ഭഗവദ് ഗീതാ — അധ്യായം 8: അക്ഷര ബ്രഹ്മാ യോഗ
Bhagavad Gita — Chapter 8: Aksara Brahma Yoga
Bhagavad Gita — Chapter 8: Aksara Brahma Yoga
Text in देवनागरी script
Devotional text
മലയാളം script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.
मूल श्लोकःअर्जुन उवाचकिं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।। मूल श्लोकःअधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन।प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।8.2।। मूल श्लोकःश्री भगवानुवाचअक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः।।8.3।। मूल श्लोकःअधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्।अधियज्ञोऽहमेवात्र देहे देहभृतां वर।।8.4।। मूल श्लोकःअन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्।यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः।।8.5।। मूल श्लोकःयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्।तं तमेवैति कौन्तेय सदा तद्भावभावितः।।8.6।। मूल श्लोकःतस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च।मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्।।8.7।। मूल श्लोकःअभ्यासयोगयुक्तेन चेतसा नान्यगामिना।परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्।।8.8।। मूल श्लोकःकविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः।सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात्।।8.9।। मूल श्लोकःप्रयाणकाले मनसाऽचलेनभक्त्या युक्तो योगबलेन चैव।भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम्।।8.10।। मूल श्लोकःयदक्षरं वेदविदो वदन्तिविशन्ति यद्यतयो वीतरागाः।यदिच्छन्तो ब्रह्मचर्यं चरन्तितत्ते पदं संग्रहेण प्रवक्ष्ये।।8.11।। मूल श्लोकःसर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्।।8.12।। मूल श्लोकःओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्।यः प्रयाति त्यजन्देहं स याति परमां गतिम्।।8.13।। मूल श्लोकःअनन्यचेताः सततं यो मां स्मरति नित्यशः।तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः।।8.14।। मूल श्लोकःमामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्।नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः।।8.15।। मूल श्लोकःआब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन।मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते।।8.16।। मूल श्लोकःसहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः।रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः।।8.17।। मूल श्लोकःअव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके।।8.18।। मूल श्लोकःभूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे।।8.19।। मूल श्लोकःपरस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः।यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।8.20।। मूल श्लोकःअव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्।यं प्राप्य न निवर्तन्ते तद्धाम परमं मम।।8.21।। मूल श्लोकःपुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया।यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्।।8.22।। मूल श्लोकःयत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः।प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ।।8.23।। मूल श्लोकःअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्।तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।।8.24।। मूल श्लोकःधूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्।तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।।8.25।। मूल श्लोकःशुक्लकृष्णे गती ह्येते जगतः शाश्वते मते।एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः।।8.26।। मूल श्लोकःनैते सृती पार्थ जानन्योगी मुह्यति कश्चन।तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन।।8.27।। मूल श्लोकःवेदेषु यज्ञेषु तपःसु चैवदानेषु यत्पुण्यफलं प्रदिष्टम्।अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम्।।8.28।।
About this parayana — Vishnu
Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.
How to chant
Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.