ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← शब्द पर वापस
हिन्दी interface

वाल्मीकि रामायण — सुन्दर काण्ड

Valmiki Ramayana — Sundara Kanda

Valmiki Ramayana — Sundara Kanda

Text in देवनागरी script

Devotional text

ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥५-१-१॥
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः ।समुदग्रशिरोग्रीवो गवांपतिरिवाबभौ ॥५-१-२॥
अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।धीरः सलिलकल्पेषु विच्चार यथासुखम् ॥५-१-३॥
द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।मृगांश्च सुबाहुन्निघ्नन् प्रवृद्ध इव केसरी॥५-१-४॥
नीललोहितमाञ्जिष्ठपत्रवर्णैः सितासितैः ।स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम् ॥५-१-५॥
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छिदैः ।यक्षकिन्नरगन्धर्वैर्देवक्ल्पैश्च पन्नगैः ॥५-१-६॥
स तस्य गिरिवर्यस्य तले नागवरायुते ।तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥५-१-७॥
स सूर्याय महेन्द्राय पवनाय स्वयंभुवे ।भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥५-१-८॥
अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोओनयो ।ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिश्म् ॥५-१-९॥
प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।ववृधे रामवृद्ध्यर्थम् समुद्र इव पर्वसु ॥५-१-१०॥
निष्प्रमाणशरीरः सन् लिलङ्घयिषुरर्णवम् ।बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥५-१-११॥
स चचालाचलश्चापि मुहूर्तं कपिपीडितः ।तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥५-१-१२॥
तेन पादपमुक्तेन पुष्पौघेन सुगन्धिना ।सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥५-१-१३॥
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥५-१-१४॥
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥५-१-१५॥
मुमोच च शिलाः शैलो विशालाः समनःशिलाः ।मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥५-१-१६॥
गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः ।गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥५-१-१७॥
स महासत्त्वसंनादः शैलपीडानिमित्तजः ।पृथिवीं पूरयामास दिशश्चोपवनानि च ॥५-१-१८॥
शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः ।वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥५-१-१९॥
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः।जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥५-१-२०॥
यानि चौषधजालानि तस्मिन् जातानि पर्वते ।विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्॥५-१-२१॥
भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपस्विनः ।त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह॥५-१-२२॥
पानभूमिगतं हित्वा हैममासवभाजनम् ।पात्रणि च महार्हाणि करकांश्च हिरण्मयान् ॥५-१-२३॥
लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥५-१-२४॥
कृतक्ण्ठगुणाः क्षीबा र्क्तमाल्यानुलेपनाः ।र्क्तक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥५-१-२५॥
हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥५-१-२६॥
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।सहितास्तस्थुराकाशे वीक्षाञ्चक्रुश्च पर्वतम्॥५-१-२७॥
शुश्रुवुश्चतदा शब्दमृषीणां भावितात्मनाम्।चारणानां च सिद्धानां स्थितानांविमलेऽम्बरे॥५-१-२८॥
एष पर्वतसंकाशो हनूमान् मारुतात्मजः ।तितीर्षति महावेगः समुद्रं मकरालयम् ॥५-१-२९॥
रामार्थं वानरार्थं च चिकीर्षन् कर्मदुष्करम् ।समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति॥५-१-३०॥
इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ।तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥५-१-३१॥
दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।ननाद सुमहानादं सुमहानिव तोयदः ॥५-१-३२॥
आनुपूर्व्येण वृत्तं च लाङ्गूलं लोमभिश्चितम् ।उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥५-१-३३॥
तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः ।ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥५-१-३४॥
बाहू संस्तंभयामास महापरिघसंनिभौ ।ससाद च कपिः क्ट्यां चरणौ संचुकोच च ॥५-१-३५॥
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ।तेजः स्त्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥५-१-३६॥
मार्गमालोकयन्दूरादूर्ध्वं प्रणिहितेक्षणः ।रुरोध हृदये प्राणानाकाशमवलोकयन् ॥५-१-३७॥
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ।वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥५-१-३८॥
यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ।गच्चेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥५-१-३९॥
न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥५-१-४०॥
यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः ।बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥५-१-४१॥
सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ।आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥५-१-४२॥
एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः ॥५-१-४३॥
उत्पपाताथ वेगेन वेगवानविचारयन् ।सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥५-१-४४॥
समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः ॥५-१-४५॥
स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥५-१-४६॥
ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः ।प्रस्थितं दीर्घमध्वानं स्वबन्धमिव बान्धवाः ॥५-१-४७॥
तमूरुवेगोन्मथिताःसालाश्चन्ये नगोत्तमाः।अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥५-१-४८॥
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥५-१-४९॥
सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि ।भयादिव महेन्द्रस्य पर्वता वरुणालये ॥५-१-५०॥
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ।शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥५-१-५१॥
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥५-१-५२॥
लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् ।द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥५-१-५३॥
ताराचितमिवाकाशं प्रबभौ च महार्णवः ।पुष्पौघेनानुबद्धेन नानावर्णेन वानरः ।बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥५-१-५४॥
तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत ॥५-१-५५॥
ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ।तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ॥५-१-५६॥
पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ।पिबन्निव बभौ चापि सोओर्मिमालं महार्णवम् ॥५-१-५७॥
पिपासुरिव चाकाशं ददृशे स महाकपिः ।तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ॥५-१-५८॥
नयने विप्रकाशेते पर्वतस्थाविवानलौ ।पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ॥५-१-५९॥
चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ ।मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ॥५-१-६०॥
सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ।लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ॥५-१-६१॥
अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ।लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः ॥५-१-६२॥
व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ।स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ॥५-१-६३॥
महता दारितेनेव गिरिर्गैरिकधातुना ।तस्य वानरसिंहस्य प्लवमानस्य सागरम् ॥५-१-६४॥
कक्षान्तरगतो वायुर्जीमूत इव गर्जति ।खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता ॥५-१-६५॥
दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ।पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः ॥५-१-६६॥
प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ।उपरिष्टाच्छरीरेण छायया चावगाढया ।सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥५-१-६७॥
यं यं देशं समुद्रस्य जगाम स महाकपिः ।स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥५-१-६८॥
सागरस्योओर्मिजालानामुरसा शैलवर्ष्मणाम् ।अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥५-१-६९॥
कपिवातश्च बलवान् मेघवातश्च निःसृतः ।सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥५-१-७०॥
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥५-१-७१॥
मेरुमन्दरसंकाशानुद्धतान् स महार्णवे ।अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥५-१-७२॥
तस्य वेगसमुद्धूतं जलं सजलदं तदा ।अम्बर्स्थं विबभ्राज शारदाभ्रमिवाततम् ॥५-१-७३॥
तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा ।वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥५-१-७४॥
प्लवमानं समीक्ष्यथ भुजङ्गाः सागरालयाः ।व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥५-१-७५॥
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।छाया वानरसिंहस्य जले चारुतराभवत् ॥५-१-७६॥
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥५-१-७७॥
शुशुभे स महातेजा महाकायो महाकपिः ।वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥५-१-७८॥
येनासौ याति बलवान् वेगेन कपिकुञ्जरः ।तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥५-१-७९॥
आपाते पक्षिसंघानां पक्षिराज इव व्रजन् ।हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा ॥५-१-८०॥
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे ॥५-१-८१॥
प्रविशन्नभ्रजालानिनिष्पतंश्च पुनः पुनः ।प्रच्चन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥५-१-८२॥
प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा ।ववर्षुः पुष्पवर्षणि देवगन्धर्वदानवाः ॥५-१-८३॥
तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम् ।सिषेवे च तदा वायू रामकार्याद्थसिद्धये ॥५-१-८४॥
ऋषयस्तुष्टुवुश्चैव प्लवमानं विहायसा ।जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥५-१-८५॥
नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ॥५-१-८६॥
प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ।तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ॥५-१-८७॥
इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ।साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ॥५-१-८८॥
करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ।अहमिक्ष्वाकुनाथेन सगरेण विवर्धतः ॥५-१-८९॥
इक्ष्वाकुसचिचश्चायं नावसीदितुमर्हति ।तथा मया विधातव्यं विश्रमेत यथा कपिः ॥५-१-९०॥
शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति ।इति कृत्वा मतिं साध्वीं समुद्रश्चन्नमम्भसि ॥५-१-९१॥
हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ।त्वमिहासुरसंघानां पाताLअतलवासिनां ॥५-१-९२॥
देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः ।त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् ॥५-१-९३॥
पाताLअस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ।तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ॥५-१-९४॥
तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ।न एष कपिशार्दूलस्त्वमुपर्येति वीर्यवान् ॥५-१-९५॥
हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः ।अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ॥५-१-९६॥
मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ।कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ॥५-१-९७॥
कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ।सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥५-१-९८॥
अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ।चामीकरमहानाभ देवगन्धर्व सेवित ॥५-१-९९॥
हनुमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ।काकुत्थ्सस्यानृशंस्यं च मैथिल्याश्च विवासनम् ॥५-१-१००॥
श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ।हिरण्य नाभो मैनाको निशम्य लवणाम्भसः ॥५-१-१०१॥
उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ।स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा ॥५-१-१०२॥
यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ।स महात्मा मुहूर्तेन सर्वतः सलिलावृतः ॥५-१-१०३॥
द्र्शयामास शृङ्गाणि सागरेण नियोजितः ।शातकुम्भमयैः शृङ्गैः सकिन्नरमहोरगैः ॥५-१-१०४॥
आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम् ।तप्तजाम्बूनदैः शृङिगाः पर्वतस्य समुत्थितैः ॥५-१-१०५॥
आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ।जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयंप्रभैः ॥५-१-१०६॥
आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः ।तमुत्थितमसंगेन हनुमानग्रतः स्थितम् ॥५-१-१०७॥
मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ।स तमुच्छ्रित मत्यर्थं महावेगो महाकपिः ॥५-१-१०८॥
उरसा पातयामास जीमूतमिव मारुतः ।स तथा पातितस्तेन कपिना पर्वतोत्तमः ॥५-१-१०९॥
बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ।तमाकाशगतं वीरमाकाशे समुपस्थितः ॥५-१-११०॥
प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ।मानुषं धारयन् रूपमात्मनः शिखरे स्थितः ॥५-१-१११॥
दुष्करं कृतावन्कर्म त्वमिदं वानरोत्तम ।निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ॥५-१-११२॥
राघवस्य कुले जातैरुदधिः परिवर्धितः ।स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥५-१-११३॥
कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ।सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ॥५-१-११४॥
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।योजनानां शतं चापि कपिरेष समाप्लुतः ॥५-१-११५॥
तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ।तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् ॥५-१-११६॥
तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ।तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनु गमिष्यसि ॥५-१-११७॥
अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै ।प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥५-१-११८॥
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥५-१-११९॥
अतिथिः किलपूजार्हः प्राकृतोऽपि विजानता ।धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥५-१-१२०॥
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ।पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥५-१-१२१॥
पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥५-१-१२२॥
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ।ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥५-१-१२३॥
ततस्तेषु प्रयातेषु देवसंघः सहर्षिभिः ।भूतानि च भयं जग्मुस्तेषां पतनशङ्कया॥५-१-१२४॥
ततः क्रुद्धः सहस्राअक्षः पर्वतानां शतक्रतुः ।पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः ॥५-१-१२५॥
स मामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट् ।ततोऽहं सहसा क्षिप्तः स्वसनेन महात्मना ॥५-१-१२६॥
अस्मिन्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः ॥५-१-१२७॥
ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ।त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः ॥५-१-१२८॥
अस्मिन्नेवंगते कार्ये सागरस्य ममैव च ।प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ॥५-१-१२९॥
श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥५-१-१३०॥
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ।प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥५-१-१३१॥
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ।प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्त्तरे ॥५-१-१३२॥
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ।जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥५-१-१३३॥
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥५-१-१३४॥
अथोर्ध्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ ।पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥५-१-१३५॥
भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन् ।वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे ॥५-१-१३६॥
तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।प्रश्शंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥५-१-१३७॥
देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा ।काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥५-१-१३८॥
उवाच वचनं धीमान् परितोषात्सगद्गदम् ।सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥५-१-१३९॥
हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् ।अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥५-१-१४०॥
साह्यं ते सुमहद्विक्रान्तस्य हनूमतः ।क्रमतो योजनशतं निर्भयस्य भये सति ॥५-१-१४१॥
रामस्यैष हितायैव याति दाशरथेर्हरिः ।सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ॥५-१-१४२॥
ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ।देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥५-१-१४३॥
स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥५-१-१४४॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।अब्रूवन् सूर्यसंकाशां सुरसां नागमातरम् ॥५-१-१४५॥
अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ।हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥५-१-१४६॥
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।दंष्ट्रकराLअं पिङ्गाक्षं वक्त्रं कृत्वा नभःसमम् ॥५-१-१४७॥
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥५-१-१४८॥
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥५-१-१४९॥
विकृतं च विरूपं च सर्वस्य च भयावहम् ।प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥५-१-१५०॥
मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।अहं त्वा भक्षयिष्यामि प्रविशेदं ममाननम् ॥५-१-१५१॥
एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥५-१-१५२॥
रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥५-१-१५३॥
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।तस्य सीत हृता भार्या रावणेन यशस्विनी ॥५-१-१५४॥
तस्याः सकाशं दूतोऽहं गमिष्ये रामकारणात् ।कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥५-१-१५५॥
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥५-१-१५६॥
एवमुक्ता हनुमता सुरसा कामरूपिणी ।अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥५-१-१५७॥
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।बलं जिज्ञासमाना वै नागमाता हनूमतः ॥५-१-१५८॥
प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ।वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥५-१-१५९॥
व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः ।एवमुक्तः सुरसया क्रुद्धो वानरपुञ्गवः ॥५-१-१६०॥
अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे ।प्रविश्य वदनं मेऽद्य ग्न्तव्यं वानरोत्तम ।वर एष पुरा दत्तो ममम् ध्रात्रेति सत्वरा ॥५-१-१६१॥
व्यादाय विपुलं वक्त्रं स्थिता सा मरुतेः पुरः ।तं दृष्ह्ट्वा मेघसंकाशं दशयोजनमायतम् ॥५-१-१६२॥
चकार सुरसा चास्यं विंशद्योजनमायतम् ।हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ॥५-१-१६३॥
चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ।बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ॥५-१-१६४॥
चकार सुरसा वक्त्रं षष्टियोजनमायतम् ।तथैव हनुमान्वीरः सप्ततीयोजिनोच्छ्रितः ॥५-१-१६५॥
चकार सुरसा व्क्त्रम्शीतीयोजनोच्छ्रितम् ।हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः ॥५-१-१६६॥
तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् ।दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ॥५-१-१६७॥
सुसंक्षिप्यात्मनः कायं बभूवाञ्गुष्ठमात्रकः ।सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥५-१-१६८॥
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ।गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव ॥५-१-१६९॥
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥५-१-१७०॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।समानयस्व वैदेहीं राघवेण महात्मना ॥५-१-१७१॥
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।साधु साध्विति भूतानि प्रश्शंसुस्तदा हरिम् ॥५-१-१७२॥
स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।जगामाकाशमाविश्य वेगेन गरुडोपमः ॥५-१-१७३॥
चरिते कैशिकाचार्यैरैरावतनिषेविते ॥५-१-१७४॥
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।विमानैः संपतद्भिश्च विमलैः समलंकृते ॥५-१-१७५॥
वज्राशनिसमाघातैः पावकैरुपशोभिते ।कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते ॥५-१-१७६॥
वहता हव्यमत्यर्थं सेविते चित्रभानुना ।ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥५-१-१७७॥
महर्षिगणगन्धर्वनागयक्षसमाकुले ।विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥५-१-१७८॥
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ।विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥५-१-१७९॥
बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥५-१-१८०॥
प्रदृश्यमानः सर्वत्र हनुमान्मारुतात्मजः ।भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ॥५-१-१८१॥
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥५-१-१८२॥
अद्य दीर्Gहस्य कालस्य भविष्याम्यहामाशिता ।इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥५-१-१८३॥
इति संचिन्त्य मनसा छायामस्य समाक्षिपत् ।छायायां गृह्यमाणायां चिन्तयामास वानरः ॥५-१-१८४॥
समाक्षिप्तोऽस्मि तरसा पञूकृतपराक्रमः ।प्रतिलोमेन वातेन महानौरिव सागरे ॥५-१-१८५॥
तिर्यगूर्ध्वमधश्चैव वीक्षिमाणस्ततः कपिः ।ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ॥५-१-१८६॥
छाय्तद्धृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ।कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥५-१-१८७॥
आग्राहि महावीर्यं तदिदं नात्र संशयः ।स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः ।व्यवर्धत महाकायः प्रवृषीव वलाहकः ॥५-१-१८८॥
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥५-१-१८९॥
वक्त्रं प्रसारयामास पाताLआन्तरसन्निभम् ।घनराजीव गर्जन्ती वानरं सम्भिद्रवत् ॥५-१-१९०॥
स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् ।कायमात्रं च मेधावी मर्माणि च महाकपिः ॥५-१-१९१॥
स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥५-१-१९२॥
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥५-१-१९३॥
ततस्तस्या नखैस्तीक्णैर्मर्माण्युत्कृत्य वानरः ।उत्पपाताथ वेगेन मनः संपातविक्रमः ॥५-१-१९४॥
तां तु दृष्ट्वा च धऋत्या च दाक्षिण्येन निपात्य च ।स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥५-१-१९५॥
हृतहृत्सा हनुमता पपात विधुराम्भसि ।तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ॥५-१-१९६॥
भूतान्याकाशचारीणी तमूचुः प्लवगोत्तमम् ।भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ॥५-१-१९७॥
साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ।यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ॥५-१-१९८॥
धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ।स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः ॥५-१-१९९॥
जगामाकाशमाविश्य पन्नगाशनवत्कपिः ।प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् ॥५-१-२००॥
योजनानां शतस्यान्ते वनराजिं ददर्श सः ।ददर्श च पतन्नेव विविधद्रुमभूषितम् ॥५-१-२०१॥
द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ।सागरं सागरानूपं सागरानूपजान् द्रुमान् ॥५-१-२०२॥
सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ।स महामेघसंकाशं समीक्ष्यात्मानमात्मवान् ॥५-१-२०३॥
निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम् ।कायवृद्धिं प्रवेगं च मम दृष्ट्वव राक्षसाः ॥५-१-२०४॥
मयि कौतूहलं कुर्युरिति मेने महाकपिः ।ततः शरीरं संक्षिप्य तन्महीधरसन्निभम्॥५-१-२०५॥
पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ।तद्रूपमतिसंक्षिप्य हनुमान् प्रकृतौ स्थितः ॥५-१-२०६॥
त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ।स चारुनानाविधरूपधारी ।परं समासाद्य समुद्रतीरम् ।परैरशक्यः प्रतिपन्नरूपः ।समीक्षितात्मा समवेक्षितार्थः ॥५-१-२०७॥
ततः स लम्बस्य गिरेः समृद्धे ।विचित्रकूटे निपपात कूटे ।सकेतकोद्दालकनाLइकेरे ।महाभ्रकूटप्रतिमो महात्मा ॥५-१-२०८॥
ततस्तु संप्राप्य समुद्रतीरं ।समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ।कपिस्तु तस्मिन्निपपात पर्वते ।विधूय रूपं व्यथयन्म्Rऋगद्विजान् ॥५-१-२०९॥
स सागरं दानवपन्नगायुतं ।बलेन विक्रम्य महोर्मिमालिनम् ।निपत्य तीरे च महोदधेस्तदा ।ददर्श लङ्काममरावतीमिव ॥५-१-२१०॥
स सागरमनाधृष्यमतिक्रम्य महाबलः ।त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥५-२-१॥
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥५-२-२॥
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ।अनिःस्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥५-२-३॥
शतान्यहं योजनानां क्रमेयं सुबहुन्यपि ।किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् ॥५-२-४॥
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ।जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् ॥५-२-५॥
शाद्वलानि च नीलानि गन्धवन्ति वनानि च ।गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥५-२-६॥
शैलांश्च तरुसंचन्नान् वनराजीश्च पुष्पिताः ।अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः ॥५-२-७॥
स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च ।स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ॥५-२-८॥
सरLआन् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् ।प्रियाLआन्मुचुLइन्दांश्च कुटजान् केतकानपि ॥५-२-९॥
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा ।असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥५-२-१०॥
पुष्पभारनिबद्धांश्च तथा मुकुLइतानपि ।पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥५-२-११॥
हंसकारण्डवाकीर्णान्वापीः पद्मोत्मलायुताः ।आक्रीडान् विविधान् रम्यान्विविधांश्च जलाशयान् ॥५-२-१२॥
संततान् विविधैर्वऋकैः सर्वर्तुफलपुष्पितैः ।उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥५-२-१३॥
समासाद्य च लक्ष्मीवन् लङ्कां रावणपालिताम् ।परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥५-२-१४॥
सीतापहरणार्थेन रावणेन सुरक्षिताम् ।समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥५-२-१५॥
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ।गृहैश्च ग्रहसंकाशैः शारदाम्बुदसन्निभैः ॥५-२-१६॥
पाण्डुराभिः प्रतोLईभिरुच्चाभिरभिसंवृताम् ।अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥५-२-१७॥
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्किविचित्रितैः ।ददर्श हनुमान् लङ्कां दिवि देवपुरीं यथा ॥५-२-१८॥
गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः ।ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥५-२-१९॥
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ।प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम् ॥५-२-२०॥
पप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् ।शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ॥५-२-२१॥
मन्सेव कृतां लङ्कां निर्मितां विश्वकर्मणा ।द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥५-२-२२॥
कैलासशिखरप्रख्यामालिख्स्न्तीमिवाम्बरम् ।डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥५-२-२३॥
संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव ।अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥५-२-२४॥
दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिसपाणिभिः ।रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥५-२-२५॥
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।रावणं च रिपुं घोरं चिन्तयामास वानरः ॥५-२-२६॥
आगत्यापीह हरयो भविष्यन्ति निररथकाः ।न हि युद्धेन व लङ्का शक्या जेतुं सुरैरपि ॥५-२-२७॥
इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् ।प्राप्यापि स महाबाहुः किम् करिष्यति राघवः ॥५-२-२८॥
अवकाशो न सान्त्वस्य रक्षसेष्वभिगम्यते ।न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥५-२-२९॥
चतुर्णामेव हि गतिर्वानराणां महात्मनाम् ।वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥५-२-३०॥
यावज्जानामि वैदेहीं यदि जीवति वा न वा ।तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥५-२-३१॥
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः ॥५-२-३२॥
अनेन रूपेण मया न शक्या रक्षसां पुरी ।प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥५-२-३३॥
उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः ।वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥५-२-३४॥
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया ।प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥५-२-३५॥
तां पुरीं तादृशीं दृष्ट्वा दुराधर्शां सुरासुरैः ।हनुमान् चिन्तयामास विनिश्चित्य मुहुर्मुहुः ॥५-२-३६॥
केनोपायेन पशेयं मैथिलीं जनकात्मजाम् ।अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥५-२-३७॥
न विनश्येत्कथं कार्यं रामस्य विदितात्मनः ।एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥५-२-३८॥
भूताश्चार्था विपद्यन्ते देशकालविरोधिताः ।विक्लबं दूतमासाद्य तमः सूर्योदये यथा ॥५-२-३९॥
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥५-२-४०॥
न विनश्येत्कथं कार्यं वैक्लब्यम् न कथं भवेत् ।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥५-२-४१॥
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ।भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥५-२-४२॥
न हि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः ।अपि राक्षसरूपेण किमुतान्येन केनचित् ॥५-२-४३॥
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम ।न ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥५-२-४४॥
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥५-२-४५॥
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये ॥५-२-४६॥
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ।विचिन्वन् भवनं स्र्वं द्रक्ष्यामि जनकात्मजाम् ॥५-२-४७॥
इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः ।आचकांक्षे ततो वीरो वैदेह्या द्रशनोतुसकः ॥५-२-४८॥
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः ।वृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ॥५-२-४९॥
प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् ।प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥५-२-५०॥
प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः ।शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥५-२-५१॥
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् ।तलैः स्फतिकसंकीर्णैः कार्तस्वरविभूषितैः ॥५-२-५२॥
वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥५-२-५३॥
काञ्चनानि च चित्राणि तोरणानि च रक्षसाम् ।लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम् ॥५-२-५४॥
अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ।आसीद्विष्ण्डो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥५-२-५५॥
स पाण्डुराविद्धविमानमालिनीं ।महार्हजाम्बूनदजालतोरणाम् ।यशस्विनीं रावणबाहुपालितां ।क्षपाचरैर्भिमबलैः समावृताम् ॥५-२-५६॥
चन्द्रोऽपि साचिव्यमिवास्य कुर्वं ।स्तारागणैर्मध्यगतो विराजन् ।ज्योत्स्नावितानेन वितत्य लोक ।मुत्तिष्ठते नैकसहस्ररश्मिः ॥५-२-५७॥
शङ्खप्रभं क्षीरमृणालवर्ण ।मुद्गच्छमानं व्यवभासमानम् ।ददर्श चन्द्रं स हरिप्रवीरः ।प्लोप्लूयमानं सरसीव हंसम् ॥५-२-५८॥
स लम्ब शिखरे लम्बे लम्ब तोयद सम्निभे ।सत्त्वम् आस्थाय मेधावी हनुमान् मारुत आत्मजः ॥५-३-१॥
निशि लन्काम् महा सत्त्वः विवेश कपि कुन्जरः ।रम्य कानन तोय आढ्याम् पुरीम् रावण पालिताम् ॥५-३-२॥
शारद अम्बु धर प्रख्यैः भवनैः उपशोभिताम् ।सागर उपम निर्घोषाम् सागर अनिल सेविताम् ॥५-३-३॥
सुपुष्ट बल सम्गुप्ताम् यथैव विटपावतीम् ।चारु तोरण निर्यूहाम् पाण्डुर द्वार तोरणाम्॥५-३-४॥
भुजग आचरिताम् गुप्ताम् शुभाम् भोगवतीम् इव ।ताम् सविद्युत् घन आकीर्णाम् ज्योतिः मार्ग निषेविताम् ॥५-३-५॥
चण्ड मारुत निर्ह्रादाम् यथा इन्द्रस्य अमरावतीम् ।शातकुम्भेन महता प्राकारेण अभिसम्वृताम् ॥५-३-६॥
किन्किणी जाल घोषाभिः पताकाभिः अलम्कृताम् ।आसाद्य सहसा हृष्टः प्राकारम् अभिपेदिवान् ॥५-३-७॥
विस्मय आविष्ट हृदयः पुरीम् आलोक्य सर्वतः ।जाम्बूनदमयैः द्वारैः वैदूर्य कृत वेदिकैः ॥५-३-८॥
मणि स्फटिक मुक्ताभिः मणि कुट्टिम भूषितैः ।तप्त हाटक निर्यूहैः  राजत अमल पाण्डुरैः ॥५-३-९॥
वैदूर्य तल सोपानैः  स्फाटिक अन्तर पाम्सुभिः ।चारु सम्जवन उपेतैः  खम् इव उत्पतितैः  शुभैः ॥५-३-१०॥
क्रौन्च बर्हिण सम्घुष्टे राज हम्स निषेवितैः ।तूर्य आभरण निर्घोषैः  सर्वतः प्रतिनादिताम् ॥५-३-११॥
वस्वोकसारा प्रतिमाम् समीक्ष्य नगरीम् ततः ।खम् इव उत्पतिताम् लन्काम् जहर्ष हनुमान् कपिः ॥५-३-१२॥
ताम् समीक्ष्य पुरीम् लन्काम् राक्षस अधिपतेः शुभाम् ।अनुत्तमाम् ऋद्धि युताम् चिन्तयाम् आस वीर्यवान् ॥५-३-१३॥
न इयम् अन्येन नगरी शक्या धर्षयितुम् बलात् ।रक्षिता रावण बलैः उद्यत आयुध धारिभिः ॥५-३-१४॥
कुमुद अन्गदयोः वा अपि सुषेणस्य महा कपेः ।प्रसिद्धा इयम् भवेत् भूमिः मैन्द द्विविदयोः अपि ॥५-३-१५॥
विवस्वतः तनूजस्य हरेः च कुश पर्वणः ।ऋक्षस्य केतु मालस्य मम चैव गतिः भवेत् ॥५-३-१६॥
समीक्ष्य तु महा बाहः राघवस्य पराक्रमम् ।लक्ष्मणस्य च विक्रान्तम् अभवत् प्रीतिमान् कपिः ॥५-३-१७॥
ताम् रत्न वसन उपेताम् कोष्ठ आगार अवतम्सकाम् ।यन्त्र अगार स्तनीम् ऋद्धाम् प्रमदाम् इव भूषिताम् ॥५-३-१८॥
ताम् नष्ट तिमिराम् दीपैः भास्वरैः च महा गृहैः ।नगरीम् राक्षस इन्द्रस्य ददर्श स महा कपिः ॥५-३-१९॥
अथ सा हरिशार्दूलम् प्रविशन्तिम् महाबलम् ।नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥५-३-२०॥
सा तम् हरिवरम् दृष्ट्वा लङ्का रावणपालिता ।स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥५-३-२१॥
पुरस्तत्क पिवर्यस्य वायुसूनोरतिष्ठत ।मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥५-३-२२॥
कस्त्वम् केन च कार्येण इह प्राप्तो वनालय ।कथय स्वेह यत्तत्त्वम् यावत्प्राणा धरन्ति ते ॥५-३-२३॥
न शक्यम् खल्वियम् लङ्का प्रवेष्टुम् वानर त्वया ।रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥५-३-२४॥
अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ।कथयिष्यामि ते तत्त्वम् यन्मम् त्वम् परिपृच्छसि ॥५-३-२५॥
का त्वम् विरूपनयना पुरद्वारेऽवतिष्ठसि ।किमर्थम् चापि माम् रुद्ध्वा निर्भर्त्सयसि दारुणा ॥५-३-२६॥
हनुमद्वचनम् श्रुत्वा लङ्का सा कामरूपिणी ।उवाच वचनम् क्रुद्धा परुषं पवनात्मजम् ॥५-३-२७॥
अहम् राक्षसराजस्य रावणस्य महात्मनः ।आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥५-३-२८॥
न शक्या मामवज्ञाय प्रवेष्टुम् नगरी त्वया ।अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥५-३-२९॥
अहम् हि नगरी लङ्का स्वयमेव प्लवङ्गम ।सर्वतः परिरक्षामि ह्येतत्ते कथितम् मया ॥५-३-३०॥
लङ्काया वचनम् श्रुत्वा हनुमान् मारुतात्मजः ।यत्नवान्स हरिश्रेष्ठः स्थितश्शैल इवापरः ॥५-३-३१॥
स ताम् स्त्रीरूपविकृताम् दृष्ट्वा वानरपुङ्गवः ।आबभाषेऽथ मेधावि सत्त्वान् प्लवगर्षभः ॥५-३-३२॥
द्रक्ष्यामि नगरीम् लङ्काम् साट्टप्राकारतोरणाम् ।इत्यर्थमिह सम्प्राप्तः परम् कौतूहलम् हि मे ॥५-३-३३॥
वनान्युपवनानीह लङ्कायाः काननानि च ।सर्वतो गृहमुख्यानि द्रष्टुमागमनम् हि मे ॥५-३-३४॥
तस्य तद्वचनम् श्रुत्वा लङ्का सा कामरूपिणी ।भूय एव पुनर्वाक्यम् बभाषे परुषाक्षरम् ॥५-३-३५॥
मामनिर्जत्य दुर्बद्धे राक्षसेश्वरपालिता ।न शक्यमद्य ते द्रष्टुम् पुरीयम् वनराधम ॥५-३-३६॥
ततः स कपिशार्दूलस्तामुवाच निशाचरीम् ।दृष्वा पुरीमिमाम् भद्रे पुनर्यास्ये यथागतम् ॥५-३-३७॥
ततः कृत्वा महानादम् सा वै लङ्का भयावहम् ।तलेन वानरश्रेष्ठम् ताडयामास वेगिता ॥५-३-३८॥
ततः स कपिशार्दुलो लङ्काया ताडितो भृशम् ।ननाद सुमहानादम् वीर्यवान् पवनात्मजः ॥५-३-३९॥
ततः सम्वर्तयामास वामहस्तस्य सोऽङ्गुLईः ।मुष्ह्टिनाभिजघूनैनाम् हनुमान् क्रोधमूर्चितः ॥५-३-४०॥
स्त्री चेति मन्यमानेन नातिक्रोधः स्वयम् कृतः ।सा तु तेन प्रहारेण विह्वलाङ्गी नीशाचरी ॥५-३-४१॥
पपात सहसा भूमौ विकृताननदर्शना ।ततस्तु हनुमान् प्राज्ञस्ताम् दृष्ट्वा विनिपातिताम् ॥५-३-४२॥
कृपाम् चकार तेजस्वी मन्यमानः स्त्रियम् तु ताम् ।ततो वै भृशसम्विग्ना लङ्का गद्गदाक्षरम् ॥५-३-४३॥
उवाचागर्वितम् वाक्यम् हनूमन्तम् प्लवङ्गमम् ।प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥५-३-४४॥
समये सौम्य तिष्ठन्ति स्त्त्ववन्तो महाबलाः ।अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥५-३-४५॥
निर्जिताहम् त्वया वीर विक्रमेण महाबल ।इदम् तु तथ्यम् शृणु वै ब्रुवन्त्य मे हरीश्वर ॥५-३-४६॥
स्वयम्भुवा पुरा दत्तम् वरदानम् यथा मम ।यदा त्वाम् वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥५-३-४७॥
तदा त्वया हि विज्ञेयम् रक्षसाम् भयामागतम् ।स हि म् समयः सौम्य प्राप्तोऽय तव द्र्शनात् ॥५-३-४८॥
स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ।सीतानिमित्तंम् राज्ञस्तु रावणस्य दुरात्मनः ॥५-३-४९॥
विधत्स्व सर्वकार्याणि यानि यानिह वाञ्चसि ।तत्प्रविश्य हरिश्रेष्ठम् पुरीम् रावणपालिताम् ॥५-३-५०॥
विधत्स्व सर्वकार्याण् यानि यानीह वाञ्चसि ।प्रविश्य शापोपहताम् हरीश्वर ।शुभाम् पुरीम् राक्षसराजपालिताम् ।यदृच्छया त्वम् जनकात्मजाम् सतीम् ।विमार्ग सर्वत्र गतो यथासुखम् ॥५-३-५१॥
स निर्जत्य पुरीम् लण्का श्रेष्ठाम् ताम् कामरूपिणीम् ।विक्रमेण महातेजा हनुमान् कपिसत्तमः ॥५-४-१॥
अद्वारेण मःआतेजा हौमान् कपिसत्तमः ।प्रविश्य नगरीम् लङ्काम् कपिराजहितम्करः ॥५-४-२॥
चक्रेणाऽथ पदम् सव्यम् शत्रूणाम् स तु मूर्धनि ।प्रविष्टः सत्त्वसंपन्नो विशायाम् मारुतात्मजः ॥५-४-३॥
स महापथमास्थाय मुक्तापुष्पविराजितम् ।ततस्तु ताम् पुरीम् लङ्काम् रम्यामभिययौ कपिः ॥५-४-४॥
हसित उद्घुष्ट निनदैः तूर्य घोष पुरः सरैः  ।वज्र अन्कुश निकाशैः च वज्र जाल विभूषितैः ॥५-४-५॥
गृह मेधैः  पुरी रम्या बभासे द्यौः इव अम्बुदैः ।प्रजज्वाल तदा लन्का रक्षः गण गृहैः  शुभैः ॥५-४-६॥
सित अभ्र सदृशैः चित्रैः  पद्म स्वस्तिक सम्स्थितैः ।वर्धमान गृहैः च अपि सर्वतः सुविभाषितैः ॥५-४-७॥
ताम् चित्र माल्य आभरणाम् कपि राज हितम् करः ।राघव अर्थम् चरन् श्रीमान् ददर्श च ननन्द च ॥५-४-८॥
भवनाद्भवनं गच्छ्न् ददर्श पवनात्मजः ।विविधाकृतिरूपाणि भवनानि ततस्ततः ॥५-४-९॥
शुश्राव मधुरम् गीतम् त्रि स्थान स्वर भूषितम् ।स्त्रीणाम् मद समृद्धानाम् दिवि च अप्सरसाम् इव ॥५-४-१०॥
शुश्राव कान्ची निनदम् नूपुराणाम् च निह्स्वनम् ।सोपान निनदामः चैव भवनेषु महात्मनम् ॥५-४-११॥
आस्फोटित निनादामः च क्ष्वेडितामः च ततः ततः ।शुश्राव जपताम् तत्र मन्त्रन् रक्षोगृहेषु वै ॥५-४-१२॥
स्वाध्याय निरतामः चैव यातु धानान् ददर्श सः ।रावण स्तव सम्युक्तान् गर्जतः राक्षसान् अपि ॥५-४-१३॥
राज मार्गम् समावृत्य स्थितम् रक्षः बलम् महत् ।ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून् ॥५-४-१४॥
दीक्षितान् जटिलान् मुण्डान् गः अजिन अम्बर वाससः ।दर्भ मुष्टि प्रहरणान् अग्नि कुण्ड आयुधामः तथा ॥५-४-१५॥
कूट मुद्गर पाणीमः च दण्ड आयुध धरान् अपि ।एक अक्ष अनेक कर्णामः च चलल् लम्ब पयः धरान् ॥५-४-१६॥
करालान् भुग्न वक्त्रामः च विकटान् वामनामः तथा ।धन्विनः खड्गिनः चैव शतघ्नी मुसल आयुधान् ॥५-४-१७॥
परिघ उत्तम हस्तामः च विचित्र कवच उज्ज्वलान् ।नातिस्थूलान् नातिकृशान् नातिदीर्घ अतिह्रस्वकान् ॥५-४-१८॥
नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान् ।विरूपान् बहु रूपामः च सुरूपामः च सुवर्चसः ॥५-४-१९॥
ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् ।शक्ति वृक्ष आयुधामः चैव पट्टिश अशनि धारिणः ॥५-४-२०॥
क्षेपणी पाश हस्तामः च ददर्श स महा कपिः ।स्रग्विणः त्व् अनुलिप्तामः च वर आभरण भूषितान् ॥५-४-२१॥
नानावेषसमायुक्तान्यथास्वैरगतान् बहून् ।तीक्ष्ण शूल धरामः चैव वज्रिणः च महा बलान् ॥५-४-२२॥
शत साहस्रम् अव्यग्रम् आरक्षम् मध्यमम् कपिः ।रक्षोधिपतिनिर्दिष्टम् ददर्शान्तःपुराग्रतः ॥५-४-२३॥
स तदा तद्गृहम् दृष्ट्वा महाहाटकतोरणम् ।राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥५-४-२४॥
पुण्डरीकावतम्साभिः परिखाभिरलम्कृतम् ।प्राकार आवृतम् अत्यन्तम् ददर्श स महा कपिः ॥५-४-२५॥
त्रिविष्टप निभम् दिव्यम् दिव्य नाद विनादितम् ।वाजि हेषित सम्घुष्टम् नादितम् भूषणैः तथा ॥५-४-२६॥
रथैः यानैः विमानैः च तथा गज हयैः  शुभैः  ।वारणैः च चतुः दन्तैः  श्वेत अभ्र निचय उपमैः  ॥५-४-२७॥
भूषितम् रुचिर द्वारम् मत्तैः च मृग पक्षिभिः ।राक्षस अधिपतेः गुप्तम् आविवेश गृहम् कपिः ॥५-४-२८॥
सहेमजाम्बूनदचक्रवाLअम् ।महार्ह मुक्तामणिभूषितान्तम् ।परार्थ्यकालागुरुचन्दनाक्तं ।स रावणान्तःपुरमाविवेश ॥५-४-२९॥
॥ इति रामायने सुन्दरकाण्डे चतुर्थः सर्गः ॥
ततः स मध्यंगतमंशुमन्तं ।ज्योत्स्नावितानम् महदुद्वमन्तम् ।ददर्श धीमान् दिवि भानुमन्तम् ।गोष्ठे वृषं मत्तमिव भ्रामन्तम् ॥५-५-१॥
लोकस्य पापानि विनाशयन्तम् ।महोदधिं चापि समेधयन्तम् ।भूतानि सर्वाणि विराजयन्तम् ।ददर्श शीताम्शुमथाभियान्तम् ॥५-५-२॥
या भाति  लक्ष्मीर्भुवि मन्दरस्था ।तथा प्रदोषेषु च सागरस्था ।तथैव तोयेषु च पुष्करस्था ।रराज सा चारुनिशाकरस्था ॥५-५-३॥
हम्सो यथा राजतपञ्जरसथः ।सिम्हो यथा मन्दरकन्दरस्थः ।वीरो यथा गर्वितकुञ्जरस्थ ।श्चन्द्रो विबभ्राज तथामभरस्थः ॥५-५-४॥
स्थितह् ककुद्मानिव तीक्ष्णशृङ्गो ।महाचलः श्वेत इवोच्चशृङ्गः ।हस्तीव जाम्बूनदबद्धश्^इङ्गो ।रराज चन्द्रह् परिपूर्णशृङ्गः ॥५-५-५॥
विनष्टशीताम्बुतुषारपङ्को ।महाग्रहग्राहविनष्टपङ्कः ।प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को ।रराज चन्द्रो भगवान् शशाङ्कः ॥५-५-६॥
शीलातलम् प्राप्य यथा मृगेन्द्रो ।महारणम् प्राप्य यथा गजेन्द्रह् ।राज्यम् समासाद्य यथा नरेन्द्र ।स्तथाप्रकाशो विरराज चन्द्रः ॥५-५-७॥
प्रकाशचन्द्रोदयनष्टदोषः ।प्रवृत्तरक्षः पिशिताशदोषः ।रामाभिरामेरितचित्तदोषः ।स्वर्गप्रकाशो भगवान् प्रदोषः ॥५-५-८॥
तन्त्रीस्वनाह् कर्णसुखाः प्रवृत्ताः ।स्वपन्ति नार्यः पतिभिः सुवृत्ताः ।नक्तम्चराश्चापि तथा प्रवृत्ता ।विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥५-५-९॥
मत्तप्रमत्तानि समाकुलानि ।तथाश्वभद्रासनसम्कुलानि ।वीरः श्रिया चापि समाकुलानि ।ददर्श धीमान् स कपिः कुलानि ॥५-५-१०॥
परस्परं चाधिकमाक्षिपन्ति ।भुआम्श्च पीनानधिनिक्षिपन्ति ।मत्तप्रलापानधिकम् क्षिपन्ति ।मत्तानि चान्योन्यमधिक्षिपन्ति ॥५-५-११॥
रक्षाम्सि वक्षाम्सि च विक्षिपन्ति ।गात्राणि कान्तासु च विक्षिपन्ति ।रूपाअणि चित्राणि च विक्षिपन्ति ।दृढानि चापानि च विक्षिपन्ति ॥५-५-१२॥
ददर्श कान्ताश्च समालभन्त्य ।स्तथा परास्तत्र पुनः स्वपन्त्यः ।सुरूपवक्त्राश्च तथा हसन्त्यः ।क्रुद्धाः पराश्चपि विनिःश्वसन्त्यः ॥५-५-१३॥
महागजैश्चापि तथा नदद्भिः ।सुपूजितैश्चापि तथा सुसद्भिः ।रराज वीरैश्च विनिःश्वसद्भि ।र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥५-५-१४॥
बुद्धिप्रधानान् रुचिराभिधानान् ।सम्श्रद्दधानान् जगतः प्रधानान् ।नानाविधानान् रुचिराभिधानान् ।ददर्श तस्याम् पुरि यातुधानान् ॥५-५-१५॥
ननन्द दृष्ट्वा स च तान् सुरूपा ।न्नानागुणानात्मगुणानुरूपान् ।विद्योतमानान्स तदानुरूपान् ।ददर्श काम्श्चिच्च पुनर्विरूपान् ॥५-५-१६॥
ततो वरार्हः सुविशुद्धभावा ।स्तेषाम् स्त्रियस्तत्र महानुभावाह् ।प्रियेषु पानेषु च सक्तभावा ।ददर्श ताराइव सुप्रभावाः ॥५-५-१७॥
श्रिया ज्वलन्तीस्त्रपयोगूढा ।निशीथकाले रमणोपगूढाः ।ददर्श काश्चित्प्रमदोपगूढा ।यथा विहङ्गाः कुसुमोपगूढाः ॥५-५-१८॥
अन्याः पुनर्हर्म्यतलोपविष्टा ।स्तत्र प्रियाङ्केषु सुखोपविष्टाः ।भर्तुः प्रिया धर्मपरा निविष्टा ।ददर्श  धीमान् मदनाभिविष्टाः ॥५-५-१९॥
अप्रावृताः काञ्चनराजिवर्णाः ।काश्चित्परार्थ्यास्तपनीयवर्णाः ।पुनश्च काश्चिच्छशलक्ष्मवर्णाः ।कान्तप्रहीणारुचिराङ्गवर्णाः ॥५-५-२०॥
ततह् प्रियान् प्राप्य मनोभिरामान् ।सुप्रीतियुक्ताः सुमनोभिरामाः ।गृहेषु हृष्टाः परमाभिरामाः ।हरिप्रवीरः स ददर्श रामाः ॥५-५-२१॥
चन्द्रप्रकाशाश्च हि वक्त्रमाला ।वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।विभूषाणानाम् च ददर्श मालाः ।शतह्रदानामिव चारुमालाः ॥५-५-२२॥
न त्वेव सीताम् परमाभिजाताम् ।पथि स्थिते राजकुले प्रजाताम् ।लताम् प्रपुल्लामिव साधु जाताम् ।ददर्श तन्वीम् मनसाभिजाताम् ॥५-५-२३॥
सनातने वर्त्मानि सम्निविष्टाम् ।रामेक्षणां तां मदनाभिविष्टाम् ।भर्तुर्मनः श्रीमदनुप्रविष्टाम् ।स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥५-५-२४॥
उष्णार्दिताम् सानुसृतास्रकण्ठीम् ।पुरा वरार्होत्तमनिष्ककण्ठीम् ।सुजातपक्ष्मामभिरक्तकण्ठीम् ।वनेऽप्रनृत्तामिव नीलकण्ठीम् ॥५-५-२५॥
अव्यक्तरेखामिव चन्द्ररेखां ।पाम्सुप्रदिग्धामिव हेमरेखाम् ।क्षतप्ररूढामिव बाणरेखां ।वायुप्रभिन्नामिव मेघरेक्षाम् ॥५-५-२६॥
सीतामपश्यन् मनुजेश्वरस्य ।रामस्य पत्नीम् वदताम् वरस्य ।बभूव दुःखाभिहतश्चिरस्य ।प्लवङ्गमो मन्द इवाचिरस्य ॥५-५-२७॥
स निकामम् विमानेषु विषण्णः काम रूपधृत् ।विचचार पुनर्लङ्काम् लाघवेन समन्वितः ॥५-६-१॥
आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् ।प्राकारेण अर्क वर्णेन भास्वरेण अभिसम्व्Rतम् ॥५-६-२॥
रक्षितम् राक्षसैर् भीमैः सिम्हैर् इव महद् वनम् ।समीक्षमाणो भवनम् चकाशे कपि कुन्जरः ॥५-६-३॥
रूप्य कोप हितैः चित्रैः तोरणैर् हेम भूषितैः ।विचित्राभिः च कक्ष्याभिर् द्वारैः च रुचिरैर् व्Rतम् ॥५-६-४॥
गज आस्थितैर् महा मात्रैः शूरैः च विगत श्रमैः ।उपस्थितम् असम्हार्यैर् हयैः स्यन्दन यायिभिः ॥५-६-५॥
सिम्ह व्याघ्र तनु त्राणैर् दान्त कान्चन राजतैः ।घोषवद्भिर् विचित्रैः च सदा विचरितम् रथैः ॥५-६-६॥
बहु रत्न समाकीर्णम् पर अर्ध्य आसन भाजनम् ।महा रथ समावासम् महा रथ महा आसनम् ॥५-६-७॥
दृश्यैः च परम उदारैः तैः तैः च मृग पक्षिभिः ।विविधैर् बहु साहस्रैः परिपूर्णम् समन्ततः ॥५-६-८॥
विनीतैर् अन्त पालैः च रक्षोभिः च सुरक्षितम् ।मुख्याभिः च वर स्त्रीभिः परिपूर्णम् समन्ततः ॥५-६-९॥
मुदित प्रमदा रत्नम् राक्षस इन्द्र निवेशनम् ।वर आभरण निर्ह्रादैः समुद्र स्वन निह्स्वनम् ॥५-६-१०॥
तद् राज गुण सम्पन्नम् मुख्यैः च वर चन्दनैः ।भेरी म्Rदन्ग अभिरुतम् शन्ख घोष विनादितम् ॥५-६-११॥
भेरीमृदङ्गाभिरुतम् शङ्खघोषनिनादितम् ।नित्य अर्चितम् पर्व हुतम् पूजितम् राक्षसैः सदा ॥५-६-१२॥
समुद्रम् इव गम्भीरम् समुद्रम् इव निह्स्वनम् ।महात्मानो महद् वेश्म महा रत्न परिच्चदम् ॥५-६-१३॥
महा जन समाकीर्णम् ददर्श स महा कपिः ।विराजमानम् वपुषा गज अश्व रथ सम्कुलम् ॥५-६-१४॥
लन्का आभरणम् इति एव सो अमन्यत महा कपिः ।चचार हनुमाम्स्तत्र रावणस्य समीपतः ॥५-६-१५॥
गृहाद् गृहम् राक्षसानाम् उद्यानानि च वानरः ।वीक्षमाणो हि असम्त्रस्तः प्रासादामः च चचार सः ॥५-६-१६॥
अवप्लुत्य महा वेगः प्रहस्तस्य निवेशनम् ।ततो अन्यत् पुप्लुवे वेश्म महा पार्श्वस्य वीर्यवान् ॥५-६-१७॥
अथ मेघ प्रतीकाशम् कुम्भ कर्ण निवेशनम् ।विभीषणस्य च तथा पुप्लुवे स महा कपिः ॥५-६-१८॥
महा उदरस्य च तथा विरूप अक्षस्य चैव हि ।विद्युज् जिह्वस्य भवनम् विद्युन् मालेः तथैव च ॥५-६-१९॥
वज्र दम्ष्ट्रस्य च तथा पुप्लुवे स महा कपिः ।शुकस्य च महा वेगः सारणस्य च धीमतः ।तथा च इन्द्रजितो वेश्म जगाम हरि यूथपः ॥५-६-२०॥
जम्बु मालेः सुमालेः च जगाम हरि यूथपः ॥५-६-२१॥
रश्मि केतोः च भवनम् सूर्य शत्रोः तथैव च ।वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥५-६-२२॥
धूम्र अक्षस्य च सम्पातेर् भवनम् मारुत आत्मजः ।विद्युद् रूपस्य भीमस्य घनस्य विघनस्य च ॥५-६-२३॥
शुक नाभस्य वक्रस्य शठस्य विकटस्य च ।ह्रस्व कर्णस्य दम्ष्ट्रस्य रोमशस्य च रक्षसः ॥५-६-२४॥
युद्ध उन्मत्तस्य मत्तस्य ध्वज ग्रीवस्य नादिनः ।विद्युज् जिह्व इन्द्र जिह्वानाम् तथा हस्ति मुखस्य च ॥५-६-२५॥
करालस्य पिशाचस्य शोणित अक्षस्य चैव हि ।क्रममाणः क्रमेण एव हनूमान् मारुत आत्मजः ॥५-६-२६॥
तेषु तेषु महा अर्हेषु भवनेषु महा यशाः ।तेषाम् R^द्धिमताम् ऋद्धिम् ददर्श स महा कपिः ॥५-६-२७॥
सर्वेषाम् समतिक्रम्य भवनानि समन्ततः ।आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् ॥५-६-२८॥
रावणस्य उपशायिन्यो ददर्श हरि सत्तमः ।विचरन् हरि शार्दूलो राक्षसीर् विकृत ईक्षणाः ॥५-६-२९॥
शूल मुद्गल हस्ताः च शक्तो तोमर धारिणीः ।ददर्श विविधान् गुल्मामः तस्य रक्षः पतेर् गृहे ।राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ॥५-६-३०॥
रक्तान् श्वेतान् सितामः चैव हरीमः चैव महा जवान् ॥५-६-३१॥
कुलीनान् रूप सम्पन्नान् गजान् पर गज आरुजान् ।निष्ठितान् गज शिखायाम् ऐरावत समान् युधि ॥५-६-३२॥
निहन्त् न् पर सैन्यानाम् गृहे तस्मिन् ददर्श सः ।क्षरतः च यथा मेघान् स्रवतः च यथा गिरीन् ॥५-६-३३॥
मेघ स्तनित निर्घोषान् दुर्धर्षान् समरे परैः ।सहस्रम् वाहिनीः तत्र जाम्बूनद परिष्कृताः ॥५-६-३४॥
हेम जालैर् अविच्चिन्नाः तरुण आदित्य सम्निभाः ।ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने ॥५-६-३५॥
शिबिका विविध आकाराः स कपिर् मारुत आत्मजः ।लता गृहाणि चित्राणि चित्र शाला गृहाणि च ॥५-६-३६॥
क्रीडा गृहाणि च अन्यानि दारु पर्वतकान् अपि ।कामस्य गृहकम् रम्यम् दिवा गृहकम् एव च ॥५-६-३७॥
ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने ।स मन्दर तल प्रख्यम् मयूर स्थान सम्कुलम् ॥५-६-३८॥
ध्वज यष्टिभिर् आकीर्णम् ददर्श भवन उत्तमम् ।अनन्त रत्न निचयम् निधि जालम् समन्ततः ॥५-६-३९॥
धीर निष्ठित कर्म अन्तम् गृहम् भूत पतेर् इव ।अर्चिर्भिः च अपि रत्नानाम् तेजसा रावणस्य च ॥५-६-४०॥
विरराज अथ तद् वेश्म रश्मिमान् इव रश्मिभिः ।जाम्बू नदमयानि एव शयनानि आसनानि च ॥५-६-४१॥
भाजनानि च शुभ्राणि ददर्श हरि यूथपः ।मध्व् आसव कृत क्लेदम् मणि भाजन सम्कुलम् ॥५-६-४२॥
मनो रमम् असम्बाधम् कुबेर भवनम् यथा ।नूपुराणाम् च घोषेण कान्चीनाम् निनदेन च ॥५-६-४३॥
मृदन्ग तल घोषैः च घोषवद्भिर् विनादितम् ।प्रासाद सम्घात युतम् स्त्री रत्न शत सम्कुलम् ॥५-६-४४॥
सुव्यूढ कक्ष्यम् हनुमान् प्रविवेश महा गृहम् ।
स वेश्म जालम् बलवान् ददर्श ।व्यासक्त वैदूर्य सुवर्ण जालम् ।यथा महत् प्राव्Rषि मेघ जालम् ।विद्युत् पिनद्धम् सविहम्ग जालम् ॥५-७-१॥
निवेशनानाम् विविधाः च शालाः ।प्रधान शन्ख आयुध चाप शालाः ।मनो हराः च अपि पुनर् विशाला ।ददर्श वेश्म अद्रिषु चन्द्र शालाः ॥५-७-२॥
गृहाणि नाना वसु राजितानि ।देव असुरैः च अपि सुपूजितानि ।सर्वैः च दोषैः परिवर्जितानि ।कपिर् ददर्श स्व बल अर्जितानि ॥५-७-३॥
तानि प्रयत्न अभिसमाहितानि ।मयेन साक्षाद् इव निर्मितानि ।मही तले सर्व गुण उत्तराणि ।ददर्श लन्का अधिपतेर् ग्Rहाणि ॥५-७-४॥
ततो ददर्श उच्च्रित मेघ रूपम् ।मनो हरम् कान्चन चारु रूपम् ।रक्षो अधिपस्य आत्म बल अनुरूपम् ।गृह उत्तमम् हि अप्रतिरूप रूपम् ॥५-७-५॥
मही तले स्वर्गम् इव प्रकीर्णम् ।श्रिया ज्वलन्तम् बहु रत्न कीर्णम् ।नाना तरूणाम् कुसुम अवकीर्णम् ।गिरेर् इव अग्रम् रजसा अवकीर्णम् ॥५-७-६॥
नारी प्रवेकैर् इव दीप्यमानम् ।तडिद्भिर् अम्भोदवद् अर्च्यमानम् ।हम्स प्रवेकैर् इव वाह्यमानम् ।श्रिया युतम् खे सुक्Rताम् विमानम् ॥५-७-७॥
यथा नग अग्रम् बहु धातु चित्रम् ।यथा नभः च ग्रह चन्द्र चित्रम् ।ददर्श युक्ती कृत मेघ चित्रम् ।विमान रत्नम् बहु रत्न चित्रम् ॥५-७-८॥
मही कृता पर्वत राजि पूर्णा ।शैलाः कृता वृक्ष वितान पूर्णाः ।वृक्षाः क्Rताः पुष्प वितान पूर्णाः ।पुष्पम् क्Rतम् केसर पत्र पूर्णम् ॥५-७-९॥
कृतानि वेश्मानि च पाण्डुराणि ।तथा सुपुष्पा अपि पुष्करिण्यः ।पुनः च पद्मानि सकेसराणि ।धन्यानि चित्राणि तथा वनानि ॥५-७-१०॥
पुष्प आह्वयम् नाम विराजमानम् ।रत्न प्रभाभिः च विवर्धमानम् ।वेश्म उत्तमानाम् अपि च उच्च मानम् ।महा कपिः तत्र महा विमानम् ॥५-७-११॥
कृताः च वैदूर्यमया विहम्गा ।रूप्य प्रवालैः च तथा विहम्गाः ।चित्राः च नाना वसुभिर् भुजम्गा ।जात्या अनुरूपाः तुरगाः शुभ अन्गाः ॥५-७-१२॥
प्रवाल जाम्बूनद पुष्प पक्षाः ।सलीलम् आवर्जित जिह्म पक्षाः ।कामस्य साक्षाद् इव भान्ति पक्षाः ।कृता विहम्गाः सुमुखाः सुपक्षाः ॥५-७-१३॥
नियुज्यमानाः च गजाः सुहस्ताः ।सकेसराः च उत्पल पत्र हस्ताः ।बभूव देवी च कृता सुहस्ता ।लक्ष्मीः तथा पद्मिनि पद्म हस्ता ॥५-७-१४॥
इति इव तद् ग्Rहम् अभिगम्य शोभनम् ।सविस्मयो नगम् इव चारु शोभनम् ।पुनः च तत् परम सुगन्धि सुन्दरम् ।हिम अत्यये नगम् इव चारु कन्दरम् ॥५-७-१५॥
ततः स ताम् कपिर् अभिपत्य पूजिताम् ।चरन् पुरीम् दश मुख बाहु पालिताम् ।अदृश्य ताम् जनक सुताम् सुपूजिताम् ।सुदुह्खिताम् पति गुण वेग निर्जिताम् ॥५-७-१६॥
ततः तदा बहु विध भावित आत्मनः ।कृत आत्मनो जनक सुताम् सुवर्त्मनः ।अपश्यतो अभवद् अतिदुह्खितम् मनः ।सुचक्षुषः प्रविचरतो महात्मनः ॥५-७-१७॥
स तस्य मध्ये भवनस्य सम्स्थितम् ।महद्विमानम् मणिवज्रचित्रितम् ।प्रतप्तजाम्बूनदजालकृत्रिमम् ।ददर्श वीरः पवनात्मजः कपिः ॥५-८-१॥
तदप्रमेयाप्रतिकारकृत्रिमम् ।कृतम् स्वयम् साध्विति विश्वकर्मणाः ।दिवम् गतम् वायुपथप्रतिष्ठितम् ।व्यराजतादित्यपथस्य लक्ष्मिवत् ॥५-८-२॥
न तत्र किम्चिन्न कृतम् प्रयत्नतो ।न तत्र किम्चिन्न महर्हरत्नवत् ।न ते विशेषा नियताः सुरेष्वपि ।न तत्र किम्चिन्न महाविशेषवत् ॥५-८-३॥
तपह्समाधानपराक्रमार्जितम् ।मनःसमाधानविचारचारिणम् ।अनेकसम्स्थानविषेषनिर्मितम् ।ततस्ततस्तुल्यविशेषदर्शनम् ॥५-८-४॥
विशेषमालम्ब्य विशेषसम्स्थितम् ।विचित्रकूटम् बहुकूटमण्डितम् ।मनोऽभिरामम् शरद्न्दुनिर्मलम् ।विचित्रकूटम् शिखरम् गिरेर्यथा ॥५-८-५॥
वहन्ति यम् कुण्डशोभितानना ।महाशना व्योमचरा निशाचराः ।विवृत्तविध्वस्तविशाललोचना ।महाजवा भूतगणाः सहस्रशः ॥५-८-६॥
वसन्तपुष्पोत्करचारुदर्शनम् ।वसन्तमासदपि कान्तदर्शनम् ।स पुष्पकम् तत्र विमानमुत्तमम् ।ददर्श तद्वानरवीरसत्तमः ॥५-८-७॥
तस्य आलय वरिष्ठस्य मध्ये विपुलम् आयतम् ।ददर्श भवन श्रेष्ठम् हनूमान् मारुत आत्मजः ॥५-९-१॥
अर्ध योजन विस्तीर्णम् आयतम् योजनम् हि तत् ।भवनम् राक्षस इन्द्रस्य बहु प्रासाद सम्कुलम् ॥५-९-२॥
मार्गमाणः तु वैदेहीम् सीताम् आयत लोचनाम् ।सर्वतः परिचक्राम हनूमान् अरि सूदनः ॥५-९-३॥
उत्तमम् राक्षसावासम् हनुमानवलोकयन् ।आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥५-९-४॥
चतुर् विषाणैर् द्विरदैः त्रिविषाणैः तथैव च ।परिक्षिप्तम् असम्बाधम् रक्ष्यमाणम् उदायुधैः ॥५-९-५॥
राक्षसीभिः च पत्नीभी रावणस्य निवेशनम् ।आह्Rताभिः च विक्रम्य राज कन्याभिर् आव्Rतम् ॥५-९-६॥
तन् नक्र मकर आकीर्णम् तिमिम्गिल झष आकुलम् ।वायु वेग समाधूतम् पन्नगैर् इव सागरम् ॥५-९-७॥
या हि वैश्वरणे लक्ष्मीर् या च इन्द्रे हरि वाहने ।सा रावण ग्Rहे सर्वा नित्यम् एव अनपायिनी ॥५-९-८॥
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।ताद्Rशी तद् विशिष्टा वा Rद्धी रक्षो ग्Rहेष्व् इह ॥५-९-९॥
तस्य हर्म्यस्य मध्यस्थम् वेश्म च अन्यत् सुनिर्मितम् ।बहुनिर्यूह सम्कीर्णम् ददर्श पवन आत्मजः ॥५-९-१०॥
ब्रह्मणो अर्थे क्Rतम् दिव्यम् दिवि यद् विश्व कर्मणा ।विमानम् पुष्पकम् नाम सर्व रत्न विभूषितम् ॥५-९-११॥
परेण तपसा लेभे यत् कुबेरः पितामहात् ।कुबेरम् ओजसा जित्वा लेभे तद् राक्षस ईश्वरः ॥५-९-१२॥
ईहा म्Rग समायुक्तैः कार्य स्वर हिरण्मयैः ।सुक्Rतैर् आचितम् स्तम्भैः प्रदीप्तम् इव च श्रिया ॥५-९-१३॥
मेरु मन्दर सम्काशैर् उल्लिखद्भिर् इव अम्बरम् ।कूट अगारैः शुभ आकारैः सर्वतः समलम्क्Rतम् ॥५-९-१४॥
ज्वलन अर्क प्रतीकाशम् सुक्Rतम् विश्व कर्मणा ।हेम सोपान सम्युक्तम् चारु प्रवर वेदिकम् ॥५-९-१५॥
जाल वात अयनैर् युक्तम् कान्चनैः स्थाटिकैर् अपि ।इन्द्र नील महा नील मणि प्रवरवेदिकम् ॥५-९-१६॥
विद्रुमेण विचित्रेण मणिभिश्च महाधनैः ।विस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥५-९-१७॥
चन्दनेन च रक्तेन तपनीयनिभेन च ।सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम् ॥५-९-१८॥
कूटागारैर्वराकारैर्विविधैः समलम्कृतम् ।विमानम् पुष्पकम् दिव्यम् आरुरोह महा कपिः ॥५-९-१९॥
तत्रस्थः स तदा गन्धम् पान भक्ष्य अन्न सम्भवम् ।दिव्यम् सम्मूर्चितम् जिघ्रन् रूपवन्तम् इव अनिलम् ॥५-९-२०॥
स गन्धः तम् महा सत्त्वम् बन्धुर् बन्धुम् इव उत्तमम् ।इत एहि इति उवाच इव तत्र यत्र स रावणः ॥५-९-२१॥
ततः ताम् प्रस्थितः शालाम् ददर्श महतीम् शुभाम् ।रावणस्य मनः कान्ताम् कान्ताम् इव वर स्त्रियम् ॥५-९-२२॥
मणि सोपान विक्Rताम् हेम जाल विराजिताम् ।स्फाटिकैर् आव्Rत तलाम् दन्त अन्तरित रूपिकाम् ॥५-९-२३॥
मुक्ताभिः च प्रवालैः च रूप्य चामी करैर् अपि ।विभूषिताम् मणि स्तम्भैः सुबहु स्तम्भ भूषिताम् ॥५-९-२४॥
नम्रैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः ।स्तम्भैः पक्षैर् इव अत्युच्चैर् दिवम् सम्प्रस्थिताम् इव ॥५-९-२५॥
महत्या कुथय आस्त्रीणम् प्Rथिवी लक्षण अन्कया ।पृथिवीम् इव विस्तीर्णाम् सराष्ट्र ग्Rह मालिनीम् ॥५-९-२६॥
नादिताम् मत्त विहगैर् दिव्य गन्ध अधिवासिताम् ।पर अर्ध्य आस्तरण उपेताम् रक्षो अधिप निषेविताम् ॥५-९-२७॥
धूम्राम् अगरु धूपेन विमलाम् हम्स पाण्डुराम् ।चित्राम् पुष्प उपहारेण कल्माषीम् इव सुप्रभाम् ॥५-९-२८॥
मनः सम्ह्लाद जननीम् वर्णस्य अपि प्रसादिनीम् ।ताम् शोक नाशिनीम् दिव्याम् श्रियः सम्जननीम् इव ॥५-९-२९॥
इन्द्रियाणि इन्द्रिय अर्थैः तु पन्च पन्चभिर् उत्तमैः ।तर्पयाम् आस माता इव तदा रावण पालिता ॥५-९-३०॥
स्वर्गो अयम् देव लोको अयम् इन्द्रस्य इयम् पुरी भवेत् ।सिद्धिर् वा इयम् परा हि स्याद् इति अमन्यत मारुतिः ॥५-९-३१॥
प्रध्यायत इव अपश्यत् प्रदीपामः तत्र कान्चनान् (ःइअतुस्!)।धूर्तान् इव महा धूर्तैर् देवनेन पराजितान् ॥५-९-३२॥
दीपानाम् च प्रकाशेन तेजसा रावणस्य च ।अर्चिर्भिर् भूषणानाम् च प्रदीप्ता इति अभ्यमन्यत ॥५-९-३३॥
ततो अपश्यत् कुथा आसीनम् नाना वर्ण अम्बर स्रजम् ।सहस्रम् वर नारीणाम् नाना वेष विभूषितम् ॥५-९-३४॥
परिव्Rत्ते अर्ध रात्रे तु पान निद्रा वशम् गतम् ।क्रीडित्वा उपरतम् रात्रौ सुष्वाप बलवत् तदा ॥५-९-३५॥
तत् प्रसुप्तम् विरुरुचे निह्शब्द अन्तर भूषणम् ।निह्शब्द हम्स भ्रमरम् यथा पद्म वनम् महत् ॥५-९-३६॥
तासाम् सम्व्Rत दन्तानि मीलित अक्षाणि मारुतिः ।अपश्यत् पद्म गन्धीनि वदनानि सुयोषिताम् ॥५-९-३७॥
प्रबुद्धानि इव पद्मानि तासाम् भूत्वा क्षपा क्षये ।पुनः सम्व्Rत पत्राणि रात्राव् इव बभुः तदा ॥५-९-३८॥
इमानि मुख पद्मानि नियतम् मत्त षट्पदाः ।अम्बुजानि इव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥५-९-३९॥
इति वा अमन्यत श्रीमान् उपपत्त्या महा कपिः ।मेने हि गुणतः तानि समानि सलिल उद्भवैः ॥५-९-४०॥
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर् विराजिता ।शारदी इव प्रसन्ना द्यौः ताराभिर् अभिशोभिता ॥५-९-४१॥
स च ताभिः परिव्Rतः शुशुभे राक्षस अधिपः ।यथा हि उडु पतिः श्रीमामः ताराभिर् अभिसम्व्Rतः ॥५-९-४२॥
याः च्यवन्ते अम्बरात् ताराः पुण्य शेष समाव्Rताः ।इमाः ताः सम्गताः क्Rत्स्ना इति मेने हरिः तदा ॥५-९-४३॥
ताराणाम् इव सुव्यक्तम् महतीनाम् शुभ अर्चिषाम् ।प्रभा वर्ण प्रसादाः च विरेजुः तत्र योषिताम् ॥५-९-४४॥
व्याव्Rत्त गुरु पीन स्रक् प्रकीर्ण वर भूषणाः ।पान व्यायाम कालेषु निद्रा अपह्Rत चेतसः ॥५-९-४५॥
व्याव्Rत्त तिलकाः काश्चित् काश्चिद् उद्भ्रान्त नूपुराः ।पार्श्वे गलित हाराः च काश्चित् परम योषितः ॥५-९-४६॥
मुखा हार व्Rताः च अन्याः काश्चित् प्रस्रस्त वाससः ।व्याविद्ध रशना दामाः किशोर्य इव वाहिताः ॥५-९-४७॥
सुकुण्डल धराः च अन्या विच्चिन्न म्Rदित स्रजः ।गज इन्द्र म्Rदिताः फुल्ला लता इव महा वने ॥५-९-४८॥
चन्द्र अम्शु किरण आभाः च हाराः कासाम्चिद् उत्कटाः ।हम्सा इव बभुः सुप्ताः स्तन मध्येषु योषिताम् ॥५-९-४९॥
अपरासाम् च वैदूर्याः कादम्बा इव पक्षिणः ।हेम सूत्राणि च अन्यासाम् चक्र वाका इव अभवन् ॥५-९-५०॥
हम्स कारण्डव आकीर्णाः चक्र वाक उपशोभिताः ।आपगा इव ता रेजुर् जघनैः पुलिनैर् इव ॥५-९-५१॥
किन्किणी जाल सम्काशाः ता हेम विपुल अम्बुजाः ।भाव ग्राहा यशः तीराः सुप्ता नद्य इव आबभुः ॥५-९-५२॥
मृदुष्व् अन्गेषु कासाम्चित् कुच अग्रेषु च सम्स्थिताः ।बभूवुर् भूषणानि इव शुभा भूषण राजयः ॥५-९-५३॥
अम्शु कान्ताः च कासाम्चिन् मुख मारुत कम्पिताः ।उपरि उपरि वक्त्राणाम् व्याधूयन्ते पुनः पुनः ॥५-९-५४॥
ताः पाताका इव उद्धूताः पत्नीनाम् रुचिर प्रभाः ।नाना वर्ण सुवर्णानाम् वक्त्र मूलेषु रेजिरे ॥५-९-५५॥
ववल्गुः च अत्र कासाम्चित् कुण्डलानि शुभ अर्चिषाम् ।मुख मारुत सम्सर्गान् मन्दम् मन्दम् सुयोषिताम् ॥५-९-५६॥
शर्कर आसव गन्धः स प्रक्Rत्या सुरभिः सुखः ।तासाम् वदन निह्श्वासः सिषेवे रावणम् तदा ॥५-९-५७॥
रावण आनन शन्काः च काश्चिद् रावण योषितः ।मुखानि स्म सपत्नीनाम् उपाजिघ्रन् पुनः पुनः ॥५-९-५८॥
अत्यर्थम् सक्त मनसो रावणे ता वर स्त्रियः ।अस्वतन्त्राः सपत्नीनाम् प्रियम् एव आचरमः तदा ॥५-९-५९॥
बाहून् उपनिधाय अन्याः पारिहार्य विभूषिताः ।अम्शुकानि च रम्याणि प्रमदाः तत्र शिश्यिरे ॥५-९-६०॥
अन्या वक्षसि च अन्यस्याः तस्याः काचित् पुनर् भुजम् ।अपरा त्व् अन्कम् अन्यस्याः तस्याः च अपि अपरा भुजौ ॥५-९-६१॥
ऊरु पार्श्व कटी प्Rष्ठम् अन्योन्यस्य समाश्रिताः ।परस्पर निविष्ट अन्ग्यो मद स्नेह वश अनुगाः ॥५-९-६२॥
अन्योन्यस्य अन्ग सम्स्पर्शात् प्रीयमाणाः सुमध्यमाः ।एकी क्Rत भुजाः सर्वाः सुषुपुः तत्र योषितःअन्योन्य भुज सूत्रेण स्त्री माला ग्रथिता हि सा ।माला इव ग्रथिता सूत्रे शुशुभे मत्त षट्पदा ॥५-९-६३॥
लतानाम् माधवे मासि फुल्लानाम् वायु सेवनात् ।अन्योन्य माला ग्रथितम् सम्सक्त कुसुम उच्चयम् ॥५-९-६४॥
व्यतिवेष्टित सुस्कन्थम् अन्योन्य भ्रमर आकुलम् ।आसीद् वनम् इव उद्धूतम् स्त्री वनम् रावणस्य तत् ॥५-९-६५॥
उचितेष्व् अपि सुव्यक्तम् न तासाम् योषिताम् तदा ।विवेकः शक्य आधातुम् भूषण अन्ग अम्बर स्रजाम् ॥५-९-६६॥
रावणे सुख सम्विष्टे ताः स्त्रियो विविध प्रभाः ।ज्वलन्तः कान्चना दीपाः प्रेक्षन्त अनिमिषा इव ॥५-९-६७॥
राज Rषि पित्R दैत्यानाम् गन्धर्वाणाम् च योषितः ।रक्षसाम् च अभवन् कन्याः तस्य काम वशम् गताः ॥५-९-६८॥
युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः ।समदा मदनेनैव मोहिताः काश्चिदागताः ॥५-९-६९॥
न तत्र काचित् प्रमदा प्रसह्य ।वीर्य उपपन्नेन गुणेन लब्धा ।न च अन्य कामा अपि न च अन्य पूर्वा ।विना वर अर्हाम् जनक आत्मजाम् तु ॥५-९-७०॥
न च अकुलीना न च हीन रूपा ।न अदक्षिणा न अनुपचार युक्ता ।भार्या अभवत् तस्य न हीन सत्त्वा ।न च अपि कान्तस्य न कामनीया ॥५-९-७१॥
बभूव बुद्धिः तु हरि ईश्वरस्य ।यदि ईद्Rशी राघव धर्म पत्नी ।इमा यथा राक्षस राज भार्याः ।सुजातम् अस्य इति हि साधु बुद्धेः ॥५-९-७२॥
पुनः च सो अचिन्तयद् आर्त रूपो ।ध्रुवम् विशिष्टा गुणतो हि सीता ।अथ अयम् अस्याम् क्Rतवान् महात्मा ।लन्का ईश्वरः कष्टम् अनार्य कर्म ॥५-९-७३॥
तत्र दिव्य उपमम् मुख्यम् स्फाटिकम् रत्न भूषितम् ।अवेक्षमाणो हनुमान् ददर्श शयन आसनम् ॥५-१०-१॥
दान्तकाञ्चनिचित्राङ्गेर्वैश्च वरासनैः ।महार्हस्तरणोपेतैरुपपन्नम् महाधनैः ॥५-१०-२॥
तस्य च एकतमे देशे सो अग्र्य माल्य विभूषितम् ।ददर्श पाण्डुरम् चत्रम् तारा अधिपति सम्निभम् ॥५-१०-३॥
जातरूपपरिक्षिप्तम् चित्रभानुसमप्रभम् ।अशोकमालाविततम् ददर्श परमासनम् ॥५-१०-४॥
वाल व्यजन हस्ताभिर् वीज्यमानम् समन्ततः ।गन्धैः च विविधैर् जुष्टम् वर धूपेन धूपितम् ॥५-१०-५॥
परम आस्तरण आस्तीर्णम् आविक अजिन सम्व्र्तम् ।दामभिर् वर माल्यानाम् समन्ताद् उपशोभितम् ॥५-१०-६॥
तस्मिन् जीमूत सम्काशम् प्रदीप्त उत्तम कुण्डलम् ।लोहित अक्षम् महा बाहुम् महा रजत वाससम् ॥५-१०-७॥
लोहितेन अनुलिप्त अन्गम् चन्दनेन सुगन्धिना ।सम्ध्या रक्तम् इव आकाशे तोयदम् सतडिद् गुणम् ॥५-१०-८॥
वृतम् आभरणैर् दिव्यैः सुरूपम् काम रूपिणम् ।सव्र्क्ष वन गुल्म आढ्यम् प्रसुप्तम् इव मन्दरम् ॥५-१०-९॥
क्रीडित्वा उपरतम् रात्रौ वर आभरण भूषितम् ।प्रियम् राक्षस कन्यानाम् राक्षसानाम् सुख आवहम् ॥५-१०-१०॥
पीत्वा अपि उपरतम् च अपि ददर्श स महा कपिः ।भास्करे शयने वीरम् प्रसुप्तम् राक्षस अधिपम् ॥५-१०-११॥
निह्श्वसन्तम् यथा नागम् रावणम् वानर उत्तमः ।आसाद्य परम उद्विग्नः सो अपासर्पत् सुभीतवत् ॥५-१०-१२॥
अथ आरोहणम् आसाद्य वेदिका अन्तरम् आश्रितः ।सुप्तम् राक्षस शार्दूलम् प्रेक्षते स्म महा कपिः ॥५-१०-१३॥
शुशुभे राक्षस इन्द्रस्य स्वपतः शयन उत्तमम् ।गन्ध हस्तिनि सम्विष्टे यथा प्रस्रवणम् महत् ॥५-१०-१४॥
कान्चन अन्गद नद्धौ च ददर्श स महात्मनः ।विक्षिप्तौ राक्षस इन्द्रस्य भुजाव् इन्द्र ध्वज उपमौ ॥५-१०-१५॥
ऐरावत विषाण अग्रैर् आपीडित क्र्त व्रणौ ।वज्र उल्लिखित पीन अम्सौ विष्णु चक्र परिक्षितौ ॥५-१०-१६॥
पीनौ समसुजात अम्सौ सम्गतौ बल सम्युतौ ।सुलक्षण नख अन्गुष्ठौ स्वन्गुली तल लक्षितौ ॥५-१०-१७॥
सम्हतौ परिघ आकारौ व्र्त्तौ करि कर उपमौ ।विक्षिप्तौ शयने शुभ्रे पन्च शीर्षाव् इव उरगौ ॥५-१०-१८॥
शश क्षतज कल्पेन सुशीतेन सुगन्धिना ।चन्दनेन पर अर्ध्येन स्वनुलिप्तौ स्वलम्क्र्तौ ॥५-१०-१९॥
उत्तम स्त्री विम्र्दितौ गन्ध उत्तम निषेवितौ ।यक्ष पन्नग गन्धर्व देव दानव राविणौ ॥५-१०-२०॥
ददर्श स कपिः तस्य बाहू शयन सम्स्थितौ ।मन्दरस्य अन्तरे सुप्तौ महा अर्ही रुषिताव् इव ॥५-१०-२१॥
ताभ्याम् स परिपूर्णाभ्याम् भुजाभ्याम् राक्षस अधिपः ।शुशुभे अचल सम्काशः श्र्न्गाभ्याम् इव मन्दरः ॥५-१०-२२॥
चूत पुम्नाग सुरभिर् बकुल उत्तम सम्युतः ।मृष्ट अन्न रस सम्युक्तः पान गन्ध पुरः सरः ॥५-१०-२३॥
तस्य राक्षस सिम्हस्य निश्चक्राम मुखान् महान् ।शयानस्य विनिह्श्वासः पूरयन्न् इव तद् ग्र्हम् ॥५-१०-२४॥
मुक्ता मणि विचित्रेण कान्चनेन विराजता ।मुकुटेन अपव्र्त्तेन कुण्डल उज्ज्वलित आननम् ॥५-१०-२५॥
रक्त चन्दन दिग्धेन तथा हारेण शोभिता ।पीन आयत विशालेन वक्षसा अभिविराजितम् ॥५-१०-२६॥
पाण्डुरेण अपविद्धेन क्षौमेण क्षतज ईक्षणम् ।महा अर्हेण सुसम्वीतम् पीतेन उत्तम वाससा ॥५-१०-२७॥
माष राशि प्रतीकाशम् निह्श्वसन्तम् भुजन्गवत् ।गान्गे महति तोय अन्ते प्रसुतमिव कुन्जरम् ॥५-१०-२८॥
चतुर्भिः कान्चनैर् दीपैर् दीप्यमानैः चतुर् दिशम् ।प्रकाशी क्र्त सर्व अन्गम् मेघम् विद्युद् गणैर् इव ॥५-१०-२९॥
पाद मूल गताः च अपि ददर्श सुमहात्मनः ।पत्नीः स प्रिय भार्यस्य तस्य रक्षः पतेर् ग्र्हे ॥५-१०-३०॥
शशि प्रकाश वदना वर कुण्डल भूषिताः ।अम्बाल माल्य आभरणा ददर्श हरि यूथपः ॥५-१०-३१॥
नृत्त वादित्र कुशला राक्षस इन्द्र भुज अन्कगाः ।वर आभरण धारिण्यो निषन्ना दद्र्शे कपिः ॥५-१०-३२॥
वज्र वैदूर्य गर्भाणि श्रवण अन्तेषु योषिताम् ।ददर्श तापनीयानि कुण्डलानि अन्गदानि च ॥५-१०-३३॥
तासाम् चन्द्र उपमैर् वक्त्रैः शुभैर् ललित कुण्डलैः ।विरराज विमानम् तन् नभः तारा गणैर् इव ॥५-१०-३४॥
मद व्यायाम खिन्नाः ताः राक्षस इन्द्रस्य योषितः ।तेषु तेष्व् अवकाशेषु प्रसुप्ताः तनु मध्यमाः ॥५-१०-३५॥
अङ्गहारैस्तथैवान्या कोवलैर्नृत्तशालिनी ।विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥५-१०-३६॥
काचिद् वीणाम् परिष्वज्य प्रसुप्ता सम्प्रकाशते ।महा नदी प्रकीर्णा इव नलिनी पोतम् आश्रिता ॥५-१०-३७॥
अन्या कक्ष गतेन एव मड्डुकेन असित ईक्षणा ।प्रसुप्ता भामिनी भाति बाल पुत्रा इव वत्सला ॥५-१०-३८॥
पटहम् चारु सर्व अन्गी पीड्य शेते शुभ स्तनी ।चिरस्य रमणम् लब्ध्वा परिष्वज्य इव कामिनी ॥५-१०-३९॥
काचिद् अम्शम् परिष्वज्य सुप्ता कमल लोचना ।रहः प्रियतमम् गृह्य सकामेव च कामिनी ॥५-१०-४०॥
विपञ्चैइम् परिगृह्यान्या नियता नृत्तशालिनी ।निद्रा वशम् अनुप्राप्ता सह कान्ता इव भामिनी ॥५-१०-४१॥
अन्या कनक सम्काशैर् म्र्दु पीनैर् मनो रमैः ।मृदन्गम् परिपीड्य अन्गैः प्रसुप्ता मत्त लोचना ॥५-१०-४२॥
भुज पार्श्व अन्तरस्थेन कक्षगेन क्र्श उदरी ।पणवेन सह अनिन्द्या सुप्ता मद क्र्त श्रमा ॥५-१०-४३॥
डिण्डिमम् परिग्र्ह्य अन्या तथैव आसक्त डिण्डिमा ।प्रसुप्ता तरुणम् वत्सम् उपगूह्य इव भामिनी ॥५-१०-४४॥
काचिद् आडम्बरम् नारी भुज सम्भोग पीडितम् ।कृत्वा कमल पत्र अक्षी प्रसुप्ता मद मोहिता ॥५-१०-४५॥
कलशीम् अपविद्ध्य अन्या प्रसुप्ता भाति भामिनी ।वसन्ते पुष्प शबला माला इव परिमार्जिता ॥५-१०-४६॥
पाणिभ्याम् च कुचौ काचित् सुवर्ण कलश उपमौ ।उपगूह्य अबला सुप्ता निद्रा बल पराजिता ॥५-१०-४७॥
अन्या कमल पत्र अक्षी पूर्ण इन्दु सद्र्श आनना ।अन्याम् आलिन्ग्य सुश्रोणी प्रसुप्ता मद विह्वला ॥५-१०-४८॥
आतोद्यानि विचित्राणि परिष्वज्य वर स्त्रियः ।निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकान् इव ॥५-१०-४९॥
तासाम् एक अन्त विन्यस्ते शयानाम् शयने शुभे ।ददर्श रूप सम्पन्नाम् अपराम् स कपिः स्त्रियम् ॥५-१०-५०॥
मुक्ता मणि समायुक्तैर् भूषणैः सुविभूषिताम् ।विभूषयन्तीम् इव च स्व श्रिया भवन उत्तमम् ॥५-१०-५१॥
गौरीम् कनक वर्ण आभाम् इष्टाम् अन्तः पुर ईश्वरीम् ।कपिर् मन्द उदरीम् तत्र शयानाम् चारु रूपिणीम् ॥५-१०-५२॥
स ताम् दृष्ट्वा महा बाहुर् भूषिताम् मारुत आत्मजः ।तर्कयाम् आस सीता इति रूप यौवन सम्पदा ॥५-१०-५३॥
हर्षेण महता युक्तो ननन्द हरि यूथपः ।आश्पोटयाम् आस चुचुम्ब पुच्चम् ।ननन्द चिक्रीड जगौ जगाम।स्तम्भान् अरोहन् निपपात भूमौ ।निदर्शयन् स्वाम् प्रक्र्तिम् कपीनाम् ॥५-१०-५४॥
अवधूय च ताम् बुद्धिम् बभूव अवस्थितः तदा ।जगाम च अपराम् चिन्ताम् सीताम् प्रति महा कपिः ॥५-११-१॥
न रामेण वियुक्ता सा स्वप्तुम् अर्हति भामिनी ।न भोक्तुम् न अपि अलम्कर्तुम् न पानम् उपसेवितुम् ॥५-११-२॥
न अन्यम् नरम् उपस्थातुम् सुराणाम् अपि च ईश्वरम् ।न हि राम समः कश्चिद् विद्यते त्रिदशेष्व् अपि ॥५-११-३॥
अन्या इयम् इति निश्चित्य पान भूमौ चचार सः ।क्रीडितेन अपराः क्लान्ता गीतेन च तथा पराः ॥५-११-४॥
नृत्तेन च अपराः क्लान्ताः पान विप्रहताः तथा ।मुरजेषु म्Rदन्गेषु पीठिकासु च सम्स्थिताः ॥५-११-५॥
तथा आस्तरण मुख्य्येषु सम्विष्टाः च अपराः स्त्रियः ।अङ्गनानाम् सहस्रेण भूषितेन विभूषणैः ॥५-११-६॥
रूप सम्ल्लाप शीलेन युक्त गीत अर्थ भाषिणा ।देश काल अभियुक्तेन युक्त वाक्य अभिधायिना ॥५-११-७॥
रत अभिरत सम्सुप्तम् ददर्श हरि यूथपः ।तासाम् मध्ये महा बाहुः शुशुभे राक्षस ईश्वरः ॥५-११-८॥
गोष्ठे महति मुख्यानाम् गवाम् मध्ये यथा वृषः ।स राक्षस इन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ॥५-११-९॥
करेणुभिर् यथा अरण्यम् परिकीर्णो महा द्विपः ।सर्व कामैर् उपेताम् च पान भूमिम् महात्मनः ॥५-११-१०॥
ददर्श कपि शार्दूलः तस्य रक्षः पतेर् गृहे ।मृगाणाम् महिषाणाम् च वराहाणाम् च भागशः ॥५-११-११॥
तत्र न्यस्तानि माम्सानि पान भूमौ ददर्श सः ।रौक्मेषु च विशलेषु भाजनेष्व् अर्ध भक्षितान् ॥५-११-१२॥
ददर्श कपि शार्दूल मयूरान् कुक्कुटामः तथा ।वराह वार्ध्राणसकान् दधि सौवर्चल आयुतान् ॥५-११-१३॥
शल्यान् म्Rग मयूरामः च हनूमान् अन्ववैक्षत ।कृकरान् विविधान् सिद्धामः चकोरान् अर्ध भक्षितान् ॥५-११-१४॥
महिषान् एक शल्यामः च चागामः च कृत निष्ठितान् ।लेख्यम् उच्च अवचम् पेयम् भोज्यानि विविधानि च ॥५-११-१५॥
तथा अम्ल लवण उत्तम्सैर् विविधै राग षाडवैः ।हार नूपुर केयूरैर् अपविद्धैर् महा धनैः ॥५-११-१६॥
पान भाजन विक्षिप्तैः फलैः च विविधैर् अपि ।कृत पुष्प उपहारा भूर् अधिकम् पुष्यति श्रियम् ॥५-११-१७॥
तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयन आसनैः ।पान भूमिर् विना वह्निम् प्रदीप्ता इव उपलक्ष्यते ॥५-११-१८॥
बहु प्रकारैर् विविधैर् वर सम्स्कार सम्स्कृतैः ।माम्सैः कुशल सम्युक्तैः पान भूमि गतैः पृथक् ॥५-११-१९॥
दिव्याः प्रसन्ना विविधाः सुराः कृत सुरा अपि ।शर्कर आसव माध्वीकाः पुष्प आसव फल आसवाः ॥५-११-२०॥
वास चूर्णैः च विविधैर् मृष्टाः तैः तैः पृथक् पृथक् ।सम्तता शुशुभे भूमिर् माल्यैः च बहु सम्स्थितैः ॥५-११-२१॥
हिरण्मयैः च करकैर् भाजनैः स्फाटिकैर् अपि ।जाम्बूनदमयैश्चान्याः करकैरभिवम्वृता ॥५-११-२२॥
राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ।पान श्रेष्ठम् तदा भूरि कपिः तत्र ददर्श ह ॥५-११-२३॥
सो अपश्यत् शात कुम्भानि शीधोर् मणिमयानि च ।राजतानि च पूर्णानि भाजनानि महा कपिः ॥५-११-२४॥
क्वचिद् अर्ध अवशेषाणि क्वचित् पीतानि सर्वशः ।क्वचिन् न एव प्रपीतानि पानानि स ददर्श ह ॥५-११-२५॥
क्वचिद् भक्ष्यामः च विविधान् क्वचित् पानानि भागशः ।क्वचिद् अन्न अवशेषाणि पश्यन् वै विचचार ह ॥५-११-२६॥
क्वचित् प्रभिन्नैः करकैः क्वचिद् आलोडितैर् घटैः ।क्वचित् सम्पृक्त माल्यानि जलानि च फलानि च ॥५-११-२७॥
शयनानि अत्र नारीणाम् शून्यानि बहुधा पुनः ।परस्परम् समाश्लिष्य काश्चित् सुप्ता वर अन्गनाः ॥५-११-२८॥
काचिच् च वस्त्रम् अन्यस्या अपह्Rत्य उपगुह्य च ।उपगम्य अबला सुप्ता निद्रा बल पराजिता ॥५-११-२९॥
तासाम् उच्च्वास वातेन वस्त्रम् माल्यम् च गात्रजम् ।न अत्यर्थम् स्पन्दते चित्रम् प्राप्य मन्दम् इव अनिलम् ॥५-११-३०॥
चन्दनस्य च शीतस्य शीधोर् मधु रसस्य च ।विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥५-११-३१॥
बहुधा मारुतः तत्र गन्धम् विविधम् उद्वहन् ।स्नानानाम् चन्दनानाम् च धूपानाम् चैव मूर्चितः ।प्रववौ सुरभिर् गन्धो विमाने पुष्पके तदा ॥५-११-३२॥
श्याम अवदाताः तत्र अन्याः काश्चित् कृष्णा वर अन्गनाः ॥५-११-३३॥
काश्चित् कान्चन वर्ण अन्ग्यः प्रमदा राक्षस आलये ।तासाम् निद्रा वशत्वाच् च मदनेन विमूर्चितम् ॥५-११-३४॥
पद्मिनीनाम् प्रसुप्तानाम् रूपम् आसीद् यथैव हि ।एवम् सर्वम् अशेषेण रावण अन्तः पुरम् कपिः ॥५-११-३५॥
ददर्श सुमहा तेजा न ददर्श च जानकीम् ।निरीक्षमाणः च ततः ताः स्त्रियः स महा कपिः ॥५-११-३६॥
जगाम महतीम् चिन्ताम् धर्म साध्वस शन्कितः ।पर दार अवरोधस्य प्रसुप्तस्य निरीक्षणम् ॥५-११-३७॥
इदम् खलु मम अत्यर्थम् धर्म लोपम् करिष्यति ।न हि मे पर दाराणाम् दृष्टिर् विषय वर्तिनी ॥५-११-३८॥
अयम् च अत्र मया दृष्टः पर दार परिग्रहः ।तस्य प्रादुर् अभूच् चिन्ता पुनर् अन्या मनस्विनः ॥५-११-३९॥
निश्चित एक अन्त चित्तस्य कार्य निश्चय दर्शिनी ।कामम् दृष्ट्वा मया सर्वा विश्वस्ता रावण स्त्रियः ॥५-११-४०॥
न तु मे मनसः किम्चिद् वैकृत्यम् उपपद्यते ।मनो हि हेतुः सर्वेषाम् इन्द्रियाणाम् प्रवर्तते ॥५-११-४१॥
शुभ अशुभास्व् अवस्थासु तच् च मे सुव्यवस्थितम् ।न अन्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥५-११-४२॥
स्त्रियो हि स्त्रीषु द्Rश्यन्ते सदा सम्परिमार्गणे ।यस्य सत्त्वस्य या योनिः तस्याम् तत् परिमार्ग्यते ॥५-११-४३॥
न शक्यम् प्रमदा नष्टा मृगीषु परिमार्गितुम् ।तद् इदम् मार्गितम् तावत् शुद्धेन मनसा मया ॥५-११-४४॥
रावण अन्तः पुरम् सरम् दृश्यते न च जानकी ।देव गन्धर्व कन्याः च नाग कन्याः च वीर्यवान् ॥५-११-४५॥
अवेक्षमाणो हनुमान् न एव अपश्यत जानकीम् ।ताम् अपश्यन् कपिः तत्र पश्यमः च अन्या वर स्त्रियः ॥५-११-४६॥
अपक्रम्य तदा वीरः प्रध्यातुम् उपचक्रमे ।स भूयस्तु परम् श्रीमान् मारुतिर्यत्नमास्थितः ॥५-११-४७॥
स तस्य मध्ये भवनस्य वानरो ।लता ग्Rहामः चित्र गृहान् निशा गृहान् ।जगाम सीताम् प्रति दर्शन उत्सुको ।न च एव ताम् पश्यति चारु दर्शनाम् ॥५-१२-१॥
स चिन्तयाम् आस ततो महा कपिः ।प्रियाम् अपश्यन् रघु नन्दनस्य ताम् ।ध्रुवम् नु सीता म्रियते यथा न मे ।विचिन्वतो दर्शनम् एति मैथिली ॥५-१२-२॥
सा राक्षसानाम् प्रवरेण बाला ।स्व शील सम्रक्षण तत् परा सती ।अनेन नूनम् प्रतिदुष्ट कर्मणा ।हता भवेद् आर्य पथे परे स्थिता ॥५-१२-३॥
विरूप रूपा विकृता विवर्चसो ।महा आनना दीर्घ विरूप दर्शनाः ।समीक्ष्य सा राक्षस राज योषितो ।भयाद् विनष्टा जनक ईश्वर आत्मजा॥५-१२-४॥
सीताम् अद्Rष्ट्वा हि अनवाप्य पौरुषम् ।विह्Rत्य कालम् सह वानरैः चिरम् ।न मे अस्ति सुग्रीव समीपगा गतिः ।सुतीक्ष्ण दण्डो बलवामः च वानरः ॥५-१२-५॥
दृष्टम् अन्तः पुरम् सर्वम् दृष्ट्वा रावण योषितः ।न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥५-१२-६॥
किम् नु माम् वानराः सर्वे गतम् वक्ष्यन्ति सम्गताः ।गत्वा तत्र त्वया वीर किम् कृतम् तद् वदस्व नः ॥५-१२-७॥
अदृष्ट्वा किम् प्रवक्ष्यामि ताम् अहम् जनक आत्मजाम् ।ध्रुवम् प्रायम् उपेष्यन्ति कालस्य व्यतिवर्तने ॥५-१२-८॥
किम् वा वक्ष्यति व्Rद्धः च जाम्बवान् अन्गदः च सः ।गतम् पारम् समुद्रस्य वानराः च समागताः ॥५-१२-९॥
अनिर्वेदः श्रियो मूलम् अनिर्वेदः परम् सुखम् ।अनिर्वेदो हि सततम् सर्व अर्थेषु प्रवर्तकः ॥५-१२-१०॥
करोति सफलम् जन्तोः कर्म यच् च करोति सः ।तस्माद् अनिर्वेद क्Rतम् यत्नम् चेष्टे अहम् उत्तमम् ॥५-१२-११॥
अदृष्टामः च विचेष्यामि देशान् रावण पालितान् ।आपान शाला विचिताः तथा पुष्प गृहाणि च ॥५-१२-१२॥
चित्र शालाः च विचिता भूयः क्रीडा गृहाणि च ।निष्कुट अन्तर रथ्याः च विमानानि च सर्वशः ॥५-१२-१३॥
इति सम्चिन्त्य भूयो अपि विचेतुम् उपचक्रमे ।भूमी गृहामः चैत्य गृहान् गृह अतिगृहकान् अपि ॥५-१२-१४॥
उत्पतन् निपतमः च अपि तिष्ठन् गच्चन् पुनः क्वचित् ।अपावृण्वमः च द्वाराणि कपाटानि अवघट्टयन् ॥५-१२-१५॥
प्रविशन् निष्पतमः च अपि प्रपतन्न् उत्पतन्न् अपि ।सर्वम् अपि अवकाशम् स विचचार महा कपिः ॥५-१२-१६॥
चतुर् अन्गुल मात्रो अपि न अवकाशः स विद्यते ।रावण अन्तः पुरे तस्मिन् यम् कपिर् न जगाम सः ॥५-१२-१७॥
प्राकर अन्तर रथ्याः च वेदिकः चैत्य सम्श्रयाः ।श्वभ्राः च पुष्करिण्यः च सर्वम् तेन अवलोकितम् ॥५-१२-१८॥
राक्षस्यो विविध आकारा विरूपा विकृताः तथा ।दृष्टा हनूमता तत्र न तु सा जनक आत्मजा ॥५-१२-१९॥
रूपेण अप्रतिमा लोके वरा विद्या धर स्त्रियः ।दृटा हनूमता तत्र न तु राघव नन्दिनी ॥५-१२-२०॥
नाग कन्या वर आरोहाः पूर्ण चन्द्र निभ आननाः ।दृष्टा हनूमता तत्र न तु सीता सुमध्यमा ॥५-१२-२१॥
प्रमथ्य राक्षस इन्द्रेण नाग कन्या बलाद्द् हृताः ।दृष्टा हनूमता तत्र न सा जनक नन्दिनी ॥५-१२-२२॥
सो अपश्यमः ताम् महा बाहुः पश्यमः च अन्या वर स्त्रियः ।विषसाद महा बाहुर् हनूमान् मारुत आत्मजः ॥५-१२-२३॥
उद्योगम् वानर इन्द्राणम् प्लवनम् सागरस्य च ।व्यर्थम् वीक्ष्य अनिल सुतः चिन्ताम् पुनर् उपागमत् ॥५-१२-२४॥
अवतीर्य विमानाच् च हनूमान् मारुत आत्मजः ।चिन्ताम् उपजगाम अथ शोक उपहत चेतनः ॥५-१२-२५॥
विमानात् तु सुसम्क्रम्य प्राकारम् हरि यूथपः ।हनूमान् वेगवान् आसीद् यथा विद्युद् घन अन्तरे ॥५-१३-१॥
सम्परिक्रम्य हनुमान् रावणस्य निवेशनान् ।अदृष्ट्वा जानकीम् सीताम् अब्रवीद् वचनम् कपिः ॥५-१३-२॥
भूयिष्ठम् लोडिता लन्का रामस्य चरता प्रियम् ।न हि पश्यामि वैदेहीम् सीताम् सर्व अन्ग शोभनाम् ॥५-१३-३॥
पल्वलानि तटाकानि सराम्सि सरितः तथा ।नद्यो अनूपवन अन्ताः च दुर्गाः च धरणी धराः ॥५-१३-४॥
लोडिता वसुधा सर्वा न च पश्यामि जानकीम् ।इह सम्पातिना सीता रावणस्य निवेशने ॥५-१३-५॥
आख्याता गृध्र राजेन न च पश्यामि ताम् अहम् ।किम् नु सीता अथ वैदेही मैथिली जनक आत्मजा ॥५-१३-६॥
उपतिष्ठेत विवशा रावणम् दुष्ट चारिणम् ।क्षिप्रम् उत्पततो मन्ये सीताम् आदाय रक्षसः ॥५-१३-७॥
बिभ्यतो राम बाणानाम् अन्तरा पतिता भवेत् ।अथवा ह्रियमाणायाः पथि सिद्ध निषेविते ॥५-१३-८॥
मन्ये पतितम् आर्याया हृदयम् प्रेक्ष्य सागरम् ।रावणस्य ऊरु वेगेन भुजाभ्याम् पीडितेन च ॥५-१३-९॥
तया मन्ये विशाल अक्ष्या त्यक्तम् जीवितम् आर्यया ।उपरि उपरि वा नूनम् सागरम् क्रमतः तदा ॥५-१३-१०॥
विवेष्टमाना पतिता समुद्रे जनक आत्मजा ।आहो क्षुद्रेण च अनेन रक्षन्ती शीलम् आत्मनः ॥५-१३-११॥
अबन्धुर् भक्षिता सीता रावणेन तपस्विनी ।अथवा राक्षस इन्द्रस्य पत्नीभिर् असित ईक्षणा ॥५-१३-१२॥
अदुष्टा दुष्ट भावाभिर् भक्षिता सा भविष्यति ।सम्पूर्ण चन्द्र प्रतिमम् पद्म पत्र निभ ईक्षणम् ॥५-१३-१३॥
रामस्य ध्यायती वक्त्रम् पन्चत्वम् कृपणा गता ।हा राम लक्ष्मण इति एव हा अयोध्येति च मैथिली ॥५-१३-१४॥
विलप्य बहु वैदेही न्यस्त देहा भविष्यति ।अथवा निहिता मन्ये रावणस्य निवेशने ॥५-१३-१५॥
नूनम् लालप्यते मन्दम् पन्जरस्था इव शारिका ।जनकस्य कुले जाता राम पत्नी सुमध्यमा ॥५-१३-१६॥
कथम् उत्पल पत्र अक्षी रावणस्य वशम् व्रजेत् ।विनष्टा वा प्रनष्टा वा मृता वा जनक आत्मजा ॥५-१३-१७॥
रामस्य प्रिय भार्यस्य न निवेदयितुम् क्षमम् ।निवेद्यमाने दोषः स्याद् दोषः स्याद् अनिवेदने ॥५-१३-१८॥
कथम् नु खलु कर्तव्यम् विषमम् प्रतिभाति मे ।अस्मिन्न् एवम् गते कर्ये प्राप्त कालम् क्षमम् च किम् ॥५-१३-१९॥
भवेद् इति मतिम् भूयो हनुमान् प्रविचारयन् ।यदि सीताम् अदृष्ट्वा अहम् वानर इन्द्र पुरीम् इतः ॥५-१३-२०॥
गमिष्यामि ततः को मे पुरुष अर्थो भविष्यति ।मम इदम् लन्घनम् व्यर्थम् सागरस्य भविष्यति ॥५-१३-२१॥
प्रवेशः चिव लन्काया राक्षसानाम् च दर्शनम् ।किम् वा वक्ष्यति सुग्रीवो हरयो व समागताः ॥५-१३-२२॥
किष्किन्धाम् समनुप्राप्तौ तौ वा दशरथ आत्मजौ ।गत्वा तु यदि काकुत्स्थम् वक्ष्यामि परम् अप्रियम् ॥५-१३-२३॥
न दृष्टा इति मया सीता ततः त्यक्ष्यन्ति जीवितम् ।परुषम् दारुणम् क्रूरम् तीक्ष्णम् इन्द्रिय तापनम् ॥५-१३-२४॥
सीता निमित्तम् दुर्वाक्यम् श्रुत्वा स न भविष्यति ।तम् तु कृच्च्र गतम् दृष्ट्वा पन्चत्व गत मानसम् ॥५-१३-२५॥
भृश अनुरक्तो मेधावी न भविष्यति लक्ष्मणः ।विनष्टौ भ्रातरौ श्रुत्वा भरतो अपि मरिष्यति ॥५-१३-२६॥
भरतम् च मृतम् दृष्ट्वा शत्रुघ्नो न भविष्यति ।पुत्रान् मृतान् समीक्ष्य अथ न भविष्यन्ति मातरः ॥५-१३-२७॥
कौसल्या च सुमित्रा च कैकेयी च न सम्शयः ।कृतज्ञः सत्य सम्धः च सुग्रीवः प्लवग अधिपः ॥५-१३-२८॥
रामम् तथा गतम् दृष्ट्वा ततः त्यक्ष्यन्ति जीवितम् ।दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ॥५-१३-२९॥
पीडिता भर्तृ शोकेन रुमा त्यक्ष्यति जीवितम् ।वालिजेन तु दुह्खेन पीडिता शोक कर्शिता ॥५-१३-३०॥
पन्चत्व गमने राज्ञः तारा अपि न भविष्यति ।माता पित्रोर् विनाशेन सुग्रीव व्यसनेन च ॥५-१३-३१॥
कुमारो अपि अन्गदः कस्माद् धारयिष्यति जीवितम् ।भर्तृजेन तु शोकेन अभिभूता वन ओकसः ॥५-१३-३२॥
शिराम्सि अभिहनिष्यन्ति तलैर् मुष्टिभिर् एव च ।सान्त्वेन अनुप्रदानेन मानेन च यशस्विना ॥५-१३-३३॥
लालिताः कपि राजेन प्राणामः त्यक्ष्यन्ति वानराः ।न वनेषु न शैलेषु न निरोधेषु वा पुनः ॥५-१३-३४॥
क्रीडाम् अनुभविष्यन्ति समेत्य कपि कुन्जराः ।सपुत्र दाराः सामात्या भर्तृ व्यसन पीडिताः ॥५-१३-३५॥
शैल अग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ।विषम् उद्बन्धनम् वा अपि प्रवेशम् ज्वलनस्य वा ॥५-१३-३६॥
उपवासम् अथो शस्त्रम् प्रचरिष्यन्ति वानराः ।घोरम् आरोदनम् मन्ये गते मयि भविष्यति ॥५-१३-३७॥
इक्ष्वाकु कुल नाशः च नाशः चैव वन ओकसाम् ।सो अहम् न एव गमिष्यामि किष्किन्धाम् नगरीम् इतः ॥५-१३-३८॥
न हि शक्ष्यामि अहम् द्रष्टुम् सुग्रीवम् मैथिलीम् विना ।मयि अगच्चति च इहस्थे धर्म आत्मानौ महा रथौ ॥५-१३-३९॥
आशया तौ धरिष्येते वनराः च मनस्विनः ।हस्त आदानो मुख आदानो नियतो वृक्ष मूलिकः ॥५-१३-४०॥
वानप्रस्थो भविष्यामि अदृष्ट्वा जनक आत्मजाम् ।सागर अनूपजे देशे बहु मूल फल उदके ॥५-१३-४१॥
चिताम् कृत्वा प्रवेक्ष्यामि समिद्धम् अरणी सुतम् ।उपविष्टस्य वा सम्यग् लिन्गिनम् साधयिष्यतः ॥५-१३-४२॥
शरीरम् भक्षयिष्यन्ति वायसाः श्वापदानि च ।इदम् अपि ऋषिभिर् दृष्टम् निर्याणम् इति मे मतिः ॥५-१३-४३॥
सम्यग् आपः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम् ।सुजात मूला सुभगा कीर्ति माला यशस्विनी ॥५-१३-४४॥
प्रभग्ना चिर रात्री इयम् मम सीताम् अपश्यतः ।तापसो वा भविष्यामि नियतो वृक्ष मूलिकः ॥५-१३-४५॥
न इतः प्रतिगमिष्यामि ताम् अदृष्ट्वा असित ईक्षणाम् ।यदि इतः प्रतिगच्चामि सीताम् अनधिगम्य ताम् ॥५-१३-४६॥
अन्गदः सहितैः सर्वैर् वानरैर् न भविष्यति ।विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् ॥५-१३-४७॥
तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति सम्गमः ।एवम् बहु विधम् दुह्खम् मनसा धारयन् मुहुः ॥५-१३-४८॥
न अध्यगच्चत् तदा पारम् शोकस्य कपि कुन्जरः ।रावणम् वा वधिष्यामि दशग्रीवम् महा बलम् ॥५-१३-४९॥
कामम् अस्तु हृता सीता प्रत्याचीर्णम् भविष्यति ।अथवा एनम् समुत्क्षिप्य उपरि उपरि सागरम् ॥५-१३-५०॥
रामाय उपहरिष्यामि पशुम् पशु पतेर् इव ।इति चिन्ता समापन्नः सीताम् अनधिगम्य ताम् ॥५-१३-५१॥
ध्यान शोका परीत आत्मा चिन्तयाम् आस वानरः ।यावत् सीताम् न पश्यामि राम पत्नीम् यशस्विनीम् ॥५-१३-५२॥
तावद् एताम् पुरीम् लन्काम् विचिनोमि पुनः पुनः ।सम्पाति वचनाच् च अपि रामम् यदि आनयामि अहम् ॥५-१३-५३॥
अपश्यन् राघवो भार्याम् निर्दहेत् सर्व वानरान् ।इह एव नियत आहारो वत्स्यामि नियत इन्द्रियः ॥५-१३-५४॥
न मत् कृते विनश्येयुः सर्वे ते नर वानराः ।अशोक वनिका च अपि महती इयम् महा द्रुमा ॥५-१३-५५॥
इमाम् अभिगमिष्यामि न हि इयम् विचिता मया ।वसून् रुद्रामः तथा आदित्यान् अश्विनौ मरुतो अपि च ॥५-१३-५६॥
नमः कृत्वा गमिष्यामि रक्षसाम् शोक वर्धनः ।जित्वा तु राक्षसान् देवीम् इक्ष्वाकु कुल नन्दिनीम् ॥५-१३-५७॥
सम्प्रदास्यामि रामाया यथा सिद्धिम् तपस्विने ।स मुहूर्तम् इव ध्यात्वा चिन्ता विग्रथित इन्द्रियः ॥५-१३-५८॥
उदतिष्ठन् महा बाहुर् हनूमान् मारुत आत्मजः ।नमो अस्तु रामाय सलक्ष्मणाय ।देव्यै च तस्यै जनक आत्मजायै ।नमो अस्तु रुद्र इन्द्र यम अनिलेभ्यो ।नमो अस्तु चन्द्र अर्क मरुद् गणेभ्यः ॥५-१३-५९॥
स तेभ्यः तु नमः कृत्वा सुग्रीवाय च मारुतिः ।दिशः सर्वाः समालोक्य अशोक वनिकाम् प्रति ॥५-१३-६०॥
स गत्वा मनसा पूर्वम् अशोक वनिकाम् शुभाम् ।उत्तरम् चिन्तयाम् आस वानरो मारुत आत्मजः ॥५-१३-६१॥
ध्रुवम् तु रक्षो बहुला भविष्यति वन आकुला ।अशोक वनिका चिन्त्या सर्व सम्स्कार सम्स्कृता ॥५-१३-६२॥
रक्षिणः च अत्र विहिता नूनम् रक्षन्ति पादपान् ।भगवान् अपि सर्व आत्मा न अतिक्षोभम् प्रवायति ॥५-१३-६३॥
सम्क्षिप्तो अयम् मया आत्मा च राम अर्थे रावणस्य च ।सिद्धिम् मे सम्विधास्यन्ति देवाः सर्षि गणाः त्व् इह ॥५-१३-६४॥
ब्रह्मा स्वयम्भूर् भगवान् देवाः चैव दिशन्तु मे ।सिद्धिम् अग्निः च वायुः च पुरु हूतः च वज्रधृत् ॥५-१३-६५॥
वरुणः पाश हस्तः च सोम आदित्यै तथैव च ।अश्विनौ च महात्मानौ मरुतः सर्व एव च ॥५-१३-६६॥
सिद्धिम् सर्वाणि भूतानि भूतानाम् चैव यः प्रभुः ।दास्यन्ति मम ये च अन्ये अदृष्टाः पथि गोचराः ॥५-१३-६७॥
तद् उन्नसम् पाण्डुर दन्तम् अव्रणम् ।शुचि स्मितम् पद्म पलाश लोचनम् ।द्रक्ष्ये तद् आर्या वदनम् कदा न्व् अहम् ।प्रसन्न तारा अधिप तुल्य दर्शनम् ॥५-१३-६८॥
क्षुद्रेण पापेन नृशम्स कर्मणा ।सुदारुण अलाम्कृत वेष धारिणा।बल अभिभूता अबला तपस्विनी ।कथम् नु मे दृष्ट पथे अद्य सा भवेत् ॥५-१३-६९॥
स मुहूर्तम् इव ध्यत्वा मनसा च अधिगम्य ताम् ।अवप्लुतो महा तेजाः प्राकारम् तस्य वेश्मनः ॥५-१४-१॥
स तु सम्हृष्ट सर्व अन्गः प्राकारस्थो महा कपिः ।पुष्पित अग्रान् वसन्त आदौ ददर्श विविधान् द्रुमान् ॥५-१४-२॥
सालान् अशोकान् भव्यामः च चम्पकामः च सुपुष्पितान् ।उद्दालकान् नाग वृक्षामः चूतान् कपि मुखान् अपि ॥५-१४-३॥
अथ आम्र वण सम्चन्नाम् लता शत समावृताम् ।ज्या मुक्त इव नाराचः पुप्लुवे वृक्ष वाटिकाम् ॥५-१४-४॥
स प्रविष्य विचित्राम् ताम् विहगैर् अभिनादिताम् ।राजतैः कान्चनैः चैव पादपैः सर्वतो वृताम् ॥५-१४-५॥
विहगैर् मृग सम्घैः च विचित्राम् चित्र काननाम् ।उदित आदित्य सम्काशाम् ददर्श हनुमान् कपिः ॥५-१४-६॥
वृताम् नाना विधैर् वृक्षैः पुष्प उपग फल उपगैः ।कोकिलैर् भृन्ग राजैः च मत्तैर् नित्य निषेविताम् ॥५-१४-७॥
प्रहृष्ट मनुजे कले मृग पक्षि समाकुले ।मत्त बर्हिण सम्घुष्टाम् नाना द्विज गण आयुताम् ॥५-१४-८॥
मार्गमाणो वर आरोहाम् राज पुत्रीम् अनिन्दिताम् ।सुख प्रसुप्तान् विहगान् बोधयाम् आस वानरः ॥५-१४-९॥
उत्पतद्भिर् द्विज गणैः पक्षैः सालाः समाहताः ।अनेक वर्णा विविधा मुमुचुः पुष्प वृष्टयः ॥५-१४-१०॥
पुष्प अवकीर्णः शुशुभे हनुमान् मारुत आत्मजः ।अशोक वनिका मध्ये यथा पुष्पमयो गिरिः ॥५-१४-११॥
दिशः सर्व अभिदावन्तम् वृक्ष षण्ड गतम् कपिम् ।द्Rष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥५-१४-१२॥
वृक्षेभ्यः पतितैः पुष्पैर् अवकीर्णा पृथग् विधैः ।रराज वसुधा तत्र प्रमदा इव विभूषिता ॥५-१४-१३॥
तरस्विना ते तरवः तरसा अभिप्रकम्पिताः ।कुसुमानि विचित्राणि सस्Rजुः कपिना तदा ॥५-१४-१४॥
निर्धूत पत्र शिखराः शीर्ण पुष्प फल द्रुमाः ।निक्षिप्त वस्त्र आभरणा धूर्ता इव पराजिताः ॥५-१४-१५॥
हनूमता वेगवता कम्पिताः ते नग उत्तमाः ।पुष्प पर्ण फलानि आशु मुमुचुः पुष्प शालिनः ॥५-१४-१६॥
विहम्ग सम्घैर् हीनाः ते स्कन्ध मात्र आश्रया द्रुमाः ।बभूवुर् अगमाः सर्वे मारुतेन इव निर्धुताः ॥५-१४-१७॥
विधूत केशी युवतिर् यथा मृदित वर्णिका ।निष्पीत शुभ दन्त ओष्ठी नखैर् दन्तैः च विक्षता ॥५-१४-१८॥
तथा लान्गूल हस्तैः च चरणाभ्याम् च मर्दिता ।बभूव अशोक वनिका प्रभग्न वर पादपा ॥५-१४-१९॥
महा लतानाम् दामानि व्यधमत् तरसा कपिः ।यथा प्रावृषि विन्ध्यस्य मेघ जालानि मारुतः ॥५-१४-२०॥
स तत्र मणि भूमीः च राजतीः च मनो रमाः ।तथा कान्चन भूमीः च विचरन् ददृशे कपिः ॥५-१४-२१॥
वापीः च विविध आकाराः पूर्णाः परम वारिणा ।महा अर्हैर् मणि सोपानैर् उपपन्नाः ततः ततः ॥५-१४-२२॥
मुक्ता प्रवाल सिकता स्फटिक अन्तर कुट्टिमाः ।कान्चनैः तरुभिः चित्रैः तीरजैर् उपशोभिताः ॥५-१४-२३॥
फुल्ल पद्म उत्पल वनाः चक्र वाक उपकूजिताः ।नत्यूह रुत सम्घुष्टा हम्स सारस नादिताः ॥५-१४-२४॥
दीर्घाभिर् द्रुम युक्ताभिः सरिद्भिः च समन्ततः ।अम्Rत उपम तोयाभिः शिवाभिर् उपसम्स्कृताः ॥५-१४-२५॥
लता शतैर् अवतताः सन्तानक समावृताः ।नाना गुल्म आवृत वनाः कर वीर कृत अन्तराः ॥५-१४-२६॥
ततो अम्बु धर सम्काशम् प्रव्Rद्ध शिखरम् गिरिम् ।विचित्र कूटम् कूटैः च सर्वतः परिवारितम् ॥५-१४-२७॥
शिला गृहैर् अवततम् नाना वृक्षैः समावृतम् ।ददर्श कपि शार्दूलो रम्यम् जगति पर्वतम् ॥५-१४-२८॥
ददर्श च नगात् तस्मान् नदीम् निपतिताम् कपिः ।अन्काद् इव समुत्पत्य प्रियस्य पतिताम् प्रियाम् ॥५-१४-२९॥
जले निपतित अग्रैः च पादपैर् उपशोभिताम् ।वार्यमाणाम् इव क्रुद्धाम् प्रमदाम् प्रिय बन्धुभिः ॥५-१४-३०॥
पुनर् आव्Rत्त तोयाम् च ददर्श स महा कपिः ।प्रसन्नाम् इव कान्तस्य कान्ताम् पुनर् उपस्थिताम् ॥५-१४-३१॥
तस्य अदूरात् स पद्मिन्यो नाना द्विज गण आयुताः ।ददर्श कपि शार्दूलो हनुमान् मारुत आत्मजः ॥५-१४-३२॥
कृत्रिमाम् दीर्घिकाम् च अपि पूर्णाम् शीतेन वारिणा ।मणि प्रवर सोपानाम् मुख्ता सिकत शोभिताम् ॥५-१४-३३॥
विविधैर् मृग सम्घैः च विचित्राम् चित्र काननाम् ।प्रासादैः सुमहद्भिः च निर्मितैर् विश्व कर्मणा ॥५-१४-३४॥
काननैः कॄत्रिमैः च अपि सर्वतः समलम्कृताम् ।ये केचित् पादपाः तत्र पुष्प उपग फल उपगाः ॥५-१४-३५॥
सच् चत्राः सवितर्दीकाः सर्वे सौवर्ण वेदिकाः ।लता प्रतानैः बहुभिः पर्णैः च बहुभिर् व्Rताम् ॥५-१४-३६॥
काञ्चनीम् शिम्शुपाम् एकाम् ददर्श स महा कपिः ।वृताम् हेममयूभिस्तु वेदिकाभिः समन्ततः ॥५-१४-३७॥
सो अपश्यद् भूमि भागामः च गर्त प्रस्रवणानि च ।सुवर्ण वृक्षान् अपरान् ददर्श शिखि सम्निभान् ॥५-१४-३८॥
तेषाम् द्रुमाणाम् प्रभया मेरोर् इव महा कपिः ।अमन्यत तदा वीरः कान्चनो अस्मि इति वानरः ॥५-१४-३९॥
ताम् कान्चनैः तरु गणैर् मारुतेन च वीजिताम् ।किन्किणी शत निर्घोषाम् दृष्ट्वा विस्मयम् आगमत् ॥५-१४-४०॥
स पुष्पित अग्राम् रुचिराम् तरुण अन्कुर पल्लवाम् ।ताम् आरुह्य महा वेगः शिम्शपाम् पर्ण सम्व्Rताम् ॥५-१४-४१॥
इतो द्रक्ष्यामि वैदेहीम् राम दर्शन लालसाम् ।इतः च इतः च दुह्ख आर्ताम् सम्पतन्तीम् यद्Rच्चया ॥५-१४-४२॥
अशोक वनिका च इयम् दृढम् रम्या दुरात्मनः ।चम्पकैः चन्दनैः च अपि बकुलैः च विभूषिता ॥५-१४-४३॥
इयम् च नलिनी रम्या द्विज सम्घ निषेविता ।इमाम् सा राम महिषी नूनम् एष्यति जानकी ॥५-१४-४४॥
सा राम राम महिषी राघवस्य प्रिया सदा ।वन सम्चार कुशला नूनम् एष्यति जानकी ॥५-१४-४५॥
अथवा मृग शाव अक्षी वनस्य अस्य विचक्षणा ।वनम् एष्यति सा च इह राम चिन्ता अनुकर्शिता ॥५-१४-४६॥
राम शोक अभिसम्तप्ता सा देवी वाम लोचना ।वन वास रता नित्यम् एष्यते वन चारिणी ॥५-१४-४७॥
वने चराणाम् सततम् नूनम् स्पृहयते पुरा ।रामस्य दयिता भार्या जनकस्य सुता सती॥५-१४-४८॥
सम्ध्या काल मनाः श्यामा ध्रुवम् एष्यति जानकी ।नदीम् च इमाम् शिव जलाम् सम्ध्या अर्थे वर वर्णिनी ॥५-१४-४९॥
तस्याः च अपि अनुरूपेयम् अशोक वनिका शुभा ।शुभा या पार्थिव इन्द्रस्य पत्नी रामस्य सम्मिता ॥५-१४-५०॥
यदि जिवति सा देवी तारा अधिप निभ आनना ।आगमिष्यति सा अवश्यम् इमाम् शिव जलाम् नदीम् ॥५-१४-५१॥
एवम् तु मत्वा हनुमान् महात्मा ।प्रतीक्षमाणो मनुज इन्द्र पत्नीम्।अवेक्षमाणः च ददर्श सर्वम् ।सुपुष्पिते पर्ण घने निलीनः ॥५-१४-५२॥
स वीक्षमाणः तत्रस्थो मार्गमाणः च मैथिलीम् ।अवेक्षमाणः च महीम् सर्वाम् ताम् अन्ववैक्षत ॥५-१५-१॥
सन्तान कलताभिः च पादपैर् उपशोभिताम् ।दिव्य गन्ध रस उपेताम् सर्वतः समलम्कृताम् ॥५-१५-२॥
ताम् स नन्दन सम्काशाम् मृग पक्षिभिर् आवृताम् ।हर्म्य प्रासाद सम्बाधाम् कोकिल आकुल निह्स्वनाम् ॥५-१५-३॥
कान्चन उत्पल पद्माभिः वापीभिः उपशोभिताम् ।बह्व आसन कुथा उपेताम् बहु भूमि गृह आयुताम् ॥५-१५-४॥
सर्व ऋतु कुसुमैः रम्यैः फलवद्भिः च पादपैः ।पुष्पितानाम् अशोकानाम् श्रिया सूर्य उदय प्रभाम् ॥५-१५-५॥
प्रदीप्ताम् इव तत्रस्थो मारुतिः समुदैक्षत ।निष्पत्र शाखाम् विहगैः क्रियमाणाम् इव असकृत् ॥५-१५-६॥
विनिष्पतद्भिः शतशः चित्रैः पुष्प अवतम्सकैः ।आमूल पुष्प निचितैर् अशोकैः शोक नाशनैः ॥५-१५-७॥
पुष्प भार अतिभारैः च स्पृशद्भिर् इव मेदिनीम् ।कर्णिकारैः कुसुमितैः किम्शुकैः च सुपुष्पितैः ॥५-१५-८॥
स देशः प्रभया तेषाम् प्रदीप्त इव सर्वतः ।पुम्नागाः सप्त पर्णाः च चम्पक उद्दालकाः तथा ॥५-१५-९॥
विवृद्ध मूला बहवः शोभन्ते स्म सुपुष्पिताः ।शात कुम्भ निभाः केचित् केचिद् अग्नि शिख उपमाः ॥५-१५-१०॥
नील अन्जन निभाः केचित् तत्र अशोकाः सहस्रशः ।नन्दनम् विविध उद्यानम् चित्रम् चैत्ररथम् यथा ॥५-१५-११॥
अतिवृत्तम् इव अचिन्त्यम् दिव्यम् रम्यम् श्रिया वृतम् ।द्वितीयम् इव च आकाशम् पुष्प ज्योतिर् गण आयुतम् ॥५-१५-१२॥
पुष्प रत्न शतैः चित्रम् पन्चमम् सागरम् यथा ।सर्व ऋतु पुष्पैर् निचितम् पादपैर् मधु गन्धिभिः  ॥५-१५-१३॥
नाना निनादैः उद्यानम् रम्यम् मृग गणैर् द्विजैः ।अनेक गन्ध प्रवहम् पुण्य गन्धम् मनो रमम् ॥५-१५-१४॥
शैल इन्द्रम् इव गन्ध आढ्यम् द्वितीयम् गन्ध मादनम् ।अशोक वनिकायाम् तु तस्याम् वानर पुम्गवः ॥५-१५-१५॥
स ददर्श अविदूरस्थम् चैत्य प्रासादम् ऊर्जितम् ।मध्ये स्तम्भ सहस्रेण स्थितम् कैलास पाण्डुरम् ॥५-१५-१६॥
प्रवाल कृत सोपानम् तप्त कान्चन वेदिकम् ।मुष्णन्तम् इव चक्षूम्षि द्योतमानम् इव श्रिया ॥५-१५-१७॥
विमलम् प्राम्शु भावत्वाद् उल्लिखन्तम् इव अम्बरम् ।ततो मलिन सम्वीताम् राक्षसीभिः समावृताम्  ॥५-१५-१८॥
उपवास कृशाम् दीनाम् निह्श्वसन्तीम् पुनः पुनः ।ददर्श शुक्ल पक्ष आदौ चन्द्र रेखाम् इव अमलाम् ॥५-१५-१९॥
मन्द प्रख्यायमानेन रूपेण रुचिर प्रभाम् ।पिनद्धाम् धूम जालेन शिखाम् इव विभावसोः ॥५-१५-२०॥
पीतेन एकेन सम्वीताम् क्लिष्टेन उत्तम वाससा ।सपन्काम् अनलम्काराम् विपद्माम् इव पद्मिनीम् ॥५-१५-२१॥
व्रीडिताम् दुह्ख सम्तप्ताम् परिम्लानाम् तपस्विनीम् ।ग्रहेण अन्गारकेण एव पीडिताम् इव रोहिणीम् ॥५-१५-२२॥
अश्रु पूर्ण मुखीम् दीनाम् कृशाम् अननशेन च ।शोक ध्यान पराम् दीनाम् नित्यम् दुह्ख परायणाम् ॥५-१५-२३॥
प्रियम् जनम् अपश्यन्तीम् पश्यन्तीम् राक्षसी गणम् ।स्व गणेन मृगीम् हीनाम् श्व गण अभिवृताम् इव ॥५-१५-२४॥
नील नाग आभया वेण्या जघनम् गतया एकया ।नीलया नीरदापाये वनराज्या महीमिव ॥५-१५-२५॥
सुख अर्हाम् दुह्ख सम्तप्ताम् व्यसनानाम् अकोदिवाम् ।ताम् समीक्ष्य विशाल अक्षीम् अधिकम् मलिनाम् कृशाम् ॥५-१५-२६॥
तर्कयाम् आस सीता इति कारणैः उपपादिभिः ।ह्रियमाणा तदा तेन रक्षसा काम रूपिणा ॥५-१५-२७॥
यथा रूपा हि दृष्टा वै तथा रूपा इयम् अन्गना ।पूर्ण चन्द्र आननाम् सुभ्रूम् चारु वृत्त पयो धराम् ॥५-१५-२८॥
कुर्वन्तीम् प्रभया देवीम् सर्वा वितिमिरा दिशः ।ताम् नील केशीम् बिम्ब ओष्ठीम् सुमध्याम् सुप्रतिष्ठिताम् ॥५-१५-२९॥
सीताम् पद्म पलाश अक्षीम् मन्मथस्य रतिम् यथा ।इष्टाम् सर्वस्य जगतः पूर्ण चन्द्र प्रभाम् इव ॥५-१५-३०॥
भूमौ सुतनुम् आसीनाम् नियताम् इव तापसीम् ।निःश्वास बहुलाम् भीरुम् भुजग इन्द्र वधूम् इव ॥५-१५-३१॥
शोक जालेन महता विततेन न राजतीम् ।सम्सक्ताम् धूम जालेन शिखाम् इव विभावसोः ॥५-१५-३२॥
ताम् स्मृतीम् इव सम्दिघ्दाम् ऋद्धिम् निपतिताम् इव ।विहताम् इव च श्रद्धाम् आशाम् प्रतिहताम् इव ॥५-१५-३३॥
स उपसर्गाम् यथा सिद्धिम् बुद्धिम् सकलुषाम् इव ।अभूतेन अपवादेन कीर्तिम् निपतिताम् इव ॥५-१५-३४॥
राम उपरोध व्यथिताम् रक्षो हरण कर्शिताम् ।अबलाम् मृग शाव अक्षीम् वीक्षमाणाम् ततः ततः ॥५-१५-३५॥
बाष्प अम्बु प्रतिपूर्णेन कृष्ण वक्त्र अक्षि पक्ष्मणा ।वदनेन अप्रसन्नेन निह्श्वसन्तीम् पुनः पुनः ॥५-१५-३६॥
मल पन्क धराम् दीनाम् मण्डन अर्हाम् अमण्डिताम् ।प्रभाम् नक्षत्र राजस्य काल मेघैः इव आवृताम् ॥५-१५-३७॥
तस्य सम्दिदिहे बुद्धिः मुहुः सीताम् निरीक्ष्य तु ।आम्नायानाम् अयोगेन विद्याम् प्रशिथिलाम् इव ॥५-१५-३८॥
दुह्खेन बुबुधे सीताम् हनुमान् अनलम्कृताम् ।सम्स्कारेण यथा हीनाम् वाचम् अर्थ अन्तरम् गताम् ॥५-१५-३९॥
ताम् समीक्ष्य विशाल अक्षीम् राज पुत्रीम् अनिन्दिताम् ।तर्कयाम् आस सीता इति कारणैः उपपादयन् ॥५-१५-४०॥
वैदेह्या यानि च अन्गेषु तदा रामो अन्वकीर्तयत् ।तानि आभरण जालानि गात्र शोभीनि अलक्षयत् ॥५-१५-४१॥
सुकृतौ कर्ण वेष्टौ च श्व दम्ष्ट्रौ च सुसम्स्थितौ ।मणि विद्रुम चित्राणि हस्तेष्व् आभरणानि च ॥५-१५-४२॥
श्यामानि चिर युक्तत्वात् तथा सम्स्थानवन्ति च ।तानि एव एतानि मन्ये अहम् यानि रामो अन्वकीर्तयत् ॥५-१५-४३॥
तत्र यानि अवहीनानि तानि अहम् न उपलक्षये ।यानि अस्या न अवहीनानि तानि इमानि न सम्शयः ॥५-१५-४४॥
पीतम् कनक पट्ट आभम् स्रस्तम् तद् वसनम् शुभम् ।उत्तरीयम् नग आसक्तम् तदा दृष्टम् प्लवम् गमैः ॥५-१५-४५॥
भूषणानि च मुख्यानि दृष्टानि धरणी तले ।अनया एव अपविद्धानि स्वनवन्ति महान्ति च ॥५-१५-४६॥
इदम् चिर गृहीतत्वाद् वसनम् क्लिष्टवत्तरम् ।तथा हि नूनम् तद् वर्णम् तथा श्रीमद् यथा इतरत् ॥५-१५-४७॥
इयम् कनक वर्ण अन्गी रामस्य महिषी प्रिया ।प्रनष्टा अपि सती यस्य मनसो न प्रणश्यति ॥५-१५-४८॥
इयम् सा यत् कृते रामः चतुर्भिः परितप्यते ।कारुण्येन आनृशम्स्येन शोकेन मदनेन च ॥५-१५-४९॥
स्त्री प्रनष्टा इति कारुण्याद् आश्रिता इति आनृशम्स्यतः ।पत्नी नष्टा इति शोकेन प्रियेति मदनेन च ॥५-१५-५०॥
अस्या देव्या यथा रूपम् अन्ग प्रत्यन्ग सौष्ठवम् ।रामस्य च यथा रूपम् तस्य इयम् असित ईक्षणा ॥५-१५-५१॥
अस्या देव्या मनः तस्मिमः तस्य च अस्याम् प्रतिष्ठितम् ।तेन इयम् स च धर्म आत्मा मुहूर्तम् अपि जीवति ॥५-१५-५२॥
दुष्करम् कुरुते रामो इमाम् मत्त काशिनीम् ।सीताम् विना महा बाहुः मुहूर्तम् अपि जीवति ॥५-१५-५३॥
एवम् सीताम् तदा दृष्ट्वा हृष्टः पवन सम्भवः ।जगाम मनसा रामम् प्रशशम्स च तम् प्रभुम् ॥५-१५-५४॥
प्रशस्य तु प्रशस्तव्याम् सीताम् ताम् हरि पुम्गवः ।गुण अभिरामम् रामम् च पुनः चिन्ता परो अभवत् ॥५-१६-१॥
स मुहूर्तम् इव ध्यात्वा बाष्प पर्याकुलेक्षणः ।सीताम् आश्रित्य तेजस्वी हनुमान् विललाप ह ॥५-१६-२॥
मान्या गुरु विनीतस्य लक्ष्मणस्य गुरु प्रिया ।यदि सीता अपि दुह्ख आर्ता कालो हि दुरतिक्रमः ॥५-१६-३॥
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।न अत्यर्थम् क्षुभ्यते देवी गन्गा इव जलद आगमे ॥५-१६-४॥
तुल्य शील वयो वृत्ताम् तुल्य अभिजन लक्षणाम् ।राघवो अर्हति वैदेहीम् तम् च इयम् असित ईक्षणा ॥५-१६-५॥
ताम् दृष्ट्वा नव हेम आभाम् लोक कान्ताम् इव श्रियम् ।जगाम मनसा रामम् वचनम् च इदम् अब्रवीत् ॥५-१६-६॥
अस्या हेतोर् विशाल अक्ष्या हतो वाली महा बलः ।रावण प्रतिमो वीर्ये कबन्धः च निपातितः ॥५-१६-७॥
विराधः च हतः सम्ख्ये राक्षसो भीम विक्रमः ।वने रामेण विक्रम्य महा इन्द्रेण इव शम्बरः ॥५-१६-८॥
चतुर् दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।निहतानि जन स्थाने शरैर् अग्नि शिख उपमैः ॥५-१६-९॥
करः च निहतः सम्ख्ये त्रिशिराः च निपातितः ।दूषणः च महा तेजा रामेण विदित आत्मना ॥५-१६-१०॥
ऐश्वर्यम् वानराणाम् च दुर्लभम् वालि पालितम् ।अस्या निमित्ते सुग्रीवः प्राप्तवान् लोक सत्कृतम् ॥५-१६-११॥
सागरः च मया क्रान्तः श्रीमान् नद नदी पतिः ।अस्या हेतोर् विशाल अक्ष्याः पुरी च इयम् निरीक्षिता ॥५-१६-१२॥
यदि रामः समुद्रान्ताम् मेदिनीम् परिवर्तयेत् ।अस्याः कृते जगत् च अपि युक्तम् इति एव मे मतिः ॥५-१६-१३॥
राज्यम् वा त्रिषु लोकेषु सीता वा जनक आत्मजा ।त्रैलोक्य राज्यम् सकलम् सीताया न आप्नुयात् कलाम् ॥५-१६-१४॥
इयम् सा धर्म शीलस्य जनकस्य महात्मनः ।सुता मैथिलराजस्य सीता भर्तृदृढ व्रता ॥५-१६-१५॥
उत्थिता मेदिनीम् भित्त्वा क्षेत्रे हल मुख क्षते ।पद्म रेणु निभैः कीर्णा शुभैः केदार पाम्सुभिः ॥५-१६-१६॥
विक्रान्तस्य आर्य शीलस्य सम्युगेषु अनिवर्तिनः ।स्नुषा दशरथस्य एषा ज्येष्ठा राज्ञो यशस्विनी ॥५-१६-१७॥
धर्मज्ञस्य कृतज्ञस्य रामस्य विदित आत्मनः ।इयम् सा दयिता भार्या राक्षसी वशम् आगता ॥५-१६-१८॥
सर्वान् भोगान् परित्यज्य भर्तृ स्नेह बलात् कृता ।अचिन्तयित्वा दुह्खानि प्रविष्टा निर्जनम् वनम् ॥५-१६-१९॥
सम्तुष्टा फल मूलेन भर्तृ शुश्रूषणा परा ।या पराम् भजते प्रीतिम् वने अपि भवने यथा ॥५-१६-२०॥
सा इयम् कनक वर्ण अन्गी नित्यम् सुस्मित भाषिणी ।सहते यातनाम् एताम् अनर्थानाम् अभागिनी ॥५-१६-२१॥
इमाम् तु शील सम्पन्नाम् द्रष्टुम् इच्चति राघवः ।रावणेन प्रमथिताम् प्रपाम् इव पिपासितः ॥५-१६-२२॥
अस्या नूनम् पुनर् लाभाद् राघवः प्रीतिम् एष्यति ।राजा राज्य परिभ्रष्टः पुनः प्राप्य इव मेदिनीम् ॥५-१६-२३॥
काम भोगैः परित्यक्ता हीना बन्धु जनेन च ।धारयति आत्मनो देहम् तत् समागम कान्क्षिणी ॥५-१६-२४॥
न एषा पश्यति राक्षस्यो न इमान् पुष्प फल द्रुमान् ।एकस्थ हृदया नूनम् रामम् एव अनुपश्यति ॥५-१६-२५॥
भर्ता नाम परम् नार्या भूषणम् भूषणाद् अपि ।एषा हि रहिता तेन शोभन अर्हा न शोभते ॥५-१६-२६॥
दुष्करम् कुरुते रामो हीनो यद् अनया प्रभुः ।धारयति आत्मनो देहम् न दुह्खेन अवसीदति ॥५-१६-२७॥
इमाम् असित केश अन्ताम् शत पत्र निभ ईक्षणाम् ।सुख अर्हाम् दुःखिताम् ज्~आत्वा मम अपि व्यथितम् मनः ॥५-१६-२८॥
क्षिति क्षमा पुष्कर सम्निभ अक्षी ।या रक्षिता राघव लक्ष्मणाभ्याम् ।सा राक्षसीभिर् विकृत ईक्षणाभिः ।सम्रक्ष्यते सम्प्रति वृक्ष मूले ॥५-१६-२९॥
हिम हत नलिनी इव नष्ट शोभा ।व्यसन परम्परया निपीड्यमाना ।सह चर रहिता इव चक्र वाकी ।जनक सुता कृपणाम् दशाम् प्रपन्ना ॥५-१६-३०॥
अस्या हि पुष्प अवनत अग्र शाखाः ।शोकम् दृढम् वै जनयति अशोकाः ।हिम व्यपायेन च शीतरश्मिः ।रभ्युत्थितो न एक सहस्र रश्मिः ॥५-१६-३१॥
इति एवम् अर्थम् कपिर् अन्ववेक्ष्य ।सीता इयम् इति एव निविष्ट बुद्धिः ।सम्श्रित्य तस्मिन् निषसाद वृक्षे ।बली हरीणाम् ऋषभः तरस्वी ॥५-१६-३२॥
ततः कुमुदषण्डाभो निर्मलम् निर्मलोदयः ।प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ।। ५-१७- १।।
साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः ।चन्द्रमा रश्मभिः शीतैः सिषेवे पवनात्मजम् ।। ५-१७-२।।
स ददर्श ततः सीताम् पूर्णचन्द्रनिभाननाम् ।शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ।। ५-१७-३।।
दिदृक्षमाणो वैदेहीम् हनुमान् मारुतात्मजः ।स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ।। ५-१७-४।।
एकाक्षीमेककर्णाम् च कर्णप्रावरणाम् तथा ।अकर्णाम् शङ्कुकर्णाम् च मस्तकोच्छ्वासनासिकाम् ।। ५-१७-५।।
अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् ।ध्वस्तकेशीम् तथाकेशीम् केशकम्बलधारिणीम् ।। ५-१७-६।।
लम्बकर्णललाटाम् च लम्बोदरपयोधराम् ।लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्याम् लम्बजानुकाम् ।। ५-१७-७।।
ह्रस्वाम् दीर्घाम् च कुब्जाम् विकटाम् वामनां तथा ।करालाम् भुग्नवक्त्राम् च पिङ्गाक्षीम् विकृताननाम् ।। ५-१७-८।।
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ।कालायसमहाशूलकूटमुद्गधारिणीः ।। ५-१७-९।।
वराहमृगशार्दूलमहिषाजशिवामुखीः ।गजोष्ट्र हयपादीश्च निखातशिरसोपराः ।। ५-१७-१०।।
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः ।गोकर्णीर्हस्तिकर्णीईश्च हरिकर्णीस्तथापराः ।। ५-१७-११।।
अतिनासाश्च तिर्यङ्नासा अनासिकाः ।गजनन्निभनासाश्च ललाटोच्च्वासनासिकाः ।। ५-१७-१२।।
हस्तिपादा महापादा गोपादाः पादचूळिकाः ।अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ।। ५-१७-१३।।
अतिमात्रस्यनेत्राश्च दीर्घजिह्वानखास्तथा ।अजामुखीर्हस्तिमुखीर्गोमुखाः सूकरीमुखीः ।। ५-१७-१४।।
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ।शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ।। ५-१७-१५।।
कराळा धूम्रकेशीश्च राक्षसीर्विकृताननाः ।पिबन्तीः सततं पानं सदा मां ससुराप्रियाः ।। ५-१७-१६।।
मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ।ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ।। ५-१७-१७।।
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ।तस्याधस्ताच्च ताम् देवीम् राजपुत्रीमनिन्दिताम् ।। ५-१७-१८।।
लक्षयामास लक्ष्मीवान् हनुमान् जन्कात्मजाम् ।निष्प्रभाम् षोकसन्तप्ताम् मलसम्कुलमूर्धजाम् ।। ५-१७-१९।।
क्षीणपुण्याम् च्युताम् भूमौ ताराम् निपतितामिव ।चारित्रव्यपदेशाड्यां भर्तृदर्शनदुर्गताम् ।। ५-१७-२०।।
भूषणैरुत्तमोर्हीनाम् भर्तृवात्सल्यभूषणाम् ।राक्षसाधिपसम्रुद्धाम् बन्धुभिश्च विना कृताम् ।। ५-१७-२१।।
वियूथाम् सिम्हसम्रुद्धाम् बद्धाम् गजवधूमिव ।चन्द्ररेखाम् पयोदान्ते शारदाब्रैरिवावृताम् ।। ५-१७-२२।।
क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ।स ताम् भर्तवशे युक्तामयुक्ताम् राक्षसीवशे ।। ५-१७-२३।।
अशोकवनिकामध्ये शोकसागरमाप्लुताम् ।ताभिः परिवृताम् तत्र सग्रहामिव रोहिणीम् ।। ५-१७-२४।।
ददर्श हनुमान् देवीम् लतामकुसुमामिव ।सा मलेन च दिग्धाङ्गीवपुषा चाप्यलंकृता ।। ५-१७-२५।।
मृणाली पङ्कदिग्धेव विभाति च न भाति च ।मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ।। ५-१७-२६।।
संवृताम् मृगशाबाक्षीं ददर्श हनुमान् कपिः ।ताम् देवीं दीनवदनामदीनां भर्तृतेजसा ।। ५-१७-२७।।
रक्षिताम् स्वेन शीलेन सीतामसितलोचनाम् ।ताम् दृष्ट्वा हनुमान् सीताम् मृगशाबनिभेक्षणाम् ।मृगकन्यामिव त्रस्ताम् वीक्षमाणाम् समन्ततः ।। ५-१७-२८।।
दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः ।सम्घातमिव शोकानाम् दुःखस्योर्मिमिवोथिताम् ।। ५-१७-२९।।
ताम् क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ।प्रहर्षमतुलम् लेभे मारुतिः प्रेक्ष्य मैथिलीम् ।। ५-१७-३०।।
हर्षजानि च सोऽश्रूणि ताम् दृष्ट्वा मदिरेक्षणाम् ।मुमुचे हनुमांस्तत्र नमश्चक्रे च राघवम् ।। ५-१७-३१।।
नमस्कृत्वा रामाय लक्ष्मणाय च वीर्यवान् ।सीतादर्शनसम्हृष्टो हनुमान् सम्वृतोऽभवत् ।। ५-१७-३२
तथा विप्रेक्षमाणस्य वनम् पुष्पितपादपम् ।विचिन्वतश्च वैदेहीम् किंचिच्चेषा निशाभवत् ।। ५-१८-१।।
षडङ्गवेदविदुषाम् क्रतुप्रवरयाजिनाम् ।शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम् ।। ५-१८-२।।
अथ मङ्गलवादित्रशब्दैः श्रुतिमनोहरैः ।प्रबुध्यत महाबाहुर्दशग्रीवो महाबलः ।। ५-१८-३।।
विबुध्य तु यथाकालम् राक्षसेन्द्रः प्रतापवान् ।स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयात् ।। ५-१८-४।।
भृशं नियुक्तस्तस्याम् च मदनेन मदोत्कटः ।न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ।। ५-१८-५।।
स सर्वाभरणैर्युक्तो बिभच्छ्रियमनुत्तमाम् ।तां नगैर्बहुभिर्जुष्टाम् सर्वपुष्पफलोपगैः ।। ५-१८-६।।
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।सदामदैश्च विहगैर्विचित्राम् परमाद्भुताम् ।। ५-१८-७।।
ईहामृगैश्च विविधैर्जुष्टां डृष्टिमनोहरैः ।वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ।। ५-१८-८।।
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।अशोकवनकामेव प्राविशत्संततद्रुमाम् ।। ५-१८-९।।
अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् ।महेन्द्रमिव पौलस्त्यम्ं देवगन्धर्वयोषितः ।। ५-१८-१०।।
दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः ।वालव्यजनहस्ताश्च तालवृन्तानि चापराः ।। ५-१८-११।।
काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः ।मण्डलागान् ब्रुसींश्चापि गृह्यान्याः पृष्ठतो ययुः ।। ५-१८-१२।।
काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य ब्राजतम् ।दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ।। ५-१८-१३।।
राजहंसप्रतीकाशं चत्रं पूर्णशशिप्रभम् ।सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ।। ५-१८-१४।।
निद्रामदपरीताक्ष्यो रावनस्योत्तमाः स्त्रियः ।अनुजग्मुः पतिं वीरम् घनम् विद्युल्लता इव ।। ५-१८-१५।।
व्याविद्धहारकेयूराः समामृदितवर्णकाः ।समागळितकेशान्ताः सस्वेदवदनास्तथा ।। ५-१८-१६।।
घोर्णन्त्यो मदशेषेण निद्रया च शुभाननाः ।स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ।। ५-१८-१७।।
प्रयान्तं नैरृतपतिं नार्यो मदिरलोचनाः ।बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ।। ५-१८-१८।।
स च कामपराधीनः पतिस्तासां महाबलः ।सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ ।। ५-१८-१९।।
ततः काञ्चीनिनादं च नूपुराणाम् च निस्वनम् ।शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ।। ५-१८-२०।।
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ।द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ।। ५-१८-२१।।
दीपिकाभिरनेकाभिः समन्तादवभासितम् ।गन्धतैलावसिक्ताभिर्द्रियमाणाभिरग्रतः ।। ५-१८-२२।।
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।समक्षमिव कन्दर्पमपविद्धशरासनम् ।। ५-१८-२३।।
मथितामृतफेनाभमरजोवस्त्रमुत्तमम् ।सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ।। ५-१८-२४।।
तं पत्रविटपे लीनः अत्रपुष्पघनावृतह् ।समीपमिव संक्रान्तं निध्यातुमुपचक्रमे ।। ५-१८-२५।।
अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः ।रूपयौवनसंपन्ना रावणस्य वरस्तियः ।। ५-१८-२६।।
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।तस्मृगद्विजसम्घष्टं प्रविष्टः प्रमदावनम् ।। ५-१८-२७।।
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ।तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ।। ५-१८-२८।।
वृतः परमनारीभिस्ताराभिरिव चन्द्रामाः ।तं ददर्श महातेजास्तेजोवन्तं महाकपिः ।। ५-१८-२९।।
रावणोऽयम् महाबाहुरिति संचिन्त्य वानरः ।अवप्लुतो महातेजा हनुमान्मारुतात्मजः ।। ५-१८-३०।।
स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा ।पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् ।। ५-१८-३१।।
स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ।दिदृक्षुरसितापाङ्गमुपावर्तत रावणः ।। ५-१८-३२
तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ।आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ।। ५.१९.१।।।।
दुःखार्ता रुदती सीता वेपमाना तपस्विनी ।चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ।। ५.१९.२।।।।
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ।निवर्तय मनो मत्तः स्वजने क्रियतां मनः ।। ५.१९.३।।।।
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् ।अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ।कुलं सम्प्राप्तया पुण्यं कुले महति जातया ।।५.१९.४।।।।
एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ।राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ।। ५.१९.५।।।।
नाहमौपयिकी भार्या परभार्या सती तव ।साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ।। ५.१९.६।।।।
यथा तव तथान्येषां रक्ष्या दारा निशाचर ।आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् ।। ५.१९.७।।।।
अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् ।नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् ।। ५.१९.८।।।।
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः ।। ५.१९.९।।।।
अकृतात्मानमासाद्य राजानमनये रतम् ।समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ।। ५.१९.१०।।।।
तथेयं त्वां समासाद्य लङ्का रत्नौघ सङ्कुला ।अपराधात्तवैकस्य नचिराद्विनशिष्यति ।। ५.१९.११।।।।
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ।अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ।। ५.१९.१२।।।।
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ।दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ।। ५.१९.१३।।।।
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ।अनन्या राघवेणाहं भास्करेण प्रभा यथा ।। ५.१९.१४।।।।
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ।कथं नामोपधास्यामि भुजमन्यस्य कस्य चित् ।। ५.१९.१५।।।।
अहमौपयिकी भार्या तस्यैव वसुधापतेः ।व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः ।। ५.१९.१६।।।।
साधु रावण रामेण मां समानय दुःखिताम् ।वने वाशितया सार्धं करेण्वेव गजाधिपम् ।। ५.१९.१७।।।।
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ।वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ।। ५.१९.१८।।।।
वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश् चिरम् ।त्वद्विधं न तु सङ्क्रुद्धो लोकनाथः स राघवः ।। ५.१९.१९।।।।
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ।शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ।। ५.१९.२०।।।।
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ।इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ।। ५.१९.२१।।।।
रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः ।असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः ।। ५.१९.२२।।।।
राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् ।उद्धरिष्यति वेगेन वैनतेय इवोरगान् ।। ५.१९.२३।।।।
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः ।असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ।। ५.१९.२४।।।।
जनस्थाने हतस्थाने निहते रक्षसां बले ।अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ।। ५.१९.२५।।।।
आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ।गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ।। ५.१९.२६।।।।
न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ।शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ।। ५.१९.२७।।।।
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ।वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ।। ५.१९.२८।।।।
क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ।तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ।। ५.१९.२९।।
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ।। ५.२०.१।।।।
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा ।यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ।। ५.२०.२।।।।
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः ।द्रवतो मार्गमासाद्य हयानिव सुसारथिः ।। ५.२०.३।।।।
वामः कामो मनुष्याणां यस्मिन्किल निबध्यते ।जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ।। ५.२०.४।।।।
एतस्मात्कारणान्न तां घतयामि वरानने ।वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ।। ५.२०.५।।।।
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् ।तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ।। ५.२०.६।।।।
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः ।क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ।। ५.२०.७।।।।
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।ततः शयनमारोह मम त्वं वरवर्णिनि ।। ५.२०.८।।।।
द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् ।मम त्वां प्रातराशार्थमारभन्ते महानसे ।। ५.२०.९।।।।
तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् ।देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः ।। ५.२०.१०।।।।
ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः ।सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ।। ५.२०.११।।।।
ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ।उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ।। ५.२०.१२।।।।
नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः ।निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ।। ५.२०.१३।।।।
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ।त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ।। ५.२०.१४।।।।
राक्षसाधम रामस्य भार्याममिततेजसः ।उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ।। ५.२०.१५।।।।
यथा दृप्तश्च मातङ्गः शशश् च सहितौ वने ।तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ।। ५.२०.१६।।।।
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ।चक्षुषो विषयं तस्य न तावदुपगच्छसि ।। ५.२०.१७।।।।
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले ।क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः ।। ५.२०.१८।।।।
तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ।कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते ।। ५.२०.१९।।।।
असन्देशात्तु रामस्य तपसश्चानुपालनात् ।न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ।। ५.२०.२०।।।।
नापहर्तुमहं शक्या तस्य रामस्य धीमतः ।विधिस्तव वधार्थाय विहितो नात्र संशयः ।। ५.२०.२१।।।।
शूरेण धनदभ्राता बलैः समुदितेन च ।अपोह्य रामं कस्माद्धि दारचाउर्य.म् त्वया क्र्तम् ।। ५.२०.२२।।।।
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ।। ५.२०.२३।।।।
नीलजीमूतसङ्काशो महाभुजशिरोधरः ।सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः ।। ५.२०.२४।।।।
चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः ।रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ।। ५.२०.२५।।।।
श्रोणीसूत्रेण महता मेककेन सुसंवृतः ।अमृतोत्पादनद्धेन भुजङ्गेनेव मन्दरः ।। ५.२०.२६।।।।
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ।रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ।। ५.२०.२७।।।।
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः ।उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ।। ५.२०.२८।।।।
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते ।नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ।। ५.२०.२९।।।।
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ।। ५.२०.३०।।।।
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ।। ५.२०.३१।।।।
हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् ।एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ।। ५.२०.३२।।।।
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ।अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् ।अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ।। ५.२०.३३।।।।
यथा मद्वशगा सीता क्षिप्रं भवति जानकी ।तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ।। ५.२०.३४।।।।
प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ।आवर्तयत वैदेहीं दण्डस्योद्यमनेन च ।। ५.२०.३५।।।।
इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ।काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ।। ५.२०.३६।।।।
उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ।परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ।। ५.२०.३७।।।।
मया क्रीड महाराजसीतया किं तवानया ।अकामां कामयानस्य शरीरमुपतप्यते ।इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ।। ५.२०.३८।।।।
एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ।ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ।। ५.२०.३९।।।।
देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः ।परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ।। ५.२०.४०।।।।
स मैथिलीं धर्मपरामवस्थितांप्रवेपमानां परिभर्त्स्य रावणः ।।।
विहाय सीतां मदनेन मोहितःस्वमेव वेश्म प्रविवेश भास्वरम् ।। ५.२०.४१।।
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ।। ५.२१.१।।।।
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते ।राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ।। ५.२१.२।।।।
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः ।परं परुषया वाचा वैदेहीम् इदमब्रुवन् ।। ५.२१.३।।।।
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः ।दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ।। ५.२१.४।।।।
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् ।आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ।। ५.२१.५।।।।
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः ।मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ।। ५.२१.६।।।।
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः ।नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ।। ५.२१.७।।।।
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः ।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे ।। ५.२१.८।।।।
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ।विवृत्य नयने कोपान्मार्जारसदृशेक्षणा ।। ५.२१.९।।।।
येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः ।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।। ५.२१.१०।।।।
वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः ।बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे ।। ५.२१.११।।।।
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः ।सर्वासां च महाभागां त्वामुपैष्यति रावणः ।। ५.२१.१२।।।।
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् ।अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ।। ५.२१.१३।।।।
असकृद्देवता युद्धे नागगन्धर्वदानवाः ।निर्जिताः समरे येन स ते पार्श्वमुपागतः ।। ५.२१.१४।।।।
तस्य सर्वसमृद्धस्या रावणस्य महात्मनः ।किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ।। ५.२१.१५।।।।
यस्य सूर्यो न तपति भीतो यस्य च मारुतः ।न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ।। ५.२१.१६।।।।
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् ।शैलाश्च सुभ्रु पानीयं जलदाश् च यदेच्छति ।। ५.२१.१७।।।।
तस्य नैरृतराजस्य राजराजस्य भामिनि ।किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ।। ५.२१.१८।।।।
साधु ते तत्त्वतो देवि कथितं साधु भामिनि ।गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ।। ५.२१.१९।।
ततः सीतामुपागम्य राक्षस्यो विकृताननाः ।परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम् ।। ५.२२.१।।।।
किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे ।महार्हशयनोपेते न वासमनुमन्यसे ।। ५.२२.२।।।।
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे ।प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ।। ५.२२.३।।।।
मानुषी मानुषं तं तु राममिच्छसि शोभने ।राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते ।। ५.२२.४।।।।
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा ।नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ।। ५.२२.५।।।।
यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः ।नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति ।। ५.२२.६।।।।
न मानुषी राक्षसस्य भार्या भवितुमर्हति ।कामं खादत मां सर्वा न करिष्यामि वो वचः ।दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ।। ५.२२.७।।।।
सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः ।भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ।। ५.२२.८।।।।
अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे ।सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत्कपिः ।। ५.२२.९।।।।
तामभिक्रम्य संरब्धा वेपमानां समन्ततः ।भृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान् ।। ५.२२.१०।।।।
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ।नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ।। ५.२२.११।।।।
सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना ।सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् ।। ५.२२.१२।।।।
ततस्तां शिंशपां सीता राक्षसीभिः समावृता ।अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ।। ५.२२.१३।।।।
तां कृशां दीनवदनां मलिनाम्बरधारिणीम् ।भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः ।। ५.२२.१४।।।।
ततस्तां विनता नाम राक्षसी भीमदर्शना ।अब्रवीत्कुपिताकारा कराला निर्णतोदरी ।। ५.२२.१५।।।।
सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः ।सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ।। ५.२२.१६।।।।
परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः ।ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ।। ५.२२.१७।।।।
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ।। ५.२२.१८।।।।
दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् ।मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ।। ५.२२.१९।।।।
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव ।अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ।। ५.२२.२०।।।।
किं ते रामेण वैदेहि कृपणेन गतायुषा ।। ५.२२.२१।।।।
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ।अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ।।५.२२.२२।।।।
अन्या तु विकटा नाम लम्बमानपयोधरा ।अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती ।। ५.२२.२३।।।।
बहून्यप्रतिरूपाणि वचनानि सुदुर्मते ।अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ।न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् ।। ५.२२.२४।।।।
आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् ।रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ।। ५.२२.२५।।।।
रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता ।न त्वां शक्तः परित्रातुमपि साक्षात्पुरन्दरः ।। ५.२२.२६।।।।
कुरुष्व हितवादिन्या वचनं मम मैथिलि ।अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ।। ५.२२.२७।।।।
भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् ।सीते राक्षसराजेन सह क्रीड यथासुखम् ।। ५.२२.२८।।।।
जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ।यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि ।। ५.२२.२९।।।।
उद्यानानि च रम्याणि पर्वतोपवनानि च ।सह राक्षसराजेन चर त्वं मदिरेक्षणे ।। ५.२२.३०।।।।
स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि ।रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।। ५.२२.३१।।।।
उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ।यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि ।। ५.२२.३२।।।।
ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना ।भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ।। ५.२२.३३।।।।
इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् ।रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ।। ५.२२.३४।।।।
यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् ।अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ।। ५.२२.३५।।।।
ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ।कण्ठमस्या नृशंसायाः पीडयामः किमास्यते ।। ५.२२.३६।।।।
निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ।नात्र कश्चन सन्देहः खादतेति स वक्ष्यति ।। ५.२२.३७।।।।
ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ।विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान् ।। ५.२२.३८।।।।
विभजाम ततः सर्वा विवादो मे न रोचते ।पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु ।। ५.२२.३९।।।।
ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् ।अजामुखा यदुक्तं हि तदेव मम रोचते ।। ५.२२.४०।।।।
सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ।मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम् ।। ५.२२.४१।।।।
एवं सम्भर्त्स्यमाना सा सीता सुरसुतोपमा ।राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति ।। ५.२२.४२।।
तथा तासां वदन्तीनां परुषं दारुणं बहु ।राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।। ५.२३.१।।।।
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।। ५.२३.२।।।।
न मानुषी राक्षसस्य भार्या भवितुमर्हति ।कामं खादत मां सर्वा न करिष्यामि वो वचः ।। ५.२३.३।।।।
सा राक्षसी मध्यगता सीता सुरसुतोपमा ।न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ।। ५.२३.४।।।।
वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ।वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ।। ५।।।।
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ।चिन्तयामास शोकेन भर्तारं भग्नमानसा ।। ५.२३.६।।।।
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ।। ५.२३.७।।।।
सा वेपमाना पतिता प्रवाते कदली यथा ।राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् ।। ५.२३.८।।।।
तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा ।ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ।। ५.२३.९।।।।
सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना ।आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ।। ५.२३.१०।।।।
हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च ।हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि ।। ५.२३.११।।।।
लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ।अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ।। ५.२३.१२।।।।
यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता ।जीवामि हीना रामेण मुहूर्तमपि दुःखिता ।। ५.२३.१३।।।।
एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता ।। ५.२३.१४।।।।
भर्तारं तमपश्यन्ती राक्षसीवशमागता ।सीदामि खलु शोकेन कूलं तोयहतं यथा ।। ५.२३.१५।।।।
तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् ।धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ।। ५.२३.१६।।।।
सर्वथा तेन हीनाया रामेण विदितात्मना ।तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।। ५.२३.१७।।।।
कीदृशं तु मया पापं पुरा देहान्तरे कृतम् ।येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ।। ५.२३.१८।।।।
जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया ।। ५.२३.१९।।।।
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ।। ५.२३.२०।।
प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा ।अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। ५.२४.१।।।।
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। ५.२४.२।।।।
राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा ।रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।। ५.२४.३।।।।
राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम् ।चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।। ५.२४.४।।।।
न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः ।वसन्त्या राक्षसी मध्ये विना रामं महारथम् ।। ५.२४.५।।।।
धिङ्मामनार्यामसतीं याहं तेन विना कृता ।मुहूर्तमपि रक्षामि जीवितं पापजीविता ।। ५.२४.६।।।।
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।भर्तारं सागरान्ताया वसुधायाः प्रियं वदम् ।। ५.२४.७।।।।
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।। ५.२४.८।।।।
चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।रावणं किं पुनरहं कामयेयं विगर्हितम् ।। ५.२४.९।।।।
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति ।। ५.२४.१०।।।।
छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता ।रावणं नोपतिष्ठेयं किं प्रलापेन वश् चिरम् ।। ५.२४.११।।।।
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ।। ५.२४.१२।।।।
राक्षसानां जनस्थाने सहस्राणि चतुर्दश ।येनैकेन निरस्तानि स मां किं नाभिपद्यते ।। ५.२४.१३।।।।
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ।। ५.२४.१४।।।।
विराधो दण्डकारण्ये येन राक्षसपुङ्गवः ।रणे रामेण निहतः स मां किं नाभिपद्यते ।। ५.२४.१५।।।।
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ।न तु राघवबाणानां गतिरोधी ह विद्यते ।। ५.२४.१६।।।।
किं नु तत्कारणं येन रामो दृढपराक्रमः ।रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ।। ५.२४.१७।।।।
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ।जानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति ।। ५.२४.१८।।।।
हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् ।गृध्रराजोऽपि स रणे रावणेन निपातितः ।। ५.२४.१९।।।।
कृतं कर्म महत्तेन मां तदाभ्यवपद्यता ।तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ।। ५.२४.२०।।।।
यदि मामिह जानीयाद्वर्तमानां स राघवः ।अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं ।। ५.२४.२१।।।।
विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ।रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ।।५.२४.२२।।।।
ततो निहतनथानां राक्षसीनां गृहे गृहे ।यथाहमेवं रुदती तथा भूयो न संशयः ।अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः ।। ५.२४.२३।।।।
न हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति ।चिता धूमाकुलपथा गृध्रमण्डलसङ्कुला ।अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ।। ५.२४.२४।।।।
अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् ।दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः ।। ५.२४.२५।।।।
यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु ।अचिरेणैव कालेन भविष्यति हतप्रभा ।। ५.२४.२६।।।।
नूनं लङ्का हते पापे रावणे राक्षसाधिपे ।शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ।। ५.२४.२७।।।।
पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा ।भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना ।। ५.२४.२८।।।।
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ।श्रोष्यामि नचिरादेव दुःखार्तानाम् इह ध्वनिम् ।। ५.२४.२९।।।।
सान्धकारा हतद्योता हतराक्षसपुङ्गवा ।भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ।। ५.२४.३०।।।।
यदि नाम स शूरो मां रामो रक्तान्तलोचनः ।जानीयाद्वर्तमानां हि रावणस्य निवेशने ।। ५.२४.३१।।।।
अनेन तु नृशंसेन रावणेनाधमेन मे ।समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ।। ५.२४.३२।।।।
अकार्यं ये न जानन्ति नैरृताः पापकारिणः ।अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।। ५.२४.३३।।।।
नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ।ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।। ५.२४.३४।।।।
साहं कथं करिष्यामि तं विना प्रियदर्शनम् ।रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ।। ५.२४.३५।।।।
यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिह ।क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ।। ५.२४.३६।।।।
नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ।। ५.२४.३७।।।।
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ।देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।। ५.२४.३८।।।।
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ।। ५.२४.३९।।।।
अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः ।मया रामस्य राजर्षेर्भार्यया परमात्मनः ।। ५.२४.४०।।।।
दृश्यमाने भवेत्प्रीतः सौहृदं नास्त्यपश्यतः ।नाशयन्ति कृतघ्रास्तु न रामो नाशयिष्यति ।। ५.२४.४१।।।।
किं नु मे न गुणाः के चित्किं वा भाग्य क्षयो हि मे ।याहं सीता वरार्हेण हीना रामेण भामिनी ।। ५.२४.४२।।।।
श्रेयो मे जीवितान्मर्तुं विहीना या महात्मना ।रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।। ५.२४.४३।।।।
अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ ।भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ ।। ५.२४.४४।।।।
अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना ।छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।। ५.२४.४५।।।।
साहमेवङ्गते काले मर्तुमिच्छामि सर्वथा ।न च मे विहितो मृत्युरस्मिन्दुःखेऽपि वर्तति ।। ५.२४.४६।।।।
धन्याः खलु महात्मानो मुनयः सत्यसंमताः ।जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ।। ५.२४.४७।।।।
प्रियान्न सम्भवेद्दुःखमप्रियादधिकं भयम् ।ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ।। ५.२४.४८।।।।
साहं त्यक्ता प्रियेणेह रामेण विदितात्मना ।प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ।। ५.२४.४९।।
तथा तासां वदन्तीनां परुषं दारुणं बहु ।राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।। ५.२५.१।।।।
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।। ५.२५.२।।।।
न मानुषी राक्षसस्य भार्या भवितुमर्हति ।कामं खादत मां सर्वा न करिष्यामि वो वचः ।। ५.२५.३।।।।
सा राक्षसीमध्यगता सीता सुरसुतोपमा ।न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ।। ५.२५.४।।।।
वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ।वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ।। ५.२५.५।।।।
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ।चिन्तयामास शोकेन भर्तारं भग्नमानसा ।। ५.२५.६।।।।
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।चिन्तयन्ती न शोकस्य तदा ऽन्तमधिगच्छति ।। ५.२५.७।।।।
सा वेपमाना पतिता प्रवाते कदली यथा ।राक्षसीनां भयत्रस्ता विवर्णवदना ऽभवत् ।। ५.२५.८।।।।
तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा ।ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ।। ५.२५.९।।।।
सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना ।आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ।। ५.२५.१०।।।।
रा रामेति च दूःखार्ता हा पुनर्लक्ष्मणेति च ।हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ।। ५.२५.११।।।।
लोकप्रवादः सत्यो ऽयं पण्डितैः समुदाहृतः ।अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ।। ५.२५.१२।।।।
यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता ।जीवामि हीना रामेण मुहूर्तमपि दुःखिता ।। ५.२५.१३।।।।
एषा ऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ।। ५.२५.१४।।।।
भर्तारं तमपश्यन्ती राक्षसीवशमागता ।सीदामि खलु शोकेन कूलं तोयहतं यथा ।। ५.२५.१५।।।।
तं पद्मदलपत्रक्षं सिंहविक्रान्तगामिनम् ।धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ।। ५.२५.१६।।।।
सर्वथा तेन हीनाया रामेण विदितात्मना ।तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।। ५.२५.१७।।।।
कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम् ।येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ।। ५.२५.१८।।।।
जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ।। ५.२५.१९।।।।
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम् ।। ५.२५.२०।।
प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा ।अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। ५.२६.१।।।।
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। ५.२६.२।।।।
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा ।रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।। ५.२६.३।।।।
राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् ।चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।। ५.२६.४।।।।
नहि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः ।वसन्त्या राक्षसीमध्ये विना रामं महारथम् ।। ५.२६.५।।।।
अश्मसारमिदं नूनमथवाप्यजरामरम् ।हृदयं मम येनेदं न दुःखेनावशीर्यते ।। ५.२६.६।।।।
धिङ्मामनार्यामसतीं या ऽहं तेन विना कृता ।मुहूर्तमपि रक्षामि जीवितं पापजीविता ।। ५.२६.७।।।।
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ।। ५.२६.८।।।।
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।। ५.२६.९।।।।
चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।रावणं किं पुनरहं कामयेयं विगर्हितम् ।। ५.२६.१०।।।।
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ।। ५.२६.११।।।।
छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता ।रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ।। ५.२६.१२।।।।
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ।। ५.२६.१३।।।।
राक्षसानां सहस्राणि जनस्थाने चतुर्दश ।येनैकेन निरस्तानि स मां किं नाभिपद्यते ।। ५.२६.१४।।।।
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ।। ५.२६.१५।।।।
विराधो दण्डकारण्ये येन राक्षसपुङ्गवः ।रणे रामेण निहतः स मां किं नाभिपद्यते ।। ५.२६.१६।।।।
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ।न तु राघवबाणानां गतिरोधीह विद्यते ।। ५.२६.१७।।।।
किं तु तत्कारणं येन रामो दृढपराक्रमः ।रक्षसा ऽपहृतां भार्यामिष्टां नाभ्यवपद्यते ।। ५.२६.१८।।।।
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ।जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ।। ५.२६.१९।।।।
हृतेति यो ऽधिगत्वा मां राघवाय निवेदयेत् ।गृध्रराजो ऽपि स रणे रावणेन निपातितः ।। ५.२६.२०।।।।
कृतं कर्म महत्तेन मां तथा ऽभ्यवपद्यता ।तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ।। ५.२६.२१।।।।
यदि मामिह जानीयाद्वर्तमानां स राघवः ।अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ।। ५.२६.२२।।।।
विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ।रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ।। ५.२६.२३।।।।
ततो निहतनाथानां राक्षसीनां गृहे गृहे ।यथा ऽहमेवं रुदती तथा भूयो न संशयः ।। ५.२६.२४।।।।
अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः ।न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ।। ५.२६.२५।।।।
चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला ।अतिरेण तु लङ्केयं श्मशानसदृशी भवेत् ।। ५.२६.२६।।।।
अचिरेणैव कालेन प्रप्स्याम्येव मनोरथम् ।दुष्प्रस्थानो ऽयमाख्याति सर्वेषां वो विपर्ययम् ।। ५.२६.२७।।।।
यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै ।अचिरेण तु कालेन भविष्यति हतप्रभा ।। ५.२६.२८।।।।
नूनं लङ्का हते पापे रावणे राक्षसाधमे ।शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ।। ५.२६.२९।।।।
पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी ।भविष्यति पुरी लङ्का नष्टभर्त्री यथा ऽङ्गना ।। ५.२६.३०।।।।
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ।श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ।। ५.२६.३१।।।।
सान्धकारा हतद्योता हतराक्षसपुङ्गवा ।भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ।। ५.२६.३२।।।।
यदि नाम स शूरो मां रामो रक्तान्तलोचनः ।जानीयाद्वर्तमानां हि रावणस्य निवेशने ।। ५.२६.३३।।।।
अनेन तु नृशंसेन रावणेनाधमेन मे ।समयो यस्तु निर्दिष्टस्तस्य कालो ऽयमागतः ।। ५.२६.३४।।।।
अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः ।अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।। ५.२६.३५।।।।
नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ।ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।। ५.२६.३६।।।।
सा ऽहं कथं करिष्यामि तं विना प्रियदर्शनम् ।रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ।। ५.२६.३७।।।।
यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह ।क्षिप्रं वैवस्वतं देव पश्येयं पतिना विना ।। ५.२६.३८।।।।
नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ।। ५.२६.३९।।।।
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ।देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।। ५.२६.४०।।।।
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ।। ५.२६.४१।।।।
अथवा नहि तस्यार्थो धर्मकामस्य धीमतः ।मया रामस्य राजर्षेर्भार्यया परमात्मनः ।। ५.२६.४२।।।।
दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः ।नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ।। ५.२६.४३।।।।
किन्नु मे न गुणाः केचित् किंवा भाग्यक्षयो मम ।या ऽहं सीदामि रामेण हीना मुख्येन भामिनी ।। ५.२६.४४।।।।
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः ।रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।। ५.२६.४५।।।।
अथवा न्यस्तशस्त्रौ तौ वने मुलफलाशिनौ ।भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ।। ५.२६.४६।।।।
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना ।छद्मना सादितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।। ५.२६.४७।।।।
सा ऽहमेवं गते काले मर्तुमिच्छामि सर्वथा ।न च मे विहितो मृत्युरस्मिन् दुःखे ऽपि वर्तति ।। ५.२६.४८।।।।
धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ।जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ।। ५.२६.४९।।।।
प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् ।ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ।। ५.२६.५०।।।।
सा ऽहं त्यक्ता प्रियेणेह रामेण विदितात्मना ।प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ।। ५.२६.५१।।
इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्च्छिताः ।काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ।। ५.२७.१।।।।
ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः ।पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ।। ५.२७.२।।।।
अद्येदानीं तवानार्ये सीते पापविनिश्चये ।राक्षस्यो भक्षयिष्यन्ति मांसमतेद्यतासुखम् ।। ५.२७.३।।।।
सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा ।राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ।। ५.२७.४।।।।
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ।जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ।। ५.२७.५।।।।
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।राक्षसानामभावाय भर्तुरस्या भवाय च ।। ५.२७.६।।।।
एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः ।सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः ।कथयस्व त्वया दृष्टः स्वप्नो ऽयं कीदृशो निशि ।। ५.२७.७।।।।
तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्च्युतम् ।उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् ।। ५.२७.८।।।।
गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ।। ५.२७.९।।।।
युक्तां हंससहस्रेण स्वयमास्थाय राघवः ।शुक्लमाल्याम्बरधरो लक्ष्मणेन सहा गतः ।। ५.२७.१०।।।।
स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता ।सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ।रामेण सङ्गता सीता भास्करेण प्रभा यथा ।। ५.२७.११।।।।
राघवश्च मया दृष्टाश्चतुर्दन्तं महागजम् ।आरूढः शैलसङ्काशं चचार सह लक्ष्मणः ।। ५.२७.१२।।।।
ततस्तौ नहशार्दूलौ दीप्यमानौ स्वतेजसा ।शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ।। ५.२७.१३।।।।
ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ।भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ।। ५.२७.१४।।।।
भर्तुरङ्कात् समुत्पत्य ततः कमललोचना ।चन्द्रसूर्यो मया दृष्टा पाणिना परिमार्जती ।। ५.२७.१५।।।।
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ।सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ।। ५.२७.१६।।।।
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ।इहोपयातः काकुत्स्थः सीतया सह भार्यया ।। ५.२७.१७।।।।
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् ।। ५.२७.१८।।।।
आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् ।उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः ।। ५.२७.१९।।।।
एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः ।लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया * ।। ५.२७.२०।।।।
न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः ।राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ।। ५.२७.२१।।।।
रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः ।रक्तवासाः पिबन् मत्तः करवीरकृतस्रजः ।। ५.२७.२२।।।।
विमानात् पुष्पकादद्य रावणः पतितो भुवि ।कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ।। ५.२७.२३।।।।
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।पिबंस्तैलं हसन् नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः ।गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ।। ५.२७.२४।।।।
पुनरेव मया दृष्टो रावणो राक्षसेश्वरः ।पतितो ऽवाविछरा भूमौ गर्दभाद्भयमोहितः ।। ५.२७.२५।।।।
सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः ।उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन् बहु ।। ५.२७.२६।।।।
दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम् ।मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः ।। ५.२७.२७।।।।
कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिना ।काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति ।। ५.२७.२८।।।।
एवं तत्र मया दृष्टः कुम्भकर्णौ निशाचरः ।रावणस्य सुताः सर्वे तृष्टास्तैलसमुक्षिताः ।। ५.२७.२९।।।।
वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ।उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ।। ५.२७.३०।।।।
एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ।। ५.२७.३१।।।।
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ।शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः ।। ५.२७.३२।।।।
आरुह्य शौलसङ्काशं मेघस्तनितनिःस्वनम् ।चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः ।चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः ।। ५.२७.३३।।।।
समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः ।पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ।। ५.२७.३४।।।।
लङ्कां चेयं पुरी रम्या सवाजिरथकुञ्जरा ।सागरे पतिता दृष्टा भग्नगोपुरतोरणा ।। ५.२७.३५।।।।
लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता ।दग्धा रामस्य दूतेन वानरेण तरस्विना ।। ५.२७.३६।।।।
पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ।लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः ।। ५.२७.३७।।।।
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ।रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ।। ५.२७.३८।।।।
अपगच्छत नश्यध्वं सीतामाप स राघवः ।घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः ।। ५.२७.३९।।।।
प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ।भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ।।। ५.२७.४०।।।।
तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् ।अभियाचाम वैदैहीमेतद्धि मम रोचते ।। ५.२७.४१।।।।
यस्यामेव विधः स्वप्नो दुःखितायां प्रदृश्यते ।सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ।। ५.२७.४२।।।।
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया ।राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ।। ५.२७.४३।।।।
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।अलमेषा परित्रातुं राक्षस्यो महतो भयात् ।। ५.२७.४४।।।।
अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये ।विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षण् ।। ५.२७.४५।।।।
छायावैगुण्यमात्रं तु शङ्केः दुःखमुपस्थितम् ।अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ।। ५.२७.४६।।।।
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ।राक्षसेन्द्रविनाशं च विजयं राघवस्य च ।। ५.२७.४७।।।।
निमित्तभूतमेत्तु श्रोतुमस्या महत् प्रियम् ।। ५.२७.४८।।।।
दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ।ईषच्च हृषितो वा ऽस्या दक्षिणाया ह्यदक्षिणः ।। ५.२७.४९।।।।
अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते ।करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ।वेपमानः सूचयति राघवं पुरतः स्थितम् ।। ५.२७.५०।।।।
पक्षी च शाखानिलयः प्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी ।सुस्वागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः ।। ५.२७.५१।।
सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता ।सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ।। ५.२८.१।।।।
सा राक्षसीमध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च ।कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ।। ५.२८.२।।।।
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः ।यत्राहमेवं परिभर्त्स्यमाना जीवामि किंचित्क्षणमप्यपुण्या ।। ५.२८.३।।।।
सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे ।विशीर्यते यन्न सहस्रधा ऽद्य वज्राहतं शृङ्गमिवाचलस्य ।। ५.२८.४।।।।
नैवास्ति दोषं मम नूनमत्र वध्या ऽहमस्याप्रियदर्शनस्य ।भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय ।। ५.२८.५।।।।।
नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ।तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ।। ५.२८.६।।।।
दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ ।बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ।। ५.२८.७।।।।
हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या ।एषा विपद्याम्यहमल्पभाग्या माहार्णवे नौरिव मूढवाता ।। ५.२८.८।।।।
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ ।नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्यतेन ।। ५.२८.९।।।।
नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् ।यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ।। ५.२८.१०।।।।
हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्र ।रा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम् ।। ५.२८.११।।।।
अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे ।पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ।। ५.२८.१२।।।।
मोघो हि धर्मश्चरितो मया ऽयं तथैकपत्नीत्वमिदं निरर्थम् ।या त्वां न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा ।। ५.२८.१३।।।।
पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च ।स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः ।। ५.२८.१४।।।।
अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा ।मोघं चरित्वा ऽथ तपोव्रतं च त्यक्ष्यामि धिग् जीवितमल्पभाग्या ।। ५.२८.१५।।।।
सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि ।विषस्य दाता नहि मे ऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य ।। ५.२८.१६।।।।
इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती ।प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद ।। ५.२८.१७।।।।
शोकाभितप्ता बहुधा विचिन्त्य सीता ऽथ वेण्युद्ग्रथनं गृहीत्वा ।उद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ।। ५.२८.१८।।।।
उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वा ऽथ नगस्य तस्य ।। ५.२८.१९।।।।
तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्याः ।शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके ।प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि । ।। ५.२८.२०।।
तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ।। ५.२९.१।।।।
तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् ।प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम् ।। ५.२९.२।।।।
भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागरुचन्दनार्हः ।अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ।। ५.२९.३।।।।
गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः ।प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे ।। ५.२९.४।।।।
शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः ।वासः स्थितायाः शिखराग्रदत्याः किंचित् परिस्रंसत चारुगात्र्याः ।। ५.२९.५।।।।
एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधु सिद्धैः ।वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष ।। ५.२९.६।।।।
तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रु केशान्तमरालपक्ष्म ।वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ।। ५.२९.७।।।।
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा ।अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ।। ५.२९.८।।
हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः ।सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ।। ५.३०.१।।।।
अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।ततो बहुविधां चिन्तां चिन्तयामास वानरः ।। ५.३०.२।।।।
यां कपीनां सहस्राणि सुबहून्ययुतानि च ।दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ।। ५.३०.३।।।।
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता ।गूढेन चरता तावदवेक्षितमिदं मया ।। ५.३०.४।।।।
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।राक्षसाधिपतेरस्य प्रभावो रावणस्य च ।। ५.३०.५।।।।
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ।। ५.३०.६।।।।
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ।। ५.३०.७।।।।
यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ।। ५.३०.८।।।।
गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ।। ५.३०.९।।।।
मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ।। ५.३०.१०।।।।
निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् ।कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ।। ५.३०.११।।।।
अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ।। ५.३०.१२।।।।
रामश्च यदि पृच्छेन्मां किं मां सीता ऽब्रवीद्वचः ।किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ।। ५.३०.१३।।।।
सीतासन्देशरहितं मामितस्त्वरया गतम् ।निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ।। ५.३०.१४।।।।
यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ।। ५.३०.१५।।।।
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ।शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ।। ५.३०.१६।।।।
अहं त्वति तनुश्चैव वानरश्च विशेषतः ।वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ।। ५.३०.१७।।।।
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।रावणं मन्यमाना मां सीता भीता भविष्यति ।वानरस्य विशेषेण कथं स्यादभिभाषणम् ।। ५.३०.१८।।।।
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ।। ५.३०.१९।।।।
सेयमालोक्य मे रूपं जानकी भाषितं तथा ।रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ।। ५.३०.२०।।।।
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।जानमाना विशालाक्षी रावणं कामरूपिणम् ।। ५.३०.२१।।।।
सीतया च कृते शब्दे सहसा राक्षसीगणः ।नानाप्रहरणो घोरः समेयादन्तकोपमः ।। ५.३०.२२।।।।
ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ।वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ।। ५.३०.२३।।।।
गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ।। ५.३०.२४।।।।
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ।राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ।। ५.३०.२५।।।।
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ।। ५.३०.२६।।।।
ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ।आपतेयुर्विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः ।। ५.३०.२७।।।।
संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ।शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ।। ५.३०.२८।।।।
मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ।स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ।। ५.३०.२९।।।।
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।। ५.३०.३०।।।।
उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते ।सागरेण परिक्षिप्ते गुप्त वसति जानकी ।। ५.३०.३१।।।।
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ।। ५.३०.३२।।।।
विमृशंश्च न पश्यामि यो हते मयि वानरः ।शतयोजनविस्तीर्णं लङ्गयेत महोदधिम् ।। ५.३०.३३।।।।
कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् ।नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ।। ५.३०.३४।।।।
असत्यानि च युद्धानि संशयो मे न रोचते ।कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ।। ५.३०.३५।।।।
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ।एष दोषो महान् हि स्यान्मम सीताभिभाषणे ।। ५.३०.३६।।।।
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।विक्लवं दूतमासाद्य तमः सूर्योदये यथा ।। ५.३०.३७।।।।
अर्थानर्थान्तरे बुद्धिर्निश्चिता ऽपि न शोभते ।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।। ५.३०.३८।।।।
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् ।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।। ५.३०.३९।।।।
कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा ।इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् ।। ५.३०.४०।।।।
राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ।। ५.३०.४१।।।।
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।। ५.३०.४२।।।।
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ।श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ।। ५.३०.४३।।।।
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ।। ५.३०.४४।।
एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः ।संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ।। ५.३१.१।।।।
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः ।। ५.३१.२।।।।
राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः ।चक्रवर्तिकुले जातः पुरन्दरसमो बले ।। ५.३१.३।।।।
अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः ।मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ।। ५.३१.४।।।।
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः ।पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ।। ५.३१.५।।।।
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ।रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ।। ५.३१.६।।।।
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ।। ५.३१.७।।।।
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः ।सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ।। ५.३१.८।।।।
तेन तत्र महारण्ये मृगयां परिधावता ।राक्षसा निहताः शूरा बहवः कामरूपिणः ।। ५.३१.९।।।।
जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।ततस्त्वमर्षापहृता जानकी रावणेन तु ।वञ्जयित्वा वने रामं मृगरूपेण मायया ।। ५.३१.१०।।।।
स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ।आससाद वने मित्रं सुग्रीवं नाम वानरम् । ।। ५.३१.११।।।।
ततः स वालिनं हत्वा रामः परपुरञ्जयः ।प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः ।। ५.३१.१२।।।।
सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः ।दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ।। ५.३१.१३।।।।
अहं संपातिवचनाच्छतयोजनमायतम् ।अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः ।। ५.३१.१४।।।।
यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् ।अश्रौषं राघवस्याहं सेयमासादिता मया ।। ५.३१.१५।।।।
विररामैव मुक्त्वा ऽसौ वाचं वानरपुङ्गवः ।जानकी चापि तच्छृत्वा विस्मयं परमं गता ।। ५.३१.१६।।।।
ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ।उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत ।। ५.३१.१७।।।।
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य ।स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ।। ५.३१.१८।।।।
सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् ।ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ।। ५.३१.१९।।
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ।। ५.३२.१।।।।
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ।। ५.३२.२।।।।
मैथिली चिन्तयामास विस्मयं परमं गता ।अहो भीममिदं रूपं वानरस्य दुरासदम् ।दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा ।। ५.३२.३।।।।
विललाप भृशं सीता करुणं भयमोहिता ।रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ।। ५.३२.४।।।।
रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ।। ५.३२.५।।।।
सा तं दृष्ट्वा हरिश्रेष्ठं विनीतबदुपस्थितम् ।मैथिली चिन्तयामास स्वप्नो ऽयमिति भामिनी ।। ५.३२.६।।।।
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् ।ददर्श पिङ्गधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ।। ५.३२.७।।।।
सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता ।चिरेण संज्ञा प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ।। ५.३२.८।।।।
स्वप्ने मया ऽयं विकृतो ऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ।स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ।। ५.३२.९।।।।
स्वप्नो ऽपि नायं नहि मे ऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।सुखं हि मे नास्ति यतो ऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ।। ५.३२.१०।।।।
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव ।तस्यानुरूपां च कथां तमर्तमेव प्रपश्यामि तथा श्रृणोमि ।। ५.३२.११।।।।
अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा ।विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ।। ५.३२.१२।।।।
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि ।किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ।। ५.३२.१३।।।।
नमो ऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय च ।अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथा ऽस्तु नान्यथा ।। ५.३२.१४।।
सो ऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ।विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ।। ५.३३.१।।।।
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः ।शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ।। ५.३३.२।।।।
कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ।। ५.३३.३।।।।
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ।। ५.३३.४।।।।
सुराणामसुराणां वा नागगन्धर्वरक्षसाम् ।यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ।। ५.३३.५।।।।
का त्वं भवसि रुद्राणां मरुतां वा वरानने ।वसूनां वा वरारोहे देवता प्रतिभासे मे ।। ५.३३.६।।।।
किन्नु चन्द्रमसा हीना पतिता विबुधालयात् ।रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ।। ५.३३.७।।।।
का त्वं भवसि कल्याणि कत्वमनिन्दितलोचने ।। ५.३३.८।।।।
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ।वसिष्ठं कोपयित्वा त्वं नासिकल्याण्यरुन्धती ।। ५.३३.९।।।।
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ।अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ।। ५.३३.१०।।।।
रोदनादतिनिःश्वासाद्भूतमिसंस्पर्शनादपि ।न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ।। ५.३३.११।।।।
व्यञ्जनानि च ते यानि लक्षणामनि च लक्षये ।महिषी भूमिपालस्य राजकन्या ऽसि मे मता ।। ५.३३.१२।।।।
रावणेन जनस्थानाद् बलादपहृता यदि ।सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ।। ५.३३.१३।।।।
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ।तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।। ५.३३.१४।।।।
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ।उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ।। ५.३३.१५।।।।
पृथिव्यां राजसिहानां मुख्यस्य विदितात्मनः ।स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ।। ५.३३.१६।।।।
दुहिता जनकस्याहं वैदेहस्य महात्मनः ।सीता च नाम नाम्ना ऽहं भार्या रामस्य धीमतः ।। ५.३३.१७।।।।
समा द्वादश तत्राहं राघवस्य निवेशने ।भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ।। ५.३३.१८।।।।
तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ।अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।। ५.३३.१९।।।।
तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने ।कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ।। ५.३३.२०।।।।
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।। ५.३३.२१।।।।
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ।तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ।। ५.३३.२२।।।।
स राजा सत्यवाग् देव्या वरदानमनुस्मरन् ।मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ।। ५.३३.२३।।।।
ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ।ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ।। ५.३३.२४।।।।
स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम् ।मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ।। ५.३३.२५।।।।
दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किंचिदप्रियम् ।अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ।। ५.३३.२६।।।।
स विहायोत्तरीयाणि महार्हाणि महायशाः ।विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।। ५.३३.२७।।।।
सा ऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ।न हि मे तेन हीनाया वासः स्वर्गे ऽपि रोचते ।। ५.३३.२८।।।।
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ।पूर्वजस्यानुयात्रार्थे द्रुमचीररैलङ्कृतः ।। ५.३३.२९।।।।
त वयं भर्तुरादेशं बहुमान्य दृढव्रताः ।प्रविष्टाः स्म पुरा ऽदृष्टं वन गम्भीरदर्शनम् ।। ५.३३.३०।।।।
वसतो दणऽडकारण्ये तस्याहममितौजसः ।रक्षसा ऽपहृता भार्या रावणेन दुरात्मना ।। ५.३३.३१।।।।
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ।। ५.३३.३२।।
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ।। ५.३४.१।।।।
अहं रामस्य सन्देशाद्देवि दूतस्तवागतः ।वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ।। ५.३४.२।।।।
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ।। ५.३४.३।।।।
लक्ष्मणश्च महातेजा भर्तुस्ते ऽनुचरः प्रियः ।कृतवाञ्छोकसन्तप्तः शिरसा ते ऽभिवादनम् ।। ५.३४.४।।।।
सा तयोः कुशलं देवी निशम्य नरसिंहयोः ।प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। ५.३४.५।।।।
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।एति जीवन्तमानन्दो नरं वर्षशतादपि ।। ५.३४.६।।।।
तया समागते तस्मिन् प्रीतिरुत्पादिता ऽद्भुता ।परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ।। ५.३४.७।।।।
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।सीतायाः शोकदीनायाः समीपमुपचक्रमे ।। ५.३४.८।।।।
यथा यथा समीपं स हनुमानुपसर्पति ।तथा तथा रावणं सा तं सीता परिशङ्कते ।। ५.३४.९।।।।
अहो धिग् दुष्कृतमिदं कथितं हि यदस्य मे ।रूपान्तरमुपागम्य स एवायं हि रावणः ।। ५.३४.१०।।।।
तामशोकस्य शाखां सा विमुक्ता शोककर्शिता ।तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ।। ५.३४.११।।।।
हमुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् ।अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ।सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ।। ५.३४.१२।।।।
तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ।अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ।।। ५.३४.१३।।।।
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ।उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् ।। ५.३४.१४।।।।
स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ।जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ।। ५.३४.१५।।।।
उपवासकृशां दीनां कामरूप निशाचर ।सन्तापयसि मां भूयः सन्तप्तां तन्न शोभनम् ।। ५.३४.१६।।।।
अथवा नैतदेवं हि यन्मया परिशङ्कितम् ।मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ।। ५.३४.१७।।।।
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ।पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।गुणान् रामस्य कथय प्रियस्य मम वानर ।। ५.३४.१८।।।।
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ।। ५.३४.१९।।मि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।।।
अहो स्वप्नस्य सुखता या ऽहमेंव चिराहृता ।प्रेषितं नाम पश्यामि राघवेण वनौकसम् ।। ५.३४.२०।।।।
स्वप्ने ऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ।पश्येयं नावसीदेयं स्वप्नो ऽपि मम मत्सरी ।। ५.३४.२१।।।।
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ।न शक्यो ऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ।। ५.३४.२२।।।।
किन्नु स्याच्चित्तमोहो ऽयं भवेद्वातगतिस्त्वियम् ।उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ।। ५.३४.२३।।।।
अथवा नायमुन्मादो मोहो ऽप्युन्मादलक्षणः ।संबुद्ध्ये चाहमात्मानमिमं चापि वनौकसम् ।। ५.३४.२४।।।।
इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ।रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ।। ५.३४.२५।।।।
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ।न प्रतिव्याजहाराथ वानरं जनकात्मजा ।। ५.३४.२६।।।।
सीतायाश्चिन्तितं बुद्ध्वा हनुमान् मारुतात्मजः ।श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् ।। ५.३४.२७।।।।
आदित्य इव तेजस्वी लोककान्तः शशी यथा ।राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ।। ५.३४.२८।।।।
सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा ।रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ।। ५.३४.२९।।
.स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ।। ५.३४.३०।।।।
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ।। ५.३४.३१।।।।
अपकृष्याश्रमपदान्मृगरूपेण राघवम् ।शून्ये येनापनीता ऽसि तस्य द्क्ष्यसि यत्फलम् ।। ५.३४.३२।।।।
नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् ।रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ।। ५.३४.३३।।।।
तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ।त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ।। ५.३४.३४।।।।
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ।। ५.३४.३५।।।।
रामस्य च सखा देवि सुग्रीवो नाम वानरः ।राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ।। ५.३४.३६।।।।
नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः ।दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ।। ५.३४.३७।।।।
नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् ।मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ।। ५.३४.३८।।।।
अहं सुग्रीवसचिवो हनुमान्नाम वानरः ।प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ।। ५.३४.३९।।।।
कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।त्वां द्रष्टुमुपयातो ऽहं समाश्रित्य पराक्रमम् ।। ५.३४.४०।।।।
नाहमस्मि तथा देवि यथा मामवगच्छसि ।विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ।। ५.३४.४१।।
तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात् ।उवाच वचनं सान्त्वमिदं मधुरया गिरा ।। ५.३५.१।।।।
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।वानराणां नराणां च कथमासीत् समागमः ।। ५.३५.२।।।।
यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ।। ५.३५.३।।।।
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ।। ५.३५.४।।।।
एवमुक्तस्तु वैदेह्या हनुमान् मारुतात्मजः ।ततो रामं यथात्त्वमाख्यातुमुपचक्रमे ।। ५.३५.५।।।।
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ।। ५.३५.६।।।।
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।लक्षितानि विशालाक्षि वदतः शृणु तानि मे ।। ५.३५.७।।।।
रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ।रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ।। ५.३५.८।।।।
तेजसा ऽ ऽदित्यसङ्काशः क्षमया पृथिवीसमः ।बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ।। ५.३५.९।।।।
रक्षिता जीवलोकस्य स्वरजनस्याभिरक्षिता ।रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ।। ५.३५.१०।।।।
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।मर्यादानां च लोकस्य कर्ता कारयिता च सः ।। ५.३५.११।।।।
अर्चिष्मानर्चितो ऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ।। ५.३५.१२।।।।
राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः ।। ५.३५.१३।।।।
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः ।धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ।। ५.३५.१४।।।।
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ।गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ।। ५.३५.१५।।।।
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ।समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ।। ५.३५.१६।।।।
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ।। ५.३५.१७।।।।
त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ।चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुः समः ।। ५.३५.१८।।।।
चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्वर्गतिः ।महोष्ठहनुनासश्च पञ्चस्निग्धो ऽष्टवंशवान् ।। ५.३५.१९।।।।
दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान् ।षडुन्नतो नवतनुस्त्रिभिर्वाप्नोति राघवः ।। ५.३५.२०।।।।
सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः ।देशकालविभागज्ञः सर्वलोकप्रियंवदः ।। ५.३५.२१।।।।
भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ।अनुरागेण रूपेण गुणैश्चैव तथाविधः ।। ५.३५.२२।।।।
तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ ।विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ।। ५.३५.२३।।।।
त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ।ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ।। ५.३५.२४।।।।
ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले ।भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ।। ५.३५.२५।।।।
वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् ।परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम् ।। ५.३५.२६।।।।
ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ।ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ।। ५.३५.२७।।।।
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ।। ५.३५.२८।।।।
ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः ।तयोः समीपं मामेव प्रेषयामास सत्वरम् ।। ५.३५.२९।।।।
तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू ।रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ।। ५.३५.३०।।।।
तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौः ।। ५.३५.३१।।।।
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ।। ५.३५.३२।।।।
ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ ।परस्परकृताश्वासौ कथया पूर्ववृत्तया ।। ५.३५.३३।।।।
ततः स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ।। ५.३५.३४।।।।
ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ।। ५.३५.३५।।।।
स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ।तदा ऽ ऽसीन्निष्प्रभो ऽत्यर्थं ग्रहग्रस्त इवांशुमान् ।। ५.३५.३६।।।।
ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।यान्याभरणजालानि पातितानि महीतले ।।। ५.३५.३७।।।।
तानि सर्वाणि रामाय आनीय हरियूथपाः ।संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ।। ५.३५.३८।।।।
तानि रामाय दत्तानि मयैवोपहृतानि च ।स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि ।। ५.३५.३९।।।।
तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव ।तेन देवप्रकाशेन देवेन परिदेवितम् ।। ५.३५.४०।।।।
पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः।प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ।। ५.३५.४१।।।।
शयितं च चिरं तेन दुःकार्तेन महात्मना ।मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थिपितः पुनः ।। ५.३५.४२।।।।
तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः ।राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ।। ५.३५.४३।।।।
स तवादर्शनादार्ये राघवः परितप्यते ।महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ।। ५.३५.४४।।।।
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ।तापयन्ति महात्मानमग्न्यागारमिवाग्नयः ।। ५.३५.४५।।।।
तवादर्शनशोकेन राघवः प्रविचाल्यते ।महता भूमिकम्पने महानिव शिलोच्चयः ।। ५.३५.४६।।।।
काननानि सुरम्याणि नदीः प्रस्रवणानि च ।चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ।। ५.३५.४७।।।।
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।समित्रबान्धवं हत्वा रावणं जनकात्मजे ।। ५.३५.४८।।।।
सहितौ रामसुग्रीवावुभावकुरुतां तदा ।समयं वालिनं हन्तुं तव चान्वेषणं तथा ।। ५.३५.४९।।।।
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ।किष्किन्धां समुपागम्य वाली युद्धे निपातितः ।। ५.३५.५०।।।।
ततो निहत्य तरसा रामो वालिनमाहवे ।सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ।। ५.३५.५१।।।।
रामसुग्रीवयोरैक्यं देव्येवं समजायत ।हनुममन्तं च मां विद्धि तयोर्दूतमिहागतम् ।। ५.३५.५२।।।।
स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् ।त्वदर्थं प्रेषयामास दिशो दश महाबलान् ।। ५.३५.५३।।।।
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा ।अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ।। ५.३५.५४।।।।
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ।चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।। ५.३५.५५।।।।
अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः ।प्रस्थितः कापिशार्दूलस्त्रिभागबलसंवृतः ।। ५.३५.५६।।।।
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ।भृशं शोकपरीतानामहोरात्रगणा गताः ।। ५.३५.५७।।।।
ते वयं कार्यनैराश्यात् कालश्यातिक्रमेण च ।भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ।। ५.३५.५८।।।।
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ।। ५.३५.५९।।।।
दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान् ।भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ।। ५.३५.६०।।।।
तवनाशं च वैदेहि वालिनश्च वधं तथा ।प्रायोववेशमस्माकं मरणं च जटायुषः ।। ५३.५.६१।।।।
तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् ।कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ।। ५.३५.६२।।।।
गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् ।श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ।। ५.३५.६३।।।।
यवीयान् केन म भ्राता हतः क्व च निपातितः ।एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ।। ५.३५.६४।।।।
अङ्गदो ऽकथयत्तस्य जनस्थानेः महद्वधम् ।रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ।। ५.३५.६५।।।।
जटायुषो वधं श्रुत्वा दुःखितः सो ऽरुणात्मजः ।त्वां शशंस वरारोहे वसन्तीं रावणालये ।। ५.३५.६६।।।।
तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् ।अङ्गप्रमुखास्तूर्णं ततः संप्रस्थिता वयम् ।। ५.३५.६७।।।।
विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् ।त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ।। ५.३५.६८।।।।
अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः ।चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ।। ५.३५.६९।।।।
तथा ऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।व्यवधूय भयं ताव्रं योजनानां शतं प्लुतः ।। ५.३५.७०।।।।
लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ।। ५.३५.७१।।।।
एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ।अभिभाषस्व मां देवि दूतो दाशरथेरहम् ।। ५.३५.७२।।।।
तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ।। ५.३५.७३।।।।
कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ।गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ।। ५.३५.७४।।।।
तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ।। ५.३५.७५।।।।
मयेयमसहायेन चरता कामरूपिणा ।दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ।। ५.३५.७६।।।।
दिष्ट्या ऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।अपनेष्यामि सन्तापं तवाभिगमशंसनात् ।। ५.३५.७७।।।।
दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् ।प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ।। ५.३५.७८।।।।
राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ।। ५.३५.७९।।।।
माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ।। ५.३५.८०।।।।
स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ।तार्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ।। ५.३५.८१।।।।
तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ।। ५.३५.८२।।।।
विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ।अचिराद् राघवो देवि त्वामितो नयिता ऽनघे ।। ५.३५.८३।।।।
एवं विश्वासिता सीता हेतुभिः शोककर्शिता ।उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ।। ५.३५.८४।।।।
अतुलं च गता हर्षं प्रहर्षेण च जानकी ।नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ।। ५.३५.८५।।।।
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। ५.३५.८६।।।।
हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ।अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ।। ५.३५.८७।।।।
एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ।किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ।। ५.३५.८८।।।।
हते ऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ।ततो ऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ।। ५.३५.८९।।
भूय एव महातेजा हनुमान् मारुतात्मजः ।अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ।। ५.३६.१।।।।
वानरो ऽहं महाभागे दूतो रामस्य धीमतः ।रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।। ५.३६.२।।।।
प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना ।समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ।। ५.३६.३।।।।
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।भर्तारमिव सम्प्राप्ता जानकी मुदिता ऽभवत् ।। ५.३६.४।।।।
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। ५.३६.५।।।।
ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता ।परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ।। ५.३६.६।।।।
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ।। ५.३६.७।।।।
शतयोजनविस्तीर्णः सागरो मकरालयः ।विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ।। ५.३६.८।।।।
नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ ।यस्य ते नास्ति संत्रासो रावणान्नापि सम्भ्रमः ।। ५.३६.९।।।।
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।यद्यपि प्रेषितस्तेन रामेण विदितात्मना ।। ५.३६.१०।।।।
प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् ।पराक्रममविज्ञाय मत्सकाशं विशेषतः ।। ५.३६.११।।।।
दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः ।लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।। ५.३६.१२।।।।
कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम् ।महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ।। ५.३६.१३।।।।
अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ।ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ।। ५.३६.१४।।।।
कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते ।उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ।। ५.३६.१५।।।।
कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति ।कच्चित् पुर्षकार्याणि कुरुते नृपतेः सुतः ।। ५.३६.१६।।।।
द्विविधं त्रिविधोपायमुपायमपि सेवते ।विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः ।। ५.३६.१७।।।।
कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ।कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ।। ५.३६.१८।।।।
कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः ।कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ।। ५.३६.१९।।।।
कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः ।कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ।। ५.३६.२०।।।।
सुखानामुचितो नित्यमसुखानामनूचितः ।दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ।। ५.३६.२१।।।।
कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च ।अभीक्ष्णं श्रुयते कच्चित् कुशलं भरतस्य च ।। ५.३६.२२।।।।
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ।कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ।। ५.३६.२३।।।।
कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ।। ५.३६.२४।।।।
वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति ।मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ।। ५.३६.२५।।।।
कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ।अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ।। ५.३६.२६।।।।
रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे ।द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ।। ५.३६.२७।।।।
कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि ।मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ।। ५.३६.२८।।।।
धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् ।नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति ।। ५.३६.२९।।।।
न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टो ऽस्ति मया समो वा ।तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं श्रृणुयां प्रियस्य ।। ५.३६.३०।।।।
इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा ।श्रोतुं पुनस्तस्य वचो ऽभिरामं रामार्थयुक्तं विरराम रामा ।। ५.३६.३१।।।।
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ।। ५.३६.३२।।।।
न त्वामिहस्थां जानीते रामः कमललोचने ।तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ।। ५.३६.३३।।।।
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। ५.३६.३४।।।।
विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम् ।करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ।। ५.३६.३५।।।।
तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः।स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ।। ५.३६.३६।।।।
तवादर्शनजेनार्ये शोकेन स परिप्लुतः ।न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३६.३७।।।।
मलयेन च विन्ध्येन मेरुणा मन्दरेण च ।दर्दुरेण च ते देवि शपे मूलफलेन च ।। ५.३६.३८।।।।
यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् ।मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ।। ५.३६.३९।।।।
क्षिप्रं द्रक्ष्यासि वैदेहि रामं प्रस्रवणे गिरौ ।शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ।। ५.३६.४०।।।।
न मांसं राघवो भुङ्क्ते न चापि मधु सेवते ।वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ।। ५.३६.४१।।।।
नैव दंशान्न मशकान् न कीटान्न सरीसृपान् ।राघवो ऽपनयेद्गात्रात् त्वद्गतेनान्तरात्मना ।। ५.३६.४२।।।।
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।नान्यच्चिन्तयते किञ्चित् स तु कामवशं गतः ।। ५.३६.४३।।।।
अनिद्रः सततं रामः सुप्तो ऽपि च नरोत्तमः ।सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते ।। ५.३६.४४।।।।
दृष्ट्वा फलं वा पुष्पं वा यद्वा ऽन्यत् सुमनोहरम् ।बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ।। ५.३६.४५।।।।
स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ।दृढव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ।। ५.३६.४६।।।।
सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका ।शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ।। ५.३६.४७।।
सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ।। ५.३७.१।।।।
अमृतं विषसंसृष्टं त्वया वानरभाषितम् ।यच्च नान्यमना रामो यच्च शोकपरायणः ।। ५.३७.२।।।।
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ।। ५.३७.३।।।।
विधिर्नूनमसंहार्थः प्राणिनां प्लवगोत्तम ।सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ।। ५.३७.४।।।।
शोकस्यास्य कदा पारं राघवो ऽधिगमिष्यति ।प्लवमानः परिश्रान्तो हतनौः सागरे यथा ।। ५.३७.५।।।।
राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ।। ५.३७.६।।।।
स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते ।अयं संवत्सरः कालस्तावद्धि मम जीवितम् ।। ५.३७.७।।।।
वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम ।रावणेन नृशंसेन समयो यः कृतो मम ।। ५.३७.८।।।।
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ।। ५.३७.९।।।।
मम प्रतिप्रदानं हि रावणस्य न रोचते ।रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ।। ५.३७.१०।।।।
ज्येष्टा कन्या ऽनला नाम विभीषणसुता कपे ।तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ।। ५.३७.११।।।।
असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ।। ५.३७.१२।।।।
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।विक्रमश्च प्रभावश्च सन्ति वानर राघवे ।। ५.३७.१३।।।।
चतुर्दश सहस्राणि राक्षसानां जघान यः ।जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ।। ५.३७.१४।।।।
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।अहं तस्य प्रभावज्ञाशक्रस्येव पुलोमजा ।। ५.३७.१५।।।।
शरजालांशुमाञ्छूरः कपे रामदिवाकरः ।शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ।। ५.३७.१६।।।।
इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।अश्रुसम्पूर्णनयनामुवाच वचनं कपिः ।। ५.३७.१७।।।।
कृत्वैव तु वयो मह्यं क्षिप्रमेष्यति राघवः ।चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। ५.३७.१८।।।।
अथवा मोचयिष्यामि त्वामद्यैव वरानने ।अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ।। ५.३७.१९।।।।
त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् ।शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ।। ५.३७.२०।।।।
द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम् ।व्यवसायसमायुक्तं विष्णुं दैत्यवदे यथा ।। ५.३७.२२।।।।
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।पुरन्दरमिवासीनं नाकराजस्य मूर्धनि ।। ५.३७.२३।।।।
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ।। ५.३७.२४।।।।
कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा ।मत्पृष्टमधिरुह्य त्वं तराकाशमहार्णवौ ।। ५.३७.२५।।।।
न हि मे संप्रयातस्य त्वामितो नयतो ऽङ्गने ।अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ।। ५.३७.२६।।।।
यथैवाहमिह प्राप्तस्तथैवाहमसंशयः ।यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ।। ५.३७.२७।।।।
मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् ।हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। ५.३७.२८।।।।
हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि ।तदेव खलु ते मन्ये कपित्वं हरियूथप ।। ५.३७.२९।।।।
कथं वा ऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ।। ५.३७.३०।।।।
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ।। ५.३७.३१।।।।
न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा ।तस्मात् पश्यतु वैदही यद्रूपं मम कामतः ।। ५.३७.३२।।।।
इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः ।दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ।। ५.३७.३३।।।।
स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ।। ५.३७.३४।।।।
मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः ।अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ।। ५.३७.३५।।।।
हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः ।वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ।। ५.३७.३६।।।।
सपर्वतवनोद्देशां साट्टप्रकारतोरणाम् ।लङ्कामिमां सनाथां व नयितुं शक्तिरस्ति मे ।। ५.३७.३७।।।।
तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया ।विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ।। ५.३७.३८।।।।
तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा ।पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ।। ५.३७.३९।।।।
तव सत्त्वं बलं चैव विजानामि महाकपे ।वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ।। ५.३७.४०।।।।
प्राकृतो ऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।उदधेरप्रमेयस्य पारं वानरपुङ्गव ।। ५.३७.४१।।।।
जानामि गमने शक्तिं नयने चापि ते मम ।अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ।। ५.३७.४२।।।।
अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वया ऽनघ ।वायुवेगसवेगस्य वेगो मां मोहयेत्तव ।। ५.३७.४३।।।।
अहमाकाशमापन्ना ह्युपर्युपरि सागरम् ।प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः ।। ५.३७.४४।।।।
पतिता सागरे चाहं तिमिनक्रझषाकुले ।भवेयमाशु विवशा यादसामन्नमुत्तमम् ।। ५.३७.४५।।।।
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः ।। ५.३७.४६।।।।
ह्रियमाणं तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ।। ५.३७.४७।।।।
तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः ।भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ।। ५.३७.४८।।।।
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ।। ५.३७.४९।।।।
युद्ध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ।प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ।। ५.३७.५०।।।।
अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ।। ५.३७.५१।।।।
अथवा युद्ध्यमानस्य पतेयं विमुखस्य ते ।पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ।। ५.३७.५२।।।।
मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा ।अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ।। ५.३७.५३।।।।
अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।त्वत्प्रयत्नो हरिश्रोष्ठ भवेन्निष्फल एव तु ।। ५.३७.५४।।।।
कामं त्वमसि पर्याप्तौ निहन्तुं सर्वराक्षसान् ।राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ।। ५.३७.५५।।।।
अथवा ऽ ऽदाय रक्षांसि न्यसेयुः संवृते हि माम् ।यत्र ते नाभिजानीयुर्हरयो नापि राघवौ ।आरम्भस्तु मदर्थो ऽयं ततस्तव निरर्थकः ।। ५.३७.५६।।।।
त्वया हि सह रामस्य महानागमने गुणः ।।। ५.३७.५७।।।।
मयि जीवितमायत्तं राघवस्य महात्मनः ।भ्रातऽणां च महाबाहो तव राजकुलस्य च ।। ५.३७.५८।।।।।
तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ ।सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ।। ५.३७.५९।।।।
भर्तृमक्तिं पुरस्कृत्य रामादन्यस्य वानर ।न स्पृशामि शरीरं तु पुंसो वाररपुङ्गवः ।। ५.३७.६०।।।।
यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता ।अनीशा किं करिष्यामि विनाथा विवशा सती ।। ५.३७.६१।।।।
यदि रामो दशग्रीवमिह हत्वा सबान्धवम् ।मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ।। ५.३७.६२।।।।
श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ।। ५.३७.६३।।।।
समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ।। ५.३७.६४।।।।
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ।। ५.३७.६५।।।।
स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ।। ५.३७.६६।।
ततः सकपिशार्दूलस्तेन वाक्येन हर्षितः ।सीतामुवाच तच्छ्रुत्वा वाक्यं वक्यविशारदः ।। ५.३८.१।।।।
युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ।। ५.३८.२।।।।
स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ।मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ।। ५.३८.३।।।।
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ।। ५.३८.४।।।।
एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः ।का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ।। ५.३८.५।।।।
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।चोष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ।। ५.३८.६।।।।
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया ।स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ।। ५.३८.७।।।।।
लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः ।सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ।। ५.३८.८।।।।
इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ।गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ।। ५.३८.९।।।।
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ।अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ।। ५.३८.१०।।।।
एवमुक्ता हनुमता सीता सुरसुतोपमा ।उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ।। ५.३८.११।।।।
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्।शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ।। ५.३८.१२।।।।
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ।। ५.३८.१३।।।।
तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ।। ५.३८.१४।।।।
ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ।तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ।। ५.३८.१५।।।।
दारयन् स च मां काकस्तत्रैव परिलीयते ।न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ।। ५.३८.१६।।।।
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि ।स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ।। ५.३८.१७।।।।
त्वया ऽपहसिता चाहं क्रुद्धा संलज्जिता तदा ।भक्षगृध्रेन काकेन दारिता त्वामुपागता ।। ५.३८.१८।।.३८.१७।।।।
आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ।क्रुद्ध्यन्ती च प्रहृष्टेन त्वया ऽहं परिसान्त्विता ।। ५.३८.१९।।।।
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ।लक्षिता ऽहं त्वया नाथ वायसेन प्रकोपिता ।। ५.३८.२०।।।।
परिश्रमात् प्रसुप्ता च राघवाङ्के ऽप्यहं चिरम् ।पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ।स तत्र पुनरेवाथ वायसः समुपागमत् ।। ५.३८.२१।।।।
ततः सुप्तप्रबुद्धां मां रामस्याङ्कात् समुत्थिताम् ।वायसः सहसा ऽ ऽगम्य विददार स्तनान्तरे ।। ५.३८.२२।।।।
पुनः पुनरथोत्पत्य विददार स मां भृशम् ।ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ।। ५.३८.२३।।।।
वायसेन ततस्तेन बलवत्क्लिश्यमानया ।स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः ।। ५.३८.२४।।।।
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा ।आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ।। ५.३८.२५।।।।
केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।। ५.३८.२६।।।।
वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत ।नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ।। ५.३८.२७।।।।
पुत्रः किल स शक्रस्य वायसः पततां वरः ।धरान्तरगतः शीघ्रं पवनस्य गतौ समः ।। ५.३८.२८।।।।
ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः ।वायसे कृतवान् क्रूरां मतिं मतिमतां वरः ।। ५.३८.२९।।।।
स दर्भं संस्तराद् गृह्य ब्राह्मेमास्त्रेण योजयत् ।स दीप्त इव कालाग्रिर्जज्वलाभिमुखो द्विजम् ।। ५.३८.३०।।।।
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ।ततस्तं वायसं दर्भः सो ऽम्बरे ऽनुजगाम ह ।। ५.३८.३१।।।।
अनुसृप्तस्तदा काको जगाम विविधां गतिम् ।लोककाम इमं लोकं सर्वं वै विचचार ह ।। ५.३८.३२।।।।
स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।त्रील्लोकान् संपरिक्रम्य तमेव शरणं गतः ।। ५.३८.३३।।।।
स तं निपतितं भूमौ शरण्यः शरणागतम् ।वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ।। ५.३८.३४।।।।
न शर्म लब्ध्वा तमेव शरणं गतः ।। ५.३८.३५।।।।
परिद्यूनं विषण्णं च स तमायान्तमब्रवीत् ।मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ।। ५.३८.३६।।।।
हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सो ऽब्रवीत् ।ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ।। ५.३८.३७।।।।
स रामाय नमस्कृत्वा राज्ञे दशरथाय च ।विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ।। ५.३८.३८।।णम् ।।।
मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् ।कर्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ।। ५.३८.३९।।।।
स कुरुष्व महोत्साहः कृपां मयि नरर्षभ ।त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ।। ५.३८.४०।।।।
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ।। ५.३८.४१।।।।
जानामि त्वां महावीर्यं महोत्साहं महाबलम् ।अपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् ।भर्तारं ससमुद्रायाधरण्या वासवोपमम् ।। ५.३८.४२।।।।
एवमस्त्रविदां श्रेष्ठः सत्यवान् बलवानपि ।किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।। ५.३८.४३।।।।
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ।। ५.३८.४४।।।।
तस्य वीर्यवतः कश्चिद् यद्यस्ति मयि संभ्रमः ।किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ।। ५.३८.४५।।।।
भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः ।कस्य हेतोर्न मां वीरः परित्राति महाबलः ।। ५.३८.४६।।।।
यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।। ५.३८.४७।।।।
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।समर्थावपि तौ यन्मां नावेक्षते परन्तपौ ।। ५.३८.४८।।।।
वैदह्या वचनं श्रत्वा करुणं साश्रुभाषितम् ।अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ।। ५.३८.४९।।।।
त्वच्छोकविमुखो रामो देवि सत्येन मे शपे ।रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ।। ५.३८.५०।।।।
कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।। ५.३८.५१।।।।
इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते ।तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ।। ५.३८.५२।।।।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.३८.५३।।।।
हत्वा च समरे क्रूरं रावणं सहबान्धवम् ।राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ।ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ।। ५.३८.५४।।।।
सुग्रीवो वापि तेजस्वी हरयो ऽपि समागताः ।इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा ।उवाच सोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ।। ५.३८.५५।।।।
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ।तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ।। ५.३८.५६।।।।
स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ।ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ।। ५.३८.५७।।।।
पितरं मातरं चैव संमान्याभिप्रसाद्य च ।अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ।। ५.३८.५८।।।।
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ।अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ।। ५.३८.५९।।।।
संहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ।पितृवद्वर्तते रामे मातृवन्मां समाचरन् ।। ५.३८.६०।।।।
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ।। ५.३८.६१।।।।
वृद्दोपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता ।राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ।। ५.३८.६२।।।।
मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ।। ५.३८.६३।।।।
यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् ।स ममार्थाय कुशलं वक्तव्यो वचनान्मम ।मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ।। ५.३८.६४।।।।
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ।त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।। ५.३८.६५।।।।
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ।। ५.३८.६६।।।।
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ।जीवितं धारयिष्यामि मासं दशरथात्मज ।। ५.३८.६७।।।।
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ।रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ।। ५.३८.६८।।।।
त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ।ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।प्रदेयो राघवायेति सीता हनुमते ददौ ।। ५.३८.६९।।।।
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ।अङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः ।।। ५.३८.७०।।।।
मणिरत्नं कपिवरः प्रतिगृह्याभिवद्य च ।सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ।। ५.३८.७१।।।।
हर्षेण महता युक्तः सीतादर्शनजेन सः ।हृदयेन गतो रामं शरीरेण तु विष्ठितः ।। ५.३८.७२।।।।
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् ।गिरिरिव पवनावधूत्मुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ।। ५.३८.७३।।
मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति ।अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ।। ५.३९.१।।।।
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।वीरो जनन्या मम च राज्ञो दशरथस्य च ।। ५.३९.२।।।।
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ।। ५.३९.३।।।।
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।हनुमन् यत्नमास्थाय दुःखक्षयकरो भव ।तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ।। ५.३९.४।।।।
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।शिरसा ऽ ऽवन्द्य वैदेहीं गमनायोपचक्रमे ।। ५.३९.५।।।।
ज्ञत्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ।बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।। ५.३९.६।।।।
कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ।। ५.३९.७।।।।
सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वाररान् ।ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ।। ५.३९.८।।।।
यथा स च महाबाहुर्मां तारयति राघवः ।अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ५.३९.९।।।।
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् ।तत्तथा हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ।। ५.३९.१०।।।।
नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः ।वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ।। ५.३९.११।।।।
मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ।पराक्रमविधिं वीरो विधिवत् संविधास्यति ।। ५.३९.१२।।।।
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।शिरस्यञ्जलिमाधाय वाक्यमुत्तरब्रवीत् ।। ५.३९.१३।।।।
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। ५.३९.१४।।।।
नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतो ऽग्रतः ।। ५.३९.१५।।।।
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।सहि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ।। ५.३९.१६।।।।
स हि सागरपर्यन्तां महीं शासितुमीहते ।त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ।। ५.३९.१७।।।।
तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् ।जानकी बहुमेने ऽथ वचनं चेदमब्रवीत् ।। ५.३९.१८।।।।
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ।। ५.३९.१९।।।।
यदि वा मन्यसे वीर वसैकाहमरिन्दम ।कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। ५.३९.२०।।।।
मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर ।अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ।। ५.३९.२१।।।।
गते हि हरिशार्दूल पुनरागमनाय तु ।प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। ५.३९.२२।।।।
तवादर्शनजः शोको भूयो मां परितापयेत् ।दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।। ५.३९.२३।।।।
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। ५.३९.२४।।।।
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। ५.३९.२५।।।।
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। ५.३९.२६।।।।
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ।। ५.३९.२७।।।।
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ।। ५.३९.२८।।।।
बलैः समग्रैर्यदि मां रावणं जित्यसंयुगे ।विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम् ।। ५.३९.२९।।।।
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। ५.३९.३०।।।।
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवेदाहवशूरस्य तथा त्वमुपपादय ।। ५.३९.३१।।।।
तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ।निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ।। ५.३९.३२।।।।
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। ५.३९.३३।।।।
स वानरसहस्राणां कोटीभिरभिसंवृतः ।क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ।। ५.३९.३४।।।।
तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः ।मनस्सङ्कल्पसंपाता निदेशे हरयः स्थिताः ।। ५.३९.३५।।।।
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। ५.३९.३६।।।।
असकृत् तैर्महोत्साहैः ससागरधराधरा ।प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। ५.३९.३७।।।।
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। ५.३९.३८।।।।
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। ५.३९.३९।।।।
तदलं परितापेन देवि शोको व्यपैतु ते ।एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ।। ५.३९.४०।।।।
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ।। ५.३९.४१।।।।
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ।। ५.३९.४२।।।।
सगणं रावणं हत्वा राघवो रघुनन्दनः ।त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ।। ५.३९.४३।।।।
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तिमिवानलम् ।। ५.३९.४४।।।।
निहते राक्षसेन्द्रे ऽस्मिन् सपुत्रामात्यबान्धवे ।त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ।। ५.३९.४५।।।।
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात् ।। ५.३९.४६।।।।
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ।। ५.३९.४७।।।।
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्* ।। ५.३९.४८।।।।
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।वानरान् वारणेन्द्राभान् क्षिप्र द्रक्ष्यसि सङ्गतान् ।। ५.३९.४९।।।।
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ।। ५.३९.५०।।।।
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३९.५१।।।।
मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम् ।शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ।। ५.३९.५२।।।।
रामाद् विशिष्टः को ऽन्यो ऽस्ति कश्चित् सौमित्रिणा समः ।अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ।। ५.३९.५३।।।।
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषिते ऽतिरौद्रे ।न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ।। ५.३९.५४।।
श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ।उवाचात्महितं वाक्यं सीता सुरसुतोपमा ।। ५.४०.१।।।।
त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर ।अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ।। ५.४०.२।।।।
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः ।संस्पृशेयं सकामा ऽहं तथा कुरु दयां मयि ।। ५.४०.३।।।।
अभिज्ञानं च रामस्य दद्या हरिगणोत्तम ।क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ।। ५.४०.४।।।।
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।। ५.४०.५।।।।
स वीर्यवान् कथं सीतां हृतां समनुमन्यसे ।वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ।। ५.४०.६।।।।
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ।। ५.४०.७।।।।
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।अतः परं न शक्ष्यामि जीवितुं शोकलालसा ।। ५.४०.८।।।।
असह्यानि न दुःखानि वाचश्च हृदयच्छिदः ।राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ।। ५.४०.९।।।।
धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ।। ५.४०.१०।।।।
घोरो राक्षसराजो ऽयं दृष्टिश्च न सुखा मयि ।त्वां च श्रुत्वा विषज्जनं न जीवेयमहं क्षणम् ।। ५.४०.११।।।।
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।तथा ऽब्रवीन्महातेजा हनुमान् मारुतात्मजः ।। ५.४०.१२।।।।
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। ५.४०.१३।।।।
कथंचिद् भवती दृष्टा न कालः परिशोचितुम् ।इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यामि भामिनि ।। ५.४०.१४।।।।
तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ ।त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.४०.१५।।।।
हत्वा तु समरे क्रूरं रावणं सहबान्धवम् ।राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ।। ५.४०.१६।।।।
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ।। ५.४०.१७।।।।
सा ऽब्रवीद्दत्तमेवेति मया ऽभिज्ञानमुत्तमम् ।एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ।श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ।। ५.४०.१८।।।।
स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः ।प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।। ५.४०.१९।।।।
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् ।वर्धमानं महावेगमुवाच जनकात्मजा ।। ५.४०.२०।।।।
अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ।। ५.४०.२१।।।।
हनुमन् सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ ।सुग्रीवं च सहामात्वं सर्वान् ब्रूया ह्यनामयम् ।। ५.४०.२२।।।।
यथा च स महाबाहुर्मां तारयति राघवः ।अस्माद्दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ।। ५.४०.२३।।।।
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। ५.४०.२४।।।।
स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदिचीं मनसा जगाम ।। ५.४०.२५।।
स च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया ।तस्माद्देशादपक्रम्य चिन्तयामास वानरः ।। ५.४१.१।।।।
अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा ।त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ।। ५.४१.२।।।।
न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते ।न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ।। ५.४१.३।।।।
न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते ।हतप्रवीरा हि रणे राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ।। ५.४१.४।।।।
कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् ।पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ।। ५.४१.५।।।।
न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।यो ह्यर्थं बहुधा वेद स समर्थो ऽर्थसाधने ।। ५.४१.६।।।।
इहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम् ।परात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ।। ५.४१.७।।।।
कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह ।तथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः ।। ५.४१.८।।।।
ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम् ।हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वा ऽहमितः पुनर्व्रजे ।। ५.४१.९।।।।
इदमस्य नृशंसस्य नन्दनोपममुत्तमम् ।वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ।। ५.४१.१०।।।।
इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ।अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ।। ५.४१.११।।।।
ततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः ।त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ।। ५.४१.१२।।।।
अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः ।निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ।। ५.४१.१३।।।।
ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः ।उरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ।। ५.४१.१४।।।।
ततस्तु हनुमान् वीरो बभञ्च प्रमदावनम् ।मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ।। ५.४१.१५।।।।
तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ।चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ।। ५.४१.१६।।।।
नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः ।ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ।न बभौ तद्वनं तत्र दावानलहतं यथा ।। ५.४१.१७।।।।
व्याकुलावरणा रेजुर्विह्वला इव ता लताः ।। ५.४१.१८।। किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ।।।
लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः ।शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ।। ५.४१.१९।।।।
सा विह्वला ऽशोकलताप्रताना वनस्थली शोकलताप्रताना ।जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ।। ५.४१.२०।।।।
स तस्य कृत्वा ऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः ।युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ।। ५.४१.२१।।
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ।। ५.४२.१।।।।
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ।। ५.४२.२।।।।
ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ।। ५.४२.३।।।।
स ता दृष्ट्वा महाबाहूर्महासत्त्वो महाबलः ।चकार सुमहद्रूपं राक्षसीनां भयावहम् ।। ५.४२.४।।।।
ततस्तं गिरिसङ्काशमतिकायं महाबलम् ।राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ।। ५.४२.५।।।।
को ऽयं कस्य कुतो वा ऽयं किंनिमित्तमिहागतः ।कथं त्वया सहानेन संवादः कृत इत्युत ।। ५.४२.६।।।।
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।संवादमसितापाङ्गे त्वया किं कृतवानयम् ।। ५.४२.७।।।।
अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी ।रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ।। ५.४२.८।।।।
यूयमेवाभिजानीत यो ऽयं यद्वा करिष्यति ।अहिरेव ह्यहेः पादान् विजानाति न संशयः ।। ५.४२.९।।।।
अहमप्यस्य भीता ऽस्मि नैनं जानामि कोन्वयम् ।वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ।। ५.४२.१०।।।।
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः ।स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ।। ५.४२.११।।।।
रावणस्य समीपे तु राक्षस्यो विकृताननाः ।विरूपं वानरं भीममाख्यातुमुपचक्रमुः ।। ५.४२.१२।।।।
अशोकवनिकामध्ये राजन् भीमवपुः कपिः ।सीतया कृतसंवादस्तदिष्ठत्यमितविक्रमः ।। ५.४२.१३।।।।
न च तं जानकी सीता हरिं हरिणलोचना ।अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छिति ।। ५.४२.१४।।।।
वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।प्रेषितो वा ऽपि रामेण सीतान्वेषणकाङ्क्षया ।। ५.४२.१५।।।।
तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ।। ५.४२.१६।।।।
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।यत्र सा जानकी सीता स तेन न विनाशितः ।। ५.४२.१७।।।।
जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ।। ५.४२.१८।।।।
चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ।प्रवृद्धः शिंशुपावृक्षः स च तेनाभिरक्षितः ।। ५.४२.१९।।।।
तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि ।सीता संभाषिता येन तद्वनं च विनाशितम् ।। ५.४२.२०।।।।
मनःपरिगृहीतां तां तव रक्षोगणेश्वर ।कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ।। ५.४२.२१।।।।
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ।हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ।। ५.४२.२२।।।।
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः ।दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ।। ५.४२.२३।।।।
आत्मनः सदृशाञ्छूरान् किङ्करान्नाम राक्षसान् ।व्यादिदेश महातेजा निग्रहार्थं हनूमतः ।। ५.४२.२४।।।।
तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ।। ५.४२.२५।।।।
निर्ययुर्भवनात् तस्मात्कूटमुद्गरपाणयः ।महोदरा महादंष्ट्रा घोररूपा महाबलाः ।युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ।। ५.४२.२६।।।।
ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् ।अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ।। ५.४२.२७।।।।
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ।। ५.४२.२८।।।।
मुद्गरैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः ।परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ।। ५.४२.२९।।।।
हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभिः ।क्षितावाविध्य लांगूलं ननाद च महास्वनम् ।। ५.४२.३०।।।।
स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः ।धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।। ५.४२.३१।।।।
तस्यास्फोटितशब्देन महता सानुनादिना ।पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ।। ५.४२.३२।।।।
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.४२.३३।।।।
दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। ५.४२.३४।।।।
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। ५.४२.३५।।।।
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। ५.४२.३६।।।।
तस्य सन्नादशब्देन ते ऽभवन् भयशङ्किताः ।ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ।। ५.४२.३७।।।।
स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् ।चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।। ५.४२.३८।।।।
स तैः परिवृतः शूरैः सर्वतः स महाबलः ।आससादायसं भीमं परिघं तोरणाश्रितम्।स तं परिघमादय जघान रजनीचरान् ।। ५.४२.३९।।।।
स पन्नगमिवादाय स्फुरन्तं विनतासुतः ।विचचाराम्बरे वीरः परिगृह्य च मारुतिः ।। ५.४२.४०।।।।
स हत्वा राक्षसान् वीरान् किङ्करान् मारुतात्मजः ।युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ।। ५.४२.४१।।।।
ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ।। ५.४२.४२।।।।
स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः ।समादिदेशाप्रतिमं पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम् ।। ५.४२.४३।।
वनं भग्नं मया चैत्यप्रसादो न विनाशितः ।तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम् ।इति ऽञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम् ।। ५.४३.२।।।।
चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् ।आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः ।। ५.४३.३।।।।
आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः ।बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ।। ५.४३.४।।।।
संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम् ।हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमो ऽभवत् ।। ५.४३.५।।।।
स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः ।धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।। ५.४३.६।।।।
तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ।। ५.४३.७।।।।
अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.४३.८।।।।
दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। ५.४३.९।।।।
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। ५.४३.१०।।।।
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। ५.४३.११।।।।
एमुक्त्वा विमानस्थश्चैत्यस्थान् हरियूथपः ।ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ।।। ५.४३.१२।।।।
तेन शब्देन महता चैत्यपालाः शतं ययुः ।गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ।विसृजन्तो महाकाया मारुतिं प्रर्यवारयन् ।। ५.४३.१३।।।।
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ।। ५.४३.१४।।।।
आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ।परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ।। ५.४३.१५।।।।
ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ।। ५.४३.१६।।।।
प्रासादस्य महान्तस्य स्तम्भं हेमपरिष्कृतम् ।उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः ।ततस्तं भ्रामयामास शताधारं महाबलः ।। ५.४३.१७।।।।
तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ।। ५.४३.१८।।टयित्वा वेगेन हनुमान् पवनात्मजः ।।।
दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः ।स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ।अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ।। ५.४३.१९।।।।
मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ।बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।। ५.४३.२०।।।।
अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।। ५.४३.२१।।।।
दशनागबलाः केचित् केचिद्दशगुणोत्तराः ।केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। ५.४३.२२।।।।
सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः ।अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ।। ५.४३.२३।।।।
ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ।शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ।आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ।। ५.४३.२४।।।।
नेयमस्ति पुरी लङ्का न यूयं न च रावणः ।यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ।। ५.४३.२५।।
सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ।। ५.४४.१।।।।
रक्तमाल्याम्बरधरः स्रग्वी रुचिरगुण्डलः ।महान् विवृत्तनयनश्चण्डः समरदुर्जयः ।। ५.४४.२।।।।
धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् ।विस्फारयानो वेगेन वज्राशनिसमस्वनम् ।। ५.४४.३।।।।
तस्य विस्फारघोषेण धनुषो महता दिशः ।प्रदिशश्च नभश्चैव सहसा समपूर्यत ।। ५.४४.४।।।।
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।हनुमान् वेगसम्पन्नौ जहर्ष च ननाद च ।। ५.४४.५।।।।
तं तोरणविटङ्कस्थं हनुमन्तं महाकिपम् ।जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ।। ५.४४.६।।।।
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ।। ५.४४.७।।।।
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ।। ५.४४.८।।।।
तत्तस्य रक्तं रक्तेन ऽञ्जितं शुशुभे मुखम् ।यथा ऽ ऽकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ।। ५.४४.९।।।।
चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।। ५.४४.१०।।।।
ततः पार्श्वे ऽतिविपुला ददर्श महतीं शिलाम् ।तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ।। ५.४४.११।।।।
विपन्नं कर्म तद् दृष्ट्वा हनुमांश्चण्डविक्रमः ।सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ।। ५.४४.१२।।।।
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ।। ५.४४.१३।।।।
सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ।उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ।। ५.४४.१४।।।।
स शरैः पूरिततनुः क्रोधेन महता वृतः ।तमेव परिघं गृह्य भ्रामयामास वेगतः ।। ५.४४.१५।।।।
अतिवेगो ऽतिवेगेन भ्रामयित्वा बलोत्कटः ।परिघं पातयामास जम्बुमालेर्महोरसि ।। ५.४४.१६।।।।
तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ।। ५.४४.१७।।।।
स हतस्तरसा तेन जम्बुमाली महाबलः ।पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ।। ५.४४.१८।।।।
जम्बुमालिं च निहतं किङ्करांश्च महाबलान् ।चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ।। ५.४४.१९।।।।
स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले ।अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ।। ५.४४.२०।।
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। ५.४५.१।।।।
महाबलपरीवारा धनुष्मन्तो महाबलाः ।कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।। ५.४५.२।।।।
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ।तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ।। ५.४५.३।।।।
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ।विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः ।। ५.४५.४।।।।
जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान् ।बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ।। ५.४५.५।।।।
ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः ।अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ।। ५.४५.६।।।।
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ।वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ।। ५.४५.७।।।।
अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः ।अभवत् संवृताकारः शैलराडिव वृष्टिभिः ।। ५.४५.८।।।।
स शरान् मोघयामास तेषामाशुचरः कपिः ।रथवेगं च वीराणां विचरन् विमले ऽम्बरे ।। ५.४५.९।।।।
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ।। ५.४५.१०।।।।
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ।। ५.४५.११।।।।
तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः ।मुष्टिना ऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ।। ५.४५.१२।।।।
प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः ।केचित्तस्य निनादेन तत्रैव पतिता भुवि ।। ५.४५.१३।।।।
ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च ।तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् ।। ५.४५.१४।।।।
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णा ऽभवद्रथैः ।। ५.४५.१५।।।।
स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि ।विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ।। ५.४५.१६।।।।
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः ।युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरो ऽभिजगाम तोरणम् ।। ५.४५.१७।।
हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना ।रावणः संवृताकारश्चकार मतिमुत्तमाम् ।। ५.४६.१।।।।
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।प्रघसं भारकर्णं च पञ्च सेनाग्रनायकान् ।। ५.४६.२।।।।
सन्दिदेश दशग्रीवो वीरान्नयविशारदान् ।हनुमद्ग्रहणव्यग्रान् वायुवेगसमान् युधि ।। ५.४६.३।।।।
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।सवाजिरथमातङ्गाः स कपिः शास्यतामिति ।। ५.४६.४।।।।
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ।कर्म चापि समाधेयं देशकालविरोधिनम् ।। ५.४६.५।।।।
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ।। ५.४६.६।।।।
सनागयक्षगन्धर्वा देवासुरमहर्षयः ।युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ।। ५.४६.७।।।।
तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ।तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् ।। ५.४६.८।।।।
नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः ।दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः ।। ५.४६.९।।।।
वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ।नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ।। ५.४६.१०।।।।
नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ।न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ।। ५.४६.११।।।।
महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ।प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ।। ५.४६.१२।।।।
कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ।भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ।। ५.४६.१३।।।।
तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ।आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।। ५.४६.१४।।।।
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।समुत्पेतुर्महावेगा हुताशसमतेजसः ।। ५.४६.१५।।।।
रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः ।श्स्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ।। ५.४६.१६।।।।
ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ।रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ।। ५.४६.१७।।।।
तोरणस्थं महोत्साहं महासत्त्वं महाबलम् ।महामतिं महावेगं महाकायं महाबलम् ।। ५.४६.१८।।।।
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ।तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।। ५.४६.१९।।।।
तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः ।शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ।। ५.४६.२०।।।।
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ।उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ।। ५.४६.२१।।।।
ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः ।किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः ।। ५.४६.२२।।।।
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ।वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ।। ५.४६.२३।।।।
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ।चकार कदनं भूयो व्यवर्धत च वेगवान् ।। ५.४६.२४।।।।
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।निपपात महवेगो विद्युद्राशिर्गिराविव ।। ५.४६.२५।।।।
ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ।विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ।। ५.४६.२६।।।।
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ।सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ।। ५.४६.२७।।।।
स ताभ्यां सहसोत्पत्य विष्ठितो विमले ऽम्बरे ।मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ।। ५.४६.२८।।।।
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ।निपपात पुनर्भूमौ सुपर्णसमविक्रमः ।। ५.४६.२९।।।।
स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ।तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ।। ५.४६.३०।।।।
ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ।अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ।। ५.४६.३१।।।।
भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ।एकतः कपिशार्दूलं यशस्विनमवस्थितम् ।। ५.४६.३२।।।।
पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत् ।भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ।। ५.४६.३३।।।।
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ।अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ।। ५.४६.३४।।।।
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः ।। ५.४६.३५।।।।
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ।बलं तदवशेषं च नाशयास वानरः ।। ५.४६.३६।।।।
अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान् ।स कपिर्नाशयामास सहस्राक्ष इवासुरान् ।। ५.४६.३७।।।।
हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ।हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ।। ५.४६.३८।।।।
ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान् ।समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ।। ५.४६.३९।।
सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान् ।समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ।। ५.४७.१।।।।
स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः ।समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ।। ५.४७.२।।।।
ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् ।रतं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः ।। ५.४७.३।।।।
तपस्सङ्ग्रहसञ्चयार्जितं तपोनुष्ठनसमूहसम्पादितम् ।। ५.४७.४।।।।
सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् ।सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ।। ५.४७.५।।।।
विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा ।दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ।। ५.४७.६।।।।
स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः ।बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत् कपिम् ।। ५.४७.७।।।।
स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये ।अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा ।। ५.४७.८।।।।
स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ।विधारयन् स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ।। ५.४७.९।।।।
स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्निवारणम् ।समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ।। ५.४७.१०।।।।
ततः कपिः तं प्रसमीभ्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ।अवैक्षताक्षः समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः ।। ५.४७.११।।।।
स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम् ।तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः ।। ५.४७.१२।।।।
ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः ।कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ।। ५.४७.१३।।।।
ततः स वीरः सुमुखात् पतत्त्रिणः सुवर्णपुङ्खान् सविषानिवोरगान् ।समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन् कपिमूर्ध्न्यपातयत् ।। ५.४७.१४।।।।
स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः ।नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः ।। ५.४७.१५।।।।
ततः स पिङ्गाधिपमन्त्रसत्तमः समीक्ष्य तं राजवरात्मजं रणे ।उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ।। ५.४७.१६।।।।
स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः ।कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ।। ५.४७.१७।।।।
ततः स बाणासनचित्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः ।शरान् मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे ।। ५.४७.१८।।।।
ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम् ।कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः ।। ५.४७.१९।।।।
स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ।समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः ।। ५.४७.२०।।।।
स तेन बाणैः प्रसभं निपातितैश्कार नादं घननादनिस्वनः ।समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः ।। ५.४७.२१।।।।
समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् ।रथी रथिश्रेष्ठतमः किरन् शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ।। ५.४७.२२।।।।
स तान् शरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते ।शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः ।। ५.४७.२३।।।।
तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैः शरोत्तमैः ।अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः ।। ५.४७.२४।।।।
ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन् ।महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम् ।। ५.४७.२५।।।।
अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ।न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ।। ५.४७.२६।।।।
अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे ।असंशयं कर्मगुणोदयादयं सनागयक्षेर्मुनिभिश्च पूजितः ।। ५.४७.२७।।।।
पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः ।पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः ।। ५.४७.२८।।।।
न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ।प्रमापणं त्वेव ममास्य रोचते न वर्धमानो ऽग्निरुपेक्षितुं क्षमः ।। ५.४७.२९।।।।
इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् ।चकार वेगं तु महाबलस्तदा मतिं च चक्रे ऽस्य वधे महाकपिः ।। ५.४७.३०।।।।
स तस्य तानष्ट हयान् महाजवान् समाहितान् भारसहान् विवर्तने ।जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः ।। ५.४७.३१।।।।
ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः ।प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ।। ५.४७.३२।।।।
स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन् ।तपोभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम् ।। ५.४७.३३।।।।
ततः कपिस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते ।समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम् ।। ५.४७.३४।।।।
स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः ।मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ।। ५.४७.३५।।।।
स भग्नबाहूरुकटीशिरोधरः क्षसन्नसृङ्निर्मथितास्थिलोचनः ।स भग्रसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ।महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् ।। ५.४७.३६।।।।
महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः ।सुरैश्च सैन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः ।। ५.४७.३७।।।।
निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् ।तमेव वीरो ऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ।। ५.४७.३८।।
ततः स रक्षोधिपतिर्महात्मा हनूमता ऽक्षे निहते कुमारे ।मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ।। ५.४८.१।।।।
त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता ।सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनऽञ्चितास्त्रः ।। ५.४८.२।।।।
तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः ।न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ।। ५.४८.३।।।।
न कश्चित् त्रिषु लोकेषु संयुगे नगतश्रमः ।भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ।देशकालविभागज्ञस्त्वमेव मतिसत्तमः ।। ५.४८.४।।।।
न ते ऽस्त्यशक्यं समरेषु कर्मणा न ते ऽस्त्यकार्यं मतिपूर्वमन्त्रणे ।न सो ऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्ते ऽस्त्रबलं बलं च ते ।। ५.४८.५।।।।
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे ।न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ।। ५.४८.६।।।।
निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः ।अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ।। ५.४८.७।।।।
बलानि सुसमृद्धानि साश्वनागरथानि च ।सहोदरस्ते दयितः कुमारो ऽक्षश्च सूदितः ।। ५.४८.८।।।।
न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ।। ५.४८.९।।।।
इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च ।त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ।। ५.४८.१०।।।।
बलावमर्दस्त्वयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ ।तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ।। ५.४८.११।।।।
न वीर सेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् ।न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम् ।। ५.४८.१२।।।।
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा ।स्मरंश्च दिव्यं धनुषो ऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व ।। ५.४८.१३।।।।
न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् ।इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ।। ५.४८.१४।।।।
नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम् ।अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ।। ५.४८.१५।।।।
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ।। ५.४८.१६।।।।
ततस्तैः स्वगणैरिष्टैरिन्द्रजत् प्रतिपूजितः ।युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यद्यत ।। ५.४८.१७।।।।
श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ।निर्जगाम महातेजाः समुद्र इव पर्वसु ।। ५.४८.१८।।।।
स पक्षिराजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः ।रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ।। ५.४८.१९।।।।
स रथी धन्विनीं श्रेष्ठः शस्त्रज्ञो ऽस्त्रविदां वरः ।रथेनाभिययौ क्षिप्रं हनूमान् यत्र सो ऽभवत् ।। ५.४८.२०।।।।
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ।निशम्य हरिवीरो ऽसौ संप्रहृष्टतरो ऽभवत् ।। ५.४८.२१।।।।
सुमहच्चापमादाय शितशल्यांश्च सायकान् ।हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ।। ५.४८.२२।।।।
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ।दिशश्च सर्वाः बभूवर्मृगाश्च रौद्रा बहुधा विनेदुः ।। ५.४८.२३।।।।
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः ।नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः ।। ५.४८.२४।।।।
आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ।विननाद महानादं व्यवर्धत च वेगवान् ।। ५.४८.२५।।।।
इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ।धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ।। ५.४८.२६।।।।
ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ ।कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ।। ५.४८.२७।।।।
स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य ।शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेये ।। ५.४८.२८।।।।
ततः शरानायतीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् ।मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान् ।। ५.४८.२९।।।।
ततस्तु तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च ।विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ।। ५.४८.३०।।।।
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः ।हरिस्तस्याभिलक्ष्यस्य मोघयँल्लक्ष्यसंग्रहम् ।। ५.४८.३१।।।।
शराणआमग्रतस्तस्य पुनः समभिवर्तत ।प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ।। ५.४८.३२।।।।
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ ।सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ।। ५.४८.३३।।।।
हनूमतो वेद न राक्षसो ऽन्तरं न मारुतिस्तस्य महात्मनो ऽन्तरम् ।परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ।। ५.४८.३४।।।।
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु ।जागम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ।। ५.४८.३५।।।।
ततो मतिं राक्षसराजसूनुश्चकार तस्मिन् हरिवीरमुख्ये ।अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ।। ५.४८.३६।।।।
ततः पैतामहं वीरः सो ऽस्त्रमस्त्रविदां वरः ।सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति ।। ५.४८.३७।।।।
अवध्यो ऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ।। ५.४८.३८।।।।
तेन बद्धस्ततो ऽस्त्रेण राक्षसेन स वानरः ।अभवन्निर्विचेष्टश्च पपात च महीतले ।। ५.४८.३९।।।।
ततो ऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगतात्मवेगः ।पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ।। ५.४८.४०।।।।
ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् ।हनूमांश्चिन्तयामास वरदानं पितामहात् ।। ५.४८.४१।।।।
न मे ऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् ।इत्येव मत्वा विहितो ऽस्त्रबन्धो मया ऽ ऽत्मयोनेरनुवर्तितव्यः ।। ५.४८.४२।।।।
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च ।विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ।। ५.४८.४३।।।।
अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ।। ५.४८.४४।।।।
ग्रहणे चापि रक्षोभिर्महान् मे गुणदर्शनः ।राक्षसेन्द्रेण संवादस्तस्मादगृह्णन्तु मां परे ।। ५.४८.४५।।।।
स निश्चितार्थः परिवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः ।परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ।। ५.४८.४६।।।।
ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् ।बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ।। ५.४८.४७।।।।
स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च ।कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्ठुं व्यवस्येदिति निश्चितार्थः ।। ५.४८.४८।।।।
स बद्धस्तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान् ।अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ।। ५.४८.४९।।।।
अथेन्द्रजित्तुद्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् ।विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्तते ऽस्त्रम् ।। ५.४८.५०।।।।
अहो महत् कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा ।पुनश्च नास्त्रे विहते ऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे ।। ५.४८.५१।।।।
अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यत ।कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धेर्निपीडितः ।। ५.४८.५२।।।।
हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ।समीपं राक्षसेन्द्रस्य प्रकृष्यत स वानरः ।। ५.४८.५३।।।।
अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः ।व्यदर्शयत्तत्र महाबलं हरिप्रवीरं सगणाय राज्ञे ।। ५.४८.५४।।।।
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ।राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।। ५.४८.५५।।।।
को ऽयं कस्य कुतो वा ऽत्र किं कार्यं को व्यपाश्रयः ।इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ।। ५.४८.५६।।।।
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ।। ५.४८.५७।।।।
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले ।ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ।। ५.४८.५८।।।।
स ददर्श महातेजा रावणः कपिसत्तमम् ।रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ।। ५.४८.५९।।।।
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ।तेजोबलसमायुक्तं तपन्तमिव भास्करम् ।। ५.४८.६०।।।।
स रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य ।अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान् ।। ५.४८.६१।।।।
यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ ।निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतो ऽस्मि ।। ५.४८.६२।।
ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ।हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ।। ५.४९.१।।।।
भ्राजमानं महार्हेण काञ्चनेन विराजता ।मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ।। ५.४९.२।।।।
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः ।हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ।। ५.४९.३।।।।
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् ।स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ।। ५.४९.४।।।।
विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः ।दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ।। ५.४९.५।।।।
शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् ।नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ।। ५.४९.६।।।।
नीलाञ्जनचयप्रख्यं हारेणोरसि राजता ।पूर्णचन्द्राभवक्रेण सबलाकमिवाम्बुदम् ।। ५.४९.७।।।।
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः ।भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षौरिवोरगैः ।। ५.४९.८।।।।
महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते ।उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ।। ५.४९.९।।।।
अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ।वालव्यजनहस्ताभिरारात् समुपसेवितम् ।। ५.४९.१०।।।।
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा ।मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ।। ५.४९.११।।।।
सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः ।कृत्स्न परिवृतं लोकं चतुर्भिरिव सागरैः ।। ५.४९.१२।।।।
सचिवैर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः ।अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम् ।। ५.४९.१३।।।।
अपश्यद्राक्षसपतिं हनुमानतितेजसम् ।विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ।। ५.४९.१४।।।।
स तैः संपीड्यमानो ऽपि रक्षोभिर्भीमविक्रमैः ।विस्मयं परमं गत्वा रक्षोधिपमवैक्षत ।। ५.४९.१५।।।।
भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् ।मनसा चिन्तयामास तेजसा तस्य मोहितः ।। ५.४९.१६।।।।
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ।अहो राक्षसराजस्य सर्वलक्षणयुक्तता ।। ५.४९.१७।।।।
यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः ।स्यादय सुरलोकस्य सशक्रस्यापि रक्षिता ।। ५.४९.१८।।।।
अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः ।तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ।। ५.४९.१९।।।।
अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ।इति चिन्तां बहुविधामकरोन्मतिमान् हरिः ।दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ।। ५.४९.२०।।
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।कोपेन महता ऽ ऽविष्टो रावणो लोकरावणः ।। ५.५०.१।।।।
शङ्काहतात्मा दध्यौ स कपान्द्रं तेजसावृतम् ।किमेष भगवान्नन्दी भवेत् साक्षादिहागतः ।। ५.५०.२।।।।
येन शप्तो ऽस्मि कैलासे मया सञ्चालिते पुरा ।सो ऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि वा ऽसुरः ।। ५.५०.३।।।।
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।कालयुक्तमुवाजेदं वचो विपुलमर्थवत् ।। ५.५०.४।।।।
दुरात्मा पृच्छ्यतामेष कुतः किं वा ऽस्य कारणम् ।वनभङ्गे च को ऽस्यार्थो राक्षसीनां च तर्जने ।। ५.५०.५।।।।
मत्पुरीमप्रधृष्यां वा ऽ ऽगमने किं प्रयोजनम् ।आयोधने वा किं कार्यं त्वया कपे ।। ५.५०.६।।।।
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ।। ५.५०.७।।।।
यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् ।तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ।। ५.५०.८।।।।
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ।विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ।। ५.५०.९।।।।
न हि ते वानरं तेजो रूपमात्रं तु वानरम् ।। ५.५०.१०।।।।
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ।अनृतं वदतश्चापि दुर्लभं तव जीवितम् ।अथवा यन्निमित्तं ते प्रवेशो रावणालये ।। ५.५०.११।।।।
एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् ।। ५.५०.१२।।।।
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ।धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ।। ५.५०.१३।।।।
जातिरेव मम त्वेषा वानरो ऽहमिहागतः ।दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ।। ५.५०.१४।।।।
वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ।ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ।। ५.५०.१५।।।।
रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ।अस्त्रपाशैर्न शक्यो ऽहं बद्धुं देवासुरैरपि ।। ५.५०.१६।।।।
पितामहादेव वरो ममाप्येषो ऽभ्युपागतः ।राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ।। ५.५०.१७।।।।
विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः ।केनचिद्राजकार्येण संप्राप्तो ऽस्मि तवान्तिकम् ।। ५.५०.१८।।।।
दूतो ऽहमिति विज्ञेयो राघवस्यामितौजसः ।श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ।। ५.५०.१९।।
तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ।वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ।। ५.५१.१।।।।
अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् ।राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ।। ५.५१.२।।।।
भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ।धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ।। ५.५१.३।।।।
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ।। ५.५१.४।।।।
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ।पितुर्निर्देशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ।। ५.५१.५।।।।
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ।रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ।। ५.५१.६।।।।
तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ।। ५.५१.७।।।।
स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ।ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ।। ५.५१.८।।।।
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ।। ५.५१.९।।।।
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ।। ५.५१.१०।।।।
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ।। ५.५१.११।।।।
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः ।हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः ।। ५.५१.१२।।।।
तां हरीणां सहस्राणि शतानि नियुतानि च ।दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ।। ५.५१.१३।।।।
वैनतेयसमाः केचित् केचित्तत्रानिलोपमाः ।असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ।। ५.५१.१४।।।।
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।। ५.५१.१५।।।।
समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ।भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ।। ५.५१.१६।।।।
तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः ।परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ।। ५.५१.१७।।।।
न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।। ५.५१.१८।।।।
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ।। ५.५१.१९।।।।
न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन ।राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ।। ५.५१.२०।।।।
तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च ।मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ।। ५.५१.२१।।।।
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ।। ५.५१.२२।।।।
लक्षितेयं मया सीता तथा शोकपायणा ।गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ।। ५.५१.२३।।।।
नेयं जरयितुं शक्या सासुरैरमरैरपि ।विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ।। ५.५१.२४।।।।
तपस्सन्तापलब्धस्ते यो ऽय धर्मपरिग्रहः ।न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ।।। ५.५१.२५।।।।
अवध्यतां तपो ऽभिर्यां भवान् समनुपश्यति ।आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ।। ५.५१.२६।।।।
सुग्रीवो न हि देवो ऽयं नासुरो न च राक्षसः ।न दानवो न गन्धर्वो न यक्षो न च पन्नगः ।तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ।। ५.५१.२७।।।।
न तु धर्मोपसंहारमधर्मफलसंहितम् ।तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ।। ५.५१.२८।।।।
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ।फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ।। ५.५१.२९।।।।
जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ।रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ।। ५.५१.३०।।।।
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ।। ५.५१.३१।।।।
रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ।उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ।। ५.५१.३२।।।।
अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः ।न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ।। ५.५१.३३।।।।
यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ।कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ।। ५.५१.३४।।।।
तदलं कालपाशेन सीताविग्रहरूपिणा ।स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ।। ५.५१.३५।।।।
सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ।दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ।। ५.५१.३६।।।।
स्वानि मित्राणि मन्त्रीश्च ज्ञातीन् भ्रातऽन् सुतान् हितान् ।भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ।। ५.५१.३७।।।।
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ।रामदासस्य दृतस्य वानरस्य विशेषतः ।। ५.५१.३८।।।।
सर्वान्लोकान् सुसंहृत्य सभूतान् सचराचरान् ।पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ।। ५.५१.३९।।।।
देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च ।विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च ।। ५.५१.४०।।।।
सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु च सर्वतः ।। ५.५१.४१।।।।
सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः ।यो रामं प्रतियुद्ध्येत विष्णुतुल्यपराक्रमम् ।। ५.५१.४२।।।।
सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् ।रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ।। ५.५१.४३।।।।
देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः ।रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ।। ५.५१.४४।।।।
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ।इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ।। ५.५१.४५।।।।
स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमो ऽप्रियं वचः ।दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः ।। ५.५१.४६।।
तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ।आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ।। ५.५२.१।।।।
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ।निवेदितवतो दौत्यं नानुमेने विभीषणः ।। ५.५२.२।।।।
तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् ।विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ।। ५.५२.३।।।।
निश्चितार्थस्ततः साम्ना ऽ ऽपूज्य शत्रुजिदग्रजम् ।उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ।। ५.५२.४।।।।
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व ।वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ।। ५.५२.५।।।।
राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ।तव चासदृशं वीर कपेरस्य प्रमापणम् ।। ५.५२.६।।।।
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः ।परावरज्ञो भूतानां त्वमेव परमार्थवित् ।। ५.५२.७।।।।
गृह्यन्ते यदि रोषेण त्वादृशो ऽपि विपश्चितः ।ततः शास्त्रधर्मविपश्चित्त्वं श्रम एव हि केवलम् ।। ५.५२.८।।।।
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद ।युक्तायुक्तं विनिश्चित्य दूतदण्डे विधीयताम् ।। ५.५२.९।।।।
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ।। ५.५२.१०।।।।
न पापानां वधे पापं विद्यते शत्रुसूदन ।तस्मादेनं वधिष्यामि वानरं पापचारिणम् ।। ५.५२.११।।।।
अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य ।उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ।। ५.५२.१२।।।।
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व ।दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः ।। ५.५२.१३।।।।
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् ।न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ।। ५.५२.१४।।।।
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं(ढ्यं) तथा लक्षणसन्निपातः ।एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतो ऽपि ।। ५.५२.१५।।।।
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः ।भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः ।। ५.५२.१६।।।।
न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि ।विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ।। ५.५२.१७।।।।
न चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहं गुणम् ।तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ।। ५.५२.१८।।।।
साधुर्वा यदिवा ऽसाधुः परैरेष समर्पितः ।ब्रुवन् परार्थं परवान् न दूतो वधमर्हति ।। ५.५२.१९।।।।
अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् ।इह यः पुनरागच्छेत् परं पारं महोदधेः ।। ५.५२.२०।।।।
तस्मान्नास्य वदे यत्नः कार्यः परपुरञ्जय ।भवान् सेन्द्रेषु देवेषु यत्नमास्तातुमर्हति ।। ५.५२.२१।।।।
अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ ।युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ।। ५.५२.२२।।।।
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन ।त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं न युक्ता ।। ५.५२.२३।।।।
हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु ।मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ।। ५.५२.२४।।।।
तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतो ऽभियान्तु ।तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ।। ५.५२.२५।।।।
निशाचराणामधिपो ऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् ।जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः ।। ५.५२.२६।।
तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ।देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ।। 5.53.1।।।।
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।। 5.53.2।।।।
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।। 5.53.3।।।।
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ।। 5.53.4।।।।
आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ।। 5.53.5।।।।
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ।। 5.53.6।।।।
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ।तैलेन परिषिच्याथ ते ऽग्निं तत्राभ्यपातयन् ।। 5.53.7।।।।
लाङूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।रोषामर्षपरीतात्मा बालसूर्यसमाननः ।। 5.53.8।।।।
लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः ।सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ।। 5.53.9।।।।
स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः ।निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ।। 5.53.10।।।।
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ।छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ।। 5.53.11।।।।
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् ।बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ।। 5.53.12।।।।
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ।किं तु रामस्य प्रीत्यर्थं विषहिष्ये ऽहमीदृशम् ।। 5.53.13।।।।
लङ्का चारयितव्या वै पुनरेव भवेदिति ।रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।। 5.53.14।।।।
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ।। 5.53.15।।।।
कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।पीडां कुर्वन्तु रक्षांसि न मे ऽस्ति मनसः श्रमः ।। 5.53.16।।।।
ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ।। 5.53.17।।।।
शङ्खभेरीनिनादैस्तं घोयषयन्तः स्वकर्मभिः ।राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ।। 5.53.18।।।।
अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः ।हनुमांश्चारयामास राक्षसानां महापुरीम् ।। 5.53.19।।।।
अथापश्यद्विमानानि विचित्राणि महाकपिः ।संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ।। 5.53.20।।।।
वीथीश्च गृहसंबाधाः कपिः श्रृङ्गाटकानि च ।तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ।गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ।। 5.53.21।।।।
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ।। 5.53.22।।।।
स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ।तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ।। 5.53.23।।।।
दीप्यमाने ततस्तस्य लांगूलाग्रे हनूमतः ।राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ।। 5.53.24।।।।
यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।। 5.53.25।।।।
श्रत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।वैदेही शोकसन्तप्ता हुताशनमुपागमत् ।। 5.53.26।।।।
मङ्गलाभिमुखी तस्य सा तदा ऽ ऽसीन्महाकपेः ।उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।। 5.53.27।।।।
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ।। 5.53.28।।।।
यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः ।यदि वा भाग्यशेषो मे शीतो भव हनूमतः ।। 5.53.29।।।।
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ।स विजानाति धर्मात्मा शीतो भव हनूमतः ।। 5.53.30।।।।
यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः ।अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ।। 5.53.31।।।।
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखो ऽनलः ।जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ।। 5.53.32।।।।
हनुमज्जनकश्चापि पुच्छानलयुतो ऽनिलः ।ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।। 5.53.33।।।।
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ।। 5.53.34।।।।
प्रदीप्तो ऽग्निरयं कस्मान्न मां दहति सर्वतः ।दृश्यते च महाज्वालः करोति न च मे रुजम् ।शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ।। 5.53.35।।।।
अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया ।रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ।। 5.53.36।।।।
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः ।रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ।। 5.53.37।।।।
सीतायाश्चानृशंस्येन तेजसा राघवस्य च ।पितुश्च मम सख्येन न मां दहति पावकः ।। 5.53.38।।।।
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।। 5.53.39।।।।
उत्पपाताथ वेगेन ननाद च महाकपिः ।पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ।।।।
विभक्तरक्षस्सम्बाधमाससादानिलात्मजः ।। 5.53.40।।।।
स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ।ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।। 5.53.41।।।।
विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसन्निभः ।वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ।। 5.53.42।।।।
स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ।रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ।। 5.53.43।।।।
स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् ।प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ।। 5.53.44।।
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ।वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ।। 5.54.1 ।।।।
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् ।यदेषां रक्षसां भूयः सन्तापजननं भवेत् ।। 5.54.2 ।।।।
वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः ।बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ।। 5.54.3 ।।।।
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् ।अल्पयत्नेन कार्ये ऽस्मिन् मम स्यात् सफलः श्रमः ।। 5.54.4 ।।।।
यो ह्ययं मम लांगूले दीप्यते हव्यवाहनः ।अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ।। 5.54.5 ।।।।
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः ।भवनाग्रेषु लङ्काया विचचार महाकपिः ।। 5.54.6 ।।।।
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः ।वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ।। 5.54.7 ।।।।
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ।। 5.54.8 ।।।।
ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।मुमोच हनुमानग्निं कालानलशिखोपमम् ।। 5.54.9 ।।।।
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ।शुकस्य च महातेजाः सारणस्य च धीमतः ।तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ।। 5.54.10 ।।।।
जम्बुमालेः सुमालेश्च ददाह भवनं ततः ।। 5.54.11
।।्य च महातेजाः सारणस्य च धीमतः ।रश्मिमकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ।। 5.54.12 ।।।।
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः ।विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ।। 5.54.13 ।।।।
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ।। 5.54.14 ।।।।
यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च ।नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ।। 5.54.15 ।।।।
वर्जयित्वा महातेजा विभीषणगृहं प्रति ।क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ।। 5.54.16 ।।।।
तेषु तेषु महार्हेषु भवनेषु महायशाः ।गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ।। 5.54.17 ।।।।
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् ।आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ।। 5.54.18 ।।।।
ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते ।मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ।। 5.54.19 ।।।।
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् ।ननाद हनुमान् वीरो युगान्तजलदो यथा ।। 5.54.20 ।।।।
श्वसनेन च संयोगादतिवेगो महाबलः ।कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ।। 5.54.21 ।।।।
प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् ।अभूच्छ्वसनसंयोगादतिवेगो हुताशनः ।। 5.54.22 ।।।।
तानि काञ्चनजालानि मुक्तामणिमयानि च ।भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ।। 5.54.23 ।।।।
तानि भग्नविमानानि निपेतुर्वसुधातले ।भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये ।। 5.54.24 ।।।।
संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् ।स्वगृहस्य परित्राणे भग्नोत्साहगतश्रियाम् ।नूनमेषो ऽग्निरायातः कपिरूपेण हा इति ।। 5.54.25 ।।।।
क्रन्दन्त्यः सहसा पेतुः स्तनन्दयधराः स्त्रियः ।काश्चिदग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः ।। 5.54.26 ।।।।
पतन्त्यो रेजिरे ऽभ्रेभ्यः सौदामिन्य इवाम्बरात् ।। 5.54.27 ।।।।
वज्रविद्रुमवैदूर्यमुकारजतसंहितान् ।विचित्रान् भवनान् धातून् स्यान्दमानान् ददर्श सः ।। 5.54.28 ।।।।
नाग्निस्तृप्यति काष्ठानां तृणानां हरियूथपः ।नाग्नेर्नापि विशस्तानां राक्षसानां वसुन्धरा ।। 5.54.29 ।।।।
क्वचित् किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः ।क्वचित् कुङ्कुमसङ्काशाः शिखा वह्नेश्चकाशिरे ।। 5.54.30 ।।।।
हनूमता वेगवता वानरेण महात्मना ।लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ।। 5.54.31 ।।।।
ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमो ऽग्निः ।प्रमार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ।। 5.54.32 ।।।।
युगान्तकालानलतुल्यवेगः समारुतो ऽग्निर्ववृधे दिविस्पृक् ।विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्य समर्पितार्चिः ।। 5.54.33 ।।।।
आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन् ।शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः ।। 5.54.34 ।।।।
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ।निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरे ऽभ्राः ।। 5.54.35 ।।।।
वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणो ऽनिलो वा ।रुद्रो ऽग्निरर्को धनदश्च सोमो न वानरो ऽयं स्वयमेव कालः ।। 5.54.36 ।।।।
किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य ।इहागतोवाग्रूपधारीरक्षोपसंहारकरः प्रकोपः ।। 5.54.37
।किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः ।अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा ।। 5.54.38 ।।।।
इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे ।सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ।। 5.54.39 ।।।।
ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा ।सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ।। 5.54.40 ।।।।
हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम् ।रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः ।। 5.54.41 ।।।।
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा ।हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ।। 5.54.42 ।।।।
स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ।ददर्श लङ्कां हनुमान् महामनाः स्वयम्भुकोपोपहतामिवावनिम् ।। 5.54.43 ।।।।
भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे ।दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान् पवनात्मजः कपिः ।। 5.54.44 ।।।।
त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ।प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवांशुमाली ।। 5.54.45 ।।।।
स राक्षसांस्तान् सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत् ।विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा ।। 5.54.46 ।।।।
ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् ।महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ।। 5.54.47 ।।।।
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे ।दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः ।। 5.54.48 ।।।।
तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।दृष्ट्वा प्रदग्धां तां विस्मयं परमं गताः ।। 5.54.49 ।।।।
तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम् ।कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ।। 5.54.50 ।।।।
देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः ।भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ।। 5.54.51 ।।
लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः ।निर्वापयामास तदा समुद्रे हरिसत्तमः ।। 5.55.1 ।।।।
सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् ।अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः ।। 5.55.2 ।।।।
तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत ।लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ।। 5.55.3 ।।।।
धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम् ।निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ।। 5.55.4 ।।।।
क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरूनपि ।क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ।। 5.55.5 ।।।।
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् ।नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ।। 5.55.6 ।।।।
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ।। 5.55.7 ।।।।
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् ।अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ।। 5.55.8 ।।।।
यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी ।दग्धा तेन मया भर्तुर्हतं कार्यमजानता ।। 5.55.9 ।।।।
यदर्थमयमारम्भस्तत्कार्यमवसादितम् ।मया हि दहता लङ्कां न सीता परिरक्षिता ।। 5.55.10 ।।।।
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः ।तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ।। 5.55.11 ।।।।
विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते ।लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। 5.55.12 ।।।।
यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात् ।इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते ।। 5.55.13 ।।।।
किमग्नौ निपताम्यद्य अहोस्विद्वडवामुखे ।शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ।। 5.55.14 ।।।।
कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ।तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ।। 5.55.15 ।।।।
मया खलु तदेवेदं रोषदोषात् प्रदर्शितम् ।प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ।। 5.55.16 ।।।।
धिगस्तु राजसं भावमनीशमनवस्थितम् ।ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ।। 5.55.17 ।।।।
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः ।तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ।। 5.55.18 ।।।।
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः ।धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ।। 5.55.19 ।।।।
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् ।भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः ।। 5.55.20 ।।।।
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः ।रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ।। 5.55.21 ।।।।
इति चिन्तयस्तस्य निमित्तान्युपपेदिरे ।पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ।। 5.55.22 ।।।।
अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा ।न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ।। 5.55.23 ।।।।
न हि धर्मात्मनस्तस्य भार्याममिततेजसः ।स्वाचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ।। 5.55.24 ।।।।
नूनं रामप्रभावेन वैदेह्याः सुकृतेन च ।यन्मां दहनकर्मा ऽयं नादहद्धव्यवाहनः ।। 5.55.25 ।।।।
त्रयाणां भरतादीनां भार्तऽणां देवता च या ।रामस्य च मनःकान्ता सा कथं विनशिष्यति ।। 5.55.26 ।।।।
यद्वा दहनकर्मा ऽयं सर्वत्र प्रभुरव्ययः ।न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति ।। 5.55.27 ।।।।
पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा ।हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ।। 5.55.28 ।।।।
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि ।अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति ।। 5.55.29 ।।।।
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् ।शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम् ।। 5.55.30 ।।।।
अहो खलु कृतं कर्म दुष्करं हि हनूमता ।अग्निं विसृजता ऽभीक्ष्णं भीमं राक्षसवेश्मनि ।। 5.55.31 ।।।।
प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला ।जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे ।। 5.55.32 ।।।।
दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा ।जानकी न च दग्धेति विस्मयो ऽद्भुत एव नः ।। 5.55.33 ।।।।
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।ऋषिवाक्यैश्च हनुमानभवत् प्रीतभानसः ।। 5.55.34 ।।।।
ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा ।प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ।। 5.55.35 ।।
ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम् ।अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ।। 5.56.1 ।।।।
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ।। 5.56.2 ।।।।
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।। 5.56.3 ।।।।
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। 5.56.4 ।।।।
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवत्याहवशूरस्य तथा त्वमुपपादय ।। 5.56.5 ।।।।
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ।। 5.56.6 ।।।।
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। 5.56.7 ।।।।
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ।। 5.56.8 ।।।।
ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः ।आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ।। 5.56.9 ।।।।
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।सोत्तरीयमिवाम्भोदैः श्रृङ्गान्तरविलम्बिभिः ।। 5.56.10 ।।।।
बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ।उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ।। 5.56.11 ।।।।
तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् ।प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ।। 5.56.12 ।।।।
देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम् ।प्रपातजलनिर्घोषैः प्राक्रृष्टमिव सर्वतः ।। 5.56.13 ।।।।
वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः ।वेणुभिमारुतोद्धूतैः कूजन्तमिव कीचकैः ।। 5.56.14 ।।।।
निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः ।नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः ।। 5.56.15 ।।।।
मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ।जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ।। 5.56.16 ।।।।
कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः ।सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ।। 5.56.17 ।।।।
लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् ।नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ।बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ।। 5.56.18 ।।।।
महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् ।लतापादपसङ्घातं सिंहाध्युषितकन्दरम् ।। 5.56.19 ।।।।
व्याघ्रसङ्घसमाकीर्णं स्वादुमूलकफलद्रुमम् ।। 5.56.20 ।।।।
तमारुरोह हनुमान् पर्वतं पवनात्मजः ।रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ।। 5.56.21 ।।।।
तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ।। 5.56.22 ।।।।
स तमारुह्य शैलेन्द्रं व्यवर्धत व्यवर्धत महाकपिः ।दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः ।। 5.56.23 ।।।।
अधिरूह्य ततो वीरः पर्वतं पवनात्मजः ।ददर्श सागरं भीमं मीनोरगनिषेवितम् ।। 5.56.24 ।।।।
स मारुत इवाकाशं मारुतस्यात्मसम्भवः ।प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ।। 5.56.25 ।।।।
स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।ररास सह तैर्भूतैः प्रविशन् वसुधातलम् ।कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ।। 5.56.26 ।।।।
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ।निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ।। 5.56.27 ।।।।
कन्दरान्तरसंस्थानां पीडितानां महौजसाम् ।सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे ।। 5.56.28 ।।।।
स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः ।विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ।। 5.56.29 ।।।।
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ।निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ।। 5.56.30 ।।।।
किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा ।पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ।। 5.56.31 ।।।।
स च भूमिधरः श्रीमान् बलिना तेन पीडितः ।सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ।। 5.56.32 ।।।।
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ।धरण्यां समतां यातः स बभूव धराधरः ।। 5.56.33 ।।।।
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् ।कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः ।। 5.56.34 ।।
सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ।। 5.57.1 ।।।।
पुलर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ।ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ।। 5.57.2 ।।।।
वातसङ्घातजातोर्मिचन्द्रांशुशिशिराम्बुमत् ।भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ।। 5.57.3 ।।।।
हनुमान् मारुतगतिर्महानौरिव सागरम् ।अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ।। 5.57.4 ।।।।
ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् ।हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ।। 5.57.5 ।।।।
मारुतस्यात्मजः श्रीमान् कपिर्व्योमचरो महान् ।हनुमान् मेघजालानि विकर्षन्निव गच्छति ।। 5.57.6 ।।।।
पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।हरितारुणवर्णानि महाभ्राणि चकाशिरे ।। 5.57.7 ।।।।
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ।। 5.57.8 ।।।।
विविधाभ्रघनापन्नगोचरो धवलाम्बरः ।दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायते ऽम्बरे ।। 5.57.9 ।।।।
तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः ।दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः ।। 5.57.10 ।।।।
नदन्नादेन महता मेघस्वनमहास्वनः ।प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ।। 5.57.11 ।।।।
आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ।। 5.57.12 ।।।।
आजगाम महातेजाः पुनर्मध्येन सागरम् ।। 5.57.13 ।।।।
पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ।ज्यामुक्त इव नाराचो महावेगो ऽभ्युपागतः ।। 5.57.14 ।।।।
स किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ।महेन्द्रमेघसङ्काशं ननाद हरिपुङ्गवः ।। 5.57.15 ।।।।
स पूरयामास कपिर्दिशो दश समन्ततः ।नदन्नादेन महता मेघस्वनमहास्वनः ।। 5.57.16 ।।।।
स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः ।ननाद हरिशाद्रूलो लाङ्गूलं चाप्यकम्पयत् ।। 5.57.17 ।।।।
तस्य नानद्यमानस्य सुपर्णचरिते पथि ।फलतीवास्य घोषेण गगनं सार्कमण्डलम् ।। 5.57.18 ।।।।
ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ।पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः ।। 5.57.19 ।।।।
महतो वायुनुन्नस्य तोयदस्येव गर्जितम् ।शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ।। 5.57.20 ।।।।
ते दीनमनसः सर्वे शुश्रुवुः काननौकसः ।वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ।। 5.57.21 ।।।।
निशम्य नदतो नादं वानरास्ते समन्ततः ।बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ।। 5.57.22 ।।।।
जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ।उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ।। 5.57.23 ।।।।
सर्वथा कृतकार्यो ऽसौ हनूमान्नात्र संशयः ।न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ।। 5.57.24 ।।।।
तस्य बाहूरुवेगं च निनादं च महात्मनः ।निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ।। 5.57.25 ।।।।
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ।प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ।। 5.57.26 ।।।।
ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः ।वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ।। 5.57.27 ।।।।
गिरिगह्वरसंलीनो यथा गर्जति मारुतः ।एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ।। 5.57.28 ।।।।
तमभ्रघनसङ्काशमापतन्तं महाकपिम् ।दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ।। 5.57.29 ।।।।
ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ।निपपात महेन्द्रस्य शिखरे पादपाकुले ।। 5.57.30 ।।।।
हर्षेणापूर्यमाणो ऽसौ रम्ये पर्वतनिर्झरे ।छिन्नपक्ष इवाकाशात् पपात धरणीधरः ।। 5.57.31 ।।।।
ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः ।हनूमन्तं महात्मानं परिवार्योपतस्थिरे ।परिवार्य च ते सर्वे परां प्रीतिमुपागताः ।। 5.57.32 ।।।।
प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ।उपायनानि चादाय मूलानि च फलानि च ।प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ।। 5.57.33 ।।।।
हनुमांस्तु गुरून् वृद्धान् जाम्बवत्प्रमुखांस्तदा ।कुमारमङ्गदं चैव सो ऽवन्दत महाकपिः ।। 5.57.34 ।।।।
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ।दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ।। 5.57.35 ।।।।
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ।रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ।। 5.57.36 ।।।।
हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान् ।। 5.57.37 ।।।।
अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ।रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ।। 5.57.38 ।।।।
एकवेणीधरा बाला रामदर्शनलालसा ।उपवासपरिश्रान्ता जटिला मलिना कृशा ।। 5.57.39 ।।।।
ततो दृष्टेति वचनं महार्थममृतोपमम् ।निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ।। 5.57.40 ।।।।
क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे ।। 5.57.41 ।।।।
केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ।अञ्चिता यतदीर्घाणि लांगूलानि प्रविव्यधुः ।। 5.57.42 ।।।।
अपरे च हनूमन्तं वानरा वारणोपमम् ।आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ।। 5.57.43 ।।।।
उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् ।सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ।। 5.57.44 ।।।।
सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते ।यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ।। 5.57.45 ।।।।
अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ।दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ।। 5.57.46 ।।।।
दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ।ततो ऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ।। 5.57.47 ।।।।
परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ।श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ।। 5.57.48 ।।।।
दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ।। 5.57.49 ।।।।
तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः ।उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ।। 5.57.50 ।।।।
हनूमता कीर्तिमता यशस्विना तथा ऽङ्गदेनाङ्गदबद्धबाहुना ।मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रिया ऽभवत् ।। 5.57.51 ।।
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ।। ५.५८.१ ।।।।
तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ।। ५.५८.२ ।।।।
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ।। ५.५८.३ ।।।।
तत्त्वतः सर्वमेतन्नः प्रबूहि त्वं महाकपे ।श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ।। ५.५८.४ ।।।।
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ।। ५.५८.५ ।।।।
स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः ।प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ।। ५.५८.६ ।।।।
प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः ।उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ।। ५.५८.७ ।।।।
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ।। ५.५८.८।।।।
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ।। ५.५८.९ ।।।।
उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ।कृता मे मनसा बुद्धिर्भेत्तव्यो ऽयं मयेति च ।। ५.५८.१० ।।।।
प्रहतं च मया तस्य लांगूलेन महागिरेः ।शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।। ५.५८.११ ।।११७ ।।।।
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ।पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।। ५.५८.१२ ।।।।
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ।मैनाकमिति विख्यातं निवसन्तं महोदधौ ।। ५.५८.१३ ।।।।
पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।। ५.५८.१४ ।।।।
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ।चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः ।। ५.५८.१५ ।।।।
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ।मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे ।। ५.५८.१६ ।।।।
रामस्य च मया साह्ये वर्तितव्यमरिन्दम ।रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।। ५.५८.१७ ।।।।
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ।कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ।। ५.५८.१८ ।।।।
तेन चाहमनुज्ञातो मैनाकेन महात्मना ।स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।शरीरेण महाशैलः शैलेन च महोदधौ ।। ५.५८.१९ ।।।।
उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ।ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ।। ५.५८.२० ।।।।
ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।समुद्रमध्ये सा देवी वचनं मामभाषत ।। ५.५८.२१ ।।।।
मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ।। ५.५८.२२ ।।।।
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ।। ५.५८.२३ ।।।।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ।। ५.५८.२४ ।।।।
तस्य सीता हृता भार्या रावणेन दुरात्मना ।तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ।। ५.५८.२५ ।।।।
कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।। ५.५८.२६ ।।।।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रृणोमि ते ।। ५.५८.२७ ।।।।
एवमुक्ता मया सा तु सुरसा कामरूपिणी ।अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।। ५.५८.२८ ।।।।
एवमुक्तः सुरसया दशयोजनमायतः ।ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ।। ५.५८.२९ ।।।।
तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ।। ५.५८.३० ।।।।
अभिपत्याशु तद्वक्रं निर्गतो ऽहं ततः क्षणात् ।अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ।। ५.५८.३१ ।।।।
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।समानय च वैदेहीं राघवेण महात्मना ।सुखी भव महाबाहो प्रीता ऽस्मि तव वानर ।। ५.५८.३२ ।।।।
ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ।। ५.५८.३३ ।।
वैदेहीं राघवेण महात्मना ।ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा ।छाया मे निगृहीता च न च पश्यामि किंचन ।। ५.५८.३४ ।।।।
सो ऽहं विगतवेगस्तु दिशो दश विलोकयन् ।न किंचित्तत्र पश्यामि येन मे ऽपहृता गतिः ।। ५.५८.३५ ।।।।
ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम ।ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। ५.५८.३६ ।।।।
अधोभागे न मे दृष्टिः शोचता पातिता मया ।ततो ऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ।। ५.५८.३७ ।।।।
प्रहस्य च महानादमुक्तो ऽहं भीमया तया ।अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ।। ५.५८.३८ ।।।।
क्वासि यन्ता महाकाय क्षुधिताया ममेप्सितः ।भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ।। ५.५८.३९ ।।।।
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ।तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।। ५.५८.४० ।।।।
न च मां साधु बुबुधे मम वा निकृतं कृतम् ।। ५.५८.४१ ।।।।
ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।तस्या हृदयमादाय प्रपतामि नभःस्थलम् ।। ५.५८.४२ ।।।।
सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।मया पर्वतसङ्काशा निकृत्तहृदया सती ।। ५.५८.४३ ।।।।
श्रृणोमि खगतानां च सिद्धानां चारणैः सह ।राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ।। ५.५८.४४ ।।।।
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ।। ५.५८.४५ ।।।।
दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।अस्तं दिनकरे याते रक्षसां निलयं पुरम् ।प्रविष्टो ऽहमविज्ञातो रक्षोभि र्भीमविक्रमैः ।। ५.५८.४६ ।।।।
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ।अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।। ५.५८.४७ ।।।।
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ।सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।। ५.५८.४८ ।।।।
प्रदोषकाले प्रविशं भीतया ऽहं तयोदितः ।अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ।। ५.५८.४९ ।।।।
यस्मात्तस्माद्विजेतासि सर्व रक्षांस्यशेषतः ।। ५.५८.५० ।।।।
तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ।। ५.५८.५१ ।।।।
ततः सीतामपश्यंस्तु रावणस्य निवेशने ।शोकसागरमासाद्य न पारमुपलक्षये ।। ५.५८.५२ ।।।।
शोचता च मया दृष्टं प्राकारेण समावृतम् ।काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ।। ५.५८.५३ ।।।।
स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ।। ५.५८.५४ ।।।।
अशोकवनिकामध्ये शिंशुपापादपो महान् ।तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ।। ५.५८.५५ ।।।।
अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम् ।श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।। ५.५८.५६ ।।।।
तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् ।शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ।। ५.५८.५७ ।।।।
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।। ५.५८.५८ ।।।।
सामया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।एकवेणीधरा दीना भर्तृचिन्तापरायणा ।। ५.५८.५९ ।।।।
भूमिशय्या विवर्णाङ्गी पझिनीव हिमागमे ।रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ।। ५.५८.६० ।।।।
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ।। ५.५८.६१ ।।।।
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।शृणोम्यधिकगम्भीरं रावणस्य निवेशने ।। ५.५८.६२ ।।।।
ततो ऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् ।अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ।। ५.५८.६३ ।।।।
ततो रावणदाराश्च रावणश्च महाबलः ।तं देशं समनुप्राप्त यत्र सीता ऽभवत् स्थिता ।। ५.५८.६४ ।।।।
तद् दृष्ट्वा ऽथ वरारोहा सीता रक्षोमहाबलम् ।सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ।। ५.५८.६५ ।।।।
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ।। ५.५८.६६ ।।।।
तामुवाच दशग्रीवः सीतां परमदुःखिताम् ।अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ।। ५.५८.६७ ।।।।
यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ।द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ।। ५.५८.६८ ।।।।
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।उवाच परमक्रुद्धा सीता वचनमुत्तमम् ।। ५.५८.६९ ।।।।
राक्षसाधम रामस्य भार्यममिततेजसः ।इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ।अवाच्यं वदतो जिह्वा कथं न पतिता तव ।। ५.५८.७० ।।।।
किंचिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ।अपहृत्यागतः पाप तेनादृष्टो महात्मना ।। ५.५८.७१ ।।।।
न त्वं रामस्य सदृशो दास्ये ऽप्यस्य न युज्यसे ।यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ।। ५.५८.७२ ।।।।
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ।जज्वाल सहसा कोपच्चितास्थ इव पावकः ।। ५.५८.७३ ।।।।
विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ।मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ।। ५.५८.७४ ।।।।
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ।वरा मण्डोदरी नाम तया स प्रतिषेधितः ।। ५.५८.७५ ।।।।
उक्तश्च मधुरां वाणीं तया स मदानार्दितः ।सीतया तव किं कार्यं महेन्द्रसमविक्रम ।। ५.५८.७६ ।।।।
देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव च ।सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।। ५.५८.७७ ।।।।
ततस्ताभिः समेताभिर्नारीभिः स महाबलः ।प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ।। ५.५८.७८ ।।।।
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ।सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ।। ५.५८.७९ ।।।।
तृणवद्भाषितं तासां गणयामास जानकी ।गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।। ५.५८.८० ।।।।
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ।रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।। ५.५८.८१ ।।।।
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ।परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ।। ५.५८.८२ ।।।।
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ।विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।। ५.५८.८३ ।।।।
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् ।आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ।। ५.५८.८४ ।।।।
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ।स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।। ५.५८.८५ ।।।।
रक्षसां च विनाशाय भर्तुरस्या जयाय च ।। ५.५८.८६ ।।।।
अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् ।अभियाचाम वैदेहीमेतद्धि मम रोचते ।। ५.५८.८७ ।।।।
यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ।सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ।। ५.५८.८८ ।।।।
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।। ५.५८.८९ ।।।।
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता ।अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ।। ५.५८.९० ।।।।
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ।। ५.५८.९१ ।।।।
सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः ।इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ।। ५.५८.९२ ।।।।
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ।प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।। ५.५८.९३ ।।।।
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ।का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।। ५.५८.९४ ।।।।
तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः ।देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ।। ५.५८.९५ ।।।।
तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ।भर्त्रा ऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ।। ५.५८.९६ ।।।।
इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ।। ५.५८.९७ ।।।।
तदिच्छामि त्वया ऽ ऽज्ञप्तं देवि किं करवाण्यहम् ।रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ।। ५.५८.९८ ।।।।
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।आह रावणमुत्साद्य राघवो मां नयत्विति ।। ५.५८.९९ ।।।।
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ।राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ।। ५.५८.१०० ।।।।
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः ।मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ।। ५.५८.१०१ ।।।।
इत्यक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ।प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ।। ५.५८.१०२ ।।।।
ततस्तस्यै प्रणम्याहं राजपुत्र्यैः समाहितः ।प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ।। ५.५८.१०३ ।।।।
उत्तरं पुनरेवेदं निश्चित्य मनसा तया ।हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ।। ५.५८.१०४ ।।।।
यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ ।सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ।। ५.५८.१०५ ।।।।
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।न मां द्रक्ष्यति काकुत्स्थो म्रिये सा ऽहमनाथवत् ।। ५.५८.१०६ ।।।।
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ।। ५.५८.१०७ ।।।।
ततो ऽवर्धत मे कायस्तदा पर्वतसन्निभः ।युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ।। ५.५८.१०८ ।।।।
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ।। ५.५८.१०९ ।।।।
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ।। ५.५८.११० ।।।।
राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना ।वानरेण ह्यविज्ञाय तव वीर्यं महाबल ।। ५.५८.१११ ।।।।
दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।वधमाज्ञापय क्षिप्रं यथा ऽसौ विलयं व्रजेत् ।। ५.५८.११२ ।।।।
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ।। ५.५८.११३ ।।।।
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ।। ५.५८.११४ ।।।।
तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।निहतं च महत्सैन्यं रावणायाचचक्षिरे ।। ५.५८.११५ ।।।।
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ।ललामभूतो लङ्कायाः स वै विध्वंसितो मया ।। ५.५८.११६ ।।।।
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ।राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ।। ५.५८.११७ ।।।।
तमहं बलसम्पन्नं राक्षसं रणकोविदम् ।परिघेणातिघोरेण सूदयामि सहानुगम् ।। ५.५८.११८ ।।५.५८.११७ ।।।।
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ।। ५.५८.११९ ।।म् ।। ५.५८.११८ ।।५.५८.११७ ।।।।
पदातिबलसम्पन्नान् प्रेषयामास रावणः ।परिघेणैव तान् सर्वान्नयामि यमसादनम् ।। ५.५८.१२० ।।११७ ।।।।
मन्त्रिपुत्रान् हताञ्छ्रुत्वा समरे लघुविक्रमान् ।पञ्च सेनाग्रगाञ्छूरान् प्रेषयमास रावणः ।। ५.५८.१२१ ।।।।
तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम् ।ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ।। ५.५८.१२२ ।।।।
बहुभी राक्षसैः सार्धं प्रेषयामास रावणः ।तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ।। ५.५८.१२३ ।।।।
सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ।तमक्षमागतं भग्नं निशम्य स दशाननः ।। ५.५८.१२४ ।।।।
तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ।व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ।। ५.५८.१२५ ।।।।
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ।नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ।। ५.५८.१२६ ।।।।
महतापि महाबाहुः प्रत्ययेन महाबलः ।प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ।। ५.५८.१२७ ।।।।
सो ऽविषह्यं हि मां बुद्ध्वा स्वबलं चावमर्दितम् ।ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः ।। ५.५८.१२८ ।।।।
रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः ।रावणस्य समीपं च गृहीत्वा मामुपानयन् ।। ५.५८.१२९ ।।।।
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ।पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।। ५.५८.१३० ।।।।
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ।। ५.५८.१३१ ।।।।
अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो ।मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ।। ५.५८.१३२ ।।।।
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।सो ऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ।। ५.५८.१३३ ।।।।
सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् ।धर्मार्थकामसहितं हितं पथ्यमुवाच च ।। ५.५८.१३४ ।।।।
वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।राघवो रणविक्रान्तो मित्रत्वं समुपागतः ।। ५.५८.१३५ ।।।।
तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता ।तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ।। ५.५८.१३६ ।।।।
मया च कथितं तस्मै वालिनश्च वधं प्रति ।तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ।। ५.५८.१३७ ।।।।
वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।चक्रे ऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ।। ५.५८.१३८ ।।।।
तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ।वानराणां महाराजः कृतः स प्लवता प्रभुः ।। ५.५८.१३९ ।।।।
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।क्षिप्रमानीयतां सीता दीयतां राघवाय च ।। ५.५८.१४० ।।।।
यावन्न हरयो वीरा विधमन्ति बलं तव ।। ५.५८.१४१ ।।
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।वानराणां प्रभावो हि न केन विदितः पुरा ।देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ।। ५.५८.१४२ ।।।।
इति वानरराजस्त्वामाहेत्यभिहितो मया ।मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ।। ५.५८.१४३ ।।।।
तेन वध्यो ऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।मत्प्रभावमविज्ञाय रावणेन दुरात्मना ।। ५.५८.१४४ ।।।।
ततो विभीषणो नाम तस्य भ्राता महामतिः ।तेन राक्षसराजो ऽसौ याचितो मम कारणात् ।। ५.५८.१४५ ।।।।
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ।। ५.५८.१४६ ।।।।
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।दूतेन वेदितव्यं च यथार्थं हितवादिना ।। ५.५८.१४७ ।।।।
सुमहत्यपराधे ऽपि दूतस्यातुलविक्रम ।विरूपकरणं दृष्टं न वधो ऽस्तीति शास्त्रतः ।। ५.५८.१४८ ।।।।
विभीषणेनैवमुक्तो रावणः संदिदेश तान् ।राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ।। ५.५८.१४९ ।।।।
ततस्तस्य वचः श्रुत्वा पुच्छं समन्ततः ।वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ।। ५.५८.१५० ।।।।
राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ।तदा ऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ।बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।। ५.५८.१५१ ।।।।
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ।अघोषयन् राजमार्गे नगरद्वारमागताः ।। ५.५८.१५२ ।।ः ।ततो ऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ।। ५.५८.१५३ ।।
राजमार्गे नगरद्वारमागताः ।। ५.५८.१५२ ।।
ः ।विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ।आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ।। ५.५८.१५४ ।।।।
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ।दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ।। ५.५८.१५५ ।।।।
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ।लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। ५.५८.१५६ ।।।।
दहता च मया लङ्कां दग्धा सीता न संशयः ।रामस्य हि महत् कार्यं मयेदं वितथीकृतम् ।। ५.५८.१५७ ।।।।
इति शोकसमाविष्टश्चिन्तामहमुपागतः ।। ५.५८.१५८ ।।।।
अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ।। ५.५८.१५९ ।।।।
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।अदग्द्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ।। ५.५८.१६० ।।।।
दीप्यमाने तु लाङ्गूले न मां दहति पावकः ।हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ।। ५.५८.१६१ ।।।।
तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ।। ५.५८.१६२ ।।।।
पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ।। ५.५८.१६३ ।।।।
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ।प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ।। ५.५८.१६४ ।।।।
ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ।पन्थानमहमाक्रम्य भवतो दृष्टवानिह ।। ५.५८.१६५ ।।।।
राघवस्य प्रभावेन भवतां चैव तेजसा ।सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्टितम् ।। ५.५८.१६६ ।।।।
एतत्सर्वं मया तत्र यथावदुपपादितम् ।अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ।। ५.५८.१६७ ।।
एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः ।भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ।। ५.५९.१ ।।।।
सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः ।शीलमासाद्य सीताया मम च प्रवणं मनः ।। ५.५९.२ ।।।।
तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि ।सर्वथा ऽतिप्रवृद्धो ऽसौ रावणो राक्षसाधिपः ।तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।। ५.५९.३ ।।।।
न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती ।जनकस्यात्मजा कुर्याद्यत् क्रोधकलुषीकृता ।। ५.५९.४ ।।।।
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् ।अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ।। ५.५९.५ ।।।।
न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ।। ५.५९.६ ।।।।
अहमेको ऽपि पर्याप्तः सराक्षसगणां पुरीम् ।तां लङ्कां तपसा हन्तुं रावणं च महाबलम् ।। ५.५९.७ ।।।।
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ।कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ।। ५.५९.८ ।।।।
अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् ।सहपुत्रं वधिष्यामि सहोदरयुतं युधि ।। ५.५९.९ ।।।।
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ।यदि शक्रजितो ऽस्त्राणि दुर्निरीक्षाणि संयुगे ।। ५.५९.१० ।।।।
तान्यहं विधामिष्यामि निहनिष्यामि राक्षसान् ।भवतामभ्यनुज्ञातो विक्रमो मे रुणाद्धि तम् ।। ५.५९.११ ।।।।
मया ऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ।देवानपि रणे हन्यात् किं पुनस्तान्निशाचरान् ।। ५.५९.१२ ।।।।
सागरो ऽप्यतियाद्वेलां मन्दरः प्रचलेदपि ।न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ।। ५.५९.१३ ।।।।
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः ।अलमेको विनाशाय वीरो वालिसुतः कपिः ।। ५.५९.१४ ।।।।
पनसस्योरुवेगेन नीलस्य च महात्मनः ।मन्दरो ऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ।। ५.५९.१५ ।।।।
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु ।मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ।। ५.५९.१६ ।।।।
अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ।एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ।। ५.५९.१७ ।।।।
पितामहवरोत्सेकात् परमं दर्पमास्थितौ ।अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ।। ५.५९.१८ ।।।।
अश्विनोर्माननार्थं हि सर्वलोकपितामहः ।सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ।। ५.५९.१९ ।।।।
करोत्सेकेन मुक्तौ च प्रमथ्य महतीं चमूम् ।सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ।। ५.५९.२० ।।।।
एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ।लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ।। ५.५९.२१ ।।।।
मयैव निहता लङ्कां दग्धा भस्मीकृता पुनः ।राजमार्गेषु सर्वत्र नाम विश्रावितं मया ।। ५.५९.२२ ।।।।
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.५९.२३ ।।।।
अहं कोसलराजस्य दासः पवनसम्भवः ।हनुमानिति सर्वत्र नाम विश्रावितं मया ।। ५.५९.२४ ।।।।
अशोकवनिकामध्ये रावणस्य दुरात्मनः ।अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता ।। ५.५९.२५ ।।।।
राक्षसीभिः परिवृता शोकसन्तापकर्शिता ।मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ।अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ।। ५.५९.२६ ।।।।
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ।। ५.५९.२७ ।।
वृता चन्द्रलेखेव निष्प्रभा ।अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ।अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ।। ५.५९.२८ ।।।।
तदेकवासः संवीता रजोध्वस्ता तथैव च ।शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ।। ५.५९.२९ ।।।।
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ।। ५.५९.३० ।।।।
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।। ५.५९.३१ ।।।।
रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया ।कथंचिन्मृगशावाक्षी विश्वासमुपपादिता ।। ५.५९.३२ ।।।।
ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता ।रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। ५.५९.३३ ।।।।
नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा ।यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् ।निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ।। ५.५९.३४ ।।।।
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता ।प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ।। ५.५९.३५ ।।।।
एवमास्ते महाभागा सीता शोकपरायणा ।यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ।। ५.५९.३६ ।।
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।। ५.६०.१ ।।।।
अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ।समीपं गन्तुमस्माभी राघवस्य महात्मनः ।। ५.६०.२ ।।।।
दृष्टा देवी न चानीता इति तत्र निवेदनम् ।अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ।। ५.६०.३ ।।।।
न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ।तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ।। ५.६०.४ ।।।।
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ।। ५.६०.५ ।।।।
तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः ।उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ।। ५.६०.६ ।।।।
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र ।यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धम् ।। ५.६०.७ ।।
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ।। ५.६१.१ ।।।।
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः ।महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ।। ५.६१.२ ।।।।
मेरुमन्दरसङ्काशा मत्ता इव महागजाः ।छादयन्त इवाकाशं महाकाया महाबलाः ।। ५.६१.३ ।।।।
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ।। ५.६१.४ ।।।।
राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः ।समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ।। ५.६१.५ ।।।।
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ।। ५.६१.६ ।।।।
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः ।नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ।। ५.६१.७ ।।।।
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ।। ५.६१.८ ।।।।
यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ।मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ।। ५.६१.९ ।।।।
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ।। ५.६१.१० ।।।।
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ।। ५.६१.११ ।।।।
ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन् ।अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ।। ५.६१.१२ ।।।।
अङ्गदेनानुमतास्सन्तस्ततो मुदिताः तत्प्रेरिताः प्रनृत्यन्तो ऽभवन् ।। ५.६१.१३ ।।।।
गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित् प्रहसन्ति केचित् ।पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ।। ५.६१.१४ ।।।।
परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते ।परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ।। ५.६१.१५ ।।।।
द्रुमाद् द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ।महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति ।। ५.६१.१६ ।।।।
गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ।रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति ।। ५.६१.१७ ।।।।
समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम् ।न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ।। ५.६१.१८ ।।।।
ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।समीक्ष्य कोपदृधिवक्रनामा निवारयामास कपिः कपींस्तान् ।। ५.६१.१९ ।।।।
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ।। ५.६१.२० ।।।।
उवाच कांश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जवान ।समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कंश्चित् ।। ५.६१.२१ ।।।।
स तैर्मदात् सम्परिवार्य वाक्यैर्बलाच्च तेन प्रतिवार्यमाणैः ।प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ।। ५.६१.२२ ।।।।
नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः ।मदात् कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ।। ५.६१.२३ ।।
तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः ।अव्यग्रमनसो यूयं मधु सेवत वानराः ।अहमावारयिष्यामि युष्माकं परिपन्थिनः ।। ५.६२.१ ।।।।
श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरो ऽङ्गदः ।प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ।। ५.६२.२ ।।।।
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ।अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ।। ५.६२.३ ।।।।
अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ।साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ।। ५.६२.४ ।।।।
पूजयित्वा ऽङ्गदं सर्वे वानरा वानरर्षभम् ।जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् ।। ५.६२.५ ।।।।
ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ।। ५.६२.६ ।।।।
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ।पपुः सर्वे मधु तदा रसवत् फलमाददुः ।। ५.६२.७ ।।।।
उत्पत्य च ततः सर्वे वनपालान् समागतान् ।ताडयन्ति स्म शतशः सक्तान् मधुवने तदा ।। ५.६२.८ ।।।।
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते ।पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथा ऽपरे ।। ५.६२.९ ।।।।
केचित्पीत्वा ऽपविध्यन्ति मधूनि मधुपिङ्गलाः ।मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ।। ५.६२.१० ।।।।
अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः ।अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ।। ५.६२.११ ।।।।
उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ।क्षिपन्ति च तदा ऽन्योन्यं स्खलन्ति च तथा ऽपरे ।। ५.६२.१२ ।।।।
केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् ।हरयो मधुना मत्ताः केचित् सुप्ता महीतले ।। ५.६२.१३ ।।।।
कृत्वा केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् ।कृत्वा केचिद्वदन्त्यन्ये केचिद्बुद्ध्यन्ति चेतरत् ।। ५.६२.१४ ।।।।
ये ऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ।ते ऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ।। ५.६२.१५ ।।।।
जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः ।अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ।। ५.६२.१६ ।।।।
हनूमता दत्तवरैर्हतं मधुवनं बलात् ।वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ।। ५.६२.१७ ।।।।
ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ।हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन् ।। ५.६२.१८ ।।।।
इहागच्छत गच्छामो वानरान् बलदर्पितान् ।बलेन वारयिष्यामो मधु भक्षयतो वयम् ।। ५.६२.१९ ।।।।
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ।पुनर्वीरा मधुवनं तेनैव सहसा ययुः ।। ५.६२.२० ।।।।
मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् ।समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः ।। ५.६२.२१ ।।।।
ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः ।गृहीत्वा ऽभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः ।। ५.६२.२२ ।।।।
ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ।त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ।। ५.६२.२३ ।।।।
वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान् ।अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः ।। ५.६२.२४ ।।।।
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः ।अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ।। ५.६२.२५ ।।।।
तं सवृक्षं महाबाहुमापतन्तं महाबलम् ।आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितो ऽङ्गदः ।। ५.६२.२६ ।।।।
मदान्धश्च न वेदैनमार्यको ऽयं ममेति सः ।अथैनं निष्पिपेषाशु वेगवद्वसुधातले ।। ५.६२.२७ ।।।।
स भग्नबाहूरुभुजो विह्वलः शोणितोक्षितः ।मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ।। ५.६२.२८ ।।।।
स समाश्वस्य सहसा संक्रुद्धो राजमातुलः ।वानरान् वारयामास दण्डेन मधुमोहितान् ।। ५.६२.२९ ।।।।
स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ।उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान् ।। ५.६२.३० ।।।।
एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ।सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ।। ५.६२.३१ ।।।।
सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे ।अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ।। ५.६२.३२ ।।।।
इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः ।पितृपैतामहं दिव्यं देवैरपि दुरासदम् ।। ५.६२.३३ ।।।।
स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः ।घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ।। ५.६२.३४ ।।।।
वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः ।अमर्षप्रभवो रोषः सफलो नो भविष्यति ।। ५.६२.३५ ।।।।
एवमुक्त्वा दधिमुखो वनपालान् महाबलः ।जगाम सहसोत्पत्य वनपालैः समन्वितः ।। ५.६२.३६ ।।।।
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ।सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ।। ५.६२.३७ ।।।।
रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ।समप्रतिष्ठां जगतीमाकाशान्निपपात ह ।। ५.६२.३८ ।।।।
सन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः ।हरिर्दधिमुखः पालैः पालानां परमेश्वरः ।। ५.६२.३९ ।।।।
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् ।सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ।। ५.६२.४० ।।
ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ।। ५.६३.१ ।।।।
उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम ।अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ।। ५.६३.२ ।।।।
स तु विश्वासितस्तेन सुग्रीवेण महात्मना ।उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखो ऽब्रवीत् ।। ५.६३.३ ।।।।
नैवर्क्षरजसा राजन्न त्वया नापि वालिना ।वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ।। ५.६३.४ ।।।।
एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः ।मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ।। ५.६३.५ ।।।।
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथा ऽपरे ।निवार्यमाणास्ते सर्वे भ्रूवौ वै दर्शयन्ति हि ।। ५.६३.६ ।।।।
इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः ।वारयन्तो वनातस्मात् क्रुद्वैर्वानरपुङ्गवैः ।। ५.६३.७ ।।।।
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभः ।संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ।। ५.६३.८ ।।।।
पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः ।प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ।। ५.६३.९ ।।।।
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ।कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ।। ५.६३.१० ।।।।
एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् ।अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ।। ५.६३.११ ।।।।
किमयं वानरो राजन् वनपः प्रत्युपस्थितः ।कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ।। ५.६३.१२ ।।।।
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ।। ५.६३.१३ ।।।।
आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः ।अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ।। ५.६३.१४ ।।।।
विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ।। ५.६३.१५ ।।।।
नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ।आगतैश्च प्रमथितं यथा मधुवनं हि तैः ।। ५.६३.१६ ।।।।
धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ।। ५.६३.१७ ।।।।
वनं यदाभिपन्नास्ते साधितं कर्म वानरैः ।दृष्टा देवी न सन्देहो न चान्येन हनूमता ।न ह्यन्यः साधने हेतुः कर्मणो ऽस्य हनूमतः ।। ५.६३.१८ ।।।।
कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे ।व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ।। ५.६३.१९ ।।।।
जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः ।हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।। ५.६३.२० ।।।।
अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ।वारयन्तश्च सहितास्तथा जानुभिराहताः ।। ५.६३.२१ ।।।।
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ।नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ।। ५.६३.२२ ।।।।
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ।अभिगम्य तथासव- ?पिबन्ति मधु वानराः ।। ५.६३.२३ ।।।।
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ।वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ।। ५.६३.२४ ।।।।
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ।श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ।प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ।। ५.६३.२५ ।।।।
श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ।। ५.६३.२६ ।।।।
प्रीतो ऽस्मि सो ऽहं युद्भुक्तं वनं तैः कृतकर्मभिः ।मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ।। ५.६३.२७ ।।।।
इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मगृहराजदर्पान् ।द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ।। ५.६३.२८ ।।।।
प्रीतिस्पीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा ।अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सो ऽतिमात्रं ननन्द ।। ५.६३.२९ ।।
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ।। ५.६४.१ ।।।।
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ।। ५.६४.२ ।।।।
स यथैवागतः पूर्वं तथैव त्वरितं गतः ।निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ।। ५.६४.३ ।।।।
स प्रविष्टो मधुवनं ददर्श हरियूथपान् ।विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम् ।। ५.६४.४ ।।।।
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् ।उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ।। ५.६४.५ ।।।।
सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः ।अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ।। ५.६४.६ ।।।।
युवराजस्त्वमीशश्च वनस्यास्य महाबल ।मौर्ख्यात् पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति ।। ५.६४.७ ।।।।
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।इहोपयातं सर्वेषामेतेषां वनचारिणाम् ।। ५.६४.८ ।।।।
स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ।प्रहृष्टो न तु रुष्टो ऽसौ वनं श्रुत्वा प्रधर्षितम् ।। ५.६४.९ ।।।।
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ।शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ।। ५.६४.१० ।।।।
श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः ।अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ।। ५.६४.११ ।।।।
शङ्के श्रुतो ऽयं वृत्तान्तो रामेण हरियूथपाः ।तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ।। ५.६४.१२ ।।।।
पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ।किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ।। ५.६४.१३ ।।।।
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ।तथा ऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ।। ५.६४.१४ ।।।।
नाज्ञापयितुमीशो ऽहं युवराजो ऽस्मि यद्यपि ।अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ।। ५.६४.१५ ।।।।
ब्रुवतश्चाङ्गदश्यैवं श्रुत्वा वचनमव्ययम् ।प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ।। ५.६४.१६ ।।।।
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ ।ऐश्वर्यमदमत्तो हि सर्वो ऽहमिति मन्यते ।। ५.६४.१७ ।।।।
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ।। ५.६४.१८ ।।।।
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ।स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ।। ५.६४.१९ ।।।।
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ।क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ।। ५.६४.२० ।।।।
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत ।बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ।। ५.६४.२१ ।।।।
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः ।कृत्वा ऽ ऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ।। ५.६४.२२ ।।।।
ते ऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ।विनदन्तो महानादं घना वातेरिता यथा ।। ५.६४.२३ ।।।।
अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः ।उवाच शोकोपहतं रामं कमललोचनम् ।। ५.६४.२४ ।।।।
समाश्वसिहि भद्र ते दृष्टा देवी न संशयः ।नागन्तुमिह शक्यं तैरतीते समये हि नः ।। ५.६४.२५ ।।।।
न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते ।युवराजो महाबाहुः प्लवतां प्रवरो ऽङ्गदः ।। ५.६४.२६ ।।।।
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः ।भवेत् स दीनवदनो भ्रान्तविप्लुतमानसः ।। ५.६४.२७ ।।।।
पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम् ।न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ।। ५.६४.२८ ।।।।
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत ।दृष्टा देवी न सन्देहो न चान्येन हनूमता ।। ५.६४.२९ ।।।।
न ह्यन्यः कर्मणो हेतुः साधने ऽस्य हनूमतः ।हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम ।व्यवसायश्च वीर्यं च सूर्य तेज इव ध्रुवम् ।। ५.६४.३० ।।।।
जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः ।हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।। ५.६४.३१ ।।।।
मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ।। ५.६४.३२ ।।।।
ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ।हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् ।किष्किन्धामुपयातानां सिद्धिं कथयतामिव ।। ५.६४.३३ ।।।।
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ।आयताञ्चितलाङ्गूलः सो ऽभवद्धृष्टमानसः ।। ५.६४.३४ ।।।।
आजग्मुस्ते ऽपि हरयो रामदर्शनकांक्षिणः ।अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ।। ५.६४.३५ ।।।।
ते ऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदा ऽन्विताः ।निपेतुर्हरिराजस्य समीपे राघवस्य च ।। ५.६४.३६ ।।।।
हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः ।नियतामक्षतां देवीं राघवाय न्यवेदयत् ।। ५.६४.३७ ।।।।
निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे ।लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ।। ५.६४.३८ ।।।।
प्रीत्या च रममाणो ऽथ राघवः परवीरहा ।बहुमानेन महता हनुमन्तमवैक्षत ।। ५.६४.३९ ।।
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ।। ५.६५.१ ।।।।
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ।प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ।। ५.६५.२ ।।।।
रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् ।रामे समनुरागं च यश्चायं समयः कृतः ।एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ।। ५.६५.३ ।।।।
वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ।। ५.६५.४ ।।।।
क्व सीता वर्तते देवी कथं च मयि वर्तते ।एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ।। ५.६५.५ ।।।।
रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ।। ५.६५.६ ।।।।
श्रुत्वा तु वचनं तेषां हनुमान् मारुतात्मजः ।प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ।उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ।। ५.६५.७ ।।।।
समुद्रं लङ्घयित्वा ऽहं शतयोजनमायतम् ।अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ।। ५.६५.८ ।।।।
तत्र लङ्केति नगरी रावणस्य दुरात्मनः ।दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।। ५.६५.९ ।।।।।।
तत्र दृष्टा मया सीता रावणान्तःपुरे सती ।संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ।। ५.६५.१० ।।।।
दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ।। ५.६५.११ ।।।।
दुःखमासाद्यते देवी तथा ऽदुःखोचिता सती ।। ५.६५.१२ ।।।।
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।एकवेणीधरा दीना त्वयि चिन्तापरायणा ।। ५.६५.१३ ।।।।
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया ।। ५.६५.१४ ।।।।
इक्ष्वकुवंशविख्यातिं शनैः कीर्तयता ऽनघ ।सा मया नरशार्दूल विश्वासमुपपादिता ।। ५.६५.१५ ।।।।
ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता ।रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। ५.६५.१६ ।।।।
नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ।। ५.६५.१७ ।।।।
एवं मया महाभागा दृष्टा जनकनन्दिनी ।उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ।। ५.६५.१८ ।।।।
अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके ।चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ।। ५.६५.१९ ।।।।
विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया ।अखिलेनेह यद् दृष्टमिति मामाह जानकी ।। ५.६५.२० ।।।।
अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः ।ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ।। ५.६५.२१ ।।।।
एष चूडामणिः श्रीमान् मया सुपरिरक्षितः ।मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।। ५.६५.२२ ।।।।
त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।। ५.६५.२३ ।।।।
एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ।जीवितं धारयिष्यामि मासं दशरथात्मज ।ऊर्ध्वं मासान्न जीवयं रक्षसां वशमागता ।। ५.६५.२४ ।।।।
इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी ।रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ।। ५.६५.२५ ।।।।
एतदेव मया ऽ ऽख्यातं सर्वं राघव यद्यथा ।सर्वथा सागरजले सन्तारः प्रविधीयताम् ।। ५.६५.२६ ।।।।
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ।देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्रः शशंस ।। ५.६५.२७ ।।
एवमुक्तो हनुमता रामो दशरथात्मजः ।तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ।। ५.६६.१ ।।।।
तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः ।नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ।। ५.६६.२ ।।।।
यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला ।तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ।। ५.६६.३ ।।।।
मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ।वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ।। ५.६६.४ ।।।।
अयं हि जलसम्भूतो मणिः सज्जनपूजितः ।यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ।। ५.६६.५ ।।।।
इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् ।अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ।। ५.६६.६ ।।।।
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ।अस्याद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ।। ५.६६.७ ।।।।
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः ।पिपासुमिव तोयेन सिञ्चन्ति वाक्यवारिणा ।। ५.६६.८ ।।।।
इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् ।मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ।। ५.६६.९ ।।।।
चिरं जीवति वैदेही यदि मासं धरिष्यति ।क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ।। ५.६६.१० ।।।।
नय मामपि तं देशं यत्र दृष्टा मम प्रिया ।न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ।। ५.६६.११ ।।।।
कथं सा मम सुश्रोणी भीरुभीरुः सती सदा ।भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ।। ५.६६.१२ ।।।।
शारदस्तिभिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः ।आवृतं वदनं तस्या न विराजति राक्षसैः ।। ५.६६.१३ ।।।।
किमाह सीता हनुंस्तत्त्वतः कथयाद्य मे ।एतेन खलु जीविष्ये भेषजेनातुरो यथा ।। ५.६६.१४ ।।।।
मधुरा मधुरालापा किमाह मम भामिनी ।मद्विहीना वरारोहा हनुमन् कथयस्व मे ।। ५.६६.१५ ।।
एवमुक्तस्तु हनुमान् राघवेण महात्मना ।सीताया भाषितं सर्वं न्यवेदयत राघवे ।। ५.६७.१ ।।।।
इदमुक्तवती देवी जानकी पुरुषर्षभ ।पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ।। ५.६७.२ ।।।।
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।वायसः सहसोत्पत्य विरराद स्तनान्तरे ।। ५.६७.३ ।।।।
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ।पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ।। ५.६७.४ ।।।।
पुनः पुनरुपागम्य विरराद भृशं किल ।ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ।। ५.६७.५ ।।।।
वायसेन च तेनैव सततं बाध्यमानया ।बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ।। ५.६७.६ ।।।।
तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे ।आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ।। ५.६७.७ ।।।।
नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।। ५.६७.८ ।।।।
निरीक्षमाणः सहसा वायसं समवैक्षथाः ।नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ।। ५.६७.९ ।।।।
सुतः किल स शक्रस्य वायसः पततां वरः ।धरान्तरचरः शीघ्रं पवनस्य गतौ समः ।। ५.६७.१० ।।।।
ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः ।वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ।। ५.६७.११ ।।।।
स दर्भं संस्तराद् गृह्य ब्रह्मास्त्रेण ह्ययोजयः ।स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ।। ५.६७.१२ ।।।।
क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ।ततस्तु वायसं दीप्तः स दर्भो ऽनुजगाम ह ।। ५.६७.१३ ।।।।
स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।त्रिल्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ।। ५.६७.१४ ।।।।
पुनरेवागतस्त्रस्तस्त्वकाशमरिन्दम ।स तं निपतितं भूमौ शरण्यः शरणागतम् ।। ५.६७.१५ ।।।।
वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ।। ५.६७.१६ ।।।।
मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ।भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।। ५.६७.१७ ।।।।
राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ।विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ।। ५.६७.१८ ।।।।
एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि ।किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।। ५.६७.१९ ।।।।
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।न च सर्वे रणे शक्ता रामं प्रतिसमासितुम् ।। ५.६७.२० ।।।।
तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ।क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ।। ५.६७.२१ ।।।।
भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः ।स किमर्थं नरवरो न मां रक्षति राघवः ।। ५.६७.२२ ।।।।
शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।। ५.६७.२३ ।।।।
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।समर्थो सहितौ यन्मां नावेक्षेते परन्तपौ ।। ५.६७.२४ ।।।।
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ।। ५.६७.२५ ।।।।
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। ५.६७.२६ ।।।।
कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।इम मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ।। ५.६७.२७ ।।।।
तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ।त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.६७.२८ ।।।।
हत्वा च समरे रौद्र रावण सहबान्धवम् ।राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ।। ५.६७.२९ ।।।।
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि ।। ५.६७.३० ।।।।
सा ऽभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ।मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ।। ५.६७.३१ ।।।।
प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ।शिरसा तां प्रणम्यार्यामहमागमने त्वरे ।। ५.६७.३२ ।।।।
गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ।विवर्धमानं च हि मामुवाच जनकात्मजा ।। ५.६७.३३ ।।।।
अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी ।ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ।। ५.६७.३४ ।।।।
हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ ।सुग्रीवं च सहामात्य सर्वान् ब्रूया ह्यनामयम् ।। ५.६७.३५ ।।।।
यथा च स महाबाहुर्मां तारयति राघवः ।असमाद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ५.६७.३६ ।।।।
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। ५.६७.३७ ।।।।
एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ।। ५.६७.३८ ।।
अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः ।तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ।। ५.६८.१ ।।।।
एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ।। ५.६८.२ ।।।।
यदि वा मन्यसे वीर वसैकाहमरिन्दम ।कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। ५.६८.३ ।।।।
मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन् ।अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ।। ५.६८.४ ।।।।
गते हि त्वयि विक्रान्ते पुनरागमनाय वै ।प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। ५.६८.५ ।।।।
तवादर्शनजः शोको भूयो मां परितापयेत् ।दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ।। ५.६८.६ ।।।।
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। ५.६८.७ ।।।।
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। ५.६८.८ ।।।।
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। ५.६८.९ ।।।।
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ।। ५.६८.१० ।।।।
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।। ५.६८.११ ।।८.१० ।।।।
बलैः समग्रैर्यदि मां हत्वा रावणमाहवे ।विजयी स्वां पुरीं रामो नयेत्तत् स्याद्यशस्करम् ।। ५.६८.१२ ।।।।
यथा ऽहं तस्य वीरस्य वनादुपधिना हृता ।रक्षसा तद्भया देव तथा नार्हति राघवः ।। ५.६८.१३ ।।।।
बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। ५.६८.१४ ।।।।
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवत्याहवशूरस्य तथा त्वमुपपादय ।। ५.६८.१५ ।।।।
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ।। ५.६८.१६ ।।।।
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। ५.६८.१७ ।।।।
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः ।मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ।। ५.६८.१८ ।।।।
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। ५.६८.१९ ।।।।
असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः ।प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। ५.६८.२० ।।।।
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। ५.६८.२१ ।।।।
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। ५.६८.२२ ।।।।
तदलं परितापेन देवि मन्युर्व्यपैतु ते ।एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः ।। ५.६८.२३ ।।।।
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ।। ५.६८.२४ ।।।।
अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् ।लक्ष्मणं च धनुष्पाणीं लङ्काद्वारमुपस्थितम् ।। ५.६८.२५ ।।।।
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि सङ्गतान् ।। ५.६८.२६ ।।।।
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ।। ५.६८.२७ ।।।।
निवृत्तवनवासं च त्वया सार्धमरिन्दमम् ।अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ।। ५.६८.२८ ।।।।
ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता ।जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदा ऽभिपीडिता ।। ५.६८.२९ ।।

About this parayana — Rama

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

ram-navamidaily-pujavaishnavasanskritparayanadevotionalramayanavalmikiscriptureepicitihasa