← ← शब्द पर वापस
stotramganesharama
हिन्दीदेवनागरी script
Sankatnaashan Ganesh Stotram
Viewing in हिन्दी · देवनागरी script
Verse 1
॥ संकटनाशन गणेश स्तोत्र ॥Sankatnaashan Ganesh Stotram Lyrics
Verse 2
संकटनाशनं गणेशं, वन्देऽहं सुरपुजितम्।संकटमोचनं देवं, विघ्नराजं नमाम्यहम्॥
Verse 3
प्रथमं वक्रतुण्डं च, एकदन्तं द्वितीयकम्।तृतीयं कृष्णपिङ्गाक्षं, गजवक्त्रं चतुर्थकम्॥
Verse 4
लम्बोदरं पंचमं च, षष्ठं विकटमेव च।सप्तमं विघ्नराजं च, धूम्रवर्णं तथाष्टमम्॥
Verse 5
नवमं भालचन्द्रं च, दशमं तु विनायकम्।एकादशं गणपतिं, द्वादशं तु गजाननम्॥
Verse 6
द्वादशैतानि नामानि, त्रिसंध्यं यः पठेन्नरः।न च विघ्नभयं तस्य, सर्वसिद्धिकरं परम्॥
Verse 7
विद्यार्थी लभते विद्यां, धनार्थी लभते धनम्।पुत्रार्थी लभते पुत्रान्, मोक्षार्थी लभते गतिम्॥
Verse 8
जपेद्गणपतिस्तोत्रं, षड्भिर्मासैः फलं लभेत्।संवत्सरेण सिद्धिं च, लभते नात्र संशयः॥
hindibhajan