस्य ततो राज्ञः परमहर्षितः ।
चकार पूजां धर्मात्मा तदा गौरमुखो मुनिः ।। ११.३ ।।
स्वागतादिक्रियाः कृत्वा कथान्ते तं महामुनिः ।
स्वशक्त्याऽहं नृपश्रेष्ठ सानुगस्य च भोजनम् ।। ११.४ ।।
करिष्यामि प्रमुच्यन्तां साधु वाहा इति द्विजः ।
एवमुक्त्वा स्थितस्तूष्णीं स मुनिः संशितव्रतः ।। ११.५ ।।
राजाऽपि तस्थौ तद्भक्त्या स्वसहायैः समन्वितः ।
अक्षौहिण्यो बलस्यास्य पञ्चमात्रास्तदा स्थिताः ।
अयं च तापसः किं मे दास्यते भोजनं त्विह ।। ११.६ ।।
निमन्त्र्य दुर्जयं विप्रस्तदा गौरमुखो नृपम् ।
चिन्तयामास किं चास्य मया देयं तु भोजनम् ।। ११.७ ।।
एवं चिन्तयतस्तस्य महर्षेर्भावितात्मनः ।
स्थितो मनसि देवेशो हरिर्नारायणः प्रभुः ।। ११.८ ।।
ततः संस्मृत्य मनसा देवं नारायणं तदा ।
तोषयामास गङ्गायां प्रविश्य मुनिसत्तमः ।। ११.९ ।।
धरण्युवाच ।
कथं गौरमुखो विष्णुं तोषयामास भूधर ।
एतन्मे कौतुकं श्रोतुं सम्यगिच्छा प्रवर्त्तते ।। ११.१० ।।
नमोऽस्तु विष्णवे नित्यं नमस्ते पीतवाससे ।
नमस्ते चाद्यरूपाय नमस्ते जलरूपिणे ।। ११.११ ।।
नमस्ते सर्वसंस्थाय नमस्ते जलशायिने ।
नमस्ते क्षितिरूपाय नमस्ते तेजसात्मने ।। ११.१२ ।।
नमस्ते वायुरूपाय नमस्ते व्योमरूपिणे ।
त्वं देवः सर्वभूतानां प्रभुस्त्वमसि हृच्छयः ।। ११.१३ ।।
त्वमोङ्कारो वषट्कारः सर्वत्रैव च संस्थितः ।
त्वमादिः सर्वदेवानां तव चादिर्न विद्यते ।। ११.१४ ।।
त्वं भूस्त्वं च भुवो देव त्वं जनस्त्वं महः स्मृतः ।
त्वं तपस्त्वं च सत्यं च त्वयि देव चराचरम् ।। ११.१५ ।।
त्वत्तो भूतमिदं विश्वं त्वदुद्भूता ऋगादयः ।
त्वत्तः शास्त्राणि जातानि त्वत्तो यज्ञाः प्रतिष्ठिताः ।। ११.१६ ।।
त्वत्तो वृक्षा वीरुधश्च त्वत्तः सर्वा वनौषधीः ।
पशवः पक्षिणः सर्पास्त्वत्त एव जनार्दन ।। ११.१७ ।।
ममापि देवदेवेश राजा दुर्जयसंज्ञितः ।
आगतोऽभ्यागतस्तस्य आतिथ्यं कर्त्तुमुत्सहे ।। ११.१८ ।।
तस्य मे निर्धनस्याद्य देवदेव जगत्पते ।
भक्तिनम्रस्य देवेश कुरुष्वान्नाद्यसंचयम् ।। ११.१९ ।।
यं यं स्पृशामि हस्तेन यं यं पश्यामि चक्षुषा ।
वृक्षं वा तृणकन्दं वा तत्तदन्नं चतुर्विधम् ।। ११.२० ।।
तथा त्वन्यतमं वाऽपि यद् ध्यातं मनसा मया ।
तत् सर्वं सिद्ध्यतां मह्यं नमस्ते परमेश्वर ।। ११.२१ ।।
इति स्तुत्या तु देवेशस्तुतोष जगतां पतिः ।
मुनेस्तस्य स्वकं रूपं दर्शयामास केशवः ।। ११.२२ ।।
उवाच सुप्रसन्नात्मा ब्रूहि विप्र वरं परम् ।
एवं श्रुत्वाऽक्षिणी यावदुन्मीलयति वै मुनिः ।। ११.२३ ।।
तदा शङ्खगदापाणिः पीतवासा जनार्दनः ।
गरुडस्थोऽपि तेजस्वी द्वादशादित्यसप्रभः ।। ११.२४ ।।
दिवि सूर्यसहस्त्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ।। ११.२५ ।।
तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा ।
ददर्श स मुनिर्देवि विस्मयोत्फुल्ललोचनः ।। ११.२६ ।।
जगाम शिरसा देवं कृताञ्जलिरथाब्रवीत् ।
यदि मे वरदो देवो भूयाद् भक्तस्य केशव ।। ११.२७ ।।
इदानीमेष नृपतिर्यथा सबलवाहनः ।
ममाश्रमे कृताहारः श्वः प्रयाता स्वकं गृहम् ।। ११.२८ ।।
इत्युक्तस्तस्य देवेशो वरदः संबभूव ह ।
चित्तसिद्धिं ददौ तस्मै मणिं च सुमहाप्रभम् ।। ११.२९ ।।
तं दत्त्वाऽन्तर्दधे देवः स च गौरमुखो मुनिः ।
जगाम चाश्रमं पुण्यं नाना ऋषिनिषेवितम् ।। ११.३० ।।
तत्र गत्वा स विप्रेन्द्रश्चिन्तयमास वै मुनिः ।
हिमवच्छिखराकारं महाभ्रमिव चोन्नतम् ।
शशाङ्करश्मिसङ्काशं गृहं वै शतभूमिकम् ।। ११.३१ ।।
तादृशानां सहस्त्राणि लक्षकोट्यश्च सर्वशः ।
गृहाणि निर्ममे विप्रो विष्णोर्लब्धवरस्तदा ।। ११.३२ ।।
प्राकाराणि ततोपान्ते तल्लग्नोद्यानकानि च ।
कोकिलाकुलघुष्टानि नानाद्विजवराणि च ।
चम्पकाशोकपुन्नागनागकेशरवन्ति च ।। ११.३३ ।।
नानाजात्यस्तथा वृक्षा गृहोद्यानेषु सर्वशः ।
हस्तिनां हस्तिशालाश्च तुरगाणां च मन्दुराः ।। ११.३४ ।।
चकार संचयान् विप्रो नानाभक्ष्याणि सर्वशः ।
भक्ष्यं भोज्यं तथा लेह्यं चोष्यं बहुविधं तथा ।
चकारान्नाद्यनिचयं हेमपात्र्यश्च सर्वतः ।। ११.३५ ।।
एवं कृत्वा स विप्रस्तु राजानं भूरितेजसम् ।
उवाच सर्वसैन्यानि प्रविशन्तु गृहानिति ।। ११.३६ ।।
एवमुक्तस्ततो राजा तद्गृहं पर्वतोपमम् ।
प्रविवेशान्तरेष्वन्ये भृत्या विविशुराशु वै ।। ११.३७ ।।
ततस्तेषु प्रविष्टेषु तदा गौरमुखो मुनिः ।
प्रगृह्य तं मणिं दिव्यं राजानं चेदमब्रवीत् ।। ११.३८ ।।
मज्जनाभ्यवहारार्थं पथि श्रमकृते तथा ।
विलासिनीस्तथा दासान् प्रेषयिष्यामि ते नृप ।। ११.३९ ।।
एवमुक्त्वा स विप्रेन्द्रस्तं मणिं वैष्णवं शुभम् ।
एकान्ते स्थापयामास राज्ञस्तस्य प्रपश्चतः ।। ११.४० ।।
तस्मिन् स्थापितमात्रे तु मणौ शुद्धसमप्रभे ।
निश्चेरुर्योषितस्तत्र दिव्यरूपाः सहस्त्रशः ।। ११.४१ ।।
सुकुमाराङ्गरागाद्याः सुकुमारवराङगनाः ।
सुकपोलाः सुचार्व्यङ्ग्यः सुकेशान्ताः सुलोचनाः ।
काश्चित्सौवर्णपात्रीश्च गृहीत्वा संप्रतस्थिरे ।। ११.४२ ।।
एवं योषिद्गणास्तत्र नराः कर्मकरास्तथा ।
निर्जग्मुस्तस्य नृपतेः सर्वे भृत्या नृपस्य ह ।
केवलं भोजनं पूर्वं परिधानं च सर्वशः ।। ११.४३ ।।
ताः स्त्रियः सर्वभृत्यानां राजमार्गेण मज्जनम् ।
ददुस्ते च नराश्वानां हस्तिनां च त्वरान्विताः ।। ११.४४ ।।
नानाविधानि तूर्याणि तत्रावाद्यन्त सर्वशः ।
मज्जने नृपतेस्तत्र ननृतुश्चान्ययोषितः ।
अपराश्च जगुस्तत्र शक्रस्येव प्रमज्जतः ।। ११.४५ ।।
एवं दिव्योपचारेण स्नात्वा राजा महामनाः ।
चिन्तयामास राजेन्द्रो विस्मयाविष्टचेतनः ।
किमिदं मुनिसामर्थ्यं तपसो वाऽथ वा मणेः ।। ११.४६ ।।
एवं स्नात्वा शुभे वस्त्रे परिधायोत्तमे तथा ।
विविधान्नं तु विधिना बुभुजे स नृपोत्तमः ।। ११.४७ ।।/50
यथा च नृपतेः पूजा कृता तेन महर्षिणा ।
तद्वद् भृत्यजनस्यापि चकार मुनिसत्तमः ।। ११.४८ ।।
यावत् स राजा बुभुजे सभृत्यबलवाहनः ।
तावदस्तगिरिं भानुर्जगामारुणसप्रभः ।। ११.४९ ।।
ततस्तु रात्रिः समपद्यताऽधुना
शरच्छशाङ्कोज्ज्वलऋक्षमण्डिता ।
करोति रागं स च रोहिणीधवः
सुसङ्गतं सौम्यगुणेषु तापि च ।। ११.५० ।।
भृगूद्वहः कृष्णतरांशुभानुना
सहोद्यतो दैत्यगुरुः सुराधिपः ।
अथान्तरात्पक्षगतो न राजते
स्वभावयोगेन मतिस्तु देहिनाम् ।। ११.५१ ।।
सुरक्ततां भूमिसुतश्च मुञ्चते
राहुः सिती चन्द्रमसोंशुभिः सितैः ।
मुक्तः स्वभावो जगतः सुरासुरै-
रनुस्वभावो बलवान् सुकृन्नृपः ।। ११.५२ ।।
सितेश्वराख्यापितरश्मिमण्डले
सूर्यत्वसिद्धान्तकषेव निर्मले ।
करोति केतुर्न परे महत्तम-
स्तदा कुशीलेषु गतिश्च निर्मला ।। ११.५३ ।।
बुधोच्चबुद्धिर्जगतो विभावयन्
रराज राज्ञो तनयः स्वकर्मभिः ।
भृतेच्छकः कक्षविवाहितश्चिरं
भवेदियं साधुषु सम्मितिर्ध्रुवम् ।। ११.५४ ।।
करोति केतुः कपिलं वियच्चिरं
राज्ञः सुराणां पथि संस्थितं भृशम् ।
न दुर्जनः सज्जनसंसदि क्वचित्
करोति शुद्धं निजकर्मकौशलम् ।। ११.५५ ।।
शशाङ्करश्मिप्रविभासिता अपि
प्रकाशमीयुर्निरताः पदे पदे ।
कुलंभवाः संभवधर्मपत्तयो
महांशुयोगान्महतां समुन्नतिम् ।। ११.५६ ।।
त्रिदोषसक्तान्निकृतोऽस्य सर्वशः
सुतेन राज्ञो वरुणस्य सूर्यजः ।
विराजते कौशिकसन्निवेशिता
न वेदकर्म क्वचिदन्यथा भवेत् ।। ११.५७ ।।
द्वन्द्वः समेतान् मम यः शिशुः पुरा
हरिर्य आराधितवान् नृपासनम् ।
लक्ष्म्यापि बुद्ध्या सुचिरं प्रकाशते
ध्रुवेण विष्णुस्मरणेन दुर्लभम् ।। ११.५८ ।।
इतीदृशी रात्रिरभूदृषेः शुभे
वराश्रमे दुर्जयभूपतेः शुभा ।
सभृत्यसामन्तवराश्वदन्तिनः
सुभक्तवस्त्राभरणादिपूजया ।। ११.५९ ।।
इतीदृशायां वररत्नचित्रिताः
सुपट्टसंवीतवरास्तृतास्तदा ।
गृहेषु पर्यङ्कवराः समाश्रिताः
सुरूपयोषित्कृतभङ्गभासुराः ।। ११.६० ।।
स तत्र राजा विससर्ज भूभृतः
स्वयं सभृत्यानपि सर्वतो गृहान् ।
गतेषु सुष्वाप वरस्त्रिया वृतः
सुरेशवत्स्वर्गगतः प्रतापवान् ।। ११.६१ ।।
एवं सुमनसस्तस्य सभृत्यस्य महात्मनः ।
ऋषेस्तस्य प्रभावेन हृष्टास्तु सुषुपुस्तदा ।। ११.६२ ।।
ततो रात्र्यां व्यतीतायां स राजा ताः स्त्रियः पुनः ।
अन्तर्द्धानं गतास्तत्र दृष्ट्वा तानि गृहाणि च ।। ११.६३ ।।
अदृश्यानि महार्हाणि वरासनजलानि च ।
राजा स विस्मयाविष्टश्चिन्तयामास दुःखितः ।। ११.६४ ।।
कथमेवं मणिर्मह्यं भवतीति पुनः पुनः ।
चिन्तयन्नधिगम्याथ स राजा दुर्जयस्तदा ।। ११.६५ ।।
चिन्तामणिमिमं चास्य हरामीति विचिन्त्य सः ।
प्रयाणं नोदयामास स राजाश्रमबाह्यतः ।
आश्रमस्य बहिर्गत्वा नातिदूरे सवाहनः ।। ११.६६ ।।
ततो विरोचनाख्यं वै प्रेषयामास मन्त्रिणम् ।
ऋषेर्गौरमुखस्यापि मणेर्याचनकर्मणि ।। ११.६७ ।।
ऋषिं तं च समागत्य मणिं याचितुमुद्यतः ।
रत्नानां भाजनं राजा मणिं तस्मै प्रदीयताम् ।। ११.६८ ।।
अमात्येनैवमुक्तस्तु क्रुद्धो गौरमुखोऽब्रवीत् ।
प्रतिगृह्णाति विप्रस्तु राजा चैव ददाति च ।
त्वं च राजा पुनर्भूत्वा याचसे दीनवत् कथम् ।। ११.६९ ।।
एवं ब्रूहि दुराचारं राजानं दुर्जयं स्वयम् ।
गच्छ द्रुतं दुराचार मा त्वां लोकोऽत्यगादिति ।। ११.७० ।।
(एवमुक्त्वा मुनिः प्रागात् कुशेध्माहरणाय वै ।
चिन्तयन् मनसा तं च मणिं शत्रुविनाशनम् ) ।। ११.७१ ।।
एवमुक्तस्तदा दूतो जगाम च नृपान्तिकम् ।
कथयामास तत्सर्वं यदुक्तं ब्राह्मणेन च ।। ११.७२ ।।
ततः क्रोधपरीतात्मा श्रुत्वा ब्राह्मणभाषितम् ।
दुर्जयः प्राह नीलाख्यं सामन्तं गच्छ माचिरम् ।
ब्राह्मणस्य मणिं गृह्य तूर्णमेहि यदृच्छया ।। ११.७३ ।।
एवमुक्तस्तदा नीलो बहुसेनापरिच्छदः ।
जगाम स च विप्रस्य वन्यमाश्रममण्डलम् ।। ११.७४ ।।
तत्राग्निहोत्रशालायां दृष्ट्वा तं मणिमाहितम् ।
उत्तीर्य स्यन्दनान्नीलः सोऽवरोहत भूतले ।। ११.७५ ।।
अवतीर्णे ततस्तस्मिन् नीले परमदारुणे ।
क्रूरबुद्ध्या मणेस्तस्मान्निर्जग्मुः शस्त्रपाणयः ।। ११.७६ ।।
सरथाः सध्वजाः साश्वाः सबाणाः सासिचर्मिणः ।
सधनुष्काः सतूणीरा योधाः परमदुर्जयाः ।
निश्चेरुस्तं मणिं भित्वा असंख्येया महाबलाः ।। ११.७७ ।।
तत्र सज्जा महाशूरा दश पञ्च च संख्यया ।
नामभिस्तान् महाभागे कथयामि श्रृणुष्व तान् ।। ११.७८ ।।
सुप्रभो दीप्ततेजाश्च सुरश्मिः शुभदर्शनः ।
सुकान्तिः सुन्दरः सुन्दः प्रद्युम्नः सुमनाः शुभः ।। ११.७९ ।।
सुशीलः सुखदः शम्भुः सुदान्तः सोम एव च ।
एते पञ्चदश प्रोक्ता नायका मणितोत्थिताः ।। ११.८० ।।
ततो विरोचनं दृष्ट्वा बहुसैन्यपरिष्कृतम् ।
योधयामासुरव्यग्रा विविधायुधपाणयः ।। ११.८१ ।।
धनूंषि तेषां कनकप्रभाणि
शरान् सुजाम्बूनदपुङ्खनद्धान् ।
पतन्ति खङ्गानि विभीषणानि
भुशुण्डिशूलाः परमप्रधानाः ।। ११.८२ ।।
रथो रथं संपरिवार्य तस्थौ
गजो गजस्यापि हयो हरस्य ।
पदातिरत्युग्रपराक्रमश्च
पदातिमेव प्रससार चाग्र्यम् ।। ११.८३ ।।
द्वन्द्वन्यनेकानि तथैव युद्धे
द्रवन्ति शूराः परिभर्त्सयन्तः ।
विभीषणं निर्गतचापमार्गं
बभूव बाहुप्रभवं सुघोरम् ।। ११.८४ ।।
तथा प्रवृत्ते तुमुलेऽथ युद्धे
हतः स राज्ञः सचिवो विसंज्ञः ।
सहानुगः सर्वबलैरुपेतो
जगाम वैवस्वतमन्दिराय ।। ११.८५ ।।
तस्मिन् हते दुर्जयराजमन्त्रिणि
उपाययौ स्वेन बलेन राजा ।
स दुर्जयः साश्वरथोऽतितीव्रः
प्रतापवांस्तैर्मणिजैर्युयोध ।। ११.८६ ।।
ततस्तस्मिंस्तदा राज्ञो महत्कदनमाबभौ ।
ततो हेतुप्रहेतृभ्यां श्रुत्वा जामातरं रणे ।। ११.८७ ।।
युध्यमानं महाबाहुं ततस्त्वाययतुश्चमूः ।
तस्मिन् बले तु दैत्या ये तान् श्रृणुष्व धरेरितान् ।। ११.८८ ।।
प्रघसो विघसश्चैव सङ्घसोऽशनिसप्रभः ।
विद्युत्प्रभः सुघोषश्च उन्मत्ताक्षो भयंकरः ।। ११.८९ ।।
अग्निदन्तोऽग्नितेजाश्च बाहुशक्रः प्रतर्दनः ।
विराधो भीमकर्मा च विप्रचित्तिस्तथैव च ।। ११.९० ।।
एते पञ्चदश श्रेष्ठा असुराः परमायुधाः ।
अक्षौहिणीपरीवार एकैकोऽत्र पृथक्पृथक् ।। ११.९१ ।।
महामायास्तु समरे दुर्ज्जयस्य महात्मनः ।
युयुधुर्मणिजैः सार्द्धं महासैन्यपरिच्छदाः ।। ११.९२ ।।
(सुप्रभः प्रघसं त्वाजौ ताडयामास पञ्चभिः ।
शरैराशीविषाकारैः प्रतप्तैः पतगैरिव ।। ) ।। ११.९३ ।।
तप्ततेजास्त्रिभिर्बाणैर्विघसं संप्रविध्यत ।
संघसं दशभिर्बाणैः सुरश्मिः प्रत्यविध्यत ।। ११.९४ ।।
अशनिप्रभं रणेऽविध्यत् पञ्चभिः शुभदर्शनः ।
विद्युत्प्रभं सुकान्तिस्तु सुघोषं सुन्दरस्तथा ।। ११.९५ ।।
उन्मत्ताक्षं तथाविध्यत् सुन्दः पञ्चभिराशुगैः ।
चकर्त्त च धनुस्तस्य शितेन नतपर्वणा ।। ११.९६ ।।
सुमना अग्निदंष्ट्रं तु सुशुभश्चाग्नितेजसम् ।
सुशीलो वायुशक्रं तु सुमुखश्च प्रतर्दनम् ।। ११.९७ ।।
(विराधेन तथा शम्भुः सुकीर्तिर्भीमकर्म्मणा ।
विप्रचित्तिस्तथा सोमं एतद् युद्धं महानभूत् ।।) ।। ११.९८ ।।
परस्परं सुयुद्धेन योधयित्वाऽस्त्रलाघवात् ।
यथासंख्येन ते दैत्याः पुनर्मणिभवैर्हताः ।। ११.९९ ।।
यावत् संग्रामघोरो वै महांस्तेषां व्यवर्द्धत ।
तावत् समित्कुशादीनि कृत्वा गौरमुखो मुनिः ।। ११.१०० ।।
आगतो महदाश्चर्यं संग्रामं भीमदर्शनम् ।
बहुसैन्यपरीवारं स्थितं तं चापि दुर्ज्जयम् ।। ११.१०१ ।।
तं दृष्ट्वा स मुनिर्द्वारि चिन्तापरम एव हि ।
उपविश्याधिगम्याथ मणेः कारणमेव ह ।। ११. १०२ ।।
एवं कृत्वा मणिकृतं रौद्रं गाढं च संयुगम् ।
चिन्तयामास देवेशं हरिं गौरमुखो मुनिः ।। ११.१०३ ।।
स देवः पुरतस्तस्य पीतवासाः खगासनः ।
किमत्र ते मया कार्यमिति वाणीमुदीरयत् ।। ११.१०४ ।।
स ऋषिः प्राञ्जलिर्भूत्वा उवाच पुरुषोत्तमम् ।
जहीमं दुर्ज्जयं पापं ससैन्यं परिवारिणम् ।। ११.१०५ ।।
एवमुक्तस्तदा तेन चक्रं ज्वलनसन्निभम् ।
(मुमोच दुर्जयबले कालचक्रं सुदर्शनम्) ।। ११.१०६ ।।
तेन चक्रेण तत्सैन्यमासुरं दौर्जयं क्षणात् ।
निमेषान्तरमात्रेण भस्मवद् बहुधा कृतम् ।। ११.१०७ ।।
एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा ।
उवाच निमिषेणेदं निहतं दानवं बलम् ।। ११.१०८ ।।
अरण्येऽस्मिंस्ततस्त्वेवं नैमिषारण्यसंज्ञितम् ।
भविष्यति यथार्थं वै ब्राह्मणानां विशेषतः ।। ११.१०९ ।।
अहं च यज्ञपुरुष एतस्मिन् वनगोचरे ।
नाम्ना याज्या सदा चेमे दश पञ्च च नायकाः ।
कृते युगे भविष्यन्ति राजानो मणिजा मुने ।। ११.११० ।।
एवमुक्त्वा ततो देवो गतोऽन्तर्धानमीश्वरः ।
द्विजोऽपि स्वाश्रमे तस्थौ मुदा परमया युतः ।। ११.१११ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकादशोऽध्यायः ।। ११ ।।
श्रीवराह उवाच ।
ततः पुत्रं रथाङ्गाग्निदग्धं श्रुत्वा नृपोत्तमः ।
सुप्रतीकः प्रतीतात्मा चिन्तयामास पार्थिवः ।
तस्य चिन्तयतस्त्वेवं तदा बुद्धिरजायत ।। १२.१ ।।
चित्रकूटे गिरौ विष्णुः सदा रामेति कीर्त्यते ।
ततोऽहं रामसंज्ञेन नाम्ना स्तौमि जगत्पतिम् ।। १२.२ ।।
सुप्रतीक उवाच ।
नमामि रामं नरनाथमच्युतं
कविं पुराणं त्रिदशारिनाशनम् ।
शिवस्वरूपं प्रभवं महेश्वरं
सदा प्रपन्नार्तिहरं धृतश्रियम् ।। १२.३ ।।
भवान् सदा देव समस्ततेजसां
करोषि तेजांसि समस्तरूपधृक् ।
क्षितौ भवान् पञ्चगुणस्तथा जले
चतुःप्रकारस्त्रिविधोऽथ तेजसि ।
द्विधाऽथ वायौ वियति प्रतिष्ठितो
भवान् हरे शब्दवपुः पुमानसि ।। १२.४ ।।
भवान् शशी सूर्यहुताशनोऽसि
त्वयि प्रलीनं जगदेतदुच्यते ।
भवत्प्रतिष्ठं रमते जगत् यतः
स्तुतोऽसि रामेति जगत् प्रतिष्ठितम् ।। १२.५ ।।
भवार्णवे दुःखतरोर्मिसंकुले
तथाक्षमानग्रहणेऽतिभीषणे ।
न मज्जति त्वत्स्मरणप्लवो नरः
स्मृतोऽसि रामेति तथा तपोवने ।। १२.६ ।।
वेदेषु नष्टेषु भवांस्तथा हरे
करोषि मात्स्यं वपुरात्मनः सदा ।
युगक्षये रञ्जितसर्वदिङ्मुखो
भवांस्तथाग्निर्बहुरूपधृग् विभो ।। १२.७ ।।
कौर्मं तथा ते वपुरास्थितः सदा
युगे युगे माधव तोयमन्थने ।
न चान्यदस्तीति भवत्समं क्वचि-
ज्जनार्दनाद् यः स्वयं भूतमुत्तमम् ।। १२.८ ।।
त्वया ततं विश्वमिदं महात्मन्
स्वकाखिलान् वेद दिशश्च सर्वाः ।
कथं त्वमाद्यं परमं तु धाम
विहाय चान्यं शरणं व्रजामि ।। १२.९ ।।
भवानेकः पूर्वमासीत् ततश्च
त्वत्तो मही सलिलं वह्निरुच्चैः ।
वायुस्तथा खं च मनोऽपि बुद्धि-
श्चेतोगुणास्तत्प्रभवं च सर्वम् ।। १२.१० ।।
त्वया ततं विश्वमिदं समस्तं
सनातनस्त्वं पुरुषो मतो मे ।
समस्तविश्वेश्वर विश्वमूर्ते
सहस्त्रबाहो जय देव देव ।
नमोऽस्तु रामाय महानुभाव ।। १२.११ ।।
इति स्तुतो देववरः प्रसन्नः
तदा राज्ञः सुप्रतीकस्य मूर्तिम् ।
संदर्शयामास ततोऽभ्युवाच
वरं वृणीष्वेति च सुप्रतीकम् ।। १२.१२ ।।
एवं श्रुत्वा वचनं तस्य राजा
ससंभ्रमं देवदेवं प्रणम्य ।
उवाच देवेश्वर मे प्रयच्छ
लयं यदास्ते परमं वपुस्ते ।। १२.१३ ।।
इतीरिते राजवरः क्षणेन
लयं तथाऽगादसुरघ्नमूर्तौ ।
स्थितस्तस्मिन्नात्मभूतो विमुक्तः
स भूमिपः कर्मकाण्डैरनेकैः ।। १२.१४ ।।
श्रीवराह उवाच ।
इतीरितं ते तु मया पुराणं
स्वायम्भुवे चादिकृतैकदेशम् ।
शक्यं न चास्यैर्बहुभिः सहस्त्रै-
रपीह केनापि मुखेन वक्तुम् ।। १२.१५ ।।
उद्देशतः संस्मृतमात्रमेत-
न्मया भद्रे कथितं ते पुराणम् ।
समुद्रतोयात् परिमाणसृष्टिः
क्वचित् क्वचिद् वृत्तमथो ह्यनर्ध्यम् ।। १२.१६ ।।
स्वयम्भुवा कथितं ब्रह्मणाऽपि
नारायणेनापि कुतो भवेऽन्यः ।
अशक्यमस्माभिरितीरितं ते
तन्मूर्त्तित्वात् स्मरणेनेदमाद्यम् ।। १२.१७ ।।
समुद्रे बालुकासंख्या विद्यते रजसः क्षितौ ।
न तु सृष्टेः पुनः संख्या क्रीडतः परमेष्ठिनः ।। १२.१८ ।।
एष नारायणस्यांशो मया प्रोक्तः शुचिस्मिते ।
कृते वृत्तान्त एषश्च किमन्यच्छ्रोतुमिच्छसि ।। १२.१९ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे द्वादशोऽध्यायः ।। १२ ।।
धरण्युवाच ।
एतत् तन्महदाश्चर्यं दृष्ट्वा गौरमुखो मुनिः ।
ते चापि मणिजाः प्राप्ताः किं फलं तु वरं गुरोः ।। १३.१ ।।
कोऽसौ गौरमुखः श्रीमान् मुनिः परमधार्म्मिकः ।
किं चकार हरेः कर्म्म दृष्ट्वाऽसौ मुनिपुंगवः ।। १३.२ ।।
श्रीवराह उवाच ।
निमिषेण कृतं कर्म दृष्ट्वा भगवतो मुनिः ।
आरिराधयिषुर्देवं तमेव प्रययौ वनम् ।
प्रभासं नाम सोमस्य तीर्थं परमदुर्लभम् ।। १३.३ ।।
तत्र दैत्यान्तकृद् देवः प्रोच्यते तीर्थचिन्तकैः ।
आराधयामास हरिं दैत्यसूदनसंज्ञितम् ।। १३.४ ।।
तस्याराधयतो देवं हरिं नारायणं प्रभुम् ।
आजगाम महायोगी मार्कण्डेयो महामुनिः ।। १३.५ ।।
तं दृष्ट्वाऽभ्यागतं दूरादर्घपाद्येन सो मुनिः ।
अर्चयामास तं भक्त्या मुदा परमया युतः ।। १३.६ ।।
कौश्यां वृष्यां तदासीनं पप्रच्छेदं मुनिस्तदा ।
शाधिं मां मुनिशार्दूल किं करोमि महाव्रत ।। १३.७ ।।
एवमुक्तः स विप्रेन्द्रो मार्कण्डेयो महातपाः ।
उवाच श्लक्ष्णया वाचा मुनिं गौरमुखं तदा ।। १३.८ ।।
मार्कण्डेय उवाच ।
एतदेव महत्कृत्यं यत्सतां संगमो भवेत् ।
यत्तु सान्देहिकं कार्यं तत्पृच्छस्व महामुने ।। १३.९ ।।
गौरमुख उवाच ।
एते हि पितरो नाम प्रोच्यन्ते वेदवादिभिः ।
सर्ववर्णषु सामान्या उताहोस्वित् पृथक् पृथक् ।। १३.१० ।।
मार्कण्डेयः ।
सर्वेषामेव देवानामाद्यो नारायणो गुरुः ।
तस्माद् ब्रह्मा समुत्पन्नः सोऽपि सप्तासृजन्मुनीन् ।। १३.११ ।।
मां यजस्वेति तेनोक्तास्तदा ते परमेष्ठिना ।
आत्मनात्मानमेवाग्रे अयजन्त इति श्रुतिः ।। १३.१२ ।।
तेषां वै ब्रह्मजातानां महावैकारिकर्मणाम् ।
अशपद् व्यभिचारो हि महानेष कृतो यतः ।
प्रभ्रष्टज्ञानिनः सर्वे भविष्यथ न संशयः ।। १३.१३ ।।
एवं शप्तास्ततस्ते वै ब्रह्मणात्मसमुद्भवाः ।
सद्यो वंशकरान् पुत्रानुत्पाद्य त्रिदिवं ययुः ।। १३.१४ ।।
ततस्तेषु प्रयातेषु त्रिदिवं ब्रह्मवादिषु ।
तत्पुत्राः श्राद्धदानेन तर्पयामासुरञ्जसा ।। १३.१५ ।।
ते च वैमानिकाः सर्वे ब्रह्मणः सप्त मानसाः ।
तत् पिण्डदानं मन्त्रोक्तं प्रपश्यन्तो व्यवस्थिताः ।। १३.१६ ।।
गौरमुख उवाच ।
ये च ते पितरो ब्रह्मन् यं च कालं समासते ।
किं यतो वै पितृगणास्तस्मिंल्लोके व्यवस्थिताः ।। १३.१७ ।।
मार्कण्डेय उवाच ।
प्रवर्त्तन्ते वराः केचिद् देवानां सोमवर्द्धनाः ।
ते मरीच्यादयः सप्त स्वर्गे ते पितरः स्मृताः ।। १३.१८ ।।
चत्वारो मूर्त्तिमन्तो वै त्रयस्त्वन्ये ह्यमूर्त्तयः ।
तेषां लोकनिसर्गं च कीर्त्तयिष्यामि तच्छृणु ।। १३.१९ ।।
प्रभावं च महर्धि च विस्तरेण निबोध मे ।
धर्ममूर्तिधरास्तेषां त्रयोऽन्ये परमा गणाः ।
तेषां नामानि लोकांश्च कीर्तयिष्यामि तच्छृणु ।। १३.२० ।।
लोकाः संतानका नाम यत्र तिष्ठन्ति भास्वराः ।
अमूर्त्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ।। १३.२१ ।।
विराजस्य प्रजाश्रेष्ठा वैराजा इति ते स्मृताः ।।
देवानां पितरस्ते हि तान् यजन्तीह देवताः ।। १३.२२ ।।
एते वै लोकविभ्रष्टा लोकान् प्राप्य सनातनान् ।
पुनर्युगशतान्तेषु जायन्ते ब्रह्मवादिनः ।। १३.२३ ।।
ते प्राप्य तां स्मृतिं भूयः साध्य योगमनुत्तमम् ।
चिन्त्य योगगतिं शुद्धां पुनरावृत्तिदुर्लभाम् ।। १३.२४ ।।
एते स्म पितरः श्राद्धे योगिनां योगवर्द्धनाः ।
आप्यायितास्तु ते पूर्वं योगं योगबले रतौ ।। १३.२५ ।।
तस्माच्छ्राद्धानि देयानि योगिनां योगिसत्तम ।
एष वै प्रथमः सर्गः सोमपानामनुत्तमः ।। १३.२६ ।।
एते त एकतनवो वर्तन्ते द्बिजसत्तमाः ।
भूर्लोकवासिनां याज्याः स्वर्गलोकनिवासिनः ।।
ब्रह्मपुत्रा मरीच्याद्यास्तेषां याज्या महद्गताः ।। १३.२७ ।।
कल्पवासिकसंज्ञानां तेषामपि जने गताः ।
सनकाद्यास्ततस्तेषां वैराजास्तपसि स्थिताः ।
तेषां सत्यगता मुक्ता इत्येषा पितृसंततिः ।। १३.२८ ।।
अग्निष्वात्तेति मारीच्या वैराजा बर्हिसंज्ञिताः ।
सुकालेयापि पितरो वसिष्ठस्य प्रजापतेः ।
तेऽपि याज्यास्त्रिभिर्वर्णैर्न शूद्रेण पृथक्कृतम् ।। १३.२९ ।।
वर्णत्रयाभ्यनुज्ञातः शूद्रः सर्वान् पितृन् यजेत् ।
न तु तस्य पृथक् सन्ति पितरः शूद्रजातयः ।। १३.३० ।।
मुक्तश्चेतनको ब्रह्मन् ननु विप्रेषु दृश्यते ।
विशेषशास्त्रदृष्ट्या तु पुराणानां च दर्शनात् ।। १३.३१ ।।
एवं ऋषिस्तुतैः शास्त्रं ज्ञात्वा याज्यकसंभवान् ।
स्वयं सृष्ट्यां स्मृतिर्लब्धा पुत्राणां ब्रह्मणा ततः ।
परं निर्वाणमापन्नास्तेऽपि ज्ञानेन एव च ।। १३.३२ ।।
वस्वादीनां कश्यपाद्या वर्णानां वसवादयः ।
अविशेषेण विज्ञेया गन्धर्वाद्या अपि ध्रुवम् ।। १३.३३ ।।
एष ते पैतृकः सर्ग उद्देशेन महामुने ।
कथितो नान्त एवास्य वर्षकोट्या हि दृश्यते ।। १३.३४ ।।
श्राद्धस्य कालान् वक्ष्यामि तान् श्रृणुष्व द्विजोत्तम ।
श्राद्धार्हमागतं द्रव्यं विशिष्टमथवा द्विजम् ।। १३.३५ ।।
श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयने तथा ।
विषुवे चैव संप्राप्ते ग्रहणे शशिसूर्ययोः ।
समस्तेष्वेव विप्रेन्द्र राशिष्वर्केऽतिगच्छति ।। १३.३६ ।।
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने ।
इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा ।। १३.३७ ।।
अमावास्या यदा आर्द्राविशाखास्वातियोगिनो ।
श्राद्धैः पितृगणस्तृप्तिं तदाप्नोत्यष्टवार्षिकीम् ।। १३.३८ ।।
अमावस्या यदा पुष्ये रौद्रेऽथर्क्षे पुनर्वसौ ।
द्वादशाब्दं तथा तृप्तिं प्रयान्ति पितरोऽर्च्चिताः ।। १३.३९ ।।
वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छताम् ।
वारुणे चाप्यमावास्या देवानामपि दुर्लभा ।। १३.४० ।।
नवस्वर्क्षेष्वमावास्या यदा तेषु द्विजोत्तम ।
तदा श्राद्धानि देयानि अक्षय्यफलमिच्छताम् ।
अपि कोटिसहस्त्रेण पुण्यस्यान्तो न विद्यते ।। १३.४१ ।।
अथापरं पितरः श्राद्धकालं
रहस्यमस्मत् प्रवदन्ति पुण्यम् ।
वैशाखमासस्य तु या तृतीया
नवम्यसौ कार्त्तिकशुक्लपक्षे ।। १३.४२ ।।
नभस्यमासस्य तमिस्त्रपक्षे
त्रयोदशी पञ्चदशी च माघे ।
उपप्लवे चन्द्रमसो रवेश्च
तथाष्टकास्वप्ययनद्वये च ।। १३.४३ ।।
पानीयमप्यत्र तिलैर्विमिश्रं
दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाःसहस्त्रं
रहस्यमेतत् पितरो वदन्ति ।। १३.४४ ।।
माघासिते पञ्चदशी कदाचि-
दुपैति योगं यदि वारुणेन ।
ऋक्षेण कालः परमः पितॄणां
न त्वल्पपुण्यैर्द्विज लभ्यतेऽसौ ।। १३.४५ ।।
काले धनिष्ठा यदि नाम तस्मिन्
भवेत्तु विप्रेन्द्र सदा पितृभ्यः ।
दत्तं जलान्नं प्रददाति तृप्तिं
वर्षायुतं तत्कुलजैर्मनुष्यैः ।। १३.४६ ।।
तत्रैव चेद् भाद्रपदास्तु पूर्वाः
काले तदा यैः क्रियते पितृभ्यः ।
श्राद्धं परा तृप्तिमुपेत्य तेन
युगं समग्रं पितरः स्वपन्ति ।।
श्राद्धं तु यत्पक्षमुदाहरन्ति
तत्पैतृकं मुनिगणाः प्रवदन्ति तुष्टिम् ।। १३.४७ ।।
गङ्गासरयूमथवा विपाशां
सरस्वतीं नैमिषगोमतीं वा ।
ततोऽवगाह्यार्चनमादरेण
कृत्वा पितॄणामहितानि हन्ति ।। १३.४८ ।।
गायन्ति चैतत् पितरः कदा तु
वर्षामघातृप्तिमवाप्य भूयः ।
माघासितान्ते शुभतीर्थतोयै-
र्यास्याम तृप्तिं तनयादिदत्तैः ।। १३.४९ ।।
चित्तं च वित्तं च नृणां विशुद्धं
शस्तश्च कालः कथितो विधिश्च ।
पात्रं यथोक्तं परमा च भक्ति-
र्नृणां प्रयच्छन्त्यभिवाञ्छितानि ।। १३.५० ।।
पितृगीतास्तथैवात्र श्लोकास्तान् श्रृणु सत्तम ।
श्रुत्वा तथैव भविता भाव्यं तत्र विधात्मना ।। १३.५१ ।।
अपि धन्यः कुले जायादस्माकं मतिमान् नरः ।
अकुर्वन् वित्तशाठ्यं यः पिण्डान् यो निर्वपिष्यति ।। १३.५२ ।।
रत्नवस्त्रमहायानं सर्वं भोगादिकं वसु ।
विभवे सति विप्रेभ्यो अस्मानुद्दिश्य दास्यति ।। १३.५३ ।।
अन्नेन वा यथाशक्त्या कालेऽस्मिन् भक्तिनम्रधीः ।
भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ।। १३.५४ ।।
असमर्थोऽन्नदानस्य वन्यशाकं स्वशक्तितः ।
प्रदास्यतिद्विजाग्र्येभ्यः स्वल्पां यो वापि दक्षिणाम् ।। १३.५५ ।।
तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान् ।
प्रणम्य द्विजमुख्याय कस्मैचिद् द्विज दास्यति ।। १३.५६ ।।
तिलैः सप्ताष्टभिर्वापि समवेतां जलाञ्जलिम् ।
भक्तिनम्रः समुद्दिश्याप्यस्माकं संप्रदास्यति ।। १३.५७ ।।
यतः कुतश्चित् संप्राप्य गोभ्यो वापि गवाह्निकम् ।
अभावे प्रीणयत्यस्मान् भक्त्या युक्तः प्रदास्यति ।। १३.५८ ।।
सर्वाभावे वनं गत्वा कक्षामूलप्रदर्शकः ।
सूर्यादिलोकपालानामिदमुच्चैः पठिष्यति ।। १३.५९ ।।
न मेऽस्ति वित्तं न धनं न चान्य-
च्छ्राद्धस्य योग्यं स्वपितॄन् नतोऽस्मि ।
तृप्यन्तु भक्त्या पितरो मयैतौ
भुजौ ततौ वर्त्मनि मारुतस्य ।। १३.६० ।।
इत्येतत् पितृभिर्गीतं भावाभावप्रयोजनम् ।
कृतं तेन भवेच्छ्राद्धं य एवं कुरुते द्विज ।। १३.६१ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे त्रयोदशोऽध्यायः ।। १३ ।।
मार्कण्डेय उवाच ।
एतन्मे कथितं पूर्वं ब्रह्मपुत्रेण धीमता ।
सनकानुजेन विप्रर्षे ब्राह्मणान् श्रृणु सांप्रतम् ।। १४.१ ।।
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ।
वेदवित् श्रोत्रियो योगी तथा वै ज्योष्ठसामगः ।। १४.२ ।।
ऋत्विजं भागिनेयं च दौहित्रं श्वसुरं तथा ।
जामातरं मातुलं च तपोनिष्ठं च ब्राह्मणम् ।। १४.३ ।।
पञ्चाग्न्यभिरतं चैव शिष्यं संबन्धिनं तथा ।
मातापितृरतं चैव एताञ्छ्राद्धे नियोजयेत् ।। १४.४ ।।
मित्रध्रुक् कुनखी चैव श्यावदन्तस्तथा द्विजः ।
कन्यादूषयिता वह्निवेदोज्झः सोमविक्रयी ।। १४.५ ।।
अभिशप्तस्तथा स्तेनः पिशुनो ग्रामयाजकः ।
भृतकाध्यापकश्चैव भृतकाध्यापितश्च यः ।। १४.६ ।।
परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः ।
वृषलीसूतिपोष्यश्च वृषलीपतिरेव च ।
तथा देवलकश्चापि श्राद्धे नार्हन्ति केतनम् ।। १४.७ ।।
प्रथमेऽह्नि बुधः कुर्याद् विप्राग्र्याणां निमन्त्रणम् ।
आनिमन्त्र्य द्विजान् गेहमागतान् भोजयेद् यतीन् ।। १४.८ ।।
पादशौचादिना गेहमागतान् भोजयेद् द्विजान् ।
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ।। १४.९ ।।
पितॄणामयुजो युग्मान् देवानामपि योजयेत् ।
देवानामेकमेकं वा पितॄणां च नियोजयेत् ।। १४.१० ।।
तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तिसंपन्नसक्तन्त्रं वा वैश्वदेविकम् ।। १४.११ ।।
प्राङ्मुखं भोजभेद् विप्रं देवानामुभयात्मकम् ।
पितृपैतामहानां च भोजयेच्चाप्युदङ्मुखान् ।। १४.१२ ।।
पृथक् तयोः केचिदाहुः श्राद्धस्य करणं द्विज ।
एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ।। १४.१३ ।।
विष्टरार्थं कुशान् दत्त्वा संपूज्यार्घविधानतः ।
कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ।। १४.१४ ।।
यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् ।
सुगन्धधूपदीपांश्च दत्त्वा तेभ्यो यथाविधि ।
पितॄणामपसकव्येन सर्वमेवोपकल्पयेत् ।। १४.१५ ।।
अनुज्ञां च ततः प्राप्य दत्त्वा दर्भान् द्विधाकृतान् ।
मन्त्रपूर्वं पितॄणां तु कुर्यादावाहनं बुधः ।
तिलाम्बुना चापसव्यं दद्यादर्ध्यादिकं बुधः ।। १४.१६ ।।
काले तत्रातिथिं प्राप्तमन्नकामं द्विजाध्वगम् ।
ब्राह्मणैरभ्यनुज्ञातः कामं तमपि पूजयेत् ।। १४.१७ ।।
योगिनो विविधै रूपैर्नराणामुपकारिणः ।
भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः ।। १४.१८ ।।
तस्मादभ्यर्चयेत् प्राप्तं श्राद्धकालेऽतिथिं बुधः ।
श्राद्धक्रियाफलं हन्ति द्विजेन्द्रापूजितोऽतिथिः ।। १४.१९ ।।
जुहुयाद् व्यञ्जनं क्षारैर्वर्ज्यमन्नं ततोऽनले ।
अनुज्ञातो द्बिजैस्तैस्तु त्रिः कृत्वा पुरुषर्षभ ।। १४.२० ।।
अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः ।
सोमाय वै पितृमते दातव्या तदनन्तरम् ।। १४.२१ ।।
वैवस्वताय चैवान्या तृतीया दीयताहुतिः ।
हुतावशिष्टमल्पाल्पं विप्रपात्रेषु निर्वपेत् ।। १४.२२ ।।
ततोऽन्नं मृष्टमत्यर्थमभीष्टमभिसंस्कृतम् ।
दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ।। १४.२३ ।।
भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् ।
अक्रुध्यता अत्वरता देयं तेनापि भक्तितः ।। १४.२४ ।।
रक्षोघ्नमन्त्रपठनं भूमेरास्तरणं तिलैः ।
कृत्वाऽध्येयाश्च पितरस्त एव द्विजसत्तमाः ।। १४.२५ ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्त्तयः ।। १४.२६ ।।
पितापितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ।। १४.२७ ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु पिण्डेषु मया दत्तेषु भूतले ।। १४.२८ ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु मे भक्त्या यन्मयैतदुदाहृतम् ।। १४.२९ ।।
मातामहस्तृप्तिमुपैतु तस्य
तथा पिता तस्य पिता ततोऽन्यः ।
विश्वेऽथ देवाः परमां प्रयान्तु
तृप्तिं प्रणश्यन्तु च यातुधानाः ।। १४.३० ।।
यज्ञेश्वरो हव्यसमस्तकव्य-
भोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र ।
तत्सन्निधानादपयान्तु सद्यो
रक्षांस्यशेषाण्यसुराश्च सर्वे ।। १४.३१ ।।
तृप्तेष्वेतेषु विप्रेषु किरेदन्नं महीतले ।
दद्यादाचमनार्थाय तेभ्यो वारि सकृत्सकृत् ।। १४.३२ ।।
सुतृप्तैस्तैरनुज्ञातः सर्वेणान्नेन भूतले ।
सलिलेन ततः पिण्डान् समागृह्य समाहितः ।। १४.३३ ।।
पितृतीर्थेन सलिलं तथैव सलिलाञ्जलिम् ।
मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत्।
दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजिताम् ।। १४.३४ ।।
स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ।
पितामहाय चैवान्यं तत्पित्रे च तथाऽपरम् ।। १४.३५ ।।
दर्भमूले लेपभुजः प्रीणयेल्लेपघर्षणात् ।
पिण्डे मातामहे तद्वद् गन्धमाल्यादिसंयुतैः ।। १४.३६ ।।
पूजयित्वा द्विजाग्र्याणां दद्यादाचमनं बुधः ।
पैत्रेभ्यः प्रथमं भक्त्या तन्मनस्को द्विजेश्वर ।। १४.३७ ।।
सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम् ।
दत्त्वा च दक्षिणां तेभ्यो वाचयेद् वैश्वदेविकान् ।
प्रीयन्तामिति ये विश्वे देवास्तेन इतीरयेत् ।। १४.३८ ।।
तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाशिषः ।
पश्चाद् विसर्जयेद् देवान् पूर्वं पैत्रान्महामते ।। १४.३९ ।।
मातामहानामप्येवं सह देवैः क्रमः स्मृतः ।
भोजने च स्वशक्त्या च दाने तद्वद् विसर्ज्जने ।
आपादशौचनात् पूर्वं कुर्यादेव द्विजन्मसु ।। १४.४० ।।
जानन्तं प्रथमं पित्र्यं तथा मातामहेषु च ।
विसर्जयेत् प्रीतिवचः संमान्याभ्यर्थितांस्ततः ।
निवर्त्तेताभ्यनुज्ञात आद्वारान्तमनुव्रजेत् ।। १४.४१ ।।
ततस्तु वैश्वदेवाख्यां कुर्यान्नित्यक्रियां ततः ।
भुञ्जीयाच्च समं पूज्य भृत्यबन्धुभिरात्मना ।। १४.४२ ।।
एवं श्राद्धं बुधः कुर्यात् पित्र्यं मातामहं तथा ।
श्राद्धैराप्यायिता दद्युः सर्वान् कामान् पितामहाः ।। १४.४३ ।।
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
रजतस्य तथा दानं तथा संदर्शनादिकम् ।। १४.४४ ।।
वर्ज्यस्तु कुर्वता श्राद्धं क्रोधोऽध्वगममं त्वरा ।
भोक्तुरप्यत्र विप्रेन्द्र त्रयमेतन्न संशयः ।। १४.४५ ।।
विश्वेदेवाः सपितरस्तथा मातामहा द्विज ।
कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम् ।। १४.४६ ।।
सोमाधारः पितृगणो योगाधारश्च चन्द्रमाः ।
श्राद्धं योगिनियुक्तं तु तस्मद् विप्रेन्द्र शस्यते ।। १४.४७ ।।
सहस्त्रस्यापि विप्राणां योगी चेत् पुरतः स्थितः ।
सर्वान् भोक्तॄंस्तारयति यजमानं तथा द्विज ।। १४.४८ ।।
मह्यं सनत्कुमारेण पूर्वकल्पे द्विजोत्तम ।
कथितं वायुना चापि देवानां शंभुना तथा ।। १४.४९ ।।
ऋषीणां शक्तिपुत्रेण तथा मैत्रेयसंज्ञिते ।
भविष्यति क्रमाद् यावन् मया ते कथितं द्विज ।। १४.५० ।।)
इयं सर्वपुराणेषु सामान्या पैतृकी क्रिया ।
एतत् क्रमात् कर्मकाण्डं ज्ञात्वा मुच्येत बन्धनात् ।। १४.५१ ।।
एतदाश्रित्य निर्वाणं ऋषयः संशितव्रताः ।
प्राप्ता गौरमुखेदानीं त्वमप्येवं परो भव ।। १४.५२ ।।
इति ते कथितं भक्त्या पृच्छतो द्विजसत्तम ।
पितॄन् यष्ट्वा हरिं ध्यायेद् यस्तस्य किमतः परम् ।
न तस्मात् परतः पित्र्यं तन्त्रमस्तीति निश्चयः ।। १४.५३ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे चतुर्दशोऽध्यायः ।। १४ ।।
धरण्युवाच ।
एवं श्राद्धविधिं श्रुत्वा मार्कण्डेयान्महामुनिः ।
तदा गौरमुखो देव किमूर्ध्वं कृतवान् विभो ।। १५.१ ।।
श्रीवराह उवाच ।
एतच्छ्रुत्वा तदा धात्रि पितृतन्त्रं महामुनिः ।
संस्मारितो जन्मशतं मार्कण्डेयेन धीमता ।। १५.२ ।।
धरण्युवाच ।
भगवन् गौरमुखः कोऽसौ अन्यजन्मनि कः स्मृतः ।
कथं च स्मृतवान् स्मृत्वा किं चकार च सत्तमः ।। १५.३ ।।
श्रीवराह उवाच ।
भृगुरासीत् स्वयं साक्षादन्यस्मिन् ब्रह्म जन्मनि ।
तदन्वयात्मजस्त्वेष मार्कण्डेयो महामुनिः ।। १५.४ ।।
पुत्रैस्तु बोधिता यूयं सुगतिं प्राप्स्यथेति यत् ।
प्रागुक्तं ब्रह्मणा तेन मार्कण्डेयेन बोधितः ।। १५.५ ।।
सस्मार सर्वजन्मानि स्मृत्वा चैव तु यत्कृतम् ।
तच्छृणुष्व वरारोहे कथयामि समासतः ।। १५.६ ।।
एवं श्राद्धविधानेन द्वादशाब्दं ततः पितॄन् ।
इष्ट्वा पश्चाद्धरेः स्तोत्रं स मुनिस्तूपचक्रमे ।। १५.७ ।।
प्रभासं नाम यत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तत्र दैत्यान्तकं देवं स्तोतुं गौरमुखः स्थितः ।। १५.८ ।।
गौरमुख उवाच ।
स्तोष्ये महेन्द्रं रिपुदर्पहं शिवं
नारायणं ब्रह्मविदां प्रतिष्ठितम् ।
आदित्यचन्द्राश्वियुगस्थमाद्यं
पुरातनं दैत्यहरं सदा हरिम् ।। १५.९ ।।
चकार मात्स्यं वपुरात्मनो यः
पुराकृतं वेदविनाशकाले ।
महामहीधृग्वपुरग्रपुच्छ -
छटाहवार्च्चिः सुरशत्रुहाद्यः ।। १५.१० ।।
तथाब्धिमन्थानकृते गिरीन्द्रं
दधार यः कौर्म्मवपुः पुराणम् ।
हितेच्छया यः पुरुषः पुराणः
प्रपातु मां दैत्यहरः सुरेशः ।। १५.११ ।।
महावराहः सततं पृथिव्यास्
तलात्तलं प्राविशद् यो महात्मा ।
यज्ञाङ्गसंज्ञः सुरसिद्धवन्द्यः
स पातु मां दैत्यहरः पुराणः ।। १५.१२ ।।
नृसिंहरूपी च भवत्यजस्त्रं
युगे युगे योगिवरोग्रभीमः ।
करालवक्त्रः कनकाग्रवर्चा
रत्नाशयोऽस्मानसुरान्तकोऽव्यात् ।। १५.१३ ।।
बलेर्मखध्वंसकृते महात्मा
स्वां गूढतां योगवपुःस्वरूपः ।
स दण्डकाष्ठाऽजिनलक्षणः पुनः
क्षितिं च पदा क्रान्तवान् यः स पातु ।। १५.१४ ।।
त्रिःसप्तकृत्वो जगतीं जिगाय
जित्वा ददौ कश्यपाय प्रचण्डः ।
स जामदग्न्योऽभिजनस्य गोप्ता
हिरण्यगर्भोऽसुरहा प्रपातु ।। १५.१५ ।।
चतुःप्रकारं च वपुर्य आद्यं
हैरण्यगर्भप्रतिमानलक्ष्यम् ।
रामादिरूपैर्बहुरूपभेद-
श्चकार सोऽस्मानसुरान्तकोऽव्यात् ।। १५.१६ ।।
चाणूरकंसासुरदर्पभीते-
र्भीतामराणामभयाय देवः ।
युगे युगे वासुदेवो बभूव
कल्पे भवत्यद्भुतरूपकारी ।
युगे युगे कल्किनाम्ना महात्मा
वर्णस्थितिं कर्त्तुमनेकमूर्त्तिः ।। १५.१७ ।।
सनातनो ब्रह्ममयः पुराणो
न यस्य रूपं सुरसिद्धदैत्याः ।
पश्यन्ति विज्ञानगतिं विहाय
अथोप्यनेकानि समर्च्वयन्ति ।
मत्स्यादिरूपाणि चराणि सोऽव्यात् ।। १५.१८ ।।
नमो नमस्ते पुरुषोत्तमाय
पुनश्च भूयोऽपि नमो नमस्ते ।
नमः पुरस्तादथ पृष्ठतस्ते
नयस्व मां मुक्तिपदं नमस्ते ।। १५.१९ ।।
एवं नमस्यतस्तस्य महर्षेर्भावितात्मनः ।
प्रत्यक्षतां गतो देवः स्वयं चक्रगदाधरः ।। १५.२० ।।
तं दृष्ट्वा तस्य विज्ञानं निस्तरङ्गं स्वदेहतः ।
उत्तस्थौ सोऽपि तं लब्ध्वा तस्मिन् ब्रह्मणि शाश्वते ।
लयं जगाम देवात्मा त्वपुनर्भवसंज्ञिते ।। १५.२१ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चदशोऽध्यायः ।। १५ ।।
धरण्युवाच ।
तदा दुर्वाससा शप्तो देवराजः शतक्रतुः ।
वसिष्यसि त्वं मर्त्त्येषु सुप्रतीकसुतेन तु ।। १६.१ ।।
उत्सादितो दिवो मूढेत्येवमुक्तस्तु भूधर ।
इन्द्रो मर्त्त्यमुपागम्य सर्वदेवसमन्वितः ।। १६.२ ।।
किं चकार च तस्मिंस्तु दुर्जये च निपातिते ।
परमेष्ठिना भगवता तेन योगविदुत्तमौ ।। १६.३ ।।
स्वर्गे विद्युत्सुविद्युच्च तौ च किं चक्रतुस्तदा ।
एतन्मे संशयं देव कथयस्व प्रसादतः ।। १६.४ ।।
श्रीवराह उवाच ।
दूर्जयेन जितो धात्रि देवराजः शतक्रतुः ।
भारते हि तदा वर्षे वाराणस्यां तु पूर्वतः ।
आश्रित्य संस्थितो देवैः सह यक्षमहोरगैः ।। १६.५ ।।
विद्युत्सुविद्युच्च तदा योगमास्थाय शोभने ।
दीर्घतापज्वरं वायुकर्मयोगेन संश्रितौ ।।
लोकपालायितं कृत्स्नं चक्रतुर्योगमायया ।। १६.६ ।।
तं दुर्जयं मृतं श्रुत्वा समुद्रान्तःस्थितं तदा ।
आनीय चतुरङ्गं तु देवान् प्रति विजग्मतुः ।। १६.७ ।।
आगत्य तौ तदा दैत्यौ महत्सैन्येन पर्वतम् ।
हिमवन्तं समाश्रित्य संस्थितौ तु बभूवतुः ।। १६.८ ।।
देवा अपि महत्सैन्यं संहत्य कृतदंशिताः ।
मन्त्रयाञ्चक्रुरव्यग्रा ऐन्द्रं पदमभीप्सवः ।। १६.९ ।।
अब्रवीत् तत्र देवानां गुरुराङ्गिरसो मुनिः ।
गोमेधेन यजघ्वं वै प्रथमेन तदन्तरम् ।। १६.१० ।।
यष्टव्यं क्रतुभिः सर्वैरेकस्थितिरथामराः ।
उपदेशो मया दत्तः क्रियतां शीघ्रमेष वै ।। १६.११ ।।
एवमुक्तास्तदा देवा गाः पशूंश्चानुकल्प्य ते ।
मुमुचुश्चरणार्थाय रक्षार्थं सरमां ददुः ।। १६.१२ ।।
ताश्च गावो देवशुन्या रक्ष्यमाणा धराधरे ।
तत्र जग्मुस्तदा गावश्चरन्त्यो यत्र तेऽसुराः ।। १६.१३ ।।
ते च गावस्तु ता दृष्ट्वा शुक्रमूचुः पुरोहितम् ।
पश्वर्थं देवगा ब्रह्मंश्चार्यन्ते रक्षमाणया ।
देवशून्या सरमया वद किं क्रियतेऽधुना ।। १६.१४ ।।
एवमुक्तस्तदा शुक्रः प्रत्युवाचासुरांस्तदा ।
एता गा ह्रियतां शीघ्रमसुरा मा विलम्बथ ।। १६.१५ ।।
एवमुक्तास्तदा दैत्या जह्रुस्ता गा यदृच्छया ।
हृतासु तासु सरमा मार्गमन्वेषणे रता ।। १६.१६ ।।
अपश्यत् सा दितेः पुत्रैर्नीता गावो धराधरे ।
दैत्यैरपि शुनी दृष्टा दृष्टमार्गा विशेषतः ।। १६.१७ ।।
दृष्ट्वा ते तां च साम्नैव सामपूर्वमिदं वचः ।
आसां गवां तु दुग्ध्वैव क्षीरं त्वं सरमे शुभे ।। १६.१८ ।।
पिबस्वैवमिति प्रोक्ता तस्यै तद् ददुरञ्जसा ।
दत्त्वा तु क्षीरपानं तु तस्यै ते दैत्यनायकाः ।। १६.१९ ।।
मा भद्रे देवराजाय गाश्चेमा विनिवेदय ।
एवमुक्त्वा ततो दैत्या मुमुचुस्तां शुनीं वने ।। १६.२० ।।
तैर्मुक्ता सा सुरांस्तूर्णं जगाम खलु वेपती ।
नमश्चक्रे च देवेन्द्रं सरमा सुरसत्तमम् ।। १६.२१ ।।
तस्याश्च मरुतो देवा देवेन्द्रेण निरूपिताः ।
गूढं गच्छत रक्षार्थं देवशुन्या महाबलाः ।। १६.२२ ।।
इत्युक्तास्तेन सूक्ष्मेण वपुषा जग्मुरञ्जसा ।
तेऽप्यागम्य सुरेन्द्राय नमश्रक्रुर्धराधरे ।। १६.२३ ।।
तां देवराजः पप्रच्छ क्व गावः सरमेऽभवन् ।
एवमुक्ता तु सरमा न जानामीति चाब्रवीत् ।। १६.२४ ।।
तत इन्द्रो रुषा युक्तो यज्ञार्थमुपकल्पिताः ।
गावः क्व चेति मरुतः प्रोवाचेदं शुनी कथम् ।। १६.२५ ।।
एवमुक्तास्तु मरुतो देवेन्द्रेण धराधरे ।
कथयामासुरव्यग्राः कर्म्म तत् सरमाकृतम् ।। १६.२६ ।।
तत इन्द्रः समुत्थाय पदा संताडयच्छुनीम् ।
क्रोधेन महताविष्टो देवेन्द्रः पाकशासनः ।। १६.२७ ।।
क्षीरं पीतं त्वया मूढे गावस्ताश्चासुरैर्हृताः ।
एवमुक्त्वा पदा तेन ताडिता सरमा धरे ।। १६.२८ ।।
तस्येन्द्रपादघातेन क्षीरं वक्त्रात् प्रसुस्त्रुवे ।
स्त्रवता तेन पयसा सा शुनी यत्र गा भवन् ।
जगाम तत्र देवेन्द्रः सहसैन्यस्तदा धरे ।। १६.२९ ।।
गत्वा चापश्यद् देवेन्द्रस्ता गा दैत्यैरुपाहृताः ।
पालनां चक्रुर्ये दैत्या बलिनो भृशम् ।
ते सैन्यैर्निहताः सद्यस्तत्यजुर्गाः स्वमूर्त्तिभिः ।। १६.३० ।।
सामन्तैश्च सुरेन्द्रोऽथ वृतः परमहर्षितैः ।
ताश्च लब्ध्वा महेन्द्रस्तु मुदा परमया युतः ।। १६.३१ ।।
चकार यज्ञान् विविधान् सहस्त्रानपि स प्रभुः ।
क्रियमाणैस्ततो यज्ञैर्ववृधेन्द्रस्य तद् बलम् ।। १६.३२ ।।
वर्द्धितेन बलेनेन्द्रो देवसैन्यमुवाच ह ।
सन्नह्यन्तां सुराः शीघ्रं दैत्यानां वधकर्मणि ।। १६.३३ ।।
एवमुक्तास्ततो देवाः सन्नद्धास्तत्क्षणेऽभवन् ।
असुराणामभावाय जग्मुर्देवाः सवासवाः ।। १६.३४ ।।
गत्वा तु युयुधुस्तूर्णं विजिग्युस्त्वासुरीं चमूम् ।
जिताश्च देवैरसुरा हतशेषा धराधरे ।
ममज्जुः सागरजले भयत्रस्ता विचेतसः ।। १६.३५ ।।
देवराजोऽपि त्रिदिवं लोकपालैः समं धरे ।
आरुह्य बुभुजे प्राग्वत् स देवो देवराट् प्रभुः ।। १६.३६ ।।
य एनं श्रृणुयान्नित्यं सरमाख्यानमुत्तमम् ।
स गोमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।। १६.३७ ।।
भ्रष्टराज्यश्च यो राजा श्रृणोतीदं समाहितः ।
स देवेन्द्र इव स्वर्गं राज्यं स्वं लभते नरः ।। १६.३८ ।।
।। इति श्रीवराहपुराणे भगवच्छात्रे षोडशोऽध्यायः ।। १६ ।।
धरण्युवाच ।
ये ते मणौ तदा देव उत्पन्ना नरपुंगवाः ।
तेषां वरो भगवता दत्तस्त्रेतायुगे किल ।। १७.१ ।।
राजानो भवितारो वै कथं तेषां समुद्भवः ।
किं च चक्रुर्हि ते कर्म पृथङ् नामानि शंस मे ।। १७.२ ।।
श्रीवराह उवाच ।
सुप्रभो मणिजो यस्तु राजा नाम्ना महामनाः ।
तस्योत्पत्तिं वरारोहे श्रृणु त्वं भूतधारिणि ।। १७.३ ।।
आसीद् राजा महाबाहुरादौ कृतयुगे पुरा ।
श्रुतकीर्तिरिति ख्यातस्त्रैलोक्ये बलवत्तरः ।। १७.४ ।।
तस्य पुत्रत्वमापेदे सुप्रभो मणिजो धरे ।
प्रजापालेति वै नाम्ना श्रुतकीर्तिर्महाबलः ।। १७.५ ।।
सैकस्मिंश्चिद् दिने प्रायाद् विपिनं श्वापदाकुम् ।
तत्रापश्यदृषेर्धन्यं महदाश्रममण्डलम् ।। १७.६ ।।
तस्मिन् महातपा नाम ऋषिः परधार्मिकः ।
तपस्तेपे निराहारो जपन् ब्रह्म सनातनम् ।। १७.७ ।।
तत्रासौ पार्थिवः श्रीमान् प्रवेशाय मतिं तदा ।
चकार चाविशद् राजा प्रजापालो महातपाः ।। १७.८ ।।
तस्मिन् वराश्रमपदे वनवृक्षजात्या
धराप्रसूतोर्जितमार्गजुष्टाः ।
लतागृहा इन्दुरविप्रकाशिनो
नायासितज्ञाः कुलभृङ्गराजाः ।। १७.९ ।।
सुरक्तपद्मोदरकोमलाग्र-
नखाङ्गुलीभिः प्रसृतैः सुराणाम् ।
वराङ्गनाभिः पदपङ्क्तिमुच्चै-
विंहाय भूमिं त्वपि वृत्रशत्रोः ।। १७.१० ।।
क्वचित् समीपे तमतीव हृष्टै-
र्नानाद्विजैः षट्चृरणैश्च मत्तैः ।
वासद्भिरुच्चैर्विविधप्रमाणाः
शाखाः सुपुष्पाः समयोगयुक्ताः ।। १७.११ ।।
कदम्बनीपार्ज्जुनशीलशाल-
लतागृहस्थैर्मधुरस्वरेण ।
जुष्टं विहङ्गैः सुजनप्रयोगा
निराकुला कार्यधृतिर्यथास्थैः ।। १७.१२ ।।
मखाग्निधूमैरुदिताग्निहोमै-
स्ततः समन्तात् गृहमेधिभिर्द्विजैः ।
सिंहैरिवाधर्म्मकरी विदारितः
स तीक्ष्णदंष्ट्रैर्वरमत्तकेसरैः ।। १७.१३ ।।
एवं स राजा विविधानुपायान्
वराश्रमे प्रेक्षमाणो विवेश ।
तस्मिद् प्रविष्टे तु स तीव्रतेजा
महातपाः पुण्यकृतां प्रधानः ।
दृष्टो यथा भानुरनन्तभानुः
कौश्यासने ब्रह्मविदां प्रधानः ।। १७.१४ ।।
दृष्ट्वा स राजा विजयी मृगाणां
मतिं विसस्मार मुनेः प्रसङ्गात् ।
चकार धर्मं प्रति मानसं सो
अनुत्तमं प्राप्य नृपो मुनिं सः ।। १७.१५ ।।
स मुनिस्तं नृपं दृष्ट्वा प्रजापालमकल्मषम् ।
अभ्यागतक्रियां चक्रे आसनस्वागतादिभिः ।। १७.१६ ।।
ततः कृतासनो राजा प्रणम्य ऋषिपुङ्गवम् ।
पप्रच्छ वसुधे प्रश्नमिमं परमदुर्लभम् ।। १७.१७ ।।
भगवन् दुःखसंसारमग्नैः पुम्भिस्तितीर्षुभिः ।
यत्कार्यं तन्ममाचक्ष्व प्रणते शंसितव्रत ।। १७.१८ ।।
महातपा उवाच ।
संसारार्णवमज्जमानमनुजैः पोतः स्थिरोऽतिध्रुवः
कार्यः पूजनदानहोमविविधैर्यज्ञैः समं ध्यायनैः ।
कीलैः कीलितमोक्षभिः सुरभटैरूर्ध्वं महारज्जुभिः
प्राणाद्यैरधुना कुरुष्व नृपते पोतं त्रिलोकेश्वरम् ।। १७.१९ ।।
नारायणं नरकहरं सुरेशं
भक्त्या नमस्कुर्वति यो नृपेश ।
स वीतशोकः परमं विशोकं
प्राप्नोति विष्णोः पदमव्ययं तत् ।। १७.२० ।।
नृप उवाच ।
भगवन् सर्वधर्मज्ञ कथं विष्णुः सनातनः ।
पूज्यते मोक्षमिच्छद्भिः पुरुषैर्वद तत्त्वतः ।। १७.२१ ।।
महातपा उवाच ।
श्रृणु राजन् महाप्राज्ञ यथा विष्णुः प्रसीदति ।
पुरुषाणां तथा स्त्रीणां सर्वयोगीश्वरो हरिः ।। १७.२२ ।।
सर्वे देवाः सपितरो ब्रह्माद्याश्चाण्डमध्यगाः ।
विष्णोः सकाशादुत्पन्ना इतीयं वैदिकी श्रुतिः ।। १७.२३ ।।
अग्निस्तथाश्विनौ गौरी गजवक्त्रभुजंगमाः ।
कार्तिकेयस्तथादित्यो मातरो दुर्गया सह ।। १७.२४ ।।
दिशो धनपतिर्विष्णुर्यमो रुद्रः शशी तथा ।
पितरश्चेति संभूताः प्राधान्येन जगत्पतेः ।। १७.२५ ।।
हिरण्यगर्भस्य तनौ सर्वं एव समुद्भवाः ।
पृथक्पृथक् ततो गर्वं वहमानाः समन्ततः ।। १७.२६ ।।
अहं योग्यस्त्वहं याज्य इति तेषां स्वनो महान् ।
श्रूयते देवसमितौ सागरक्षुब्धसन्निभः ।। १७.२७ ।।
तेषां विवदमानानां वह्निरुत्थाय पार्थिव ।
उवाच मां यजस्वेति ध्यायध्वं मामिति ब्रुवन् ।। १७.२८ ।।
प्राजापत्यमिदं नूनं शरीरं मद्विनाकृतम् ।
विनाशमुपपद्येत यतो नाहं महानहम् ।। १७.२९ ।।
एवमुक्त्वा शरीरं तु त्यक्त्वा वह्निर्विनिर्ययौ ।
निर्गतेऽपि ततस्तस्मिंस्तच्छरीरं न शीर्यते ।। १७.३० ।।
ततोऽश्विनौ मूर्तिमन्तौ प्राणापानौ शरीरगौ ।
आवां प्रधानावित्येवमूचतुर्याज्यसत्तमौ ।। १७.३१ ।।
एवमुक्त्वा शरीरं तु विहाय क्वचिदास्थितौ ।
तयोरपि क्षयं कृत्वा क्षेत्री तत्पुरमास्थितः ।। १७.३२ ।।
ततो वागब्रबीद् गौरी प्राधान्यं मयि संस्थितम् ।
साऽप्येवमुक्त्वा क्षेत्रात् तु निश्चक्राम बहिः शुभा ।। १७.३३ ।।
तया विनापि तत्क्षेत्रं वागूनं व्यवतिष्ठत ।
ततो गणपतिर्वाक्यमाकाशाख्योऽब्रवीत् तदा ।। १७.३४ ।।
न मया रहितं किञ्चिच्छरीरं स्थायि दूरतः ।
कालान्तरेत्येवमुक्त्वा सोऽपि निष्क्रम्य देहतः ।। १७.३५ ।।
पृथग्भूतस्तथाप्येतच्छरीरं नाप्यनीनशत् ।
विनाकाशाख्यतत्त्वेन तथापि न विशीर्यते ।। १७.३६ ।।
सुषिरैस्तु विहीनं तु दृष्ट्वा क्षेत्रं व्यवस्थितम् ।
शरीरधातवः सर्वे ते ब्रूयुर्वाक्यमेव हि ।। १७.३७ ।।
अस्माभिर्व्यतिरिक्तस्य न शरीरस्य धारणम् ।
भवतीत्येवमुक्त्वा ते जहुः सर्वे शरीरिणः ।। १७.३८ ।।
तैर्व्यपेतमपि क्षेत्रं पुरुषेण प्रपाल्यते ।
तं दृष्ट्वा त्वब्रवीत् स्कन्दः सोऽहंकारः प्रकीर्तितः ।। १७.३९ ।।
मया विना शरीरस्य संभूतिरपि नेष्यते ।
एवमुक्त्वा शरीरात् तु सोऽभ्यपेतः पृथक् स्थितः ।। १७.४० ।।
तेनाक्षतेन तत्क्षेत्रं विना मुक्तवदास्थितम् ।
तं दृष्ट्वा कुपितो भानुः स आदित्यः प्रकीर्तितः ।। १७.४१ ।।
मया विना कथं क्षेत्रमिमं क्षणमपीष्यते ।
एवमुक्त्वा प्रयातः स तच्छरीरं न शीर्यते ।। १७.४२ ।।
ततः कामादिरुत्थाय गणो मातृविसंज्ञितः ।
न मया व्यतिरिक्तस्य शरीरस्य व्यवस्थितिः ।
एवमुक्त्वा स यातस्तु शरीरं तन्न शीर्यते ।। १७.४३ ।।
ततो मायाऽब्रवीत्कोपात् सा च दुर्गा प्रकीर्तिता ।
न मयाऽस्य विना भूतिरित्युक्त्वाऽन्तर्दधे पुनः ।। १७.४४ ।।
ततो दिशः समुत्तस्थुरूचुश्चेदं वचो महत् ।
नास्माभी रहितं कार्यं भवतीति न संशयः ।
चतस्त्र आगताः काष्ठा अपयाताः क्षणात् तदा ।। १७.४५ ।।
ततो धनपतिर्वायुर्मय्यपेते क्व संभवः ।
शरीरस्येति सोप्येवमुक्त्वा मूर्धानगोऽभवत् ।। १७.४६ ।।
ततो विष्णुर्मनो ब्रूयान्नायं देहो मया विना ।
क्षणमप्युत्सहेत् स्थातुमित्युक्त्वाऽन्तर्दधे पुनः ।। १७.४७ ।।
ततो धर्मोऽब्रवीत् सर्वमिदं पालितवानहम् ।
इदानीमप्युपगते कथमेतद्भविष्यति ।। १७.४८ ।।
एवमुक्त्वा गतो धर्मस्तच्छरीरं न शीर्यते ।
ततोब्रवीन्महादेवः अव्यक्तो भूतनायकः ।। १७.४९ ।।
महत्संज्ञो मया हीनं शरीरं नो भवेद् यथा ।
एवमुक्त्वा गतः शम्भुस्तच्छरीरं न शीर्यते ।। १७.५० ।।
तं दृष्ट्वा पितरश्चोचुस्तन्मात्रा यावदस्मभिः ।
प्रगतैरेभिरेतच्च शरीरं शीर्यते ध्रुवम् ।
एवमुक्त्वा तु ते देहं त्यक्त्वाऽन्तर्द्धानमागताः ।। १७.५१ ।।
अग्निः प्राणो अपानश्च आकाशं सर्वधातवः ।
क्षेत्रं तद्वदहंकारो भानुः कामादयो मया ।
काष्ठा वायुर्विष्णुर्धर्म शम्भुस्तथेन्द्रियार्थकाः ।। १७.५२ ।।
एतैर्मुक्तं तु तत्क्षेत्रं तत् तथैव व्यवस्थितम् ।
सोमेन पाल्यमानं तु पुरुषेणेन्दुरूपिणा ।। १७.५३ ।।
एवं व्यवस्थिते सोमे षोडशात्मन्यथाक्षरे ।
प्राग्वत् तत्र गुणोपेतं क्षेत्रमुत्थाय बभ्रम ।। १७.५४ ।।
प्रागवस्थं शरीरं तु दृष्ट्वा सर्वज्ञपालितम् ।
ताः क्षेत्रदेवताः सर्वा वैलक्षं भावमाश्रिताः ।। १७.५५ ।।
तमेवं तुष्टुवुः सर्वास्तं देवं परमेश्वरम् ।
स्वस्थानमीयिषुः सर्वास्तदा नृपतिसत्तम ।। १७.५६ ।।
त्वमग्निस्त्वं तथा प्राणस्त्वमपानः सरस्वती ।
त्वमाकाशं धनाध्यक्षस्त्वं शरीरस्य धातवः ।। १७.५७ ।।
अहंकारो भवान् देव त्वमादित्योऽष्टको गणः ।
त्वं माया पृथिवी दुर्गा त्वं दिशस्त्वं मरुत्पतिः ।। १७.५८ ।।
त्वं विष्णुस्त्वं तथा धर्मस्त्वं जिष्णुस्त्वं पराजितः ।
अक्षरार्थस्वरूपेण परमेश्वरसंज्ञितः ।। १७.५९ ।।
अस्माभिरपयातैस्तु कथमेतद्भविष्यति ।
एवमत्र शरीरं तु त्यक्तमस्माभिरेव च ।। १७.६० ।।
तत् परं भवता देव तदवस्थं प्रपाल्यते ।
स्थानभङ्गो न नः कार्यः स्वयं सृष्ट्वा प्रजापते ।। १७.६१ ।।
एवं स्तुतस्ततो देवस्तेषां तोषं परं ययौ ।
उवाच चैतान् क्रीडार्थं भवन्तोत्पादिता मया ।। १७.६२ ।।
कृतकृत्यस्य मे किं नु भवद्भिर्विप्रयोजनम् ।
तथापि दद्मि वो रूपे द्वे द्वे प्रत्येकशोऽधुना ।। १७.६३ ।।
भूतकार्येष्वमूर्तेन देवलोके तु मूर्तिना ।
तिष्ठध्वमपि कालान्ते लयं त्वाविशत द्रुतम् ।। १७.६४ ।।
शरीराणि पुनर्नैवं कर्त्तव्योऽहमिति क्वचित् ।
मूर्त्तीनां च तथा तुभ्यं दद्मि नामानि वोऽधुना ।। १७.६५ ।।
अग्नेर्वैश्वानरो नाम प्राणापानौ तथाश्विनौ ।
भविष्यति तथा गौरी हिमशैलसुता तथा ।। १७.६६ ।।
पृथिव्यादिगणस्त्वेष गजवक्त्रो भविष्यति ।
शरीरधातवश्चेमे नानाभूतानि एव तु ।
अहंकारस्तथा स्कन्दः कार्त्तिकेयो भविष्यति ।। १७.६७ ।।
भानुश्चादित्यरूपोऽसौ मूर्त्तामूर्त्त च चक्षुषी ।
कामाद्योऽयं गणो भूयो मातृरूपो भविष्यति ।। १७.६८ ।।
शरीरमाया दुर्गैषा कारणान्ते भविष्यति ।
दश कन्या भविष्यन्ति काष्ठास्त्वेतास्तु वारुणाः ।। १७.६९ ।।
अयं वायुर्धनेशस्तु कारणान्ते भविष्यति ।
अयं मनो विष्णुनामा भविष्यति न संशयः ।। १७.७० ।।
धर्मोऽपि यमनामा च भविष्यति न संशयः ।
महत्तत्त्वं च भगवान् महादेवो भविष्यति ।। १७.७१ ।।
इन्द्रियार्थाश्च पितरो भविष्यन्ति न संशयः ।
अयं सोमः स्वयं भूत्वा यामित्रं सर्वदामराः ।। १७.७२ ।।
एवं वेदान्तपुरुषः प्रोक्तो नारायणात्मकः ।
स्वस्थाने देवताः सर्वा देवस्तु विरराम ह ।। १७.७३ ।।
एवं प्रभावो देवोऽसौ वेदवेद्यो जनार्दनः ।
कथितो नृपते तुभ्यं किमन्यच्छ्रोतुमिच्छसि ।। १७.७४ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तदशोऽध्यायः ।। १७ ।।
प्रजापाल उवाच ।
कथमग्नेः समुत्पत्तिरश्विनोर्वा महामुने ।
गौर्या गणपतेर्वाऽपि नागानां वा गुहस्य च ।। १८.१ ।।
आदित्यचन्द्रमातॄणां दुर्गाया वा दिशां तथा ।
धनदस्य च विष्णोर्वा धर्मस्य परमेष्ठिनः ।। १८.२ ।।
शम्भोर्वापि पितॄणां च तथा चन्द्रमसो मुने ।
शरीरदेवता ह्येताः कथं मूर्त्तित्वमागताः ।। १८.३ ।।
किं च तासां मुने भोज्यं का वा संज्ञा तिथिश्च का ।
यस्यां यष्टास्त्वमी पुंसां फलं यच्छन्त्यनामयम् ।
एतन्मे सरहस्यं तु मुने त्वं वक्तुमर्हसि ।। १८.४ ।।
महातपा उवाच ।
योगसाध्यः स्वरूपेण आत्मा नारायणात्मकः ।
सर्वज्ञः क्रीडतस्तस्य भोगेच्छा चात्मनात्मनि ।
क्षोभितेऽभून्महाभूते एतच्छब्दं तदद्भुतम् ।। १८.५ ।।
तमप्यप्रीतिमत्तोयं विकारं समरोचयत् ।
विकुर्वतस्तस्य तदा महानग्निः समुत्थितः ।
कोटिज्वालापरीवारः शब्दवान् दहनात्मकः ।। १८.६ ।।
असावप्यतितेजस्वी विकारं समरोचयत् ।
विकुर्वतो बभौ वह्नेर्वायुः परमदारुणः ।
तस्मादपि विकारस्थादाकाशं समपद्यत ।। १८.७ ।।
तच्छब्दलक्षणं व्योम स च वायुः प्रतापवान् ।
तच्च तेजोऽम्भसा युक्तं श्लिष्टमन्योन्यतस्तदा ।। १८.८ ।।
तेजसा शोषितं तोयं वायुना उग्रगामिना ।
बाधितेन तथा व्योम्ना मार्गे दत्ते तु तत्क्षणात् ।। १८.९ ।।
पिण्डीभूतं तथा सर्वं काठिन्यं समपद्यत ।
सेयं पृथ्वी महाभाग तेषां वृद्धतराऽभवत् ।। १८.१० ।।
चतुर्णां योगकाठिन्यादेकैकगुणवृद्धितः ।
पृथ्वी पञ्चगुणा ज्ञेया तेऽप्येतस्यां व्यवस्थिताः ।। १८.११ ।।
स च काठिन्यकं कुर्वन् ब्रह्माण्डं समपद्यत ।
तस्मिन् नारायणो देवश्चतुर्मूर्तिश्चतुर्भुजः ।। १८.१२ ।।
प्राजापत्येन रूपेण सिसृक्षुर्विविधाः प्रजाः ।
चिन्तयन् नाधिगच्छेत सृष्टिं लोकपितामहः ।। १८.१३ ।।
ततोऽस्य सुमहान् कोपो जज्ञे परमदारुणः ।
तस्मात् कोपात् सहस्त्रार्चिरुत्तस्थौ दहनात्मकः ।। १८.१४ ।।
स तं दिधक्षुर्ब्रह्माणं ब्रह्मणोक्तस्तदा नृप ।
हव्यं कव्यं वहस्वेति ततोऽसौ हव्यवाहनः ।। १८.१५ ।।
ब्रह्माणं क्षुधितः प्रायात् किं करोमि प्रसाधि माम् ।
स ब्रह्मा प्रत्युवाचाथ त्रिधा तृप्तिमवाप्स्यसि ।। १८.१६ ।।
दत्तासु दक्षिणास्वादौ तृप्तिर्भूत्वा यतोऽमरान् ।
नयसे दक्षिणाभागं दक्षिणाग्निस्ततोऽभवत् ।। १८.१७ ।।
आ समन्ताद्धुतं किंचिद् यत् त्रिलोके विभावसो ।
तद् वहस्व सुरार्थाय ततस्त्वं हव्यवाहनः ।। १८.१८ ।।
गृहं शरीरमित्युक्तं तत्पतिस्त्वं यतोऽधुना ।
अतो वै गार्हपत्यस्त्वं भव सर्वगतो विभो ।। १८.१९ ।।
विश्वान् नरान् हुतो येन नयसे सद्गतिं प्रभो ।
अतो वैश्वानरो नाम तव वाक्यं भविष्यति ।। १८.२० ।।
द्रविणं बलमित्युक्तं धनं च द्रविणं यतः ।
ददाति तद् भवानेव द्रविणोदास्ततोऽभवत् ।। १८.२१ ।।
तनुं पास्यतनुं पासि येन त्वं सर्वदा विभो ।
ततस्तनूनपान्नाम तव वत्स भविष्यति ।। १८.२२ ।।
भवान् जातानि वै वेद अजातानि च येन वै ।
अतस्ते नाम भवतु जातवेदा इति प्रभो ।। १८.२३ ।।
नाराः सामान्यतः पुंसो विशेषेण द्विजातयः ।
ते शंसन्ति यतस्त्वां तु नाराशंसस्ततो भव ।। १८.२४ ।।
अगस् तिरोभवेन्नित्यं निःशब्दो निश्चयात्मकः ।
अगस्त्वं सर्वगत्वाच्च तेनाग्निस्त्वं भविष्यसि ।। १८.२५ ।।
ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते ।
पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। १८.२६ ।।
याज्यान्येतानि नामानि तव पुत्र महामखे ।
यजन्तस्त्वां नराः कामैस्तर्पयिष्यन्त्यसंशयम् ।। १८.२७ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टादशोऽध्यायः ।। १८ ।।
महातपा उवाच ।
विष्णोर्विभूतिमाहात्म्यं कथितं ते प्रसङ्गतः ।
तिथीनां श्रृणु माहात्म्यं कथ्यमानं मया नृप ।। १९.१ ।।
इत्थंभूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् ।
उवाच देवं ब्रह्माणं तिथिर्मे दीयतां विभो ।
यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ।। १९.२ ।।
ब्रह्मोवाच ।
देवानामथ यक्षाणां गन्धर्वाणां च सत्तम ।
आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ।। १९.३ ।।
त्वत्पदात् प्रतिपदं चान्या संभविष्यन्ति देवताः ।
अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ।। १९.४ ।।
तस्यां तिथौ हविष्येण प्राजापत्येन मूर्तिना ।
होष्यन्ति तेषां प्रीताः स्युः पितरः सर्वदेवताः ।। १९.५ ।।
चतुर्विधानि भूतानि मनुष्याः पशवोऽसुराः ।
देवाः सर्वे सगन्धर्वाः प्रीताः स्युस्तर्पिते त्वयि ।। १९.६ ।।
यश्चोपवासं कुर्वीत त्वद्भक्तः प्रतिपद्दिने ।
क्षीराशनो वा वर्त्तेत श्रृणु तस्य फलं महत् ।। १९.७ ।।
चतुर्युगानि षट्त्रिंशत् स्वर्लोकेऽसौ महीयते ।
तेजस्वी रूपसंपन्नो द्रव्यवान् जायते नरः ।। १९.८ ।।
इह जन्मन्यसौ राजा प्रेत्य स्वर्गे महीयते ।
तूष्णीं बभूव सोप्यग्निर्ब्रह्मदत्ताश्रयं ययौ ।। १९.९ ।।
य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः ।
अग्नेर्जन्म स पापेभ्यो मुच्यते नात्र संशयः ।। १९.१० ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनविंशोऽध्यायः ।। १९ ।।
प्रजापाल उवाच ।
एवमग्नेः समुत्पत्तिर्जाता ब्रह्मन् महात्मनः ।
प्राणापानौ कथं देवावश्विनौ संबभूवतुः ।। २०.१ ।।
मरीचिर्ब्रह्मणः पुत्रः स्वयं ब्रह्मा द्विसप्तभिः ।
रूपैर्व्यवस्थितस्तेषां मरीचिः श्रेष्ठतामगात् ।। २०.२ ।।
तस्य पुत्रो महातेजाः कश्यपो नाम वै मुनिः ।
स्वयं प्रजापतिः श्रीमान् देवतानां पिताऽभवत् ।। २०.३ ।।
तस्य पुत्रा बभूवुर्हि आदित्या द्वादश प्रभो ।
अदित्यपत्यानि ते सर्वे आदित्यास्तेन कीर्तिताः ।। २०.४ ।।
तेषां मध्ये महातेजा मार्त्तण्डो लोकविश्रुतः ।
नारायणात्मकं तेजो द्वादशं संप्रकीर्तितम् ।। २०.५ ।।
ये ते मासास्त आदित्याः स्वयं संवत्सरो हरिः ।
एवं ते द्वादशादित्या मार्त्तण्डश्च प्रधानवान् ।। २०.६ ।।
तस्य त्वष्टा ददौ कन्यां संज्ञां नाम महाप्रभाम् ।
तस्यापत्यद्वयं जज्ञे यमश्च यमुना तथा ।। २०.७ ।।
तस्य तेजोऽप्यसहती बभूवाश्वी मनोजवा ।
स्वां छायां तत्र संस्थाप्य सा जगमोत्तरान् कुरून् ।। २०.८ ।।
तद्रूपां तां सवर्णां तु भेजे मार्त्तण्डभास्करः ।
तस्या अपि द्वयं जज्ञे शनिं तपतिमेव च ।। २०.९ ।।
यदा त्वसदृशं भेजे पुत्रान् प्रति नरोत्तम ।
संज्ञां प्रोवाच भगवान् क्रोधसंरक्तलोचनः ।
असमत्वं न कर्त्तव्यं स्वेष्वपत्येषु भामिनि ।। २०.१० ।।
एवमुक्ता यदा सा तु असमत्वं व्यरोचत ।
तदा यमः स्वपितरं प्रोवाच भृशदुःखितः ।। २०.११ ।।
नेयं माता भवेत् तात अस्माकं शत्रुवत् सदा ।
सपत्नीव वृथाचारा स्वेस्वपत्येषु वत्सला ।। २०.१२ ।।
एवं यमवचः श्रुत्वा सा छाया क्रोधमूर्च्छिता ।
शशाप प्रेतराजस्त्वं भविष्यस्यचिरादिव ।। २०.१३ ।।
एवं श्रुत्वाऽथ मार्त्तण्डस्तदा पुत्रहितैषया ।
उवाच मध्यवर्ती त्वं भविता धर्मपापयोः ।
लोकपालश्च भविता त्वं पुत्र दिवि शोभसे ।। २०.१४ ।।
शनिं शशाप मार्त्तण्डश्छायाकोपप्रधर्षितः ।
त्वं क्रूरदृष्टिर्भविता मातृदोषेण पुत्रक ।। २०.१५ ।।
एवमुक्त्वा समुत्थाय योगं भानुर्दिदृक्षया ।
तामपश्यत्त्वसौ साश्वी उत्तरेषु कुरुष्वथ ।। २०.१६ ।।
ततोऽश्वरूपं कृत्वा स गत्वा तत्रोत्तरान् कुरून् ।
प्राजापत्येन मार्गेण युयोजात्मानमात्मना ।। २०.१७ ।।
तस्यां त्वाष्ट्र्यामश्वरूप्यां मार्त्तण्डस्तीव्रतेजसः ।
बीजं निर्वापयामास तज्ज्वलन्तं द्विधाऽपतत् ।। २०.१८ ।।
तत्र प्राणस्त्वपानश्च योनौ चात्मजितौ पुरा ।
वरदानेन च पुनर्मूर्त्तिमन्तौ बभूवतुः ।। २०.१९ ।।
तौ त्वाष्ट्र्यामश्वरूपिण्यां जातौ येन नरोत्तमौ ।
ततस्तावश्विनौ देवौ कीर्त्त्येते रविनन्दनौ ।। २०.२० ।।
प्रजापतिः स्वयं भानुस्त्वाष्ट्री शक्तिः परापरा ।
तस्याः प्राग्वच्छरीरस्थावमूर्त्तौ मूर्तिमाश्रितौ ।। २०.२१ ।।
ततस्तावश्विनौ देवौ मार्त्तण्डमुपतस्थतुः ।
ऊचतुः स्वरुचिं तावत् किं कर्त्तव्यमथावयोः ।। २०.२२ ।।
मार्त्तण्ड उवाच ।
पुत्रौ प्रजापतिं देवं भक्त्याराधयतां वरम् ।
नारायणं स वो दाता वरं नूनं भविष्यति ।। २०.२३ ।।
एवं तावश्विनौ प्रोक्तौ मार्त्तण्डेन महात्मना ।
तेपतुस्तीव्रतपसौ तपः परमदुश्चरम् ।
ब्रह्मपारमयं स्तोत्रं जपन्तौ तु समाहितौ ।। २०.२४ ।।
तयोः कालेन महता ब्रह्मा नारायणात्मकः ।
तुतोष परमप्रीत्या वरं चैतं ददौ तयोः ।। २०.२५ ।।
प्रजापाल उवाच ।
अश्विभ्यामीरितं स्तोत्रं ब्रह्मणोऽव्यक्तजन्मनः ।
श्रोतुमिच्छाम्यहं ब्रह्मंस्त्वत्प्रसादान्महामुने ।। २०.२६ ।।
महातपा उवाच ।
श्रृणु राजन् यथा स्तोत्रमश्विभ्यां ब्रह्मणः कृतम् ।
ईदृशं च फलं प्राप्तं तयोः स्तोत्रस्य चानघ ।। २०.२७ ।।
ॐनमस्ते निष्क्रिय निष्प्रपञ्च निराश्रय निरपेक्ष निरालम्ब
निर्गुण निरालोक निराधार निर्जय निराकार ।
ब्रह्मन् महाब्रह्मन् ब्राह्मणप्रिय पुरुष महापुरुषोत्तम ।
देव महादेवोत्तम स्थाणो स्थितस्थापक ।
भूत महाभूत भूताधिपति यक्ष महायक्ष यक्षाधिपते ।
गुह्य महागुह्याधिपते सौम्य महासौम्य सौम्याधिपते ।
पक्षि महापक्षिपते दैत्य महादैत्याधिपते ।
रुद्र महारुद्राधिपते विष्णु महाविष्णुपते ।
परमेश्वर नारायण प्रजापतये नमः ।
एवं स्तुतस्तदा ताभ्यामश्विभ्यां स प्रजापतिः ।
तुतोष परमप्रीत्या वाक्यं चेदमुवाच ह ।। २०.२८ ।।
वरं वरयतां शीघ्रं देवैः परमदुर्लभम् ।
येन मे वरदानेन चरतस्त्रिदिवं सुखम् ।। २०.२९ ।।
अश्विनावूचतुः ।
आवयोर्यज्ञभागं तु देहि देव प्रजापते ।
सोमपत्वं च देवानां सामान्यत्वं च शाश्वतम् ।। २०.३० ।।
ब्रह्मोवाच ।
रूपं कान्तिरनौपम्यं भिषक्त्वं सर्ववस्तुषु ।
सोमपत्वं च लोकेषु सर्वमेतद् भविष्यति ।। २०.३१ ।।
एतत् सर्वं द्वितीयायामश्विभ्यां ब्रह्मणा पुरा ।
दत्तं यस्मादतस्तेषां तिथीनामुत्तमा तिथिः ।। २०.३२ ।।
एतस्यां रूपकामस्तु पुष्पाहारो भवेन्नरः ।
संवत्सरं शुचिर्नित्यं सुस्वरूपी भवेन्नरः ।
अश्विभ्यां ये गुणाः प्रोक्तास्ते तस्यापि भवन्ति च ।। २०.३३ ।।
य इदं श्रृणुयान्नित्यमश्विभ्यां जन्म चोत्तमम् ।
सर्वपापविनिर्मुक्तः पुत्रवान् जायते नरः ।। २०.३४ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे विंशोऽध्यायः ।। २० ।।
महातपा उवाच ।
पूर्वं प्रजापतिर्देवः सिसृक्षुर्विविधाः प्रजाः ।
चिन्तयामास धर्मात्मा यदा ता नाध्यगच्छत ।। २१.२ ।।
तदाऽस्य कोपात् संजज्ञे स च रुद्रः प्रतापवान् ।
रोदनात् तस्य रुद्रत्वं संजातं परमेष्ठिनः ।। २१.३ ।।
तस्य ब्रह्मा शुभां कन्यां भार्यार्थं मूर्त्तिसंभवाम् ।
गौरी नाम्ना स्वयं देवी भारती तां ददौ पिता ।। २१.४ ।।
रुद्रायामितदेहाय स्वयं ब्रह्मा प्रजापतिः ।
स तां लब्ध्वा वरारोहां मुदा परमया युतः ।। २१.५ ।।
सर्गकालेषु तं ब्रह्मा तपसा प्रत्युवाच ह ।
रुद्र प्रजाः सृजस्वेति पौनःपुन्येन चोदितः ।
असमर्थोऽहमिति जले निमज्जत महाबलः ।। २१.६ ।।
तपोर्थित्वं तपोहीनः स्त्रष्टुं शक्नोति न प्रजाः ।
एवं चिन्त्य जले मग्नस्ततो रुद्रः प्रतापवान् ।। २१.७ ।।
तस्मिन् निमग्ने देवेशे तां ब्रह्मा कन्यकां पुनः ।
अन्तःशरीरगां कृत्वा गौरीं परमशोभनाम् ।। २१.८ ।।
पुनः सिसृक्षुर्भगवानसृजत् सप्त मानसान् ।
दक्षं च तेषामारभ्य प्रजाः सम्यग् व्यवर्द्धिताः ।। २१.९ ।।
तत्र दाक्षायणीपुत्राः सर्वे देवाः सवासवाः ।
वसवोऽष्टौ च रुद्राश्च आदित्या मरुतस्तथा ।। २१.१० ।।
साऽपि दक्षाय सुश्रोणी गौरी दत्ताथ ब्रह्मणा ।
दुहितृत्वे पुरा या हि रुद्रेणोढा महात्मना ।। २१.११ ।।
सा च दाक्षायणी देवी पुनर्भूता नृपोत्तम ।
ततो दक्षः प्रहृष्टात्मा दौहित्रान् स्वान् स वृद्धिकृत् ।
दृष्ट्वा यज्ञमथारेभे प्रीणनाय प्रजापतिः ।। २१.१२ ।।
तत्र ब्रह्मसुताः सर्वे मरीच्यादय एव च ।
चक्रुरार्त्त्विज्यकं कर्म्म स्वे स्वे मार्गे व्यवस्थिताः ।। २१.१३ ।।
ब्रह्मा स्वयं मरीच्यस्तु बभूवाऽन्ये तथापरे ।
अत्रिस्तु यज्ञकर्मस्थ आग्नीध्रस्त्वङ्गिरा भवत् ।। २१.१४ ।।
होता पुलस्त्यस्त्वभवदुद्गाता पुलहोऽभवत् ।
क्रतौ क्रतुस्तु प्रस्तोता तदा यज्ञे महातपाः ।। २१.१५ ।।
प्रतिहर्ता प्रचेतास्तु तस्मिन् क्रतुवरे बभौ ।
सुब्रह्मण्यो वसिष्ठस्तु सनकाद्याः सभासदः ।
तत्र याज्यः स्वयं ब्रह्मा स च इज्यस्तु पूज्यते ।। २१.१६ ।।
पूज्या दक्षस्य दौहित्रा रुद्रादित्याङ्गिरादयः ।
प्रत्यक्षपितरस्ते हि तैः प्रीतैः प्रीयते जगत् ।। २१.१७ ।।
तत्र भागार्थिनो देवा आदित्या वसवस्तथा ।
विश्वेदेवाः सपितरो गन्धर्वाद्या मरुद्गणाः ।। २१.१८ ।।
जगृहुर्यज्ञभागान् स्वान् यावत् ते हविषोर्पितान् ।
तावत्कालं जलात् सद्य उत्तस्थौ ब्रह्मणः पुनः ।। २१.१९ ।।
रुद्रः कोपोद्भवो यस्तु पूर्वं मग्नो महाजले ।
स सहस्त्रार्कसंकाशो निश्चक्राम जलात् ततः ।। २१.२० ।।
सर्वज्ञानमयो देवः सर्वदेवमयोऽमलः ।
प्रत्यक्षदर्शी सर्वस्य जगतस्तपसा बभौ ।। २१.२१ ।।
तस्मिंस्तु काले पञ्चानां जातः सर्गो नरोत्तम ।
दिव्यानां पृथिवीस्थानां चतुर्णामरजातिनाम् ।। २१.२२ ।।
रौद्रसर्गस्य संभूतिस्तदा सद्योऽपि जायते ।
इदानीं रुद्रसर्गं त्वं श्रृणु पार्थिवसत्तम ।। २१.२३ ।।
दशवर्षसहस्त्राणि तपश्चीर्त्वा महज्जले ।
प्रतिबुद्धो यदा रुद्रस्तदा चोर्वों सकाननाम् ।
दृष्ट्वा सस्यवतीं रम्यां मनुष्यपशुसंकुलाम् ।। २१.२४ ।।
शुश्राव च तदा शब्दानृत्विजां दक्षसद्मनि ।
आश्रमे यज्ञिनां चोच्चैर्योगस्थैरिति कीर्त्तितम् ।। २१.२५ ।।
ततः श्रुत्वा महातेजाः सर्वज्ञः परमेश्वरः ।
चुकोप सुभृशं देवो वाक्यं चेदमुवाच ह ।। २१.२६ ।।
अहं पूर्वं तु कविना सृष्टः सर्वात्मना विभुः ।
प्रजाः सृजस्वेति तदा वाक्यमेतत् तथोक्तवान् ।। २१.२७ ।।
इदानीं केन तत्कर्म कृतं सृष्ट्यादिवर्णनम् ।
एवमुक्त्वा भृशं कोपान्ननाद परमेश्वरः ।। २१.२८ ।।
तस्य नानदतो ज्वालाः श्रोत्रेभ्यो निर्ययुस्तदा ।
तत्र भूतानि वेताला उच्छ्रुष्माः प्रेतपूतनाः ।। २१.२९ ।।
कूष्माण्डा यातुधानाश्च सर्वे प्रज्वलिताननाः ।
उत्तस्थुः कोटिशस्तत्र नानाप्रहरणावृताः ।। २१.३० ।।
ते दृष्ट्वा भूतसंघाता विविधायुधपाणयः ।
ससर्ज वेदविद्याङ्गं रथं परमशोभनम् ।। २१.३१ ।।
तस्मिन्नृगादयस्त्वश्वास्त्रितत्त्वं च त्रिवेणुकम् ।
त्रिपूजकं त्रिषवणं धर्माक्षं मारुतध्वनिम् ।। २१.३२ ।।
अहोरात्रे पताके द्वे धर्माधर्मे तु दण्डके ।
शकटं सर्वविद्याश्च स्वयं ब्रह्मादिसारथिः ।। २१.३३ ।।
गायत्री च धनुस्तस्य ओङ्कारो गुण एव च ।
स्वराः सप्त शरास्तस्य देवदेवस्य सुव्रत ।। २१.३४ ।।
एवं कृत्वा स सामग्रीं देवदेवः प्रतापवान् ।
जगाम दक्षयज्ञाय कोपाद् रुद्रः प्रतापवान् ।। २१.३५ ।।
गच्छतस्तस्य देवस्य अम्बराङ्गिरसं नयत् ।
ऋत्विजां मन्त्रनिचयो नष्टो रुद्रागमे तदा ।। २१.३६ ।।
विपरीतमिदं दृष्ट्वा तदा सर्वे च ऋत्विजः ।
ऊचुः संनह्यतां देवा महद् वो भयमागतम् ।। २१.३७ ।।
कश्चिदायाति बलवानसुरो ब्रह्मनिर्मितः ।
यज्ञभागार्थमेतस्मिन् क्रतौ परमदुर्लभम् ।। २१.३८ ।।
एवमुक्तास्ततो देवा ऊचुर्मातामहं तदा ।
दक्ष तात किमत्रास्मत्कार्यं ब्रूहि विवक्षितम् ।। २१.३९ ।।
दक्ष उवाच ।
गृह्यन्तां द्रुतमस्त्राणि संग्रामोऽत्र विधीयताम् ।
एवमुक्ते तदा देवैर्विविधायुधधारिभिः ।
रुद्रस्यानुचरैः सार्धं महद्युद्धं प्रवर्तितम् ।। २१.४० ।।
तत्र वेतालभूतानि कूष्माण्डा ग्रहपूतनाः ।
युयुधुर्लोकपालैश्च नानाशस्त्रधराणि च ।। २१.४१ ।।
देवा रौद्राणि भूतानि निरसन्तो यमालयम् ।
चिक्षिपुः सायकान् घोरानसींश्च सपरश्वधान् ।। २१.४२ ।।
भूतान्यपि मृधे धोराण्युल्मुकैरस्थिभिः शरैः ।
जग्मुर्देवान् मृधे रोषाद् रुद्रस्य पुरतो बलात् ।। २१.४३ ।।
ततस्तस्मिन् महारौद्रे संग्रामे भीमरूपिणि ।
रुद्रो भगस्य नेत्रे तु बिभेदैकेषुणा मृधे ।। २१.४४ ।।
रुद्रस्य शरपातेन नष्टनेत्रं भगं तदा ।
दृष्ट्वाऽस्य क्रोधात् तेजस्वी पूषा रुद्रमयोधयत् ।। २१.४५ ।।
सृजन्तमिषुजालानि पूषणं तु महामृधे ।
दृष्ट्वा रुद्रोऽस्य दन्तांस्तु चकर्षं परवीरहा ।। २१.४६ ।।
तस्य दन्तांस्तदा दृष्ट्वा पूष्णो रुद्रेण पातितान् ।
दुद्रुवुः वसवो दिक्षु रुद्रास्त्वेकादश द्रुतम् ।। २१.४७ ।।
तान् भग्नान् सहसा दिक्षु दृष्ट्वा विष्णुः प्रतापवान् ।
आदित्यावरजो वाक्यमुवाच स्वबलं तदा ।। २१.४८ ।।
क्व यात पौरुषं त्यक्त्वा दर्पं माहात्म्यमेव च ।
व्यवसायं कुलं भूतिं कथं न स्मर्यते द्रुतम् ।। २१.४९ ।।
परमेष्ठिगुणैर्युक्तो लघुवद्भीतितः पुरा ।
नमस्कं कुरुते मोघं पृथिव्यां पद्मजः स्वयम् ।। २१.५० ।।
एवमुक्त्वा गरुत्मन्तमारुरोह हरिस्तदा ।
शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ।। २१.५१ ।।
ततो हरिहरं युद्धमभवल्लोमहर्षणम् ।
रुद्रः पाशुपतास्त्रेण विव्याध हरिमोजसा ।
हरिर्नारायणास्त्रेण रुद्रं विव्याध कोपवान् ।। २१.५२ ।।
नारायणं पाशुपतमुभेऽस्त्रे व्योम्नि रोषिते ।
युयुधाते भृशं दिव्यं परस्परजिघांसया ।
दिव्यं वर्षसहस्त्रं तु तयोर्युद्धमभूत् तदा ।। २१.५३ ।।
तत्रैकं मुकुटोद्बद्धं मूर्द्धन्यं जटजालकम् ।
एकं प्रध्मापयच्छङ्खमन्यडुमरुकं शुभम् ।। २१.५४ ।।
एकं खङ्गकरं तत्र तथाऽन्यं दण्डधारिणम् ।
एकं कौस्तुभदीप्ताङ्गमन्यं भूतिविभूषितम् ।। २१.५५ ।।
एकं गदां भ्रामयति द्वितीयं दण्डमेव च ।
एकं शोभति कण्ठस्थैर्मणिभिस्त्वस्थिभिः परम् ।
एकं पीताम्बरं तत्र द्वितीयं सर्पमेखलम् ।। २१.५६ ।।
एवं तौ स्पर्द्धिनावस्त्रौ रौद्रनारायणात्मकौ ।
अन्योऽन्यातिशयोपेतौ तदालोक्य पितामहः ।। २१.५७ ।।
उवाच शाम्यतामस्त्रौ स्वस्वभावेन सुव्रतौ ।
एवं ते ब्रह्मणा चोक्तौ शान्तभावं प्रजग्मतुः ।। २१.५८ ।।
तथा विष्णुहरौ ब्रह्मा वाक्यमेतदुवाच ह ।
उभौ हरिहरौ देवौ लोके ख्यातिं गमिष्यथः ।। २१.५९ ।।
अयं च यज्ञो विध्वस्तः संपूर्णत्वं गमिष्यति ।
दक्षस्य ख्यातिमाँल्लोकः संतत्याऽयं भविष्यति ।। २१.६० ।।
एवमुक्त्वा हरिहरौ तदा लोकपितामहः ।
ब्रह्मा लोकानुवाचेदं रुद्रभागोऽस्य दीयताम् ।। २१.६१ ।।
रुद्रभागो ज्येष्ठभाग इतीयं वैदिकी श्रुतिः ।
स्तुतिं च देवाः कुरुत रुद्रस्य परमेष्ठि नः ।। २१.६२ ।।
भगनेत्रहरं देवं पूष्णो दन्तविनाशनम् ।
स्तुतिं कुरुतमा शीघ्रं गीतैरेतैस्तु नामभिः ।
येनायं वः प्रसन्नात्मा वरदत्वं भजेत ह ।। २१.६३ ।।
एवमुक्तास्तु ते देवाः स्तोत्रं शंभोर्महात्मनः ।
चक्रुः परमया भक्त्या नमस्कृत्य स्वयंभुवे ।। २१.६४ ।।
देवा ऊचुः ।
नमो विषमनेत्राय नमस्ते त्र्यम्बकाय च ।
नमः सहस्त्रनेत्राय नमस्ते शूलपाणये ।। २१.६५ ।।
नमः खट्वाङ्गहस्ताय नमो दण्डभृते करे ।
त्वं देव हुतभुग्ज्वालाकोटिभानुसमप्रभः ।। २१.६६ ।।
अदर्शनेऽनयद् देव मूढविज्ञानतोऽधुना ।
कृतमस्माभिरेवेश तदत्र क्षम्यतां प्रभो ।। २१.६७ ।।
नमस्त्रिनेत्रार्त्तिहराय शंभो
त्रिशूलपाणे विकृतास्यरूप ।
समस्तदेवेश्वर शुद्धभाव
प्रसीद रुद्राच्युत सर्वभाव ।। २१.६८ ।।
पूष्णोऽस्य दन्तान्तक भीमरूप
प्रलम्बभोगीन्द्रलुलन्तकण्ठ ।
विशालदेहाच्युत नीलकण्ठ
प्रसीद विश्वेश्वर विश्वमूर्त्ते ।। २१.६९ ।।
भगाक्षिसंस्फोटनदक्षकर्मा
गृहाण भागं मखतः प्रधानम् ।
प्रसीद देवेश्वर नीलकण्ठ
प्रपाहि नः सर्वगुणोपपन्न ।। २१.७० ।।
सिताङ्गरागाप्रतिपन्नमूर्त्ते
कपालधारिंस्त्रिपुरघ्न देव ।
प्रपाहि नः सर्वभयेषु चैव
उमापते पुष्करनालजन्म ।। २१.७१ ।।
पश्याम ते देहगतान् सुरेश
सर्गादयो वेदवराननन्त ।
साङ्गान् सविद्यान् सपदक्रमांश्च
सर्वान् निलीनांस्त्वयि देवदेव ।। २१.७२ ।।
भव शर्व महादेव पिनाकिन् रुद्र ते हर ।
नताः स्म सर्वे विश्वेश त्राहि नः परमेश्वर ।। २१.७३ ।।
इत्थं स्तुतस्तदा देवैर्देवदेवो महेश्वरः ।
तुतोष सर्वदेवानां वाक्यं चेदमुवाच ह ।। २१.७४ ।।
रुद्र उवाच ।
भगस्य नेत्रं भवतु पूष्णो दन्तास्तथा मखः ।
दक्षस्याच्छिद्रतां यातु यज्ञश्चाप्यदितेः सुताः ।
पशुभावं तथा चापि अपनेष्यामि वो सुराः ।। २१.७५ ।।
मद्दर्शनेन यो जातः पशुभावो दिवौकसाम् ।
स मयाऽपहृतः सद्यः पतित्वं वो भविष्यति ।। २१.७६ ।।
अहं च सर्वविद्यानां पतिराद्यः सनातनः ।
अहं वै पतिभावेन पशुमध्ये व्यवस्थितः ।। २१.७७ ।।
अतः पशुपतिर्नाम मम लोके भविष्यति ।
ये मां यजन्ति तेषां स्याद् दीक्षा पाशुपती भवेत् ।। २१.७८ ।।
एवमुक्तेऽथ रुद्रेण ब्रह्मा लोकपितामहः ।
उवाच रुद्रं सस्नेहं स्मितपूर्वमिदं वचः ।। २१.७९ ।।
ध्रुवं पाशुपतिर्देव त्वं लोके ख्यातिमेस्यति ।
अयं च देवस्त्वन्नाम्ना लोके ख्यातिं गमिष्यति ।
आराध्यश्च समस्तानां देवादीनां गमिष्यसि ।। २१.८० ।।
एवमुक्त्वा तदा ब्रह्मा दक्षं प्रोवाच बुद्धिमान् ।
गौरीं प्रयच्छ रुद्राय पूर्वमेवोपपादिताम् ।। २१.८१ ।।
एवमुक्त्वा तदा दक्षस्तां कन्यां ब्रह्मसन्निधौ ।
ददौ रुद्राय महते गौरीं परमशोभनाम् ।। २१.८२ ।।
स तां जग्राह विधिवद् रुद्रः परमशोभनाम् ।
दक्षस्य च प्रियं कुर्वन् बहुमानपुरःसरम् ।। २१.८३ ।।
गृहीतायां तु कन्यायां दाक्षायण्यां पितामहः ।
ददौ रुद्रस्य निलयं कैलासं सुरसन्निधौ ।। २१.८४ ।।
रुद्रोऽपि प्रययौ भूतैः समं कैलासपर्वतम् ।
देवाश्चापि यथास्थानं स्वं स्वं जग्मुर्मुदान्विताः ।
ब्रह्माऽपि दक्षसहितः प्राजापत्यं पुरं ययौ ।। २१.८५ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकविंशोऽध्यायः ।। २१ ।।
महातपा उवाच ।
तस्मिन् निवसतस्तस्य रुद्रस्य परमेष्ठिनः ।
चुकोप गौरी देवस्य पितुर्वैरमनुस्मरन् ।। २२.१ ।।
चिन्तयामास दक्षस्य अनेनापकृतं पुरा ।
यज्ञो विध्वंसितो यस्मात् तस्माच्चान्यां तनूमहम् ।। २२.२ ।।
आराध्य तपसा तस्य गृहे भूत्वा व्रजाम्यहम् ।
कथं गच्छामि पितरं दक्षं क्षपितबान्धवम् ।। २२.३ ।।
भवपत्नी च दुहिता एवं संचिन्त्य सुन्दरी ।
जगाम तपसे शैलं हिमवन्तं महागिरिम् ।। २२.४ ।।
तत्र कालेन महता क्षपयन्ती कलेवरम् ।
स्वशरीराग्निना दग्धा ततः शैलसुताऽभवत् ।। २२.५ ।।
उमा नामेति महती कृष्णा चेत्यभिधानतः ।
लब्ध्वा तु शोभनां मूर्तिं हिमवन्तगृहे शुभा ।। २२.६ ।।
पुनस्तपश्चकारोग्रं देवं स्मृत्वा त्रिलोचनम् ।
असावेव  पतिर्मह्यमित्युक्त्वा तपसि स्थिता ।। २२.७ ।।
कुर्वन्त्या तत् तपश्चोग्रं हिमवन्ते महागिरौ ।
कालेन महता देवस्तपसाराधितस्तया ।। २२.८ ।।
आजगामाश्रमं तस्या विप्रो भूत्वा महेश्वरः ।
वृद्धः शिथिलसर्वाङ्गः स्खलंश्चैव पदे पदे ।। २२.९ ।।
कृच्छ्रात् तस्याः समीपं तु आगत्य द्विजसत्तमः ।
बुभुक्षितोऽस्मि मे देहि भद्रे भोज्यं द्विजस्य तु ।। २२.१० ।।
एवमुक्ता तदा कन्या उमा शैलसुता शुभा ।
उवाच ब्राह्मणं भोज्यं दद्मि विप्र फलादिकम् ।
कुरु स्नानं द्रुतं विप्र भुञ्जस्वान्नं यदृच्छया ।। २२.११ ।।
एवमुक्तस्तदा विप्रस्तस्य पार्श्वे महानदीम् ।
गङ्गां जगाम स्नानार्थी स्नानं कर्त्तुमवातरत् ।। २२.१२ ।।
स्नानं तु कुर्वता तेन रुद्रेण द्विजरूपिणा ।
भूत्वा मायामयं भीमं मकरं भयदर्शनम् ।
ग्राहितस्तु तदा विप्रस्तेन दुष्टेन मद्गुना ।। २२.१३ ।।
दृष्ट्वा धृतमथात्मानं मकरेण बलीयसा ।
वृद्धमात्मानमन्यं तां दर्शयन् वाक्यमब्रवीत् ।। २२.१४ ।।
अब्रह्मण्यं गतं कन्ये धावस्वानय मां रुषः ।
यावन्नायाति विकृतिं तावन्मां त्रातुमर्हसि ।। २२.१५ ।।
एवमुक्ता तदा कन्या चिन्तयामास पार्वती ।
पितृभावेन शैलेन्द्रं भर्तृभावेन शंकरम् ।
स्पृशामि तपसा पूता कथं विप्रं स्पृशाम्यहम् ।। २२.१६ ।।
यद्येनं नापकर्षामि मकरेण जले धृतम् ।
तदानीं ब्रह्मवध्या मे भवतीति न संशयः ।। २२.१७ ।।
अन्यव्यतिक्रमे धर्ममपनेतुं च शक्यते ।
ब्रह्मवध्या पुनर्नैवमेवमुक्तवा गता त्वरम् ।। २२.१८ ।।
सा गत्वा त्वरितं भीरुर्गृहीत्वा पाणिना द्विजम् ।
चकर्षान्तर्जलात् तावत् स्वयं भूतपतिर्हरः ।। २२.१९ ।।
यमाराध्य तपश्चर्त्तुमारब्धं शैलपुत्राया ।
स एव भगवान् रुद्रस्तस्याः पाणौ विलम्बत ।। २२.२० ।।
तं दृष्ट्वा लज्जिता देवी पूर्वत्यागमनुस्मरन् ।
न किंचिदुत्तरं सुभ्रूर्वदति स्म सुलज्जिता ।। २२.२१ ।।
तूष्णींभूतां तु तां दृष्ट्वा गौरीं रुद्रो हसन्निव ।
पाणौ गृहीत्वा मां भद्रे कथं त्यक्तुमिहार्हसि ।। २२.२२ ।।
मत्पाणिग्रहणं भद्रे वृथा यदि करिष्यसि ।
तदानीं ब्रह्मणः पुत्र्यामाहारार्थं ब्रवीम्यहम् ।। २२.२३ ।।
न भवेत् परिहासोऽयमुक्ता देवी परापरा ।
लज्जमाना तदा वाक्यं वदति स्मितपूर्वकम् ।। २२.२४ ।।
देवदेव त्रिलोकेश त्वदर्थोऽयं समुद्यमः ।
प्राग्जन्माराधितो भर्त्ता भवान् देवो महेश्वरः ।। २२.२५ ।।
इदानीं मे भवान् देवः पतिर्नान्यो भविष्यति ।
किन्तु स्वामी पिता मह्यं शैलेन्द्रो मे व्रजामि तम् ।
अनुज्ञाप्य विधानेन ततः पाणिं गृहीष्यसि ।। २२.२६ ।।
एवमुक्त्वा तदा देवी पितरं प्रति भामिनी ।
कृताञ्जलिपुटा भूत्वा हिमवन्तमुवाच ह ।। २२.२७ ।।
अतोऽन्यजन्मभर्त्ता मे रुद्रो दक्षमखान्तकः ।
इदानीं तपसा सैव ध्यातोऽभूद् गतिभावनः ।। २२.२८ ।।
स च विश्वपतिर्भूत्वा ब्राह्मणो मे तपोवनम् ।
आगत्य भोजनार्थाय याचयामास शंकरः ।
मया स्नातुं व्रजस्वेति चोदितो जाह्नवीं गतः ।। २२.२९ ।।
तत्रासौ वृद्धकायेन द्विजरूपेण शंकरः ।
मकरेण धृतस्तूर्णं अब्रहह्मण्यमुवाच ह ।। २२.३० ।।
ब्रह्महत्याभयात् तात मया पाणौ धृतस्ततः ।
धृतमात्रः स्वकं देहं दर्शयामास शंकरः ।। २२.३१ ।।
ततो मामब्रवीद् देवः पाणिग्रहणमागताम् ।
भवती देवि मा किंचिद् विचारय तपोधने ।। २२.३२ ।।
एवमुक्ता त्वहं तेन शंकरेण महात्मना ।
तदनुज्ञाप्य देवेशं भवन्तं प्रष्टुमागता ।
इदानीं यत् क्षमं कार्यं तच्छीघ्रं संविधीयताम् ।। २२.३३ ।।
एवं श्रुत्वा तदा वाक्यं शैलराजो मुदा युतः ।
उवाच दुहितां धन्यां तस्मिन् काले वराननाम् ।। २२.३४ ।।
पुत्रि धन्योऽस्म्यहं लोके यस्य रुद्रः स्वयं हरः ।
जामाता भविता देवि त्वयाऽपत्यवतामहम् ।
स्थापितो मूर्ध्नि देवानामपि पुत्रि त्वया ह्यहम् ।। २२.३५ ।।
स्थीयतां क्षणमेकं तु यावदागमनं मम ।
एवमुक्त्वा गतो राजा शैलानां ब्रह्मणोऽन्तिकम् ।। २२.३६ ।।
तत्र दृष्ट्वा महात्मानं सर्वदेवपितामहम् ।
उवाच प्रणतो भूत्वा ब्रह्माणं शैलराट् ततः ।। २२.३७ ।।
देवोमा दुहिता मह्यं तां रुद्राय ददाम्यहम् ।
त्वया देव अनुज्ञातस्तत्करोमि प्रशाधि माम् ।। २२.३८ ।।
ततो ब्रह्मा प्रीतमना याहि रुद्राय तां शुभाम् ।
प्रयच्छोवाच देवानां तदा लोकपितामहः ।। २२.३९ ।।
एवमुक्तः शैलराजः स्ववेश्मागम्य सत्वरम् ।
देवानृषीन् सिद्धसंघान् चामन्त्रयत सत्वरम् ।। २२.४० ।।
तुम्बुरुं नारदं चैव हाहाहूहूं तथैव च ।
स गत्वा किन्नरांश्चैव असुरान् राक्षसानपि ।। २२.४१ ।।
पर्वताः सरितः शैला वृक्षा ओषधयस्तथा ।
आगता मूर्त्तिमन्तो वै पर्वताः सङ्गमोपलाः ।
हिमवद्दुहितुर्द्रष्टुं विवाहं शंकरेण ह ।। २२.४२ ।।
तत्र वेदिः क्षितिश्चासीत् कलशाः सप्त सागराः ।
सूर्यो दीपस्तथा सोमः सरितो ववहुर्जलम् ।। २२.४३ ।।
एवं विवाहसामग्रीं कृत्वा शैलवराधिपः ।
प्रेषयामास रुद्राय समीपं मन्दरं गिरिम् ।। २२.४४ ।।
स तदा मन्दरोक्तस्तु शंकरो द्रुतमाययौ ।
विधिना सोमया पाणिं जग्राह परमेश्वरः ।। २२.४५ ।।
तत्रोत्सवे पर्वतनारदौ द्वौ
जगुश्च सिद्धा ननृतुर्वनस्पतीः ।
पुष्पाण्यनेकानि विचिक्षिपुः शुभाः
ननर्तुरुच्चैः सुरयोषितो भृशम् ।। २२.४६ ।।
तस्मिन् विवाहे सलिलप्रवाहे
चतुर्मुखो लोकपरः स्वसंस्थः ।
उवाच कन्यां भव पुत्रि लोके
नारी प्रभर्त्ता तव चान्यपुंसाम् ।
इत्येवमुक्त्वा स उमां सरुद्रां
पितामहः स्वं पुरमाजगाम ।। २२.४७ ।।
जामातरं पर्वतराट् सुपूज्य
विसर्जयामास विभुं स सोमम् ।
देवांश्च दैत्यान् विविधानृषींश्च
संपूज्य सर्वान् विविधैस्तु वस्तुभिः ।
विभूषणैर्वस्त्रवरान्नदानै -
र्विसर्जयामास तदाद्रिमुख्यान् ।।२२.४८ ।।
स वीतशोको विरजो विशुद्धः
शुभाननां देववराय दत्त्वा ।
उमां महात्मा हिमवानद्रिराजः
पैतामहे लोक इवाध्वरे भात् ।। २२.४९ ।।
इतीरितेयं तव राजसत्तम
प्रसूतिरेषा न विदुर्यां सुरासुराः ।
स्वयंभुदक्षादिराजः त्रिजन्मभि-
र्गौरीविवाहोऽपि मया सुकीर्तितः ।। २२.५० ।।
श्रीवराह उवाच ।
एवं सा गौरिनाम्ना तु कारणान्मूर्त्तिमागता ।
संबभूव यथा प्रोक्तं प्रजापालाय पृच्छते ।
ऋषिणा महता पूर्वं तपसा भावितात्मना ।। २२.५१ ।।
गौर्या उत्पत्तिरेषा वै कथिता परमर्षिणा ।
विवाहश्च यथा वृत्तस्तत्सर्वं कथितं तव ।। २२.५२ ।।
एतत्सर्वं तु गौर्या वै संपन्नं तु तृतीयया ।
तस्यां तिथौ तृतीयायां लवणं वर्जयेन्नरः ।
यश्चोपोष्यति नारी वा सा सौभाग्यं तु विन्दति ।। २२.५३ ।।
दुर्भगा या तु नारी स्यात् पुरुषश्चातिदुर्भगः ।
एतच्छ्रुत्वा तृतीयायां लवणं तु विवर्जयेत् ।। २२.५४ ।।
सर्वकामानवाप्नोति सौभाग्यं द्रव्यसम्पदम् ।
आरोग्यं च सदा लोके कान्तिं पुष्टिं च विन्दति ।। २२.५५ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे द्वाविंशोऽध्यायः ।। २२ ।।
प्रजापाल उवाच ।
कथं गणपतेर्जन्म मूर्तिमन्तं च सत्तम ।
एतन्मे संशयं छिन्धि धृतिकष्टं व्यवस्थितम् ।। २३.१ ।।
महातपा उवाच ।
पूर्वं देवगणाः सर्वे ऋषयश्च तपोधनाः ।
कार्यारम्भं तथा चक्रुः सिध्यन्ते च न संशयः ।। २३.२ ।।
सन्मार्गवर्तिषु यथा सिद्ध्यन्ते विघ्नतः क्रियाः ।
असत्कारिषु सर्वेषु तद्वदेवमविघ्नतः ।। २३.३ ।।
ततो देवाः सपितरश्चिन्तयामासुरोजसा ।
असत्कार्येषु विघ्नार्थं सर्व एवाभ्यमन्त्रयन् ।। २३.४ ।।
ततस्तेषां तदा मन्त्रं कुर्वतस्त्रिदिवौकसाम् ।
बभूव बुद्धिर्गमने रुद्रं प्रति महामतिम् ।। २३.५ ।।
ते तत्र रुद्रमागम्य कैलासनिलयं गुरुम् ।
ऊचुः सविनयं सर्वे प्रणिपातपुरःसरम् ।। २३.६ ।।
देवा ऊचुः ।
देवदेव महादेव शूलपाणे त्रिलोचन ।
विघ्नार्थमविशिष्टानामुत्पादयितुमर्हसि ।। २३.७ ।।
एवमुक्तरस्तदा देवैर्भवः परमया मुदा ।
उमां निरीक्षयामास चक्षुषाऽनिमिषेण ह ।। २३.८ ।।
देवानां सन्निधौ तस्य पश्यतोमां महात्मनः ।
चिन्ताऽभूद् व्योम्नि मूर्तिभ्यो दृश्यते केन हेतुना ।। २३.९ ।।
पृथिव्या विद्यते मूर्त्तिरपां मूर्त्तिस्तथैव च ।
तेजसः श्वसनस्यापि मूर्त्तिरेषा तु दृश्यते ।
आकाशं च कथं नेति मत्वा देवो जहास च ।। २३.१० ।।
ज्ञानशक्तिमुमां दृष्ट्वा यद् दृष्टं व्योम्नि शंभुना ।
यच्चोक्तं ब्रह्मणा पूर्वं शरीरं तु शरीरिणाम् ।। २३.११ ।।
यच्चापि हसितं तेन देवेन परमेष्ठिना ।
एतत्कार्यचतुष्केण पृथिव्यादिचतुर्ष्वपि ।। २३.१२ ।।
मूर्त्तिमानतितेजस्वी हसतः परमेष्ठिनः ।
प्रदीप्तास्यो महादीप्तः कुमारो भासयन् दिशः ।
परमेष्ठिगुणैर्युक्तः साक्षाद् रुद्र इवापरः ।। २३.१३ ।।
उत्पन्नमात्रो देवानां योषितः सप्रमोहयन् ।
कान्त्या दीप्त्या तथा मूर्त्या रूपेण च महात्मवान् ।। २३.१४ ।।
तं दृष्ट्वा परमं रूपं कुमारस्य महात्मनः ।
उमाऽनिमेषनेत्राभ्यां तमपश्यत भामिनी ।। २३.१५ ।।
तं दृष्ट्वा कुपितो देवः स्त्रीभावं चञ्चलं तथा ।
मत्वा कुमाररूपं तु शोभनं मोहनं दृशाम् ।
ततः शशाप तं देवः स्त्रीशङ्कां परमेश्वरः ।। २३.१६ ।।
कुमार गजवक्त्रस्त्वं प्रलम्बजठरस्तथा ।
भविष्यसि तथा सर्पैरुपवीतगतिर्ध्रुवम् ।
एवं शशाप तं देवस्तीव्रकोपसमन्वितः ।। २३.१७ ।।
अर्द्धकोट्या च रोमाणामात्मनोऽङ्गे त्रिलोचनः ।
कूपकास्वेदसलिलपूर्णशूलधरस्तथा ।
धुन्वन् शरीरमुत्थाय ततो देवो रुषान्वितः ।। २३.१८ ।।
यथा यथाऽसौ स शरीरमाद्यं
धुनोति देवस्त्रिशिखास्त्रपाणिः ।
तथा तथा चाङ्गरुहाश्चकासु-
र्जलं क्षितौ संन्यपतंस्तथान्याः ।। २३.१९ ।।
विनायकानेकविधा गजास्या -
स्तमालनीलाञ्जनसंनिकाशाः ।
उत्तस्थुरुच्चैर्विविधास्त्रहस्ता -
स्ततस्तु देवा मनसाकुलेन ।। २३.२० ।।
किमेतदित्यद्भुतकर्मकारी
ह्येकः करोत्यप्रतिमं महच्च ।
कार्यं सुराणां कृतमेतदिष्टं
भवेदथैतं परितं कुतस्तत् ।। २३.२१ ।।
दिवौकसां चिन्तयतां तथा तु
विनायकैः क्ष्मा क्षुभिता बभूव ।
चतुर्मुखश्चाप्रतिमो विमान -
मारुह्य खे वाक्यमिदं जगाद ।। २३.२२ ।।
धन्याः स्थ देवाः सुरनायकेन
त्रिलोचनेनाद्भुतरूपिणा च ।
अनुगृहीताः परमेश्वरेण
सुरद्विषां विघ्नकृतां नतौ च ।। २३.२३ ।।
इत्येवमुक्त्वा प्रपितामहस्ता -
नुवाच देवस्त्रिशिखास्त्रपाणिम् ।
यस्ते विभो वक्त्रसमुद्भवः प्रभु-
र्विनायकानां भवतु त्विमेऽनुगाः ।। २३.२४ ।।
भवांस्तथाऽस्यात्मवरेण चाम्बरे
त्वया चतुर्ष्वस्तु शरीरचारी ।
आकाशमेतद् बहुधा व्यवस्थितं
त्वया वरेण्यः कृत एव नान्यः ।। २३.२५ ।।
प्रभुर्भव त्वं प्रतिमास्त्रपाणिना
इमानि चास्त्राणि वरांश्च देहि ।
इत्येवमुक्त्वाऽधिगते पितामहे
त्रिलोचनश्चात्मभवं जगाद ।। २३.२६ ।।
विनायको विघ्नकरो गजास्यो
गणेशनामा च भवस्य पुत्रः ।
एते च सर्वे तव यान्तु भृत्या
विनायकाः क्रूरदृशः प्रचण्डाः ।
उच्छुष्मदानादिविवृद्धदेहाः
कार्येषु सिद्धिं प्रतिपादयन्तः ।। २३.२७ ।।
भवांश्च देवेषु तथा मखेषु
कार्येषु चान्येषु महानुभावात् ।
अग्रेषु पूजां लभतेऽन्यथा च
विनाशयिष्यस्यथ कार्यसिद्धिम् ।। २३.२८ ।।
इत्येवमुक्त्वा परमेश्वरेण
सुरैः समं काञ्चनकुम्भसंस्थैः ।
जलैस्तथासावभिषिक्तगात्रो
रराज राजेन्द्र विनायकानाम् ।। २३.२९ ।।
दृष्टवाऽभिषिच्यमानं तु देवास्तं गणनायकम् ।
तुष्टुवुः प्रयताः सर्वे त्रिशूलास्त्रस्य सन्निधौ ।। २३.३० ।।
देवा ऊचुः ।
नमस्ते गजवक्त्राय नमस्ते गणनायक ।
विनायक नमस्तेऽस्तु नमस्ते चण्डविक्रम ।। २३.३१ ।।
नमोऽस्तु ते विघ्नकर्त्रे नमस्ते सर्पमेखल ।
नमस्ते रुद्रवक्त्रोत्थ प्रलम्बजठराश्रित ।। २३.३२ ।।
सर्वदेवनमस्कारादविघ्नं कुरु सर्वदा ।
एवं स्तुतस्तदा देवैर्महात्मा गणनायकः ।
अभिषिक्तश्च रुद्रस्य सोमस्यापत्यतां गतः ।। २३.३३ ।।
एतच्चतुर्थ्यां संपन्नं गणाध्यक्षस्य पार्थिव ।
यतस्ततोऽयं महती तिथीनां परमा तिथिः ।। २३.३४ ।।
एतस्यां यस्तिलान् भुक्त्वा भक्त्या गणपतिं नृप ।
आराधयति तस्याशु तुष्यते नात्र संशयः ।। २३.३५ ।।
यश्चैतत् पठते स्तोत्रं यश्चैतच्छृणुयात् सदा ।
न तस्य विघ्ना जायन्ते न पापं सर्वथा नृप ।। २३.३६ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे त्रयोविंशोऽध्यायः ।। २३ ।।
धरण्युवाच ।
कथं ते गात्रसंस्पर्शान्मूर्त्तिमन्तो महाबलाः ।
नागा बभूवुर्देवेश कारणं ते महीधर ।। २४.१ ।।
श्रीवराह उवाच ।
श्रुत्वा गणपतेर्जन्म प्रजापालो नराधिपः ।
उवाच श्लक्ष्णया वाचा तं मुनिं संशितव्रतम् ।। २४.२ ।।
प्रजापाल उवाच ।
भगवंस्तार्क्षविषयाः कथं मूर्त्तिमुपागताः ।
नागा बभूवुः कुटिला एतदाख्यातुमर्हसि ।। २४.३ ।।
महातपा उवाच ।
सृजता ब्रह्मणा सृष्टिं मरीचिः सूतिकारणम् ।
प्रथमं मनसा ध्यातस्तस्य पुत्रस्तु कश्यपः ।। २४.४ ।।
तस्य दाक्षायणी भार्या कद्रूर्नाम शुचिस्मिता ।
मारीचो जनयामास तस्यां पुत्रान् महाबलान् ।। २४.५ ।।
अनन्तं वासुकिं चैव कम्बलं च महाबलम् ।
कर्कोटकं च राजेन्द्र पद्मं चान्यं सरीसृपम् ।। २४.६ ।।
महापद्मं तथा शङ्खं कुलिकं चापराजितम् ।
एते कश्यपदायादाः प्रधानाः परिकीर्त्तिताः ।। २४.७ ।।
एतेषां तु प्रसूत्या तु इदमापूरितं जगत् ।
कुटिला हीनकर्माणस्तीक्ष्णास्योत्थविषोल्बणाः ।
दृष्ट्वा संदश्य मनुजान् कुर्युर्भस्म क्षणाद् ध्रुवम् ।। २४.८ ।।
शब्दगामी यथा स्पर्शं मनुष्याणां नराधिप ।
अहन्यहनि जायेत क्षयः परमदारुणः ।। २४.९ ।।
आत्मनस्तु क्षयं दृष्ट्वा प्रजाः सर्वाः समन्ततः ।
जग्मुः शरण्यं शरणं परं तु परमेश्वरम् ।। २४.१० ।।
इममेवार्थमुद्दिश्य प्रजाः सर्वा महीपते ।
ऊचुः कमलजं विष्णुं पुराणं ब्रह्मसंज्ञितम् ।। २४.११ ।।
देवा ऊचुः ।
देवदेवेश लोकानां प्रसूति परमेश्वर ।
त्राहि नस्तीक्ष्णदंष्ट्राणां भुजंगानां महात्मनाम् ।। २४.१२ ।।
अहन्यहनि ये देव पश्येयुरुरगा दृशा ।
मनुष्यपशुरूपं वा तत्सर्वं भस्मसाद् भवेत् ।। २४.१३ ।।
त्वया सृष्टिः कृता देव नीयते सा भुजंगामैः ।
एतज्ज्ञात्वा तु दुर्वृत्तं तत्कुरुष्व महामते ।। २४.१४ ।।
ब्रह्मोवाच ।
अहं रक्षां विधास्यामि भवतीनां न संशयः ।
व्रजध्वं स्वानि धिष्ण्यानि प्रजा माभूत् ससाध्वसा ।। २४.१५ ।।
एवमुक्त्वा प्रजास्तेन ब्रह्मणाऽव्यक्तमूर्त्तिना ।
आजग्मुः परमप्रीत्या नत्वा चैव स्वयंभुवे ।। २४.१६ ।।
आगतासु प्रजास्वाद्यस्तानाहूय भुजंगमान् ।
शशाप परमक्रुद्धो वासुकिप्रमुखांस्तदा ।। २४.१७ ।।
ब्रह्मोवाच ।
यतो मत्प्रभवान् नित्यं क्षयं नयत मानुषान् ।
भवान्तरे अथान्यस्मिन् मातुः शापात् सुदारुणात् ।
भविताऽतिक्षयं घोरं नूनं स्वायंभुवेऽन्तरे ।। २४.१८ ।।
एवमुक्तास्तु वेपन्तो ब्रह्माणं भुजगोत्तमाः ।
निपत्य पादयोस्तस्य इदमूचुर्वचस्तदा ।। २४.१९ ।।
नागा ऊचुः ।
भगवन् कुटिला जातिरस्माकं भवता कृता ।
विषोल्बणत्वं क्रूरत्वं दृक्शस्त्रत्वं च नस्त्वया ।
संपादितं त्वया देव इदानीं शमयाच्युत ।। २४.२० ।।
ब्रह्मोवाच ।
यदि नाम मया सृष्टा भवन्तः कुटिलाशयाः ।
ततः किं मनुजान् नित्यं भक्षयध्वं गतव्यथाः ।। २४.२१ ।।
नागा ऊचुः ।
मर्यादां कुरु देवेश स्थानं चैव पृथक् पृथक् ।
मनुष्याणां तथाऽस्माकं समयं च पृथक् पृथक् ।
नागानां वचनं श्रुत्वा देवो वचनमब्रवीत् ।। २४.२२ ।।
अहं करोमि वो नागाः समयं मनुजैः सह ।
तदेकमनसः सर्वे श्रृणुध्वं मम शासनम् ।। २४.२३ ।।
पातालं वितलं चैव हर्म्याख्यं च तृतीयकम् ।
दत्तं चैव सदा रम्यं गृहं तत्र गमिष्यथ ।। २४.२४ ।।
तत्र भोगान् बहुविधान् भुञ्जाना मम शासनात् ।
तिष्ठध्वं सप्तमं यावद् रात्र्यन्तं तु पुनः पुनः ।। २४.२५ ।।
ततो वैवस्वतस्यादौ काश्यपेया भविष्यथ ।
दायादाः सर्वदेवानां सुपर्णस्य च धीमतः ।। २४.२६ ।।
तदा प्रसूतिर्वः सर्वा भोक्ष्यते चित्रभानुना ।
भवतां नैव दोषोऽयं भविष्यति न संशयः ।। २४.२७ ।।
ये वै क्रूरा भोगिनो दुर्विनीता -
स्तेषामन्तो भविता नान्यथैतत् ।
कालप्राप्तं भक्षयध्वं दशध्वं
तथाऽपकारे च कृते मनुष्यम् ।। २४.२८ ।।
मन्त्रौषधैर्गारुडमण्डलैश्च
बद्धैर्दृष्टैर्मानवा ये चरन्ति ।
तेषां भीतैर्वर्त्तितव्यं न चान्य-
च्चिन्त्यं कार्यं चान्यथा वो विनाशः ।। २४.२९ ।।
इतीरिते ब्रह्मणा ते भुजङ्गा
जग्मुः स्थानं क्ष्मातलाख्यं हि सर्वे ।
तस्थुर्भोगान् भुञ्जमानाः समग्रान्
रसातले लीलया संस्थितास्ते ।। २४.३० ।।
एवं शापं तु ते लब्ध्वा प्रसादं च चतुर्मुखात् ।
तस्थुः पातालनिलये मुदितेनान्तरात्मना ।। २४.३१ ।।
एतत् सर्वं च पञ्चम्यां तेषां जातं महात्मनाम् ।
अतस्त्वियं तिथिर्धन्या सर्वपापहरा शुभा ।। २४.३२ ।।
एतस्यां संयतो यस्तु अम्लं तु परिवर्जयेत् ।
क्षीरेण स्नापयेन्नागांस्तस्य यास्यन्ति मित्रताम् ।। २४.३३ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे चतुर्विशोऽध्यायः ।। २४ ।।
प्रजापाल उवाच ।
अहंकारात् कथं जज्ञे कार्त्तिकेयो द्विजोत्तम ।
एतन्मे संशयं छिन्धि पृच्छतो वै महामुने ।। २५.१ ।।
महातपा उवाच ।
सर्वेषामेव तत्त्वानां यः परः पुरुषः स्मृतः ।
तस्मादव्यक्तमुत्पन्नं तत्त्वादि त्रिविधं तु तत् ।। २५.२ ।।
पुरुषाव्यक्तयोर्मध्ये महत्त्वं समपद्यत ।
स चाहंकार इत्युक्तो यो महान् समुदाहृतः ।। २५.३ ।।
पुरुषो विष्णुरित्युक्तः शिवो वा नामतः स्मृतः ।
अव्यक्तं तु उमा देवी श्रीर्वा पद्मनिभेक्षणा ।। २५.४ ।।
तत्संयोगादहंकारः स च सेनापतिर्गुहः ।
तस्योत्पत्तिं प्रवक्ष्यामि श्रृणु राजन् महामते ।। २५.५ ।।
आद्यो नारायणो देवस्तस्माद् ब्रह्मा ततोऽभवत् ।
अतः स्वयंभुवश्चान्ये मरीच्याद्यार्कसंभवाः ।। २५.६ ।।
तेष्वारभ्य सुरा दैत्या गन्धर्वा मानुषाः खगाः ।
पशवः सर्वभूतानि सृष्टिरेषा प्रकीर्तिता ।। २५.७ ।।
सृष्ट्यां विस्तारितायां तु देवदैत्या महाबलाः ।
सापत्न्यं भावमास्थाय युयुधुर्विजिगीषवः ।। २५.८ ।।
दैत्यानां बलिनः सन्ति नायका युद्धदुर्मदाः ।
हिरण्यकशिपुः पूर्वं हिरण्याक्षो महाबलः ।
विप्रचित्तिर्विचित्तिश्च भीमाक्षः क्रौञ्च एव च ।। २५.९ ।।
एतेऽतिबलिनः शूरा देवसैन्यं महामृधे ।
अनारतं सितैर्बाणैर्जयन्तेऽनुदिनं मृधे ।। २५.१० ।।
तेषां पराजयं दृष्ट्वा देवानां तु बृहस्पतिः ।
उवाच हीनं वः सैन्यं नायकेन विना सुराः ।। २५.११ ।।
एकेनेन्द्रेण दिव्यं तु सैन्यं पातुं न शक्यते ।
अतः सेनापतिं किञ्चिदन्वेषयत माचिरम् ।। २५.१२ ।।
एवमुक्तास्ततो देवा जग्मुर्लोकपितामहम् ।
सेनापतिं च नो देहि वाक्यमूचुः ससंभ्रमम् ।। २५.१३ ।।
ततो दध्यौ चतुर्वक्त्रः किमेषां क्रियते मया ।
ब्रह्माऽथ चिन्तयामास रुद्रं प्रति मनोगतम् ।। २५.१४ ।।
ततो देवाः सगन्धर्वा ऋषयः सिद्धचारणाः ।
ब्रह्माणं पुरतः कृत्वा जग्मुः कैलासपर्वतम् ।। २५.१५ ।।
तत्र दृष्ट्वा महादेवं शिवं पशुपतिं विभुम् ।
तुष्टवुर्विविधैस्तोत्रैः शक्राद्यास्त्रिदिवौकसः ।। २५.१६ ।।
देवा ऊचुः ।
नमाम सर्वे शरणार्थिनो वयं
महेश्वरं त्र्यम्बकभूतभावनम् ।
उमापते विश्वपते मरुत्पते
जगत्पते शंकर पाहि नः स्वयम् ।। २५.१७ ।।
जटाकलापाग्रशशाङ्कदीधिति-
प्रकाशिताशेषजगत्त्रयामल ।
त्रिशूलपाणे पुरुषोत्तमाच्युत
प्रपाहि दैत्याच्च जगत्त्रयोदरे ।। २५.१८ ।।
त्वमादिदेवः पुरुषोत्तमो हरि-
र्भवो महेशस्त्रिपुरान्तको विभुः ।
भगाक्षिहा दैत्यरिपुः पुरातनो
वृषध्वजः पाहि सुरोत्तमोत्तम ।। २५.१९ ।।
गिरीशजानाथ गिरिप्रियाप्रिय
प्रभो समस्तामरलोकपूजित ।
गणेश भूतेश शिवाक्षयाव्यय
प्रपाहि नो दैत्यवरान्तकाच्युत ।। २५.२० ।।
पृथ्व्यादितत्त्वेषु भवान् प्रतिष्ठितो
ध्वनिस्वरूपो गगने विशेषतः ।
वायौ द्विधा तेजसि च त्रिधा जले
चतुः क्षितौ पञ्चगुणः प्रपाहि नः ।। २५.२१ ।।
अग्निस्वरूपोऽसि तरौ तथोपले
सत्त्वस्वरूपोऽसि तथा जलेष्वपि ।
तेजःस्वरूपो भगवान् महेश्वरः
प्रपाहि नो दैत्यगणार्दितान् हर ।। २५.२२ ।।
नासीद्यदाऽकाण्डमिदं त्रिलोचन
प्रभाकरेन्द्रद्रविणाधिपाः कुतः ।
तदा भवानेव विरुद्धलोचन
प्रमाणबाधादिविवर्जितः स्थितः ।। २५.२३ ।।
कपालमालिन् शशिखण्डशेखर
श्मशानवासिन् सितभस्मगुण्ठित ।
फणीन्द्रसंवीततनोऽन्तकापह
प्रपाहि नो दक्षधिया सुरेश्वर ।। २५.२४ ।।
भवान् पुमान् शक्तिरियं गिरेः सुता
सर्वाङ्गरूपा भगवंस्तथा त्वयि ।
त्रिशूलरूपेण जगत्त्रयं करे
स्थितं त्रिनेत्रेषु मखाग्नयस्त्रयः ।। २५.२५ ।।
जटास्वरूपेण समस्तसागराः
कुलाचलाः सिन्धुवहाश्च सर्वशः ।
शशी परं ज्ञानमिदं तव स्थितं
न देव पश्यन्ति कुदृष्टयो जनाः ।। २५.२६ ।।
नारायणस्त्वं जगतां समुद्भव-
स्तथा भवः सैव चतुर्मुखो भवान् ।
सत्त्वादिभेदेन तथाग्निभेदतो
युगादिभेदेन च संस्थितस्त्रिधा ।। २५.२७ ।।
भवन्तमेते सुरनायकाः प्रभो
भवार्थिनोऽन्यस्य वदन्ति तोषयन् ।
यतस्ततो नो भव भूतिभूषण
प्रपाहि विश्वेश्वर रुद्र ते नमः ।। २५.२८ ।।
महातपा उवाच ।
एवं स्तुतस्तदा देवो रुद्रः पशुपतिः सुरैः ।
उवाच देवानव्यग्रः किं कार्यं ब्रूत मा चिरम् ।। २५.२९ ।।
देवा ऊचुः ।
सेनापतिं नो देवेश देहि दैत्यवधाय वै ।
देवानां ब्रह्ममुख्यानामेतदेव हितं भवेत् ।। २५.३० ।।
रुद्र उवाच ।
ददामि सेनानाथं वो देवा भवत विज्वराः ।
भविष्यमस्ति पौराणं योगादीनामचिन्तयन् ।। २५.३१ ।।
एवमुक्त्वा हरो देवान् विसृज्य स्वाङ्गसंस्थिताम् ।
शक्तिं संक्षोभयामास पुत्रहेतोः परंतप ।। २५.३२ ।।
तस्य क्षोभयतः शक्तिं ज्वलनार्कसमप्रभः ।
कुमारः सहजां शक्तिं बिभ्रज्ज्ञानैकशालिनीम् ।। २५.३३ ।।
उत्पत्तिस्तस्य राजेन्द्र बहुरूपा व्यवस्थिता ।
मन्वन्तरेष्वनेकेषु देवसेनापतिः किल ।। २५.३४ ।।
योऽसौ शरीरगो देवः अहंकारेति कीर्त्तितः ।
प्रयोजनवशाद् देवः सैव सेनापतिर्विभो ।। २५.३५ ।।
तस्मिन् जाते स्वयं ब्रह्मा सर्वदैवैः समन्वितः ।
पूजयामास देवेशं शिवं पशुपतिं तदा ।। २५.३६ ।।
सर्वैश्च देवै ऋषिभिश्च सिद्धैः
सेनापतिर्वरदानेन तेन ।
आप्यायितः सोऽपि सुरानुवाच
सखायार्थं क्रडने कार्यमेव ।। २५.३७ ।।
श्रुत्वा वचस्तस्य् महानुभावो
महादेवो वाक्यमिदं जगाद ।
ददामि ते क्रीडनकं तु कुक्कुटं
तथानुगौ शाखविशाखसंज्ञौ ।
कुमार भूतग्रहनायको भवान्
भवस्व देवेश्वर सेनयापतिः ।। २५.३८ ।।
एवमुक्त्वा ततो देवः सर्वे देवाश्च पार्थिव ।
तुष्टुवुर्वाग्भिरिष्टाभिः स्कन्दं सेनापतिं तदा ।। २५.३९ ।।
देवा ऊचुः ।
भवस्व देवसेनानीर्महेश्वरसुत प्रभो ।
षण्मुख स्कन्द विश्वेश कुक्कुटध्वज पावके ।। २५.४० ।।
कम्पितारे कुमारेश स्कन्द बालग्रहानुग ।
जितारे क्रौञ्चविध्वंस कृत्तिकासुत मातृज ।। २५.४१ ।।
भूतग्रहपतिश्रेष्ठ पावकि प्रियदर्शन ।
महाभूतपतेः पुत्र त्रिलोचन नमोऽस्तु ते ।। २५.४२ ।।
एवं स्तुतस्तदा देवैर्ववर्ध भवनन्दनः ।
द्वादशादित्यसंकाशो बभूवाद्भुतदर्शनः ।
त्रैलोक्यमपि तत्तेजस्तापयामास पार्थिव ।। २५.४३ ।।
प्रजापाल उवाच ।
कथं तं कृत्रिकापुत्रमुक्तवन्तः सुरं गुरुम् ।
कथं च पावकिरसौ कथं वा मातृनन्दनः ।। २५.४४ ।।
महातपा उवाच ।
आदिमन्वन्तरे देव उत्पत्तिर्या मयोदिता ।
परोक्षदर्शिभिर्देवैरेवमेव स्तुतः प्रभुः ।। २५.४५ ।।
कृत्तिका पावकस्त्वन्यमातरो गिरिजा तथा ।
द्विजीयजन्मनि गुहस्यैते उत्पत्तिहेतवः ।। २५.४६ ।।
एवमेतत् तवाख्यातं पृच्छतः पार्थिवोत्तम ।
आत्मविद्याऽमृतं गुह्यमहंकारस्य संभवः ।। २५.४७ ।।
स्वयं स्कन्दो महादेवः सर्वपापप्रणाशनः ।
तस्य षष्ठीं तिथिं प्रादादभिषेके पितामहः ।। २५.४८ ।।
एतां फलाशनो यस्तु क्षयेन्नियतमानसः ।
अपुत्रोऽपि लभेत् पुत्रानधनोऽपि धनं लभेत् ।
यं यमिच्छेत मनसा तं तं लभति मानवः ।। २५.४९ ।।
यश्चैतत् पठति स्तोत्रं कार्तिकेयस्य मानवः ।
तस्य गेहे कुमाराणां क्षेमारोग्यं भविष्यति ।। २५.५० ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चविंशोऽध्यायः ।। २५ ।।
प्रजापाल उवाच ।
शरीरस्य कथं मूर्तिग्रहणं ज्योतिषो द्विज ।
एतन्मे संशयं छिन्धि प्रणतस्य द्विजोत्तम ।। २६.१ ।।
महातपा उवाच ।
योऽसावात्मा ज्ञानशक्तिरेक एव सनातनः ।
स द्वितीयं यदा चैच्छत् तदा स्वात्मस्थितो ज्वलत् ।। २६.२ ।।
यः सूर्य इति भास्वांस्तु अन्योन्येन महात्मनः ।
लोलीभूतानि तेजांसि भासयन्ति जगत्त्रयम् ।। २६.३ ।।
तस्मिन् सर्वे सुराः सिद्धा गणाः सर्वे महर्षिभिः ।
समं सूता इति विभो तस्मात् सूर्यो भवन् स्तुतः ।। २६.४ ।।
लोलीभूतस्य तस्याशु तेजसोऽभूच्छरीरकम् ।
पृथक्त्वेन रविः सोऽथ कीर्त्त्यते वेदवादिभिः ।। २६.५ ।।
भासयन् सर्वलोकांस्तु यतोऽसावुत्थितो दिवि ।
अतोऽसौ भास्करः प्रोक्तः प्रकर्षाच्च प्रभाकरः ।। २६.६ ।।
दिवा दिवस इत्युक्तस्तत्कारित्वाद् दिवाकरः ।
सर्वस्य जगतस्त्वादिरादित्यस्तेन उच्यते ।। २६.७ ।।
एतस्य द्वादशादित्याः संभूतास्तेजसा पृथक् ।
प्रधान एव सर्वेषां सर्वदा स विबुध्यते ।। २६.८ ।।
तं दृष्ट्वा जगतो व्याप्तिं कुर्वाणं परमेश्वरम् ।
तस्यैवान्तः स्थिता देवा विनिष्क्रम्य स्तुतिं जगुः ।। २६.९ ।।
देवा ऊचुः ।
भवान् प्रसूतिर्जगतः पुराणः
क्षयामलैव प्रदहन् जगन्ति ।
समुत्थितो नाथ शमं प्रयाहि
मा देवलोकान् प्लुष कर्मसाक्षिन् ।। २६.१० ।।
त्वया ततं सर्वत एव तेजः
प्रतापिना सूर्य यजुःप्रवृत्ते ।
तिग्मं रथाङ्गं तव देवकल्पं
कालाख्यमध्वान्तकरं वदन्ति ।। २६.११ ।।
प्रभाकरसक्त्वं रविरादिदेव
आत्मा समस्तस्य चराचरस्य ।
पितामहसक्त्वं वरुणो यमश्च
भूतं भविष्यच्च वदन्ति सिद्धाः ।। २६.१२ ।।
ध्वान्तं प्रणु त्वं सुरलोकपूज्य
प्रयाहि शान्तिं पितरो वदन्ति ।
वेदान्तवेद्योऽसि मखेषु देव
त्वं हूयसे विष्णुरसि प्रसह्य ।
इति स्तुतस्तैः सुरनाथ भक्त्या
प्रपाहि शंभो न इति प्रसह्य ।। २६.१३ ।।
एवमुक्तस्तदा देवैः सौम्यां मूर्त्तिमथाकरोत् ।
प्रकाशत्वं जगामाशु देवतानां महाप्रभः ।। २६.१४ ।।
एतत्सर्वं सुराणां तु दहनं शामितं पुरा ।
सप्तम्यां खलु सूर्येण मूर्त्तित्वं कृतवान् भुवि ।। २६.१५ ।।
एतां यः पुरुषो भक्त्या उपास्ते सूर्यमर्चयेत् ।
भास्करेण च तस्यासौ फलमिष्टं प्रयच्छति ।। २६.१६ ।।
एतत् ते कथितं राजन् सूर्याख्यानं पुरातनम् ।
आदिमन्वन्तरे वृत्तं मातरः श्रृणु सांप्रतम् ।। २६.१७ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे षड्विंशोऽध्यायः ।। २६ ।।
महातपा उवाच ।
पूर्वमासीन्महादैत्यो बलवानन्धको भुवि ।
स देवान् वशमानिन्ये ब्रह्मणो वरदर्पितः ।। २७.१ ।।
तेनात्मवान् सुराः सर्वे त्याजिता मेरुपर्वतम् ।
ब्रह्माणं शरणं जग्मुरन्धकस्य भयार्दिताः ।। २७.२ ।।
तानागतांस्तदा ब्रह्मा उवाच सुरसत्तमान् ।
किमागमनकृत्यं वो देवा ब्रूत किमास्यते ।। २७.३ ।।
देवा ऊचुः ।
अन्धकेनार्दिताः सर्वे वयं देवा जगत्पते ।
त्राहि सर्वांश्चतुर्वक्त्र पितामह नमोऽस्तु ते ।। २७.४ ।।
ब्रह्मोवाच ।
अन्धकान्नैव शक्तोऽहं त्रातुं वै सुरसत्तमाः ।
भवं शर्वं महादेवं व्रजाम शरणार्थिनः ।। २७.५ ।।
किन्तु पूर्वं मया दत्तो वरस्तस्य सुरोत्तमाः ।
अवध्यस्त्वं हि भविता न शरीरं स्पृशेन्महीम् ।। २७.६ ।।
तस्यैवं बलिनस्त्वेको हन्ता रुद्रः परंतपः ।
तत्र गच्छामहे सर्वे कैलासनिलयं प्रभुम् ।। २७.७ ।।
एवमुक्त्वा ययौ ब्रह्मा सदेवो भवसन्निधौ ।
तस्य संदर्शनाद् रुद्रः प्रत्युत्थानादिकाः क्रियाः ।
कृत्वाभ्युवाच देवेशो ब्रह्माणं भुवनेश्वरम् ।। २७.८ ।।
शंभुरुवाच ।
किं कार्यं देवताः सर्वा आगता मम सन्निधौ ।
येनाहं तत्करोम्याशु आज्ञा कार्या हि सत्वरम् ।। २७.९ ।।
देवा ऊचुः ।
रक्षस्व देव बलिनस्त्वन्धकाद् दुष्टचेतसः ।। २७.१० ।।
यावदेवं सुरा सर्वे शंसन्ति परमेष्ठिनः ।
तावत् सैन्येन महता तत्रैवान्धक आययौ ।। २७.११ ।।
बलेन चतुरङ्गेण हन्तुकामो भवं मृधे ।
तस्य भार्यां गिरिसुतां हर्तुमिच्छन् ससाधनः ।। २७.१२ ।।
तं दृष्ट्वा सहसाऽयान्तं देवशक्रप्रहारिणम् ।
सन्नह्य सहसा देवा रुद्रस्यानुचरा भवन् ।। २७.१३ ।।
रुद्रोऽपि वासुकिं ध्यात्वा तक्षकं च धनंजयम् ।
वलयं कटिंसूत्रं च चकार परमेश्वरः ।। २७.१४ ।।
नीलनामा च दैत्येन्द्रो हस्ती भूत्वा भवान्तिकम् ।
आगतस्त्वरितः शक्रहस्तीवोद्धतरूपवान् ।। २७.१५ ।।
स ज्ञातो नन्दिना दैत्यो वीरभद्राय दर्शितः ।
वीरभद्रोऽपि सिंहेन रूपेणाहत्य च द्रुतम् ।। २७.१६ ।।
तस्य कृत्तिं विदार्याशु करिणस्त्वञ्जनप्रभाम् ।
रुद्रायार्पितवान् सोऽपि तमेवाम्बरमाकरोत् ।
ततः प्रभृति रुद्रोऽपि गजचर्मपटोऽभवत् ।। २७.१७ ।।
गजचर्म्मपटो भूत्वा भुजंगाभरणोज्ज्वलः ।
आदाय त्रिशिखं भीमं सगणोऽन्धकमन्वयात् ।। २७.१८ ।।
ततः प्रवृत्ते युद्धे च देवदानवयोर्महत् ।
इन्द्राद्या लोकपालास्तु स्कन्दः सेनापतिस्तथा ।
सर्वे देवगणाश्चान्ये युयुधुः समरे तदा ।। २७.१९ ।।
तं दृष्ट्वा नारदा युद्धं ययौ नारायणं प्रति ।
शशंस च महद् युद्धं कैलासे दानवैः सह ।। २७.२० ।।
तच्छ्रुत्वा चक्रमादाय गरुडस्थो जनार्दनः ।
तमेव देशमागत्य युयुधे दानवैः सह ।। २७.२१ ।।
आगत्य च ततो देवा हरिणाप्यायिता रणे ।
विषण्णवदनाः सर्वे पलायनपरा भवन् ।। २७.२२ ।।
तत्र भग्नेषु देवेषु स्वयं रुद्रोऽन्धकं ययौ ।
तत्र तेन महद्युद्धमभवल्लोमहर्षणम् ।। २७.२३ ।।
तत्र देवोऽप्यसौ दैत्यं त्रिशूलेनाहनद् भृशम् ।
तस्याहतस्य यद् रक्तमपतद् भूतले किल ।
तत्रान्धका असंख्याता बभूवुरपरे भृशम् ।। २७.२४ ।।
तद् दृष्ट्वा महदाश्चर्यं रुद्रो शूलेऽन्धकं मृधे ।
गृहीत्वा त्रिशिखाग्रेण ननर्त्त परमेश्वरः ।। २७.२५ ।।
इतरेऽप्यन्धकाः सर्वे चक्रेण परमेष्ठिना ।
नारायणेन निहतास्तत्र येऽन्ये समुत्थिताः । २७.२६ ।।
असृग्धारातुषारैस्तु शूलप्रोतस्य चासकृत् ।
अनारतं समुत्तस्थुस्ततो रुद्रो रुषान्वितः ।। २७.२७ ।।
तस्य क्रोधेन महता मुखाज्ज्वाला विनिर्ययौ ।
तद्रूपधारिणी देवी यां तां योगेश्वरीं विदुः ।। २७.२८ ।।
स्वरूपधारिणी चान्या विष्णुनापि विनिर्मिता ।
ब्रह्मणा कार्तिकेयेन इन्द्रेण च यमेन च ।
वराहेण च देवेन विष्णुना परमेष्ठिना ।। २७.२९ ।।
पातालोद्धरणं रूपं तस्या देव्या विनिर्ममे ।
माहेश्वरी च राजेन्द्र इत्येता अष्टमारतः ।। २७.३० ।।
कारणं तानि यत्प्रोक्तं क्षेत्रज्ञेनावधारणम् ।
शरीराद् देवतानां तु तदिदं कीर्तितं मया ।। २७.३१ ।।
कामः क्रोधस्तथा लोभो मदो मोहोऽथ पञ्चमः ।
मात्सर्यं षष्ठमित्याहुः पैशुन्यं सप्तमं तथा ।
असूया चाऽष्टमी ज्ञेया इत्येता अष्टमातरः ।। २७.३२ ।।
कामं योगेश्वरीं विद्धि क्रोधो माहेश्वरीं तथा ।
लोभस्तु वैष्णवी प्रोक्ता ब्रह्माणी मद एव च ।। २७.३३ ।।
मोहः स्वयंभूः कौमारी मात्सर्यं चेन्द्रजं विदुः ।
यमदण्डधरा देवी पैशुन्यं स्वयमेव च ।
असूया च वराहाख्या इत्येताः परिकीर्तिताः ।। २७.३४ ।।
कामादिगण एषोऽयं शरीरे परिकीर्तितः ।
जग्राह मूर्त्तिं तु यथा तथा ते कीर्तितं मया ।। २७.३५ ।।
एताभिर्देवताभिश्च तस्य रक्तेऽतिशोषिते ।
क्षयं गताऽऽसुरी माया स च सिद्धोऽन्धकोऽभवत् ।
एतत् ते सर्वमाख्यातमात्मविद्याऽमृतं मया ।। २७.३६ ।।
य एतच्छृणुयान्नित्यं मातॄणामुद्भवं शुभम् ।
तस्य ताः सर्वतो रक्षां कुर्वन्त्यनुदिनं नृप ।। २७.३७ ।।
यश्चैतत् पठते जन्म मातॄणां पुरुषोत्तम ।
स धन्यः सर्वदा लोके शिवलोकं च गच्छति ।। २७.३८ ।।
तासां च ब्रह्मणा दत्ता अष्टमी तिथिरुत्तमा ।
एताः संपूजयेद् भक्त्या बिल्वाहारो नरः सदा ।
तस्य ताः परितुष्टास्तु क्षेमारोग्यं ददन्ति च ।। २७.३९ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तविंशोऽध्यायः ।। २७ ।।
प्रजापाल उवाच ।
कथं माया समुत्पन्ना दुर्गा कात्यायनी शुभा ।
आदिक्षेत्रे स्थिता सूक्ष्मा पृथग्मूर्त्ता व्यजायत ।। २८.१ ।।
महातपा उवाच ।
आसीद् राजा पुरा राजन् सिन्धुद्वीपः प्रतापवान् ।
वरुणांशो महाराज सोऽरण्ये तपसि स्थितः ।। २८.२ ।।
पुत्रो मे शक्रनाशाय भवेदिति नारधिपः ।
एवं कृतमतिः सोऽथ महता तपसा स्वकम् ।
कलेवरं स्थितो भूत्वा शोषयामास सुव्रत ।। २८.३ ।।
प्रजापाल उवाच ।
कथं तस्य द्विजश्रेष्ठ शक्रेणापकृतं भवेत् ।
येनासौ तद्विनाशाय पुत्रमिच्छन् व्रते स्थितः ।। २८.४ ।।
महातपा उवाच ।
सोऽन्यजन्मनि पुत्रोऽभूत् त्वष्टुर्बलभृतां वरः ।
अवध्यः सर्वशस्त्रेषु अपां फेनेन नाशितः ।। २८.५ ।।
जलफेनेन निहतस्तस्मिँल्लयमवाप्नुयात् ।
पुनर्ब्रह्मान्वयाज्जातः सिन्धुद्वीपेति संज्ञितः ।
स तेपे परमं तीव्रं शक्रवैरमनुस्मरन् ।। २८.६ ।।
ततः कालेन महता नदी वेत्रवती शुभा ।
मानुषं रूपमास्थाय सालंकारं मनोरमम् ।
आजगाम यतो राजा तेपे परमकं तपः ।। २८.७ ।।
तां दृष्ट्वा रूपसंपन्नां स राजा क्रुद्धमानसः ।
उवाच काऽसि सुश्रोणि सत्यं कथय भामिनि ।। २८.८ ।।
नद्युवाच ।
अहं जलपतेः पत्नी वरुणस्य महात्मनः ।
नाम्ना वेत्रवती पुण्या त्वामिच्छन्तीहमागता ।। २८.९ ।।
साभिलाषां परस्त्रीं च भजमानां विसर्ज्जयेत् ।
स पापः पुरुषो ज्ञेयो ब्रह्महत्यां च विन्दति ।
एवं ज्ञात्वा महाराज भजमानां भजस्व माम् ।। २८.१० ।।
एवमुक्तस्तया राजा साभिलाषोपभुक्तवान् ।
तस्य सद्योऽभवत् पुत्रो द्वादशार्कसमप्रभः ।। २८.११ ।।
वेत्रवत्युदरे जातो नाम्ना वैत्रासुरोऽभवत् ।
बलवानतितेजस्वी प्राग्ज्योतिषपतिर्भवत् ।। २८.१२ ।।
स कालेन युवा जातो बलवान् दृढविक्रमः ।
महायोगेन संयुक्तो जिगायेमां वसुंधराम् ।। २८.१३ ।।
सप्तद्वीपवतीं पश्चान्मेरुपर्वतमारुहत् ।
तत्रेन्द्रं प्रथमं जिग्ये पश्चादग्निं यमं ततः ।
निर्ऋतिं वरुणं वायुं धनदश्चेश्वरं ततः ।। २८.१४ ।।
इन्द्रो भग्नो गतः सोग्निं अग्निर्भग्नो यमं ययौ ।
यमो निर्ऋतिमागच्छन्निर्ऋतिर्वरुणं ययौ ।। २८.१५ ।।
इन्द्रादिभिरुपेतस्तु वरुणो वायुमन्वगात् ।
वायुर्धनपतिं त्वागात् सर्वैरिन्द्रादिभिः सह ।। २८.१६ ।।
धनदोऽपि स्वकं मित्रमीशं देवसमन्वितः ।
इयाय गदया सोऽपि दानवो बलदर्पितः ।
गदामादाय दुद्राव शिवलोकं प्रति प्रभो ।। २८.१७ ।।
शिवोऽप्यवध्यं तं मत्वा देवान् गुह्य ययौ पुरीम् ।
ब्रह्मणः सुरसिद्धाद्यैर्वन्दितां पुण्यकारिभिः ।। २८.१८ ।।
तत्र ब्रह्मा जगत्स्त्रष्टा विष्णुपादोद्भवे जले ।
नियामिताकाशगतो जपत्यन्तर्जले शुभे ।
क्षेत्रज्ञमायां गायत्रीं ततो देवा विचुक्रुशुः ।। २८.१९ ।।
त्राहि प्रजापते सर्वान् देवानृषिवरानपि ।
असुराद्भयमापन्नान् त्राहि त्राहीत्यचोदयन् ।। २८.२० ।।
एवमुक्तस्तदा ब्रह्मा दृष्ट्वा देवांस्तदागतान् ।
चिन्तयामास देवस्य मायेयं विततं जगत् ।
नासुरा न सुराश्चात्र मायेयं कीदृशी मता ।। २८.२१ ।।
एवं चिन्तयतस्तस्य प्रादुरासीदयोनिजा ।
शुक्लाम्बरधरा कन्या स्त्रक्किरीटोज्ज्वलानना ।
अष्टभिर्बाहुभिर्युक्ता दिव्यप्रहरणोद्यता ।। २८.२२ ।।
चक्रं शङ्खं गदां पाशं खङ्गं घण्टां तथा धनुः ।
धारयन्ती तथा चान्यान् बद्धतूणा जलाद् बहिः ।। २८.२३ ।।
निश्चक्राम महादेवी सिंहवाहनवेगिता ।
युयुधे चासुरान् सर्वानेकैव बहुधा स्थिता ।। २८.२४ ।।
दिव्यं वर्षसहस्त्रं तु दिव्यैरस्त्रैर्महाबलम् ।
युद्ध्वा कालात्यये देव्या हतो वैत्रासुरो रणे ।
ततः किलकिलाशब्दो देवसैन्येऽभवन्महान् ।। २८.२५ ।।
हते वैत्रासुरे भीमे तदा सर्वे दिवौकसः ।
प्रणेमुर्जय युद्धेति स्वयमीशः स्तुतिं जगौ ।। २८.२६ ।।
महेश्वर उवाच ।
जयस्व देवि गायत्रे महामाये महाप्रभे ।
महादेवि महाभागे महासत्त्वे महोत्सवे ।। २८.२७ ।।
दिव्यगन्धानुलिप्ताङ्गि दिव्यस्त्रग्दामभूषिते ।
वेदमातर्नमस्तुभ्यं त्र्यक्षरस्थे महेश्वरि ।। २८.२८ ।।
त्रिलोकस्थे त्रितत्त्वस्थे त्रिवह्निस्थे त्रिशूलिनि ।
त्रिनेत्रे भीमवक्त्रे च भीमनेत्रे भयानके ।
कमलासनजे देवि सरस्वति नमोऽस्तु ते ।। २८.२९ ।।
नमः पङ्कजपत्राक्षि महामायेऽमृतस्त्रवे ।
सर्वगे सर्वभूतेशि स्वाहाकारे स्वधेऽम्बिके ।। २८.३० ।।
संपूर्णे पूर्णचन्द्राभे भास्वराङ्गे भवोद्भवे ।
महाविद्ये महावेद्ये महादैत्यविनाशिनि ।
महाबुद्ध्युद्भवे देवि वीतशोके किरातिनि ।। २८.३१ ।।
त्वं नीतिस्त्वं महाभागे त्वं गीस्त्वं गौस्त्वमक्षरम् ।
त्वं धीस्त्वं श्रीस्त्वमोङ्कारस्तत्त्वे चापि परिस्थिता ।
सर्वसत्त्वाहिते देवि नमस्ते परमेश्वरि ।। २८.३२ ।।
इत्येवं संस्तुता देवी भवेन परमेष्ठिना ।
देवैरपि जयेत्युच्चैरित्युक्ता परमेश्वरी ।। २८.३३ ।।
यावदास्ते चतुर्वक्त्रस्तावदन्तर्जलाद् बहिः ।
निश्चक्राम ततो देवीं कृतकृत्यां ददर्श सः ।। २८.३४ ।।
तां दृष्ट्वा देवकार्यं च सिद्धं मत्वा पितामहः ।
भविष्यं कार्यमुद्दिश्य ततो वचनमब्रवीत् ।। २८.३५ ।।
ब्रह्मोवाच ।
इयं देवी वरारोहा यातु शैलं हिमोद्भवम् ।
तत्र यूयं सुराः सर्वे गत्वा नन्दत माचिरम् ।। २८.३६ ।।
नवम्यां च सदा पूज्या इयं देवी समाधिना ।
वरदा सर्वलोकानां भविष्यति न संशयः ।। २८.३७ ।।
नवम्यां यश्च पिष्टाशी भविष्यति हि मानवः ।
नारी वा तस्य संपन्नं भविष्यति मनोगतम् ।। २८.३८ ।।
यश्च सायं तथा प्रातरिदं स्तोत्रं पठिष्यति ।
त्वयेरितं महादेव तस्य देव्या समं भवान् ।। २८.३९ ।।
वरदो देव सर्वासु आपत्स्वप्युद्धरस्व तम् ।
एवमुक्त्वा भवं ब्रह्मा पुनर्देवीं स चाब्रवीत् ।। २८.४० ।।
त्वया देवि महत्कार्यं कर्तव्यं चान्यदस्ति नः ।
भविष्यं महिषाख्यस्य असुरस्य विनाशनम् ।। २८.४१ ।।
एवमुक्त्वा ततो ब्रह्मा सर्वे देवाश्च पार्थिव ।
यथागतं ततो जग्मुर्द्देवीं स्थाप्य हिमे गिरौ ।
संस्थाप्य नन्दिता यस्मात् तस्मान्नन्दाऽभवत् तु सा ।। २८.४२ ।।
यश्चेदं श्रृणुयाज्जन्म देव्या यश्च स्वयं पठेत् ।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ।। २८.४३ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टाविंशोऽध्यायः ।। २८ ।।
महातपा उवाच ।
श्रृणु राजन्नवहितः प्रजापाल कथामिमाम् ।
यदा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते ।। २९.१ ।।
ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते ।
चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति ।। २९.२ ।।
एवं चिन्तयतस्तस्य अवकाशं प्रजास्विह ।
प्रादुर्बभूवुः श्रोत्रेभ्यः दश कन्या महाप्रभाः ।। २९.३ ।।
पूर्वा च दक्षिणा चैव प्रतीची चोत्तरा तथा ।
ऊर्ध्वाऽधरा च षण्मुख्याः कन्या ह्यासंस्तदा नृप ।। २९.४ ।।
अन्याश्चतस्त्रस्तेषां तु कन्याः परमशोभनाः ।
रूपस्विन्यो महाभागा गाम्भीर्येण समन्विताः ।। २९.५ ।।
ता ऊचुः प्रणयाद् देवं प्रजापतिमकल्मषम् ।
अवकाशं तु नो देहि देवदेव प्रजापते ।। २९.६ ।।
यत्र तिष्ठामहे सर्वा भर्तृभिः सहिताः सुखम् ।
पतयश्च महाभागा देहि नोऽव्यक्तसंभव ।। २९.७ ।।
ब्रह्मोवाच ।
ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् ।
तस्यान्ते स्वेच्छया भद्रा उष्यतां मा विलम्बत ।। २९.८ ।।
भर्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः ।
यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना ।। २९.९ ।।
एवमुक्ताश्च ताः सर्वा यथेष्टं प्रययुस्तदा ।
ब्रह्मापि ससृजे तूर्णं लोकपालान् महाबलान् ।। २९.१० ।।
सृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयत् ।
विवाहं कारयामास ब्रह्मा लोकपितामहः ।। २९.११ ।।
एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च ।
निर्ऋताय च देवाय वरुणाय महात्मने ।। २९.१२ ।।
वायवे धनदेशाय ईशानाय च सुव्रत ।
ऊर्द्ध्वां स्वयमधिष्ठाय शेषायाधो व्यवस्थिताम् ।। २९.१३ ।।
एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादाद् दिशां पुनः ।
दशमीं भर्तृनाम्नस्तु दध्यन्नं भोजनं प्रभुः ।। २९.१४ ।।
ततः प्रभृति ता देव्यः सेन्द्राद्याः परिकीर्तिताः ।
दशमी च तिथिस्तासामतीव दयिताभवत् ।। २९.१५ ।।
तस्यां दध्याशनो यस्तु सुव्रती भवते नरः ।
तस्य पापक्षयं तास्तु कुर्वन्त्यहरहर्नृप ।। २९.१६ ।।
यश्चैतच्छृणुयाज्जन्म दिशां नियतमानसः ।
स प्रतिष्ठामवाप्नोति ब्रह्मलोके न संशयः ।। २९.१७ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनत्रिंशोऽध्यायः ।। २९ ।।
महातपा उवाच ।
श्रृणु चान्यां वसुपतेरुत्पत्तिं पापनाशिनीम् ।
यथा वायुः शरीरस्थो धनदः संबभूव ह ।। ३०.१ ।।
आद्यं शरीरं यत् तस्मिन् वायुरन्तः स्थितोऽभवत् ।
प्रयोजनान्मूर्त्तिमत्त्वमादिष्टं क्षेत्रदेवता ।। ३०.२ ।।
तत्र मूर्त्तस्य वायोस्तु उत्पत्तिः कीर्त्त्यये मया ।
तां श्रृणुष्व महाभाग कथ्यमानां मयानघ ।। ३०.३ ।।
ब्रह्मणः सृष्टिकामस्य मुखाद् वायुर्विनिर्ययौ ।
प्रचण्डशर्करावर्षी तं ब्रह्मा प्रत्यषेधयत् ।
मूर्त्तो भवस्व शान्तश्च तत्रोक्तो मूर्त्तिमान् भवत् ।। ३०.४ ।।
सर्वेषां चैव देवानां यद् वित्तं फलमेव च ।
तत्सर्वं पाहि येनोक्तं तस्माद् धनपतिर्भवत् ।। ३०.५ ।।
तस्य ब्रह्मा ददौ तुष्टस्तिथिमेकादशीं प्रभुः ।
तस्यामनग्निपक्वाशी यो भवेन्नियतः शुचिः ।। ३०.६ ।।
तस्याशु धनदो देवस्तुष्टः सर्वं प्रयच्छति ।
एषा धनपतेर्मूर्तिः सर्वकिल्बिषनाशिनी ।। ३०.७ ।।
य एतां श्रृणुयाद् भक्त्या पुरुषः पठतेऽपि वा ।
सर्वकाममवाप्नोति स्वर्गलोकं च गच्छति ।। ३०.८ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिंशोऽध्यायः ।। ३० ।।

About this parayana — Vishnu

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

ekadashidaily-pujavaishnavasanskritparayanadevotionalpuranascripture