ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← शब्द पर वापस
हिन्दी interface

महाभारत — भीष्म पर्व

Mahabharata — Bhishma Parva

Mahabharata — Bhishma Parva

Text in देवनागरी script

Devotional text

[ज]
कथं युयुधिरे वीराः कुरुपाण्डवसॊमकाः
पार्थिवाश च महाभागा नानादेशसमागताः
[व]
यथा युयुधिरे वीराः कुरुपाण्डवसॊमकाः
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत पृथिवीपते
अवतीर्य कुरुक्षेत्रं पाण्डवाः सह सॊमकाः
कौरवान अभ्यवर्तन्त जिगीषन्तॊ महाबलाः
वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः
आशंसन्तॊ जयं युद्धे वधं वाभिमुखा रणे
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम
पराङ्मुखाः पश्चिमे भागे नयविशन्त स सैनिकाः
समन्तपञ्चकाद बाह्यं शिबिराणि सहस्रशः
कारयाम आस विधिवत कुन्तीपुत्रॊ युधिष्ठिरः
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता
निरश्व पुरुषा चासीद रथकुञ्जरवर्जिता
यावत तपति सूर्यॊ हि जम्बूद्वीपस्य मण्डलम
तावद एव समावृत्तं बलं पार्थिव सत्तम
एकस्थाः सर्ववर्णास ते मण्डलं बहुयॊजनम
पर्याक्रामन्त देशांश च नदीः शैलान वनानि च
तेषां युधिष्ठिरॊ राजा सर्वेषां पुरुषर्षभ
आदिदेश स वाहानां भक्ष्यभॊज्यम अनुत्तमम
संज्ञाश च विविधास तास तास तेषां चक्रे युधिष्ठिरः
एवं वादी वेदितव्यः पाण्डवेयॊ ऽयम इत्य उत
अभिज्ञानानि सर्वेषां संज्ञाश चाभरणानि च
यॊजयाम आस कौरव्यॊ युद्धकाल उपस्थिते
दृष्ट्वा धवजाग्रं पार्थानां धार्तराष्ट्रॊ महामनाः
सह सर्वैर महीपालैः परत्यव्यूहत पाण्डवान
पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि
मध्ये नागसहस्रस्य भरातृभिः परिवारितम
दृष्ट्वा दुर्यॊधनं हृष्टाः सर्वे पाण्डवसैनिकाः
दध्मुः सर्वे महाशङ्खान भेरीर जघ्नुः सहस्रशः
ततः परहृष्टां सवां सेनाम अभिवीक्ष्याथ पाण्डवाः
बभूवुर हृष्टमनसॊ वासुदेवश च वीर्यवान
ततॊ यॊधान हर्षयन्तौ वासुदेवधनंजयौ
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे सथितौ
पाञ्चजन्यस्य निर्घॊषं देवदत्तस्य चॊभयॊः
शरुत्वा स वाहना यॊधाः शकृन मूत्रं परसुस्रुवुः
यथा सिंहस्य नदतः सवनं शरुत्वेतरे मृगाः
तरसेयुस तद्वद एवासीद धार्तराष्ट्र बलं तदा
उदतिष्ठद रजॊ भौमं न पराज्ञायत किं चन
अन्तर धीयत चादित्यः सैन्येन रजसावृतः
ववर्ष चात्र पर्जन्यॊ मांसशॊणितवृष्टिमान
वयुक्षन सर्वाण्य अनीकानि तद अद्भुतम इवाभवत
वायुस ततः परादुरभून नीचैः शर्कर कर्षणः
विनिघ्नंस तान्य अनीकानि विधमंश चैव तद रजः
उभे सेने तदा राजन युद्धाय मुदिते भृशम
कुरुक्षेत्रे सथिते यत्ते सागरक्षुभितॊपमे
तयॊस तु सेनयॊर आसीद अद्भुतः स समागमः
युगान्ते समनुप्राप्ते दवयॊः सागरयॊर इव
शून्यासीत पृथिवी सर्वा बालवृद्धावशेषिता
तेन सेना समूहेन समानीतेन कौरवैः
ततस ते समयं चक्रुः कुरुपाण्डवसॊमकाः
धर्मांश च सथापयाम आसुर युद्धानां भरतर्षभ
निवृत्ते चैव नॊ युद्धे परीतिश च सयात परस्परम
यथा पुरं यथायॊगं न च सयाच छलनं पुनः
वाचा युद्धे परवृत्ते नॊ वाचैव परतियॊधनम
निष्क्रान्तः पृतना मध्यान न हन्तव्यः कथं चन
रथी च रथिना यॊध्यॊ गजेन गजधूर गतः
अश्वेनाश्वी पदातिश च पदातेनैव भारत
यथायॊगं यथा वीर्यं यथॊत्साहं यथा वयः
समाभाष्य परहर्तव्यं न विश्वस्ते न विह्वले
परेण सह संयुक्तः परमत्तॊ विमुखस तथा
कषीणशस्त्रॊ विवर्मा च न हन्तव्यः कथं चन
न सूतेषु न धुर्येषु न च शस्त्रॊपनायिषु
न भेरीशङ्खवादेषु परहर्तव्यं कथं चन
एवं ते समयं कृत्वा कुरुपाण्डवसॊमकाः
विस्मयं परमं जग्मुः परेक्षमाणाः परस्परम
निविश्य च महात्मानस ततस ते पुरुषर्षभाः
हृष्टरूपाः सुमनसॊ बभूवुः सह सैनिकाः
[व]
ततः पूर्वापरे संध्ये समीक्ष्य भगवान ऋषिः
सर्ववेद विदां शरेष्ठॊ वयासः सत्यवती सुतः
भविष्यति रणे घॊरे भरतानां पितामह
परत्यक्षदर्शी भगवान भूतभव्य भविष्यवित
वैचित्रवीर्यं राजानं स रहस्यं बरवीद इदम
शॊचन्तम आर्तं धयायन्तं पुत्राणाम अनयं तदा
[वय]
राजन परीतकालास ते पुत्राश चान्ये च भूमिपाः
ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम
तेषु कालपरीतेषु विनश्यत्सु च भारत
कालपर्यायम आज्ञाय मा सम शॊके मनः कृथाः
यदि तव इच्छसि संग्रामे दरष्टुम एनं विशां पते
चक्षुर ददानि ते हन्त युद्धम एतन निशामय
[धृ]
न रॊचये जञातिवधं दरष्टुं बरह्मर्षिसत्तम
युद्धम एतत तव अशेषेण शृणुयां तव तेजसा
[व]
तस्मिन्न अनिच्छति दरष्टुं संग्रामं शरॊतुम इच्छति
वराणाम ईश्वरॊ दाता संजयाय वरं ददौ
एष ते संजयॊ राजन युद्धम एतद वदिष्यति
एतस्य सर्वं संग्रामे न परॊक्षं भविष्यति
चक्षुषा संजयॊ राजन दिव्येनैष समन्वितः
कथयिष्यति ते युद्धं सर्वज्ञश च भविष्यति
परकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा
मनसा चिन्तितम अपि सर्वं वेत्स्यति संजयः
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते शरमः
गावल्गणिर अयं जीवन युद्धाद अस्माद विमॊक्ष्यते
अहं च कीर्तिम एतेषां कुरूणां भरतर्षभ
पाण्डवानां च सर्वेषां परथयिष्यामि मां शुचः
दिष्टम एतत पुरा चैव नात्र शॊचितुम अर्हसि
न चैव शक्यं संयन्तुं यतॊ धर्मस ततॊ जयः
[व]
एवम उक्त्वा स भगवान कुरूणां परपितामहः
पुनर एव महाबाहुं धृतराष्ट्रम उवाच ह
इह युद्धे महाराज भविष्यति महान कषयः
यथेमानि निमित्तानि भयायाद्यॊपलक्षये
शयेना गृध्राश च काकाश च कङ्काश च सहिता बलैः
संपतन्ति वनान्तेषु समवायांश च कुर्वते
अत्युग्रं च परपश्यन्ति युद्धम आनन्दिनॊ दविजाः
करव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम
खटा खटेति वाशन्तॊ भैरवं भयवेदिनः
कह्वाः परयान्ति मध्येन दक्षिणाम अभितॊ दिशम
उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत
उदयास्तमने सूर्यं कबन्धैः परिवारितम
शवेतलॊहित पर्यन्ताः कृष्ण गरीवाः स विद्युतः
तरिवर्णाः परिघाः संधौ भानुम आवारयन्त्य उत
जवलितार्केन्दु नक्षत्रं निर्विशेष दिनक्षपम
अहॊरात्रं मया दृष्टं तत कषयाय भविष्यति
अलक्ष्यः परभया हीनः पौर्णमासीं च कार्त्तिकीम
चन्द्रॊ ऽभूद अग्निवर्णश च समवर्णे नभस्तले
सवप्स्यन्ति निहता वीरा भूमिम आवृत्य पार्थिवाः
राजानॊ राजपुत्राश च शूराः परिघबाहवः
अन्तरिक्षे वराहस्य वृषदंशस्य चॊभयॊः
परणादं युध्यतॊ रात्रौ रौद्रं नित्यं परलक्षये
देवता परतिमाश चापि कम्पन्ति च हसन्ति च
वमन्ति रुधिरं चास्यैः सविद्यन्ति परपतन्ति च
अनाहता दुन्दुभयः परणदन्ति विशां पते
अयुक्ताश च परवर्तन्ते कषत्रियाणां महारथाः
कॊकिलाः शतपत्राश च चाषा भासाः शुकास तथा
सारसाश च मयूराश च वाचॊ मुञ्चन्ति दारुणाः
गृहीतशस्त्राभरणा वर्मिणॊ वाजिपृष्ठगाः
अरुणॊदयेषु दृश्यन्ते शतशः शलभ वरजाः
उभे संध्ये परकाशेते दिशां दाहसमन्विते
आसीद रुधिरवर्षं च अस्थि वर्षं च भारत
या चैषा विश्रुता राजंस तरैलॊक्ये साधु संमता
अरुन्धती तयाप्य एष वसिष्ठः पृष्ठतः कृतः
रॊहिणीं पीडयन्न एष सथितॊ राजञ शनैश्चरः
वयावृत्तं लक्ष्म सॊमस्य भविष्यति महद भयम
अनभ्रे च महाघॊरं सतनितं शरूयते ऽनिशम
वाहनानां च रुदतां परपतन्त्य अश्रुबिन्दवः
[वय]
खरा गॊषु परजायन्ते रमन्ते मातृभिः सुताः
अनार्तवं पुष्पफलं दर्शयन्ति वने दरुमाः
गर्भिण्यॊ राजपुत्र्यश च जनयन्ति विभीषणान
करव्यादान पक्षिणश चैव गॊमायून अपरान मृगान
तरिविषाणाश चतुर्नेत्राः पञ्च पादा दविमेहनाः
दविशीर्षाश च दविपुच्छाश च दंष्ट्रिणः पशवॊ ऽशिवाः
जायन्ते विवृतास्याश च वयाहरन्तॊ ऽशिवा गिरः
तरिपदाः शिखिनस तार्क्ष्याश चतुर्दंष्ट्रा विषाणिनः
तथैवान्याश च दृश्यन्ते सत्रियश च बरह्मवादिनाम
वैनतेयान मयूरांश च जनयन्त्यः पुरे तव
गॊवत्सं वडवा सूते शवा सृगालं महीपते
करकराञ शारिकाश चैव शुकांश चाशुभ वादिनः
सत्रियः काश चित परजायन्ते चतस्रः पञ्च कन्यकाः
ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च
पृथग्जनस्य कुडकाः सतनपाः सतेन वेश्मनि
नृत्यन्ति परिगायन्ति वेदयन्तॊ महद भयम
परतिमाश चालिखन्त्य अन्ये स शस्त्राः कालचॊदिताः
अन्यॊन्यम अभिधावन्ति शिशवॊ दण्डपाणयः
उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः
पद्मॊत्पलानि वृक्षेषु जायन्ते कुमुदानि च
विष्वग वाताश च वान्त्य उग्रा रजॊ न वयुपशाम्यति
अभीक्ष्णं कम्पते भूमिर अर्कं राहुस तथाग्रसत
शवेतॊ गरहस तथा चित्रां समतिक्रम्य तिष्ठति
अभावं हि विशेषेण कुरूणां परतिपश्यति
धूमकेतुर महाघॊरः पुष्यम आक्रम्य तिष्ठति
सेनयॊर अशिवं घॊरं करिष्यति महाग्रहः
मघास्व अङ्गारकॊ वक्रः शरवणे च बृहस्पतिः
भाग्यं नक्षत्रम आक्रम्य सूर्यपुत्रेण पीड्यते
शुक्रः परॊष्ठपदे पूर्वे समारुह्य विशां पते
उत्तरे तु परिक्रम्य सहितः परत्युदीक्षते
शयामॊ गरहः परज्वलितः स धूमः सह पावकः
ऐन्द्रं तेजस्वि नक्षत्रं जयेष्ठाम आक्रम्य तिष्ठति
धरुवः परज्वलितॊ घॊरम अपसव्यं परवर्तते
चित्रा सवात्य अन्तरे चैव धिष्ठितः परुषॊ गरहः
वक्रानुवक्रं कृत्वा च शरवणे पावकप्रभः
बरह्मराशिं समावृत्य लॊहिताङ्गॊ वयवस्थितः
सर्वसस्य परतिच्छन्ना पृथिवी फलमालिनी
पञ्चशीर्षा यवाश चैव शतशीर्षाश च शालयः
परधानाः सर्वलॊकस्य यास्व आयत्तम इदं जगत
ता गावः परस्नुता वत्सैः शॊणितं परक्षरन्त्य उत
निश्चेरुर अपिधानेभ्यः खड्गाः परज्वलिता भृशम
वयक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम
अग्निवर्णा यथा भासः शस्त्राणाम उदकस्य च
कवचानां धवजानां च भविष्यति महान कषयः
दिक्षु परज्वलितास्याश च वयाहरन्ति मृगद्विजाः
अत्याहितं दर्शयन्तॊ वेदयन्ति महद भयम
एकपक्षाक्षि चरणः शकुनिः खचरॊ निशि
रौद्रं वदति संरब्धः शॊणितं छर्दयन मुहुः
गरहौ ताम्रारुण शिखौ परज्वलन्ताव इव सथितौ
सप्तर्षीणाम उदाराणां समवच्छाद्य वै परभाम
संवत्सरस्थायिनौ च गरहौ परज्वलिताव उभौ
विशाखयॊः समीपस्थौ बृहस्पतिशनैश्चरौ
कृत्तिकासु गरहस तीव्रॊ नक्षत्रे परथमे जवलन
वपूंष्य अपहरन भासा धूमकेतुर इव सथितः
तरिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते
बुधः संपतते ऽभीक्ष्णं जनयन सुमहद भयम
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षॊडशीम
इमां तु नाभिजानामि अमावास्यां तरयॊदशीम
चन्द्रसूर्याव उभौ गरस्ताव एकमासे तरयॊदशीम
अपर्वणि गरहाव एतौ परजाः संक्षपयिष्यतः
रजॊ वृता दिशः सर्वाः पांसुवर्षैः समन्ततः
उत्पातमेघा रौद्राश च रात्रौ वर्षन्ति शॊणितम
मांसवर्षं पुनस तीव्रम आसीत कृष्ण चतुर्दशीम
अर्धरात्रे महाघॊरम अतृप्यंस तत्र राक्षसाः
परतिस्रॊतॊ ऽवहन नद्यः सरितः शॊणितॊदकाः
फेनायमानाः कूपाश च नर्दन्ति वृषभा इव
पतन्त्य उल्काः स निर्घाताः शुष्काशनि विमिश्रिताः
अद्य चैव निशां वयुष्टाम उदये भानुर आहतः
जवलन्तीभिर महॊल्काभिश चतुर्भिः सर्वतॊदिशम
आदित्यम उपतिष्ठद्भिस तत्र चॊक्तं महर्षिभिः
भूमिपाल सहस्राणां भूमिः पास्यति शॊणितम
कैलासमन्दराभ्यां तु तथा हिमवतॊ गिरेः
सहस्रशॊ महाशब्दं शिखराणि पतन्ति च
महाभूता भूमिकम्पे चतुरः सागरान पृथक
वेलाम उद्वर्तयन्ति सम कषॊभयन्तः पुनः पुनः
वृक्षान उन्मथ्य वान्त्य उग्रा वाताः शर्कर कर्णिणः
पतन्ति चैत्यवृक्षाश च गरामेषु नगरेषु च
पीतलॊहित नीलश च जवलत्य अग्निर हुतॊ दविजैः
वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः
सपर्शा गन्धा रसाश चैव विपरीता महीपते
धूमायन्ते धवजा राज्ञां कम्पमाना मुहुर मुहुः
मुञ्चन्त्य अङ्गारवर्षाणि भेर्यॊ ऽथ पटहास तथा
परासादशिखराग्रेषु पुरद्वारेषु चैव हि
गृध्राः परिपतन्त्य उग्रा वामं मण्डलम आश्रिताः
पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च
निलीयन्ते धवजाग्रेषु कषयाय पृथिवीक्षिताम
धयायन्तः परकिरन्तश च वालान वेपथुसंयुताः
रुदन्ति दीनास तुरगा मातङ्गाश च सहस्रशः
एतच छरुत्वा भवान अत्र पराप्तकालं वयवस्यताम
यथा लॊकः समुच्छेदं नायं गच्छेत भारत
[व]
पितुर वचॊ निशम्यैतद धृतराष्ट्रॊ ऽबरवीद इदम
दिष्टम एतत पुरा मन्ये भविष्यति न संशयः
कषत्रियाः कषत्रधर्मेण वध्यन्ते यदि संयुगे
वीरलॊकं समासाद्य सुखं पराप्स्यन्ति केवलम
इह कीर्तिं परे लॊके दीर्घकालं महत सुखम
पराप्स्यन्ति पुरुषव्याघ्राः पराणांस तयक्त्वा महाहवे
[व]
एवम उक्तॊ मुनिस तत्त्वं कवीन्द्रॊ राजसत्तम
पुत्रेण धृतराष्ट्रेण धयानम अन्वगमत परम
पुनर एवाब्रवीद वाक्यं कालवादी महातपाः
असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत
सृजते च पुनर लॊकान नेह विद्यति शाश्वतम
जञातीनां च कुरूणां च संबन्धिसुहृदां तथा
धर्म्यं देशय पन्थानं समर्थॊ हय असि वारणे
कषुद्रं जञातिवधं पराहुर मा कुरुष्व ममाप्रियम
कालॊ ऽयं पुत्र रूपेण तव जातॊ विशां पते
न वधः पूज्यते वेदे हितं नैतत कथं चन
हन्यात स एव यॊ हन्यात कुलधर्मं सवकां तनुम
कालेनॊत्पथ गन्तासि शक्ये सति यथा पथि
कुलस्यास्य विनाशाय तथैव च महीक्षिताम
अनर्थॊ राज्यरूपेण तयज्यताम असुखावहः
लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान
किं ते राज्येन दुर्धर्ष येन पराप्तॊ ऽसि किल्बिषम
यशॊधर्मं च कीर्तिं च पालयन सवर्गम आप्स्यसि
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः
एवं बरुवति विप्रेन्द्रे धृतराष्ट्रॊ ऽमबिका सुतः
आक्षिप्य वाक्यं वाक्यज्ञॊ वाक्पथेनाप्य अयात पुनः
[धृ]
यथा भवान वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत
सवार्थे हि संमुह्यति तात लॊकॊ; मां चापि लॊकात्मकम एव विद्धि
परसादये तवाम अतुलप्रभावं; तवं नॊ गतिर दर्शयिता च धीरः
न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुम इहार्हसे माम
तवं हि धर्मः पवित्रं च यशः कीर्तिर धृतिः समृतिः
करुणां पाण्डवानां च मान्यश चासि पितामहः
[वय]
वैचित्रवीर्य नृपते यत ते मनसि वर्तते
अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम
[धृ]
यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम
तानि सर्वाणि भगवञ शरॊतुम इच्छामि तत्त्वतः
[वय]
परसन्नभाः पावक ऊर्ध्वरश्मिः; परदक्षिणावर्तशिखॊ विधूमः
पुण्या गन्धाश चाहुतीनां परवान्ति; जयस्यैतद भाविनॊ रूपम आहुः
गम्भीरघॊषाश च महास्वनाश च; शङ्खा मृदङ्गाश च नदन्ति यत्र
विशुद्धरश्मिस तपनः शशी च; जयस्यैतद भाविनॊ रूपम आहुः
इष्टा वाचः पृष्ठतॊ वायसानां; संप्रस्थितानां च गमिष्यतां च
ये पृष्ठतस ते तवरयन्ति राजन; ये तव अग्रतस ते परतिषेधयन्ति
कल्याण वाचः शकुना राजहंसाः; शुकाः करौञ्चाः शतपत्राश च यत्र
परदक्षिणाश चैव भवन्ति संख्ये; धरुवं जयं तत्र वदन्ति विप्राः
अलंकारैः कवचैः केतुभिश च; मुखप्रसादैर हेमवर्णैश च नॄणाम
भराजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस ते विजयन्ति शत्रून
हृष्टा वाचस तथा सत्त्वं यॊधानां यत्र भारत
न मलायन्ते सरजश चैव ते तरन्ति रणे रिपून
इष्टॊ वातः परविष्टस्य दक्षिणा परविविक्षतः
पश्चात संसाधयत्य अर्थं पुरस्तात परतिषेधते
शब्दरूपरसस्पर्श गन्धाश चाविष्कृताः शुभाः
सदा यॊधाश च हृष्टाश च येषां तेषां धरुवं जयः
अन्व एव वायवॊ वान्ति तथाभ्राणि वयांसि च
अनुप्लवन्ते मेघाश च तथैवेन्द्र धनूंषि च
एतानि जयमानानां लक्षणानि विशां पते
भवन्ति विपरीतानि मुमूर्षाणां जनाधिप
अल्पायां वा महत्यां वा सेनायाम इति निश्चितम
हर्षॊ यॊधगणस्यैकं जयलक्षणम उच्यते
एकॊ दीर्णॊ दारयति सेनां सुमहतीम अपि
तं दीर्णम अनुदीर्यन्ते यॊधाः शूरतमा अपि
दुर्निवारतमा चैव परभग्ना महती चमूः
अपाम इव महावेगस तरस्ता मृगगणा इव
नैव शक्या समाधातुं स निपाते महाचमूः
दीर्णा इत्य एव दीर्यन्ते यॊधाः शूरतमा अपि
भीतान भग्नांश च संप्रेक्ष्य भयं भूयॊ विवर्धते
परभग्ना सहसा राजन दिशॊ विभ्रामिता परैः
नैव सथापयितुं शक्या शूरैर अपि महाचमूः
संभृत्य महतीं सेनां चतुरङ्गां महीपतिः
उपायपूर्वं मेधावी यतेत सततॊत्थितः
उपायविजयं शरेष्ठम आहुर भेदेन मध्यमम
जघन्य एष विजयॊ यॊ युद्धेन विशां पते
महादॊषः संनिपातस ततॊ वयङ्गः स उच्यते
परस्परज्ञाः संहृष्टा वयवधूताः सुनिश्चिताः
पञ्चाशद अपि ये शूरा मथ्नन्ति महतीं चमूम
अथ वा पञ्चषट सप्त विजयन्त्य अनिवर्तिनः
न वैनतेयॊ गरुडः परशंसति महाजनम
दृष्ट्वा सुपर्णॊपचितिं महतीम अपि भारत
न बाहुल्येन सेनाया जयॊ भवति भारत
अध्रुवॊ हि जयॊ नाम दैवं चात्र परायणम
जयन्तॊ हय अपि संग्रामे कषत्रवन्तॊ भवन्त्य उत
[व]
एवम उक्त्वा ययौ वयासॊ धृतराष्ट्राय धीमते
धृतराष्ट्रॊ ऽपि तच छरुत्वा धयानम एवान्वपद्यत
स मुहूर्तम इव धयात्वा विनिःश्वस्य मुहुर मुहुः
संजयं संशितात्मानम अपृच्छद भरतर्षभ
संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः
अन्यॊन्यम अभिनिघ्नन्ति शस्त्रैर उच्चावचैर अपि
पार्थिवाः पृथिवी हेतॊः समभित्यक्तजीविताः
न च शाम्यति निघ्नन्तॊ वर्धयन्तॊ यमक्षयम
भैमम ऐश्वर्यम इच्छन्तॊ न मृष्यन्ते परस्परम
मन्ये बहुगुणा भूमिस तन ममाचक्ष्व संजय
बहूनि च सहस्राणि परयुतान्य अर्बुदानि च
कॊट्यश च लॊकवीराणां समेताः कुरुजाङ्गले
देशानां च परीमाणं नगराणां च संजय
शरॊतुम इच्छामि तत्त्वेन यत एते समागताः
दिव्यबुद्धिप्रदीप्तेन युक्तस तवं जञानचक्षुषा
परसादात तस्य विप्रर्षेर वयासस्यामित तेजसः
[स]
यथा परज्ञं महाप्राज्ञ भैमान वक्ष्यामि ते गुणान
शास्त्रचक्षुर अवेक्षस्व नमस ते भरतर्षभ
दविविधानीह भूतानि तरसानि सथावराणि च
तरसानां तरिविधा यॊनिर अण्ड सवेदजरायुजाः
तरसानां खलु सर्वेषां शरेष्ठा राजञ जरायुजाः
जरायुजानां परवरा मानवाः पशवश च ये
नानारूपाणि बिभ्राणास तेषां भेदाश चतुर्दश
अरण्यवासिनः सप्त सप्तैषां गरामवासिनः
सिंहव्याघ्र वराहाश च महिषा वारणास तथा
ऋक्षाश च वानराश चैव सप्तारण्याः समृता नृप
गौर अजॊ मनुजॊ मेषॊ वाज्य अश्वतर गर्दभाः
एते गराम्याः समाख्याताः पशवः सप्त साधुभिः
एते वै पशवॊ राजन गराम्यारण्याश चतुर्दश
वेदॊक्ताः पृथिवीपाल येषु यज्ञाः परतिष्ठिताः
गराम्याणां पुरुषः शरेष्ठः सिंहश चारण्यवासिनाम
सर्वेषाम एव भूतानाम अन्यॊन्येनाभिजीवनम
उद्भिज्जाः सथावराः परॊक्तास तेषां पञ्चैव जातयः
वृक्षगुल्म लतावल्ल्यस तवक सारास तृणजातयः
एषां विंशतिर एकॊना महाभूतेषु पञ्चसु
चतुर्विंशतिर उद्दिष्टा गायत्री लॊकसंमता
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम
तत्त्वेन भरतश्रेष्ठ स लॊकान न परणश्यति
भूमौ हि जायते सर्वं भूमौ सर्वं परणश्यति
भूमिः परतिष्ठा भूतानां भूमिर एव परायणम
यस्य भूमिस तस्य सर्वजगत सथावरजङ्गमम
तत्राभिगृद्धा राजानॊ विनिघ्नन्तीतरेतरम
[धृ]
नदीनां पर्वतानां च नामधेयानि संजय
तथा जनपदानां च ये चान्ये भूमिम आश्रिताः
परमाणं च परमाणज्ञ पृथिव्या अपि सर्वशः
निखिलेन समाचक्ष्व काननानि च संजय
पञ्चेमानि महाराज महाभूतानि संग्रहात
जगत सथितानि सर्वाणि समान्य आहुर मनीषिणः
भूमिर आपस तथा वायुर अग्निर आकाशम एव च
गुणॊत्तराणि सर्वाणि तेषां भूमिः परधानतः
शब्दः सपर्शश च रूपं च रसॊ गन्धश च पञ्चमः
भूमेर एते गुणाः परॊक्ता ऋषिभिस तत्त्ववेदिभिः
चत्वारॊ ऽपसु गुणा राजन गन्धस तत्र न विद्यते
शब्दः सपर्शश च रूपं च तेजसॊ ऽथ गुणास तरयः
शब्दः सपर्शश च वायॊस तु आकाशे शब्द एव च
एते पञ्च गुणा राजन महाभूतेषु पञ्चसु
वर्तन्ते सर्वलॊकेषु येषु लॊकाः परतिष्ठिताः
अन्यॊन्यं नाभिवर्तन्ते साम्यं भवति वै यदा
यदा तु विषमीभावम आविशन्ति परस्परम
तदा देहैर देहवन्तॊ वयतिरॊहन्ति नान्यथा
आनुपूर्व्याद विनश्यन्ति जायन्ते चानुपूर्वशः
सर्वाण्य अपरिमेयानि तद एषां रूपम ऐश्वरम
तत्र तत्र हि दृश्यन्ते धातवः पाञ्च भौतिकाः
तेषां मनुष्यास तर्केण परमाणानि परचक्षते
अचिन्त्याः खलु ये भावा न तांस तर्केण साधयेत
परकृतिभ्यः परं यत तु तद अचिन्त्यस्य लक्षणम
सुदर्शनं परवक्ष्यामि दवीपं ते कुरुनन्दन
परिमण्डलॊ महाराज दवीपॊ ऽसौ चक्रसंस्थितः
नदी जलप्रतिच्छन्नः पर्वतैश चाभ्रसंनिभैः
पुरैश च विविधाकारै रम्यैर जनपदैस तथा
वृक्षैः पुष्पफलॊपेतैः संपन्नधनधान्यवान
लावणेन समुद्रेण समन्तात परिवारितः
यथा च पुरुषः पश्येद आदर्शे मुखम आत्मनः
एवं सुदर्शन दवीपॊ दृश्यते चन्द्रमण्डले
दविर अंशे पिप्पलस तत्र दविर अंशे च शशॊ महान
सर्वौषधिसमावापैः सर्वतः परिवृंहितः
आपस ततॊ ऽनया विज्ञेया एष संक्षेप उच्यते
[धृ]
उक्तॊ दवीपस्य संक्षेपॊ विस्तरं बरूहि संजय
यावद भूम्यवकाशॊ ऽयं दृश्यते शशलक्षणे
तस्य परमाणं परब्रूहि ततॊ वक्ष्यसि पिप्पलम
[व]
एवम उक्तः स राज्ञा तु संजयॊ वाक्यम अब्रवीत
पराग आयता महाराज षड एते रत्नपर्वताः
अवगाढा हय उभयतः समुद्रौ पूर्वपश्चिमौ
हिमवान हेमकूटश च निषधश च नगॊत्तमः
नीलश च वैडूर्यमयः शवेतश च रजतप्रभः
सर्वधातुविनद्धश च शृङ्गवान नाम पर्वतः
एते वै पर्वता राजन सिद्धचारणसेविताः
तेषाम अन्तरविष्कम्भॊ यॊजनानि सहस्रशः
तत्र पुण्या जनपदास तानि वर्षाणि भारत
वसन्ति तेषु सत्त्वानि नाना जातीनि सर्वशः
इदं तु भारतं वर्षं ततॊ हैमवतं परम
हेमकूटात परं चैव हरिवर्षं परचक्षते
दक्षिणेन तु नीलस्य निषधस्यॊत्तरेण च
पराग आयतॊ महाराज माल्यवान नाम पर्वतः
ततः परं माल्यवतः पर्वतॊ गन्धमादनः
परिमण्डलस तयॊर मध्ये मेरुः कनकपर्वतः
आदित्यतरुणाभासॊ विधूम इव पावकः
यॊजनानां सहस्राणि षॊडशाधः किल समृतः
उच्चैश च चतुराशीतिर यॊजनानां महीपते
ऊर्ध्वम अन्तश च तिर्यक च लॊकान आवृत्य तिष्ठति
तस्य पार्श्वे तव इमे दवीपाश चत्वारः संस्थिताः परभॊ
भद्राश्वः केतुमालश च जम्बूद्वीपश च भारत
उत्तराश चैव कुरवः कृतपुण्यप्रतिश्रयाः
विहगः सुमुखॊ यत्र सुपर्णस्यात्मजः किल
स वै विचिन्तयाम आस सौवर्णान परेक्ष्य वायसान
मेरुर उत्तममध्यानाम अधमानां च पक्षिणाम
अविशेष करॊ यस्मात तस्माद एनं तयजाम्य अहम
तम आदित्यॊ ऽनुपर्येति सततं जयॊतिषां पतिः
चन्द्रमाश च स नक्षत्रॊ वायुश चैव परदक्षिणम
स पर्वतॊ महाराज दिव्यपुष्पफलान्वितः
भवनैर आवृतः सर्वैर जाम्बूनदमयैः शुभैः
तत्र देवगणा राजन गन्धर्वासुरराक्षसाः
अप्सरॊगणसंयुक्ताः शैले करीडन्ति नित्यशः
तत्र बरह्मा च रुद्रश च शक्रश चापि सुरेश्वरः
समेत्य विविधैर यज्ञैर यजन्ते ऽनेकदक्षिणैः
तुम्बुरुर नारदश चैव विश्वावसुर हहाहुहूः
अभिगम्यामर शरेष्ठाः सतवै सतुन्वन्ति चाभिभॊ
सप्तर्षयॊ महात्मानः कश्यपश च परजापतिः
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि
तस्यैव मूर्धन्य उशनाः काव्यॊ दैत्यैर महीपते
तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः
तस्मात कुबेरॊ भगवांश चतुर्थं भागम अश्नुते
ततः कलांशं वित्तस्य मनुष्येभ्यः परयच्छति
पार्श्वे तस्यॊत्तरे दिव्यं सर्वर्तुकुसुमं शिवम
कर्णिकारवनं रम्यं शिला जालसमुद्गतम
तत्र साक्षात पशुपतिर दिव्यैर भूतैः समावृतः
उमा सहायॊ भगवान रमते भूतभावनः
कर्णिकारमयीं मालां बिभ्रत पादावलम्बिनीम
तरिभिर नेत्रैः कृतॊद्द्यॊतस तरिभिः सूर्यैर इवॊदितैः
तम उग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः
पश्यन्ति न हि दुर्वृत्तैः शक्यॊ दरष्टुं महेश्वरः
तस्य शैलस्य शिखरात कषीरधारा नरेश्वर
तरिंशद बाहुपरिग्राह्या भीम निर्घत निस्वना
पुण्या पुण्यतमैर जुष्टा गङ्गा भागीरथी शुभा
पतत्य अजस्र वेगेन हरदे चान्द्रमसे शुभे
तया हय उत्पादितः पुण्यः स हरदः सागरॊपमः
तां धारयाम आस पुरा दुर्धरां पर्वतैर अपि
शतं वर्षसहस्राणां शिरसा वै महेश्वरः
मेरॊस तु पश्चिमे पार्श्वे केतुमालॊ महीपते
जम्बू षण्डश च तत्रैव सुमहान नन्दनॊपमः
आयुर दशसहस्राणि वर्षाणां तत्र भारत
सुवर्णवर्णाश च नराः सत्रियश चाप्सरसॊपमाः
अनामया वीतशॊका नित्यं मुदितमानसाः
जायन्ते मानवास तत्र निष्टप्त कनकप्रभाः
गन्धमादन शृङ्गेषु कुबेरः सह राक्षसैः
संवृतॊ ऽपसरसां संघैर मॊदते गुह्यकाधिपः
गन्धमादन पादेषु परेष्व अपरगण्डिकाः
एकादश सहस्राणि वर्षाणां परमायुषः
तत्र कृष्णा नरा राजंस तेजॊयुक्ता महाबलाः
सत्रियश चॊत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः
नीलॊत्परतरं शवेतं शवेताद धैरण्यकं परम
वर्षम ऐरावतं नाम ततः शृङ्गवतः परम
धनुःसंस्थे महाराज दवे वर्षे दक्षिणॊत्तरे
इला वृतं मध्यमं तु पञ्चवर्षाणि चैव ह
उत्तरॊत्तरम एतेभ्यॊ वर्षम उद्रिच्यते गुणैः
आयुष परमाणम आरॊग्यं धर्मतः कामतॊ ऽरथतः
समन्वितानि भूतानि तेषु वर्षेषु भारत
एवम एषा महाराज पर्वतैः पृथिवी चिता
हेमकूटस तु सुमहान कैलासॊ नाम पर्वतः
यत्र वैश्रवणॊ राजा गुह्यकैः सह मॊदते
अस्त्य उत्तरेण कैलासं मैनाकं पर्वतं परति
हिरण्यशृङ्गः सुमहान दिव्यॊ मणिमयॊ गिरिः
तस्य पार्श्वे महद दिव्यं शुभं काञ्चनवालुकम
रम्यं बिन्दुसरॊ नाम यत्र राजा भगीरथः
दृष्ट्वा भागीरथीं गङ्गाम उवास बहुलाः समाः
यूपा मणिमयास तत्र चित्याश चापि हिरण्मयाः
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षॊ महायशाः
सृष्ट्वा भूतपतिर यत्र सर्वलॊकान सनातनः
उपास्यते तिग्मतेजा वृतॊ भूतैः समागतैः
नरनारायणौ बरह्मा मनुः सथाणुश च पञ्चमः
तत्र तरिपथगा देवी परथमं तु परतिष्ठिता
बरह्मलॊकाद अपक्रान्ता सप्तधा परतिपद्यते
वस्व ओक सारा नलिनी पावना च सरस्वती
जम्बूनदी च सीता च गङ्गा सिन्धुश च सप्तमी
अचिन्त्या दिव्यसंकल्पा परभॊर एषैव संविधिः
उपासते यत्र सत्रं सहस्रयुगपर्यये
दृश्यादृश्या च भवति तत्र तत्र सरस्वती
एता दिव्याः सप्त गङ्गास तरिषु लॊकेषु विश्रुताः
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः
सर्पा नागाश च निषधे गॊकर्णे च तपॊधनाः
देवासुराणां च गृहं शवेतः पर्वत उच्यते
गन्धर्वा निषधे शैले नीले बरह्मर्षयॊ नृप
शृङ्गवांस तु महाराज पितॄणां परतिसंचरः
इत्य एतानि महाराज सप्त वर्षाणि भागशः
भूतान्य उपनिविष्टानि गतिमन्ति धरुवाणि च
तेषाम ऋद्धिर बहुविधा दृश्यते दैवमानुषी
अशक्या परिसंख्यातुं शरद्धेया तु बुभूषता
यां तु पृच्छसि मा राजन दिव्याम एतां शशाकृतिम
पार्श्वे शशस्य दवे वर्षे उभये दक्षिणॊत्तरे
कर्णौ तु नागद्वीपं च कश्यप दवीपम एव च
ताम्रवर्णः शिरॊ राजञ शरीमान मलयपर्वतः
एतद दवितीयं दवीपस्य दृश्यते शशसंस्थितम
[धृ]
मेरॊर अथॊत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम
[स]
दक्षिणेन तु नीलस्य मेरॊः पार्श्वे तथॊत्तरे
उत्तराः कुरवॊ राजन पुण्याः सिद्धनिषेविताः
तत्र वृक्षा मधु फला नित्यपुष्पफलॊपगाः
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च
सर्वकामफलास तत्र के चिद वृक्षा जनाधिप
अपरे कषीरिणॊ नाम वृक्षास तत्र नराधिप
ये कषरन्ति सदा कषीरं षड्रसं हय अमृतॊपमम
वस्त्राणि च परसूयन्ते फलेष्व आभरणानि च
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका
सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप
देवलॊकच्युताः सर्वे जायन्ते तत्र मानवाः
तुल्यरूपगुणॊपेताः समेषु विषमेषु च
मिथुनानि च जायन्ते सत्रियश चाप्सरसॊपमाः
तेषां ते कषीरिणां कषीरं पिबन्त्य अमृतसंनिभम
मिथुनं जायमानं वै समं तच च परवर्धते
तुल्यरूपगुणॊपेतं समवेषं तथैव च
एकैकम अनुरक्तं च चक्रवाक समं विभॊ
निरामया वीतशॊका नित्यं मुदितमानसाः
दशवर्षसहस्राणि दशवर्षशतानि च
जीवन्ति ते महाराज न चान्यॊन्यं जहत्य उत
भारुण्डा नाम शकुनास तीक्ष्णतुण्डा महाबलाः
ते निर्हरन्ति हि मृतान दरीषु परक्षिपन्ति च
उत्तराः कुरवॊ राजन वयाख्यातास ते समासतः
मेरॊः पार्श्वम अहं पूर्वं वक्ष्याम्य अथ यथातथम
तस्य पूर्वाभिषेकस तु भद्राश्वस्य विशां पते
भद्र सालवनं यत्र कालाम्रश च महाद्रुमः
कालाम्रश च महाराज नित्यपुष्पफलः शुभः
दवीपश च यॊजनॊत्सेधः सिद्धचारणसेवितः
तत्र ते पुरुषाः शवेतास तेजॊयुक्ता महाबलाः
सत्रियः कुमुदवर्णाश च सुन्दर्यः परियदर्शनाः
चन्द्रप्रभाश चन्द्र वर्णाः पूर्णचन्द्रनिभाननाः
चन्द्र शीतलगात्र्यश च नृत्तगीतविशारदाः
दशवर्षसहस्राणि तत्रायुर भरतर्षभ
कालाम्र रसपीतास ते नित्यं संस्थित यौवनाः
दक्षिणेन तु नीलस्य निषधस्यॊत्तरेण तु
सुदर्शनॊ नाम महाञ जाम्बूवृक्षः सनातनः
सर्वकामफलः पुण्यः सिद्धचारणसेवितः
तस्य नाम्ना समाख्यातॊ जम्बूद्वीपः सनातनः
यॊजनानां सहस्रं च शतं च भरतर्षभ
उत्सेधॊ वृक्षराजस्य दिवस्पृन मनुजेश्वर
अरत्नीनां सहस्रं च शतानि दश पञ्च च
परिणाहस तु वृक्षस्य फलानां रसभेदिनाम
पतमानानि तान्य उर्व्यां कुर्वन्ति विपुलं सवनम
मुञ्चन्ति च रसं राजंस तस्मिन रजतसंनिभम
तस्या जम्ब्वाः फलरसॊ नदी भूत्वा जनाधिप
मेरुं परदक्षिणं कृत्वा संप्रयात्य उत्तरान कुरून
पिबन्ति तद रसं हृष्टा जना नित्यं जनाधिप
तस्मिन फलरसे पीते न जरा बाधते च तान
तत्र जाम्बूनदं नाम कनकं देव भूषणम
तरुणादित्यवर्णाश च जायन्ते तत्र मानवाः
तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट
नाम्ना संवर्तकॊ नाम कालाग्निर भरतर्षभ
तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्त गण्डिका
यॊजनानां सहस्राणि पञ्चाशन माल्यवान सथितः
महारजत संकाशा जायन्ते तत्र मानवाः
बरह्मलॊकाच चयुताः सर्वे सर्वे च बरह्मवादिनः
तपस तु तप्यमानास ते भवन्ति हय ऊर्ध्वरेतसः
रक्षणार्थं तु भूतानां परविशन्ति दिवाकरम
षष्टिस तानि सहस्राणि षष्टिर एव शतानि च
अरुणस्याग्रतॊ यान्ति परिवार्य दिवाकरम
षष्टिं वर्षसहस्राणि षष्टिम एव शतानि च
आदित्यताप तप्तास ते विशन्ति शशिमण्डलम
[धृ]
वर्णाणां चैव नामानि पर्वतानां च संजय
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः
[स]
दक्षिणेन तु शवेतस्य नीलस्यैवॊत्तरेण तु
वर्षं रमणकं नाम जायन्ते तत्र मानवाः
शुक्लाभिजन संपन्नाः सर्वे सुप्रियदर्शनाः
रतिप्रधानाश च तथा जायन्ते तत्र मानवाः
दशवर्षसहस्राणि शतानि दश पञ्च च
जीवन्ति ते महाराज नित्यं मुदितमानसाः
दक्षिणे शृङ्गिणश चैव शवेतस्याथॊत्तरेण च
वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी
यक्षानुगा महाराज धनिनः परैय दर्शनाः
महाबलास तत्र सदा राजन मुदितमानसाः
एकादश सहस्राणि वर्षाणां ते जनाधिप
आयुष परमाणं जीवन्ति शतानि दश पञ्च च
शृङ्गाणि वै शृङ्गवतस तरीण्य एव मनुजाधिप
एकं मणिमयं तत्र तथैकं रौक्मम अद्भुतम
सर्वरत्नमयं चैकं भवनैर उपशॊभितम
तत्र सवयंप्रभा देवी नित्यं वसति शाण्डिली
उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप
वर्षम ऐरावतं नाम तस्माच छृङ्गवतः परम
न तत्र सूर्यस तपति न ते जीर्यन्ति मानवाः
चन्द्रमाश च स नक्षत्रॊ जयॊतिर भूत इवावृतः
पद्मप्रभाः पद्मवर्णाः पद्मपत्र निभेक्षणाः
पद्मपत्र सुगन्धाश च जायन्ते तत्र मानवाः
अनिष्पन्दाः सुगन्धाश च निराहारा जितेन्द्रियाः
देवलॊकच्युताः सर्वे तथा विरजसॊ नृप
तरयॊदश सहस्राणि वर्षाणां ते जनाधिप
आयुष परमाणं जीवन्ति नरा भरतसत्तम
कषीरॊदस्य समुद्रस्य तथैवॊत्तरतः परभुः
हरिर वसति वैकुण्ठः शकटे कनकात्मके
अष्टचक्रं हि तद यानं भूतयुक्तं मनॊजवम
अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम
स परभुः सर्वभूतानां विभुश च भरतर्षभ
संक्षेपॊ विस्तरश चैव कर्ता कारयिता च सः
पृथिव्य आपस तथाकाशं वायुस तेजश च पार्थिव
स यज्ञः सर्वभूतानाम आस्यं तस्य हुताशनः
[व]
एवम उक्तः संजयेन धृतराष्ट्रॊ महामनाः
धयानम अन्वगमद राजा पुत्रान परति जनाधिप
स विचिन्त्य महाराज पुनर एवाब्रवीद वचः
असंशयं सूतपुत्र कालः संक्षिपते जगत
सृजते च पुनः सर्वं न ह विद्यति शाश्वतम
नरॊ नारायणश चैव सर्वज्ञः सर्वभूतभृत
देवा वैकुण्ठ इत्य आहुर वेदा विष्णुर इति परभुम
[धृ]
यद इदं भारतं वर्षं यत्रेदं मूर्छितं बलम
यत्रातिमात्रं लुब्धॊ ऽयं पुत्रॊ दुर्यॊधनॊ मम
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः
एतन मे तत्त्वम आचक्ष्व कुशलॊ हय असि संजय
[स]
न तत्र पाण्डवा गृद्धाः शृणु राजन वचॊ मम
गृद्धॊ दुर्यॊधनस तत्र शकुनिश चापि सौबलः
अपरे कषत्रियाश चापि नानाजनपदेश्वराः
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम
अत्र ते वर्णयिष्यामि वर्षं भारत भारतम
परियम इन्द्रस्य देवस्य मनॊर वैवस्वतस्य च
पृथॊश च राजन वैन्यस्य तथेक्ष्वाकॊर महात्मनः
ययातेर अम्बरीषस्य मान्धातुर नहुषस्य च
तथैव मुचुकुन्दस्य शिबेर औशीनरस्य च
ऋषभस्य तथैलस्य नृगस्य नृपतेस तथा
अन्येषां च महाराज कषत्रियाणां बलीयसाम
सर्वेषाम एव राजेन्द्र परियं भारत भारतम
तत ते वर्षं परवक्ष्यामि यथा शुतम अरिंदम
शृणु मे गदतॊ राजन यन मां तवं परिपृच्छसि
महेन्द्रॊ मलयः सह्यः शुक्तिमान ऋक्षवान अपि
विन्ध्यश च पारियात्रश च सप्तैते कुलपर्वताः
तेषां सहस्रशॊ राजन पर्वतास तु समीपतः
अभिज्ञाताः सारवन्तॊ विपुलाश चित्रसानवः
अन्ये ततॊ ऽपरिज्ञाता हरस्वा हरस्वॊपजीविनः
आर्या मलेच्छाश च कौरव्य तैर मिश्राः पुरुषा विभॊ
नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम
गॊदावरीं नर्मदां च बाहुदां च महानदीम
शतद्रुं चन्द्रभागां च यमुनां च महानदीम
दृषद्वतीं विपाशां च विपापां सथूलवालुकाम
नदीं वेत्रवतीं चैव कृष्ण वेणां च निम्नगाम
इरावतीं वितस्तां च पयॊष्णीं देविकाम अपि
वेद समृतिं वेतसिनीं तरिदिवाम इष्कु मालिनीम
करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम
गॊमतीं धूतपापां च वन्दनां च महानदीम
कौशिकीं तरिदिवां कृत्यां विचित्रां लॊहतारिणीम
रथस्थां शतकुम्भां च सरयूं च नरेश्वर
चर्मण्वतीं वेत्रवतीं हस्तिसॊमां दिशं तथा
शतावरीं पयॊष्णीं च परां भैमरथीं तथा
कावेरीं चुलुकां चापि वापीं शतबलाम अपि
निचीरां महितां चापि सुप्रयॊगां नराधिप
पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम
पूर्वाभिरामां वीरां च भीमाम ओघवतीं तथा
पलाशिनीं पापहरां महेन्द्रं पिप्पलावतीम
पारिषेणाम असिक्नीं च सरलां भारमर्दिनीम
पुरुहीं परवरां मेनां मॊघां घृतवतीं तथा
धूमत्याम अतिकृष्णां च सूचीं छावीं च कौरव
सदानीराम अधृष्यां च कुश धारां महानदीम
शशिकान्तां शिवां चैव तथा वीरवतीम अपि
वास्तुं सुवास्तुं गौरीं च कम्पनां स हिरण्वतीम
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम
रथचित्रां जयॊतिरथां विश्वामित्रां कपिञ्जलाम
उपेन्द्रां बहुलां चैव कुचराम अम्बुवाहिनीम
वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम
विदिशां कृष्ण वेण्णां च ताम्रां च कपिलाम अपि
शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम
कौशिकीं निम्नगां शॊणां बाहुदाम अथ चन्दनाम
दुर्गाम अन्तःशिलां चैव बरह्म मेध्यां बृहद्वतीम
चरक्षां महिरॊहीं च तथा जम्बुनदीम अपि
सुनसां तमसां दासीं तरसाम अन्यां वराणसीम
लॊलॊद्धृत करां चैव पूर्णाशां च महानदीम
मानवीं वृषभां चैव महानद्यॊ जनाधिप
सदा निरामयां वृत्यां मन्दगां मन्दवाहिनीम
बरह्माणीं च महागौरीं दुर्गाम अपि च भारत
चित्रॊपलां चित्रबर्हां मज्जुं मकरवाहिनीम
मन्दाकिनीं वैतरणीं कॊकां चैव महानदीम
शुक्तिमतीम अरण्यां च पुष्पवेण्य उत्पलावतीम
लॊहित्यां करतॊयां च तथैव वृषभङ्गिनीम
कुमारीम ऋषिकुल्यां च बरह्म कुल्यां च भारत
सरस्वतीः सुपुण्याश च सर्वा गङ्गाश च मारिष
विश्वस्य मातरः सर्वाः सर्वाश चैव महाबलाः
तथा नद्यस तव अप्रकाशाः शतशॊ ऽथ सहस्रशः
इत्य एताः सरितॊ राजन समाख्याता यथा समृति
अत ऊर्ध्वं जनपदान निबॊध गदतॊ मम
तत्रेमे कुरुपाञ्चालाः शाल्व माद्रेय जाङ्गलाः
शूरसेनाः कलिङ्गाश च बॊधा मौकास तथैव च
मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकॊशलाः
चेदिवत्साः करूषाश च भॊजाः सिन्धुपुलिन्दकाः
उत्तमौजा दशार्णाश च मेकलाश चॊत्कलैः सह
पाञ्चालाः कौशिकाश चैव एकपृष्ठा युगं धराः
सौधा मद्रा भुजिङ्गाश च काशयॊ ऽपरकाशयः
जठराः कुक्कुशाश चैव सुदाशार्णाश च भारत
कुन्तयॊ ऽवन्तयश चैव तथैवापरकुन्तयः
गॊविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः
अश्मकाः पांसुराष्ट्राश च गॊप राष्ट्राः पनीतकाः
आदि राष्ट्राः सुकुट्टाश च बलिराष्ट्रं च केवलम
वानरास्याः परवाहाश च वक्रा वक्रभयाः शकाः
विदेहका मागधाश च सुह्माश च विजयास तथा
अङ्गा वङ्गाः कलिङ्गाश च यकृल लॊमान एव च
मल्लाः सुदेष्णाः पराहूतास तथा माहिष कार्षिकाः
वाहीका वाटधानाश च आभीराः कालतॊयकाः
अपरन्ध्राश च शूद्राश च पह्लवाश चर्म खण्डिकाः
अटवी शबराश चैव मरु भौमाश च मारिष
उपावृश्चानुपावृश्च सुराष्ट्राः केकयास तथा
कुट्टापरान्ता दवैधेयाः काक्षाः सामुद्र निष्कुटाः
अन्ध्राश च बहवॊ राजन्न अन्तर्गिर्यास तथैव च
बहिर्गिर्य आङ्गमलदा मागधा मानवर्जकाः
मह्युत्तराः परावृषेया भार्गवाश च जनाधिप
पुण्ड्रा भार्गाः किराताश च सुदॊष्णाः परमुदास तथा
शका निषादा निषधास तथैवानर्तनैरृताः
दुगूलाः परतिमत्स्याश च कुशलाः कुनटास तथा
तीरग्राहास्तर तॊया राजिका रम्यका गणाः
तिलकाः पारसीकाश च मधुमन्तः परकुत्सकाः
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास तथा
अभीसारा कुलूताश च शौवला बाह्लिकास तथा
दर्वीकाः सकचा दर्वा वातजाम रथॊरगाः
बहु वाद्याश च कौरव्य सुदामानः सुमल्लिकाः
वध्राः करीषकाश चापि कुलिन्दॊपत्यकास तथा
वनायवॊ दशा पार्श्वा रॊमाणः कुश बिन्दवः
कच्छा गॊपाल कच्छाश च लाङ्गलाः परवल्लकाः
किराता बर्बराः सिद्धा विदेहास ताम्रलिङ्गकाः
ओष्ट्राः पुण्ड्राः स सैरन्ध्राः पार्वतीयाश च मारिष
अथापरे जनपदा दक्षिणा भरतर्षभ
दरविडाः केरलाः पराच्या भूषिका वनवासिनः
उन्नत्यका माहिषका विकल्पा मूषकास तथा
कर्णिकाः कुन्तिकाश चैव सौब्धिदा नलकालकाः
कौकुट्टकास तथा चॊलाः कॊङ्कणा मालवाणकाः
समङ्गाः कॊपनाश चैव कुकुराङ्गद मारिषाः
धवजिन्य उत्सव संकेतास तरिवर्गाः सर्वसेनयः
तर्यङ्गाः केकरकाः परॊष्ठाः परसंचरकास तथा
तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह
मालका मल्लकाश चैव तथैवापरवर्तकाः
कुलिन्दाः कुलकाश चैव करण्ठाः कुरकास तथा
मूषका सतनबालाश च सतियः पत्तिपञ्जकाः
आदिदायाः सिरालाश च सतूबका सतनपास तथा
हृषीविदर्भाः कान्तीकास तङ्गणाः परतङ्गणाः
उत्तराश चापरे मलेच्छा जना भरतसत्तम
यवनाश च स काम्बॊजा दारुणा मलेच्छ जातयः
सक्षद्द्रुहः कुन्तलाश च हूणाः पारतकैः सह
तथैव मरधाश चीनास तथैव दश मालिकाः
कषत्रियॊपनिवेशाश च वैश्यशूद्र कुलानि च
शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह
खशिकाश च तुखाराश च पल्लवा गिरिगह्वराः
आत्रेयाः स भरद्वाजास तथैव सतनयॊषिकाः
औपकाश च कलिङ्गाश च किरातानां च जातयः
तामरा हंसमार्गाश च तथैव करभञ्जकाः
उद्देश मात्रेण मया देशाः संकीर्तिताः परभॊ
यथा गुणबलं चापि तरिवर्गस्य महाफलम
दुह्येद धेनुः कामधुक च भूमिः सम्यग अनुष्ठिता
तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकॊविदाः
ते तयजन्त्य आहवे पराणान रसा गृद्धास तरस्विनः
देव मानुषकायानां कामं भूमिः परायणम
अन्यॊन्यस्यावलुम्पन्ति सारमेया इवामिषम
राजानॊ भरतश्रेष्ठ भॊक्तुकामा वसुंधराम
न चापि तृप्तिः कामानां विद्यते चेह कस्य चित
तस्मात परिग्रहे भूमेर यतन्ते कुरुपाण्डवाः
साम्ना दानेन भेदेन दण्डेनैव च पार्थिव
पिता माता च पुत्राश च खं दयौश च नरपुंगव
भूमिर भवति भूतानां सम्यग अच्छिद्र दर्शिनी
[धृ]
भारतस्यास्य वर्षस्य तथा हैमवतस्य च
परमाणम आयुषः सूत फलं चापि शुभाशुभम
अनागतम अतिक्रान्तं वर्तमानं च संजय
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च
[स]
चत्वारि भारते वर्षे युगानि भरतर्षभ
कृतं तरेता दवापरं च पुष्यं च कुरुवर्धन
पूर्वं कृतयुगं नाम ततस तरेतायुगं विभॊ
संक्षेपाद दवापरस्याथ तथ पुष्यं परवर्तते
चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम
आयुः संख्या कृतयुगे संख्याता राजसत्तम
तत्र तरीणि सहस्राणि तरेतायां मनुजाधिप
दविसहस्रं दवापरे तु शते तिष्ठति संप्रति
न परमाण सथितिर हय अस्ति पुष्ये ऽसमिन भरतर्षभ
गर्भस्थाश च मरियन्ते ऽतर तथा जाता मरियन्ति च
महाबला महासत्त्वाः परजा गुणसमन्विताः
अजायन्त कृते राजन मुनयः सुतपॊधनाः
महॊत्साहा महात्मानॊ धार्मिकाः सत्यवादिनः
जाताः कृतयुगे राजन धनिनः परियदर्शनाः
आयुष्मन्तॊ महावीरा धनुर्धर वरा युधि
जायन्ते कषत्रियाः शूरास तरेतायां चक्रवर्तिनः
सर्ववर्णा महाराज जायन्ते दवापरे सति
महॊत्साहा महावीर्याः परस्परवधैषिणः
तेजसाल्पेन संयुक्ताः करॊधनाः पुरुषा नृप
लुब्धाश चानृतकाश चैव पुष्ये जायन्ति भारत
ईर्ष्या मानस तथा करॊधॊ मायासूया तथैव च
पुष्ये भवन्ति मर्त्यानां रागॊ लॊभश च भारत
संक्षेपॊ वर्तते राजन दवापरे ऽसमिन नराधिप
गुणॊत्तरं हैमवतं हरिवर्षं ततः परम
[धृ]
जम्बू खण्डस तवया परॊक्तॊ यथावद इह संजय
विष्कम्भम अस्य परब्रूहि परिमाणं च तत्त्वतः
समुद्रस्य परमाणं च सम्यग अच्छिद्र दर्शन
शाकद्वीपं च मे बरूहि कुश दवीपं च संजय
शाल्मलं चैव तत्त्वेन करौञ्चद्वीपं तथैव च
बरूहि गावल्गणे सर्वं राहॊः सॊमार्कयॊस तथा
[स]
राजन सुबहवॊ दवीपा यैर इदं संततं जगत
सप्त तव अहं परवक्ष्यामि चन्द्रादित्यौ गरहांस तथा
अष्टादशसहस्राणि यॊजनानां विशां पते
षट्शतानि च पूर्णानि विष्कम्भॊ जम्बुपर्वतः
लावणस्य समुद्रस्य विष्कम्भॊ दविगुणः समृतः
नानाजनपदाकीर्णॊ मणिविद्रुम चित्रितः
नैकधातुविचित्रैश च पर्वतैर उपशॊभितः
सिद्धचारणसंकीर्णः सागरः परिमण्डलः
शाकद्वीपं च वक्ष्यामि यथावद इह पार्थिव
शृणु मे तवं यथान्यायं बरुवतः कुरुनन्दन
जम्बूद्वीपप्रमाणेन दविगुणः स नराधिप
विष्कम्भेण महाराज सागरॊ ऽपि विभागशः
कषीरॊदॊ भरतश्रेष्ठ येन संपरिवारितः
तत्र पुण्या जनपदा न तत्र मरियते जनः
कुत एव हि दुर्भिक्षं कषमा तेजॊ युता हि ते
शाकद्वीपस्य संक्षेपॊ यथावद भरतर्षभ
उक्त एष महाराज किम अन्यच छरॊतुम इच्छसि
[धृ]
शाकद्वीपस्य संक्षेपॊ यथावद इह संजय
उक्तस तवया महाभाग विस्तरं बरूहि तत्त्वतः
[स]
तथैव पर्वता राजन सप्तात्र मणिभूषिताः
रत्नाकरास तथा नद्यस तेषां नामानि मे शृणु
अतीव गुणवत सर्वं तत्र पुण्यं जनाधिप
देवर्षिगन्धर्वयुतः परमॊ मेरुर उच्यते
परागायतॊ महाराज मलयॊ नाम पर्वतः
यतॊ मेघाः परवर्तन्ते परभवन्ति च सर्वशः
ततः परेण कौरव्य जलधारॊ महागिरिः
यत्र नित्यम उपादत्ते वासवः परमं जलम
यतॊ वर्षं परभवति वर्षा काले जनेश्वर
उच्चैर गिरी रैवतकॊ यत्र नित्यं परतिष्ठितः
रेवती दिवि नक्षत्रं पितामह कृतॊ विधिः
उत्तरेण तु राजेन्द्र शयामॊ नाम महागिरिः
यतः शयामत्वम आपन्नाः परजा जनपदेश्वर
[धृ]
सुमहान संशयॊ मे ऽदय परॊक्तं संजय यत तवया
परजाः कथं सूतपुत्र संप्राप्ताः शयामताम इह
[स]
सर्वेष्व एव महाप्राज्ञ दवीपेषु कुरुनन्दन
गौरः कृष्णश च वर्णौ दवौ तयॊर वर्णान्तरं नृप
शयामॊ यस्मात परवृत्तॊ वै तत ते वक्ष्यामि भारत
आस्ते ऽतर भगवान कृष्णस तत कान्त्या शयामतां गतः
ततः परं कौरवेन्द्र दुर्ग शैलॊ महॊदयः
केसरी केसर युतॊ यतॊ वातः परवायति
तेषां यॊजनविष्कम्भॊ दविगुणः परविभागशः
वर्षाणि तेषु कौरव्यं संप्रॊक्तानि मनीषिभिः
महामेरुर महाकाशॊ जलदः कुमुदॊत्तरः
जलधारात परॊ राजन सुकुमार इति समृतः
रैवतस्य तु कौमारः शयामस्य तु मणी चकः
केसरस्याथ मॊदाकी परेण तु महापुमान
परिवार्य तु कौरव्य दैर्घ्यं हरस्वत्वम एव च
जम्बूद्वीपेन विख्यातस तस्य मध्ये महाद्रुमः
शाकॊ नाम महाराज तस्य दवीपस्य मध्यगः
तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः
तत्र गच्छन्ति सिद्धाश च चारणा दैवतानि च
धार्मिकाश च परजा राजंश चत्वारॊ ऽतीव भारत
वर्णाः सवकर्मनिरता न च सतेनॊ ऽतर दृश्यते
दीर्घायुषॊ महाराज जरामृत्युविवर्जिताः
परजास तत्र विवर्धन्ते वर्षास्व इव समुद्रगाः
नद्यः पुण्यजलास तत्र गङ्गा च बहुधा गतिः
सुकुमारी कुमारी च सीता कावेरका तथा
महानदी च कौरव्य तथा मणिजला नदी
इक्षुवर्धनिका चैव तथा भरतसत्तम
ततः परवृत्ताः पुण्यॊदा नद्यः कुरुकुलॊद्वह
सहस्राणां शतान्य एव यतॊ वर्षति वासवः
न तासां नामधेयानि परिमाणं तथैव च
शक्यते परिसंख्यातुं पुण्यास ता हि सरिद वराः
तत्र पुण्या जनपदाश चत्वारॊ लॊकसंमताः
मगाश च मशकाश चैव मानसा मन्दगास तथा
मगा बराह्मणभूयिष्ठाः सवकर्मनिरता नृप
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः
मानसेषु महाराज वैश्याः कर्मॊपजीविनः
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः
शूद्रास तु मन्दगे नित्यं पुरुषा धर्मशीलिनः
न तत्र राजा राजेन्द्र न दण्डॊ न च दण्डिकाः
सवधर्मेणैव धर्मं च ते रक्षन्ति परस्परम
एतावद एव शक्यं तु तस्मिन दवीपे परभाषितुम
एतावद एव शरॊतव्यं शाकद्वीपे महौजसि
[स]
उत्तरेषु तु कौरव्य दवीपेषु शरूयते कथा
यथा शरुतं महाराज बरुवतस तन निबॊध मे
घृततॊयः समुद्रॊ ऽतर दधि मण्डॊदकॊ ऽपरः
सुरॊदः सागरश चैव तथान्यॊ घर्मसागरः
परस्परेण दविगुणाः सर्वे दवीपा नराधिप
सर्वतश च महाराज पर्वतैः परिवारिताः
गौरस तु मध्यमे दवीपे गिरिर मानः शिलॊ महान
पर्वतः पश्चिमः कृष्णॊ नारायण निभॊ नृप
तत्र रत्नानि दिव्यानि सवयं रक्षति केशवः
परजापतिम उपासीनः परजानां विदधे सुखम
कुश दवीपे कुश सतम्बॊ मध्ये जनपदस्य ह
संपूज्यते शल्मलिश च दवीपे शाल्मलिके नृप
करौञ्चद्वीपे महाक्रौञ्चॊ गिरी रत्नचयाकरः
संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा
गॊमन्दः पर्वतॊ राजन सुमहान सर्वधातुमान
यत्र नित्यं निवसति शरीमान कमललॊचनः
मॊक्षिभिः संस्तुतॊ नित्यं परभुर नारायणॊ हरिः
कुश दवीपे तु राजेन्द्र पर्वतॊ विद्रुमैश चितः
सुधामा नाम दुर्धर्षॊ दवितीयॊ हेमपर्वतः
दयुतिमान नाम कौरव्य तृतीयः कुमुदॊ गिरिः
चतुर्थः पुष्पवान नाम पञ्चमस तु कुशेशयः
षष्ठॊ हरि गिरिर नाम षड एते पर्वतॊत्तमाः
तेषाम अन्तरविष्कम्भॊ दविगुणः परविभागशः
औद्भिदं परथमं वर्षं दवितीयं वेणुमण्डलम
तृतीयं वै रथाकारं चतुर्थं पालनं समृतम
धृतिमत पञ्चमं वर्षं षष्ठं वर्षं परभा करम
सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः
एतेषु देवगन्धर्वाः परजाश च जगतीश्वर
विहरन्ति रमन्ते च न तेषु मरियते जनः
न तेषु दस्यवः सन्ति मलेच्छ जात्यॊ ऽपि वा नृप
गौर परायॊ जनः सर्वः सुकुमारश च पार्थिव
अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर
यथा शरुतं महाराज तद अव्यग्रमनाः शृणु
करौञ्चद्वीपे महाराज करौञ्चॊ नाम महागिरिः
करौञ्चात परॊ वामनकॊ वामनाद अन्धकारकः
अन्धकारात परॊ जानन मैनाकः पर्वतॊत्तमः
मैनाकात परतॊ राजन गॊविन्दॊ गिरिर उत्तमः
गॊविन्दात तु परॊ राजन निबिडॊ नाम पर्वतः
परस तु दविगुणस तेषां विष्कम्भॊ वंशवर्धन
देशांस तत्र परवक्ष्यामि तन मे निगदतः शृणु
करौञ्चस्य कुशलॊ देशॊ वामनस्य मनॊऽनुगः
मनॊऽनुगात परश चॊष्णॊ देशः कुरुकुलॊद्वह
उष्णात परः परावरकः परावराद अन्धकारकः
अन्धकारक देशात तु मुनिदेशः परः समृतः
मुनिदेशात परश चैव परॊच्यते दुन्दुभिस्वनः
सिद्धचारणसंकीर्णॊ गौर परायॊ जनाधिप
एते देशा महाराज देवगन्धर्वसेविताः
पुष्करे पुष्करॊ नाम पर्वतॊ मणिरत्नमान
तत्र नित्यं निवसति सवयं देवः परजापतिः
तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः
वाग्भिर मनॊ ऽनुकूलाभिः पूजयन्तॊ जनाधिप
जम्बूद्वीपात परवर्तन्ते रत्नानि विविधान्य उत
दवीपेषु तेषु सर्वेषु परजानां कुरुनन्दन
विप्राणां बरह्मचर्येण सत्येन च दमेन च
आरॊग्यायुः परमाणाभ्यां दविगुणं दविगुणं ततः
एकॊ जनपदॊ राजन दवीपेष्व एतेषु भारत
उक्ता जनपदा येषु धर्मश चैकः परदृश्यते
ईश्वरॊ दण्डम उद्यम्य सवयम एव परजापतिः
दवीपान एतान महाराज रक्षंस तिष्ठति नित्यदा
स राजा स शिवॊ राजन स पिता स पितामहः
गॊपायति नरश्रेष्ठ परजाः स जड पण्डिताः
भॊजनं चात्र कौरव्य परजाः सवयम उपस्थितम
सिद्धम एव महाराज भुञ्जते तत्र नित्यदा
ततः परं समा नाम दृश्यते लॊकसंस्थितिः
चतुरश्रा महाराज तरयस तरिंशत तु मण्डलम
तत्र तिष्ठन्ति कौरव्य चत्वारॊ लॊकसंमिताः
दिग गजा भरतश्रेष्ठ वामनैरावतादयः
सुप्रतीकस तथा राजन परभिन्नकरटा मुखः
तस्याहं परिमाणं तु न संख्यातुम इहॊत्सहे
असंख्यातः स नित्यं हि तिर्यग ऊर्ध्वम अधस तथा
तत्र वै वायवॊ वान्ति दिग्भ्यः सर्वाभ्य एव च
असंबाधा महाराज तान निगृह्णन्ति ते गजाः
पुष्करैः पद्मसंकाशैर वर्ष्मवद्भिर महाप्रभैः
ते शनैः पुनर एवाशु वायून मुञ्चन्ति नित्यशः
शवसद्भिर मुच्यमानास तु दिग गजैर इह मारुताः
आगच्छन्ति महाराज ततस तिष्ठन्ति वै परजाः
[धृ]
परॊ वै विस्तरॊ ऽतयर्थं तवया संजय कीर्तितः
दर्शितं दवीपसंस्थानम उत्तरं बरूहि संजय
[स]
उक्ता दवीपा महाराज गरहान मे शृणु तत्त्वतः
सवर्भानुः कौरवश्रेष्ठ यावद एष परभावतः
परिमण्डलॊ महाराज सवर्भानुः शरूयते गरहः
यॊजनानां सहस्राणि विष्कम्भॊ दवादशास्य वै
परिणाहेन षट तरिंशद विपुलत्वेन चानघ
षष्टिम आहुः शतान्य अस्य बुधाः पौराणिकास तथा
चन्द्रमास तु सहस्राणि राजन्न एकादश समृतः
विष्कम्भेण कुरुश्रेष्ठ तरयस तरिंशत तु मण्डलम
एकॊन षष्टिवैपुल्याच छीत रश्मेर महात्मनः
सूर्यस तव अष्टौ सहस्राणि दवे चान्ये कुरुनन्दन
विष्कम्भेण ततॊ राजन मण्डलं तरिंशतं समम
अष्ट पञ्चाशतं राजन विपुलत्वेन चानघ
शरूयते परमॊदारः पतंगॊ ऽसौ विभावसुः
एतत परमाणम अर्कस्य निर्दिष्टम इह भारत
स राहुश छादयत्य एतौ यथाकालं महत्तया
चन्द्रादित्यौ महाराज संक्षेपॊ ऽयम उदाहृतः
इत्य एतत ते महाराज पृच्छतः शास्त्रचक्षुषा
सर्वम उक्तं यथातत्त्वं तस्माच छमम अवाप्नुहि
यथादृष्टं मया परॊक्तं स निर्याणम इदं जगत
तस्माद आश्वस कौरव्य पुत्रं दुर्यॊधनं परति
शरुत्वेदं भरतश्रेष्ठ भूमिपर्व मनॊऽनुगम
शरीमान भवति राजन्यः सिद्धार्थः साधु संमतः
आयुर बलं च वीर्यं च तस्य तेजश च वर्धते
यः शृणॊति महीपाल पर्वणीदं यतव्रतः
परीयन्ते पितरस तस्य तथैव च पितामहाः
इदं तु भारतं वर्षं यत्र वर्तामहे वयम
पूर्वं परवर्तते पुण्यं तत सर्वं शरुतवान असि
[व]
अथ गावल्गणिर धीमान समराद एत्य संजयः
परत्यक्षदर्शी सर्वस्य भूतभव्य भविष्यवित
धयायते धृतराष्ट्राय सहसॊपेत्य दुःखितः
आचष्ट निहतं भीष्मं भरतानाम अमध्यमम
संजयॊ ऽहं महाराज नमस ते भरतर्षभ
हतॊ भीष्मः शांतनवॊ भरतानां पितामहः
ककुदं सर्वयॊधानां धाम सर्वधनुष्मताम
शरतल्पगतः सॊ ऽदय शेते कुरुपितामहः
यस्य वीर्यं समाश्रित्य दयूतं पुत्रस तवाकरॊत
स शेते निहतॊ राजन संख्ये भीष्मः शिखण्डिना
यः सर्वान पृथिवीपालान समवेतान महामृधे
जिगायैक रथेनैव काशिपुर्यां महारथः
जामदग्न्यं रणे रामम आयॊध्य वसु संभवः
न हतॊ जामदग्न्येन स हतॊ ऽदय शिखण्डिना
महेन्द्रसदृशः शौर्ये सथैर्ये च हिमवान इव
समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरा समः
शरदंष्ट्रॊ धनुर वक्त्रः खड्गजिह्वॊ दुरासदः
नरसिंहः पिता ते ऽदय पाञ्चाल्येन निपातितः
पाण्डवानां महत सैन्यं यं दृष्ट्वॊद्यन्तम आहवे
परवेपत भयॊद्विग्नं सिंहं दृष्ट्वेव गॊगणः
परिरक्ष्य स सेनां ते दशरात्रम अनीकहा
जगामास्तम इवादित्यः कृत्वा कर्म सुदुष्करम
यः स शक्र इवाक्षॊभ्यॊ वर्षन बाणान सहस्रशः
जघान युधि यॊधानाम अर्बुदं दशभिर दिनैः
स शेते निष्टनन भूमौ वातरुग्ण इव दरुमः
तव दुर्मन्त्रिते राजन यथा नार्हः स भारत
[धृ]
कथं कुरूणाम ऋषभॊ हतॊ भीष्मः शिखण्डिना
कथं रथात स नयपतत पिता मे वासवॊपमः
कथम आसंश च मे पुत्रा हीना भीष्मेण संजय
बलिना देवकल्पेन गुर्वर्थे बरह्मचारिणा
तस्मिन हते महासत्त्वे महेष्वासे महाबले
महारथे नरव्याघ्र किम उ आसीन मनस तदा
आर्तिः परा माविशति यतः शंससि मे हतम
कुरूणाम ऋषभं वीरम अकम्प्यं पुरुषर्षभम
के तं यान्तम अनुप्रेयुः के चास्यासन पुरॊगमाः
के ऽतिष्ठन के नयवर्तन्त के ऽभयवर्तन्त संजय
के शूरा रथशार्दूलम अच्युतं कषत्रियर्षभम
रथानीकं गाहमानं सहसा पृष्ठतॊ ऽनवयुः
यस तमॊ ऽरक इवापॊहन परसैन्यम अमित्रहा
सहस्ररश्मि परतिमः परेषां भयम आदधत
अकरॊद दुष्करं कर्म रणे कौरव शासनात
गरसमानम अनीकानि य एनं पर्यवारयन
कृतिनं तं दुराधर्षं सम्यग यास्यन्तम अन्तिके
कथं शांतनवं युद्धे पाण्डवाः परत्यवारयन
निकृन्तन्तम अनीकानि शरदंष्ट्रं तरस्विनम
चापव्यात्ताननं घॊरम असि जिह्वं दुरासदम
अत्यन्यान पुरुषव्याघ्रान हरीमन्तम अपराजितम
पातयाम आस कौन्तेयः कथं तम अजितं युधि
उग्रधन्वानम उग्रेषुं वर्तमानं रथॊत्तमे
परेषाम उत्तमाङ्गानि परचिन्वन्तं शितेषुभिः
पाण्डवानां महत सैन्यं यं दृष्ट्वॊद्यन्तम आहवे
कालाग्निम इव दुर्धर्षं समवेष्टत नित्यशः
परिकृष्य स सेनां मे दशरात्रम अनीकहा
जगामास्तम इवादित्यः कृत्वा कर्म सुदुष्करम
यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन
जघान युधि यॊधानाम अर्बुदं दशभिर दिनैः
स शेते निष्टनन भूमौ वातरुग्ण इव दरुमः
मम दुर्मन्त्रितेनासौ यथा नार्ह स भारत
कथं शांतनवं दृष्ट्वा पाण्डवानाम अनीकिनी
परहर्तुम अशकत तत्र भीष्मं भीमपराक्रमम
कथं भीष्मेण संग्रामम अकुर्वन पाण्डुनन्दनाः
कथं च नाजयद भीष्मॊ दरॊणे जीवति संजय
कृपे संनिहिते तत्र भरद्वाजात्मजे तथा
भीष्मः परहरतां शरेष्ठः कथं स निधनं गतः
कथं चातिरथस तेन पाञ्चाल्येन शिखण्डिना
भीष्मॊ विनिहतॊ युद्धे देवैर अपि दुरुत्सहः
यः सपर्धते रणे नित्यं जामदग्न्यं महाबलम
अजितं जामदग्न्येन शक्रतुल्यपराक्रमम
तं हतं समरे भीष्मं महारथबलॊचितम
संजयाचक्ष्व मे वीरं येन शर्म न विद्महे
मामकाः के महेष्वासा नाजहुः संजयाच्युतम
दुर्यॊधनं समादिष्टाः के वीराः पर्यवारयन
यच छिखण्डि मुखाः सर्वे पाण्डवा भीष्मम अभ्ययुः
कच चिन न कुरवॊ भीतास तत्यजुः संजयाच्युतम
मौर्वी घॊषस्तनयित्नुः पृषत्क पृषतॊ महान
धनुर हवाद महाशब्दॊ महामेघ इवॊन्नतः
यद अभ्यवर्षत कौन्तेयान सपाञ्चालान स सृञ्जयान
निघ्नन पररथान वीरॊ दानवान इव वज्रभृत
इष्वस्त्रसागरं घॊरं बाणग्राहं दुरासदम
कार्मुकॊर्मिणम अक्षय्यम अद्वीपं समरे ऽपलवम
गदासिमकरावर्तं हयग्राहं गजाकुलम
हयान गजान पदातांश च रथांश च तरसा बहून
निमज्जयन्तं समरे परवीरापहारिणम
विदह्यमानं कॊपेन तेजसा च परंतपम
वेलेव मकरावासं के वीराः पर्यवारयन
भीष्मॊ यद अकरॊत कर्म समरे संजयारिहा
दुर्यॊधनहितार्थाय के तदास्य पुरॊ ऽभवन
के ऽरक्षन दक्षिणं चक्रं भीष्मस्यामिततेजसः
पृष्ठतः के परान वीरा उपासेधन यतव्रताः
के पुरस्ताद अवर्तन्त रक्षन्तॊ भीष्मम अन्तिके
के ऽरक्षन्न उत्तरं चक्रं वीरा वीरस्य युध्यतः
वामे चक्रे वर्तमानाः के ऽघनन संजय सृञ्जयान
समेताग्रम अनीकेषु के ऽभयरक्षन दुरासदम
पार्श्वतः के ऽभयवर्तन्त गच्छन्तॊ दुर्गमां गतिम
समूहे के परान वीरान परत्ययुध्यन्त संजय
रक्ष्यमाणः कथं वीरैर गॊप्यमानाश च तेन ते
दुर्जयानाम अनीकानि नाजयंस तरसा युधि
सर्वलॊकेश्वरस्येव परमेष्ठि परजापतेः
कथं परहर्तुम अपि ते शेकुः संजय पाण्डवाः
यस्मिन दवीपे समाश्रित्य युध्यन्ति कुरवः परैः
तं निमग्नं नरव्याघ्रं भीष्मं शंससि संजय
यस्य वीर्ये समाश्वस्य मम पुत्रॊ बृहद्बलः
न पाण्डवान अगणयत कथं स निहतः परैः
यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः
काङ्क्षितॊ दानवान घनद्भिः पिता मम महाव्रतः
यस्मिञ जाते महावीर्ये शंतनुर लॊकशंकरे
शॊकं दुःखं च दैन्यं च पराजहात पुत्र लक्ष्मणि
परज्ञा परायणं तज्ज्ञं सद धर्मनिरतं शुचिम
वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम
सर्वास्त्रविनयॊपेतं दान्तं शान्तं मनस्विनम
हतं शांतनवं शरुत्वा मन्ये शेषं बलं हतम
धर्माद अधर्मॊ बलवान संप्राप्त इति मे मतिः
यत्र वृद्धं गुरुं हत्वा राज्यम इच्छन्ति पाण्डवाः
जामदग्न्यः पुरा रामः सर्वास्त्रविद अनुत्तमः
अम्बार्थम उद्यतः संख्ये भीष्मेण युधि निर्जितः
तम इन्द्रसमकर्माणं ककुदं सर्वधन्विनाम
हतं शंससि भीष्मं मे किं नु दुःखम अतः परम
असकृत कषत्रिय वराताः संख्ये येन विनिर्जिताः
जामदग्न्यस तथा रामः परवीर निघातिना
तमान नूनं महावीर्याद भार्गवाद युद्धदुर्मदात
तेजॊ वीर्यबलैर भूयाञ शिखण्डी दरुपदात्मजः
यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम
परमास्त्रविदं वीरं जघान भरतर्षभम
के वीरास तम अमित्रघ्नम अन्वयुः शत्रुसंसदि
शंस मे तद यथावृत्तं युद्धं भीष्मस्य पाण्डवैः
यॊषेव हतवीरा मे सेना पुत्रस्य संजय
अगॊपम इव चॊद्भ्रान्तं गॊकुलं तद बलं मम
पौरुषं सर्वलॊकस्य परं यस्य महाहवे
परासिक्ते च वस तस्मिन कथम आसीन मनस तदा
जीविते ऽपय अद्य सामर्थ्यं किम इवास्मासु संजय
घातयित्वा महावीर्यं पितरं लॊकधार्मिकम
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः
भीष्मे हते भृशं दुःखान मन्ये शॊचन्ति पुत्रकाः
अद्रिसारमयं नूनं सुदृढं हृदयं मम
यच छरुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते
यस्मिन्न अस्त्रं च मेधा च नीतिश च भरतर्षभे
अप्रमेयाणि दुर्धर्षे कथं स निहतॊ युधि
न चास्त्रेण न शौर्येण तपसा मेधया न च
न धृत्या न पुनस तयागान मृत्यॊः कश चिद विमुच्यते
कालॊ नूनं महावीर्यः सर्वलॊकदुरत्ययः
यत्र शांतनवं भीष्मं हतं शंससि संजय
पुत्रशॊकाभिसंतप्तॊ महद दुःखम अचिन्तयन
आशंसे ऽहं पुरा तराणं भीष्माच छंतनुनन्दनात
यदादित्यम इवापश्यत पतितं भुवि संजय
दुर्यॊधनः शांतनवं किं तदा परत्यपद्यत
नाहं सवेषां परेषां वा बुद्ध्या संजय चिन्तयन
शेषं किं चित परपश्यामि परत्यनीके महीक्षिताम
दारुणः कषत्रधर्मॊ ऽयम ऋषिभिः संप्रदर्शितः
यत्र शांतनवं हत्वा राज्यम इच्छन्ति पाण्डवाः
वयं वा राज्यम इच्छामॊ घातयित्वा पितामहम
कषत्रधर्मे सथिताः पार्था नापराध्यन्ति पुत्रकाः
एतद आर्येण कर्तव्यं कृच्छ्रास्व आपत्सु संजय
पराक्रमः परं शक्त्या तच च तस्मिन परतिष्ठितम
अनीकानि विनिघ्नन्तं हरीमन्तम अपराजितम
कथं शांतनवं तात पाण्डुपुत्रा नयपातयन
कथं युक्तान्य अनीकानि कथं युद्धं महात्मभिः
कथं वा निहतॊ भीष्मः पिता संजय मे परैः
दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः
दुःशासनश च कितवॊ हते भीष्मे किम अब्रुवन
यच छरीरैर उपस्तीर्णां नरवारणवाजिनाम
शरशक्तिगदाखड्गतॊमराक्षां भयावहाम
पराविशन कितवा मन्दाः सभां युधि दुरासदाम
पराणद्यूते परतिभये के ऽदीव्यन्त नरर्षभाः
के ऽजयन के जितास तत्र हृतलक्षा निपातिताः
अन्ये भीष्माच छांतनवात तन ममाचक्ष्व संजय
न हि मे शान्तिर अस्तीह युधि देवव्रतं हतम
पितरं भीमकर्माणं शरुत्वा मे दुःखम आविशत
आर्तिं मे हृदये रूढां महतीं पुत्र कारिताम
तवं सिञ्चन सर्पिषेवाग्निम उद्दीपयसि संजय
महान्तं भारम उद्यम्य विश्रुतं सार्व लौकिकम
दृष्ट्वा विनिहतं भीष्मं मन्ये शॊचन्ति पुत्रकाः
शरॊष्यामि तानि दुःखानि दुर्यॊधनकृतान्य अहम
तस्मान मे सर्वम आचक्ष्व यद्वृत्तं तत्र संजय
संग्रामे पृथिवीशानां मन्दस्याबुद्धि संभवम
अपनीतं सुनीतं वा तन ममाचक्ष्व संजय
यत्कृतं तत्र भीष्मेण संग्रामे जयम इच्छता
तेयॊ युक्तं कृतास्त्रेण शंस तच चाप्य अशेषतः
यथा तद अभवद युद्धं कुरुपाण्डवसेनयॊः
करमेण येन यस्मिंश च काले यच च यथा च तत
[स]
तवद युक्तॊ ऽयम अनुप्रश्नॊ महाराज यथार्हसि
न तु दुर्यॊधने दॊषम इमम आसक्तुम अर्हसि
य आत्मनॊ दुश्चरिताद अशुभं पराप्नुयान नरः
एनसा तेन नान्यं स उपाशङ्कितुम अर्हति
महाराज मनुष्येषु निन्द्यं यः सर्वम आचरेत
स वध्यः सर्वलॊकस्य निन्दितानि समाचरन
निकारॊ निकृतिप्रज्ञैः पाण्डवैस तवत्प्रतीक्षया
अनुभूतः सहामात्यैः कषान्तं च सुचिरं वने
हयानां च गजानां च शूराणां चामितौजसाम
परत्यक्षं यन मया दृष्टं दृष्टं यॊगबलेन च
शृणु तत पृथिवीपाल मा च शॊके मनः कृथाः
दिष्टम एतत पुरा नूनम एवं भावि नराधिप
नमस्कृत्वा पितुस ते ऽहं पाराशर्याय धीमते
यस्य परसादाद दिव्यं मे पराप्तं जञानम अनुत्तमम
दृष्टिश चातीन्द्रिया राजन दूराच छरवणम एव च
परचित्तस्य विज्ञानम अतीतानागतस्य च
वयुत्थितॊत्पत्तिविज्ञानम आकाशे च गतिः सदा
शस्त्रैर असङ्गॊ युद्धेषु वरदानान महात्मनः
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम
भारतानां महद युद्धं यथाभूल लॊमहर्षणम
तेष्व अनीकेषु यत तेषु वयूढेषु च विधानतः
दुर्यॊधनॊ महाराज दुःशासनम अथाब्रवीत
दुःशासन रथास तूर्णं युज्यन्तां भीष्मरक्षिणः
अनीकानि च सर्वाणि शीघ्रं तवम अनुचॊदय
अयं मा समनुप्राप्तॊ वर्षपूगाभिचिन्तितः
पाण्डवानां स सैन्यानां कुरूणां च समागमः
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात
हन्याद गुप्तॊ हय असौ पार्थान सॊमकांश च स सृञ्जयान
अब्रवीच च विशुद्धात्मा नाहं हन्यां शिखण्डिनम
शरूयते सत्री हय असौ पूर्वं तस्माद वर्ज्यॊ रणे मम
तस्माद भीष्मॊ रक्षितव्यॊ विशेषेणेति मे मतिः
शिखण्डिनॊ वधे यत्ताः सर्वे तिष्ठन्तु मामकाः
तथा पराच्याश परतीच्याश च दाक्षिणात्यॊत्तरा पथाः
सर्वशस्त्रास्त्रकुशलास ते रक्षन्तु पितामहम
अरक्ष्यमाणं हि वृकॊ हन्यात सिंहं महाबलम
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना
वामं चक्रं युधामन्युर उत्तमौजाश च दक्षिणम
गॊप्तारौ फल्गुनस्यैतौ फल्गुनॊ ऽपि शिखण्डिनः
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः
यथा न हन्याद गाङ्गेयं दुःशासन तथा कुरु
ततॊ रजन्यां वयुष्टातां शब्दः समभवन महान
करॊशतां भूमिपालानां युज्यतां युज्यताम इति
शङ्खदुन्दुभिनिर्घॊषैः सिंहनादैश च भारत
हयहेषित शब्दैश च रथनेमि सवनैस तथा
गजानां बृंहतां चैव यॊधानां चाभिगर्जताम
कष्वेडितास्फॊटितॊत्क्रुष्टैस तुमुलं सर्वतॊ ऽभवत
उदतिष्ठन महाराज सर्वं युक्तम अशेषतः
सूर्यॊदये महत सैन्यं कुरुपाण्डवसेनयॊः
तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च
तत्र नागा रथाश चैव जाम्बूनदपरिष्कृताः
विभ्राजमाना दृश्यन्ते मेघा इव स विद्युतः
रथानीकान्य अदृश्यन्त नगराणीव भूरिशः
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत
धनुर्भिर ऋष्टिभिः खड्गैर गदाभिः शक्तितॊमरैः
यॊधाः परहरणैः शुभ्रैः सवेष्व अनीकेष्व अवस्थिताः
गजा रथाः पदाताश च तुरगाश च विशां पते
वयतिष्ठन वागुराकाराः शतशॊ ऽथ सहस्रशः
धवजा बहुविधाकारा वयदृश्यन्त समुच्छ्रिताः
सवेषां चैव परेषां च दयुतिमन्तः सहस्रशः
काञ्चना मणिचित्राङ्गा जवलन्त इव पावकाः
अर्चिष्मन्तॊ वयरॊचन्त धवजा राज्ञां सहस्रशः
महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्व इव
संनद्धास तेषु ते वीरा ददृशुर युद्धकाङ्क्षिणः
उद्यतैर आयुधैर चित्रास तलबद्धाः कलापिनः
ऋषभाक्षा मनुष्येन्द्राश चमूमुखगता बभुः
शकुनिः सौबलः शल्यः सौन्धवॊ ऽथ जयद्रथः
विन्दानुविन्दाव आवन्त्यौ काम्बॊजश च सुदक्षिणः
शरुतायुधश च कालिङ्गॊ जयत्सेनश च पार्थिवः
बृहद्बलश च कौशल्यः कृतवर्मा च सत्वतः
दशैते पुरुषव्याघ्रः शूराः परिघबाहवः
अक्षौहिणीनां पतयॊ यज्वानॊ भूरिदक्षिणाः
एते चान्ये च बहवॊ दुर्यॊधन वशानुगाः
राजानॊ राजपुत्राश च नीतिमन्तॊ महाबलाः
संनद्धाः समदृश्यन्त सवेष्व अनीकेष्व अवस्थिताः
बद्धकृष्णाजिनाः सर्वे धवजिनॊ मुञ्ज मालिनः
सृष्टा दुर्यॊधनस्यार्थे बरह्मलॊकाय दीक्षिताः
समृद्धा दशवाहिन्यः परिगृह्य वयवस्थिताः
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः
अग्रतः सर्वसैन्यानां यत्र शांतनवॊ ऽगरणीः
शवेतॊष्णीषं शवेतहयं शवेतवर्माणम अच्युतम
अपश्याम महाराज भीष्मं चन्द्रम इवॊदितम
हेमतालध्वजं भीष्मं राजते सयन्दने सथितम
शवेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः
सृञ्जयाश च महेष्वासा धृष्टद्युम्नपुरॊगमाः
जृम्भमाणं महासिंहं दृष्ट्वा कषुद्रमृगा यथा
धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः
एकादशैताः शरीजुष्टा वाहिन्यस तव भारत
पाण्डवानां तथा सप्त महापुरुषपालिताः
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ
युगान्ते समुपेतौ दवौ दृश्येते सागराव इव
नैव नस तादृशॊ राजन दृष्टपूर्वॊ न च शरुतः
अनीकानां समेतानां समवायस तथाविधः
[स]
यथा स भगवान वयासः कृष्णद्वैपायनॊ ऽबरवीत
तथैव सहिताः सर्वे समाजग्मुर महीक्षितः
मघा विषयगः सॊमस तद दिनं परत्यपद्यत
दीप्यमानाश च संपेतुर दिवि सप्त महाग्रहाः
दविधा भूत इवादित्य उदये परत्यदृश्यत
जवलन्त्या शिखया भूयॊ भानुमान उदितॊ दिवि
ववाशिरे च दीप्तायां दिशि गॊमायुवायसाः
लिप्समानाः शरीराणि मांसशॊणितभॊजनाः
अहन्य अहनि पार्थानां वृद्धः कुरुपितामहः
भरद्वाजात्मजश चैव परातर उत्थाय संयतौ
जयॊ ऽसतु पाण्डुपुत्राणाम इत्य ऊचतुर अरिंदमौ
युयुधाते तवार्थाय यथा स समयः कृतः
सर्वधर्मविशेषज्ञः पिता देवव्रतस तव
समानीय महीपालान इदं वचनम अब्रवीत
इदं वः कषत्रिया दवारं सवर्गायापावृतं महत
गच्छध्वं तेन शक्रस्य बरह्मणश च स लॊकताम
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर गतः
संभावयत चात्मानम अव्यग्रमनसॊ युधि
नाभागॊ हि ययातिश च मान्धाता नहुषॊ नृगः
संसिद्धाः परमं सथानं गताः कर्मभिर ईदृशैः
अधर्मः कषत्रियस्यैष यद वयाधिमरणं गृहे
यद आजौ निधनं याति सॊ ऽसय धर्मः सनातनः
एवम उक्ता महीपाला भीष्मेण भरतर्षभ
निर्ययुः सवान्य अनीकानि शॊभयन्तॊ रथॊत्तमैः
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः
नयासितः समरे शस्त्रं भीष्मेण भरतर्षभ
अपेतकर्णाः पुत्रास ते राजानश चैव तावकाः
निर्ययुः सिंहनादेन नादयन्तॊ दिशॊ दश
शवेतैश छत्रैः पताकाभिर धवजवारणवाजिभिः
तान्य अनीकान्य अशॊभन्त रथैर अथ पदातिभिः
भेरी पणवशब्दैश च पटहानां च निस्वनैः
रथनेमि निनादैश च बभूवाकुलिता मही
काञ्चनाङ्गदकेयूरैः कार्मुकैश च महारथाः
भराजमाना वयदृश्यन्त जङ्गमाः पर्वता इव
तालेन महता भीष्मः पञ्च तारेण केतुना
विमलादित्य संकाशस तस्थौ कुरुचमूपतिः
ये तवदीया महेष्वासा राजानॊ भरतर्षभः
अवर्तन्त यथादेशं राजञ शांतनवस्य ते
स तु गॊवासनः शैब्यः सहितः सर्वराजभिः
ययौ मातङ्गराजेन राजार्हेण पताकिना
पद्मवर्णस तव अनीकानां सर्वेषाम अग्रतः सथितः
अश्वत्थामा ययौ यत्तः सिंहलाङ्गल केतनः
शरुतायुश चित्रसेनश च पुरुमित्रॊ विविंशतिः
शल्यॊ भुरि शरवाश चैव विकर्णश च महारथः
एते सप्त महेष्वासा दरॊणपुत्र पुरॊगमाः
सयन्दनैर वरवर्णाभैर भीष्मस्यासन पुरःसरा
तेषाम अपि महॊत्सेधाः शॊभयन्तॊ रथॊत्तमान
भराजमाना वयदृश्यन्त जाम्बूनदमया धवजाः
जाम्बूनदमयी वेदिः कमण्डलुविभूषिता
केतुर आचार्य मुख्यस्य दरॊणस्य धनुषा सह
अनेकशतसाहस्रम अनीकम अनुकर्षतः
महान दुर्यॊधनस्यासीन नागॊ मणिमयॊ धवजः
तस्य पौरव कालिङ्गौ काम्बॊजश च सुदक्षिणः
कषेमधन्वा सुमित्रश च तस्थुः परमुखतॊ रथाः
सयन्दनेन महार्हेण केतुना वृषभेण च
परकर्षन्न इव सेनाग्रं मागधश च नृपॊ ययौ
तद अङ्गपतिना गुप्तं कृपेण च महात्मना
शारदाभ्रचय परख्यं पराच्यानाम अभवद बलम
अनीक परमुखे तिष्ठन वराहेण महायशाः
शुशुभे केतुमुख्येन राजतेन जयद्रथः
शतं रथसहस्राणां तस्यासन वशवर्तिनः
अष्टौ नागसहस्राणि सादिनाम अयुतानि षट
तत सिन्धुपतिना राजन पालितं धवजिनीमुखम
अनन्त रथनागाश्वम अशॊभत महद बलम
षष्ट्या रथसहस्रैस तु नागानाम अयुतेन च
पतिः सर्वक लिङ्गानां ययौ केतुमता सह
तस्य पर्वतसंकाशा वयरॊचन्त महागजाः
यन्त्रतॊमर तूणीरैः पताकाभिश च शॊभिताः
शुशुभे केतुमुख्येन पादपेन कलिङ्गपः
शवेतच छत्रेण निष्केण चामरव्यजनेन च
केतुमान अपि मातङ्गं विचित्रपरमाङ्कुशम
आस्थितः समरे राजन मेघस्थ इव भानुमान
तेजसा दीप्यमानस तु वारणॊत्तमम आस्थितः
भगदत्तॊ ययौ राजा यथा वज्रधरस तथा
जग सकन्धगताव आस्तां भगदत्तेन संमितौ
विन्दानुविन्दाव आवन्त्यौ केतुमन्तम अनुव्रतौ
स रथानीकवान वयूहॊ हस्त्यङ्गॊत्तम शीर्षवान
वाजिपक्षः पतन्न उग्रः पराहरत सर्वतॊ मुखः
दरॊणेन विहितॊ राजन राज्ञा शांतनवेन च
तथैवाचार्य पुत्रेण बाह्लीकेन कृपेण च
[स]
ततॊ मुहूर्तात तुमुलः शब्दॊ हृदयकम्पनः
अश्रूयत महाराज यॊधानां परयुयुत्सताम
शङ्खदुन्दुभिनिर्घॊषैर वारणानां च बृंहितैः
रथानां नेमिघॊषैश च दीर्यतीव वसुंधरा
हयानां हेषमाणानां यॊधानां तत्र गर्जताम
कषणेन खं दिशश चैव शब्देनापूरितं तदा
पुत्राणां तव दुर्धर्षे पाण्डवानां तथैव च
समकम्पन्त सैन्यानि परस्परसमागमे
तत्र नागा रथाश चैव जाम्बूनदविभूषिताः
भराजमाना वयदृश्यन्त मेघा इव स विद्युतः
धवजा बहुविधाकारास तावकानां नराधिप
काञ्चनाङ्गदिनॊ रेजुर जवलिता इव पावकाः
सवेषां चैव परेषां च समदृश्यन्त भारत
महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्व इव
काञ्चनैः कवचैर वीरा जवलनार्कसमप्रभैः
संनद्धाः परत्यदृश्यन्त गरहाः परज्वलिता इव
उद्यतैर आयुधैश चित्रैस तलबद्धाः पताकिनः
ऋषभाक्षा महेष्वासाश चमूमुखगता बभुः
पृष्ठगॊपास तु भीष्मस्य पुत्रास तव नराधिप
दुःशासनॊ दुर्विषहॊ दुर्मुखॊ दुःसहस तथा
विविंशतिश चित्रसेनॊ विकर्णश च महारथः
सत्यव्रतः पुरुमित्रॊ जयॊ भूरिश्रवाः शलः
रथा विंशतिसाहस्रास तथैषाम अनुयायिनः
अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः
शाल्वा मत्स्यास तथाम्बष्ठास तरिगर्ताः केकयास तथा
सौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः
दवादशैते जनपदाः सर्वे शूरास तनुत्यजः
महता रथवंशेन ते ऽभयरक्षन पितामहम
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम
माघदॊ येन नृपतिस तद्रथानीकम अन्वयात
रथानां चक्ररक्षाश च पादप्रक्षाश च दन्तिनाम
अभूवन वाहिनीमध्ये शतानाम अयुतानि षट
पादाताश चाग्रतॊ ऽगच्छन धनुश चर्मासि पाणयः
अनेकशतसाहस्रा नखरप्रासयॊधिनः
अक्षौहिण्यॊ दशैका च तव पुत्रस्य भारत
अदृश्यन्त महाराज गङ्गेव यमुनान्तरे
[धृ]
अक्षौहिण्यॊ दशैकां च वयूढां दृष्ट्वा युधिष्ठिरः
कथम अल्पेन सैन्येन परत्यव्यूहत पाण्डवः
यॊ वेद मानुषं वयूहं दैवं गान्धर्वम आसुरम
कथं भीष्मं स कौन्तेयः परत्यव्यूहत पाण्डवः
[स]
धार्तराष्ट्राण्य अनीकानि दृष्ट्वा वयूढानि पाण्डवः
अभ्यभाषत धर्मात्मा धर्मराजॊ धनंजयम
महर्षेर वचनात तात वेदयन्ति बृहस्पतेः
संहतान यॊधयेद अल्पान कामं विस्तारयेद बहून
सूचीमुखम अनीकं सयाद अल्पानां बहुभिः सह
अस्माकं च तथा सैन्यम अल्पीयः सुतरां परैः
एतद वचनम आज्ञाय महर्षेर वयूह पाण्डव
तच छरुत्वा धर्मराजस्य परत्यभाषत फल्गुणः
एष वयूहामि ते राजन वयूहं परमदुर्जयम
अचलं नाम वज्राख्यं विहितं वज्रपाणिना
यः स वात इवॊद्धूतः समरे दुःसहः परैः
स नः पुरॊ यॊत्स्यति वै भीमः परहरतां वरः
तेजांसि रिपुसैन्यानां मृद्नन पुरुषसत्तमः
अग्रे ऽगरणीर यास्यति नॊ युद्धॊपाय विचक्षणः
यं दृष्ट्वा पार्थिवाः सर्वे दुर्यॊधन पुरॊगमाः
निवर्तिष्यन्ति संभ्रान्ताः सिंहं कषुद्रमृगा इव
तं सर्वे संश्रयिष्यामः पराकारम अकुतॊभयम
भीमं परहरतां शरेष्ठं वज्रपाणिम इवामराः
न हि सॊ ऽसति पुमाँल लॊके यः संक्रुद्धं वृकॊदरम
दरष्टुम अत्युग्र कर्माणं विषहेत नरर्षभम
भीमसेनॊ गदां बिभ्रद वज्रसारमयीं दृढाम
चरन वेगेन महता समुद्रम अपि शॊषयेत
केकया धृष्टकेतुश च चेकितानश च वीर्यवान
एत तिष्ठन्ति सामात्याः परेक्षकास ते नरेश्वर
धृतराष्ट्रस्य दायादा इति बीभत्सुर अब्रवीत
बरुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष
अपूजयंस तदा वाग्भिर अनुकूलाभिर आहवे
एवम उक्त्वा महाबाहुस तथा चक्रे धनंजयः
वयूह्य तानि बलान्य आशु परययौ फल्गुनस तदा
संप्रयातान कुरून दृष्ट्वा पाण्डवानां महाचमूः
गङ्गेव पूर्णा सतिमिता सयन्दमाना वयदृश्यत
भीमसेनॊ ऽगरणीस तेषां धृष्टद्युम्नश च पार्षतः
नकुलः सहदेवश च धृष्टकेतुश च वीर्यवान
समुद्यॊज्य ततः पश्चाद राजाप्य अक्षौहिणी वृतः
भरातृभिः सह पुत्रैश च सॊ ऽभयरक्षत पृष्ठतः
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती
दरौपदेयाः स सौभद्राः पृष्ठगॊपास तरस्विनः
धृष्टद्युम्नश च पाञ्चाल्यस तेषां गॊप्ता महारथः
सहितः पृतना शूरै रथमुख्यैः परभद्रकैः
शिखण्डी तु ततः पश्चाद अर्जुनेनाभिरक्षितः
यत्तॊ भीष्मविनाशाय परययौ भरतर्षभ
पृष्ठगॊपॊ ऽरजुनस्यापि युयुधानॊ महारथः
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
राजा तु मध्यमानीके कुन्तीपुत्रॊ युधिष्ठिरः
बृहद्भिः कुञ्जरैर मत्तैश चलद्भिर अचलैर इव
अक्षौहिण्या च पाञ्चाल्यॊ यज्ञसेनॊ महामनाः
विराटम अन्वयात पश्चात पाण्डवार्थे पराक्रमी
तेषाम आदित्यचन्द्राभाः कनकॊत्तम भूषणाः
नाना चिह्नधरा राजन रथेष्व आसन महाध्वजाः
समुत्सर्प्य ततः पश्चाद धृष्टद्युम्नॊ महारथः
भरातृभिः सह पुत्रैश च सॊ ऽभयरक्षद युधिष्ठिरम
तवदीयानां परेषां च रथेषु विविधान धवजान
अभिभूयार्जुनस्यैकॊ धवजस तस्थौ महाकपिः
पादातास तव अग्रतॊ ऽगच्छन्न असि शक्त्यृष्टि पाणयः
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः
वारणा दशसाहस्राः परभिन्नकरटा मुखाः
शूरा हेममयैर जालैर दीप्यमाना इवाचलाः
कषरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः
राजानम अन्वयुः पश्चाच चलन्त इव पर्वताः
भीमसेनॊ गदां भीमां परकर्षन परिघॊपमाम
परचकर्ष महत सैन्यं दुराधर्षॊ महामनाः
तम अर्कम इव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम
न शेकुः सर्वतॊ यॊधाः परतिवीक्षितुम अन्तिके
वज्रॊ नामैष तु वयूहॊ दुर्भिदः सर्वतॊ मुखः
चापविद्युद धवजॊ घॊरॊ गुप्तॊ गाण्डीवधन्वना
यं परतिव्यूह्य तिष्ठन्ति पाण्डवास तव वाहिनीम
अजेयॊ मानुषे लॊके पाण्डवैर अभिरक्षितः
संध्यां तिष्ठत्सु सैन्येषु सूर्यस्यॊदयनं परति
परावात स पृषतॊ वायुर अनभ्रे सतनयित्नुमान
विष्वग वाताश च वान्त्य उग्रा नीचैः शर्कर कर्षिणः
रजश चॊद्धूयमानं तु तमसाच छादयज जगत
पपात महती चॊल्का पराङ्मुखी भरतर्षभ
उद्यन्तं सूर्यम आहत्य वयशीर्यत महास्वना
अथ सज्जीयमानेषु सैन्येषु भरतर्षभ
निष्प्रभॊ ऽभयुदितात सूर्यः स घॊषॊ भूश चचाल ह
वयशीर्यत स नादा च तदा भरतसत्तम
निर्घाता बहवॊ राजन दिक्षु सर्वासु चाभवन
परादुरासीद रजस तीव्रं न पराज्ञायत किं चन
धवजानां धूयमानानां सहसा मातरिश्वना
किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः
महतां स पताकानाम आदित्यसमतेजसाम
सर्वं झण झणी भूतम आसीत तालवनेष्व इव
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः
वयवस्थिताः परतिव्यूह्य तव पुत्रस्य वाहिनीम
सरंसन्त इव मज्जानॊ यॊधानां भरतर्षभ
दृष्ट्वाग्रतॊ भीमसेनं गदापाणिम अवस्थितम
[धृ]
सूर्यॊदये संजय के नु पूर्वं; युयुत्सवॊ हृष्यमाणा इवासन
मामका वा भीष्म नेत्राः समीके; पाण्डवा वा भीम नेत्रास तदानीम
केषां जघन्यौ सॊमसूर्यौ स वायू; केषां सेनां शवापदा वयाभषन्त
केषां यूनां मुखवर्णाः परसन्नाः; सर्वं हय एतद बरूहि तत्त्वं यथावत
[स]
उभे सेने तुल्यम इवॊपयाते; उभे वयूहे हृष्टरूपे नरेन्द्र
उभे चित्रे वनराजि परकाशे; तथैवॊभे नागरथाश्वपूर्णे
उभे सेने बृहती भीमरूपे; तथैवॊभे भारत दुर्विषह्ये
तथैवॊभे सवर्गजयाय सृष्टे; तथा हय उभे सत्पुरुषार्य गुप्ते
पश्चान मुखाः कुरवॊ धार्तराष्ट्राः; सथिताः पार्थाः पराङ्मुखा यॊत्स्यमानाः
दैत्येन्द्र सेनेव च कौरवाणां; देवेन्द्र सेनेव च पाण्डवानाम
शुक्रॊ वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ शवापदा वयाभषन्त
गजेन्द्राणां मदगन्धांश च तीव्रान; न सेहिरे तव पुत्रस्य नागाः
दुर्यॊधनॊ हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिबलं परभिन्नम
समास्थितॊ मध्यगतः कुरूणां; संस्तूयमानॊ बन्दिभिर मागधैश च
चन्द्रप्रभं शवेतम अस्यातपत्रं; सौवर्णी सरग भराजते चॊत्तमाङ्गे
तं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः
भीष्मॊ ऽगरतः सर्वसैन्यस्य वृद्धः; शवेतच छत्रः शवेतधनुः स शङ्खः
शवेतॊष्णीषः पाण्डुरेण धवजेन; शवेतैर अश्वैः शवेतशैलप्रकाशः
तस्य सैन्यं धार्तराष्ट्राश च सर्वे; बाह्लीकानाम एकदेशः शलश च
ये चाम्बष्ठाः कषत्रिया ये च सिन्धौ; तथा सौवीराः पञ्च नदाश च शूराः
शॊणैर हयै रुक्मरथॊ महात्मा; दरॊणॊ महाबाहुर अदीनसत्त्वः
आस्ते गुरुः परयशाः सर्वराज्ञां; पश्चाच चमूम इन्द्र इवाभिरक्षन
वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रॊ जयश च
शाल्वा मत्स्याः केकयाश चापि सर्वे; गजानीकैर भरातरॊ यॊत्स्यमानाः
शारद्वतश चॊत्तरधूर महात्मा; महेष्वासॊ गौतमश चित्रयॊधी
शकैः किरातैर यवनैः पह्लवैश च; सार्धं चमूम उत्तरतॊ ऽभिपाति
महारथैर अन्धकवृष्णिभॊजैः; सौराष्ट्रकैर नैरृतैर आत्तशस्त्रैः
बृहद्बलः कृतवर्माभिगुप्तॊ; बलं तवदीयं दक्षिणतॊ ऽभिपाति
संशप्तकानाम अयुतं रथानां; मृत्युर जयॊ वार्जुनस्येति सृष्टाः
येनार्जुनस तेन राजन कृतास्त्राः; परयाता वै ते तरिगर्ताश च शूराः
साग्रं शतसहस्रं तु नागानां तव भारत
नागे नागे रथशतं शतं चाश्वा रथे रथे
अश्वे ऽशवे दश धानुष्का धानुष्के दश चर्मिणः
एवं वयूढान्य अनीकानि भीष्मेण तव भारत
अव्यूहन मानुषं वयूहं दैवं गान्धर्वम आसुरम
दिवसे दिवसे पराप्ते भीष्मः शांतनवॊ ऽगरणीः
महारथौघविपुलः समुद्र इव पर्वणि
भीष्मेण धार्तराष्ट्राणां वयूहः परत्यङ्मुखॊ युधि
अनन्तरूपा धवजिनी तवदीया; नरेन्द्र भीमा न तु पाण्डवानाम
तां तव एव मन्ये बृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश चार्जुनश च
[स]
बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम
विषादम अगमद राजा कुन्तीपुत्रॊ युधिष्ठिरः
वयूहं भीष्मेण चाभेद्यं कल्पितं परेक्ष्य पाण्डवः
अभेद्यम इव संप्रेक्ष्य विषण्णॊ ऽरजुनम अब्रवीत
धनंजय कथं शक्यम अस्माभिर यॊद्धुम आहवे
धार्तराष्ट्रैर महाबाहॊ येषां यॊद्धा पितामहः
अक्षॊभ्यॊ ऽयम अभेद्यश च भीष्मेणामित्रकर्शिना
कल्पितः शास्त्रदृष्टेन विधिना भूरि तेजसा
ते वयं संशयं पराप्ताः स सैन्याः शत्रुकर्शन
कथम अस्मान महाव्यूहाद उद्यानं नॊ भविष्यति
अथार्जुनॊ ऽबरवीत पार्थं युधिष्ठिरम अमित्रहा
विषण्णम अभिसंप्रेक्ष्य तव राजन्न अनीकिनाम
परज्ञयाभ्यधिकाञ शूरान गुणयुक्तान बहून अपि
जयन्त्य अल्पतरा येन तन निबॊध विशां पते
तत तु ते कारणं राजन परवक्ष्याम्य अनसूयवे
नारदस तम ऋषिर वेद भीष्मद्रॊणौ च पाण्डव
एतम एवार्थम आश्रित्य युद्धे देवासुरे ऽबरवीत
पितामहः किल पुरा महेन्द्रादीन दिवौकसः
न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः
यथासत्यानृशंस्याभ्यां धर्मेणैवॊद्यमेन च
तयक्त्वाधर्मं च लॊभं च मॊहं चॊद्यमम आस्थिताः
युध्यध्वम अनहंकारा यतॊ धर्मस ततॊ जयः
एवं राजन विजानीहि धरुवॊ ऽसमाकं रणे जयः
यथा मे नारदः पराह यतः कृष्णस ततॊ जयः
गुणभूतॊ जयः कृष्णे पृष्ठतॊ ऽनवेति माधवम
अन्यथा विजयश चास्य संनतिश चापरॊ गुणः
अनन्त तेजा गॊविन्दः शत्रुपूगेषु निर्व्यथः
पुरुषः सनातनतमॊ यतः कृष्णस ततॊ जयः
पुरा हय एष हरिर भूत्वा वैकुण्ठॊ ऽकुण्ठसायकः
सुरासुरान अवस्फूर्जन्न अब्रवीत के जयन्त्व इति
अनु कृष्णं जयेमेति यैर उक्तं तत्र तैर जितम
तत्प्रसादाद धि तरैलॊक्यं पराप्तं शक्रादिभिः सुरैः
तस्य ते न वयथां कां चिद इह पश्यामि भारत
यस्य ते जयम आशास्ते विश्वभुक तरिदशेश्वरः
[स]
ततॊ युधिष्ठिरॊ राजा सवां सेनां समचॊदयत
परतिव्यूहन्न अनीकानि भीष्मस्य भरतर्षभ
यथॊद्दिष्टान्य अनीकानि परत्यव्यूहन्त पाण्डवाः
सवर्गं परम अभीप्सन्तः सुयुद्धेन कुरूद्वहाः
मध्ये शिखण्डिनॊ ऽनीकं रक्षितं सव्यसाचिना
धृष्टद्युम्नस्य च सवयं भीष्मेण परिपालितम
अनीकं दक्षिणं राजन युयुधानेन पालितम
शरीमता सात्वताग्र्येण शक्रेणेव धनुष्मता
महेन्द्र यानप्रतिमं रथं तु; सॊपस्करं हाटकरत्नचित्रम
युधिष्ठिरः काञ्चनभाण्ड यॊक्त्रं; समास्थितॊ नागकुलस्य मध्ये
समुच्छ्रितं दान्तशलाकम अस्य; सुपाण्डुरं छत्रम अतीव भाति
परदक्षिणं चैनम उपाचरन्ति; महर्षयः संस्तुतिभिर नरेन्द्रम
पुरॊहिताः शत्रुवधं वदन्तॊ; महर्षिवृद्धाः शरुतवन्त एव
जप्यैश च मन्त्रैश च तथौषधीभिः; समन्ततः सवस्त्य अयनं परचक्रुः
ततः स वस्त्राणि तथैव गाश च; फलानि पुष्पाणि तथैव निष्कान
कुरूत्तमॊ बराह्मण सान महात्मा; कुर्वन ययौ शक्र इवामरेभ्यः
सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्य जाम्बूनदहेमचित्रः
रथॊ ऽरजुनस्याग्निर इवार्चि माली; विभ्राजते शवेतहयः सुचक्रः
तम आस्थितः केशव संगृहीतं; कपिध्वजं गाण्डिवबाणहस्तः
धनुर्धरॊ यस्य समः पृथिव्यां; न विद्यते नॊ भविता वा कदा चित
उद्वर्तयिष्यंस तव पुत्र सेनाम; अतीव रौद्रं स बिभर्ति रूपम
अनायुधॊ यः सुभुजॊ भुजाभ्यां; नराश्वनागान युधि भस्म कुर्यात
स भीमसेनः सहितॊ यमाभ्यां; वृकॊदरॊ वीर रथस्य गॊप्ता
तं परेक्ष्य मत्तर्षभ सिंहखेलं; लॊके महेन्द्रप्रतिमानकल्पम
समीक्ष्य सेनाग्रगतं दुरासदं; परविव्यथुः पङ्कगता इवॊष्ट्राः
वृकॊदरं वारणराजदर्पं; यॊधास तवदीया भयविघ्न सत्त्वाः
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम
अब्रवीद भरतश्रेष्ठं गुडाकेशं जनार्दनः
[वा]
य एष गॊप्ता परतपन बलस्थॊ; यॊ नः सेनां सिंह इवेक्षते च
स एष भीष्मः कुरुवंशकेतुर; येनाहृतास तरिंशतॊ वाजिमेधाः
एतान्य अनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम
एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण
[धृ]
केषां परहृष्टास तत्राग्रे यॊधा युध्यन्ति संजय
उदग्रमनसः के ऽतर के वा दीना विचेतसः
के पूर्वं पराहरंस तत्र युद्धे हृदयकम्पने
मामकाः पाण्डवानां वा तन ममाचक्ष्व संजय
कस्य सेना समुदये गन्धमाल्यसमुद्भवः
वाचः परदक्षिणाश चैव यॊधानाम अभिगर्जताम
[स]
उभयॊः सेनयॊस तत्र यॊधा जहृषिरे मुदा
सरग धूपपानगन्धानाम उभयत्र समुद्भवः
संहतानाम अनीकानां वयूढानां भरतर्षभ
संसर्पताम उदीर्णानां विमर्दः सुमहान अभूत
वादित्रशब्दस तुमुलः शङ्खभेरी विमिश्रितः
कुञ्जराणां च नदतां सैन्यानां च परहृष्यताम
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
मामकाः पाण्डवाश चैव किम अकुर्वत संजय
संजय उवाच
दृष्ट्वा तु पाण्डवानीकं वयूढं दुर्यॊधनस तदा
आचार्यम उपसंगम्य राजा वचनम अब्रवीत
पश्यैतां पाण्डुपुत्राणाम आचार्य महतीं चमूम
वयूढां दरुपदपुत्रेण तव शिष्येण धीमता
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि
युयुधानॊ विराटश च दरुपदश च महारथः
धृष्टकेतुश चेकितानः काशिराजश च वीर्यवान
पुरुजित कुन्तिभॊजश च शैब्यश च नरपुंगवः
युधामन्युश च विक्रान्त उत्तमौजाश च वीर्यवान
सौभद्रॊ दरौपदेयाश च सर्व एव महारथाः
अस्माकं तु विशिष्टा ये तान निबॊध दविजॊत्तम
नायका मम सैन्यस्य संज्ञार्थं तान बरवीमि ते
भवान भीष्मश च कर्णश च कृपश च समितिंजयः
अश्वत्थामा विकर्णश च सौमदत्तिर जयद्रथः
अन्ये च बहवः शूरा मदर्थे तयक्तजीविताः
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः
अपर्याप्तं तद अस्माकं बलं भीष्माभिरक्षितम
पर्याप्तं तव इदम एतेषां बलं भीमाभिरक्षितम
अयनेषु च सर्वेषु यथाभागम अवस्थिताः
भीष्मम एवाभिरक्षन्तु भवन्तः सर्व एव हि
तस्य संजनयन हर्षं कुरुवृद्धः पितामहः
सिंहनादं विनद्यॊच्चैः शङ्खं दध्मौ परतापवान
ततः शङ्खाश च भेर्यश च पणवानकगॊमुखाः
सहसैवाभ्यहन्यन्त स शब्दस तुमुलॊ ऽभवत
ततः शवेतैर हयैर युक्ते महति सयन्दने सथितौ
माधवः पाण्डवश चैव दिव्यौ शङ्खौ परदध्मतुः
पाञ्चजन्यं हृषीकेशॊ देवदत्तं धनंजयः
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकॊदरः
अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः
नकुलः सहदेवश च सुघॊषमणिपुष्पकौ
काश्यश च परमेष्वासः शिखण्डी च महारथः
धृष्टद्युम्नॊ विराटश च सात्यकिश चापराजितः
दरुपदॊ दरौपदेयाश च सर्वशः पृथिवीपते
सौभद्रश च महाबाहुः शङ्खान दध्मुः पृथक पृथक
स घॊषॊ धार्तराष्ट्राणां हृदयानि वयदारयत
नभश च पृथिवीं चैव तुमुलॊ वयनुनादयन
अथ वयवस्थितान दृष्ट्वा धार्तराष्ट्रान कपिध्वजः
परवृत्ते शस्त्रसंपाते धनुर उद्यम्य पाण्डवः
हृषीकेशं तदा वाक्यम इदम आह महीपते
सेनयॊर उभयॊर मध्ये रथं सथापय मे ऽचयुत
यावद एतान निरीक्षे ऽहं यॊद्धुकामान अवस्थितान
कैर मया सह यॊद्धव्यम अस्मिन रणसमुद्यमे
यॊत्स्यमानान अवेक्षे ऽहं य एते ऽतर समागताः
धार्तराष्ट्रस्य दुर्बुद्धेर युद्धे परियचिकीर्षवः
एवम उक्तॊ हृषीकेशॊ गुडाकेशेन भारत
सेनयॊर उभयॊर मध्ये सथापयित्वा रथॊत्तमम
भीष्मद्रॊणप्रमुखतः सर्वेषां च महीक्षिताम
उवाच पार्थ पश्यैतान समवेतान कुरून इति
तत्रापश्यत सथितान पार्थः पितॄन अथ पितामहान
आचार्यान मातुलान भरातॄन पुत्रान पौत्रान सखींस तथा
शवशुरान सुहृदश चैव सेनयॊर उभयॊर अपि
तान समीक्ष्य स कौन्तेयः सर्वान बन्धून अवस्थितान
कृपया परयाविष्टॊ विषीदन्न इदम अब्रवीत
दृष्ट्वेमं सवजनं कृष्ण युयुत्सुं समुपस्थितम
सीदन्ति मम गात्राणि मुखं च परिशुष्यति
वेपथुश च शरीरे मे रॊमहर्षश च जायते
गाण्डीवं सरंसते हस्तात तवक चैव परिदह्यते
न च शक्नॊम्य अवस्थातुं भरमतीव च मे मनः
निमित्तानि च पश्यामि विपरीतानि केशव
न च शरेयॊ ऽनुपश्यामि हत्वा सवजनम आहवे
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च
किं नॊ राज्येन गॊविन्द किं भॊगैर जीवितेन वा
येषाम अर्थे काङ्क्षितं नॊ राज्यं भॊगाः सुखानि च
त इमे ऽवस्थिता युद्धे पराणांस तयक्त्वा धनानि च
आचार्याः पितरः पुत्रास तथैव च पितामहाः
मातुलाः शवशुराः पौत्राः शयालाः संबन्धिनस तथा
एतान न हन्तुम इच्छामि घनतॊ ऽपि मधुसूदन
अपि तरैलॊक्यराज्यस्य हेतॊः किं नु महीकृते
निहत्य धार्तराष्ट्रान नः का परीतिः सयाज जनार्दन
पापम एवाश्रयेद अस्मान हत्वैतान आततायिनः
तस्मान नार्हा वयं हन्तुं धार्तराष्ट्रान सवबान्धवान
सवजनं हि कथं हत्वा सुखिनः सयाम माधव
यद्य अप्य एते न पश्यन्ति लॊभॊपहतचेतसः
कुलक्षयकृतं दॊषं मित्रद्रॊहे च पातकम
कथं न जञेयम अस्माभिः पापाद अस्मान निवर्तितुम
कुलक्षयकृतं दॊषं परपश्यद्भिर जनार्दन
कुलक्षये परणश्यन्ति कुलधर्माः सनातनाः
धर्मे नष्टे कुलं कृत्स्नम अधर्मॊ ऽभिभवत्य उत
अधर्माभिभवात कृष्ण परदुष्यन्ति कुलस्त्रियः
सत्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः
संकरॊ नरकायैव कुलघ्नानां कुलस्य च
पतन्ति पितरॊ हय एषां लुप्तपिण्डॊदकक्रियाः
दॊषैर एतैः कुलघ्नानां वर्णसंकरकारकैः
उत्साद्यन्ते जातिधर्माः कुलधर्माश च शाश्वताः
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
नरके नियतं वासॊ भवतीत्य अनुशुश्रुम
अहॊ बत महत पापं कर्तुं वयवसिता वयम
यद राज्यसुखलॊभेन हन्तुं सवजनम उद्यताः
यदि माम अप्रतीकारम अशस्त्रं शस्त्रपाणयः
धार्तराष्ट्रा रणे हन्युस तन मे कषेमतरं भवेत
एवम उक्त्वार्जुनः संख्ये रथॊपस्थ उपाविशत
विसृज्य सशरं चापं शॊकसंविग्नमानसः
संजय उवाच
तं तथा कृपयाविष्टम अश्रुपूर्णाकुलेक्षणम
विषीदन्तम इदं वाक्यम उवाच मधुसूदनः
शरीभगवान उवाच
कुतस तवा कश्मलम इदं विषमे समुपस्थितम
अनार्यजुष्टम अस्वर्ग्यम अकीर्तिकरम अर्जुन
कलैब्यं मा सम गमः पार्थ नैतत तवय्य उपपद्यते
कषुद्रं हृदयदौर्बल्यं तयक्त्वॊत्तिष्ठ परंतप
अर्जुन उवाच
कथं भीष्मम अहं संख्ये दरॊणं च मधुसूदन
इषुभिः परतियॊत्स्यामि पूजार्हाव अरिसूदन
गुरून अहत्वा हि महानुभावाञ; शरेयॊ भॊक्तुं भैक्ष्यम अपीह लॊके
हत्वार्थकामांस तु गुरून इहैव; भुञ्जीय भॊगान रुधिरप्रदिग्धान
न चैतद विद्मः कतरन नॊ गरीयॊ; यद वा जयेम यदि वा नॊ जयेयुः
यान एव हत्वा न जिजीविषामस; ते ऽवस्थिताः परमुखे धार्तराष्ट्राः
कार्पण्यदॊषॊपहतस्वभावः; पृच्छामि तवां धर्मसंमूढचेताः
यच छरेयः सयान निश्चितं बरूहि तन मे; शिष्यस ते ऽहं शाधि मां तवां परपन्नम
न हि परपश्यामि ममापनुद्याद; यच छॊकम उच्छॊषणम इन्द्रियाणाम
अवाप्य भूमाव असपत्नम ऋद्धं; राज्यं सुराणाम अपि चाधिपत्यम
संजय उवाच
एवम उक्त्वा हृषीकेशं गुडाकेशः परंतपः
न यॊत्स्य इति गॊविन्दम उक्त्वा तूष्णीं बभूव ह
तम उवाच हृषीकेशः परहसन्न इव भारत
सेनयॊर उभयॊर मध्ये विषीदन्तम इदं वचः
शरीभगवान उवाच
अशॊच्यान अन्वशॊचस तवं परज्ञावादांश च भाषसे
गतासून अगतासूंश च नानुशॊचन्ति पण्डिताः
न तव एवाहं जातु नासं न तवं नेमे जनाधिपाः
न चैव न भविष्यामः सर्वे वयम अतः परम
देहिनॊ ऽसमिन यथा देहे कौमारं यौवनं जरा
तथा देहान्तरप्राप्तिर धीरस तत्र न मुह्यति
मात्रास्पर्शास तु कौन्तेय शीतॊष्णसुखदुःखदाः
आगमापायिनॊ ऽनित्यास तांस तितिक्षस्व भारत
यं हि न वयथयन्त्य एते पुरुषं पुरुषर्षभ
समदुःखसुखं धीरं सॊ ऽमृतत्वाय कल्पते
नासतॊ विद्यते भावॊ नाभावॊ विद्यते सतः
उभयॊर अपि दृष्टॊ ऽनतस तव अनयॊस तत्त्वदर्शिभिः
अविनाशि तु तद विद्धि येन सर्वम इदं ततम
विनाशम अव्ययस्यास्य न कश चित कर्तुम अर्हति
अन्तवन्त इमे देहा नित्यस्यॊक्ताः शरीरिणः
अनाशिनॊ ऽपरमेयस्य तस्माद युध्यस्व भारत
य एनं वेत्ति हन्तारं यश चैनं मन्यते हतम
उभौ तौ न विजानीतॊ नायं हन्ति न हन्यते
न जायते मरियते वा कदा चिन; नायं भूत्वा भविता वा न भूयः
अजॊ नित्यः शाश्वतॊ ऽयं पुराणॊ; न हन्यते हन्यमाने शरीरे
वेदाविनाशिनं नित्यं य एनम अजम अव्ययम
कथं स पुरुषः पार्थ कं घातयति हन्ति कम
वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरॊ ऽपराणि
तथा शरीराणि विहाय जीर्णानि; अन्यानि संयाति नवानि देही
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
न चैनं कलेदयन्त्य आपॊ न शॊषयति मारुतः
अच्छेद्यॊ ऽयम अदाह्यॊ ऽयम अक्लेद्यॊ ऽशॊष्य एव च
नित्यः सर्वगतः सथाणुर अचलॊ ऽयं सनातनः
अव्यक्तॊ ऽयम अचिन्त्यॊ ऽयम अविकार्यॊ ऽयम उच्यते
तस्माद एवं विदित्वैनं नानुशॊचितुम अर्हसि
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम
तथापि तवं महाबाहॊ नैवं शॊचितुम अर्हसि
जातस्य हि धरुवॊ मृत्युर धरुवं जन्म मृतस्य च
तस्माद अपरिहार्ये ऽरथे न तवं शॊचितुम अर्हसि
अव्यक्तादीनि भूतानि वयक्तमध्यानि भारत
अव्यक्तनिधनान्य एव तत्र का परिदेवना
आश्चर्यवत पश्यति कश चिद एनम; आश्चर्यवद वदति तथैव चान्यः
आश्चर्यवच चैनम अन्यः शृणॊति; शरुत्वाप्य एनं वेद न चैव कश चित
देही नित्यम अवध्यॊ ऽयं देहे सर्वस्य भारत
तस्मात सर्वाणि भूतानि न तवं शॊचितुम अर्हसि
सवधर्मम अपि चावेक्ष्य न विकम्पितुम अर्हसि
धर्म्याद धि युद्धाच छरेयॊ ऽनयत कषत्रियस्य न विद्यते
यदृच्छया चॊपपन्नं सवर्गद्वारम अपावृतम
सुखिनः कषत्रियाः पार्थ लभन्ते युद्धम ईदृशम
अथ चेत तवम इमं धर्म्यं संग्रामं न करिष्यसि
ततः सवधर्मं कीर्तिं च हित्वा पापम अवाप्स्यसि
अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽवययाम
संभावितस्य चाकीर्तिर मरणाद अतिरिच्यते
भयाद रणाद उपरतं मंस्यन्ते तवां महारथाः
येषां च तवं बहुमतॊ भूत्वा यास्यसि लाघवम
अवाच्यवादांश च बहून वदिष्यन्ति तवाहिताः
निन्दन्तस तव सामर्थ्यं ततॊ दुःखतरं नु किम
हतॊ वा पराप्स्यसि सवर्गं जित्वा वा भॊक्ष्यसे महीम
तस्माद उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ
ततॊ युद्धाय युज्यस्व नैवं पापम अवाप्स्यसि
एषा ते ऽभिहिता सांख्ये बुद्धिर यॊगे तव इमां शृणु
बुद्ध्या युक्तॊ यया पार्थ कर्मबन्धं परहास्यसि
नेहाभिक्रमनाशॊ ऽसति परत्यवायॊ न विद्यते
सवल्पम अप्य अस्य धर्मस्य तरायते महतॊ भयात
वयवसायात्मिका बुद्धिर एकेह कुरुनन्दन
बहुशाखा हय अनन्ताश च बुद्धयॊ ऽवयवसायिनाम
याम इमां पुष्पितां वाचं परवदन्त्य अविपश्चितः
वेदवादरताः पार्थ नान्यद अस्तीति वादिनः
कामात्मानः सवर्गपरा जन्मकर्मफलप्रदाम
करियाविशेषबहुलां भॊगैश्वर्यगतिं परति
भॊगैश्वर्यप्रसक्तानां तयापहृतचेतसाम
वयवसायात्मिका बुद्धिः समाधौ न विधीयते
तरैगुण्यविषया वेदा निस्त्रैगुण्यॊ भवार्जुन
निर्द्वन्द्वॊ नित्यसत्त्वस्थॊ निर्यॊगक्षेम आत्मवान
यावान अर्थ उदपाने सर्वतः संप्लुतॊदके
तावान सर्वेषु वेदेषु बराह्मणस्य विजानतः
कर्मण्य एवाधिकारस ते मा फलेषु कदा चन
मा कर्मफलहेतुर भूर मा ते सङ्गॊ ऽसत्व अकर्मणि
यॊगस्थः कुरु कर्माणि सङ्गं तयक्त्वा धनंजय
सिद्ध्यसिद्ध्यॊः समॊ भूत्वा समत्वं यॊग उच्यते
दूरेण हय अवरं कर्म बुद्धियॊगाद धनंजय
बुद्धौ शरणम अन्विच्छ कृपणाः फलहेतवः
बुद्धियुक्तॊ जहातीह उभे सुकृतदुष्कृते
तस्माद यॊगाय युज्यस्व यॊगः कर्मसु कौशलम
कर्मजं बुद्धियुक्ता हि फलं तयक्त्वा मनीषिणः
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य अनामयम
यदा ते मॊहकलिलं बुद्धिर वयतितरिष्यति
तदा गन्तासि निर्वेदं शरॊतव्यस्य शरुतस्य च
शरुतिविप्रतिपन्ना ते यदा सथास्यति निश्चला
समाधाव अचला बुद्धिस तदा यॊगम अवाप्स्यसि
अर्जुन उवाच
सथितप्रज्ञस्य का भाषा समाधिस्थस्य केशव
सथितधीः किं परभाषेत किम आसीत वरजेत किम
परजहाति यदा कामान सर्वान पार्थ मनॊगतान
आत्मन्य एवात्मना तुष्टः सथितप्रज्ञस तदॊच्यते
दुःखेष्व अनुद्विग्नमनाः सुखेषु विगतस्पृहः
वीतरागभयक्रॊधः सथितधीर मुनिर उच्यते
यः सर्वत्रानभिस्नेहस तत तत पराप्य शुभाशुभम
नाभिनन्दति न दवेष्टि तस्य परज्ञा परतिष्ठिता
यदा संहरते चायं कूर्मॊ ऽङगानीव सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यस तस्य परज्ञा परतिष्ठिता
विषया विनिवर्तन्ते निराहारस्य देहिनः
रसवर्जं रसॊ ऽपय अस्य परं दृष्ट्वा निवर्तते
यततॊ हय अपि कौन्तेय पुरुषस्य विपश्चितः
इन्द्रियाणि परमाथीनि हरन्ति परसभं मनः
तानि सर्वाणि संयम्य युक्त आसीत मत्परः
वशे हि यस्येन्द्रियाणि तस्य परज्ञा परतिष्ठिता
धयायतॊ विषयान पुंसः सङ्गस तेषूपजायते
सङ्गात संजायते कामः कामात करॊधॊ ऽभिजायते
करॊधाद भवति संमॊहः संमॊहात समृतिविभ्रमः
समृतिभ्रंशाद बुद्धिनाशॊ बुद्धिनाशात परणश्यति
रागद्वेषवियुक्तैस तु विषयान इन्द्रियैश चरन
आत्मवश्यैर विधेयात्मा परसादम अधिगच्छति
परसादे सर्वदुःखानां हानिर अस्यॊपजायते
परसन्नचेतसॊ हय आशु बुद्धिः पर्यवतिष्ठते
नास्ति बुद्धिर अयुक्तस्य न चायुक्तस्य भावना
न चाभावयतः शान्तिर अशान्तस्य कुतः सुखम
इन्द्रियाणां हि चरतां यन मनॊ ऽनुविधीयते
तद अस्य हरति परज्ञां वायुर नावम इवाम्भसि
तस्माद यस्य महाबाहॊ निगृहीतानि सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यस तस्य परज्ञा परतिष्ठिता
या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतॊ मुनेः
आपूर्यमाणम अचलप्रतिष्ठं; समुद्रम आपः परविशन्ति यद्वत
तद्वत कामा यं परविशन्ति सर्वे; स शान्तिम आप्नॊति न कामकामी
विहाय कामान यः सर्वान पुमांश चरति निःस्पृहः
निर्ममॊ निरहंकारः स शान्तिम अधिगच्छति
एषा बराह्मी सथितिः पार्थ नैनां पराप्य विमुह्यति
सथित्वास्याम अन्तकाले ऽपि बरह्मनिर्वाणम ऋच्छति
अर्जुन उवाच
जयायसी चेत कर्मणस ते मता बुद्धिर जनार्दन
तत किं कर्मणि घॊरे मां नियॊजयसि केशव
वयामिश्रेणैव वाक्येन बुद्धिं मॊहयसीव मे
तद एकं वद निश्चित्य येन शरेयॊ ऽहम आप्नुयाम
शरीभगवान उवाच
लॊके ऽसमिन दविविधा निष्ठा पुरा परॊक्ता मयानघ
जञानयॊगेन सांख्यानां कर्मयॊगेन यॊगिनाम
न कर्मणाम अनारम्भान नैष्कर्म्यं पुरुषॊ ऽशनुते
न च संन्यसनाद एव सिद्धिं समधिगच्छति
न हि कश चित कषणम अपि जातु तिष्ठत्य अकर्मकृत
कार्यते हय अवशः कर्म सर्वः परकृतिजैर गुणैः
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा समरन
इन्द्रियार्थान विमूढात्मा मिथ्याचारः स उच्यते
यस तव इन्द्रियाणि मनसा नियम्यारभते ऽरजुन
कर्मेन्द्रियैः कर्मयॊगम असक्तः स विशिष्यते
नियतं कुरु कर्म तवं कर्म जयायॊ हय अकर्मणः
शरीरयात्रापि च ते न परसिध्येद अकर्मणः
यज्ञार्थात कर्मणॊ ऽनयत्र लॊकॊ ऽयं कर्मबन्धनः
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर
सहयज्ञाः परजाः सृष्ट्वा पुरॊवाच परजापतिः
अनेन परसविष्यध्वम एष वॊ ऽसत्व इष्टकामधुक
देवान भावयतानेन ते देवा भावयन्तु वः
परस्परं भावयन्तः शरेयः परम अवाप्स्यथ
इष्टान भॊगान हि वॊ देवा दास्यन्ते यज्ञभाविताः
तैर दत्तान अप्रदायैभ्यॊ यॊ भुङ्क्ते सतेन एव सः
यज्ञशिष्टाशिनः सन्तॊ मुच्यन्ते सर्वकिल्बिषैः
भुञ्जते ते तव अघं पापा ये पचन्त्य आत्मकारणात
अन्नाद भवन्ति भूतानि पर्जन्याद अन्नसंभवः
यज्ञाद भवति पर्जन्यॊ यज्ञः कर्मसमुद्भवः
कर्म बरह्मॊद्भवं विद्धि बरह्माक्षरसमुद्भवम
तस्मात सर्वगतं बरह्म नित्यं यज्ञे परतिष्ठितम
एवं परवर्तितं चक्रं नानुवर्तयतीह यः
अघायुर इन्द्रियारामॊ मॊघं पार्थ स जीवति
यस तव आत्मरतिर एव सयाद आत्मतृप्तश च मानवः
आत्मन्य एव च संतुष्टस तस्य कार्यं न विद्यते
नैव तस्य कृतेनार्थॊ नाकृतेनेह कश चन
न चास्य सर्वभूतेषु कश चिद अर्थव्यपाश्रयः
तस्माद असक्तः सततं कार्यं कर्म समाचर
असक्तॊ हय आचरन कर्म परम आप्नॊति पूरुषः
कर्मणैव हि संसिद्धिम आस्थिता जनकादयः
लॊकसंग्रहम एवापि संपश्यन कर्तुम अर्हसि
यद यद आचरति शरेष्ठस तत तद एवेतरॊ जनः
स यत परमाणं कुरुते लॊकस तद अनुवर्तते
न मे पार्थास्ति कर्तव्यं तरिषु लॊकेषु किं चन
नानवाप्तम अवाप्तव्यं वर्त एव च कर्मणि
यदि हय अहं न वर्तेयं जातु कर्मण्य अतन्द्रितः
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः
उत्सीदेयुर इमे लॊका न कुर्यां कर्म चेद अहम
संकरस्य च कर्ता सयाम उपहन्याम इमाः परजाः
सक्ताः कर्मण्य अविद्वांसॊ यथा कुर्वन्ति भारत
कुर्याद विद्वांस तथासक्तश चिकीर्षुर लॊकसंग्रहम
न बुद्धिभेदं जनयेद अज्ञानां कर्मसङ्गिनाम
जॊषयेत सर्वकर्माणि विद्वान युक्तः समाचरन
परकृतेः करियमाणानि गुणैः कर्माणि सर्वशः
अहंकारविमूढात्मा कर्ताहम इति मन्यते
तत्त्ववित तु महाबाहॊ गुणकर्मविभागयॊः
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते
परकृतेर गुणसंमूढाः सज्जन्ते गुणकर्मसु
तान अकृत्स्नविदॊ मन्दान कृत्स्नविन न विचालयेत
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा
निराशीर निर्ममॊ भूत्वा युध्यस्व विगतज्वरः
ये मे मतम इदं नित्यम अनुतिष्ठन्ति मानवाः
शरद्धावन्तॊ ऽनसूयन्तॊ मुच्यन्ते ते ऽपि कर्मभिः
ये तव एतद अभ्यसूयन्तॊ नानुतिष्ठन्ति मे मतम
सर्वज्ञानविमूढांस तान विद्धि नष्टान अचेतसः
सदृशं चेष्टते सवस्याः परकृतेर जञानवान अपि
परकृतिं यान्ति भूतानि निग्रहः किं करिष्यति
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ वयवस्थितौ
तयॊर न वशम आगच्छेत तौ हय अस्य परिपन्थिनौ
शरेयान सवधर्मॊ विगुणः परधर्मात सवनुष्ठितात
सवधर्मे निधनं शरेयः परधर्मॊ भयावहः
अर्जुन उवाच
अथ केन परयुक्तॊ ऽयं पापं चरति पूरुषः
अनिच्छन्न अपि वार्ष्णेय बलाद इव नियॊजितः
शरीभगवान उवाच
काम एष करॊध एष रजॊगुणसमुद्भवः
महाशनॊ महापाप्मा विद्ध्य एनम इह वैरिणम
धूमेनाव्रियते वह्निर यथादर्शॊ मलेन च
यथॊल्बेनावृतॊ गर्भस तथा तेनेदम आवृतम
आवृतं जञानम एतेन जञानिनॊ नित्यवैरिणा
कामरूपेण कौन्तेय दुष्पूरेणानलेन च
इन्द्रियाणि मनॊ बुद्धिर अस्याधिष्ठानम उच्यते
एतैर विमॊहयत्य एष जञानम आवृत्य देहिनम
तस्मात तवम इन्द्रियाण्य आदौ नियम्य भरतर्षभ
पाप्मानं परजहि हय एनं जञानविज्ञाननाशनम
इन्द्रियाणि पराण्य आहुर इन्द्रियेभ्यः परं मनः
मनसस तु परा बुद्धिर यॊ बुद्धेः परतस तु सः
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम आत्मना
जहि शत्रुं महाबाहॊ कामरूपं दुरासदम
शरीभगवान उवाच
इमं विवस्वते यॊगं परॊक्तवान अहम अव्ययम
विवस्वान मनवे पराह मनुर इक्ष्वाकवे ऽबरवीत
एवं परम्पराप्राप्तम इमं राजर्षयॊ विदुः
स कालेनेह महता यॊगॊ नष्टः परंतप
स एवायं मया ते ऽदय यॊगः परॊक्तः पुरातनः
भक्तॊ ऽसि मे सखा चेति रहस्यं हय एतद उत्तमम
अर्जुन उवाच
अपरं भवतॊ जन्म परं जन्म विवस्वतः
कथम एतद विजानीयां तवम आदौ परॊक्तवान इति
शरीभगवान उवाच
बहूनि मे वयतीतानि जन्मानि तव चार्जुन
तान्य अहं वेद सर्वाणि न तवं वेत्थ परंतप
अजॊ ऽपि सन्न अव्ययात्मा भूतानाम ईश्वरॊ ऽपि सन
परकृतिं सवाम अधिष्ठाय संभवाम्य आत्ममायया
यदा यदा हि धर्मस्य गलानिर भवति भारत
अभ्युत्थानम अधर्मस्य तदात्मानं सृजाम्य अहम
परित्राणाय साधूनां विनाशाय च दुष्कृताम
धर्मसंस्थापनार्थाय संभवामि युगे युगे
जन्म कर्म च मे दिव्यम एवं यॊ वेत्ति तत्त्वतः
तयक्त्वा देहं पुनर्जन्म नैति माम एति सॊ ऽरजुन
वीतरागभयक्रॊधा मन्मया माम उपाश्रिताः
बहवॊ जञानतपसा पूता मद्भावम आगताः
ये यथा मां परपद्यन्ते तांस तथैव भजाम्य अहम
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः
कषिप्रं हि मानुषे लॊके सिद्धिर भवति कर्मजा
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः
तस्य कर्तारम अपि मां विद्ध्य अकर्तारम अव्ययम
न मां कर्माणि लिम्पन्ति न मे कर्मफले सपृहा
इति मां यॊ ऽभिजानाति कर्मभिर न स बध्यते
एवं जञात्वा कृतं कर्म पूर्वैर अपि मुमुक्षुभिः
कुरु कर्मैव तस्मात तवं पूर्वैः पूर्वतरं कृतम
किं कर्म किमकर्मेति कवयॊ ऽपय अत्र मॊहिताः
तत ते कर्म परवक्ष्यामि यज जञात्वा मॊक्ष्यसे ऽशुभात
कर्मणॊ हय अपि बॊद्धव्यं बॊद्धव्यं च विकर्मणः
अकर्मणश च बॊद्धव्यं गहना कर्मणॊ गतिः
कर्मण्य अकर्म यः पश्येद अकर्मणि च कर्म यः
स बुद्धिमान मनुष्येषु स युक्तः कृत्स्नकर्मकृत
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः
जञानाग्निदग्धकर्माणं तम आहुः पण्डितं बुधाः
तयक्त्वा कर्मफलासङ्गं नित्यतृप्तॊ निराश्रयः
कर्मण्य अभिप्रवृत्तॊ ऽपि नैव किं चित करॊति सः
निराशीर यतचित्तात्मा तयक्तसर्वपरिग्रहः
शारीरं केवलं कर्म कुर्वन नाप्नॊति किल्बिषम
यदृच्छालाभसंतुष्टॊ दवन्द्वातीतॊ विमत्सरः
समः सिद्धाव असिद्धौ च कृत्वापि न निबध्यते
गतसङ्गस्य मुक्तस्य जञानावस्थितचेतसः
यज्ञायाचरतः कर्म समग्रं परविलीयते
बरह्मार्पणं बरह्म हविर बरह्माग्नौ बरह्मणा हुतम
बरह्मैव तेन गन्तव्यं बरह्मकर्मसमाधिना
दैवम एवापरे यज्ञं यॊगिनः पर्युपासते
बरह्माग्नाव अपरे यज्ञं यज्ञेनैवॊपजुह्वति
शरॊत्रादीनीन्द्रियाण्य अन्ये संयमाग्निषु जुह्वति
शब्दादीन विषयान अन्य इन्द्रियाग्निषु जुह्वति
सर्वाणीन्द्रियकर्माणि पराणकर्माणि चापरे
आत्मसंयमयॊगाग्नौ जुह्वति जञानदीपिते
दरव्ययज्ञास तपॊयज्ञा यॊगयज्ञास तथापरे
सवाध्यायज्ञानयज्ञाश च यतयः संशितव्रताः
अपाने जुह्वति पराणं पराणे ऽपानं तथापरे
पराणापानगती रुद्ध्वा पराणायामपरायणाः
अपरे नियताहाराः पराणान पराणेषु जुह्वति
सर्वे ऽपय एते यज्ञविदॊ यज्ञक्षपितकल्मषाः
यज्ञशिष्टामृतभुजॊ यान्ति बरह्म सनातनम
नायं लॊकॊ ऽसत्य अयज्ञस्य कुतॊ ऽनयः कुरुसत्तम
एवं बहुविधा यज्ञा वितता बरह्मणॊ मुखे
कर्मजान विद्धि तान सर्वान एवं जञात्वा विमॊक्ष्यसे
शरेयान दरव्यमयाद यज्ञाज जञानयज्ञः परंतप
सर्वं कर्माखिलं पार्थ जञाने परिसमाप्यते
तद विद्धि परणिपातेन परिप्रश्नेन सेवया
उपदेक्ष्यन्ति ते जञानं जञानिनस तत्त्वदर्शिनः
यज जञात्वा न पुनर मॊहम एवं यास्यसि पाण्डव
येन भूतान्य अशेषेण दरक्ष्यस्य आत्मन्य अथॊ मयि
अपि चेद असि पापेभ्यः सर्वेभ्यः पापकृत्तमः
सर्वं जञानप्लवेनैव वृजिनं संतरिष्यसि
यथैधांसि समिद्धॊ ऽगनिर भस्मसात कुरुते ऽरजुन
जञानाग्निः सर्वकर्माणि भस्मसात कुरुते तथा
न हि जञानेन सदृशं पवित्रम इह विद्यते
तत सवयं यॊगसंसिद्धः कालेनात्मनि विन्दति
शरद्धावाँल लभते जञानं तत्परः संयतेन्द्रियः
जञानं लब्ध्वा परां शान्तिम अचिरेणाधिगच्छति
अज्ञश चाश्रद्दधानश च संशयात्मा विनश्यति
नायं लॊकॊ ऽसति न परॊ न सुखं संशयात्मनः
यॊगसंन्यस्तकर्माणं जञानसंछिन्नसंशयम
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय
तस्माद अज्ञानसंभूतं हृत्स्थं जञानासिनात्मनः
छित्त्वैनं संशयं यॊगम आतिष्ठॊत्तिष्ठ भारत
अर्जुन उवाच
संन्यासं कर्मणां कृष्ण पुनर यॊगं च शंससि
यच छरेय एतयॊर एकं तन मे बरूहि सुनिश्चितम
शरीभगवान उवाच
संन्यासः कर्मयॊगश च निःश्रेयसकराव उभौ
तयॊस तु कर्मसंन्यासात कर्मयॊगॊ विशिष्यते
जञेयः स नित्यसंन्यासी यॊ न दवेष्टि न काङ्क्षति
निर्द्वन्द्वॊ हि महाबाहॊ सुखं बन्धात परमुच्यते
सांख्ययॊगौ पृथग बालाः परवदन्ति न पण्डिताः
एकम अप्य आस्थितः सम्यग उभयॊर विन्दते फलम
यत सांख्यैः पराप्यते सथानं तद यॊगैर अपि गम्यते
एकं सांख्यं च यॊगं च यः पश्यति स पश्यति
संन्यासस तु महाबाहॊ दुःखम आप्तुम अयॊगतः
यॊगयुक्तॊ मुनिर बरह्म नचिरेणाधिगच्छति
यॊगयुक्तॊ विशुद्धात्मा विजितात्मा जितेन्द्रियः
सर्वभूतात्मभूतात्मा कुर्वन्न अपि न लिप्यते
नैव किं चित करॊमीति युक्तॊ मन्येत तत्त्ववित
पश्यञ शृण्वन सपृशञ जिघ्रन्न अश्नन गच्छन सवपञ शवसन
परलपन विसृजन गृह्णन्न उन्मिषन निमिषन्न अपि
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन
बरह्मण्य आधाय कर्माणि सङ्गं तयक्त्वा करॊति यः
लिप्यते न स पापेन पद्मपत्रम इवाम्भसा
कायेन मनसा बुद्ध्या केवलैर इन्द्रियैर अपि
यॊगिनः कर्म कुर्वन्ति सङ्गं तयक्त्वात्मशुद्धये
युक्तः कर्मफलं तयक्त्वा शान्तिम आप्नॊति नैष्ठिकीम
अयुक्तः कामकारेण फले सक्तॊ निबध्यते
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी
नवद्वारे पुरे देही नैव कुर्वन न कारयन
न कर्तृत्वं न कर्माणि लॊकस्य सृजति परभुः
न कर्मफलसंयॊगं सवभावस तु परवर्तते
नादत्ते कस्य चित पापं न चैव सुकृतं विभुः
अज्ञानेनावृतं जञानं तेन मुह्यन्ति जन्तवः
जञानेन तु तद अज्ञानं येषां नाशितम आत्मनः
तेषाम आदित्यवज जञानं परकाशयति तत्परम
तद्बुद्धयस तदात्मानस तन्निष्ठास तत्परायणाः
गच्छन्त्य अपुनरावृत्तिं जञाननिर्धूतकल्मषाः
विद्याविनयसंपन्ने बराह्मणे गवि हस्तिनि
शुनि चैव शवपाके च पण्डिताः समदर्शिनः
इहैव तैर जितः सर्गॊ येषां साम्ये सथितं मनः
निर्दॊषं हि समं बरह्म तस्माद बरह्मणि ते सथिताः
न परहृष्येत परियं पराप्य नॊद्विजेत पराप्य चाप्रियम
सथिरबुद्धिर असंमूढॊ बरह्मविद बरह्मणि सथितः
बाह्यस्पर्शेष्व असक्तात्मा विन्दत्य आत्मनि यत सुखम
स बरह्मयॊगयुक्तात्मा सुखम अक्षयम अश्नुते
ये हि संस्पर्शजा भॊगा दुःखयॊनय एव ते
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः
शक्नॊतीहैव यः सॊढुं पराक शरीरविमॊक्षणात
कामक्रॊधॊद्भवं वेगं स युक्तः स सुखी नरः
यॊ ऽनतःसुखॊ ऽनतरारामस तथान्तर्ज्यॊतिर एव यः
स यॊगी बरह्मनिर्वाणं बरह्मभूतॊ ऽधिगच्छति
लभन्ते बरह्मनिर्वाणम ऋषयः कषीणकल्मषाः
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः
कामक्रॊधवियुक्तानां यतीनां यतचेतसाम
अभितॊ बरह्मनिर्वाणं वर्तते विदितात्मनाम
सपर्शान कृत्वा बहिर बाह्यांश चक्षुश चैवान्तरे भरुवॊः
पराणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ
यतेन्द्रियमनॊबुद्धिर मुनिर मॊक्षपरायणः
विगतेच्छाभयक्रॊधॊ यः सदा मुक्त एव सः
भॊक्तारं यज्ञतपसां सर्वलॊकमहेश्वरम
सुहृदं सर्वभूतानां जञात्वा मां शान्तिम ऋच्छति
शरीभगवान उवाच
अनाश्रितः कर्मफलं कार्यं कर्म करॊति यः
स संन्यासी च यॊगी च न निरग्निर न चाक्रियः
यं संन्यासम इति पराहुर यॊगं तं विद्धि पाण्डव
न हय असंन्यस्तसंकल्पॊ यॊगी भवति कश चन
आरुरुक्षॊर मुनेर यॊगं कर्म कारणम उच्यते
यॊगारूढस्य तस्यैव शमः कारणम उच्यते
यदा हि नेन्द्रियार्थेषु न कर्मस्व अनुषज्जते
सर्वसंकल्पसंन्यासी यॊगारूढस तदॊच्यते
उद्धरेद आत्मनात्मानं नात्मानम अवसादयेत
आत्मैव हय आत्मनॊ बन्धुर आत्मैव रिपुर आत्मनः
बन्धुर आत्मात्मनस तस्य येनात्मैवात्मना जितः
अनात्मनस तु शत्रुत्वे वर्तेतात्मैव शत्रुवत
जितात्मनः परशान्तस्य परमात्मा समाहितः
शीतॊष्णसुखदुःखेषु तथा मानापमानयॊः
जञानविज्ञानतृप्तात्मा कूटस्थॊ विजितेन्द्रियः
युक्त इत्य उच्यते यॊगी समलॊष्टाश्मकाञ्चनः
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
साधुष्व अपि च पापेषु समबुद्धिर विशिष्यते
यॊगी युञ्जीत सततम आत्मानं रहसि सथितः
एकाकी यतचित्तात्मा निराशीर अपरिग्रहः
शुचौ देशे परतिष्ठाप्य सथिरम आसनम आत्मनः
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशॊत्तरम
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः
उपविश्यासने युञ्ज्याद यॊगम आत्मविशुद्धये
समं कायशिरॊग्रीवं धारयन्न अचलं सथिरः
संप्रेक्ष्य नासिकाग्रं सवं दिशश चानवलॊकयन
परशान्तात्मा विगतभीर बरह्मचारिव्रते सथितः
मनः संयम्य मच्चित्तॊ युक्त आसीत मत्परः
युञ्जन्न एवं सदात्मानं यॊगी नियतमानसः
शान्तिं निर्वाणपरमां मत्संस्थाम अधिगच्छति
नात्यश्नतस तु यॊगॊ ऽसति न चैकान्तम अनश्नतः
न चातिस्वप्नशीलस्य जाग्रतॊ नैव चार्जुन
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु
युक्तस्वप्नावबॊधस्य यॊगॊ भवति दुःखहा
यदा विनियतं चित्तम आत्मन्य एवावतिष्ठते
निःस्पृहः सर्वकामेभ्यॊ युक्त इत्य उच्यते तदा
यथा दीपॊ निवातस्थॊ नेङ्गते सॊपमा समृता
यॊगिनॊ यतचित्तस्य युञ्जतॊ यॊगम आत्मनः
यत्रॊपरमते चित्तं निरुद्धं यॊगसेवया
यत्र चैवात्मनात्मानं पश्यन्न आत्मनि तुष्यति
सुखम आत्यन्तिकं यत तद बुद्धिग्राह्यम अतीन्द्रियम
वेत्ति यत्र न चैवायं सथितश चलति तत्त्वतः
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः
यस्मिन सथितॊ न दुःखेन गुरुणापि विचाल्यते
तं विद्याद दुःखसंयॊगवियॊगं यॊगसंज्ञितम
स निश्चयेन यॊक्तव्यॊ यॊगॊ ऽनिर्विण्णचेतसा
संकल्पप्रभवान कामांस तयक्त्वा सर्वान अशेषतः
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः
शनैः शनैर उपरमेद बुद्ध्या धृतिगृहीतया
आत्मसंस्थं मनः कृत्वा न किं चिद अपि चिन्तयेत
यतॊ यतॊ निश्चरति मनश चञ्चलम अस्थिरम
ततस ततॊ नियम्यैतद आत्मन्य एव वशं नयेत
परशान्तमनसं हय एनं यॊगिनं सुखम उत्तमम
उपैति शान्तरजसं बरह्मभूतम अकल्मषम
युञ्जन्न एवं सदात्मानं यॊगी विगतकल्मषः
सुखेन बरह्मसंस्पर्शम अत्यन्तं सुखम अश्नुते
सर्वभूतस्थम आत्मानं सर्वभूतानि चात्मनि
ईक्षते यॊगयुक्तात्मा सर्वत्र समदर्शनः
यॊ मां पश्यति सर्वत्र सर्वं च मयि पश्यति
तस्याहं न परणश्यामि स च मे न परणश्यति
सर्वभूतस्थितं यॊ मां भजत्य एकत्वम आस्थितः
सर्वथा वर्तमानॊ ऽपि स यॊगी मयि वर्तते
आत्मौपम्येन सर्वत्र समं पश्यति यॊ ऽरजुन
सुखं वा यदि वा दुःखं स यॊगी परमॊ मतः
अर्जुन उवाच
यॊ ऽयं यॊगस तवया परॊक्तः साम्येन मधुसूदन
एतस्याहं न पश्यामि चञ्चलत्वात सथितिं सथिराम
चञ्चलं हि मनः कृष्ण परमाथि बलवद दृढम
तस्याहं निग्रहं मन्ये वायॊर इव सुदुष्करम
शरीभगवान उवाच
असंशयं महाबाहॊ मनॊ दुर्णिग्रहं चलम
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते
असंयतात्मना यॊगॊ दुष्प्राप इति मे मतिः
वश्यात्मना तु यतता शक्यॊ ऽवाप्तुम उपायतः
अर्जुन उवाच
अयतिः शरद्धयॊपेतॊ यॊगाच चलितमानसः
अप्राप्य यॊगसंसिद्धिं कां गतिं कृष्ण गच्छति
कच चिन नॊभयविभ्रष्टश छिन्नाभ्रम इव नश्यति
अप्रतिष्ठॊ महाबाहॊ विमूढॊ बरह्मणः पथि
एतन मे संशयं कृष्ण छेत्तुम अर्हस्य अशेषतः
तवदन्यः संशयस्यास्य छेत्ता न हय उपपद्यते
शरीभगवान उवाच
पार्थ नैवेह नामुत्र विनाशस तस्य विद्यते
न हि कल्याणकृत कश चिद दुर्गतिं तात गच्छति
पराप्य पुण्यकृतां लॊकान उषित्वा शाश्वतीः समाः
शुचीनां शरीमतां गेहे यॊगभ्रष्टॊ ऽभिजायते
अथ वा यॊगिनाम एव कुले भवति धीमताम
एतद धि दुर्लभतरं लॊके जन्म यद ईदृशम
तत्र तं बुद्धिसंयॊगं लभते पौर्वदेहिकम
यतते च ततॊ भूयः संसिद्धौ कुरुनन्दन
पूर्वाभ्यासेन तेनैव हरियते हय अवशॊ ऽपि सः
जिज्ञासुर अपि यॊगस्य शब्दब्रह्मातिवर्तते
परयत्नाद यतमानस तु यॊगी संशुद्धकिल्बिषः
अनेकजन्मसंसिद्धस ततॊ याति परां गतिम
तपस्विभ्यॊ ऽधिकॊ यॊगी जञानिभ्यॊ ऽपि मतॊ ऽधिकः
कर्मिभ्यश चाधिकॊ यॊगी तस्माद यॊगी भवार्जुन
यॊगिनाम अपि सर्वेषां मद्गतेनान्तरात्मना
शरद्धावान भजते यॊ मां स मे युक्ततमॊ मतः
शरीभगवान उवाच
मय्य आसक्तमनाः पार्थ यॊगं युञ्जन मदाश्रयः
असंशयं समग्रं मां यथा जञास्यसि तच छृणु
जञानं ते ऽहं सविज्ञानम इदं वक्ष्याम्य अशेषतः
यज जञात्वा नेह भूयॊ ऽनयज जञातव्यम अवशिष्यते
मनुष्याणां सहस्रेषु कश चिद यतति सिद्धये
यतताम अपि सिद्धानां कश चिन मां वेत्ति तत्त्वतः
भूमिर आपॊ ऽनलॊ वायुः खं मनॊ बुद्धिर एव च
अहंकार इतीयं मे भिन्ना परकृतिर अष्टधा
अपरेयम इतस तव अन्यां परकृतिं विद्धि मे पराम
जीवभूतां महाबाहॊ ययेदं धार्यते जगत
एतद्यॊनीनि भूतानि सर्वाणीत्य उपधारय
अहं कृत्स्नस्य जगतः परभवः परलयस तथा
मत्तः परतरं नान्यत किं चिद अस्ति धनंजय
मयि सर्वम इदं परॊतं सूत्रे मणिगणा इव
रसॊ ऽहम अप्सु कौन्तेय परभास्मि शशिसूर्ययॊः
परणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु
पुण्यॊ गन्धः पृथिव्यां च तेजश चास्मि विभावसौ
जीवनं सर्वभूतेषु तपश चास्मि तपस्विषु
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम
बुद्धिर बुद्धिमताम अस्मि तेजस तेजस्विनाम अहम
बलं बलवतां चाहं कामरागविवर्जितम
धर्माविरुद्धॊ भूतेषु कामॊ ऽसमि भरतर्षभ
ये चैव सात्त्विका भावा राजसास तामसाश च ये
मत्त एवेति तान विद्धि न तव अहं तेषु ते मयि
तरिभिर गुणमयैर भावैर एभिः सर्वम इदं जगत
मॊहितं नाभिजानाति माम एभ्यः परम अव्ययम
दैवी हय एषा गुणमयी मम माया दुरत्यया
माम एव ये परपद्यन्ते मायाम एतां तरन्ति ते
न मां दुष्कृतिनॊ मूढाः परपद्यन्ते नराधमाः
माययापहृतज्ञाना आसुरं भावम आश्रिताः
चतुर्विधा भजन्ते मां जनाः सुकृतिनॊ ऽरजुन
आर्तॊ जिज्ञासुर अर्थार्थी जञानी च भरतर्षभ
तेषां जञानी नित्ययुक्त एकभक्तिर विशिष्यते
परियॊ हि जञानिनॊ ऽतयर्थम अहं स च मम परियः
उदाराः सर्व एवैते जञानी तव आत्मैव मे मतम
आस्थितः स हि युक्तात्मा माम एवानुत्तमां गतिम
बहूनां जन्मनाम अन्ते जञानवान मां परपद्यते
वासुदेवः सर्वम इति स महात्मा सुदुर्लभः
कामैस तैस तैर हृतज्ञानाः परपद्यन्ते ऽनयदेवताः
तं तं नियमम आस्थाय परकृत्या नियताः सवया
यॊ यॊ यां यां तनुं भक्तः शरद्धयार्चितुम इच्छति
तस्य तस्याचलां शरद्धां ताम एव विदधाम्य अहम
स तया शरद्धया युक्तस तस्या राधनम ईहते
लभते च ततः कामान मयैव विहितान हि तान
अन्तवत तु फलं तेषां तद भवत्य अल्पमेधसाम
देवान देवयजॊ यान्ति मद्भक्ता यान्ति माम अपि
अव्यक्तं वयक्तिम आपन्नं मन्यन्ते माम अबुद्धयः
परं भावम अजानन्तॊ ममाव्ययम अनुत्तमम
नाहं परकाशः सर्वस्य यॊगमायासमावृतः
मूढॊ ऽयं नाभिजानाति लॊकॊ माम अजम अव्ययम
वेदाहं समतीतानि वर्तमानानि चार्जुन
भविष्याणि च भूतानि मां तु वेद न कश चन
इच्छाद्वेषसमुत्थेन दवन्द्वमॊहेन भारत
सर्वभूतानि संमॊहं सर्गे यान्ति परंतप
येषां तव अन्तगतं पापं जनानां पुण्यकर्मणाम
ते दवन्द्वमॊहनिर्मुक्ता भजन्ते मां दृढव्रताः
जरामरणमॊक्षाय माम आश्रित्य यतन्ति ये
ते बरह्म तद विदुः कृत्स्नम अध्यात्मं कर्म चाखिलम
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः
परयाणकाले ऽपि च मां ते विदुर युक्तचेतसः
अर्जुन उवाच
किं तद बरह्म किम अध्यात्मं किं कर्म पुरुषॊत्तम
अधिभूतं च किं परॊक्तम अधिदैवं किम उच्यते
अधियज्ञः कथं कॊ ऽतर देहे ऽसमिन मधुसूदन
परयाणकाले च कथं जञेयॊ ऽसि नियतात्मभिः
शरीभगवान उवाच
अक्षरं बरह्म परमं सवभावॊ ऽधयात्मम उच्यते
भूतभावॊद्भवकरॊ विसर्गः कर्मसंज्ञितः
अधिभूतं कषरॊ भावः पुरुषश चाधिदैवतम
अधियज्ञॊ ऽहम एवात्र देहे देहभृतां वर
अन्तकाले च माम एव समरन मुक्त्वा कलेवरम
यः परयाति स मद्भावं याति नास्त्य अत्र संशयः
यं यं वापि समरन भावं तयजत्य अन्ते कलेवरम
तं तम एवैति कौन्तेय सदा तद्भावभावितः
तस्मात सर्वेषु कालेषु माम अनुस्मर युध्य च
मय्य अर्पितमनॊबुद्धिर माम एवैष्यस्य असंशयः
अभ्यासयॊगयुक्तेन चेतसा नान्यगामिना
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन
कविं पुराणम अनुशासितारम; अणॊर अणीयांसम अनुस्मरेद यः
सर्वस्य धातारम अचिन्त्यरूपम; आदित्यवर्णं तमसः परस्तात
परयाणकाले मनसाचलेन; भक्त्या युक्तॊ यॊगबलेन चैव
भरुवॊर मध्ये पराणम आवेश्य सम्यक; स तं परं पुरुषम उपैति दिव्यम
यद अक्षरं वेदविदॊ वदन्ति; विशन्ति यद यतयॊ वीतरागाः
यद इच्छन्तॊ बरह्मचर्यं चरन्ति; तत ते पदं संग्रहेण परवक्ष्ये
सर्वद्वाराणि संयम्य मनॊ हृदि निरुध्य च
मूर्ध्न्य आधायात्मनः पराणम आस्थितॊ यॊगधारणाम
ओम इत्य एकाक्षरं बरह्म वयाहरन माम अनुस्मरन
यः परयाति तयजन देहं स याति परमां गतिम
अनन्यचेताः सततं यॊ मां समरति नित्यशः
तस्याहं सुलभः पार्थ नित्ययुक्तस्य यॊगिनः
माम उपेत्य पुनर्जन्म दुःखालयम अशाश्वतम
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः
आ बरह्मभुवनाल लॊकाः पुनरावर्तिनॊ ऽरजुन
माम उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते
सहस्रयुगपर्यन्तम अहर यद बरह्मणॊ विदुः
रात्रिं युगसहस्रान्तां ते ऽहॊरात्रविदॊ जनाः
अव्यक्ताद वयक्तयः सर्वाः परभवन्त्य अहरागमे
रात्र्यागमे परलीयन्ते तत्रैवाव्यक्तसंज्ञके
भूतग्रामः स एवायं भूत्वा भूत्वा परलीयते
रात्र्यागमे ऽवशः पार्थ परभवत्य अहरागमे
परस तस्मात तु भावॊ ऽनयॊ ऽवयक्तॊ ऽवयक्तात सनातनः
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति
अव्यक्तॊ ऽकषर इत्य उक्तस तम आहुः परमां गतिम
यं पराप्य न निवर्तन्ते तद धाम परमं मम
पुरुषः स परः पार्थ भक्त्या लभ्यस तव अनन्यया
यस्यान्तःस्थानि भूतानि येन सर्वम इदं ततम
यत्र काले तव अनावृत्तिम आवृत्तिं चैव यॊगिनः
परयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ
अग्निर जयॊतिर अहः शुक्लः षण्मासा उत्तरायणम
तत्र परयाता गच्छन्ति बरह्म बरह्मविदॊ जनाः
धूमॊ रात्रिस तथा कृष्णः षण्मासा दक्षिणायनम
तत्र चान्द्रमसं जयॊतिर यॊगी पराप्य निवर्तते
शुक्लकृष्णे गती हय एते जगतः शाश्वते मते
एकया यात्य अनावृत्तिम अन्ययावर्तते पुनः
नैते सृती पार्थ जानन यॊगी मुह्यति कश चन
तस्मात सर्वेषु कालेषु यॊगयुक्तॊ भवार्जुन
वेदेषु यज्ञेषु तपःसु चैव; दानेषु यत पुण्यफलं परदिष्टम
अत्येति तत सर्वम इदं विदित्वा; यॊगी परं सथानम उपैति चाद्यम
शरीभगवान उवाच
इदं तु ते गुह्यतमं परवक्ष्याम्य अनसूयवे
जञानं विज्ञानसहितं यज जञात्वा मॊक्ष्यसे ऽशुभात
राजविद्या राजगुह्यं पवित्रम इदम उत्तमम
परत्यक्षावगमं धर्म्यं सुसुखं कर्तुम अव्ययम
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि
मया ततम इदं सर्वं जगद अव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि न चाहं तेष्व अवस्थितः
न च मत्स्थानि भूतानि पश्य मे यॊगम ऐश्वरम
भूतभृन न च भूतस्थॊ ममात्मा भूतभावनः
यथाकाशस्थितॊ नित्यं वायुः सर्वत्रगॊ महान
तथा सर्वाणि भूतानि मत्स्थानीत्य उपधारय
सर्वभूतानि कौन्तेय परकृतिं यान्ति मामिकाम
कल्पक्षये पुनस तानि कल्पादौ विसृजाम्य अहम
परकृतिं सवाम अवष्टभ्य विसृजामि पुनः पुनः
भूतग्रामम इमं कृत्स्नम अवशं परकृतेर वशात
न च मां तानि कर्माणि निबध्नन्ति धनंजय
उदासीनवद आसीनम असक्तं तेषु कर्मसु
मयाध्यक्षेण परकृतिः सूयते सचराचरम
हेतुनानेन कौन्तेय जगद विपरिवर्तते
अवजानन्ति मां मूढा मानुषीं तनुम आश्रितम
परं भावम अजानन्तॊ मम भूतमहेश्वरम
मॊघाशा मॊघकर्माणॊ मॊघज्ञाना विचेतसः
राक्षसीम आसुरीं चैव परकृतिं मॊहिनीं शरिताः
महात्मानस तु मां पार्थ दैवीं परकृतिम आश्रिताः
भजन्त्य अनन्यमनसॊ जञात्वा भूतादिम अव्ययम
सततं कीर्तयन्तॊ मां यतन्तश च दृढव्रताः
नमस्यन्तश च मां भक्त्या नित्ययुक्ता उपासते
जञानयज्ञेन चाप्य अन्ये यजन्तॊ माम उपासते
एकत्वेन पृथक्त्वेन बहुधा विश्वतॊमुखम
अहं करतुर अहं यज्ञः सवधाहम अहम औषधम
मन्त्रॊ ऽहम अहम एवाज्यम अहम अग्निर अहं हुतम
पिताहम अस्य जगतॊ माता धाता पितामहः
वेद्यं पवित्रम ओंकार ऋक साम यजुर एव च
गतिर भर्ता परभुः साक्षी निवासः शरणं सुहृत
परभवः परलयः सथानं निधानं बीजम अव्ययम
तपाम्य अहम अहं वर्षं निगृह्णाम्य उत्सृजामि च
अमृतं चैव मृत्युश च सद असच चाहम अर्जुन
तरैविद्या मां सॊमपाः पूतपापा; यज्ञैर इष्ट्वा सवर्गतिं परार्थयन्ते
ते पुण्यम आसाद्य सुरेन्द्रलॊकम; अश्नन्ति दिव्यान दिवि देवभॊगान
ते तं भुक्त्वा सवर्गलॊकं विशालं; कषीणे पुण्ये मर्त्यलॊकं विशन्ति
एवं तरयीधर्मम अनुप्रपन्ना; गतागतं कामकामा लभन्ते
अनन्याश चिन्तयन्तॊ मां ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां यॊगक्षेमं वहाम्य अहम
ये ऽपय अन्यदेवताभक्ता यजन्ते शरद्धयान्विताः
ते ऽपि माम एव कौन्तेय यजन्त्य अविधिपूर्वकम
अहं हि सर्वयज्ञानां भॊक्ता च परभुर एव च
न तु माम अभिजानन्ति तत्त्वेनातश चयवन्ति ते
यान्ति देवव्रता देवान पितॄन यान्ति पितृव्रताः
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनॊ ऽपि माम
पत्रं पुष्पं फलं तॊयं यॊ मे भक्त्या परयच्छति
तद अहं भक्त्युपहृतम अश्नामि परयतात्मनः
यत करॊषि यद अश्नासि यज जुहॊषि ददासि यत
यत तपस्यसि कौन्तेय तत कुरुष्व मदर्पणम
शुभाशुभफलैर एवं मॊक्ष्यसे कर्मबन्धनैः
संन्यासयॊगयुक्तात्मा विमुक्तॊ माम उपैष्यसि
समॊ ऽहं सर्वभूतेषु न मे दवेष्यॊ ऽसति न परियः
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य अहम
अपि चेत सुदुराचारॊ भजते माम अनन्यभाक
साधुर एव स मन्तव्यः सम्यग वयवसितॊ हि सः
कषिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति
कौन्तेय परतिजानीहि न मे भक्तः परणश्यति
मां हि पार्थ वयपाश्रित्य ये ऽपि सयुः पापयॊनयः
सत्रियॊ वैश्यास तथा शूद्रास ते ऽपि यान्ति परां गतिम
किं पुनर बराह्मणाः पुण्या भक्ता राजर्षयस तथा
अनित्यम असुखं लॊकम इमं पराप्य भजस्व माम
मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु
माम एवैष्यसि युक्त्वैवम आत्मानं मत्परायणः
शरीभगवान उवाच
भूय एव महाबाहॊ शृणु मे परमं वचः
यत ते ऽहं परीयमाणाय वक्ष्यामि हितकाम्यया
न मे विदुः सुरगणाः परभवं न महर्षयः
अहम आदिर हि देवानां महर्षीणां च सर्वशः
यॊ माम अजम अनादिं च वेत्ति लॊकमहेश्वरम
असंमूढः स मर्त्येषु सर्वपापैः परमुच्यते
बुद्धिर जञानम असंमॊहः कषमा सत्यं दमः शमः
सुखं दुःखं भवॊ ऽभावॊ भयं चाभयम एव च
अहिंसा समता तुष्टिस तपॊ दानं यशॊ ऽयशः
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः
महर्षयः सप्त पूर्वे चत्वारॊ मनवस तथा
मद्भावा मानसा जाता येषां लॊक इमाः परजाः
एतां विभूतिं यॊगं च मम यॊ वेत्ति तत्त्वतः
सॊ ऽविकम्पेन यॊगेन युज्यते नात्र संशयः
अहं सर्वस्य परभवॊ मत्तः सर्वं परवर्तते
इति मत्वा भजन्ते मां बुधा भावसमन्विताः
मच्चित्ता मद्गतप्राणा बॊधयन्तः परस्परम
कथयन्तश च मां नित्यं तुष्यन्ति च रमन्ति च
तेषां सततयुक्तानां भजतां परीतिपूर्वकम
ददामि बुद्धियॊगं तं येन माम उपयान्ति ते
तेषाम एवानुकम्पार्थम अहम अज्ञानजं तमः
नाशयाम्य आत्मभावस्थॊ जञानदीपेन भास्वता
अर्जुन उवाच
परं बरह्म परं धाम पवित्रं परमं भवान
पुरुषं शाश्वतं दिव्यम आदिदेवम अजं विभुम
आहुस तवाम ऋषयः सर्वे देवर्षिर नारदस तथा
असितॊ देवलॊ वयासः सवयं चैव बरवीषि मे
सर्वम एतद ऋतं मन्ये यन मां वदसि केशव
न हि ते भगवन वयक्तिं विदुर देवा न दानवाः
सवयम एवात्मनात्मानं वेत्थ तवं पुरुषॊत्तम
भूतभावन भूतेश देवदेव जगत्पते
वक्तुम अर्हस्य अशेषेण दिव्या हय आत्मविभूतयः
याभिर विभूतिभिर लॊकान इमांस तवं वयाप्य तिष्ठसि
कथं विद्याम अहं यॊगिंस तवां सदा परिचिन्तयन
केषु केषु च भावेषु चिन्त्यॊ ऽसि भगवन मया
विस्तरेणात्मनॊ यॊगं विभूतिं च जनार्दन
भूयः कथय तृप्तिर हि शृण्वतॊ नास्ति मे ऽमृतम
शरीभगवान उवाच
हन्त ते कथयिष्यामि दिव्या हय आत्मविभूतयः
पराधान्यतः कुरुश्रेष्ठ नास्त्य अन्तॊ विस्तरस्य मे
अहम आत्मा गुडाकेश सर्वभूताशयस्थितः
अहम आदिश च मध्यं च भूतानाम अन्त एव च
आदित्यानाम अहं विष्णुर जयॊतिषां रविर अंशुमान
मरीचिर मरुताम अस्मि नक्षत्राणाम अहं शशी
वेदानां सामवेदॊ ऽसमि देवानाम अस्मि वासवः
इन्द्रियाणां मनश चास्मि भूतानाम अस्मि चेतना
रुद्राणां शंकरश चास्मि वित्तेशॊ यक्षरक्षसाम
वसूनां पावकश चास्मि मेरुः शिखरिणाम अहम
पुरॊधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम
सेनानीनाम अहं सकन्दः सरसाम अस्मि सागरः
महर्षीणां भृगुर अहं गिराम अस्म्य एकम अक्षरम
यज्ञानां जपयज्ञॊ ऽसमि सथावराणां हिमालयः
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः
गन्धर्वाणां चित्ररथः सिद्धानां कपिलॊ मुनिः
उच्चैःश्रवसम अश्वानां विद्धि माम अमृतॊद्भवम
ऐरावतं गजेन्द्राणां नराणां च नराधिपम
आयुधानाम अहं वज्रं धेनूनाम अस्मि कामधुक
परजनश चास्मि कन्दर्पः सर्पाणाम अस्मि वासुकिः
अनन्तश चास्मि नागानां वरुणॊ यादसाम अहम
पितॄणाम अर्यमा चास्मि यमः संयमताम अहम
परह्लादश चास्मि दैत्यानां कालः कलयताम अहम
मृगाणां च मृगेन्द्रॊ ऽहं वैनतेयश च पक्षिणाम
पवनः पवताम अस्मि रामः शस्त्रभृताम अहम
झषाणां मकरश चास्मि सरॊतसाम अस्मि जाह्नवी
सर्गाणाम आदिर अन्तश च मध्यं चैवाहम अर्जुन
अध्यात्मविद्या विद्यानां वादः परवदताम अहम
अक्षराणाम अकारॊ ऽसमि दवन्द्वः सामासिकस्य च
अहम एवाक्षयः कालॊ धाताहं विश्वतॊमुखः
मृत्युः सर्वहरश चाहम उद्भवश च भविष्यताम
कीर्तिः शरीर वाक च नारीणां समृतिर मेधा धृतिः कषमा
बृहत्साम तथा साम्नां गायत्री छन्दसाम अहम
मासानां मार्गशीर्षॊ ऽहम ऋतूनां कुसुमाकरः
दयूतं छलयताम अस्मि तेजस तेजस्विनाम अहम
जयॊ ऽसमि वयवसायॊ ऽसमि सत्त्वं सत्त्ववताम अहम
वृष्णीनां वासुदेवॊ ऽसमि पाण्डवानां धनंजयः
मुनीनाम अप्य अहं वयासः कवीनाम उशना कविः
दण्डॊ दमयताम अस्मि नीतिर अस्मि जिगीषताम
मौनं चैवास्मि गुह्यानां जञानं जञानवताम अहम
यच चापि सर्वभूतानां बीजं तद अहम अर्जुन
न तद अस्ति विना यत सयान मया भूतं चराचरम
नान्तॊ ऽसति मम दिव्यानां विभूतीनां परंतप
एष तूद्देशतः परॊक्तॊ विभूतेर विस्तरॊ मया
यद यद विभूतिमत सत्त्वं शरीमद ऊर्जितम एव वा
तत तद एवावगच्छ तवं मम तेजॊ ऽंशसंभवम
अथ वा बहुनैतेन किं जञातेन तवार्जुन
विष्टभ्याहम इदं कृत्स्नम एकांशेन सथितॊ जगत
अर्जुन उवाच
मदनुग्रहाय परमं गुह्यम अध्यात्मसंज्ञितम
यत तवयॊक्तं वचस तेन मॊहॊ ऽयं विगतॊ मम
भवाप्ययौ हि भूतानां शरुतौ विस्तरशॊ मया
तवत्तः कमलपत्राक्ष माहात्म्यम अपि चाव्ययम
एवम एतद यथात्थ तवम आत्मानं परमेश्वर
दरष्टुम इच्छामि ते रूपम ऐश्वरं पुरुषॊत्तम
मन्यसे यदि तच छक्यं मया दरष्टुम इति परभॊ
यॊगेश्वर ततॊ मे तवं दर्शयात्मानम अव्ययम
शरीभगवान उवाच
पश्य मे पार्थ रूपाणि शतशॊ ऽथ सहस्रशः
नानाविधानि दिव्यानि नानावर्णाकृतीनि च
पश्यादित्यान वसून रुद्रान अश्विनौ मरुतस तथा
बहून्य अदृष्टपूर्वाणि पश्याश्चर्याणि भारत
इहैकस्थं जगत कृत्स्नं पश्याद्य सचराचरम
मम देहे गुडाकेश यच चान्यद दरष्टुम इच्छसि
न तु मां शक्यसे दरष्टुम अनेनैव सवचक्षुषा
दिव्यं ददामि ते चक्षुः पश्य मे यॊगम ऐश्वरम
संजय उवाच
एवम उक्त्वा ततॊ राजन महायॊगेश्वरॊ हरिः
दर्शयाम आस पार्थाय परमं रूपम ऐश्वरम
अनेकवक्त्रनयनम अनेकाद्भुतदर्शनम
अनेकदिव्याभरणं दिव्यानेकॊद्यतायुधम
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम
सर्वाश्चर्यमयं देवम अनन्तं विश्वतॊमुखम
दिवि सूर्यसहस्रस्य भवेद युगपद उत्थिता
यदि भाः सदृशी सा सयाद भासस तस्य महात्मनः
तत्रैकस्थं जगत कृत्स्नं परविभक्तम अनेकधा
अपश्यद देवदेवस्य शरीरे पाण्डवस तदा
ततः स विस्मयाविष्टॊ हृष्टरॊमा धनंजयः
परणम्य शिरसा देवं कृताञ्जलिर अभाषत
अर्जुन उवाच
पश्यामि देवांस तव देव देहे; सर्वांस तथा भूतविशेषसंघान
बरह्माणम ईशं कमलासनस्थम; ऋषींश च सर्वान उरगांश च दिव्यान
अनेकबाहूदरवक्त्रनेत्रं; पश्यामि तवा सर्वतॊ ऽनन्तरूपम
नान्तं न मध्यं न पुनस तवादिं; पश्यामि विश्वेश्वर विश्वरूप
किरीटिनं गदिनं चक्रिणं च; तेजॊराशिं सर्वतॊ दीप्तिमन्तम
पश्यामि तवां दुर्निरीक्ष्यं समन्ताद; दीप्तानलार्कद्युतिम अप्रमेयम
तवम अक्षरं परमं वेदितव्यं; तवम अस्य विश्वस्य परं निधानम
तवम अव्ययः शाश्वतधर्मगॊप्ता; सनातनस तवं पुरुषॊ मतॊ मे
अनादिमध्यान्तम अनन्तवीर्यम; अनन्तबाहुं शशिसूर्यनेत्रम
पश्यामि तवां दीप्तहुताशवक्त्रं; सवतेजसा विश्वम इदं तपन्तम
दयावापृथिव्यॊर इदम अन्तरं हि; वयाप्तं तवयैकेन दिशश च सर्वाः
दृष्ट्वाद्भुतं रूपम इदं तवॊग्रं; लॊकत्रयं परव्यथितं महात्मन
अमी हि तवा सुरसंघा विशन्ति; के चिद भीताः पराञ्जलयॊ गृणन्ति
सवस्तीत्य उक्त्वा महर्षिसिद्धसंघाः; सतुवन्ति तवां सतुतिभिः पुष्कलाभिः
रुद्रादित्या वसवॊ ये च साध्या; विश्वे ऽशविनौ मरुतश चॊष्मपाश च
गन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते तवां विस्मिताश चैव सर्वे
रूपं महत ते बहुवक्त्रनेत्रं; महाबाहॊ बहुबाहूरुपादम
बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लॊकाः परव्यथितास तथाहम
नभःस्पृशं दीप्तम अनेकवर्णं; वयात्ताननं दीप्तविशालनेत्रम
दृष्ट्वा हि तवां परव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णॊ
दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि
दिशॊ न जाने न लभे च शर्म; परसीद देवेश जगन्निवास
अमी च तवां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः
भीष्मॊ दरॊणः सूतपुत्रस तथासौ; सहास्मदीयैर अपि यॊधमुख्यैः
वक्त्राणि ते तवरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि
के चिद विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैर उत्तमाङ्गैः
यथा नदीनां बहवॊ ऽमबुवेगाः; समुद्रम एवाभिमुखा दरवन्ति
तथा तवामी नरलॊकवीरा; विशन्ति वक्त्राण्य अभिविज्वलन्ति
यथा परदीप्तं जवलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः
तथैव नाशाय विशन्ति लॊकास; तवापि वक्त्राणि समृद्धवेगाः
लेलिह्यसे गरसमानः समन्ताल; लॊकान समग्रान वदनैर जवलद्भिः
तेजॊभिर आपूर्य जगत समग्रं; भासस तवॊग्राः परतपन्ति विष्णॊ
आख्याहि मे कॊ भवान उग्ररूपॊ; नमॊ ऽसतु ते देववर परसीद
विज्ञातुम इच्छामि भवन्तम आद्यं; न हि परजानामि तव परवृत्तिम
शरीभगवान उवाच
कालॊ ऽसमि लॊकक्षयकृत परवृद्धॊ; लॊकान समाहर्तुम इह परवृत्तः
ऋते ऽपि तवा न भविष्यन्ति सर्वे; ये ऽवस्थिताः परत्यनीकेषु यॊधाः
तस्मात तवम उत्तिष्ठ यशॊ लभस्व; जित्वा शत्रून भुङ्क्ष्व राज्यं समृद्धम
मयैवैते निहताः पूर्वम एव; निमित्तमात्रं भव सव्यसाचिन
दरॊणं च भीष्मं च जयद्रथं च; कर्णं तथान्यान अपि यॊधवीरान
मया हतांस तवं जहि मा वयथिष्ठा; युध्यस्व जेतासि रणे सपत्नान
संजय उवाच
एतच छरुत्वा वचनं केशवस्य; कृताञ्जलिर वेपमानः किरीटी
नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः परणम्य
अर्जुन उवाच
सथाने हृषीकेश तव परकीर्त्या; जगत परहृष्यत्य अनुरज्यते च
रक्षांसि भीतानि दिशॊ दरवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः
कस्माच च ते न नमेरन महात्मन; गरीयसे बरह्मणॊ ऽपय आदिकर्त्रे
अनन्त देवेश जगन्निवास; तवम अक्षरं सद असत तत्परं यत
तवम आदिदेवः पुरुषः पुराणस; तवम अस्य विश्वस्य परं निधानम
वेत्तासि वेद्यं च परं च धाम; तवया ततं विश्वम अनन्तरूप
वायुर यमॊ ऽगनिर वरुणः शशाङ्कः; परजापतिस तवं परपितामहश च
नमॊ नमस ते ऽसतु सहस्रकृत्वः; पुनश च भूयॊ ऽपि नमॊ नमस ते
नमः पुरस्ताद अथ पृष्ठतस ते; नमॊ ऽसतु ते सर्वत एव सर्व
अनन्तवीर्यामितविक्रमस तवं; सर्वं समाप्नॊषि ततॊ ऽसि सर्वः
सखेति मत्वा परसभं यद उक्तं; हे कृष्ण हे यादव हे सखेति
अजानता महिमानं तवेदं; मया परमादात परणयेन वापि
यच चावहासार्थम असत्कृतॊ ऽसि; विहारशय्यासनभॊजनेषु
एकॊ ऽथ वाप्य अच्युत तत्समक्षं; तत कषामये तवाम अहम अप्रमेयम
पितासि लॊकस्य चराचरस्य; तवम अस्य पूज्यश च गुरुर गरीयान
न तवत्समॊ ऽसत्य अभ्यधिकः कुतॊ ऽनयॊ; लॊकत्रये ऽपय अप्रतिमप्रभाव
तस्मात परणम्य परणिधाय कायं; परसादये तवाम अहम ईशम ईड्यम
पितेव पुत्रस्य सखेव सख्युः; परियः परियायार्हसि देव सॊढुम
अदृष्टपूर्वं हृषितॊ ऽसमि दृष्ट्वा; भयेन च परव्यथितं मनॊ मे
तद एव मे दर्शय देव रूपं; परसीद देवेश जगन्निवास
किरीटिनं गदिनं चक्रहस्तम; इच्छामि तवां दरष्टुम अहं तथैव
तेनैव रूपेण चतुर्भुजेन; सहस्रबाहॊ भव विश्वमूर्ते
शरीभगवान उवाच
मया परसन्नेन तवार्जुनेदं; रूपं परं दर्शितम आत्मयॊगात
तेजॊमयं विश्वम अनन्तम; आद्यं यन मे तवदन्येन न दृष्टपूर्वम
न वेद यज्ञाध्ययनैर न दानैर; न च करियाभिर न तपॊभिर उग्रैः
एवंरूपः शक्य अहं नृलॊके; दरष्टुं तवदन्येन कुरुप्रवीर
मा ते वयथा मा च विमूढभावॊ; दृष्ट्वा रूपं घॊरम ईदृङ ममेदम
वयपेतभीः परीतमनाः पुनस तवं; तद एव मे रूपम इदं परपश्य
संजय उवाच
इत्य अर्जुनं वासुदेवस तथॊक्त्वा; सवकं रूपं दर्शयाम आस भूयः
आश्वासयाम आस च भीतम एनं; भूत्वा पुनः सौम्यवपुर महात्मा
अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन
इदानीम अस्मि संवृत्तः सचेताः परकृतिं गतः
शरीभगवान उवाच
सुदुर्दर्शम इदं रूपं दृष्टवान असि यन मम
देवा अप्य अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः
नाहं वेदैर न तपसा न दानेन न चेज्यया
शक्य एवंविधॊ दरष्टुं दृष्टवान असि मां यथा
भक्त्या तव अनन्यया शक्य अहम एवंविधॊ ऽरजुन
जञातुं दरष्टुं च तत्त्वेन परवेष्टुं च परंतप
मत्कर्मकृन मत्परमॊ मद्भक्तः सङ्गवर्जितः
निर्वैरः सर्वभूतेषु यः स माम एति पाण्डव
अर्जुन उवाच
एवं सततयुक्ता ये भक्तास तवां पर्युपासते
ये चाप्य अक्षरम अव्यक्तं तेषां के यॊगवित्तमाः
शरीभगवान उवाच
मय्य आवेश्य मनॊ ये मां नित्ययुक्ता उपासते
शरद्धया परयॊपेतास ते मे युक्ततमा मताः
ये तव अक्षरम अनिर्देश्यम अव्यक्तं पर्युपासते
सर्वत्रगम अचिन्त्यं च कूटस्थम अचलं धरुवम
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः
ते पराप्नुवन्ति माम एव सर्वभूतहिते रताः
कलेशॊ ऽधिकतरस तेषाम अव्यक्तासक्तचेतसाम
अव्यक्ता हि गतिर दुःखं देहवद्भिर अवाप्यते
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः
अनन्येनैव यॊगेन मां धयायन्त उपासते
तेषाम अहं समुद्धर्ता मृत्युसंसारसागरात
भवामि नचिरात पार्थ मय्य आवेशितचेतसाम
मय्य एव मन आधत्स्व मयि बुद्धिं निवेशय
निवसिष्यसि मय्य एव अत ऊर्ध्वं न संशयः
अथ चित्तं समाधातुं न शक्नॊषि मयि सथिरम
अभ्यासयॊगेन ततॊ माम इच्छाप्तुं धनंजय
अभ्यासे ऽपय असमर्थॊ ऽसि मत्कर्मपरमॊ भव
मदर्थम अपि कर्माणि कुर्वन सिद्धिम अवाप्स्यसि
अथैतद अप्य अशक्तॊ ऽसि कर्तुं मद्यॊगम आश्रितः
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान
शरेयॊ हि जञानम अभ्यासाज जञानाद धयानं विशिष्यते
धयानात कर्मफलत्यागस तयागाच छान्तिर अनन्तरम
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च
निर्ममॊ निरहंकारः समदुःखसुखः कषमी
संतुष्टः सततं यॊगी यतात्मा दृढनिश्चयः
मय्य अर्पितमनॊबुद्धिर यॊ मद्भक्तः स मे परियः
यस्मान नॊद्विजते लॊकॊ लॊकान नॊद्विजते च यः
हर्षामर्षभयॊद्वेगैर मुक्तॊ यः स च मे परियः
अनपेक्षः शुचिर दक्ष उदासीनॊ गतव्यथः
सर्वारम्भपरित्यागी यॊ मद्भक्तः स मे परियः
यॊ न हृष्यति न दवेष्टि न शॊचति न काङ्क्षति
शुभाशुभपरित्यागी भक्तिमान यः स मे परियः
समः शत्रौ च मित्रे च तथा मानापमानयॊः
शीतॊष्णसुखदुःखेषु समः सङ्गविवर्जितः
तुल्यनिन्दास्तुतिर मौनी संतुष्टॊ येन केन चित
अनिकेतः सथिरमतिर भक्तिमान मे परियॊ नरः
ये तु धर्म्यामृतम इदं यथॊक्तं पर्युपासते
शरद्दधाना मत्परमा भक्तास ते ऽतीव मे परियाः
शरीभगवान उवाच
इदं शरीरं कौन्तेय कषेत्रम इत्य अभिधीयते
एतद यॊ वेत्ति तं पराहुः कषेत्रज्ञ इति तद्विदः
कषेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
कषेत्रक्षेत्रज्ञयॊर जञानं यत तज जञानं मतं मम
तत कषेत्रं यच च यादृक च यद्विकारि यतश च यत
स च यॊ यत्प्रभावश च तत समासेन मे शृणु
ऋषिभिर बहुधा गीतं छन्दॊभिर विविधैः पृथक
बरह्मसूत्रपदैश चैव हेतुमद्भिर विनिश्चितैः
महाभूतान्य अहंकारॊ बुद्धिर अव्यक्तम एव च
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगॊचराः
इच्छा दवेषः सुखं दुःखं संघातश चेतना धृतिः
एतत कषेत्रं समासेन सविकारम उदाहृतम
अमानित्वम अदम्भित्वम अहिंसा कषान्तिर आर्जवम
आचार्यॊपासनं शौचं सथैर्यम आत्मविनिग्रहः
इन्द्रियार्थेषु वैराग्यम अनहंकार एव च
जन्ममृत्युजराव्याधिदुःखदॊषानुदर्शनम
असक्तिर अनभिष्वङ्गः पुत्रदारगृहादिषु
नित्यं च समचित्तत्वम इष्टानिष्टॊपपत्तिषु
मयि चानन्ययॊगेन भक्तिर अव्यभिचारिणी
विविक्तदेशसेवित्वम अरतिर जनसंसदि
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम
एतज जञानम इति परॊक्तम अज्ञानं यद अतॊ ऽनयथा
जञेयं यत तत परवक्ष्यामि यज जञात्वामृतम अश्नुते
अनादिमत परं बरह्म न सत तन नासद उच्यते
सर्वतः पाणिपादं तत सर्वतॊ ऽकषिशिरॊमुखम
सर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम
असक्तं सर्वभृच चैव निर्गुणं गुणभॊक्तृ च
बहिर अन्तश च भूतानाम अचरं चरम एव च
सूक्ष्मत्वात तद अविज्ञेयं दूरस्थं चान्तिके च तत
अविभक्तं च भूतेषु विभक्तम इव च सथितम
भूतभर्तृ च तज जञेयं गरसिष्णु परभविष्णु च
जयॊतिषाम अपि तज जयॊतिस तमसः परम उच्यते
जञानं जञेयं जञानगम्यं हृदि सर्वस्य विष्ठितम
इति कषेत्रं तथा जञानं जञेयं चॊक्तं समासतः
मद्भक्त एतद विज्ञाय मद्भावायॊपपद्यते
परकृतिं पुरुषं चैव विद्ध्य अनादी उभाव अपि
विकारांश च गुणांश चैव विद्धि परकृतिसंभवान
कार्यकारणकर्तृत्वे हेतुः परकृतिर उच्यते
पुरुषः सुखदुःखानां भॊक्तृत्वे हेतुर उच्यते
पुरुषः परकृतिस्थॊ हि भुङ्क्ते परकृतिजान गुणान
कारणं गुणसङ्गॊ ऽसय सदसद्यॊनिजन्मसु
उपद्रष्टानुमन्ता च भर्ता भॊक्ता महेश्वरः
परमात्मेति चाप्य उक्तॊ देहे ऽसमिन पुरुषः परः
य एवं वेत्ति पुरुषं परकृतिं च गुणैः सह
सर्वथा वर्तमानॊ ऽपि न स भूयॊ ऽभिजायते
धयानेनात्मनि पश्यन्ति के चिद आत्मानम आत्मना
अन्ये सांख्येन यॊगेन कर्मयॊगेन चापरे
अन्ये तव एवम अजानन्तः शरुत्वान्येभ्य उपासते
ते ऽपि चातितरन्त्य एव मृत्युं शरुतिपरायणाः
यावत संजायते किं चित सत्त्वं सथावरजङ्गमम
कषेत्रक्षेत्रज्ञसंयॊगात तद विद्धि भरतर्षभ
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम
विनश्यत्स्व अविनश्यन्तं यः पश्यति स पश्यति
समं पश्यन हि सर्वत्र समवस्थितम ईश्वरम
न हिनस्त्य आत्मनात्मानं ततॊ याति परां गतिम
परकृत्यैव च कर्माणि करियमाणानि सर्वशः
यः पश्यति तथात्मानम अकर्तारं स पश्यति
यदा भूतपृथग्भावम एकस्थम अनुपश्यति
तत एव च विस्तारं बरह्म संपद्यते तदा
अनादित्वान निर्गुणत्वात परमात्मायम अव्ययः
शरीरस्थॊ ऽपि कौन्तेय न करॊति न लिप्यते
यथा सर्वगतं सौक्ष्म्याद आकाशं नॊपलिप्यते
सर्वत्रावस्थितॊ देहे तथात्मा नॊपलिप्यते
यथा परकाशयत्य एकः कृत्स्नं लॊकम इमं रविः
कषेत्रं कषेत्री तथा कृत्स्नं परकाशयति भारत
कषेत्रक्षेत्रज्ञयॊर एवम अन्तरं जञानचक्षुषा
भूतप्रकृतिमॊक्षं च ये विदुर यान्ति ते परम
शरीभगवान उवाच
परं भूयः परवक्ष्यामि जञानानां जञानम उत्तमम
यज जञात्वा मुनयः सर्वे परां सिद्धिम इतॊ गताः
इदं जञानम उपाश्रित्य मम साधर्म्यम आगताः
सर्गे ऽपि नॊपजायन्ते परलये न वयथन्ति च
मम यॊनिर महद बरह्म तस्मिन गर्भं दधाम्य अहम
संभवः सर्वभूतानां ततॊ भवति भारत
सर्वयॊनिषु कौन्तेय मूर्तयः संभवन्ति याः
तासां बरह्म महद यॊनिर अहं बीजप्रदः पिता
सत्त्वं रजस तम इति गुणाः परकृतिसंभवाः
निबध्नन्ति महाबाहॊ देहे देहिनम अव्ययम
तत्र सत्त्वं निर्मलत्वात परकाशकम अनामयम
सुखसङ्गेन बध्नाति जञानसङ्गेन चानघ
रजॊ रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम
तन निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम
तमस तव अज्ञानजं विद्धि मॊहनं सर्वदेहिनाम
परमादालस्यनिद्राभिस तन निबध्नाति भारत
सत्त्वं सुखे संजयति रजः कर्मणि भारत
जञानम आवृत्य तु तमः परमादे संजयत्य उत
रजस तमश चाभिभूय सत्त्वं भवति भारत
रजः सत्त्वं तमश चैव तमः सत्त्वं रजस तथा
सर्वद्वारेषु देहे ऽसमिन परकाश उपजायते
जञानं यदा तदा विद्याद विवृद्धं सत्त्वम इत्य उत
लॊभः परवृत्तिर आरम्भः कर्मणाम अशमः सपृहा
रजस्य एतानि जायन्ते विवृद्धे भरतर्षभ
अप्रकाशॊ ऽपरवृत्तिश च परमादॊ मॊह एव च
तमस्य एतानि जायन्ते विवृद्धे कुरुनन्दन
यदा सत्त्वे परवृद्धे तु परलयं याति देहभृत
तदॊत्तमविदां लॊकान अमलान परतिपद्यते
रजसि परलयं गत्वा कर्मसङ्गिषु जायते
तथा परलीनस तमसि मूढयॊनिषु जायते
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम
रजसस तु फलं दुःखम अज्ञानं तमसः फलम
सत्त्वात संजायते जञानं रजसॊ लॊभ एव च
परमादमॊहौ तमसॊ भवतॊ ऽजञानम एव च
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः
जघन्यगुणवृत्तस्था अधॊ गच्छन्ति तामसाः
नान्यं गुणेभ्यः कर्तारं यदा दरष्टानुपश्यति
गुणेभ्यश च परं वेत्ति मद्भावं सॊ ऽधिगच्छति
गुणान एतान अतीत्य तरीन देही देहसमुद्भवान
जन्ममृत्युजरादुःखैर विमुक्तॊ ऽमृतम अश्नुते
अर्जुन उवाच
कैर लिङ्गैस तरीन गुणान एतान अतीतॊ भवति परभॊ
किमाचारः कथं चैतांस तरीन गुणान अतिवर्तते
शरीभगवान उवाच
परकाशं च परवृत्तिं च मॊहम एव च पाण्डव
न दवेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति
उदासीनवद आसीनॊ गुणैर यॊ न विचाल्यते
गुणा वर्तन्त इत्य एव यॊ ऽवतिष्ठति नेङ्गते
समदुःखसुखः सवस्थः समलॊष्टाश्मकाञ्चनः
तुल्यप्रियाप्रियॊ धीरस तुल्यनिन्दात्मसंस्तुतिः
मानापमानयॊस तुल्यस तुल्यॊ मित्रारिपक्षयॊः
सर्वारम्भपरित्यागी गुणातीतः स उच्यते
मां च यॊ ऽवयभिचारेण भक्तियॊगेन सेवते
स गुणान समतीत्यैतान बरह्मभूयाय कल्पते
बरह्मणॊ हि परतिष्ठाहम अमृतस्याव्ययस्य च
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च
शरीभगवान उवाच
ऊर्ध्वमूलम अधःशाखम अश्वत्थं पराहुर अव्ययम
छन्दांसि यस्य पर्णानि यस तं वेद स वेदवित
अधश चॊर्ध्वं परसृतास तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः
अधश च मूलान्य अनुसंततानि; कर्मानुबन्धीनि मनुष्यलॊके
न रूपम अस्येह तथॊपलभ्यते; नान्तॊ न चादिर न च संप्रतिष्ठा
अश्वत्थम एनं सुविरूढमूलम; असङ्गशस्त्रेण दृढेन छित्त्वा
ततः पदं तत्परिमार्गितव्यं; यस्मिन गता न निवर्तन्ति भूयः
तम एव चाद्यं पुरुषं परपद्ये; यतः परवृत्तिः परसृता पुराणी
निर्मानमॊहा जितसङ्गदॊषा; अध्यात्मनित्या विनिवृत्तकामाः
दवन्द्वैर विमुक्ताः सुखदुःखसंज्ञैर; गच्छन्त्य अमूढाः पदम अव्ययं तत
न तद भासयते सूर्यॊ न शशाङ्कॊ न पावकः
यद गत्वा न निवर्तन्ते तद धाम परमं मम
ममैवांशॊ जीवलॊके जीवभूतः सनातनः
मनःषष्ठानीन्द्रियाणि परकृतिस्थानि कर्षति
शरीरं यद अवाप्नॊति यच चाप्य उत्क्रामतीश्वरः
गृहीत्वैतानि संयाति वायुर गन्धान इवाशयात
शरॊत्रं चक्षुः सपर्शनं च रसनं घराणम एव च
अधिष्ठाय मनश चायं विषयान उपसेवते
उत्क्रामन्तं सथितं वापि भुञ्जानं वा गुणान्वितम
विमूढा नानुपश्यन्ति पश्यन्ति जञानचक्षुषः
यतन्तॊ यॊगिनश चैनं पश्यन्त्य आत्मन्य अवस्थितम
यतन्तॊ ऽपय अकृतात्मानॊ नैनं पश्यन्त्य अचेतसः
यद आदित्यगतं तेजॊ जगद भासयते ऽखिलम
यच चन्द्रमसि यच चाग्नौ तत तेजॊ विद्धि मामकम
गाम आविश्य च भूतानि धारयाम्य अहम ओजसा
पुष्णामि चौषधीः सर्वाः सॊमॊ भूत्वा रसात्मकः
अहं वैश्वानरॊ भूत्वा पराणिनां देहम आश्रितः
पराणापानसमायुक्तः पचाम्य अन्नं चतुर्विधम
सर्वस्य चाहं हृदि संनिविष्टॊ; मत्तः समृतिर जञानम अपॊहनं च
वेदैश च सर्वैर अहम एव वेद्यॊ; वेदान्तकृद वेदविद एव चाहम
दवाव इमौ पुरुषौ लॊके कषरश चाक्षर एव च
कषरः सर्वाणि भूतानि कूटस्थॊ ऽकषर उच्यते
उत्तमः पुरुषस तव अन्यः परमात्मेत्य उदाहृतः
यॊ लॊकत्रयम आविश्य बिभर्त्य अव्यय ईश्वरः
यस्मात कषरम अतीतॊ ऽहम अक्षराद अपि चॊत्तमः
अतॊ ऽसमि लॊके वेदे च परथितः पुरुषॊत्तमः
यॊ माम एवम असंमूढॊ जानाति पुरुषॊत्तमम
स सर्वविद भजति मां सर्वभावेन भारत
इति गुह्यतमं शास्त्रम इदम उक्तं मयानघ
एतद बुद्ध्वा बुद्धिमान सयात कृतकृत्यश च भारत
शरीभगवान उवाच
अभयं सत्त्वसंशुद्धिर जञानयॊगव्यवस्थितिः
दानं दमश च यज्ञश च सवाध्यायस तप आर्जवम
अहिंसा सत्यम अक्रॊधस तयागः शान्तिर अपैशुनम
दया भूतेष्व अलॊलुप्त्वं मार्दवं हरीर अचापलम
तेजः कषमा धृतिः शौचम अद्रॊहॊ नातिमानिता
भवन्ति संपदं दैवीम अभिजातस्य भारत
दम्भॊ दर्पॊ ऽतिमानश च करॊधः पारुष्यम एव च
अज्ञानं चाभिजातस्य पार्थ संपदम आसुरीम
दैवी संपद विमॊक्षाय निबन्धायासुरी मता
मा शुचः संपदं दैवीम अभिजातॊ ऽसि पाण्डव
दवौ भूतसर्गौ लॊके ऽसमिन दैव आसुर एव च
दैवॊ विस्तरशः परॊक्त आसुरं पार्थ मे शृणु
परवृत्तिं च निवृत्तिं च जना न विदुर आसुराः
न शौचं नापि चाचारॊ न सत्यं तेषु विद्यते
असत्यम अप्रतिष्ठं ते जगद आहुर अनीश्वरम
अपरस्परसंभूतं किम अन्यत कामहैतुकम
एतां दृष्टिम अवष्टभ्य नष्टात्मानॊ ऽलपबुद्धयः
परभवन्त्य उग्रकर्माणः कषयाय जगतॊ ऽहिताः
कामम आश्रित्य दुष्पूरं दम्भमानमदान्विताः
मॊहाद गृहीत्वासद्ग्राहान परवर्तन्ते ऽशुचिव्रताः
चिन्ताम अपरिमेयां च परलयान्ताम उपाश्रिताः
कामॊपभॊगपरमा एतावद इति निश्चिताः
आशापाशशतैर बद्धाः कामक्रॊधपरायणाः
ईहन्ते कामभॊगार्थम अन्यायेनार्थसंचयान
इदम अद्य मया लब्धम इदं पराप्स्ये मनॊरथम
इदम अस्तीदम अपि मे भविष्यति पुनर धनम
असौ मया हतः शत्रुर हनिष्ये चापरान अपि
ईश्वरॊ ऽहम अहं भॊगी सिद्धॊ ऽहं बलवान सुखी
आढ्यॊ ऽभिजनवान अस्मि कॊ ऽनयॊ ऽसति सदृशॊ मया
यक्ष्ये दास्यामि मॊदिष्य इत्य अज्ञानविमॊहिताः
अनेकचित्तविभ्रान्ता मॊहजालसमावृताः
परसक्ताः कामभॊगेषु पतन्ति नरके ऽशुचौ
आत्मसंभाविताः सतब्धा धनमानमदान्विताः
यजन्ते नामयज्ञैस ते दम्भेनाविधिपूर्वकम
अहंकारं बलं दर्पं कामं करॊधं च संश्रिताः
माम आत्मपरदेहेषु परद्विषन्तॊ ऽभयसूयकाः
तान अहं दविषतः करूरान संसारेषु नराधमान
कषिपाम्य अजस्रम अशुभान आसुरीष्व एव यॊनिषु
आसुरीं यॊनिम आपन्ना मूढा जन्मनि जन्मनि
माम अप्राप्यैव कौन्तेय ततॊ यान्त्य अधमां गतिम
तरिविधं नरकस्येदं दवारं नाशनम आत्मनः
कामः करॊधस तथा लॊभस तस्माद एतत तरयं तयजेत
एतैर विमुक्तः कौन्तेय तमॊद्वारैस तरिभिर नरः
आचरत्य आत्मनः शरेयस ततॊ याति परां गतिम
यः शास्त्रविधिम उत्सृज्य वर्तते कामकारतः
न स सिद्धिम अवाप्नॊति न सुखं न परां गतिम
तस्माच छास्त्रं परमाणं ते कार्याकार्यव्यवस्थितौ
जञात्वा शास्त्रविधानॊक्तं कर्म कर्तुम इहार्हसि
अर्जुन उवाच
ये शास्त्रविधिम उत्सृज्य यजन्ते शरद्धयान्विताः
तेषां निष्ठा तु का कृष्ण सत्त्वम आहॊ रजस तमः
शरीभगवान उवाच
तरिविधा भवति शरद्धा देहिनां सा सवभावजा
सात्त्विकी राजसी चैव तामसी चेति तां शृणु
सत्त्वानुरूपा सर्वस्य शरद्धा भवति भारत
शरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः
यजन्ते सात्त्विका देवान यक्षरक्षांसि राजसाः
परेतान भूतगणांश चान्ये यजन्ते तामसा जनाः
अशास्त्रविहितं घॊरं तप्यन्ते ये तपॊ जनाः
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः
कर्शयन्तः शरीरस्थं भूतग्रामम अचेतसः
मां चैवान्तःशरीरस्थं तान विद्ध्य आसुरनिश्चयान
आहारस तव अपि सर्वस्य तरिविधॊ भवति परियः
यज्ञस तपस तथा दानं तेषां भेदम इमं शृणु
आयुःसत्त्वबलारॊग्यसुखप्रीतिविवर्धनाः
रस्याः सनिग्धाः सथिरा हृद्या आहाराः सात्त्विकप्रियाः
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः
आहारा राजसस्येष्टा दुःखशॊकामयप्रदाः
यातयामं गतरसं पूति पर्युषितं च यत
उच्छिष्टम अपि चामेध्यं भॊजनं तामसप्रियम
अफलाकाङ्क्षिभिर यज्ञॊ विधिदृष्टॊ य इज्यते
यष्टव्यम एवेति मनः समाधाय स सात्त्विकः
अभिसंधाय तु फलं दम्भार्थम अपि चैव यत
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम
विधिहीनम असृष्टान्नं मन्त्रहीनम अदक्षिणम
शरद्धाविरहितं यज्ञं तामसं परिचक्षते
देवद्विजगुरुप्राज्ञपूजनं शौचम आर्जवम
बरह्मचर्यम अहिंसा च शारीरं तप उच्यते
अनुद्वेगकरं वाक्यं सत्यं परियहितं च यत
सवाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते
मनःप्रसादः सौम्यत्वं मौनम आत्मविनिग्रहः
भावसंशुद्धिर इत्य एतत तपॊ मानसम उच्यते
शरद्धया परया तप्तं तपस तत तरिविधं नरैः
अफलाकाङ्क्षिभिर युक्तैः सात्त्विकं परिचक्षते
सत्कारमानपूजार्थं तपॊ दम्भेन चैव यत
करियते तद इह परॊक्तं राजसं चलम अध्रुवम
मूढग्राहेणात्मनॊ यत पीडया करियते तपः
परस्यॊत्सादनार्थं वा तत तामसम उदाहृतम
दातव्यम इति यद दानं दीयते ऽनुपकारिणे
देशे काले च पात्रे च तद दानं सात्त्विकं समृतम
यत तु परत्युपकारार्थं फलम उद्दिश्य वा पुनः
दीयते च परिक्लिष्टं तद दानं राजसं समृतम
अदेशकाले यद दानम अपात्रेभ्यश च दीयते
असत्कृतम अवज्ञातं तत तामसम उदाहृतम
ओं तत सद इति निर्देशॊ बरह्मणस तरिविधः समृतः
बराह्मणास तेन वेदाश च यज्ञाश च विहिताः पुरा
तस्माद ओम इत्य उदाहृत्य यज्ञदानतपःक्रियाः
परवर्तन्ते विधानॊक्ताः सततं बरह्मवादिनाम
तद इत्य अनभिसंधाय फलं यज्ञतपःक्रियाः
दानक्रियाश च विविधाः करियन्ते मॊक्षकाङ्क्षिभिः
सद्भावे साधुभावे च सद इत्य एतत परयुज्यते
परशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते
यज्ञे तपसि दाने च सथितिः सद इति चॊच्यते
कर्म चैव तदर्थीयं सद इत्य एवाभिधीयते
अश्रद्धया हुतं दत्तं तपस तप्तं कृतं च यत
असद इत्य उच्यते पार्थ न च तत परेत्य नॊ इह
अर्जुन उवाच
संन्यासस्य महाबाहॊ तत्त्वम इच्छामि वेदितुम
तयागस्य च हृषीकेश पृथक केशिनिषूदन
शरीभगवान उवाच
काम्यानां कर्मणां नयासं संन्यासं कवयॊ विदुः
सर्वकर्मफलत्यागं पराहुस तयागं विचक्षणाः
तयाज्यं दॊषवद इत्य एके कर्म पराहुर मनीषिणः
यज्ञदानतपःकर्म न तयाज्यम इति चापरे
निश्चयं शृणु मे तत्र तयागे भरतसत्तम
तयागॊ हि पुरुषव्याघ्र तरिविधः संप्रकीर्तितः
यज्ञदानतपःकर्म न तयाज्यं कार्यम एव तत
यज्ञॊ दानं तपश चैव पावनानि मनीषिणाम
एतान्य अपि तु कर्माणि सङ्गं तयक्त्वा फलानि च
कर्तव्यानीति मे पार्थ निश्चितं मतम उत्तमम
नियतस्य तु संन्यासः कर्मणॊ नॊपपद्यते
मॊहात तस्य परित्यागस तामसः परिकीर्तितः
दुःखम इत्य एव यत कर्म कायक्लेशभयात तयजेत
स कृत्वा राजसं तयागं नैव तयागफलं लभेत
कार्यम इत्य एव यत कर्म नियतं करियते ऽरजुन
सङ्गं तयक्त्वा फलं चैव स तयागः सात्त्विकॊ मतः
न दवेष्ट्य अकुशलं कर्म कुशले नानुषज्जते
तयागी सत्त्वसमाविष्टॊ मेधावी छिन्नसंशयः
न हि देहभृता शक्यं तयक्तुं कर्माण्य अशेषतः
यस तु कर्मफलत्यागी स तयागीत्य अभिधीयते
अनिष्टम इष्टं मिश्रं च तरिविधं कर्मणः फलम
भवत्य अत्यागिनां परेत्य न तु संन्यासिनां कव चित
पञ्चैतानि महाबाहॊ कारणानि निबॊध मे
सांख्ये कृतान्ते परॊक्तानि सिद्धये सर्वकर्मणाम
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम
विविधाश च पृथक्चेष्टा दैवं चैवात्र पञ्चमम
शरीरवाङ्मनॊभिर यत कर्म परारभते नरः
नयाय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः
तत्रैवं सति कर्तारम आत्मानं केवलं तु यः
पश्यत्य अकृतबुद्धित्वान न स पश्यति दुर्मतिः
यस्य नाहंकृतॊ भावॊ बुद्धिर यस्य न लिप्यते
हत्वापि स इमाँल लॊकान न हन्ति न निबध्यते
जञानं जञेयं परिज्ञाता तरिविधा कर्मचॊदना
करणं कर्म कर्तेति तरिविधः कर्मसंग्रहः
जञानं कर्म च कर्ता च तरिधैव गुणभेदतः
परॊच्यते गुणसंख्याने यथावच छृणु तान्य अपि
सर्वभूतेषु येनैकं भावम अव्ययम ईक्षते
अविभक्तं विभक्तेषु तज जञानं विद्धि सात्त्विकम
पृथक्त्वेन तु यज जञानं नानाभावान पृथग्विधान
वेत्ति सर्वेषु भूतेषु तज जञानं विद्धि राजसम
यत तु कृत्स्नवद एकस्मिन कार्ये सक्तम अहैतुकम
अतत्त्वार्थवद अल्पं च तत तामसम उदाहृतम
नियतं सङ्गरहितम अरागद्वेषतः कृतम
अफलप्रेप्सुना कर्म यत तत सात्त्विकम उच्यते
यत तु कामेप्सुना कर्म साहंकारेण वा पुनः
करियते बहुलायासं तद राजसम उदाहृतम
अनुबन्धं कषयं हिंसाम अनपेक्ष्य च पौरुषम
मॊहाद आरभ्यते कर्म यत तत तामसम उच्यते
मुक्तसङ्गॊ ऽनहंवादी धृत्युत्साहसमन्वितः
सिद्ध्यसिद्ध्यॊर निर्विकारः कर्ता सात्त्विक उच्यते
रागी कर्मफलप्रेप्सुर लुब्धॊ हिंसात्मकॊ ऽशुचिः
हर्षशॊकान्वितः कर्ता राजसः परिकीर्तितः
अयुक्तः पराकृतः सतब्धः शठॊ नैकृतिकॊ ऽलसः
विषादी दीर्घसूत्री च कर्ता तामस उच्यते
बुद्धेर भेदं धृतेश चैव गुणतस तरिविधं शृणु
परॊच्यमानम अशेषेण पृथक्त्वेन धनंजय
परवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये
बन्धं मॊक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी
यया धर्मम अधर्मं च कार्यं चाकार्यम एव च
अयथावत परजानाति बुद्धिः सा पार्थ राजसी
अधर्मं धर्मम इति या मन्यते तमसावृता
सर्वार्थान विपरीतांश च बुद्धिः सा पार्थ तामसी
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः
यॊगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी
यया तु धर्मकामार्थान धृत्या धारयते ऽरजुन
परसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी
यया सवप्नं भयं शॊकं विषादं मदम एव च
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी
सुखं तव इदानीं तरिविधं शृणु मे भरतर्षभ
अभ्यासाद रमते यत्र दुःखान्तं च निगच्छति
यत तदग्रे विषम इव परिणामे ऽमृतॊपमम
तत सुखं सात्त्विकं परॊक्तम आत्मबुद्धिप्रसादजम
विषयेन्द्रियसंयॊगाद यत तदग्रे ऽमृतॊपमम
परिणामे विषम इव तत सुखं राजसं समृतम
यद अग्रे चानुबन्धे च सुखं मॊहनम आत्मनः
निद्रालस्यप्रमादॊत्थं तत तामसम उदाहृतम
न तद अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः
सत्त्वं परकृतिजैर मुक्तं यद एभिः सयात तरिभिर गुणैः
बराह्मणक्षत्रियविशां शूद्राणां च परंतप
कर्माणि परविभक्तानि सवभावप्रभवैर गुणैः
शमॊ दमस तपः शौचं कषान्तिर आर्जवम एव च
जञानं विज्ञानम आस्तिक्यं बरह्मकर्म सवभावजम
शौर्यं तेजॊ धृतिर दाक्ष्यं युद्धे चाप्य अपलायनम
दानम ईश्वरभावश च कषात्रं कर्म सवभावजम
कृषिगॊरक्ष्यवाणिज्यं वैश्यकर्म सवभावजम
परिचर्यात्मकं कर्म शूद्रस्यापि सवभावजम
सवे सवे कर्मण्य अभिरतः संसिद्धिं लभते नरः
सवकर्मनिरतः सिद्धिं यथा विन्दति तच छृणु
यतः परवृत्तिर भूतानां येन सर्वम इदं ततम
सवकर्मणा तम अभ्यर्च्य सिद्धिं विन्दति मानवः
शरेयान सवधर्मॊ विगुणः परधर्मात सवनुष्ठितात
सवभावनियतं कर्म कुर्वन नाप्नॊति किल्बिषम
सहजं कर्म कौन्तेय सदॊषम अपि न तयजेत
सर्वारम्भा हि दॊषेण धूमेनाग्निर इवावृताः
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति
सिद्धिं पराप्तॊ यथा बरह्म तथाप्नॊति निबॊध मे
समासेनैव कौन्तेय निष्ठा जञानस्य या परा
बुद्ध्या विशुद्धया युक्तॊ धृत्यात्मानं नियम्य च
शब्दादीन विषयांस तयक्त्वा रागद्वेषौ वयुदस्य च
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः
धयानयॊगपरॊ नित्यं वैराग्यं समुपाश्रितः
अहंकारं बलं दर्पं कामं करॊधं परिग्रहम
विमुच्य निर्ममः शान्तॊ बरह्मभूयाय कल्पते
बरह्मभूतः परसन्नात्मा न शॊचति न काङ्क्षति
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम
भक्त्या माम अभिजानाति यावान यश चास्मि तत्त्वतः
ततॊ मां तत्त्वतॊ जञात्वा विशते तदनन्तरम
सर्वकर्माण्य अपि सदा कुर्वाणॊ मद्व्यपाश्रयः
मत्प्रसादाद अवाप्नॊति शाश्वतं पदम अव्ययम
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः
बुद्धियॊगम उपाश्रित्य मच्चित्तः सततं भव
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात तरिष्यसि
अथ चेत तवम अहंकारान न शरॊष्यसि विनङ्क्ष्यसि
यद अहंकारम आश्रित्य न यॊत्स्य इति मन्यसे
मिथ्यैष वयवसायस ते परकृतिस तवां नियॊक्ष्यति
सवभावजेन कौन्तेय निबद्धः सवेन कर्मणा
कर्तुं नेच्छसि यन मॊहात करिष्यस्य अवशॊ ऽपि तत
ईश्वरः सर्वभूतानां हृद्देशे ऽरजुन तिष्ठति
भरामयन सर्वभूतानि यन्त्रारूढानि मायया
तम एव शरणं गच्छ सर्वभावेन भारत
तत्प्रसादात परां शान्तिं सथानं पराप्स्यसि शाश्वतम
इति ते जञानम आख्यातं गुह्याद गुह्यतरं मया
विमृश्यैतद अशेषेण यथेच्छसि तथा कुरु
सर्वगुह्यतमं भूयः शृणु मे परमं वचः
इष्टॊ ऽसि मे दृढम इति ततॊ वक्ष्यामि ते हितम
मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु
माम एवैष्यसि सत्यं ते परतिजाने परियॊ ऽसि मे
सर्वधर्मान परित्यज्य माम एकं शरणं वरज
अहं तवा सर्वपापेभ्यॊ मॊक्षयिष्यामि मा शुचः
इदं ते नातपस्काय नाभक्ताय कदा चन
न चाशुश्रूषवे वाच्यं न च मां यॊ ऽभयसूयति
य इदं परमं गुह्यं मद्भक्तेष्व अभिधास्यति
भक्तिं मयि परां कृत्वा माम एवैष्यत्य असंशयः
न च तस्मान मनुष्येषु कश चिन मे परियकृत्तमः
भविता न च मे तस्माद अन्यः परियतरॊ भुवि
अध्येष्यते च य इमं धर्म्यं संवादम आवयॊः
जञानयज्ञेन तेनाहम इष्टः सयाम इति मे मतिः
शरद्धावान अनसूयश च शृणुयाद अपि यॊ नरः
सॊ ऽपि मुक्तः शुभाँल लॊकान पराप्नुयात पुण्यकर्मणाम
कच चिद एतच छरुतं पार्थ तवयैकाग्रेण चेतसा
कच चिद अज्ञानसंमॊहः परनष्टस ते धनंजय
अर्जुन उवाच
नष्टॊ मॊहः समृतिर लब्धा तवत्प्रसादान मयाच्युत
सथितॊ ऽसमि गतसंदेहः करिष्ये वचनं तव
संजय उवाच
इत्य अहं वासुदेवस्य पार्थस्य च महात्मनः
संवादम इमम अश्रौषम अद्भुतं रॊमहर्षणम
वयासप्रसादाच छरुतवान एतद गुह्यम अहं परम
यॊगं यॊगेश्वरात कृष्णात साक्षात कथयतः सवयम
राजन संस्मृत्य संस्मृत्य संवादम इमम अद्भुतम
केशवार्जुनयॊः पुण्यं हृष्यामि च मुहुर मुहुः
तच च संस्मृत्य संस्मृत्य रूपम अत्यद्भुतं हरेः
विस्मयॊ मे महान राजन हृष्यामि च पुनः पुनः
यत्र यॊगेश्वरः कृष्णॊ यत्र पार्थॊ धनुर्धरः
तत्र शरीर विजयॊ भूतिर धरुवा नीतिर मतिर मम
संजय उवाच
ततॊ धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम
पुनर एव महानादं वयसृजन्त महारथाः
पाण्डवाः सॊमकाश चैव ये चैषाम अनुयायिनः
दध्मुश च मुदिताः शङ्खान वीराः सागरसंभवान
ततॊ भेर्यश च पेश्यश च करकचा गॊविषाणिकाः
सहसैवाभ्यहन्यन्त ततः शब्दॊ महान अभूत
अथ देवाः सगन्धर्वाः पितरश च जनेश्वर
सिद्धचारणसंघाश च समीयुस ते दिदृक्षया
ऋषयश च महाभागाः पुरस्कृत्य शतक्रतुम
समीयुस तत्र सहिता दरष्टुं तद वैशसं महत
ततॊ युधिष्ठिरॊ दृष्ट्वा युद्धाय सुसमुद्यते
ते सेने सागरप्रख्ये मुहुः परचलिते नृप
विमुच्य कवचं वीरॊ निक्षिप्य च वरायुधम
अवरुह्य रथात तूर्णं पद्भ्याम एव कृताञ्जलिः
पितामहम अभिप्रेक्ष्य धर्मराजॊ युधिष्ठिरः
वाग्यतः परययौ येन पराङ्मुखॊ रिपुवाहिनीम
तं परयान्तम अभिप्रेक्ष्य कुन्तीपुत्रॊ धनंजयः
अवतीर्य रथात तूर्णं भरातृभिः सहितॊ ऽनवयात
वासुदेवश च भगवान पृष्ठतॊ ऽनुजगाम ह
यथामुख्याश च राजानस तम अन्वाजग्मुर उत्सुकाः
अर्जुन उवाच
किं ते वयवसितं राजन यद अस्मान अपहाय वै
पद्भ्याम एव परयातॊ ऽसि पराङ्मुखॊ रिपुवाहिनीम
भीमसेन उवाच
कव गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः
दंशितेष्व अरिसैन्येषु भरातॄन उत्सृज्य पार्थिव
नकुल उवाच
एवंगते तवयि जयेष्ठे मम भरातरि भारत
भीर मे दुनॊति हृदयं बरूहि गन्ता भवान कव नु
सहदेव उवाच
अस्मिन रणसमूहे वै वर्तमाने महाभये
यॊद्धव्ये कव नु गन्तासि शत्रून अभिमुखॊ नृप
संजय उवाच
एवम आभाष्यमाणॊ ऽपि भरातृभिः कुरुनन्दन
नॊवाच वाग्यतः किं चिद गच्छत्य एव युधिष्ठिरः
तान उवाच महाप्राज्ञॊ वासुदेवॊ महामनाः
अभिप्रायॊ ऽसय विज्ञातॊ मयेति परहसन्न इव
एष भीष्मं तथा दरॊणं गौतमं शल्यम एव च
अनुमान्य गुरून सर्वान यॊत्स्यते पार्थिवॊ ऽरिभिः
शरूयते हि पुराकल्पे गुरून अननुमान्य यः
युध्यते स भवेद वयक्तम अपध्यातॊ महत्तरैः
अनुमान्य यथाशास्त्रं यस तु युध्येन महत्तरैः
धरुवस तस्य जयॊ युद्धे भवेद इति मतिर मम
एवं बरुवति कृष्णे तु धार्तराष्ट्रचमूं परति
हाहाकारॊ महान आसीन निःशब्दास तव अपरे ऽभवन
दृष्ट्वा युधिष्ठिरं दूराद धार्तराष्ट्रस्य सैनिकाः
मिथः संकथयां चक्रुर नेशॊ ऽसति कुलपांसनः
वयक्तं भीत इवाभ्येति राजासौ भीष्मम अन्तिकात
युधिष्ठिरः ससॊदर्यः शरणार्थं परयाचकः
धनंजये कथं नाथे पाण्डवे च वृकॊदरे
नकुले सहदेवे च भीतॊ ऽभयेति च पाण्डवः
न नूनं कषत्रियकुले जातः संप्रथिते भुवि
यथास्य हृदयं भीतम अल्पसत्त्वस्य संयुगे
ततस ते कषत्रियाः सर्वे परशंसन्ति सम कौरवान
हृष्टाः सुमनसॊ भूत्वा चैलानि दुधुवुः पृथक
वयनिन्दन्त ततः सर्वे यॊधास तत्र विशां पते
युधिष्ठिरं ससॊदर्यं सहितं केशवेन ह
ततस तत कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम
निःशब्दम अभवत तूर्णं पुनर एव विशां पते
किं नु वक्ष्यति राजासौ किं भीष्मः परतिवक्ष्यति
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाव इति
विवक्षितं किम अस्येति संशयः सुमहान अभूत
उभयॊः सेनयॊ राजन युधिष्ठिरकृते तदा
स विगाह्य चमूं शत्रॊः शरशक्तिसमाकुलाम
भीष्मम एवाभ्ययात तूर्णं भरातृभिः परिवारितः
तम उवाच ततः पादौ कराभ्यां पीड्य पाण्डवः
भीष्मं शांतनवं राजा युद्धाय समुपस्थितम
युधिष्ठिर उवाच
आमन्त्रये तवां दुर्धर्ष यॊत्स्ये तात तवया सह
अनुजानीहि मां तात आशिषश च परयॊजय
भीष्म उवाच
यद्य एवं नाभिगच्छेथा युधि मां पृथिवीपते
शपेयं तवां महाराज पराभावाय भारत
परीतॊ ऽसमि पुत्र युध्यस्व जयम आप्नुहि पाण्डव
यत ते ऽभिलषितं चान्यत तद अवाप्नुहि संयुगे
वरियतां च वरः पार्थ किम अस्मत्तॊ ऽभिकाङ्क्षसि
एवं गते महाराज न तवास्ति पराजयः
अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित
इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः
अतस तवां कलीबवद वाक्यं बरवीमि कुरुनन्दन
हृतॊ ऽसम्य अर्थेन कौरव्य युद्धाद अन्यत किम इच्छसि
युधिष्ठिर उवाच
मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः
युध्यस्व कौरवस्यार्थे ममैष सततं वरः
भीष्म उवाच
राजन किम अत्र साह्यं ते करॊमि कुरुनन्दन
कामं यॊत्स्ये परस्यार्थे बरूहि यत ते विवक्षितम
युधिष्ठिर उवाच
कथं जयेयं संग्रामे भवन्तम अपराजितम
एतन मे मन्त्रय हितं यदि शरेयः परपश्यसि
भीष्म उवाच
न तं पश्यामि कौन्तेय यॊ मां युध्यन्तम आहवे
विजयेत पुमान कश चिद अपि साक्षाच छतक्रतुः
युधिष्ठिर उवाच
हन्त पृच्छामि तस्मात तवां पितामह नमॊ ऽसतु ते
जयॊपायं बरवीहि तवम आत्मनः समरे परैः
भीष्म उवाच
न शत्रुं तात पश्यामि समरे यॊ जयेत माम
न तावन मृत्युकालॊ मे पुनरागमनं कुरु
संजय उवाच
ततॊ युधिष्ठिरॊ वाक्यं भीष्मस्य कुरुनन्दन
शिरसा परतिजग्राह भूयस तम अभिवाद्य च
परायात पुनर महाबाहुर आचार्यस्य रथं परति
पश्यतां सर्वसैन्यानां मध्येन भरातृभिः सह
स दरॊणम अभिवाद्याथ कृत्वा चैव परदक्षिणम
उवाच वाचा दुर्धर्षम आत्मनिःश्रेयसं वचः
आमन्त्रये तवां भगवन यॊत्स्ये विगतकल्मषः
जयेयं च रिपून सर्वान अनुज्ञातस तवया दविज
दरॊण उवाच
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः
शपेयं तवां महाराज पराभावाय सर्वशः
तद युधिष्ठिर तुष्टॊ ऽसमि पूजितश च तवयानघ
अनुजानामि युध्यस्व विजयं समवाप्नुहि
करवाणि च ते कामं बरूहि यत ते ऽभिकाङ्क्षितम
एवं गते महाराज युद्धाद अन्यत किम इच्छसि
अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित
इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः
अतस तवां कलीबवद बरूमॊ युद्धाद अन्यत किम इच्छसि
यॊत्स्यामि कौरवस्यार्थे तवाशास्यॊ जयॊ मया
युधिष्ठिर उवाच
जयम आशास्स्व मे बरह्मन मन्त्रयस्व च मद्धितम
युध्यस्व कौरवस्यार्थे वर एष वृतॊ मया
दरॊण उवाच
धरुवस ते विजयॊ राजन यस्य मन्त्री हरिस तव
अहं च तवाभिजानामि रणे शत्रून विजेष्यसि
यतॊ धर्मस ततः कृष्णॊ यतः कृष्णस ततॊ जयः
युध्यस्व गच्छ कौन्तेय पृच्छ मां किं बरवीमि ते
युधिष्ठिर उवाच
पृच्छामि तवां दविजश्रेष्ठ शृणु मे यद विवक्षितम
कथं जयेयं संग्रामे भवन्तम अपराजितम
दरॊण उवाच
न ते ऽसति विजयस तावद यावद युध्याम्य अहं रणे
ममाशु निधने राजन यतस्व सह सॊदरैः
युधिष्ठिर उवाच
हन्त तस्मान महाबाहॊ वधॊपायं वदात्मनः
आचार्य परणिपत्यैष पृच्छामि तवां नमॊ ऽसतु ते
दरॊण उवाच
न शत्रुं तात पश्यामि यॊ मां हन्याद रणे सथितम
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम
ऋते परायगतं राजन नयस्तशस्त्रम अचेतनम
हन्यान मां युधि यॊधानां सत्यम एतद बरवीमि ते
शस्त्रं चाहं रणे जह्यां शरुत्वा सुमहद अप्रियम
शरद्धेयवाक्यात पुरुषाद एतत सत्यं बरवीमि ते
संजय उवाच
एतच छरुत्वा महाराज भारद्वाजस्य धीमतः
अनुमान्य तम आचार्यं परायाच छारद्वतं परति
सॊ ऽभिवाद्य कृपं राजा कृत्वा चापि परदक्षिणम
उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः
अनुमानये तवां यॊत्स्यामि गुरॊ विगतकल्मषः
जयेयं च रिपून सर्वान अनुज्ञातस तवयानघ
कृप उवाच
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः
शपेयं तवां महाराज पराभावाय सर्वशः
अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित
इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः
तेषाम अर्थे महाराज यॊद्धव्यम इति मे मतिः
अतस तवां कलीबवद बरूमि युद्धाद अन्यत किम इच्छसि
युधिष्ठिर उवाच
हन्त पृच्छामि ते तस्माद आचार्य शृणु मे वचः
संजय उवाच
इत्य उक्त्वा वयथितॊ राजा नॊवाच गतचेतनः
तं गौतमः परत्युवाच विज्ञायास्य विवक्षितम
अवध्यॊ ऽहं महीपाल युध्यस्व जयम आप्नुहि
परीतस तव अभिगमेनाहं जयं तव नराधिप
आशासिष्ये सदॊत्थाय सत्यम एतद बरवीमि ते
एतच छरुत्वा महाराज गौतमस्य वचस तदा
अनुमान्य कृपं राजा परययौ येन मद्रराट
स शल्यम अभिवाद्याथ कृत्वा चाभिप्रदक्षिणम
उवाच राजा दुर्धर्षम आत्मनिःश्रेयसं वचः
अनुमानये तवां यॊत्स्यामि गुरॊ विगतकल्मषः
जयेयं च महाराज अनुज्ञातस तवया रिपून
शल्य उवाच
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः
शपेयं तवां महाराज पराभावाय वै रणे
तुष्टॊ ऽसमि पूजितश चास्मि यत काङ्क्षसि तद अस्तु ते
अनुजानामि चैव तवां युध्यस्व जयम आप्नुहि
बरूहि चैव परं वीर केनार्थः किं ददामि ते
एवं गते महाराज युद्धाद अन्यत किम इच्छसि
अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित
इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः
करिष्यामि हि ते कामं भागिनेय यथेप्सितम
बरवीम्य अतः कलीबवत तवां युद्धाद अन्यत किम इच्छसि
युधिष्ठिर उवाच
मन्त्रयस्व महाराज नित्यं मद्धितम उत्तमम
कामं युध्य परस्यार्थे वरम एतद वृणॊम्य अहम
शल्य उवाच
बरूहि किम अत्र साह्यं ते करॊमि नृपसत्तम
कामं यॊत्स्ये परस्यार्थे वृतॊ ऽसम्य अर्थेन कौरवैः
युधिष्ठिर उवाच
स एव मे वरः सत्य उद्यॊगे यस तवया कृतः
सूतपुत्रस्य संग्रामे कार्यस तेजॊवधस तवया
शल्य उवाच
संपत्स्यत्य एष ते कामः कुन्तीपुत्र यथेप्सितः
गच्छ युध्यस्व विस्रब्धं परतिजाने जयं तव
संजय उवाच
अनुमान्याथ कौन्तेयॊ मातुलं मद्रकेश्वरम
निर्जगाम महासैन्याद भरातृभिः परिवारितः
वासुदेवस तु राधेयम आहवे ऽभिजगाम वै
तत एनम उवाचेदं पाण्डवार्थे गदाग्रजः
शरुतं मे कर्ण भीष्मस्य दवेषात किल न यॊत्स्यसि
अस्मान वरय राधेय यावद भीष्मॊ न हन्यते
हते तु भीष्मे राधेय पुनर एष्यसि संयुगे
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत समम
कर्ण उवाच
न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव
तयक्तप्राणं हि मां विद्धि दुर्यॊधनहितैषिणम
संजय उवाच
तच छरुत्वा वचनं कृष्णः संन्यवर्तत भारत
युधिष्ठिरपुरॊगैश च पाण्डवैः सह संगतः
अथ सैन्यस्य मध्ये तु पराक्रॊशत पाण्डवाग्रजः
यॊ ऽसमान वृणॊति तद अहं वरये साह्यकारणात
अथ तान समभिप्रेक्ष्य युयुत्सुर इदम अब्रवीत
परीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम
अहं यॊत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान
युष्मद अर्थे महाराज यदि मां वृणुषे ऽनघ
युधिष्ठिर उवाच
एह्य एहि सर्वे यॊत्स्यामस तव भरातॄन अपण्डितान
युयुत्सॊ वासुदेवश च वयं च बरूम सर्वशः
वृणॊमि तवां महाबाहॊ युध्यस्व मम कारणात
तवयि पिण्डश च तन्तुश च धृतराष्ट्रस्य दृश्यते
भजस्वास्मान राजपुत्र भजमानान महाद्युते
न भविष्यति दुर्बुद्धिर धार्तराष्ट्रॊ ऽतयमर्षणः
संजय उवाच
ततॊ युयुत्सुः कौरव्यः परित्यज्य सुतांस तव
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम
ततॊ युधिष्ठिरॊ राजा संप्रहृष्टः सहानुजैः
जग्राह कवचं भूयॊ दीप्तिमत कनकॊज्ज्वलम
परत्यपद्यन्त ते सर्वे रथान सवान पुरुषर्षभाः
ततॊ वयूहं यथापूर्वं परत्यव्यूहन्त ते पुनः
अवादयन दुन्दुभींश च शतशश चैव पुष्करान
सिंहनादांश च विविधान विनेदुः पुरुषर्षभाः
रथस्थान पुरुषव्याघ्रान पाण्डवान परेक्ष्य पार्थिवाः
धृष्टद्युम्नादयः सर्वे पुनर जहृषिरे मुदा
गौरवं पाण्डुपुत्राणां मान्यान मानयतां च तान
दृष्ट्वा महीक्षितस तत्र पूजयां चक्रिरे भृशम
सौहृदं च कृपां चैव पराप्तकालं महात्मनाम
दयां च जञातिषु परां कथयां चक्रिरे नृपाः
साधु साध्व इति सर्वत्र निश्चेरुः सतुतिसंहिताः
वाचः पुण्याः कीर्तिमतां मनॊहृदयहर्षिणीः
मलेच्छाश चार्याश च ये तत्र ददृशुः शुश्रुवुस तदा
वृत्तं तत पाण्डुपुत्राणां रुरुदुस ते सगद्गदाः
ततॊ जघ्नुर महाभेरीः शतशश चैव पुष्करान
शङ्खांश च गॊक्षीरनिभान दध्मुर हृष्टा मनस्विनः
[धृ]
एवं वयूढेष्व अनीकेषु मामकेष्व इतरेषु च
के पूर्वं पराहरंस तत्र कुरवः पाण्डवास तथा
[स]
भरातृभिः सहितॊ राजन पुत्रॊ दुर्यॊधनस तव
भीष्मं परमुखतः कृत्वा परययौ सह सेनया
तथैव पाण्डवाः सर्वे भीमसेनपुरॊगमाः
भीष्मेण युद्धम इच्छन्तः परययुर हृष्टमानसाः
कष्वेडाः किल किला शब्दः करकचा गॊविषाणिकाः
भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः
उभयॊः सेनयॊ राजंस ततस ते ऽसमान समद्रवन
वयं परतिनदन्तश च तदासीत तुमुलं महत
महान्त्य अनीकानि महासमुच्छ्रये; समागमे पाण्डव धार्तराष्ट्रयॊः
चकम्पिरे शङ्खमृदङ्ग निस्वनैः; परकम्पितानीव वनानि वायुना
नरेन्द्र नागाश्वरथाकुलानाम; अभ्यायतीनाम अशिवे मुहूर्ते
बभूव घॊषस तुमुलश चमूनां; वातॊद्धुतानाम इव सागराणाम
तस्मिन समुत्थिते शब्दे तुमुले लॊमहर्षणे
भीमसेनॊ महाबाहुः पराणदद गॊवृषॊ यथा
शङ्खदुन्दुभिनिर्घॊषं वारणानां च बृंहितम
सिंहनादं च सैन्यानां भीमसेनरवॊ ऽभयभूत
हयानां हेषमाणानाम अनीकेषु सहस्रशः
सर्वान अभ्यभवच छब्दान भीमसेनस्य निस्वनः
तं शरुत्वा निनदं तस्य सैन्यास तव वितत्रसुः
जीमूतस्येव नदतः शक्राशनिसमस्वनम
वाहनानि च सर्वाणि शकृन मूत्रं परसुस्रुवुः
शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः
दर्शयन घॊरम आत्मानं महाभ्रम इव नारयन
विभीषयंस तव सुतांस तव सेनां समभ्ययात
तम आयान्तं महेष्वासं सॊदर्याः पर्यवारयन
छादयन्तः शरव्रातैर मेघा इव दिवाकरम
दुर्यॊधनश च पुत्रस ते दुर्मुखॊ दुःसहः शलः
दुःशासनश चातिरथस तथा दुर्मर्षणॊ नृप
विविंशतिश चित्रसेनॊ विकर्णश च महारथः
पुरुमित्रॊ जयॊ भॊजः सौमदत्तिश च वीर्यवान
महाचापानि धुन्वन्तॊ जलदा इव विद्युतः
आददानाश च नाराचान निर्मुक्ताशीविषॊपमान
अथ तान दरौपदीपुत्राः सौभद्रश च महारथ
नकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः
धार्तराष्ट्रान परतिययुर अर्दयन्तः शितैः शरैः
वज्रैर इव महावेगैः शिखराणि धराभृताम
तस्मिन परथमसंमर्दे भीम जयातलनिस्वने
तावकानां परेषां च नासीत कश चित पराङ्मुखः
लाघवं दरॊणशिष्याणाम अपश्यं भरतर्षभ
निमित्तवेधिनां राजञ शरान उत्सृजतां भृशम
नॊपशाम्यति निर्घॊषॊ धनुषां कूजतां तथा
विनिश्चेरुः शरा दीप्ता जयॊतींषीव नभस्तलात
सर्वे तव अन्ये महीपालाः परेक्षका इव भारत
ददृशुर दर्शनीयं तं भीमं जञातिसमागमम
ततस ते जातसंरम्भाः परस्परकृतागसः
अन्यॊन्यस्पर्धया राजन वयायच्छन्त महारथाः
कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले
शुशुभाते रणे ऽतीव पटे चित्रगते इव
ततस ते पार्थिवाः सर्वे परगृहीतशरासनाः
सह सैन्याः समापेतुः पुत्रस्य तव शासनात
युधिष्ठिरेण चादिष्टाः पार्थिवास ते सहस्रशः
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम
उभयॊः सेनयॊस तीव्रः सैन्यानां स समागमः
अन्तर धीयत चादित्यः सैन्येन रजसावृतः
परयुद्धानां परभग्नानां पुनरावर्तताम अपि
नात्र सवेषां परेषां वा विशेषः समजायत
तस्मिंस तु तुमुले युद्धे वर्तमाने महाभये
अति सर्वाण्य अनीकानि पिता ते ऽभिव्यरॊचत
[स]
पूर्वाह्णे तस्य रौद्रस्य युद्धम अह्नॊ विशां पते
परावर्तत महाघॊरं राज्ञां देहावकर्तनम
कुरूणां पाण्डवानां च संग्रामे विजिगीषताम
सिंहानाम इव संह्रादॊ दिवम उर्वीं च नादयन
आसीत किल किला शब्दस तलशङ्खरवैः सह
जज्ञिरे सिंहनादाश च शूराणां परतिगर्जताम
तलत्राभिहताश चैव जयाशब्दा भरतर्षभ
पत्तीनां पादशब्दाश च वाजिनां च महास्वनाः
तॊत्त्राङ्कुश निपाताश च आयुधानां च निस्वनाः
घण्टा शब्दाश च नागानाम अन्यॊन्यम अभिधावताम
तस्मिन समुदिते शब्दे तुमुले लॊमहर्षणे
बभूव रथनिर्घॊषः पर्जन्यनिनदॊपमः
ते मनः करूरम आधाय समभित्यक्तजीविताः
पाण्डवान अभ्यवर्तन्त सर्व एवॊच्छ्रितध्वजाः
सवयं शांतनवॊ राजन्न अभ्यधावद धनंजयम
परगृह्य कार्मुकं घॊरं कालदण्डॊपमं रणे
अर्जुनॊ ऽपि धनुर गृह्य गाण्डीवं लॊकविश्रुतम
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि
ताव उभौ कुरुशार्दूलौ परस्परवधैषिणौ
गाङ्गेयस तु रणे पार्थं विद्ध्वा नाकम्पयद बली
तथैव पाण्डवॊ राजन भीष्मं नाकम्पयद युधि
सात्यकिश च महेष्वासः कृतवर्माणम अभ्ययात
तयॊः समभवद युद्धं तुमुलं लॊमहर्षणम
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम
आनर्हतुः शरैर घॊरैस तक्षमाणौ परस्परम
तौ शराचित सर्वाङ्गौ शुशुभाते महाबलौ
वसन्ते पुष्पशबलौ पुष्पिताव इव कुंशुकौ
अभिमन्युर महेष्वासॊ बृहद्बलम अयॊधयत
ततः कॊसलकॊ राजा सौभद्रस्य विशां पते
धवजं चिच्छेद समरे सारथिं च नयपातयत
सौभद्रस तु ततः करुद्धं पातिते रथसारथौ
बृहद्बलं महाराज विव्याध नवभिः शरैः
अथापराभ्यां भल्लाभ्यां पीताभ्याम अरिमर्दनः
धवजम एकेन चिच्छेद पार्ष्णिम एकेन सारथिम
अन्यॊन्यं च शरैस तीक्ष्णैः करुद्धौ राजंस ततक्षतुः
मानिनं समरे दृप्तं कृतवैरं महारथम
भीमसेनस तव सुतं दुर्यॊधनम अयॊधयत
ताव उभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ
अन्यॊन्यं शरवर्षाभ्यां ववृषाते रणाजिरे
तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयॊधिनौ
विस्मयः सर्वभूतानां समपद्यत भारत
दुःशासनस तु नकुलं परत्युद्याय महारथम
अविध्यन निशितैर बाणैर बहुभिर मर्मभेदिभिः
तस्य माद्री सुतः केतुं स शरं च शरासनम
चिच्छेद निशितैर बाणैः परहसन्न इव भारत
अथैनं पञ्चविंशत्या कषुद्रकाणां समार्दयत
पुत्रस तु तव दुर्धर्षॊ नकुलस्य महाहवे
युगेषां चिच्छिदे बाणैर धवजं चैव नयपातयत
दुर्मुखः सहदेवं तु परत्युद्याय महाबलम
विव्याध शरवर्षेण यतमानं महाहवे
सहदेवस ततॊ वीरॊ दुर्मुखस्य महाहवे
शरेण भृशतीक्ष्णेन पातयाम आस सारथिम
ताव अन्यॊन्यं समासाद्य समरे युद्धदुर्मदौ
तरासयेतां शरैर घॊरैः कृतप्रतिकृतैषिणौ
युधिष्ठिरः सवयं राजा मद्रराजानम अभ्ययात
तस्य मद्राधिपश चापं दविधा चिच्छेद मारिष
तद अपास्य धनुश छिन्नं कुन्तीपुत्रॊ युधिष्ठिरः
अन्यकार्मुकम आदाय वेगवद बलवत्तरम
ततॊ मद्रेश्वरं राजा शरैः संनतपर्वभिः
छादयाम आस संक्रुद्धस तिष्ठ तिष्ठेति चाब्रवीत
धृष्टद्युम्नस ततॊ दरॊणम अभ्यद्रवत भारत
तस्य दरॊणः सुसंक्रुद्धः परासु करणं दृढम
तरिधा चिच्छेद समरे यतमानस्य कार्मुकम
शरं चैव महाघॊरं कालदण्डम इवापरम
परेषयाम आस समरे सॊ ऽसय काये नयमज्जत
अथान्यद धनुर आदाय सायकांश च चतुर्दश
दरॊणं दरुपदपुत्रस तु परतिविव्याध संयुगे
ताव अन्यॊन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम
सौमदत्तिं रणे शङ्खॊ रभसं रभसॊ युधि
परत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत
तस्य वै दक्षिणं वीरॊ निर्बिभेद रणे भुजम
सौमदत्तिस तथा शङ्खं जत्रु देशे समाहनत
तयॊः समभवद युद्धं घॊररूपं विशां पते
दृप्तयॊः समरे तूर्णं वृत्रवासवयॊर इव
बाह्लीकं तु रणे करुद्धं करुद्ध रूपॊ विशां पते
अभ्यद्रवद अमेयात्मा धृष्टकेतुर महारथः
बाह्लीकस तु ततॊ राजन धृष्टकेतुम अमर्षणम
शरैर बहुभिर आनर्च्छत सिंहनादम अथानदत
चेदिराजस तु संक्रुद्धॊ बाह्लीकं नवभिः शरैः
विव्याध समरे तूर्णं मत्तॊ मत्तम इव दविपम
तौ तत्र समरे करुद्धौ नर्दन्तौ च मुहुर मुहुः
समीयतुः सुसंक्रुद्धाव अङ्गारक बुधाव इव
राक्षसं करूरकर्माणं करूरकर्मा घटॊत्कचः
अलम्बुसं परत्युदियाद बलं शक्र इवाहवे
घटॊत्कचस तु संक्रुद्धॊ राक्षसं तं महाबलम
नवत्या सायकैस तीक्ष्णैर दारयाम आस भारत
अलम्बुसस तु समरे भैमसेनिं महाबलम
बहुधा वारयाम आस शरैः संनतपर्वभिः
वयभ्राजेतां ततस तौ तु संयुगे शरविक्षतौ
यथा देवासुरे युद्धे बलशक्रौ महाबलौ
शिखण्डी समरे राजन दरौणिम अभ्युद्यतौ बली
अश्वत्थामा ततः करुद्धः शिखण्डिनम अवस्थितम
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा वयकम्पयत
शिखण्ड्य अपि ततॊ राजन दरॊणपुत्रम अताडयत
सायकेन सुपीतेन तीक्ष्णेन निशितेन च
तौ जघ्नतुस तदान्यॊन्यं शरैर बहुविधैर मृधे
भगदत्तं रणे शूरं विराटॊ वाहिनीपतिः
अभ्ययात तवरितॊ राजंस ततॊ युद्धम अवर्तत
विराटॊ भगदत्तेन शरवर्षेण ताडितः
अभ्यवर्षत सुसंक्रुद्धॊ मेघॊ वृष्ट्या इवाचलम
भगदत्तस ततस तूर्णं विराटं पृथिवीपतिम
छादयाम आस समरे मेघः सूर्यम इवॊदितम
बृहत कषत्रं तु कैकेयं कृपः शारद्वतॊ ययौ
तं कृपः शरवर्षेण छादयाम आस भारत
गौतमं केकयः करुद्धः शरवृष्ट्याभ्यपूरयत
ताव अन्यॊन्यं हयान हत्वा धनुषी विनिकृत्य वै
विरथाव असियुद्धाय समीयतुर अमर्षणौ
तयॊस तद अभवद युद्धं घॊररूपं सुदारुणम
दरुपदस तु ततॊ राजा सैन्धवं वै जयद्रथम
अभ्युद्ययौ संप्रहृष्टॊ हृष्टरूपं परंतप
ततः सैन्धवकॊ राजा दरुपदं विशिखैस तरिभिः
ताडयाम आस समरे स च तं परत्यविध्यत
तयॊः समभवद युद्धं घॊररूपं सुदारुणम
ईक्षितृप्रीतिजननं शुक्राङ्गारकयॊर इव
विकर्णस तु सुतस तुभ्यं सुत सॊमं महाबलम
अभ्ययाज जवनैर अश्वैस ततॊ युद्धम अवर्तत
विकर्णः सुत सॊमं तु विद्ध्वा नाकम्पयच छरैः
सुत सॊमॊ विकर्णं च तद अद्भुतम इवाभवत
सुशर्माणं नरव्याघ्रं चेकितानॊ महारथः
अभ्यद्रवत सुसंक्रुद्धः पाण्डवार्थे पराक्रमी
सुशर्मा तु महाराज चेकितानं महारथम
महता शरवर्षेण वारयाम आस संयुगे
चेकितानॊ ऽपि संरब्धः सुशर्माणं महाहवे
पराच्छादयत तम इषुभिर महामेघ इवाचलम
शकुनिः परतिविन्ध्यं तु पराक्रान्तं पराक्रमी
अभ्यद्रवत राजेन्द्र मत्तॊ मत्तम इव दविपम
यौधिष्ठिरस तु संक्रुद्धः सौबलं निशितैः शरैः
वयदारयत संग्रामे मघवान इव दानवम
शकुनिः परतिविन्ध्यं तु परतिविध्यन्तम आहवे
वयदारयन महाप्राज्ञः शरैः संनतपर्वभिः
सुदक्षिणं तु राजेन्द्र काम्बॊजानां महारथम
शरुतकर्मा पराक्रान्तम अभ्यद्रवत संयुगे
सुदक्षिणस तु समरे साहदेविं महारथम
विद्ध्वा नाकम्पयत वै मैनाकम इव पर्वतम
शरुतकर्मा ततः करुद्धः काम्बॊजानां महारथम
शरैर बहुभिर आनर्छद दरयन्न इव सर्वशः
इरावान अथ संक्रुद्धः शरुतायुषम अमर्षणम
परत्युद्ययौ रणे यत्तॊ यत्त रूपतरं ततः
आर्जुनिस तस्य समरे हयान हत्वा महारथः
ननाद सुमहन नादं तत सैन्यं परत्यपूरयत
शरुतायुस तव अथ संक्रुद्धः फाल्गुनेः समरे हयान
निजघान गदाग्रेण ततॊ युद्धम अवर्तत
विन्दानुविन्दाव आवन्त्यौ कुन्तिभॊजं महारथम
स सेनं स सुतं वीरं संससज्जतुर आहवे
तत्राद्भुतम अपश्याम आवन्त्यानां पराक्रमम
यद अयुध्यन सथिरा भूत्वा महत्या सेनया सह
अनुविन्दस तु गदया कुन्तिभॊजम अताडयत
कुन्तिभॊजस ततस तूर्णं शरव्रातैर अवाकिरत
कुन्तिभॊजसुतश चापि विन्दं विव्याध सायकैः
स च तं परतिविव्याध तद अद्भुतम इवाभवत
केकया भरातरः पञ्च गान्धारान पञ्च मारिष
स सैन्यास ते स सैन्यांश च यॊधयाम आसुर आहवे
वीरबाहुश च ते पुत्रॊ वैराटिं रथसत्तमम
उत्तरं यॊधयाम आस विव्याध निशितैः शरैः
उत्तरश चापि तं घॊरं विव्याध निशितैः शरैः
चेदिराट समरे राजन्न उलूकं समभिद्रवत
उलूकश चापि तं बाणैर निशितैर लॊमवाहिभिः
तयॊर युद्धं समभवद घॊररूपं विशां पते
दारयेतां सुसंक्रुद्धाव अन्यॊन्यम अपराजितौ
एवं दवंद्व सहस्राणि रथवारणवाजिनाम
पदातीनां च समरे तव तेषां च संकुलम
मुहूर्तम इव तद युद्धम आसीन मधुरदर्शनम
तत उन्मत्तवद राजन न पराज्ञायत किं चन
गजॊ गजेन समरे रथी च रथिनं ययौ
अश्वॊ ऽशवं समभिप्रेत्य पदातिश च पदातिनम
ततॊ युद्धं सुदुर्धर्षं वयाकुलं समपद्यत
शूराणां समरे तत्र समासाद्य परस्परम
तत्र देवर्षयः सिद्धाश चारणाश च समागताः
परैक्षन्त तद रणं घॊरं देवासुररणॊपमम
ततॊ दन्ति सहस्राणि रथानां चापि मारिष
अश्वौघाः पुरुषौघाश च विपरीतं समाययुः
तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः
सादिनश च नरव्याघ्र युध्यमाना मुहुर मुहुः
[स]
राजञ शतसहस्राणि तत्र तत्र तदा तदा
निर्मर्यादं परयुद्धानि तत ते वक्ष्यामि भारत
न पुत्रः पितरं जज्ञे न पिता पुत्रम औरसम
न भराता भरातरं तत्र सवस्रीयं न च मातुलः
मातुलं न च सवस्रीयॊ न सखायं सखा तथा
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह
रथानीकं नरव्याघ्राः के चिद अभ्यपतन रथैः
अभज्यन्त युगैर एव युगानि भरतर्षभ
रथेषाश च रथेषाभिः कूबरा रथकूबरैः
संहता संहतैः के चित परस्परजिघांसवः
न शेकुश चलितुं के चित संनिपत्य रथा रथैः
परभिन्नास तु महाकायाः संनिपत्य गजा गजैः
बहुधादारयन करुद्धा विषाणैर इतरेतरम
स तॊमरपताकैश च वारणाः परवारणैः
अभिसृत्य महाराज वेगवद्भिर महागजैः
दन्तैर अभिहतास तत्र चुक्रुशुः परमातुराः
अभिनीताश च शिक्षाभिस तॊत्त्राङ्कुश समाहताः
सुप्रभिन्नाः परभिन्नानां संमुखाभिमुखा ययुः
परभिन्नैर अपि संसक्ताः के चित तत्र महागजाः
करौञ्चवन निनदं मुक्त्वा पराद्रवन्त ततस ततः
सम्यक परणीता नागाश च परभिन्नकरटा मुखाः
ऋष्टितॊमरनाराचैर निर्विद्धा वरवारणाः
विनेदुर भिन्नमर्माणॊ निपेतुश च गतासवः
पराद्रवन्त दिशः के चिन नदन्तॊ भैरवान रवान
गजानां पादरक्षास तु वयूढॊरस्काः परहारिणः
ऋष्टिभिश च धनुर्भिश च विमलैश च परश्वधैः
गदाभिर मुसलैश चैव भिण्डिपालैः स तॊमरैः
आयसैः परिघैश चैव निस्त्रिंशैर विमलैः शितैः
परगृहीतैः सुसंरब्धा धावमानास ततस ततः
वयदृश्यन्त महाराज परस्परजिघांसवः
राजमानाश च निस्त्रिंशाः संसिक्ता नरशॊणितैः
परत्यदृश्यन्त शूराणाम अन्यॊन्यम अभिधावताम
अवक्षिप्तावधूतानाम असीनां वीरबाहुभिः
संजज्ञे तुमुलः शब्दः पततां परमर्मसु
गदामुसलरुग्णानां भिन्नानां च वरासिभिः
दन्ति दन्ताव अभिन्नानां मृदितानां च दन्तिभिः
तत्र तत्र नरौघाणां करॊशताम इतरेतरम
शुश्रुवुर दारुणा वाचः परेतानाम इव भारत
हयैर अपि हयारॊहाश चामरापीड धारिभिः
हंसैर इव महावेगैर अन्यॊन्यम अभिदुद्रुवुः
तैर विमुक्ता महाप्रासा जाम्बूनदविभूषणाः
आशुगा विमलास तीक्ष्णाः संपेतुर भुजगॊपमाः
अश्वैर अग्र्यजवैः के चिद आप्लुत्य महतॊ रथान
शिरांस्य आददिरे वीरा रथिनाम अश्वसादिनः
बहून अपि हयारॊहान भल्लैः संनतपर्वभिः
रथी जघान संप्राप्य बाणगॊचरम आगतान
नगमेघप्रतीकाशाश चाक्षिप्य तुरगान गजाः
पादैर एवावमृद्नन्त मत्ताः कनकभूषणाः
पाट्यमानेषु कुम्भेषु पार्श्वेष्व अपि च वारणाः
परासैर विनिहताः के चिद विनेदुः परमातुराः
साश्वारॊहान हयान के चिद उन्मथ्य वरवारणाः
सहसा चिक्षिपुस तत्र संकुले भैरवे सति
साश्वारॊहान विषाणाग्रैर उत्क्षिप्य तुरगान दविपाः
रथौघान अवमृद्नन्तः स धवजान परिचक्रमुः
पुंस्त्वाद अभिमदत्वाच च के चिद अत्र महागजाः
साश्वारॊहान हयञ जघ्नुः करैः स चरणैस तथा
के चिद आक्षिप्य करिणः साश्वान अपि रथान करैः
विकर्षन्तॊ दिशः सर्वाः समीयुः सर्वशब्दगाः
आशुगा विमलास तीक्ष्णाः संपेतुर भुजगॊपमाः
नराश्वकायान निर्भिद्य लौहानि कवचानि च
निपेतुर विमलाः शक्त्यॊ वीरबाहुभिर अर्पिताः
महॊल्का परतिमा घॊरास तत्र तत्र विशां पते
दवीपिचर्मावनद्धैश च वयाघ्रचर्म शयैर अपि
विकॊशैर विमलैः खड्गैर अभिजघ्नुः परान रणे
अभिप्लुतम अभिक्रुद्धम एकपार्श्वावदारितम
विदर्शयन्तः संपेतुः खड्गचर्म परश्वधैः
शक्तिभिर दारिताः के चित संछिन्नाश च परश्वधैः
हस्तिभिर मृदिताः के चित कषुण्णाश चान्ये तुरंगमैः
रथनेमि निकृत्ताश च निकृत्ता निशितैः शरैः
विक्रॊशन्ति नरा राजंस तत्र तत्र सम बान्धवान
पुत्रान अन्ये पितॄन अन्ये भरातॄंश च सह बान्धवैः
मातुलान भागिनेयांश च परान अपि च संयुगे
विकीर्णान्त्राः सुबहवॊ भग्नसक्थाश च भारत
बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः
करन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः
तृष्णा परिगताः के चिद अल्पसत्त्वा विशां पते
भूमौ निपतिताः संख्ये जलम एव ययाचिरे
रुधिरौघपरिक्लिन्ना कलिश्यमानाश च भारत
वयनिन्दन भृशम आत्मानं तव पुत्रांश च संगतान
अपरे कषत्रियाः शूराः कृतवैराः परस्परम
नैवं शस्त्रं विमुञ्चन्ति नैव करन्दन्ति मारिष
तर्जयन्ति च संहृष्टास तत्र तत्र परस्परम
निर्दश्य दशनैश चापि करॊधात सवदशनच छदान
भरुकुटी कुटिलैर वक्त्रैः परेक्षन्ते च परस्परम
अपरे कलिश्यमानास तु वरणार्ताः शरपीडिताः
निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः
अन्ये तु विरथाः शूरा रथम अन्यस्य संयुगे
परार्थयाना निपतिताः संक्षुण्णा वरवारणैः
अशॊभन्त महाराज पुष्पिता इव किंशुकाः
संबभूवुर अनीकेषु बहवॊ भैरवस्वनाः
वर्तमाने महाभीमे तस्मिन वीरवरक्षये
अहनत तु पिता पुत्रं पुत्रश च पितरं रणे
सवस्रीयॊ मातुलं चापि सवस्रीयं चापि मातुलः
सखायं च सखा राजन संबन्धी बान्धवं तथा
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह
वर्तमाने भये तस्मिन निर्मर्यादे महाहवे
भीष्मम आसाद्य पार्थानां वाहिनी समकम्पत
केतुना पञ्च तारेण तालेन भरतर्षभ
राजतेन महाबाहुर उच्छ्रितेन महारथे
बभौ भीष्मस तदा राजंश चन्द्रमा इव मेरुणा
[स]
गतपूर्वाह्णभूयिष्ठे तस्मिन्न अहनि दारुणे
वर्तमाने महारौद्रे महावीर वरक्षये
दुर्मुखः कृतवर्मा च कृपः शल्यॊ विविंशतिः
भीष्मं जुगुपुर आसाद्य तव पुत्रेण चॊदिताः
एतैर अतिरथैर गुप्तः पञ्चभिर भरतर्षभ
पाण्डवानाम अनीकानि विजगाहे महारथः
चेदिकाशिकरूषेषु पाञ्चालेषु च भारत
भीष्मस्य बहुधा तालश चरन केतुर अदृश्यत
शिरांसि च तदा भीष्मॊ बाहूंश चापि सहायुधान
निचकर्त महावेगैर भल्लैः संनतपर्वभिः
नृत्यतॊ रथमार्गेषु भीष्मस्य भरतर्षभ
के चिद आर्तस्वरं चक्रुर नागा मर्मणि ताडिताः
अभिमन्युः सुसंक्रुद्धः पिशङ्गैस तुरगॊत्तमैः
संयुक्तं रथम आस्थाय परायाद भीष्मरथं परति
जाम्बूनदविचित्रेण कर्णिकारेण केतुना
अभ्यवर्षत भीष्मं च तांश चैव रथसत्तमान
स तालकेतॊस तीक्ष्णेन केतुम आहत्य पत्रिणा
भीष्मेण युयुधे वीरस तस्य चानुचरैः सह
कृतवर्माणम एकेन शल्यं पञ्चभिर आयसैः
विद्ध्वा नवभिर आनर्छच छिताग्रैः परपितामहम
पूर्णायतविसृष्टेन सम्यक परणिहितेन च
धवजम एकेन विव्याध जाम्बूनदविभूषितम
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना
जहार सारथेः कायाच छिरः संनतपर्वणा
धनुश चिच्छेद भल्लेन कार्तस्वरविभूषितम
कृपस्य निशिताग्रेण तांश च तीक्ष्णमुखैः शरैः
जघान परमक्रुद्धॊ नृत्यन्न इव महारथः
तस्य लाघवम उद्वीक्ष्य तुतुषुर देवता अपि
लब्धलक्ष्यतया कर्ष्णेः सर्वे भीष्म मुखा रथाः
सत्त्ववन्तम अमन्यन्त साक्षाद इव धनंजयम
तस्य लाघवमार्गस्थम अलातसदृशप्रभम
दिशः पर्यपतच चापं गाण्डीवम इव घॊषवत
तम आसाद्य महावेगैर भीष्मॊ नवभिर आशुगैः
विव्याध समरे तूर्णम आर्जुनिं परवीरहा
धवजं चास्य तरिभिर भल्लैश चिच्छेद परमौजसः
सारथिं च तरिभिर बाणैर अजघान यतव्रतः
तथैव कृतवर्मा च कृपः शल्यश च मारिष
विद्ध्वा नाकम्पयत कार्ष्णिं मैनाकम इव पर्वतम
स तैः परिवृतः शूरॊ धार्तराष्ट्रैर महारथैः
ववर्ष शरवर्षाणि कार्ष्णिः पञ्च रथान परति
ततस तेषां महास्त्राणि संवार्य शरवृष्टिभिः
ननाद बलवा कार्ष्णिर भीष्माय विसृजञ शरान
तत्रास्य सुमहद राजन बाह्वॊर बलम अदृश्यत
यतमानस्य समरे भीष्मम अर्दयतः शरैः
पराक्रान्तस्य तस्यैव भीष्मॊ ऽपि पराहिणॊच छरान
स तांश चिच्छेद समरे भीष्मचापच्युताञ शरान
ततॊ धवजम अमॊघेषुर भीष्मस्य नवभिः शरैः
चिच्छेद समरे वीरस तत उच्चुक्रुशुर जनाः
स राजतॊ महास्कन्धस तालॊ हेमविभूषितः
सौभद्र विशिखैश छिन्नः पपात भुवि भारत
धवजं सौभद्र विशिखैः पतितं भरतर्षभ
दृष्ट्वा भीमॊ ऽनदद धृष्टः सौभद्रम अभिहर्षयन
अथ भीष्मॊ महास्त्राणि दिव्यानि च बहूनि च
परादुश्चक्रे महारौद्रः कषणे तस्मिन महाबलः
ततः शतसहस्रेण सौभद्रं परपितामहः
अवाकिरद अमेयात्मा शराणां नतपर्वणाम
ततॊ दश महेष्वासाः पाण्डवानां महारथाः
रक्षार्थम अभ्यधावन्त सौभद्रं तवरिता रथैः
विराटः सह पुत्रेण धृष्टद्युम्नश च पार्षतः
भीमश च केकयाश चैव सात्यकिश च विशां पते
जवेनापततां तेषां भीष्मः शांतनवॊ रणे
पाञ्चाल्यं तरिभिर आनर्छत सात्यकिं निशितैः शरैः
पूर्णायतविसृष्टेन कषुरेण निशितेन च
धवजम एकन चिच्छेद भीमसेनस्य पत्रिणा
जाम्बूनदमयः केतुः केसरी नरसत्तम
पपात भीमसेनस्य भीष्मेण मथितॊ रथात
भीमसेनस तरिभिर विद्ध्वा भीष्मं शांतनवं रणे
कृपम एकेन विव्याध कृतवर्माणम अष्टभिः
परगृहीताग्र हस्तेन वैराटिर अपि दन्तिना
अभ्यद्रवत राजानं मद्राधिपतिम उत्तरः
तस्य वारणराजस्य जवेनापततॊ रथी
शल्यॊ निवारयाम आस वेगम अप्रतिमं रणे
तस्य करुद्धः स नागेन्द्रॊ बृहतः साधु वाहिनः
पदा युगम अधिष्ठाय जघान चतुरॊ हयान
स हताश्वे रथे तिष्ठन मद्राधिपतिर आयसीम
उत्तरान्त करीं शक्तिं चिक्षेप भुजगॊपमाम
तया भिन्नतनु तराणः परविश्य विपुलं तमः
स पपात गजस्कन्धात परमुक्ताङ्कुश तॊमरः
समादाय च शल्यॊ ऽसिम अवप्लुत्य रथॊत्तमात
वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम
भिन्नमर्मा शरव्रातैश छिन्नहस्तः स वारणः
भीमम आर्तस्वरं कृत्वा पपात च ममार च
एतद ईदृशकं कृत्वा मद्रराजॊ महारथः
आरुरॊह रथं तूर्णं भास्वरं कृतवर्मणः
उत्तरं निहतं दृष्ट्वा वैराटिर भरातरं शुभम
कृतवर्मणा च सहितं दृष्ट्वा शल्यम अवस्थितम
शङ्खः करॊधात परजज्वाल हविषा हव्यवाड इव
स विस्फार्य महच चापं कार्तस्वरविभूषितम
अभ्यधावज जिघांसन वै शल्यं मद्राधिपं बली
महता रथवंशेन समन्तात परिवारितः
सृजन बाणमयं वर्षं परायाच छल्य रथं परति
तम आपतन्तं संप्रेक्ष्य मत्तवारणविक्रमम
तावकानां रथा सप्त समन्तात पर्यवारयन
मद्रराजं परीप्सन्तॊ मृत्यॊर दंष्ट्रान्तरं गतम
ततॊ भीष्मॊ महाबाहुर विनद्य जलदॊ यथा
तालमात्रं धनुर गृह्य शङ्खम अभ्यद्रवद रणे
तम उद्यतम उदीक्ष्याथ महेष्वासं महाबलम
संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः
तत्रार्जुनः संत्वरितः शङ्खस्यासीत पुरःसरः
भीष्माद रक्ष्यॊ ऽयम अद्येति ततॊ युद्धम अवर्तत
हाहाकारॊ महान आसीद यॊधानां युधि युध्यताम
तेजस तेजसि संपृक्तम इत्य एवं विस्मयं ययुः
अथ शल्यॊ गदापाणिर अवतीर्य महारथात
शङ्खस्य चतुरॊ वाहान अहनद भरतर्षभ
स हताश्वाद रथात तूर्णं खड्गम आदाय विद्रुतः
बीभत्सॊः सयन्दनं पराप्य ततः शान्तिम अविन्दत
ततॊ भीष्मरथात तूर्णम उत्पतन्ति पतत्रिणः
यैर अन्तरिक्षं भूमिश च सर्वतः समवस्तृतम
पाञ्चालान अथ मत्स्यांश च केकयांश च परभद्रकान
भीष्मः परहरतां शरेष्ठः पातयाम आस मार्गणैः
उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम
अभ्यद्रवत पाञ्चाल्यं दरुपदं सेनया वृतम
परियं संबन्धिनं राजञ शरान अवकिरन बहून
अग्निनेव परदग्धानि वनानि शिशिरात्यये
शरदग्धान्य अदृश्यन्त सैन्यानि दरुपदस्य ह
अतिष्ठत रणे भीष्मॊ विधूम इव पावकः
मध्यंदिने यथादित्यं तपन्तम इव तेजसा
न शेकुः पाण्डवेयस्य यॊधा भीष्मं निरीक्षितुम
वीक्षां चक्रुः समन्तात ते पाण्डवा भयपीडिताः
तरातारं नाध्यगच्छन्त गावः शीतार्दिता इव
हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते
हाहाकारॊ महान आसीत पाण्डुसैन्येषु भारत
ततॊ भीष्मः शांतनवॊ नित्यं मण्डलकार्मुकः
मुमॊच बाणान दीप्ताग्रान अहीन आशीविषान इव
शरैर एकायनीकुर्वन दिशः सर्वा यतव्रतः
जघान पाण्डवरथान आदिश्यादिश्य भारत
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः
पराप्ते चास्तं दिनकरे न पराज्ञायत किं चन
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे
अवहारम अकुर्वन्त सैन्यानां भरतर्षभ
[स]
कृते ऽवहारे सैन्यानां परथमे भरतर्षभ
भीष्मे च युधि संरब्धे हृष्टे दुर्यॊधने तथा
धर्मराजस ततस तूर्णम अभिगम्य जनार्दनम
भरातृभिः सहितः सर्वैः सर्वैश चैव जनेश्वरैः
शुचा परमया युक्तश चिन्तयानः पराजयम
वार्ष्णेयम अब्रवीद राजन दृष्ट्वा भीष्मस्य विक्रमम
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम
शरैर दहन्तं सैन्यं मे गरीष्मे कक्षम इवानलम
कथम एनं महात्मानां शक्ष्यामः परतिवीक्षितुम
लेलिह्यमानं सैन्यं मे हविष्मन्तम इवानलम
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम
दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम
शक्यॊ जेतुं यमः करुद्धॊ वज्रपाणिश च संयुगे
वरुणः पाशभृच चापि कुबेरॊ वा गदाधरः
न तु भीष्मॊ महातेजाः शक्यॊ जेतुं महाबलः
सॊ ऽहम एवंगते मग्नॊ भीष्मागाध जले ऽलपवः
आत्मनॊ बुद्धिदौर्बल्याद भीष्मम आसाद्य केशव
वनं यास्यामि गॊविन्द शरेयॊ मे तत्र जीवितुम
न तव इमान पृथिवीपालान दातुं भीष्माय मृत्यवे
कषपयिष्यति सेनां मे कृष्ण भीष्मॊ महास्त्रवित
यथानलं परज्वलितं पतंगाः समभिद्रुताः
विनाशायैव गच्छन्ति तथा मे सैनिकॊ जनः
कषयं नीतॊ ऽसमि वार्ष्णेय राज्यहेतॊः पराक्रमी
भरातरश चैव मे वीराः कर्शिताः शरपीडिताः
मृत कृते भरातृसौहार्दाद राज्याद भरष्टास तथा सुखात
जीवितं बहु मन्ये ऽहं जीवितं हय अद्य दुर्लभम
जीवितस्य हि शेषेण तपस तप्स्यामि दुश्चरम
न घातयिष्यामि रणे मित्राणीमानि केशव
रथान मे बहुसाहस्रान दिव्यैर अस्त्रैर महाबलः
घातयत्य अनिशं भीष्मः परवराणां परहारिणाम
किं नु कृत्वा कृतं मे सयाद बरूहि माधव माचिरम
मध्यस्थम इव पश्यामि समरे सव्यसाचिनम
एकॊ भीमः परं शक्त्या युध्यत्य एष महाभुजः
केवलं बाहुवीर्येण कषत्रधर्मम अनुस्मरन
गदया वीर घातिन्या यथॊत्साहं महामनाः
करॊत्य असुकरं कर्म गजाश्वरथपत्तिषु
नालम एष कषयं कर्तुं परसैन्यस्य मारिष
आर्जवेनैव युद्धेन वीर वर्षशतैर अपि
एकॊ ऽसत्रवित सखा ते ऽयं सॊ ऽपय अस्मान समुपेक्षते
निर्दह्यमानान भीष्मेण दरॊणेन च महात्मना
दिव्यान्य अस्त्राणि भीष्मस्य दरॊणस्य च महात्मनः
धक्ष्यन्ति कषत्रियान सर्वान परयुक्तानि पुनः पुनः
कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः
कषपयिष्यति नॊ नूनं यादृशॊ ऽसय पराक्रमः
स तवं पश्य महेष्वासं यॊगीष्वर महारथम
यॊ भीष्मं शमयेत संख्ये दावाग्निं जलदॊ यथा
तव परसादाद गॊविन्द पाण्डवा निहतद्विषः
सवराज्यम अनुसंप्राप्ता मॊदिष्यन्ति स बान्धवाः
एवम उक्त्वा ततः पार्थॊ धयायन्न आस्ते महामनाः
चिरम अन्तर मना भूत्वा शॊकॊपहतचेतनः
शॊकार्तं पाण्डवं जञात्वा दुःखेन हतचेतसम
अब्रवीत तत्र गॊविन्दॊ हर्षयन सर्वपाण्डवान
मा शुचॊ भरतश्रेष्ठ न तवं शॊचितुम अर्हसि
यस्य ते भरातरः शूराः सर्वलॊकस्य धन्विनः
अहं च परियकृद राजन सात्यकिश च महारथः
विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश च पार्षतः
तथैव सबलाः सर्वे राजानॊ राजसत्तम
तवत्प्रसादं परतीक्षन्ते तवद भक्ताश च विशां पते
एष ते पार्षतॊ नित्यं हितकामः परिये रतः
सेनापत्यम अनुप्राप्तॊ धृष्टद्युम्नॊ महाबलः
शिखण्डी च महाबाहॊ भीष्मस्य निधनं किल
एतच छरुत्वा ततॊ राजा धृष्टद्युम्नं महारथम
अब्रवीत समितौ तस्यां वासुदेवस्य शृण्वतः
धृष्टद्युम्न निबॊधेदं यत तवा वक्ष्यामि मारिष
नातिक्रम्यं भवेत तच च वचनं मम भाषितम
भवान सेनापतिर मह्यं वासुदेवेन संमतः
कार्त्तिकेयॊ यथा नित्यं देवानाम अभवत पुरा
तथा तवम अपि पाण्डूनां सेनानीः पुरुषर्षभ
स तवं पुरुषशार्दूल विक्रम्य जहि कौरवान
अहं च तवानुयास्यामि भीमः कृष्णश च मारिष
माद्रीपुत्रौ च सहितौ दरौपदेयाश च दंशिताः
ये चान्ये पृथिवीपालाः परधानाः पुरुषर्षभ
तत उद्धर्षयन सर्वान धृष्टद्युम्नॊ ऽभयभाषत
अहं दरॊणान्तकः पार्थ विहितः शम्भुना पुरा
रणे भीष्मं तथा दरॊणं कृपं शल्यं जयद्रथम
सर्वान अद्य रणे दृप्तान परतियॊत्स्यामि पार्थिव
अथॊत्क्रुष्टं महेष्वासैः पाण्डवैर युद्धदुर्मदैः
समुद्यते पार्थिवेन्द्र पार्षते शत्रुसूदने
तम अब्रवीत ततः पार्थः पार्षतं पृतना पतिम
वयूहः करौञ्चारुणॊ नाम सर्वशत्रुनिबर्हणः
यं बृहस्पतिर इन्द्राय तदा देवासुरे ऽबरवीत
तं यथावत परतिव्यूह परानीक विनाशनम
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह
तथॊक्तः स नृदेवेन विष्णुर वज्रभृता इव
परभाते सर्वसैन्यानाम अग्रे चक्रे धनंजयम
आदित्यपथगः केतुस तस्याद्भुत मनॊरमः
शासनात पुरुहूतस्य निर्मितॊ विश्वकर्मणा
इन्द्रायुधसवर्णाभिः पताकाभिर अलंकृतः
आकाशग इवाकाशे गन्धर्वनगरॊपमः
नृत्यमान इवाभाति रथचर्यासु मारिष
तेन रत्नवता पार्थः स च गाण्डीवधन्वना
बभूव परमॊपेतः सवयम्भूर इव भानुना
शिरॊ ऽभूद दरुपदॊ राजा महत्या सेनया वृतः
कुन्तिभॊजश च चैद्यश च चक्षुष्य आस्तां जनेश्वर
दाशार्णकाः परयागाश च दाश्रेरक गणैः सह
अनूपगाः किराताश च गरीवायां भरतर्षभ
पटच चरैश च हुण्डैश च राजन पौरवकैस तथा
निषादैः सहितश चापि पृष्ठम आसीद युधिष्ठिरः
पक्षौ तु भीमसेनश च धृष्टद्युम्नश च पार्षतः
दरौपदेयाभिमन्युश च सात्यकिश च महारथः
पिशाचा दरदाश चैव पुण्ड्राः कुण्डी विषैः सह
मडका कडकाश चैव तङ्गणाः परपङ्गणाः
बाह्लिकास तित्तिराश चैव चॊलाः पाण्ड्याश च भारत
एते जनपदा राजन दक्षिणं पक्षम आश्रिताः
अग्निवेष्या जगत तुण्डा पलदाशाश च भारत
शबरास तुम्बुपाश चैव वत्साश च सह नाकुलैः
नकुलः सहदेवश च वामं पार्श्वं समाश्रिताः
रथानाम अयुतं पक्षौ शिरश च नियुतं तथा
पृष्ठम अर्बुदम एवासीत सहस्राणि च विंशतिः
गरीवायां नियुतं चापि सहस्राणि च सप्ततिः
पक्षकॊटिप्रपक्षेषु पक्षान्तेषु च वारणाः
जग्मुः परिवृता राजंश चलन्त इव पर्वताः
जघनं पालयाम आस विराटः सह केकयैः
काशिराजश च शैब्यश च रथानाम अयुतैस तरिभिः
एवम एतं महाव्यूहं वयूह्य भारत पाण्डवाः
सूर्यॊदयनम इच्छन्तः सथिता युद्धाय दंशिताः
तेषाम आदित्यवर्णानि विमलानि महान्ति च
शवेतच छत्राण्य अशॊभन्त वारणेषु रथेषु च
[स]
करौञ्चं ततॊ महाव्यूहम अभेद्यं तनयस तव
वयूढं दृष्ट्वा महाघॊरं पार्थेनामित तेजसा
आचार्यम उपसंगम्य कृपं शल्यं च मारिष
सौमदत्तिं विकर्णं च अश्वत्थामानम एव च
दुःशासनादीन भरातॄंश च स सर्वान एव भारत
अन्यांश च सुबहूञ शूरान युद्धाय समुपागतान
पराहेदं वचनं काले हर्षयंस तनयस तव
नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः
एकैकशः समर्थाहि यूयं सर्वे महारथाः
पाण्डुपुत्रान रणे हन्तुं स सैन्यान किम उ संहताः
अपर्याप्तं तद अस्माकं बलं भीष्माभिरक्षितम
पर्याप्तं तव इदम एतेषां बलं पार्थिव सत्तमाः
संस्थानाः शूरसेनाश च वेणिकाः कुकुरास तथा
आरेवकास तरिगर्ताश च मद्रका यवनास तथा
शत्रुंजयेन सहितास तथा दुःशासनेन च
विकर्णेन च वीरेण तथा नन्दॊपनन्दकैः
चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः
भीष्मम एवाभिरक्षन्तु सह सैन्यपुरस्कृताः
ततॊ दरॊणश च भीष्मश च तव पुत्रश च मारिष
अव्यूहन्त महाव्यूहं पाण्डूनां परतिबाधने
भीष्मः सैन्येन महता समन्तात परिवारितः
ययौ परकर्षन महतीं वाहिनीं सुरराड इव
तम अन्वयान महेष्वासॊ भारद्वाजः परतापवान
कुन्तलैश च दशार्णैश च मागधैश च विशां पते
विदर्भैर मेकलैश चैव कर्णप्रावरणैर अपि
सहिताः सर्वसैन्येन भीष्मम आहवशॊभिनम
गान्धाराः सिन्धुसौवीराः शिबयॊ ऽथ वसातयः
शकुनिश च सवसैन्येन भारद्वाजम अपालयत
ततॊ दुर्यॊधनॊ राजा सहितः सर्वसॊदरैः
अश्वातकैर विकर्णैश च तथा शर्मिल कॊसलैः
दरदैश चूचुपैश चैव तथा कषुद्रकमालवैः
अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम
भूरिश्रवाः शलः शल्यॊ भगदत्तश च मारिष
विन्दानुविन्दाव आवन्त्यौ वामं पार्श्वम अपालयन
सौमदत्तिः सुशर्मा च काम्बॊजश च सुदक्षिणः
शतायुश च शरुतायुश च दक्षिणं पार्श्वम आस्थिताः
अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः
महत्या सेनया सार्धं सेना पृष्ठे वयवस्थिताः
पृष्ठगॊपास तु तस्यासन नानादेश्या जनेश्वराः
केतुमान वसु दानश च पुत्रः काश्यस्य चाभिभूः
ततस ते तावकाः सर्वे हृष्टा युद्धाय भारत
दध्मुः शङ्खान मुदा युक्ताः सिंहनादांश च नादयन
तेषां शरुत्वा तु हृष्टानां कुरुवृद्धः पितामहः
सिंहनादं विनद्यॊच्चैः शङ्खं दध्मौ परतापवान
ततः शङ्खाश च भेर्यश च पेश्यश च विविधाः परैः
आनकाश चाभ्यहन्यन्त स शब्दस तुमुलॊ ऽभवत
ततः शवेतैर हयैर युक्ते महति सयन्दने सथितौ
परदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ
पाञ्चजन्यं हृषीकेशॊ देवदत्तं धनंजयः
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकॊदरः
अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः
नकुलः सहदेवश च सुघॊषमणिपुष्पकौ
काशिराजश च शैब्यश च शिखण्डी च महारथः
धृष्टद्युम्नॊ विराटश च सात्यकिश च महायशाः
पाञ्चाल्यश च महेष्वासॊ दरौपद्याः पञ्च चात्मजाः
सर्वे दध्मुर महाशङ्खान सिंहनादांश च नेदिरे
स घॊषः सुमहांस तत्र वीरैस तैः समुदीरितः
नभश च पृथिवीं चैव तुमुलॊ वयनुनादयत
एवम एते महाराज परहृष्टाः कुरुपाण्डवाः
पुनर युद्धाय संजग्मुस तापयानाः परस्परम
[धृ]
एवं वयूढेष्व अनीकेषु मामकेष्व इतरेषु च
कथं परहरतां शरेष्ठाः संप्रहारं परचक्रिरे
[स]
समं वयूढेष्व अनीकेषु संनद्धा रुचिरध्वजाः
अपारम इव संदृश्य सागरप्रतिमं बलम
तेषां मध्ये सथितॊ राजा पुत्रॊ दुर्यॊधनस तव
अब्रवीत तावकान सर्वान युध्यध्वम इति दंशिताः
ते मनः करूरम आस्थाय समभित्यक्तजीविताः
पाण्डवान अभ्यवर्तन्त सर्व एवॊच्छ्रितध्वजाः
ततॊ युद्धं समभवत तुमुलं लॊमहर्षणम
तावकानां परेषां च वयतिषक्त रथद्विपम
मुक्तास तु रथिभिर बाणा रुक्मपुङ्खाः सुतेजनाः
संनिपेतुर अकुण्ठाग्रा नागेषु च हयेषु च
तथा परवृत्ते संग्रामे धनुर उद्यम्य दंशितः
अभिपत्य महाबाहुर भीष्मॊ भीमपराक्रमः
सौभद्रे भीमसेने च शौनेये च महारथे
केकये च विराते च धृष्टद्युम्ने च पार्षते
एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः
पराकम्पत महाव्यूहस तस्मिन वीर समागमे
सर्वेषाम एव सैन्यानाम आसीद वयतिकरॊ महान
सादित धवजनागाश च हतप्रवर वाजिनः
विप्रयातरथानीकाः समपद्यन्त पाण्डवाः
अर्जुनस तु नरव्याघ्रॊ दृष्ट्वा भीष्मं महारथम
वार्ष्णेयम अब्रवीत करुद्धॊ याहि यत्र पितामहः
एष भीष्मः सुसंक्रुद्धॊ वार्ष्णेय मम वाहिनीम
नाशयिष्यति सुव्यक्तं दुर्यॊधन हिते रतः
एष दरॊणः कृपः शल्यॊ विकर्णश च जनार्दन
धार्तराष्ट्राश च सहिता दुर्यॊधन पुरॊगमाः
पाञ्चालान निहनिष्यन्ति रक्षिता दृढधन्वना
सॊ ऽहं भीष्मं गमिष्यामि सैन्यहेतॊर जनार्दन
तम अब्रवीद वासुदेवॊ यत्तॊ भव धनंजय
एष तवा परापये वीर पितामह रथं परति
एवम उक्त्वा ततः शौरी रथं तं लॊकविश्रुतम
परापयाम आस भीष्माय रथं परति जनेश्वर
चञ्चद बहु पताकेन बलाका वर्णवाजिना
समुच्छ्रितमहाभीम नदद वानरकेतुना
महता मेघनादेन रथेनादित्यवर्चसा
विनिघ्नन कौरवानीकं शूरसेनांश च पाण्डवः
आयाच छरान नुदञ शीघ्रं सुहृच छॊष विनाशनः
तम आपतन्तं वेगेन परभिन्नम इव वारणम
तरासयानं रणे शूरान पातयन्तं च सायकैः
सैन्धव परमुखैर गुप्तः पराच्य सौवीरकेकयैः
सहसा परत्युदीयाय भीष्मः शांतनवॊ ऽरजुनम
कॊ हि गाण्डीवधन्वानम अन्यः कुरुपितामहात
दरॊण वैकर्तनाभ्यां वा रथः संयातुम अर्हति
ततॊ भीष्मॊ महाराज कौरवाणां पितामहः
अर्जुनं सप्त सप्तत्या नाराचानां समावृणॊत
दरॊणश च पञ्चविंशत्या कृपः पञ्चाशता शरैः
दुर्यॊधनश चतुःषष्ट्या शल्यश च नवभिः शरैः
सैन्धवॊ नवभिश चापि शकुनिश चापि पञ्चभिः
विकर्णॊ दशभिर भल्लै राजन विव्याध पाण्डवम
स तैर विद्धॊ महेष्वासः समन्तान निशितैः शरैः
न विव्यथे महाबाहुर भिद्यमान इवाचलः
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः
दरॊणं षष्ट्या नरव्याघ्रॊ विकर्णं च तरिभिः शरैः
आर्तायनिं तरिभिर बाणै राजानं चापि पञ्चभिः
परत्यविध्यद अमेयात्मा किरीटी भरतर्षभ
तं सात्यकिर विराटश च धृष्टद्युम्नश च पार्षतः
दरौपदेयाभिमन्युश च परिवव्रुर धनंजयम
ततॊ दरॊणं महेष्वासं गाङ्गेयस्य परिये रतम
अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सॊमकैः
भीष्मस तु रथिनां शरेष्ठस तूर्णं विव्याध पाण्डवम
अशीत्या निशितैर बाणैस ततॊ ऽकरॊशन्त तावकाः
तेषां तु निनदं शरुत्वा परहृष्टानां परहृष्टवत
परविवेश ततॊ मध्यं रथसिंहः परतापवान
तेषां तु रथसिंहानां मध्यं पराप्य धनंजयः
चिक्रीड धनुषा राजँल लक्ष्यं कृत्वा महारथान
ततॊ दुर्यॊधनॊ राजा भीष्मम आह जनेश्वरः
पीड्यमानं सवकं सैन्यं दृष्ट्वा पार्थेन संयुगे
एष पाण्डुसुतस तात कृष्णेन सहितॊ बली
यततां सर्वसैन्यानां मूलं नः परिकृन्तति
तवयि जीवति गाङ्गेये दरॊणे च रथिनां वरे
तवत्कृते हय एष कर्णॊ ऽपि नयस्तशस्त्रॊ महारथः
न युध्यति रणे पार्थं हितकामः सदा मम
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः
एवम उक्तस ततॊ राजन पिता देवव्रतस तव
धिक कषत्रधर्मम इत्य उक्त्वा ययौ पार्थरथं परति
उभौ शवेतहयौ राजन संसक्तौ दृश्यपार्थिवाः
सिंहनादान भृशं चक्रुः शङ्खशब्दांश च भारत
दरौणिर दुर्यॊधनश चैव विकर्णश च तवात्मजः
परिवार्य रणे भीष्मं सथिता युद्धाय मारिष
तथैव पाण्डवाः सर्वे परिवार्य धनंजयम
सथिता युद्धाय महते ततॊ युद्धम अवर्तत
गाङ्गेयस तु रणे पार्थम आनर्छन नवभिः शरैः
तम अर्जुनः परत्यविध्यद दशभिर मर्म वेधिभिः
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः
अर्जुनः समरश्लाघी भीष्मस्यावारयद दिशः
शरजालं ततस तत तु शरजालेन कौरव
वारयाम आस पार्थस्य भीष्मः शांतनवस तथा
उभौ परमसंहृष्टाव उभौ युद्धाभिनन्दिनौ
निर्विशेषम अयुध्येतां कृतप्रतिकृतैषिणौ
भीष्म चापविमुक्तानि शरजालानि संधशः
शीर्यमाणान्य अदृश्यन्त भिन्नान्य अर्जुन सायकैः
तथैवार्जुन मुक्तानि शरजालानि भागशः
गाङ्गेय शरनुन्नानि नयपतन्त महीतले
अर्जुनः पञ्चविंशत्या भीष्मम आर्च्छच छितैः शरैः
भीष्मॊ ऽपि समरे पार्थं विव्याध तरिंशता शरैः
अन्यॊन्यस्य हयान विद्ध्वा धवजौ च सुमहाबलौ
रथेषां रथचक्रे च चिक्रीडतुर अरिंदमौ
ततः करुद्धॊ महाराज भीष्मः परहरतां वरः
वासुदेवं तरिभिर बाणैर आजघान सतनान्तरे
भीष्मचापच्युतैर बाणैर निर्विद्धॊ मधुसूदनः
विरराज रणे राजन स पुष्प इव किंशुकः
ततॊ ऽरजुनॊ भृशं करुद्धॊ निर्विद्धं परेक्ष्य माधवम
गाङ्गेय सारथिं संख्ये निर्बिभेद तरिभिः शरैः
यतमानौ तु तौ वीराव अन्यॊन्यस्य वधं परति
नाशक्नुतां तदान्यॊन्यम अभिसंधातुम आहवे
मण्डलानि विचित्राणि गतप्रत्यागतानि च
अदर्शयेतां बहुधा सूत सामर्थ्य लाघवात
अन्तरं च परहारेषु तर्कयन्तौ महारथौ
राजन्न अन्तरमार्गस्थौ सथिताव आस्तां मुहुर मुहुः
उभौ सिंहरवॊन्मिश्रं शङ्खशब्दं परचक्रतुः
तथैव चापनिर्घॊषं चक्रतुस तौ महारथौ
तयॊः शङ्खप्रणादेन रथनेमि सवनेन च
दारिता सहसा भूमिश चकम्प च ननाद च
न तयॊर अन्तरं कश चिद ददृशे भरतर्षभ
बलिनौ समरे शूराव अन्यॊन्यसदृशाव उभौ
चिह्नमात्रेण भीष्मं तु परजज्ञुस तत्र कौरवाः
तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे
तयॊर नृवरयॊ राजन दृश्यतादृक पराक्रमम
विस्मयं सर्वभूतानि जग्मुर भारत संयुगे
न तयॊर विवरं कश चिद रणे पश्यति भारत
धर्मे सथितस्य हि यथा न कश चिद वृजिनं कव चित
उभौ हि शरजालेन ताव अदृश्यौ बभूवतुः
परकाशौ च पुनस तूर्णं बभूवतुर उभौ रणे
तत्र देवाः स गन्धर्वाश चारणाश च सहर्षिभिः
अन्यॊन्यं परत्यभाषन्त तयॊर दृष्ट्वा पराक्रमम
न शक्यौ युधि संरब्धौ जेतुम एतौ महारथौ
स देवासुरगन्धर्वैर लॊकैर अपि कथं चन
आश्चर्यभूतं लॊकेषु युद्धम एतन महाद्भुतम
नैतादृशानि युद्धानि भविष्यन्ति कथं चन
नापि शक्यॊ रणे जेतुं भीष्मः पार्थेन धीमता
सधनुश च रथस्थश च परवपन सायकान रणे
तथैव पाण्डवं युद्धे देवैर अपि दुरासदम
न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम
इति सम वाचः शरूयन्ते परॊच्चरन्त्यस ततस ततः
गाङ्गेयार्जुनयॊः संख्ये सतवयुक्ता विशां पते
तवदीयास तु ततॊ यॊधाः पाण्डवेयाश च भारत
अन्यॊन्यं समरे जघ्नुस तयॊस तत्र पराक्रमे
शितधारैस तथा खड्गैर विमलैश च परश्वधैः
शरैर अन्यैश च बहुभिः शस्त्रैर नानाविधैर युधि
उभयॊः सेनयॊर वीरा नयकृन्तन्त परस्परम
वर्तमाने तथा घॊरे तस्मिन युद्धे सुदारुणे
दरॊण पाञ्चाल्ययॊ राजन महान आसीत समागमः
[धृ]
कथं दरॊणॊ महेष्वासः पाञ्चाल्यश चापि पार्षतः
रणे समीयतुर यत्तौ तन ममाचक्ष्व संजय
दिष्टम एव परं मन्ये पौरुषाद अपि संजय
यत्र शांतनवॊ भीष्मॊ नातरद युधि पाण्डवम
भीष्मॊ हि समरे करुद्धॊ हन्याल लॊकांश चराचरान
स कथं पाण्डवं युद्धे नातरत संजयौजसा
[स]
शृणु राजन सथिरॊ भूत्वा युद्धम एतत सुदारुणम
न शक्यः पाण्डवॊ जेतुं देवैर अपि स वासवैः
दरॊणस तु निशितैर बाणैर धृष्टद्युम्नम अयॊधयत
सारथिं चास्य भल्लेन रथनीडाद अपातयत
तस्याथ चतुरॊ वाहांश चतुर्भिः सायकॊत्तमैः
पीडयाम आस संक्रुद्धॊ धृष्टद्युम्नस्य मारिष
धृष्टद्युम्नस ततॊ दरॊणं नवत्या निशितैः शरैः
विव्याध परहसन वीरस तिष्ठ तिष्ठेति चाब्रवीत
ततः पुनर अमेयात्मा भारद्वाजः परतापवान
शरैः परच्छादयाम आस धृष्टद्युम्नम अमर्षणम
आददे च शरं घॊरं पार्षतस्य वधं परति
शक्राशनिसमस्पर्शं मृत्युदण्डम इवापरम
हाहाकारॊ महान आसीत सर्वसैन्यस्य भारत
तम इषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे
तत्राद्भुतम अपश्याम धृष्टद्युम्नस्य पौरुषम
यद एकः समरे वीरस तस्थौ गिरिर इवाचलः
तं च दीप्तं शरं घॊरम आयान्तं मृत्युम आत्मनः
चिच्छेद शरवृष्टिं च भारद्वाजे मुमॊच ह
तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह
धृष्टद्युम्नेन तत कर्मकृतं दृष्ट्वा सुदुष्करम
ततः शक्तिं महावेगां सवर्णवैडूर्य भूषिताम
दरॊणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी
ताम आपतन्तीं सहसा शक्तिं कनकभूषणाम
तरिधा चिक्षेप समरे भारद्वाजॊ हसन्न इव
शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः परतापवान
ववर्ष शरवर्षाणि दरॊणं परति जनेश्वर
शरवर्षं ततस तं तु संनिवार्य महायशाः
दरॊणॊ दरुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम
स छिन्नधन्वा समरे गदां गुर्वीं महायशाः
दरॊणाय परेषयाम आस गिरिसारमयीं बली
सा गदा वेगवन मुक्ता परायाद दरॊण जिघांसया
तत्राद्भुतम अपश्याम भारद्वाजस्य विक्रमम
लाघवाद वयंसयाम आस गदां हेमविभूषिताम
वयंसयित्वा गदां तां च परेषयाम आस पार्षते
भल्लान सुनिशितान पीतान सवर्णपुङ्खाञ शिलाशितान
ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे
अथान्यद धनुर आदाय धृष्टद्युम्ने महामनाः
दरॊणं युधि पराक्रम्य शरैर विव्याध पञ्चभिः
रुधिराक्तौ ततस तौ तु शुशुभाते नरर्षभौ
वसन्त समये राजन पुष्पिताव इव कुंशुकौ
अमर्षितस ततॊ राजन पराक्रम्य चमूमुखे
दरॊणॊ दरुपदपुत्रस्य पुनश चिच्छेद कार्मुकम
अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः
अवाकिरद अमेयात्मा वृष्ट्या मेघ इवाचलम
सारथिं चास्य भल्लेन रथनीडाद अपातयत
अथास्य चतुरॊ वाहांश चतुर्भिर निशितैः शरैः
पातयाम आस समरे सिंहनादं ननाद च
ततॊ ऽपरेण भल्लेन हस्ताच चापम अथाच्छिनत
स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः
गदापाणिर अवारॊहत खयापयन पौरुषं महत
ताम अस्य विशिखैस तूर्णं पातयाम आस भारत
रथाद अनवरूढस्य तद अद्भुतम इवाभवत
ततः स विपुलं चर्म शतचन्द्रं च भानुमत
खड्गं च विपुलं दिव्यं परगृह्य सुभुजॊ बली
अभिदुद्राव वेगेन दरॊणस्य वधकाङ्क्षया
आमिषार्थी यथा सिंहॊ वने मत्तम इव दविपम
तत्राद्भुतम अपश्याम भारद्वाजस्य पौरुषम
लाघवं चास्त्रयॊगं च बलं बाह्वॊश च भारत
यद एनं शरवर्षेण वारयाम आस पार्षतम
न शशाक ततॊ गन्तुं बलवान अपि संयुगे
तत्र सथितम अपश्याम धृष्टद्युम्नं महारथम
वारयाणं शरौघांश च चर्मणा कृतहस्तवत
ततॊ भीमॊ महाबाहुः सहसाभ्यपतद बली
साहाय्यकारी समरे पार्षतस्य महात्मनः
स दरॊणं निशितैर बाणै राजन विव्याध सप्तभिः
पार्षतं च तदा तूर्णम अन्यम आरॊपयद रथम
ततॊ दुर्यॊधनॊ राजा कलिङ्गं समचॊदयत
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे
ततः सा महती सेना कलिङ्गानां जनेश्वर
भीमम अभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात
पाञ्चाल्यम अभिसंत्यज्य दरॊणॊ ऽपि रथिनां वरः
विराटद्रुपदौ वृद्धौ यॊधयाम आस संगतौ
धृष्टद्युम्नॊ ऽपि समरे धर्मराजं समभ्ययात
ततः परववृते युद्धं तुमुलं लॊमहर्षणम
कलिङ्गानां च समरे भीमस्य च महात्मनः
जगतः परक्षय करं घॊररूपं भयानकम
[धृ]
तथा परतिसमादिष्टः कलिङ्गॊ वाहिनीपतिः
कथम अद्भुतकर्माणं भीमसेनं महाबलम
चरन्तं गदया वीरं दण्डपाणिम इवान्तकम
यॊधयाम आस समरे कलिङ्गः सह सेनया
[स]
पुत्रेण तव राजेन्द्र स तथॊक्तॊ महाबलः
महत्या सेनया गुप्तः परायाद भीम रथं परति
ताम आपतन्तीं सहसा कलिङ्गानां महाचमूम
रथनागाश्वकलिलां परगृहीतमहायुधाम
भीमसेनः कलिङ्गानाम आर्छद भारत वाहिनीम
केतुमन्तं च नैषादिम आयान्तं सह चेदिभिः
ततः शरुतायुः संक्रुद्धॊ राज्ञा केतुमता सह
आससाद रणे भीमं वयूढानीकेषु चेदिषु
रथैर अनेकसाहस्रैः कलिङ्गानां जनाधिपः
अयुतेन गजानां च निषादैः सह केतुमान
भीमसेनं रणे राजन समन्तात पर्यवारयत
चेदिमत्स्य करूषाश च भीमसेनपुरॊगमाः
अभ्यवर्तन्त सहसा निषादान सह राजभिः
ततः परववृते युद्धं घॊररूपं भयानकम
परजानन न च यॊधान सवान परस्परजिघांसया
घॊरम आसीत ततॊ युद्धं भीमस्य सहसा परैः
यथेन्द्रस्य महाराज महत्या दैत्य सेनया
तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत
बभूव सुमहाञ शब्दः सागरस्येव गर्जतः
अन्यॊन्यस्य तदा यॊधा निकृन्तन्तॊ विशां पते
महीं चक्रुश चितां सर्वां शशशॊणितसंनिभाम
यॊधांश च सवा परान वापि नाभ्यजानज जिघांसया
सवान अप्य आददते सवाश च शूराः समरदुर्जयाः
विमर्दः सुमहान आसीद अल्पानां बहुभिः सह
कलिङ्गैः सह चेदीनां निषादैश च विशां पते
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः
भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः
सर्वैः कलिङ्गैर आसन्नः संनिवृत्तेषु चेदिषु
सवबाहुबलम आस्थाय न नयवर्तत पाण्डवः
न चचाल रथॊपस्थाद भीमसेनॊ महाबलः
शितैर अवाकिरन बाणैः कलिङ्गानां वरूथिनीम
कलिङ्गस तु महेष्वासः पुत्रश चास्य महारथः
शक्रदेव इति खयातॊ जघ्नतुः पाण्डवं शरैः
ततॊ भीमॊ महाबाहुर विधुन्वन रुचिरं धनुः
यॊधयाम आस कालिङ्गान सवबाहुबलम आश्रितः
शक्रदेवस तु समरे विसृजन सायकान बहून
अश्वाञ जघान समरे भीमसेनस्य सायकैः
ववर्ष शरवर्षाणि तपान्ते जलदॊ यथा
हताश्वे तु रथे तिष्ठन भीमसेनॊ महाबलः
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम
स तया निहतॊ राजन कलिङ्गस्य सुतॊ रथात
स धवजः सह सूतेन जगाम धरणीतलम
हतम आत्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः
रथैर अनेकसाहस्रैर भिमस्यावारयद दिशः
ततॊ भीमॊ महाबाहुर गुर्वीं तयक्त्वा महागदाम
उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम
चर्म चाप्रतिमं राजन्न आर्षभं पुरुषर्षभ
नक्षतैर अर्धचन्द्रैश च शातकुम्भमयैश चितम
कलिङ्गस तु ततः करुद्धॊ धनुर्ज्याम अवमृज्य ह
परगृह्य च शरं घॊरम एकं सर्पविषॊपमम
पराहिणॊद भीमसेनाय वधाकाङ्क्षी जनेश्वरः
तम आपतन्तं वेगेन परेरितं निशितं शरम
भीमसेनॊ दविधा राजंश चिच्छेद विपुलासिना
उदक्रॊशच च संहृष्टस तरासयानॊ वरूथिनीम
कलिङ्गस तु ततः करुद्धॊ भीमसेनाय संयुगे
तॊमरान पराहिणॊच छीघ्रं चतुर्दश शिलाशितान
तान अप्राप्तान महाबाहुः खगतान एव पाण्डवः
चिच्छेद सहसा राजन्न असंभ्रान्तॊ वरासिना
निकृत्य तु रणे भीमस तॊमरान वै चतुर्दश
भानुमन्तम अभिप्रेक्ष्य पराद्रवत पुरुषर्षभः
भानुमांस तु ततॊ भीमं शरवर्षेण छादयन
ननाद बलवन नादं नादयानॊ नभस्तलम
न तं स ममृषे भीमः सिंहनादं महारणे
ततः सवरेण महता विननाद महास्वनम
तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी
न भीमं समरे मेने मानुषं भरतर्षभ
ततॊ भीमॊ महाराज नदित्वा विपुलं सवनम
सासिर वेगाद अवप्लुत्य दन्ताभ्यां वारणॊत्तमम
आरुरॊह ततॊ मध्यं नागराजस्य मारिष
खड्गेन पृथुना मध्ये भानुमन्तम अतॊ ऽचछिनत
सॊ ऽनतरायुधिनं हत्वा राजपुत्रम अरिंदमः
गुरुभारसह सकन्धे नागस्यासिम अपातयत
छिन्नस्कन्धः स विनदन पपात गजयूथपः
आरुग्णः सिन्धुवेगेन सानुमान इव पर्वतः
ततस तस्माद अवप्लुत्य गजाद भारत भारतः
खड्गपाणिर अदीनात्मा अतिष्ठद भुवि दंशितः
स चचार बहून मार्गान अभीतः पातयन गजान
अग्निचक्रम इवाविद्धं सर्वतः परत्यदृश्यत
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः
पदातीनां च संघेषु विनिघ्नञ शॊणितॊक्षितः
शयेनवद वयचरद भीमॊ रणे रिपुबलॊत्कटः
छिन्दंस तेषां शरीराणि शिरांसि च महाजवः
खड्गेन शितधारेण संयुगे गय यॊधिनाम
पदातिर एकः संक्रुद्धः शत्रूणां भयवर्धनः
मॊहयाम आस च तदा कालान्त क यमॊपमः
मूढाश च ते तम एवाजौ विनदन्तः समाद्रवन
सासिम उत्तमवेगेन विचरन्तं महारणे
निकृत्य रथिनाम आजौ रथेशाश च युगानि च
जघान रथिनश चापि बलवान अरिमर्दनः
भीमसेनश चरन मार्गान सुबहून परत्यदृश्यत
भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम
संपातं समुदीर्यं च दर्शयाम आस पाण्डवः
के चिद अग्रासिना छिन्नाः पाण्डवेन महात्मना
विनेदुर भिन्नमर्माणॊ निपेतुश च गतासवः
छिन्नदन्ता गरहस ताश च भिन्नकुम्भास तथापरे
वियॊधाः सवान्य अनीकानि जघ्नुर भारत वारणाः
निपेतुर उर्व्यां च तथा विनदन्तॊ महारवान
छिन्नांश च तॊमरांश चापान महामात्रशिरांसि च
परिस्तॊमानि चित्राणि कक्ष्याश च कनकॊज्ज्वलाः
गरैवेयाण्य अथ शक्तीश च पताकाः कणपांस तथा
तूणीराण्य अथ यन्त्राणि विचित्राणि धनूंषि च
अग्निकुण्डानि शुभ्राणि तॊत्त्रांश चैवाङ्कुशैः सह
घण्टाश च विविधा राजन हेमगर्भांस तसरून अपि
पततः पतितांश चैव पश्यामः सह सादिभिः
छिन्नगात्रावर करैर निहतैश चापि वारणैः
आसीत तस्मिन समास्तीर्णा पतितैर भूनगैर इव
विमृद्यैवं महानागान ममर्दाश्वान नरर्षभः
अश्वारॊहवरांश चापि पातयाम आस भारत
तद घॊरम अभवद युद्धं तस्य तेषां च भारत
खलीनान्य अथ यॊक्त्राणि कशाश च कनकॊज्ज्वलाः
परिस्तॊमाश च परासाश च ऋष्टयश च महाधनाः
कवचान्य अथ चर्माणि चित्राण्य आस्तरणानि च
तत्र तत्रापविद्धानि वयदृश्यन्त महाहवे
परॊथ यन्त्रैर विचित्रैश च शस्त्रैश च विमलैस तथा
सचक्रे वसुधां कीर्णां शबलैः कुसुमैर इव
आप्लुत्य रथिनः कांश चित परामृश्य महाबलः
पातयाम आस खड्गेन स धवजान अपि पाण्डवः
मुहुर उत्पततॊ दिक्षु धावतश च यशस्विनः
मार्गांश च चरतश चित्रान वयस्मयन्त रणे जनाः
निजघान पदा कांश चिद आक्षिप्यान्यान अपॊथयत
खड्गेनान्यांश च चिच्छेद नादेनान्यांश च भीषयन
ऊरुवेगेन चाप्य अन्यान पातयाम आस भूतले
अपरे चैनम आलॊक्य भयात पञ्चत्वम आगताः
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम
परिवार्य रणे भीष्मं भीमसेनम उपाद्रवत
ततः कलिङ्ग सैन्यानां परमुखे भरतर्षभ
शरुतायुषम अभिप्रेक्ष्य भीमसेनः समभ्ययात
तम आयान्तम अभिप्रेक्ष्य कलिङ्गॊ नवभिः शरैः
भीमसेनम अमेयात्मा परत्यविध्यत सतनान्तरे
कलिङ्ग बाणाभिहतस तॊत्त्रार्दित इव दविषः
भीमसेनः परजज्वाल करॊधेनाग्निर इवेन्धनैः
अथाशॊकः समादाय रथं हेमपरिष्कृतम
भीमं संपादयाम आस रथेन रथसारथिः
तम आरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः
कलिङ्गम अभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत
ततः शरुतायुर बलवान भीमाय निशिताञ शरान
परेषयाम आस संक्रुद्धॊ दर्शयन पाणिलाघवम
स कार्मुकवरॊत्सृष्टैर नवभिर निशितैः शरैः
समाहतॊ भृशं राजन कलिङ्गेन महायशाः
संचुक्रुधे भृशं भीमॊ दण्डाहत इवॊरगः
करुद्धश च चापम आयम्य बलवद बलिनां वरः
कलिङ्गम अवधीत पार्थॊ भीमः सप्तभिर आयसैः
कषुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ
सत्यदेवं च सत्यं च पराहिणॊद यमसादनम
ततः पुनर अमेयात्मा नाराचैर निशितैस तरिभिः
केतुमन्तं रणे भीमॊ ऽगमयद यमसादनम
ततः कलिङ्गाः संक्रुद्धा भीमसेनम अमर्षणम
अनीकैर बहुसाहस्रैः कषत्रियाः समवारयन
ततः शक्तिगदा खड्गतॊमरर्ष्टि परश्वधैः
कलिङ्गाश च ततॊ राजन भीमसेनम अवाकिरन
संनिवार्य स तां घॊरां शरवृष्टिं समुत्थिताम
गदाम आदाय तरसा परिप्लुत्य महाबलः
भीमः सप्तशतान वीरान अनयद यमसादनम
पुनश चैव दविसाहस्रान कलिङ्गान अरिमर्दनः
पराहिणॊन मृत्युलॊकाय तद अद्भुतम इवाभवत
एवं स तान्य अनीकानि कलिङ्गानां पुनः पुनः
बिभेद समरे वीरः परेक्ष्य भीष्मं महाव्रतम
हतारॊहाश च मातङ्गाः पाण्डवेन महात्मना
विप्रजग्मुर अनीकेषु मेघा वातहता इव
मृदन्तः सवान्य अनीकानि विनदन्तः शरातुराः
ततॊ भीमॊ महाबाहुः शङ्खं पराध्मापयद बली
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत
मॊहश चापि कलिङ्गानाम आविवेश परंतप
पराकम्पन्त च सैन्यानि वाहनानि च सर्वशः
भीमेन समरे राजन गजेन्द्रेणेव सर्वतः
मार्गान बहून विचरता धावता च ततस ततः
मुहुर उत्पतता चैव संमॊहः समजायत
भीमसेन भयत्रस्तं सैन्यं च समकम्पत
कषॊभ्यमाणम असंबाधं पराहेणेव महत सरः
तरासितेषु च वीरेषु भीमेनाद्भुत कर्मणा
पुनरावर्तमानेषु विद्रवत्सु च संघशः
सर्वकालिङ्गयॊधेषु पाण्डूनां धवजिनीपतिः
अब्रवीत सवान्य अनीकानि युध्यध्वम इति पार्षतः
सेनापतिवचः शरुत्वा शिखण्डिप्रमुखा गणाः
भीमम एवाभ्यवर्तन्त रथानीकैः परहारिभिः
धर्मराजश च तान सर्वान उपजग्राह पाण्डवः
महता मेघवर्णेन नागानीकेन पृष्ठतः
एवं संचॊद्य सर्वाणि सवान्य अनीकानि पार्षतः
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषॊचिताम
न हि पाञ्चालराजस्य लॊके कश चन विद्यते
भीम सात्यकयॊर अन्यः पराणेभ्यः परियकृत्तमः
सॊ ऽपश्यत तं कलिङ्गेषु चरन्तम अरिसूदनम
भीमसेनं महाबाहुं पार्षतः परवीरहा
ननर्द बहुधा राजन हृष्टश चासीत परंतपः
शङ्खं दध्मौ च समरे सिंहनादं ननाद च
स च पारावताश्वस्य रथे हेमपरिष्कृते
कॊविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत
धृष्टद्युम्नस तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम
भीमसेनम अमेयात्मा तराणायाजौ समभ्ययात
तौ दूरात सात्यकिर दृष्ट्वा धृष्टद्युम्नवृकॊदरौ
कलिङ्गान समरे वीरौ यॊधयन्तौ मनस्विनौ
स तत्र गत्वा शैनेयॊ जवेन जयतां वरः
पार्थ पार्षतयॊः पार्ष्णिं जग्राह पुरुषर्षभः
स कृत्वा कदनं तत्र परगृहीतशरासनः
आस्थितॊ रौद्रम आत्मानं जघान समरे परान
कलिङ्ग परभवां चैव मांसशॊणितकर्दमाम
रुधिरस्यन्दिनीं तत्र भीमः परावर्तयन नदीम
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम
संततार सुदुस्तारां भीमसेनॊ महाबलः
भीमसेनं तथा दृष्ट्वा पराक्रॊशंस तावका नृप
कालॊ ऽयं भीमरूपेण कलिङ्गैः सह युध्यते
ततः शांतनवॊ भीष्मः शरुत्वा तं निनदं रणे
अभ्ययात तवरितॊ भीमं वयूढानीकः समन्ततः
तं सात्यकिर भीमसेनॊ धृष्टद्युम्नश च पार्षतः
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम
परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे
तरिभिस तरिभिः शरैर घॊरैर भीष्मम आनर्छुर अञ्जसा
परत्यविध्यत तान सर्वान पिता देवव्रतस तव
यतमानान महेष्वासांस तरिभिस तरिभिर अजिह्मगैः
ततः शरसहस्रेण संनिवार्य महारथान
हयान काञ्चनसंनाहान भीमस्य नयहनच छरैः
हताश्वे तु रथे तिष्ठन भीमसेनः परतापवान
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं परति
अप्राप्ताम एव तां शक्तिं पिता देवव्रतस तव
तरिधा चिच्छेद समरे सा पृथिव्याम अशीर्यत
ततः शैक्यायसीं गुर्वीं परगृह्य बलवद गदाम
भीमसेनॊ रथा तूर्णं पुप्लुवे मनुजर्षभ
सात्यकॊ ऽपि ततस तूर्णं भीमस्य परियकाम्यया
सारथिं कुरुवृद्धस्य पातयाम आस सायकैः
भीष्मस तु निहते तस्मिन सारथौ रथिनां वरः
वातायमानैस तैर अश्वैर अपनीतॊ रणाजिरात
भीमसेनस ततॊ राजन्न अपनीते महाव्रते
परजज्वाल यथा वह्निर दहन कक्षम इवैधितः
स हत्वा सर्वकालिङ्गान सेना मध्ये वयतिष्ठत
नैनम अभ्युत्सहन के चित तावका भरतर्षभ
धृष्टद्युम्नस तम आरॊप्य सवरथे रथिनां वरः
पश्यतां सर्वसैन्यानाम अपॊवाह यशस्विनम
संपूज्यमानः पाञ्चाल्यैर मत्स्यैश च भरतर्षभ
धृष्टद्युम्नं परिष्वज्य समेयाद अथ सात्यकिम
अथाब्रवीद भीमसेनं सात्यकिः सत्यविक्रमः
परहर्षयन यदुव्याघ्रॊ धृष्टद्युम्नस्य पश्यतः
दिष्ट्या कलिङ्ग राजश च राजपुत्रश च केतुमान
शक्रदेवश च कालिङ्गः कलिङ्गाश च मृधे हताः
सवबाहुबलवीर्येण नागाश्वरथसंकुलः
महाव्यूहः कलिङ्गानाम एकेन मृदितस तवया
एवम उक्त्वा शिनेर नप्ता दीर्घबाहुर अरिंदमः
रथाद रथम अभिद्रुत्य पर्यष्वजत पाण्डवम
ततः सवरथम आरुह्य पुनर एव महारथः
तावकान अवधीत करुद्धॊ भीमस्य बलम आदधत
[स]
गतापराह्णभूयिष्ठे तस्मिन्न अहनि भारत
रथनागाश्वपत्तीनां सादिनां च महाक्षये
दरॊणपुत्रेण शल्येन कृपेण च महात्मना
समसज्जत पाञ्चाल्यस तरिभिर एतैर महारथैः
स लॊकविदितान अश्वान निजघान महाबलः
दरौणेः पाञ्चाल दायादः शितैर दशभिर आशुगैः
ततः शल्य रथं तूर्णम आस्थाय हतवाहनः
दरौणिः पाञ्चाल दायादम अभ्यवर्षद अथेषुभिः
धृष्टद्युम्नं तु संसक्तं दरौणिना दृश्य भारत
सौभद्रे ऽभयपतत तूर्णं विकिरन निशिताञ शरान
स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः
अश्वत्थामानम अष्टाभिर विव्याध पुरुषर्षभ
आर्जुनिं तु ततस तूर्णं दरौणिर विव्याध पत्रिणा
शल्यॊ दवादशभिश चैव कृपश च निशितैस तरिभिः
लक्ष्मणस तव पौत्रस तु तव पौत्रम अवस्थितम
अभ्यवर्तत संहृष्टस ततॊ युद्धम अवर्तत
दौर्यॊधनिस तु संक्रुद्धः सौभद्रं नवभिः शरैः
विव्याध समरे राजंस तद अद्भुतम इवाभवत
अभिमन्युस तु संक्रुद्धॊ भरातरं भरतर्षभ
शरैः पञ्चाशता राजन कषिप्रहस्तॊ ऽभयविध्यत
लक्ष्मणॊ ऽपि ततस तस्य धनुश चिच्छेद पत्रिणा
मुष्टिदेशे महाराज तत उच्चुक्रुशुर जनाः
तद विहाय धनुश छिन्नं सौभद्रः परवीरहा
अन्यद आदत्तवांश चित्रं कार्मुकं वेगवत्तरम
तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ
अन्यॊन्यं विशिखैस तीक्ष्णैर जघ्नतुः पुरुषर्षभौ
ततॊ दुर्यॊधनॊ राजा दृष्ट्वा पुत्रं महारथम
पीडितं तव पौत्रेण परायात तत्र जनेश्वरः
संनिवृत्ते तव सुते सर्व एव जनाधिपाः
आर्जुनिं रथवंशेन समन्तात पर्यवारयन
स तैः परिवृतः शूरैः शूरॊ युधि सुदुर्जयैः
न सम विव्यथते राजन कृष्ण तुल्यपराक्रमः
सौभद्रम अथ संसक्तं तत्र दृष्ट्वा धनंजयः
अभिदुद्राव संक्रुद्धस तरातुकामः सवम आत्मजम
ततः सरथनागाश्वा भीष्मद्रॊणपुरॊगमाः
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम
उद्धूतं सहसा भौमं नागाश्वरथसादिभिः
दिवाकरपथं पराप्य रजस तीव्रम अदृश्यत
तानि नागसहस्राणि भूमिपाल शतानि च
तस्य बाणपथं पराप्य नाभ्यवर्तन्त सर्वशः
परणेदुः सर्वभूतानि बभूवुस तिमिरा दिशः
कुरूणाम अनयस तीव्रः समदृश्यत दारुणः
नाप्य अन्तरिक्षं न दिशॊ न भूमिर न च भास्करः
परजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः
सादित धवजनागास तु हताश्वा रथिनॊ भृशम
विप्रद्रुत रथाः के चिद दृश्यन्ते रथयूथपाः
विरथा रथिनश चान्ये धावमानाः समन्ततः
तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर भुजैः
हयारॊहा हयांस तयक्त्वा गजारॊहाश च दन्तिनः
अर्जुनस्य भयाद राजन समन्ताद विप्रदुद्रुवुः
रथेभ्यश च गजेभ्यश च हयेभ्यश च नराधिपाः
पतिताः पात्यमानाश च दृश्यन्ते ऽरजुन ताडिताः
सगदान उद्यतान बाहून स खड्गांश च विशां पते
स परासांश च स तूणीरान स शरान स शरासनान
साङ्कुशान स पताकांश च तत्र तत्रार्जुनॊ नृणाम
निचकर्त शरैर उग्रै रौद्रं बिभ्रद वपुस तदा
परिघाणां परवृद्धानां मुद्गराणां च मारिष
परासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे
परश्वधानां तीक्ष्णानां तॊमराणां च भारत
वर्मणां चापविद्धानां कवचानां च भूतले
धवजानां चर्मणां चैव वयजनानां च सर्वशः
छत्राणां हेमदण्डानां चामराणां च भारत
परतॊदानां कशानां च यॊक्त्राणां चैव मारिष
राशयश चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ
नासीत तत्र पुमान कश चित तव सैन्यस्य भारत
यॊ ऽरजुनं समरे शूरं परत्युद्यायात कथं चन
यॊ यॊ हि समरे पार्थं पत्युद्याति विशां पते
स स वै विशिखैस तीक्ष्णैः परलॊकाय नीयते
तेषु विद्रवमाणेषु तव यॊधेषु सर्वशः
अर्जुनॊ वासुदेवश च दध्मतुर वारिजॊत्तमौ
तत परभग्नं बलं दृष्ट्वा पिता देवव्रतस तव
अब्रवीत समरे शूरं भारद्वाजं समयन्न इव
एष पाण्डुसुतॊ वीरः कृष्णेन सहितॊ बली
तथा करॊति सैन्यानि यथा कुर्याद धनंजयः
न हय एष समरे शक्यॊ जेतुम अद्य कथं चन
यथास्य दृश्यते रूपं कालान्तकयमॊपमम
न निवर्तयितुं चापि शक्येयं महती चमूः
अन्यॊन्यप्रेक्षया पश्य दरवतीयं वरूथिनी
एष चास्तं गिरिश्रेष्ठं भानुमान परतिपद्यते
वपूंषि सर्वलॊकस्य संहरन्न इव सर्वथा
तत्रावहारं संप्राप्तं मन्ये ऽहं पुरुषर्षभ
शरान्ता भीताश च नॊ यॊधा न यॊत्स्यन्ति कथं चन
एवम उक्त्वा ततॊ भीष्मॊ दरॊणम आचार्य सत्तमम
अवहारम अथॊ चक्रे तावकानां महारथः
ततॊ ऽवहारः सैन्यानां तव तेषां च भारत
अस्तं गच्छति सूर्ये ऽभूत संध्याकाले च वर्तति
[स]
परभातायां तु शर्वर्यां भीष्मः शांतनवस ततः
अनीकान्यानुसंयाने वयादिदेशाथ भारत
गारुडं च महाव्यूहं चक्रे शांतनवस तदा
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः
गरुडस्य सवयं तुण्डे पिता देवव्रतस तव
चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः
अश्वत्थामा कृपश चैव शीर्षम आस्तां यशस्विनौ
तरिगर्तैर मत्स्यकैकेयैर वाटधानैश च संयुतौ
भूरिश्रवाः शलः शल्यॊ भगदत्तश च मारिष
मद्रकाः सिन्धुसौवीरास तथा पञ्च नदाश च ये
जयद्रथेन सहिता गरीवायां संनिवेशिताः
पृष्ठे दुर्यॊधनॊ राजा सॊदरैः सानुगैर वृतः
विन्दानुविन्दाव आवन्त्यौ काम्बॊजश च शकैः सह
पुच्छम आसन महाराज शूरसेनाश च सर्वशः
मागधाश च कलिङ्गाश च दाशेरक गणैः सह
दक्षिणं पक्षम आसाद्य सथिता वयूहस्य दंशिताः
काननाश च विकुञ्जाश च मुक्ताः पुण्ड्राविषस तथा
बृहद्बलेन सहिता वामं पक्षम उपाश्रिताः
वयूढं दृष्ट्वा तु तत सैन्यं सव्यसाची परंतपः
धृष्टद्युम्नेन सहितः परत्यव्यूहत संयुगे
अर्धचन्द्रेण वयूहेन वयूहं तम अतिदारुणम
दक्षिणं शृङ्गम आस्थाय भीमसेनॊ वयरॊचत
नानाशस्त्रौघसंपन्नैर नानादेश्यैर नृपैर वृतः
तद अन्व एव विराटश च दरुपदश च महारथः
तदनन्तरम एवासीन नीलॊ लीलायुधैः सह
नीलाद अनन्तरं चैव धृष्टकेतुर महारथः
चेदिकाशिकरूषैश च पौरवैश चाभिसंवृतः
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश च परभद्रकाः
मध्ये सैन्यस्य महतः सथिता युद्धाय भारत
तथैव धर्मराजॊ ऽपि गजानीकेन संवृतः
ततस तु सात्यकी राजन दरौपद्याः पञ्च चात्मजाः
अभिमन्युस ततस तूर्णम इरावांश च ततः परम
भैमसेनिस ततॊ राजन केकयाश च महारथाः
ततॊ ऽभूद दविपदां शरेष्ठॊ वामं पार्श्वम उपाश्रितः
सर्वस्य जगतॊ गॊप्ता गॊप्ता यस्य जनार्दनः
एवम एतन महाव्यूहं परत्यव्यूहन्त पाण्डवाः
वधार्थं तव पुत्राणां तत्पक्षं ये च संगताः
ततः परववृते युद्धं वयतिषक्त रथद्विपम
तावकानां परेषां च निघ्नताम इतरेतरम
हयौघाश च रथौघाश च तत्र तत्र विशां पते
संपतन्तः सम दृश्यन्ते निघ्नमानाः परस्परम
धावतां च रथौघानां निघ्नतां च पृथक पृथक
बभूव तुमुलः शब्दॊ विमिश्रॊ दुन्दुभिस्वनैः
दिवस्पृन नरवीराणां निघ्नताम इतरेतरम
संप्रहारे सुतुमुले तव तेषां च भारत
[स]
ततॊ वयूढेष्व अनीकेषु तावकेष्व इतरेषु च
धनंजयॊ रथानीकम अवधीत तव भारत
शरैर अतिरथॊ युद्धे पातयन रथयूथपान
ते वध्यमानाः पार्थेन कालेनेव युगक्षये
धार्तराष्ट्रा रणे यत्ताः पाण्डवान परत्ययॊधयन
परार्थयाना यशॊ दीप्तं मृत्युं कृत्वा निवर्तनम
एकाग्रमनसॊ भूत्वा पाण्डवानां वरूथिनीम
बभञ्जुर बहुशॊ राजंस ते चाभज्यन्त संयुगे
दरवद्भिर अथ भग्नैश च परिवर्तद्भिर एव च
पाण्डवैः कौरवैश चैव न परज्ञायत किं चन
उदतिष्ठद रजॊ भौमं छादयानं दिवाकरम
दिशः परतिदिशॊ वापि तत्र जज्ञुः कथं चन
अनुमानेन संज्ञाभिर नामगॊत्रैश च संयुगे
वर्तते सम तदा युद्धं तत्र तत्र विशां पते
न वयूहॊ भिद्यते तत्र कौरवाणां कथं चन
रक्षितः सत्यसंधेन भारद्वाजेन धीमता
तथैव पाण्डवेयानां रक्षितः सव्यसाचिना
नाभिध्यत महाव्यूहॊ भीमेन च सुरक्षितः
सेनाग्राद अभिनिष्पत्य परायुध्यंस तत्र मानवाः
उभयॊः सेनयॊ राजन वयतिषक्त रथद्विपाः
हयारॊहैर हयारॊहाः पात्यन्ते सम महाहवे
ऋष्टिभिर विमलाग्राभिः परासैर अपि च संयुगे
रथी रत्निनम आसाद्य शरैः कनकभूषणैः
पातयाम आस समरे तस्मिन्न अतिभयं करे
गजारॊहा गजारॊहान नाराचशरतॊमरैः
संसक्ताः पातयाम आसुस तव तेषां च संघशः
पत्तिसंघा रणे पत्तीन भिण्डिपाल परश्वधैः
नयपातयन्त संहृष्टाः परस्परकृतागसः
पदाती रथिनं संख्ये रथी चापि पदातिनम
नयपातयच छितैः शस्त्रैः सेनयॊर उभयॊर अपि
गजारॊहा हयारॊहान पातयां चक्रिरे तदा
हयारॊहा गजस्थांश च तद अद्भुतम इवाभवत
गजारॊह वरैश चापि तत्र तत्र पदातयः
पातिताः समदृश्यन्त तैश चापि गजयॊधिनः
पत्तिसंघा हयारॊहैः सादिसंघाश च पत्तिभिः
पात्यमाना वयदृश्यन्त शतशॊ ऽथ सहस्रशः
धवजैस तत्रापविद्धैश च कार्मुकैस तॊमरैस तथा
परासैस तथा गदाभिश च परिघैः कम्पनैस तथा
शक्तिभिः कवचैश चित्रैः कणपैर अङ्कुशैर अपि
निस्त्रिंशैर विमलैश चापि सवर्णपुङ्खैः शरैस तथा
परिस्तॊमैः कुथाभिश च कम्बलैश च महाधनैः
भूर भाति भरतश्रेष्ठ सरग्दामैर इव चित्रिता
नराश्वकायैः पतितैर दन्तिभिश च महाहवे
अगम्यरूपा पृथिवी मांसशॊणितकर्दमा
परशशाम रजॊ भौमं वयुक्षितं रणशॊणितैः
दिशश च विमलाः सर्वाः संबभूवुर जनेश्वर
उत्थितान्य अगणेयानि कबन्धानि समन्ततः
चिह्नभूतानि जगतॊ विनाशार्थाय भारत
तस्मिन युद्धे महारौद्रे वर्तमाने सुदारुणे
परत्यदृश्यन्त रथिनॊ धावमानाः समन्ततः
ततॊ दरॊणश च भीष्मश च सैन्धवश च जयद्रथः
पुरुमित्रॊ विकर्णश च शकुनिश चापि सौबलः
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः
पाण्डवानाम अनीकानि बभञ्जुः सम पुनः पुनः
तथैव भीमसेनॊ ऽपि राक्षसश च घटॊत्कचः
सात्यकिश चेकितानश च दरौपदेयाश च भारत
तावकांस तव पुत्रांश च सहितान सर्वराजभिः
दरावयाम आसुर आजौ ते तरिदशा दानवान इव
तथा ते समरे ऽनयॊन्यं निघ्नन्तः कषत्रियर्षभाः
रक्तॊक्षिता घॊररूपा विरेजुर दानवा इव
विनिर्जित्य रिपून वीराः सेनयॊर उभयॊर अपि
वयदृश्यन्त महामात्रा गरहा इव नभस्तले
ततॊ रथसहस्रेण पुत्रॊ दुर्यॊधनस तव
अभ्ययात पाण्डवान युद्धे राक्षसं च घटॊत्कचम
तथैव पाण्डवाः सर्वे महत्या सेनया सह
दरॊण भीष्मौ रणे शूरौ परत्युद्ययुर अरिंदमौ
किरीटी तु ययौ करुद्धः समर्थान पार्थिवॊत्तमान
आर्जुनिः सात्यकिश चैव ययतुः सौबलं बलम
ततः परववृते भूयः संग्रामॊ लॊमहर्षणः
तावकानां परेषां च समरे विजिगीषताम
[स]
ततस ते पार्थिवाः करुद्धाः फल्गुनं वीक्ष्य संयुगे
रथैर अनेकसाहस्रैः समन्तात पर्यवारयन
अथैनं रथवृन्देन कॊष्टकी कृत्यभारत
शरैः सुबहु साहस्रैः समन्ताद अभ्यवारयन
शक्तीश च विमलास तीक्ष्णा गदाश च परिघैः सह
परासान परश्वधांश चैव मुद्गरान मुसलान अपि
चिक्षिपुः समरे करुद्धाः फल्गुनस्य रथं परति
शस्त्राणाम अथ तां वृष्टिं शलभानाम इवायतिम
रुरॊध सर्वतः पार्थः शरैः कनकभूषणैः
तत्र तल लाघवं दृष्ट्वा बीभत्सॊर अतिमानुषम
देवदानवगन्धर्वाः पिशाचॊरगराक्षसाः
साधु साध्व इति राजेन्द्र फल्गुनं परत्यपूजयन
सात्यकिं चाभिमन्युं च महत्या सेनया सह
गान्धाराः समरे शूरा रुरुधुः सह सौबलाः
तत्र सौबलकाः करुद्धा वार्ष्णेयस्य रथॊत्तमम
तिलशश चिच्छिदुः करॊधाच छस्त्रैर नानाविधैर युधि
सात्यकिस तु रथं तयक्त्वा वर्तमाने महाभये
अभिमन्यॊ रथं तूर्णम आरुरॊह परंतपः
ताव एकरथसंयुक्तौ सौबलेयस्य वाहिनीम
वयधमेतां शितैस तूर्णं शरैः संनतपर्वभिः
दरॊण भीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम
नाशयेतां शरैस तीक्ष्णैः कङ्कपत्र परिच्छदैः
ततॊ धर्मसुतॊ राजा माद्रीपुत्रौ च पाण्डवौ
मिषतां सर्वसैन्यानां दरॊणानीकम उपाद्रवन
तत्रासीत सुमहद युद्धं तुमुलं लॊमहर्षणम
यथा देवासुरं युद्धं पूर्वम आसीत सुदारुणम
कुर्वाणौ तु महत कर्म भीमसेन घटॊत्कचौ
दुर्यॊधनस ततॊ ऽभयेत्य ताव उभाव अभ्यवारयत
तत्राद्भुतम अपश्याम हैडिम्बस्य पराक्रमम
अतीत्य पितरं युद्धे यद अयुध्यत भारत
भीमसेनस तु संक्रुद्धॊ दुर्यॊधनम अमर्षणम
हृद्य अविध्यत पृषत्केन परहसन्न इव पाण्डवः
ततॊ दुर्यॊधनॊ राजा परहार वरमॊहितः
निषसाद रथॊपस्थे कश्मलं च जगाम ह
तं विसं जञम अथॊ जञात्वा तवरमाणॊ ऽसय सारथिः
अपॊवाह रणाद राजंस ततः सैन्यम अभिद्यत
ततस तां कौरवीं सेनां दरवमाणां समन्ततः
निघ्नन भीमः शरैस तीक्ष्णैर अनुवव्राज पृष्ठतः
पार्षतश च रतः शरेष्ठॊ धर्मपुत्रश च पाण्डवः
दरॊणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः
जघ्नतुर विशिखैस तीक्ष्णैः परानीक विशातनैः
दरवमाणं तु तत सैन्यं तव पुत्रस्य संयुगे
नाशक्नुतां वारयितुं भीष्मद्रॊणौ महारथौ
वार्यमाणं हि भीष्मेण दरॊणेन च विशां पते
विद्रवत्य एव तत सैन्यं पश्यतॊर दरॊण भीष्मयॊः
ततॊ रथसहस्रेषु विद्रवत्सु ततस ततः
ताव आस्थिताव एकरथं सौभद्र शिनिपुंगवौ
सौबलीं समरे सेनां शातयेतां समन्ततः
शुशुभाते तदा तौ तु शैनेय कुरुपुंगवौ
अमावास्यां गतौ यद्वत सॊमसूर्यौ नभस्तले
अर्जुनस तु ततः करुद्धस तव सैन्यं विशां पते
ववर्ष शरवर्षेण धाराभिर इव तॊयदः
वध्यमानं ततस तत तु शरैः पार्थस्य संयुगे
दुद्राव कौरवं सैन्यं विषादभयकम्पितम
दरवतस तान समालॊक्य भीष्मद्रॊणौ महारथौ
नयवारयेतां संरब्धौ दुर्यॊधनहितैषिणौ
ततॊ दुर्यॊधनॊ राजा समाश्वस्य विशां पते
नयवर्तयत तत सैन्यं दरवमाणं समन्ततः
यत्र यत्र सुतं तुभ्यं यॊ यः पश्यति भारत
तत्र तत्र नयवर्तन्त कषत्रियाणां महारथाः
तान निवृत्तान समीक्ष्यैव ततॊ ऽनये ऽपीतरे जनाः
अन्यॊन्यस्पर्धया राजँल लज्जयान्ये ऽवतस्थिरे
पुनरावर्ततां तेषां वेग आसीद विशां पते
पूर्यतः सागरस्येव चन्द्रस्यॊदयनं परति
संनिवृत्तांस ततस तांस तु दृष्ट्वा राजा सुयॊधनः
अब्रवीत तवरितॊ गत्वा भीष्मं शांतनवं वचः
पितामह निबॊधेदं यत तवा वक्ष्यामि भारत
नानुरूपम अहं मन्ये तवयि जीवति कौरव
दरॊणे चास्त्रविदां शरेष्ठे सपुत्रे स सुहृज्जने
कृपे चैव महेष्वासे दरवतीयं वरूथिनी
न पाण्डवाः परतिबलास तव राजन कथं चन
तथा दरॊणस्य संग्रामे दरौणेश चैव कृपस्य च
अनुग्राह्याः पाण्डुसुता नूनं तव पितामह
यथेमां कषमसे वीरवध्यमानां वरूथिनीम
सॊ ऽसमि वाच्यस तवया राजन पूर्वम एव समागमे
न यॊत्स्ये पाण्डवान संख्ये नापि पार्षत सात्यकी
शरुत्वा तु वचनं तुभ्यम आचार्यस्य कृपस्य च
कर्णेन सहितः कृत्यं चिन्तयानस तदैव हि
यदि नाहं परित्याज्यॊ युवाभ्याम इह संयुगे
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ
एतच छरुत्वा वचॊ भीष्मः परहसन वै मुहुर मुहुः
अब्रवीत तनयं तुभ्यं करॊधाद उद्वृत्य चक्षुषी
बहुशॊ हि मया राजंस तथ्यम उक्तं हितं वचः
अजेयाः पाण्डवा युद्धे देवैर अपि स वासवैः
यत तु शक्यं मया कर्तुं वृद्धेनाद्य नृपॊत्तम
करिष्यामि यथाशक्ति परेक्षेदानीं स बान्धवः
अद्य पाण्डुसुतान सर्वान स सैन्यान सह बन्धुभिः
मिषतॊ वारयिष्यामि सर्वलॊकस्य पश्यतः
एवम उक्ते तु भीष्मेण पुत्रास तव जनेश्वर
दध्मुः शङ्खान मुदा युक्ता भेरीश च जघ्निरे भृशम
पाण्डवापि ततॊ राजञ शरुत्वा तं निनदं महत
दध्मुः शङ्खांश च भेरीश च मुरजांश च वयनादयन
धृतराष्ट्र उवाच
परतिज्ञाते तु भीष्मेण तस्मिन युद्धे सुदारुणे
करॊधितॊ मम पुत्रेण दुःखितेन विशेषतः
भीष्मः किम अकरॊत तत्र पाण्डवेयेषु संजय
पितामहे वा पाञ्चालास तन ममाचक्ष्व संजय
संजय उवाच
गतपूर्वाह्णभूयिष्ठे तस्मिन्न अहनि भारत
जयं पराप्तेषु हृष्टेषु पाण्डवेषु महात्मसु
सर्वधर्मविशेषज्ञः पिता देवव्रतस तव
अभ्ययाज जवनैर अश्वैः पाण्डवानाम अनीकिनीम
महत्या सेनया गुप्तस तव पुत्रैश च सर्वशः
परावर्तत ततॊ युद्धं तुमुलं लॊमहर्षणम
अस्माकं पाण्डवैः सार्धम अनयात तव भारत
धनुषां कूजतां तत्र तलानां चाभिहन्यताम
महान समभवच छब्दॊ गिरीणाम इव दीर्यताम
तिष्ठ सथितॊ ऽसमि विद्ध्य एनं निवर्तस्व सथिरॊ भव
सथितॊ ऽसमि परहरस्वेति शब्दाः शरूयन्त सर्वशः
काञ्चनेषु तनुत्रेषु किरीटेषु धवजेषु च
शिलानाम इव शैलेषु पतितानाम अभूत सवनः
पतितान्य उत्तमाङ्गानि बाहवश च विभूषिताः
वयचेष्टन्त महीं पराप्य शतशॊ ऽथ सहस्रशः
हृतॊत्तमाङ्गाः के चित तु तथैवॊद्यतकार्मुकाः
परगृहीतायुधाश चापि तस्थुः पुरुषसत्तमाः
परावर्तत महावेगा नदी रुधिरवाहिनी
मातङ्गाङ्गशिलारौद्रा मांसशॊणितकर्दमा
वराश्वनरनागानां शरीरप्रभवा तदा
परलॊकार्णवमुखी गृध्रगॊमायुमॊदिनी
न दृष्टं न शरुतं चापि युद्धम एतादृशं नृप
यथा तव सुतानां च पाण्डवानां च भारत
नासीद रथपथस तत्र यॊधैर युधि निपातितैः
गजैश च पतितैर नीलैर गिरिशृङ्गैर इवावृतम
विकीर्णैः कवचैश चित्रैर धवजैश छत्रैश च मारिष
शुशुभे तद रणस्थानं शरदीव नभस्तलम
विनिर्भिन्नाः शरैः के चिद अन्तपीडाविकर्षिणः
अभीताः समरे शत्रून अभ्यधावन्त दंशिताः
तात भरातः सखे बन्धॊ वयस्य मम मातुल
मा मां परित्यजेत्य अन्ये चुक्रुशुः पतिता रणे
आधावाभ्येहि मा गच्छ किं भीतॊ ऽसि कव यास्यसि
सथितॊ ऽहं समरे मा भैर इति चान्ये विचुक्रुशुः
तत्र भीष्मः शांतनवॊ नित्यं मण्डलकार्मुकः
मुमॊच बाणान दीप्ताग्रान अहीन आशीविषान इव
शरैर एकायनीकुर्वन दिशः सर्वा यतव्रतः
जघान पाण्डवरथान आदिश्यादिश्य भारत
स नृत्यन वै रथॊपस्थे दर्शयन पाणिलाघवम
अलातचक्रवद राजंस तत्र तत्र सम दृश्यते
तम एकं समरे शूरं पाण्डवाः सृञ्जयास तथा
अनेकशतसाहस्रं समपश्यन्त लाघवात
मायाकृतात्मानम इव भीष्मं तत्र सम मेनिरे
पूर्वस्यां दिशि तं दृष्ट्वा परतीच्यां ददृशुर जनाः
उदीच्यां चैनम आलॊक्य दक्षिणस्यां पुनः परभॊ
एवं स समरे वीरॊ गाङ्गेयः परत्यदृश्यत
न चैनं पाण्डवेयानां कश चिच छक्नॊति वीक्षितुम
विशिखान एव पश्यन्ति भीष्मचापच्युतान बहून
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम
वयाक्रॊशन्त रणे तत्र वीरा बहुविधं बहु
अमानुषेण रूपेण चरन्तं पितरं तव
शलभा इव राजानः पतन्ति विधिचॊदिताः
भीष्माग्निम अभि संक्रुद्धं विनाशाय सहस्रशः
न हि मॊघः शरः कश चिद आसीद भीष्मस्य संयुगे
नरनागाश्वकायेषु बहुत्वाल लघुवेधिनः
भिनत्त्य एकेन बाणेन सुमुक्तेन पतत्रिणा
गजकङ्कटसंनाहं वज्रेणेवाचलॊत्तमम
दवौ तरीन अपि गजारॊहान पिण्डितान वर्मितान अपि
नाराचेन सुतीक्ष्णेन निजघान पिता तव
यॊ यॊ भीष्मं नरव्याघ्रम अभ्येति युधि कश चन
मुहूर्तदृष्टः स मया पातितॊ भुवि दृश्यते
एवं सा धर्मराजस्य वध्यमाना महाचमूः
भीष्मेणातुलवीर्येण वयशीर्यत सहस्रधा
परकीर्यत महासेना शरवर्षाभितापिता
पश्यतॊ वासुदेवस्य पार्थस्य च महात्मनः
यतमानापि ते वीरा दरवमाणान महारथान
नाशक्नुवन वारयितुं भीष्मबाणप्रपीडिताः
महेन्द्रसमवीर्येण वध्यमाना महाचमूः
अभज्यत महाराज न च दवौ सह धावतः
आविद्धनरनागाश्वं पतितध्वजकूबरम
अनीकं पाण्डुपुत्राणां हाहाभूतम अचेतनम
जघानात्र पिता पुत्रं पुत्रश च पितरं तथा
परियं सखायं चाक्रन्दे सखा दैवबलात्कृतः
विमुच्य कवचान अन्ये पाण्डुपुत्रस्य सैनिकाः
परकीर्य केशान धावन्तः परत्यदृश्यन्त भारत
तद गॊकुलम इवॊद्भ्रान्तम उद्भ्रान्तरथयूथपम
ददृशे पाण्डुपुत्रस्य सैन्यम आर्तस्वरं तदा
परभज्यमानं तत सैन्यं दृष्ट्वा देवकिनन्दनः
उवाच पार्थं बीभत्सुं निगृह्य रथम उत्तमम
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस तवया
परहरास्मै नरव्याघ्र न चेन मॊहाद विमुह्यसे
यत तवया कथितं वीर पुरा राज्ञां समागमे
भीष्मद्रॊणमुखान सर्वान धार्तराष्ट्रस्य सैनिकान
सानुबन्धान हनिष्यामि ये मां यॊत्स्यन्ति संयुगे
इति तत कुरु कौन्तेय सत्यं वाक्यम अरिंदम
बीभत्सॊ पश्य सैन्यं सवं भज्यमानं समन्ततः
दरवतश च महीपालान सर्वान यौधिष्ठिरे बले
दृष्ट्वा हि समरे भीष्मं वयात्ताननम इवान्तकम
भयार्ताः संप्रणश्यन्ति सिंहं कषुद्रमृगा इव
एवम उक्तः परत्युवाच वासुदेवं धनंजयः
चॊदयाश्वान यतॊ भीष्मॊ विगाह्यैतद बलार्णवम
ततॊ ऽशवान रजतप्रख्यांश चॊदयाम आस माघवः
यतॊ भीष्मरथॊ राजन दुष्प्रेक्ष्यॊ रश्मिमान इव
ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत
दृष्ट्वा पार्थं महाबाहुं भीष्मायॊद्यन्तम आहवे
ततॊ भीष्मः कुरुश्रेष्ठः सिंहवद विनदन मुहुः
धनंजयरथं तूर्णं शरवर्षैर अवाकिरत
कषणेन स रथस तस्य सहयः सहसारथिः
शरवर्षेण महता संछन्नॊ न परकाशते
वासुदेवस तव असंभ्रान्तॊ धैर्यम आस्थाय सत्त्ववान
चॊदयाम आस तान अश्वान वितुन्नान भीष्मसायकैः
ततः पार्थॊ धनुर गृह्य दिव्यं जलदनिस्वनम
पातयाम आस भीष्मस्य धनुश छित्त्वा तरिभिः शरैः
स छिन्नधन्वा कौरव्यः पुनर अन्यन महद धनुः
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव
विचकर्ष ततॊ दॊर्भ्यां धनुर जलदनिस्वनम
अथास्य तद अपि करुद्धश चिच्छेद धनुर अर्जुनः
तस्य तत पूजयाम आस लाघवं शंतनॊः सुतः
साधु पार्थ महाबाहॊ साधु भॊ पाण्डुनन्दन
तवय्य एवैतद युक्तरूपं महत कर्म धनंजय
परीतॊ ऽसमि सुदृढं पुत्र कुरु युद्धं मया सह
इति पार्थं परशस्याथ परगृह्यान्यन महद धनुः
मुमॊच समरे वीरः शरान पार्थरथं परति
अदर्शयद वासुदेवॊ हययाने परं बलम
मॊघान कुर्वञ शरांस तस्य मण्डलान्य अचरल लघु
तथापि भीष्मः सुदृढं वासुदेवधनंजयौ
विव्याध निशितैर बाणैः सर्वगात्रेषु मारिष
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ
गॊवृषाव इव नर्दन्तौ विषाणॊल्लिखिताङ्कितौ
पुनश चापि सुसंक्रुद्धः शरैः संनतपर्वभिः
कृष्णयॊर युधि संरब्धॊ भीष्मॊ वयावारयद दिशः
वार्ष्णेयं च शरैस तीक्ष्णैः कम्पयाम आस रॊषितः
मुहुर अभ्युत्स्मयन भीष्मः परहस्य सवनवत तदा
ततः कृष्णस तु समरे दृष्ट्वा भीष्मपराक्रमम
संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम
भीष्मं च शरवर्षाणि सृजन्तम अनिशं युधि
परतपन्तम इवादित्यं मध्यम आसाद्य सेनयॊः
वरान वरान विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान
युगान्तम इव कुर्वाणं भीष्मं यौधिष्ठिरे बले
अमृष्यमाणॊ भगवान केशवः परवीरहा
अचिन्तयद अमेयात्मा नास्ति यौधिष्ठिरं बलम
एकाह्ना हि रणे भीष्मॊ नाशयेद देवदानवान
किम उ पाण्डुसुतान युद्धे सबलान सपदानुगान
दरवते च महत सैन्यं पाण्डवस्य महात्मनः
एते च कौरवास तूर्णं परभग्नान दृश्य सॊमकान
आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम
सॊ ऽहं भीष्मं निहन्म्य अद्य पाण्डवार्थाय दंशितः
भारम एतं विनेष्यामि पाण्डवानां महात्मनाम
अर्जुनॊ ऽपि शरैस तीक्ष्णैर वध्यमानॊ हि संयुगे
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात
तथा चिन्तयतस तस्य भूय एव पितामहः
परेषयाम आस संक्रुद्धः शरान पार्थरथं परति
तेषां बहुत्वाद धि भृशं शराणां; दिशॊ ऽथ सर्वाः पिहिता बभूवुः
न चान्तरिक्षं न दिशॊ न भूमिर; न भास्करॊ ऽदृश्यत रश्मिमाली
ववुश च वातास तुमुलाः सधूमा; दिशश च सर्वाः कषुभिता बभूवुः
दरॊणॊ विकर्णॊ ऽथ जयद्रथश च; भूरिश्रवाः कृतवर्मा कृपश च
शरुतायुर अम्बष्ठपतिश च राजा; विन्दानुविन्दौ च सुदक्षिणश च
पराच्याश च सौवीरगणाश च सर्वे; वसातयः कषुद्रकमालवाश च
किरीटिनं तवरमाणाभिसस्रुर; निदेशगाः शांतनवस्य राज्ञः
तं वाजिपादातरथौघजालैर; अनेकसाहस्रशतैर ददर्श
किरीटिनं संपरिवार्यमाणं; शिनेर नप्ता वारणयूथपैश च
ततस तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरॊ ऽभिससार तूर्णम
स तान्य अनीकानि महाधनुष्माञ; शिनिप्रवीरः सहसाभिपत्य
चकार साहाय्यम अथार्जुनस्य; विष्णुर यथा वृत्रनिषूदनस्य
विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयॊधम
युधिष्ठिरानीकम अभिद्रवन्तं; परॊवाच संदृश्य शिनिप्रवीरः
कव कषत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात कथितः पुराणैः
मा सवां परतिज्ञां जहत परवीराः; सवं वीरधर्मं परिपालयध्वम
तान वासवान अन्तरजॊ निशम्य; नरेन्द्रमुख्यान दरवतः समन्तात
पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च संख्ये समुदीर्यमाणम
अमृष्यमाणः स ततॊ महात्मा; यशस्विनं सर्वदशार्हभर्ता
उवाच शैनेयम अभिप्रशंसन; दृष्ट्वा कुरून आपततः समन्तात
ये यान्ति यान्त्व एव शिनिप्रवीर; ये ऽपि सथिताः सात्वत ते ऽपि यान्तु
भीष्मं रथात पश्य निपात्यमानं; दरॊणं च संख्ये सगणं मयाद्य
नासौ रथः सात्वत कौरवाणां; करुद्धस्य मुच्येत रणे ऽदय कश चित
तस्माद अहं गृह्य रथाङ्गम उग्रं; पराणं हरिष्यामि महाव्रतस्य
निहत्य भीष्मं सगणं तथाजौ; दरॊणं च शैनेय रथप्रवीरम
परीतिं करिष्यामि धनंजयस्य; राज्ञश च भीमस्य तथाश्विनॊश च
निह्यत्य सर्वान धृतराष्ट्रपुत्रांस; तत्पक्षिणॊ ये च नरेन्द्रमुख्याः
राज्येन राजानम अजातशत्रुं; संपादयिष्याम्य अहम अद्य हृष्टः
ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम
कषुरान्तम उद्यम्य भुजेन चक्रं; रथाद अवप्लुत्य विसृज्य वाहान
संकम्पयन गां चरणैर महात्मा; वेगेन कृष्णः परससार भीष्मम
मदान्धम आजौ समुदीर्णदर्पः; सिंहॊ जिघांसन्न इव वारणेन्द्रम
सॊ ऽभयद्रवद भीष्मम अनीकमध्ये; करुद्धॊ महेन्द्रावरजः परमाथी
वयालम्बिपीतान्तपटश चकाशे; घनॊ यथा खे ऽचिरभापिनद्धः
सुदर्शनं चास्य रराज शौरेस; तच चक्रपद्मं सुभुजॊरुनालम
यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम
तत कृष्णकॊपॊदयसूर्यबुद्धं; कषुरान्ततीक्ष्णाग्रसुजातपत्रम
तस्यैव देहॊरुसरः पररूढं; रराज नारायणबाहुनालम
तम आत्तचक्रं परणदन्तम उच्चैः; करुद्धं महेन्द्रावरजं समीक्ष्य
सर्वाणि भूतानि भृशं विनेदुः; कषयं कुरूणाम इति चिन्तयित्वा
स वासुदेवः परगृहीत चक्रः; संवर्तयिष्यन्न इव जीवलॊकम
अभ्युत्पतँल लॊकगुरुर बभासे; भूतानि धक्ष्यन्न इव कालवह्निः
तम आपतन्तं परगृहीतचक्रं; समीक्ष्य देवं दविपदां वरिष्ठम
असंभ्रमात कार्मुकबाणपाणी; रथे सथितः शांतनवॊ ऽभयुवाच
एह्य एहि देवेश जगन्निवास; नमॊ ऽसतु ते शार्ङ्गरथाङ्गपाणे
परसह्य मां पातय लॊकनाथ; रथॊत्तमाद भूतशरण्य संख्ये
तवया हतस्येह ममाद्य कृष्ण; शरेयः परस्मिन्न इह चैव लॊके
संभावितॊ ऽसम्य अन्धकवृष्णिनाथ; लॊकैस तरिभिर वीर तवाभियानात
रथाद अवप्लुत्य ततस तवरावान; पार्थॊ ऽपय अनुद्रुत्य यदुप्रवीरम
जग्राह पीनॊत्तमलम्बबाहुं; बाह्वॊर हरिं वयायतपीनबाहुः
निगृह्यमाणश च तदादिदेवॊ; भृशं सरॊषः किल नाम यॊगी
आदाय वेगेन जगाम विष्णुर; जिष्णुं महावात इवैकवृक्षम
पार्थस तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णम अभिद्रवन्तम
बलान निजग्राह किरीटमाली; पदे ऽथ राजन दशमे कथं चित
अवस्थितं च परणिपत्य कृष्णं; परीतॊ ऽरजुनः काञ्चनचित्रमाली
उवाच कॊपं परतिसंहरेति; गतिर भवान केशव पाण्डवानाम
न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सॊदरैश च
अन्तं करिष्यामि यथा कुरूणां; तवयाहम इन्द्रानुज संप्रयुक्तः
ततः परतिज्ञां समयं च तस्मै; जनार्दनः परीतमना निशम्य
सथितः परिये कौरवसत्तमस्य; रथं सचक्रः पुनर आरुरॊह
स तान अभीषून पुनर आददानः; परगृह्य शङ्खं दविषतां निहन्ता
विनादयाम आस ततॊ दिशश च; स पाञ्चजन्यस्य रवेण शौरिः
वयाविद्धनिष्काङ्गदकुण्डलं तं; रजॊ विकीर्णाश चित पक्ष्म नेत्रम
विशुद्धदंष्ट्रं परगृहीतशङ्खं; विचुक्रुशुः परेक्ष्य कुरुप्रवीराः
मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश च
ससिंहनादाश च बभूवुर उग्राः; सर्वेष्व अनीकेषु ततः कुरूणाम
गाण्डीवघॊषः सतनयित्नुकल्पॊ; जगाम पार्थस्य नभॊ दिशश च
जग्मुश च बाणा विमलाः परसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः
तं कौरवाणाम अधिपॊ बलेन; भीष्मेण भूरिश्रवसा च सार्धम
अभ्युद्ययाव उद्यतबाणपाणिः; कक्षं दिधक्षन्न इव धूमकेतुः
अथार्जुनाय परजहार भल्लान; भूरिश्रवाः सप्त सुवर्णपुङ्खान
दुर्यॊधनस तॊमरम उग्रवेगं; शल्यॊ गदां शांतनवश च शक्तिम
स सप्तभिः सप्त शरप्रवेकान; संवार्य भूरिश्रवसा विसृष्टान
शितेन दुर्यॊधनबाहुमुक्तं; कषुरेण तत तॊमरम उन्ममाथ
ततः शुभाम आपततीं स शक्तिं; विद्युत्प्रभां शांतनवेन मुक्ताम
गदां च मद्राधिपबाहुमुक्तां; दवाभ्यां शराभ्यां निचकर्त वीरः
ततॊ भुजाभ्यां बलवद विकृष्य; चित्रं धनुर गाण्डिवम अप्रमेयम
माहेन्द्रम अस्त्रं विधिवत सुघॊरं; परादुश्चकाराद्भुतम अन्तरिक्षे
तेनॊत्तमास्त्रेण ततॊ महात्मा; सर्वाण्य अनीकानि महाधनुष्मान
शरौघजालैर विमलाग्निवर्णैर; निवारयाम आस किरीटमाली
शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान धवजाग्राणि धनूंषि बाहून
निकृत्य देहान विविशुः परेषां; नरेन्द्रनागेन्द्रतुरंगमाणाम
ततॊ दिशश चानुदिशश च पार्थः; शरैः सुधारैर निशितैर वितत्य
गाण्डीवशब्देन मनांसि तेषां; किरीटमाली वयथयां चकार
तस्मिंस तथा घॊरतमे परवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश च
अन्तर्हिता गाण्डिवनिस्वनेन; भभूवुर उग्राश च रणप्रणादाः
गाण्डीवशब्दं तम अथॊ विदित्वा; विराटराजप्रमुखा नृवीराः
पाञ्चालराजॊ दरुपदश च वीरस; तं देशम आजग्मुर अदीनसत्त्वाः
सर्वाणि सैन्यानि तु तावकानि; यतॊ यतॊ गाण्डिवजः परणादः
ततस ततः संनतिम एव जग्मुर; न तं परतीपॊ ऽभिससार कश चित
तस्मिन सुघॊरे नृपसंप्रहारे; हताः परवीराः सरथाः ससूताः
गजाश च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः
परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः
दृढाहताः पत्रिभिर उग्रवेगैः; पार्थेन भल्लैर निशितैः शिताग्रैः
निकृत्तयन्त्रा निहतेन्द्रकीला; धवजा महान्तॊ धवजिनीमुखेषु
पदातिसंघाश च रथाश च संख्ये; हयाश च नागाश च धनंजयेन
बाणाहतास तूर्णम अपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुर उर्व्याम
ऐन्द्रेण तेनास्त्रवरेण राजन; महाहवे भिन्नतनुत्रदेहाः
ततः शरौघैर निशितैः किरीटिना; नृदेहशस्त्रक्षतलॊहितॊदा
नदी सुघॊरा नरदेहफेना; परवर्तिता तत्र रणाजिरे वै
वेगेन सातीव पृथुप्रवाहा; परसुस्रुता भैरवारावरूपा
परेतनागाश्वशरीररॊधा; नरान्त्रमज्जाभृतमांसपङ्का
परभूतरक्षॊगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला
शरीरसंघातसहस्रवाहिनी; विशीर्णनानाकवचॊर्मिसंकुला
नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा
तां कङ्कमालावृतगृध्रकह्वैः; करव्यादसंघैश च तरक्षुभिश च
उपेतकूलां ददृशुः समन्तात; करूरां महावैतरणीप्रकाशाम
परवर्तिताम अर्जुनबाणसंघैर; मेदॊवसासृक्प्रवहां सुभीमाम
ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश च सर्वे सहिताः परणेदुः
वित्रास्य सेनां धवजिनीपतीनां; सिंहॊ मृगाणाम इव यूथसंघान
विनेदतुस ताव अतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश च
ततॊ रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः
तद ऐन्द्रम अस्त्रं विततं सुघॊरम; असह्यम उद्वीक्ष्य युगान्तकल्पम
अथापयानं कुरवः सभीष्माः; सद्रॊणदुर्यॊधनबाह्लिकाश च
चक्रुर निशां संधिगतां समीक्ष्य; विभावसॊर लॊहितराजियुक्ताम
अवाप्य कीर्तिं च यशश च लॊके; विजित्य शत्रूंश च धनंजयॊ ऽपि
ययौ नरेन्द्रैः सह सॊदरैश च; समाप्तकर्मा शिबिरं निशायाम
ततः परजज्ञे तुमुलः कुरूणां; निशामुखे घॊरतरः परणादः
रणे रथानाम अयुतं निहत्य; हता गजाः सप्तशतार्जुनेन
पराच्याश च सौवीरगणाश च सर्वे; निपातिताः कषुद्रकमालवाश च
महत कृतं कर्म धनंजयेन; कर्तुं यथा नार्हति कश चिद अन्यः
शरुतायुर अम्बष्ठपतिश च राजा; तथैव दुर्मर्षणचित्रसेनौ
दरॊणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन
सवबाहुवीर्येण जिताः सभीष्माः; किरीटिना लॊकमहारथेन
इति बरुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये तवदीयाः
उल्कासहस्रैश च सुसंप्रदीप्तैर; विभ्राजमानैश च तथा परदीपैः
किरीटिवित्रासितसर्वयॊधा; चक्रे निवेशं धवजिनी कुरूणाम
[स]
वयुष्टां निशां भारत भारतानाम; अनीकिनिनां परमुखे महात्मा
ययौ सपत्नान परति जातकॊपॊ; वृतः समग्रेण बलेन भीष्मः
तं दरॊणदुर्यॊधनबाह्लिकाश च; तथैव दुर्मर्षणचित्रसेनौ
जयद्रथश चातिबलॊ बलौघैर; नृपास तथान्ये ऽनुययुः समन्तात
स तैर महद्भिश च महारथैश; च तेजस्विभिर वीर्यवद्भिश च राजन
रराज राजॊत्तमराजमुखैर; वृतः स देवैर इव वर्ज पाणिः
तस्मिन्न अनीक परमुखे विषक्ता; दॊधूयमानाश च महापताकाः
सुरक्त पीतासित पाण्डुर आभा; महागजस्कन्धगता विरेजुः
सा वाहिनी शांतनवेन राज्ञा; महारथैर वारणवाजिभिश च
बभौ स विद्युत सतनयित्नुकल्पा; जलागमे दयौर इव जातमेघा
ततॊ रणायाभिमुखी परयाता; परत्य अर्जुनं शांतनवाभिगुप्ता
सेना महॊग्रा सहसा करूणां; वेगॊ यथा भीम इवापगायाः
तं वयालनानाविध विगूढ सारं; गजाश्वपादातरथौघपक्षम
वयूहं महामेघसमं महात्मा; ददर्श दुरात कपिराजकेतुः
स निर्ययौ केतुमता रथेन; नरर्षभः शवेतहयेन वीरः
वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्न यूनाम
सूपस्करं सॊत्तर बन्धुरेषं; यत्तं यदूनाम ऋषभेण संख्ये
कपिध्वजं परेक्ष्य विषेदुर आजौ; सहैव पुत्रैस तव कौरवेयाः
परकर्षता गुप्तम उदायुधेन; किरीटिना लॊकमहारथेन
तं वयूह राजं ददृशुस तवदीयाश; चतुश चतुर्व्याल सहस्रकीर्णम
यथा हि पूर्वे ऽहनि धर्मराज्ञा वयूहः; कृतः कौरवनन्दनेन
तथा तथॊद्देशम उपेत्य तस्थुः; पाञ्चाल मुख्यैः सह चेदिमुख्याः
ततॊ महावेगसमाहतानि; भेरीसहस्राणि विनेदुर आजौ
शङ्खस्वना दुन्दुभिनिस्वनाश च; सर्वेष्व अनीकेषु ससिंहनादाः
ततः स बाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः
कषणेन भेरी पणवप्रणादान; अन्तर्दधुः शङ्खमहास्वनाश च
तच छङ्खशब्दावृतम अन्तरिक्षम; उद्धुत भौम दरुतरेणुजालम
महावितानावतत परकाशम; आलॊक्य वीराः सहसाभिपेतुः
रथी रथेनाभिहतः ससूतः; पपात साश्वः स रथः स केतुः
गजॊ गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः
आवर्तमानान्य अभिवर्तमानैर; बाणैः कषतान्य अद्भुतदर्शनानि
परासैश च खड्गैश च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः
सुवर्णतारा गणभूषितानि; शरावराणि परहितानि वीरैः
विदार्यमाणानि परश्वधैश च; परासैश च खड्गैश च निपेतुर उर्व्याम
गजैर विषाणैर वरहस्तरुग्णाः; के चित ससूता रथिनः परपेतुः
गजर्षभाश चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम
गजौघवेगॊद्धतसादितानां; शरुत्वा निषेदुर वसुधां मनुष्याः
आर्तस्वरं सादिपदातियूनां; विषाण गात्रावर ताडितानाम
संभ्रान्तनागाश्वरथे परसूते; महाभये सादिपदाति यूनाम
महारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम
तं पञ्च तालॊच्छ्रिततालकेतुः; सदश्ववेगॊद्धत वीर्ययातः
महास्त्र बाणाशनिदीप्तमार्गं; किरीटिनं शांतनवॊ ऽभयधावत
तथैव शक्र परतिमानकल्पम; इन्द्रात्मजं दरॊण मुखाभिसस्रुः
कृपश च शल्यश च विविंशतिश च; दुर्यॊधनः सौमदत्तिश च राजन
ततॊ रथानीक मुखाद उपेत्य; सर्वास्त्रवित काञ्चनचित्रवर्मा
जवेन शूरॊ ऽभिससार सर्वांस; तथार्जुनस्यात्र सुतॊ ऽभिमन्युः
तेषां महास्त्राणि महारथानाम; असक्तकर्मा विनिहत्य कार्ष्णिः
बभौ महामन्त्रहुतार्चि माली; सगॊद्गतः सन भगवान इवाग्निः
ततः स तूर्णं रुधिरॊद फेनां; कृत्वा नदीं वैशसने रिपूणाम
जगाम सौभद्रम अतीत्य भीष्मॊ; महारथं पार्थम अदीनसत्त्वः
ततः परहस्याद्भुत दर्शनेन; गाण्डीवनिर्ह्वाद महास्वनेन
विपाठ जालेन महास्त्र जालं; विनाशयाम आस किरीटमाली
तम उत्तमं सर्वधनुर्धराणाम; असक्तकर्मा कपिराजकेतुः
भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर विमलैश च भल्लैः
एवंविधं कार्मुकभीम नादम; अदीनवत सत्पुरुषॊत्तमाभ्याम
ददर्श लॊकः कुरुसृञ्जयाश च; तद दवैरथं भीष्म धनंजयाभ्याम
[स]
दरौणिर भूरिश्रवाः शल्यश चित्रसेनश च मारिष
पुत्रः साम्यमनेश चैव सौभद्रं समयॊधयन
संसक्तम अतिरेजॊभिस तम एकं ददृशुर जनाः
पञ्चभिर मनुजव्याघ्रैर गजैः सिंहशिशुं यथा
नाभिलक्ष्यतया कश चिन न शौर्ये न पराक्रमे
बभूव सदृशः कार्ष्णेर नास्त्रे नापि च लाघवे
तथा तम आत्मजं युद्धे विक्रमन्तम अरिंदमम
दृष्ट्वा पार्थॊ रणे यत्तः सिंहनादम अथॊ ऽनदत
पीडयानं च तत सैन्यं पौत्रं तव विशां पते
दृष्ट्वा तवदीया राजेन्द्र समन्तात पर्यवारयन
धवजिनीं धार्तराष्ट्राणां दीनशत्रुर अदीनवत
परत्युद्ययौ स सौभद्रस तेजसा च बलेन च
तस्य लाघवमार्गस्थम आदित्यसदृशप्रभम
वयदृश्यत महच चापं समरे युध्यतः परैः
स दरौणिम इषुणैकेन विद्ध्वा शल्यं च पञ्चभिः
धवजं साम्यमनेश चापि सॊ ऽषटाभिर अपवर्जयत
रुक्मदण्डां महाशक्तिं परेषितां सौमदत्तिना
शितेनॊरग संकाशां पुत्रिणा विजहार ताम
शल्यस्य च महाघॊरान अस्यतः शतशः शरान
निवार्यार्जुन दायातॊ जघान समरे हयान
भूरिश्रवाश च शल्यश च दरौणिः साम्यमनिः शलः
नाभ्यवर्तन्त संरब्धाः कार्ष्णेर बाहुबलाश्रयात
ततस तरिगर्ता राजेन्द्र मद्राश च सह केकयैः
पञ्चत्रिंशति साहस्रास तव पुत्रेण चॊदिताः
धनुर्वेदविदॊ मुख्या अजेयाः शत्रुभिर युधि
सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम
तौ तु तत्र पिता पुत्रौ परिक्षिप्तौ रथर्षभौ
ददर्श राजन पाञ्चाल्यः सेनापतिर अमित्रजित
स वारणरथौघानां सहस्रैर बहुभिर वृतः
वाजिभिः पत्तिभिश चैव वृतः शतसहस्रशः
धनुर विस्फार्य संक्रुद्धश चॊदयित्वा वरूथिनीम
ययौ तन मद्रकानीकं केकयांश च परंतपः
तेन कीर्तिमता गुप्तम अनीकं दृढधन्वना
परयुक्त रथनागाश्वं यॊत्स्यमानम अशॊभत
सॊ ऽरजुनं परमुखे यान्तं पाञ्चाल्यः कुरुनन्दन
तरिभिः शारद्वतं बाणैर जत्रु देशे समर्पयत
ततः स मद्रकान हत्वा दशभिर दशभिः शरैः
हृष्ट एकॊ जघानाश्वं भल्लेन कृतवर्मणः
दमनं चापि दायादं पौरवस्य महात्मनः
जघान विपुलाग्रेण नाराचेन परंतपः
ततः साम्यमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम
अविध्यत तरिंशता बाणैर दशभिश चास्य सारथिम
सॊ ऽतिविद्धॊ महेष्वासः सृक्किणी परिसंलिहन
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम
अथैनं पञ्चविंशत्या कषिप्रम एव समर्पयत
अश्वांश चास्यावधीद राजन्न उभौ तौ पार्ष्णिसारथी
स हताश्वे रथे तिष्ठन ददर्श भरतर्षभ
पुत्रः साम्यमनेः पुत्रं पाञ्चाल्यस्य महात्मनः
स संगृह्य महाघॊरं निस्त्रिंशवरम आयसम
पदातिस तूर्णम अभ्यर्छद रथस्थं दरुपदात्मजम
तं महौघम इवायान्तं खात पतन्तम इवॊरगम
भरान्तावरण निस्त्रिंशं कालॊत्सृष्टम इवान्तकम
दीप्यन्तम इव शस्त्रार्च्या मत्तवारणविक्रमम
अपश्यन पाण्डवास तत्र धृष्टद्युम्नश च पार्षतः
तस्य पाञ्चाल पुत्रस तु परतीपम अभिधावतः
शितनिस्त्रिंशहस्तस्य शरावरण धारिणः
बाणवेगम अतीतस्य रथाभ्याशम उपेयुषः
तवरन सेनापतिः करुद्धॊ बिभेद गदया शिरः
तस्य राजन सनिस्त्रिंशं सुप्रभं च शरावरम
हतस्य पततॊ हस्ताद वेगेन नयपतद भुवि
तं निहत्य गदाग्रेण लेभे स परमं यशः
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः
तस्मिन हते महेष्वासे राजपुत्रे महारथे
हाहाकारॊ महान आसीत तव सैन्यस्य मारिष
ततः साम्यमनिः करुद्धॊ दृष्ट्वा निहतम आत्मजम
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम
तौ तत्र समरे वीरौ समेतौ रथिनां वरौ
ददृशुः सर्वराजानः कुरवः पाण्डवास तथा
ततः साम्यमनिः करुद्धः पार्षतं परवीरहा
आजघान तरिभिर बाणैस तॊत्त्रैर इव महाद्विपम
तथैव पार्षतं शूरं शल्यः समितिशॊभनः
आजघानॊरसि करुद्धस ततॊ युद्धम अवर्तत
धृतराष्ट्र उवाच
दैवम एव परं मन्ये पौरुषाद अपि संजय
यत सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते
नित्यं हि मामकांस तात हतान एव हि शंससि
अव्यग्रांश च परहृष्टांश च नित्यं शंससि पाण्डवान
हीनान पुरुषकारेण मामकान अद्य संजय
पतितान पात्यमानांश च हतान एव च शंससि
युध्यमानान यथाशक्ति घटमानाञ जयं परति
पाण्डवा विजयन्त्य एव जीयन्ते चैव मामकाः
सॊ ऽहं तीव्राणि दुःखानि दुर्यॊधनकृतानि च
अश्रौषं सततं तात दुःसहानि बहूनि च
तम उपायं न पश्यामि जीयेरन येन पाण्डवाः
मामका वा जयं युद्धे पराप्नुयुर येन संजय
संजय उवाच
कषयं मनुष्यदेहानां गजवाजिरथक्षयम
शृणु राजन सथिरॊ भूत्वा तवैवापनयॊ महान
धृष्टद्युम्नस तु शल्येन पीडितॊ नवभिः शरैः
पीडयाम आस संक्रुद्धॊ मद्राधिपतिम आयसैः
तत्राद्भुतम अपश्याम पार्षतस्य पराक्रमम
नयवारयत यत तूर्णं शल्यं समितिशॊभनम
नान्तरं ददृशे कश चित तयॊः संरब्धयॊ रणे
मुहूर्तम इव तद युद्धं तयॊः समम इवाभवत
ततः शल्यॊ महाराज धृष्टद्युम्नस्य संयुगे
धनुश चिच्छेद भल्लेन पीतेन निशितेन च
अथैनं शरवर्षेण छादयाम आस भारत
गिरिं जलागमे यद्वज जलदा जलधारिणः
अभिमन्युस तु संक्रुद्धॊ धृष्टद्युम्ने निपीडिते
अभिदुद्राव वेगेन मद्रराजरथं परति
ततॊ मद्राधिपरथं कार्ष्णिः पराप्यातिकॊपनः
आर्तायनिम अमेयात्मा विव्याध विशिखैस तरिभिः
ततस तु तावका राजन परीप्सन्तॊ ऽऽरजुनिं रणे
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे
दुर्यॊधनॊ विकर्णश च दुःशासनविविंशती
दुर्मर्षणॊ दुःसहश च चित्रसेनश च दुर्मुखः
सत्यव्रतश च भद्रं ते पुरुमित्रश च भारत
एते मद्राधिपरथं पालयन्तः सथिता रणे
तान भीमसेनः संक्रुद्धॊ धृष्टद्युम्नश च पार्षतः
दरौपदेयाभिमन्युश च माद्रीपुत्रौ च पाण्डवौ
नानारूपाणि शस्त्राणि विसृजन्तॊ विशां पते
अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः
ते वै समीयुः संग्रामे राजन दुर्मन्त्रिते तव
तस्मिन दाशरथे युद्धे वर्तमाने भयावहे
तावकानां परेषां च परेक्षका रथिनॊ ऽभवन
शस्त्राण्य अनेकरूपाणि विसृजन्तॊ महारथाः
अन्यॊन्यम अभिनर्दन्तः संप्रहारं परचक्रिरे
ते यत्ता जातसंरम्भाः सर्वे ऽनयॊन्यं जिघांसवः
महास्त्राणि विमुञ्चन्तः समापेतुर अमर्षणाः
दुर्यॊधनस तु संक्रुद्धॊ धृष्टद्युम्नं महारणे
विव्याध निशितैर बाणैश चतुर्भिस तवरितॊ भृशम
दुर्मर्षणश च विंशत्या चित्रसेनश च पञ्चभिः
दुर्मुखॊ नवभिर बाणैर दुःसहश चापि सप्तभिः
विविंशतिः पञ्चभिश च तरिभिर दुःशासनस तथा
तान परत्यविध्यद राजेन्द्र पार्षतः शत्रुतापनः
एकैकं पञ्चविंशत्या दर्शयन पाणिलाघवम
सत्यव्रतं तु समरे पुरुमित्रं च भारत
अभिमन्युर अविध्यत तौ दशभिर दशभिः शरैः
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ
छादयेतां शरव्रातैस तद अद्भुतम इवाभवत
ततः शल्यॊ महाराज सवस्रीयौ रथिनां वरौ
शरैर बहुभिर आनर्छत कृतप्रतिकृतैषिणौ
छाद्यमानौ ततस तौ तु माद्रीपुत्रौ न चेलतुः
अथ दुर्यॊधनं दृष्ट्वा भीमसेनॊ महाबलः
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः
तम उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम
भीमसेनं महाबाहुं पुत्रास ते पराद्रवन भयात
दुर्यॊधनस तु संक्रुद्धॊ मागधं समचॊदयत
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात
आपतन्तं च तं दृष्ट्वा गजानीकं वृकॊदरः
गदापाणिर अवारॊहद रथात सिंह इवॊन्नदन
अद्रिसारमयीं गुर्वीं परगृह्य महतीं गदाम
अभ्यधावद गजानीकं वयादितास्य इवान्तकः
स गजान गदया निघ्नन वयचरत समरे बली
भीमसेनॊ महाबाहुः सवज्र इव वासवः
तस्य नादेन महता मनॊहृदयकम्पिना
वयत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः
ततस तु दरौपदीपुत्राः सौभद्रश च महारथः
नकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः
पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान
अभ्यधावन्त वर्षन्तॊ मेघा इव गिरीन यथा
कषुरैः कषुरप्रैर भल्लैश च पीतैर अञ्जलिकैर अपि
पातयन्तॊत्तमाङ्गानि पाण्डवा गजयॊधिनाम
शिरॊभिः परपतद्भिश च बाहुभिश च विभूषितैः
अश्मवृष्टिर इवाभाति पाणिभिश च सहाङ्कुशैः
हृतॊत्तमाङ्गाः सकन्धेषु गजानां गजयॊधिनः
अदृश्यन्ताचलाग्रेषु दरुमा भग्नशिखा इव
धृष्टद्युम्नहतान अन्यान अपश्याम महागजान
पतितान पात्यमानांश च पार्षतेन महात्मना
मागधॊ ऽथ महीपालॊ गजम ऐरावणॊपमम
परेषयाम आस समरे सौभद्रस्य रथं परति
तम आपतन्तं संप्रेक्ष्य मागधस्य गजॊत्तमम
जघानैकेषुणा वीरः सौभद्रः परवीरहा
तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः
राज्ञॊ रजतपुङ्खेन भल्लेनापहरच छिरः
विगाह्य तद गजानीकं भीमसेनॊ ऽपि पाण्डवः
वयचरत समरे मृद्नन गजान इन्द्रॊ गिरीन इव
एकप्रहाराभिहतान भीमसेनेन कुञ्जरान
अपश्याम रणे तस्मिन गिरीन वज्रहतान इव
भग्नदन्तान भग्नकटान भग्नसक्थांश च वारणान
भग्नपृष्ठान भग्नकुम्भान निहतान पर्वतॊपमान
नदतः सीदतश चान्यान विमुखान समरे गजान
विमूत्रान भग्नसंविग्नांस तथा विशकृतॊ ऽपरान
भीमसेनस्य मार्गेषु गतासून पर्वतॊपमान
अपश्याम हतान नागान निष्टनन्तस तथापरे
वमन्तॊ रुधिरं चान्ये भिन्नकुम्भा महागजाः
विह्वलन्तॊ गता भूमिं शैला इव धरातले
मेदॊरुधिरदिग्धाङ्गॊ वसामज्जासमुक्षितः
वयचरत समरे भीमॊ दण्डपाणिर इवान्तकः
गजानां रुधिराक्तां तां गदां बिभ्रद वृकॊदरः
घॊरः परतिभयश चासीत पिनाकीव पिनाकधृक
निर्मथ्यमानाः करुद्धेन भीमसेनेन दन्तिनः
सहसा पराद्रवञ शिष्टा मृद्नन्तस तव वाहिनीम
तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः
पर्यरक्षन्त युध्यन्तं वज्रायुधम इवामराः
शॊणिताक्तां गदां बिभ्रद उक्षितॊ गजशॊणितैः
कृतान्त इव रौद्रात्मा भीमसेनॊ वयदृश्यत
वयायच्छमानं गदया दिक्षु सर्वासु भारत
नृत्यमानम अपश्याम नृत्यन्तम इव शंकरम
यमदण्डॊपमां गुर्वीम इन्द्राशनिसमस्वनाम
अपश्याम महाराज रौद्रां विशसनीं गदाम
विमिश्रां केशमज्जाभिः परदिग्धां रुधिरेण च
पिनाकम इव रुद्रस्य करुद्धस्याभिघ्नतः पशून
यथा पशूनां संघातं यष्ट्या पालः परकालयेत
तथा भीमॊ गजानीकं गदया पर्यकालयत
गदया वध्यमानास ते मार्गणैश च समन्ततः
सवान्य अनीकानि मृद्नन्तः पराद्रवन कुञ्जरास तव
महावात इवाभ्राणि विधमित्वा स वारणान
अतिष्ठत तुमुले भीमः शमशान इव शूलभृत
[स]
तस्मिन हते गजानीके पुत्रॊ दुर्यॊधनस तव
भीमसेनं घनतेत्य एवं सव सैन्यान्य अचॊदयत
ततः सर्वाण्य अनीकानि तव पुत्रस्य शासनात
अभ्यद्रवन भीमसेनं नदन्तं भैरवान रवान
तं बलौघम अपर्यन्तं देवैर अपि दुरुत्सहम
आपतन्तं सुदुष्पारं समुद्रम इव पर्वणि
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम
अथानन्तम अपारं च नरेन्द्र सतिमितह्रदम
तं भीमसेनः समरे महॊदधिम इवापरम
सेनासागरम अक्षॊभ्यं वेलेव समवारयत
तद आश्चर्यम अपश्याम शरद्धेयम अपि चाद्भुतम
भीमसेनस्य समरे राजन कर्मातिमानुषम
उदीर्णां पृथिवीं सर्वां साश्वां स रथकुञ्जराम
असंभ्रमं भीमसेनॊ गदया समताडयत
स संवार्य बलौघांस तान गदया रथिनां वरः
अतिष्ठत तुमुले भीमॊ गिरिर मेरुर इवाचलः
तस्मिन सुतुमुले घॊरे काले परमदारुणे
भरातरश चैव पुत्राश च धृष्टद्युम्नश च पार्षतः
दरौपदेयाभिमन्युश च शिखण्डी च महारथः
न पराजहन भीमसेनं भये जाते महाबलम
ततः शैक्यायसीं गुर्वीं परगृह्य महतीं गदाम
अवधीत तावकान यॊधान दण्डपाणिर इवान्तकः
पॊथयन रथवृन्दानि वाजिवृन्दानि चाभिभूः
वयचरत समरे भीमॊ युगाङ्गे पावकॊ यथा
विनिघ्नन समरे सर्वान युगान्ते कालवद विभुः
ऊरुवेगेन संकर्षन रथजालानि पाण्डवः
परमर्दयन गजान सर्वान नड्वलानीव कुञ्जरः
मृद्नन रथेभ्यॊ रथिनॊ गजेभ्यॊ गजयॊधिनः
सादिनश चाश्वपृष्ठेभ्यॊ भूमौ चैव पदातिनः
तत्र तत्र हतैश चापि मनुष्यगजवाजिभिः
रणाङ्गणं तद अभवन मृत्यॊर आघत संनिभम
पिनाकम इव रुद्रस्य करुद्धस्याभिघ्नतः पशून
यमदण्डॊपमाम उग्राम इन्द्राशनिसमस्वनाम
ददृशुर भीमसेनस्य रौद्रां विशसनीं गदाम
आविध्यतॊ गदां तस्य कौन्तेयस्य महात्मनः
बभौ रूपं महाघॊरं कालस्येव युगक्षये
तं तथा महतीं सेनां दरावयन्तं पुनः पुनः
दृष्ट्वा मृत्युम इवायान्तं सर्वे विमनसॊ ऽभवन
यतॊ यतः परेक्षते सम गदाम उद्यम्य पाण्डवः
तेन तेन सम दीर्यन्ते सर्वसैन्यानि भारत
परदारयन्तं सैन्यानि बलौघेनापराजितम
गरसमानम अनीकानि वयादितास्यम इवान्तकम
तं तथा भीमकर्माणं परगृहीतमहागदम
दृष्ट्वा वृकॊदरं भीष्मः सहसैव समभ्ययात
महता मेघघॊषेण रथेनादित्यवर्चसा
छादयञ शरवर्षेण पर्जन्य इव वृष्टिमान
तम आयान्तं तथा दृष्ट्वा वयात्ताननम इवान्तकम
भीष्मं भीमॊ महाबाहुः परत्युदीयाद अमर्षणः
तस्मिन कषणे सात्यकिः सत्यसंधः; शिनिप्रवीरॊ ऽभयपतत पितामहम
निघ्नन्न अमित्रान धनुषा दृढेन; स कम्पयंस तव पुत्रस्य सेनाम
तं यान्तम अश्वै रजतप्रकाशैः; शरान धमन्तं धनुषा दृढेन
नाशक्नुवन वारयितुं तदानीं; सर्वे गणा भारत ये तवदीयाः
अविध्यद एनं निशितैः शराग्रैर; अलम्बुसॊ राजवरार्श्यशृङ्गिः
तं वै चतुर्भिः परतिविध्य वीरॊ; नप्ता शिनेर अभ्यपतद रथेन
अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम
परावर्तयन्तं कुरुपुंगवांश च; पुनः पुनश च परणदन्तम आजौ
नाशक्नुवन वारयितुं वरिष्ठं; मध्यन्दिने सूर्यम इवातपन्तम
न तत्र कश चिन्न अविषण्ण आसीद; ऋते राजन सॊमदत्तस्य पुत्रात
स हय आददानॊ धनुर उग्रवेगं; भूरिश्रवा भारत सौमदत्तिः
दृष्ट्वा रथान सवान वयपनीयमानान; परत्युद्ययौ सात्यकिं यॊद्धुम इच्छन
[स]
ततॊ भूरिश्रवा राजन सात्यकिं नवभिः शरैः
अविध्यद भृशसंक्रुद्धस तॊत्त्रैर इव महाद्विपम
कौरवं सात्यकिश चैव शरैः संनतपर्वभिः
अवाकिरद अमेयात्मा सर्वलॊकस्य पश्यतः
ततॊ दुयॊधनॊ राजा सॊदर्यैः परिवारितः
सौमदत्तिं रणे यत्तः समन्तात पर्यवारयत
तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे
परिवार्य सथिताः संख्ये समन्तात सुमहौजसः
भीमसेनस तु संक्रुद्धॊ गदाम उद्यम्य भारत
दुर्यॊधनमुखान सर्वान पुत्रांस ते पर्यवारयत
रथैर अनेकसाहस्रैः करॊधामर्षसमन्वितः
नन्दकस तव पुत्रस तु भीमसेनं महाबलम
विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः
दुर्यॊधनस तु समरे भीमसेनं महाबलम
आजघानॊरसि करुद्धॊ मार्गणैर निशितैस तरिभिः
ततॊ भीमॊ महाबाहुः सवरथं सुमहाबलः
आरुरॊह रतः शरेष्ठं विशॊकं चेदम अब्रवीत
एते महारथाः शूरा धार्तराष्ट्रा महाबलाः
माम एव भृशसंक्रुद्धा हन्तुम अभ्युद्यता युधि
एतान अद्य हनिष्यामि पश्यतस ते न संशयः
तस्मान ममाश्वान संग्रामे यत्तः संयच्छ सारथे
एवम उक्त्वा ततः पार्थः पुत्रं दुर्यॊधनं तव
विव्याध दशभिस तीक्ष्णैः शरैः कनकभूषणैः
नन्दकं च तरिभिर बाणैः पत्यविध्यत सतनान्तरे
तं तु दुर्यॊधनः षष्ट्या विद्ध्वा भीमं महाबलम
तरिभिर अन्यैः सुनिशितैर विशॊकं परत्यविध्यत
भीमस्य च रणे राजन धनुश चिछेद भास्वरम
मुष्टिदेशे शरैस तीक्ष्णैस तरिभी राजा हसन्न इव
भीमस तु परेक्ष्य यन्तारं विशॊकं संयुगे तदा
पीडितं विशिखैस तीक्ष्णैस तव पुत्रेण धन्विना
अमृष्यमाणः संक्रुद्धॊ धनुर दिव्यं परामृशत
पुत्रस्य ते महाराज वधार्थं भरतर्षभ
समादत्त च संरब्धः कषुरप्रं लॊमवाहिनम
तेन चिच्छेद नृपतेर भीमः कार्मुकम उत्तमम
सॊ ऽपविध्य धनुश छिन्नं करॊधेन परज्वलन्न इव
अन्यत कार्मुकम आदत्त स तवरं वेगवत्तरम
संधत्त विशिखं घॊरं कालमृत्युसमप्रभम
तेनाजघान संक्रुद्धॊ भीमसेनं सतनान्तरे
स गाढविद्धॊ वयथितः सयन्दनॊपस्थ आविशत
स निषण्णॊ रथॊपस्थे मूर्छाम अभिजगाम ह
तं दृष्ट्वा वयथितं भीमम अभिमन्युपुरॊगमाः
नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः
ततस तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम
पातयाम आसुर अव्यग्राः पुत्रस्य तव मूर्धनि
परतिलभ्य ततः संज्ञां भीमसेनॊ महाबलः
दुर्यॊधनं तरिभिर विद्ध्वा पुनर विव्याध पञ्चभिः
शल्यं च पञ्चविंशत्या शरैर विव्याध पाण्डवः
रुक्मपुङ्खैर महेष्वासः स विद्धॊ वयपयाद रणात
परत्युद्ययुस ततॊ भीमं तव पुत्राश चतुर्दश
सेनापतिः सुषेणश च जलसंधः सुलॊचनः
उग्रॊ भीम रथॊ भीमॊ भीम बाहुर अलॊलुपः
दुर्मुखॊ दुष्प्रधर्षश च विवित्सुर विकटः समः
विसृजन्तॊ बहून बाणान करॊधसंरक्तलॊचनाः
भीमसेनम अभिद्रुत्य विव्यधुः सहिता भृशम
पुत्रांस तु तव संप्रेक्ष्य भीमसेनॊ महाबलः
सृक्किणी विलिहन वीरः पशुमध्ये वृकॊ यथा
सेनापतेः कषुरप्रेण शिरश चिच्छेद पाण्डवः
जलसंधं विनिर्भिद्य सॊ ऽनयद यमसादनम
सुषेणं च ततॊ हत्वा परेषयाम आस मृत्यवे
उग्रस्य स शिरस्त्राणं शिरश चन्द्रॊपमं भुवि
पातयाम आस भल्लेन कुण्डलाभ्यां विभूषितम
भीम बाहुं च सप्तत्या साश्वकेतुं स सारथिम
निनाय समरे भीमः परलॊकाय मारिष
भीमं भीम रथं चॊभौ भीमसेनॊ हसन्न इव
भरातरौ रभसौ राजन्न अनयद यमसादनम
ततः सुलॊचनं भीमः कषुरप्रेण महामृधे
मिषतां सर्वसैन्यानाम अनयद यमसादनम
पुत्रास तु तव तं दृष्ट्वा भीमसेन पराक्रमम
शेषा ये ऽनये ऽभवंस तत्र ते भीमस्य भयार्दिताः
विप्रद्रुता दिशॊ राजन वध्यमाना महात्मना
ततॊ ऽबरवीच छांतनवः सर्वान एव महारथान
एष भीमॊ रणे करुद्धॊ धार्तराष्ट्रान महारथान
यथा पराग्र्यान यथा जयेष्ठान यथा शूरांश च संगतान
निपातयत्य उग्रधन्वा तं परमथ्नीत पार्थिवाः
एवम उक्तास ततः सर्वे धार्तराष्ट्रस्य सैनिकाः
अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम
भगदत्तः परभिन्नेन कुञ्जरेण विशां पते
अपतत सहसा तत्र यत्र भीमॊ वयवस्थितः
आपतन्न एव च रणे भीमसेनं शिलाशितैः
अदृश्यं समरे चक्रे जीमूत इव भास्करम
अभिमन्युमुखास तत्र नामृष्यन्त महारथाः
भीमस्याच्छादनं संख्ये सवबाहुबलम आश्रिताः
त एनं शरवर्षेण समन्तात पर्यवारयन
गजं च शरवृष्ट्या तं बिभिदुस ते समन्ततः
स शस्त्रवृष्ट्याभिहतः पराद्रवद दविगुणं पदम
पराग्ज्यॊतिष गजॊ राजन नाना लिङ्गैः सुतेजनैः
संजातरुधिरॊत्पीडः परेक्षणीयॊ ऽभवद रणे
गभस्तिभिर इवार्कस्य संस्यूतॊ जलदॊ महान
स चॊदितॊ मदस्रावी भगदत्तेन वारणः
अभ्यधावत तान सर्वान कालॊत्सृष्ट इवान्तकः
दविगुणं जवम आस्थाय कम्पयंश चरणैर महीम
तस्य तत सुमहद रूपं दृष्ट्वा सर्वे महारथाः
असह्यं मन्यमानास ते नातिप्रमनसॊ ऽभवन
ततस तु नृपतिः करुद्धॊ भीमसेनं सतनान्तरे
आजघान नरव्याघ्र शरेण नतपर्वणा
सॊ ऽतिविद्धॊ महेष्वासस तेन राज्ञा महारथः
मूर्छयाभिपरीताङ्गॊ धवजयष्टिम उपाश्रितः
तांस तु भीतान समालक्ष्य भीमसेनं च मूर्छितम
ननाद बलवन नादं भगदत्तः परतापवान
ततॊ घटॊत्कचॊ राजन परेक्ष्य भीमं तथागतम
संक्रुद्धॊ राक्षसॊ घॊरस तत्रैवान्तरधीयत
स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम
अदृश्यत निमेषार्धाद घॊररूपं समाश्रितः
ऐरावतं समारुह्य सवयं मायामयं कृतम
तस्य चान्ये ऽपि दिन नागा बभूवुर अनुयायिनः
अञ्जनॊ वामनश चैव महापद्मश च सुप्रभः
तरय एते महानागा राक्षसैः समधिष्ठिताः
महाकायास तरिधा राजन परस्रवन्तॊ मदं बहु
तेजॊ वीर्यबलॊपेता महाबलपराक्रमाः
घटॊत्कचस तु सवं नागं चॊदयाम आस तं ततः
स गजं भगदत्तं तु हन्तुकामः परंतपः
ते चान्ये चॊदिता नागा राक्षसैस तैर महाबलैः
परिपेतुः सुसंरब्धाश चतुर्दंष्ट्राश चतुर्दिशम
भगदत्तस्य तं नागं विषाणैस ते ऽभयपीडयन
संपीड्यमानस तैर नागैर वेदनार्तः शरातुरः
सॊ ऽनदत सुमहानादम इन्द्राशनिसमस्वनम
तस्य तं नदतॊ नादं सुघॊरं भीमनिस्वनम
शरुत्वा भीष्मॊ ऽबरवीद दरॊणं राजानं च सुयॊधनम
एष युध्यति संग्रामे हैडिम्बेन दुरात्मना
भगदत्तॊ महेष्वासः कृच्छ्रेण परिवर्तते
राक्षसश च महामायः स च राजातिकॊपनः
तौ समेतौ महावीर्यौ कालमृत्युसमाव उभौ
शरूयते हय एष हृष्टानां पाण्डवानां महास्वनः
हस्तिनश चैव सुमहान भीतस्य रुवतॊ धवनिः
तत्र गच्छाम भद्रं वॊ राजानं परिरक्षितुम
अरक्ष्यमाणः समरे कषिप्रं पराणान विमॊक्ष्यते
ते तवरध्वं महावीर्याः किं चिरेण परयामहे
महान हि वर्तते रौद्रः संग्रामॊ लॊमहर्षणः
भक्तश च कुलपुत्रश च शूरश च पृतना पतिः
युक्तं तस्य परित्राणं कर्तुम अस्माभिर अच्युताः
भीष्मस्य तद वचः शरुत्वा भारद्वाजपुरॊगमाः
सहिताः सर्वराजानॊ भगदत्त परीप्सया
उत्तमं जवम आस्थाय परययुर यत्र सॊ ऽभवत
तान परयातान समालॊक्य युधिष्ठिरपुरॊगमाः
पाञ्चालाः पाण्डवैः सार्धं राक्षसेन्द्रः परतापवान
तान्य अनीकान्य अथालॊक्य राक्षसेन्द्रः परतापवान
ननाद सुमहानादं विस्फॊटम अशनेर इव
तस्य तं निनदं शरुत्वा दृष्ट्वा नागांश च युध्यतः
भीष्मः शांतनवॊ भूयॊ भारद्वाजम अभाषत
न रॊचते मे संग्रामॊ हैडिम्बेन दुरात्मना
बलवीर्यसमाविष्टः स सहायश च सांप्रतम
नैष शक्यॊ युधा जेतुम अपि वज्रभृता सवयम
लब्धलक्ष्यः परहारी च वयं च शरान्तवाहनाः
पाञ्चालैः पाण्डवेयैश च दिवसं कषतविक्षताः
तन न मे रॊचते युद्धं पाण्डवैर जितकाशिभिः
घुष्यताम अवहारॊ ऽदय शवॊ यॊत्स्यामः परैः सह
पितामहवचः शरुत्वा तथा चक्रुः सम कौरवाः
उपायेनापयानं ते घटॊत्कच भयार्दिताः
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः
सिंहनादम अकुर्वन्त शङ्खवेणुस्वनैः सह
एवं तद अभवद युद्धं दिवसं भरतर्षभ
पाण्डवानां कुरूणां च पुरस्कृत्य घटॊत्कचम
कौरवास तु ततॊ राजन परययुः शिबिरं सवकम
वरीडमाना निशाकाले पाण्डवेयैः पराजिताः
शरविक्षत गात्राश च पाण्डुपुत्रा महारथाः
युद्धे सुमनसॊ भूत्वा शिबिरायैव जग्मिरे
पुरस्कृत्य महाराज भीमसेन घटॊत्कचौ
पूजयन्तस तदान्यॊन्यं मुदा परमया युताः
नदन्तॊ विविधान नादांस तूर्यस्वनविमिश्रितान
सिंहनादांश च कुर्वाणा विमिश्राञ शङ्खनिस्वनैः
विनदन्तॊ महात्मानः कम्पयन्तश च मेदिनीम
घट्टयन्तश च मर्माणि तव पुत्रस्य मारिष
परयाताः शिबिरायैव निशाकाले परंतपाः
दुर्यॊधनस तु नृपतिर दीनॊ भरातृवधेन च
मुहूर्तं चिन्तयाम आस बाष्पशॊकसमाकुलः
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि
परदध्यौ शॊकसंतप्तॊ भरातृव्यसनकर्शितः
[धृ]
भयं मे सुमहज जातं विस्मयश चैव संजय
शरुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम
पुत्राणां च पराभवं शरुत्वा संजय सर्वशः
चिन्ता मे महती सूत भविष्यति कथं तव इति
धरुवं विदुर वाक्यानि धक्ष्यन्ति हृदयं मम
यथा हि दृश्यते सर्वं दैवयॊगेन संजय
यत्र भीष्म मुखाञ शूरान अस्त्रज्ञान यॊधसत्तमान
पाण्डवानाम अनीकानि यॊधयन्ति परहारिणः
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः
केन दत्तवरास तात किं वा जञानं विदन्ति ते
येन कषयं न गच्छन्ति दिवि तारागणा इव
पुनः पुनर न मृष्यामि हतं सैन्यं सम पाण्डवैः
मय्य एव दण्डः पतति दैवात परमदारुणः
यथावध्याः पाण्डुसुता यथा वध्याश च मे सुताः
एतन मे सर्वम आचक्ष्व यथातत्त्वेन संजय
न हि पारं परपश्यामि दुःखस्यास्य कथं चन
समुद्रस्येव महतॊ भुजाभ्यां परतरन नरः
पुत्राणां वयसनं मन्ये धरुवं पराप्तं सुदारुणम
घातयिष्यति मे पुत्रान सर्वान भीमॊ न संशयः
न हि पश्यामि तं वीरं यॊ मे रक्षेत सुतान रणे
धरुवं विनाशः समरे पुत्राणां मम संजय
तस्मान मे कारणं सूत युक्तिं चैव विशेषतः
पृच्छतॊ ऽदय यथातत्त्वं सर्वम आख्यातुम अर्हसि
दुर्यॊधनॊ ऽपि यच चक्रे दृष्ट्वा सवान विमुखान रणे
भीष्मद्रॊणौ कृपश चैव सौबलेयॊ जयद्रथः
दरौणिर वापि महेष्वासॊ विकर्णॊ वा महाबलः
निश्चयॊ वापि कस तेषां तदा हय आसीन महात्मनाम
विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय
[स]
शृणु राजन्न अवहितः शरुत्वा चैवावधारय
नैव मन्त्रकृतं किं चिन नैव मायां तथाविधाम
न वै विभीषिकां कां चिद राजन कुर्वन्ति पाण्डवाः
युध्यन्ति ते यथान्यायं शक्तिमन्तश च संयुगे
धर्मेण सर्वकार्याणि कीर्तितानीति भारत
आरभन्ते सदा पार्थाः परार्थयाना महद यशः
न ते युद्धान निवर्तन्ते धर्मॊपेता महाबलाः
शरिया परमया युक्ता यतॊ धर्मस ततॊ जयः
तेनावध्या रणे पार्था जय युक्ताश च पार्थिव
तव पुत्रा दुरात्मानः पापेष्व अभिरताः सदा
निष्ठुरा हीनकर्माणस तेन हीयन्ति संयुगे
सुबहूनि नृशंसानि पुत्रैस तव जनेश्वर
निकृतानीह पाण्डूनां नीचैर इव यथा नरैः
सर्वं च तद अनादृत्य पुत्राणां तव किल्बिषम
सापह्नवाः सदैवासन पाण्डवाः पाण्डुपूर्वज
न चैनान बहु मन्यन्ते पुत्रास तव विशां पते
तस्य पापस्य सततं करियमाणस्य कर्मणः
संप्राप्तं सुमहद घॊरं फलं किं पाकसंनिभम
स तद भुङ्क्ष्व महाराज सपुत्रः स सुहृज्जनः
नावबुध्यसि यद राजन वार्यमाणः सुहृज्जनैः
विदुरेणाथ भीष्मेण दरॊणेन च महात्मना
तथा मया चाप्य असकृद वार्यमाणॊ न गृह्णसि
वाक्यं हितं च पथ्यं च मर्त्यः पथ्यम इवौषधम
पुत्राणां मतम आस्थाय जितान मन्यसि पाण्डवान
शृणु भूयॊ यथातत्त्वं यन मां तवं परिपृच्छसि
कारणं भरतश्रेष्ठ पाण्डवानां जयं परति
तत ते ऽहं कथयिष्यामि यथा शरुतम अरिंदम
दुर्यॊधनेन संपृष्ट एतम अर्थं पितामहः
दृष्ट्वा भरातॄन रणे सर्वान निर्जितान सुमहारथान
शॊकसंमूढहृदयॊ निशाकाले सम कौरवः
पितामहं महाप्राज्ञं विनयेनॊपगम्य ह
यद अब्रवीत सुतस ते ऽसौ तन मे शृणु जनेश्वर
[दुर]
तवं च दरॊणश च शल्यश च कृपॊ दरौणिस तथैव च
कृतवर्मा च हार्दिक्यः काम्बॊजश च सुदक्षिणः
भूरिश्रवा विकर्णश च भगदत्तश च वीर्यवान
महारथाः समाख्याताः कुलपुत्रास तनुत्यजः
तरयाणाम अपि लॊकानां पर्याप्ता इति मे मतिः
पाण्डवानां समस्ताश च न तिष्ठन्ति पराक्रमे
तत्र मे संशयॊ जातस तन ममाचक्ष्व पृच्छतः
यं समाश्रित्य कौन्तेय जयन्त्य अस्मान पदे पदे
[भस]
शृणु राजन वचॊ मह्यं यत तवां वक्ष्यामि कौरव
बहुशश च ममॊक्तॊ ऽसि न च मे तत्त्वया कृतम
करियतां पाण्डवैः सार्धं शमॊ भरतसत्तम
एतत कषमम अहं मन्ये पृथिव्यास तव चाभिभॊ
भुञ्जेमां पृथिवीं राजन भरातृभिः सहितः सुखी
दुर्हृदस तापयन सर्वान नन्दयंश चापि बान्धवान
न च मे करॊशतस तात शरुतवान असि वै पुरा
तद इदं समनुप्राप्तं यत पाण्डून अवमन्यसे
यश च हेतुर अवध्यत्वे तेषाम अक्लिष्टकर्मणाम
तं शृणुष्व महाराज मम कीर्तयतः परभॊ
नास्ति लॊकेषु तद भूतं भविता नॊ भविष्यति
यॊ जयेत पाण्डवान संख्ये पालिताञ शार्ङ्गधन्वना
यत तु मे कथितं तात मुनिभिर भावितात्मभिः
पुराणगीतं धर्मज्ञ तच छृणुष्व यथातथम
पुरा किल सुराः सर्वे ऋषयश च समागताः
पितामहम उपासेदुः पर्वते गन्धमादने
मध्ये तेषां समासीनः परजापतिर अपश्यत
विमानं जाज्वलद भासा सथितं परवरम अम्बरे
धयानेनावेद्य तं बरह्मा कृत्वा च नियतॊ ऽञजलिम
नमश चकार हृष्टात्मा परमं परमेश्वरम
ऋषयस तव अथ देवाश च दृष्ट्वा बरह्माणम उत्थितम
सथिताः पराज्ञलयः सर्वे पश्यन्तॊ महद अद्भुतम
यथावच च तम अभ्यर्च्य बरह्मा बरह्मविदां वरः
जगाद जगतः सरष्टा परं परम अधर्मवित
विश्वावसुर विश्वमूर्तिर विश्वेशॊ; विष्वक्सेनॊ विश्वकर्मा वशीच
विश्वेश्वरॊ वासुदेवॊ ऽसि तस्माद; यॊगात्मानं दैवतं तवाम उपैमि
जय विश्वमहादेव जय लॊकहिते रत
जय यॊगीश्वर विभॊ जय यॊगपरावर
पद्मगर्भविशालाक्ष जय लॊकेश्वरेश्वर
भूतभव्य भवन नाथ जय सौम्यात्मजात्मज
असंख्येयगुणाजेय जय सर्वपरायण
नारायण सुदुष्पार जय शार्ङ्गधनुर्धर
सर्वगुह्य गुणॊपेत विश्वमूर्ते निरामय
विश्वेश्वर महाबाहॊ जय लॊकार्थ तत्पर
महॊरगवराहाद्य हरि केशविभॊ जय
हरि वासविशामीश विश्वावासामिताव्यय
वयक्ताव्यक्तामित सथाननियतेन्द्रिय सेन्द्रिय
असंख्येयात्म भावज्ञ जय गम्भीरकामद
अनन्त विदितप्रज्ञ नित्यं भूतविभावन
कृतकार्यकृतप्रज्ञ धर्मज्ञ विजयाजय
गुह्यात्मन सर्वभूतात्मन सफुटसंभूत संभव
भूतार्थ तत्त्वलॊकेश जय भूतविभावन
आत्मयॊने महाभाग कल्पसंक्षेप तत्पर
उद्भावन मनॊद्भाव जय बरह्म जनप्रिय
निसर्ग सर्गाभिरत कामेश परमेश्वर
अमृतॊद्भव सद्भाव युगाग्रे विजयप्रद
परजापतिपते देव पद्मनाभ महाबल
आत्मभूतमहाभूतकर्मात्मञ जय कर्मद
पादौ तव धरा देवी दिशॊ बाहुर दिवं शिरः
मूर्तिस ते ऽहं सुराः कायश चन्द्रादित्यौ च चक्षुषी
बलं तपश च सत्यं च धर्मः कामात्मजः परभॊ
तेजॊ ऽगनिः पवनः शवास आपस ते सवेदसंभवाः
अश्विनौ शरवणी नित्यं देवी जिह्वा सरस्वती
वेदाः संस्कारनिष्ठा हि तवयीदं जगद आश्रितम
न संख्यां न परीमाणं न तेजॊ न पराक्रमम
न बलं यॊगयॊगीश जानीमस ते न संभवम
तवद भक्तिनिरता देव नियमैस तवा समाहिताः
अर्चयामः सदा विष्णॊ परमेशं महेश्वरम
ऋषयॊ देवगन्धर्वा यक्षराक्षस पन्नगाः
पिशाचा मानुषाश चैव मृगपक्षिसरीसृपाः
एवमादि मया सृष्टं पृथिव्यां तवत्प्रसादजम
पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन
तवं गतिः सर्वभूतानां तवं नेता तवं जगन मुखम
तवत्प्रसादेन देवेश सुखिनॊ विबुधाः सदा
पृथिवी निर्भया देव तवत्प्रसादात सदाभवत
तस्माद देव विशालाक्ष यदुवंशविवर्धनः
धर्मसंस्थापनार्थाय दैतेयानां वधाय च
जगतॊ धारणार्थाय विज्ञाप्यं कुरु मे परभॊ
यद एतत परमं गुह्यं तवत्प्रसादमयं विभॊ
वासुदेवं तद एतत ते मयॊद्गीतं यथातथम
सृष्ट्वा संकर्षणं देवं सवयम आत्मानम आत्मना
कृष्ण तवम आत्मनास्राक्षीः परद्युम्नं चात्मसंभवम
परद्युम्नाच चानिरुद्धं तवं यं विदुर विष्णुम अव्ययम
अनिरुद्धॊ ऽसृजन मां वै बरह्माणं लॊकधारिणम
वासुदेवमयः सॊ ऽहं तवयैवास्मि विनिर्मितः
विभज्य भागशॊ ऽऽतमानं वरज मानुषतां विभॊ
तत्रासुरवधं कृत्वा सर्वलॊकसुखाय वै
धर्मं सथाप्य यशः पराप्य यॊगं पराप्स्यसि तत्त्वतः
तवां हि बरह्मर्षयॊ लॊके देवाश चामित्रविक्रम
तैस तैश च नामभिर भक्ता गायन्ति परमात्मकम
सथिताश च सर्वे तवयि भूतसंघाः; कृत्वाश्रयं तवां वरदं सुबाहॊ
अनादिमध्यान्तम अपारयॊगं; लॊकस्य सेतुं परवदन्ति विप्राः
[भस]
ततः स भगवान देवॊ लॊकानां परमेश्वरः
बरह्माणं परत्युवाचेदं सनिग्धगम्भीरया गिरा
विदितं तात यॊगान मे सर्वम एतत तवेप्सितम
तथा तद भवितेत्य उक्त्वा तत्रैवान्तरधीयत
ततॊ देवर्षिगन्धर्वा विस्मयं परमं गताः
कौतूहलपराः सर्वे पितामहम अथाब्रुवन
कॊ नव अयं यॊ भगवता परणम्य विनयाद विभॊ
वाग्भिः सतुतॊ वरिष्ठाभिः शरॊतुम इच्छाम तं वयम
एवम उक्तस तु भगवान परत्युवाच पितामहः
देवब्रह्मर्षिगन्धर्वान सर्वान मधुरया गिरा
यत तत्परं भविष्यं च भवितव्यं च यत परम
भूतात्मा यः परभुश चैव बरह्म यच च परं पदम
तेनास्मि कृतसंवादः परसन्नेन सुरर्षभाः
जगतॊ ऽनुग्रहार्थाय याचितॊ मे जगत्पतिः
मानुषं लॊकम आतिष्ठ वासुदेव इति शरुतः
असुराणां वधार्थाय संभवस्व महीतले
संग्रामे निहता ये ते दैत्यदानवराक्षसाः
त इमे नृषु संभूता घॊररूपा महाबलाः
तेषां वधार्थं भगवान नरेण सहितॊ वशी
मानुषीं यॊनिम आस्थाय चरिष्यति महीतले
नरनारायणौ यौ तौ पुराणाव ऋषिसत्तमौ
सहितौ मानुषे लॊके संभूताव अमितद्युती
अजेयौ समरे यत्तौ सहिताव अमरैर अपि
मूढास तव एतौ न जानन्ति नरनारायणाव ऋषी
तस्याहम आत्मजॊ बरह्मा सर्वस्य जगतः पतिः
वासुदेवॊ ऽरचनीयॊ वः सर्वलॊकमहेश्वरः
तथा मनुष्यॊ ऽयम इति कदा चित सुरसत्तमाः
नावज्ञेयॊ महावीर्यः शङ्खचक्रगदाधरः
एतत परमकं गुह्यम एतत परमकं यशः
एतत परमकं बरह्म एतत परमकं यशः
एतद अक्षरम अव्यक्तम एतत तच छाश्वतं महत
एतत पुरुषसंज्ञं वै गीयते जञायते न च
एतत परमकं तेज एतत परमकं सुखम
एतत परमकं सत्यं कीर्तितं विश्वकर्मणा
तस्मात सर्वैः सुरैः सेन्द्रैर लॊकैश चामितविक्रमः
नावज्ञेयॊ वासुदेवॊ मानुषॊ ऽयम इति परभुः
यश च मानुषमात्रॊ ऽयम इति बरूयात सुमन्दधीः
हृषीकेशम अवज्ञानात तम आहुः पुरुषाधमम
यॊगिनं तं महात्मानं परविष्टं मानुषीं तनुम
अवमन्येद वासुदेवं तम आहुस तामसं जनाः
देवं चराचरात्मानं शरीवत्साङ्कं सुवर्चसम
पद्मनाभं न जानाति तम आहुस तामसं जनाः
किरीटकौस्तुभ धरं मित्राणाम अभयंकरम
अवजानन महात्मानं घॊरे तमसि मज्जति
एवं विदित्वा तत्त्वार्थं लॊकानाम ईश्वरेश्वरः
वासुदेवॊ नमः कार्यः सर्वलॊकैः सुरॊत्तमाः
एवम उक्त्वा स भगवान सर्वान देवगणान पुरा
विसृज्य सर्वलॊकात्मा जगाम भवनं सवकम
ततॊ देवाः स गन्धर्वा मुनयॊ ऽपसरसॊ ऽपि च
कथां तां बरह्मणा गीतां शरुत्वा परीता दिवं ययुः
एतच छरुतं मया तात ऋषीणां भावितात्मना
वासुदेवं कथयतां समवाये पुरातनम
जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः
वयास नारदयॊश चापि शरुतं शरुतविशारद
एतम अर्थं च विज्ञाय शरुत्वा च परभुम अव्ययम
वासुदेवं महात्मानं लॊकानाम ईश्वरेश्वरम
यस्यासाव आत्मजॊ बरह्मा सर्वस्य जगतः पिता
कथं न वासुदेवॊ ऽयम अर्च्यश चेज्यश च मानवैः
वारितॊ ऽसि पुरा तात मुनिभिर वेदपारगैः
मा गच्छ संयुगं तेन वासुदेवेन धीमता
मा पाण्डवैः सार्थम इति तच च मॊहान न बुध्यसे
मन्ये तवां राक्षसं करूरं तथा चासि तमॊवृतः
यस्माद दविषसि गॊविन्दं पाण्डवं च धनंजयम
नरनारायणौ देवौ नान्यॊ दविष्याद धि मानवः
तस्माद बरवीमि ते राजन्न एष वै शाश्वतॊ ऽवययः
सर्वलॊकमयॊ नित्यः शास्ता धाता धरॊ धरुवः
लॊकान धारयते यस तरींश चराचरगुरुः परभुः
यॊद्धा जयश च जेता च सर्वप्रकृतिर ईश्वरः
राजन सत्त्वमयॊ हय एष तमॊ रागविवर्जितः
यतः कृष्णस ततॊ धर्मॊ यतॊ धर्मस ततॊ जयः
तस्य माहात्म्य यॊगेन यॊगेनात्मन एव च
धृताः पाण्डुसुता राजञ जयश चैषां भविष्यति
शरेयॊ युक्तां सदा बुद्धिं पाण्डवानां दधाति यः
बलं चैव रणे नित्यं भयेभ्यश चैव रक्षति
स एष शाश्वतॊ देवः सर्वगुह्यमयः शिवः
वासुदेव इति जञेयॊ यन मां पृच्छसि भारत
बराह्मणैः कषत्रियैर वैश्यैः शूद्रैश च कृतलक्षणैः
सेव्यते ऽभयर्च्यते चैव नित्ययुक्तैः सवकर्मभिः
दवापरस्य युगस्यान्ते आदौ कलियुगस्य च
सात्वतं विधिम आस्थाय गीतः संकर्षणेन यः
स एष सर्वासुरमर्त्यलॊकं; समुद्रकक्ष्यान्तरिताः पुरीश च
युगे युगे मानुषं चैव वासं; पुनः पुनः सृजते वासुदेवः
[दुर]
वासुदेवॊ महद भूतं सर्वलॊकेषु कथ्यते
तस्यागमं परतिष्ठां च जञातुम इच्छे पितामह
[भस]
वासुदेवॊ महद भूतं संभूतं सह दैवतैः
न परं पुण्डरीकाक्षाद दृश्यते भरतर्षभ
मार्कण्डेयश च गॊविन्दं कथयत्य अद्भुतं महत
सर्वभूतानि भूतात्मा महात्मा पुरुषॊत्तमः
आपॊ वायुश च तेजश च तरयम एतद अकल्पयत
स सृष्ट्वा पृथिवीं देवः सर्वलॊकेश्वरः परभुः
अप्सु वै शयनं चक्रे महात्मा पुरुषॊत्तमः
सर्वतॊयमयॊ देवॊ यॊगात सुष्वाप तत्र ह
मुखतः सॊ ऽगनिम असृजत पराणाद वायुम अथापि च
सरस्वतीं च वेदांश च मनसः ससृजे ऽचयुतः
एष लॊकान ससर्जादौ देवांश चर्षिगणैः सह
निधनं चैव मृत्युं च परजानां परभवॊ ऽवययः
एष धर्मश च धर्मज्ञॊ वरदः सर्वकामदः
एष कर्ता च कार्यं च पूर्वदेवः सवयंप्रभुः
भूतं भव्यं भविष्यच च पूर्वम एतद अकल्पयत
उभे संध्ये दिशः खं च नियमं च जनार्दनः
ऋषींश चैव हि गॊविन्दस तपश चैवानु कल्पयत
सरष्टारं जगतश चापि महात्मा परभुर अव्ययः
अग्रजं सर्वभूतानां संकर्षणम अकल्पयत
शेषं चाकल्पयद देवम अनन्तम इति यं विदुः
यॊ धारयति भूतानि धरां चेमां स पर्वताम
धयानयॊगेन विप्राश च तं वदन्ति महौजसम
कर्ण सरॊत उद्भवं चापि मधुं नाम महासुरम
तम उग्रम उग्रकर्माणम उग्रां बुद्धिं समास्थितम
बरह्मणॊ ऽपचितिं कुर्वञ जघान पुरुषॊत्तमः
तस्य तात वधाद एव देवदानव मानवाः
मधुसूदनम इत्य आहुर ऋषयश च जनार्दनम
वराहश चैव सिंहश च तरिविक्रम गतिः परभुः
एष माता पिता चैव सर्वेषां पराणिनां हरिः
परं हि पुण्डरीकाक्षान न भूतं न भविष्यति
मुखतॊ ऽसृजद बराह्मणान बाहुभ्यां कषत्रियांस तथा
वैश्यांश चाप्य उरुतॊ राजञ शूद्रान पद्भ्यां तथैव च
तपसा नियतॊ देवॊ निधानं सर्वदेहिनाम
बरह्मभूतम अमावास्यां पौर्णमास्यां तथैव च
यॊगभूतं परिचरन केशवं महद आप्नुयात
केशवः परमं तेजः सर्वलॊकपितामहः
एवम आहुर हृषीकेशं मुनयॊ वै नराधिप
एवम एनं विजानीहि आचार्यं पितरं गुरुम
कृष्णॊ यस्य परसीदेत लॊकास तेनाक्षया जिताः
यश चैवैनं भयस्थाने केशवं शरणं वरजेत
सदा नरः पठंश चेदं सवस्तिमान स सुखी भवेत
ये च कृष्णं परपद्यन्ते ते न मुह्यन्ति मानवाः
भये महति ये मग्नाः पाति नित्यं जनार्दनः
एतद युधिष्ठिरॊ जञात्वा याथातथ्येन भारत
सर्वात्मना महात्मानं केशवं जगद ईश्वरम
परपन्नः शरणं राजन यॊगानाम ईश्वरं परभुम
[भस]
शृणु चेदं महाराज बरह्मभूतस्तवं मम
बरह्मर्षिभिश च देवैश च यः पुरा कथितॊ भुवि
साध्यानाम अपि देवानां देवदेवेश्वरः परभुः
लॊकभावन भावज्ञ इति तवां नारदॊ ऽबरवीत
भूतं भव्यं भविष्यं च मार्कण्डेयॊ ऽभयुवाच ह
यज्ञानां चैव यज्ञं तवां तपश च तपसाम अपि
देवानाम अपि देवं च तवाम आह भगवान भृगुः
पुराणे भैरवं रूपं विष्णॊ भूतपते ति वै
वासुदेवॊ वसूनां तवं शक्रं सथापयिता तथा
देवदेवॊ ऽसि देवानाम इति दवैपायनॊ ऽबरवीत
पूर्वे परजा निसर्गेषु दक्षम आहुः परजापतिम
सरष्टारं सर्वभूतानाम अङ्गिरास तवां ततॊ ऽबरवीत
अव्यक्तं ते शरीरॊत्थं वयक्तं ते मनसि सथितम
देवा वाक संभवाश चेति देवलस तव असितॊ ऽबरवीत
शिरसा ते दिवं वयाप्तं बाहुभ्यां पृथिवी धृता
जठरं ते तरयॊ लॊकाः पुरुषॊ ऽसि सनातनः
एवं तवाम अभिजानन्ति तपसा भविता नराः
आत्मदर्शनतृप्तानाम ऋषीणां चापि सत्तमः
राजर्षीणाम उदाराणाम आहवेष्व अनिवर्तिनाम
सर्वधर्मप्रधानानां तवं गतिर मधुसूदन
एष ते विस्तरस तात संक्षेपश च परकीर्तितः
केशवस्य यथातत्त्वं सुप्रीतॊ भव केशवे
[स]
पुण्यं शरुत्वैतद आख्यानं महाराज सुतस तव
केशवं बहु मेने स पाण्डवांश च महारथान
तम अब्रवीन महाराज भीष्मः शांतनवः पुनः
माहात्म्यं ते शरुतं राजन केशवस्य महात्मनः
नरस्य च यथातत्त्वं यन मां तवं परिपृच्छसि
यदर्थं नृषु संभूतौ नरनारायणाव उभौ
अवध्यौ च यथा वीरौ संयुगेष्व अपराजितौ
यथा च पाण्डवा राजन्न अगम्या युधि कस्य चित
परीतिमान हि दृढं कृष्णः पाण्डवेषु यशस्विषु
तस्माद बरवीमि राजेन्द्र शमॊ भवतु पाण्डवैः
पृथिवीं भुङ्क्ष्व सहितॊ भरातृभिर बलिभिर वशी
नरनारायणौ देवाव अवज्ञाय नशिष्यसि
एवम उक्त्वा तव पिता तूष्णीम आसीद विशां पते
वयसर्जयच च राजानं शयनं च विवेश ह
राजापि शिबिरं परायात परणिपत्य महात्मने
शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ
[स]
वयुषितायां च शर्वर्याम उदिते च दिवाकरे
उभे सेने महाराज युद्धायैव समीयतुः
अभ्यधावंश च संक्रुद्धाः परस्परजिगीषवः
ते सर्वे सहिता युद्धे समालॊक्य परस्परम
पाण्डवा धार्तराष्ट्राश च राजन दुर्मन्त्रिते तव
वयूहौ च वयूह्य संरब्धाः संप्रयुद्धाः परहारिणः
अरक्षन मकरव्यूहं भीष्मॊ राजन समन्ततः
तथैव पाण्डवा राजन्न अरक्षन वयूहम आत्मनः
स निर्ययौ रथानीकं पिता देवव्रतस तव
महता रथवंशेन संवृतॊ रथिनां वरः
इतरेतरम अन्वीयुर यथाभागम अवस्थिताः
रथिनः पत्तयश चैव दन्तिनः सादिनस तथा
तान दृष्ट्वा परॊद्यतान संख्ये पाण्डवाश च यशस्विनः
शयेनेन वयूह राजेन तेनाजय्येन संयुगे
अशॊभत मुखे तस्य भीमसेनॊ महाबलः
नेत्रे शिखण्डी दुर्धर्षे धृष्टद्युम्नश च पार्षतः
शीर्षं तस्याभवद वीरः सात्यकिः सत्यविक्रमः
विधुन्वन गाण्डिवं पार्थॊ गरीवायाम अभवत तदा
अक्षौहिण्या समग्रा या वामपक्षॊ ऽभवत तदा
महात्मा दरुपदः शरीमान सह पुत्रेण संयुगे
दक्षिणश चाभवत पक्षः कैकेयॊ ऽकषौहिणीपतिः
पृष्ठतॊ दरौपदेयाश च सौभद्रश चापि वीर्यवान
पृष्ठे समभवच छरीमान सवयं राजा युधिष्ठिरः
भरातृभ्यां सहितॊ धीमान यमाभ्यां चारु विक्रमः
परविश्य तु रणे भीमॊ मकरं मुखतस तदा
भीष्मम आसाद्य संग्रामे छादयाम आस सायकैः
ततॊ भीष्मॊ महास्त्राणि पातयाम आस भारत
मॊहयन पाण्डुपुत्राणां वयूढं सैन्यं महाहवे
संमुह्यति तदा सैन्ये तवरमाणॊ धनंजयः
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि
परिसंवार्य चास्त्राणि भीष्म मुक्तानि संयुगे
सवेनानीकेन हृष्टेन युद्धाय समवस्थितः
ततॊ दुर्यॊधनॊ राजा भारद्वाजम अभाषत
पूर्वं दृष्ट्वा वधं घॊरं बलस्य बलिनां वरः
भरातॄणां च वधं युद्धे समरमाणॊ महारथः
आचार्य सततं तवं हि हितकामॊ ममानघ
वयं हि तवां समाश्रित्य भीष्मं चैव पितामहम
देवान अपि रणे जेतुं परार्थयामॊ न संशयः
किम उ पाण्डुसुतान युद्धे हीनवीर्यपराक्रमान
एवम उक्तस ततॊ दरॊणस तव पुत्रेण मारिष
अभिनत पाण्डवानीकं परेक्षमाणस्य सात्यकेः
सात्यकिस तु तदा दरॊणं वारयाम आस भारत
ततः परववृते युद्धं तुमुलं लॊमहर्षणम
शैनेयं तु रणे करुद्धॊ भारद्वाजः परतापवान
अविध्यन निशितैर बाणैर जत्रु देशे हसन्न इव
भीमसेनस ततः करुद्धॊ भारद्वाजम अविध्यत
संरक्षन सात्यकिं राजन दरॊणाच छस्त्रभृतां वरात
ततॊ दरॊणश च भीष्मश च तथा शल्यश च मारिष
भीमसेनं रणे करुद्धाश छादयां चक्रिरे शरैः
तत्राभिमन्युः संक्रुद्धॊ दरौपदेयाश च मारिष
विव्यधुर निशितैर बाणैः सर्वांस तान उद्यतायुधान
भीष्मद्रॊणौ च संक्रुद्धाव आपतन्तौ महाबलौ
परत्युद्ययौ शिखण्डी तु महेष्वासॊ महाहवे
परगृह्य बलवद वीरॊ धनुर जलदनिस्वनम
अभ्यवर्षच छरैस तूर्णं छादयानॊ दिवाकरम
शिखण्डिनं समासाद्य भरतानां पितामहः
अवर्जयत संग्रामे सत्रीत्वं तस्यानुसंस्मरन
ततॊ दरॊणॊ महाराज अभ्यद्रवत तं रणे
रक्षमाणस ततॊ भीष्मं तव पुत्रेण चॊदितः
शिखण्डी तु समासाद्य दरॊणं शस्त्रभृतां वरम
अवर्जयत संग्रामे युगान्ताग्निम इवॊल्बणम
ततॊ बलेन महता पुत्रस तव विशां पते
जुगॊप भीष्मम आसाद्य परार्थयानॊ महद यशः
तथैव पाण्डवा राजन पुरस्कृत्य धनंजयम
भीष्मम एवाभ्यवर्तन्त जये कृत्वा दृढां मतिम
तद युद्धम अभवद घॊरं देवानां दानवैर इव
जयं च काङ्क्षतां नित्यं यशश च परमाद्भुतम
[स]
अकरॊत तुमुलं युद्धं भीष्मः शांतनवस तदा
भीमसेन भयाद इच्छन पुत्रांस तारयितुं तव
पूर्वाह्णे तन महारौद्रं राज्ञां युद्धम अवर्तत
कुरूणां पाण्डवानां च मुख्यशूर विनाशनम
तस्मिन्न आकुलसंग्रामे वर्तमाने महाभये
अभवत तुमुलः शब्दः संस्पृशन गगनं महत
नदद्भिश च महानागैर हेषमाणैश च वाजिभिः
भेरीशङ्खनिनादैश च तुमुलः समपद्यत
युयुत्सवस ते विक्रान्ता विजयाय महाबलाः
अन्यॊन्यम अभिगर्जन्तॊ गॊष्ठेष्व इव महर्षभाः
शिरसां पात्यमानानां समरे निशितैः शरैः
अश्मवृष्टिर इवाकाशे बभूव भरतर्षभ
कुण्डलॊष्णीष धारीणि जातरूपॊज्ज्वलानि च
पतितानि सम दृश्यन्ते शिरांसि भरतर्षभ
विशिखॊन्मथितैर गात्रैर बाहुभिश च स कार्मुकैः
स हस्ताभरणैश चान्यैर अभवच छादिता मही
कवचॊपहितैर गात्रैर हस्तैश च समलंकृतैः
मुखैश च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः
गजवाजिमनुष्याणां सर्वगात्रैश च भूपते
आसीत सर्वा समाकीर्णा मुहूर्तेन वसुंधरा
रजॊमेघैश च तुमुलैः शस्त्रविद्युत परकाशितैः
आयुधानां च निर्घॊषः सतनयित्नुसमॊ ऽभवत
स संप्रहारस तुमुलः कटुकः शॊणितॊदकः
परावर्तत कुरूणां च पाण्डवानां च भारत
तस्मिन महाभये घॊरे तुमुले लॊमहर्षणे
ववर्षुः शरवर्षाणि कषत्रिया युद्धदुर्मदाः
करॊशन्ति कुञ्जरास तत्र शरवर्ष परतापिताः
तावकानां परेषां च संयुगे भरतॊत्तम
अश्वाश च पर्यधावन्त हतारॊहा दिशॊ दश
उत्पत्य निपतन्त्य अन्ये शरघात परपीडिताः
तावकानां परेषां च यॊधानां भरतर्षभ
अश्वानां कुञ्जराणां च रथानां चातिवर्तताम
संघाताः सम परदृश्यन्ते तत्र तत्र विशां पते
गदाभिर असिभिः परासैर बाणैश च नतपर्वभिः
जघ्नुः परस्परं तत्र कषत्रियाः कालचॊदिताः
अपरे बाहुभिर वीरा नियुद्ध कुशला युधि
बहुधा समसज्जन्त आयसैः परिघैर इव
मुष्टिभिर जानुभिश चैव तलैश चैव विशां पते
अन्यॊन्यं जघ्निरे वीरास तावकाः पाण्डवैः सह
विरथा रथिनश चात्र निस्त्रिंशवरधारिणः
अन्यॊन्यम अभिधावन्त परस्परवधैषिणः
ततॊ दुर्यॊधनॊ राजा कलिङ्गैर बहुभिर वृतः
पुरस्कृत्य रणे भीष्मं पाण्डवान अभ्यवर्तत
तथैव पाण्डवाः सर्वे परिवार्य वृकॊदरम
भीष्मम अभ्यद्रवन करुद्धा रणे रभस वाहनाः
[स]
दृष्ट्वा भीष्मेण संसक्तान भरातॄन अन्यांश च पार्थिवान
तम अभ्यधावद गाङ्गेयम उद्यतास्त्रॊ धनंजयः
पाञ्चजन्यस्य निर्घॊषं धनुषॊ गाण्डिवस्य च
धवजं च दृष्ट्वा पार्थस्य सर्वान नॊ भयम आविशत
असज्जमानं वृक्षेषु धूमकेतुम इवॊत्थितम
बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम
अपश्याम महाराज धवजं गाण्डिवधन्वनः
विद्युतं मेघमध्यस्थां भराजमानाम इवाम्बरे
ददृशुर गाण्डिवं यॊधा रुक्मपृष्ठं महारथे
अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः
सुघॊरं तलयॊः शब्दं निघ्नतस तव वाहिनीम
चण्डवातॊ यथा मेघः स विद्युत सतनयित्नुमान
दिशः संप्लावयन सर्वाः शरवर्षैः समन्ततः
अभ्यधावत गाङ्गेयं भैरवास्त्रॊ धनंजयः
दिशं पराचीं परतीचीं च न जानीमॊ ऽसत्रमॊहिताः
कांदिग भूताः शरान्तपत्रा हतास्त्रा हतचेतसः
अन्यॊन्यम अभिसंश्लिष्य यॊधास ते भरतर्षभ
भीष्मम एवाभिलीयन्त सह सर्वैस तवात्मजैः
तेषाम आर्तायनम अभूद भीष्मः शंतनवॊ रणे
समुत्पतन्त वित्रस्ता रथेभ्यॊ रथिनस तदा
सादिनश चाश्वपृष्ठेभ्यॊ भूमौ चापि पदातयः
शरुत्वा गाण्डीवनिर्घॊषं विस्फूर्जितम इवाशनेः
सर्वसैन्यानि भीतानि वयवलीयन्त भारत
अथ काम्बॊजमुख्यैस तु बृहद्भिः शीघ्रगामिभिः
गॊपानां बहुसाहस्रैर बलैर गॊवासनॊ वृतः
मद्रसौवीरगान्धारैस तरिगर्तैश च विशां पते
सर्वकालिङ्गमुख्यैश च कलिङ्गाधिपतिर वृतः
नागा नरगणौघाश च दुःशासन पुरःसराः
जयद्रथश च नृपतिः सहितः सर्वराजभिः
हयारॊह वराश चैव तत पुत्रेण चॊदिताः
चतुर्दशसहस्राणि सौबलं पर्यवारयन
ततस ते सहिताः सर्वे विभक्तरथवाहनाः
पाण्डवान समरे जग्मुस तावका भरतर्षभ
रथिभिर वारणैर अश्वैः पदातैश च समीरितम
घॊरम आयॊधनं जज्ञे महाभ्रसदृशं रजः
तॊमरप्रासनाराच गजाश्वरथयॊधिनाम
बलेन महता भीष्मः समसज्जत किरीटिना
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः
अजातशत्रुर मद्राणाम ऋषभेण यशस्विना
सह पुत्रः सहामात्यः शल्येन समसज्जत
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना
मत्स्या दुर्यॊधनं जग्मुः शकुनिं च विशां पते
दरुपदश चेकितानश च सात्यकिश च महारथः
दरॊणेन समसज्जन्त सपुत्रेण महात्मना
कृपश च कृतवर्मा च धृष्टकेतुम अभिद्रुतौ
एवं परजविताश्वानि भरान्तनागरथानि च
सैन्यानि समसज्जन्त परयुद्धानि समन्ततः
निरभ्रे विद्युतस तीव्रा दिशश च रजसावृताः
परादुरासन महॊल्काश च स निर्घाता विशां पते
परववौ च महावातः पांसुवर्षं पपात च
नभस्य अन्तर्दधे सूर्यः सैन्येन रजसावृतः
परमॊहः सर्वसत्त्वानाम अतीव समपद्यत
रजसा चाभिभूतानाम अस्त्रजालैश च तुद्यताम
वीरबाहुविषृष्टानां सर्वावरणभेदिनाम
संघातः शरजालानां तुमुलः समपद्यत
परकाशं चक्रुर आकाशं युद्यतानि भुजॊत्तमैः
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ
आर्षभाणि विचित्राणि रुक्मजालावृतानि च
संपेतुर दिक्षु सर्वासु चर्माणि भरतर्षभ
सूर्यवर्णैश च निस्त्रिंशैः पात्यमानानि सर्वशः
दिक्षु सर्वास्व अदृश्यन्त शरीराणि शिरांसि च
भग्नचक्राक्ष नीडाश च निपातितमहाध्वजाः
हताश्वाः पृथिवीं जग्मुस तत्र तत्र महारथाः
परिपेतुर हयाश चात्र के चिच छत्रकृतव्रणाः
रथान विपरिकर्षन्तॊ हतेषु रथयॊधिषु
शराहता भिन्नदेहा बद्धयॊक्त्रा हयॊत्तमाः
युगानि पर्यकर्षन्त तत्र तत्र सम भारत
अदृश्यन्त ससूताश च साश्वाः स रथयॊधिनः
एकेन बलिना राजन वारणेन हता रथाः
गन्धहस्तिमदस्रावम आघ्राय बहवॊ रणे
संनिपाते बलौघानां वीतम आददिरे गजाः
स तॊमरमहामात्रैर निपतद्भिर गतासुभिः
बभूवायॊधनं छन्नं नाराचाभिहतैर गजैः
संनिपाते बलौघानां परेषितैर वरवारणैः
निपेतुर युधि संभग्नाः स यॊधाः स धवजा रथाः
नागराजॊपमैर हस्तैर नागैर आक्षिप्य संयुगे
वयदृश्यन्त महाराज संभग्ना रथकूबराः
विशीर्णरथजालाश च केशेष्व आक्षिप्य दन्तिभिः
दरुमशाखा इवाविध्य निष्पिष्टा रथिनॊ रणे
रथेषु च रथान युद्धे संसक्तान वरवारणाः
विकर्षन्तॊ दिशः सर्वाः संपेतुः सर्वशब्दगाः
तेषां तथा कर्षतां च गजानां रूपम आबभौ
सरःसु नलिनी जालं विषक्तम इव कर्षताम
एवं संछादितं तत्र बभूवायॊधनं महत
सादिभिश च पदातैश च स धवजैश च महारथैः
[स]
शिखण्डी सह मत्स्येन विराटेन विशां पते
भीष्मम आशु महेष्वासम आससाद सुदुर्जयम
दरॊणं कृपं विकर्णं च महेष्वासान महाबलान
राज्ञश चान्यान रणे शूरान बहून आर्छद धनंजयः
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः
पराच्यांश च दाक्षिणात्यांश च भूमिपान भूमिपर्षभ
पुत्रं च ते महेष्वासं दुर्यॊधनम अमर्षणम
दुःसहं चैव समरे भीमसेनॊ ऽभयवर्तत
सहदेवस तु शकुनिम उलूकं च महारथम
पिता पुत्रौ महेष्वासाव अभ्यवर्तत दुर्जयौ
युधिष्ठिरॊ महाराज गजानीकं महारथः
समवर्तत संग्रामे पुत्रेण निकृतस तव
माद्रीपुत्रस तु नकुलः शूरः संक्रन्दनॊ युधि
तरिगर्तानां रथॊदारैः समसज्जत पाण्डवः
अभ्यवर्तन्त दुर्धर्षाः समरे शाल्व केकयान
सात्यकिश चेकितानश च सौभद्रश च महारथः
धृष्टकेतुश च समरे राक्षसश च घटॊत्कचः
पुत्राणां ते रथानीकं परत्युद्याताः सुदुर्जयाः
सेनापतिर अमेयात्मा धृष्टद्युम्नॊ महाबलः
दरॊणेन समरे राजन समियायेन्द्र कर्मणा
एवम एते महेष्वासास तावकाः पाण्डवैः सह
समेत्य समरे शूराः संप्रहारं परचक्रिरे
मध्यंदिन गते सूर्ये नभस्य आकुलतां गते
कुरवः पाण्डवेयाश च निजघ्नुर इतरेतरम
धवजिनॊ हेमचित्राङ्गा विचरन्तॊ रणाजिरे
स पताका रथा रेजुर वैयाघ्रपरिवारणाः
समेतानां च समरे जिगीषूणां परस्परम
बभूव तुमुलः शब्दः सिंहानाम इव नर्दताम
तत्राद्भुतम अपश्याम संप्रहारं सुदारुणम
यम अकुर्वन रणे वीराः सृञ्जयाः कुरुभिः सह
नैव खं न दिशॊ राजन न सूर्यं शत्रुतापन
विदिशॊ वाप्य अपश्याम शरैर मुक्तैः समन्ततः
शक्तीनां विमलाग्राणां तॊमराणां तथायताम
निस्त्रिंशानां च पीतानां नीलॊत्पलनिभाः परभाः
कवचानां विचित्राणां भूषणानां परभास तथा
खं दिशः परदिशश चैव भासयाम आसुर ओजसा
विरराज तदा राजंस तत्र तत्र रणाङ्गणम
रथसिंहासन वयाघ्राः समायान्तश च संयुगे
विरेजुः समरे राजन गरहा इव नभस्तले
भीष्मस तु रथिनां शरेष्ठॊ भीमसेनं महाबलम
अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः
ततॊ भीष्म विनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः
अभ्यघ्नन समरे भीमं तैलधौताः सुतेजनाः
तस्य शक्तिं महावेगां भीमसेनॊ महाबलः
करुद्धाशीविषसंकाशां परेषयाम आस भारत
ताम आपतन्तीं सहसा रुक्मदण्डां दुरासदाम
चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः
ततॊ ऽपरेण भल्लेन पीतेन निशितेन च
कार्मुकं भीमसेनस्य दविधा चिच्छेद भारत
सात्यकिस तु ततस तूर्णं भीष्मम आसाद्य संयुगे
शरैर बहुभिर आनर्छत पितरं ते जनेश्वर
ततः संधाय वै तीक्ष्णं शरं परमदारुणम
वार्ष्णेयस्य रथाद भीष्मः पातयाम आस सारथिम
तस्याश्वाः परद्रुता राजन निहते रथसारथौ
तेन तेनैव धावन्ति मनॊमारुतरंहसः
ततः सर्वस्य सैन्यस्य निस्वनस तुमुलॊ ऽभवत
हाहाकारश च संजज्ञे पाण्डवानां महात्मनाम
अभिद्रवत गृह्णीत हयान यच्छत धावत
इत्य आसीत तुमुलः शब्दॊ युयुधान रथं परति
एतस्मिन्न एव काले तु भीष्मः शांतनवः पुनः
वयहनत पाण्डवीं सेनाम आसुरीम इव वृत्रहा
ते वध्यमाना भीष्मेण पाञ्चालाः सॊमकैः सह
आर्यां युद्धे मतिं कृत्वा भीष्मम एवाभिदुद्रुवुः
धृष्टद्युम्नमुखाश चापि पार्थाः शांतनवं रणे
अभ्यधावञ जिगीषन्तस तव पुत्रस्य वाहिनीम
तथैव तावका राजन भीष्मद्रॊणमुखाः परान
अभ्यधावन्त वेगेन ततॊ युद्धम अवर्तत
[स]
विराटॊ ऽथ तरिभिर बाणैर भीष्मम आर्छन महारथम
विव्याध तुरगांश चास्य तरिभिर बाणैर महारथः
तं परत्यविध्यद दशभिर भीष्मः शांतनवः शरैः
रुक्मपुङ्खैर महेष्वासः कृतहस्तॊ महाबलः
दरौणिर गाण्डीवधन्वानं भीम धन्वा महारथः
अविध्यद इषुभिः षड्भिर दृढहस्तः सतनान्तरे
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा
अविध्यच च भृशं तीक्ष्णैर पत्रिभिः शत्रुकर्शनः
सॊ ऽनयत कार्मुकम आदाय वेगवत करॊधमूर्छितः
अमृष्यमाणः पार्थेन कार्मुकच छेदम आहवे
अविध्यत फल्गुनं राजन नवत्या निशितैः शरैः
वासुदेवं च सप्तत्या विव्याध परमेषुभिः
ततः करॊधाभिताम्राक्षः सह कृष्णेन फल्गुनः
दीर्घम उष्णं च निःश्वस्य चिन्तयित्वा मुहुर मुहुः
धनुः परपीड्य वामेन करेणामित्रकर्शनः
गाण्डीवधन्वा संक्रुद्धः शितान संनतपर्वणः
जीवितान्तकरान घॊरान समादत्त शिलीमुखान
तैस तूर्णं समरे ऽविध्यद दरौणिं बलवतां वरम
तस्य ते कवचं भित्त्वा पपुः शॊणितम आहवे
न विव्यथे च निर्भिन्नॊ दरौणिर गाण्डीवधन्वना
तथैव शरवर्षाणि परतिमुञ्चन्न अविह्वलः
तस्थौ स समरे राजंस तरातुम इच्छन महाव्रतम
तस्य तत सुमहत कर्म शशंसुः पुरुषर्षभाः
यत कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे
स हि नित्यम अनीकेषु युध्यते ऽभयम आस्थितः
अस्त्रग्रामं स संहारं दरॊणात पराप्य सुदुर्लभम
ममायम आचार्य सुतॊ दरॊणस्यातिप्रियः सुतः
बराह्मणश च विशेषेण माननीयॊ ममेति च
समास्थाय मतिं वीरॊ बीभत्सुः शत्रुतापनः
कृपां चक्रे रथश्रेष्ठॊ भारद्वाज सुतं परति
दरौणिं तयक्त्वा ततॊ युद्धे कौन्तेयः शत्रुतापनः
युयुधे तावकान निघ्नंस तवरमाणः पराक्रमी
दुर्यॊधनस तु दशभिर गार्ध्रपत्रैः शिलाशितैः
भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत
भीमसेनस तु संक्रुद्धः परासु करणं दृढम
चित्रं कार्मुकम आदत्त शरांश च निशितान दश
आकर्णप्रहितैस तीक्ष्णैर वेगितैस तिग्मतेजनैः
अविध्यत तूर्णम अव्यग्रः कुरुराजं महॊरसि
तस्य काञ्चनसूत्रस तु शरैः परिवृतॊ मणिः
रराजॊरसि वै सूर्यॊ गरहैर इव समावृतः
पुत्रस तु तव तेजस्वी भीमसेनेन ताडितः
नामृष्यत यथा नागस तलशब्दं समीरितम
ततः शरैर महाराज रुक्मपुङ्खैः शिलाशितैः
भीमं विव्याध संक्रुद्धस तरासयानॊ वरूथिनीम
तौ युध्यमानौ समरे भृशम अन्यॊन्यविक्षतौ
पुत्रौ ते देवसंकाशौ वयरॊचेतां महाबलौ
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा
अविध्यद दशभिर बाणैः पुरुमित्रं च सप्तभिः
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमॊ युधि
नृत्यन्न इव रणे वीर आर्तिं नः समजीजनत
तं परत्यविद्यद दशभिश चित्रसेनः शिलीमुखैः
सत्यव्रतश च नवभिः पुरु पित्रश च सप्तभिः
स विद्धॊ विक्षरन रक्तं शत्रुसंवारणं महत
चिच्छेद चित्रसेनस्य चित्रं कार्मुकम आर्जुनिः
भित्त्वा चास्य तनुत्राणं शरेणॊरस्य अताडयत
ततस ते तावका वीरा राजपुत्रा महारथाः
समेत्य युधि संरब्धा विव्यधुर निशितैः शरैः
तांश च सर्वाञ शरैस तीक्ष्णैर जघान परमास्त्रवित
तस्य दृष्ट्वा तु तत कर्म परिवव्रुः सुतास तव
दहन्तं समरे सैन्यं तव कक्षं यथॊल्बणम
अपेतशिशिरे काले समिद्धम इव पावकः
अत्यरॊचत सौभद्रस तव सैन्यानि शातयन
तत तस्य चरितं दृष्ट्वा पौत्रस तव विशां पते
लक्ष्मणॊ ऽभयपतत तूर्णं सात्वती पुत्रम आहवे
अभिमन्युस तु संक्रुद्धॊ लक्ष्मणं शुभलक्षणम
विव्याध विशिखैः षड्भिः सारथिं च तरिभिः शरैः
तथैव लक्ष्मणॊ राजन सौभद्रं निशितैः शरैः
अविध्यत महाराज तद अद्भुतम इवाभवत
तस्याश्वांश चतुरॊ हत्वा सारथिं च महाबलः
अभ्यद्रवत सौभद्रॊ लक्ष्मणं निशितैः शरैः
हताश्वे तु रथे तुष्ठँल लक्ष्मणः परवीरहा
शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं परति
ताम आपतन्तीं सहसा घॊररूपां दुरासदाम
अभिमन्युः शरैस तीक्ष्णैश चिच्छेद भुजगॊपमाम
ततः सवरथम आरॊप्य लक्ष्मणं गौतमस तदा
अपॊवाह रथेनाजौ सर्वसैन्यस्य पश्यतः
ततः समाकुले तस्मिन वर्तमाने महाभये
अभ्यद्रवञ जिघांसन्तः परस्परवधैषिणः
तावकाश च महेष्वासाः पाण्डवाश च महारथाः
जुह्वन्तः समरे पराणान निजघ्नुर इतरेतरम
मुक्तकेशा विकवचा विरथाश छिन्नकार्मुकाः
बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह
ततॊ भीष्मॊ महाबाहुः पाण्डवानां महात्मनाम
सेनां जघान संक्रुद्धॊ दिव्यैर अस्त्रैर महाबलः
हतेश्वरैर गजैर तत्र नरैर अश्वैश च पातितैः
रथिभिः सादिभिश चैव समास्तीर्यत मेदिनी
[स]
अथ राजन महाबाहुः सात्यकिर युद्धदुर्मदः
विकृष्य चापं समरे भारसाधनम उत्तमम
परामुञ्चत पुङ्खसंयुक्ताञ शरान आशीविषॊपमान
परकाशं लघुचित्रं च दर्शयन्न अस्त्रलाघवम
तस्य विक्षिपतश चापं शरान अन्यांश च मुञ्चतः
आददानस्य भूयश च संदधानस्य चापरान
कषिपतश च शरान अस्य रणे शत्रून विनिघ्नतः
ददृशे रूपम अत्यर्थं मेघस्येव परवर्षतः
तम उदीर्यन्तम आलॊक्य राजा दुर्यॊधनस ततः
रथानाम अयुतं तस्य परेषयाम आस भारत
तांस तु सर्वान महेष्वासान सात्यकिः सत्यविक्रमः
जघान परमेष्वासॊ दिव्येनास्त्रेण वीर्यवान
स कृत्वा दारुणं कर्म परगृहीतशरासनः
आससाद ततॊ वीरॊ भूरिश्रवसम आहवे
स हि संदृश्य सेनां तां युयुधानेन पातितम
अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः
इन्द्रायुधसवर्णं तत स विस्फार्य महद धनुः
वयसृजद वज्रसंकाशाञ शरान आशीविषॊपमान
सहस्रशॊ महाराज दर्शयन पाणिलाघवम
शरांस तान मृत्युसंस्पर्शान सात्यकेस तु पदानुगाः
न विषेहुस तदा राजन दुद्रुवुस ते समन्ततः
विहाय समरे राजन सात्यकिं युद्धदुर्मदम
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः
महारथाः समाख्याताश चित्रवर्मायुध धवजाः
समासाद्य महेष्वासं भूरिश्रवसम आहवे
ऊचुर सर्वे सुसंरब्धा यूपकेतुं महारणे
भॊ भॊ कौरव दायाद सहास्माभिर महाबल
एहि युध्यस्व संग्रामे समस्तैः पृथग एव वा
अस्मान वा तवं पराजित्य यशः पराप्नुहि संयुगे
वयं वा तवां पराजित्य परीतिं दास्यामहे पितुः
एवम उक्तस तदा शूरैस तान उवाच महाबलः
वीर्यश्लाघी नरश्रेष्ठस तान दृष्ट्वा समुपस्थितान
साध्व इदं कथ्यते वीरा यद एवं मतिर अद्य वः
युध्यध्वं सहिता यत्ता निहनिष्यामि वॊ रणे
एवम उक्ता महेष्वासास ते वीराः कषिप्रकारिणः
महता शरवर्षेण अभ्यवर्षन्न अरिंदमम
अपराह्णे महाराज संग्रामस तुमुलॊ ऽभवत
एकस्य च बहूनां च समेतानां रणाजिरे
तम एकं रथिनां शरेष्ठ शरवर्षैर अवाकिरन
परावृषीव महाशैलं सिषिचुर जलदा नृप
तैस तु मुक्ताञ शरौघांस तान यमदण्डाशनि परभान
असंप्राप्तान असं पराप्तांश चिच्छेदाशु महारथः
तत्राद्भुतम अपश्याम सौमदत्तेः पराक्रमम
यद एकॊ बहुभिर युद्धे समसज्जद अभीतवत
विसृज्य शरवृष्टिं तां दश राजन महारथाः
परिवार्य महाबाहुं निहन्तुम उपचक्रमुः
सौमदत्तिस ततः करुद्धस तेषां चापानि भारत
चिच्छेद दशभिर बाणैर निमेषेण महारथः
अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः
चिच्छेद समरे राजञ शिरांसि निशितैः शरैः
ते हता नयपतन भूमौ वज्रभग्ना इव दरुमाः
तान दृष्ट्वा निहतान वीरान रणे पुत्रान महाबलान
वार्ष्णेयॊ विनदन राजन भूरिश्रवसम अभ्ययात
रथं रथेन समरे पीडयित्वा महाबलौ
ताव अन्यॊन्यस्य समरे निहत्य रथवाजिनः
विरथाव अभिवल्गन्तौ समेयातां महारथौ
परगृहीतमहाखड्गौ तौ चर्म वरधारिणौ
शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ
ततः सात्यकिम अभ्येत्य निस्त्रिंशवरधारिणम
भीमसेनस तवरन राजन रथम आरॊपयत तदा
तवापि तनयॊ राजन भूरिश्रवसम आहवे
आरॊपयद रथं तूर्णं पश्यतां सर्वधन्विनाम
तस्मिंस तथा वर्तमाने रणे भीष्मं महारथम
अयॊधयन्त संरब्धाः पाण्डवा भरतर्षभ
लॊहितायति चादित्ये तवरमाणॊ धनंजयः
पञ्चविंशतिसाहस्रान निजघान महारथान
ते हि दुर्यॊधनादिष्टास तदा पार्थ निबर्हणे
संप्राप्यैव गता नाशं शलभा इव पावकम
ततॊ मत्स्याः केकयाश च धनुर्वेद विशारदाः
परिवव्रुस तदा पार्थं सह पुत्रं महारथम
एतस्मिन्न एव काले तु सूर्ये ऽसतम उपगच्छति
सर्वेषाम एव सैन्यानां परमॊहः समजायत
अवहारं ततश चक्रे पिता देवव्रतस तव
संध्याकाले महाराज सैन्यानां शरान्तवाहनः
पाण्डवानां कुरूणां च परस्परसमागमे
ते सेने भृशसंविग्ने ययतुः सवं निवेशनम
ततः सवशिबिरं गत्वा नयविशंस तत्र भारत
पाण्डवाः सृञ्जयैः सार्धं कुरवश च यथाविधि
[स]
विहृत्य च ततॊ राजन सहिताः कुरुपाण्डवाः
वयतीतायां तु शर्वर्यां पुनर युद्धाय निर्ययुः
तत्र शब्दॊ महान आसीत तव तेषां च भारत
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम
संनह्यतां पदातीनां हयानां चैव भारत
शङ्खदुन्दुभिनादश च तुमुलः सर्वतॊ ऽभवत
ततॊ युधिष्ठिरॊ राजा धृष्टद्युम्नम अभाषत
वयूहं वयूह महाबाहॊ मकरं शत्रुतापनम
एवम उक्तस तु पार्थेन धृष्टद्युम्नॊ महारथः
वयादिदेश महाराज रथिनॊ रथिनां वरः
शिरॊ ऽभूद दरुपदस तस्य पाण्डवश च धनंजयः
चक्षुषी सहदेवश च नकुलश च महारथः
तुण्डम आसीन महाराज भीमसेनॊ महाबलः
सौभद्रॊ दरौपदेयाश च राक्षसश च घटॊत्कचः
सात्यकिर धर्मराजश च वयूह गरीवां समास्थिताः
पृष्ठम आसीन महाराज विराटॊ वाहिनीपतिः
धृष्टद्युम्नेन सहितॊ महत्या सेनया वृतः
केकया भरातरः पञ्च वामं पार्श्वं समाश्रिताः
धृष्टकेतुर नरव्याघ्रः करकर्षश च वीर्यवान
दक्षिणं पक्षम आश्रित्य सथिता वयूहस्य रक्षणे
पादयॊस तु महाराज सथितः शरीमान महारथः
कुन्तिभॊजः शतानीकॊ महत्या सेनया वृतः
शिखण्डी तु महेष्वासः सॊमकैः संवृतॊ बली
इरावांश च ततः पुच्छे मकरस्य वयवस्थितौ
एवम एतन महाव्यूहं वयूह्य भारत पाण्डवाः
सूर्यॊदये महाराज पुनर युद्धाय दंशिताः
कौरवान अभ्ययुस तूर्णं हस्त्यश्वरथपत्तिभिः
समुच्छ्रितैर धवजैश चित्रैः शस्त्रैश च विमलैः शितैः
वयूहं दृष्ट्वा तु तत सैन्यं पिता देवव्रतस तव
करौञ्चेन महता राजन परत्यव्यूहत वाहिनीम
तस्य तुण्डे महेष्वासॊ भारद्वाजॊ वयरॊचत
अश्वत्थामा कृपश चैव चक्षुर आस्तां नरेश्वर
कृतवर्मा तु सहितः काम्बॊजारट्ट बाह्लिकैः
शिरस्य आसीन नरश्रेष्ठः शरेष्ठः सर्वधनुष्मताम
गरीवायां शूरसेनस तु तव पुत्रश च मारिष
दुर्यॊधनॊ महाराज राजभिर बहुभिर वृतः
पराग्ज्यॊतिषस तु सहितॊ मद्रसौवीरकेकयैः
उरस्य अभून नरश्रेष्ठ महत्या सेनया वृतः
सवसेनया च सहितः सुशर्मा परस्थलाधिपः
वामं पक्षं समाश्रित्य दंशितः समवस्थितः
तुषारा यवनाश चैव शकाश च सह चूचुपैः
दक्षिणं पक्षम आश्रित्य सथिता वयूहस्य भारत
शरुतायुश च शतायुश च सौमदत्तिश च मारिष
वयूहस्य जघने तस्थू रक्षमाणाः परस्परम
ततॊ युद्धाय संजग्मुः पाण्डवाः कौरवैः सह
सूर्यॊदये महाराज ततॊ युद्धम अभून महत
परतीयू रथिनॊ नागान नागाश च रथिनॊ ययुः
हयारॊहा हयारॊहान रथिनश चापि सादिनः
सारथिं च रथी राजन कुञ्जरांश च महारणे
हस्त्यारॊहा रथारॊहान रथिनश चापि सादिनः
रथिनः पत्तिभिः सार्धं सादिनश चापि पत्तिभिः
अन्यॊन्यं समरे राजन परत्यधावन्न अमर्षिताः
भीमसेनार्जुन यमैर गुप्ता चान्यैर महारथैः
शुशुभे पाण्डवी सेना नक्षत्रैर इव शर्वरी
तथा भीष्म कृप दरॊण शल्य दुर्यॊधनादिभिः
तवापि विबभौ सेना गरहैर दयौर इव संवृता
भीमसेनस तु कौन्तेयॊ दरॊणं दृष्ट्वा पराक्रमी
अभ्ययाज जवनैर अश्वैर भारद्वाजस्य वाहिनीम
दरॊणस तु समरे करुद्धॊ भीमं नवभिर आयसैः
विव्याध समरे राजन मर्माण्य उद्दिश्य वीर्यवान
दृढाहतस ततॊ भीमॊ भारद्वाजस्य संयुगे
सारथिं परेषयाम आस यमस्य सदनं परति
स संगृह्य सवयं वाहान भारद्वाजः परतापवान
वयधमत पाण्डवीं सेनां तूलराशिम इवानलः
ते वध्यमाना दरॊणेन भीष्मेण च नरॊत्तम
सृञ्जयाः केकयैः सार्धं पलायनपराभवन
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम
मुह्यते तत्र तत्रैव समदेव वराङ्गना
अभिद्येतां ततॊ वयूहौ तस्मिन वीरवरक्षये
आसीद वयतिकरॊ घॊरस तव तेषां च भारत
तद अद्भुतम अपश्याम तावकानां परैः सह
एकायनगताः सर्वे यद अयुध्यन्त भारत
परतिसंवार्य चास्त्राणि ते ऽनयॊन्यस्य विशां पते
युयुधुः पाण्डवाश चैव कौरवाश च महारथाः
धृतराष्ट्र उवाच
एवं बहुगुणं सैन्यम एवं बहुविधं परम
वयूढम एवं यथाशास्त्रम अमॊघं चैव संजय
पुष्टम अस्माकम अत्यन्तम अभिकामं च नः सदा
परह्वम अव्यसनॊपेतं पुरस्ताद दृष्टविक्रमम
नातिवृद्धम अबालं च न कृशं न च पीवरम
लघुवृत्तायतप्रायं सारगात्रम अनामयम
आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम
असियुद्धे नियुद्धे च गदायुद्धे च कॊविदम
परासर्ष्टितॊमरेष्व आजौ परिघेष्व आयसेषु च
भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः
कम्पनेषु च चापेषु कणपेषु च सर्वशः
कषेपणीषु च चित्रासु मुष्टियुद्धेषु कॊविदम
अपरॊक्षं च विद्यासु वयायामेषु कृतश्रमम
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम
आरॊहे पर्यवस्कन्दे सरणे सान्तरप्लुते
सम्यक्प्रहरणे याने वयपयाने च कॊविदम
नागाश्वरथयानेषु बहुशः सुपरीक्षितम
परीक्ष्य च यथान्यायं वेतनेनॊपपादितम
न गॊष्ठ्या नॊपचारेण न च बन्धुनिमित्ततः
न सौहृदबलैश चापि नाकुलीनपरिग्रहैः
समृद्धजनम आर्यं च तुष्टसत्कृतबान्धवम
कृतॊपकारभूयिष्ठं यशस्वि च मनस्वि च
सजयैश च नरैर मुख्यैर बहुशॊ मुख्यकर्मभिः
लॊकपालॊपमैस तात पालितं लॊकविश्रुतैः
बहुभिः कषत्रियैर गुप्तं पृथिव्यां लॊकसंमतैः
अस्मान अभिगतैः कामात सबलैः सपदानुगैः
महॊदधिम इवापूर्णम आपगाभिः समन्ततः
अपक्षैः पक्षसंकाशै रथैर नागैश च संवृतम
नानायॊधजलं भीमं वाहनॊर्मितरङ्गिणम
कषेपण्यसिगदाशक्तिशरप्राससमाकुलम
धवजभूषणसंबाधं रत्नपट्टेन संचितम
वाहनैः परिसर्पद्भिर वायुवेगविकम्पितम
अपारम इव गर्जन्तं सागरप्रतिमं महत
दरॊणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा
कृपदुःशासनाभ्यां च जयद्रथमुखैस तथा
भगदत्तविकर्णाभ्यां दरौणिसौबलबाह्लिकैः
गुप्तं परवीरैर लॊकस्य सारवद्भिर महात्मभिः
यद अहन्यत संग्रामे दिष्टम एतत पुरातनम
नैतादृशं समुद्यॊगं दृष्टवन्तॊ ऽथ मानुषाः
ऋषयॊ वा महाभागाः पुराणा भुवि संजय
ईदृशॊ हि बलौघस तु युक्तः शस्त्रास्त्रसंपदा
वध्यते यत्र संग्रामे किम अन्यद भागधेयतः
विपरीतम इदं सर्वं परतिभाति सम संजय
यत्रेदृशं बलं घॊरं नातरद युधि पाण्डवान
अथ वा पाण्डवार्थाय देवास तत्र समागताः
युध्यन्ते मामकं सैन्यं यद अवध्यन्त संजय
उक्तॊ हि विदुरेणेह हितं पथ्यं च संजय
न च गृह्णाति तन मन्दः पुत्रॊ दुर्यॊधनॊ मम
तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः
आसीद यथागतं तात येन दृष्टम इदं पुरा
अथ वा भाव्यम एवं हि संजयैतेन सर्वथा
पुरा धात्रा यथा सृष्टं तत तथा न तद अन्यथा
संजय उवाच
आत्मदॊषात तवया राजन पराप्तं वयसनम ईदृशम
न हि दुर्यॊधनस तानि पश्यते भरतर्षभ
यानि तवं दृष्टवान राजन धर्मसंकरकारिते
तव दॊषात पुरा वृत्तं दयूतम एतद विशां पते
तव दॊषेण युद्धं च परवृत्तं सह पाण्डवैः
तवम एवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषम आत्मना
आत्मना हि कृतं कर्म आत्मनैवॊपभुज्यते
इह वा परेत्य वा राजंस तवया पराप्तं यथातथम
तस्माद राजन सथिरॊ भूत्वा पराप्येदं वयसनं महत
शृणु युद्धं यथावृत्तं शंसतॊ मम मारिष
भीमसेनस तु निशितैर बाणैर भित्त्वा महाचमूम
आससाद ततॊ वीरः सर्वान दुर्यॊधनानुजान
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णम एव च
एतान अन्यांश च सुबहून समीपस्थान महारथान
धार्तराष्ट्रान सुसंक्रुद्धान दृष्ट्वा भीमॊ महाबलः
भीष्मेण समरे गुप्तां परविवेश महाचमूम
अथाह्वयन्त ते ऽनयॊन्यम अयं पराप्तॊ वृकॊदरः
जीवग्राहं निगृह्णीमॊ वयम एनं नराधिपाः
स तैः परिवृतः पार्थॊ भरातृभिः कृतनिश्चयैः
परजासंहरणे सूर्यः करूरैर इव महाग्रहैः
संप्राप्य मध्यं वयूहस्य न भीः पाण्डवम आविशत
यथा देवासुरे युद्धे महेन्द्रः पराप्य दानवान
ततः शतसहस्राणि रथिनां सर्वशः परभॊ
छादयानं शरैर घॊरैस तम एकम अनुवव्रिरे
स तेषां परवरान यॊधान हस्त्यश्वरथसादिनः
जघान समरे शूरॊ धार्तराष्ट्रान अचिन्तयन
तेषां वयवसितं जञात्वा भीमसेनॊ जिघृक्षताम
समस्तानां वधे राजन मतिं चक्रे महामनाः
ततॊ रथं समुत्सृज्य गदाम आदाय पाण्डवः
जघान धार्तराष्ट्राणां तं बलौघमहार्णवम
भीमसेने परविष्टे तु धृष्टद्युम्नॊ ऽपि पार्षतः
दरॊणम उत्सृज्य तरसा परययौ यत्र सौबलः
विदार्य महतीं सेनां तावकानां नरर्षभः
आससाद रथं शून्यं भीमसेनस्य संयुगे
दृष्ट्वा विशॊकं समरे भीमसेनस्य सारथिम
धृष्टद्युम्नॊ महाराज दुर्मना गतचेतनः
अपृच्छद बाष्पसंरुद्धॊ निस्वनां वाचम ईरयन
मम पराणैः परियतमः कव भीम इति दुःखितः
विशॊकस तम उवाचेदं धृष्टद्युम्नं कृताञ्जलिः
संस्थाप्य माम इह बली पाण्डवेयः परतापवान
परविष्टॊ धार्तराष्ट्राणाम एतद बलमहार्णवम
माम उक्त्वा पुरुषव्याघ्र परीतियुक्तम इदं वचः
परतिपालय मां सूत नियम्याश्वान मुहूर्तकम
यावद एतान निहन्म्य आशु य इमे मद्वधॊद्यताः
ततॊ दृष्ट्वा गदाहस्तं परधावन्तं महाबलम
सर्वेषाम एव सैन्यानां संधर्षः समजायत
तस्मिंस तु तुमुले युद्धे वर्तमाने भयानके
भित्त्वा राजन महाव्यूहं परविवेश सखा तव
विशॊकस्य वचः शरुत्वा धृष्टद्युम्नॊ ऽपि पार्षतः
परत्युवाच ततः सूतं रणमध्ये महाबलः
न हि मे विद्यते सूत जीविते ऽदय परयॊजनम
भीमसेनं रणे हित्वा सनेहम उत्सृज्य पाण्डवैः
यदि यामि विना भीमं किं मां कषत्रं वदिष्यति
एकायनगते भीमे मयि चावस्थिते युधि
अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरॊगमाः
यः सहायान परित्यज्य सवस्तिमान आव्रजेद गृहान
मम भीमः सखा चैव संबन्धी च महाबलः
भक्तॊ ऽसमान भक्तिमांश चाहं तम अप्य अरिनिषूदनम
सॊ ऽहं तत्र गमिष्यामि यत्र यातॊ वृकॊदरः
निघ्नन्तं माम अरीन पश्य दानवान इव वासवम
एवम उक्त्वा ततॊ वीरॊ ययौ मध्येन भारतीम
भीमसेनस्य मार्गेषु गदाप्रमथितैर गजैः
स ददर्श ततॊ भीमं दहन्तं रिपुवाहिनीम
वातं वृक्षान इव बलात परभञ्जन्तं रणे नृपान
ते हन्यमानाः समरे रथिनः सादिनस तथा
पादाता दन्तिनश चैव चक्रुर आर्तस्वरं महत
हाहाकारश च संजज्ञे तव सैन्यस्य मारिष
वध्यतॊ भीमसेनेन कृतिना चित्रयॊधिना
ततः कृतास्त्रास ते सर्वे परिवार्य वृकॊदरम
अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः
अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लॊकवीरैः
सैन्येन घॊरेण सुसंगतेन; दृष्ट्वा बली पार्षतॊ भीमसेनम
अथॊपगच्छच छरविक्षताङ्गं; पदातिनं करॊधविषं वमन्तम
आश्वासयन पार्षतॊ भीमसेनं; गदाहस्तं कालम इवान्तकाले
निःशल्यम एनं च चकार तूर्णम; आरॊपयच चात्मरथं महात्मा
भृशं परिष्वज्य च भीमसेनम; आश्वासयाम आस च शत्रुमध्ये
भरातॄन अथॊपेत्य तवापि पुत्रस; तस्मिन विमर्दे महति परवृत्ते
अयं दुरात्मा दरुपदस्य पुत्रः; समागतॊ भीमसेनेन सार्धम
तं यात सर्वे सहिता निहन्तुं; मा वॊ रिपुः परार्थयताम अनीकम
शरुत्वा तु वाक्यं तम अमृष्यमाणा; जयेष्ठाज्ञया चॊदिता धार्तराष्ट्राः
वधाय निष्पेतुर उदायुधास ते; युगक्षये केतवॊ यद्वद उग्राः
परगृह्य चित्राणि धनूंषि वीरा; जयानेमिघॊषैः परविकम्पयन्तः
शरैर अवर्षन दरुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः
निहत्य तांश चापि शरैः सुतीक्ष्णैर; न विव्यथे समरे चित्रयॊधी
समभ्युदीर्णांश च तवात्मजांस तथा; निशाम्य वीरान अभितः सथितान रणे
जिघांसुर उग्रं दरुपदात्मजॊ युवा; परमॊहनास्त्रं युयुजे महारथः
करुद्धॊ भृशं तव पुत्रेषु राजन; दैत्येषु यद्वत समरे महेन्द्रः
ततॊ वयमुह्यन्त रणे नृवीराः; परमॊहनास्त्राहतबुद्धिसत्त्वाः
परदुद्रुवुः कुरवश चैव सर्वे; सवाजिनागाः सरथाः समन्तात
परीतकालान इव नष्टसंज्ञान; मॊहॊपेतांस तव पुत्रान निशम्य
एतस्मिन्न एव काले तु दरॊणः शस्त्रभृतां वरः
दरुपदं तरिभिर आसाद्य शरैर विव्याध दारुणैः
सॊ ऽतिविद्धस तदा राजन रणे दरॊणेन पार्थिवः
अपायाद दरुपदॊ राजन पूर्ववैरम अनुस्मरन
जित्वा तु दरुपदं दरॊणः शङ्खं दध्मौ परतापवान
तस्य शङ्खस्वनं शरुत्वा वित्रेसुः सर्वसॊमकाः
अथ शुश्राव तेजस्वी दरॊणः शस्त्रभृतां वरः
परमॊहनास्त्रेण रणे मॊहितान आत्मजांस तव
ततॊ दरॊणॊ राजगृद्धी तवरितॊ ऽभिययौ रणात
तत्रापश्यन महेष्वासॊ भारद्वाजः परतापवान
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे
मॊहाविष्टांश च ते पुत्रान अपश्यत स महारथः
ततः परज्ञास्त्रम आदाय मॊहनास्त्रं वयशातयत
अथ परत्यागतप्राणास तव पुत्रा महारथाः
पुनर युद्धाय समरे परययुर भीमपार्षतौ
ततॊ युधिष्ठिरः पराह समाहूय सवसैनिकान
गच्छन्तु पदवीं शक्त्या भीमपार्षतयॊर युधि
सौभद्रप्रमुखा वीरा रथा दवादश दंशिताः
परवृत्तिम अधिगच्छन्तु न हि शुध्यति मे मनः
त एवं समनुज्ञाताः शूरा विक्रान्तयॊधिनः
बाढम इत्य एवम उक्त्वा तु सर्वे पुरुषमानिनः
मध्यंदिनगते सूर्ये परययुः सर्व एव हि
केकया दरौपदेयाश च धृष्टकेतुश च वीर्यवान
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः
ते कृत्वा समरे वयूहं सूचीमुखम अरिंदमाः
बिभिदुर धार्तराष्ट्राणां तद रथानीकम आहवे
तान परयातान महेष्वासान अभिमन्युपुरॊगमान
भीमसेनभयाविष्टा धृष्टद्युम्नविमॊहिता
न संधारयितुं शक्ता तव सेना जनाधिप
मदमूर्छान्वितात्मानं परमदेवाध्वनि सथिता
ते ऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः
परीप्सन्तॊ ऽभयधावन्त धृष्टद्युम्नवृकॊदरौ
तौ च दृष्ट्वा महेष्वासान अभिमन्युपुरॊगमान
बभूवतुर मुदा युक्तौ निघ्नन्तौ तव वाहिनीम
दृष्ट्वा च सहसायान्तं पाञ्चाल्यॊ गुरुम आत्मनः
नाशंसत वधं वीरः पुत्राणां तव पार्षतः
ततॊ रथं समारॊप्य केकयस्य वृकॊदरम
अभ्यधावत सुसंक्रुद्धॊ दरॊणम इष्वस्त्रपारगम
तस्याभिपततस तूर्णं भारद्वाजः परतापवान
करुद्धश चिच्छेद भल्लेन धनुः शत्रुनिषूदनः
अन्यांश च शतशॊ बाणान परेषयाम आस पार्षते
दुर्यॊधनहितार्थाय भर्तृपिण्डम अनुस्मरन
अथान्यद धनुर आदाय पार्षतः परवीरहा
दरॊणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः
तस्य दरॊणः पुनश चापं चिच्छेदामित्रकर्शनः
हयांश च चतुरस तूर्णं चतुर्भिः सायकॊत्तमैः
वैवस्वतक्षयं घॊरं परेषयाम आस वीर्यवान
सारथिं चास्य भल्लेन परेषयाम आस मृत्यवे
हताश्वात स रथात तूर्णम अवप्लुत्य महारथः
आरुरॊह महाबाहुर अभिमन्यॊर महारथम
ततः सरथनागाश्वा समकम्पत वाहिनी
पश्यतॊ भीमसेनस्य पार्षतस्य च पश्यतः
तत परभग्नं बलं दृष्ट्वा दरॊणेनामिततेजसा
नाशक्नुवन वारयितुं समस्तास ते महारथाः
वध्यमानं तु तत सैन्यं दरॊणेन निशितैः शरैः
वयभ्रमत तत्र तत्रैव कषॊभ्यमाण इवार्णवः
तथा दृष्ट्वा च तत सैन्यं जहृषे च बलं तव
दृष्ट्वाचार्यं च संक्रुद्धं दहन्तं रिपुवाहिनीम
चुक्रुशुः सर्वतॊ यॊधाः साधु साध्व इति भारत
[स]
ततॊ दुर्यॊधनॊ राजा मॊहात परत्यागतस तदा
शरवर्षैः पुनर भीमं परत्यवारयद अच्युतम
एकीभूताः पुनश चैव तव पुत्रा महारथाः
समेत्य समरे भीमं यॊधयाम आसुर उद्यताः
भीमसेनॊ ऽपि समरे संप्राप्य सवरथं पुनः
समारुह्य महाबाहुर ययौ येन तवात्मजः
परगृह्य च महावेगं परासु करणं दृढम
चित्रं शरासनं संख्ये शरैर विव्याध ते सुतान
ततॊ दुर्यॊधनॊ राजा भीमसेनं महाबलम
नाराचेन सुतीक्ष्णेन भृशं मर्मण्य अताडयत
सॊ ऽतिविद्धॊ महेष्वासस तव पुत्रेण धन्विना
करॊधसंरक्तनयनॊ वेगेनॊत्क्षिप्य कार्मुकम
दुर्यॊधनं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत
स तथाभिहतॊ राजा नाचलद गिरिराड इव
तौ दृष्ट्वा समरे करुद्धौ विनिघ्नन्तौ परस्परम
दुर्यॊधनानुजाः सर्वे शूराः संत्यक्तजीविताः
संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः
निश्चयं मनसा कृत्वा निग्रहीतुं परचक्रमुः
तान आपतत एवाजौ भीमसेनॊ महाबलः
परत्युद्ययौ महाराज गजः परतिगजान इव
भृशं करुद्धश च तेजस्वी नाराचेन समर्पयत
चित्रसेनं महाराज तव पुत्रं महायशाः
तथेतरांस तव सुतांस ताडयाम आस भारत
शरैर बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः
ततः संस्थाप्य समरे सवान्य अनीकानि सर्वशः
अभिमन्युप्रभृतयस ते दवादश महारथाः
परेषिता धर्मराजेन भीमसेनपदानुगाः
परत्युद्ययुर महाराज तव पुत्रान महाबलान
दृष्ट्वा रथस्थांस ताञ शूरान सूर्याग्निसमतेजसः
सर्वान एव महेष्वासान भराजमानाञ शरिया वृतान
महाहवे दीप्यमानान सुवर्णकवचॊज्ज्वलान
तत्यजुः समरे भीमं तव पुत्रा महाबलाः
तान नामृष्यत कौन्तेयॊ जीवमाना गता इति
अन्वीय च पुनः सर्वांस तव पुत्रान अपीडयत
अथाभिमन्युं समरे भीमसेनेन संगतम
पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः
दुर्यॊधनप्रभृतयः परगृहीतशरासनाः
भृशम अश्वैः परजवितैः परययुर यत्र ते रथाः
अपराह्णे ततॊ राजन परावर्तत महान रणः
तावकानां च बलिनां परेषां चैव भारत
अभिमन्युर विकर्णस्य हयान हत्वा महाजवान
अथैनं पञ्चविंशत्या कषुद्रकाणां समाचिनॊत
हताश्वं रथम उत्सृज्य विकर्णस तु महारथः
आरुरॊह रथं राजंश चित्रसेनस्य भास्वरम
सथिताव एकरथे तौ तु भरातरौ कुरुवर्धनौ
आर्जुनिः शरजालेन छादयाम आस भारत
दुर्जयॊ ऽथ विकर्णश च कार्ष्णिं पञ्चभिर आयसैः
विव्याधाते न चाकम्पत कार्ष्णिर मेरुर इवाचलः
दुःशासनस तु समरे केकयान पञ्च मारिष
यॊधयाम आस राजेन्द्र तद अद्भुतम इवाभवत
दरौपदेया रणे करुद्धा दुर्यॊधनम अवारयन
एकैकस तरिभिर आनर्छत पुत्रं तव विशां पते
पुत्रॊ ऽपि तव दुर्धर्षॊ दरौपद्यास तनयान रणे
सायकैर निशितै राजन्न आजघान पृथक पृथक
तैश चापि विद्धः शुशुभे रुधिरेण समुक्षितः
गिरिप्रस्रवणैर यद्वद गिरिर धातुमिमिश्रितैः
भीष्मॊ ऽपि समरे राजन पाण्डवानाम अनीकिनीम
कालयाम आस बलवान पालः पशुगणान इव
ततॊ गाण्डीवनिर्घॊषः परादुरासीद विशां पते
दक्षिणेन वरूथिन्याः पार्थस्यारीन विनिघ्नतः
उत्तस्थुः समरे तत्र कबन्धानि समन्ततः
कुरूणां चापि सैन्येषु पाण्डवानां च भारत
शॊणितॊदं रथावर्तं गजद्वीपं हयॊर्मिणम
रथनौभिर नरव्याघ्राः परतेरुः सैन्यसागरम
छिन्नहस्ता विकवचा विदेहाश च नरॊत्तमाः
पतितास तत्र दृश्यन्ते शतशॊ ऽथ सहस्रशः
निहतैर मत्तमातङ्गैः शॊणितौघपरिप्लुतैः
भूर भाति भरतश्रेष्ठ पर्वतैर आचिता यथा
तत्राद्भुतम अपश्याम तव तेषां च भारत
न तत्रासीत पुमान कश चिद यॊ यॊद्धुं नाभिकाङ्क्षति
एवं युयुधिरे वीराः परार्थयाना महद यशः
तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि
[स]
ततॊ दुर्यॊधनॊ राजा लॊहितायति भास्करे
संग्रामरभसॊ भीमं हन्तुकामॊ ऽभयधावत
तम आयान्तम अभिप्रेक्ष्य नृवीरं दृढवैरिणम
भीमसेनः सुसंक्रुद्ध इदं वचनम अब्रवीत
अयं स कालः संप्राप्तॊ वर्षपूगाभिकाङ्क्षितः
अद्य तवां निहनिष्यामि यदि नॊत्सृजसे रणम
अद्य कुन्त्याः परिक्लेषं वनवासं च कृत्स्नशः
दरौपद्याश च परिक्लेशं परणॊत्स्यामि हते तवयि
यत तवं दुरॊदरॊ भूत्वा पाण्डवान अवमन्यसे
तस्य पापस्य गान्धारे पश्य वयसनम आगतम
कर्णस्य मतम आज्ञाय सौबलस्य च यत पुरा
अचिन्त्यपाण्डवान कामाद यथेष्टं कृतवान असि
याचमानं च यन मॊहाद दाशार्हम अवमन्यसे
उलूकस्य समादेशं यद ददासि च हृष्टवत
अद्य तवा निहनिष्यामि सानुबन्धं स बान्धवम
समीकरिष्ये तत पापं यत पुरा कृतवान असि
एवम उक्त्वा धनुर घॊरं विकृष्यॊद्भ्राम्य चासकृत
समादाय शरान घॊरान महाशनि समप्रभान
षड्विंशत तरसा करुद्धॊ मुमॊचाशु सुयॊधने
जवलिताग्निशिखाकारान वज्रकल्पान अजिह्मगान
ततॊ ऽसय कार्मुकं दवाभ्यां सूतं दवाभ्यां च विव्यधे
चतुर्भिर अश्वाञ जवनान अनयद यमसादनम
दवाभ्यां च सुविकृष्टाभ्यां शराभ्याम अरिमर्दनः
छत्रं चिच्छेद समरे राज्ञस तस्य रथॊत्तमात
तरिभिश च तस्य चिच्छेद जवलन्तं धवजम उत्तमम
छित्त्वा तं च ननादॊच्चैस तव पुत्रस्य पश्यतः
रथाच च स धवजः शरीमान नानारत्नविभूषितः
पपात सहसा भूमिं विद्युज जलधराद इव
जवलन्तं सूर्यसंकाशं नागं मणिमयं शुभम
धवजं कुरुपतेश छिन्नं ददृशुः सर्वपार्थिवाः
अथैनं दशभिर बाणैस तॊत्त्रैर इव महागजम
आजघान रणे भीमः समयन्न इव महारथः
ततस तु राजा सिन्धूनां रथश्रेष्ठॊ जयद्रथः
दुर्यॊधनस्य जग्राह पार्ष्णिसत्पुरुषॊचिताम
कृपश च रथिनां शरेष्ठ कौरव्यम अमितौजसम
आरॊपयद रथं राजन दुर्यॊधनम अमर्षणम
स गाढविद्धॊ वयथितॊ भीमसेनेन संयुगे
निषसाद रथॊपस्थे राजा दुर्यॊधनस तदा
परिवार्य ततॊ भीमं हन्तुकामॊ जयद्रथः
रथैर अनेकसाहस्रैर भीमस्यावारयद दिशः
धृष्टकेतुस ततॊ राजन्न अभिमन्युश च वीर्यवान
केकया दरौपदेयाश च तव पुत्रान अयॊधयन
चित्रसेनः सुचित्रश च चित्राश्वश चित्रदर्शनः
चारु चित्रः सुचारुश च तथा नन्दॊपनन्दकौ
अष्टाव एते महेष्वासाः सुकुमारा यशस्विनः
अभिमन्युरथं राजन समन्तात पर्यवारयन
आजघान ततस तूर्णम अभिमन्युर महामनाः
एकैकं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः
वज्रमृत्युप्रतीकाशैर विचित्रायुध निःसृतैः
अमृष्यमाणास ते सर्वे सौभद्रं रथसत्तमम
ववर्षुर मार्गणैस तीक्ष्णैर गिरिं मेरुम इवाम्बुदाः
स पीड्यमानः समरे कृतास्त्रॊ युद्धदुर्मदः
अभिमन्युर महाराज तावकान समकम्पयत
यथा देवासुरे युद्धे वज्रपाणिर महासुरान
विकर्णस्य ततॊ भल्लान परेषयाम आस भारत
चतुर्दश रथश्रेष्ठॊ घॊरान आशीविषॊपमान
धवजं सूतं हयांश चास्य छित्त्वा नृत्यन्न इवाहवे
पुनश चान्याञ शरान पीतान अकुण्ठाग्राञ शिलाशितान
परेषयाम आस सौभद्रॊ विकर्णाय महाबलः
ते विकर्णं समासाद्य कङ्कबर्हिण वाससः
भित्त्वा देहं गता भूमिं जवलन्त इव पन्नगाः
ते शरा हेमपुङ्खाग्रा वयदृश्यन्त महीतले
विकर्ण रुधिरक्लिन्ना वमन्त इव शॊणितम
विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहॊदराः
अभ्यद्रवन्त समरे सौभद्रप्रमुखान रथान
अभियात्वा तथैवाशु रथस्थान सूर्यवर्चसः
अविध्यन समरे ऽनयॊन्यं संरब्धा युद्धदुर्मदाः
दुर्मुखः शरुतकर्माणं विद्ध्वा सप्तभिर आशुगैः
धवजम एकेन चिच्छेद सारथिं चास्य सप्तभिः
अश्वाञ जाम्बूनदैर जालैः परच्छन्नान वातरंहसः
जघान षड्भिर आसाद्य सारथिं चाभ्यपातयत
स हताश्वे रथे तिष्ठञ शरुतकर्मा महारथ
शक्तिं चिक्षेप संक्रुद्धॊ महॊल्कां जवलिताम इव
सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः
विदार्य पराविशद भूमिं दीप्यमाना सुतेजना
तं दृष्ट्वा विरथं तत्र सुत सॊमॊ महाबलः
पश्यतां सर्वसैन्यानां रथम आरॊपयत सवकम
शरुतकीर्तिस तथा वीरॊ जयत्सेनं सुतं तव
अभ्ययात समरे राजन हन्तुकामॊ यशस्विनम
तस्य विक्षिपतश चापं शरुतकीर्तिर महात्मनः
चिच्छेद समरे राजञ जयत्सेनः सुतस तव
कषुरप्रेण सुतीक्ष्णेन परहसन्न इव भारत
तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहॊदरम
अभ्यपद्यत तेजस्वी सिंहवद विनदन मुहुः
शतानीकस तु समरे दृढं विस्फार्य कार्मुकम
विव्याध दशभिस तूर्णं जयत्सेनं शिलीमुखैः
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना
शतानीकॊ जयत्सेनं विव्याध हृदये भृशम
तथा तस्मिन वर्तमाने दुष्कर्णॊ भरातुर अन्तिके
चिच्छेद समरे चापं नाकुलेः करॊधमूर्छितः
अथान्यद धनुर आदाय भारसाधनम उत्तमम
समादत्त शितान बाणाञ शतानीकॊ महाबलः
तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भरातुर अग्रतः
मुमॊच निशितान बाणाञ जवलितान पन्नगान इव
ततॊ ऽसय धनुर एकेन दवाभ्यां सूतं च मारिष
चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः
अश्वान मनॊजवांश चास्य कल्माषान वीतकल्मषः
जघान निशितैस तूर्णं सर्वान दवादशभिः शरैः
अथापरेण भल्लेन सुमुक्तेन निपातिना
दुष्कर्णं समरे करुद्धॊ विव्याध हृदये भृशम
दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन महारथाः
जिघांसन्तः शतानीकं सर्वतः पर्यवारयन
छाद्यमानं शरव्रातैः शतानीकं यशस्विनम
अभ्यधावन्त संरब्धाः केकयाः पञ्च सॊदराः
तान अभ्यापततः परेक्ष्य तव पुत्रा महारथाः
परत्युद्ययुर महाराज गजा इव महागजान
दुर्मुखॊ दुर्जयश चैव तथा दुर्मर्षणॊ युवा
शत्रुंजयः शत्रुसहः सर्वे करुद्धा यशस्विनः
परत्युद्याता महाराज केकयान भरातरः समम
रथैर नगरसंकाशैर हयैर युक्तैर मनॊजवैः
नानावर्णविचित्राभिः पताकाभिर अलंकृतैः
वच चापधरा वीरा विचित्रकवच धवजाः
विविशुस ते परं सैन्यं सिंहा इव वनाद वनम
तेषां सुतुमुलं युद्धव्यतिषक्त रह दविपम
अवर्तत महारौद्रं निघ्नताम इतरेतरम
अन्यॊन्यागः कृतां राजन यम राष्ट्रविवर्धनम
मुहूर्तास्तमिते सूर्ये चक्रुर युद्धं सुदारुणम
रथिनः सादिनश चैव वयकीर्यन्त सहस्रशः
ततः शांतनवः करुद्धः शरैः संनतपर्वभिः
नाशयाम आस सेनां वै भीष्मस तेषां महात्मनाम
पाञ्चालानां च सैन्यानि शरैर निन्ये यमक्षयम
एवं भित्त्वा महेष्वासः पाण्डवानाम अनीकिनाम
कृत्वावहारं सैन्यानां ययौ सवशिबिरं नृप
धर्मराजॊ ऽपि संप्रेक्ष्य धृष्टद्युम्न वृकॊदरौ
मूर्ध्नि चैताव उपाघ्राय संहृष्टः शिबिरं ययौ
[स]
अथ शूरा महाराज परस्परकृतागसः
जग्मुः सवशिबिराण्य एव रुधिरेण समुक्षिताः
विश्रम्य च यथान्यायं पूजयित्वा परस्परम
संनधाः समदृश्यन्त भूयॊ युद्धचिकीर्षया
ततस तव सुतॊ राजंश चिन्तयाभिपरिप्लुतः
विस्रवच छॊणिताक्ताङ्गः पप्रच्छेदं पितामहम
सैन्यानि रौद्राणि भयानकानि; वयूढानि सम्यग बहुल धवजानि
विदार्य हत्वा च निपीड्य शूरास; ते पाण्डवानां तवरिता रथौघाः
संमॊह्य सर्वान युधि कीर्तिमन्तॊ; वयूहं च तं मकरं वज्रकल्पम
परविश्य भीमेन निबर्हितॊ ऽसमि; घॊरैः शरैर मृत्युदण्डप्रकाशैः
करुद्धं तम उद्वीक्ष्य भयेन राजन; संमूर्छितॊ नालभं शान्तिम अद्य
इच्छे परसादात तव सत्यसंघ; पराप्तुं जयं पाण्डवेयांश च हन्तुम
तेनैवम उक्तः परहसन महात्मा; दुर्यॊधनं जातमन्युं विदित्वा
तं परत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः
परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र
इच्छामि दातुं विजयं सुखं च; न चात्मानं छादये ऽहं तवदर्थे
एते तु रौद्रा बहवॊ महारथा; यशस्विनः शूरतमाः कृतास्त्राः
ये पाण्डवानां समरे सहाया; जितक्लमाः करॊधविषं वमन्ति
ते नेह शक्याः सहसा विजेतुं; वीर्यॊन्नद्धाः कृतवैरास तवया च
अहं हय एतान परतियॊत्स्यामि राजन; सर्वात्मना जीवितं तयज्य वीर
रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य
सर्वांस तवार्थाय स देव दैत्याँल; लॊकान दहेयं किम उ शत्रूंस तवेह
तत पाण्डवान यॊधयिष्यामि राजन; परियं च ते सर्वम अहं करिष्ये
शरुत्वैव चैतत परमप्रतीतॊ; दुर्यॊधनः परीतिमना बभूव
सर्वाणि सैन्यानि ततः परहृष्टॊ; निर्गच्छतेत्य आह नृपांश च सर्वान
तद आज्ञया तानि विनिर्ययुर दरुतं; रथाश्वपादातगजायुतानि
परहर्षयुक्तानि तु तानि राजन; महान्ति नानाविध शस्त्रवन्ति
सथितानि नागाश्वपदातिमन्ति; विरेजुर आजौ तव राजन बलानि
वृन्दैः सथिताश चापि सुसंप्रयुक्ताश; चकाशिरे दन्ति गणाः समन्तात
शस्त्रास्त्रविद्भिर नरदेव यॊधैर; अधिष्ठिताः सैन्यगणास तवदीयाः
रथैश च पादातगजाश्वसंघैः; परयाद्भिर आजौ विधिवत परणुन्नैः
समुद्धतं वै तरुणार्कवर्णं; रजॊ बभौ छादयत सूर्यरश्मीन
रेजुः पताका रथदन्त संस्था; वातेरिता भराम्यमाणाः समन्तात
नाना रङ्गाः समरे तत्र राजन; मेघैर युक्ता विद्युतः खे यथैव
धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस तुमुलॊ ऽतिघॊरः
विमथ्यतॊ देवमहासुरौघैर; यथार्णवस्यादि युगे तदानीम
तद उग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णम एव
बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम
[स]
अथात्मजं तव पुनर गाङ्गेयॊ धयानम आस्थितम
अब्रवीद भरतश्रेष्ठः संप्रहर्षकरं वचः
अहं दरॊणश च शल्यश च कृतवर्मा च सात्वतः
अश्वत्थामा विकर्णश च सॊमदत्तॊ ऽथ सैन्धवः
विन्दानुविन्दाव आवन्त्यौ बाह्लिकः सह बाह्लिकैः
तरिगर्तराजश च बली मागधश च सुदुर्जयः
बृहद्बलश च कौसल्यश चित्रसेनॊ विविंशतिः
रथाश च बहुसाहस्राः शॊभमाना महाध्वजाः
देवजाश च हया राजन सवारूढा हयसादिभिः
गजेन्द्राश च महॊद्वृत्ताः परभिन्नकरटा मुखाः
पदाताश च तथा शूरा नानाप्रहरणायुधाः
नानादेशसमुत्पन्नास तवदर्थे यॊद्धुम उद्यताः
एते चान्ये च बहवस तवदर्थे तयक्तजीविताः
देवान अपि रणे जेतुं समर्था इति मे मतिः
अवश्यं तु मया राजंस तव वाच्यं हितं सदा
अशक्याः पाण्डवा जेतुं देवैर अपि स वासवैः
वासुदेवसहायाश च महेन्द्रसमविक्रमाः
सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव
पाण्डवान वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः
एवम उक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम
ओषधीं वीर्यसंपन्नां विशल्यश चाभवत तदा
ततः परभाते विमले सवेनानीकेन वीर्यवान
अव्यूहत सवयं वयूहं भीष्मॊ वयूह विशारदः
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम
संपूर्णं यॊधमुख्यैश च तथा दन्ति पदातिभिः
रथैर अनेकसाहस्रैः समन्तात परिवारितम
अश्वबृन्दैर महद्भिश च ऋष्टितॊमरधारिभिः
नागे नागे रथा सप्त सप्त चाश्वा रथे रथे
अन्व अश्वं दश धानुष्का धानुष्के सप्त चर्मिणः
एवं वयूहं महाराज तव सैन्यं महारथैः
सथितं रणाय महते भीष्मेण युधि पालितम
दशाश्वानां सहस्राणि दन्तिनां च तथैव च
रथानाम अयुतं चापि पुत्राश च तव दंशिताः
चित्रसेनादयः शूरा अभ्यरक्षन पितामहम
रक्ष्यमाणश च तैः शूरैर गॊप्यमानाश च तेन ते
संनद्धाः समदृश्यन्त राजानश च महाबलाः
दुर्यॊधनस तु समरे दंशितॊ रथम आस्थितः
वयभ्राजत शरिया जुष्टॊ यथा शक्रस तरिविष्टपे
ततः शब्दॊ महान आसीत पुत्राणां तव भारत
रथगॊषश च तुमुलॊ वादित्राणां च निस्वनः
भीष्मेण धार्तराष्ट्राणां वयूढः परत्यङ्मुखॊ युधि
मण्डलः सुमहाव्यूहॊ दुर्भेद्यॊ ऽमित्रघातिनम
सर्वतः शुशुभे राजन रणे ऽरीणां दुरासदः
मण्डलं तु समालॊक्य वयूहं परमदारुणम
सवयं युधिष्ठिरॊ राजा वयूहं वज्रम अथाकरॊत
तथा वयूढेष्व अनीकेषु यथास्थानम अवस्थिताः
रथिनः सादिनश चैव सिंहनादम अथानदन
बिभित्सवस ततॊ वयूहं निर्ययुर युद्धकाङ्क्षिणः
इतरेतरतः शूराः सह सैन्याः परहारिणः
भारद्वाजॊ ययौ मत्स्यं दरौणिश चापि शिखण्डिनम
सवयं दुर्यॊधनॊ राजा पार्षतं समुपाद्रवत
नकुलः सहदेवश च राजन मद्रेशम ईयतुः
विन्दानुविन्दाव आवन्त्याव इरावन्तम अभिद्रुतौ
सर्वे नृपास तु समरे धनंजयम अयॊधयन
भीमसेनॊ रणे यत्तॊ हार्दिक्यं समवारयत
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभॊ
आर्जुनिः समरे राजंस तव पुत्रान अयॊधयत
पराग्ज्यॊतिषं महेष्वासं हैडिम्बॊ राक्षसॊत्तमः
अभिदुद्राव वेगेन मत्तॊ मत्तम इव दविपम
अलम्बुसस ततॊ राजन सात्यकिं युद्धदुर्मदम
स सैन्यं समरे करुद्धॊ राक्षसः समभिद्रवत
भूरिश्रवा रणे यत्तॊ धृष्टकेतुम अयॊधयत
शरुतायुषं तु राजानं धर्मपुत्रॊ युधिष्ठिरः
चेकितानस तु समरे कृपम एवान्य्वयॊधयत
शेषाः परतिययुर यत्ता भीमम एव महारथम
ततॊ राजसहस्राणि परिवव्रुर धनंजयम
शक्तितॊमरनाराचगदापरिघपाणयः
अर्जुनॊ ऽथ भृशं करुद्धॊ वार्ष्णेयम इदम अब्रवीत
पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे
वयूढानि वयूह विदुषा गाङ्गेयेन महात्मना
युद्धाभिकामाञ शूरांश च पश्य माधव दंशितान
तरिगर्तराजं सहितं भरातृभिः पश्य केशव
अद्यैतान पातयिष्यामि पश्यतस ते जनार्दन
य इमे मां यदुश्रेष्ठ यॊद्धुकामा रणाजिरे
एवम उक्त्वा तु कौन्तेयॊ धनुर्ज्याम अवमृज्य च
ववर्ष शरवर्षाणि नराधिप गणान परति
ते ऽपि तं परमेष्वासाः शरवर्षैर अपूरयन
तडागम इव धाराभिर यथा परावृषि तॊयदा
हाहाकारॊ महान आसीत तव सैन्यविशां पते
छाद्यमानौ भृशं कृष्णौ शरैर दृष्ट्वा महारणे
देवा देवर्षयश चैव गन्धर्वाश च महॊरगाः
विस्मयं परमं जग्मुर दृट्वा कृष्णौ तथागतौ
ततः करुद्धॊ ऽरजुनॊ राजन्न ऐन्द्रम अस्त्रम उदीरयत
तत्राद्भुतम अपश्याम विजयस्य पराक्रमम
शस्त्रवृष्टिं परैर मुक्तां शरौघैर यद अवारयत
न च तत्राप्य अनिर्भिन्नः कश चिद आसीद विशां पते
तेषां राजसहस्राणां हयानां दन्तिनां तथा
दवाभ्यां तरिभिः शरैश चान्यान पार्थॊ विव्याध मारिष
ते हन्यमानाः पार्थेन भीष्मं शांतनवं ययुः
अगाधे मज्जमानानां भीष्मस तराताभवत तदा
आपतद्भिस तु तैस तत्र परभग्नं तावकं बलम
संचुक्षुभे महाराज वातैर इव महार्णवः
संजय उवाच
तथा परवृत्ते संग्रामे निवृत्ते च सुशर्मणि
परभग्नेषु च वीरेषु पाण्डवेन महात्मना
कषुभ्यमाणे बले तूर्णं सागरप्रतिमे तव
परत्युद्याते च गाङ्गेये तवरितं विजयं परति
दृष्ट्वा दुर्यॊधनॊ राजन रणे पार्थस्य विक्रमम
तवरमाणः समभ्येत्य सर्वांस तान अब्रवीन नृपान
तेषां च परमुखे शूरं सुशर्माणं महाबलम
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन वचः
एष भीष्मः शांतनवॊ यॊद्धुकामॊ धनंजयम
सर्वात्मना कुरुश्रेष्ठस तयक्त्वा जीवितम आत्मनः
तं परयान्तं परानीकं सर्वसैन्येन भारतम
संयत्ताः समरे सर्वे पालयध्वं पितामहम
बाढम इत्य एवम उक्त्वा तु तान्य अनीकानि सर्वशः
नरेन्द्राणां महाराज समाजग्मुः पितामहम
ततः परयातः सहसा भीष्मः शांतनवॊ ऽरजुनम
रणे भारतम आयान्तम आससाद महाबलम
महाश्वेताश्वयुक्तेन भीम वानरकेतुना
महता मेघनादेन रथेनाति विराजत
समरे सर्वसैन्यानाम उपयातं धनंजयम
अभवत तुमुलॊ नादॊ भयाद दृष्ट्वा किरीटिनम
अभीशु हस्तं कृष्णं च दृष्ट्वादित्यम इवापरम
मध्यंदिन गतं संख्ये न शेकुः परतिवीक्षितुम
तथा शांतनवं भीष्मं शवेताश्वं शवेतकार्मुकम
न शेकुः पाण्डवा दरष्टुं शवेतग्रहम इवॊदितम
स सर्वतः परिवृतस तरिगर्तैः सुमहात्मभिः
भरातृभिस तव पुत्रैश च तथान्यैश च महारथैः
भारद्वाजस तु समरे मत्स्यं विव्याध पत्रिणा
धवजं चास्य शरेणाजौ धनुश चैकेन चिच्छिदे
तद अपास्य धनुश छिन्नं विराटॊ वाहिनीपतिः
अन्यद आदत्त वेगेन धनुर भारसहं दृढम
शरांश चाशीविषाकाराञ जवलितान पन्नगान इव
दरॊणं तरिभिः परविव्याध चतुर्भिश चास्य वाजिनः
धवजम एकेन विव्याध सारथिं चास्य पञ्चभिः
धनुर एकेषुणाविध्यत तत्राक्रुध्यद दविजर्षभः
तस्य दरॊणॊ ऽवधीद अश्वाञ शरैः संनतपर्वभिः
अष्टाभिर भरतश्रेष्ठ सूतम एकेन पत्रिणा
स हताश्वाद अवप्लुत्य सयन्दनाद धतसारथिः
आरुरॊह रथं तूर्णं शङ्खस्य रथिनां वरः
ततस तु तौ पिता पुत्रौ भारद्वाजं रथे सथितौ
महता शरवर्षेण वारयाम आसतुर बलात
भारद्वाजस ततः करुद्धः शरम आशीविषॊपमम
चिक्षेप समरे तूर्णं शङ्खं परति जनेश्वर
स तस्य हृदयं भित्त्वा पीत्वा शॊणितम आहवे
जगाम धरणिं बाणॊ लॊहितार्द्रीकृतच्छविः
स पपात रथात तूर्णं भारद्वाजशराहतः
धनुस तयक्त्वा शरांश चैव पितुर एव समीपतः
हतं सवम आत्मजं दृष्ट्वा विराटः पराद्रवद भयात
उत्सृज्य समरे दरॊणं वयात्ताननम इवान्तकम
भारद्वाजस ततस तूर्णं पाण्डवानां महाचमूम
दारयाम आस समरे शतशॊ ऽथ सहस्रशः
शिखण्ड्य अपि महाराज दरौणिम आसाद्य संयुगे
आजघान भरुवॊर मध्ये नाराचैस तरिभिर आशुगैः
स बभौ नरशार्दूलॊ ललाटे संस्थितैस तरिभिः
शिखरैः काञ्चनमयैर मेरुस तरिभिर इवॊच्छ्रितैः
अश्वत्थामा ततः करुद्धॊ निमेषार्धाच छिखण्डिनः
सूतं धवजम अथॊ राजंस तुरगान आयुधं तथा
शरैर बहुभिर उद्दिश्य पातयाम आस संयुगे
स हताश्वाद अवप्लुत्य रथाद वै रथिनां वरः
खड्गम आदाय निशितं विमलं च शरावरम
शयेनवद वयचरत करुद्धः शिखण्डी शत्रुतापनः
स खड्गस्य महाराज चरतस तस्य संयुगे
नान्तरं ददृशे दरौणिस तद अद्भुतम इवाभवत
ततः शरसहस्राणि बहूनि भरतर्षभ
परेषयाम आस समरे दरौणिः परमकॊपनः
ताम आपतन्तीं समरे शरवृष्टिं सुदारुणाम
असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः
ततॊ ऽसय विमलं दरौणिः शतचन्द्रं मनॊरमम
चर्माच्छिनद असिं चास्य खण्डयाम आस संयुगे
शितैः सुबहुशॊ राजंस तं च विव्याध पत्रिभिः
शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः
आविध्य वयसृजत तूर्णं जवलन्तम इव पन्नगम
तम आपतन्तं सहसा कालानलसमप्रभम
चिच्छेद समरे दरौणिर दर्शयन पाणिलाघवम
शिखण्डिनं च विव्याध शरैर बहुभिर आयसैः
शिखण्डी तु भृशं राजंस ताड्यमानः शितैः शरैः
आरुरॊह रथं तूर्णं माधवस्य महात्मनः
सात्यकिस तु ततः करुद्धॊ राक्षसं करूरम आहवे
अलम्बुसं शरैर घॊरैर विव्याध बलिनां बली
राक्षसेन्द्रस ततस तस्य धनुश चिच्छेद भारत
अर्धचन्द्रेण समरे तं च विव्याध सायकैः
मायां च राक्षसीं कृत्वा शरवर्षैर अवाकिरत
तत्राद्भुतम अपश्याम शैनेयस्य पराक्रमम
नासंभ्रमद यत समरे वध्यमानः शितैः शरैः
ऐन्द्रम अस्त्रं च वार्ष्णेयॊ यॊजयाम आस भारत
विजयाद यद अनुप्राप्तं माधवेन यशस्विना
तद अस्त्रं भस्मसात कृत्वा मायां तां राक्षसीं तदा
अलम्बुसं शरैर घॊरैर अभ्याकिरत सर्वशः
पर्वतं वारिधाराभिः परावृषीव बलाहकः
तत तथा पीडितं तेन माधवेन महात्मना
परदुद्राव भयाद रक्षॊ हित्वा सात्यकिम आहवे
तम अजेयं राक्षसेन्द्रं संख्ये मघवता अपि
शैनेयः पराणदज जित्वा यॊधानां तव पश्यताम
नयहनत तावकांश चापि सात्यकिः सत्यविक्रमः
निशितैर बहुभिर बाणैस ते ऽदरवन्त भयार्दिताः
एतस्मिन्न एव काले तु दरुपदस्यात्मजॊ बली
धृष्टद्युम्नॊ महाराज तव पुत्रं जनेश्वरम
छादयाम आस समरे शरैः संनतपर्वभिः
संछाद्यमानॊ विशिखैर धृष्टद्युम्नेन भारत
विव्यथे न च राजेन्द्र तव पुत्रॊ जनेश्वरः
धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः
षष्ट्या च तरिंशता चैव तद अद्भुतम इवाभवत
तस्य सेनापतिः करुद्धॊ धनुश चिच्छेद मारिष
हयांश च चतुरः शीघ्रं निजघान महारथः
शरैश चैनं सुनिशितैः कषिप्रं विव्याध सप्तभिः
स हताश्वान महाबाहुर अवप्लुत्य रथाद बली
पदातिर असिम उद्यम्य पराद्रवत पार्षतं परति
शकुनिस तं समभ्येत्य राजगृद्धी महाबलः
राजानं सर्वलॊकस्य रथम आरॊपयत सवकम
ततॊ नृपं पराजित्य पार्षतः परवीरहा
नयहनत तावकं सैन्यं वज्रपाणिर इवासुरम
कृतवर्मा रणे भीमं शरैर आर्च्छन महारथम
परच्छादयाम आस च तं महामेघॊ रविं यथा
ततः परहस्य समरे भीमसेनः परंतपः
परेषयाम आस संक्रुद्धः सायकान कृतवर्मणे
तैर अर्द्यमानॊ ऽतिरथः सात्वतः शस्त्रकॊविदः
नाकम्पत महाराज भीमं चार्छच छितैः शरैः
तस्याश्वांश चतुरॊ हत्वा भीमसेनॊ महाबलः
सारथिं पातयाम आस धवजं च सुपरिष्कृतम
शरैर बहुविधैश चैनम आचिनॊत परवीहरा
शकलीकृतसर्वाङ्गः शवाविद्वत समदृश्यत
हताश्वात तु रथात तूर्णं वृषकस्य रथं ययौ
सयालस्य ते महाराज तव पुत्रस्य पश्यतः
भीमसेनॊ ऽपि संक्रुद्धस तव सैन्यम उपाद्रवत
निजघान च संक्रुद्धॊ दण्डपाणिर इवान्तकः
[धृ]
बहूनीह विचित्राणि दवैरथानि सम संजय
पाण्डूनां मामकैः सार्धम अश्रौषं तव जल्पतः
न चैव मामकं कं चिद धृष्टं शंससि संजय
नित्यं पाण्डुसुतान हृष्टान अभग्नांश चैव शंससि
जीयमानान विमनसॊ मामकान विगतौजसः
वदसे संयुगे सूत दिष्टम एतद असंशयम
[स]
यथाशक्ति यथॊत्साहं युद्धे चेष्टन्ति तावकाः
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ
गङ्गायाः सुरनद्या वै सवादु भूतं यथॊदकम
महॊदधि गुणाभ्यासाल लवणत्वं निगच्छति
तथा तत पौरुषं राजंस तावकानां महात्मनाम
पराप्य पाण्डुसुतान वीरान वयर्थं भवति संयुगे
घटमानान यथाशक्ति कुर्वाणान कर्म दुष्करम
न दॊषेण कुरुश्रेष्ठ कौरवान गन्तुम अर्हसि
तवापराधात सुमहान सपुत्रस्य विशां पते
पृथिव्याः परक्षयॊ घॊरॊ यम राष्ट्रविवर्धनः
आत्मदॊषात समुत्पन्नं शॊचितुं नार्हसे नृप
न हि रक्षन्ति राजानः सर्वार्थान नापि जीवितम
युद्धे सुकृतिनां लॊकान इच्छन्तॊ वसुधाधिपाः
चमूं विगाह्य युध्यन्ते नित्यं सवर्गपरायणाः
पूर्वाह्णे तु महाराज परावर्तत जनक्षयः
तन ममैकमना भूत्वा शृणु देवासुरॊपमम
आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ
इरावन्तम अभिप्रेक्ष्य समेयातां रणॊत्कटौ
तेषां परववृते युद्धं तुमुलं लॊमहर्षणम
इरावांस तु सुसंक्रुद्धॊ भरातरौ देवरूपिणौ
विव्याध निशितैस तूर्णं शरैः संनतपर्वभिः
ताव एनं परत्यविध्येतां समरे चित्रयॊधिनौ
युध्यतां हि तथा राजन विशेषॊ न वयदृश्यत
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम
इरावांस तु ततॊ राजन्न अनुविन्दस्य सायकैः
चतुर्भिश चतुरॊ वाहान अनयद यमसादनम
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष
चिच्छेद समरे राजंस तद अद्भुतम इवाभवत
तयक्त्वानुविन्दॊ ऽथ रथं विन्दस्य रथम आस्थितः
धनुर गृहीत्वा नवमं भारसाधनम उत्तमम
ताव एकस्थौ रणे वीराव आवन्त्यौ रथिनां वरौ
शरान मुमुचतुस तूर्णम इरावति महात्मनि
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः
दिवाकरपथं पराप्य छादयाम आसुर अम्बरम
इरावांस तु ततः करुद्धॊ भरातरौ तौ महारथौ
ववर्ष शरवर्षेण सारथिं चाप्य अपातयत
तस्मिन निपतिते भूमौ गतसत्त्वे ऽथ सारथौ
रथः परदुद्राव दिशः समुद्भ्रान्त हयस ततः
तौ स जित्वा महाराज नागराजसुता सुतः
पौरुषं खयापयंस तूर्णं वयधमत तव वाहिनीम
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः
वेगान बहुविधांश चक्रे विषं पीत्वेव मानवः
हैडिम्बॊ राक्षसेन्द्रस तु भगदत्तं समाद्रवत
रथेनादित्यवर्णेन स धवजेन महाबलः
ततः पराग्ज्यॊतिषॊ राजा नागराजं समास्थितः
यथा वज्रधरः पूर्वं संग्रमे तारकामये
ततर देवाः स गन्धर्वा ऋषयश च समागताः
विशेषं न सम विविदुर हैडिम्ब भगदत्तयॊः
यथा सुरपतिः शक्रस तरासयाम आस दानवान
तथैव समरे राजंस तरासयाम आस पाण्डवान
तेन विद्राव्यमाणास ते पाण्डवाः सर्वतॊदिशम
तरातारं नाभ्यविन्दन्त सवेष्व अनीकेषु भारत
भैमसेनिं रथस्थं तु तत्रापश्याम भारत
शेषा विमनसॊ भूत्वा पराद्रवन्त महारथाः
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत
आसीन निष्टानकॊ घॊरस तव सैन्येषु संयुगे
घटॊत्कचस ततॊ राजन भगदत्तं महारणे
शरैः परच्छादयाम आस मेरुं गिरिम इवाम्बुदः
निहत्य ताञ शरान राजा राक्षसस्य धनुश्च्युतान
भैमसेनिं रणे तूर्णं सर्वमर्मस्व अताडयत
स ताड्यमानॊ बहुभिः शरैः संनतपर्वभिः
न विव्यथे राक्षसेन्द्रॊ भिद्यमान इवाचलः
तस्य पराग्ज्यॊतिषः करुद्धस तॊमरान स चतुर्दश
परेषयाम आस समरे तांश च चिच्छेद राक्षसः
स तांश छित्त्वा महाबाहुस तॊमरान निशितैः शरैः
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः
ततः पराग्ज्यॊतिषॊ राजन परहसन्न इव भारत
तस्याश्वांश चतुरः संख्ये पातयाम आस सायकैः
स हताश्वे रथे तिष्ठन राक्षसेन्द्रः परतापवान
शक्तिं चिक्षेप वेगेन पराग्ज्यॊतिष गजं परति
ताम आपतन्तीं सहसा हेमदण्डां सुवेगिनाम
तरिधा चिच्छेद नृपतिः सा वयकीर्यत मेदिनीम
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः पराद्रवद भयात
यथेन्द्रस्य रणात पूर्वं नमुचिर दैत्य सत्तमः
तं विजित्य रणे शूरं विक्रान्तं खयातपौरुषम
अजेयं समरे राजन यमेन वरुणेन च
पाण्डवीं समरे सेनां संममर्द स कुञ्जरः
यथा वनगजॊ राजन मृद्गंश चरति पद्मिनीम
मद्रेश्वरस तु समरे यमाभ्यां सह संगतः
सवस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ
सहदेवस तु समरे मातुलं वीक्ष्य संगतम
अवारयच छरौघेण मेघॊ यद्वद दिवाकरम
छाद्यमानः शरौघेण हृष्टरूपतरॊ ऽभवत
तयॊश चाप्य अभवत परीतिर अतुला मातृकारणात
ततः परहस्य समरे नकुलस्य महारथः
अश्वान वै चतुरॊ राजंश चतुर्भिः सायकॊत्तमैः
परेषयाम आस समरे यमस्य सदनं परति
हयाश्वात तु रथात तूर्णम अवप्लुत्य महारथः
आरुरॊह ततॊ हानं भरातुर एव यशस्विनः
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके
मद्रराजरथं करुद्धौ छादयाम आसतुः कषणात
स चछाद्यमानॊ बहुभिः शरैः संनतपर्वभिः
सवस्रीयाभ्यां नरव्याघ्रॊ नाकम्पत यथाचलः
परहसन्न इव तां चापि शरवृष्टिं जघान ह
सहदेवस ततः करुद्धः शरम उद्यम्य वीर्यवान
मद्रराजम अभिप्रेक्ष्य परेषयाम आस भारत
स शरः परेषितस तेन गरुत्मान इव वेगवान
मद्रराजं विनिर्भिद्य निपपात महीतले
स गाढविद्धॊ वयथितॊ रथॊपस्थे महारथः
निषसाद महाराज कश्मलं च जगाम ह
तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे
अपॊवाह रथेनाजौ यमाभ्याम अभिपीडितम
दृट्ष्वा मद्रेश्वर रथं धार्तराष्ट्राः पराङ्मुखम
सर्वे विमनसॊ भूत्वा नेदम अस्तीत्य अचिन्तयन
निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ
दध्मतुर मुदितौ शङ्खौ सिंहनादं विनेदतुः
अभिदुद्रुवतुर हृष्टौ तव सैन्यं विशां पते
यथा दैत्य चमूं राजन्न इन्द्रॊपेन्द्राव इवामरौ
[स]
ततॊ युधिष्ठिरॊ राजा मध्यं पराप्ते दिवाकरे
शरुतायुषम अभिप्रेक्ष्य चॊदयाम आस वाजिनः
अभ्यधावत ततॊ राजा शरुतायुषम अरिंदमम
विनिघ्नन सायकैस तीक्ष्णैर नवभिर नतपर्वभिः
स संवार्य रणे राजा परेषितान धर्मसूनुना
शरान सप्त महेष्वासः कौन्तेयाय समर्पयत
ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे
असून इव विचिन्वन्तॊ देहे तस्य महात्मनः
पाण्डवस तुभृशं विद्धस तेन राज्ञा महात्मना
रणे वराहकर्णेन राजानं हृदि विव्यधे
अथापरेण भल्लेन केतुं तस्य महात्मनः
रथश्रेष्ठॊ रथात तूर्णं भूमौ पार्थॊ नयपातयत
केतुं निपतितं दृष्ट्वा शरुतायुः स तु पार्थिवः
पाण्डवं विशिखैस तीक्ष्णै राजन विव्याध सप्तभिः
ततः करॊधात परजज्वाल धर्मपुत्रॊ युधिष्ठिरः
यथा युगान्ते भूतानि धक्ष्यन्न इव हुताशनः
करुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसः
परविव्यथुर महाराज वयाकुलं चाप्य अभूज जगत
सर्वेषां चैव भूतानाम इदम आसीन मनॊगतम
तरीँल लॊकान अद्य संक्रुद्धॊ नृपॊ ऽयं धक्ष्यतीति वै
ऋषयश चैव देवाश च चक्रुः सवस्त्ययनं महत
लॊकानां नृप शान्त्य अर्थं करॊधिते पाण्डवे तदा
स च करॊधसमाविष्टः सृक्किणी परिलेलिहन
दधारात्म वपुर घॊरं युगान्तादित्यसंनिभम
ततः सर्वाणि सैन्यानि तावकानि विशां पते
निराशान्य अभवंस तत्र जीवितं परति भारत
स तु धैर्येण तं कॊपं संनिवार्य महायशाः
शरुतायुषः परचिच्छेद मुष्टिदेशे महद धनुः
अथैनं छिन्नधन्वानं नाराचेन सतनान्तरे
निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः
स तवरं चरणे राजंस तस्य वाहान महात्मनः
निजघान शरैः कषिप्रं सूतं च सुमहाबलः
हताश्वं तु रथं तयक्त्वा दृष्ट्वा राज्ञस तु पौरुषम
विप्रदुद्राव वेगेन शरुतायुः समरे तदा
तस्मिञ जिते महेष्वासे धर्मपुत्रेण संयुगे
दुर्यॊधन बलं राजन सर्वम आसीत पराङ्मुखम
एतत कृत्वा महाराज धर्मपुत्रॊ युधिष्ठिरः
वयात्ताननॊ यथाकालस तव सैन्यं जघान ह
चेकितानस तु वार्ष्णेयॊ गौतमं रथिनां वरम
परेक्षतां सर्वसैन्यानां छादयाम आस सायकैः
संनिवार्य शरांस तांस तु कृपः शारद्वतॊ युधि
चेकितानं रणे यत्तं राजन विव्याध पत्रिभिः
अथापरेण भल्लेन धनुश चिच्छेद मारिष
सारथिं चास्य समरे कषिप्रहस्तॊ नयपातयत
हयांश चास्यावधीद राजन्न उभौ च पार्ष्णिसारथी
सॊ ऽवप्लुत्य रथात तूर्णं गदां जग्राह सात्वतः
स तया वीर घातिन्या गदया गदिनां वरः
गौतमस्य हयान हत्वा सारथिं च नयपातयत
भूमिष्ठॊ गौतमस तस्य शरांश चिक्षेप षॊडश
ते शराः सात्वतं भित्त्वा पराविशन्त धरातलम
चेकितानस ततः करुद्धः पुनश चिक्षेप तां गदाम
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः
ताम आपतन्तीं विमलाम अश्मगर्भां महागदाम
शरैर अनेकसाहस्रैर वारयाम आस गौतमः
चेकितानस ततः खड्गं कॊशाद उद्धृत्य भारत
लाघवं परम आस्थाय गौतमं समुपाद्रवत
गौतमॊ ऽपि धनुस तयक्त्वा परगृह्यासिं सुसंशितम
वेगेन महता राजंश चेकितानम उपाद्रवत
ताव उभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्याम अन्यॊन्यं संततक्षतुः
निस्त्रिंशवेगाभिहतौ ततस तौ पुरुषर्षभौ
धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम
मूर्छयाभिपरीताङ्गौ वयायामेन च मॊहितौ
ततॊ ऽभयधावद वेगेन करकर्षः सुहृत तया
चेकितानं तथा भूतं दृष्ट्वा समरदुर्मदम
रथम आरॊपयच चैनं सर्वसैन्यस्य पश्यतः
तथैव शकुनिः शूरः सयालस तव विशां पते
आरॊपयद रथं तूर्णं गौतमं रथिनां वरम
सौमदत्तिं तथा करुद्धॊ धृष्टकेतुर महाबलः
नवत्या सायकैः कषिप्रं राजन विव्याध वक्षसि
सौमदत्तिर उरःस्थैर तैर भृशं बाणैर अशॊभत
मध्यं दिने महाराज रश्मिभिस तपनॊ यथा
भूरिश्रवास तु समरे धृष्टकेतुं महारथम
हतसूत हयं चक्रे विरथं सायकॊत्तमैः
विरथं चैनम आलॊक्य हताश्वं हतसारथिम
महता शरवर्षेण छादयाम आस संयुगे
स च तं रथम उत्सृज्य धृष्टकेतुर महामनाः
आरुरॊह ततॊ यानं शतानीकस्य मारिष
चित्रसेनॊ विकर्णश च राजन दुर्मर्षणस तथा
रथिनॊ हेमसंनाहाः सौभद्रम अभिदुद्रुवुः
अभिमन्यॊस ततस तैस तु घॊरं युद्धम अवर्तत
शरीरस्य यथा राजन वातपित्त कफैस तरिभिः
विरथांस तव पुत्रांस तु कृत्वा राजन महाहवे
न जघान नरव्याघ्रः समरन भीम वचस तदा
ततॊ राज्ञां बहुशतैर गजाश्वरथयायिभिः
संवृतं समरे भीष्मं देवैर अपि दुरासदम
परयान्तं शीघ्रम उद्वीक्ष्य परित्रातुं सुतांस तव
अभिमन्युं समुद्दिश्य बालम एकं महारथम
वासुदेवम उवाचेदं कौन्तेयः शवेतवाहनः
चॊदयाश्वान हृषीकेश यत्रैते बहुला रथाः
एते हि बहवः शूरा कृतास्त्रा युद्धदुर्मदाः
यथा न हन्युर नः सेनां तथा माधव चॊदय
एवम उक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा
रथं शवेतहयैर युक्तं परेषयाम आस संयुगे
निष्टानकॊ महान आसीत तव सैन्यस्य मारिष
यद अर्जुन रणे करुद्धः संयातस तावकान परति
समासाद्य तु कौन्तेयॊ राज्ञस तान भीष्मरक्षिणः
सुशर्माणम अथॊ राजन्न इदं वचनम अब्रवीत
जानामि तवां युधि शरेष्ठम अत्यन्तं पूर्ववैरिणम
पर्यायस्याद्य संप्राप्तं फलं पश्य सुदारुणम
अद्य ते दर्शयिष्यामि पूर्वप्रेतान पितामहान
एवं संजल्पतस तस्य बीभत्सॊः शत्रुघातिनः
शरुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः
न चैवम अब्रवीत किं चिच छुभं वा यदि वाशुभम
अभि गत्वार्जुनं वीरं राजभिर बहुभिर वृतः
पुरस्तात पृष्ठतश चैव पार्श्वतश चैव सर्वतः
परिवार्यार्जुनं संख्ये तव पुत्रैः सहानघ
शरैः संछादयाम आस मेघैर इव दिवाकरम
ततः परवृत्तः सुमहान संग्रामः शॊणितॊदकः
तावकानां च समरे पाण्डवानां च भारत
[स]
स तुद्यमानस तु शरैर धनंजयः; पदा हतॊ नाग इव शवसन बली
बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे परसह्य
संछिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां कषणेन
विव्याध बाणैर युगपन महात्मा; निःशेषतां तेष्व अथ मन्यमानः
निपेतुर आजौ रुधिरप्रदिग्धास; ते ताडिताः शक्रसुतेन राजन
विभिन्नगात्राः पतितॊत्तमाङ्गा; गतासवश छिन्नतनुत्र कायाः
महीं गताः पार्थ बलाभिभूता; विचित्ररूपा युगपद विनेशुः
दृष्ट्वा हतांस तान युधि राजपुत्रांस; तरिगर्तराजः परययौ कषणेन
तेषां रथानाम अथ पृष्ठगॊपा; दवात्रिंशद अन्ये ऽबयपतन्त पार्थम
तथैव ते संपरिवार्य वार्थं; विकृष्य चापानि महारवाणि
अवीवृषन बाणमहौघवृष्ट्या; यथा गिरिं तॊयधरा जलौघैः
संपीड्य मानस तु शरौघवृष्ट्या; धनंजयस तान युधि जातरॊषः
षष्ट्या शरैः संयति तैलधौतैर; जघान तान अप्य अथ पृष्ठगॊपान
षष्टिं रथांस तान अवजित्य संख्ये; धनंजयः परीतमना यशस्वी
अथात्वरद भीष्म वधाय जिष्णुर; बलानि राज्ञां समरे निहत्य
तरिगर्तराजॊ निहतान समीक्ष्य; महारथांस तान अथ बन्धुवर्गान
रणे पुरस्कृत्य नराधिपांस ताञ; जगाम पार्थं तवरितॊ वधाय
अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनंजयं वीक्ष्य शिखण्डिमुख्याः
अभ्युद्ययुस ते शितशस्त्रहस्ता; रिरक्षिषन्तॊ रथम अर्जुनस्य
पार्थॊ ऽपि तान आपततः समीक्ष्य; तरिगर्तराज्ञा सहितान नृवीरान
विध्वंसयित्वा समरे धनुष्मान; गाण्डीवमुक्तैर निशितैः पृषत्कैः
भीष्मं यियासुर युधि संददर्श; दुर्यॊधनं सैन्धवादींश च राज्ञः
आवारयिष्णून अभिसंप्रयाय; मुहूर्तम आयॊध्य बलेन वीरः
उत्सृज्य राजानम अनन्तवीर्यॊ; जयद्रथादींश च नृपान महौजाः
ययौ ततॊ भीमबलॊ मनस्वी; गाङ्गेयम आजौ शरचाप पाणिः
युधिष्ठिरश चॊग्रबलॊ महात्मा; समाययौ तवरितॊ जातकॊपः
मद्राधिपं समभित्यज्य संख्ये; सवभागम आप्तं तम अनन्त कीर्तिः
सार्धं स माद्री सुत भीमसेनैर; भीष्मं ययौ शांतनवं रणाय
तैः संप्रयुक्तः स महारथाग्र्यैर; गङ्गासुतः समरे चित्रयॊधी
न विव्यथे शांतनवॊ महात्मा; समागतैः पाण्डुसुतैः समस्तैः
अथैत्य राजा युधि सत्यसंधॊ; जयद्रथॊ ऽतयुग्र बलॊ मनस्वी
चिच्छेद चापानि महारथानां; परसह्य तेषां धनुषा वरेण
युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि संजातकॊपः
दुर्यॊधनः करॊधविषॊ महात्मा; जघान बाणैर अनल परकाशैः
कृपेण शल्येन शलेन चैव; तथा विभॊ चित्रसेनेन चाजौ
विद्धाः शरैस ते ऽतिविवृद्धकॊपैर; देवा यथा दैत्य गणैः समेतैः
छिन्नायुधं शांतनवेन राजा; शिखण्डिनं परेक्ष्य च जातकॊपः
अजातशत्रुः समरे महात्मा; शिखण्डिनं करुद्ध उवाच वाक्यम
उक्त्वा तथा तवं पितुर अग्रतॊ माम; अहं हनिष्यामि महाव्रतं तम
भीष्मं शरौघैर विमलार्क वर्णैः; सत्यं वदामीति कृता परतिज्ञा
तवया न चैनां सफलां करॊषि; देवव्रतं यन न निहंसि युद्धे
मिथ्याप्रतिज्ञॊ भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश च
परेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस तपन्तं मम सैन्यसंघान
शरौघजालैर अतितिग्म तेजैः; कालं यथा मृत्युकृतं कषणेन
निकृत्तचापः समरानपेक्षः; पराजितः शांतनवेन राज्ञा
विहाय बन्धून अथ सॊदरांश च; कव यास्यसे नानुरूपं तवेदम
दृष्ट्वा हि भीष्मं तम अनन्तवीर्यं; भग्नं च सैन्यं दरवमाणम एवम
भीतॊ ऽसि नूनं दरुपदस्य पुत्र; तथा हि ते मुखवर्णॊ ऽपरहृष्टः
आज्ञायमाने ऽपि धनंजयेन; महाहवे संप्रसक्ते नृवीर
कथं हि भीष्मात परथितः पृथिव्यां; भयं तवम अद्य परकरॊषि वीर
स धर्मराजस्य वचॊ निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम
परत्यादेशं मन्यमानॊ महात्मा; परतत्वरे भीष्म वधाय राजन
तम आपतन्तं महता जवेन; शिखण्डिनं भीष्मम अभिद्रवन्तम
आवारयाम आस हि शल्य एनं; शस्त्रेण घॊरेण सुदुर्जयेन
स चापि दृष्ट्वा समुदीर्यमाणम; अस्त्रं युगान्ताग्निसमप्रभावम
नासौ वयमुह्यद दरुपदस्य पुत्रॊ; राजन महेन्द्रप्रतिमप्रभावः
तस्थौ च तत्रैव महाधनुष्माञ; शरैस तद अस्त्रं परतिबाधमानः
अथाददे वारुणम अन्यद अस्त्रं; शिखण्ड्य अथॊग्रं परतिघाताय तस्य
तद अस्त्रम अस्त्रेण विदार्यमाणं; सवस्थाः सुरा ददृशुः पार्थिवाश च
भीष्मं तु राजन समरे महात्मा; धनुः सुचित्रं धवजम एव चापि
छित्त्वानदत पाण्डुसुतस्य वीरॊ; युधिष्ठिरस्याजमीढस्य राज्ञः
ततः समुत्सृज्य धनुः स बाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम
गदां परगृह्याभिपपात संख्ये; जयद्रथं भीमसेनः पदातिः
तम आपतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम
विव्याध घॊरैर यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात
अचिन्तयित्वा स शरांस तरस्वी; वृकॊदरः करॊधपरीत चेताः
जघान वाहान समरे समस्तान; आरट्टजान सिन्धुराजस्य संख्ये
ततॊ ऽभिवीक्ष्याप्रतिम परभावस; तवात्मजस तवरमाणॊ रथेन
अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः
भीमॊ ऽपय अथैनं सहसा विनद्य; परत्यौद्ययौ गदया तर्जमानः
समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात
विहाय सर्वे तव पुत्रम उग्रं पातं; गदायाः परिहर्तु कामाः
अपक्रान्तास तुमुले संविमर्दे; सुदारुणे भारत मॊहनीये
अमूढ चेतास तव अथ चित्रसेनॊ; महागदाम आपतन्तीं निरीक्ष्य
रथं समुत्सृज्य पदातिर आजौ; परगृह्य खड्गं विमलं च चर्म
अवप्लुतः सिंह इवाचलाग्राञ; जगाम चान्यं भुवि भूमिदेशम
गदापि सा पराप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य संख्ये
जगाम भूमिं जवलिता महॊल्का; भरष्टाम्बराद गाम इव संपतन्ती
आश्चर्यभूतं सुमहत तवदीया; दृष्ट्वैव तद भारत संप्रहृष्टाः
सर्वे विनेदुः सहिताः समन्तात; पुपूजिरे तव पुत्रं स सैन्याः
[स]
विरथं तं समासाद्य चित्रसेनं मनस्विनम
रथम आरॊपयाम आस विकर्णस तनयस तव
तस्मिंस तथा वर्तमाने तुमुले संकुले भृशम
भीष्मः शांतनवस तूर्णं युधिष्ठिरम उपाद्रवत
ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः
मृत्यॊर आस्यम अनुप्राप्तं मेनिरे च युधिष्ठिरम
यिधिष्ठिरॊ ऽपि कौरव्य यमाभ्यां सहितः परभुः
महेष्वासं नरव्याघ्रं भीष्मं शांतनवं ययौ
ततः शरसहस्राणि परमुञ्चन पाण्डवॊ युधि
भीष्मं संछादयाम आस यथा मेघॊ दिवाकरम
तेन सम्यक परणीतानि शरजालानि भारत
पतिजग्राह गाङ्गेयः शतशॊ ऽथ सहस्रशः
तथैव शरजालानि भीष्मेणास्तानि मारिष
आकाशे समदृश्यन्त खगमानां वरजा इव
निमेषार्धाच च कौनेयं भीष्मः शांतनवॊ युधि
अदृश्यं समरे चक्रे शरजालेन भागशः
ततॊ युधिष्ठिरॊ राजा कौरव्यस्य महात्मनः
नाराचं परेषयाम आस करुद्ध आशीविषॊपमम
असंप्राप्तं ततस तं तु कषुरप्रेण महारथः
चिच्छेद समरे राजन भीष्मस तस्य धनुश्च्युतम
तं तु छित्त्वा रणे भीष्मॊ नाराचं कालसंमितम
निजघ्ने कौरवेन्द्रस्य हयान काञ्चनभूषणान
हताश्वं तु रथं तयक्त्वा धर्मपुत्रॊ युधिष्ठिरः
आरुरॊह रथं तूर्णं नकुलस्य महात्मनः
यमाव अपि सुसंक्रुद्धः समासाद्य रणे तदा
शरैः संछादयाम आस भीष्मः परपुरंजयः
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ
जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया
ततॊ युधिष्ठिरॊ वश्यान राज्ञस तान समचॊदयत
भीष्मं शांतनवं सर्वे निहतेति सुहृद्गणान
ततस ते पार्थिवाः सर्वे शरुत्वा पार्थस्य भाषितम
महता रथवंशेन परिवव्रुः पितामहम
स समन्तात परिवृतः पिता देवव्रतस तव
चिक्रीद धनुषा राजन पातयानॊ महारथान
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि
मृगमध्यं परविश्येव यथा सिंहशिशुं वने
तर्जयानं रणे शूरांस तरासयानं च सायकैः
दृष्ट्वा तरेसुर महाराज सिंहं मृगगणा इव
रणे भरत सिंहस्य ददृशुः कषत्रिया गतिम
अग्नेर वायुसहायस्य यथा कक्षं दिधक्षतः
शिरांसि रथिनां भीष्मः पातयाम आस संयुगे
तालेभ्य इव पक्वानि फलानि कुशलॊ नरः
पतद्भिश च महाराज शिरॊभिर धरणीतले
बभूव तुमुलः शब्दः पतताम अश्मनाम इव
तस्मिंस तु तुमुले युद्धे वर्तमाने सुदारुणे
सर्वेषाम एव सैन्यानाम आसीद वयतिकरॊ महान
भिन्नेषु तेषु वयूहेषु कषत्रिया इतरेतरम
एकम एकं समाहूय युद्धायैवॊपतस्थिरे
शिखण्डी तु समासाद्य भरतानां पितामहम
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत
अनादृत्य ततॊ भीष्मस तं शिखण्डिनम आहवे
परययौ सृञ्जयान करुद्धः सत्रीत्वं चिन्त्य शिखण्डिनः
सृञ्जयास तु ततॊ हृष्टा दृष्ट्वा भीष्मं महारथम
सिंहनादान बहुविधांश चक्रुः शङ्खविमिश्रितान
ततः परववृते युद्धं वयतिषक्त रथद्विपम
अपरां दिशम आस्थाय सथिते सवितरि परभॊ
धृष्टद्युम्नॊ ऽथ पाञ्चाल्यः सात्यकिश च महारथः
पीडयन्तौ भृशं सैन्यं शक्तितॊमरवृष्टिभिः
शस्त्रैश च बहुभी राजञ जघ्नतुस तावकान रणे
ते हन्यमानाः समरे तावकाः पुरुषर्षभ
आर्यां युद्धे मतिं कृत्वा न तयजन्ति सम संयुगम
यथॊत्साहं च समरे जघ्नुर लॊकं महारथाः
तत्राक्रन्दॊ महान आसीत तावकानां महात्मनाम
वध्यतां समरे राजन पार्षतेन महात्मना
तं शरुत्वा निनदं घॊरं तावकानां महारथौ
विन्दानुविन्दाव आवन्त्यौ पार्षतं पत्युपस्थितौ
तौ तस्य तुरगान हत्वा तवरमाणौ महारथौ
छादयाम आसतुर उभौ शरवर्षेण पार्षतम
अवप्लुत्याथ पाञ्चाल्यॊ रथात तूर्णं महाबलः
आरुरॊह रथं तूर्णं सात्यकेः सुमहात्मनः
ततॊ युधिष्ठिरॊ राजा महत्या सेनया वृतः
आवन्त्यौ समरे करुद्धाव अभ्ययात स परंतपौ
तथैव तव पुत्रॊ ऽपि सर्वॊद्यॊगेन मारिष
विन्दानुविन्दाव आवन्त्यौ परिवार्यॊपतस्थिवान
अर्जुनश चापि संक्रुद्धः कषत्रियान कषत्रियर्षभ
अयॊधयत संग्रामे वर्ज पाणिर इवासुरान
दरॊणश च समरे करुद्धः पुत्रस्य परियकृत तव
वयधमत सर्वपाञ्चालांस तूलराशिम इवानलः
दुर्यॊधन पुरॊगास तु पुत्रास तव विशां पते
परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह
ततॊ दुर्यॊधनॊ राजा लॊहितायति भास्करे
अब्रवीत तावकान सर्वांस तवरध्वम इति भारत
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम
अस्तं गिरिम अथारूढे न परकाशति भास्करे
परावर्तत नदी घॊरा शॊणितौघतरङ्गिणी
गॊमायुगणसंकीर्णा कषणेन रजनी मुखे
शिवाभिर अशिवाभिश च रुवद्भिर भैरवं रवम
घॊरम आयॊधनं जज्ञे भूतसंघ समाकुलम
राक्षसाश च पिशाचाश च तथान्ये पिशिताशनाः
समन्ततॊ वयदृश्यन्त शतशॊ ऽथ सहस्रशः
अर्जुनॊ ऽथ सुशर्मादीन राज्ञस तान सपदानुगान
विजित्य पृतना मध्ये ययौ सवशिबिरं परति
युधिष्ठिरॊ ऽपि कौरव्यॊ भरातृभ्यां सहितस तदा
ययौ सवशिबिरं राजा निशायां सेनया वृतः
भीमसेनॊ ऽपि राजेन्द्र दुर्यॊधनमुखान रथान
अवजित्य ततः संख्ये ययौ सवशिबिरं परति
दुर्यॊधनॊ ऽपि नृपतिः परिवार्य महारणे
भीष्मं शांतनवं तूर्णं परयातः शिबिरं परति
दरॊणॊ दरौणिः कृपः शल्यः कृतवर्मा च सात्वतः
परिवार्य चमूं सर्वां परययुः शिबिरं परति
तथैव सात्यकी राजन धृष्टद्युम्नश च पार्षतः
परिवार्य रणे यॊधान ययतुः शिबिरं परति
एवम एते महाराज तावकाः पाण्डवैः सह
पर्यवर्तन्त सहिता निशाकाले परंतपाः
ततः सवशिबिरं गत्वा पाण्डवाः कुरवस तथा
नयविशन्त महाराज पूजयन्तः परस्परम
रक्षां कृत्वात्मनः शूरा नयस्य गुल्मान यथाविधि
अपनीय च शल्यांस ते सनात्वा च विविधैर जलैः
कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश च बन्दिभिः
गीतवादित्रशब्देन वयक्रीडन्त यशस्विनः
मुहूर्तम इव तत सर्वम अभवत सवर्गसंनिभम
न हि युद्धकथां कां चित तत्र चक्रुर महारथाः
ते परसुप्ते बले तत्र परिश्रान्त जने नृप
हस्त्यश्वबहुले राजन परेक्षणीये बभूवतुः
[स]
परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः
कुरवः पाण्डवाश चैव पुनर युद्धाय निर्ययुः
ततः शब्दॊ महान आसीत सेनयॊर उभयॊर अपि
निर्गच्छमानयॊर संख्ये सागरप्रतिमॊ महान
ततॊ दुर्यॊधनॊ राजा चित्रसेनॊ विविंशतिः
भीष्मश च रथिनां शरेष्ठॊ भारद्वाजश च वै दविजः
एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः
वयूहाय विदधू राजन पाण्डवान परति दंशिताः
भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते
सागरप्रतिमं घॊरं वाहनॊर्मितरङ्गिणम
अग्रतः सर्वसैन्यानां भीष्मः शांतनवॊ ययौ
मालवैर दाक्षिणात्यैश च आवन्त्यैश च समन्वितः
ततॊ ऽनन्तरम एवासीद भारद्वाजः परतापवान
पुलिन्दैः पारदैश चैव तथा कषुद्रकमालवैः
दरॊणाद अनन्तरं यत्तॊ भगदत्तः परतापवान
मागधैश च कलिङ्गैश च पिशाचैश च विशां पते
पराग्ज्यॊतिषाद अनु नृपः कौसल्यॊ ऽथ बृहद्बलः
मेकलैस तरैपुरैश चैव चिच्छिलैश च समन्वितः
बृहद्बलात ततः शूरस तरिगर्तः परस्थलाधिपः
काम्बॊजैर बहुभिः सार्धं यवनैश च सहस्रशः
दरौणिस तु रभसः शूरस तरिगर्ताद अनु भारत
परययौ सिंहनादेन नादयानॊ धरातलम
तथा सर्वेण सैन्येन राजा दुर्यॊधनस तदा
दरौणेर अनन्तरं परायात सॊदर्यैः परिवारितः
दुर्यॊधनाद अनु कृपस ततः शारद्वतॊ ययौ
एवम एष महाव्यूहः परययौ सागरॊपमः
रेजुस तत्र पताकाश च शवेतच छत्राणि चाभिभॊ
अङ्गदान्य अथ चित्राणि महार्हाणि धनूंषि च
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः
युधिष्ठिरॊ ऽबरवीत तूर्णं पार्षतं पृतना पतिम
पश्य वयूहं महेष्वास निर्मितं सागरॊपमम
परतिव्यूहं तवम अपि हि कुरु पार्षत माचिरम
ततः स पार्षतः शूरॊ वयूहं चक्रे सुदारुणम
शृङ्गाटलं महाराज परव्यूहविनाशनम
शृङ्गेभ्यॊ भीमसेनश च सात्यक्तिश च महारथः
रथैर अनेकसाहस्रैस तथा हयपदातिभिः
नाभ्याम अभून नरश्रेष्ठः शवेताश्वॊ वानरध्वजः
मध्ये युधिष्ठिरॊ राजा माद्रीपुत्रौ च पाण्डवौ
अथेतरे महेष्वासाः सह सैन्या नराधिपाः
वयूहं तं पूरयाम आसुर वयूह शास्त्रविशारदाः
अभिमन्युस ततः पश्चाद विराटश च महारथः
दरौपदेयाश च संहृष्टा राक्षसश च घटॊत्कचः
एवम एतं महाव्यूहं वयूह्य भारत पाण्डवाः
अतिष्ठन समरे शूरा यॊद्धुकामा जयैषिणः
भेरीशब्दाश च तुमुला विमिश्राः शङ्खनिस्वनैः
कष्वेडितास्फॊटितॊत्क्रुष्टैः सुभीमाः सर्वतॊदिशम
ततः शूराः समासाद्य समरे ते परस्परम
नेत्रैर अनिमिशै राजन्न अवैक्षन्त परकॊपिताः
मनॊभिस ते मनुष्येन्द्र पूर्वं यॊधाः परस्परम
युद्धाय समवर्तन्त समाहूयेतरेतरम
ततः परववृते युद्धं घॊररूपं भयावहम
तावकानां परेषां च निघ्नताम इतरेतरम
नाराचा निशिताः संख्ये संपतन्ति सम भारत
वयात्तानना भयकरा उरगा इव संघशः
निष्पेतुर विमलाः शक्त्यस तैलधौताः सुतेजनाः
अम्बुदेभ्यॊ यथा राजन भराजमानाः शतह्रदाह
गदाश च विमलैः पट्टैः पिनद्धाः सवर्णभूषिताः
पतन्त्यस तत्र दृश्यन्ते गिरिशृङ्गॊपमाः शुभाः
निस्त्रिंशाश च वयराजन्त विमलाम्बरसंनिभाः
आर्षभाणि च चर्माणि शतचन्द्राणि भारत
अशॊभन्त रणे राजन पतमानानि सर्वशः
ते ऽनयॊन्यं समरे सेने युध्यमाने नराधिप
अशॊभेतां यथा दैत्य देव सेने समुद्यते
अभ्यद्रवन्त समरे ते ऽनयॊन्यं वै समन्ततः
रथास तु रथिभिस तूर्णं परेषिताः परमाहवे
युगैर युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः
दन्तिनां युध्यमानानां संघर्षात पावकॊ ऽभवत
दन्तेषु भरतश्रेष्ठ स धूमः सर्वतॊदिशम
परासैर अभिहताः के चिद गजयॊधाः समन्ततः
पतमानाः सम दृश्यन्ते गिरिशृङ्गान नगा इव
पादाताश चाप्य अदृश्यन्त निघ्नन्तॊ हि परस्परम
चित्ररूपधराः शूरा नखरप्रासयॊधिनः
अन्यॊन्यं ते समासाद्य कुरुपाण्डवसैनिकाः
शस्त्रैर नानाविधैर घॊरै रणे निन्युर यमक्षयम
ततः शांतनवॊ भीष्मॊ रथघॊषेण नादयन
अभ्यागमद रणे पाण्डून धनुः शब्देन मॊहयन
पाण्डवानां रथाश चापि नदन्तॊ भैरवस्वनम
अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरॊगमाः
ततः परववृते युद्धं तव तेषां च भारत
नराश्वरथनागानां वयतिषक्तं परस्परम
[स]
भीष्मं तु समरे करुद्धं परतपन्तं समन्ततः
न शेकुः पाण्डवा दरष्टुं तपन्तम इव भास्करम
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात
अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः
स तु भीष्मॊ रणश्लाघी सॊमकान सह सृञ्जयान
पाञ्चालांश च महेष्वासान पातयाम आस सायकैः
ते वध्यमाना भीष्मेण पाञ्चालाः सॊमकैः सह
भीष्मम एवाभ्ययुस तूर्णं तयक्त्वा मृत्युकृतं भयम
स तेषां रथिनां वीरॊ भीष्मः शांतनवॊ युधि
चिच्छेद सहसा राजन बाहून अथ शिरांसि च
विरथान रथिनश चक्रे पिता देवव्रतस तव
पतितान्य उत्तमाङ्गानि हयेभ्यॊ हयसादिनाम
निर्मनुष्यांश च मातङ्गाञ शयानान पर्वतॊपमान
अपश्याम महाराज भीष्मास्त्रेण परमॊहितान
न तत्रासीत पुमान कश चित पाण्डवानां विशां पते
अन्यत्र रथिनां शरेष्ठाद भीमसेनान महाबलात
स हि भीष्मं समासाद्य ताडयाम आस संयुगे
ततॊ निष्टानकॊ घॊरॊ भीष्म भीमं समागमे
बभूव सर्वसैन्यानां घॊररूपॊ भयानकः
तथैव पाण्डवा हृष्टाः सिंहनादम अथानदन
ततॊ दुर्यॊधनॊ राजा सॊदर्यैः परिवारितः
भीष्मं जुगॊप समरे वर्तमाने जनक्षये
भीमस तु सारथिं हत्वा भीष्मस्य रथिनां वरः
विद्रुताश्वे रथे तस्मिन दरवमाणे समन्ततः
सुनाभस्य शरेणाशु शिरश चिच्छेद चारिहा
कषुरप्रेण सुतीक्ष्णेन स हतॊ नयपतद भुवि
हते तस्मिन महाराज तव पुत्रे महारथे
नामृष्यन्त रणे शूराः सॊदर्याः सप्त संयुगे
आदित्यकेतुर बह्व आशीकुण्ड धारॊ महॊदरः
अपराजितः पण्डितकॊ विशालाक्षः सुदुर्जयः
पाण्डवं चित्रसंनाहा विचित्रकवच धवजाः
अभ्यद्रवन्त संग्रामे यॊद्धुकामारिमर्दनाः
महॊदरस तु समरे भीमं विव्याध पत्रिभिः
नवभिर वज्रसंकाशैर नमुचिं वृत्रहा यथा
आदित्यकेतुः सप्तत्या बह्व आशीचापि पञ्चभिः
नवत्या कुण्ड धारस तु विशालाक्षश च सप्तभिः
अपराजितॊ महाराज पराजिष्णुर महारथः
शरैर बहुभिर आनर्छद भीमसेनं महाबलम
रणे पण्डितकश चैनं तरिभिर बाणैः समर्दयत
स तन न ममृषे भीमः शत्रुभिर वधम आहवे
धनुः परपीड्य वामेन करेणामित्रकर्शनः
शिरश चिच्छेद समरे शरेण नतपर्वणा
अपराजितस्य सुनसं तव पुत्रस्य संयुगे
पराजितस्य भीमेन निपपात शिरॊमहीम
अथापरेण भल्लेन कुण्ड धारं महारथम
पराहिणॊन मृत्युलॊकाय सर्वलॊकस्य पश्यतः
ततः पुनर अमेयात्मा परसंधाय शिलीमुखम
परेषयाम आस समरे पण्डितं परति भारत
स शरः पण्डितं हत्वा विवेश धरणीतलम
यथा नरं निहत्याशु भुजगः कालचॊदितः
विशालाक्ष शिरश छित्त्वा पातयाम आस भूतले
तरिभिः शरैर अदीनात्मा समरन कलेशं पुरातनम
महॊदरं महेष्वासं नाराचेन सतनान्तरे
विव्याध समरे राजन स हतॊ नयपतद भुवि
आदित्यकेतॊः केतुं च छित्त्वा बाणेन संयुगे
भल्लेन भृशतीक्ष्णेन शिरश चिच्छेद चारिहा
बह्व आशिनं ततॊ भीमः शरेण नतपर्वणा
परेषयाम आस संक्रुद्धॊ यमस्य सदनं परति
परदुद्रुवुस ततस ते ऽनये पुत्रास तव विशां पते
मन्यमाना हि तत सत्यं सभायां तस्य भाषितम
ततॊ दुर्यॊधनॊ राजा भरातृव्यसनकर्शितः
अब्रवीत तावकान यॊधान भीमॊ ऽयं युधि वध्यताम
एवम एत महेष्वासाः पुत्रास तव विशां पते
भरातॄन संदृश्य निहतान परास्मरंस ते हि तद वचः
यद उक्तवान महाप्राज्ञः कषत्ता हितम अनामयम
तद इदं समनुप्राप्तं वचनं दिव्यदर्शिनः
लॊभमॊहसमाविष्टः पुत्र परीत्या जनाधिप
न बुध्यसे पुरा यत तत तथ्यम उक्तं वचॊ महत
तथैव हि वधार्थाय पुत्राणां पाण्डवॊ बली
नूनं जातॊ महाबाहुर यथा हन्ति सम कौरवान
ततॊ दुर्यॊधनॊ राजा भीष्मम आसाद्य मारिष
दुःखेन महताविष्टॊ विललापातिकर्शितः
निहता भरातरः शूरा भीमसेनेन मे युधि
यतमानास तथान्ये ऽपि हन्यन्ते सर्वसैनिकाः
भवांश च मध्यस्थतया नित्यम अस्मान उपेक्षते
सॊ ऽहं कापथम आरूढः पश्य दैवम इदं मम
एतच छरुत्वा वचः करूरं पिता देवव्रतस तव
दुर्यॊधनम इदं वाक्यम अब्रवीत साश्रुलॊचनम
उक्तम एतन मया पूर्वं दरॊणेन विदुरेण च
गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान
समयश च मया पूर्वं कृतॊ वः शत्रुकर्शन
नाहं युधि विमॊक्तव्यॊ नाप्य आचार्यः कथं चन
यं यं हि धार्तराष्ट्राणां भीमॊ दरक्ष्यति संयुगे
हनिष्यति रणे तं तं सत्यम एतद बरवीमि ते
स तवं राजन सथिरॊ भूत्वा दृढां कृत्वा रणे मतिम
यॊधयस्व रणे पार्थान सवर्गं कृत्वा परायणम
न शक्याः पाण्डवा जेतुं सेन्द्रैर अपि सुरासुरैः
तस्माद युद्धे मतिं कृत्वा सथिरां युध्यस्व भारत
[धृ]
दृष्ट्वा मम हतान पुत्रान बहून एकेन संशय
भीष्मॊ दरॊणः कृपश चैव किम अकुर्वत संयुगे
अहन्य अहनि मे पुत्राः कषयं गच्छन्ति संजय
मन्ये ऽहं सर्वथा सूत दैवेनौपहता भृशम
यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्य उत
यत्र भीष्मस्य दरॊणस्य कृपस्य च महात्मनः
सौमदत्तेश च वीरस्य भगदत्तस्य चॊभयॊः
अश्वत्थाम्नस तथा तात शूराणां सुमहात्मनाम
अन्येषां चैव वीराणां मध्यगास तनया मम
यद अहन्यन्त संग्रामे किम अन्यद भागधेयतः
न हि दुर्यॊधनॊ मन्दः पुरा परॊक्तम अबुध्यत
वार्यमाणॊ मया तात भीष्मेण विदुरेण च
गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया
नावबुध्यत पुरा मॊहात तस्य पराप्तम इदं फलम
यद भीमसेनः समरे पुत्रान मम विचेतसः
अहन्य अहनि संक्रुद्धॊ नयते यमसादनम
[स]
इदं तत समनुप्राप्तं कषत्तुर वचनम उत्तमम
न बुद्धवान असि विभॊ परॊच्यमानं हितं तदा
निवारय सुतान दयूतात पाण्डवान मा दरुहेति च
सुहृदां हितकामानां बरुवतां तत तद एव च
न शुश्रूषसि यद वाक्यं मर्त्यः पथ्यम इवौषधम
तद एव तवाम अनुप्राप्तं वचनं साधु भाषितम
विदुर दरॊण भीष्माणां तथान्येषां हितैषिणाम
अकृत्वा वचनं पथ्यं कषयं गच्छन्ति कौरवाः
तद एतत समतिक्रान्तं पूर्वम एव विशां पते
तस्मान मे शृणु तत्त्वेन यथा युद्धम अवर्तत
मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत
लॊकक्षयकरॊ राजंस तन मे निगदतः शृणु
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात
संरब्धान्य अभ्यधावन्त भीष्मम एव जिघांसया
धृष्टद्युम्नः शिखण्डी च सात्यकिश च महारथः
युक्तानीका महाराज भीष्मम एव समभ्ययुः
अर्जुनॊ दरौपदेयाश च चेकितानश च संयुगे
दरुयॊधन समादिष्टान राज्ञः सर्वान समभ्ययुः
अभिमन्युस तथा वीरॊ हैडिम्बश च महारथः
भीमसेनश च संक्रुद्धस ते ऽभयधावन्त कौरवान
तरिधा भूतैर अवध्यन्त पाण्डवैः कौरवा युधि
तथैव कौरवे राजन्न अवध्यन्त परे रणे
दरॊणस तु रथिनां शरेष्ठः सॊमकान सृञ्जयैः सह
अभ्यद्रवत संक्रुद्धः परेषयिष्यन यमक्षयम
तत्राक्रन्दॊ महान आसीत सृञ्जयानां महात्मनाम
वध्यतां समरे राजन भारद्वाजेन धन्विना
दरॊणेन निहतास तत्र कषत्रिया बहवॊ रणे
विवेष्टन्तः सम दृश्यन्ते वयाधिक्लिष्टा नरा इव
कूजतां करन्दतां चैव सतनतां चैव संयुगे
अनिशं शरूयते शब्दः कषुत कृशानां नृणाम इव
तथैव कौरवेयाणां भीमसेनॊ महाबलः
चकार कदनं घॊरं करुद्धः काल इवापरः
वध्यतां तत्र सैन्यानाम अन्यॊन्येन महारणे
परावर्तत नदी घॊरा रुधिरौघप्रवाहिनी
स संग्रामॊ महाराज घॊररूपॊ ऽभवन महान
कुरूणां पाण्डवानां च यम राष्ट्रविवर्धनः
ततॊ भीमॊ रणे करुद्धॊ रभसश च विशेषतः
गजानीकं समासाद्य परेषयाम आस मृत्यवे
तत्र भारत भीमेन नाराचाभिहता गजाः
पेतुः सेदुश च नेदुश च दिशश च परिबभ्रमुः
छिन्नहस्ता महानागाश छिन्नपादाश च मारिष
करौञ्चवद वयनदन भीताः पृथिवीम अधिशिश्यिरे
नकुलः सहदेवश च हयानीकम अभिद्रुतौ
ते हयाः काञ्चनापीडा रुक्मभाण्ड परिच्छदाः
वध्यमाना वयदृश्यन्त शतशॊ ऽथ सहस्रशः
पतद्भिश च हयै राजन समास्तीर्यत मेदिनी
निर्जिह्वैर्श च शवसद्भिश च कूजद्भिश च गतासुभिः
हयैर बभौ नरश्रेष्ठ नानारूपधरैर धरा
अर्जुनेन हतैः संख्ये तथा भारत वाजिभिः
परबभौ वसुधा घॊरा तत्र तत्र विशां पते
रथैर भग्नैर धवजैश छिन्नैश छत्रैश च सुमहाप्रभैः
हारैर निष्कैः स केयूरैः शिरॊभिश च सकुण्डलैः
उष्णीषैर अपविद्धैश च पताकाभिश च सर्वषः
अनुकर्षैः शुभौ राजन यॊक्त्रैश चव्यसुरश्मिभिह
संछन्ना वसुधा भाति वसन्ते कुसुमैर इव
एवम एष कषयॊ वृत्तः पाण्डूनाम अपि भारत
करुद्धे शांतनवे भीष्मे दरॊणे च रथसत्तमे
अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि
तथेतरेषु करुद्धेषु तावकानाम अपि कषयः
संजय उवाच
वर्तमाने तथा रौद्रे राजन वीरवरक्षये
शकुनिः सौबलः शरीमान पाण्डवान समुपाद्रवत
तथैव सात्वतॊ राजन हार्दिक्यः परवीरहा
अभ्यद्रवत संग्रामे पाण्डवानाम अनीकिनीम
ततः काम्बॊजमुख्यानां नदीजानां च वाजिनाम
आरट्टानां महीजानां सिन्धुजानां च सर्वशः
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम
ये चापरे तित्तिरजा जवना वातरंहसः
सुवर्णालंकृतैर एतैर वर्मवद्भिः सुकल्पितैः
हयैर वातजवैर मुख्यैः पाण्डवस्य सुतॊ बली
अभ्यवर्तत तत सैन्यं हृष्टरूपः परंतपः
अर्जुनस्याथ दायाद इरावान नाम वीर्यवान
सुतायां नागराजस्य जातः पार्थेन धीमता
ऐरावतेन सा दत्ता अनपत्या महात्मना
पत्यौ हते सुपर्णेन कृपणा दीनचेतना
भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम
एवम एष समुत्पन्नः परक्षेत्रे ऽरजुनात्मजः
स नागलॊके संवृद्धॊ मात्रा च परिरक्षितः
पितृव्येण परित्यक्तः पार्थद्वेषाद दुरात्मना
रूपवान वीर्यसंपन्नॊ गुणवान सत्यविक्रमः
इन्द्रलॊकं जगामाशु शरुत्वा तत्रार्जुनं गतम
सॊ ऽभिगम्य महात्मानं पितरं सत्यविक्रमम
अभ्यवादयद अव्यग्रॊ विनयेन कृताञ्जलिः
इरावान अस्मि भद्रं ते पुत्रश चाहं तवाभिभॊ
मातुः समागमॊ यश च तत सर्वं परत्यवेदयत
तच च सर्वं यथावृत्तम अनुसस्मार पाण्डवः
परिष्वज्य सुतं चापि सॊ ऽऽतमनः सदृशं गुणैः
परीतिमान अभवत पार्थॊ देवराजनिवेशने
सॊ ऽरजुनेन समाज्ञप्तॊ देवलॊके तदा नृप
परीतिपूर्वं महाबाहुः सवकार्यं परति भारत
युद्धकाले तवयास्माकं साह्यं देयम इति परभॊ
बाढम इत्य एवम उक्त्वा च युद्धकाल उपागतः
कामवर्णजवैर अश्वैः संवृतॊ बहुभिर नृप
ते हयाः काञ्चनापीडा नानावर्णा मनॊजवाः
उत्पेतुः सहसा राजन हंसा इव महॊदधौ
ते तवदीयान समासाद्य हयसंघान महाजवान
करॊडैः करॊडान अभिघ्नन्तॊ घॊणाभिश च परस्परम
निपेतुः सहसा राजन सुवेगाभिहता भुवि
निपतद्भिस तथा तैश च हयसंघैः परस्परम
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा
तथैव च महाराज समेत्यान्यॊन्यम आहवे
परस्परवधं घॊरं चक्रुस ते हयसादिनः
तस्मिंस तथा वर्तमाने संकुले तुमुले भृशम
उभयॊर अपि संशान्ता हयसंघाः समन्ततः
परक्षीणसायकाः शूरा निहताश्वाः शरमातुराः
विलयं समनुप्राप्तास तक्षमाणाः परस्परम
ततः कषीणे हयानीके किं चिच छेषे च भारत
सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि
वायुवेगसमस्पर्शा जवे वायुसमांस तथा
आरुह्य शीलसंपन्नान वयःस्थांस तुरगॊत्तमान
गजॊ गवाक्षॊ वृषकश चर्मवान आर्जवः शुकः
षड एते बलसंपन्ना निर्ययुर महतॊ बलात
वार्यमाणाः शकुनिना सवैश च यॊधैर महाबलैः
संनद्धा युद्धकुशला रौद्ररूपा महाबलाः
तद अनीकं महाबाहॊ भित्त्वा परमदुर्जयम
बलेन महता युक्ताः सवर्गाय विजयैषिणः
विविशुस ते तदा हृष्टा गान्धारा युद्धदुर्मदाः
तान परविष्टांस तदा दृष्ट्वा इरावान अपि वीर्यवान
अब्रवीत समरे यॊधान विचित्राभरणायुधान
यथैते धार्तराष्ट्रस्य यॊधाः सानुगवाहनाः
हन्यन्ते समरे सर्वे तथा नीतिर विधीयताम
बाढम इत्य एवम उक्त्वा ते सर्वे यॊधा इरावतः
जघ्नुस ते वै परानीकं दुर्जयं समरे परैः
तद अनीकम अनीकेन समरे वीक्ष्य पातितम
अमृष्यमाणास ते सर्वे सुबलस्यात्मजा रणे
इरावन्तम अभिद्रुत्य सर्वतः पर्यवारयन
ताडयन्तः शितैः परासैश चॊदयन्तः परस्परम
ते शूराः पर्यधावन्त कुर्वन्तॊ महद आकुलम
इरावान अथ निर्भिन्नः परासैस तीक्ष्णैर महात्मभिः
सरवता रुधिरेणाक्तस तॊत्त्रैर विद्ध इव दविपः
उरस्य अपि च पृष्ठे च पार्श्वयॊश च भृशाहतः
एकॊ बहुभिर इत्य अर्थं धैर्याद राजन न विव्यथे
इरावान अथ संक्रुद्धः सर्वांस तान निशितैः शरैः
मॊहयाम आस समरे विद्ध्वा परपुरंजयः
परासान उद्धृत्य सर्वांश च सवशरीराद अरिंदमः
तैर एव ताडयाम आस सुबलस्यात्मजान रणे
निवृष्य निशितं खड्गं गृहीत्वा च शरावरम
पदातिस तूर्णम आगच्छज जिघांसुः सौबलान युधि
ततः परत्यागतप्राणाः सर्वे ते सुबलात्मजाः
भूयः करॊधसमाविष्टा इरावन्तम अथाद्रवन
इरावान अपि खड्गेन दर्शयन पाणिलाघवम
अभ्यवर्तत तान सर्वान सौबलान बलदर्पितः
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः
अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः
भूमिष्ठम अथ तं संख्ये संप्रदृश्य ततः पुनः
परिवार्य भृशं सर्वे गरहीतुम उपचक्रमुः
अथाभ्याशगतानां स खड्गेनामित्रकर्शनः
उपहस्तावहस्ताभ्यां तेषां गात्राण्य अकृन्तत
आयुधानि च सर्वेषां बाहून अपि च भूषितान
अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः
वृषकस तु महाराज बहुधा परिविक्षतः
अमुच्यत महारौद्रात तस्माद वीरावकर्तनात
तान सर्वान पतितान दृष्ट्वा भीतॊ दुर्यॊधनस ततः
अभ्यभाषत संक्रुद्धॊ राक्षसं घॊरदर्शनम
आर्श्यशृङ्गिं महेष्वासं मायाविनम अरिंदमम
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै
पश्य वीर यथा हय एष फल्गुनस्य सुतॊ बली
मायावी विप्रियं घॊरम अकार्षीन मे बलक्षयम
तवं च कामगमस तात मायास्त्रे च विशारदः
कृतवैरश च पार्थेन तस्माद एनं रणे जहि
बाढम इत्य एवम उक्त्वा तु राक्षसॊ घॊरदर्शनः
परययौ सिंहनादेन यत्रार्जुनसुतॊ युवा
सवारूढैर युद्धकुशलैर विमलप्रासयॊधिभिः
वीरैः परहारिभिर युक्तः सवैर अनीकैः समावृतः
निहन्तुकामः समरे इरावन्तं महाबलम
इरावान अपि संक्रुद्धस तवरमाणः पराक्रमी
हन्तुकामम अमित्रघ्नॊ राक्षसं परत्यवारयत
तम आपतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः
तवरमाणस ततॊ मायां परयॊक्तुम उपचक्रमे
तेन मायामयाः कॢप्ता हयास तावन्त एव हि
सवारूढा राक्षसैर घॊरैः शूलपट्टिशपाणिभिः
ते संरब्धाः समागम्य दविसाहस्राः परहारिणः
अचिराद गमयाम आसुः परेतलॊकं परस्परम
तस्मिंस तु निहते सैन्ये ताव उभौ युद्धदुर्मदौ
संग्रामे वयवतिष्ठेतां यथा वै वृत्रवासवौ
आद्रवन्तम अभिप्रेक्ष्य राक्षसं युद्धदुर्मदम
इरावान करॊधसंरब्धः परत्यधावन महाबलः
समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः
चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम
स निकृत्तं धनुर दृष्ट्वा खं जवेन समाविशत
इरावन्तम अभिक्रुद्धं मॊहयन्न इव मायया
ततॊ ऽनतरिक्षम उत्पत्य इरावान अपि राक्षसम
विमॊहयित्वा मायाभिस तस्य गात्राणि सायकैः
चिच्छेद सर्वमर्मज्ञः कामरूपॊ दुरासदः
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः
संबभूव महाराज समवाप च यौवनम
माया हि सहजा तेषां वयॊ रूपं च कामजम
एवं तद राक्षसस्याङ्गं छिन्नं छिन्नं वयरॊहत
इरावान अपि संक्रुद्धॊ राक्षसं तं महाबलम
परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः
स तेन बलिना वीरश छिद्यमान इव दरुमः
राक्षसॊ वयनदद घॊरं स शब्दस तुमुलॊ ऽभवत
परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु
ततश चुक्रॊध बलवांश चक्रे वेगं च संयुगे
आर्श्यशृङ्गिस ततॊ दृष्ट्वा समरे शत्रुम ऊर्जितम
कृत्वा घॊरं महद रूपं गरहीतुम उपचक्रमे
संग्रामशिरसॊ मध्ये सर्वेषां तत्र पश्यताम
तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः
इरावान अपि संक्रुद्धॊ मायां सरष्टुं परचक्रमे
तस्य करॊधाभिभूतस्य संयुगेष्व अनिवर्तिनः
यॊ ऽनवयॊ मातृकस तस्य स एनम अभिपेदिवान
स नागैर बहुशॊ राजन सर्वतः संवृतॊ रणे
दधार सुमहद रूपम अनन्त इव भॊगवान
ततॊ बहुविधैर नागैश छादयाम आस राक्षसम
छाद्यमानस तु नागैः स धयात्वा राक्षसपुंगवः
सौपर्णं रूपम आस्थाय भक्षयाम आस पन्नगान
मायया भक्षिते तस्मिन्न अन्वये तस्य मातृके
विमॊहितम इरावन्तम असिना राक्षसॊ ऽवधीत
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम
इरावतः शिरॊ रक्षः पातयाम आस भूतले
तस्मिंस तु निहते वीरे राक्षसेनार्जुनात्मजे
विशॊकाः समपद्यन्त धार्तराष्ट्राः सराजकाः
तस्मिन महति संग्रामे तादृशे भैरवे पुनः
महान वयतिकरॊ घॊरः सेनयॊः समपद्यत
हया गजाः पदाताश च विमिश्रा दन्तिभिर हताः
रथाश च दन्तिनश चैव पत्तिभिस तत्र सूदिताः
तथा पत्तिरथौघाश च हयाश च बहवॊ रणे
रथिभिर निहता राजंस तव तेषां च संकुले
अजानन्न अर्जुनश चापि निहतं पुत्रम औरसम
जघान समरे शूरान राज्ञस तान भीष्मरक्षिणः
तथैव तावका राजन सृञ्जयाश च महाबलाः
जुह्वतः समरे पराणान निजघ्नुर इतरेतरम
मुक्तकेशा विकवचा विरथाश छिन्नकार्मुकाः
बाहुभिः समयुध्यन्त समवेताः परस्परम
तथा मर्मातिगैर भीष्मॊ निजघान महारथान
कम्पयन समरे सेनां पाण्डवानां महाबलः
तेन यौधिष्ठिरे सैन्ये बहवॊ मानवा हताः
दन्तिनः सादिनश चैव रथिनॊ ऽथ हयास तथा
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम
अत्यद्भुतम अपश्याम शक्रस्येव पराक्रमम
तथैव भीमसेनस्य पार्षतस्य च भारत
रौद्रम आसीत तदा युद्धं सात्वतस्य च धन्विनः
दृष्ट्वा दरॊणस्य विक्रान्तं पाण्डवान भयम आविशत
एक एव रणे शक्तॊ हन्तुम अस्मान स सैनिकान
किं पुनः पृथिवी शूरैर यॊधव्रातैः समावृतः
इत्य अब्रुवन महाराज रणे दरॊणेन पीडिताः
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ
उभयॊः सेनयॊः शूरा नामृष्यन्त परस्परम
आविष्टा इव युध्यन्ते रक्षॊभूता महाबलाः
तावकाः पाण्डवेयाश च संरब्धास तात धन्विनः
न सम पश्यामहे कं चिद यः पराणान परिरक्षति
संग्रामे दैत्यसंकाशे तस्मिन यॊद्धा नराधिप
[धृ]
इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः
संग्रामे किम अकुर्वन्त तन ममाचक्ष संजय
[स]
इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः
वयनदत सुमहानादं भैमसेनिर घटॊत्कचः
नदतस तस्य शब्देन पृथिवी सागराम्बरा
स पर्वत वना राजंश चचाल सुभृशं तदा
अन्तरिक्षं दिशश चैव सर्वाश च परदिशस तथा
तं शरुत्वा सुमहानादं तव सैन्यस्य भारत
ऊरुस्तम्भः समभवद वेपथुः सवेद एव च
सर्व एव च राजेन्द्र तावका दीनचेतसः
सर्पवत्सम अवेष्टन्त सिंहभीता गजा इव
निनदत सुमहानादं निर्घातम इव राक्षसः
जवलितं शूलम उद्यम्य रूपं कृत्वा विभीषणम
नानाप्रहरणैर घॊरैर वृतॊ राक्षसपुंगवैः
आजगाम सुसंक्रुद्धः कालान्तकयमॊपमः
तम आपतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम
सवबलं च भयात तस्य परायशॊ विमुखीकृतम
ततॊ दुर्यॊधनॊ राजा घटॊत्चकम उपाद्रवत
परगृह्य विपुलं चापं सिंहवद विनदन मुहुः
पृष्ठतॊ ऽनुययौ चैनं सरवद्भिः पर्वतॊपमैः
कुञ्जरैर दशसाहस्रैर वङ्गानाम अधिपः सवयम
तम आपतन्तं संप्रेक्ष्य गजानीकेन संवृतम
पुत्रं तव महाराज चुकॊप स निशाचरः
ततः परववृते युद्धं तुमुलं लॊमहर्षणम
राक्षसानां च राजेन्द्र दुर्यॊधन बलस्य च
गजानीकं च संप्रेक्ष्य मेघवृन्दम इवॊद्यतम
अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः
नदन्तॊ विविधान नादान मेघा इव स विद्युतः
शरशक्त्यृष्टिनाराचैर निघ्नन्तॊ गजयॊधिनः
भिण्डिपालैस तथा शूलैर मुद्गरैः सपरश्वधैः
पर्वताग्रैश च वृक्षैश च निजघ्नुस ते महागजान
भिन्नकुम्भान विरुधिरान भिन्नगात्रांश च वारणान
अपश्याम महाराज वध्यमानान निशाचरैः
तेषु परक्षीयमाणेषु भग्नेषु गजयॊधिषु
दुर्यॊधनॊ महाराज राक्षसान समुपाद्रवत
अमर्षवशम आपन्नस तयक्त्वा जीवितम आत्मनः
मुमॊच निशितान बाणान राक्षसेषु महाबलः
जघान च महेष्वासः परधानांस तत्र राक्षसान
संक्रुद्धॊ भरतश्रेष्ठ पुत्रॊ दुर्यॊधनस तव
वेगवन्तं महारौद्रं विद्युज्जिह्वं परमाथिनम
शरैश चतुर्भिश चतुरॊ निजघान महारथः
ततः पुनर अमेयात्मा शरवर्षं दुरासदम
मुमॊच भरतश्रेष्ठ निशाचरबलं परति
तत तु दृष्ट्वा महत कर्म पुत्रस्य तव मारिष
करॊधेनाभिप्रजज्वाल भैमसेनिर महाबलः
विस्फार्य च महच चापम इन्द्राशनिसमस्वनम
अभिदुद्राव वेगेन दुर्यॊधनम अरिंदमम
तम आपतन्तम उद्वीक्ष्य कालसृष्टम इवान्तकम
न विव्यथे महाराज पुत्रॊ दुर्यॊधनस तव
अथैनम अब्रवीत करुद्धः करूरः संरक्तलॊचनः
ये तवया सुनृशंसेन दीर्घकालं परवासिताः
यच च ते पाण्डवा राजंश छल दयूते पराजिताः
यच चैव दरौपदी कृष्णा एकवस्त्रा रजस्वला
सभाम आनीय दुर्बुद्धे बहुधा कलेशिता तवया
तव च परियकामेन आश्रमस्था दुरात्मना
सैन्धवेन परिक्लिष्टा परिभूय पितॄन मम
एतेषाम अवमानानाम अन्येषां च कुलाधम
अन्तम अद्य गमिष्यामि यदि नॊत्सृजसे रणम
एवम उक्त्वा तु हैडिम्बॊ महद विस्फार्य कार्मुकम
संदश्य दशनैर ओष्ठं सृक्किणी परिसंलिहन
शरवर्षेण महता दुर्यॊधनम अवाकिरत
पर्वतं वारिधाराभिः परावृषीव बलाहकः
[स]
ततस तद बाणवर्षं तु दुःसहं दानवैर अपि
दधार युधि राजेन्द्रॊ यथा वर्षं महाद्विपः
ततः करॊधसमाविष्टॊ निःश्वसन्न इव पन्नगः
संशयं परमं पराप्तः पुत्रस ते भरतर्षभ
मुमॊच निशितांस तीक्ष्णान नाराचान पञ्चविंशतिम
ते ऽपतन सहसा राजंस तस्मिन राक्षसपुंगवे
आशीविषा इव करुद्धाः पर्वते गन्धमादने
स तैर विद्धः सरवन रक्तं परभिन्न इव कुञ्जरः
दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः
जग्राह च महाशक्तिं गिरीणाम अपि दारणीम
संप्रदीप्तां महॊल्काभाम अशनीं मघवान इव
समुद्यच्छन महाबाहुर जिघांसुस तनयं तव
ताम उद्यताम अभिप्रेक्ष्य वङ्गानाम अधिपस तवरन
कुञ्जरं गिरिसंकाशं राक्षसं परत्यचॊदयत
स नागप्रवरेणाजौ बलिना शीघ्रगामिना
यतॊ दुर्यॊधन रथस तं मार्गं परत्यपद्यत
रथं च वारयाम आस कुञ्जरेण सुतस्य ते
मार्गम आवारितं दृष्ट्वा राज्ञा वङ्गेन धीमता
घटॊत्कचॊ महाराज करॊधसंरक्तलॊचनः
उद्यतां तां महाशक्तिं तस्मिंश चिक्षेप वारणे
स तयाभिहतॊ राजंस तेन बाहुविमुक्तया
संजातरुधिरॊत्पीडः पपात च ममार च
पतत्य अथ गजे चापि वङ्गानाम ईश्वरॊ बली
जवेन समभिद्रुत्य जगाम धरणीतलम
दुर्यॊधनॊ ऽपि संप्रेक्ष्य पातितं वरवारणम
परभग्नं च बलं दृष्ट्वा जगाम परमां वयथाम
कषत्रधर्मं पुरस्कृत्य आत्मनश चाभिमानिताम
पराप्ते ऽपक्रमणे राजा तस्थौ गिरिर इवाचलः
संधाय च शितं बाणं कालाग्निसमतेजसम
मुमॊच परमक्रुद्धस तस्मिन घॊरे निशाचरे
तम आपतन्तं संप्रेक्ष्य बाणम इन्द्राशनिप्रभम
लाघवाद वञ्चयाम आस महाकायॊ घटॊत्कचः
भूय एव ननादॊग्रः करॊधसंरक्तलॊचनः
तरासयन सर्वभूतानि युगान्ते जलदॊ यथा
तं शरुत्वा निनदं घॊरं तस्य भीष्मस्य रक्षसः
आचार्यम उपसंगम्य भीष्मः शांतनवॊ ऽबरवीत
यथैष निनदॊ घॊरः शरूयते राक्षसेरितः
हैडिम्बॊ युध्यते नूनं राज्ञा दुर्यॊधनेन ह
नैष शक्यॊ हि संग्रामे जेतुं भूतेन केन चित
तत्र गच्छत भद्रं वॊ राजानं परिरक्षत
अभिद्रुतं महाभागं राक्षषेन दुरात्मना
एतद धि परमं कृत्यं सर्वेषां नः परंतपः
पितामहवचः शरुत्वा तवरमाणा महारथाः
उत्तमं जवम आस्थाय परययुर यत्र कौरवः
दरॊणश च सॊमदत्तश च बाह्लिकश च जयद्रथः
कृपॊ भूरी शरवाः शल्यश चित्रसेनॊ विविंशतिः
अश्वत्थामा विकर्णश च आवन्त्यश च बृहद्बलः
रथाश चानेक साहस्रा ये तेषाम अनुयायिनः
अभिद्रुतं परीप्सन्तः पुत्रं दुर्यॊधनं तव
तद अनीकम अनाधृष्यं पालितं लॊकसत्तमैः
आततायिनम आयान्तं परेक्ष्य राक्षससत्तमः
नाकम्पत महाबाहुर मैनाक इव पर्वतः
परगृह्य विपुलं चापं जञातिभिः परिवारितः
शूलम उद्गर हस्तैश च नानाप्रहरणैर अपि
ततः समभवद युद्धं तुमुलं लॊमहर्षणम
राक्षसानां च मुख्यस्य दुर्यॊधन बलस्य च
धनुषां कूजतां शब्दः सर्वतस तुमुलॊ ऽभवत
अश्रूयत महाराज वंशानां दह्यताम इव
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम
शब्दः समभवद राजन्न अद्रीणाम इव दीर्यताम
वीरबाहुविसृष्टानां तॊमराणां विशां पते
रूपम आसीद वियत सथानां सर्पाणां सर्पताम इव
ततः परमसंक्रुद्धॊ विस्फार्य सुमहद धनुः
राक्षसेन्द्रॊ महाबाहुर विनदन भैरवं रवम
आचार्यस्यार्ध चन्द्रेण करुद्धश चिच्छेद कार्मुकम
सॊमदत्तस्य भल्लेन धवजम उन्मथ्य चानदत
बाह्लिकं च तरिभिर बाणैर अभ्यविध्यत सतनान्तरे
कृपम एकेन विव्याध चित्रसेनं तरिभिः शरैः
पूर्णायतविसृष्टेन सम्यक परणिहितेन च
जत्रु देशे समासाद्य विकर्णं समताडयत
नयषीदत स रथॊपस्थे शॊणितेन परिप्लुतः
ततः पुनर अमेयात्मा नाराचान दश पञ्च च
भूरिश्रवसि संक्रुद्धः पराहिणॊद भरतर्षभ
ते वर्म भित्त्वा तस्याशु पराविशन मेदिनी तलम
विविंशतेश च दरौणेश च यन्तारौ समताडयत
तौ पेततू रथॊपस्थे रश्मीन उत्सृज्य वाजिनाम
सिन्धुराज्ञॊ ऽरधचन्द्रेण वाराहं सवर्णभूषितम
उन्ममाथ महाराज दवितीयेनाछिनद धनुः
चतुर्भिर अथ नाराचैर आवन्त्यस्य महात्मनः
जघान चतुरॊ वाहान करॊधसंरक्तलॊचनः
पूर्णायतविसृष्टेन पीतेन निशितेन च
निर्बिभेद महाराज राजपुत्रं बृहद्बलम
स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत
भृशं करॊधेन चाविष्टॊ रथस्थॊ राक्षसाधिपः
चिक्षेप निशितांस तीक्ष्णाञ शरान आशीविषॊपमान
विभिदुस ते महाराज शल्यं युद्धविशारदम
[स]
विमुखीकृत्य तान सर्वांस तावकान युधि राक्षसः
जिघांसुर भरतश्रेष्ठ दुर्यॊधनम उपाद्रवत
तम आपतन्तं संप्रेक्ष्य राजानं परति वेगितम
अभ्यधावज जिघांसन्तस तावका युद्धदुर्मदाः
तालमात्राणि चापानि विकर्षन्तॊ महाबलाः
तम एकम अभ्यधावन्त नदन्तः सिंहसंघवत
अथैनं शरवर्षेण समन्तात पर्यवारयन
पर्वतं वारिधाराभिः शरदीव बलाहकाः
स गाढविद्धॊ वयथितस तॊत्त्रार्दित इव दविपः
उत्पपात तदाकाशं समन्ताद वैनतेयवत
वयनदत सुमहानादं जीमूत इव शारदः
दिशः खं परदिशश चैव नादयन भैरवस्वनः
राक्षसस्य तु तं शब्दं शरुत्वा राजा युधिष्ठिरः
उवाच भरतश्रेष्ठॊ भीमसेनम इदं वचः
युध्यते राक्षसॊ नूनं धार्तराष्ट्रैर महारथैः
यथास्य शरूयते शब्दॊ नदतॊ भैरवं सवनम
अतिभारं च पश्यामि तत्र तात समाहितम
पितामहश च संक्रुद्धः पाञ्चालान हन्तुम उद्यतः
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः
एतच छरुत्वा महाबाहॊ कार्यद्वयम उपस्थितम
गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम
भरातुर वचनम आज्ञाय तवरमाणॊ वृकॊदरः
परययौ सिंहनादेन तरासयन सर्वपार्थिवान
वेगेन महता राजन पर्वकाले यथॊदधिः
तम अन्वयात सत्यघृतिः सौचित्तिर युद्धदुर्मदः
शरेणिमान वसु दानश च पुत्रः काश्यस्य चाभिभूः
अभिमन्युमुखाश चैव दरौपदेया महारथाः
कषत्रदेवश च विक्रान्तः कषत्रधर्मा तथैव च
अनूपाधिपतिश चैव नीलः सवबलम आस्थितः
महता रथवंशेन हैडिम्बं पर्यवारयन
कुञ्जरैश च सदामत्तैः षट सहस्रैः परहारिभिः
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटॊत्कचम
सिंहनादेन महता नेमिघॊषेण चैव हि
खुरशब्दनिनादैश च कम्पयन्तॊ वसुंधराम
तेमाम आपततां शरुत्वा शब्दं तं तावकं बलम
भीमसेन भयॊद्विग्नं विवर्णवदनं तथा
परिवृत्तं महाराज परित्यज्य घटॊत्कचम
ततः परववृते युद्धं तत्र तत्र महात्मनाम
तावकानां परेषां च संग्रामेष्व अनिवर्तिनाम
नानारूपाणि शस्त्राणि विसृजन्तॊ महारथाः
अन्यॊन्यम अभिधावन्तः संप्रहारं परचक्रिरे
वयतिषक्तं महारौद्रं युद्धं भीरु भयावहम
हया गजैः समाजग्मुः पादाता रथिभिः सह
अन्यॊन्यं समरे राजन परार्थयाना महद यशः
सहसा चाभवत तीव्रं संनिपातान महद रजः
रथाश्वजग पत्तीनां पदनेमि समुद्धतम
धूम्रारुणं रजस तीव्रं रणभूमिं समावृणॊत
नैव सवे न परे राजन समजानन परस्परम
पिता पुत्रं न जानीते पुत्रॊ वा पितरं तथा
निर्मर्यादे तथा भूते वैशसे लॊमहर्षणे
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम
सुमहान अभवच छब्दॊ वंशानाम इव दह्यताम
गजवाजिमनुष्याणां शॊणितान्त्र तरङ्गिणी
परावर्तत नदी तत्र केशशैवलशाद्वला
नराणां चैव कायेभ्यः शिरसां पततां रणे
शुश्रुवे सुमहाञ शब्दः पतताम अश्मनाम इव
विशिरस्कैर मनुष्यैश च छिन्नगात्रैश च वारणैः
अश्वैः संभिन्नदेहैश च संकीर्णाभूद वसुंधरा
नानाविधानि शस्त्राणि विसृजन्तॊ महारथाः
अन्यॊन्यम अभिधावन्तः संप्रहारं परचक्रिरे
हया हयान समासाद्य परेषिता हयसादिभिः
समाहत्य रणे ऽनयॊन्यं निपेतुर गतजीविताः
नरा नरान समासाद्य करॊधरक्तेक्षणा भृशम
उरांस्य उरॊभिर अन्यॊन्यं समाश्लिष्य निजघ्निरे
परेषिताश च महामात्रैर वारणाः परवारणाः
अभिघ्नन्ति विषाणाग्रैर वारणान एव संयुगे
ते जातरुधिरापीडाः पताकाभिर अलंकृताः
संसक्ताः परत्यदृश्यन्त मेघा इव स विद्युतः
के चिद भिन्ना विषाणाग्रैर भिन्नकुम्भाश च तॊमरैः
विनदन्तॊ ऽभयधावन्त गर्जन्तॊ जलदा इव
केचिद धस्तैर दविधा छिन्नैश छिन्नगात्रास तथापरे
निपेतुस तुमुले तस्मिंश छिन्नपक्षा इवाद्रयः
पार्श्वैस तु दारितैर अन्ये वारणैर वरवारणाः
मुमुचुः शॊणितं भूरि धातून इव महीधराः
नाराचाभिहतास तव अन्ये तथा विद्धाश च तॊमरैः
हतारॊहा वयदृश्यन्त विशृङ्गा इव पर्वताः
के चित करॊधसमाविष्टा मदान्धा निरवग्रहाः
रथान हयान पदातांश च ममृदुः शतशॊ रणे
तथा हया हयारॊहैस ताडिताः परासतॊमरैः
तेन तेनाभ्यवर्तन्त कुर्वन्तॊ वयाकुला दिशः
रथिनॊ रथिभिः सार्धं कुलपुत्रास तनुत्यजः
परां शक्तिं समास्थाय चक्रुः कर्माण्य अभीतवत
सवयंवर इवामर्दे परजह्रुर इतरेतरम
परार्थयानां यशॊ राजन सवर्गं वा युद्धशालिनः
तस्मिंस तथा वर्तमाने संग्रामे लॊमहर्षणे
धार्तराष्ट्रं महत सैन्यं परायशॊ विमुखीकृतम
[स]
सवसैन्यं निहतं दृष्ट्वा राजा दुर्यॊधनः सवयम
अभ्यधावत संक्रुद्धॊ भीमसेनम अरिंदमम
परगृह्य सुमहच चापम इन्द्राशनिसमस्वनम
महता शरवर्षेण पाण्डवं समवाकिरत
अर्धचन्द्रं च संधाय सुतीक्ष्णं लॊमवाहिनम
भीमसेनस्य चिच्छेद चापं करॊधसमन्वितः
तदन्तरं च संप्रेक्ष्य तवरमाणॊ महारथः
संदधे निशितं बाणं गिरीणाम अपि दारणम
तेनॊरसि महाबाहुर भीमसेनम अताडयत
स गाढविद्धॊ वयथितः सृक्किणी परिसंलिहन
समाललम्बे तेजस्वी धवजं हेमपरिष्कृतम
तथा विमनसं दृष्ट्वा भीमसेनं घटॊत्कचः
करॊधेनाभिप्रजज्वाल दिधक्षन्न इव पावकः
अभिमन्युमुखाश चैव पाण्डवानां महारथाः
समभ्यधावन करॊशन्तॊ राजानं जातसंभ्रमाः
संप्रेक्ष्य तान आपततः संक्रुद्धाञ जातसंभ्रमान
भारद्वाजॊ ऽबरवीद वाक्यं तावकानां महारथान
कषिप्रं गच्छत भद्रं वॊ राजानं परिरक्षत
संशयं परमं पराप्तं मज्जन्तं वयसनार्णवे
एते करुद्धा महेष्वासाः पाण्डवानां महारथाः
भीमसेनं पुरस्कृत्य दुर्यॊधनम उपद्रुताः
नानाविधानि शस्त्राणि विसृजन्तॊ जये रताः
नदन्तॊ भैरवान नादांस तरासयन्तश च भूम इमाम
तद आचार्य वचः शरुत्वा सॊमदत्त पुरॊगमाः
तावकाः समवर्तन्त पाण्डवानाम अनीकिनीम
कृपॊ भूरि शवराः शल्यॊ दरॊणपुत्रॊ विविंशतिः
चित्रसेनॊ विकर्णश च सैन्धवॊ ऽथ बृहद्बलः
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन
ते विंशतिपदं गत्वा संप्रहारं परचक्रिरे
पाण्डवा धार्तराष्ट्राश च परस्परजिघांसवः
एवम उक्त्वा महाबाहुर महद विस्फार्य कार्मुकम
भारद्बाजस ततॊ भीमं षड्विंशत्या समार्पयत
भूयश चैनं महाबाहुः शरैः शीघ्रम अवाकिरत
पर्वतं वारिधाराभिः शरदीव बलाहकः
तं पत्यविध्यद दशभिर भीमसेनः शिलीमुखैः
तवरमाणॊ महेष्वासः सव्ये पार्श्वे महाबलः
स गाढविद्धॊ वयथितॊ वयॊवृद्धश च भारत
परनष्टसंज्ञः सहसा रथॊपस्थ उपाविशत
गुरुं परव्यथितं दृष्ट्वा राजा दुर्यॊधनः सवयम
दरौणायनिश च संक्रुद्धौ भीमसेनम अभिद्रुतौ
ताव आपतन्तौ संप्रेक्ष्य कालान्तकयमॊपमौ
भीमसेनॊ महाबाहुर गदाम आदाय स तवरः
अवप्लुत्य रथात तूर्णं तस्थौ गिरिर इवाचलः
समुद्यम्य गदां गुर्वीं यमदण्डॊपमां रणे
तद उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम
कौरवॊ दरॊणपुत्रश च सहिताव अभ्यधावताम
ताव आपतन्तौ सहितौ तवरितौ बलिनां वरौ
अभ्यधावत वेगेन तवरमाणॊ वृकॊदरः
तम आपतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम
समभ्यधावंस तवरिताः कौरवाणां महारथाः
भारद्वाज मुखाः सर्वे भीमसेनजिघांसया
नानाविधानि शस्त्राणि भीमस्यॊरस्य अपातयन
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः
तं दृष्ट्वा संशयं पराप्तं पीड्यमानं महारथम
अभिमन्युप्रभृतयः पाण्डवानां महारथाः
अभ्यधावन परीप्सन्तः पराणांस तयक्त्वा सुदुस्त्यजान
अनूपाधिपतिः शूरॊ भीमस्य दयितः सखा
नीलॊ नीलाम्बुदप्रख्यः संक्रुद्धॊ दरौणिम अभ्ययात
सपर्धते हि महेष्वासॊ नित्यं दरॊणसुतेन यः
स विस्फार्य महच चापं दरौणिं विव्याध पत्रिणा
यथा शक्रॊ महाराज पुरा विव्याध दानवम
विप्रचित्तिं दुराधर्षं देवतानां भयं ककम
येन लॊकत्रयं करॊधात तरासितं सवेन तेजसा
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा
संजातरुधिरॊत्पीडॊ दरौणिः करॊधसमन्वितः
स विस्फार्य धनुश चित्रम इन्द्राशनिसमस्वनम
दध्रे नीलविनाशाय मतिं मतिमतां वरः
ततः संधाय विमलान भल्लान कर्मारपायितान
जघान चतुरॊ वाहान पातयाम आस च धवजम
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि
स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत
मॊहितं वीक्ष्य राजानं नीलम अभ्रचयॊपमम
घटॊत्कचॊ ऽपि संक्रुद्धॊ भरातृभिः परिवारितः
अभिदुद्राव वेगेन दरौणिम आहवशॊभिनम
तथेतरे अभ्यधावन राक्षसॊ युद्धदुर्मदाः
तम आपतन्तं संप्रेक्ष्य राक्षसं घॊरदर्शनम
अभ्यधावत तेजस्वी भारद्वाजात्मजस तवरन
निजघान च संक्रुद्धॊ राक्षसान भीमदर्शनान
यॊ ऽभवन्न अग्रतः करुद्धा राक्षसस्य पुरःसराः
विमुखांश चैव तान दृष्ट्वा दरौणिचापच्युतैः शरैः
अक्रुध्यत महाकायॊ भैमसेनिर घटॊत्कचः
परादुश्चक्रे महामायां घॊररूपां सुदारुणाम
मॊहयन समरे दरौणिं मायावी राक्षसाधिपः
ततस ते तावकाः सर्वे मायया विमुखीकृताः
अन्यॊन्यं समपश्यन्त निकृत्तान मेदिनी तले
विचेष्टमानान कृपणाञ शॊणितेन समुक्षितान
दरॊणं दुर्यॊधनं शल्यम अश्वत्थामानम एव च
परायशश च महेष्वासा ये परधानाश च कौरवाः
विध्वस्ता रथिनः सर्वे गजाश च विनिपातिताः
हयाश च सहयारॊहा विनिकृत्ताः सहस्रशः
तद दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं परति
मम पराक्रॊशतॊ राजंस तथा देवव्रतस्य च
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे
घटॊत्कच परयुक्तेति नातिष्ठन्त विमॊहिताः
नैव ते शरद्दधुर भीता वदतॊर आवयॊर वचः
तांश च परद्रवतॊ दृष्ट्वा जयं पराप्तांश च पाण्डवाः
घटॊत्कचेन सहिताः सिंहनादान परचक्रिरे
शङ्खदुन्दुभिघॊषाश च समन्तात सस्वनुर भृशम
एवं तव बलं सर्वं हैडिम्बेन दुरात्मना
सूर्यास्तमय वेलायां परभग्नं विद्रुतं दिशः
[स]
तस्मिन महति संक्रन्दे राजा दुर्यॊधनस तदा
गाङ्गेयम उपसंगम्य विनयेनाभिवाद्य च
तस्य सर्वं यथावृत्तम आख्यातुम उपचक्रमे
घटॊत्कचस्य विजयम आत्मनश च पराजयम
अक्थयाम आस दुर्धर्षॊ विनिःश्वस्य पुनः पुनः
अब्रवीच च तदा राजन भीष्मं कुरुपितामहम
भवन्तं समुपाश्रित्य वासुदेवं यथा परैः
पाण्डवैर विग्रहॊ घॊरः समारब्धॊ मया परभॊ
एकादश समाख्याता अक्षौहिण्यश च या मम
निदेशे तव तिष्ठन्ति मया सार्धं परंतप
सॊ ऽहं भरतशार्दूल भीमसेनपुरॊगमैः
घटॊत्कचं समाश्रित्य पाण्डवैर युधि निर्जितः
तन मे दहति गात्राणि शुष्कवृक्षम इवानलः
तद इच्छामि महाभाग तवत्प्रसादात परंतप
राक्षसापसदं हन्तुं सवयम एव पितामह
तवां समाश्रित्य दुर्धर्षं तन मे कर्तुं तवम अर्हसि
एतच छरुत्वा तु वचनं राज्ञॊ भरतसत्तम
दुर्यॊधनम इदं वाक्यं भीष्मः शांतनवॊ ऽबरवीत
शृणु राजन मम वचॊ यत तवा वक्ष्यामि कौरव
यथा तवया महाराज वर्तितव्यं परंतप
आत्मा रक्ष्यॊ रणे तातः सर्वावस्थास्व अरिंदमम
धर्मराजेन संग्रामस तवया कार्यः सदानघ
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः
राजधर्मं पुरस्कृत्य राजा राजानम ऋच्छति
अहं दरॊणः कृपॊ दरौणिः कृतवर्मा च सात्वतः
शल्यश च सौमदत्तिश च विकर्णश च महारथः
तव च भरातरः शूरा दुःशासन पुरॊगमाः
तवदर्थं परतियॊत्स्यामॊ राक्षसं तं महाबलम
तस्मिन रौद्रे राक्षसेन्द्रे यदि ते हृच्छयॊ महान
अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः
भगदत्तॊ महीपालः पुरंदरसमॊ युधि
एतावद उक्त्वा राजानं भगदत्तम अथाब्रवीत
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम
वारयस्व रणे यत्तॊ मिषतां सर्वधन्विनाम
राक्षसं करूरकर्माणं यथेन्द्रस तारकं पुरा
तव दिव्यानि चास्त्राणि विक्रमश च परंतप
समागमश च बहुभिः पुराभूद असुरैः सह
तवं तस्य राजशार्दूल परतियॊद्धा महाहवे
सवबलेन वृतॊ राजञ जहि राक्षसपुंगवम
एतच छरुत्वा तु वचनं भीष्मस्य पृतना पतेः
परययौ सिंहनादेन परान अभिमुखॊ दरुतम
तम आद्रवन्तं संप्रेक्ष्य गर्जन्तम इव तॊयदम
अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः
भिमसेनॊ ऽभिमन्युश च राक्षसश च घटॊत्कचः
दरौपदेयाः सत्यधृतिः कषत्रदेवश च मारिष
चेदिपॊ वसु दानश च दशार्णाधिपतिस तथा
सुप्रतीकेन तांश चापि भगदत्तॊ ऽपय उपाद्रवत
ततः समभवद युद्धं घॊररूपं भयानकम
पाण्डूनां भगदत्तेन यम राष्ट्रविवर्धनम
परमुक्ता रथिभिर बाणा भीमवेगाः सुतेजनाः
ते निपेतुर महाराज नागेषु च रथेषु च
परभिन्नाश च महानागा विनीता हस्तिसादिभिः
परस्परं समासाद्य संनिपेतुर अभीतवत
मदान्धा रॊषसंरब्धा विषाणाग्रैर महाहवे
विभिदुर दन्तमुसलैः समासाद्य परस्परम
हयाश च चामरापीडाः परासपाणिभिर आस्थिताः
चॊदिताः सादिभिः कषिप्रं निपेतुर इतरेतरम
पादाताश च पदात्यॊघैस ताडिताः शक्तितॊमरैः
नयपतन्त तदा भूमौ शतशॊ ऽथ सहस्रशः
रथिनश च तथा राजन कर्णिनालीकसायकैः
निहत्य समरे वीरान सिंहनादान विनेदिरे
तस्मिंस तथा वर्तमाने संग्रामे लॊमहर्षणे
भगदत्तॊ महेष्वासॊ भीमसेनम अथाद्रवत
कुञ्जरेण परभिन्नेन सप्तधा सरवता मदम
पर्वतेन यथा तॊयं सरवमाणेन सर्वतः
किरञ शरसहस्राणि सुप्रतीक शिरॊ गतः
ऐरावतस्थॊ मघवान वारिधारा इवानघ
स भीमं शरधाराभिस ताडयाम आस पार्थिवः
पर्वतं वारिधाराभिः परावृषीव बलाहकः
भीमसेनस तु संक्रुद्धः पादरक्षान परःशतान
निजघान महेष्वासः संक्रुद्धः शरवृष्टिभिः
तान दृष्ट्वा निहतान करुद्धॊ भगदत्तः परतापवान
चॊदयाम आस नागेन्द्रं भीमसेनरथं परति
स नागः परेषितस तेन बाणॊ जया चॊदितॊ यथा
अभ्यधावत वेगेन भीमसेनम अरिंदमम
तम आपतन्तं संक्रेप्ष्य पाण्डवानां महारथाः
अभ्यवर्तन्त वेगेन भीमसेनपुरॊगमाः
केकयाश चाभिमन्युश च दरौपदेयाश च सर्वशः
दशार्णाधिपतिः शूरः कषत्रदेवश च मारिष
चेदिपश चित्रकेतुश च संक्रुद्धाः सर्व एव ते
उत्तमास्त्राणि दिव्यानि दर्शयन्तॊ महाबलाः
तम एकं कुञ्जरं करुद्धाः समन्तात पर्यवारयन
स विद्धॊ बहुभिर बाणैर वयरॊचत महाद्विपः
संजातरुधिरॊत्पीडॊ धातुचित्र इवाद्रिराट
दशार्णाधिपतिश चापि गजं भूमिधरॊपमम
समास्थितॊ ऽभिदुद्राव भगदत्तस्य वारणम
तम आपतन्तं समरे गजं गजपतिः स च
दधार सुप्रतीकॊ ऽपि वेलेव मकरालयम
वारितं परेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः
साधु साध्व इति सैन्यानि पाण्डवेयान्य अपूजयन
ततः पराग यॊतिषः करुद्धस तॊमरान वै चतुर्दश
पराहिणॊत तस्य नागस्य परमुखे नृपसत्तम
तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम
विदार्य पराविशन कषिप्रं वल्मीकम इव पन्नगाः
स गाढविद्धॊ वयथितॊ नागॊ भरतसत्तम
उपावृत्त मदः कषिप्रं स नयवर्तत वेगतः
परदुद्राव च वेगेन परणदन भैरवं सवनम
स मर्दमानः सवबलं वायुर वृक्षान इवौजसा
तस्मिन पराजिते नागे पाण्डवानां महारथाः
सिंहनादं विनद्यॊच्चैर युद्धायैवॊपतस्थिरे
ततॊ भीमं पुरस्कृत्य भगदत्तम उपाद्रवन
किरन्तॊ विविधान बाणाञ शस्त्राणि विविधानि च
तेषाम आपततां राजन संक्रुद्धानाम अमर्षिणाम
शरुत्वा स निनदं घॊरम अमर्षाद गतसाध्वसः
भगदत्तॊ महेष्वासः सवनागं परत्यचॊदयत
अङ्कुशाङ्गुष्ठ नुदितः स गजप्रवरॊ युधि
तस्मिन कषणे समभवत संवर्तक इवानलः
रथसंघांस तथा नागान हयांश च सह सादिभिः
पादातांश च सुसंक्रुद्धः शतशॊ ऽथ सहस्रशः
अमृद्नात समरे राजन संप्रधावंस ततस ततः
तेन संलॊड्यमानं तु पाण्डूनां तद वलं महत
संचुकॊप महाराज चर्मेवाग्नौ समाहितम
भग्नं तु सवबलं दृष्ट्वा भगदत्तेन धीमता
घटॊत्कचॊ ऽथ संक्रुद्धॊ भगदत्तम उपाद्रवत
विकटः पुरुषॊ राजन दीप्तास्यॊ दीप्तलॊचनः
रूपं विभीषणं कृत्वा रॊषेण परज्वलन्न इव
जग्राह विपुलं शूलं गिरीणाम अपि दारुणम
नागं जिघांसुः सहसा चिक्षेप च महाबलः
सविष्फुलिङ्ग जवालाभिः समन्तात परिवेष्टितम
तम आपतन्तं सहसा दृष्ट्वा जवालाकुलं रणे
चिक्षेप रुचिरं तीक्ष्णम अर्धचन्द्रं स पार्थिवः
चिच्छेद सुमहच छूलं तेन बाणेन वेगवत
निपपात दविधा छिन्नं शूलं हेमपरिष्कृतम
महाशनिर यथा भरष्टा शक्र मुक्ता नभॊगता
शूलं निपतितं दृष्ट्वा दविधाकृत्तं स पार्थिवः
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखॊपमाम
चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत
ताम आपतन्तीं संप्रेक्ष्य वियत्स्थाम अशनीम इव
उत्पत्य राक्षसत तूर्णं जग्राह च ननाद च
बभञ्ज चैनां तवरितॊ जानुन्य आरॊप्य भारत
पश्यतः पार्थिवेन्द्रस्य तद अद्भुतम इवाभवत
तद अवेक्ष्य कृतं कर्म राक्षसेन बलीयसा
दिवि देवाः स गन्धर्वा मुनयश चापि विस्मिताः
पाण्डवाश च महेष्वासा भीमसेनपुरॊगमाः
साधु साध्व इति नादेन पृथिवीम अनुनादयन
तं तु शरुत्वा महानादं परहृष्टानां महात्मनाम
नामृष्यत महेष्वासॊ भगदत्तः परतापवान
स विस्फार्य महच चापम इन्द्राशनिसमस्वनम
अभिदुद्राव वेगेन पाण्डवानां महारथान
विसृजन विमलांस तीक्ष्णान नाराचाञ जवलनप्रभान
भीमम एकेन विव्याध राक्षसं नवभिः शरैः
अभिमन्युं तरिभिश चैव केकयान पञ्चभिस तथा
पूर्णायतविसृष्टेन सवर्णपुङ्खेन पत्रिणा
बिभेद दक्षिणं बाहुं कषत्रदेवस्य चाहवे
पपात सहसा तस्य स शरं धनुर उत्तमम
दरौपदेयांस ततः पञ्च पञ्चभिः समताडयत
भीमसेनस्य च करॊधान निजघान तुरंगमान
धवजं केसरिणं चास्य चिच्छेद विशिखैस तरिभिः
निर्बिभेद तरिभिश चान्यैः सारैथिं चास्य पत्रिभिः
स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत
विशॊकॊ भरतश्रेष्ठ भगदत्तेन संयुगे
ततॊ भीमॊ महाराज विरथॊ रथिनां वरः
गदां परगृह्य वेगेन परचस्कन्द महारथात
तम उद्यतगदं दृष्ट्वा स शृङ्गम इव पर्वतम
तावकानां भयं घॊरं समपद्यत भारत
एतस्मिन्न एव काले तु पाण्डवः कृष्णसारथिः
आजगाम महाराज निघ्नञ शत्रून सहस्रशः
यत्र तौ पुरुषव्याघ्रौ पिता पुत्रौ परंतपौ
पराग्ज्यॊतिषेण संसक्तौ भीमसेन घटॊत्कचौ
दृष्ट्वा तु पाण्डवॊ राजन युध्यमानान महारथान
तवरितॊ भरतश्रेष्ठ तत्रायाद विकिरञ शरान
ततॊ दुर्यॊधनॊ राजा तवरमाणॊ महारथः
सेनाम अचॊदयत कषिप्रं रथनागाश्वसंकुलाम
ताम आपतन्तीं सहसा कौरवाणां महाचमूम
अभिदुद्राव वेगेन पाण्डवः शवेतवाहनः
भगदत्तॊ ऽपि समरे तेन नागेन भारत
विमृद्न पाण्डव बलं युधिष्ठिरम उपाद्रवत
तदासीत तुमुलं युद्धं भगदत्तस्य मारिष
पाञ्चालैः सृञ्जयैश चैव केकयैश चॊद्यतायुधैः
भीमसेनॊ ऽपि समरे ताव उभौ केशवार्जुनौ
आश्रावयद यथावृत्तम इरावद वधम उत्तमम
[स]
पुत्रं तु निहतं शरुत्वा इरावन्तं धनंजयः
दुःखेन महताविष्टॊ निःश्वसन पन्नगॊ यथा
अब्रवीत समरे राजन वासुदेवम इदं वचः
इदं नूनं महाप्राज्ञॊ विदुरॊ दृष्टवान पुरा
कुरूणां पाण्डवानां च कषयं घॊरं महामतिः
ततॊ निवारयितवान धृतराष्ट्रं जनेश्वरम
अवध्या बहवॊ वीराः संग्रामे मधुसूदन
निहताः कौरवैः संख्ये तथास्माभिश च ते हताः
अर्थहेतॊर नरश्रेष्ठ करियते कर्म कुत्सितम
धिग अर्थान यत्कृते हय एवं करियते जञातिसंक्षयः
अधनस्य मृतं शरेयॊ न च जञातिवधाद धनम
किं नु पराप्स्यामहे कृष्ण हत्वा जञातीन समागतान
दुर्यॊधनापराधेन शकुनेः सौबलस्य च
कषत्रिया निधनं यान्ति कर्ण दुर्मन्त्रितेन च
इदानीं च विजानामि सुकृतं मधुसूदन
कृतं राज्ञा महाबाहॊ याचता सम सुयॊधनम
राज्यार्धं पञ्च वा गरामान नाकार्षीत स च दुर्मतिः
दृष्ट्वा हि कषत्रियाञ शूराञ शयानान धरणीतले
निन्दामि भृशम आत्मानं धिग अस्तु कषत्रजीविकाम
अशक्तम इति माम एते जञास्यन्ति कषत्रिया रणे
युद्धं ममाभिरुचितं जञातिभिर मधुसूदन
संचॊदय हयान कषिप्रं धार्तराष्ट्रचमूं परति
परतरिष्य महापारं भुजाभ्यां समरॊदधिम
नायं कलीबयितुं कालॊ विद्यते माधव कव चित
एवम उक्तस तु पार्थेन केशवः परवीरहा
चॊदयाम आस तान अश्वान पाण्डुरान वातरंहसः
अथ शब्दॊ महान आसीत तव सैन्यस्य भारत
मारुतॊद्धूत वेगस्य सागरस्येव पर्वणि
अपराह्णे महाराज संग्रामः समपद्यत
पर्जन्यसमनिर्घॊषॊ भीष्मस्य सह पाण्डवैः
ततॊ राजंस तव सुता भीमसेनम उपाद्रवन
परिवार्य रणे दरॊणं वसवॊ वासवं यथा
ततः शांतनवॊ भीष्मः कृपश च रथिनां वरः
भगदत्तः सुशर्मा च धनंजयम उपाद्रवन
हार्दिक्यॊ बाह्लिकश चैव सात्यकिं समभिद्रुतौ
अम्बष्ठकस तु नृपतिर अभिमन्युम अवारयत
शेषास तव अन्ये महाराज शेषान एव महारथान
ततः परववृते युद्धं घॊररूपं भयावहम
भीमसेनस तु संप्रेक्ष्य पुत्रांस तव जनेश्वर
परजज्वाल रणे करुद्धॊ हविषा हव्यवाड इव
पुत्रास तु तव कौन्तेयं छादयां चक्रिरे शरैः
परावृषीव महाराज जलदाः पर्वतं यथा
स चछाद्यमानॊ बहुधा पुत्रैस तव विशां पते
सृक्किणी विलिहन वीरः शार्दूल इव दर्पितः
वयूढॊरस्कं ततॊ भीमः पातयाम आस पार्थिव
कषुरप्रेण सुतीक्ष्णेन सॊ ऽभवद गतजीवितः
अपरेण तु भल्लेन पीतेन निशितेन च
अपातयत कुण्डलिनं सिंहः कषुद्रमृगं यथा
ततः सुनिशितान पीतान समादत्त शिलीमुखान
स सप्त तवरया युक्तः पुत्रांस ते पराप्य मारिष
परेषिता भीमसेनेन शरास ते दृढधन्वना
अपातयन्त पुत्रांस ते रथेभ्यः सुमहारथान
अनाधृष्टिं कुण्ड भेदं वैराटं दीर्घलॊचनम
दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम
परपतन्त सम ते वीरा विरेजुर भरतर्षभ
वसन्ते पुष्पशबलाश चूताः परपतिता इव
ततः परदुद्रुवुः शेषाः पुत्रास तव विशां पते
तं कालम इव मन्यन्तॊ भीमसेनं महाबलम
दरॊणस तु समरे वीरं निर्दहन्तं सुतांस तव
यथाद्रिं वारिधाराभिः समन्ताद वयकिरच छरैः
तत्राद्भुतम अपश्याम कुन्तीपुत्रस्य पौरुषम
दरॊणेन वार्यमाणॊ ऽपि निजघ्ने यत सुतांस तव
यथा हि गॊवृषॊ वर्षं संधारयति खात पतत
भीमस तथा दरॊण मुक्तं शरवर्षम अदीधरत
अद्भुतं च महाराज तत्र चक्रे वृकॊदरः
यत पुत्रांस ते ऽवधीत संख्ये दरॊणं चैव नययॊधयत
पुत्रेषु तव वीरेषु चिक्रीडार्जुन पूर्वजः
मृगेष्व इव महाराज चरन वयाघ्रॊ महाबलः
यथा वा पशुमध्यस्थॊ दरावयेत पशून वृकः
वृकॊदरस तव सुतांस तथा वयद्रावयद रणे
गाङ्गेयॊ भगदत्तश च गौतमश च महारथः
पाण्डवं रभसं युद्धे वारयाम आसुर अर्जुनम
अस्त्रैर अस्त्राणि संवार्य तेषां सॊ ऽतिरथॊ रणे
परवीरांस तव सैन्येषु परेषयाम आस मृत्यवे
अभिमन्युश च राजानम अम्बष्ठं लॊकविश्रुतम
विरथं रथिनां शरेष्ठं कारयाम आस सायकैः
विरथॊ वध्यमानः स सौभद्रेण यशस्विना
अवप्लुत्य रथात तूर्णं सव्रीडॊ मनुजाधिपः
असिं चिक्षेप समरे सौभद्रस्य महात्मनः
आरुरॊह रथं चैव हार्दिक्यस्य महात्मनः
आपतन्तं तु निस्त्रिंशं युद्धमार्ग विशारदः
लाघवाद वयंसयाम आस सौभद्रः परवीरहा
वयंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा
साधु साध्व इति सैन्यानां परणादॊ ऽभूद विशां पते
धृष्टद्युम्नमुखास तव अन्ये तव सैन्यम अयॊधयन
तथैव तावकाः सर्वे पाण्डुसैन्यम अयॊधयन
तत्राक्रन्दॊ महान आसीत तव तेषां च भारत
निघ्नतां भृशम अन्यॊन्यं कुर्वतां कर्म दुष्करम
अन्यॊन्यं हि रणे शूराः केशेष्व आक्षिप्य मारिष
नखैर दन्तैर अयुध्यन्त मुष्टिभिर जानुभिस तथा
बाहुभिश च तलैश चैव निस्त्रिंशैश च सुसंशितैः
विवरं पराप्य चान्यॊन्यम अनयन यमसादनम
नयहनच च पिता पुत्रं पुत्रश च पितरं रणे
वयाकुलीकृतसंकल्पा युयुधुस तत्र मानवाः
रणे चारूणि चापानि हेमपृष्ठानि भारत
हतानाम अपविद्धानि कलापाश च महाधनाः
जातरूपमयैः पुङ्खै राजतैश च शिताः शराः
तैलधौता वयराजन्त निर्मुक्तभुजगॊपमाः
हस्तिदन्त तसरून खड्गाञ जातरूपपरिष्कृतान
चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम
सुवर्णविकृतप्रासान पट्टिशान हेमभूषितान
जातरूपमयाश चर्ष्टीः शक्त्यश च कनकॊज्ज्वलाः
अपकृत्ताश च पतिता मुसलानि गुरूणि च
परिघान पट्टिशांश चैव भिण्डिपालांश च मारिष
पतितांस तॊमरांश चापि चित्रा हेमपरिष्कृताः
कुथाश च बहुधाकाराश चामरव्यजनानि च
नानाविधानि शस्त्राणि विसृज्य पतिता नराः
जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः
गदा विमथितैर गात्रैर मुसलैर भिन्नमस्तकाः
गजवाजिरथक्षुण्णाः शेरते सम नराः कषितौ
तथैवाश्वनृनागानां शरीरैर आबभौ तदा
संछन्ना वसुधा राजन पर्वतैर इव सर्वतः
समरे पतितैश चैव शक्त्यृष्टि शरतॊमरैः
निस्त्रिंशैः पट्टिशैः परासैर अयः कुन्तैः परश्वधैः
परिघैर भिण्डिपालैश च शतघ्नीभिस तथैव च
शरीरैः शस्त्रभिन्नैश च समास्तीर्यत मेदिनी
निःशब्दैर अल्पशब्दैश च शॊणितौघपरिप्लुतैः
गतासुभिर अमित्रघ्न विबभौ संवृता मही
स तलत्रैः स केयूरैर बाहुभिश चन्दनॊक्षितैः
हस्तिहस्तॊपमैश छिन्नैर ऊरुभिश च तरस्विनाम
बद्धचूडा मणिधरैः शिरॊभिश च सकुण्डलैः
पतितैर वृषभाक्षाणां बभौ भारत मेदिनी
कवचैः शॊणितादिग्धैर विप्रकीर्णैश च काञ्चनैः
रराज सुभृशं भूमिः शान्तार्चिभिर इवानलैः
विप्रविद्धैः कलापैश च पतितैश च शरासनैः
विप्रकीर्णैः शरैश चापि रुक्मपुङ्खैः समन्ततः
रथैश च बहुभिर भग्नैः किङ्किणीजालमालिभिः
वाजिभिश च हतैः कीर्णैः सरस्तजिह्वैः स शॊणितैः
अनुकर्षैः पताकाभिर उपासङ्गैर धवजैर अपि
परवीराणां महाशङ्खैर विप्रकीर्णैश च पाण्डुरैः
सरस्तहस्तैश च मातङ्गैः शयानैर विबभौ मही
नानारूपैर अलंकारैः परमदेवाभ्यलंकृता
दन्तिभिश चापरैस तत्र स परासैर गाढवेदनैः
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर मुहुः
विबभौ तद रणस्थानं धम्यमानैर इवाचलैः
नाना रागैः कम्बलैश च परिस्तॊमैश च दन्तिनाम
वैडूय मणिदण्डैश च पतितैर अङ्कुशैः शुभैः
घण्टाभिश च गजेन्द्राणां पतिताभिः समन्ततः
विघाटित विचित्राभिः कुथाभी राङ्कवैस तथा
गरैवेयैश चित्ररूपैश च रुक्मकक्ष्याभिर एव च
यन्त्रैश च बहुधा छिन्नैस तॊमरैश च स कम्पनैः
अश्वानां रेणुकपिलै रुक्मच छन्नैर उरश छदैः
सादिनां च भुजैश छिन्नैः पतितैः साङ्गदैस तथा
परासैश च विमलैस तीक्ष्णैर विमलाभिस तथर्ष्टिभिः
उष्णीषैश च तथा छिन्नैः परविद्धैश च ततस ततः
विचित्रैर अर्धचन्द्रैश च जातरूपपरिष्कृतैः
अश्वास्तर परिस्तॊमै राङ्कवैर मृदितैस तथा
नरेन्द्र चूडामणिभिर विचित्रैश च महाधनैः
छत्रैस तथापविद्धैश च चामरव्यजनैर अपि
पद्मेन्दु दयुतिभिश चैव वदनैश चारुकुण्डलैः
कॢप्त शमश्रुभिर अत्यर्थं वीराणां समलंकृतैः
अपविद्धैर महाराज सुवर्णॊज्ज्वल कुण्डलैः
गरहनक्षत्रशबला दयौर इवासीद वसुंधराः
एवम एते महासेने मृदिते तत्र भारत
परस्परं समासाद्य तव तेषां च संयुगे
तेषु शरान्तेषु भग्नेषु मृदितेषु च भारत
रात्रिः समभवद घॊरा नापश्याम ततॊ रणम
ततॊ ऽवहारं सैन्यानां परचक्रुः कुरुपाण्डवाः
घॊरे निशामुखे रौद्रे वर्तमाने सुदारुणे
अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः
नयविशन्त यथाकालं गत्वा सवशिबिरं तदा
[स]
ततॊ दुर्यॊधनॊ राजा शकुनिश चापि सौबलः
दुःशासनश च पुत्रस ते सूतपुत्रश च दुर्जयः
समागम्य महाराज मन्त्रं चक्रूर विवक्षितम
कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति
ततॊ दुर्यॊधनॊ राजा सर्वांस तान आह मन्त्रिणः
सूतपुत्रं समाभाष्य सौबलं च महाबलम
दरॊणॊ भीष्मः कृपः शल्यः सौमदत्तिश च संयुगे
न पार्थान परतिबाधन्ते न जाने तत्र कारणम
अवध्यमानास ते चापि कषपयन्ति बलं मम
सॊ ऽसमि कषीणबलः कर्ण कषीणशस्त्रश च संयुगे
निकृतः पाण्डवैः शूरैर अवध्यैर दैवतैर अपि
सॊ ऽहं संशयम आपन्नः परकरिष्ये कथं रणम
तम बरवीन महाराज सूतपुत्रॊ नराधिपम
मा शुचॊ भरतश्रेष्ठ परकरिष्ये परियं तव
भीष्मः शांतनवस तूर्णम अपयातु महारणात
निवृत्ते युधि गाङ्गेये नयस्तशस्त्रे च भारत
अहं पार्थान हनिष्यामि सनितान सर्वसॊमकैः
पश्यतॊ युधि भीष्मस्य शपे सत्येन ते नृप
पाण्डवेषु दयां राजन सदा भीष्मः करॊति वै
अशक्तश च रणे भीष्मॊ जेतुम एतान महारथान
अभिमानी रणे भीष्मॊ नित्यं चापि रणप्रियः
स कथं पाण्डवान युद्धे जेष्यते तात संगतान
स तवं शीघ्रम इतॊ गत्वा भीष्मस्य शिबिरं परति
अनुमान्य रणे भीष्मं शस्त्रं नयासय भारत
नयस्तशस्ते ततॊ भीष्मे निहतान पश्य पाण्डवान
मयैकेन रणे राजन ससुहृद गणबान्धवान
एवम उक्तस तु कर्णेन पुत्रॊ दुर्यॊधनस तव
अब्रवीद भरातरं तत्र दुःशासनम इदं वचः
अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः
दुःशासन तथा कषिप्रं सर्वम एवॊपपादय
एवम उक्त्वा ततॊ राजन कर्णम आह जनेश्वरः
अनुमान्य रणे भीष्मम इतॊ ऽहं दविपदां वरम
आगमिष्ये ततः कषिप्रं तवत्सकाशम अरिंदम
ततस तवं पुरुषव्याघ्र परकरिष्यसि संयुगम
निष्पपात ततस तूर्णं पुत्रस तव विशां पते
सहितॊ भरातृभिः सर्वैर देवैर इव शतक्रतुः
ततस तं नृपशार्दूलं शार्दूलसमविक्रमम
आरॊहयद धयं तूर्णं भराता दुःशासनस तदा
अङ्गदी बद्धमुकुटॊ हस्ताभरणवान नृपः
धार्तराष्ट्रॊ महाराज विबभौ स महेन्द्रवत
भाण्डी पुष्पनिकाशेन तपनीयनिभेन च
अनुलिप्तः परार्घ्येन चन्दनेन सुगन्धिना
अरजॊ ऽमबरसंवीतः सिंहखेल गतिर नृपः
शुशुभे विमलार्चिष्मञ शरदीव दिवाकरः
तं परयान्तं नरव्याघ्रं भीष्मस्य शिबिरं परति
अनुजग्मुर महेष्वासाः सर्वलॊकस्य धन्विनः
भरातरश च महेष्वासास तरिदशा इव वासवम
हयान अन्ये समारुह्य गजान अन्ये च भारत
रथैर अन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः
आत्तशस्त्राश च सुहृदॊ रक्षणार्थं महीपतेः
परादुर्बहूवुः सहिताः शक्रस्येवामरा दिवि
संपूज्यमानः कुरुभिः कौरवाणां महारथः
परययौ सदनं राजन गाङ्गेयस्य यशस्विनः
अन्वीयमानः सहितौ सॊदरैः सर्वतॊ नृपः
दक्षिणं दक्षिणः काले संभृत्य सवभुजं तदा
हस्तिहस्तॊपमं शैक्षं सर्वशत्रुनिबर्हणम
परगृह्णन्न अञ्जलीन नॄणाम उद्यतान सर्वतॊदिशम
शुश्राव मधुरा वाचॊ नानादेशनिवासिनाम
संस्तूयमानः सूतैश च मागधैश च महायशाः
पूजयानश च तान सर्वान सर्वलॊकेश्वरेश्वरः
परदीपैः काञ्चनैस तत्र गन्धतैलावसेचनैः
परिवव्रुर महात्मानं परज्वलद्भिः समन्ततः
स तैः परिवृतॊ राजा परदीपैः काञ्चनैः शुभैः
शुशुभे चन्द्रमा युक्तॊ दीप्तैर इव महाग्रहैः
कञ्चुकॊष्णीषिणस तत्र वेत्रझर्झर पाणयः
परॊत्सारयन्तः शनकैस तं जनं सर्वतॊदिशम
संप्राप्य तु ततॊ राजा भीष्मस्य सदनं शुभम
अवतीर्य हयाच चापि भीष्मं पराप्य जनेश्वरः
अभिवाद्य ततॊ भीष्मं निषण्णः परमासने
काञ्चने सर्वतॊभद्रे सपर्ध्यास्तरण संवृते
उवाच पराञ्जलिर भीष्मं बाष्पकण्ठॊ ऽशरुलॊचनः
तवां वयं समुपाश्रित्य संयुगे शत्रुसूदन
उत्सहेम रणे जेतुं सेन्द्रान अपि सुरासुरान
किम उ पाण्डुसुतान वीरान ससुहृद गणबान्धवान
तस्माद अर्हसि गाङ्गेय कृपां कर्तुं मयि परभॊ
जहि पाण्डुसुतान वीरान महेन्द्र इव दानवान
पूर्वम उक्तं महाबाहॊ निहनिष्यामि सॊमकान
पाञ्चालान पाण्डवैः सार्धं करूषांश चेति भारत
तद वचः सत्यम एवास्तु जहि पार्थान समागतान
सॊमकांश च महेष्वासान सत्यवाग भव भारत
दयया यदि वा राजन दवेष्यभावान मम परभॊ
मन्दभाग्यतया वापि मम रक्षसि पाण्डवान
अनुजानीहि समरे कर्णम आहवशॊभिनम
स जेष्यति रणे पार्थान ससुहृद गणबान्धवान
एतावद उक्त्वा नृपतिः पुत्रॊ दुर्यॊधनस तव
नॊवाच वचनं किं चिद भीष्मं भीमपराक्रमम
[स]
वाक्शल्यैस तव पुत्रेण सॊ ऽतिविद्धः पितामहः
दुःखेन महताविष्टॊ नॊवाचाप्रियम अण्व अपि
स धयात्वा सुचिरं कालं दुःखरॊषसमन्वितः
शवसमानॊ यथा नागः परणुन्नॊ वै शलाकया
उद्वृत्य चक्षुषी कॊपान निर्दहन्न इव भारत
स देवासुरगन्धर्वं लॊकं लॊकविदां वरः
अब्रवीत तव पुत्रं तु सामपूर्वम इदं वचः
किं नु दुर्यॊधनैवं मां वाक्शल्यैर उपविध्यसि
घटमानं यथाशक्ति कुर्वाणं च तव परियम
जुह्वानं समरे पराणांस तवैव हितकाम्यया
यदा तु पाण्डवः शूरः खाण्डवे ऽगनिम अतर्पयत
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम
यदा च तवां महाबाहॊ गन्धर्वैर हृतम ओजसा
अमॊचयत पाण्डुसुतः पर्याप्तं तन्निदर्शनम
दरवमाणेषु शूरेषु सॊदरेषु तथाभिभॊ
सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम
यच च नः सहितान सर्वान विराटनगरे तदा
एक एव समुद्यातः पर्याप्तं तन्निदर्शनम
दरॊणं च युधि संरब्धं मां च निर्जित्य संयुगे
कर्णं च तवां च दरौणिं च कृपं च सुमहारथम
वासांसि स समादत्त पर्याप्तं तन्निदर्शनम
निवातकवचान युद्धे वासवेनापि दुर्जयान
जितवान समरे पार्थः पर्याप्तं तन्निदर्शनम
कॊ हि शक्तॊ रणे जेतुं पाण्डवं रभसं रणे
तवं तु मॊहान न जानीषे वाच्यावाच्यं सुयॊधन
मुमूर्षुर हि नरः सर्वान वृक्षान पश्यति काञ्चनान
तथा तवम अपि गान्धारे विपरीतानि पश्यसि
सवयं वैरं महत कृत्वा पाण्डवैः सह सृञ्जयैः
युध्यस्व तान अद्य रणे पश्यामः पुरुषॊ भव
अहं तु सॊमकान सर्वान सपाञ्चालान समागतान
निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम
तैर वाहं निहतः संख्ये गमिष्ये यमसादनम
तान वा निहत्य संग्रामे परीतिं दास्यामि वै तव
पूर्वं हि सत्री समुत्पन्ना शिखण्डी राजवेश्मनि
वरदानात पुमाञ जातः सैषा वै सत्री शिखण्डिनी
ताम अहं न हनिष्यामि पराणत्यागे ऽपि भारत
यासौ पराङ निर्मिता धात्रा सैषा वै सत्री शिखण्डिनी
सुखं सवपिहि गान्धारे शवॊ ऽसमि कर्ता महारणम
यज जनाः कथयिष्यन्ति यावत सथास्यति मेदिनी
एवम उक्तस तव सुतॊ निर्जगाम जनेश्वर
अभिवाद्य गुरुं मूर्ध्ना परययौ सवं निवेशनम
आगम्य तु ततॊ राजा विसृज्य च महाजनम
परविवेश ततस तूर्णं कषयं शत्रुक्षयं करः
परविष्टः स निशां तां च गमयाम आस पार्थिवः
[स]
परभातायां तु शर्वर्यां परातर उत्थाय वै नृपः
राज्ञः समाज्ञापयत सेनां यॊजयतेति ह
अद्य भीष्मॊ रणे करुद्धॊ निहनिष्यति सॊमकान
दुर्यॊधनस्य तच छरुत्वा रात्रौ विलपितं बहु
मन्यमानः स तं राजन परत्यादेशम इवात्मनः
निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम
दीर्घं दध्यौ शांतनवॊ यॊद्धुकामॊ ऽरजुनं रणे
इङ्गितेन तु तज जञात्वा गाङ्गेयेन विचिन्तितम
दुर्यॊधनॊ महाराज दुःशासनम अचॊदयत
दुःशासन रथास तूर्णं युज्यन्तां भीष्मरक्षिणः
दवात्रिंशत तवम अनीकानि सर्वाण्य एवाभिचॊदय
इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम
पाण्डवानां स सैन्यानां वधॊ राज्यस्य चागमः
तत्र कार्यम अहं मन्ये भीष्मस्यैवाभिरक्षणम
सा नॊ गुप्तः सुखाय सयाद धन्यात पार्थांश च संयुगे
अब्रवीच च विशुद्धात्मा नाहं हन्यां शिखण्डिनम
सत्रीपूर्वकॊ हय असौ जातस तस्माद वर्ज्यॊ रणे मया
लॊकस तद वेद यद अहं पितुः परियचिकीर्षया
राज्यं सफीतं महाबाहॊ सत्रियश च तयक्तवान पुरा
नैव चाहं सत्रियं जातु न सत्रीपूर्वं कथं चन
हन्यां युधि नरश्रेष्ठ सत्यम एतद बरवीमि ते
अयं सत्रीपूर्वकॊ राजञ शिखण्डी यदि ते शरुतः
उद्यॊगे कथितं यत तत तथा जाता शिखण्डिनी
कन्या भूत्वा पुमाञ जातः स च यॊत्स्यति भारत
तस्याहं परमुखे बाणान न मुञ्चेयं कथं चन
युद्धे तु कषत्रियांस तात पाण्डवानां जयैषिणः
सर्वान अन्यान हनिष्यामि संप्राप्तान बाणगॊचरान
एवं मां भरतश्रेष्ठॊ गाङ्गेयः पराह शास्त्रवित
तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम
अरक्ष्यमाणं हि वृकॊ हन्यात सिंहं महावने
मा वृकेणेव शार्दूलं घातयेम शिखण्डिना
मातुलः शकुनिः शल्यः कृपॊ दरॊणॊ विविंशतिः
यत्ता रक्षन्तु गाङ्गेयं तस्मिन गुप्ते धरुवॊ जयः
एतच छरुत्वा तु राजानॊ दुर्यॊधन वचस तदा
सर्वतॊ रथवंशेन गाङ्गेयं पर्यवारयन
पुत्राश च तत्र गाङ्गेयं परिवार्य ययुर मुदा
कम्पयन्तॊ भुवं दयां च कषॊभयन्तश च पाण्डवान
तै रथैश च सुसंयुक्तैर दन्तिभिश च महारथाः
परिवार्य रणे भीष्मं दंशिताः समवस्थिताः
यथा देवासुरे युद्धे तरिदशा वज्रधारिणम
सर्वे ते सम वयतिष्ठन्त रक्षन्तस तं महारथम
ततॊ दुर्यॊधनॊ राजा पुनर भरातरम अब्रवीत
सव्यं चक्रं युधामन्युर उत्तमौजाश च दक्षिणम
गॊप्ताराव अर्जुनस्यैताव अर्जुनॊ ऽपि शिखण्डिनः
स रक्ष्यमाणः पार्थेन तथास्माभिर विवर्जितः
यथा भीष्मं न नॊ हन्याद दुःशासन तथा कुरु
भरातुस तद वचनं शरुत्वा पुत्रॊ दुःशासनस तव
भीष्मं परमुखतः कृत्वा परययौ सेनया सह
भीष्मं तु रथवंशेन दृष्ट्वा तम अभिसंवृतम
अर्जुनॊ रथिनां शरेष्ठॊ धृष्टद्युम्नम उवाच ह
शिखण्डिनं नरव्याघ्र भीष्मस्य परमुखे ऽनघ
सथापयस्वाद्य पाञ्चाल्य तस्य गॊप्ताहम अप्य उत
ततः शांतनवॊ भीष्मॊ निर्ययौ सेनया सह
वयूहं चाव्यूहत महत सर्वतॊभद्रम आहवे
कृपश च कृतवर्मा च शैब्यश चैव महारथः
शकुनिः सैन्धवश चैव काम्बॊजश च सुदक्षिणः
भीष्मेण सहिताः सर्वे पुत्रैश च तव भारत
अग्रतः सर्वसैन्यानां वयूहस्य परमुखे सथिताः
दरॊणॊ भूरिश्रवाः शल्यॊ भगदत्तश च मारिष
दक्षिणं पक्षम आश्रित्य सथिता वयूहस्य दंशिताः
अश्वत्थामा सॊमदत्त आवन्त्यौ च महारथौ
महत्या सेनया युक्ता वामं पक्षम अपालयन
दुर्यॊधनॊ महाराज तरिगर्तैः सर्वतॊवृतः
वयूहमध्ये सथितॊ राजन पाण्डवान परति भारत
अलम्बुसॊ रथश्रेष्ठः शरुतायुश च महारथः
पृष्ठतः सर्वसैन्यानां सथितौ वयूहस्य दंशितौ
एवम एते तदा वयूहं कृत्वा भारत तावकाः
संनद्धाः समदृश्यन्त परतपन्त इवाग्नयः
तथा युधिष्ठिरॊ राजा भीमसेनश च पाण्डवः
नकुलः सहदेवश च माद्रीपुत्राव उभाव अपि
अग्रतः सर्वसैन्यानां सथिता वयूहस्य दंशिताः
धृष्टद्युम्नॊ विराटश च सात्यकिश च महारथः
सथिताः सैन्येन महता परानीक विनाशनाः
शिखण्डी विजयश चैव राक्षसश च घटॊत्कचः
चेकितानॊ महाबाहुः कुन्तिभॊजश च वीर्यवान
सथिता रणे महाराज महत्या सेनया वृताः
अभिमन्युर महेष्वासॊ दरुपदश च महारथः
केकया भरातरः पञ्च सथिता युद्धाय दंशिताः
एवं ते ऽपि महाव्यूहं परतिव्यूह्य सुदुर्जयम
पाण्डवाः समरे शूराः सथिता युद्धाय मारिष
तावकास तु रणे यत्ताः सह सेना नराधिपाः
अभ्युद्ययू रणे पार्थान भीष्मं कृत्वाग्रतॊ नृप
तथैव पाण्डवा राजन भीमसेनपुरॊगमाः
भीष्मं युद्धपरिप्रेप्सुं संग्रामे विजिगीषवः
कष्वेडाः किल किला शब्दान करकचान गॊविषाणिकाः
भेरीमृदङ्गपणवान नादयन्तश च पुष्करान
पाण्डवा अभ्यधावन्त नदन्तॊ भैरवान रवान
भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः
उत्क्रुष्ट सिंहनादैश च वल्गितैश च पृथग्विधैः
वयं परतिनदन्तस तान अभ्यगच्छाम स तवराः
सहसैवाभिसंक्रुद्धास तदासीत तुमुलं महत
ततॊ ऽनयॊन्यं परधावन्तः संप्रहारं परचक्रिरे
ततः शब्देन महता परचकम्पे वसुंधरा
पक्षिणश च महाघॊरं वयाहरन्तॊ विबभ्रमुः
सप्रभश चॊदितः सूर्यॊ निष्प्रभः समपद्यते
ववुश च तुमुला वाताः शंसन्तः सुमहद भयम
घॊराश च घॊरनिर्ह्रादाः शिवास तत्र ववाशिरे
वेदयन्त्यॊ महाराज महद वैशसम आगतम
दिशः परज्वलिता राजन पांसुवर्षं पपात च
रुधिरेण समुन्मिश्रम अस्थि वर्षं तथैव च
रुदतां वाहनानां च नेत्रेभ्यः परापतज जलम
सुस्रुवुश च शकृन मूत्रं परध्यायन्तॊ विशां पते
अन्तर्हिता महानादाः शरूयन्ते भरतर्षभ
रक्षसां पुरुषादानां नदतां भैरवान रवान
संपतन्तः सम दृश्यन्ते गॊमायुबकवायसाः
शवानश च विविधैर नादैर भषन्तस तत्र तस्थिरे
जवलिताश च महॊल्का वै समाहत्य दिवाकरम
निपेतुः सहसा भूमौ वेदयाना महद भयम
महान्त्य अनीकानि महासमुच्छ्रये; समागमे पाण्डव धार्तराष्ट्रयॊः
परकाशिरे शङ्खमृदङ्ग निस्वनैः; परकम्पितानीव वनानि वायुना
नरेन्द्र नागाश्वसमाकुलानाम; अभ्यायतीनाम अशिवे मुहूर्ते
बभूव घॊषस तुमुलश चमूनां; वातॊद्धुतानाम इव सागराणाम
[स]
अभिमन्यू रथॊदारः पिशंगैस तुरगॊत्तमैः
अभिदुद्राव तेजस्वी दुर्यॊधन बलं महत
विकिरञ शरवर्षाणि वारिधारा इवाम्बुदः
न शेकुः समरे करुद्धं सौभद्रम अरिसूदनम
शस्त्रौघिणं गाहमानं सेनासागरम अक्षयम
निवारयितुम अप्य आजौ तवदीयाः कुरुपुंगवाः
तेन मुक्ता रणे राजञ शराः शत्रुनिवर्हणाः
कषत्रियान अनयञ शूरान परेतराजनिवेशनम
यमदण्डॊपमान घॊराञ जवलनाशीविषॊपमान
सौभद्रः समरे करुद्धः परेषयाम आस सायकान
रथिनं च रथात तूर्णं हयपृष्ठा च सादिनम
गजारॊहांश च स गजान पातयाम आस फाल्गुनिः
तस्य तत कुर्वतः कर्म महत संख्ये ऽदभुतं नृपाः
पूजयां चक्रिरे हृष्टाः परशशंसुश च फाल्गुनिम
तान्य अनीकानि सौभद्रॊ दरावयन बह्व अशॊभत
तूलराशिम इवाधूय मारुतः सर्वतॊदिशम
तेन विद्राव्यमाणानि तव सैन्यानि भारत
तरातारं नाध्यगच्छन्त पङ्के मग्ना इव दविपाः
विद्राव्य सर्वसैन्यानि तावकानि नरॊत्तमः
अभिमन्युः सथितॊ राजन विधूमॊ ऽगनिर इव जवलन
न चैनं तावकाः सर्वे विषेहुर अरिघातिनम
परदीप्तं पावकं यद्वत पतंगाः कालचॊदिताः
परहरन सर्वशत्रुभ्यः पाण्डवानां महारथः
अदृश्यत महेष्वासः सवज्र इव वज्रभृत
हेमपृष्ठं धनुश चास्य ददृशे चरतॊ दिशः
तॊयदेषु यथा राजन भराजमानाः शतह्वदाह
शराश च निशिताः पीता निश्चरन्ति सम संयुगे
वनात फुल्लद्रुमाद राजन भरमराणाम इव वरजाः
तथैव चरतस तस्य सौभद्रस्य महात्मनः
रथेन मेघघॊषेण ददृशुर नान्तरं जनाः
मॊहयित्वा कृपं दरॊणं दरौणिं च स बृहद्बलम
सैन्धवं च महेष्वासं वयचरल लघु सुष्ठु च
मण्डलीकृतम एवास्य धनुः पश्याम मारिष
सूर्यमण्डल संकाशं तपतस तव वाहिनीम
तं दृष्ट्वा कषत्रियाः शूराः परतपन्तं शरार्चिभिः
दविफल्गुनम इमं लॊकं मेनिरे तस्य कर्मभिः
तेनार्दिता महाराज भारती सा महाचमूः
बभ्राम तत्र तत्रैव यॊषिन मदवशाद इव
दरावयित्वा च तत सैन्यं कम्पयित्वा महारथान
नन्दयाम आस सुहृदॊ मयं जित्वेव वासवः
तेन विद्राव्यमाणानि तव सैन्यानि संयुगे
चक्रुर आर्तस्वरं घॊरं पर्जन्यनिनदॊपमम
तं शरुत्वा निनदं घॊरं तव सैन्यस्य मारिष
मारुतॊद्धूत वेगस्य समुद्रस्येव पर्वणि
दुर्यॊधनस तदा राजा आर्श्य शृङ्गिम अभाषत
एष कार्ष्णिर महेष्वासॊ दवितीय इव फल्गुनः
चमूं दरावयते करॊधाद वृत्रॊ देव चमूम इव
तस्य नान्यं परपश्यामि संयुगे भेषजं महत
ऋते तवां राक्षसश्रेष्ठ सर्वविद्यासु पारगम
स गत्वा तवरितं वीरं जहि सौभद्रम आहवे
वयं पार्थान हनिष्यामॊ भीष्मद्रॊणपुरःसराः
स एवम उक्तॊ बलवान राक्षसेन्द्रः परतापवान
परययौ समरे तूर्णं तव पुत्रस्य शासनात
नर्दमानॊ महानादं परावृषीव बलाहकः
तस्य शब्देन महता पाण्डवानां महद बलम
पराचलत सर्वतॊ राजन पूर्यमाण इवार्णवः
बहवश च नरा राजंस तस्य नादेन भीषिताः
परियान पराणान परित्यज्य निपेतुर धरणीतले
कार्ष्णिश चापि मुदा युक्तः परगृहीतशरासनः
नृत्यन्न इव रथॊपस्थे तद रक्षः समुपाद्रवत
ततः स राक्षसः करुद्धः संप्राप्यैवार्जुनिं रणे
नातिदूरे सथितस तस्य दरावयाम आस वै चमूम
सा वध्यमाना समरे पाण्डवानां महाचमूः
परत्युद्ययौ रणे रक्षॊ देव सेना यथाबलिम
विमर्दः सुमहान आसीत तस्य सैन्यस्य मारिष
रक्षसा घॊररूपेण वध्यमानस्य संयुगे
ततः शरसहस्रैस तां पाण्डवानां महाचमूम
वयद्रावयद रणे रक्षॊ दर्शयद वै पराक्रमम
सा वाध्यमाना च तथा पाण्डवानाम अनीकिनी
रक्षसा घॊररूपेण परदुद्राव रणे भयात
तां परमृद्य ततः सेनां पद्मिनीं वारणॊ यथा
ततॊ ऽभिदुद्राव रणे दरौपदेयान महाबलान
ते तु करुद्धा महेष्वासा दरौपदेयाः परहारिणः
राक्षसं दुद्रुवुः सर्वे गरहाः पञ्च यथा रविम
वीर्यवद्भिस ततस तैस तु पीडितॊ राक्षसॊत्तमः
यथा युगक्षये घॊरे चन्द्रमाः पञ्चभिर गरहैः
परतिविन्ध्यस ततॊ रक्षॊ बिभेद निशितैः शरैः
सर्वपारशवैस तूर्णम अकुण्ठाग्रैर महाबलः
स तैर भिन्नतनु तराणः शुशुभे राक्षसॊत्तमः
मरीचिभिर इवार्कस्य संस्यूतॊ जलदॊ महान
विषक्तैः स शरैश चापि तपनीयपरिच्छदैः
आर्श्यशृङ्गिर बभौ राजन दीप्तशृङ्ग इवाचलः
ततस ते भरातरः पञ्च राक्षसेन्द्रं महाहवे
विव्यधुर निशितैर बाणैस तपनीयविभूषितैः
स निर्भिन्नः शरैर घॊरैर भुजगैः कॊपितैर इव
अलम्बुसॊ भृशं राजन नागेन्द्र इव चुक्रुधे
सॊ ऽतिविद्धॊ महाराज मुहूर्तम अथ मारिष
परविवेश तमॊ दीर्घं पीडितस तैर महारथैः
परतिलभ्य ततः संज्ञां करॊधेन दविगुणीकृतः
चिच्छेद सायकैस तेषां धवजांश चैव धनूंषि च
एकैकं च तरिभिर बाणैर आजघान समयन्न इव
अलम्बुसॊ रथॊपस्थे नृत्यन्न इव महारथः
तवरमाणश च संक्रुद्धॊ हयांस तेषां महात्मनाम
जघान राक्षसः करुद्धः सारथींश च महाबलः
बिभेद च सुसंहृष्टः पुनश चैनान सुसंशितैः
शरैर बहुविधाकारैः शतशॊ ऽथ सहस्रशः
विरथांश च महेष्वासान कृत्वा तत्र स राक्षसः
अभिदुद्राव वेगेन हन्तुकामॊ निशाचरः
तान अर्दितान रणे तेन राक्षसेन दुरात्मना
दृष्ट्वार्जुन सुतः संख्ये राक्षसं समुपाद्रवत
तयॊः समभवद युद्धं वृत्रवासवयॊर इव
ददृशुस तावकाः सर्वे पाण्डवाश च महारथाः
तौ समेतौ महायुद्धे करॊधदीप्तौ परस्परम
महाबलौ महाराज करॊधसंरक्तलॊचनौ
परस्परम अवेक्षेतां कालानलसमौ युधि
तयॊः समागमॊ घॊरॊ बभूव कटुकॊदयः
यथा देवासुरे युद्धे शक्रशम्बरयॊर इव
[धृ]
आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम
अलम्बुसः कथं युद्धे परत्ययुध्यत संजय
आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा
तन ममाचक्ष्व तत्त्वेन यथावृत्तं सम संयुगे
धनंजयश च किं चक्रे मम सैन्येषु संजय
भीमॊ वा बलिनां शरेष्ठॊ राक्षसॊ वा घटॊत्कचः
नकुलः सहदेवॊ वा सात्यकिर वा महारथः
एतद आचक्ष्व मे सर्वं कुशलॊ हय असि संजय
[स]
हन्त ते ऽहं परवक्ष्यामि संग्रामं लॊमहर्षणम
यथाभूद राक्षसेन्द्रस्य सौभद्रस्य च मारिष
अर्जुनश च यथा संख्ये भीमसेनश च पाण्डवः
नकुलः सहदेवश च रणे चक्रुः पराक्रमम
तथैव तावकाः सर्वे भीष्मद्रॊणपुरॊगमाः
अद्भुतानि विचित्राणि चक्रुः कर्माण्य अभीतवत
अलम्बुसस तु समरे अभिमन्युं महारथम
विनद्य सुमहानादं तर्जयित्वा मुहुर मुहुः
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत
सौभद्रॊ ऽपि रणे राजन सिंहवद विनदन मुहुः
आर्श्यशृङ्गिं महेष्वासं पितुर अत्यन्तवैरिणम
ततः समेयतुः संख्ये तवरितौ नरराक्षसौ
रथाभ्यां रथिनां शरेष्ठौ यथा वै देवदानवौ
मायावी राक्षसश्रेष्ठॊ दिव्यास्त्रज्ञश च फाल्गुनिः
ततः कार्ष्णिर महाराज निशितैः सायकैस तरिभिः
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर विव्याध पञ्चभिः
अलम्बुसॊ ऽपि संक्रुद्धः कार्ष्णिं नवभिर आशुगैः
हृदि विव्याध वेगेन तॊत्त्रैर इव महाद्विपम
अतः शरसहस्रेण कषिप्रकारी निशाचरः
अर्जुनस्य सुतं संख्ये पीडयाम आस भारत
अभिमन्युस ततः करुद्धॊ नवतिं नतपर्वणाम
चिक्षेप निशितान बाणान राक्षसस्य महॊरसि
ते तस्य विविशुस तूर्णं कायं निर्भिद्य मर्मणि
स तैर विभिन्नसर्वाङ्गः शुशुभे राक्षसॊत्तमः
पुष्पितैः किंशुकै राजन संस्तीर्ण इव पर्वतः
स धारयञ शरान हेमपुङ्खान अपि महाबलः
विबभौ राक्षसश्रेष्ठः स जवाल इव पर्वतः
ततः करुद्धॊ महाराज आर्श्यशृङ्गिर महाबलः
महेन्द्रप्रतिमं कार्ष्णिं छादयाम आस पत्रिभिः
तेन ते विशिखा मुक्ता यमदण्डॊपमाः शिताः
अभिमन्युं विनिर्भिद्य पराविशन धरणीतलम
तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः
अलम्बुसं विनिर्भिद्य पराविशन्त धरातलम
सौभद्रस तु रणे रक्षः शरैः संनतपर्वभिः
चक्रे विमुखम आसाद्य मयं शक्र इवाहवे
विमुखं च ततॊ रक्षॊ वध्यमानं रणे ऽरिणा
परादुश्चक्रे महामायां तामसीं परतापनः
अतस ते तमसा सर्वे हृता हय आसन महीतले
नाभिमन्युम अपश्यन्त नैव सयान न परान रणे
अभिमन्युश च तद दृष्ट्वा घॊररूपं महत तमः
परादुश्चक्रे ऽसत्रम अत्युग्रं भास्करं कुरुनन्दनः
ततः परकाशम अभवज जगत सर्वं महीपते
तां चापि जघ्निवान मायां राक्षसस्य दुरात्मनः
संक्रुद्धश च महावीर्यॊ राक्षसेन्द्रं नरॊत्तमः
छादयाम आस समरे शरैः संनतपर्वभिः
बह्वीस तथान्या मायाश च परयुक्तास तेन रक्षसा
सर्वास्त्रविद अमेयात्मा वारयाम आस फाल्गुनिः
हतमायं ततॊ रक्षॊ वध्यमानं च सायकैः
रथं तत्रैव संत्यज्य पराद्रवन महतॊ भयात
तस्मिन विनिर्जिते तूर्णं कूटयॊधिनि राक्षसे
आर्जुनिः समरे सैन्यं तावकं संममर्द ह
मदान्धॊ वन्यनागेन्द्रः स पद्मां पद्मिनीम इव
ततः शांतनवॊ भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम
महता रथवंशेन सौभद्रं पर्यवारयत
कॊष्ठकी कृत्यतं वीरं धार्तराष्ट्रा महारथाः
एकं सुबहवॊ युद्धे ततक्षुः सायकैर दृढम
स तेषां रथिनां वीरः पितुस तुल्यपराक्रमः
सदृशॊ वासुदेवस्य विक्रमेण बलेन च
उभयॊः सदृशं कर्म स पितुर मातुलस्य च
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः
ततॊ धनंजयॊ राजन विनिघ्नंस तव सैनिकान
आससाद रणे भीष्मं पुत्र परेप्सुर अमर्षणः
तथैव समरे राजन पिता देवव्रतस तव
आससाद रणे पार्थं सवर्भानुर इव भास्करम
ततः सरथनागाश्वाः पुत्रास तव विशां पते
परिवव्रू रणे भीष्मं जुगुपुश च समन्ततः
तथैव पाण्डवा राजन परिवार्य धनंजयम
रणाय महते युक्ता दंशिता भरतर्षभ
शादद्वतस ततॊ राजन भीष्मस्य परमुखे सथितम
अर्जुनं पञ्चविंशत्या सायकानां समाचिनॊत
पत्युद्गम्याथ विव्याध सात्यकिस तं शितैः शरैः
पाण्डव परियकामार्थं शार्दूल इव कुञ्जरम
गौतमॊ ऽपि तवरायुक्तॊ माधवं नवभिः शरैः
हृदि विव्याध संक्रुद्धः कङ्कपत्र परिच्छदैः
शैनेयॊ ऽपि ततः करुद्धॊ भृशं विद्धॊ महारथः
गौतमान्त करं घॊरं समादत्त शिलीमुखम
तम आपतन्तं वेगेन शक्राशनिसमद्युतिम
दविधा चिच्छेद संक्रुद्धॊ दरौणिः परमकॊपनः
समुत्सृज्याथ शैनेयॊ गौतमं रथिनां वरम
अभ्यद्रवद रणे दरौणिं राहुः खे शशिनं यथा
तस्य दरॊणसुतश चापं दविधा चिच्छेद भारत
अथैनं छिन्नधन्वानं ताडयाम आस सायकैः
सॊ ऽनयत कार्मुकम आदाय शत्रुघ्नं भारसाधनम
दरौणिं षष्ट्या महाराज बाह्वॊर उरसि चार्पयत
स विद्धॊ वयथितश चैव मुहूर्तं कश्मलायुतः
निषसाद रथॊपस्थे धवजयष्टिम उपाश्रितः
परतिलभ्य ततः संज्ञां दरॊणपुत्रः परतापवान
वार्ष्णेयं समरे करुद्धॊ नाराचेन समर्दयत
शैनेयं स तु निर्भिद्य पराविशद धरणीतलम
वसन्त काले बलवान बिलं सर्वशिशुर यथा
ततॊ ऽपरेण भल्लेन माधवस्य धवजॊत्तमम
चिच्छेद समरे दरौणिः सिंहनादं ननाद च
पुनर चैनं शरैर घॊरैश छादयाम आस भारत
निदाघान्ते महाराज यथा मेघॊ दिवाकरम
सात्यकिश च महाराज शरजालं निहत्य तत
दरौणिम अभ्यपतत तूर्णं शरजालैर अनेकधा
तापयाम आस च दरौणिं शैनेयः परवीरहा
विमुक्तॊ मेघजालेन यथैव तपनस तथा
शराणां च सहस्रेण पुनर एनं समुद्यतम
सात्यकिश छादयाम आस ननाद च महाबलः
दृष्ट्वा पुत्रं तथा गरस्तं राहुणेव निशाकरम
अभ्यद्रवत शैनेयं भारद्वाजः परतापवान
विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे
परीप्सन सवसुतं राजन वार्ष्णेयेनाभितापितम
सात्यकिस तु रणे जित्वा गुरुपुत्रं महारथम
दरॊणं विव्याध विंशत्या सर्वपारशवैः शरैः
तदन्तरम अमेयात्मा कौन्तेयः शवेतवाहनः
अभ्यद्रवद रणे करुद्धॊ दरॊणं परति महारथः
ततॊ दरॊणश च पार्थश च समेयातां महामृधे
यथा बुधश च शुक्रश च महाराज नभस्तले
[धृ]
कथं दरॊणॊ महेष्वासः पाण्डवश च धनंजयः
समीयतू रणे शूरौ तन ममाचक्ष्व संजय
परियॊ हि पाण्डवॊ नित्यं भारद्वाजस्य धीमतः
आचार्यःश च रणे नित्यं परियः पार्थस्य संजय
ताव उभौ रथिनौ संख्ये दृप्तौ सिंहाव इवॊत्कटौ
कथं समीयतुर युद्धे भारद्वाज धनंजयौ
[स]
न दरॊणः समरे पार्थं जानीते परियम आत्मनः
कषत्रधर्मं पुरस्कृत्य पार्थॊ वा गुरुम आहवे
न कषत्रिया रणे राजन वर्जयन्ति परस्परम
निर्मर्यादं हि युध्यन्ते पितृभिर भरातृभिः सह
रणे भारत पार्थेन दरॊणॊ विद्धस तरिभिः शरैः
नाचिन्तयत तान बाणान पार्थ चापच्युतान युधि
शरवृष्ट्य पुनः पार्थश छादयाम आस तं रणे
परजज्वाल च रॊषेण गहने ऽगनिर इवॊत्थितः
ततॊ ऽरजुनं रणे दरॊणः शरैः संनतपर्वभिः
वारयाम आस राजेन्द्र नचिराद इव भारत
ततॊ दुर्यॊधनॊ राजा सुशर्माणम अचॊदयत
दरॊणस्य समरे राजन पार्ष्णिग्रहण कारणात
तरिगर्तराड अपि करुद्धॊ भृशम आयम्य कार्मुकम
छादयाम आस समरे पार्थं बाणैर अयॊमुखैः
ताभ्यां मुक्ताः शरा राजन्न अन्तरिक्षे विरेजिरे
हंसा इव महाराज शरत्काले नभस्तले
ते शराः पराप्य कौन्तेयं समस्ता विविशुः परभॊ
फलभार नतं यद्वत सवादु वृक्षं विहंगमाः
अर्जुनस तु रणे नादं विनद्य रथिनां वरः
तरिगर्तराजं समरे सपुत्रं विव्यधे शरैः
ते वध्यमानाः पार्थेन कालेनेव युगक्षये
पार्थम एवाभ्यवर्तन्त मरणे कृतनिश्चयाः
मुमुचुः शरवृष्टिं च पाण्डवस्य रथं परति
शरवृष्टिं ततस तां तु शरवर्षेण पाण्डवः
परतिजग्राह राजेन्द्र तॊयवृष्टिम इवाचलः
तत्राद्भुतम अपश्याम बीभत्सॊर हस्तलाघवम
विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदम
यद एकॊ वारयाम आस मारुतॊ ऽभरगणान इव
कर्मणा तेन पार्थस्य तुतुषुर देवदानवाः
अथ करुद्धॊ रणे पार्थस तरिगर्तान परति भारत
मुमॊचास्त्रं महाराज वायव्यं पृतना मुखे
परादुरासीत ततॊ वायुः कषॊभयाणॊ नभस्तलम
पातयन वै तरुगणान विनिघ्नंश चैव सैनिकान
ततॊ दरॊणॊ ऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम
शैलम अन्यन महाराज घॊरम अस्त्रं मुमॊच ह
दरॊणेन युधि निर्मुक्ते तस्मिन्न अस्त्रे महामृधे
परशशाम ततॊ वायुः परसन्नाश चाभवन दिशः
ततः पाण्डुसुतॊ वीरस तरिगर्तस्य रथव्रजान
निरुत्साहान रणे चक्रे विमुखान विपराक्रमान
ततॊ दुर्यॊधनॊ राजा कृपश च रथिनां वरः
अश्वत्थामा ततः शल्यः काम्बॊजश च सुदक्षिणः
विन्दानुविन्दाव आवन्त्यौ बाह्लिकश च स बाह्लिकः
महता रथवंशेन पार्थस्यावारयन दिशः
तथैव भगदत्तश च शरुतायुश च महाबलः
गजानीकेन भीमस्य ताव अवारयतां दिशः
भूरिश्रवाः शलश चैव सौबलश च विशां पते
शरौघैर विविधैस तूर्णं माद्रीपुत्राव अवारयन
भीष्मस तु सहितः सर्वैर धार्तराष्ट्रस्य सैनिकैः
युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत
आपतन्तं गजानीकं दृष्ट्वा पार्थॊ वृकॊदरः
लेलिहन सृक्किणी वीरॊ मृगराड इव कानने
ततस तु रथिनां शरेष्ठॊ गदां गृह्य महाहवे
अवप्लुत्य रथात तूर्णं तव सैन्यम अभीषयत
तम उदीक्ष्य गदाहस्तं ततस ते गजसादिनः
परिवव्रू रणे यत्ता भीमसेनं समन्ततः
गममध्यम अनुप्राप्तः पाण्डवश च वयराजत
मेघजालस्य महतॊ यथा मध्यगतॊ रविः
वयधमत स गजानीकं गदया पाण्डवर्षभः
महाभ्रजालम अतुलं मातरिश्वेव संततम
ते वध्यमाना बलिना भीमसेनेन दन्तिनः
आर्तनादं रणे चक्रुर गर्जन्तॊ जलदा इव
बहुधा दारितश चैव विषाणैस तत्र दन्तिभिः
फुल्लाशॊक निभः पार्थः शुशुभे रणमूर्धनि
विषाणे दन्तिनं गृह्य निर्विषाणम अथाकरॊत
विषाणेन च तेनैव कुम्भे ऽभयाहत्य दन्तिनम
पातयाम आस समरे दण्डहस्त इवान्तकः
शॊणिताक्तां गदां बिभ्रन मेदॊ मज्जा कृतच्छविः
कृताङ्गदः शॊणितेन रुद्रवत परत्यदृश्यत
एवं ते वध्यमानास तु हतशेषा महागजाः
पराद्रवन्त दिशॊ राजन विमृद्नन्तः सवकं बलम
दरवद्भिस तैर महानागैः समन्ताद भरतर्षभ
दुर्यॊधन बलं सर्वं पुनर आसीत परान उखम
[स]
मध्याह्ने तु महाराज संग्रामः समपद्यत
लॊकक्षयकरॊ रौद्रॊ भीष्मस्य सह सॊमकैः
गाङ्गेयॊ रथिनां शरेष्ठः पाण्डवानाम अनीकिनीम
वयधमन निशितैर बाणैः शतशॊ ऽथ सहस्रशः
संममर्द च तत सैन्यं पिता देवव्रतस तव
धान्यानाम इव लूनानां परकरं गॊगणा इव
धृष्टद्युम्नः शिखण्डी च विराटॊ दरुपदस तथा
भीष्मम आसाद्य समरे शरैर जघ्नुर महारथम
धृष्टद्युम्नं ततॊ विद्ध्वा विराटं च तरिभिः शरैः
दरुपदस्य च नाराचं परेषयाम आस भारत
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना
चुक्रुधुः समरे राजन पादस्पृष्टा इवॊरगाः
शिखण्डी तं च विव्याध भरतानां पितामहम
सत्रीमयं मनसा धयात्वा नास्मै पराहरद अच्युतः
धृष्टद्युम्नस तु समरे करॊधाद अग्निर इव जवलन
पितामहं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत
दरुपदः पञ्चविंशत्या विराटॊ दशभिः शरैः
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः
सॊ ऽतिविद्धॊ महाराज भीष्मः संख्ये महात्मभिः
वसन्ते पुष्पशबलॊ रक्ताशॊक इवाबभौ
तान परत्यविध्यद गाङ्गेयस तरिभिस तरिभिर अजिह्मगैः
दरुपदस्य च भल्लेन धनुश चिच्छेद मारिष
सॊ ऽनयत कार्मुकम आदाय भीष्मं विव्याध पञ्चभिः
सारथिं च तरिभिर बाणैः सुशितै रणमूर्धनि
ततॊ भीमॊ महाराज दरौपद्याः पञ्च चात्मजाः
केकया भरातरः पञ्च सात्यकिश चैव सात्वतः
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिर हितेप्सया
रिरक्षिषन्तः पाञ्चाल्यं धृट दयुम्न मुखन रणे
तथैव तावकाः सर्वे भीष्मरक्षार्थम उद्यताः
परत्युद्ययुः पाण्डुसेनां सह सैन्या नराधिप
तत्रासीत सुमहद युद्धं तव तेषां च संकुलम
नराश्वरथनागानां यम राष्ट्रविवर्धनम
रथी रथिनम आसाद्य पराहिणॊद यमसादनम
तथेतरान समासाद्य नरनागाश्वसादिनः
अनयन परलॊकाय शरैः संनतपर्वभिः
अस्त्रैश च विविधैर घॊरैस तत्र तत्र विशां पते
रथाश च रथिभिर हीना हतसारथयस तथा
विप्रद्रुताश्वाः समरे दिशॊ जग्मुः समन्ततः
मर्दमाना नरान राजन हयांश च सुबहून रणे
वातायमाना दृश्यन्ते गन्धर्वनगरॊपमाः
रथिनश च रथैर हीना वर्मिणस तेजसा युताः
कुण्डलॊष्णीषिणः सर्वे निष्काङ्गदविभूषिताः
देवपुत्रसमा रूपॊ शौर्ये शक्रसमा युधि
ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम
सर्वलॊकेश्वराः शूरास तत्र तत्र विशां पते
विप्रद्रुता वयदृश्यन्त पराकृता इव मानवाः
दन्तिनश च नरश्रेष्ठ विहीना वरसादिभिः
मृद्नन्तः सवान्य अनीकानि संपेतुः सर्वशब्दगाः
वर्मभिश चामरैश छत्रैः पताकाभिश च मारिष
कक्ष्याभिर अथ तॊत्त्रैश च घण्टाभिस तॊमरैस तथा
विशीर्णैर विप्रधावन्तॊ दृश्यन्ते सम दिशॊ दश
नगमेघप्रतीकाशैर जलदॊदय निस्वनैः
तथैव दन्तिभिर हीनान गजारॊहान विशां पते
परधावन्तॊ ऽनवपश्याम तव तेषां च संकुले
नानादेशसमुत्थांश च तुरगान हेमभूषितान
वातायमानान अद्राक्षं शतशॊ ऽथ सहस्रशः
अश्वारॊहान हतैर अश्वैर गृहीतासीन समन्ततः
दरवमाणान अपश्याम दराव्यमाणांश च संयुगे
गजॊ गजं समासाद्य दरवमाणं महारणे
ययौ विमृद्नंस तरसा पदातीन वाजिनस तथा
तथैव च रथान राजन संममर्द रणे गजः
रथश चैव समासाद्य पदातिं तुरगं तथा
वयमृद्नात समरे राजंस तुरगांश च नरान रणे
एवं ते बहुधा राजन परमृद्नन्तः परस्परम
तस्मिन रौद्रे तथा युद्धे वर्तमाने महाभये
परावर्तत नदी घॊरा शॊणितान्त्र तरङ्गिणी
अस्थि संचयसंघाटा केशशैवलशाद्वला
रथह्रदा शरावर्ता हयमीना दुरासदा
शीर्षॊपल समाकीर्णा हस्तिग्राहसमाकुला
कवचॊष्णीष फेनाढ्या धनुर दवीपासि कच्छपा
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी
करव्यादसंघसंकीर्णा यम राष्ट्रविवर्धिनी
तां नदीं कषत्रियाः शूरा हयनागरथप्लवैः
परतेरुर बहवॊ राजन भयं तयक्त्वा महाहवे
अपॊवाह रणे भीरून कश्मलेनाभिसंवृतान
यथा वैतरणी परेतान परेतराजपुरं परति
पराक्रॊशन कषत्रियास तत्र दृष्ट्वा तद वैशसं महत
दुर्यॊधनापराधेन कषयं गच्छन्ति कौरवाः
गुणवत्सु कथं दवेषं धार्तराष्ट्रॊ जनेश्वरः
कृतवान पाण्डुपुत्रेषु पापात्मा लॊभमॊहितः
एवं बहुविधा वाचः शरूयन्ते समात्र भारत
पाण्डव सवत संयुक्ताः पुत्राणां ते सुदारुणाः
ता निशम्य तदा वाचः सर्वयॊधैर उदाहृताः
आगस्कृत सर्वलॊकस्य पुत्रॊ दुर्यॊधनस तव
भीष्मं दरॊणं कृपं चैव शल्यं चॊवाच भारत
युध्यध्वम अनहंकाराः किं चिरं कुरुथेति च
ततः परववृते युद्धं कुरूणां पाण्डवैः सह
अक्षद्यूतकृतं राजन सुघॊरं वैशसं तदा
यत पुरा न निगृह्णीषे वार्यमाणॊ महात्मभिः
वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम
न हि पाण्डुसुता राजन स सैन्याः सपदानुगाः
रक्षन्ति समरे पराणान कौरवा वा विशां पते
एतस्मात कारणाद घॊरॊ वर्तते सम जनक्षयः
दैवाद वा पुरुषव्याघ्र तव चापनयान नृप
[स]
अर्जुनस तु नरव्याघ्र सुशर्मप्रमुखान नृपान
अनयत परेतराजस्य भवनं सायकैः शितैः
सुशर्मापि ततॊ बाणैः पार्थं विव्याध संयुगे
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः
तान निवार्य शरौघेण शक्रसूनुर महारथः
सुशर्मणॊ रणे यॊधान पराहिणॊद यमसादनम
ते वध्यमानाः पार्थेन कालेनेव युगक्षये
वयद्रवन्त रणे राजन भये जाते महारथाः
उत्सृज्य तुरगान के चिद रथान के चिच च मारिष
गजान अन्ये समुत्सृज्य पराद्रवन्त दिशॊ दश
अपरे तुद्यमानास तु वाजिनार रथा रणात
तवरया परया युक्ताः पराद्रवन्त विशां पते
पादाताश चापि शस्त्राणि समुत्सृज्य महारणे
निरपेक्षा वयधावन्त तेन तेन सम भारत
वार्यमाणाः सम बहुशस तरैगर्तेन सुशर्मणा
तथान्यैः पार्थिवश्रेष्ठैर न वयतिष्ठन्त संयुगे
तद बलं परद्रुतं दृष्ट्वा पुत्रॊ दुर्यॊधनस तव
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम
सर्वॊद्यॊगेन महता धनंजयम उपाद्रवत
तरिगर्ताधिपतेर अर्थे जीवितस्य विशां पते
स एकः समरे तस्थौ किरन बहुविधाञ शरान
भरातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः
तथैव पण्डवा राजन सर्वॊद्यॊगेन दंशिताः
परययुः फल्गुनार्थाय यत्र भीष्मॊ वयवस्थितः
जानन्तॊ ऽपि रणे शौर्यं घॊरं गाण्डीवधन्वनः
हाहाकारकृतॊत्साहा भीष्मं जग्मुः समन्ततः
ततस तालध्वजः शूरः पाण्डवानाम अनीकिनीम
छादयाम आस समरे शरैः संनतपर्वभिः
एकीभूतास ततः सर्वे कुरवः पाण्डवैः सह
अयुध्यन्त महाराज मध्यं पराप्ते दिवाकरे
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिर आयसैः
अतिष्ठद आहवे शूरः किरन बाणान सहस्रशः
तथैव दरुपदॊ राजा दरॊणं विद्ध्वा शितैः शरैः
पुनर विव्याध सप्तत्या सारथिं चास्य सप्तभिः
भीमसेनस तु राजानं बाह्लिकं परपितामहम
विद्ध्वानदन महानादं शार्दूल इव कानने
आर्जुनिश चित्रसेनेन विद्धॊ बहुभिर आशुगैः
चित्रसेनं तरिभिर बाणैर विव्याध हृदये भृशम
समागतौ तौ तु रणे महामात्रौ वयरॊचताम
यथा दिवि महाघॊरौ राजन बुध शनैश्चरौ
तस्याश्वांश चतुरॊ हत्वा सूतं च नवभिः शरैः
ननाद बलवन नादं सौभद्रः परवीरहा
हताश्वात तु रथात तूर्णम अवप्लुत्य महारथः
आरुरॊह रथं तूर्णं दुर्मुखस्य विशां पते
दरॊणश च दरुपदं विद्ध्वा शरैः संनतपर्वभिः
सारथिं चास्य विव्याध तवरमाणः पराक्रमी
पीड्यमानस ततॊ राजा दरुपदॊ वाहिनीमुखे
अपायाज जवनैर अश्वैः पूर्ववैरम अनुस्मरन
भीमसेनस तु राजानं मुहूराद इव बाह्लिकम
वयश्व सूत रथं चक्रे सर्वसैन्यस्य पश्यतः
स संभ्रमॊ महाराज संशयं परमं गतः
अवप्लुत्य ततॊ वाहाद बाह्लिकः पुरुषॊत्तमः
आरुरॊह रथं तूर्णं लक्ष्मणस्य महारथः
सात्यकिः कृतवर्माणं वारयित्वा महारथः
शारैर बहुविधै राजन्न आससाद पितामहम
स विद्ध्वा भारतं षष्ट्या निशितैर लॊमवाहिभिः
ननर्तेव रथॊपस्थे विधुन्वानॊ महद धनुः
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः
हेमचित्रां महावेगां नागकन्यॊपमां शुभाम
ताम आपतन्तीं सहसा मृत्युकल्पां सुतेजनाम
धवंसयाम आस वार्ष्णेयॊ लाघवेन महायशाः
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा
नयपतद धरणी पृष्ठे महॊल्केव गतप्रभा
वार्ष्णेयस तु ततॊ राजन सवां शक्तिं घॊरदर्शनाम
वेगवद गृह्य चिक्षेप पितामह रथं परति
वार्ष्णेय भुजवेगेन परणुन्ना सा महाहवे
अभिदुद्राव वेगेन कालरात्रिर यथा नरम
ताम आपतन्तीं सहसा दविधा चिच्छेद भारत
कषुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले
छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः
आजघानॊरसि करुद्धः परहसञ शत्रुकर्शनः
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज
परिवव्रू रणे भीष्मं माधवत्राणकारणात
ततः परववृते युद्धं तुमुलं लॊमहर्षणम
पाण्डवानां कुरूणां च समरे विजयैषिणाम
[स]
दृष्ट्वा भीष्मं रणे करुद्धं पाण्डवैर अभिसंवृतम
यथा मेघैर महाराज तपान्ते दिवि भास्करम
दुर्यॊधनॊ महाराज दुःशासनम अभाषत
एष शूरॊ महेष्वासॊ भीष्मः शत्रुनिषूदनः
छादितः पाण्डवैः शूरैः समन्ताद भरतर्षभ
तस्य कार्यं तवया वीर रक्षणं सुमहात्मनः
रक्ष्यमाणॊ हि समरे भीष्मॊ ऽसमाकं पितामहः
निहन्यात समरे यत्तान पाञ्चालान पाण्डवैः सह
तत्र कार्यम अहं मन्ये भीष्मस्यैवाभिरक्षणम
गॊप्ता हय एष महेष्वासॊ भीष्मॊ ऽसमाकं पितामहः
स भवान सर्वसैन्येन परिवार्य पितामहम
समरे दुष्करं कर्म कुर्वाणं परिरक्षतु
एवम उक्तस तु समरे पुत्रॊ दुःशासनस तव
परिवार्य सथितॊ भीष्मं सैन्येन महता वृतः
ततः शतसहस्रेण हयानां सुबलात्मजः
विमलप्रासहस्तानाम ऋष्टितॊमरधारिणाम
दर्पितानां सुवेगानां बलस्थानां पताकिनाम
शिक्षितैर युद्धकुशलैर उपेतानां नरॊत्तमैः
नकुलं सहदेवं च धर्मराजं च पाण्डवम
नयवारयन नरश्रेष्ठं परिवार्य समन्ततः
ततॊ दुर्यॊधनॊ राजा शूराणां हयसादिनाम
अयुतं परेषयाम आस पाण्डवानां निवारणे
तैः परविष्टैर महावेगैर गरुत्मद्भिर इवाहवे
खुराहता धरा राजंश चकम्पे च ननाद च
खुरशब्दश च सुमहान वाजिनां शुश्रुवे तदा
महावंशवनस्येव दह्यमानस्य पर्वते
उत्पतद्भिश च तैस तत्र समुद्धूतं महद रजः
दिवाकरपथं पराप्य छादयाम आस भास्करम
वेगवद्भिर हयैस तैस तु कषॊभितं पाण्डवं बलम
निपतद्भिर महावेगैर हंसैर इव महत सरः
हेषतां चैव शब्देन न पराज्ञायत किं चन
ततॊ युधिष्ठिरॊ राजा माद्रीपुत्रौ च पाण्डवौ
परत्यघ्नंस तरसा वेगं समरे हयसादिनाम
उद्वृत्तस्य महाराज परावृट्कालेन पूर्यतः
पौर्णमास्याम अम्बुवेगं यथा वेला महॊदधेः
ततस ते रथिनॊ राजञ शरैः संनतपर्वभिः
नयकृन्तन्न उत्तमाङ्गानि कायेभ्यॊ हयसादिनाम
ते निपेतुर महाराज निहता दृढधन्विभिः
नागैर इव महानागा यथा सयुर गिरिगह्वरे
ते ऽपि परासैः सुनिशितैः शरैः संनतपर्वभिः
नयकृन्तन्न उत्तमाङ्गानि विचरन्तॊ दिशॊ दश
अत्यासन्ना हयारॊहा ऋष्टिभिर भरतर्षभ
अच्छिनन्न उत्तमाङ्गानि फलानीव महाद्रुमात
स सादिनॊ हया राजंस तत्र तत्र निषूदिताः
पतिताः पात्यमानाश च शतशॊ ऽथ सहस्रशः
वध्यमाना हयास ते तु पराद्रवन्त भयार्दिताः
यथा सिंहान समासाद्य मृगाः पराणपरायणाः
पाण्डवास तु महाराज जित्वा शत्रून महाहवे
दध्मुः शङ्खांश च भेरीश च ताडयाम आसुर आहवे
ततॊ दुर्यॊधनॊ दृष्ट्वा दीनं सैन्यम अवस्थितम
अब्रवीद भरतश्रेष्ठ मद्रराजम इदं वचः
एष पाण्डुसुतॊ जयेष्ठॊ जित्वा मातुलमामकान
पश्यतां नॊ महाबाहॊ सेनां दरावयते बली
तं वारय महाबाहॊ वेलेव मकरालयम
तवं हि संश्रूयसे ऽतयर्थम असह्य बलविक्रमः
पुत्रस्य तव तद वाक्यं शरुत्वा शल्यः परतापवान
परययौ रथवंशेन यत्र राजा युधिष्ठिरः
तद आपतद वै सहसा शल्यस्य सुमहद बलम
महौघवेगं समरे वारयाम आस पाण्डवः
मद्रराजं च समरे धर्मराजॊ महारथः
दशभिः सायकैस तूर्णम आजघान सतनान्तरे
नकुलः सहदेवश च तरिभिस तरिभिर अजिह्मगैः
मद्रराजॊ ऽपि तान सर्वान आजघान तरिभिस तरिभिः
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः
माद्रीपुत्रौ च संरब्धौ दवाभ्यां दवाभ्याम अताडयत
ततॊ भीमॊ महाबाहुर दृष्ट्वा राजानम आहवे
मद्रराजवशं पराप्तं मृत्यॊर आस्य गतं यथा
अभ्यद्रवत संग्रामे युधिष्ठिरम अमित्रजित
ततॊ युद्धं महाघॊरं परावर्तत सुदारुणम
अपरां दिशम आस्थाय दयॊतमाने दिवाकरे
संजय उवाच
ततः पिता तव करुद्धॊ निशितैः सायकॊत्तमैः
आजघान रणे पार्थान सहसेनान समन्ततः
भीमं दवादशभिर विद्ध्वा सात्यकिं नवभिः शरैः
नकुलं च तरिभिर बाणैः सहदेवं च सप्तभिः
युधिष्ठिरं दवादशभिर बाह्वॊर उरसि चार्पयत
धृष्टद्युम्नं ततॊ विद्ध्वा विननाद महाबलः
तं दवादशार्धैर नकुलॊ माधवश च तरिभिः शरैः
धृष्टद्युम्नश च सप्तत्या भीमसेनश च पञ्चभिः
युधिष्ठिरॊ दवादशभिः परत्यविध्यत पितामहम
दरॊणस तु सात्यकिं विद्ध्वा भीमसेनम अविध्यत
एकैकं पञ्चभिर बाणैर यमदण्डॊपमैः शितैः
तौ च तं परत्यविध्येतां तरिभिस तरिभिर अजिह्मगैः
तॊत्त्रैर इव महानागं दरॊणं बराह्मणपुंगवम
सौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः
अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः
संग्रामे नाजहुर भीष्मं वध्यमानाः शितैः शरैः
तथैवान्ये वध्यमानाः पाण्डवेयैर महात्मभिः
पाण्डवान अभ्यवर्तन्त विविधायुधपाणयः
तथैव पाण्डवा राजन परिवव्रुः पितामहम
स समन्तात परिवृतॊ रथौघैर अपराजितः
गहने ऽगनिर इवॊत्सृष्टः परजज्वाल दहन परान
रथाग्न्यगारश चापार्चिर असिशक्तिगदेन्धनः
शरस्फुलिङ्गॊ भीष्माग्निर ददाह कषत्रियर्षभान
सुवर्णपुङ्खैर इषुभिर गार्ध्रपक्षैः सुतेजनैः
कर्णिनालीकनाराचैश छादयाम आस तद बलम
अपातयद धवजांश चैव रथिनश च शितैः शरैः
मुण्डतालवनानीव चकार स रथव्रजान
निर्मनुष्यान रथान राजन गजान अश्वांश च संयुगे
अकरॊत स महाबाहुः सर्वशस्त्रभृतां वरः
तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः
निशम्य सर्वभूतानि समकम्पन्त भारत
अमॊघा हय अपतन बाणाः पितुस ते भरतर्षभ
नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः
हतवीरान रथान राजन संयुक्ताञ जवनैर हयैः
अपश्याम महाराज हरियमाणान रणाजिरे
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश
महारथाः समाख्याताः कुलपुत्रास तनुत्यजः
अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः
संग्रामे भीष्मम आसाद्य वयादितास्यम इवान्तकम
निमग्नाः परलॊकाय स वाजिरथकुञ्जराः
भग्नाक्षॊपस्करान कांश चिद भग्नचक्रांश च सर्वशः
अपश्याम रथान राजञ शतशॊ ऽथ सहस्रशः
सवरूथै रथैर भग्नै रथिभिश च निपातितैः
शरैः सुकवचैश छिन्नैः पट्टिशैश च विशां पते
गदाभिर मुसलैश चैव निस्त्रिंशैश च शिलीमुखैः
अनुकर्षैर उपासङ्गैश चक्रैर भग्नैश च मारिष
बाहुभिः कार्मुकैः खड्गैः शिरॊभिश च सकुण्डलैः
तलत्रैर अङ्गुलित्रैश च धवजैश च विनिपातितैः
चापैश च बहुधा छिन्नैः समास्तीर्यत मेदिनी
हतारॊहा गजा राजन हयाश च हतसादिनः
परिपेतुर दरुतं तत्र शतशॊ ऽथ सहस्रशः
यतमानाश च ते वीरा दरवमाणान महारथान
नाशक्नुवन वारयितुं भीष्मबाणप्रपीडितान
महेन्द्रसमवीर्येण वध्यमाना महाचमूः
अभज्यत महाराज न च दवौ सह धावतः
आविद्धरथनागाश्वं पतितध्वजकूबरम
अनीकं पाण्डुपुत्राणां हाहाभूतम अचेतनम
जघानात्र पिता पुत्रं पुत्रश च पितरं तथा
परियं सखायं चाक्रन्दे सखा दैवबलात्कृतः
विमुच्य कवचान अन्ये पाण्डुपुत्रस्य सैनिकाः
परकीर्य केशान धावन्तः परत्यदृश्यन्त भारत
तद गॊकुलम इवॊद्भ्रान्तम उद्भ्रान्तरथकुञ्जरम
ददृशे पाण्डुपुत्रस्य सैन्यम आर्तस्वरं तदा
परभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः
उवाच पार्थं बीभत्सुं निगृह्य रथम उत्तमम
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस तव
परहरास्मै नरव्याघ्र न चेन मॊहात परमुह्यसे
यत पुरा कथितं वीर तवया राज्ञां समागमे
विराटनगरे पार्थ संजयस्य समीपतः
भीष्मद्रॊणमुखान सर्वान धार्तराष्ट्रस्य सैनिकान
सानुबन्धान हनिष्यामि ये मां यॊत्स्यन्ति संयुगे
इति तत कुरु कौन्तेय सत्यं वाक्यम अरिंदम
कषत्रधर्मम अनुस्मृत्य युध्यस्व भरतर्षभ
इत्य उक्तॊ वासुदेवेन तिर्यग्दृष्टिर अधॊमुखः
अकाम इव बीभत्सुर इदं वचनम अब्रवीत
अवध्यानां वधं कृत्वा राज्यं वा नरकॊत्तरम
दुःखानि वनवासे वा किं नु मे सुकृतं भवेत
चॊदयाश्वान यतॊ भीष्मः करिष्ये वचनं तव
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम
ततॊ ऽशवान रजतप्रख्यांश चॊदयाम आस माधवः
यतॊ भीष्मस ततॊ राजन दुष्प्रेक्ष्यॊ रश्मिवान इव
ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत
दृष्ट्वा पार्थं महाबाहुं भीष्मायॊद्यन्तम आहवे
ततॊ भीष्मः कुरुश्रेष्ठः सिंहवद विनदन मुहुः
धनंजयरथं शीघ्रं शरवर्षैर अवाकिरत
कषणेन स रथस तस्य सहयः सहसारथिः
शरवर्षेण महता न परज्ञायत किं चन
वासुदेवस तव असंभ्रान्तॊ धैर्यम आस्थाय सात्वतः
चॊदयाम आस तान अश्वान वितुन्नान भीष्मसायकैः
ततः पार्थॊ धनुर गृह्य दिव्यं जलदनिस्वनम
पातयाम आस भीष्मस्य धनुश छित्त्वा शितैः शरैः
स चछिन्नधन्वा कौरव्यः पुनर अन्यन महद धनुः
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव
विचकर्ष ततॊ दॊर्भ्यां धनुर जलदनिस्वनम
अथास्य तद अपि करुद्धश चिच्छेद धनुर अर्जुनः
तस्य तत पूजयाम आस लाघवं शंतनॊः सुतः
साधु पार्थ महाबाहॊ साधु कुन्तीसुतेति च
समाभाष्यैनम अपरं परगृह्य रुचिरं धनुः
मुमॊच समरे भीष्मः शरान पार्थरथं परति
अदर्शयद वासुदेवॊ हययाने परं बलम
मॊघान कुर्वञ शरांस तस्य मण्डलानि विदर्शयन
शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ
गॊवृषाव इव संरब्धौ विषाणॊल्लिखिताङ्कितौ
वासुदेवस तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम
भीष्मं च शरवर्षाणि सृजन्तम अनिशं युधि
परतपन्तम इवादित्यं मध्यम आसाद्य सेनयॊः
वरान वरान विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान
युगान्तम इव कुर्वाणं भीष्मं यौधिष्ठिरे बले
नामृष्यत महाबाहुर माधवः परवीरहा
उत्सृज्य रजतप्रख्यान हयान पार्थस्य मारिष
करुद्धॊ नाम महायॊगी परचस्कन्द महारथात
अभिदुद्राव भीष्मं स भुजप्रहरणॊ बली
परतॊदपाणिस तेजस्वी सिंहवद विनदन मुहुः
दारयन्न इव पद्भ्यां स जगतीं जगतीश्वरः
करॊधताम्रेक्षणः कृष्णॊ जिघांसुर अमितद्युतिः
गरसन्न इव च चेतांसि तावकानां महाहवे
दृष्ट्वा माधवम आक्रन्दे भीष्मायॊद्यन्तम आहवे
हतॊ भीष्मॊ हतॊ भीष्म इति तत्र सम सैनिकाः
करॊशन्तः पराद्रवन सर्वे वासुदेवभयान नराः
पीतकौशेयसंवीतॊ मणिश्यामॊ जनार्दनः
शुशुभे विद्रवन भीष्मं विद्युन्माली यथाम्बुदः
स सिंह इव मातङ्गं यूथर्षभ इवर्षभम
अभिदुद्राव तेजस्वी विनदन यादवर्षभः
तम आपतन्तं संप्रेक्ष्य पुण्डरीकाक्षम आहवे
असंभ्रमं रणे भीष्मॊ विचकर्ष महद धनुः
उवाच चैनं गॊविन्दम असंभ्रान्तेन चेतसा
एह्य एहि पुण्डरीकाक्ष देवदेव नमॊ ऽसतु ते
माम अद्य सात्वतश्रेष्ठ पातयस्व महाहवे
तवया हि देव संग्रामे हतस्यापि ममानघ
शरेय एव परं कृष्ण लॊके ऽमुष्मिन्न इहैव च
संभावितॊ ऽसमि गॊविन्द तरैलॊक्येनाद्य संयुगे
अन्वग एव ततः पार्थस तम अनुद्रुत्य केशवम
निजग्राह महाबाहुर बाहुभ्याम परिगृह्य वै
निगृह्यमाणः पार्थेन कृष्णॊ राजीवलॊचनः
जगाम चैनम आदाय वेगेन पुरुषॊत्तमः
पार्थस तु विष्टभ्य बलाच चरणौ परवीरहा
निजघ्राह हृषीकेशं कथं चिद दशमे पदे
तत एनम उवाचार्तः करॊधपर्याकुलेक्षणम
निःश्वसन्तं यथा नागम अर्जुनः परवीरहा
निवर्तस्व महाबाहॊ नानृतं कर्तुम अर्हसि
यत तवया कथितं पूर्वं न यॊत्स्यामीति केशव
मिथ्यावादीति लॊकस तवां कथयिष्यति माधव
ममैष भारः सर्वॊ हि हनिष्यामि यतव्रतम
शपे माधव सख्येन सत्येन सुकृतेन च
अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन
अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम
तारापतिम इवापूर्णम अन्तकाले यदृच्छया
माधवस तु वचः शरुत्वा फल्गुनस्य महात्मनः
न किं चिद उक्त्वा सक्रॊध आरुरॊह रथं पुनः
तौ रथस्थौ नरव्याघ्रौ भीष्मः शांतनवः पुनः
ववर्ष शरवर्षेण मेघॊ वृष्ट्या यथाचलौ
पराणांश चादत्त यॊधानां पिता देवव्रतस तव
गभस्तिभिर इवादित्यस तेजांसि शिशिरात्यये
यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः
तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता
हतविद्रुतसैन्यास तु निरुत्साहा विचेतसः
निरीक्षितुं न शेकुस ते भीष्मम अप्रतिमं रणे
मध्यं गतम इवादित्यं परतपन्तं सवतेजसा
ते वध्यमाना भीष्मेण कालेनेव युगक्षये
वीक्षां चक्रुर महाराज पाण्डवा भयपीडिताः
तरातारं नाध्यगच्छन्त गावः पङ्कगता इव
पिपीलिका इव कषुण्णा दुर्बला बलिना रणे
महारथं भारत दुष्प्रधर्षं; शरौघिणं परतपन्तं नरेन्द्रान
भीष्मं न शेकुः परतिवीक्षितुं ते; शरार्चिषं सूर्यम इवातपन्तम
विमृद्नतस तस्य तु पाण्डुसेनाम; अस्तं जगामाथ सहस्ररश्मिः
ततॊ बलानां शरमकर्शितानां; मनॊ ऽवहारं परति संबभूव
संजय उवाच
युध्यताम एव तेषां तु भास्करे ऽसतम उपागते
संध्या समभवद घॊरा नापश्याम ततॊ रणम
ततॊ युधिष्ठिरॊ राजा संध्यां संदृश्य भारत
वध्यमानं बलं चापि भीष्मेणामित्रघातिना
मुक्तशस्त्रं परावृत्तं पलायनपरायणम
भीष्मं च युधि संरब्धम अनुयान्तं महारथान
सॊमकांश च जितान दृष्ट्वा निरुत्साहान महारथान
चिन्तयित्वा चिरं धयात्वा अवहारम अरॊचयत
ततॊ ऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः
तथैव तव सैन्यानाम अवहारॊ हय अभूत तदा
ततॊ ऽवहारं सैन्यानां कृत्वा तत्र महारथाः
नयविशन्त कुरुश्रेष्ठ संग्रामे कषतविक्षताः
भीष्मस्य समरे कर्म चिन्तयानास तु पाण्डवाः
नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः
भीष्मॊ ऽपि समरे जित्वा पाण्डवान सह सृञ्जयैः
पूज्यमानस तव सुतैर वन्द्यमानश च भारत
नयविशत कुरुभिः सार्धं हृष्टरूपैः समन्ततः
ततॊ रात्रिः समभवत सर्वभूतप्रमॊहिनी
तस्मिन रात्रिमुखे घॊरे पाण्डवा वृष्णिभिः सह
सृञ्जयाश च दुराधर्षा मन्त्राय समुपाविशन
आत्मनिःश्रेयसं सर्वे पराप्तकालं महाबलाः
मन्त्रयाम आसुर अव्यग्रा मन्त्रनिश्चयकॊविदाः
ततॊ युधिष्ठिरॊ राजा मन्त्रयित्वा चिरं नृप
वासुदेवं समुद्वीक्ष्य वाक्यम एतद उवाच ह
पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम
गजं नलवनानीव विमृद्नन्तं बलं मम
न चैवैनं महात्मानम उत्सहामॊ निरीक्षितुम
लेलिह्यमानं सैन्येषु परवृद्धम इव पावकम
यथा घॊरॊ महानागस तक्षकॊ वै विषॊल्बणः
तथा भीष्मॊ रणे कृष्ण तीष्क्णशस्त्रः परतापवान
गृहीतचापः समरे विमुञ्चंश च शिताञ शरान
शक्यॊ जेतुं यमः करुद्धॊ वज्रपाणिश च देवराट
वरुणः पाशभृद वापि सगदॊ वा धनेश्वरः
न तु भीष्मः सुसंक्रुद्धः शक्यॊ जेतुं महाहवे
सॊ ऽहम एवं गते कृष्ण निमग्नः शॊकसागरे
आत्मनॊ बुद्धिदौर्बल्याद भीष्मम आसाद्य संयुगे
वनं यास्यामि दुर्धर्ष शरेयॊ मे तत्र वै गतम
न युद्धं रॊचये कृष्ण हन्ति भीष्मॊ हि नः सदा
यथा परज्वलितं वह्निं पतंगः समभिद्रवन
एकतॊ मृत्युम अभ्येति तथाहं भीष्मम ईयिवान
कषयं नीतॊ ऽसमि वार्ष्णेय राज्यहेतॊः पराक्रमी
भरातरश चैव मे शूराः सायकैर भृशपीडिताः
मत्कृते भरातृसौहार्दाद राज्यात परभ्रंशनं गताः
परिक्लिष्टा यथा कृष्णा मत्कृते मधुसूदन
जीवितं बहु मन्ये ऽहं जीवितं हय अद्य दुर्लभम
जीवितस्याद्य शेषेण चरिष्ये धर्मम उत्तमम
यदि ते ऽहम अनुग्राह्यॊ भरातृभिः सह केशव
सवधर्मस्याविरॊधेन तद उदाहर केशव
एतच छरुत्वा वचस तस्य कारुण्याद बहुविस्तरम
परत्युवाच ततः कृष्णः सान्त्वयानॊ युधिष्ठिरम
धर्मपुत्र विषादं तवं मा कृथाः सत्यसंगर
यस्य ते भरातरः शूरा दुर्जयाः शत्रुसूदनाः
अर्जुनॊ भीमसेनश च वाय्वग्निसमतेजसौ
माद्रीपुत्रौ च विक्रान्तौ तरिदशानाम इवेश्वरौ
मां वा नियुङ्क्ष्व सौहार्दाद यॊत्स्ये भीष्मेण पाण्डव
तवत्प्रयुक्तॊ हय अहं राजन किं न कुर्यां महाहवे
हनिष्यामि रणे भीष्मम आहूय पुरुषर्षभम
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः
यदि भीष्मे हते राजञ जयं पश्यसि पाण्डव
हन्तास्म्य एकरथेनाद्य कुरुवृद्धं पितामहम
पश्य मे विक्रमं राजन महेन्द्रस्येव संयुगे
विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात
यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः
मदर्था भवदर्था ये ये मदीयास तवैव ते
तव भराता मम सखा संबन्धी शिष्य एव च
मांसान्य उत्कृत्य वै दद्याम अर्जुनार्थे महीपते
एष चापि नरव्याघ्रॊ मत्कृते जीवितं तयजेत
एष नः समयस तात तारयेम परस्परम
स मां नियुङ्क्ष्व राजेन्द्र यावद दवीपॊ भवाम्य अहम
परतिज्ञातम उपप्लव्ये यत तत पार्थेन पूर्वतः
घातयिष्यामि गाङ्गेयम इत्य उलूकस्य संनिधौ
परिरक्ष्यं च मम तद वचः पार्थस्य धीमतः
अनुज्ञातं तु पार्थेन मया कार्यं न संशयः
अथ वा फल्गुनस्यैष भारः परिमितॊ रणे
निहनिष्यति संग्रामे भीष्मं परपुरंजयम
अशक्यम अपि कुर्याद धि रणे पार्थः समुद्यतः
तरिदशान वा समुद्युक्तान सहितान दैत्यदानवैः
निहन्याद अर्जुनः संख्ये किम उ भीष्मं नराधिप
विपरीतॊ महावीर्यॊ गतसत्त्वॊ ऽलपजीवितः
भीष्मः शांतनवॊ नूनं कर्तव्यं नावबुध्यते
युधिष्ठिर उवाच
एवम एतन महाबाहॊ यथा वदसि माधव
सर्वे हय एते न पर्याप्तास तव वेगनिवारणे
नियतं समवाप्स्यामि सर्वम एव यथेप्सितम
यस्य मे पुरुषव्याघ्र भवान नाथॊ महाबलः
सेन्द्रान अपि रणे देवाञ जयेयं जयतां वर
तवया नाथेन गॊविन्द किम उ भीष्मं महाहवे
न तु तवाम अनृतं कर्तुम उत्सहे सवार्थगौरवात
अयुध्यमानः साहाय्यं यथॊक्तं कुरु माधव
समयस तु कृतः कश चिद भीष्मेण मम माधव
मन्त्रयिष्ये तवार्थाय न तु यॊत्स्ये कथं चन
दुर्यॊधनार्थे यॊत्स्यामि सत्यम एतद इति परभॊ
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव
तस्माद देवव्रतं भूयॊ वधॊपायार्थम आत्मनः
भवता सहिताः सर्वे पृच्छामॊ मधुसूदन
तद वयं सहिता गत्वा भीष्मम आशु नरॊत्तमम
रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम
स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन
यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे
स नॊ जयस्य दाता च मन्त्रस्य च धृतव्रतः
बालाः पित्रा विहीनाश च तेन संवर्धिता वयम
तं चेत पितामहं वृद्धं हन्तुम इच्छामि माधव
पितुः पितरम इष्टं वै धिग अस्तु कषत्रजीविकाम
संजय उवाच
ततॊ ऽबरवीन महाराज वार्ष्णेयः कुरुनन्दनम
रॊचते मे महाबाहॊ सततं तव भाषितम
देवव्रतः कृती भीष्मः परेक्षितेनापि निर्दहेत
गम्यतां स वधॊपायं परष्टुं सागरगासुतः
वक्तुम अर्हति सत्यं स तवया पृष्टॊ विशेषतः
ते वयं तत्र गच्छामः परष्टुं कुरुपितामहम
परणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव
स नॊ दास्यति यं मन्त्रं तेन यॊत्स्यामहे परान
एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज
जग्मुस ते सहिताः सर्वे वासुदेवश च वीर्यवान
विमुक्तशस्त्रकवचा भीष्मस्य सदनं परति
परविश्य च तदा भीष्मं शिरॊभिः परतिपेदिरे
पूजयन्तॊ महाराज पाण्डवा भरतर्षभ
परणम्य शिरसा चैनं भीष्मं शरणम अन्वयुः
तान उवाच महाबाहुर भीष्मः कुरुपितामहः
सवागतं तव वार्ष्णेय सवागतं ते धनंजय
सवागतं धर्मपुत्राय भीमाय यमयॊस तथा
किं कार्यं वः करॊम्य अद्य युष्मत्प्रीतिविवर्धनम
सर्वात्मना च कर्तास्मि यद्य अपि सयात सुदुष्करम
तथा बरुवाणं गाङ्गेयं परीतियुक्तं पुनः पुनः
उवाच वाक्यं दीनात्मा धर्मपुत्रॊ युधिष्ठिरः
कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि
परजानां संक्षयॊ न सयात कथं तन मे वदाभिभॊ
भवान हि नॊ वधॊपायं बरवीतु सवयम आत्मनः
भवन्तं समरे राजन विषहेम कथं वयम
न हि ते सूक्ष्मम अप्य अस्ति रन्ध्रं कुरुपितामह
मण्डलेनैव धनुषा सदा दृश्यॊ ऽसि संयुगे
नाददानम संदधानं विकर्षन्तं धनुर न च
पश्यामस तवा महाबाहॊ रथे सूर्यम इव सथितम
नराश्वरथनागानां हन्तारं परवीरहन
क इवॊत्सहते हन्तुं तवां पुमान भरतर्षभ
वर्षता शरवर्षाणि महान्ति पुरुषॊत्तम
कषयं नीता हि पृतना भवता महती मम
यथा युधि जयेयं तवां यथा राज्यं भवेन मम
भवेत सैन्यस्य वा शान्तिस तन मे बरूहि पितामह
ततॊ ऽबरवीच छांतनवः पाण्डवान पाण्डुपूर्वज
न कथं चन कौन्तेय मयि जीवति संयुगे
युष्मासु दृश्यते वृद्धिः सत्यम एतद बरवीमि वः
निर्जिते मयि युद्धे तु धरुवं जेष्यथ कौरवान
कषिप्रं मयि परहरत यदीच्छथ रणे जयम
अनुजानामि वः पार्थाः परहरध्वं यथासुखम
एवं हि सुकृतं मन्ये भवतां विदितॊ हय अहम
हते मयि हतं सर्वं तस्माद एवं विधीयताम
युधिष्ठिर उवाच
बरूहि तस्माद उपायं नॊ यथा युद्धे जयेमहि
भवन्तं समरे करुद्धं दण्डपाणिम इवान्तकम
शक्यॊ वज्रधरॊ जेतुं वरुणॊ ऽथ यमस तथा
न भवान समरे शक्यः सेन्द्रैर अपि सुरासुरैः
भीष्म उवाच
सत्यम एतन महाबाहॊ यथा वदसि पाण्डव
नाहं शक्यॊ रणे जेतुं सेन्द्रैर अपि सुरासुरैः
आत्तशस्त्रॊ रणे यत्तॊ गृहीतवरकार्मुकः
नयस्तशस्त्रं तु मां राजन हन्युर युधि महारथाः
निष्किप्तशस्त्रे पतिते विमुक्तकवचध्वजे
दरवमाणे च भीते च तवास्मीति च वादिनि
सत्रियां सत्रीनामधेये च विकले चैकपुत्रके
अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रॊचते मम
इमं च शृणु मे पार्थ संकल्पं पूर्वचिन्तितम
अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथं चन
य एष दरौपदॊ राजंस तव सैन्ये महारथः
शिखण्डी समराकाङ्क्षी शूरश च समितिंजयः
यथाभवच च सत्री पूर्वं पश्चात पुंस्त्वम उपागतः
जानन्ति च भवन्तॊ ऽपि सर्वम एतद यथातथम
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम
माम एव विशिखैस तूर्णम अभिद्रवतु दंशितः
अमङ्गल्यध्वजे तस्मिन सत्रीपूर्वे च विशेषतः
न परहर्तुम अभीप्सामि गृहीतेषुं कथं चन
तद अन्तरं समासाद्य पाण्डवॊ मां धनंजयः
शरैर घातयतु कषिप्रं समन्ताद भरतर्षभ
न तं पश्यामि लॊकेषु यॊ मां हन्यात समुद्यतम
ऋते कृष्णान महाभागात पाण्डवाद वा धनंजयात
एष तस्मात पुरॊधाय कं चिद अन्यं ममाग्रतः
मां पातयतु बीभत्सुर एवं ते विजयॊ भवेत
एतत कुरुष्व कौन्तेय यथॊक्तं वचनं मम
ततॊ जेष्यसि संग्रामे धार्तराष्ट्रान समागतान
संजय उवाच
ते ऽनुज्ञातास ततः पार्था जग्मुः सवशिबिरं परति
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम
तथॊक्तवति गाङ्गेये परलॊकाय दीक्षिते
अर्जुनॊ दुःखसंतप्तः सव्रीडम इदम अब्रवीत
गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता
पितामहेन संग्रामे कथं यॊत्स्यामि माधव
करीडता हि मया बाल्ये वासुदेव महामनाः
पांसुरूषितगात्रेण महात्मा परुषीकृतः
यस्याहम अधिरुह्याङ्कं बालः किल गदाग्रज
तातेत्य अवॊचं पितरं पितुः पाण्डॊर महात्मनः
नाहं तातस तव पितुस तातॊ ऽसमि तव भारत
इति माम अब्रवीद बाल्ये यः स वध्यः कथं मया
कामं वध्यतु मे सैन्यं नाहं यॊत्स्ये महात्मना
जयॊ वास्तु वधॊ वा मे कथं वा कृष्ण मन्यसे
शरीकृष्ण उवाच
परतिज्ञाय वधं जिष्णॊ पुरा भीष्मस्य संयुगे
कषत्रधर्मे सथितः पार्थ कथं नैनं हनिष्यसि
पातयैनं रथात पार्थ वज्राहतम इव दरुमम
नाहत्वा युधि गाङ्गेयं विजयस ते भविष्यति
दिष्टम एतत पुरा देवैर भविष्यत्य अवशस्य ते
हन्ता भीष्मस्य पूर्वेन्द्र इति तन न तद अन्यथा
न हि भीष्मं दुराधर्षं वयात्ताननम इवान्तकम
तवदन्यः शक्नुयाद धन्तुम अपि वज्रधरः सवयम
जहि भीष्मं महाबाहॊ शृणु चेदं वचॊ मम
यथॊवाच पुरा शक्रं महाबुद्धिर बृहस्पतिः
जयायांसम अपि चेच छक्र गुणैर अपि समन्वितम
आततायिनम आमन्त्र्य हन्याद घातकम आगतम
शाश्वतॊ ऽयं सथितॊ धर्मः कषत्रियाणां धनंजय
यॊद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः
अर्जुन उवाच
शिखण्डी निधनं कृष्ण भीष्मस्य भविता धरुवम
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते
ते वयं परमुखे तस्य सथापयित्वा शिखण्डिनम
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः
अहम अन्यान महेष्वासान वारयिष्यामि सायकैः
शिखण्ड्य अपि युधां शरेष्ठॊ भीष्मम एवाभियास्यतु
शरुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम
कन्या हय एषा पुरा जाता पुरुषः समपद्यत
संजय उवाच
इत्य एवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः
शयनानि यथास्वानि भेजिरे पुरुषर्षभाः
[धृ]
कथं शिखण्डी गाङ्गेयम अभ्यवर्तत संयुगे
पाण्डवाश च तथा भीष्मं तन ममाचक्ष्व संजय
[स]
ततः परभाते विमले सूर्यस्यॊदयनं परति
वाद्यमानासु भेरीषु मृदङ्गेष्व आनकेषु च
धमायत्सु दधि वर्णेषु जलजेषु समन्ततः
शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि
कृत्वा वयूहं महाराज सर्वशत्रुनिबर्हणम
शिखण्डी सर्वसैन्यानाम अग्र आसीद विशां पते
चक्ररक्षौ ततस तस्य भिमसेन धनंजयौ
पृष्ठतॊ दरौपदेयाश च सौभद्रश चैव वीर्यवान
सात्यकिश चेकितानश च तेषां गॊप्ता महारथः
धृष्टद्युम्नस ततः पश्चात पाञ्चालैर अभिरक्षितः
ततॊ युधिष्ठिरॊ राजा यमाभ्यां सहितः परभुः
परययौ सिंहनादेन नादयन भरतर्षभ
विराटस तु ततः पश्चात सवेन सैन्येन संवृतः
दरुपदश च महाराज ततः पश्चाद उपाद्रवत
केकया भरातरः पञ्च धृष्टकेतुश च वीर्यवान
जघनं पालयाम आस पाण्डुसैन्यस्य भारत
एवं वयूह्य महत सैन्यं पाण्डवास तव वाहिनीम
अभ्यद्रवन्त संग्रामे तयक्त्वा जीवितम आत्मनः
तथैव कुरवॊ राजन भीष्मं कृत्वा महाबलम
अग्रतः सर्वसैन्यानां परययुः पाण्डवान परति
पुत्रैस तव दुराधर्षै रक्षितः सुमहाबलैः
ततॊ दरॊणॊ महेष्वासः पुत्रश चास्य महारथः
भगदत्तस ततः पश्चाद गजानीकेन संवृतः
कृपश च कृप वर्मा च भगदत्तम अनुव्रतौ
काम्बॊजराजॊ बलवांस ततः पश्चात सुदक्षिणः
मागधश च जयत्सेनः सौबलश च बृहद्बलः
तथेतेरे महेष्वासाः सुशर्मप्रमुखा नृपाः
जघनं पालयाम आसुस तव सैन्यस्य भारत
दिवसे दिवसे पराप्ते भीष्मः शांतनवॊ युधि
आसुरान अकरॊद वयूहान पैशाचान अथ राक्षसान
ततः परववृते युद्धं तव तेषां च भारत
अन्यॊन्यं निघ्नतां राजन्यम अराष्ट्र विवर्धनम
अर्जुन परमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम
भीष्मं युद्धे ऽभयवर्तन्त किरन्तॊ विविधाञ शरान
तत्र भारत भीमेन पीडितास तावकाः शरैः
रुधिरौघपरिक्लिन्नाः परलॊकं ययुस तदा
नकुलः सहदेवश च सात्यकिश च महारथः
तव सैन्यं समासाद्य पीडयाम आसुर ओजसा
ते वध्यमानाः समरे तावका भरतर्षभ
नाशक्नुवन वारयितुं पाण्डवानां महद बलम
ततस तु तावकं सैन्यं वध्यमानं समन्ततः
संप्राद्रवद दिशॊ राजन काल्यमानं महारथैः
तरातारं नाध्यगच्छन्त तावका भरतर्षभ
वध्यमानाः शितैर आणैः पाण्डवैः सह सृञ्जयैः
[धृ]
पीड्यमानं बलं पार्थैर दृष्ट्वा भीष्मः पराक्रमी
यद अकार्षीद रणे करुद्धस तन ममाचक्ष्व संजय
कथं वा पाण्डवान युद्धे परत्युद्यातः परंतपः
विनिघ्नन सॊमकान वीरांस तन ममाचक्ष्व संजय
[स]
आचक्षे ते महाराज यद अकार्षीत पितामहः
पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः
परहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज
अभ्यवर्तन्त निघ्नन्तस तव पुत्रस्य वाहिनीम
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः
स पाण्डवान महेष्वासः पाञ्चालांश च स सृञ्जयान
अभ्यद्रवत दुर्धर्षस तयक्त्वा जीवितम आत्मनः
स पाण्डवानां परवरान पञ्च राजन महारथान
आत्तशस्त्रान रणे यत्तान वारयाम आस सायकैः
नाराचैर वत्सदन्तैश च शितैर अञ्जलिकैस तथा
निजघ्ने समरे करुद्धॊ हस्त्यश्वम अमितं बहु
रथिनॊ ऽपातयद राजन रथेभ्यः पुरुषर्षभः
सादिनश चाश्वपृष्ठेभ्यः पदातींश च समागतान
गजारॊहान गजेभ्यश च परेषां विदधद भयम
तम एकं समरे भीष्मं तवरमाणं महारथम
पाण्डवाः समवर्तन्त वज्रपाणिम इवासुराः
शक्राशनिसमस्पर्शान विमुञ्चन निशिकाञ शरान
दिक्ष्व अदृश्यत सर्वासु घॊरं संधरयन वपुः
मण्डलीकृतम एवास्य नित्यं धनुर अदृश्यत
संग्रामे युध्यमानस्य शक्रचापनिभं महत
तद दृष्ट्वा समरे कर्म तव पुत्रा विशां पते
विस्मयं परमं पराप्ताः पितामहम अपूजयन
पार्था विमनसॊ भूत्वा परैक्षन्त पितरं तव
युध्यमानं रणे शूरं विप्रचीतिम इवामराः
न चैनं वारयाम आसुर वयात्ताननम इवान्तकम
दशमे ऽहनि संप्राप्ते रथानीकं शिखण्डिनः
अदहन निशितैर बाणैः कृष्ण वर्त्मेव काननम
तं शिखण्डी तरिभिर बाणैर अभ्यविध्यत सतनान्तरे
आशीविषम इव करुद्धं कालसृष्टम इवान्तकम
स तेनातिभृशं विद्धः परेक्ष्य भीष्मः शिखण्डिनम
अनिच्छन्न अपि संक्रुद्धः परहसन्न इदम अब्रवीत
कामम अभ्यासवा मा वा न तवां यॊत्स्ये कथं चन
यैव हि तवं कृता धात्रा सैव हि तवं शिखण्डिनी
तस्य तद वचनं शरुत्वा शिखण्डी करॊधमूर्छितः
उवाच भीष्मं समरे सृक्किणी परिलेहिहन
जानामि तवां महाबाहॊ कषत्रियाणां कषयं करम
मया शरुतं च ते युद्धं जामदग्न्येन वै सह
दिव्यश च ते परभावॊ ऽयं स मया बहुशः शरुतः
जानन्न अपि परभावं ते यॊत्स्ये ऽदयाहं तवया सह
पाण्डवानां परियं कुर्वन्न आत्मनश च नरॊत्तम
अद्य तवा यॊधयिष्यामि रणे पुरुषसत्तम
धरुवं च तवा हनिष्यामि शपे सत्येन ते ऽगरतः
एतच छरुत्वा वचॊ मह्यं यत कषमं तत समाचर
कामम अभ्यासवा मा वा न मे जीवन विमॊक्ष्यसे
सुदृष्टः करियतां भीष्म लॊकॊ ऽयं समितिंजय
एवम उक्त्वा ततॊ भीष्मं पञ्चभिर नतपर्वभिः
अविध्यत रणे राजन परणुन्नं वाक्यसायकैः
तस्य तद वचनं शरुत्वा सव्यसाची परंतपः
कालॊ ऽयम इति संचिन्त्य शिखण्डिनम अचॊदयत
अहं तवाम अनुयास्यामि परान विद्रावयञ शरैः
अभिद्रव सुसंरब्धॊ भीष्मं भीमपराक्रमम
न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः
तस्माद अद्य महाबाहॊ वीर भीष्मम अभिद्रव
अहत्वा समरे भीष्मं यदि यास्यसि मारिष
अवहास्यॊ ऽसय लॊकस्य भविष्यसि मया सह
नावहास्या यथा वीर भवेम परमाहवे
तथा कुरु रणे यत्नं साधयस्व पितामहम
अहं ते रक्षणं युद्धे करिष्यामि परंतप
वारयन रथिनः सर्वान साधयस्व पितामहम
दरॊणं च दरॊणपुत्रं च कृपं चाथ सुयॊधनम
चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम
विन्दानुविन्दाव आवन्त्यौ काम्बॊजं च सुदक्षिणम
भगदत्तं तथा शूरं मागधं च महारथम
सौमदत्तिं रणे शूरम आर्श्यशृङ्गिं च राक्षसम
तरिगर्तराजं च रणे सह सर्वैर महारथैः
अहम आवारयिष्यामि वेलेव मकराकयम
कुरूंश च सहितान सर्वान ये चैषां सैनिकाः सथिताः
निवारयिष्यामि रणे साधयस्व पितामहम
[धृ]
कथं शिखण्डी गाङ्गेयम अभ्यधावत पितामहम
पाञ्चाल्यः समरे करुद्धॊ धर्मात्मानं यतव्रतम
के ऽरक्षन पाण्डवानीके शिखण्डिनम उदायुधम
तवरमाणास तवरा काले जिगीषन्तॊ महारथाः
कथं शांतनवॊ भीष्मः स तस्मिन दमशे ऽहनि
अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः
न मृष्यामि रणे भीष्मं परत्युद्यातं शिखण्डिनम
कच चिन न रथभङ्गॊ ऽसय धनुर वाशीर्यतास्यतः
[स]
नाशीर्यत धनुस तस्य रथभङ्गॊ नचाप्य अभूत
युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ
निघ्नतः समरे शत्रूञ शरैः संनतपर्वभिः
अनेकशतसाहस्रास तावकानां महारथाः
रथदन्ति गणा राजन हयाश चैव सुसज्जिताः
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम
यथाप्रतिज्ञं कौरव्य स चापि समितिंजयः
पार्थानाम अकरॊद भीष्मः सततं समितिक्षयम
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ शरैः
पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन
दशमे ऽहनि संप्राप्ते तताप रिपुवाहिनीम
कीर्यमाणां शितैर बाणैः शतशॊ ऽथ सहस्रशः
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज
अशक्नुवन रणे जेतुं पाशहस्तम इवान्तकम
अथॊपायान महाराज सव्यसाची परंतपः
तरासयन रथिनः सर्वान बीभत्सुर अपराजितः
सिन्हवद विनदन्न उच्चैर धनुर्ज्यां विक्षिपन मुहुः
शरौघान विसृजन पार्थॊ वयचरत कालवद रणे
तस्य शब्देन वित्रस्तास तावका भरतर्षभ
सिंहस्येव मृगा राजन वयद्रवन्त महाभयात
जयन्तं पाण्डवं दृष्ट्वा तवत सैन्यं चाभिपीडितम
दुर्यॊधनस ततॊ भीष्मम अब्रवीद भृशपीडितः
एष पाण्डुर उतस तात शवेताश्वः कृष्णसारथिः
दहते मामकान सर्वान कृष्ण वर्त्मेव काननम
पश्य सैन्यानि गाङ्गेय दरवमाणानि सर्वशः
पाण्डवेन युधां शरेष्ठ काल्यमानानि संयुगे
यथा पशुगणान आलः संकालयति कानने
तथेदं मामकं सैन्यं काल्यते शत्रुतापन
धनंजय शरैर भग्नं दरवमाणम इतस ततः
भीमॊ हय एष दुराधर्षॊ विद्रावयति मे बलम
सात्यकिश चेकितानश च माद्रीपुत्रौ च पाण्डवौ
अभिमन्युश च विक्रान्तॊ वाहिनीं दहते मम
धृष्टद्युम्नस तथा शूरॊ राक्षसश च घटॊत्कचः
वयद्रावयेतां सहसा सैन्यं मम महाबलौ
वध्यमानस्य सैन्यस्य सर्वैर एतैर महाबलैः
नान्यां गतिं परपश्यामि सथाने युद्धे च भारत
ऋते तवां पुरुषव्याघ्र देवतुल्यपराक्रम
पर्याप्तश च भवान कषिप्रं पीडितानां गतिर भव
एवम उक्तॊ महाराज पिता देवव्रतस तव
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयम आत्मनः
तव संधरयन पुत्रम अब्रवीच छंतनॊः सुतः
दुर्यॊधन विजानीहि सथिरॊ भव विशां पते
पूर्वकालं तव मया परतिज्ञातं महाबल
हत्वा दशसहस्राणि कषत्रियाणां महात्मनाम
संग्रामाद वयपयातव्यम एतत कर्म ममाह्निकम
इति तत कृतवांश चाहं यथॊक्तं भरतर्षभ
अद्य चापि महत कर्म परकरिष्ये महाहवे
अहं वा निहतः शिष्ये हनिष्ये वाद्य पाण्डवान
अद्य ते पुरुषव्याघ्र परतिमॊक्ष्ये ऋणं महत
भर्तृपिण्ड कृतं राजन निहतः पृतना मुखे
इत्य उक्त्वा भरतश्रेष्ठः कषत्रियान परतपञ शरैः
आससाद दुराधर्षः पाण्डवानाम अनीकिनीम
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ
आशीविषम इव करुद्धं पाण्डवाः पर्यवारयन
दशमे ऽहनि तस्मिंस तु दर्शयञ शक्तिम आत्मनः
राजञ शतसहस्राणि सॊ ऽवधीत कुरुनन्दन
पञ्चालानां च ये शरेष्ठा राजपुत्रा महाबलाः
तेषाम आदत्त तेजांसि जलं सूर्य इवांशुभिः
हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम
सारॊहणां महाराज हयानां चायुतं पुनः
पूर्णे शतसहस्रे दवे पदातीनां नरॊत्तमः
परजज्वाल रणे भीष्मॊ विधूम इव पावकः
न चैनं पाण्डवेयानां के चिच छेकुर निरीक्षितुम
उत्तरं मार्गम आस्थाय तपन्तम इव भास्करम
ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः
वधायाभ्यद्रवन भीष्मं सृञ्जयाश च महारथाः
स युध्यमानॊ बहुभिर भीष्मः शांतनवस तदा
अवकीर्णॊ महाबाहुः शैलॊ मेघैर इवासितैः
पुत्रास तु तव गाङ्गेयं समन्तात पर्यवारयन
महत्या सेनया सार्धं ततॊ युद्धम अवर्तत
[स]
अर्जुनस तु रणे राजन दृष्ट्वा भीष्मस्य विक्रमम
शिखण्डिनम अथॊवाच समभ्येहि पितामहम
न चापि भीस तवया कार्या भीष्माद अद्य कथं चन
अहम एनं शरैस तीक्ष्णैः पातयिष्ये रथॊत्तमात
एवम उक्तस तु पार्थेन शिखण्डी भरतर्षभ
अभ्यद्रवत गाङ्गेयं शरुत्वा पार्थस्य भाषितम
धृष्टद्युम्नस तथा राजन सौभद्रश च महारथः
हृष्टाव आद्रवतां भीष्मं शरुत्वा पार्थस्य भाषितम
विराटद्रुपदौ वृद्धौ कुन्तिभॊजश च दंशितः
अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः
नकुलः सहदेवश च धर्मराजश च वीर्यवान
तथेतराणि सैन्यानि सर्वाण्य एव विशां पते
समाद्रवन्त गाङ्गेयं शरुत्वा पार्थस्य भाषितम
परत्युद्ययुस तावकाश च समेतास तान महारथान
यथाशक्ति यथॊत्साहं तन मे निगदतः शृणु
चित्रसेनॊ महाराज चेकितानं समभ्ययात
भीष्म परेप्सुं रणे यान्तं वृषं वयाघ्रशिशुर यथा
धृष्टद्युम्नं महाराज भीष्मान्तिकम उपागमम
तवरमाणॊ रणे यत्तं कृतवर्मा नयवारयत
भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम
तवरमाणॊ महाराज सौमदत्तिर नयवारयत
तथैव नकुलं वीरं किरन्तं सायकान बहून
विकर्णॊ वारयाम आस इच्छन भीष्मस्य जीवितम
सहदेवं तथा यान्तं यत्तं भीष्मरथं परति
वारयाम आस संक्रुद्धः कृपः शारद्वतॊ युधि
राक्षसं करूरकर्माणं भैमसेनिं महाबलम
भीष्मस्य निधनं परेप्सुं दुर्मुखॊ ऽभयद्रवद बली
सात्यकिं समरे करुद्धम आर्श्यशृङ्गिर अवारयत
अभिमन्युं महाराज यान्तं भीष्मरथं परति
सुदक्षिणॊ महाराज काम्बॊजः परत्यवारयत
विराटद्रुपदौ वृद्धौ समेताव अरिमर्दनौ
अश्वत्थामा ततः करुद्धॊ वारयाम आस भारत
तथा पाण्डुसुतं जयेष्ठं भीष्मस्य वधकाङ्क्षिणम
भारद्वाजॊ रणे यत्तॊ धर्मपुत्रम अवारयत
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम
भीष्म परेप्सुं महाराज तापयन्तं दिशॊ दश
दुःशासनॊ महेष्वासॊ वारयाम आस संयुगे
अन्ये च तावका यॊधाः पाण्डवानां महारथान
भीष्मायाभिमुखं यातान वारयाम आसुर आहवे
धृष्टद्युम्नस तु सैन्यानि पराक्रॊशत पुनः पुनः
अभिद्रवत संरब्धा भीष्मम एकं महाबलम
एषॊ ऽरजुनॊ रणे भीष्मं परयाति कुरुनन्दनः
अभिद्रवत मा भैष्ट भीष्मॊ न पराप्स्यते हि वः
अर्जुनं समरे यॊद्धुं नॊत्सहेतापि वासवः
किम उ भीष्मॊ रणे वीरा गतसत्त्वॊ ऽलपजीवितः
इति सेनापतेः शरुत्वा पाण्डवानां महारथाः
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं परति
आगच्छतस तान समरे वार्यॊघान परबलान इव
नयवारयन्त संहृष्टास तावकाः पुरुषर्षभाः
दुःशासनॊ महाराज भयं तयक्त्वा महारथः
भीष्मस्य जीविताकाङ्क्षी धनंजयम उपाद्रवत
तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं परति
अभ्यद्रवन्त संग्रामे तव पुत्रान महारथान
तत्राद्भुतम अपश्याम चित्ररूपं विशां पते
दुःशासन रथं पराप्तॊ यत पार्थॊ नात्यवर्तत
यथा वारयते वेला कषुभितं वै महार्णवम
तथैव पाण्डवं करुद्धं तव पुत्रॊ नयवारयत
उभौ हि रथिनां शरेष्ठाव उभौ भारत दुर्जयौ
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत
तौ तथा जातसंरम्भाव अन्यॊन्यवधकाङ्क्षिणौ
समीयतुर महासंख्ये मय शक्रौ यथा पुरा
दुःशासनॊ महाराज पाण्डवं विशिखैस तरिभिः
वासुदेवं च विंशत्या ताडयाम आस संयुगे
ततॊ ऽरजुनॊ शतेनाजौ नाराचानां समार्पयत
ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे
दुःशासनस ततः करुद्धः पार्थं विव्याध पञ्चभिः
ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः
ललटस्थैस तु तैर बाणैः शुशुभे पाण्डवॊत्तमः
यथा मेरुर महाराज शृङ्गैर अत्यर्थम उच्छ्रितैः
सॊ ऽतिविद्धॊ महेष्वासः पुत्रेण तव धन्विना
वयराजत रणे पार्थः किंशुकः पुष्पवान इव
दुःशासनं ततः करुद्धः पीडयाम आस पाण्डवः
पर्वणीव सुसंक्रुद्धॊ राहुर उग्रॊ निशाकरम
पीड्यमानॊ बलवता पुत्रस तव विशां पते
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः
तस्य पार्थॊ धनुश छित्त्वा तवरमाणः पराक्रमी
आजघान ततः पश्चात पुत्रं ते नवभिः शरैः
सॊ ऽनयत कार्मुकम आदाय भीष्मस्य परमुखे सथितः
अर्जुनं पञ्चविंशत्या बाह्वॊर उरसि चार्पयत
तस्य करुद्धॊ महाराज पाण्डवः शत्रुकर्शनः
अप्रैषीद विशिखान घॊरान यमदण्डॊपमान बहून
अप्राप्तान एव तान बाणांश चिच्छेद तनयस तव
यतमानस्य पार्थस्य तद अद्भुतम इवाभवत
पार्थं च निशितैर बाणैर अविध्यत तनयस तव
ततः करुद्धॊ रणे पार्थः शरान संधाय कार्मुके
परेषयाम आस समरे सवर्णपुङ्खाञ शिलाशितान
नयमज्जंस ते महाराज तस्य काये महात्मनः
यथा हंसा महाराज तडागं पराप्य भारत
पीडितश चैव पुत्रस ते पाण्डवेन महात्मना
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथम आश्रयत
अगाधे मज्जतस तस्य दवीपॊ भीष्मॊ ऽभवत तदा
परतिलभ्य ततः संज्ञां पुत्रस तव विशां पते
अवारयत ततः शूरॊ भूय एव पराक्रमी
शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम
निर्बिभेद महावीर्यॊ विव्यथे नैव चार्जुनात
[स]
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा
आर्श्यशृङ्गिर महेष्वासॊ वारयाम आस संयुगे
माधवस तु सुसंक्रुद्धॊ राक्षसं नवभिः शरैः
आजघान रणे राजन परहसन्न इव भारत
तथैव राक्षसॊ राजन माधवं निशितैः शरैः
अर्दयाम आस राजेन्द्र संक्रुद्धः शिनिपुंगवम
शैनेयः शरसंघं तु परेषयाम आस संयुगे
राक्षसाय सुसंक्रुद्धॊ माधवः परि वीरहा
ततॊ रक्षॊ महाबाहुं सात्यक्तिं सत्यविक्रमम
विव्याध विशिखैर तीक्ष्णैः सिंहनादं ननाद च
माधवस तु भृशं विद्धॊ राक्षसेन रणे तदा
धैर्यम आलम्ब्य तेजस्वी जहास च ननाद च
भगदत्तस ततः करुद्धॊ माधवं निशितैः शरैः
ताडयाम आस समरे तॊत्त्रैर इव महागजम
विहाय राक्षसं युद्धे शैनेयॊ रथिनां वरः
पराग्ज्यॊतिषाय चिक्षेप शरान संनतपर्वणः
तस्य पराग्ज्यॊतिषॊ राजा माधवस्य महद धनुः
चिच्छेद शितधारेण भल्लेन हृतहस्तवत
अथान्यद धनुर आदाय वेगवत परवीरहा
भगदत्तं रणे करुद्धॊ विव्याध निशितैः शरैः
सॊ ऽतिविद्धॊ महेष्वासः सृक्किणी संलिहन मुहुः
शक्तिं कनकवैडूर्य भूषिताम आयसी दृढाम
यमदण्डॊपमां घॊरां पराहिणॊत सात्यकाय वै
ताम आपतन्तां सहसा तस्य बाहॊर बलेरिताम
सात्यकिः समरे राजंस तरिधा चिच्छेद सायकैः
सा पपात तदा भूमौ महॊल्केव हतप्रभा
शक्तिं विनिहतां दृष्ट्वा पुत्रस तव विशां पते
महता रथवंशेन वारयाम आस माधवम
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम
दुर्यॊधनॊ भृशं हृष्टॊ भरातॄन सर्वान उवाच ह
तथा कुरुत कौरव्या यथा वः सात्यकॊ युधि
न जीवन परतिनिर्याति महतॊ ऽसमाद रथव्रजात
अस्मिन हते हतं मन्ये पाण्डवानां महद बलम
तत तथेति वचस तस्य परिगृह्य महारथाः
शैनेयं यॊधयाम आसुर भीष्मस्य परमुखे तदा
अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे
काम्बॊजराजॊ बलवान वारयाम आस संयुगे
आर्जुनिर नृपतिं विद्ध्वा शैरः संनतपर्वभिः
पुनर एव चतुःषष्ट्या राजन विव्याध तं नृपम
सुदक्षिणस तु समरे कार्ष्णिं विव्याध पञ्चभिः
सारथिं चास्य नवभिर इच्छन भीष्मस्य जीवितम
तद युद्धम आसीत सुमहत तयॊस तत्र पराक्रमे
यद अभ्यधावद गाङ्गेयं शिखण्डी शत्रुतापनः
विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम
भीष्मं च युधि संरब्धाव आद्रवन्तौ महारथौ
अश्वत्थामा ततः करुद्धः समायाद रथसत्तमः
ततः परववृते युद्धं तव तेषां च भारत
विराटॊ दशभिर भल्लैर आजघान परंतप
यतमानं महेष्वासं दरौणिम आहवशॊभिनम
दरुपदश च तरिभिर बाणैर विव्याध निशितैस तथा
गुरुपुत्रं समासाद्य भीष्मस्य पुरतः सथितम
अश्वत्थामा ततस तौ तु विव्याध दशभिः शरैः
विराटद्रुपदौ वृद्धौ भीष्मं परति समुद्यतौ
तत्राद्भुतम अपश्याम वृद्धयॊश चरितं महत
यद दरौणेः सायकान घॊरान परत्यवारयतां युधि
सहदेवं तथा यान्तं कृपः शारद्वतॊ ऽभययात
यथा नागॊ वने नागं मत्तॊ मत्तम उपाद्रवत
कृपश च समरे राजन माद्रीपुत्रं महारथम
आजघान शरैस तूर्णं सप्तत्या रुक्मभूषणैः
तस्य माद्री सुतश चापं दविधा चिच्छेद सायकैः
अथैनं चिन्न धन्वानं विव्याध नवभिः शरैः
सॊ ऽनयत कार्मुकम आदाय समरे भारसाधनम
माद्रीपुत्रं सुसंहृष्टॊ दशभिर निशितैः शरैः
आजघानॊरसि करुद्ध इच्छन भीष्मस्य जीवितम
तथैव पाण्डवॊ राजञ शारद्वतम अमर्षणम
आजघानॊरसि करुद्धॊ भीष्मस्य वधकाङ्क्षया
तयॊर युद्धं समभवद घॊररूपं भयावहम
नकुलं तु रणे करुद्धं विकर्णः शत्रुतापनः
विव्याध सायकैः षष्ट्या रक्षन भीष्मस्य जीवितम
नकुलॊ ऽपि भृशं विद्धस तव पुत्रेण धन्विना
विकर्णं सप्त सप्तत्या निर्बिभेद शिलीमुखैः
तत्र तौ नरशार्दूलौ गॊष्ठे गॊवृषभाव इव
अन्यॊन्यं जघ्नतुर वीरौ गॊष्ठे गॊवृषभाव इव
घटॊत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम
दुर्मुखः समरे परायाद भीष्महेतॊः पराक्रमी
हैडिम्बस तु ततॊ राजन दुर्मुखं शत्रुतापनम
आजघानॊरसि करुद्धॊ नवत्या निशितैः शरैः
भीमसेन सुतं चापि दुर्मुखः सुमुखैः शरैः
षष्ट्या वीरॊ नदन हृष्टॊ विव्याध रणमूर्धनि
धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम
हार्दिक्यॊ वारयाम आस रक्षन भीष्मस्य जीवितम
वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिर आयसैः
पुनः पञ्चाशता तूर्णम आजघान सतनान्तरे
तथैव पार्षतॊ राजन हार्दिक्यं नवभिः शरैः
विव्याध निशितैस तीक्ष्णैः कङ्कपत्र परिच्छदैः
तयॊः समभवद युद्धं भीष्महेतॊर महारणे
अन्यॊन्यातिशयैर युक्तं यथा वृत्र महेन्द्रयॊः
भीमसेनम अथायान्तं भीष्मं परति महाबलम
भूरिश्रवाभ्ययात तूर्णं तिष्ठ तिष्ठेति चाब्रवीत
सौमदत्तिर अथॊ भीमम आजघान सतनान्तरे
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे
उरःस्थेन बभौ तेन भीमसेनः परतापवान
सकन्द शक्त्या यथा करौञ्चः पुरा नृपतिसत्तम
तौ शरान सूर्यसंकाशान कर्मार परिमार्जितान
अन्यॊन्यस्य रणे करुद्धौ चिक्षिपाते मुहुर मुहुः
भीमॊ भीष्म वधाकान्ष्की सौमदत्तिं महारथम
तथा भीष्म जये गृध्नुः सौमदत्तिश च पाण्डवम
कृतप्रतिकृते यत्तौ यॊधयाम आसतू रणे
युधिष्ठिरं महाराज महत्या सेनया वृतम
भीष्मायाभिमुखं यान्तं भारद्वाजॊ नयवारयत
दरॊणस्य रथनिर्घॊषं पर्जन्यनिनदॊपमम
शरुत्वा परभद्रका राजन समकम्पन्त मारिष
सा सेना महती राजन पाण्डुपुत्रस्य संयुगे
दरॊणेन वारिता यत्ता न चचाल पदात पदम
चेकितानं रणे करुद्धं भीष्मं परति जनेश्वर
चित्रसेनस तव सुतः करुद्ध रूपम अवारयत
भीष्महेतॊः पराक्रान्तश चित्रसेनॊ महारथः
चेकितानं परं शक्त्या यॊधयाम आस भारत
तथैव चेकितानॊ ऽपि चित्रसेनम अयॊधयत
तद युद्धम आसीत सुमहत तयॊस तत्र पराक्रमे
अर्जुनॊ वार्यमाणस तु बहुशस तनयेन ते
विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह
दुःशासनॊ ऽपि परया शक्त्या पार्थम अवारयत
कथं भीष्मं परॊ हन्याद इति निश्चित्य भारत
सा वध्यमाना समरे पुत्रस्य तव वाहिनी
लॊड्यते रथिभिः शरेष्ठैस तत्र तत्रैव भारत
[स]
अथ वीरॊ महेष्वासॊ मत्तवारणविक्रमः
समादाय महच चापं मत्तवारणवारणम
विधुन्वानॊ धनुःश्रेष्ठं दरावयाणॊ महारथान
पृतनां पाण्डवेयानां पातयानॊ महारथः
निमित्तानि निमित्तज्ञः सर्वतॊ वीक्ष्य वीर्यवान
परतपन्तम अनीकानि दरॊणः पुत्रम अभाषत
अयं स दिवसस तात यत्र पार्थॊ महारथः
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति
उत्पतन्ति हि मे बाणा धनुः परस्फुरतीव मे
यॊगम अस्ताणि गच्छन्ति करूरे मे वर्तते मतिः
दिक्षु शान्तासु घॊराणि वयाहरन्ति मृगद्विजाः
नीचैर गृध्रा निलीयन्ते भारतानां चमूं परति
नष्टप्रभ इवादित्यः सर्वतॊ लॊहिता दिशः
रसते वयथते भूमिर अनुष्टनति वाहनम
कङ्का गृध्रा बलाकाश च वयाहरन्ति मुहुर मुहुः
शिवाश चाशिव निर्घॊषा वेदयन्त्यॊ महद भयम
पपात महती चॊक्ला मध्येनादित्य मण्डलात
स कबन्धश च परिघॊ भानुम आवृत्य तिष्ठति
परिवेषस तथा घॊरश चन्द्रभास्करयॊर अभूत
वेदयानॊ भयं घॊरं राज्ञां देहावकर्तनम
देवतायतनस्थाश च कौरवेन्द्रस्य देवताः
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च
अपसव्यं गरहाश चक्रुर अलक्ष्माणं निशाकरम
अवाक्शिराश च भगवान उदतिष्ठत चन्द्रमाः
वपूंषि च नरेन्द्राणां विगतानीव लक्षये
धार्तराष्ट्रस्य सैन्येषु न च भराजन्ति दंशितः
सेनयॊर उभयॊश चैव समन्ताच छरूयते महान
पाञ्चजन्यस्य निर्घॊषॊ गाण्डीवस्य च निस्वनः
धरुवम आस्थाय बीभत्सुर उत्तमास्त्राणि संयुगे
अपास्यान्यान रणे यॊधान अभ्यस्यति पितामहम
हृष्यन्ति रॊमकूपानि सीदतीव च मे मनः
चिन्तयित्वा महाबाहॊ भीष्मार्जुनसमागमम
तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम
पुरस्कृत्य रणे पार्थॊ भीष्मस्यायॊधनं गतः
अब्रवीच च पुरा भीष्मॊ नाहं हन्यां शिखण्डिनम
सत्री हय एषा विहिता धात्रा दैवाच च स पुनः पुमान
अमङ्गल्यध्वजश चैव याज्ञसेनिर महारथः
न चामङ्गल केतॊः स परहरेद आपगा सुतः
एतद विचिन्तयानस्य परज्ञा सीदति मे भृशम
अद्यैव तु रणे पार्थः कुरुवृद्धम उपाद्रवत
युधिष्ठिरस्य च करॊधॊ भीष्मार्जुनसमागमः
मम चास्त्राभिसंरम्भः परजानाम अशुभं धरुवम
मनस्वी बलवाञ शूरः कृतास्त्रॊ दृढविक्रमः
दूरपाती दृढेषुश च निमित्तज्ञश च पाण्डवः
अजेयः समरे चैव देवैर अपि स वासवैः
बलवान बुद्धिमांश चैव जितक्लेशॊ युधां वरः
विजयी च रणे नित्यं भैरवास्त्रश च पाण्डवः
तस्य मार्गं परिहरन दरुतं गच्छ यतव्रतम
पश्य चैतन महाबाहॊ वैशसं समुपस्थितम
हेमचित्राणि शूराणां महान्ति च शुभानि च
कवचान्य अवदीर्यन्ते शरैः संनतपर्वभिः
छिद्यन्ते च धवजाग्राणि तॊमराणि धनूंषि च
परासाश च विमलास तीक्ष्णाः शक्त्यश च कनकॊज्ज्वलाः
वैजयन्त्यश च नागानां संक्रुद्धेन किरीटिना
नायं संरक्षितुं कालः पराणान पुत्रॊपजीविभिः
याहि सवर्गं पुरस्कृत्य यशसे विजयाय च
हयनागरथावर्तां महाघॊरां सुदुस्तराम
रथेन संग्रामनदीं तरत्य एष कपिध्वजः
बरह्मण्यता दमॊ दानं तपश च चरितं महत
इहैव दृश्यते राज्ञॊ भराता यस्य धनंजयः
भीमसेनश च बलवान माद्रीपुत्रौ च पाण्डवौ
वासुदेवश च वार्ष्णेयॊ यस्य नाथॊ वयवस्थितः
तस्यैष मन्युप्रभवॊ धार्तराष्ट्रस्य दुर्मतेः
तपॊ दग्धशरीरस्य कॊपॊ दहति भारतान
एष संदृश्यते पार्थॊ वासुदेव वयपाश्रयः
दारयन सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः
एतद आलॊक्यते सैन्यं कषॊभ्यमाणं किरीटिना
महॊर्मिनद्धं सुमहत तिमिनेव नदी मुखम
हाहा किल किला शब्दाः शरूयन्ते च चमूमुखे
याहि पाञ्चाल दायादम अहं यास्ये युधिष्ठिरम
दुर्लभं हय अन्तरं राज्ञॊ वयूहस्यामित तेजसः
समुद्रकुक्षिपतिमं सर्वतॊ ऽतिरथैः सथितैः
सात्यकिश चाभिमन्युश च धृष्टद्युम्नवृकॊदरौ
परिरक्षन्ति राजानं यमौ च मनुजेश्वरम
उपेन्द्र सदृशः शयामॊ महाशाल इवॊद्गतः
एष गच्छत्य अनीकानि दवितीय इव फल्गुनः
उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन महद धनुः
पार्श्वतॊ याहि राजानं युध्यस्व च वृकॊदरम
कॊ हि नेच्छेत परियं पुत्रं जीवन्तं शाश्वतीः समाः
कषत्रधर्मं पुरस्कृत्य ततस तवा विनियुज्महे
एष चापि रणे भीष्मॊ दहते वै महाचमूम
युद्धे सुसदृशस तात यमस्य वरुणस्य च
[स]
भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः
विन्दानुविन्दाव आवन्त्यौ सैन्धवश च जयद्रथः
चित्रसेनॊ विकर्णश च तथा दुर्मर्षणॊ युवा
दशैते तावका यॊधा भीमसेनम अयॊधयन
महत्या सेनया युक्ता नानादेशसमुत्थया
भीष्मस्य समरे राजन परार्थयाना महद यशः
शल्यस तु नवभिर बाणैर भीमसेनम अताडयत
कृतवर्मा तरिभिर बाणैः कृपश च नवभिः शरैः
चित्रसेनॊ विकर्णश च भगदत्तश च मारिष
दशभिर दशभिर भल्लैर भीमसेनम अताडयन
सैन्धवश च तरिभिर बाणैर जत्रु देशे ऽभयतादयत
विन्दानुविन्दाव आवन्त्यौ पञ्चभिः पञ्चभिः शरैः
दुर्मर्षणश च विंशत्या पाण्डवं निशितैः शरैः
स तान सर्वान महाराज भराजमानान पृथक पृथक
परवीरान सर्वलॊकस्य धार्तराष्ट्रान महारथान
विव्याध बहुभिर बाणैर भीमसेनॊ महाबलः
शल्यं पञ्चाशता विद्ध्वा कृतवर्माणम अष्टभिः
कृपस्य स शरं चापं मध्ये चिच्छेद भारत
अथैनं छिन्नधन्वानं पुनर विव्याध पञ्चभिः
विन्दानुविन्दौ च तथा तरिभिस तरिभिर अताटयत
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः
विकर्णं दशभिर बाणैः पञ्चभिश च जयद्रथम
विद्ध्वा भीमॊ ऽनदद धृष्टः सैन्धवं च पुनस तरिभिः
अथान्यद धनुर आदाय गौतमॊ रथिनां वरः
भीमं विव्याध संरब्धॊ दशभिर निशितैः शरैः
स विद्धॊ बहुभिर बाणैस तॊत्त्रैर इव महाद्विपः
ततः करुद्धॊ महाबाहुर भीमसेनः परतापवान
गौतमं ताडयाम आस शरैर बहुभिर आहवे
सैन्धवस्य तथाश्वांश च सारथिं च तरिभिः शरैः
पराहिणॊन मृत्युलॊकाय कालान्तकसमद्युतिः
हताश्वात तु रथात तूर्णम अवप्लुत्य महारथः
शरांश चिक्षेप निशितान भीमसेनस्य संयुगे
तस्य भीमॊ धनुर्मध्ये दवाभ्यां चिच्छेद भारत
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः
स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः
चित्रसेनरथं राजन्न आरुरॊह तवरान्वितः
अत्यद्भुतं रणे कर्मकृतवांस तत्र पाण्डवः
महारथाञ शरैर विद्ध्वा वारयित्वा महारथः
विरथं सैन्धवं चक्रे सर्वलॊकस्य पश्यतः
नातीव ममृषे शल्यॊ भीमसेनस्य विक्रमम
स संधाय शरांस तीक्ष्णान कर्मार परिमार्जितान
भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत
कृपश च कृतवर्मा च भगदत्तश च मारिष
विन्दानुविन्दाव आवन्त्यौ चित्रसेनश च संयुगे
दुर्मर्षणॊ विकर्णश च सिन्धुराजश च वीर्यवान
भीमं ते विव्यधुस तूर्णं शल्य हेतॊर अरिंदमाः
स तु तान परतिविव्याध पञ्चभिः पञ्चभिः शरैः
शल्यं विव्याध सप्तत्या पुनश च दशभिः शरैः
तं शल्यॊ नवभिर विद्ध्वा पुनर विव्याध पञ्चभिः
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि
विशॊकं वीक्ष्य निर्भिन्नं भीमसेनः परतापवान
मद्रराजं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत
तथेतरान महेष्वासांस तरिभिर तरिभिर अजिह्मगैः
ताडयाम आस समरे सिंहवच च ननाद च
ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम
तरिभिस तरिभिर अकुण्ठाग्रैर भृशं मर्मस्व अताडयन
तॊ ऽतिविद्धॊ महेष्वासॊ भीमसेनॊ न विव्यथे
पर्वतॊ वारिधाराभिर वर्षमाणैर इवाम्बुदैः
शल्यं च नवभिर बाणैर भृशं विद्ध्वा महायशाः
पराग्ज्यॊतिषं शतेनाजौ राजन विव्याध वै दृढम
ततस तु स शरं चापं सात्वतस्य महात्मनः
कषुरप्रेण सुतीक्ष्णेन चिच्छेद हृतहस्तवत
अथान्यद धनुर आदाय कृतवर्मा वृकॊदरम
आजघान भरुवॊर मध्ये नाराचेन परंतप
भीमस तु समरे विद्ध्वा शल्यं नवभिर आयसैः
भगदत्तं तरिभिश चैव कृतवर्माणम अष्टभिः
दवाभ्यां दवाभ्यां च विव्याध गौतमप्रभृतीन रथान
ते तु तं समरे राजन विव्यधुर निशितैः शरैः
स तथा पीड्यमानॊ ऽपि सर्वतस तैर महारथैः
मत्वा तृणेन तांस तुल्यान विचचार गतव्यथः
ते चापि रथिनां शरेष्ठा भीमाय निशिताञ शरान
परेषयाम आसुर अव्यग्राः शतशॊ ऽथ सहस्रशः
तस्य शक्तिं महावेगं भगदत्तॊ महारथः
चिक्षेप समरे वीरः सवर्णदण्डां महाधनाम
तॊमरं सैन्धवॊ राजा पट्टिषं च महाभुवः
शतघ्नीं च कृपॊ राजञ शरं शल्यश च संयुगे
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान
भीमसेनं समुद्दिश्य परेषयाम आसुर ओजसा
तॊमरं स दविधा चक्रे कषुरप्रेणानिलात्मजः
पट्टिशं च तरिभिर बाणैश चिच्छेद तिलकाण्डवत
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः
मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे
तथेतराञ शरान घॊराञ शरैः संनतपर्वभिः
भीमसेनॊ रणश्लाघी तरिधैकैकं समाच्छिनत
तांश च सर्वान महेष्वासांस तरिभिस तरिभिर अताडयत
ततॊ धनंजयस तत्र वर्तमाने महारणे
जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम
निघ्नन्तं समरे शत्रून यॊधयानं च सायकैः
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ
नाशशंसुर जयं तत्र तावकाः पुरुषर्षभ
अथार्जुनॊ रणे भीष्मं यॊधयन वै महारथम
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम
आससाद रणे यॊधांस तावकान दश भारत
ये सम भीमं रणे राजन यॊधयन्तॊ वयवस्थिताः
बीभत्सुस तान अथाविध्यद भीमस्य परियकाम्यया
ततॊ दुर्यॊधनॊ राजा सुशर्माणम अचॊदयत
अर्जुनस्य वधार्थाय भीमसेनस्य चॊभयॊः
सुशर्मन गच्छ शीघ्रं तवं बलौघैः परिवारितः
जहि पाण्डुसुताव एतौ धनंजय वृकॊदरौ
तच छरुत्वा शासनं तस्य तरिगर्तः परस्थलाधिपः
अभिद्रुत्य रणे भीमम अर्जुनं चैव धन्विनौ
रथैर अनेकसाहस्रैः परिवव्रे समन्ततः
ततः परववृते युद्धम अर्जुनस्य परैः सह
[स]
अर्जुनस तु रणे शल्यं यतमानं महारथम
छादयाम आस समरे शरैः संनतपर्वभिः
सुशर्माणं कृपं चैव तरिभिस तरिभिर अविध्यत
पराग्ज्यॊतिषं च समरे सैन्धवं च जयद्रथम
चित्रसेनं विकर्णं च कृतवर्माणम एव च
दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ
एकैकं तरिभिर आनर्छत कङ्कबर्हिण वाजितैः
शरैर अतिरथॊ युद्धे पीडयन वाहिनीं तव
जयद्रथॊ रणे पार्थं भित्त्वा भारत सायकैः
भीमं विव्याध तरसा चित्रसेन रथे सथितः
शल्यश च समरे जिष्णुं कृपश च रथिनां वरः
विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः
चित्रसेनादयश चैव पुत्रास तव विशां पते
पञ्चभिः पञ्चभिस तूर्णं संयुगे निशितैः शरैः
आजघ्नुर अर्जुनं संख्ये भीमसेनं च मारिष
तौ तत्र रथिनां शरेष्ठौ कौन्तेयौ भरतर्षभौ
अपीडयेतां समरे तरिगर्तानां महद बलम
सुशर्मापि रणे पार्थं विद्ध्वा बहुभिर आयसैः
ननाद बलवन नादं नादयन वै नभस्तलम
अन्ये च रथिनः शूरा भीमसेनधनंजयौ
विव्यधुर निशितैर बाणै रुक्मपुङ्खैर अजिह्मगैः
तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ
करीडमानौ रथॊदारौ चित्ररूपौ वयरॊचताम
आमिषेप्सू गवां मध्ये सिंहाव इव बलॊत्कटौ
छित्त्वा धनूंषि वीराणां शरांश च बहुधा रणे
पातयाम आसतुर वीरौ शिरांसि शतशॊ नृणाम
रथाश च बहवॊ भग्ना हयाश च शतशॊ हताः
गजाश च स गजारॊहाः पेतुर उर्व्यां महामृधे
रथिनः सादिनश चैव तत्र तत्र निसूदिताः
दृश्यन्ते बहुधा राजन वेष्टमानाः समन्ततः
हतैर गजपदात्य ओघैर वाजिभिश च निसूदितैः
रथैश च बहुधा भग्नैः समास्तीर्यत मेदिनी
छत्रैश च बहुधा छिन्नैर धवजैश च विनिपातितैः
अङ्कुशैर अपविद्धैश च परिस्तॊमैश च भारत
केयूरैर अङ्गदैर हारै राङ्कवैर मृदितैस तथा
उष्णीषैर अपविद्धैश च चामरव्यजनैर अपि
तत्र तत्रापविद्धैश च बाहुभिश चन्दनॊक्षितैः
ऊरुभिश च नरेन्द्राणां समास्तीर्यत मेदिनी
तत्राद्भुतम अपश्याम रणे पार्थस्य विक्रमम
शरैः संवार्य तान वीरान निजघान बलं तव
पुत्रस तु तव तं दृष्ट्वा भीमार्जुनसमागमम
गाङ्गेयस्य रथाभ्याशम उपजग्मे महाभये
कृपश च कृतवर्मा च सैन्धवश च जयद्रथः
विन्दानुविन्दाव आवन्त्याव आजग्मुः संयुगं तदा
ततॊ भीमॊ महेष्वासः फल्गुनश च महारथः
कौरवाणां चमूं घॊरां भृशं दुद्रुवतू रणे
ततॊ बर्हिणवाजानाम अयुतान्य अर्बुदानि च
धनंजयरथे तूर्णं पातयन्ति सम संयुगे
ततस ताञ शरजालेन संनिवार्य महारथान
पार्थः समन्तात समरे परेषयाम आस मृत्यवे
शल्यस तु समरे जिष्णुं करीडन्न इव महारथः
आजघानॊरसि करुद्धॊ भल्लैः संनतपर्वभिः
तस्य पार्थॊ धनुश छित्त्वा हस्तावापं च पञ्चभिः
अथैनं सायकैस तीक्ष्णैर भृशं विव्याध मर्मणि
अथान्यद धनुर आदाय समरे भर साधनम
मद्रेश्वरॊ रणे जिष्णुं ताडयाम आस रॊषितः
तरिभिः शरैर महाराज वासुदेवं च पञ्चभिः
भीमसेनं च नवभिर बाह्वॊर उरसि चार्पयत
ततॊ दरॊणॊ महाराज मागधश च महारथः
दुर्यॊधन समादिष्टौ तं देशम उपजग्मतुः
यत्र पार्थॊ महाराज भीमसेनश च पाण्डवः
कौरव्यस्य महासेनां जघ्नतुस तौ महारथौ
जयत्सेनस तु समरे भीमं भीमायुधं युवा
विव्याध निशितैर बाणैर अष्टभिर भरतर्षभ
तं भीमॊ दशभिर विद्ध्वा पुनर विव्याध सप्तभिः
सारथिं चास्य भल्लेन रथनीडाद अपाहरत
उद्भ्रान्तैस तुरगैः सॊ ऽत दरवमाणैः समन्ततः
मागधॊ ऽपहृतॊ राजा सर्वसैन्यस्य पश्यतः
दरॊणस तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः
विव्याध बाणैः सुशितैः पञ्चषष्ट्या तम आयसैः
तं भीमः समरश्लाघी गुरुं पितृसमं रणे
विव्याध नवभिर भल्लैस तथा षष्ट्या च भारत
अर्जुनस तु सुशर्माणं विद्ध्वा बहुभिर आयसैः
वयधमत तस्य तत सैन्यं महाभ्राणि यथानिलः
ततॊ भीष्मश च राजा च सौबलश च बृहद्बलः
अभ्यद्रवन्त संक्रुद्धा भीमसेनधनंजयौ
तथैव पाण्डवाः शूरा धृष्टद्युम्नश च पार्षतः
अभ्यद्रवन रणे भीष्मं वयादितास्यम इवान्तकम
शिखण्डी तु समासाद्य भारतानां पितामहम
अभ्यद्रवत संहृष्टॊ भयं तयक्त्वा यतव्रतम
युधिष्ठिर मुखाः पार्थाः पुरस्कृत्य शिखण्डिनम
अयॊधयन रणे भीष्मं संहता सह सृञ्जयैः
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम
शिखण्डिप्रमुखान पार्थान यॊधयन्ति सम संयुगे
ततः परववृते युद्धं कौरवाणां भयावहम
तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं परति
तावकानां रणे भीष्मॊ गलह आसीद विशां पते
तत्र हि दयूतम आयातं विजयायेतराय वा
धृष्टद्युम्नॊ महाराज सर्वसैन्यान्य अचॊदयत
अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः
सेनापतिवचः शरुत्वा पाण्डवानां वरूथिनी
भीष्मम एवाभ्ययात तूर्णं पराणांस तयक्त्वा महाहवे
भीष्मॊ ऽपि रथिनां शरेष्ठः परतिजग्राह तां चमूम
आपतन्तीं महाराज वेलाम इव महॊदधिः
धृतराष्ट्र उवाच
कथं शांतनवॊ भीष्मॊ दशमे ऽहनि संजय
अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः
कुरवश च कथं युद्धे पाण्डवान परत्यवारयन
आचक्ष्व मे महायुद्धं भीष्मस्याहवशॊभिनः
संजय उवाच
कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत
यथा च तद अभूद युद्धं तत ते वक्ष्यामि शृण्वतः
परेषिताः परलॊकाय परमास्त्रैः किरीटिना
अहन्य अहनि संप्राप्तास तावकानां रथव्रजाः
यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः
पार्थानाम अकरॊद भीष्मः सततं समितिक्षयम
कुरुभिः सहितं भीष्मं युध्यमानं महारथम
अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः
दशमे ऽहनि तस्मिंस तु भीष्मार्जुनसमागमे
अवर्तत महारौद्रः सततं समितिक्षयः
तस्मिन्न अयुतशॊ राजन भूयश च स परंतपः
भीष्मः शांतनवॊ यॊधाञ जघान परमास्त्रवित
येषाम अज्ञातकल्पानि नामगॊत्राणि पार्थिव
ते हतास तत्र भीष्मेण शूराः सर्वे ऽनिवर्तिनः
दशाहानि ततस तप्त्वा भीष्मः पाण्डववाहिनीम
निरविद्यत धर्मात्मा जीवितेन परंतपः
स कषिप्रं वधम अन्विच्छन्न आत्मनॊ ऽभिमुखं रणे
न हन्यां मानवश्रेष्ठान संग्रामे ऽभिमुखान इति
चिन्तयित्वा महाबाहुः पिता देवव्रतस तव
अभ्याशस्थं महाराज पाण्डवं वाक्यम अब्रवीत
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद
शृणु मे वचनं तात धर्म्यं सवर्ग्यं च जल्पतः
निर्विण्णॊ ऽसमि भृशं तात देहेनानेन भारत
घनतश च मे गतः कालः सुबहून पराणिनॊ रणे
तस्मात पार्थं पुरॊधाय पाञ्चालान सृञ्जयांस तथा
मद्वधे करियतां यत्नॊ मम चेद इच्छसि परियम
तस्य तन मतम आज्ञाय पाण्डवः सत्यदर्शनः
भीष्मं परतिययौ यत्तः संग्रामे सह सृञ्जयैः
धृष्टद्युम्नस ततॊ राजन पाण्डवश च युधिष्ठिरः
शरुत्वा भीष्मस्य तां वाचं चॊदयाम आसतुर बलम
अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे
रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना
अयं चापि महेष्वासः पार्षतॊ वाहिनीपतिः
भीमसेनश च समरे पालयिष्यति वॊ धरुवम
न वै भीष्माद भयं किं चित कर्तव्यं युधि सृञ्जयाः
धरुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम
तथा तु समयं कृत्वा दशमे ऽहनि पाण्डवाः
बरह्मलॊकपरा भूत्वा संजग्मुः करॊधमूर्छिताः
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम
भीष्मस्य पातने यत्नं परमं ते समास्थिताः
ततस तव सुतादिष्टा नानाजनपदेश्वराः
दरॊणेन सहपुत्रेण सहसेना महाबलाः
दुःशासनश च बलवान सह सर्वैः सहॊदरैः
भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा
ततस तु तावकाः शूराः पुरस्कृत्य यतव्रतम
शिखण्डिप्रमुखान पार्थान यॊधयन्ति सम संयुगे
चेदिभिश च सपाञ्चालैः सहितॊ वानरध्वजः
ययौ शांतनवं भीष्मं पुरस्कृत्य शिखण्डिनम
दरॊणपुत्रं शिनेर नप्ता धृष्टकेतुस तु पौरवम
युधामन्युः सहामात्यं दुर्यॊधनम अयॊधयत
विराटस तु सहानीकः सहसेनं जयद्रथम
वृद्धक्षत्रस्य दायादम आससाद परंतपः
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः
भीमसेनाभिगुप्तश च नागानीकम उपाद्रवत
अप्रधृष्यम अनावार्यं सर्वशस्त्रभृतां वरम
दरॊणं परति ययौ यत्तः पाञ्चाल्यः सह सॊमकैः
कर्णिकारध्वजं चापि सिंहकेतुर अरिंदमः
परत्युज्जगाम सौभद्रं राजपुत्रॊ बृहद्बलः
शिखण्डिनं च पुत्रास ते पाण्डवं च धनंजयम
राजभिः समरे सार्धम अभिपेतुर जिघांसवः
तस्मिन्न अतिमहाभीमे सेनयॊर वै पराक्रमे
संप्रधावत्स्व अनीकेषु मेदिनी समकम्पत
तान्य अनीकान्य अनीकेषु समसज्जन्त भारत
तावकानां परेषां च दृष्ट्वा शांतनवं रणे
ततस तेषां परयतताम अन्यॊन्यम अभिधावताम
परादुरासीन महाञ शब्दॊ दिक्षु सर्वासु भारत
शङ्खदुन्दुभिघॊषैश च वारणानां च बृंहितैः
सिंहनादैश च सैन्यानां दारुणः समपद्यत
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी परभा
वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत
रजॊमेघाश च संजज्ञुः शस्त्रविद्युद्भिर आवृताः
धनुषां चैव निर्घॊषॊ दारुणः समपद्यत
बाणशङ्खप्रणादाश च भेरीणां च महास्वनाः
रथगॊषश च संजग्मुः सेनयॊर उभयॊर अपि
परासशक्त्यृष्टिसंघैश च बाणौघैश च समाकुलम
निष्प्रकाशम इवाकाशं सेनयॊः समपद्यत
अन्यॊन्यं रथिनः पेतुर वाजिनश च महाहवे
कुञ्जराः कुञ्जराञ जघ्नुः पदातींश च पदातयः
तद आसीत सुमहद युद्धं कुरूणां पाण्डवैः सह
भीष्महेतॊर नरव्याघ्र शयेनयॊर आमिषे यथा
तयॊः समागमॊ घॊरॊ बभूव युधि भारत
अन्यॊन्यस्य वधार्थाय जिगीषूणां रणाजिरे
[स]
अभिमन्युर महाराज तव पुत्रम अयॊधयत
महत्या सेनया युक्तॊ भीष्महेतॊः पराक्रमी
दुर्यॊधनॊ रणे कार्ष्णिं नवभिर नव पर्वभिः
आजघान रणे करुद्धः पुनश चैनं तरिभिः शरैः
तस्य शक्तिं रणे कार्ष्णिर मृत्यॊर घॊराम इव सवसाम
परेषयाम आस संक्रुद्धॊ दुर्यॊधन रथं परति
ताम आपतन्तीं सहसा घॊररूपां विशां पते
दविधा चिच्छेद ते पुत्रः कषुरप्रेण महारथः
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकॊपनः
दुर्यॊधनं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत
पुनश चैनं शरैर घॊरैर आजघान सतनान्तरे
दशभिर भरतश्रेष्ठ दुर्यॊधनम अमर्षणम
तद युद्धम अभवद घॊरं चित्ररूपं च भारत
ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च
युयुधाते रणे वीरौ सौभद्र कुरुपुंगवौ
सात्यकिं रभसं युद्धे दरौणिर बराह्मणपुंगवः
आजघानॊरसि करुद्धॊ नाराचेन परंतपः
शैनेयॊ ऽपि गुरॊः पुत्रं सर्वमर्मसु भारत
अताडयद अमेयात्मा नवभिः कङ्कपत्रिभिः
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः
तरिंशता च पुनस तूर्णं बाह्वॊर उरसि चार्पयत
सॊ ऽतिविद्धॊ महेष्वासॊ दरॊणपुत्रेण सात्वतः
दरॊणपुत्रं तरिभिर बाणैर आजघान महायशाः
पौरवॊ धृष्टकेतुं च शरैर आसाद्य संयुगे
बहुधा दारयां चक्रे महेष्वासं महारथम
तथैव पौरवं युद्धे धृष्टकेतुर महारथः
तरिंशता निशितैर बाणैर विव्याध सुमहाबलः
पौरवस तु धनुश छित्त्वा धृष्टकेतॊर महारथः
ननाद बलवन नादं विव्याध दशभिः शरैः
सॊ ऽनयत कार्मुकम आदाय पौरवं निशितैः शरैः
आजघान महाराज तरिसप्तत्या शिलीमुखैः
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ
महता शरवर्षेण परस्परम अवर्षताम
अन्यॊन्यस्य धनुश छित्त्वा हयान हत्वा च भारत
विरथाव असियुद्धाय संगतौ तौ महारथौ
आर्षभे चर्मणी चित्रे शतचन्द्र परिष्कृते
तारका शतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ
परगृह्य विमलौ राजंस ताव अन्यॊन्यम अभिद्रुतौ
वाशिता संगमे यत्तौ सिंहाव इव महावने
मण्डलानि विचित्राणि गतप्रत्यागतानि च
चेरतुर दर्शयन्तौ च परार्थयन्तौ परस्परम
पौरवॊ धृष्टकेतुं तु शङ्खदेशे महासिना
ताडयाम आस संक्रुद्धस तिष्ठ तिष्ठेति चाब्रवीत
चेदिराजॊ ऽपि समरे पौरवं पुरुषर्षभम
आजघान शिताग्रेण जत्रु देशे महासिना
ताव अन्यॊन्यं महाराज समासाद्य महाहवे
अन्यॊन्यवेगाभिहतौ निपेततुर अरिंदमौ
ततः सवरथम आरॊप्य पौरवं तनयस तव
जयत्सेनॊ रथे राजन्न अपॊवाह रणाजिरात
धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः
अपॊवाह रणे राजन सहदेवः परतापवान
चित्रसेनः सुशर्माणं विद्ध्वा नवभिर आशुगैः
पुनर विव्याध तं षष्ट्या पुनश च नवभिः शरैः
सुशर्मा तु रणे करुद्धस तव पुत्रं विशां पते
दशभिर दशभिश चैव विव्याध निशितैः शरैः
चित्रसेनश च तं राजंस तरिंशता नतपर्वणाम
आजघान रणे करुद्धः स च तं परत्यविध्यत
भीष्मस्य समरे राजन यशॊ मानं च वर्धयन
सौभद्रॊ राजपुत्रं तु बृहद्बलम अयॊधयत
आर्जुनिं कॊसलेन्द्रस तु विद्ध्वा पञ्चभिर आयसैः
पुनर विव्याध विंशत्या शरैः संनतपर्वभिः
बृहद्बलं च सौभद्रॊ विद्ध्वा नवभिर आयसैः
नाकम्पयत संग्रामे विव्याध च पुनः पुनः
कौसल्यस्य पुनश चापि धनुश चिच्छेद फाल्गुणिः
आजघान शरैश चैव तरिंशता कङ्कपत्रिभिः
सॊ ऽनयत कार्मुकम आदाय राजपुत्रॊ बृहद्बलः
फाल्गुणिं समरे करुद्धॊ विव्याधबहुभिः शरैः
तयॊर युद्धं समभवद भीष्महेतॊः परंतप
संरब्धयॊर महाराज समरे चित्रयॊधिनॊः
यथा देवासुरे युद्धे मय वासवयॊर अभूत
भीमसेनॊ गजानीकं यॊधयन बह्व अशॊभत
यथा शक्रॊ वज्रपाणिर दारयन पर्वतॊत्तमान
ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः
निपेतुर उर्व्यां सहिता नादयन्तॊ वसुंधराम
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयॊपमाः
विरेजुर वसुधां पराप्य विकीर्णा इव पर्वतः
युधिष्ठिरॊ महेष्वासॊ मद्रराजानम आहवे
महत्या सेनया गुप्तं पीडयाम आस संगतः
मद्रेश्वरश च समरे धर्मपुत्रं महारथम
पीडयाम आस संरब्धॊ भीष्महेतॊः पराक्रमी
विराटं सैन्धवॊ राजा विद्ध्वा संनतपर्वभिः
नवभिः सायकैस तीक्ष्णैस तरिंशता पुनर अर्दयत
विराटश च महाराज सैन्धवं वाहिनीमुखे
तरिंशता निशितैर बाणैर आजघान सतनान्तरे
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुध धवजौ
रेजतुश चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ
दरॊणः पाञ्चाल पुत्रेण समागम्य महारणे
महासमुदयं चक्रे शरैः संनतपर्वभिः
ततॊ दरॊणॊ महाराज पार्षतस्य महद धनुः
छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत
सॊ ऽनयत कार्मुकम आदाय पार्षतः परवीरहा
दरॊणस्य मिषतॊ युद्धे परेषयाम आस सायकान
ताञ शराञ शरसंघैस तु संनिवार्य महारथः
दरॊणॊ दरुपदपुत्राय पराहिणॊत पञ्च सायकान
तस्य करुद्धॊ महाराज पार्षतः परवीरहा
दरॊणाय चिक्षेप गदां यमदण्डॊपमं रणे
ताम आपतन्तीं सहसा हेमपट्ट विभूषिताम
शरैः पञ्चाशता दरॊणॊ वारयाम आस संयुगे
सा छिन्ना बहुधा राजन दरॊण चापच्युतैः शरैः
चूर्णीकृता विशीर्यन्ती पपात वसुधातले
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः
दरॊणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम
तां दरॊणॊ नवभिर बाणैश चिच्छेद युधि भारत
पार्षतं च महेष्वासं पीडयाम आस संयुगे
एवम एतन महद युद्धं दरॊण पार्षतयॊर अभूत
भीष्मं परति महाराज घॊररूपां भयानकम
अर्जुनः पराप्य गाङ्गेयं पीडयन निशितैः शरैः
अभ्यद्रवत संयत्तं वने मत्तम इव दविपम
परत्युद्ययौ च तं पार्थं भगदत्तः परतापवान
तरिधा भिन्नेन नागेन मदान्धेन महाबलः
तम आपतन्तं सहसा महेन्द्र गजसंनिभम
परं यत्नं समास्थाय बीभत्सुः परत्यपद्यत
ततॊ गजगतॊ राजा भगदत्तः परतापवान
अर्जुनं शरवर्षेण वारयाम आस संयुगे
अर्जुनस तु रणे नागम आयान्तं रजतॊपमम
विमलैर आयसैस तीक्ष्णैर अविध्यत महारणे
शिखण्डिनं च कौन्तेयॊ याहि याहीत्य अचॊदयत
भीष्मं परति महाराज जह्य एनम इति चाब्रवीत
पराग्ज्यॊतिषस ततॊ हित्वा पाण्डवं पाण्डुपूर्वज
परययौ तवरितॊ राजन दरुपदस्य रथं परति
ततॊ ऽरजुनॊ महाराज भीष्मम अभ्यद्रवद दरुतम
शिखण्डिनं पुरस्कृत्य ततॊ युद्धम अवर्तत
ततस ते तावकाः शूराः पाण्डवं रभसं रणे
सर्वे ऽभयधावन करॊशन्तस तद अद्भुतम इवाभवत
नानाविधान्य अनीकानि पुत्राणां ते जनाधिप
अर्जुनॊ वयधमत काले दिवीवाभ्राणि मारुतः
शिखण्डी तु समासाद्य भरतानां पितामहम
इषुभिस तूर्णम अव्यग्रॊ बहुभिः स समाचिनॊत
सॊमकांश च रणे भीष्मॊ जघ्ने पार्थ पदानुगान
नयवारयत सैन्यं च पाण्डवानां महारथः
रथाग्न्यगारश चापार्चिर असिशक्तिगदेन्धनः
शरसंघ महाज्वालः कषत्रियान समरे ऽदहत
यथा हि सुमहान अग्निः कक्षे चरति सानिलः
तथा जज्वाल भीष्मॊ ऽपि दिव्यान्य अस्त्राण्य उदीरयन
सुवर्णपुङ्खैर इषुभिः शितैः संनतपर्वभिः
नादयन स दिशॊ भीष्मः परदिशश च महायशाः
पातयन रथिनॊ राजन गजांश च सह सादिभिः
मुण्डतालवनानीव चकार स रथव्रजान
निर्मनुष्यान रथान राजन गजान अश्वांश च संयुगे
चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः
तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः
निशम्य सर्वतॊ राजन समकम्पन्त सैनिकाः
अमॊघा हय अपतन बाणाः पितुस ते मनुजेश्वर
नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः
निर्मनुष्यान रथान राजन सुयुक्ताञ जवनैर हयैः
वातायमानान पश्याम हरियमाणान विशां पते
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश
महारथाः समाख्याताः कुलु पुत्रास तनुत्यजः
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः
संग्रामे भीष्मम आसाद्य स वाजिरथकुञ्जराः
जग्मुस ते परलॊकाय वयादितास्यम इवान्तकम
न तत्रासीन महाराज सॊमकानां महारथः
यः संप्राप्य रणे भीष्मं जीविते सम मनॊ दधे
तांश च सर्वान रणे यॊधान परेतराजपुरं परति
नीतान अमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम
न कश चिद एनं समरे परत्युद्याति महारथः
ऋते पाण्डुसुतं वीरं शवेताश्वं कृष्णसारथिम
शिखण्डिनं च समरे पाञ्चाल्यम अमितौजसम
शिखण्डी तु रणे भीष्मम आसाद्य भरतर्षभ
दशभिर दशभिर बाणैर आजघान महाहवे
शिखण्डिनं तु गाङ्गेयः करॊधदीप्तेन चक्षुषा
अवैक्षत कटाक्षेण निर्दहन्न इव भारत
सत्रीत्वं तत संस्मरन राजन सर्वलॊकस्य पश्यतः
न जघान रणे भीष्मः स च तं नावबुद्धवान
अर्जुनस तु महाराज शिखण्डिनम अभाषत
अभित्वरस्व तवरितॊ जहि चैनं पितामहम
किं ते विवक्षया वीर जहि भीष्मं महारथम
न हय अन्यम अनुपश्यामि कं चिद यौधिष्ठिरे बले
यः शक्तः समरे भीष्मं यॊधयेत पितामहम
ऋते तवां पुरुषव्याघ्र सत्यम एतद बरवीमि ते
एवम उक्तस तु पार्थेन शिखण्डी भरतर्षभ
शनैर नानाविधैस तूर्णं पितामहम उपाद्रवत
अचिन्तयित्वा तान बाणान पिता देवव्रतस तव
अर्जुनं समरे करुद्धं वारयाम आस सायकैः
तथैव च चमूं सर्वां पाण्डवानां महारथः
अप्रैषीत समरे तीक्ष्णैः परलॊकाय मारिष
तथैव पाण्डवा राजन सैन्येन महता वृताः
भीष्मं परच्छादयाम आसुर मेघा इव दिवाकरम
स समन्तात परिवृतॊ भारतॊ भरतर्षभ
निर्ददाह रणे शूरान वनं वह्निर इव जवलन
तताद्भुतम अपश्याम तव पुत्रस्य पौरुषम
अयॊधयत यत पार्थं जुगॊप च यतव्रतम
कर्मणा तेन समरे तव पुत्रस्य धन्विनः
दुःशासनस्य तुतुषुः सर्वे लॊका महात्मनः
यद एकः समरे पार्थान सानुगान समयॊधयत
न चैनं पाण्डवा युद्धे वायराम आसुर उल्बणम
दुःशासनेन समरे रथिनॊ विरथी कृताः
सादिनश च महाराज दन्तिनश च महाबलाः
विनिर्भिन्नाः शरैस तीक्ष्णैर निपेतुर धरणीतले
शरातुरास तथैवान्ये दन्तिनॊ विद्रुता दिशः
यथाग्निर इन्धनं पराप्य जवलेद दीप्तार्चिर उल्बणः
तथा जज्वाल पुत्रस ते पाण्डवान वै विनिर्दहन
तं भारत महामात्रं पाण्डवानां महारथः
जेतुं नॊत्सहते कश चिन नाप्य उद्यातुं कथं चन
ऋते महेन्द्र तनयं शवेताश्वं कृष्णसारथिम
स हि तं समरे राजन विजित्य विजयॊ ऽरजुनः
भीष्मम एवाभिदुद्राव सर्वसैन्यस्य पश्यतः
विजितस तव पुत्रॊ ऽपि भीष्म बाहुव्यपाश्रयः
पुनः पुनः समाश्वस्य परायुध्यत रणॊत्कटः
अर्जुनं च रणे राजन यॊधयन स वयराजत
शिखण्डी तु रणे राजन विव्याधैव पितामहम
शरैर अशनिसंस्पर्शैस तथा सर्पविषॊपमैः
न च ते ऽसय रुजं चक्रुः पितुस तव जनेश्वर
समयमानश च गाङ्गेयस तान बाणाञ जगृहे तदा
उष्णार्थॊ हि नरॊ यद्वज जलधाराः पतीच्छति
तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः
तं कषत्रिया महाराज ददृशुर घॊरम आहवे
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम
ततॊ ऽबरवीत तव सुतः सर्वसैन्यानि मारिष
अभिद्रवत संग्रामे फल्गुनं सर्वतॊ रथैः
भीष्मॊ वः समरे सर्वान पलयिष्यति धर्मवित
ते भयं सुमहत तवक्त्वा पाण्डवान परतियुध्यत
एष तालेन दीप्तेन भीष्मस तिष्ठति पालयन
सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च
तरिदशापि समुद्युक्ता नालं भीष्मं समासितुम
किम उ पार्था महात्मानं मर्त्यभूतास तथाबलाः
तस्माद दरवत हे यॊधाः फल्गुनं पराप्य संयुगे
अहम अद्य रणे यत्तॊ यॊधयिष्यामि फल्गुनम
सहितः सर्वतॊ यत्तैर भवद्भिर वसुधाधिपाः
तच छरुत्वा तु वचॊ राजंस तव पुत्रस्य धन्विनः
अर्जुनं परति संयत्ता बलवन्ति महारथाः
ते विदेहाः कलिङ्गाश च दाशेरक गणैः सह
अभिपेतुर निषादाश च सौवीराश च महारणे
बाह्लिका दरदाश चैव पराच्यॊदीच्याश च मालवाः
अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः
शाल्वाश्रयास तरिगर्ताश च अम्बष्ठाः केकयैः सह
अभिपेतू रणे पार्थं पतंगा इव पावकम
स तान सर्वान सहानीकान महाराज महारथान
दिव्यान्य अस्त्राणि संचिन्त्य परसंधाय धनंजयः
स तैर अस्त्रैर महावेगैर ददाहाशु महाबलः
शरप्रतापैर बीभत्सुः पतंगान इव पावकः
तस्य बाणसहस्राणि सृजतॊ दृढधन्विनः
दीप्यमानम इवाकाशे गाण्डीवं समदृश्यत
ते शरार्ता महाराज विप्रकीर्णरथध्वजाः
नाब्यवर्तन्त राजानः सहिता वानरध्वजम
स धवजा रथिनः पेतुर हयारॊहा हयैः सह
गजाः सह गजारॊहैः किरीटिशरताडिताः
ततॊ ऽरजुन भुजॊत्सृष्टैर आवृतासीद वसुंधरा
विद्रवद्भिश च बहुधा बलै राज्ञां समन्ततः
अथ पार्थॊ महाबाहुर दरावयित्वा वरूथिनीम
दुःशासनाय समरे परेषयाम आस सायकान
ते तु भित्त्वा तव सुतं दुःषासनम अयॊमुखाः
धरणीं विविशुः सर्वे वल्मीकम इव पन्नगाः
हयांश चास्य ततॊ जघ्ने सारथिं चन्यपातयत
विविंशतिं च विंशत्या विरथं कृतवान परभॊ
आजघान भृशं चैव पञ्चभिर नतपर्वभिः
कृपं शल्यं विकर्णं च विद्ध्वा बहुभिर आयसैः
चकार विरथांश चैव कौन्तेयः शवेतवाहनः
एवं ते विरथाः पञ्च कृपः शल्यश च मारिष
दुःशासनॊ विकर्णश च तथैव च विविंशतिः
संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना
पूर्वाह्णे तु तथा राजन पराजित्य महारथान
परजज्वाल रणे पार्थॊ विधूम इव पावकः
तथैव शरवर्षेण भास्करॊ रश्मिवान इव
अन्यान अपि महाराज पातयाम आस पार्थिवान
पराङ्मुखी कृत्यतदा शरवर्षैर महारथान
परावर्तयत संग्रामे शॊणितॊदां महानदीम
मध्येन कुरुसैन्यानां पाण्डवानां च भारत
गजाश च रथसंघाश च बहुधा रथिभिर हताः
रथाश च निहता नागैर नागा हयपदातिभिः
अन्तरा छिध्यमानानि शरीराणि शिरांसि च
निपेतुर दिक्षु सर्वासु गजाश्वरथयॊधिनाम
छन्नम आयॊधनं रेजे कुण्डलाङ्गद धारिभिः
पतितैः पात्यमानैश च राजपुत्रैर महारथैः
रथनेमि निकृत्ताश च गजैश चैवावपॊथिताः
पादाताश चाप्य अदृश्यन्त साश्वाः सहयसादिनः
गजाश्वरथसंघाश च परिपेतुः समन्ततः
विशीर्णाश च रथा भूमौ भग्नचक्रयुगध्वजाः
तद गजाश्वरथौघानां रुधिरेण समुक्षितम
छन्नम आयॊधनं रेजे रक्ताभ्रम इव शारदम
शवानः काकाश च गृध्राश च वृका गॊमायुभिः सह
परणेदुर भक्ष्यम आसाद्य विकृताश च मृगद्विजाः
ववुर बहुविधाश चैव दिक्षु सर्वासु मारुताः
दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च
काञ्चनानि च दामानि पताकाश च महाधनाः
धूमायमाना दृश्यन्ते सहसा मारुतेरिताः
शवेतच छत्रसहस्राणि स धवजाश च महारथाः
विनिकीर्णाः सम दृश्यन्ते शतशॊ ऽथ सहस्रशः
स पताकाश च मातङ्गा दिशॊ जग्मुः शरातुराः
कषत्रियाश च मनुष्येन्द्र गदा शक्तिधनुर्धराः
समन्ततॊ वयदृश्यन्त पतिता धरणीतले
ततॊ भीष्मॊ महाराज दिव्यम अस्त्रम उदीरयन
अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम
तं शिखण्डी रणे यत्तम अभ्यधावत दंशितः
संजहार ततॊ भीष्मस तद अस्त्रं पावकॊपमम
एतस्मिन्न एव काले तु कौन्तेयः शवेतवाहनः
निजघ्ने तावकं सैन्यं मॊहयित्वा पितामहम
[स]
एवं वयूढेष्व अनीकेषु भूयिष्ठम अनुवर्तिषु
बरह्मलॊकपराः सर्वे समपद्यन्त भारत
न हय अनीकम अनीकेन समसज्जत संकुले
न रथा रथिभिः सार्धं न पदाताः पदातिभिः
अश्वा नाश्वैर अयुध्यन्त न गजा गजयॊधिभिः
महान वयतिकरॊ रौद्रः सेनयॊः समपद्यत
नरनागरथेष्व एवं वयवकीर्णेषु सर्वशः
कषये तस्मिन महारौद्रे निर्विशेषम अजायत
ततः शल्यः कृपश चैव चित्रसेनश च भारत
दुःशासनॊ विकर्णश च रथान आस्थाय स तवराः
पाण्डवानां रणे शूरा धवजिनीं समकम्पयन
सा वध्यमाना समरे पाण्डुसेना महात्मभिः
तरातारं नाध्यगच्छद वै मज्जमानेव नैर जले
यथा हि शैशिरः कालॊ गवां मर्माणि कृन्तति
तथा पाण्डुसुतानां वै भीष्मॊ मर्माण्य अकृन्तत
अतीव तव सैन्यस्य पार्थेन च महात्मना
नगमेघप्रतीकाशाः पतिता बहुधा गजाः
मृद्यमानाश च दृश्यन्ते पार्थेन नरयूथपाः
इषुभिस ताड्यमानाश च नाराचैश च सहस्रशः
पेतुर आर्तस्वरं कृत्वा तत्र तत्र महागजाः
आबद्धाभरणैः कायैर निहतानां महात्मनाम
छन्नम आयॊधनं रेजे शिरॊभिश च सकुण्डलैः
तस्मिन्न अतिमहाभीमे राजन वीरवरक्षये
भीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये
ते पराक्रान्तम आलॊक्य राजन युधि पितामहम
न नयवर्तन्त कौरव्या बरह्मलॊकपुरस्कृताः
इच्छन्तॊ निधनं युद्धे सवर्गं कृत्वा परायणम
पाण्डवान अभ्यवर्तन्त तस्मिन वीरवरक्षये
पाण्डवापि महाराज समरन्तॊ विविधान बहून
कलेशान कृतान सपुत्रेण तवया पूर्वं नराधिप
भयं तयक्त्वा रणे शूरा बरह्मलॊकपुरस्कृताः
तावकांस तव पुत्रांश च यॊधयन्ति सम हृष्टवत
सेनापतिस तु समरे पराह सेनां महारथः
अभिद्रवत गाङ्गेयं सॊमकाः सृञ्जयैः सह
सेनापतिवचः शरुत्वा सॊमकाः सह सृञ्जयैः
अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः
वध्यमानस ततॊ राजन पिता शांतनवस तव
अमर्षवशम आपन्नॊ यॊधयाम आस सृञ्जयान
तस्य कीर्तिमतस तात पुरा राणेम धीमता
संप्रदत्तास्त्र शिक्षा वै परानीक विनाशिनी
स तां शिक्षाम अधिष्ठाय कृत्वा परबलक्षयम
अहन्य अहनि पार्थानां वृद्धः कुरुपितामहः
भीष्मॊ दशसहस्राणि जघान परवीरहा
तस्मिंस तु दिवसे पराप्ते दशमे भरतर्षभ
भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे
गजाश्वम अमितं हत्वा हताः सप्त महारथाः
हत्वा पञ्च सहस्राणि रथिनां परपितामहः
नराणां च महायुद्धे सहस्राणि चतुर्दश
तथा दन्ति सहस्रं च हयानाम अयुतं पुनः
शिक्षा बलेन निहतं पित्रा तव विशां पते
ततः सर्वमहीपानां कषॊभयित्वा वरूथिनीम
विराटस्य परियॊ भराता शतानीकॊ निपातितः
शतानीकं च समरे हत्वा भीष्मः परतापवान
सहस्राणि महाराज राज्ञां भल्लैर नयपातयत
ये च के चन पार्थानाम अभियाता धनंजयम
राजानॊ भीष्मम आसाद्य गतास ते यमसादनम
एवं दश दिशॊ भीष्मः शरजालैः समन्ततः
अतीत्य सेनां पार्थानाम अवतस्थे चमूमुखे
स कृता सुमहत कर्म तस्मिन वै दशमे ऽहनि
सेनयॊर अन्तरे तिष्ठन परगृहीतशरासनः
न चैनं पाथिवा राजञ शेकुः के चिन निरीक्षितुम
मध्यं पराप्तं यथा गरीष्मे तपन्तं भास्करं दिवि
यथा दैत्य चमूं शक्रस तापयाम आस संयुगे
तथा भीष्मः पाण्डवेयांस तापयाम आस भारत
तथा च तं पराक्रान्तम आलॊक्य मधुसूदनः
उवाच देवकीपुत्रः परीयमाणॊ धनंजयम
एष शांतनवॊ भीष्मः सेनयॊर अन्तरे सथितः
नानिहत्य बलाद एनं विजयस ते भविष्यति
यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः
न हि भीष्म शरान अन्यः सॊढुम उत्सहते विभॊ
ततस तस्मिन कषणे राजंश चॊदितॊ वानरध्वजः
स धवजं स रथं साश्वं भीष्मम अन्तर्दधे शरैः
स चापि कुरुमुख्यानाम ऋषभः पाण्डवेरितान
शरव्रातैः शरव्रातान बहुधा विदुधाव तान
तेन पाञ्चालराजश च धृष्टकेतुश च वीर्यवान
पाण्डवॊ भीमसेनश च धृष्टद्युम्नश च पार्षतः
यमौ च चेकितानश च केकयाः पञ्च चैव ह
सात्यकिश च महाराज सौभद्रॊ ऽथ घटॊत्कचः
दरौपदेयाः शिखण्डी च कुन्तिभॊजश च वीर्यवान
सुशर्मा च विराटश च पाण्डवेया महाबलाः
एत चान्ये च बहवः पीडिता भीष्मसायकैः
समुद्धृताः फल्गुनेन निमग्नाः शॊकसागरे
ततः शिखण्डी वेगेन परगृह्य परमायुधम
भीष्मम एवाभिदुद्राव रक्ष्यमाणः किरीटिना
ततॊ ऽसयानुचरान हत्व सर्वान रणविभागवित
भीष्मम एवाभिदुद्राव बीभत्सुर अपराजितः
सात्यकिश चेकितानश च धृष्टद्युम्नश च पार्षतः
विराटॊ दरुपदश चैव माद्रीपुत्रौ च पाण्डवौ
दुद्रुवुर भीष्मम एवाजौ रक्षिता दृढधन्वना
अभिमन्युश च समरे दरौपद्याः पञ्च चात्मजाः
दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः
ते सर्वे दृढधन्वानः संयुगेष्व अपलायिनः
बहुधा भीष्मम आनर्छन मार्गणैः कृतमार्गणाः
विधूय तान बाणगणान ये मुक्ताः पार्थिवॊत्तमैः
पाण्डवानाम अदीनात्मा वयगाहत वरूथिनीम
कृत्वा शरविघातं च करीडन्न इव पितामहः
नाभिसंधत्त पाञ्चाल्यं समयमानॊ मुहुर मुहुः
सत्रीत्वं तस्यानुसंस्मृत्य भीष्मॊ बाणाञ शिखण्डिनः
जघान दरुपदानीके रथान सप्त महारथः
ततः किल किला शब्दः कषणेन समपद्यत
मत्स्यपाञ्चाल चेदीनां तम एकम अभिधावताम
ते वराश्वरथव्रातैर वारणैः स पदातिभिः
तम एकं छादयाम आसुर मेघा इव दिवाकरम
भीष्मं भागिरथी पुत्रं परतपन्तं रणे रिपून
ततस तस्य च तेषां च युद्धे देवासुरॊपमे
किरीटी भीष्मम आनर्छत पुरस्कृत्य शिखण्डिनम
संजय उवाच
एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम
विव्यधुः समरे भीष्मं परिवार्य समन्ततः
शतघ्नीभिः सुघॊराभिः पट्टिशैः सपरश्वधैः
मुद्गरैर मुसलैः परासैः कषेपणीभिश च सर्वशः
शरैः कनकपुङ्खैश च शक्तितॊमरकम्पनैः
नाराचैर वत्सदन्तैश च भुशुण्डीभिश च भारत
अताडयन रणे भीष्मे सहिताः सर्वसृञ्जयाः
स विशीर्णातनुत्राणः पीडितॊ बहुभिस तदा
विव्यथे नैव गाङ्गेयॊ भिद्यमानेषु मर्मसु
स दीप्तशरचापार्चिर अस्त्रप्रसृतमारुतः
नेमिनिर्ह्रादसंनादॊ महास्त्रॊदयपावकः
चित्रचापमहाज्वालॊ वीरक्षयमहेन्धनः
युगान्ताग्निसमॊ भीष्मः परेषां समपद्यत
निपत्य रथसंघानाम अन्तरेण विनिःसृतः
दृश्यते सम नरेन्द्राणां पुनर मध्यगतश चरन
ततः पाञ्चालराजं च धृष्टकेतुम अतीत्य च
पाण्डवानीकिनीमध्यम आससाद स वेगितः
ततः सात्यकिभीमौ च पाण्डवं च धनंजयम
दरुपदं च विराटं च धृष्टद्युम्नं च पार्षतम
भीमघॊषैर महावेगैर वैरिवारणभेदिभिः
षड एतान षड्भिर आनर्छद भास्करप्रतिमैः शरैः
तस्य ते निशितान बाणान संनिवार्य महारथाः
दशभिर दशभिर भीष्मम अर्दयाम आसुर ओजसा
शिखण्डी तु रणे बाणान यान मुमॊच महाव्रते
ते भीष्मं विविशुस तूर्णं सवर्णपुङ्खाः शिलाशिताः
ततः किरीटी संरब्धॊ भीष्मम एवाभ्यवर्तत
शिखण्डिनं पुरस्कृत्य धनुश चास्य समाच्छिनत
भीष्मस्य धनुषश छेदं नामृष्यन्त महारथाः
दरॊणश च कृतवर्मा च सैन्धवश च जयद्रथः
भूरिश्रवाः शलः शल्यॊ भगदत्तस तथैव च
सप्तैते परमक्रुद्धाः किरीटिनम अभिद्रुताः
उत्तमास्त्राणि दिव्यानि दर्शयन्तॊ महारथाः
अभिपेतुर भृशं करुद्धाश छादयन्त सम पाण्डवान
तेषाम आपततां शब्दः शुश्रुवे फल्गुनं परति
उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये
हतानयत गृह्णीत युध्यतापि च कृन्तत
इत्य आसीत तुमुलः शब्दः फल्गुनस्य रथं परति
तं शब्दं तुमुलं शरुत्वा पाण्डवानां महारथाः
अभ्यधावन परीप्सन्तः फल्गुनं भरतर्षभ
सात्यकिर भीमसेनश च धृष्टद्युम्नश च पार्षतः
विराटद्रुपदौ चॊभौ राक्षसश च घटॊत्कचः
अभिमन्युश च संक्रुद्धः सप्तैते करॊधमूर्छिताः
समभ्यधावंस तवरिताश चित्रकार्मुकधारिणः
तेषां समभवद युद्धं तुमुलं लॊमहर्षणम
संग्रामे भरतश्रेष्ठ देवानां दानवैर इव
शिखण्डी तु रथश्रेष्ठॊ रक्ष्यमाणः किरीटिना
अविध्यद दशभिर भीष्मं छिन्नधन्वानम आहवे
सारथिं दशभिश चास्य धवजं चैकेन चिच्छिदे
सॊ ऽनयत कार्मुकम आदाय गाङ्गेयॊ वेगवत्तरम
तद अप्य अस्य शितैर भल्लैस तरिभिश चिच्छेद फल्गुनः
एवं स पाण्डवः करुद्ध आत्तम आत्तं पुनः पुनः
धनुर भीष्मस्य चिच्छेद सव्यसाची परंतपः
स चछिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन
शक्तिं जग्राह संक्रुद्धॊ गिरीणाम अपि दारणीम
तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं परति
ताम आपतन्तीं संप्रेक्ष्य जवलन्तीम अशनीम इव
समादत्त शितान भल्लान पञ्च पाण्डवनन्दनः
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः
संक्रुद्धॊ भरतश्रेष्ठ भीष्मबाहुबलेरिताम
सा पपात परिच्छिन्ना संक्रुद्धेन किरीटिना
मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा
छिन्नां तां शक्तिम आलॊक्य भीष्मः करॊधसमन्वितः
अचिन्तयद रणे वीरॊ बुद्ध्या परपुरंजयः
शक्तॊ ऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान
यद्य एषां न भवेद गॊप्ता विष्वक्सेनॊ महाबलः
कारणद्वयम आस्थाय नाहं यॊत्स्यामि पाण्डवैः
अवध्यत्वाच च पाण्डूनां सत्रीभावाच च शिखण्डिनः
पित्रा तुष्टेन मे पूर्वं यदा कालीम उदावहत
सवच्छन्दमरणं दत्तम अवध्यत्वं रणे तथा
तस्मान मृत्युम अहं मन्ये पराप्तकालम इवात्मनः
एवं जञात्वा वयवसितं भीष्मस्यामिततेजसः
ऋषयॊ वसवश चैव वियत्स्था भीष्मम अब्रुवन
यत ते वयवसितं वीर अस्माकं सुमहत परियम
तत कुरुष्व महेष्वास युद्धाद बुद्धिं निवर्तय
तस्य वाक्यस्य निधने परादुर आसीच छिवॊ ऽनिलः
अनुलॊमः सुगन्धी च पृषतैश च समन्वितः
देवदुन्दुभयश चैव संप्रणेदुर महास्वनाः
पपात पुष्पवृष्टिश च भीष्मस्यॊपरि पार्थिव
न च तच छुश्रुवे कश चित तेषां संवदतां नृप
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा
संभ्रमश च महान आसीत तरिदशानां विशां पते
पतिष्यति रथाद भीष्मे सर्वलॊकप्रिये तदा
इति देवगणानां च शरुत्वा वाक्यं महामनाः
ततः शांतनवॊ भीष्मॊ बीभत्सुं नाभ्यवर्तत
भिद्यमानः शितैर बाणैः सर्वावरणभेदिभिः
शिखण्डी तु महाराज भरतानां पितामहम
आजघानॊरसि करुद्धॊ नवभिर निशितैः शरैः
स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः
नाकम्पत महाराज कषितिकम्पे यथाचलः
ततः परहस्य बीभत्सुर वयाक्षिपन गाण्डिवं धनुः
गाङ्गेयं पञ्चविंशत्या कषुद्रकाणां समर्पयत
पुनः शरशतेनैवं तवरमाणॊ धनंजयः
सर्वगात्रेषु संक्रुद्धः सर्वमर्मस्व अताडयत
एवम अन्यैर अपि भृशं वध्यमानॊ महारणे
न चक्रुस ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः
ततः किरीटी संरब्धॊ भीष्मम एवाभ्यवर्तत
शिखण्डिनं पुरस्कृत्य धनुश चास्य समाच्छिनत
अथैनं दशभिर विद्ध्वा धवजम एकेन चिच्छिदे
सारथिं विशिखैश चास्य दशभिः समकम्पयत
सॊ ऽनयत कार्मुकम आदत्त गाङ्गेयॊ बलवत्तरम
तद अप्य अस्य शितैर भल्लैस तरिधा तरिभिर उपानुदत
निमेषान्तरमात्रेण आत्तम आत्तं महारणे
एवम अस्य धनूंष्य आजौ चिच्छेद सुबहून्य अपि
ततः शांतनवॊ भीष्मॊ बीभत्सुं नाभ्यवर्तत
अथैनं पञ्चविंशत्या कषुद्रकाणां समर्दयत
सॊ ऽतिविद्धॊ महेष्वासॊ दुःशासनम अभाषत
एष पार्थॊ रणे करुद्धः पाण्डवानां महारथः
शरैर अनेकसाहस्रैर माम एवाभ्यसते रणे
न चैष शक्यः समरे जेतुं वज्रभृता अपि
न चापि सहिता वीरा देवदानवराक्षसाः
मां चैव शक्ता निर्जेतुं किम उ मर्त्याः सुदुर्बलाः
एवं तयॊः संवदतॊः फल्गुनॊ निशितैः शरैः
शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे
ततॊ दुःशासनं भूयः समयमानॊ ऽभयभाषत
अतिविद्धः शितैर बाणैर भृशं गाण्डीवधन्वना
वज्राशनिसमस्पर्शाः शिताग्राः संप्रवेशिताः
विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः
निकृन्तमाना मर्माणि दृढावरणभेदिनः
मुसलानीव मे घनन्ति नेमे बाणाः शिखण्डिनः
बरह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः
मम पराणान आरुजन्ति नेमे बाणाः शिखण्डिनः
भुजगा इव संक्रुद्धा लेलिहाना विषॊल्बणाः
ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः
नाशयन्तीव मे पराणान यमदूता इवाहिताः
गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः
कृन्तन्ति मम गात्राणि माघमासे गवाम इव
अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः
सर्वे हय अपि न मे दुःखं कुर्युर अन्ये नराधिपाः
वीरं गण्डीवधन्वानम ऋते जिष्णुं कपिध्वजम
इति बरुवञ शांतनवॊ दिधक्षुर इव पाण्डवम
सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत
ताम अस्य विशिखैश छित्त्वा तरिधा तरिभिर अपातयत
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत
चर्माथादत्त गाङ्गेयॊ जातरूपपरिष्कृतम
खड्गं चान्यतरं परेप्सुर मृत्यॊर अग्रे जयाय वा
तस्य तच छतधा चर्म वयधमद दंशितात्मनः
रथाद अनवरूढस्य तद अद्भुतम इवाभवत
विनद्यॊच्चैः सिंह इव सवान्य अनीकान्य अचॊदयत
अभिद्रवत गाङ्गेयं मां वॊ ऽसतु भयम अण्व अपि
अथ ते तॊमरैः परासैर बाणौघैश च समन्ततः
पट्टिशैश च सनिस्त्रिंशैर नानाप्रहरणैस तथा
वत्सदन्तैश च भल्लैश च तम एकम अभिदुद्रुवुः
सिंहनादस ततॊ घॊरः पाण्डवानाम अजायत
तथैव तव पुत्राश च राजन भीष्मजयैषिणः
तम एकम अभ्यवर्तन्त सिंहनादांश च नेदिरे
तत्रासीत तुमुलं युद्धं तावकानां परैः सह
दशमे ऽहनि राजेन्द्र भीष्मार्जुनसमागमे
आसीद गाङ्ग इवावर्तॊ मुहूर्तम उदधेर इव
सैन्यानां युध्यमानानां निघ्नताम इतरेतरम
अगम्यरूपा पृथिवी शॊणिताक्ता तदाभवत
समं च विषमं चैव न पराज्ञायत किं चन
यॊधानाम अयुतं हत्वा तस्मिन स दशमे ऽहनि
अतिष्ठद आहवे भीष्मॊ भिद्यमानेषु मर्मसु
ततः सेनामुखे तस्मिन सथितः पार्थॊ धनंजयः
मध्येन कुरुसैन्यानां दरावयाम आस वाहिनीम
वयं शवेतहयाद भीताः कुन्तीपुत्राद धनंजयात
पीड्यमानाः शितैः शस्त्रैः परद्रवाम महारणात
सौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः
अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः
शाल्वाश्रयास तरिगर्ताश च अम्बष्ठाः केकयैः सह
दवादशैते जनपदाः शरार्ता वरणपीडिताः
संग्रामे न जहुर भीष्मं युध्यमानं किरीटिना
ततस तम एकं बहवः परिवार्य समन्ततः
परिकाल्य कुरून सर्वाञ शरवर्षैर अवाकिरन
निपातयत गृह्णीत विध्यताथ च कर्षत
इत्य आसीत तुमुलः शब्दॊ राजन भीष्मरथं परति
अभिहत्य शरौघैस तं शतशॊ ऽथ सहस्रशः
न तस्यासीद अनिर्भिन्नं गात्रेष्व अङ्गुलमात्रकम
एवंविभॊ तव पिता शरैर विशकली कृतः
शिताग्रैः फल्गुनेनाजौ पराक्शिराः परापतद रथात
किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम
हाहेति दिवि देवानां पार्थिवानां च सर्वशः
पतमाने रथाद भीष्मे बभूव सुमहान सवनः
तं पतन्तम अभिप्रेक्ष्य महात्मानं पितामहम
सह भीष्मेण सर्वेषां परापतन हृदयानि नः
स पपात महाबाहुर वसुधाम अनुनादयन
इन्द्रध्वज इवॊत्सृष्टः केतुः सर्वधनुष्मताम
धरणीं नास्पृशच चापि शरसंघैः समाचितः
शरतल्पे महेष्वासं शयानं पुरुषर्षभम
रथात परपतितं चैनं दिव्यॊ भावः समाविशत
अभ्यवर्षत पर्जन्यः पराकम्पत च मेदिनी
पतन स ददृशे चापि खर्वितं च दिवाकरम
संज्ञां चैवालभद वीरः कालं संचिन्त्य भारत
अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः
कालं कर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने
सथितॊ ऽसमीति च गाङ्गेयस तच छरुत्वा वाक्यम अब्रवीत
धारयाम आस च पराणान पतितॊ ऽपि हि भूतले
उत्तरायणम अन्विच्छन भीष्मः कुरुपितामहः
तस्य तन मतम आज्ञाय गङ्गा हिमवतः सुता
महर्षीन हंसरूपेण परेषयाम आस तत्र वै
ततः संपातिनॊ हंसास तवरिता मानसौकसः
आजग्मुः सहिता दरष्टुं भीष्मं कुरुपितामहम
यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः
ते तु भीष्मं समासाद्य मुनयॊ हंसरूपिणः
अपश्यञ शरतल्पस्थं भीष्मं कुरुपितामहम
ते तं दृष्ट्वा महात्मानं कृत्वा चापि परदक्षिणम
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम
इतरेतरम आमन्त्र्य पराहुस तत्र मनीषिणः
भीष्म एव महात्मा सन संस्थाता दक्षिणायने
इत्य उक्त्वा परस्थितान हंसान दक्षिणाम अभितॊ दिशम
संप्रेक्ष्य वै महाबुद्धिश चिन्तयित्वा च भारत
तान अब्रवीच छांतनवॊ नाहं गन्ता कथं चन
दक्षिणावृत्त आदित्य एतन मम मनैः सथितम
गमिष्यामि सवकं सथानम आसीद यन मे पुरातनम
उदगावृत्त आदित्ये हंसाः सत्यं बरवीमि वः
धारयिष्याम्य अहं पराणान उत्तरायणकाङ्क्षया
ऐश्वर्यभूतः पराणानाम उत्सर्गे नियतॊ हय अहम
तस्मात पराणान धारयिष्ये मुमूर्षुर उदगायने
यश च दत्तॊ वरॊ मह्यं पित्रा तेन महात्मना
छन्दतॊ मृत्युर इत्य एवं तस्य चास्तु वरस तथा
धारयिष्ये ततः पराणान उत्सर्गे नियते सति
इत्य उक्त्वा तांस तदा हंसान अशेत शरतल्पगः
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि
पाण्डवाः सृञ्जयाश चैव सिंहनादं परचक्रिरे
तस्मिन हते महासत्त्वे भरतानाम अमध्यमे
न किं चित परत्यपद्यन्त पुत्रास ते भरतर्षभ
संमॊहश चैव तुमुलः कुरूणाम अभवत तदा
नृपा दुर्यॊधनमुखा निःश्वस्य रुरुदुस ततः
विषादाच च चिरं कालम अतिष्ठन विगतेन्द्रियाः
दध्युश चैव महाराज न युद्धे दधिरे मनः
ऊरुग्राहगृहीताश च नाभ्यधावन्त पाण्डवान
अवध्ये शंतनॊः पुत्रे हते भीष्मे महौजसि
अभावः सुमहान राजन कुरून आगाद अतन्द्रितः
हतप्रवीराश च वयं निकृत्ताश च शितैः शरैः
कर्तव्यं नाभिजानीमॊ निर्जिताः सव्यसाचिना
पाण्डवास तु जयं लब्ध्वा परत्र च परां गतिम
सर्वे दध्मुर महाशङ्खाञ शूराः परिघबाहवः
सॊमकाश च सपञ्चालाः पराहृष्यन्त जनेश्वर
ततस तूर्यसहस्रेषु नदत्सु सुमहाबलः
आस्फॊटयाम आस भृशं भीमसेनॊ ननर्त च
सेनयॊर उभयॊश चापि गाङ्गेये विनिपातिते
संन्यस्य वीराः शस्त्राणि पराध्यायन्त समन्ततः
पराक्रॊशन परापतंश चान्ये जग्मुर मॊहं तथापरे
कषत्रं चान्ये ऽभयनिन्दन्त भीष्मं चैके ऽभयपूजयन
ऋषयः पितरश चैव परशशंसुर महाव्रतम
भरतानां च ये पूर्वे ते चैनं परशशंसिरे
महॊपनिषदं चैव यॊगम आस्थाय वीर्यवान
जपञ शांतनवॊ धीमान कालाकाङ्क्षी सथितॊ ऽभवत
धृतराष्ट्र उवाच
कथम आसंस तदा यॊधा हीना भीष्मेण संजय
बलिना देवकल्पेन गुर्वर्थे बरह्मचारिणा
तदैव निहतान मन्ये कुरून अन्यांश च पार्थिवान
न पराहरद यदा भीष्मॊ घृणित्वाद दरुपदात्मजे
ततॊ दुःखतरं मन्ये किम अन्यत परभविष्यति
यद अद्य पितरं शरुत्वा निहतं मम दुर्मतेः
अश्मसारमयं नूनं हृदयं मम संजय
शरुत्वा विनिहतं भीष्मं शतधा यन न दीर्यते
पुनः पुनर न मृष्यामि हतं देवव्रतं रणे
न हतॊ जामदग्न्येन दिव्यैर अस्त्रैः सम यः पुरा
यद अद्य निहतेनाजौ भीष्मेण जयम इच्छता
चेष्टितं नरसिंहेन तन मे कथय संजय
संजय उवाच
सायाह्ने नयपतद भूमौ धार्तराष्ट्रान विषादयन
पाञ्चालानां ददद धर्षं कुरुवृद्धः पितामहः
स शेते शरतल्पस्थॊ मेदिनीम अस्पृशंस तदा
भीष्मॊ रथात परपतितः परच्युतॊ धरणीतले
हाहेति तुमुलः शब्दॊ भूतानां समपद्यत
सीमावृक्षे निपतिते कुरूणां समितिक्षये
उभयॊः सेनयॊ राजन कषत्रियान भयम आविशत
भीष्मं शंतनवं दृष्ट्वा विशीर्णकवचध्वजम
कुरवः पर्यवर्तन्त पाण्डवाश च विशां पते
खं तमॊवृतम आसीच च नासीद भानुमतः परभा
ररास पृथिवी चैव भीष्मे शांतनवे हते
अयं बरह्मविदां शरेष्ठॊ अयं बरह्मविदां गतिः
इत्य अभाषन्त भूतानि शयानं भरतर्षभम
अयं पितरम आज्ञाय कामार्तं शंतनुं पुरा
ऊर्ध्वरेतसम आत्मानं चकार पुरुषर्षभः
इति सम शरतल्पस्थं भरतानाम अमध्यमम
ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः
हते शांतनवे भीष्मे भरतानां पितामहे
न किं चित परत्यपद्यन्त पुत्रास तव च भारत
विवर्णवदनाश चासन गतश्रीकाश च भारत
अतिष्ठन वरीडिताश चैव हरिया युक्ता हय अधॊमुखाः
पाण्डवाश च जयं लब्ध्वा संग्रामशिरसि सथिताः
सर्वे दध्मुर महाशङ्खान हेमजालपरिष्कृतान
भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ
अपश्याम रणे राजन भीमसेनं महाबलम
आक्रीडमानं कौन्तेयं हर्षेण महता युतम
निहत्य समरे शत्रून महाबलसमन्वितान
संमॊहश चापि तुमुलः कुरूणाम अभवत तदा
कर्णदुर्यॊधनौ चापि निःश्वसेतां मुहुर मुहुः
तथा निपतिते भीष्मे कौरवाणां धुरंधरे
हाहाकारम अभूत सर्वं निर्मर्यादम अवर्तत
दृष्ट्वा च पतितं भीष्मं पुत्रॊ दुःशासनस तव
उत्तमं जवम आस्थाय दरॊणानीकं समाद्रवत
भरात्रा परस्थापितॊ वीरः सवेनानीकेन दंशितः
परययौ पुरुषव्याघ्रः सवसैन्यम अभिचॊदयन
तम आयान्तम अभिप्रेक्ष्य कुरवः पर्यवारयन
दुःशासनं महाराज किम अयं वक्ष्यतीति वै
ततॊ दरॊणाय निहतं भीष्मम आचष्ट कौरवः
दरॊणस तद अप्रियं शरुत्वा सहसा नयपतद रथात
स संज्ञाम उपलभ्याथ भारद्वाजः परतापवान
निवारयाम आस तदा सवान्य अनीकानि मारिष
विनिवृत्तान कुरून दृष्ट्वा पाण्डवापि सवसैनिकान
दूतैः शीघ्राश्वसंयुक्तैर अवहारम अकारयन
विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः
विमुक्तकवचाः सर्वे भीष्मम ईयुर नराधिपाः
वयुपारम्य ततॊ युद्धाद यॊधाः शतसहस्रशः
उपतस्थुर महात्मानं परजापतिम इवामराः
ते तु भीष्मं समासाद्य शयानं भरतर्षभम
अभिवाद्य वयतिष्ठन्त पाण्डवाः कुरुभिः सह
अथ पाण्डून कुरूंश चैव परणिपत्याग्रतः सथितान
अभ्यभाषत धर्मात्मा भीष्मः शांतनवस तदा
सवागतं वॊ महाभागाः सवागतं वॊ महारथाः
तुष्यामि दर्शनाच चाहं युष्माकम अमरॊपमाः
अभिनन्द्य स तान एवं शिरसा लम्बताब्रवीत
शिरॊ मे लम्बते ऽतयर्थम उपधानं परदीयताम
ततॊ नृपाः समाजह्रुस तनूनि च मृदूनि च
उपधानानि मुख्यानि नैच्छत तानि पितामहः
अब्रवीच च नरव्याघ्रः परहसन्न इव तान नृपान
नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः
ततॊ वीक्ष्य नरश्रेष्ठम अभ्यभाषत पाण्डवम
धनंजयं दीर्घबाहुं सर्वलॊकमहारथम
धनंजय महाबाहॊ शिरसॊ मे ऽसय लम्बतः
दीयताम उपधानं वै यद युक्तम इह मन्यसे
स संन्यस्य महच चापम अभिवाद्य पितामहम
नेत्राभ्याम अश्रुपूर्णाभ्याम इदं वचनम अब्रवीत
आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर
परेष्यॊ ऽहं तव दुर्धर्ष करियतां किं पितामह
तम अब्रवीच छांतनवः शिरॊ मे तात लम्बते
उपधानं कुरुश्रेष्ठ फल्गुनॊपनयस्व मे
शयनस्यानुरूपं हि शीघ्रं वीर परयच्छ मे
तवं हि पार्थ महाबाहॊ शरेष्ठः सर्वधनुष्मताम
कषत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः
फल्गुनस तु तथेत्य उक्त्वा वयवसायपुरॊजवः
परगृह्यामन्त्र्य गाण्डीवं शरांश च नतपर्वणः
अनुमान्य महात्मानं भरतानाम अमध्यमम
तरिभिस तीक्ष्णैर महावेगैर उदगृह्णाच छिरः शरैः
अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना
अतुष्यद भरतश्रेष्ठॊ भीष्मॊ धर्मार्थतत्त्ववित
उपधानेन दत्तेन परत्यनन्दद धनंजयम
कुन्तीपुत्रं युधां शरेष्ठं सुहृदां परीतिवर्धनम
अनुरूपं शयानस्य पाण्डवॊपहितं तवया
यद्य अन्यथा परवर्तेथाः शपेयं तवाम अहं रुषा
एवम एतन महाबाहॊ धर्मेषु परिनिष्ठितम
सवप्तव्यं कषत्रियेणाजौ शरतल्पगतेन वै
एवम उक्त्वा तु बीभत्सुं सर्वांस तान अब्रवीद वचः
राज्ञश च राजपुत्रांश च पाण्डवेनाभि संस्थितान
शयेयम अस्यां शय्यायां यावद आवर्तनं रवेः
ये तदा पारयिष्यन्ति ते मां दरक्ष्यन्ति वै नृपाः
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः
अर्चिष्मान परतपँल लॊकान रथेनॊत्तमतेजसा
विमॊष्क्ये ऽहं तदा पराणान सुहृदः सुप्रियान अपि
परिखा खन्यताम अत्र ममावसदने नृपाः
उपासिष्ये विवस्वन्तम एवं शरशताचितः
उपारमध्वं संग्रामाद वैराण्य उत्सृज्य पार्थिवाः
उपातिष्ठन्न अथॊ वैद्याः शल्यॊद्धरणकॊविदाः
सर्वॊपकरणैर युक्ताः कुशलास ते सुशिक्षिताः
तान दृष्ट्वा जाह्नवीपुत्रः परॊवाच वचनं तदा
दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः
एवंगते न हीदानीं वैद्यैः कार्यम इहास्ति मे
कषत्रधर्मप्रशस्तां हि पराप्तॊ ऽसमि परमां गतिम
नैष धर्मॊ महीपालाः शरतल्पगतस्य मे
एतैर एव शरैश चाहं दग्धव्यॊ ऽनते नराधिपाः
तच छरुत्वा वचनं तस्य पुत्रॊ दुर्यॊधनस तव
वैद्यान विसर्जयाम आस पूजयित्वा यथार्हतः
ततस ते विस्मयं जग्मुर नानाजनपदेश्वराः
सथितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः
उपधानं ततॊ दत्त्वा पितुस तव जनेश्वर
सहिताः पाण्डवाः सर्वे कुरवश च महारथाः
उपगम्य महात्मानं शयानं शयने शुभे
ते ऽभिवाद्य ततॊ भीष्मं कृत्वा चाभिप्रदक्षिणम
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः
वीराः सवशिबिराण्य एव धयायन्तः परमातुराः
निवेशायाभ्युपागच्छन सायाह्ने रुधिरॊक्षिताः
निविष्टान पाण्डवांश चापि परीयमाणान महारथान
भीष्मस्य पतनाद धृष्टान उपगम्य महारथान
उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मॊ निपातितः
अवध्यॊ मानुषैर एष सत्यसंधॊ महारथः
अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः
तवां तु चक्षुर्हणं पराप्य दग्धॊ घॊरेण चक्षुषा
एवम उक्तॊ धर्मराजः परत्युवाच जनार्दनम
तव परसादाद विजयः करॊधात तव पराजयः
तवं हि नः शरणं कृष्ण भक्तानाम अभयंकरः
अनाश्चर्यॊ जयस तेषां येषां तवम असि केशव
रष्किता समरे नित्यं नित्यं चापि हिते रतः
सर्वथा तवां समासाद्य नाश्चर्यम इति मे मतिः
एवम उक्तः परत्युवाच समयमानॊ जनार्दनः
तवय्य एवैतद युक्तरूपं वचनं पार्थिवॊत्तम
संजय उवाच
वयुष्टायां तु महाराज रजन्यां सर्वपार्थिवाः
पाण्डवा धार्तराष्ट्राश च अभिजग्मुः पितामहम
तं वीरशयने वीरं शयानं कुरुसत्तमम
अभिवाद्यॊपतस्थुर वै कषत्रियाः कषत्रियर्षभम
कन्याश चन्दनचूर्णैश च लाजैर माल्यैश च सर्वशः
सत्रियॊ बालास तथा वृद्धाः परेक्षकाश च पृथग्जनाः
समभ्ययुः शांतनवं भूतानीव तमॊनुदम
तूर्याणि गणिका वारास तथैव नटनर्तकाः
उपानृत्यञ जगुश चैव वृद्धं कुरुपितामहम
उपारम्य च युद्धेभ्यः संनाहान विप्रमुच्य च
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः
अन्वासत दुराधर्षं देवव्रतम अरिंदमम
अन्यॊन्यं परीतिमन्तस ते यथापूर्वं यथावयः
सा पार्थिवशताकीर्णा समितिर भीष्मशॊभिता
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम
विबभौ च नृपाणां सा पितामहम उपासताम
देवानाम इव देवेशं पितामहम उपासताम
भीष्मस तु वेदनां धैर्यान निगृह्य भरतर्षभ
अभितप्तः शरैश चैव नातिहृष्टमनाब्रवीत
शराभितप्तकायॊ ऽहं शरसंतापमूर्छितः
पानीयम अभिकाङ्क्षे ऽहं राज्ञस तान परत्यभाषत
ततस ते कषत्रिया राजन समाजह्रुः समन्ततः
भक्ष्यान उच्चावचांस तत्र वारिकुम्भांश च शीतलान
उपनीतं च तद दृष्ट्वा भीष्मः शांतनवॊ ऽबरवीत
नाद्य तात मया शक्यं भॊगान कांश चन मानुषान
उपभॊक्तुं मनुष्येभ्यः शरशय्यागते हय अहम
परतीक्षमाणस तिष्ठामि निवृत्तिं शशिसूर्ययॊः
एवम उक्त्वा शांतनवॊ दीनवाक सर्वपार्थिवान
धनंजयं महाबाहुम अभ्यभाषत भारत
अथॊपेत्य महाबाहुर अभिवाद्य पितामहम
अतिष्ठत पराञ्जलिः परह्वः किं करॊमीति चाब्रवीत
तं दृष्ट्वा पाण्डवं राजन्न अभिवाद्याग्रतः सथितम
अभ्यभाषत धर्मात्मा भीष्मः परीतॊ धनंजयम
दह्यते ऽदः शरीरं मे संस्यूतॊ ऽसमि महेषुभिः
मर्माणि परिदूयन्ते वदनं मम शुष्यति
हलादनार्थं शरीरस्य परयच्छापॊ ममार्जुन
तवं हि शक्तॊ महेष्वास दातुम अम्भॊ यथाविधि
अर्जुनस तु तथेत्य उक्त्वा रथम आरुह्य वीर्यवान
अधिज्यं बलवत कृत्वा गाण्डीवं वयाक्षिपद धनुः
तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः
वित्रेसुः सर्वभूतानि शरुत्वा सर्वे च पार्थिवाः
ततः परदक्षिणं कृत्वा रथेन रथिनां वरः
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम
संधाय च शरं दीप्तम अभिमन्त्र्य महायशाः
पर्जन्यास्त्रेण संयॊज्य सर्वलॊकस्य पश्यतः
अविध्यत पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे
उत्पपात ततॊ धारा विमला वारिणः शिवा
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च
अतर्पयत ततः पार्थः शीतया वारिधारया
भीष्मं कुरूणाम ऋषभं दिव्यकर्मपराक्रमः
कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः
विस्मयं परमं जग्मुस ततस ते वसुधाधिपाः
तत कर्म परेक्ष्य बीभत्सॊर अतिमानुषम अद्भुतम
संप्रावेपन्त कुरवॊ गावः शीतार्दिता इव
विस्मयाच चॊत्तरीयाणि वयाविध्यन सर्वतॊ नृपाः
शङ्खदुन्दुभिनिर्घॊषैस तुमुलं सर्वतॊ ऽभवत
तृप्तं शांतनवश चापि राजन बीभत्सुम अब्रवीत
सर्वपार्थिववीराणां संनिधौ पूजयन्न इव
नैतच चित्रं महाबाहॊ तवयि कौरवनन्दन
कथितॊ नारदेनासि पूर्वर्षिर अमितद्युतिः
वासुदेवसहायस तवं महत कर्म करिष्यसि
यन नॊत्सहति देवेन्द्रः सह देवैर अपि धरुवम
विदुस तवां निधनं पार्थ सर्वक्षत्रस्य तद्विदः
धनुर्धराणाम एकस तवं पृथिव्यां परवरॊ नृषु
मनुष्या जगति शरेष्ठाः पक्षिणां गरुडॊ वरः
सरसां सागरः शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम
आदित्यस तेजसां शरेष्ठॊ गिरीणां हिमवान वरः
जातीनां बराह्मणः शरेष्ठः शरेष्ठस तवम असि धन्विनाम
न वै शरुतं धार्तराष्ट्रेण वाक्यं; संबॊध्यमानं विदुरेण चैव
दरॊणेन रामेण जनार्दनेन; मुहुर मुहुः संजयेनापि चॊक्तम
परीतबुद्धिर हि विसंज्ञकल्पॊ; दुर्यॊधनॊ नाभ्यनन्दद वचॊ मे
स शेष्यते वै निहतश चिराय; शास्तातिगॊ भीमबलाभिभूतः
ततः शरुत्वा तद वचः कौरवेन्द्रॊ; दुर्यॊधनॊ दीनमना बभूव
तम अब्रवीच छांतनवॊ ऽभिवीक्ष्य; निबॊध राजन भव वीतमन्युः
दृष्टं दुर्यॊधनेदं ते यथा पार्थेन धीमता
जलस्य धारा जनिता शीतस्यामृतगन्धिनः
एतस्य कर्ता लॊके ऽसमिन नान्यः कश चन विद्यते
आग्नेयं वारुणं सौम्यं वायव्यम अथ वैष्णवम
ऐन्द्रं पाशुपतं बराह्मं पारमेष्ठ्यं परजापतेः
धातुस तवष्टुश च सवितुर दिव्यान्य अस्त्राणि सर्वशः
सर्वस्मिन मानुषे लॊके वेत्त्य एकॊ हि धनंजयः
कृष्णॊ वा देवकीपुत्रॊ नान्यॊ वै वेद कश चन
न शक्याः पाण्डवास तात युद्धे जेतुं कथं चन
अमानुषाणि कर्माणि यस्यैतानि महात्मनः
तेन सत्त्ववता संख्ये शूरेणाहवशॊभिना
कृतिना समरे राजन संधिस ते तात युज्यताम
यावत कृष्णॊ महाबाहुः सवाधीनः कुरुसंसदि
तावत पार्थेन शूरेण संधिस ते तात युज्यताम
यावच चमूं न ते शेषां शरैः संनतपर्वभिः
नाशयत्य अर्जुनस तावत संधिस ते तात युज्यताम
यावत तिष्ठन्ति समरे हतशेषाः सहॊदराः
नृपाश च बहवॊ राजंस तावत संधिः परयुज्यताम
न निर्दहति ते यावत करॊधदीप्तेक्षणश चमूम
युधिष्ठिरॊ हि तावद वै संधिस ते तात युज्यताम
नकुलः सहदेवश च भीमसेनश च पाण्डवः
यावच चमूं महाराज नाशयन्ति न सर्वशः
तावत ते पाण्डवैः सार्धं सौभ्रात्रं तात रॊचताम
युद्धं मदन्तम एवास्तु तात संशाम्य पाण्डवैः
एतत ते रॊचतां वाक्यं यद उक्तॊ ऽसि मयानघ
एतत कषेमम अहं मन्ये तव चैव कुलस्य च
तयक्त्वा मन्युम उपशाम्यस्व पार्थैः; पर्याप्तम एतद यत कृतं फल्गुनेन
भीष्मस्यान्ताद अस्तु वः सौहृदं वा; संप्रश्लेषः साधु राजन परसीद
राज्यस्यार्धं दीयतां पाण्डवानाम; इन्द्रप्रस्थं धर्मराजॊ ऽनुशास्तु
मा मित्रध्रुक पार्थिवानां जघन्यः; पापां कीर्तिं पराप्स्यसे कौरवेन्द्र
ममावसानाच छान्तिर अस्तु परजानां; संगच्छन्तां पार्थिवाः परीतिमन्तः
पिता पुत्रं मातुलं भागिनेयॊ; भराता चैव भरातरं परैतु राजन
न चेद एवं पराप्तकालं वचॊ मे; मॊहाविष्टः परतिपत्स्यस्य अबुद्ध्या
भीष्मस्यान्ताद एतदन्ताः सथ सर्वे; सत्याम एतां भारतीम ईरयामि
एतद वाक्यं सौहृदाद आपगेयॊ; मध्ये राज्ञां भारतं शरावयित्वा
तूष्णीम आसीच छल्यसंतप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य
[स]
ततस ते पार्थिवाः सर्वे जग्मुः सवान आलयान पुनः
तूष्णींभूते महाराजे भीष्मे शंतनुनन्दने
शरुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः
ईषद आगतसंत्रासस तवरयॊपजगाम ह
स ददर्श महात्मानं शरतल्पगतं तदा
जन्म शय्या गतं देवं कार्त्तिकेयम इव परभुम
निमीलिताक्षं तं वीरं साश्रुकण्ठस तदा वृषः
अभ्येत्य पादयॊस तस्य निपपात महाद्युतिः
राधेयॊ ऽहं कुरुश्रेष्ठ नित्यं चाष्कि गतस तव
दवेष्यॊ ऽतयन्तम अनागाः सन्न इति चैनम उवाच ह
तच छरुत्वा कुरुवृद्धः सबलात संवृत्त लॊचनः
शनैर उद्वीक्ष्य स सनेहम इदं वचनम अब्रवीत
रहितं धिष्ण्यम आलॊक्य समुत्सार्य च रक्षिणः
पितेव पुत्रं गाङ्गेयः परिष्वज्यैक बाहुना
एह्य एहि मे विप्रतीप सपर्धसे तवं मया सह
यदि मां नाभिगच्छेथा न ते शरेयॊ भवेद धरुवम
कौन्तेयस तवं न राधेयॊ विदितॊ नारदान मम
कृष्णद्वैपायनाच चैव केशवाच च न संशयः
न च दवेषॊ ऽसति मे तात तवयि सत्यं बरवीमि ते
तेजॊवधनिमित्तं तु परुषाण्य अहम उक्तवान
अकस्मात पाण्डवान हि तवं दविषसीति मतिर मम
येनासि बहुषॊ रूक्षं चॊदितः सूर्यनन्दन
जानामि समरे वीर्यं शत्रुभिर दुःसहं तव
बरह्मण्यतां च शौर्यं च दाने च परमां गतिम
न तवया सदृशः कश चित पुरुषेष्व अमरॊपम
कुलभेदं च मत्वाहं सदा परुषम उक्तवान
इष्वस्ते भारसंधाने लाघवे ऽसत्रबले तथा
सदृशः फल्गुनेनासि कृष्णेन च महात्मना
कर्ण राजपुरं गत्वा तवयैकेन धनुष्मता
तस्यार्थे कुरुराजस्य राजानॊ मृदिता युधि
तथा च बलवान राजा जला संधॊ दुरासदः
समरे समरश्लाघी तवया न सदृशॊ ऽभवत
बरह्मण्यः सत्यवादी च तेजसार्क इवापरः
देवगर्भॊ ऽजितः संख्ये मनुष्यैर अधिकॊ भुवि
वयपनीतॊ ऽदय मन्युर मे यस तवां परति पुरा कृतः
दैवं पुरुषकारेण न शक्यम अतिवर्तितुम
सॊदर्याः पाण्डवा वीरा भरातरस ते ऽरिसूदन
संगच्छ तैर महाबाहॊ मम चेद इच्छसि परियम
मया भवतु निर्वृत्तं वैरम आदित्यनन्दन
पृथिव्यां सर्वराजानॊ भवन्त्व अद्य निरामयाः
[कर्ण]
जानाम्य अहं महाप्राज्ञ सर्वम एतन न संशयः
यथा वदसि दुर्धर्ष कौन्तेयॊ ऽहं न सूतजः
अवकीर्णस तव अहं कुन्त्या सूतेन च विवर्धितः
भुक्त्वा दुर्यॊधनैश्वर्यं न मिथ्या कर्तुम उत्सहे
वसु चैव शरीरं च यद उदारं तथा यशः
सर्वं दुर्यॊधनस्यार्थे तयक्तं मे भूरिदक्षिण
कॊपिताः पाण्डवा नित्यं मयाश्रित्य सुयॊधनम
अवश्य भावी वै यॊ ऽरथॊ न स शक्यॊनिवर्तितुम
दैवं पुरुषकारेण कॊ निवर्तितुम उत्सहेत
पृथिवी कषयशंसीनि निमित्तानि पितामह
भवद्भिर उपलब्धानि कथितानि च संसदि
पाण्डवा वासुदेवश च विदिता मम सर्वशः
अजेयाः पुरुषैर अन्यैर इति तांश चॊत्सहामहे
अनुजानीष्व मां तात युद्धे परीतमनाः सदा
अनुज्ञातस तवया वीर युध्येयम इति मे मतिः
दुरुक्तं विप्रतीपं वा संरम्भाच चापलात तथा
यन मयापकृतं किं चित तद अनुक्षन्तुम अर्हसि
[भस]
न चेच छक्यम अथॊत्स्रष्टुं वैरम एतत सुदारुणम
अनुजानामि कर्ण तवां युध्यस्व सवर्गकाम्यया
विमन्युर गतसंरम्भः कुरु कर्म नृपस्य हि
यथाशक्ति यथॊत्साहं सतां वृत्तेषु वृत्तवान
अहं तवाम अनुजानामि यद इच्छसि तद आप्नुहि
कषत्रधर्मजिताँल लॊकान संप्राप्स्यसि न संशयः
युध्यस्व निरहंकारॊ बलवीर्य वयपाश्रयः
धर्मॊ हि युद्धाच छरेयॊ ऽनयत कषत्रियस्य न विद्यते
परशमे हि कृतॊ यत्नः सुचिरात सुचिरं मया
न चैव शकितः कर्तुं यतॊ धर्मस ततॊ जयः
[स]
एवं बरुवन्तं गाङ्गेयम अभिवाद्य परसाद्य च
राधेयॊ रथम आरुह्य परायात तव सुतं परति

About this parayana

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

daily-pujasanskritparayanadevotionalmahabharatascriptureepicitihasa