വാല്മീകി രാമായണ — കിഷ്കിന്ധാ കാണ്ഡ
Valmiki Ramayana — Kishkindha Kanda
Valmiki Ramayana — Kishkindha Kanda
Text in देवनागरी script
Devotional text
മലയാളം script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.
स ताम् पुष्करिणीम् गत्वा पद्म उत्पल झषाकुलाम् ।रामः सौमित्रि सहितो विललाप अकुलेन्द्रियः ॥४-१-१॥ तत्र दृष्ट्वैवा ताम् हर्षात् इन्द्रियाणि चकम्पिरे ।स कामवशम् आपन्नः सौमित्रिम् इदम् अब्रवीत् ॥४-१-२॥ सौमित्रे शोभते पम्पा वैदूर्य विमल उदका ।फुल्ल पद्म उत्पलवती शोभिता विविधैः द्रुमैः ॥४-१-३॥ सौमित्रे पश्य पम्पायाः काननम् शुभ दर्शनम् ।यत्र राजन्ति शैला वा द्रुमाः स शिखरा इव ॥४-१-४॥ माम् तु शोकाभि सन्तप्तम् आधयः पीडयन्ति वै ।भरतस्य च दुःखेन वैदेह्या हरणेन च ॥४-१-५॥ शोकार्तस्य अपि मे पम्पा शोभते चित्र कानना ।व्यवकीर्णा बहु विधैः पुष्पैः शीतोदका शिवा ॥४-१-६॥ नलिनैः अपि संछन्ना हि अत्यर्थ शुभ दर्शना ।सर्प व्याल अनुचरिता मृग द्विज समाकुला ॥४-१-७॥ अधिकम् प्रविभाति एतत् नील पीतम् तु शाद्वलम् ।द्रुमाणाम् विविधैः पुष्पैः परिस्तोमैः इव अर्पितम् ॥४-१-८॥ पुष्प भार समृद्धानि शिखराणि समन्ततः ।लताभिः पुष्पित अग्राभिः उपगूढानि सर्वतः ॥४-१-९॥ सुख अनिलोऽयम् सौमित्रे कालः प्रचुर मन्मथः ।गन्धवान् सुरभिर् मासो जात पुष्प फल द्रुमः ॥४-१-१०॥ पश्य रूपाणि सौमित्रे वनानाम् पुष्प शालिनाम् ।सृजताम् पुष्प वर्षाणि वर्षम् तोयमुचाम् इव ॥४-१-११॥ प्रस्तरेषु च रम्येषु विविधाः कानन द्रुमाः ।वायु वेग प्रचलिताः पुष्पैः अवकिरन्ति गाम् ॥४-१-१२॥ पतितैः पतमानैः च पादपस्थैः च मारुतः ।कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः ॥४-१-१३॥ विक्षिपन् विविधाः शाखा नगानाम् कुसुमोत्कटाः ।मारुतः चलित स्थानैः षट्पदैः अनुगीयते ॥४-१-१४॥ मत्त कोकिल सन्नादैः नर्तयन् इव पादपान् ।शैल कन्दर निष्क्रान्तः प्रगीत इव च अनिलः ॥४-१-१५॥ तेन विक्षिपता अत्यर्थम् पवनेन समन्ततः ।अमी संसक्त शाखाग्रा ग्रथिता इव पादपाः ॥४-१-१६॥ स एव सुख संस्पर्शो वाति चन्दन शीतलः ।गन्धम् अभ्यवहन् पुण्यम् श्रम अपनयो अनिलः ॥४-१-१७॥ अमी पवन विक्षिप्ता विनन्दन्ती इव पादपाः ।षट्पदैः अनुकूजद्भिः वनेषु मधु गन्धिषु ॥४-१-१८॥ गिरि प्रस्थेषु रम्येषु पुष्पवद्भिः मनोरमैः ।संसक्त शिखरा शैला विराजन्ति महाद्रुमैः ॥४-१-१९॥ पुष्प संछन्न शिखरा मारुतः उत्क्षेप चंचला ।अमी मधुकरोत्तंसाः प्रगीत इव पादपाः ॥४-१-२०॥ सुपुष्पितांस्तु पश्य एतान् कर्णिकारान् समन्ततः ।हाटक प्रति संच्छन्नान् नरान् पीतांबरान् इव ॥४-१-२१॥ अयम् वसन्तः सौमित्रे नाना विहग नादितः ।सीतया विप्रहीणस्य शोक सन्दीपनो मम ॥४-१-२२॥ माम् हि शोक समाक्रान्तम् संतापयति मन्मथः ।हृष्टम् प्रवदमानश्च समाह्वयति कोकिलः ॥४-१-२३॥ एष दाअत्यूहको हृष्टो रम्ये माम् वन निर्झरे ।प्रणदन् मन्मथाविष्टम् शोचयिष्यति लक्ष्मण ॥४-१-२४॥ श्रुत्वा एतस्य पुरा शब्दम् आश्रमस्था मम प्रिया ।माम् आहूय प्रमुदिता परमम् प्रत्यनन्दत ॥४-१-२५॥ एवम् विचित्राः पतगा नाना राव विराविणः ।वृक्ष गुल्म लताः पश्य संपतन्ति समन्ततः॥४-१-२६॥ विमिश्रा विहगाः पुंभिः आत्म व्यूह अभिनन्दिताः ।भृङ्गराज प्रमुदिताः सौमित्रे मधुर स्वराः ॥४-१-२७॥ अस्याः कूले प्रमुदिताः संघशः शकुनास्त्विह ।दात्यूहरति विक्रन्दैः पुंस्कोकिल रुतैः अपि ॥४-१-२८॥ स्वनन्ति पादपाः च इमे माम् अनङ्ग प्रदीपकाः ।अशोक स्तबक अङ्गारः षट्पद स्वन निस्वनः ॥४-१-२९॥ माम् हि पल्लव ताम्रार्चिः वसन्ताग्निः प्रधक्ष्यति ।न हि ताम् सूक्ष्मपक्ष्माक्षीम् सुकेशीम् मृदु भाषिणीम् ॥४-१-३०॥ अपश्यतो मे सौउमित्रे जीवितेऽस्ति प्रयोजनम् ।अयम् हि रुचिरः तस्याः कालो रुचिर काननः ॥४-१-३१॥ कोकिलाकुल सीमान्तः दयिताया मम अनघः ।मन्मध आयास संभूतो वसन्त गुण वर्धितः ॥४-१-३२॥ अयम् माम् धक्ष्यति क्षिप्रम् शोकाग्निः न चिरादिव ।अपश्यत ताम् वनिताम् पश्यतो रुचिर द्रुमान् ॥४-१-३३॥ मम अयम् आत्मप्रभवो भूयस्त्वम् उपयास्यति ।अदृश्यमाना वैदेही शोकम् वर्धयती इह मे ॥४-१-३४॥ दृश्यमानो वसन्तः च स्वेद संसर्ग दूषकः ।माम् हि सा मृगशाबाक्षी चिन्ता शोक बलात्कृतम् ॥४-१-३५॥ संतापयति सौमित्रे कृइरः चैत्र वनानिलः ।अमी मयूराः शोभन्ते प्रनृत्यन्तः ततः ततः ॥४-१-३६॥ स्त्वैः पक्षैः पवन उद्धूतैः गवाक्षैः स्फाटिकैः इव ।शिखिनीभिः परिवृतास्त एते मद मूर्छिताः ॥४-१-३७॥ मन्मथ अभिपरीतस्य मम मन्मथ वर्धनाः ।पश्य लक्ष्णम नृत्यन्तम् मयूरम् उपनृत्यति ॥४-१-३८॥ शिखिनी मन्मथ आर्तैः एषा भर्तारम् गिरि सानुनि ।ताम् एव मनसा रामाम् मयुरोऽपि अनुधावति ॥४-१-३९॥ वितत्य रुचिरौ पक्षौ रुतैः उपहसन् इव ।मयूरस्य वने नूनम् रक्षसा न हृता प्रिया ॥४-१-४०॥ तस्मात् नृत्यति रम्येषु वनेषु सह कान्तया ।मम त्वयम् विना वासः पुष्पमासे सुदुःसहः ॥४-१-४१॥ पश्य लक्ष्मण संरागः तिर्यक् योनिगतेषु अपि ।यदेषा शिखिनी कामात् भर्तारम् अभिवर्तते ॥४-१-४२॥ माम् अपि एवम् विशालाक्षी जानकी जात संभ्रमा ।मदनेन अभिवर्तेत यदि न अपहृता भवेत् ॥४-१-४३॥ पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ।पुष्प भार समृद्धानाम् वनानाम् शिशिरात्यये ॥४-१-४४॥ रुचिराणि अपि पुष्पाणि पादपानाम् अतिश्रिया ।निष्फलानि महीम् यान्ति समम् मधुकरोत्करैः ॥४-१-४५॥ नदन्ति कावम् मुदिताः शकुना सङ्घशः कलम् ।आह्वयन्त इव अन्योन्यम् काम उन्मादकरा मम ॥४-१-४६॥ वसन्तो यदि तत्र अपि यत्र मे वसति प्रिया ।नूनम् परवशा सीता सा अपि शोच्यति अहम् यथा ॥४-१-४७॥ नूनम् न तु वसन्तः तम् देशम् स्पृशति यत्र सा ।कथम् हि असित पद्माक्षी वर्तयेत् सा मया विना ॥४-१-४८॥ अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया ।किम् करिष्यति सुश्रोणी सा तु निर् भर्त्सिता परैः ॥४-१-४९॥ श्यामा पद्म पलाशाक्षी मृदु भाषा च मेम् प्रिया ।नूनम् वसन्तम् आसाद्य परित्यक्ष्यति जीवितम् ॥४-१-५०॥ दृढम् हि हृदये बुधिः मम संप्रतिवर्तते ।न अलम् वर्तयितुम् सीता साध्वी मत् विरहम् गता ॥४-१-५१॥ मयि भावो हि वैदेह्याः तत्त्वतो विनिवेशितः ।मम अपि भावः सीतायाम् सर्वधा विनिवेशितः ॥४-१-५२॥ एष पुष्पवहो वायुः सुख स्पर्शो हिमावहः ।ताम् विचिन्तयतः कान्ताम् पावक प्रतिमो मम ॥४-१-५३॥ सदा सुखम् अहम् मन्ये यम् पुरा सह सीताया ।मारुतः स विना सीताम् शोक संजनओ मम ॥४-१-५४॥ ताम् विन अथ विहङ्गो असौ पक्षी प्रणदितः तदा ।वायसः पादपगतः प्रहृष्टम् अभि कूजति ॥४-१-५५॥ एष वै तत्र वैदेह्या विहगः प्रतिहारकः ।पक्षी माम् तु विशालाक्ष्याः समीपम् उपनेष्यति ॥४-१-५६॥ पश्य लक्ष्मण संनादम् वने मद विवर्धनम् ।पुष्पित अग्रेषु वृक्षेषु द्विजानाम् अवकूजताम् ॥४-१-५७॥ विक्षिप्ताम् पवनेन एताम् असौ तिलक मञ्जरीम् ।षट्पदः सहसा अभ्येति मद उद्धूताम् इव प्रियाम् ॥४-१-५८॥ कामिनाम् अयम् अत्यन्तम् अशोकः शोक वर्धनः ।स्तबकैः पवन उत्क्षिप्तैः तर्जयन् इव माम् स्थितः ॥४-१-५९॥ अमी लक्ष्मण दृश्यन्ते चूताः कुसुम शालिनः ।विभ्रम उत्सिक्त मनसः स अङ्गरागा नरा इव ॥४-१-६०॥ सौमित्रे पश्य पम्पायाः चित्रासु वन राजिषु ।किंनरा नरशार्दूल विचरन्ति ततः ततः ॥४-१-६१॥ इमानि शुभ गन्धीनि पश्य लक्ष्मण सर्वशः ।नलिनानि प्रकाशन्ते जले तरुण सूर्य वत् ॥४-१-६२॥ एषा प्रसन्न सलिला पद्म नील उत्पलायुता ।हंस कारण्डव आकीर्णा पम्पा सौगन्धिका युता ॥४-१-६३॥ जले तरुण सूर्याभैः षट्पद आहत केसरैः ।पन्कजैः शोभते पम्पा समन्तात् अभिसंवृता ॥४-१-६४॥ चक्रवाक युता नित्यम् चित्र प्रस्थ वनान्तरा ।मातंग मृग यूथैः च शोभते सलिल अर्थिभिः ॥४-१-६५॥ पवन आहत वेगाभिः ऊर्मिभिः विमले अंभसि ।पन्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥४-१-६६॥ पद्म पत्र विशालाक्षीम् सततम् प्रिय पन्कजाम् ।अपश्यतो मे वैदेहीम् जीवितम् न अभिरोचते ॥४-१-६७॥ अहो कामस्य वामत्वम् यो गताम् अपि दुर्लभाम् ।स्मारयिष्यति कल्याणीम् कल्याण तर वादिनीम् ॥४-१-६८॥ शक्यो धारयितुम् कामो भवेत् अभ्यागतो मया ।यदि भूयो वसन्तो माम् न हन्यात् पुष्पित द्रुमः ॥४-१-६९॥ यानि स्म रमणीयानि तया सह भवन्ति मे ।तानि एव अरमणीयानि जायन्ते मे तया विना ॥४-१-७०॥ पद्मकोश पलाशानि द्रष्टुम् दृष्टिः हि मन्यते ।सीताया नेत्र कोशाभ्याम् सदृशान् इति लक्ष्मण ॥४-१-७१॥ पद्म केसर संसृष्टो वृक्षान्तर विनिःसृतः ।निःश्वास इव सीताया वाति वायुः मनोहरः ॥४-१-७२॥ सौमित्रे पश्य पम्पाया दक्षिणे गिरि सानुषु ।पुष्पितान् कर्णिकारस्य यष्टिम् परम शोभिताम् ॥४-१-७३॥ अधिकम् शैल राजोऽयम् धातुभिः तु विभूषितः ।विचित्रम् सृजते रेणुम् वायु वेग विघट्टितम् ॥४-१-७४॥ गिरि प्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः ।निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥४-१-७५॥ पम्पा तीर रुहाः च इमे संसक्ता मधु गन्धिनः ।मालती मल्लिका पद्म करवीराः च पुष्पिताः ॥४-१-७६॥ केतक्यः सिन्धुवाराः च वासन्त्यः च सुपुष्पिताः ।माधव्यो गन्धपूर्णाः च कुंदगुल्माः च सर्वशः ॥४-१-७७॥ चिरिबिल्वा मधूकाः च वञ्जुला वकुलाः तथा ।चम्पकाः तिलकाः च एव नागवृक्षाः च पुष्पिताः ॥४-१-७८॥ पद्मकाः च एव शोभन्ते नील अशोकाः ।च पुष्पिताःलोध्राः च गिरि पृष्ठेषु सिंह केसर पिन्जराः ॥४-१-७९॥ अन्कोलाः च कुरण्टाः च पूर्णकाः पारिभद्रकाः ।चूताः पाटलयः च अपि कोविदाराः च पुष्पिताः ॥४-१-८०॥ मुचुकुंद अर्जुनाः च एव दृश्यन्ते गिरिसानुषुकेतक उद्दालकाः ।च एव शिरीषाः शिंशुपा धवाः ॥४-१-८१॥ शाल्मल्यः किंशुकाः च एव रक्ताः कुरवकाः तथा ।तिनिशा नक्तमालाः च चंदनाः स्यंदनाः तथा ॥४-१-८२॥ हिन्तालः तिलकाः च एव नाग वृक्षाः च पुष्पिताः ।पुष्पितान् पुष्पित अग्राभिः लताभिः परिवेष्टितान् ॥४-१-८३॥ द्रुमान् पश्य इह सौमित्रे पम्पाया रुचिरान् बहून् ।वात विक्षिप्त विटपान् यथा आसन्नान् द्रुमान् इमान् ॥४-१-८४॥ लताः समनुवर्तन्ते मत्ता इव वर स्त्रियः ।पादपात् पादपम् गच्छन् शैलात् शैलम् वनात् वनम् ॥४-१-८५॥ वाति न एक रस आस्वाद सम्मोदित इव अनिलः ।केचित् पर्याप्त कुसुमाः पादपा मधु गन्धिनः ॥४-१-८६॥ केचित् मुकुल संवीताः श्याम वर्णा इव आबभुः ।इदम् मृष्टम् इदम् स्वादु प्रफुल्लम् इदम् इत्यपि ॥४-१-८७॥ राग युक्तो मधुकरः कुसुमेषु आवलीयते।निलीय पुनर् उत्पत्य सहसा अन्यत्र गच्छति ।मधु लुब्धो मधुकरः पंपा तीर द्रुमेषु असौ ॥४-१-८८॥ इयम् कुसुम सन्घातैः उपस्तीर्णा सुखा कृता ।स्वयम् निपतितैः भूमिः शयन प्रस्तरैः इव ॥४-१-८९॥ विविधा विविधैः पुष्पैः तैः एव नगसानुषु ।विस्तेएर्णाः पीत रक्ताभा सौमित्रे प्रस्तराः कृताः ॥४-१-९०॥ हिमान्ते पश्य सौमित्रे वृक्षाणाम् पुष्प संभवम् ।पुष्प मासे हि तरवः संघर्षात् इव पुष्पिताः ॥४-१-९१॥ आह्वयन्त इव अन्योन्यम् नगाः षट्पद नादिताः ।कुसुमोत्तंस विटपाः शोभन्ते बहु लक्ष्मण ॥४-१-९२॥ एष कारण्डवः पक्षी विगाह्या सलिलम् शुभम् ।रमते कान्ताया सार्थम् कामम् उद्दीपयन् इव ॥४-१-९३॥ मंदकिन्यास्तु यदिदम् रूपम् एतन् मनोररम् ।स्थाने जगति विख्याता गुणाः तस्या मनोरमाः ॥४-१-९४॥ यदि दृश्येत सा साध्वी यदि च इह वसेम हि ।स्पृहयेयम् न शक्राय न अयोध्यायै रघूत्तम ॥४-१-९५॥ न हि एवम् रमणीयेषु शाद्वलेषु तया सह ।रमतो मे भवेत् चिन्ता न स्पृहा अन्येषु वा भवेत् ॥४-१-९६॥ अमी हि विविधैः पुष्पैः तरवो रुचिर च्छदाः ।कानने अस्मिन् विना कान्ताम् चित्तम् उत्पादयन्ति मे ॥४-१-९७॥ पश्य शीत जलाम् च इमाम् सौमित्रे पुष्कर आयुताम् ।चक्रवाक अनुचरिताम् कारण्डव निषेविताम् ॥४-१-९८॥ प्लवैः क्रौञ्चैः च संपूर्णाम् महा मृग निषेविताम् ।अधिकम् शोभते पम्पा विकूजद्भिः विहङ्गमैः ॥४-१-९९॥ दीपयन्ती इव मे कामम् विविधा मुदिता द्विजाः ।श्यामाम् चन्द्र मुखीम् स्मृत्वा प्रियाम् पद्म निभ ईक्षणाम् ॥४-१-१००॥ पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् ।माम् पुनः मृग शबाक्षी वैदेह्या विरहीकृतम् ।व्यधयन्तीव मे चित्तम् संचरन्तः ततः ततः ॥४-१-१०१॥ अस्मिन् सानुनि रम्ये हि मत्त द्विज गणाकुले ।पश्य अयम् यदि ताम् कन्ताम् ततः स्वस्ति भवेत् मम ॥४-१-१०२॥ जीवेयम् खलु सौमित्रे मया सह सुमध्यमा ।सेवेत यदि वैदेही पम्पायाः पवनम् शुभम् ॥४-१-१०३॥ पद्म सौगन्धिक वहम् शिवम् शोक विनाशनम् ।धन्या लक्ष्मण सेवन्ते पम्पाया वन मरुतम् ॥४-१-१०४॥ श्यमा पद्म पलाशाक्षी प्रिया विरहिता मया ।कथम् धरयति प्राणान् विवशा जनकात्मजा ॥४-१-१०५॥ किम् नु वक्ष्यामि धर्मज्ञम् राजानम् सत्य वादिनम् ।जनकम् पृष्ट सीतम् तम् कुशलम् जन संसदि ॥४-१-१०६॥ या मम् अनुगता मन्दम् पित्रा प्रस्थापितुम् वनम् ।सीता धर्मम् समास्थय क्व नु सा वर्तते प्रिया ॥४-१-१०७॥ तया विहीनः कृपणः कथम् लक्ष्मण धारये ।य माम् अनुगता रज्यात् भ्रष्टम् विहत चेतसम् ॥४-१-१०८॥ तत् चारु अञ्चित पद्माक्षम् सुगन्धि शुभम् अव्रणम् ।अपश्यतो मुखम् तस्याः सीदति इव मतिः मम ॥४-१-१०९॥ स्मित हास्यान्तर युतम् गुणवत् मधुरम् हितम् ।वैदेह्याः वाक्यम् अतुलम् कदा श्रोष्यामि लक्ष्मण ॥४-१-११०॥ प्राप्य दुःखम् वने श्यामा माम् मन्मध विकर्शितम् ।नष्ट दुःखेव हृष्टेव साध्वी साधु अभ्यभाषत ॥४-१-१११॥ किम् नु वक्ष्यामि अयोध्यायाम् कौसल्याम् हि नृपात्मज ।क्व सा स्नुषा इति पृच्छन्तीम् कथम् च अति मनस्विनीम् ॥४-१-११२॥ गच्छ लक्ष्मण पश्य त्वम् भरतम् भ्रातृउ वत्सलम् ।न हि अहम् जीवितुम् शक्तः ताम् ऋते जनकात्मजम् ॥४-१-११३॥ इति रामम् महात्मानम् विलपन्तम् अनाथ वत् ।उवाच लक्ष्मणो भ्राता वचनम् युक्तम् अव्ययम् ॥४-१-११४॥ संस्थम्भ राम भद्रम् ते मा शुचः पुरुषोत्तम ।न ईदृइशानाम् मतिः मन्दा भवति अकलुषात्मनाम् ॥४-१-११५॥ स्मृत्वा वियोगजम् दुःखम् त्यज स्नेहम् प्रिये जने ।अति स्नेह परिष्वन्गात् वर्तिः अर्द्रा अपि दह्यते ॥४-१-११६॥ यदि गच्छति पतालम् ततो अभ्यऽधिकम् एव वा ।सर्वधा रावणः तात न भविष्यति राघव ॥४-१-११७॥ प्रवृत्तिः लभ्यताम् तावत् तस्य पापस्य रक्षसः ।ततः हास्यति वा सीताम् निधनम् वा गमिष्यति ॥४-१-११८॥ यदि याति दितेः गर्भम् रावणः सह सीताया ।तत्र अपि एनम् हनिष्यामि न चेत् दास्यति मैथिलीम् ॥४-१-११९॥ स्वास्थ्यम् भद्रम् भजस्व आर्यः त्यजताम् कृपणा मतिः ।अर्थो हि नष्ट कार्यार्थैः न अयत्ने न अधिगम्यते ॥४-१-१२०॥ उत्साहो बलवान् आर्य नास्ति उत्साहात् परम् बलम् ।सः उत्साहस्य हि लोकेषु न किंचित् अपि दुर्लभम् ॥४-१-१२१॥ उत्साहवन्तः पुरुषा न अवसीदन्ति कर्मसु ।उत्साह मत्रम् आश्रित्य सीताम् प्रतिलप्स्याम् जनकीम् ॥४-१-१२२॥ त्यज्य काम वृत्तत्वम् शोकम् सम् न्यस्य पृष्टतः ।महात्मानम् कृतात्मानम् आत्मानम् न अवबुध्यसे ॥४-१-१२३॥ एवम् संबोधितः तेन शोकोपहत चेतनः ।त्य्ज्य शोकम् च मोहम् च रामो धैर्यम् उपागमत् ॥४-१-१२४॥ सोऽभ्य अतिक्रामत् अव्यग्रः ताम् अचिन्त्य पराक्रमः ।रामः पम्पाम् सु रुचिराम् रम्याम् पारिप्लव द्रुमान् ॥४-१-१२५॥ निरीक्षमाणः सहसा महात्मा सर्वम् वनम् निर्झर कन्दराम् च ।उद्विग्न चेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥४-१-१२६॥ तम् मत्त मातङ्ग विलास गामी गच्छन्तम् अव्यग्र मनाः महात्मा ।स लक्ष्मणो राघवम् अप्रमत्तो ररक्ष धर्मेण बलेन च एव ॥४-१-१२७॥ तौ ऋष्यमूकस्य समीप चारी चरन् ददर्श अद्भुत दर्शनीयौ ।शाखा मृगाणाम् अधिपः तरस्वी वितत्रसे नैव चिचेष्ट चेष्टाम् ॥४-१-१२८॥ स तौ महात्मा गज मन्द गामि शखा मृगः तत्र चिरन् चरन्तौ ।दृष्ट्वा विषादम् परमम् जगाम चिन्ता परीतो भय भार मग्नः ॥४-१-१२९॥ तम् आश्रमम् पुण्य सुखम् शरण्यम् सदैव शाखा मृग सेवितान्तम् ।त्रस्ताः च दृष्ट्वा हरयोः अभिजग्मुः महौजसौ राघव लक्ष्मणौ तौ ॥४-१-१३०॥ तौ तु दृष्ट्वा महात्मानौ भ्रातरौ राम लक्ष्मणौ ।वर आयुध धरौ वीरौ सुग्रीवः श्ङ्कितोऽभवत् ॥४-२-१॥ उद्विग्न हृदयः सर्वा दिशः समवलोकयन् ।न व्यतिष्ठत कस्मिन् चित् देशे वानर पुङ्गवः ॥४-२-२॥ नैव चक्रे मनः स्थातुम् वीक्षमाणो महाबलौ ।कपेः परम भीतस्य चित्तम् व्यवससाद ह ॥४-२-३॥ चिन्तयित्वा स धर्मात्मा विमृश्य गुरु लाघवम् ।सुग्रीवः परम उद्विग्नः सर्वैः तैः वानरैः सह ॥४-२-४॥ ततः स सचिवेभ्यः तु सुग्रीवः प्लवगाधिपः ।शशंस परम उद्विग्नः पश्यन् तौ राम लक्ष्मणौ ॥४-२-५॥ एतौ वनम् इदम् दुर्गम् वालि प्रणिहितौ ध्रुवम् ।छद्मना चीर वसनौ प्रचरन्तौ इह आगतौ ॥४-२-६॥ ततः सुग्रीव सचिवा दृष्ट्वा परम धन्विनौ ।जग्मुः गिरि तटात् तस्माद् अन्यत् शिखरम् उत्तमम् ॥४-२-७॥ ते क्षिप्रम् अभिगम्य अथ यूथपा यूथपर्षभम् ।हरयो वानर श्रेष्ठम् परिवार्य उपतस्थिरे ॥४-२-८॥ एवम् एक आयन गताः प्लवमाना गिरेः गिरिम् ।प्रकंपयन्तो वेगेन गिरीणाम् शिखराणि च ॥४-२-९॥ ततः शाखा मृगाः सर्वे प्लवमाना महाबलाः ।बभंजुः च नगान् तत्र पुष्पितान् दुर्गम् आश्रितान् ॥४-२-१०॥ आप्लवन्तो हरिवराः सर्वतः तम् महागिरिम् ।मृग मार्जार शार्दूलान् त्रासयन्तो ययुः तदा ॥४-२-११॥ ततः सुग्रीव सचिवाः पर्वतेन्द्रे समाहिताः ।संगम्य कपि मुख्येन सर्वे प्रांजलयः स्थिताः ॥४-२-१२॥ ततः तु भय संत्रस्तम् वालि किल्बिष शन्कितम् ।उवाच हनुमान् वाक्यम् सुग्रीवम् वाक्य कोविदः ॥४-२-१३॥ संभ्रमः त्यजताम् एष सर्वैः वालि कृते महान् ।मलयोऽयम् गिरिवरो भयम् न इह अस्ति वालिनः ॥४-२-१४॥ यस्मात् उद्विग्न चेताः त्वम् विद्रुतो हरिपुंगव ।तम् क्रूर दर्शनम् क्रूरम् न इह पश्यामि वालिनम् ॥४-२-१५॥ यस्मात् तव भयम् सौम्य पूर्वजात् पाप कर्मणः ।स न इह वाली दुष्टात्मा न ते पश्यामि अहम् भयम् ॥४-२-१६॥ अहो शाखा मृगत्वम् ते व्यक्तम् एव प्लवंगम ।लघु चित्ततया आत्मानम् न स्थापयसि यो मतौ ॥४-२-१७॥ बुद्धि विज्ञान संपन्न इङ्गितैः सर्वम् आचर ।न हि अबुद्धिम् गतो राजा सर्व भूतानि शास्ति हि ॥४-२-१८॥ सुग्रीवः तु शुभम् वाक्यम् श्रुत्वा सर्वम् हनूमतः ।ततः शुभतरम् वाक्यम् हनूमन्तम् उवाच ह ॥४-२-१९॥ दीर्घ बाहू विशालाक्षौ शर चाप असि धारिणौ ।कस्य न स्यात् भयम् दृष्ट्वा हि एतौ सुर सुत उपमौ ॥४-२-२०॥ वालि प्रणिहितौ एव शन्के अहम् पुरुषोत्तमौ ।राजानो बहु मित्राः च विश्वासो न अत्र हि क्षमः ॥४-२-२१॥ अरयः च मनुष्येण विज्ञेयाः छद्म चारिणः ।विश्वस्तानाम् अविश्वस्ताः छिद्रेषु प्रहरन्ति अपि ॥४-२-२२॥ कृत्येषु वाली मेधावी राजानो बहु दर्शनः ।भवन्ति पर हन्तारः ते ज्ञेयाः प्राकृतैः नरैः ॥४-२-२३॥ तौ त्वया प्राकृतेन एव गत्वा ज्ञेयौ प्लवंगम ।इङ्गितानाम् प्रकारैः च रूपव्या भाषणेन च ॥४-२-२४॥ लक्षयस्व तयोः भावम् प्रहृष्ट मनसौ यदि ।विश्वासयन् प्रशंसाभिः इङ्गितैः च पुनः पुनः ॥४-२-२५॥ मम एव अभिमुखम् स्थित्वा पृच्छ त्वम् हरि पुंगव ।प्रयोजनम् प्रवेशस्य वनस्य अस्य धनुर् धरौ ॥४-२-२६॥ शुद्ध आत्मानौ यदि एतौ जानीहि त्वम् प्लवंगम ।व्याभाषितैः वा रूपैः वा विज्ञेया दुष्टता अनयोः ॥४-२-२७॥ इति एवम् कपिराजेन संदिष्टो मारुतात्मजः ।चकार गमने बुद्धिम् यत्र तौ राम लक्ष्मणौ ॥४-२-२८॥ तथा इति संपूज्य वचः तु तस्य कपेः सुभीतस्य दुरासदस्य ।महानुभावो हनुमान् ययौ तदा स यत्र रामो अतिबली स लक्ष्मणः ॥४-२-२९॥ वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ।पर्वतात् ऋष्यमूकात् तु पुप्लुवे यत्र राघवौ ॥४-३-१॥ कपि रूपम् परित्यज्य हनुमान् मारुतात्मजः ।भिक्षु रूपम् ततो भेजे शठबुद्धितया कपिः ॥४-३-२॥ ततः च हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया ।विनीतवत् उपागम्य राघवौ प्रणिपत्य च ॥४-३-३॥ अबभाषे च तौ वीरौ यथावत् प्रशशंस च ।संपूज्य विधिवद् वीरौ हनुमान् वानरोत्तमः ॥४-३-४॥ उवाच कामतो वाक्यम् मृदु सत्य पराक्रमौ ।राजर्षि देव प्रतिमौ तापसौ संशित व्रतौ ॥४-३-५॥ देशम् कथम् इमम् प्राप्तौ भवन्तौ वर वर्णिनौ ।त्रासयन्तौ मृग गणान् अन्याम् च वन चारिणः ॥४-३-६॥ पम्पा तीर रुहान् वृक्षान् वीक्षमाणौ समंततः ।इमाम् नदीम् शुभ जलाम् शोभयन्तौ तरस्विनौ ॥४-३-७॥ धैर्यवन्तौ सुवर्णाभौ कौ युवाम् चीर वाससौ ।निःश्वसन्तौ वर भुजौ पीडयन्तौ इमाः प्रजाः ॥४-३-८॥ सिंह विप्रेक्षितौ वीरौ महाबल पराक्रमौ ।शक्र चाप निभे चापे गृहीत्वा शत्रु नाशनौ ॥४-३-९॥ श्रीमन्तौ रूप संपन्नौ वृषभ श्रेष्ठ विक्रमौ ।हस्ति हस्त उपम भुजौ द्युतिमन्तौ नरर्षभौ ॥४-३-१०॥ प्रभया पर्वत इन्द्रः असौ युवयोः अवभासितः ।राज्य अर्हौ अमर प्रख्यौ कथम् देशम् इह आगतौ ॥४-३-११॥ पद्म पत्र ईक्षणौ वीरौ जटा मण्डल धारिणौ ।अन्योन्य सदृशौ वीरौ देव लोकात् इह आगतौ ॥४-३-१२॥ यदृच्छयेव संप्राप्तौ चन्द्र सूर्यौ वसुंधराम् ।विशाल वक्षसौ वीरौ मानुषौ देव रूपिणौ ॥४-३-१३॥ सिंह स्कन्धौ महा उत्साहौ समदौ इव गोवृषौ ।आयताः च सुवृत्ताः च बाहवः परिघोपमाः ॥४-३-१४॥ सर्व भूषण भूषार्हाः किम् अर्थम् न विभूषिताः ।उभौ योग्यौ अहम् मन्ये रक्षितुम् पृथिवीम् इमाम् ॥४-३-१५॥ स सागर वनाम् कृत्स्नाम् विन्ध्य मेरु विभूषिताम् ।इमे च धनुषी चित्रे श्लक्ष्णे चित्र अनुलेपने ॥४-३-१६॥ प्रकाशेते यथा इन्द्रस्य वज्रे हेम विभूषिते ।संपूर्णाः च शितैः बाणैः तूणाः च शुभ दर्शनाः ॥४-३-१७॥ जीवित अन्तकरैः घोरैः ज्वलद्भिः इव पन्नगैः ।महा प्रमाणौ विपुलौ तप्त हाटक भूषणौ ॥४-३-१८॥ खड्गौ एतौ विराजेते निर्मुक्त भुजगौ इव ।एवम् माम् परिभाषन्तम् कस्माद् वै न अभि भाषतः ॥४-३-१९॥ सुग्रीवो नाम धर्मात्मा कश्चित् वानर पुंगवः ।वीरो विनिकृतो भ्रात्रा जगत् भ्रमति दुःखितः ॥४-३-२०॥ प्राप्तः अहम् प्रेषितः तेन सुग्रीवेण महात्मना ।राज्ञा वानर मुख्यानाम् हनुमान् नाम वानरः ॥४-३-२१॥ युवाभ्याम् स हि धर्मात्मा सुग्रीवः सख्यम् इच्छति ।तस्य माम् सचिवम् वित्तम् वानरम् पवनात्मजम् ॥४-३-२२॥ भिक्षु रूप प्रति च्छन्नम् सुग्रीव प्रिय कारणात् ।ऋश्यमूकात् इह प्राप्तम् कामगम् कामचारिणम् ॥४-३-२३॥ एवम् उक्त्वा तु हनुमाम् तौ वीरौ राम लक्ष्मणौ ।वाक्यज्ञो वाक्य कुशलः पुनः न उवाच किंचन ॥४-३-२४॥ एतत् श्रुत्वा वचः तस्य रामो लक्ष्मणम् अब्रवीत् ।प्रहृष्ट वदनः श्रीमान् भ्रातरम् पार्श्वतः स्थितम् ॥४-३-२५॥ सचिवो अयम् कपीन्द्रस्य सुग्रीवस्य महात्मनः ।तम् एव काङ्क्षमाणस्य मम अन्तिकम् इह आगतः ॥४-३-२६॥ तम् अभ्यभाष सौमित्रे सुग्रीव सचिवम् कपिम् ।वाक्यज्ञम् मधुरैः वाक्यैः स्नेह युक्तम् अरिन्दम ॥४-३-२७॥ न अन् ऋग्वेद विनीतस्य न अ\-\-यजुर्वेद धारिणः ।न अ\-\-साम वेद विदुषः शक्यम् एवम् विभाषितुम् ॥४-३-२८॥ नूनम् व्यकरणम् कृत्स्नम् अनेन बहुधा श्रुतम् ।बहु व्याहरता अनेन न किंचित् अप शब्दितम् ॥४-३-२९॥ न मुखे नेत्रयोः च अपि ललाटे च भ्रुवोः तथा ।अन्येषु अपि च सर्वेषु दोषः संविदितः क्वचित् ॥४-३-३०॥ अविस्तरम् असंदिग्धम् अविलम्बितम् अव्यथम् ।उरःस्थम् कण्ठगम् वाक्यम् वर्तते मध्यमे स्वरम् ॥४-३-३१॥ संस्कार क्रम संपन्नाम् अद्भुताम् अविलम्बिताम् ।उच्चारयति कल्याणीम् वाचम् हृदय हर्षिणीम् ॥४-३-३२॥ अनया चित्रया वाचा त्रिस्थान व्यंजनस्थयाः ।कस्य न आराध्यते चित्तम् उद्यत् असे अरेः अपि ॥४-३-३३॥ एवम् विधो यस्य दूतो न भवेत् पार्थिवस्य तु ।सिद्ध्यन्ति हि कथम् तस्य कार्याणाम् गतयोऽनघ ॥४-३-३४॥ एवम् गुण गणैर् युक्ता यस्य स्युः कार्य साधकाः ।तस्य सिद्ध्यन्ति सर्वेऽर्था दूत वाक्य प्रचोदिताः ॥४-३-३५॥ एवम् उक्तः तु सोउमित्रिः सुग्रीव सचिवम् कपिम् ।अभ्यभाषत वाक्यज्ञो वाक्यज्ञम् पवनात्मजम् ॥४-३-३६॥ विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः ।तम् एव च अवाम् मार्गावः सुग्रीवम् प्लवगेश्वरम् ॥४-३-३७॥ यथा ब्रवीषि हनुमान् सुग्रीव वचनाद् इह ।तत् तथा हि करिष्यावो वचनात् तव सत्तम ॥४-३-३८॥ तत् तस्य वाक्यम् निपुणम् निशम्यप्रहृष्ट रूपः पवनात्मजः कपिः ।मनः समाधाय जय उपपत्तौसख्यम् तदा कर्तुम् इयेष ताभ्याम् ॥४-३-३९॥ ततः प्रहृष्टो हनुमान् कृत्यवान् इति तत् वचः ।श्रुत्वा मधुर भावम् च सुग्रीवम् मनसा गतः ॥४-४-१॥ भाव्यो राज्यागमः तस्य सुग्रीवस्य महात्मनः ।यत् अयम् कृत्यवान् प्राप्तः कृत्यम् च एतत् उपागतम् ॥४-४-२॥ ततः परम संहृष्टः हनुमान् प्लवगोत्तमः ।प्रति उवाच ततो वाक्यम् रामम् वाक्य विशारदः ॥४-४-३॥ किम् अर्थम् त्वम् वनम् घोरम् पम्पा कानन मण्डितम् ।आगतः सानुजो दुर्गम् नाना व्याल मृग आयुतम् ॥४-४-४॥ तस्य तद् वचनम् श्रुत्वा लक्ष्मणो राम चोदितः ।आचचक्षे महात्मानम् रामम् दशरथात्मजम् ॥४-४-५॥ राजा दशरथो नाम द्युतिमान् धर्म वत्सलः ।चातुर् वर्ण्यम् स्व धर्मेण नित्यम् एव अभिपालयन् ॥४-४-६॥ न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन ।स तु सर्वेषु भूतेषु पितामह इव अपरः ॥४-४-७॥ अग्निष्टोमादिभिः यज्ञैः इष्टवान् आप्त दक्षिणैः ।तस्य अयम् पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥४-४-८॥ शरण्यः सर्व भूतानाम् पितुः निर्देश पारगः ।ज्येष्टो दशरथस्य अयम् पुत्राणाम् गुणवत्तरः ॥४-४-९॥ राज लक्षण संयुक्तः संयुक्तो राज्य सम्पदा।राजात् भ्रष्टो मया वस्तुम् वने सार्धम् इह आगतः ॥४-४-१०॥ भार्यया च महाभाग सीतया अनुगतो वशी ।दिन क्षये महातेजाः प्रभ एव दिवाकरः ॥४-४-११॥ अहम् अस्य अवरः भ्राता गुणैः दास्यम् उपागतः ।कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥४-४-१२॥ सुखार्हस्य महार्हस्य सर्वभूत हितात्मनः ।ऐश्वर्येण विहीनस्य वनवासे रतस्य च ॥४-४-१३॥ रक्षस अपहृता भार्या रहिते काम रूपिणा ।तत् च न ज्ञायते रक्षः पत्नी येन अस्य वा हृता ॥४-४-१४॥ दनुः नाम दितेः पुत्रः शापात् राक्षसताम् गतः ।आख्यातः तेन सुग्रीवः समर्थो वानराधिपः ॥४-४-१५॥ स ज्ञास्यति महावीर्यः तव भार्या अपहारिणम् ।एवम् उक्त्वा दनुः स्वर्गम् भ्राजमानो दिवम् गतः ॥४-४-१६॥ एतत् ते सर्वम् आख्यातम् याथातथ्येन पृच्छतः ।अहम् चैव च रामः च सुग्रीवम् शरणम् गतौ ॥४-४-१७॥ एष दत्त्वा च वित्तानि प्राप्य च अनुत्तमम् यशः ।लोकनाथः पुरा भूत्वा सुग्रीवम् नाथम् इच्छति ॥४-४-१८॥ सीता यस्य स्नुषा च आसीत् शरण्यो धर्मवत्सलः ।तस्य पुत्रः शरण्यस्य सुग्रीवम् शरणम् गतः ॥४-४-१९॥ सर्व लोकस्य धर्मात्मा शरण्यः शरणम् पुरा ।गुरुर् मे राघवः सोऽयम् सुग्रीवम् शरणम् गतः ॥४-४-२०॥ यस्य प्रसादे सततम् प्रसीदेयुः इमाः प्रजाः ।स रामः वानरेन्द्रस्य प्रसादम् अभिकाङ्क्षते ॥४-४-२१॥ येन सर्व गुणोपेताः पृथिव्याम् सर्व पार्थिवाः ।मानिताः सततम् राज्ञा सदा दशरथेन वै ॥४-४-२२॥ तस्य अयम् पूर्वजः पुत्रः त्रिषु लोकेषु विश्रुतः ।सुग्रीवम् वानरेन्द्रम् तु रामः शरणम् आगतः ॥४-४-२३॥ शोक अभिभूते रामे तु शोक आर्ते शरणम् गते ।कर्तुम् अर्हति सुग्रीवः प्रसादम् सह यूथपैः ॥४-४-२४॥ एवम् ब्रुवाणम् सौमित्रिम् करुणम् स अश्रु पातनम् ।हनुमान् प्रति उवाच इदम् वाक्यम् वाक्य विशारदः ॥४-४-२५॥ ईदृशा बुद्धि संपन्ना जितक्रोधा जितेइन्द्रियाः ।द्रष्टव्या वानरेइन्द्रेण दिष्ट्या दर्शनम् आगताः ॥४-४-२६॥ स हि राज्यात् च विभ्रष्टः कृत वैरः च वालिना ।हृत दारो वने त्रस्तः भ्रात्रा विनिकृतः भृशम् ॥४-४-२७॥ करिष्यति स साहाय्यम् युवयोः भास्करात्मजः ।सुग्रीवः सह च अस्माभिः सीतायाः परिमार्गणे ॥४-४-२८॥ इति एवम् उक्त्वा हनुमान् श्लक्ष्णम् मधुरया गिरा ।बभाषे साधु गच्छामः सुग्रीवम् इति राघवम् ॥४-४-२९॥ एवम् ब्रुवन्तम् धर्मात्मा हनूमन्तम् स लक्ष्मणः ।प्रतिपूज्य यथा न्यायम् इदम् प्रोवाच राघवम् ॥४-४-३०॥ कपिः कथयते हृष्टो यथा अयम् मारुतात्मजः ।कृत्यवान् सोऽपि संप्राप्तः कृत कृत्योऽसि राघव ॥४-४-३१॥ प्रसन्न मुख वर्णः च व्यक्तम् हृष्टः च भाषते ।न अनृतम् वक्ष्यते वीरो हनूमान् मारुतात्मजः ॥४-४-३२॥ ततः स सुमहाप्राज्ञः हनुमान् मारुतात्मजः ।जगाम आदाय तौ वीरौ हरि राजाय राघवौ ॥४-४-३३॥ भिक्षु रूपम् परित्यज्य वानरम् रूपम् आस्थितः ।पृष्टम् आरोप्य तौ वीरौ जगाम कपिकुङ्जरः ॥४-४-३४॥ स तु विपुल यशाः कपि प्रवीरः पवनसुतः कृत कृत्यवत् प्रहृष्टः ।गिरि वरम् उरुविक्रमः प्रयातः स शुभमतिः सह राम लक्ष्मणाभ्याम् ॥४-४-३५॥ ऋश्यमूकात् तु हनुमान् गत्वा तम् मलयम् गिरिम् ।आचचक्षे तदा वीरौ कपि राजाय राघवौ ॥४-५-१॥ अयम् रामो महाप्राज्ञ संप्राप्तो दृढ विक्रमः ।लक्ष्मणेन सह भ्रात्रा रामोऽयम् सत्य विक्रमः ॥४-५-२॥ इक्ष्वाकूणाम् कुले जातो रामो दशरथात्मजः ।धर्मे निगदितः च एव पितुर् निर्देश कारकः ॥४-५-३॥ राजसूय अश्वमेधैः च वह्निः येन अभितर्पितः ।दक्षिणाः च तथा उत्सृष्टा गावः शत सहस्रशः ॥४-५-४॥ तपसा सत्य वाक्येन वसुधा येन पालिता ।स्त्री हेतोः तस्य पुत्रोऽयम् रामः अरणयम् समागतः ॥४-५-५॥ तस्य अस्य वसतो अरण्ये नियतस्य महात्मनः ।रावणेन हृता भार्या स त्वाम् शरणम् आगतः ॥४-५-६॥ भवता सख्य कामौ तौ भ्रातरौ राम लक्ष्मणौ ।प्रगृह्य च अर्चयस्व एतौ पूजनीयतमौ उभौ ॥४-५-७॥ श्रुत्वा हनुमतो वाक्यम् सुग्रीवो वानर अधिपः ।दर्शनीयतमो भूत्वा प्रीत्या उवाच राघवम् ॥४-५-८॥ भवान् धर्म विनीतः च सुतपाः सर्व वत्सलः ।आख्याता वायुपुत्रेण तत्त्वतो मे भवद् गुणाः ॥४-५-९॥ तन् मम एव एष सत्कारो लाभः च एव उत्तमः प्रभो ।यत् त्वम् इच्छसि सौहार्दम् वानरेण मया सह ॥४-५-१०॥ रोचते यदि मे सख्यम् बाहुः एष प्रसारितः ।गृह्यताम् पाणिना पाणिः मर्यादा बध्यताम् ध्रुवा ॥४-५-११॥ एतत् तु वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् ।संप्रहृष्ट मना हस्तम् पीडयामास पाणिना ॥४-५-१२॥ हृष्टः सौहृदम् आलम्ब्य पर्यष्वजत पीडितम् ।ततो हनूमान् संत्यज्य भिक्षु रूपम् अरिन्दमः ॥४-५-१३॥ काष्ठयोः स्वेन रूपेण जनयामास पावकम् ।दीप्यमानम् ततो वह्निम् पुष्पैः अभ्यर्च्य सत्कृतम् ॥४-५-१४॥ तयोर् मध्ये तु सुप्रीतो निदधौ सुसमाहितः ।ततो अग्निम् दीप्यमानम् तौ चक्रतुः च प्रदक्षिणम् ॥४-५-१५॥ सुग्रीवो राघवः च एव वयस्यत्वम् उपागतौ ।ततः सुप्रीत मनसौ तौ उभौ हरि राघवौ ॥४-५-१६॥ अन्योन्यम् अभिवीक्षन्तौ न तृप्तिम् अभिजग्मतुः ।त्वम् वयस्योऽसि हृद्यः मे हि एकम् दुःखम् सुखम् च नौ ॥४-५-१७॥ सुग्रीवो राघवम् वाक्यम् इति उवाच प्रहृष्टवत् ।ततः सुपर्ण बहुलाम् भंक्त्वा शाखाम् सुपुष्पिताम् ॥४-५-१८॥ सालस्य आस्तीर्य सुग्रीवः निषसाद स राघवः ।लक्ष्मनाय अथ संहृष्टो हनुमान् मारुतात्मजः ॥४-५-१९॥ शखाम् चन्दन वृक्षस्य ददौ परम पुष्पिताम् ।ततः प्रहृष्टः सुग्रीवः श्लक्ष्णम् मधुरया गिरा ॥४-५-२०॥ प्रति उवाच तदा रामम् हर्ष व्याकुल लोचनः ।अहम् विनिकृतो राम चरमि इह भय आर्दितः ॥४-५-२१॥ हृत भार्यो वने त्रस्तो दुर्गम् एतत् उपाश्रितः ।सोऽहम् त्रस्तो वने भीतो वसामि उद् भ्रान्त चेतनः ॥४-५-२२॥ वालिना निकृतो भ्रात्रा कृत वैरः च राघव ।वालिनो मे महाभाग भय आर्तस्य अभयम् कुरु ॥४-५-२३॥ कर्तुम् अर्हसि काकुत्स्थः भयम् मे न भवेद् यथा ।एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः ॥४-५-२४॥ प्रति अभाषत काकुत्स्थः सुग्रीवम् प्रहसन् इव ।उपकार फलम् मित्रम् विदितम् मे महाकपे ॥४-५-२५॥ वालिनम् तम् वधिष्यामि तव भार्य अपहारिणम् ।अमोघोः सूर्य संकाशाः मम इमे निशिताः शराः ॥४-५-२६॥ तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ।कन्क पत्र प्रतिच्छन्ना महेन्द्र अशनि संनिभाः ॥४-५-२७॥ तीक्ष्णाग्रा ऋजुपर्वाणः स रोषा भुजगा इव ।तम् अद्य वालिनम् पश्य तीक्ष्णैः आशी विष उपमैः ॥४-५-२८॥ शरैः विनिहितम् भूमौ प्रकीर्णम् इव पर्वतम् ।स तु तद् वचनम् श्रुत्वा राघवस्य आत्मनोहितम् ।सुग्रीवः परम प्रीतः परमम् वाक्यम् अब्रवीत् ॥४-५-२९॥ तव प्रसादेन नृसिंह वीरप्रियाम् च राज्यम् च समाप्नुयाम् अहम् ।तथा कुरु त्वम् नर देव वैरिणम्यथा न हिंस्यत् स पुनर् मम अग्रजम् ॥४-५-३०॥ सीत कपीन्द्र क्षणदा चराणाम्राजीव हेम ज्वलनोपमानानि ।सुग्रीव राम प्रणय पसङ्गेवामानि नेत्राणि समम् स्फुरन्ति ॥४-५-३१॥ पुनरेव अब्रवीत् प्रीतः राघवम् रघुनन्दनम् ।अयम् आख्याति ते राम सेवकः मन्त्रि सत्तमः ॥४-६-१॥ हनुमान् यन् निमित्तम् त्वम् निर्जनम् वनम् आगतः ।लक्ष्मणेन सह भ्रात्रा वसतः च वने तव ॥४-६-२॥ रक्षसा अपहृता भार्या मैथिली जनक आत्मजा ।त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥४-६-३॥ अन्तरम् प्रेप्सुना तेन हत्वा गृध्रम् जटायुषम् ।भार्या वियोगजम् दुःखम् प्रापितः तेन रक्ष्सा ॥४-६-४॥ भर्या वियोगजम् दुःखम् न चिरात् त्वम् विमोक्ष्यसे ।अहम् ताम् आनयिष्यामि नष्टाम् वेदश्रुतीम् इव ॥४-६-५॥ रसातले वा वर्तन्तीम् वर्तन्तीम् वा नभः तले ।अहम् आनीय दास्यामि तव भार्याम् अरिन्दम ॥४-६-६॥ इदम् तथ्यम् मम वचः त्वम् अवेहि च राघव ।न शक्या सा जरयितुम् अपि सः इन्द्रैः सुर असुरैः ॥४-६-७॥ तव भार्या महाबाहो भक्ष्यम् विष कृतम् यथा ।त्यज शोकम् महाबाहो ताम् कान्ताम् आनयामि ते ॥४-६-८॥ अनुमानात् तु जानामि मैथिली सा न संशयः ।ह्रियमाणा मया दृष्टा रक्षसा रौउद्र कर्मणा ॥४-६-९॥ क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ।स्फुरन्ती रावणस्य अन्के पन्नगेन्द्र वधूः यथा ॥४-६-१०॥ आत्मना पञ्चमम् माम् हि दृष्ट्वा शैल तले स्थितम् ।उत्तरीयम् तया त्यक्तम् शुभानि आभरणानि च ॥४-६-११॥ तानि अस्माभिः गृहीतानि निहितानि च राघव ।आनयिष्यामि अहम् तानि प्रत्यभिज्ञातुम् अर्हसि ॥४-६-१२॥ तम् अब्रवीत् ततः रामः सुग्रीवम् प्रिय वादिनम् ।आनयस्व सखे शीघ्रम् किम् अर्थम् प्रविलम्बसे ॥४-६-१३॥ एवम् उक्तः तु सुग्रीवः शैलस्य गहनाम् गुहाम् ।प्रविवेश ततः शीघ्रम् राघव प्रिय काम्यया ॥४-६-१४॥ उत्तरीयम् गृहीत्वा तु स तानि आभरणानि च ।इदम् पश्य इति रामाय दर्शयामास वानरः ॥४-६-१५॥ ततो गृहीत्वा वासः तु शुभानि आभरणानि च ।अभवत् बाष्प सम्रुद्धः नीहारेण इव चन्द्रमाः ॥४-६-१६॥ सीता स्नेह प्रवृत्तेन स तु बाष्पेण दूषितः ।हा प्रिये इति रुदन् धैर्यम् उत्सृज्य न्यपतत् क्षितौ ॥४-६-१७॥ हृदि कृत्वा स बहुशः तम् अलंकारम् उत्तमम् ।निशश्वास भृशम् सर्पः बिलस्थ इव रोषितः ॥४-६-१८॥ अविच्छिन्न अश्रु वेगः तु सौमित्रिम् प्रेक्ष्य पार्श्वतः ।परिदेवयितुम् दीनम् रामः सम् उपचक्रमे ॥४-६-१९॥ पश्य लक्ष्मण वैदेह्या संत्यक्तम् ह्रियमाणया ।उत्तरीयम् इदम् भूमौ शरीराद् भूषणानि च ॥४-६-२०॥ शाद्वलिन्याम् ध्रुवम् भूम्याम् सीतया ह्रियमाणया ।उत्सृष्टम् भूषणाम् इदम् तथा रूपम् हि दृश्यते ॥४-६-२१॥ एवम् उक्तसः तु रामेण लक्ष्मणो वाक्यम् इदम् अब्रवीत् ।न अहम् जानामि केयूरे न अहम् जानामि कुन्डले ॥४-६-२२॥ नूपुरे तु अभिजनामि नित्यम् पाद अभिवंदनात् ।ततः तु राघवो वाक्यम् सुग्रीवम् इदम् अब्रवीत् ॥४-६-२३॥ ब्रूहि सुग्रीव कम् देशम् ह्रियन्ती लक्षिता त्वया ।रक्षसा रौद्ररूपेण मम प्राणप्रिया प्रिया ॥४-६-२४॥ क्व वा वसति तत् रक्षJः महत् व्यसनदम् मम ।यन् निमित्तम् अहम् सर्वान् नाशयिष्यामि राक्षसान् ॥४-६-२५॥ हरता मैथिलीम् येन माम् च रोषयता ध्रुवम् ।आत्मनो जीवित अन्ताय मृत्यु द्वारम् अपावृतम् ॥४-६-२६॥ मम दयित तमा हृता वनात् रजनिचरेण विमथ्य येन सा ।कथय मम रिपुम् तम् अद्य वै प्लवगपते यम सन्निधिम् नयामि ॥४-६-२७॥ एवम् उक्तः तु सुग्रीवः रामेण आर्तेन वानरः ।अब्रवीत् प्राञ्जलिः वाक्यम् सबाष्पम् बाष्प गद्गदः ॥४-७-१॥ न जाने निलयम् तस्य सर्वथा पाप रक्षसः ।सामर्थ्यम् विक्रमम् वा अपि दौष्कुलेयस्य वा कुलम् ॥४-७-२॥ सत्यम् तु प्रतिजानामि त्यज शोकम् अरिन्दम ।करिष्यामि तथा यत्नम् यथा प्राप्स्यसि मैथिलीम् ॥४-७-३॥ रावणम् सगणम् हत्वा परितोष्य आत्म पौरुषम् ।तथा अस्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि ॥४-७-४॥ अलम् वैक्लव्यम् आलम्ब्य धैर्यम् आत्मगतम् स्मर ।त्वत् विधानाम् न सदृशम् ईदृशम् बुद्धि लाघवम् ॥४-७-५॥ मया अपि व्यसनम् प्राप्तम् भार्या विरहजम् महत् ।न अहम् एवम् हि शोचामि धैर्यम् न च परित्यजे ॥४-७-६॥ न अहम् ताम् अनुशोचामि प्राकृतो वानरो अपि सन् ।महात्मा च विनीतः च किम् पुनर् धृतिमान् महान् ॥४-७-७॥ बाष्पम् आपतितम् धैर्यात् निग्रहीतुम् त्वम् अर्हसि ।मर्यादाम् सत्त्व युक्तानाम् धृतिम् न उत्स्रष्टुम् अर्हसि ॥४-७-८॥ व्यसने वा अर्थ कृच्छ्रे वा भये वा जीवितान्तगे ।विमृशन् वै स्वया बुद्ध्या धृतिमान् न अवसीदति ॥४-७-९॥ बालिशस् तु नरो नित्यम् वैक्लब्यम् योऽनुवर्तते ।स मज्जति अवशः शोके भार आक्रान्ता इव नौः जले ॥४-७-१०॥ एषो अन्जलिः मया बद्धः प्रणयात् त्वाम् प्रसादये ।पौरुषम् श्रय शोकस्य न अन्तरम् दातुम् अर्हसि ॥४-७-११॥ ये शोकम् अनुवर्तन्ते न तेषाम् विद्यते सुखम् ।तेजः च क्षीयते तेषाम् न त्वम् शोचितुम् अर्हसि ॥४-७-१२॥ शोकेन अभिप्रपन्नस्य जीविते च अपि संशयः ।स शोकम् त्यज राजेन्द्र धैर्यम् आश्रय केवलम् ॥४-७-१३॥ हितम् वयस्य भावेन ब्रूमि न उपदिशामि ते ।वयस्यताम् पूजयन् मे न त्वम् शोचितुम् अर्हसि ॥४-७-१४॥ मधुरम् सान्त्वितः तेन सुग्रीवेण स राघवः ।मुखम् अश्रु परि क्लिन्नम् वस्त्र अन्तेन प्रमार्जयत् ॥४-७-१५॥ प्रकृतिः स्थः तु काकुत्स्थः सुग्रीव वचनात् प्रभुः ।संपरिष्वज्य सुग्रीवम् इदम् वचनम् अब्रवीत् ॥४-७-१६॥ कर्तव्यम् यत् वयस्येन स्निग्धेन च हितेन च ।अनुरूपम् च युक्तम् च कृतम् सुग्रीव तत् त्वया ॥४-७-१७॥ एष च प्रकृतिः स्थः अहम् अनुनीतः त्वया सखे ।दुर्लभो हि ईदृशो बन्धुः अस्मिन् काले विशेषतः ॥४-७-१८॥ किम् तु यत्नः त्वया कार्यो मैथिल्याः परिमार्गणे ।राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥४-७-१९॥ मया च यद् अनुष्ठेयम् विस्रब्धेन तत् उच्यताम् ।वर्षासु इव च सुक्षेत्रे सर्वम् संपद्यते तव ॥४-७-२०॥ मया च यदिदम् वाक्यम् अभिमानात् समीरितम् ।तत् त्वया हरिशार्दूल तत् त्वम् इति उपधार्यताम् ॥४-७-२१॥ अनृतम् न उक्त पूर्वम् मे न च वक्ष्ये कदाचन ।एतत् ते प्रतिजानामि सत्येन एव शपामि अहम् ॥४-७-२२॥ ततः प्रहृष्टः सुग्रीवः वानरैः सचिवैः सह ।राघवस्य वचः श्रुत्वा प्रतिज्ञातम् विशेषतः ॥४-७-२३॥ एवम् एकान्त संपृक्तौ ततः तौ नर वानरौ ।उभौ अन्योन्य सदृशम् सुख दुःखम् अभाष्ताम् ॥४-७-२४॥ महानुभावस्य वचो निशम्यहरिर् नृपाणाम् अधिपस्य तस्य ।कृतम् स मेने हरिवीर मुख्यःतदा च कार्यम् हृदयेन विद्वान् ॥४-७-२५॥ परितुष्टः तु सुग्रीवः तेन वाक्येन हर्षितः ।लक्ष्मणस्य अग्रजम् शूरम् इदम् वचनम् अब्रवीत् ॥४-८-१॥ सर्वथा अहम् अनुग्राह्यो देवतानाम् न संशयः ।उपपन्नः गुण उपेतः सखा यस्य भवान् मम ॥४-८-२॥ शक्यम् खलु भवेत् राम सहायेन त्वया अनघ ।सुर राज्यम् अपि प्राप्तुम् स्व राज्यम् किमुत प्रभो ॥४-८-३॥ सोऽहम् सभाज्यो बन्धूनाम् सुहृदाम् चैव राघव ।यस्य अग्नि साक्षिकम् मित्रम् लब्धम् राघव वंशजम् ॥४-८-४॥ अहम् अपि अनुरूपः ते वयस्यो ज्ञास्यसे शनैः ।न तु वक्तुम् समर्थोऽहम् त्वयि आत्मगतान् गुणान् ॥४-८-५॥ महात्मनाम् तु भूयिष्ठम् त्वत् विधानाम् कृत आत्मनाम् ।निश्चला भवति प्रीतिः धैर्यम् आत्मवताम् वर ॥४-८-६॥ रजतम् वा सुवर्णम् वा शुभानि आभरणानि च ।अविभक्तानि साधूनाम् अवगच्छन्ति साधवः ॥४-८-७॥ आढ्यो वा अपि दरिद्रो वा दुःखितः सुखितोऽपि वा ।निर्दोषः च सदोषः च वयस्यः परमा गतिः ॥४-८-८॥ धन त्यागः सुख त्यागो देश त्यागोऽपि वा अनघः ।वयस्यार्थे प्रवर्तन्ते स्नेहम् दृष्ट्वा तथा विधम् ॥४-८-९॥ तत् तथा इति अब्रवीत् रामः सुग्रीवम् प्रिय दर्शनम् ।लक्ष्मणस्य अग्रतः लक्ष्म्या वासवस्य इव धीमतः ॥४-८-१०॥ ततो रामम् स्थितम् दृष्ट्वा लक्ष्मणम् च महाबलम् ।सुग्रीवः सर्वतः चक्षुः वने लोलम् अपातयत् ॥४-८-११॥ स ददर्श ततः सालम् अविदूरे हरीश्वरः ।सुपुष्पम् ईषत् पत्र आढ्यम् भ्रमरैः उपशोभितम् ॥४-८-१२॥ तस्य एकाम् पर्ण बहुलाम् शाखाम् भंक्त्वा सुशोभिताम् ।रामस्य आस्तीर्य सुग्रीवो निषसाद स राघवः ॥४-८-१३॥ तौ आसीनौ ततः दृष्ट्वा हनूमान् अपि लक्ष्मणम् ।साल शाखाम् समुत्पाट्य विनीतम् उपवेशयत् ॥४-८-१४॥ सुख उपविष्टम् रामम् तु प्रसन्नम् उदधिम् यथा ।साल पुष्पाव संकीर्णे तस्मिन् गिरिवर उत्तमे ॥४-८-१५॥ ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा ।उवाच प्रणयाद् रामम् हर्ष व्याकुलित अक्षरम् ॥४-८-१६॥ अहम् विनिकृतो भ्रात्रा चरामि एष भयार्दितः ।ऋष्यमूकम् गिरि वरम् हृत भार्यः सुदुःखितः ॥४-८-१७॥ सोऽहम् त्रस्तः भये मग्नः वने संब्रान्त चेतनः ।वालिना निकृतः भ्रात्रा कृत वैरः च राघव ॥४-८-१८॥ वालिनः मे भय आर्तस्य सर्वलोक अभयंकर ।मम अपि त्वम् अनाथस्य प्रसादम् कर्तुम् अर्हसि ॥४-८-१९॥ एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः ।प्रत्युवाच स काकुत्स्थः सुग्रीवम् प्रहसन् इव ॥४-८-२०॥ उपकार फलम् मित्रम् अपकारो अरि लक्षणम् ।अद्य एव तम् वधिष्यामि तव भार्या अपहारिणम् ॥४-८-२१॥ इमे हि मे महाभाग पत्रिणः तिग्म तेजसः ।कार्तिकेय वन उद्भूताः शरा हेम विभूषिताः ॥४-८-२२॥ कन्क पत्र परिच्छन्ना महेन्द्र अशनि सन्निभाः ।सुपर्वाणः सुतीक्ष्ण अग्रा सरोषा भुजगा इव ॥४-८-२३॥ वालि सज्ञम् अमित्रम् ते भ्रातरम् कृत किल्बिषम् ।शरैः विनिहतम् पश्य विकीर्णम् इव पर्वतम् ॥४-८-२४॥ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ।प्रहर्षम् अतुलम् लेभे साधु साध्विति च अब्रवीत् ॥४-८-२५॥ राम शोक अभिभूतो अहम् शोक आर्तानाम् भवान् गतिः ।वयस्य इति कृत्वा हि त्वयि अहम् परिदेवये ॥४-८-२६॥ त्वम् हि पाणि प्रदानेन वयस्यो मे अग्नि साक्षिकम् ।कृतः प्राणैः बहुमतः सत्येन च शपामि अहम् ॥४-८-२७॥ वयस्य इति कृत्वा च विस्रब्धः प्रवदामि अहम् ।दुःखम् अन्तर्गतम् तन् मे मनो हरति नित्यशः ॥४-८-२८॥ एतावत् उक्त्वा वचनम् बाष्प दूषित लोचनः ।बाष्प दूषितया वाचा न उच्चैः श्क्नोति भाषितुम् ॥४-८-२९॥ बाष्प वेगम् तु सहसा नदी वेगम् इव आगतम् ।धारयामास धैर्येण सुग्रीवः राम संनिधौ ॥४-८-३०॥ स निगृह्य तु तम् बाष्पम् प्रमृज्य नयने शुभे ।विनिःश्वस्य च तेजस्वी राघवम् पुनरूचिवान् ॥४-८-३१॥ पुरा अहम् वलिना राम राज्यात् स्वात् अवरोपितः ।परुषाणि च संश्राव्य निर्धूतो अस्मि बलीयसा ॥४-८-३२॥ हृता भार्या च मे तेन प्राणेभ्यो अपि गरीयसी ।सुहृदः च मदीया ये संयता बन्धनेषु ते ॥४-८-३३॥ यत्नवान् च स दुष्टात्मा मद् विनाशाय राघव ।बहुशः तत् प्रयुक्ताः च वानरा निहता मया ॥४-८-३४॥ शंकया एतया अहम् च दृष्ट्वा त्वाम् अपि राघव ।न उपसर्पामि अहम् भीतो भये सर्वे हि बिभ्यति ॥४-८-३५॥ केवलम् हि सहाया मे हनुमत् प्रमुखास्त्विमे ।अतः अहम् धारयामि अद्य प्राणान् कृच्छ्र गतः अपि सन् ॥४-८-३६॥ एते हि कपयः स्निग्धा माम् रक्षन्ति समन्ततः ।सह गच्छन्ति गन्तव्ये नित्यम् तिष्ठन्ति च स्थिते ॥४-८-३७॥ संक्षेपः ते एष मे राम किम् उक्त्वा विस्तरम् हि ते ।स मे ज्येष्ठो रिपुः भ्राता वाली विश्रुत पौरुषः ॥४-८-३८॥ तद् विनाशे अपि मे दुःखम् प्रमृष्टम् स्यात् अनन्तरम् ।सुखम् मे जीवितम् चैव तद् विनाश निबन्धनम् ॥४-८-३९॥ एष मे राम शोकान्तः शोक आर्तेन निवेदितः ।दुःखितः सुखितः वा अपि सख्युः नित्यम् सखा गतिः ॥४-८-४०॥ श्रुत्वा एतत् च वचः रामः सुग्रीवम् इदम् अब्रवीत् ।किम् निमित्तम् अभूत् वैरम् श्रोतुम् इच्छामि तत्त्वतः ॥४-८-४१॥ सुखम् हि कारणम् श्रुत्वा वैरस्य तव वानर ।आनन्तर्यद् विधास्यामि संप्रधार्य बलाबलम् ॥४-८-४२॥ बलवान् हि मम अमर्षः श्रुत्वा त्वाम् अवमानितम् ।वर्धते हृदय उत्कम्पी प्रावृड् वेग इव अंभसः ॥४-८-४३॥ हृष्टः कथय विस्रब्धो यावत् आरोप्यते धनुः ।सृष्टः च हि मया बाणो निरस्तः च रिपुः तव ॥४-८-४४॥ एवम् उक्तः तु सुग्रीवः काकुत्स्थेन महात्मना ।प्रहर्षम् अतुलम् लेभे चतुर्भिः सह वानरैः॥४-८-४५॥ ततः प्रहृ^इष्ट वदनः सुग्रीवः लक्ष्मणाग्रजे ।वैरस्य कारणम् तत्त्वम् आख्यातुम् उपचक्रमे ॥४-८-४६॥ वाली नाम मम भ्राता ज्येष्ठः शत्रु निषूदनः ।पितुः बहुमतः नित्यम् मम च अपि तथा पुरा ॥४-९-१॥ पितरि उपरते तस्मिन् ज्येष्ठो अयम् इति मंत्रिभिः ।कपीनाम् ईश्वरो राज्ये कृतः परम सम्मतः ॥४-९-२॥ राज्यम् प्रशासतः तस्य पितृ पैतामहम् महत् ।अहम् सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥४-९-३॥ मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।तेन तस्य महद् वैरम् वालिनः स्त्री कृतम् पुरा ॥४-९-४॥ स तु सुप्ते जने रात्रौ किष्किन्धा द्वारम् आगतः ।नर्दति स्म सुसम्रब्धो वालिनम् च आह्वयत् रणे ॥४-९-५॥ प्रसुप्तः तु मम भ्राता नर्दितो भैरव स्वनम् ।श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा ॥४-९-६॥ स तु वै निःसृतः क्रोधात् तम् हन्तुम् असुरोत्तमम् ।वार्यमाणः ततः स्त्रीभिः मया च प्रणत आत्मना ॥४-९-७॥ स तु निर्धूय सर्वान् नो निर्जगाम महाबलः ।ततः अहम् अपि सौहार्दान् निःसृतः वालिना सह ॥४-९-८॥ स तु मे भ्रातरम् दृष्ट्वा माम् च दूरात् अवस्थितम् ।असुरो जात संत्रासः प्रदुद्राव तदा भृशम् ॥४-९-९॥ तस्मिन् द्रवति संत्रस्ते हि आवाम् द्रुततरम् गतौ ।प्रकाशः अपि कृतः मार्गः चन्द्रेण उद्गच्छता तदा ॥४-९-१०॥ स तृणैः आवृतम् दुर्गम् धरण्या विवरम् महत् ।प्रविवेश असुरः वेगात् आवाम् आसाद्य विष्ठितौ ॥४-९-११॥ तम् प्रविष्टम् रिपुम् दृष्ट्वा बिलम् रोष वशम् गतः ।माम् उवाच ततो वाली वचनम् क्षुभित इन्द्रियः ॥४-९-१२॥ इह तिष्ठ अद्य सुग्रीव बिल द्वारि समाहितः ।यावत् अत्र प्रविश्य अहम् निहन्मि समरे रिपुम् ॥४-९-१३॥ मया तु एतत् वचः श्रुत्वा याचितः स परंतपः ।शापयित्वा च माम् पद्भ्याम् प्रविवेश बिलम् ततः ॥४-९-१४॥ तस्य प्रविष्टस्य बिलम् साग्रः संवत्सरः गतः ।स्थितस्य च बिल द्वारि सः कालः व्यत्यवर्तत ॥४-९-१५॥ अहम् तु नष्टम् तम् ज्ञात्वा स्नेहात् आगत संभ्रमः ।भ्रातरम् न प्रपश्यामि पाप शङ्कि च मे मनः ॥४-९-१६॥ अथ दीर्घस्य कालस्य बिलात् तस्मात् विनिःसृतम् ।सः फेनम् रुधिरम् दृष्ट्वा ततो अहम् भृशदुःखितः ॥४-९-१७॥ नर्दताम् असुराणाम् च ध्वनिः मे श्रोत्रम् आगतः ।न रस्तस्य च संग्रामे क्रोशतो अपि स्वनो गुरोः ॥४-९-१८॥ अहम् तु अवगतः बुद्ध्या चिह्नैः तैः भ्रातरम् हतम् ।पिधाय च बिल द्वारम् शिलया गिरि मात्रया ॥४-९-१९॥ शोकार्तः च उदकम् कृत्वा किष्किन्धाम् आगतः सखे ।गूहमानस्य मे तत्त्वम् यत्नतः मंत्रिभिः श्रुतम् ॥४-९-२०॥ ततः अहम् तैः समागम्य समेतैः अभिषेचितः ।राज्यम् प्रशासतः तस्य न्यायतो मम राघव ॥४-९-२१॥ आजगाम रिपुम् हत्वा दानवम् स तु वानरः ।अभिषिक्तम् तु माम् दृष्ट्वा कोपात् संरक्त लोचनः ॥४-९-२२॥ मदीयान् मंत्रिणः बद्ध्वा परुषम् वाक्यम् अब्रवीत् ।निग्रहे च समर्थस्य तम् पापम् प्रति राघव ॥४-९-२३॥ न प्रावर्तत मे बुद्धिः भ्रातृ गौरव यंत्रिता ।हत्वा शत्रुम् सः मे भ्राता प्रविवेश पुरम् तदा ॥४-९-२४॥ मानयन् तम् महात्मानम् यथावत् च अभिअवादयम् ।उक्ताः च न आशिषः तेन संतुष्टेन अन्तरात्मना ॥४-९-२५॥ नत्वा पादौ अहम् तस्य मुकुटेन अस्पृशम् प्रभो ।अपि वाली मम क्रोधात् न प्रसादम् चकार सः ॥४-९-२६॥ इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे नवमः सर्गः । ततः क्रोध समाविष्टम् सम्रब्धम् तम् उपागतम् ।अहम् प्रसादयान् चक्रे भ्रातरम् हित काम्यया ॥४-१०-१॥ ततः क्रोध समाविष्टम् सम्रब्धम् तम् उपागतम् ।अहम् प्रसादयान् चक्रे भ्रातरम् हित काम्यया ॥४-१०-१॥ दिष्ट्या असि कुशली प्राप्तो निहतः च त्वया रिपुः ।अनाथस्य हि मे नाथः त्वम् एको अनाथ नन्दनः ॥४-१०-२॥ दिष्ट्या असि कुशली प्राप्तो निहतः च त्वया रिपुः ।अनाथस्य हि मे नाथः त्वम् एको अनाथ नन्दनः ॥४-१०-२॥ इदम् बहु शलाकम् ते पूर्ण चन्द्रम् इव उदितम् ।छत्रम् स वाल व्यजनम् प्रतीच्छस्व मया धृतम् ॥४-१०-३॥ इदम् बहु शलाकम् ते पूर्ण चन्द्रम् इव उदितम् ।छत्रम् स वाल व्यजनम् प्रतीच्छस्व मया धृतम् ॥४-१०-३॥ आर्तस्य अथ बिला द्वारि स्थितः संवत्सरम् नृप ।दृष्ट्वा च शोणितम् द्वारि बिलात् च अपि समुत्थितम् ॥४-१०-४॥ आर्तस्य अथ बिला द्वारि स्थितः संवत्सरम् नृप ।दृष्ट्वा च शोणितम् द्वारि बिलात् च अपि समुत्थितम् ॥४-१०-४॥ शोक संविग्न हृदयो भृशम् व्याकुलित इन्द्रियः ।अपिधाय बिल द्वारम् शैल शृङ्गेण तत् तदा ॥४-१०-५॥ शोक संविग्न हृदयो भृशम् व्याकुलित इन्द्रियः ।अपिधाय बिल द्वारम् शैल शृङ्गेण तत् तदा ॥४-१०-५॥ तस्मात् देशात् अपाक्रम्य किष्किन्धाम् प्राविशम् पुनः ।विषादात् इह माम् दृष्ट्वा पोउरैः मंत्रिभिर् एव च ॥४-१०-६॥ तस्मात् देशात् अपाक्रम्य किष्किन्धाम् प्राविशम् पुनः ।विषादात् इह माम् दृष्ट्वा पोउरैः मंत्रिभिर् एव च ॥४-१०-६॥ अभिषिक्तो न कामेन तन्मे क्षन्तुम् त्वम् अर्हसि ।त्वम् एव राजा मानार्हः सदा च अहम् यथा पुरा ॥४-१०-७॥ अभिषिक्तो न कामेन तन्मे क्षन्तुम् त्वम् अर्हसि ।त्वम् एव राजा मानार्हः सदा च अहम् यथा पुरा ॥४-१०-७॥ राजभावे नियोगः अयम् मम त्वत् विरहात् कृतः ।स अमात्य पौर नगरम् स्थितम् निहत कण्टकम् ॥४-१०-८॥ राजभावे नियोगः अयम् मम त्वत् विरहात् कृतः ।स अमात्य पौर नगरम् स्थितम् निहत कण्टकम् ॥४-१०-८॥ न्यास भूतम् इदम् राज्यम् तव निर्यातयामि अहम् ।मा च रोषम् कृथाः सौम्य मम शत्रु निषूदन॥४-१०-९॥ न्यास भूतम् इदम् राज्यम् तव निर्यातयामि अहम् ।मा च रोषम् कृथाः सौम्य मम शत्रु निषूदन॥४-१०-९॥ याचे त्वाम् शिरसा राजन् मया बद्धो अयम् अंजलिः ।बलात् अस्मिन् समागम्य मंत्रिभिः पुर वासिभिः ॥४-१०-१०॥ याचे त्वाम् शिरसा राजन् मया बद्धो अयम् अंजलिः ।बलात् अस्मिन् समागम्य मंत्रिभिः पुर वासिभिः ॥४-१०-१०॥ राजभावे नियुक्तो अहम् शून्य देश जिगीषया ।स्निग्धम् एवम् ब्रुवाणम् माम् स विनिर्भर्त्स्य वानरः ॥४-१०-११॥ राजभावे नियुक्तो अहम् शून्य देश जिगीषया ।स्निग्धम् एवम् ब्रुवाणम् माम् स विनिर्भर्त्स्य वानरः ॥४-१०-११॥ धिक् त्वाम् इति च माम् उक्त्वा बहु तत् तत् उवाच ह ।प्रकृतीः च समानीय मंत्रिणः चैव सम्मतान् ॥४-१०-१२॥ धिक् त्वाम् इति च माम् उक्त्वा बहु तत् तत् उवाच ह ।प्रकृतीः च समानीय मंत्रिणः चैव सम्मतान् ॥४-१०-१२॥ माम् आह सुहृदाम् मध्ये वाक्यम् परम गर्हितम् ।विदितम् वो मया रात्रौ मायावी स महाअसुरः ॥४-१०-१३॥ माम् आह सुहृदाम् मध्ये वाक्यम् परम गर्हितम् ।विदितम् वो मया रात्रौ मायावी स महाअसुरः ॥४-१०-१३॥ माम् समाह्वयत क्रुद्धो युद्ध कांक्षी तदा पुरा ।तस्य तद् भाषितम् श्रुत्वा निःसृतः अहम् नृपाअलयात् ॥४-१०-१४॥ माम् समाह्वयत क्रुद्धो युद्ध कांक्षी तदा पुरा ।तस्य तद् भाषितम् श्रुत्वा निःसृतः अहम् नृपाअलयात् ॥४-१०-१४॥ अनुयातः च माम् तूर्णम् अयम् भ्राता सुदारुणः ।स तु दृष्ट्वा एव माम् रात्रौ स द्वितीयम् महाबलः ॥४-१०-१५॥ अनुयातः च माम् तूर्णम् अयम् भ्राता सुदारुणः ।स तु दृष्ट्वा एव माम् रात्रौ स द्वितीयम् महाबलः ॥४-१०-१५॥ प्राद्रवत् भय संत्रस्तो वीक्ष्य आवाम् समुपागतौ ।अभिद्रुतः तु वेगेन विवेश स महाबिलम् ॥४-१०-१६॥ प्राद्रवत् भय संत्रस्तो वीक्ष्य आवाम् समुपागतौ ।अभिद्रुतः तु वेगेन विवेश स महाबिलम् ॥४-१०-१६॥ तम् प्रविष्टम् विदित्वा तु सुघोरम् सुमहद् बिलम् ।अयम् उक्तो अथ मे भ्राता मया तु क्रूर दर्शनः ॥४-१०-१७॥ तम् प्रविष्टम् विदित्वा तु सुघोरम् सुमहद् बिलम् ।अयम् उक्तो अथ मे भ्राता मया तु क्रूर दर्शनः ॥४-१०-१७॥ अहत्वा न अस्ति मे शक्तिः प्रति गन्तुम् इतः पुरीम् ।बिल द्वारि प्रतीक्ष त्वम् यावत् एनम् निहन्मि अहम् ॥४-१०-१८॥ अहत्वा न अस्ति मे शक्तिः प्रति गन्तुम् इतः पुरीम् ।बिल द्वारि प्रतीक्ष त्वम् यावत् एनम् निहन्मि अहम् ॥४-१०-१८॥ स्थितोऽयम् इति मत्वा अहम् प्रविष्टः तु दुरासदम् ।तम् मे मार्गयतः तत्र गतः संवत्सरः तदा ॥४-१०-१९॥ स्थितोऽयम् इति मत्वा अहम् प्रविष्टः तु दुरासदम् ।तम् मे मार्गयतः तत्र गतः संवत्सरः तदा ॥४-१०-१९॥ स तु दृष्टो मया शत्रुः अनिर्वेदात् भयाअवहः ।निहतः च मया सद्यः सः सर्वैः सह बन्धुभिः ॥४-१०-२०॥ स तु दृष्टो मया शत्रुः अनिर्वेदात् भयाअवहः ।निहतः च मया सद्यः सः सर्वैः सह बन्धुभिः ॥४-१०-२०॥ तस्य आस्यात् तु प्रवृत्तेन रुधिरौघेण तद् बिलम् ।पूर्णम् आसीत् दुराक्रामम् स्वनतः तस्य भूतले ॥४-१०-२१॥ तस्य आस्यात् तु प्रवृत्तेन रुधिरौघेण तद् बिलम् ।पूर्णम् आसीत् दुराक्रामम् स्वनतः तस्य भूतले ॥४-१०-२१॥ सूदयित्वा तु तम् शत्रुम् विक्रान्तम् तम् अहम् सुखम् ।निष्क्रामम् न एव पश्यामि बिलस्य पिहितम् मुखम् ॥४-१०-२२॥ सूदयित्वा तु तम् शत्रुम् विक्रान्तम् तम् अहम् सुखम् ।निष्क्रामम् न एव पश्यामि बिलस्य पिहितम् मुखम् ॥४-१०-२२॥ विक्रोशमानस्य तु मे सुग्रीव इति पुनः पुनः ।यतः प्रतिवचो नास्ति ततः अहम् भृश दुःखितः ॥४-१०-२३॥ विक्रोशमानस्य तु मे सुग्रीव इति पुनः पुनः ।यतः प्रतिवचो नास्ति ततः अहम् भृश दुःखितः ॥४-१०-२३॥ पाद प्रहारैः तु मया बहुभिः परिपातितम् ।ततः अहम् तेन निष्क्रम्य पथा पुरम् उपागतः ॥४-१०-२४॥ पाद प्रहारैः तु मया बहुभिः परिपातितम् ।ततः अहम् तेन निष्क्रम्य पथा पुरम् उपागतः ॥४-१०-२४॥ तत्र अनेन अस्मि सम्रुद्धः राज्यम् मृगयत आत्मनः ।सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृ सौहृदम् ॥४-१०-२५॥ तत्र अनेन अस्मि सम्रुद्धः राज्यम् मृगयत आत्मनः ।सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृ सौहृदम् ॥४-१०-२५॥ एवम् उक्त्वा तु माम् तत्र वस्त्रेण एकेन वानरः ।तदा निर्वासयामास वाली विगत साध्वसः ॥४-१०-२६॥ एवम् उक्त्वा तु माम् तत्र वस्त्रेण एकेन वानरः ।तदा निर्वासयामास वाली विगत साध्वसः ॥४-१०-२६॥ तेन अहम् अपविद्धः च हृत दारः च राघव ।तत् भयात् च महीम् सर्वान् क्रान्तवान् स वन अर्णवाम् ॥४-१०-२७॥ तेन अहम् अपविद्धः च हृत दारः च राघव ।तत् भयात् च महीम् सर्वान् क्रान्तवान् स वन अर्णवाम् ॥४-१०-२७॥ ऋश्यमूकम् गिरि वरम् भार्या हरण दुःखितः ।प्रविष्टो अस्मि दुराधर्षम् वालिनः कारणान्तरे ॥४-१०-२८॥ ऋश्यमूकम् गिरि वरम् भार्या हरण दुःखितः ।प्रविष्टो अस्मि दुराधर्षम् वालिनः कारणान्तरे ॥४-१०-२८॥ एतत् ते सर्वम् आख्यातम् वैर अनुकथनम् महत् ।अनागसा मया प्राप्तम् व्यसनम् पश्य राघव ॥४-१०-२९॥ एतत् ते सर्वम् आख्यातम् वैर अनुकथनम् महत् ।अनागसा मया प्राप्तम् व्यसनम् पश्य राघव ॥४-१०-२९॥ वालिनः च भयात् तस्य सर्वलोक भयापह ।कर्तुम् अर्हसि मे वीर प्रसादम् तस्य निग्रहात् ॥४-१०-३०॥ वालिनः च भयात् तस्य सर्वलोक भयापह ।कर्तुम् अर्हसि मे वीर प्रसादम् तस्य निग्रहात् ॥४-१०-३०॥ एवम् उक्तः स तेजस्वी धर्मज्ञो धर्म संहितम् ।वचनम् वक्तुम् आरेभे सुग्रीवम् प्रहसन् इव ॥४-१०-३१॥ एवम् उक्तः स तेजस्वी धर्मज्ञो धर्म संहितम् ।वचनम् वक्तुम् आरेभे सुग्रीवम् प्रहसन् इव ॥४-१०-३१॥ अमोघाः सूर्य संकाशा निशिता मे शरा इमे ।तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुष अन्विताः ॥४-१०-३२॥ अमोघाः सूर्य संकाशा निशिता मे शरा इमे ।तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुष अन्विताः ॥४-१०-३२॥ यावत् तम् न हि पश्येयम् तव भार्य अपहारिणम् ।तावत् स जीवेत् पापात्मा वाली चारित्र दूषकः ॥४-१०-३३॥ यावत् तम् न हि पश्येयम् तव भार्य अपहारिणम् ।तावत् स जीवेत् पापात्मा वाली चारित्र दूषकः ॥४-१०-३३॥ आत्म अनुमानात् पश्यामि मग्नः त्वाम् शोक सागरे ।त्वाम् अहम् तारयिष्यामि बाढम् प्राप्स्यसि पुष्कलम् ॥४-१०-३४॥ आत्म अनुमानात् पश्यामि मग्नः त्वाम् शोक सागरे ।त्वाम् अहम् तारयिष्यामि बाढम् प्राप्स्यसि पुष्कलम् ॥४-१०-३४॥ तस्य तत् वचनम् श्रुत्वा हर्ष पौरुष वर्धनम् ।सुग्रीवः परम प्रीतः सु महत् वाक्यम् अब्रवीत् ॥४-१०-३५॥ तस्य तत् वचनम् श्रुत्वा हर्ष पौरुष वर्धनम् ।सुग्रीवः परम प्रीतः सु महत् वाक्यम् अब्रवीत् ॥४-१०-३५॥ एतच् च वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् ।प्रत्ययार्थम् महातेजा रामो जग्राह कार्मुकम् ॥४-१२-१॥ स गृहीत्वा धनुर् घोरम् शरम् एकम् च मानदः ।सालम् उद्दिश्य चिक्षेप पूरयन् स रवैः दिशः ॥४-१२-२॥ स विसृष्टो बलवता बाणः स्वर्ण परिष्कृतः ।भित्त्वा सालान् गिरि प्रस्थम् सप्त भूमिम् विवेश ह ॥४-१२-३॥ सायकः तु मुहूर्तेन सालान् भित्त्वा महाजवः ।निष्पत्य च पुनः तूर्णम् तम् एव प्रविवेश ह ॥४-१२-४॥ तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुंगवः ।रामस्य शर वेगेन विस्मयम् परमम् गतः ॥४-१२-५॥ स मूर्ध्ना न्यपतत् भूमौ प्रलंबीकृत भूषणः ।सुग्रीवः परम प्रीतो राघवाय कृतांजलिः ॥४-१२-६॥ इदम् च उवाच धर्मज्ञम् कर्मणा तेन हर्षितः ।रामम् सर्व अस्त्र विदुषाम् श्रेष्ठम् शूरम् अवस्थितम् ॥४-१२-७॥ स इन्द्रान् अपि सुरान् सर्वाम् त्वम् बाणैः पुरुषर्षभ ।समर्थः समरे हन्तुम् किम् पुनर् वालिनम् प्रभो ॥४-१२-८॥ येन सप्त महा साला गिरिर् भूमिः च दारिताः ।बाणेन एकेन काकुत्स्थ स्थाता ते को रण अग्रतः ॥४-१२-९॥ अद्य मे विगतः शोकः प्रीतिर् अद्य परा मम ।सुहृदम् त्वाम् समासाद्य महेन्द्र वरुणोपमम् ॥४-१२-१०॥ तम् अद्य एव प्रियार्थम् मे वैरिणम् भ्रातृ रूपिणम् ।वालिनम् जहि काकुत्स्थ मया बद्धो अयम् अंजलिः ॥४-१२-११॥ ततो रामः परिष्वज्य सुग्रीवम् प्रिय दर्शनम् ।प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतम् वचः ॥४-१२-१२॥ अस्माद् गच्छाम किष्किन्धाम् क्षिप्रम् गच्छ त्वम् अग्रतः ।गत्वा च आह्वय सुग्रीव वालिनम् भ्रातृ गन्धिनम् ॥४-१२-१३॥ सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पुरीम् ।वृक्षैः आत्मानम् आवृत्य हि अतिष्ठन् गहने वने ॥४-१२-१४॥ सुग्रीवो अपि व्यनदद् घोरम् वालिनो ह्वान कारणात् ।गाढम् परिहितो वेगान् नादैः भिन्दन् इव अंबरम् ॥४-१२-१५॥ तम् श्रुत्वा निनदम् भ्रातुः क्रुद्धो वाली महाबलः ।निष्पपात सुसंरब्धो भास्करो अस्त तटात् इव ॥४-१२-१६॥ ततः सुतुमुलम् युद्धम् वालि सुग्रीवयोः अभूत् ।गगने ग्रहयोः घोरम् बुध अंगारकयोः इव ॥४-१२-१७॥ तलैः अशनि कल्पैः च वज्र कल्पैः च मुष्टिभिः ।जघ्नतुः समरे अन्योन्यम् भ्रातरौ क्रोध मूर्च्छितौ ॥४-१२-१८॥ ततो रामो धनुष् पाणिः तौ उभौ समुदैक्षत ।अन्योन्य सदृशौ वीरौ उभौ देवौ इव अश्विनौ ॥४-१२-१९॥ यत् न अवगच्छत् सुग्रीवम् वालिनम् वा अपि राघवः ।ततो न कृतवान् बुद्धिम् मोक्तुम् अन्तकरम् शरम् ॥४-१२-२०॥ एतस्मिन् अन्तरे भग्नः सुग्रीवः तेन वालिना ।अपश्यन् राघवम् नाथम् ऋश्यमूकम् प्रदुद्रुवे ॥४-१२-२१॥ क्लान्तो रुधिर सिक्त अंगो प्रहारैः जर्जरी कृतः ।वालिना अभिद्रुतः क्रोधात् प्रविवेश महावनम् ॥४-१२-२२॥ तम् प्रविष्टम् वनम् दृष्ट्वा वाली शाप भयात् ततः ।मुक्तो हि असि त्वम् इति उक्त्वा स निवृत्तो महाबलः ॥४-१२-२३॥ राघवो अपि सह भ्रात्रा सह चैव हनूमता ।तदेव वनम् आगच्छत् सुग्रीवो यत्र वानरः ॥४-१२-२४॥ तम् समीक्ष्य आगतम् रामम् सुग्रीवः सह लक्ष्मणम् ।ह्रीमान् दीनम् उवाच इदम् वसुधाम् अवलोकयन् ॥४-१२-२५॥ आह्वयस्व इति माम् उक्त्वा दर्शयित्वा च विक्रमम् ।वैरिणा घातयित्वा च किम् इदानीम् त्वया कृतम् ॥४-१२-२६॥ ताम् एव वेलाम् वक्तव्यम् त्वया राघव तत्त्वतः ।वालिनम् न निहन्मि इति ततो न अहम् इतो व्रजे ॥४-१२-२७॥ तस्य च एवम् ब्रुवाणस्य सुग्रीवस्य महात्मनः ।करुणम् दीनया वाचा राघवः पुनर् अब्रवीत् ॥४-१२-२८॥ सुग्रीव श्रूयताम् तात क्रोधः च व्यपनीयताम् ।कारणम् येन बाणो अयम् स मया न विसर्जितः ॥४-१२-२९॥ अलंकारेण वेषेण प्रमाणेन गतेन च ।त्वम् च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥४-१२-३०॥ स्वरेण वर्चसा च एव प्रेक्षितेन च वानर ।विक्रमेण च वाक्यैः च व्यक्तिम् वाम् न उपलक्षये ॥४-१२-३१॥ ततो अहम् रूप सादृश्यात् मोहितो वानरोत्तम ।न उत्सृजामि महावेगम् शरम् शत्रु निबर्हणम् ॥४-१२-३२॥ जीवित अन्तकरम् घोरम् सादृश्यात् तु विशंकितः ।मूलघातो न नौ स्याद्धि द्वयोः इति कृतो मया ॥४-१२-३३॥ त्वयि वीर विपन्ने हि अज्ञान् लाघवान् मया ।मौढ्यम् च मम बाल्यम् च ख्यापितम् स्यात् कपीस्वर ॥४-१२-३४॥ दत्त अभय वधो नाम पातकम् महत् अद्भुतम् ।अहम् च लक्ष्मणः च एव सीत च वरवर्णिनी ॥४-१२-३५॥ त्वत् अधीना वयम् सर्वे वने अस्मिन् शरणम् भवान् ।तस्मात् युध्यस्व भूयस्त्वम् मा शंकी च वानर ॥४-१२-३६॥ एतन् मुहूर्ते तु मया पश्य वालिनम् आहवे ।निरस्तम् इषुणा एकेन वेष्टमानम् महीतले ॥४-१२-३७॥ अभिज्ञानम् कुरुष्व त्वम् आत्मनो वानरेश्वर ।येन त्वाम् अभिजानीयाम् द्वन्द्व युद्धम् उपागतम् ॥४-१२-३८॥ गज पुष्पीम् इमाम् फुल्लाम् उत्पाट्य शुभ लक्षणाम् ।कुरु लक्ष्मण कण्ठे अस्य सुग्रीवस्य महात्मनः ॥४-१२-३९॥ ततो गिरि तटे जाताम् उत्पाट्य कुसुमायुताम् ।लक्ष्मणो गज पुष्पीम् ताम् तस्य कण्ठे व्यसर्जयत् ॥४-१२-४०॥ स तथा शुशुभे श्रीमान् लतया कण्ठ सक्तया ।मालया इव बलाकानाम् ससंध्य इव तोयदः ॥४-१२-४१॥ विभ्राजमानो वपुषा राम वाक्य समाहितः ।जगाम सह रामेण किष्किंधाम् पुनराप सः ॥४-१२-४२॥ ऋश्यमूकात् स धर्मात्मा किष्किन्धाम् लक्ष्मण अग्रजः ।जगाम सह सुग्रीवो वालि विक्रम पालिताम् ॥४-१३-१॥ समुद्यम्य महत् चापम् रामः कांचन भूषितम् ।शराम् च आदित्य संकाशान् गृहीत्वा रण साधकान् ॥४-१३-२॥ अग्रतः तु ययौ तस्य राघवस्य महात्मनः ।सुग्रीवः संहत ग्रीवो लक्ष्मणः च महाबलः ॥४-१३-३॥ पृष्ठतो हनुमान् वीरो नलो नीलः च वीर्यवान् ।तारः चैव महातेजा हरि यूथप यूथपाः ॥४-१३-४॥ ते वीक्षमाणा वृक्षाम् च पुष्प भार अवलम्बिनः ।प्रसन्न अंबुवहाः चैव सरितः सागरम् गमाः ॥४-१३-५॥ कन्दराणि च शैलाम् च निर्दराणि गुहाः तथा ।शिखराणि च मुख्यानि दरीः च प्रिय दर्शनाः ॥४-१३-६॥ वैदूर्य विमलैः तोयैः पद्मैः च आकोश कुड्मलैः ।शोभितान् सजलान् मार्गे तटाकान् च अवलोकयन् ॥४-१३-७॥ कारण्डैस्सारसैर्हम्सैर्वञ्जुलैर्जलकुक्कुटैः ।चक्रवाकैस्थाचान्यैश्शकुनैर्प्रतिनादितान्।यद्वा -कारण्डैः सारसैः हंसैः वंजुलैः जल कुक्कुटैः ।चक्रवाकैः तथा च अन्यैः शकुनैः प्रतिनादितान् ॥४-१३-८॥ मृदुशष्पाङ्कुराअहारान्निर्भयान्वनगोचरान् ।चरतांसर्वतोपश्यन्स्थलीषु हरिणान्स्थितान्।यद्वा -मृदु शष्प अंकुर आहारान् निर्भयान् वन गोचरान् ।चरताम् सर्वतो अपश्यन् स्थलीषु हरिणान् स्थितान् ॥४-१३-९॥ तटाक वैरिणः च अपि शुक्ल दन्त विभूषितान् ।घोरान् एकचरान् वन्यान् द्विरदान् कूल घातिनः ॥४-१३-१०॥ मत्तन् गिरि तट उद्घुष्टान् पर्वतान् इव जंगमान् ।वानरान् द्विरद प्रख्यान् मही रेणु समुक्षितान् ॥४-१३-११॥ वने वन चराम् च अन्यान् खेचराम् च विहंगमान् ।पश्यन्तः त्वरिता जग्मुः सुग्रीव वश वर्तिनः ॥४-१३-१२॥ तेषाम् तु गच्छताम् तत्र त्वरितम् रघुनंदनः ।द्रुम षण्ड वनम् दृष्ट्वा रामः सुग्रीवम् अब्रवीत् ॥४-१३-१३॥ एष मेघ इव आकाशे वृक्ष षण्डः प्रकाशते ।मेघ संघात विपुलः पर्यन्त कदली वृतः ॥४-१३-१४॥ किम् एतत् ज्ञातुम् इच्छामि सखे कौतूहलम् मम ।कौतूहल अपनयनम् कर्तुम् इच्छामि अहम् त्वया ॥४-१३-१५॥ तस्य तद् वचनम् श्रुत्वा राघवस्य महात्मनः ।गच्छन्न् एव आचचक्षे अथ सुग्रीवः तत् महद् वनम् ॥४-१३-१६॥ एतद् राघव विस्तीर्णम् आश्रमम् श्रम नाशनम् ।उद्यान वन संपन्नम् स्वादु मूल फल उदकम् ॥४-१३-१७॥ अत्र सप्तजना नाम मुनयः संशित व्रताः ।सप्त एव आसन् अधः शीर्षा नियतम् जल शायिनः ॥४-१३-१८॥ सप्त रात्रे कृत आहारा वायुना अचल वासिनः ।दिवम् वर्ष शतैः याताः सप्तभिः सकलेवराः ॥४-१३-१९॥ तेषाम् एतत् प्रभावेण द्रुम प्राकार संवृतम् ।आश्रमम् सुदुराधर्षम् अपि स इन्द्रैः सुर असुरैः ॥४-१३-२०॥ पक्षिणो वर्जयन्ति एतत् तथा अन्ये वनचारिणः ।विशन्ति मोहाद् ये अपि अत्र न निवर्तन्ते ते पुनः ॥४-१३-२१॥ विभूषण रवाअः च अत्र श्रूयंते सकलाक्षराः ।तूर्य गीत स्वनाअः च अपि गन्धो दिव्यः च राघव ॥४-१३-२२॥ त्रेताग्नयो अपि दीप्यन्ते धूमो हि एष प्रदृश्यते ।वेष्टयन् इव वृक्ष अग्रान् कपोत अंग अरुणो घनः ॥४-१३-२३॥ एते वृक्षाः प्रकाशन्ते धूम संसक्त मस्तकाः ।मेघ जाल प्रतिच्छन्ना वैदूर्य गिरयो यथा ॥४-१३-२४॥ कुरु प्रणामम् धर्मात्मन् तेषाम् उद्दिश्य राघवः ।लक्ष्मणेन सह भ्रात्रा प्रयतः संयत अंजलिः ॥४-१३-२५॥ प्रणमन्ति हि ये तेषाम् ऋषीणाम् भावित आत्मनाम् ।न तेषाम् अशुभम् किंचित् शरीरे राम दृश्यते ॥४-१३-२६॥ ततो रामः सह भ्रात्रा लक्ष्मणेन कृतांजलिः ।समुद्दिश्य महात्मानः तान् ऋषीन् अभ्यवादयत् ॥४-१३-२७॥ अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः ।सुग्रीवो वानराअः चैव जग्मुः संहृष्ट मानसाः ॥४-१३-२८॥ ते गत्वा दूरम् अध्वानम् तस्मात् सप्त जन आश्रमात् ।ददृशुः ताम् दुराधर्षाम् किष्किन्धाम् वालि पालिताम् ॥४-१३-२९॥ ततस्तु रामानुज राम वानराःप्रगृह्य शस्त्राणि उदित उग्र तेजसा ।पुरीम् सुरेश आत्मज वीर्य पालिताम्वधाय शत्रोः पुनर् आगताः इह ॥४-१३-३०॥ सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पालिताम् ।वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने ॥४-१४-१॥ विसार्य सर्वतो दृष्टिम् कानने कानन प्रियः ।सुग्रीवो विपुल ग्रीवः क्रोधम् आहारयद् भृशम् ॥४-१४-२॥ ततः तु निनदम् घोरम् कृत्वा युद्धाय च आह्वयत् ।परिवारैः परिवृतो नादैर् भिन्दन् इव अंबरम् ॥४-१४-३॥ गर्जन् इव महामेघो वायु वेग पुरस्सरः ।अथ बालार्क सदृशो दृप्त सिम्ह गतिः ततः ॥४-१४-४॥ दृष्ट्वा रामम् क्रिया दक्षम् सुग्रीवो वाक्यम् अब्रवीत् ।हरि वागुरया व्याप्तम् तप्त कांचन तोरणाम् ॥४-१४-५॥ प्राप्ताः स्म ध्वज यंत्र आढ्याम् किष्किन्धाम् वालिनः पुरीम् ।प्रतिज्ञा या कृता वीर त्वया वालि वधे पुरा ॥४-१४-६॥ सफलाम् कुरु ताम् क्षिप्रम् लताम् काल इव आगतः ।एवम् उक्तः तु धर्मात्मा सुग्रीवेण स राघवः ॥४-१४-७॥ तम् एव उवाच वचनम् सुग्रीवम् शत्रु सूदनः ।कृत अभिज्ञान चिह्नः त्वम् अनया गज साह्वया ॥४-१४-८॥ लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव ।सोभासे अपि अधिकम् वीर लतया कण्ठसक्तया ॥४-१४-९॥ विपरीत इव आकाशे सूर्यो नक्षत्र मालया ।अद्य वालि समुत्थम् ते भयम् वैरम् च वानर ॥४-१४-१०॥ एकेन अहम् प्रमोक्ष्यामि बाण मोक्षेण संयुगे ।मम दर्शय सुग्रीव वैरिणम् भ्रातृ रूपिणम् ॥४-१४-११॥ वाली विनिहतो यावद् वने पांसुषु चेष्टते ।यदि दृष्टि पथम् प्राप्तो जीवन् स विनिवर्तते ॥४-१४-१२॥ ततो दोषेण मा गच्छेत् सद्यो गर्हेच्च माम् भवान् ।प्रत्यक्षम् सप्त ते साला मया बाणेन दारिताः ॥४-१४-१३॥ ततो वेत्सि बलेन अद्य वालिनम् निहतम् मया ।अनृतम् न उक्त पूर्वम् मे चिरम् कृच्छ्रे अपि तिष्ठता ॥४-१४-१४॥ धर्म लोभ परीतेन न च वक्ष्ये कथंचन ।सफलाम् च करिष्यामि प्रतिज्ञाम् जहि संभ्रमम् ॥४-१४-१५॥ प्रसूतम् कलमक्षेत्रे वर्षेण इव शतक्रतुः ।तद् आह्वान निमित्तम् च वालिनो हेममालिनः ॥४-१४-१६॥ सुग्रीव कुरु तम् शब्दम् निष्पतेद् येन वानरः ।जितकाशी जयश्लाघी त्वया च अधर्षितः पुरात् ॥४-१४-१७॥ निष्पतिष्यति असंगेन वाली स प्रियसम्युगः ।रिपूणाम् धर्षितम् श्रुत्वा मर्षयन्ति न संयुगे ॥४-१४-१८॥ जानन्तः तु स्वकम् वीर्यम् स्त्री समक्षम् विशेषतः ।स तु राम वचः श्रुत्वा सुग्रीवो हेमपिंगलः ॥४-१४-१९॥ ननर्द क्रूर नादेन विनिर्भिन्दन् इव अम्बरम् ।तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ॥४-१४-२०॥ राजदोष परामृष्टाः कुलस्त्रिय इव आकुलाः ।द्रवन्ति च मृगाः शीघ्रम् भग्ना;इव रणे हयाः ।पतन्ति च खगा भूमौ क्षीण पुण्या इव ग्रहाः ॥४-१४-२१॥ ततः स जीमूत कृत प्रणादोनादम् हि अमुंचत् त्वरया प्रतीतः ।सूर्यात्मजः शौर्य विवृद्ध तेजाःसरित् पतिर्वा अनिल चंचल ऊर्मिः ॥४-१४-२२॥ अथ तस्य निनादम् तम् सुग्रीवस्य महात्मनः ।शुश्राव अन्तःपुर गतो वाली भ्रातुर् अमर्षणः ॥४-१५-१॥ श्रुत्वा तु तस्य निनदम् सर्वभूत प्रकंपनम् ।मदः च एकपदे नष्टः क्रोधः च आपादितो महान् ॥४-१५-२॥ ततो रोष परीत अंगो वाली स कनक प्रभः ।उपरक्त इव आदित्यः सद्यो निष्प्रभताम् गतः ॥४-१५-३॥ वाली दंष्ट्रा करालः तु क्रोधाद् दीप्त अग्नि लोचनः ।भाति उत्पतित पद्माभः समृणाल इव ह्रदः ॥४-१५-४॥ शब्दम् दुर्मर्षणम् श्रुत्वा निष्पपात ततो हरिः ।वेगेन च पद न्यासैर् दारयन् इव मेदिनीम् ॥४-१५-५॥ तम् तु तारा परिष्वज्य स्नेहाद् दर्शित सौहृदा ।उवाच त्रस्त संभ्रांता हित उदर्कम् इदम् वचः ॥४-१५-६॥ साधु क्रोधम् इमम् वीर नदी वेगम् इव आगतम् ।शयनाद् उत्थितः काल्यम् त्यज भुक्ताम् इव स्रजम् ॥४-१५-७॥ काल्यम् एतेन संग्रामम् करिष्यसि च वानर ।वीर ते शत्रु बाहुल्यम् फल्गुता वा न विद्यते ॥४-१५-८॥ सहसा तव निष्क्रामो मम तावत् न रोचते ।श्रूयताम् अभिधास्यामि यन् निमित्तम् निवार्यते ॥४-१५-९॥ पूर्वम् आपतितः क्रोधात् स त्वाम् आह्वयते युधि ।निष्पत्य च निरस्तः ते हन्यमानो दिशो गतः ॥४-१५-१०॥ त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।इह एत्य पुनर् आह्वानम् शंकाम् जनयति इव मे ॥४-१५-११॥ दर्पः च व्यवसायः च यादृशः तस्य नर्दतः ।निनादस्य च संरंभो न एतत् अल्पम् हि कारणम् ॥४-१५-१२॥ न असहायम् अहम् मन्ये सुग्रीवम् तम् इह आगतम् ।अवष्टब्ध सहायः च यम् आश्रित्य एष गर्जति ॥४-१५-१३॥ प्रकृत्या निपुणः चैव बुद्धिमान् चैव वानरः ।न अपरीक्षित वीर्येण सुग्रीवः सख्यम् एष्यति ॥४-१५-१४॥ पूर्वम् एव मया वीर श्रुतम् कथयतो वचः ।अंगदस्य कुमारस्य वक्ष्यामि अद्य हितम् वचः ॥४-१५-१५॥ अंगदः तु कुमरो अयम् वनांतम् उपनिर्गतः ।प्रवृत्तिः तेन कथिता चारैः असीत् निवेदिता ॥४-१५-१६॥ अयोध्य अधिपतेः पुत्रौ शूरौ समर दुर्जयौ ।इक्ष्वाकूणाम् कुले जातौ प्रथितौ राम लक्ष्मणौ ॥४-१५-१७॥ सुग्रीव प्रिय कामार्थम् प्राप्तौ तत्र दुरासदौ ।स ते भ्रातुर् हि विख्यातः सहायो रण कर्मणि ॥४-१५-१८॥ रामः पर बलमर्दी युगान्त अग्निः इव उत्थितः ।निवास वृक्षः साधूनाम् आपन्नानाम् परा गतिः ॥४-१५-१९॥ आर्तानाम् संश्रयः चैव यशसः च एक भाजनम् ।ज्ञान विज्ञान संपन्नो निदेशो निरतः पितुः ॥४-१५-२०॥ धातूनाम् इव शैलेन्द्रो गुणानाम् आकरो महान् ।तत् क्षमो न विरोधः ते सह तेन महात्मना ॥४-१५-२१॥ दुर्जयेन अप्रमेयेण रामेण रण कर्मसु ।शूर वक्ष्यामि ते किंचिन् न च इच्छामि अभ्यसूयितुम् ॥४-१५-२२॥ श्रूयताम् क्रियताम् चैव तव वक्ष्यामि यद् हितम् ।यौवराज्येन सुग्रीवम् तूर्णम् साधु अभिषेचय ॥४-१५-२३॥ विग्रहम् मा कृथा वीर भ्रात्रा राजन् यवीयसा ।अहम् हि ते क्षमम् मन्ये तेन रामेण सौहृदम् ॥४-१५-२४॥ सुग्रीवेण च संप्रीतिम् वैरम् उत्सृज्य दूरतः ।लालनीयो हि ते भ्राता यवीयान् एष वानरः ॥४-१५-२५॥ तत्र वा सन्निहस्थो वा सर्वथा बन्धुः एव ते ।नहि तेन समम् बन्धुम् भुवि पश्यामि किंचन ॥४-१५-२६॥ दान मानादि सत्कर्रैः कुरुष्व प्रत्यनन्तरम् ।वैरम् एतत् सम् उत्स्रृज्य तव पार्श्वे स तिष्ठतु ॥४-१५-२७॥ सुग्रीवो विपुल ग्रीवो महाबन्धुः मतः तव ।भ्रातृ सौहृदम् आलंब्य न अन्या गति इह अस्ति ते ॥४-१५-२८॥ यदि ते मत् प्रियम् कार्यम् यदि च अवैषि माम् हिताम् ।याच्यमानः प्रियत्वेन साधु वाक्यम् कुरुष्व मे ॥४-१५-२९॥ प्रसीद पथ्यम् श्रुणु जल्पितम् हि मेन रोषम् एव अनुविधातुम् अर्हसि ।क्षमो हि ते कोशल राज सूनुनान विग्रहः शक्र सम तेजसा ॥४-१५-३०॥ तदा हि तारा हितम् एव वाक्यम्तम् वालिनम् पथ्यम् इदम् बभाषे ।न रोचते तद् वचनम् हि तस्यकाल अभिपन्नस्य विनाश काले ॥४-१५-३१॥ ताम् एवम् ब्रुवतीम् ताराम् ताराधिप निभ आननाम् ।वाली निर्भर्त्सयामास वचनम् च इदम् अब्रवीत् ॥४-१६-१॥ गर्जतो अस्य च सुसंरब्धम् भ्रातुः शत्रोर् विशेषतः ।मर्षयिष्यामि केन कारणेन वरानने ॥४-१६-२॥ अधर्षितानाम् शूराणाम् समरेषु अनिवर्तिनाम् ।धर्षणाम् अर्षणम् भीरु मरणात् अतिरिच्यते ॥४-१६-३॥ सोढुम् न च समर्थो अहम् युद्ध कामस्य संयुगे ।सुग्रीवस्य च संरंभम् हीन ग्रीवस्य गर्जतम् ॥४-१६-४॥ न च कार्यो विषादः ते राघवम् प्रति मत् कृते ।धर्मज्ञः च कृतज्ञः च कथम् पापम् करिष्यति ॥४-१६-५॥ निवर्तस्व सह स्त्रीभिः कथम् भूयो अनुगच्छसि ।सौहृदम् दर्शितम् तावत् मयि भक्तिः त्वया कृता ॥४-१६-६॥ प्रति योत्स्यामि अहम् गत्वा सुग्रीवम् जहि संभ्रमम् ।दर्पम् च अस्य विनेष्यामि न च प्राणैर् वियोक्ष्यते ॥४-१६-७॥ अहम् हि अजि स्थितस्य अस्य करिष्यामि यत् ईप्सितम् ।वृक्षैः मुष्टि प्रहारैः च पीडितः प्रति यास्यति ॥४-१६-८॥ न मे गर्वितम् आयस्तम् सहिष्यति दुरात्मवान् ।कृतम् तारे सहायत्वम् दर्शितम् सौहृदम् मयि ॥४-१६-९॥ शापिता असि मम प्राणैः निवर्तस्व जनेन च ।अलम् जित्वा निवर्तिष्ये तम् अहम् भ्रातरम् रणे ॥४-१६-१०॥ तम् तु तारा परिष्वज्य वालिनम् प्रिय वादिनी ।चकार रुदती मन्दम् दक्षिणा सा प्रदक्षिणम् ॥४-१६-११॥ ततः स्वस्त्ययनम् कृत्वा मंत्रवित् विजय एषिणी ।अंतःपुरम् सह स्त्रीभिः प्रविष्टा शोक मोहिता ॥४-१६-१२॥ प्रविष्टायाम् तु तारायाम् सह स्त्रीभिः स्वम् आलयम् ।नगर्या निर्ययौ क्रुद्धो महा सर्प इव श्वसन् ॥४-१६-१३॥ स निःश्वस्य महारोषो वाली परम वेगवान् ।सर्वतः चारयन् दृष्टिम् शत्रु दर्शन कांक्षया ॥४-१६-१४॥ स ददर्श ततः श्रीमान् सुग्रीवम् हेम पिङ्गलम् ।सुसंवीतम् अवष्टब्धम् दीप्यमानम् इव अनलम् ॥४-१६-१५॥ तम् स दृष्ट्वा महाबाहुः सुग्रीवम् पर्यवस्थितम् ।गाढम् परिदधे वासो वाली परम कोपिनः ॥४-१६-१६॥ स वाली गाढ संवीतो मुष्टिम् उद्यम्य वीर्यवान् ।सुग्रीवम् एव अभिमुखो ययौ योद्धुम् कृत क्षणः ॥४-१६-१७॥ श्लिष्टम् मुष्टिम् समुद्यम्य संरब्धतरम् आगतः ।सुग्रीवो अपि समुद्दिश्य वालिनम् हेम मालिनम् ॥४-१६-१८॥ तम् वाली क्रोध ताम्राक्षः सुग्रीवम् रण कोविदम् ।आपतंतम् महा वेगम् इदम् वचनम् अब्रवीत् ॥४-१६-१९॥ एष मुष्टिर् महान् बद्धो गाढः सुनियत अंगुलिः ।मया वेग विमुक्तः ते प्राणान् आदाय यास्यति ॥४-१६-२०॥ एवम् उक्तः तु सुग्रीवः क्रुद्धो वालिनम् अब्रवीत् ।तव च एष हरन् प्राणान् मुष्टिः पततु मूर्धनि ॥४-१६-२१॥ ताडितः तेन तम् क्रुद्धः समभिक्रम्य वेगतः ।अभवत् शोणित उद्गारी सापीड इव पर्वतः ॥४-१६-२२॥ सुग्रीवेण तु निःशंकम् सालम् उत्पाट्य तेजसा ।गात्रेषु अभिहतो वाली वज्रेण इव महा गिरिः ॥४-१६-२३॥ स तु वृक्षेण निर्भग्नः साल ताडन विह्वलः ।गुरु भार भर आक्रान्ता नौः ससार्था इव सागरे ॥४-१६-२४॥ तौ भीम बल विक्रान्तौ सुपर्ण सम वेगिनौ ।प्रयुद्धौ घोर वपुषौ चन्द्र सूर्यौ इव अंबरे ॥४-१६-२५॥ परस्परम् अमित्र घ्नौ च्छिद्र अन्वेषण तत्परौ ।ततो अवर्धत वाली तु बल वीर्य समन्वितः ॥४-१६-२६॥ सूर्य पुत्रो महावीर्यः सुग्रीवः परिहीयत ।वालिना भग्न दर्पः तु सुग्रीवो मन्द विक्रमः ॥४-१६-२७॥ वालिनम् प्रति सामर्षो दर्शयामास राघवम् ।वृक्षैः स शाखैः शिखरैः वज्र कोटि निभैः नखैः ॥४-१६-२८॥ मुष्टिभिः जानुभिः पद्भिः बाहुभिः च पुनः पुनः ।तयोः युद्द्धम् अभूत् घोरम् वृत्र वासवोः इव ॥४-१६-२९॥ तौ शोणितात्कौ युध्येताम् वानारौ वन् चारिणौ ।मेघौ इव महा शब्दैः तर्जमानौ परस्परम् ॥४-१६-३०॥ हीयमानम् अथ अपश्यत् सुग्रीवम् वानरेश्वरम् ।प्रेक्षमाणम् दिशः च एव राघवः स मुहुर् मुहुर् ॥४-१६-३१॥ ततो रामो महातेजा आर्तम् दृष्ट्वा हरीश्वरम् ।स शरम् वीक्षते वीरो वालिनो वध कांक्षया ॥४-१६-३२॥ ततो धनुषि संधाय शरम् आशी विष उपमम् ।पूरयामास तत् चापम् काल चक्रम् इव अन्तकः ॥४-१६-३३॥ तस्य ज्यातल घोषेण त्रस्ताः पत्ररथेश्वराः ।प्रदुद्रुवुर् मृगाः च एव युगांत इव मोहिताः ॥४-१६-३४॥ मुक्तस्तु वज्र निर्घोषः प्रदीप्त अशनि संनिभः ।राघवेण महा बाणो वालि वक्षसि पातितः ॥४-१६-३५॥ ततः तेन महातेजा वीर्य युक्तः कपीश्वरः ।वेगेन अभिहतो वाली निपपात मही तले ॥४-१६-३६॥ इन्द्र ध्वज इव उद्धूत पौर्ण मास्याम् महीतले ।अश्वयुक् समये मासि गत सत्त्वो विचेतनः ।बाष्प संरुद्ध कण्ठस्तु वाली च आर्त स्वरः शनैः ॥४-१६-३७॥ नरोत्तमः काल युगांतकोपमम् शरोत्तमम् कांचन रूप्यभूषितम् ।ससर्ज दीप्तम् तम् अमित्र मर्दनम् स धूममग्निम् मुखतो यथा हरः ॥४-१६-३८॥ अथ उक्षितः शोणित तोय विस्रवैःसुपुष्पित अशोक इव अचलोद्गतः ।विचेतनो वासव सूनुर् आहवेप्रभ्रञ्शित इन्द्र ध्वजवत् क्षितिम् गतः ॥४-१६-३९॥ ततः शरेण अभिहतो रामेण रण कर्कशः ।पपात सहसा वाली निकृत्तैव पादपः ॥४-१७-१॥ स भूमौ न्यस्त सर्वांगः तप्त कांचन भूषणः ।अपतत् देव राजस्य मुक्त रश्मिर् इव ध्वजः ॥४-१७-२॥ अस्मिन् निपतिते भूमौ हरि ऋषाणाम् गणेश्वरे ।नष्ट चन्द्रम् इव व्योम न व्यराजत मेदिनी ॥४-१७-३॥ भूमौ निपतितस्य अपि तस्य देहम् महात्मनः ।न श्रीर् जहाति न प्राणा न तेजो न पराक्रमः ॥४-१७-४॥ शक्र दत्ता वरा माला कान्चनी रत्न भूषिता ।दधार हरि मुख्यस्य प्राणान् तेजः श्रियम् च सा ॥४-१७-५॥ स तया मालया वीरो हैमया हरियूथपः ।संध्यानुगत पर्यन्तः पयोधर इव अभवत् ॥४-१७-६॥ तस्य माला च देहः च मर्मघाती च यः शरः ।त्रिधा इव रचिता लक्ष्मीः पतितस्य अपि शोभते ॥४-१७-७॥ तत् अस्त्रम् तस्य वीरस्य स्वर्ग मार्ग प्रभावनम् ।राम बाणासन क्षिप्तम् आवहत् परमाम् गतिम् ॥४-१७-८॥ तम् तथा पतितम् संख्ये गत अर्चिषम् इव अनलम् ।ययातिम् इव पुण्यान्ते देव लोकात् परिच्युतम् ॥४-१७-९॥ आदित्यम् इव कालेन युगान्ते भुवि पातितम् ।महेन्द्रम् इव दुर्धर्षम् उपेन्द्रम् इव दुस्सहम् ॥४-१७-१०॥ महेन्द्र पुत्रम् पतितम् वालिनम् हेम मालिनम् ।व्यूढ उरस्कम् महाबाहुम् दीप्तास्यम् हरि लोचनम् ॥४-१७-११॥ लक्ष्मण अनुचरो रामो ददर्श उपससर्प च ।तम् तथा पतितम् वीरम् गत अर्चिष्मतम् इव अनलम् ॥४-१७-१२॥ बहुमान्य च तम् वीरम् वीक्षमाणम् शनैरिव ।उपयातौ महावीर्यौ भ्रातरौ राम लक्ष्मणौ ॥४-१७-१३॥ तम् दृष्ट्वा राघवम् वाली लक्ष्मणम् च महाबलम् ।अब्रवीत् परुषम् वाक्यम् प्रश्रितम् धर्म संहितम् ॥४-१७-१४॥ स भूमौ अल्पतेजोसुः निहतो नष्ट चेतनः ।अर्थ सहितया वाचा गर्वितम् रण गर्वितम् ॥४-१७-१५॥ त्वम् नराधिपतेः पुत्रः प्रथितः प्रिय दर्शनः ।पराङ्मुख वधम् कृत्वा को अत्र प्राप्तः त्वया गुणः ।यदहम् युद्ध सम्रब्धः त्वत् कृते निधनम् गतः ॥४-१७-१६॥ कुलीनः सत्त्व संपन्नः तेजस्वी चरितव्रतः ।रामः करुणवेदी च प्रजानाम् च हितेरतः ॥४-१७-१७॥ सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः ।इति एतत् सर्व भूतानि कथयन्ति यशो भुवि ॥४-१७-१८॥ दमः शमः क्षमा धर्मो धृति सत्यम् पराक्रमः ।पर्थिवानाम् गुणा राजन् दण्डः च अपकारिषु ॥४-१७-१९॥ तान् गुणान् संप्रधार्य अहम् अग्र्यम् च अभिजनम् तव ।तारया प्रतिषिद्धो अपि सुग्रीवेण समागतः ॥४-१७-२०॥ न माम् अन्येन संरब्धम् प्रमत्तम् वेद्धुम् अर्हसि ।इति मे बुद्धिर् उत्पन्ना बभूव अदर्शने तव ॥४-१७-२१॥ न त्वाम् विनिहत आत्मानम् धर्म ध्वजम् अधार्मिकम् ।जाने पाप समाचारम् तृणैः कूपम् इव आवृतम् ॥४-१७-२२॥ सताम् वेष धरम् पापम् प्रच्छन्नम् इव पावकम् ।न अहम् त्वाम् अभिजानामि धर्म छद्माभि संवृतम् ॥४-१७-२३॥ विषये वा पुरे वा ते यदा पापम् करोमि अहम् ।न च त्वाम् अवजाने अहं कस्मात् त्वम् हंसि अकिल्बिषम् ॥४-१७-२४॥ फल मूल अशनम् नित्यम् वानरम् वन गोचरम् ।माम् इह अप्रतियुध्यन्तम् अन्येन च समागतम् ॥४-१७-२५॥ त्वम् नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः ।लिन्गम् अपि अस्ति ते राजन् दृश्यते धर्म सम्हितम् ॥४-१७-२६॥ कः क्षत्रिय कुलेजातः श्रुतवान् नष्टसंशयः ।धर्म लिंग प्रतिच्छन्नः क्रूरम् कर्म समाचरेत् ॥४-१७-२७॥ राम राघव कुले जातो धर्मवान् इति विश्रुतः ।अभव्यो भव्य रूपेण किम् अर्थम् परिधावसे ॥४-१७-२८॥ साम दानम् क्षमा धर्मः सत्यम् धृति पराक्रमौ ।पार्थिवानाम् गुणा राजन् दण्डः च अपि अपकारिषु ॥४-१७-२९॥ वयम् वनचरा राम मृगा मूल फल अशनाः ।एषा प्रकृतिर् अस्माकम् पुरुषः त्वम् नरेश्वरः ॥४-१७-३०॥ भूमिर् हिरण्यम् रूपम् च निग्रहे कारणानि च ।तत्र कः ते वने लोभो मदीयेषु फलेषु वा ॥४-१७-३१॥ नयः च विनयः च उभौ निग्रह अनुग्रहौ अपि ।राज वृत्तिर् असंकीर्णा न नृपाः काम वृत्तयः ॥४-१७-३२॥ त्वम् तु काम प्रधानः च कोपनः च अनवस्थितः ।राज वृत्तेषु संकीर्णः शरासन परायणः ॥४-१७-३३॥ न ते अस्ति अपचितिः धर्मे न अर्थे बुद्धिर् अवस्थिता ।इन्द्रियैः काम वृत्तः सन् कृष्यसे मनुजेश्वर ॥४-१७-३४॥ हत्वा बाणेन काकुत्स्थ माम् इह अनपराधिनम् ।किम् वक्ष्यसि सताम् मध्ये कर्म कृत्वा जुगुप्सितम् ॥४-१७-३५॥ राजहा ब्रह्महा गोघ्नः चोरः प्राणिवधे रतः ।नास्तिकः परिवेत्ता च सर्वे निरय गामिनः ॥४-१७-३६॥ सूचकः च कदर्यः च मित्र्घ्नो गुरुतल्पगः ।लोकं पापात्मानम् एते गच्छन्ते न अत्र संशयः ॥४-१७-३७॥ अधार्यम् चर्म मे सद्भी रोमाणि अस्थि च वर्जितम् ।अभक्ष्याणि च मांसानि त्वत् विधैः धर्मचारिभिः ॥४-१७-३८॥ पंच पंच नखा भक्ष्या ब्रह्म क्षत्रेण राघव ।शल्यकः श्वाविधो गोधा शशः कूर्मः च पंचमः ॥४-१७-३९॥ चर्म च अस्थि च मे राजन् न स्पृशन्ति मनीषिणः ।अभक्ष्याणि च मांसानि सो अहम् पंच नखो हतः ॥४-१७-४०॥ तारया वाक्यम् उक्तो अहम् सत्यम् सर्वज्ञया हितम् ।तद् अतिक्रम्य मोहेन कालस्य वशम् आगतः ॥४-१७-४१॥ त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा ।प्रमदा शील संपूर्णा पति एव च विधर्मिणा ॥४-१७-४२॥ शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रित मानसः ।कथम् दशरथेन त्वम् जातः पापो महात्मना ॥४-१७-४३॥ छिन्न चारित्र्य कक्ष्येण सताम् धर्म अतिवर्तिना ।त्यक्त धर्म अंकुशेन अहम् निहतो राम हस्तिना ॥४-१७-४४॥ अशुभम् च अपि अयुक्तम् च सताम् च एव विगर्हितम् ।वक्ष्यसे च ईदृशम् कृत्वा सद्भिः सह समागतः ॥४-१७-४५॥ उदासीनेषु यो अस्मासु विक्रमो अयम् प्रकाशितः ।अपकारिषु ते राम न एवम् पश्यामि विक्रमम् ॥४-१७-४६॥ दृश्यमानः तु युध्येथा मया युधि नृपात्मज ।अद्य वैवस्वतम् देवम् पश्येः त्वम् निहतो मया ॥४-१७-४७॥ त्वया अदृश्येन तु रणे निहतो अहम् दुरासदः ।प्रसुप्तः पन्नगेन इव नरः पाप वशम् गतः ॥४-१७-४८॥ सुग्रीव प्रिय कामेन यद् अहम् निहतः त्वया ।माम् एव यदि पूर्वम् त्वम् एतद् अर्थम् अचोदयः ।मैथिलिम् अहम् एक आह्ना तव च आनीतवान् भवेः ॥४-१७-४९॥ राक्षसम् च दुरात्मानाम् तव भार्य अपहारिणम् ।कण्ठे बद्ध्वा प्रदद्याम् ते अनिहतम् रावणम् रणे ॥४-१७-५०॥ न्यस्ताम् सागर तोये वा पाताले वा अपि मैथिलीम् ।आनयेयम् तव आदेशात् श्वेताम् अश्वतरीम् इव ॥४-१७-५१॥ युक्तम् यत् प्रप्नुयात् राज्यम् सुग्रीवः स्वर् गते मयि ।अयुक्तम् यद् अधर्मेण त्वया अहम् निहतो रणे ॥४-१७-५२॥ कामम् एवम् विधम् लोकः कालेन विनियुज्यते ।क्षमम् चेत् भवता प्राप्तम् उत्तरम् साधु चिंत्यताम् ॥४-१७-५३॥ इति एवम् उक्त्वा परिशुष्क वक्त्रःशर अभिघातात् व्यथितो महात्मा ।समीक्ष्य रामम् रवि संनिकाशम्तूष्णीम् बभौ वानर राज सूनुः ॥४-१७-५४॥ इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।परुषं वालिना रामो निहतेन विचेतसा ॥४-१८-१॥ तं निष्प्रभम् इव आदित्यं मुक्त तोयम् इवाम्बुदम् ।उक्त वाक्यं हरि श्रेष्ठम् उपशांतम् इवानलम् ॥४-१८-२॥ धर्मार्थगुण सम्पन्नम् हरीश्वरमनुत्तमम् ।अधिक्षिप्तस्तदा रामः पश्चात् वालिनम् अब्रवीत् ॥४-१८-३॥ धर्मम् अर्थञ्च कामञ्च समयञ्च अपि लौकिकम् ।अविज्ञाय कथम् बाल्यात् माम् इह अद्य विगर्हसे ॥४-१८-४॥ अपृष्ट्वा बुद्धि संपन्नान् वृद्धान् आचार्य संमतान् ।सौम्य वानर चापल्यात् त्वम् माम् वक्तुम् इह इच्छसि ॥४-१८-५॥ इक्ष्वाकूणाम् इयम् भूमिः स शैल वन कानना ।मृग पक्षि मनुष्याणाम् निग्रह अनुग्रहेषु अपि ॥४-१८-६॥ ताम् पालयति धर्मात्मा भरतः सत्यवान् ऋजुः ।धर्म काम अर्थ तत्त्वज्ञो निग्रह अनुग्रहे रतः ॥४-१८-७॥ नयः च विनयः च उभौ यस्मिन् सत्यम् च सुस्थितम् ।विक्रमः च यथा दृष्टः स राजा देश कालवित् ॥४-१८-८॥ तस्य धर्म कृत आदेशा वयम् अन्ये च पार्थिवः ।चरामो वसुधाम् कृत्स्नाम् धर्म संतानम् इच्छवः ॥४-१८-९॥ तस्मिन् नृपति शार्दूल भरते धर्म वत्सले ।पालयति अखिलाम् पृथ्वीम् कः चरेत् धर्म विप्रियम् ॥४-१८-१०॥ ते वयम् मार्ग विभ्रष्टम् स्वधर्मे परमे स्थिताः ।भरत आज्ञाम् पुरस्कृत्य निगृह्णीमो यथा विधि ॥४-१८-११॥ त्वम् तु संक्लिष्ट धर्मः च कर्मणा च विगर्हितः ।काम तंत्र प्रधानः च न स्थितो राज वर्त्मनि ॥४-१८-१२॥ ज्येष्ठो भ्राता पिता चैव यः च विद्याम् प्रयच्छति ।त्रयः ते पितरो ज्ञेया धर्मे च पथि वर्तिनः ॥४-१८-१३॥ यवीयान् आत्मनः पुत्रः शिष्यः च अपि गुणोदितः ।पुत्रवत् ते त्रयः चिंत्या धर्मः चैव अत्र कारणम् ॥४-१८-१४॥ सूक्ष्मः परम दुर्ज्ञेयः सताम् धर्मः प्लवंगम ।हृदिस्थः सर्व भूतानाम् आत्मा वेद शुभाशुभम् ॥४-१८-१५॥ चपलः चपलैः सार्धम् वानरैः अकृत आत्मभिः ।जात्यंध इव जात्यन्धैः मंत्रयन् द्रक्ष्यसे नु किम् ॥४-१८-१६॥ अहम् तु व्यक्तताम् अस्य वचनस्य ब्रवीमि ते ।न हि माम् केवलम् रोषात् त्वम् विगर्हितुम् अर्हसि ॥४-१८-१७॥ तत् एतत् कारणम् पश्य यत् अर्थम् त्वम् मया हतः ।भ्रातुर् वर्तसि भार्यायाम् त्यक्त्वा धर्मम् सनातनम् ॥४-१८-१८॥ अस्य त्वम् धरमाणस्य सुग्रीवस्य महात्मनः ।रुमायाम् वर्तसे कामात् स्नुषायाम् पाप कर्मकृत् ॥४-१८-१९॥ तद् व्यतीतस्य ते धर्मात् काम वृत्तस्य वानर ।भ्रातृ भार्या अभिमर्शे अस्मिन् दण्डो अयम् प्रतिपादितः ॥४-१८-२०॥ न हि लोक विरुद्धस्य लोक वृत्तात् अपेयुषः ।दण्डात् अन्यत्र पश्यामि निग्रहम् हरि यूथप ॥४-१८-२१॥ न च ते मर्षये पापम् क्ष्त्रियो अहम् कुलोद्गतः ।औरसीम् भगिनीम् वा अपि भार्याम् वा अपि अनुजस्य यः ॥४-१८-२२॥ प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः ।भरतः तु महीपालो वयम् तु आदेश वर्तिनः ॥४-१८-२३॥ त्वम् च धर्मात् अतिक्रान्तः कथम् शक्यम् उपेक्षितुम् ।गुरु धर्म व्यतिक्रान्तम् प्राज्ञो धर्मेण पालयन् ॥४-१८-२४॥ भरतः काम युक्तानाम् निग्रहे पर्यवस्थितः ।वयम् तु भरत आदेशम् विधिम् कृत्वा हरीश्वर ।त्वत् विधान् भिन्न मर्यादान् निग्रहीतुम् व्यवस्थिताः ॥४-१८-२५॥ सुग्रीवेण च मे सख्यम् लक्ष्मणेन यथा तथा ।दार राज्य निमित्तम् च निःश्रेयसकरः स मे ॥४-१८-२६॥ प्रतिज्ञा च मया दत्ता तदा वानर संनिधौ ।प्रतिज्ञा च कथम् शक्या मत् विधेन अनवेक्षितुम् ॥४-१८-२७॥ तत् एभिः कारणैः सर्वैर् महद्भिः धर्म संहितैः ।शासनम् तव यत् युक्तम् तत् भवान् अनुमन्यताम् ॥४-१८-२८॥ सर्वथा धर्म इति एव द्रष्टव्यः तव निग्रहः ।वयस्यस्य उपकर्तव्यम् धर्मम् एव अनुपश्यता ॥४-१८-२९॥ शक्यम् त्वया अपि तत् कार्यम् धर्मम् एव अनुवर्तता ।श्रूयते मनुना गीतौ श्लोकौ चारित्र वत्सलौ।गृहीतौ धर्म कुशलैः तथा तत् चरितम् मयाअ ॥४-१८-३०॥ राजभिः धृत दण्डाः च कृत्वा पापानि मानवाः ।निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥४-१८-३१॥ शसनात् वा अपि मोक्षात् वा स्तेनः पापात् प्रमुच्यते ।राजा तु अशासन् पापस्य तद् आप्नोति किल्बिषम् ॥४-१८-३२॥ आर्येण मम मान्धात्रा व्यसनम् घोरम् ईप्सितम् ।श्रमणेन कृते पापे यथा पापम् कृतम् त्वया ॥४-१८-३३॥ अन्यैः अपि कृतम् पापम् प्रमत्तैः वसुधा अधिपैः ।प्रायश्चित्तम् च कुर्वन्ति तेन तत् शाम्यते रजः ॥४-१८-३४॥ तत् अलम् परितापेन धर्मतः परिकल्पितः ।वधो वानरशार्दूल न वयम् स्व वशे स्थिताः ॥४-१८-३५॥ श्रुणु च अपि अपरम् भूयः कारणम् हरिपुंगव ।तत् श्रुत्वा हि महत् वीर न मन्युम् कर्तुम् अर्हसि ॥४-१८-३६॥ न मे तत्र मनस्तापो न मन्युः हरिपुंगव ।वागुराभिः च पाशैः च कूटैः च विविधैः नराः ॥४-१८-३७॥ प्रतिच्छन्नाः च दृश्याः च गृह्णन्ति सुबहून् मृगान् ।प्रधावितान् वा वित्रस्तान् विस्रब्धान् अतिविष्ठितान् ॥४-१८-३८॥ प्रमत्तान् अप्रमत्तान् वा नरा माम्स अशिनो भृशम् ।विध्यन्ति विमुखाम् च अपि न च दोषो अत्र विद्यते ॥४-१८-३९॥ यान्ति राजर्षयः च अत्र मृगयाम् धर्म कोविदाः ।तस्मात् त्वम् निहतो युद्धे मया बाणेन वानर ।अयुध्यन् प्रतियुध्यन् वा यस्मात् शाखा मृगो हि असि ॥४-१८-४०॥ दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ।राजानो वानरश्रेष्ठ प्रदातारो न सम्शयः ॥४-१८-४१॥ तान् न हिंस्यात् न च आक्रोशेन् न आक्षिपेन् न अप्रियम् वदेत् ।देवा मानुष रूपेण चरन्ति एते मही तले ॥४-१८-४२॥ त्वम् तु धर्मम् अविज्ञाय केवलम् रोषम् आस्थितः ।विदूषयसि माम् धर्मे पितृ पैतामहे स्थितम् ॥४-१८-४३॥ एवम् उक्तः तु रामेण वाली प्रव्यथितो भृशम् ।न दोषम् राघवे दध्यौ धर्मे अधिगत निश्चयः ॥४-१८-४४॥ प्रत्युवाच ततो रामम् प्रांजलिर् वानरेश्वरः ।यत् त्वम् आत्थ नरश्रेष्ठ तत् थथा एव न अत्र संशयः ॥४-१८-४५॥ प्रतिवक्तुम् प्रकृष्टे हि न अपकृष्टः तु शक्नुयात् ।यत् अयुक्तम् मया पूर्वम् प्रमादात् वाक्यम् अप्रियम् ॥४-१८-४६॥ तत्र अपि खलु माम् दोषम् कर्तुम् न अर्हसि राघव ।त्वम् हि दृष्टार्थ तत्त्वज्ञः प्रजानाम् च हिते रतः ।कार्य कारण सिद्धौ च प्रसन्ना बुद्धिः अव्यया ॥४-१८-४७॥ माम् अपि अवगतम् धर्मात् व्यतिक्रान्त पुरस्कृतम् ।धर्म संहितया वाचा धर्मज्ञ परिपालय ॥४-१८-४८॥ बाष्प संरुद्ध कण्ठः तु वाली स आर्त रवः शनैः ।उवाच रामम् संप्रेक्ष्य पंकलग्न इव द्विपः ॥४-१८-४९॥ न च आत्मानम् अहम् शोचे न ताराम् न अपि बान्धवान् ।यथा पुत्रम् गुणश्रेष्ठम् अंगदम् कनकांगदम् ॥४-१८-५०॥ स मम अदर्शनात् दीनो बाल्यात् प्रभृति लालितः ।तटाक इव पीतांबुः उपशोषम् गमिष्यति ॥४-१८-५१॥ बालः च अकृतबुद्धिः च एक पुत्रः च मे प्रियः ।तारेयो राम भवता रक्षणीयो महाबलः ॥४-१८-५२॥ सुग्रीवे च अंगदे चैव विधत्स्व मतिम् उत्तमाम् ।त्वम् हि गोप्ता च शास्ता च कार्याकार्य विधौ स्थितः ॥४-१८-५३॥ या ते नरपते वृत्तिः भरते लक्ष्मणे च या ।सुग्रीवे च अंगदे राजन् ताम् चिंतयितुम् अर्हसि ॥४-१८-५४॥ मत् दोष कृत दोषाम् ताम् यथा ताराम् तपस्विनीम् ।सुग्रीवो न अवमन्येत तथा अवस्थातुम् अर्हसि ॥४-१८-५५॥ त्वया हि अनुगृहीतेन शक्यम् राज्यम् उपासितुम् ।त्वत् वशे वर्तमानेन तव चित्त अनुवर्तिना ॥४-१८-५६॥ शक्यम् दिवम् च आर्जयितुम् वसुधाम् च अपि शासितुम् ।त्वतः अहम् वधम् आकांक्षयन् वार्यमाणो अपि तारया ॥४-१८-५७॥ सुग्रीवेण सह भ्राता द्वन्द्व युद्धम् उपागतम् ।इति उक्त्वा वानरो रामम् विरराम हरीश्वरः ॥४-१८-५८॥ स तम् आश्वासयत् रामो वालिनम् व्यक्त दर्शनम् ।साधु सम्मतया वाचा धर्म तत्त्वार्त्ध युक्तया ॥४-१८-५९॥ न संतापः त्वया कार्यम् एतत् अर्थम् प्लवंगम ।न वयम् भवता चिंत्या न अपि आत्मा हरिसत्तम ।वयम् भवत् विशेषेण धर्मतः कृत निश्चयाः ॥४-१८-६०॥ दण्ड्ये यः पातयेत् दण्डम् दण्ड्यो यः च अपि दण्ड्यते ।कार्य कारण सिद्धार्थौ उभौ तौ न अवसीदतः ॥४-१८-६१॥ तत् भवान् दण्ड सम्योगात् अस्मात् विगत कल्मषः ।गतः स्वाम् प्रकृतिम् धर्म्याम् धर्म दिष्टेन वर्त्मना ॥४-१८-६२॥ त्यज शोकम् च मोहम् च भयम् च हृदये स्थितम् ।त्वया विधानम् हर्यग्र्य न शक्यम् अतिवर्तितुम् ॥४-१८-६३॥ यथा त्वयि अंगदो नित्यम् वर्तते वानरेश्वरः ।तथा वर्तते सुग्रीवो मयि च अपि न संशयः ॥४-१८-६४॥ स तस्य वाक्यम् मधुरम् महात्मनःसमाहितम् धर्म पथानुवर्तिनः ।निशम्य रामस्य रणावमर्दिनोवचः सुयुक्तम् निजगाद वानरः ॥४-१८-६५॥ शराभितप्तेन विचेतसा मयाप्रदूषितः त्वम् यद् अजानता विभो ।इदम् महेन्द्रोपम भीम विक्रमप्रसादितः त्वम् क्षम मे नरेश्वर ॥४-१८-६६॥ स वानर महाराजः शयानः शर पीडितः ।प्रत्युक्तो हेतुमद् वाक्यैः न उत्तरम् प्रत्यपद्यत ॥४-१९-१॥ अश्मभिः परिभिन्न अंगः पादपैर् आहतो भृशम् ।राम बाणेन च आक्रान्तो जीवित अंते मुमोह सः ॥४-१९-२॥ तम् भार्या बाण मोक्षेण राम दत्तेन संयुगे ।हतम् प्लवग शार्दूलम् तारा शुश्राव वालिनम् ॥४-१९-३॥ सा सपुत्र अप्रियम् श्रुत्वा वधम् भर्तुः सुदारुणम् ।निष्पपात भृशम् तस्मात् उद्विग्ना गिरि कंदरात् ॥४-१९-४॥ ये ते अंगद परीवारा वानरा हि महाबलाः ।ते सकार्मुकम् आलोक्य रामम् त्रस्ताः प्रदुद्रुवुः ॥४-१९-५॥ सा ददर्श ततः त्रस्तान् हरीन् आपततो द्रुतम् ।यूथाद् इव परिभ्रष्टान् मृगान् निहत यूथपान् ॥४-१९-६॥ तान् उवाच समासाद्य दुःखितान् दुःखिता सती ।राम वित्रासितान् सर्वान् अनुबद्धान् इव इषुभिः ॥४-१९-७॥ वानरा राज सिंहस्य यस्य यूयम् पुरः सराः ।तम् विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः ॥४-१९-८॥ राज्य हेतोः स चेत् भ्राता भ्रात्रा कॄरेण पातितः ।रामेण प्रसृतैः दूरात् मार्गणैः दूर पातिभिः ॥४-१९-९॥ कपि पत्न्या वचः श्रुत्वा कपयः काम रूपिणः ।प्राप्त कालम् अविश्लिष्टम् ऊचुर् वचनम् अंगनाम् ॥४-१९-१०॥ जीवपुत्रे निवर्तस्व पुत्रम् रक्षस्व च अन्दगम् ।अंतको राम रूपेण हत्वा नयति वालिनम् ॥४-१९-११॥ क्षिप्तान् वृक्षान् समाविध्य विपुलाः च शिलाः तथा ।वाली वज्र समैर् बाणैर् वज्रेण इव निपातितः ॥४-१९-१२॥ अभिभूतम् इदम् सर्वम् विद्रुतम् वानरम् बलम् ।अस्मिन् प्लवग शार्दूले हते शक्र सम प्रभे ॥४-१९-१३॥ रक्ष्यताम् नगरम् शूरैर् अंगदः च अभिषिच्यताम् ।पदस्थम् वालिनः पुत्रम् भजिष्यन्ति प्लवंगमाः ॥४-१९-१४॥ अथवा अरुचितम् स्थानम् इह ते रुचिरानने ।आविशन्ति हि दुर्गाणि क्षिप्रम् अद्य एव वानराः ॥४-१९-१५॥ अभार्याः सह भार्याः च सन्ति अत्र वन चारिणः ।लुब्धेभ्यो विप्रलब्धेयः तेभ्यो नः सुमहद् भयम् ॥४-१९-१६॥ अल्पांतर गतानाम् तु श्रुत्वा वचनम् अंगना ।आत्मनः प्रतिरूपम् सा बभाषे चारु हासिनी ॥४-१९-१७॥ पुत्रेण मम किम् कार्यम् किम् राज्येन किम् आत्मना ।कपि सिम्हे महा भागे तस्मिन् भर्तरि नश्यति ॥४-१९-१८॥ पाद मूलम् गमिष्यामि तस्य एव अहम् महात्मनः ।यो असौ राम प्रयुक्तेन शरेण विनिपातितः ॥४-१९-१९॥ एवम् उक्त्वा प्रदुद्राव रुदती शोक मूर्च्छिता ।शिरः च उरः च बाहुभ्याम् दुःखेन समभिघ्नती ॥४-१९-२०॥ सा व्रजन्ती ददर्श अथ पतिम् निपतितम् भुवि ।हन्तारम् दानव इन्द्राणाम् समरेषु अनिवर्तिनाम् ॥४-१९-२१॥ क्षेप्तारम् पर्वत इन्द्राणाम् वज्राणाम् इव वासवम् ।महावात समाविष्टम् महामेघ औघ निःस्वनम् ॥४-१९-२२॥ शक्रतुल्य पराक्रांतम् वृष्ट्वा इव उपरतम् घनम् ।नर्दन्तम् नर्दताम् भीमम् शूरम् शूरेण पातितम् ।शार्दूलेन आमिषस्य अर्थे मृग राजम् इव आहतम् ॥४-१९-२३॥ अर्चितम् सर्व लोकस्य सपताकम् सवेदिकम् ।नाग हेतोः सुपर्णेन चैत्यम् उन्मथितम् यथा ॥४-१९-२४॥ अवष्टभ्य अवतिष्ठंतम् ददर्श धनुर् ऊर्जितम् ।रामम् रामानुजम् चैव भर्तुः चैव तथा अनुजम् ॥४-१९-२५॥ तान् अतीत्य समासाद्य भर्तारम् निहतम् रणे ।समीक्ष्य व्यथिता भूमौ संभ्रांता निपपात ह ॥४-१९-२६॥ सुप्ता इव पुनर् उत्थाय आर्य पुत्र इति वादिनी ।रुरोद सा पतिम् दृष्ट्वा सम्वीतम् मृत्यु दामभिः ॥४-१९-२७॥ ताम् अवेक्ष्य तु सुग्रीवः क्रोशन्तीम् कुररीम् इव ।विषादम् अगमत् कष्टम् दृष्ट्वा च अंगदम् आगतम् ॥४-१९-२८॥ राम चाप विसृष्टेन शरेण अंतकरेण तम् ।दृष्ट्वा विनिहतम् भूमौ तारा ताराधिप आनना ॥४-२०-१॥ सा समासाद्य भर्तारम् पर्यष्वजत भामिनी ।इषुणा अभिहतम् दृष्ट्वा वालिनम् कुंजरोपमम् ॥४-२०-२॥ वानरम् पर्वत इन्द्र आभम् शोक संतप्त मानसा ।तारा तरुम् इव उन्मूलम् पर्यदेवयत् आतुरा ॥४-२०-३॥ रणे दारुण विक्रान्त प्रवीर प्लवताम् वर ।किम् इदीनाम् पुरो भागाम् अद्य त्वम् न अभिभाषसे ॥४-२०-४॥ उत्तिष्ठ हरि शार्दूल भजस्व शयन उत्तमम् ।न एवम् विधाः शेरते हि भूमौ नृपति सत्तमाः ॥४-२०-५॥ अतीव खलु ते कांता वसुधा वसुधाधिप ।गत असुर् अपि ताम् गात्रैः माम् विहाय निषेवसे ॥४-२०-६॥ व्यक्तम् अद्य त्वया वीर धर्मतः संप्रवर्तता ।किष्किंधा इव पुरी रम्या स्वर्ग मार्गे विनिर्मिता ॥४-२०-७॥ यानि अस्माभिः त्वया सार्धम् वनेषु मधु गंधिषु ।विहृतानि त्वया काले तेषाम् उपरमः कृतः ॥४-२०-८॥ निरानंदा निराशा अहम् निमग्ना शोक सागरे ।त्वयि पंचत्वम् आपन्ने महायूथप यूथपे ॥४-२०-९॥ हृदयम् सुस्थिरम् मह्यम् दृष्ट्वा विनिहतम् भुवि ।यन् न शोक अभिसंतप्तम् स्फुटते अद्य सहस्रधा ॥४-२०-१०॥ सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।यत् तत् तस्य त्वया व्युष्टिः प्राप्ता इयम् प्लवगाधिप ॥४-२०-११॥ निःश्रेयस परा मोहात् त्वया च अहम् विगर्हिता ।या एषा अब्रुवम् हितम् वाक्यम् वानरेन्द्र हित एषिणी ॥४-२०-१२॥ रूप यौवन दृप्तानाम् दक्षिणानाम् च मानद ।नूनम् अप्सरसाम् आर्य चित्तानि प्रमथिष्यसि ॥४-२०-१३॥ कालो निःसंशयो नूनम् जीवित अंतकरः तव ।बलात् येन अवपन्नो असि सुग्रीवस्य अवशो वशम् ॥४-२०-१४॥ अस्थाने वालिनम् हत्वा युध्यमानम् परेण च ।न संतप्यति काकुत्स्थः कृत्वा सुगर्हितम् ॥४-२०-१५॥ वैधव्यम् शोक संतापम् कृपणम् अकृपणा सती ।अदुह्ख उपचिता पूर्वम् वर्तयिष्यामि अनाथवत् ॥४-२०-१६॥ लालितः च अंगदो वीरः सुकुमारः सुखोचितः ।वत्स्यते काम् अवस्थाम् मे पितृव्ये क्रोध मूर्च्छिते ॥४-२०-१७॥ कुरुष्व पितरम् पुत्र सुदृष्टम् धर्म वत्सलम् ।दुर्लभम् दर्शनम् तस्य तव वत्स भविष्यति ॥४-२०-१८॥ समाश्वासय पुत्रम् त्वम् संदेशम् संदिशस्व मे ।मूर्ध्नि च एनम् समाघ्राय प्रवासम् प्रस्थितो हि असि ॥४-२०-१९॥ रामेण हि महत् कर्म कृतम् त्वाम् अभिनिघ्नता ।आनृण्यम् तु गतम् तस्य सुग्रीवस्य प्रतिश्रवे ॥४-२०-२०॥ सकामो भव सुग्रीव रुमाम् त्वम् प्रतिपत्स्यसे ।भुंक्ष्व राज्यम् अनुद्विग्नः शस्तो भ्राता रिपुः तव ॥४-२०-२१॥ किम् माम् एवम् प्रलपतीम् प्रियाम् त्वम् न अभिभाषसे ।इमाः पश्य वरा बह्वयः भार्याः ते वानरेश्वर ॥४-२०-२२॥ तस्या विलपितम् श्रुत्वा वानर्यः सर्वतः च ताः ।परिगृह्य अंगदम् दीना दुह्ख आर्ताः परिचुक्रुशुः ॥४-२०-२३॥ किम् अंगदम् स अंगद वीर बाहोविहाय यातो असि अद्य चिरम् प्रवासम् ।न युक्तम् एवम् गुण संनिकृष्टम्विहाय पुत्रम् प्रिय पुत्रम् प्रिय चारु वेषम् ॥४-२०-२४॥ यदि अप्रियम् किंचिद् असंप्रधार्यकृतम् मया स्यात् तव दीर्घ बाहो ।क्षमस्व मे तत् हरि वम्श नाथव्रजामि मूर्ध्ना तव वीर पादौ ॥४-२०-२५॥ तथा तु तारा करुणम् रुदंतीभर्तुः समीपे सह वानरीभिः ।व्यवस्यत प्रायम् अनिन्द्य वर्णाउपोपवेष्टुम् भुवि यत्र वाली ॥४-२०-२६॥ ततो निपतिताम् ताराम् च्युताम् ताराम् इव अंबरात् ।शनैः आश्वासयामास हनूमान् हरि यूथपः ॥४-२१-१॥ गुण दोष कृतम् जंतुः स्वकर्म फल हेतुकम् ।अव्यग्रः तद् अवाप्नोति सर्वम् प्रेत्य शुभ अशुभम् ॥४-२१-२॥ शोच्या शोचसि कम् शोच्यम् दीनम् दीना अनुकंपसे ।कः च कस्य अनुशोच्यो अस्ति देहे अस्मिन् बुद्बुद उपमे ॥४-२१-३॥ अंगदः तु कुमारो अयम् द्रष्टव्यो जीव पुत्रया ।आयत्या च विधेयानि समर्थानि अस्य चिन्तय ॥४-२१-४॥ जानासि अनियताम् एवम् भूतानाम् आगतिम् गतिम् ।तस्मात् शुभम् हि कर्तव्यम् पण्डितेन इह लौकिकम् ॥४-२१-५॥ यस्मिन् हरि सहस्राणि शतानि नियुतानि च ।वर्तयन्ति कृत आशानि सो अयम् दिष्टांतम् आगतः ॥४-२१-६॥ यद् अयम् न्याय दृष्ट अर्थः साम दान क्षमा परः ।गतो धर्म जिताम् भूमिम् न एनम् शोचितुम् अर्हसि ॥४-२१-७॥ सर्वे च हरि शार्दूलाः पुत्रः च अयम् तव अंगदः ।हरि ऋक्ष पति राज्यम् च त्वत् सनाथम् अनिन्दिते ॥४-२१-८॥ तौ इमौ शोक संतप्तौ शनैः प्रेरय भामिनि ।त्वया परिगृहीतो अयम् अंगदः शास्तु मेदिनीम् ॥४-२१-९॥ संततिः च यथा दृष्टा कृत्यम् यत् च अपि सांप्रतम् ।राज्ञः तत् क्रियताम् सर्वम् एष कालस्य निश्चयः ॥४-२१-१०॥ संस्कार्यो हरि राजः तु अंगदः च अभिषिच्यताम् ।सिंहासन गतम् पुत्रम् पश्यन्ती शान्तिम् एष्यसि ॥४-२१-११॥ सा तस्य वचनम् श्रुत्वा भर्तृ व्यसन पीडिता ।अब्रवीत् उत्तरम् तारा हनूमन्तम् अवस्थितम् ॥४-२१-१२॥ अंगद प्रतिरूपाणाम् पुत्राणाम् एकतः शतम् ।हतस्य अपि अस्य वीरस्य गात्र संश्लेषणम् वरम् ॥४-२१-१३॥ न च अहम् हरि राज्यस्य प्रभवामि अंगदस्य वा ।पितृव्यः तस्य सुग्रीवः सर्व कार्येषुइ अनंतरः ॥४-२१-१४॥ न हि एषा बुद्धिः आस्थेया हनूमन् अंगदम् प्रति ।पिता हि बंधुः पुत्रस्य न माता हरि सत्तम ॥४-२१-१५॥ न हि मम हरि राज संश्रयात्क्षमतरम् अस्ति परत्र च इह वा ।अभिमुख हत वीर सेवितम्शयनम् इदम् मम सेवितुम् क्षमम् ॥४-२१-१६॥ वीक्षमाणः तु मंदासुः सर्वतो मंदम् उच्छ्वसन् ।आदौ एव तु सुग्रीवम् ददर्श अनुजम् अग्रतः ॥४-२२-१॥ तम् प्राप्त विजयम् वाली सुग्रीवम् प्लवग ईश्वरम् ।आभाष्य व्यक्तया वाचा सस्नेहम् इदम् अब्रवीत् ॥४-२२-२॥ सुग्रीव दोषेण न माम् गन्तुम् अर्हसि किल्बिषात् ।कृष्यमाणम् भविष्येण बुद्धि मोहेन माम् बलात् ॥४-२२-३॥ युगपद् विहितम् तात न मन्ये सुखम् अवयोः ।सौहार्दम् भ्रातृ युक्तम् हि तद् इदम् जातम् अन्यथा ॥४-२२-४॥ प्रतिपद्य त्वम् अद्य एव राज्यम् एषाम् वन ओकसाम् ।माम् अपि अद्य एव गच्छंतम् विद्धि वैवस्वत क्षयम् ॥४-२२-५॥ जीवितम् च हि राज्यम् च श्रियम् च विपुलाम् इमाम् ।प्रजहामि एष वै तूर्णम् अहम् च अगर्हितम् यशः ॥४-२२-६॥ अस्याम् त्वम् अहम् अवस्थायाम् वीर वक्ष्यामि यद् वचः ।यदि अपि असुकरम् राजन् कर्तुम् एव तद् अर्हसि ॥४-२२-७॥ सुखार्हम् सुख संवृद्धम् बालम् एनम् अबालिशम् ।बाष्प पूर्ण मुखम् पश्य भूमौ पतितम् अंगदम् ॥४-२२-८॥ मम प्राणैः प्रियतरम् पुत्रम् पुत्रम् इव औरसम् ।मया हीनम् अहीनार्थम् सर्वतः परिपालय ॥४-२२-९॥ त्वम् अपि अस्य पिता दाता च परित्राता च सर्वतः ।भयेषु अभयदः चैव यथा अहम् प्लवगेश्वर ॥४-२२-१०॥ एष तारात्मजः श्रीमान् त्वया तुल्य पराक्रमः ।रक्षसाम् च वधे तेषाम् अग्रतः ते भविष्यति ॥४-२२-११॥ अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे ।करिष्यति एष तारेयः तरस्वी तरुणो अंगदः ॥४-२२-१२॥ सुषेण दुहिता च इयम् अर्थ सूक्ष्म विनिश्चये ।औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥४-२२-१३॥ यद् एष साधु इति ब्रूयात् कार्यम् तन् मुक्त संशयम् ।न हि तारा मतम् किंचित् अन्यथा परिवर्तते ॥४-२२-१४॥ राघवस्य च ते कार्यम् कर्तव्यम् अविशंकया ।स्यात् अधर्मो हि अकरणे त्वाम् च हिंस्यात् अमानितः ॥४-२२-१५॥ इमाम् च मालाम् आधत्स्व दिव्याम् सुग्रीव कांचनीम् ।उदारा श्रीः स्थिता हि अस्याम् संप्रजह्यात् मृते मयि ॥४-२२-१६॥ इति एवम् उक्तः सुग्रीवो वालिना भ्रातृ सौहृदात् ।हर्षम् त्यक्त्वा पुनर् दीनो ग्रह ग्रस्त इव उडु राट् ॥४-२२-१७॥ तत् वालि वचनात् शान्तः कुर्वन् युक्तम् अतंद्रितः ।जग्राह सो अभ्यनुज्ञातो मालाम् ताम् चैव कांचनीम् ॥४-२२-१८॥ ताम् मालाम् कांचनीम् दत्त्वा वाली दृष्ट्वा आत्मजम् स्थितम् ।संसिद्धः प्रेत्य भावाय स्नेहात् अंगदम् अब्रवीत् ॥४-२२-१९॥ देश कालौ भजस्व अद्य क्षममाणः प्रिय अप्रिये ।सुख दुःख सहः काले सुग्रीव वशगो भव ॥४-२२-२०॥ यथा हि त्वम् महाबाहो लालितः सततम् मया ।न तथा वर्तमानम् त्वाम् सुग्रीवो बहु मन्यते ॥४-२२-२१॥ ना अस्य अमित्रैः गतम् गच्छेः मा शत्रुभिः अरिंदम ।भर्तुः अर्थ परो दान्तः सुग्रीव वशगो भव ॥४-२२-२२॥ न च अतिप्रणयः कार्यः कर्तव्यो अप्रणयः च ते ।उभयम् हि महादोषम् तस्मात् अंतर दृक् भव ॥४-२२-२३॥ इति उक्त्वा अथ विवृत्त अक्षः शर संपीडितो भृशम् ।विवृतैः दशनैः भीमैः बभूव उत्क्रान्त जीवितः ॥४-२२-२४॥ ततो विचुक्रुशुर् तत्र वानरा हत यूथपाः ।परिदेवयमानाः ते सर्वे प्लवग सत्तमाः ॥४-२२-२५॥ किष्किन्धा हि अथ शून्या च स्वर् गते वानरेश्वरे ।उद्यानानि च शून्यानि पर्वताः कानानि च ॥४-२२-२६॥ हते प्लवग शार्दूले निष् प्रभा वानराः कृताः ।यस्य वेगेन महता काननानि वनानि च ॥४-२२-२७॥ पुष्प ओघेण अनुबद्धन्ते करिष्यति तत् अद्य कहः ।येन दत्तम् महत् युद्धम् गन्धर्वस्य महात्मनः ॥४-२२-२८॥ गोलभस्य महाबाहुः दश वर्षाणि पंच च ।न एव रात्रौ न दिवसे तत् युद्धम् उपशाम्यति ॥४-२२-२९॥ ततः षोडशमे वर्षे गोलभो विनिपातितः ।तम् हत्वा दुर्विनीतिम् तु वाली दंष्ट्र करालवान् ।सर्वा अभयम् करः अस्माकम् कथम् एष निपातितः ॥४-२२-३०॥ हते तु वीरे प्लवगाधिपे तदाप्लवंगमाः तत्र न शर्म लेभिरे ।वने चराः सिंह युते महावनेयथा हि गावो निहते गवाम् पतौ ॥४-२२-३१॥ ततः तु तारा व्यसन अर्णव प्लुतामृतस्या भर्तुर् वदनम् समीक्ष्य सा ।जगाम भूमिम् परिरभ्य वालिनम्महा द्रुमम् छिन्नम् इव आश्रिता लता ॥४-२२-३२॥ ततः समुपजिघ्रंती कपि राजस्य तत् मुखम् ।पतिम् लोकश्रुता तारा मृतम् वचनम् अब्रवीत् ॥४-२३-१॥ शेषे त्वम् विषमे दुःखम् अकृत्वा वचनम् मम ।उपल उपचिते वीर सुदुःखे वसुधा तले ॥४-२३-२॥ मत्तः प्रियतरा नूनम् वानरेन्द्र मही तव ।शेषे हि ताम् परिष्वज्य माम् च न प्रतिभाषसे ॥४-२३-३॥ सुग्रीवस्य वशम् प्राप्तो विधिः एष भवत्य अहो ।सुग्रीव एव विक्रांतो वीर साहसिक प्रिय ॥४-२३-४॥ ऋक्ष वानर मुख्याः त्वाम् बलिनम् पर्युपासते ।तेषाम् विलपितम् कृच्छ्रम् अंगदस्य च शोचतः ॥४-२३-५॥ मम च इमा गिरः श्रुत्वा किम् त्वम् न प्रतिबुध्यसे ।इदम् तत् वीर शयनम् तत्र शेषे हतो युधि ॥४-२३-६॥ शायिता निहता यत्र त्वया एव रिपवः पुरा ।विशुद्ध सत्त्व अभिजन प्रिययुद्ध मम प्रिय ॥४-२३-७॥ माम् अनाथाम् विहाय एकाम् गतः त्वम् असि मानद ।शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥४-२३-८॥ शूर भार्याम् हताम् पश्य सद्यो माम् विधवाम् कृताम् ।अवभग्नः च मे मानो भग्ना मे शाश्वती गतिः ॥४-२३-९॥ अगाधे च निमग्ना अस्मि विपुले शोक सागरे ।अश्म सारमयम् नूनम् इदम् मे हृदयम् दृढम् ॥४-२३-१०॥ भर्तारम् निहतम् दृष्ट्वा यत् न अद्य शतधा गतम् ।सुहृत् चैव हि भर्ता च प्रकृत्या च मम प्रियः ॥४-२३-११॥ प्रहारे च पराक्रान्तः शूरः पंचत्वम् आगतः ।पति हीना तु या नारी कामम् भवतु पुत्रिणी ॥४-२३-१२॥ धन धान्य समृद्धा अपि विधवा इति उच्यते जनैः ।स्व गात्र प्रभवे वीर शेषे रुधिर मण्डले ॥४-२३-१३॥ कृमि राग परिस्तोमे स्वकीये शयने यथा ।रेणु शोणित संवीतम् गात्रम् तव समंततः ॥४-२३-१४॥ परिरब्धुम् न शक्नोमि भुजाभ्याम् प्लवगर्षभ ।कृत कृत्यो अद्य सुग्रीवो वैरे अस्मिन् अतिदारुणे ॥४-२३-१५॥ यस्य राम विमुक्तेन हृतम् एक इषुणा भयम् ।शरेण हृदि लग्नेन गात्र संस्पर्शने तव ॥४-२३-१६॥ वार्यामि त्वाम् निरीक्षन्ती त्वयि पंचत्वम् आगते ।उद्बबर्ह शरम् नीलः तस्य गात्र गतम् तदा ॥४-२३-१७॥ गिरि गह्वर संलीनम् दीप्तम् आशी विषम् यथा ।तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ॥४-२३-१८॥ अस्त मस्तक संरुद्धो रश्मिः दिनकरात् इव ।पेतुः क्षतज धाराः तु व्रणेभ्यः तस्य सर्वशः ॥४-२३-१९॥ ताम्र गैरिक संपृक्ता धारा इव धरा धरात् ।अवकीर्णम् विमार्जन्ती भर्तारम् रण रेणुना ॥४-२३-२०॥ अस्रैः नयनजैः शूरम् सिषेच अस्त्र समाहतम् ।रुधिरोक्षित सर्वान्गम् दृष्ट्वा विनिहतम् पतिम् ॥४-२३-२१॥ उवाच तारा पिंगाक्षम् पुत्रम् अंगदम् अंगना ।अवस्थाम् पश्चिमाम् पश्य पितुः पुत्र सुदारुणाम् ॥४-२३-२२॥ संप्रसक्तस्य वैरस्य गतो अन्तः पाप कर्मणा ।बाल सूर्योज्ज्वल तनुम् प्रयातम् यम सादनम् ॥४-२३-२३॥ अभिवादय राजानम् पितरम् पुत्र मानदम् ।एवम् उक्तः समुत्थाय जग्राह चरणौ पितुः ॥४-२३-२४॥ भुजाभ्याम् पीन वृताभ्याम् अंगदो अहम् इति ब्रुवन् ।अभिवादयमानम् त्वाम् अंगदम् त्वम् यथा पुरा ॥४-२३-२५॥ दीर्घ आयुर् भव पुत्र इति किम् अर्थम् न अभिभाषसे ।अहम् पुत्र सहाया त्वाम् उपासे गत चेतनम् ।सिंहेन पातितम् सद्यो गौः स वत्सा इव गो वृषम् ॥४-२३-२६॥ इष्ट्वा संग्राम यज्ञेन राम प्रहरण अंभसा ।अस्मिन् अवभृथे स्नातः कथम् पत्न्या मया विना ॥४-२३-२७॥ या दत्ता देव राजेन तव तुष्टेन संयुगे ।शात कौम्भीम् प्रियाम् मालाम् ताम् ते पश्यामि न इह किम् ॥४-२३-२८॥ राज्यश्रीः न जहाति त्वाम् गत असुम् अपि मानद ।सूर्यस्य आवर्तमानस्य शैल राजम् इव प्रभा ॥४-२३-२९॥ न मे वचः पथ्यम् इदम् त्वया कृतम्न च अस्मि शक्ता हि निवारणे तव ।हता सपुत्रा अस्मि हतेन संयुगेसह त्वया श्रीः विजहाति माम् अपि ॥४-२३-३०॥ तम् आशु वेगेन दुरासदेन तु अभिप्लुताम् शोक महार्णवेन ।पश्यन् तदा वालि अनुजः तरस्वी भ्रात्रुः वधेन अप्रतिमेन तेपे ॥४-२४-१॥ स बाष्प पूर्णेन मुखेन् पश्यन् क्षणेन निर्विण्ण मना मनस्वी ।जगाम रामस्य शनैः समीपम् भृत्यैः वृत्तः संपरिदूयमानः ॥४-२४-२॥ स तम् समासाद्य गृहीत चापम् उदात्तम् आशी विष तुल्य बाणम् ।यशश्विनम् लक्षण लक्षित अंगम् अवस्थितम् राघवम् इति उवाच ॥४-२४-३॥ यथा प्रतिज्ञातम् इदम् नरेन्द्र कृतम् त्वया दृउष्ट फलम् च कर्म ।मम अद्य भोगेषु नरेन्द्र सूनो मनो निवृत्तम् हत जिवितेन ॥४-२४-४॥ अस्याम् महिष्याम् तु भृशम् रुदत्याम् पुरे अति विक्रोशति दुःख तप्ते ।हते नृपे संशयिते अंगदे च न राम राज्ये रमते मनो मे ॥४-२४-५॥ क्रोधाद् अमर्षाद् अतिविप्रधर्षाद् भ्रातुर् वधो मे अनुमतः पुरस्तात् ।हते तु इदानीम् हरि यूधपे अस्मिन् सुतीक्ष्णम् इक्ष्वाकु वर प्रतप्स्ये ॥४-२४-६॥ श्रेयो अद्य मन्ये मम शैल मुख्ये तस्मिन् हि वासः चिरम् ऋष्यमूके ।यथा तथा वर्तयतः स्व वृत्या न इमम् निहत्य त्रिदिवसय लाभः ॥४-२४-७॥ न त्वा जिघांसामि चर इति यत् माम् अयम् महात्मा मतिमान् उवाच ।तस्य एवे तत् राम वचो अनुरूपम् इदम् वचः कर्म च मे अनुरूपम् ॥४-२४-८॥ भ्राता कथम् नाम महा गुणस्य भ्रातुर् वधम् राम विरोचयेत ।राजस्य दुःखस्य च वीर सारम् विचिन्तयन् काम पुरस्कृतो अपि ॥४-२४-९॥ वधो हि मे मतो न असीत् स्व महात्म्या अव्यतिक्रमात् ।मम आसीत् बुद्धिः दुरात्म्यात् प्राण हारी व्यतिक्रमः ॥४-२४-१०॥ द्रुम शाका अवभग्नो अहम् मुहुर्तम् परिनिष्टनन् ।स्वान्तयित्वा अनेन उक्तः न पुनः कर्तुम् अर्हसि ॥४-२४-११॥ भ्रातृत्वम् आर्य भावः च धर्मः च अनेन रक्षितः ।मया क्रोधः च कामः च कपित्वम् च प्रदर्शितम् ॥४-२४-१२॥ अचिंतनीयम् परिवर्जनीयम्अनीप्सनीयम् न अन्वेक्षणीयम् ।प्राप्तो अस्मि पाप्मानम् वयस्यभ्रातुः वध त्वाष्ट्र वधात् इव इन्द्रः ॥४-२४-१३॥ पाप्मानम् इन्द्रस्य मही जलम् च वृक्षाः च कामम् जगृहुः स्त्रियः च ।को नाम पाप्मानम् इमम् सहेत शाखा मृगस्य प्रतिपत्तुम् इच्छेत् ॥४-२४-१४॥ ना अर्हामि सन्मानम् इमम् प्रजानाम् न यौव राज्यम् कुत एव राज्यम् ।अधर्म युक्तम् कुल नाश युक्तम् एवम् विधम् राघव कर्म कृत्वा ॥४-२४-१५॥ पापस्य कर्ता अस्मि विगर्हितस्यक्षुद्रस्य लोक अपकृतस्य लोके ।शोको महान् मम अभिवर्तते अयम्वृष्टेः यथा निम्नम् इव अम्बु वेगः ॥४-२४-१६॥ सोदर्य अघाता अपर गात्र वालः संताप हस्त अक्षि शिरो विषाणः ।एनोमयो माम् अभिहन्ति हस्ती दृप्तो नदी कूलम् इव प्रवृद्धः ॥४-२४-१७॥ अंहो बतेदम् नृ वर अविषह्य निवर्तते मे हृदि साधु वृत्तम् ।अग्नौ विवर्णम् परितप्य मानम् किट्टम् यथा राघव जात रूपम् ॥४-२४-१८॥ महा बलानाम् हरि यूथपानाम् इदम् कुलम् राघव मन् निमित्तम् ।अस्य अंगदस्य अपि च शोक तापात् अर्थ स्थित प्राणम् इतीव मन्ये ॥४-२४-१९॥ सुतः सुलभः सुजनः सुवश्यः कुतः तु पुत्रः सदृशः अंगदेन ।न च अपि विद्येत स वीर देशो यस्मिन् भवेत् सोदर संनिकर्षः ॥४-२४-२०॥ अद्य अंगदो वीर वरो न जीवेत् जीवेत माता परि पालनार्थम् ।विना तु पुत्रम् परिताप दीना सा नैव जीवेत् इत् निश्चितम् मे ॥४-२४-२१॥ सो अहम् प्रवेक्ष्यामि अति दीप्तम् अग्निम्भ्रत्रा च पुत्रेण च सख्यम् इच्छन् ।इमे विचेष्यन्ति हरि प्रवीराःसीताम् निदेशे परिवर्तमानाः ॥४-२४-२२॥ कृत्स्नम् तु ते सेत्स्यति कार्यम् एतत् मयि अपि अतीते मनुजेन्द्र पुत्र ।कुलस्य हन्तारम् अजीवन अर्हम् राम अनुजानीहि कृत अगसम् माम् ॥४-२४-२३॥ इति एवम् आर्तस्य रघु प्रवीरः श्रुत्वा वचो वालि जघन्य जस्य ।संजात बाष्प पर वीर हन्ता रामो मुहूर्तम् विमना बभूव ॥४-२४-२४॥ तस्मिन् क्षणे अभीक्ष्णम् अवेक्षमाणः क्षिति क्षमावान् भुवनस्य गोप्ता ।रामो रुदन्तीम् व्यसने निमग्नाम् समुत्सुकः सः अथ ददर्श ताराम् ॥४-२४-२५॥ ताम् चारु नेत्राम् कपि सिंह नाथाम् पतिम् समाश्लिष्य तद शयानाम् ।उत्थापयामासुः अदीन सत्त्वाम् मंत्रि प्रधानाः कपि राज पत्नीम् ॥४-२४-२६॥ सा विस्फुरंती परिरभ्यमाणा भर्तुः समीपात् अपनीयमाना ।ददर्श रामम् शर चाप पाणिम् स्व तेजसा सूर्यम् इव ज्वलंतम् ॥४-२४-२७॥ सु संवृत्तम् पार्थिव लक्षणैः च तम् चारु नेत्रम् मृगशाव नेत्रा ।अदृष्ट पूर्वम् पुरुष प्रधानम् अयम् स काकुत्स्थ इति प्रजज्ञे ॥४-२४-२८॥ तस्य इन्द्र कल्पस्य दुरासदस्य महानुभावस्य समीपम् आर्या ।आर्त अति तूर्णम् व्यसनम् प्रपन्ना जगाम तारा परिविह्वलन्ती ॥४-२४-२९॥ तम् सा समासाद्य विशुद्ध सत्त्वम् शोकेन संभ्रांत शरीर भावा ।मनस्विनी वाक्यम् उवाच तारा रामम् रण उत्कर्षण लब्ध लक्ष्यम् ॥४-२४-३०॥ त्वम् अप्रमेयः च दुरासदः च जितेन्द्रियः च उत्तम धर्मकः च ।अक्षीण कीर्तिः च विचक्षणः च क्षिति क्षमवान् क्षतजोपमा अक्षः ॥४-२४-३१॥ त्वम् आत्त बाणासन बाण पाणिः महाबलः संहनन उपपन्नः ।मनुष्य देहाभुदयम् विहाय दिव्येन देहाभ्युदयेन युक्तः ॥४-२४-३२॥ एन एव बाणेन हतः प्रियो मे तेन एव बाणेन हि माम् जहि हि ।हता गमिष्यामि समीपम् अस्य न माम् विना वीर रमेत वाली ॥४-२४-३३॥ स्वर्गे अपि पद्म अमल पत्र नेत्र समेत्य संप्रेक्ष्य च माम् अपश्यन् ।न हि एष उच्चावच ताम्र चूडा विचित्र वेषाः अप्सरो अभजिष्यत् ॥४-२४-३४॥ स्वर्गे अपि शोकम् विवर्णताम् च मया विना प्राप्स्यति वीर वाली ।रम्ये नगेन्द्रस्य तटा अवकाशे विदेह कन्या अरहितो यथा त्वम् ॥४-२४-३५॥ त्वम् वेत्थ तावत् वनिता विहीनःप्राप्नोति दुःखम् पुरुषः कुमारः ।तत् त्वम् प्रजानन् जहि माम् न वालीदुःखम् मम अदर्शनजम् भजेत ॥४-२४-३६॥ यत् च अपि मन्येत भवान् महात्मास्त्री घात दोषः तु भवेन् न मह्यम् ।आत्मा इयम् अस्य इति हि माम् जहि त्वम्न स्त्री वधः स्यात् मनुजेन्द्र पुत्र ॥४-२४-३७॥ शास्त्र प्रयोगात् विविधाः च वेदात् अनन्य रूपाः पुरुषस्य दाराः ।दार प्रदानात् न हि दानम् अन्यत् प्रदृश्यते ज्ञानवताम् हि लोके ॥४-२४-३८॥ त्वम् च अपि माम् तस्य मम प्रियस्य प्रदास्यसे धर्मम् अवेक्ष्य वीर ।अनेन दानेन न लप्स्यसे त्वम् अधर्म योगम् मम वीर घातात् ॥४-२४-३९॥ आर्ताम् अनाथाम् अपनीयमानाम् एवम् गताम् न अर्हसि माम् अहन्तुम् ।अहम् हि मातंग विलास गामिना प्लवंगमानाम् ऋषभेण धीमता ।विना वरार्होत्तम हेम मालिना चिरम् न शक्ष्यामि नरेन्द्र जीवितुम् ॥४-२४-४०॥ इति एवम् उक्तः तु विभुः महात्मा ताराम् समाश्वास्य हितम् बभाषे ।मा वीर भार्ये विमतिम् कुरुष्व लोको हि सर्वो विहितो विधात्रा ॥४-२४-४१॥ तम् चैव सर्वम् सुख दुःख योगम् लोको अब्रवीत् तेन कृतम् विधात्रा ।त्रयो अपि लोका विहितम् विधानम् न अति क्रमन्ते वशगा हि तस्य ॥४-२४-४२॥ प्रीतिम् पराम् प्राप्स्यसि ताम् तथा एव पुत्रः च ते प्रप्स्यति यौव राज्यम् ।धात्र विधानम् विहितम् तथा एव न शूर पत्न्यः परिदेवयन्ति ॥४-२४-४३॥ आश्वासिता तेन महत्मना तु प्रभाव युक्तेन परंतपेन ।सा वीर पत्नी ध्वनता मुखेन सुवेष रूपा विरराम् तारा ॥४-२४-४४॥ स सुग्रीवम् च ताराम् च स अंगदाम् सह लक्ष्मणः ।समान शोकः काकुत्स्थः सांत्वयन् इदम् अब्रवीत् ॥४-२५-१॥ न शोक परितापेन श्रेयसा युज्यते मृतः ।यद् अत्र अनंतरम् कार्यम् तत् समाधातुम् अर्हथ ॥४-२५-२॥ लोक वृत्तम् अनुष्ठेयम् कृतम् वो बाष्प मोक्षणम् ।न कालाद् उत्तरम् किंचित् कर्म शक्यम् उपासितुम् ॥४-२५-३॥ नियतिः कारणम् लोके नियतिः कर्म साधनम् ।नियतिः सर्व भूतानाम् नियोगेषु इह कारणम् ॥४-२५-४॥ न कर्ता कस्यचित् कश्चित् नियोगे च अपि न ईश्वरः ।स्वभावे वर्तते लोकः तस्य कालः परायणम् ॥४-२५-५॥ न कालः कालम् अत्येति न कालः परिहीयते ।स्वभावम् च समासाद्य न कश्चित् अतिवर्तते ॥४-२५-६॥ न कालस्य अस्ति बंधुत्वम् न हेतुर् न पराक्रमः ।न मित्र ज्ञाति संबन्धः कारणम् न आत्मनो वशः ॥४-२५-७॥ किम् तु काल परीणामो द्रष्टव्यः साधु पश्यता ।धर्मः च अर्थः च कामः च कालक्रम समाहिताः ॥४-२५-८॥ इतः स्वाम् प्रकृतिम् वाली गतः प्राप्तः क्रिया फलम् ।साम दान अर्थ संयोगैः पवित्रम् प्लवग ईश्वर ॥४-२५-९॥ स्व धर्मस्य च संयोगात् जितः तेन महात्मना ।स्वर्गः परिगृहीतः च प्राणान् अपरिरक्षता ॥४-२५-१०॥ एषा वै नियतिः श्रेष्ठा याम् गतो हरि यूथपः ।तत् अलम् परितापेन प्राप्त कालम् उपास्यताम् ॥४-२५-११॥ वचन अन्ते तु रामस्य लक्ष्मणः पर वीर हा ।अवदत् प्रश्रितम् वाक्यम् सुग्रीवम् गत चेतसम् ॥४-२५-१२॥ कुरु त्वम् अस्य सुग्रीव प्रेत कार्यम् अनंतरम् ।तारा अंगदाभ्याम् सहितो वालिनो दहनम् प्रति ॥४-२५-१३॥ समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ।चन्दनानि च दिव्यानि वालि संस्कार कारणात् ॥४-२५-१४॥ समाश्वासय दीनम् त्वम् अंगदम् दीन चेतसम् ।मा भूः बालिश बुद्धिः त्वम् त्वत् अधीनम् इदम् पुरम् ॥४-२५-१५॥ अंगदः तु आनयेत् माल्यम् वस्त्राणि विविधानि च ।घृतम् तैलम् अथो गन्धान् यत् च अत्र समनंतरम् ॥४-२५-१६॥ त्वम् तार शिबिकाम् शीघ्रम् आदाय आगच्छ संभ्रमात् ।त्वरा गुणवती युक्ता हि अस्मिन् काले विशेषतः ॥४-२५-१७॥ सज्जी भवन्तु प्लवगाः शिबिक वाहन उचिताः ।समर्था बलिनः चैव निर्हरिष्यन्ति वालिनम् ॥४-२५-१८॥ एवम् उक्त्वा तु सुग्रीवम् सुमित्र आनन्द वर्धनः ।तस्थौ भ्रातृ समीपस्थो लक्ष्मणः पर वीरहा ॥४-२५-१९॥ लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्त मानसः ।प्रविवेश गुहाम् शीघ्रम् शिबिका आसक्त मानसः ॥४-२५-२०॥ आदाय शिबिकाम् तारः स तु पर्यापयत् पुनः ।वानरैः उह्यमानाम् ताम् शूरैः उद्वहन उचितैः ॥४-२५-२१॥ दिव्याम् भद्र आसन युताम् शिबिकाम् स्यंदन उपमम् ।पक्षि कर्मभिः आचित्राम् द्रुम कर्म विभूषिताम् ॥४-२५-२२॥ अचिताम् चित्र पत्तीभिः सुनिविष्टाम् समंततः ।विमानम् इव सिद्धानाम् जाल वात आयान आयुताम् ॥४-२५-२३॥ सुनियुक्तानाम् विशालाम् च सुकृताम् शिल्पिभिः कृतात् ।दारु पर्वतकोपेताम् चारु कर्म परिष्कृताम् ॥४-२५-२४॥ वर आभरण हारैः च चित्र माल्य उपशोभिताम् ।गुहागहन संच्छन्नाम् रक्त चन्दन भूषिताम् ॥४-२५-२५॥ पुष्प ओघैः समभिच्छन्नाम् पद्म मालाभिः एव च ।तरुण आदित्य वर्णाभिः भ्राजमानभिः आवृताम् ॥४-२५-२६॥ ईदृशी शिबिकाम् दृष्ट्वा रमो लक्ष्मणम् अब्रवीत् ।क्षिप्रम् विनीयताम् वली प्रेत कार्यम् विधीयताम् ॥४-२५-२७॥ ततो वालिनम् उद्यम्य सुग्रीवः शिबिकाम् तदा ।आरोपयत विक्रोशन् अंगदेन सह एव तु ॥४-२५-२८॥ आरोप्य शिबिकाम् चैव वालिनम् गत जीवितम् ।अलंकारैः च विविधैः माल्यैः वस्त्रैः च भूषितम् ॥४-२५-२९॥ आज्ञापयत् तदा राजा सुग्रीवः प्लवग ईश्वरः ।और्ध्व देहिकम् आर्यस्य क्रियताम् अनुरूपतः ॥४-२५-३०॥ विश्राणयन्तो रत्नानि विविधानि बहूनि च ।अग्रतः प्लवगा यान्तु शिबिका तद् अनंतरम् ॥४-२५-३१॥ राज्ञाम् ऋद्धि विशेषा हि दृश्यन्ते भुवि यादृशाः ।तादृशैः इह कुर्वन्तु वानरा भ्रतृउ सत् क्रियाम् ॥४-२५-३२॥ तादृशम् वालिनः क्षिप्रम् प्राकुर्वन् और्ध्वदैहिकम् ।अंगदम् परिरभ्य आशु तार प्रभृतयः तथा ॥४-२५-३३॥ क्रोशन्तः प्रययुः सर्वे वानरा हत बान्धवाः ।ततः प्रणिहिताः सर्वा वानर्यो अस्य वशानुगाः ॥४-२५-३४॥ चुक्रुशुः वीर वीर इति भूयः क्रोशन्ती ताः प्रियम् ।तारा प्रभृतयः सर्वा वानर्यो हत बान्धव ॥४-२५-३५॥ अनुजग्मुः च भर्तारम् क्रोशंत्यः करुण स्वनाः ।तासाम् रुदित शब्देन वानरीणाम् वन अंतरे ॥४-२५-३६॥ वनानि गिरयः चैव विक्रोशंति इव सर्वतः ।पुलिने गिरि नद्याः तु विविक्ते जल संवृते ॥४-२५-३७॥ चिताम् चक्रुः सुबहवो वानरा वन चारिणः ।अवरोप्य ततः स्कंधात् शिबिकाम् वानरोत्तमाः ॥४-२५-३८॥ तस्थुः एकांतम् आश्रित्य सर्वे शोक परायणाः ।ततः तारा पतिम् दृष्ट्वा शिबिका तल शायिनम् ॥४-२५-३९॥ आरोप्य अंके शिरः तस्य विललाप सुदुःखिता ।हा वानर महाराज हा नाथ माम् वत्सल ॥४-२५-४०॥ हा महार्हः महाबाहो हा मम प्रिय पश्य माम् ।जनम् न पश्यसि इमम् त्वम् कस्मात् शोक अभिपीडितम् ॥४-२५-४१॥ प्रहृष्टम् इह ते वक्त्रम् गत असोः अपि मानद ।अस्त अर्क सम वर्णम् च दृश्यते जीवतो यथा ॥४-२५-४२॥ एष त्वाम् राम रूपेण कालः कर्षति वानर ।येन स्म विधवाः सर्वाः कृता एक इषुणा रणे ॥४-२५-४३॥ इमाः ताः तव राजेन्द्र वानर्यो अप्लवगाः तव।पादैः विकृष्टम् अध्वानम् आगताः किम् न बुध्यसे ॥४-२५-४४॥ तव इष्टा ननु चैव इमा भार्याः चन्द्र निभ आननाः ।इदानीम् न ईक्षसे कस्मात् सुग्रीवम् प्लवग ईश्वरम् ॥४-२५-४५॥ एते हि सचिवा राजन् तार प्रभृतयः तव ।पुर वासि जनः च अयम् परिवार्य विषीदति ॥४-२५-४६॥ विसर्जय एनान् सचिवान् यथा उचितम् अरिन्दम ।ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥४-२५-४७॥ एवम् विलपतीम् ताराम् पति शोक परीवृताम् ।उत्थापयन्ति स्म तदा वानर्यः शोक कर्शिताः ॥४-२५-४८॥ सुग्रीवेण ततः सार्धम् अंगदः पितरम् रुदन् ।चिताम् आरोपयामास शोकेन अभिप्लुत इन्द्रियः ॥४-२५-४९॥ ततो अग्निम् विधिवत् दत्त्वा सो अपसव्यम् चकार ह ।पितरम् दीर्घम् अध्वानम् प्रस्थितम् व्याकुल इन्द्रियः ॥४-२५-५०॥ संस्कृत्य वालिनम् तम् तु विधिवत् प्लवगर्षभाः ।आजग्मुः उदकम् कर्तुम् नदीम् शुभ जलाम् शिवाम् ॥४-२५-५१॥ ततः ते सहिताः तत्र हि सः अंगदम् स्थाप्य च अग्रतः ।सुग्रीव तारा सहिताः सिषिचुः वानरा जलम् ॥४-२५-५२॥ सुग्रीवेण एव दीनेन दीनो भूत्वा महाबलः ।समान शोकः काकुत्स्थः प्रेत कार्याणि अकारयत् ॥४-२५-५३॥ ततो अथ तम् वालिनम् अग्र्य पौरुषम्प्रकाशम् इक्ष्वाकु वर इषुणा हतम् ।प्रदीप्य दीप्त अग्नि सम ओजसम् तदास लक्ष्मणम् रामम् उपेयवान् हरिः ॥४-२५-५४॥ ततः शोक अभिसंतप्तम् सुग्रीवम् क्लिन्न वासनम् ।शाखा मृग महामात्राः परिवार्य उपतस्थिरे ॥४-२६-१॥ अभिगम्य महाबाहुम् रामम् अक्लिष्ट कारिणम् ।स्थिताः प्रांजलयः सर्वे पितामहम् इव ऋषयः ॥४-२६-२॥ ततः कांचन शैल आभः तरुण अर्क निभ आननः ।अब्रवीत् प्रांजलिर् वाक्यम् हनुमान् मारुत आत्मजः ॥४-२६-३॥ भवत् प्रसादात् काकुत्स्थ पितृ पैतामहम् महत् ।वानराणाम् सुदंष्ट्राणाम् संपन्न बलशालिनाम् ॥४-२६-४॥ महात्मानाम् सुदुष्प्रापम् प्राप्तम् राज्यम् इदम् प्रभो ।भवता समनुज्ञातः प्रविश्य नगरम् शुभम् ॥४-२६-५॥ संविधास्यति कार्याणि सर्वाणि ससुहृत् गणः।स्नातो अयम् विविधैर् गन्धैर् औषधैः च यथा विधि ॥४-२६-६॥ अर्चयिष्यति माल्यैः च रत्नैः च त्वाम् विशेषतः ।इमाम् गिरि गुहाम् रम्याम् अभिगन्तुम् त्वम् अर्हसि ॥४-२६-७॥ कुरुष्व स्वामि संबन्धम् वानरान् संप्रहर्षयन् ।एवम् उक्तो हनुमता राघवः पर वीरहा ॥४-२६-८॥ प्रत्युवाच हनूमन्तम् बुद्धिमान् वाक्य कोविदः ।चतुर्दश समाः सौम्य ग्रामम् वा यदि वा पुरम् ॥४-२६-९॥ न प्रवेक्ष्यामि हनुमन् पितुर् निर्देश पालकः ।सुसमृद्धाम् गुहाम् दिव्याम् सुग्रीवो वानरर्षभः ॥४-२६-१०॥ प्रविष्टो विधिवत् वीरः क्षिप्रम् राज्ये अभिषिच्यताम् ।एवम् उक्त्वा हनूमन्तम् रामः सुग्रीवम् अब्रवीत् ॥४-२६-११॥ वृत्तज्ञो वृत्त संपन्नम् उदार बल विक्रमम् ।इमम् अपि अंगदम् वीरम् यौवराज्ये अभिषेचय ॥४-२६-१२॥ ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च ।अंगदो अयम् अदीनात्मा यौवराज्यस्य भाजनम् ॥४-२६-१३॥ पूर्वो अयम् वार्षिको मासः श्रावणः सलिल आगमः ।प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञिताः ॥४-२६-१४॥ न अयम् उद्योग समयः प्रविश त्वम् पुरीम् शुभाम् ।अस्मिन् वत्स्यामि अहम् सौम्य पर्वते सह लक्ष्मणः ॥४-२६-१५॥ इयम् गिरि गुहा रम्या विशाला युक्त मारुता ।प्रभूत सलिला सौम्य प्रभूत कमल उत्पला ॥४-२६-१६॥ कार्तिके समनुप्राप्ते त्वम् रावण वधे यत ।एष नः समयः सौम्य प्रविश त्वम् स्वम् आलयम् ॥४-२६-१७॥ अभिषिंचस्व राज्ये च सुहृदः संप्रहर्षय ।इति राम अभ्यनुज्ञातः सुग्रीवो वानरर्षभः ॥४-२६-१८॥ प्रविवेश पुरीम् रम्याम् किष्किंधाम् वालि पालिताम् ।तम् वानर सहस्राणि प्रविष्टम् वानर ईश्वरम् ॥४-२६-१९॥ अभिवार्य प्रहृष्टानि सर्वतः प्लवगेश्वरम् ।ततः प्रकृतयः सर्वा दृष्ट्वा हरि गण ईश्वरम् ॥४-२६-२०॥ प्रणम्य मूर्ध्ना पतिता वसुधायाम् समाहिताः ।सुग्रीवः प्रकृतीः सर्वाः संभाष्य उत्थाप्य वीर्यवान् ॥४-२६-२१॥ भ्रातुर् अंतः पुरम् सौम्यम् प्रविवेश महाबलः ।प्रविष्टम् भीम विक्रांतम् सुग्रीवम् वानरर्षभम् ॥४-२६-२२॥ अभ्यषिंचंत सुहृदः सहस्राक्षम् इव अमराः ।तस्य पाण्डुरम् आजह्रुः छत्रम् हेम परिष्कृतम् ॥४-२६-२३॥ शुक्ले च वाल व्यजने हेम दण्डे यशस्करे ।तथा सर्वाणि रत्नानि सर्व बीज औषधानि च ॥४-२६-२४॥ स क्षीराणाम् च वृक्षाणाम् प्ररोहान् कुसुमानि च ।शुक्लानि चैव वस्त्राणि श्वेतम् चैव अनुलेपनम् ॥४-२६-२५॥ सुगंधीनि च माल्यानि स्थलजानि अंबुजानि च ।चन्दनानि च दिव्यानि गन्धाम् च विविधान् बहून् ॥४-२६-२६॥ अक्षतम् जात रूपम् च प्रियंगु मधु सर्पिषी ।दधि चर्म च वैयाघ्रम् परार्ध्ये च अपि उपानहौ ॥४-२६-२७॥ समालंभनम् आदाय गोरोचनम् मनः शिलाम् ।आजग्मुः तत्र मुदिता वराः कन्याः च षोडश ॥४-२६-२८॥ ततः ते वानर श्रेष्ठम् अभिषेक्तुम् यथा विधि ।रत्नैर् वस्त्रैः च भक्ष्यैः च तोषयित्वा द्विजर्षभान् ॥४-२६-२९॥ ततः कुश परिस्तीर्णम् समिद्धम् जात वेदसम् ।मंत्र पूतेन हविषा हुत्वा मंत्रविदो जनाः ॥४-२६-३०॥ ततो हेम प्रतिष्ठाने वर आस्तरण संवृते ।प्रासाद शिखरे रम्ये चित्र माल्य उपशोभिते ॥४-२६-३१॥ प्राङ्मुखम् विधिवत् मंत्रैः स्थापयित्वा वर आसने ।नदी नदेभ्यः संहृत्य तीर्थेभ्यः च समंततः ॥४-२६-३२॥ आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ।अपः कनक कुंभेषु निधाय विमलम् जलम् ॥४-२६-३३॥ शुभैः वृषभ शृन्गैः च कलशैः च एव कांचनैः ।शास्त्र दृष्टेन विधिना महर्षि विहितेन च ॥४-२६-३४॥ गजो गवाक्षो गवयः शरभो गंधमादनः ।मैन्दः च द्विविदः चैव हनूमान् जांबवान् तथा ॥४-२६-३५॥ अभ्यषिंचंत सुग्रीवम् प्रसन्नेन सुगंधिना ।सलिलेन सहस्राक्षम् वसवो वासवम् यथा ॥४-२६-३६॥ अभिषिक्ते तु सुग्रीवे सर्वे वानर पुंगवाः ।प्रचुक्रुशुर् महात्मानो हृष्टाः शत सहस्रशः ॥४-२६-३७॥ रामस्य तु वचः कुर्वन् सुग्रीवो हरि पुंगवः ।अंगदम् संपरिष्वज्य यौवराज्ये अभिषेचयत् ॥४-२६-३८॥ अंगदे च अभिषिक्ते तु सानुक्रोशाः प्लवंगमाः ।साधु साधु इति सुग्रीवम् महात्मानो हि अपूजयन् ॥४-२६-३९॥ रामम् च एव महात्मानम् लक्ष्मणम् च पुनः पुनः ।प्रीताः च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि ॥४-२६-४०॥ हृष्ट पुष्ट जन आकीर्णा पताका ध्वज शोभिता ।बभूव नगरी रम्या क्षिकिंधा गिरि गह्वरे ॥४-२६-४१॥ निवेद्य रामाय तदा महात्मनेमहा अभिषेकम् कपि वाहनी पतिः ।रुमाम् च भार्याम् उपलभ्य वीर्यवान्अवाप राज्यम् त्रिदश अधिपो यथा ॥४-२६-४२॥ अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।आजगाम सह भ्रात्रा रामः प्रस्रवणम् गिरिम् ॥४-२७-१॥ शार्दूल मृग संघुष्टम् सिंहैः भीम रवैः वृतम् ।नाना गुल्म लता गूढम् बहु पादप संकुलम् ॥४-२७-२॥ ऋक्ष वानर गोपुच्छैः मार्जारैः च निषेवितम् ।मेघ राशि निभम् शैलम् नित्यम् शुचिकरम् शिवम् ॥४-२७-३॥ तस्य शैलस्य शिखरे महतीम् आयताम् गुहाम् ।प्रत्यगृह्णीत वासार्थम् रामः सौमित्रिणा सह ॥४-२७-४॥ कृत्वा च समयम् रामः सुग्रीवेण सह अनघ ।काल युक्तम् महद् वाक्यम् उवाच रघुनन्दन ॥४-२७-५॥ विनीतम् भ्रातरम् भ्राता लक्ष्मणम् लक्ष्मि वर्धनम् ।इयम् गिरि गुहा रम्या विशाला युक्त मारुता ॥४-२७-६॥ अस्याम् वस्त्याम सौमित्रे वर्ष रात्रम् अरिंदम ।गिरि शृंगम् इदम् रम्यम् उत्तमम् पार्थिवात्मज ॥४-२७-७॥ श्वेताभिः कृष्ण ताम्राभिः शिलाभिः उपशोभितम् ।नाना धातु समाकीर्णम् नदी दर्दुर संयुतम् ॥४-२७-८॥ विविधैः वृक्ष षण्डैः च चारु चित्र लता युतम् ।नाना विहग संघुष्टम् मयूर वर नादितम् ॥४-२७-९॥ मालती कुंद गुल्मैः च सिंदुवारैः शिरीषकैः ।कदंब अर्जुन सर्जैः च पुष्पितैः उपशोभितम् ॥४-२७-१०॥ इयम् च नलिनि रम्या फुल्ल पंकज मण्डितैः ।न अति दूरे गुहाया नौ भविष्यति नृपात्मज ॥४-२७-११॥ प्राग् उदक् प्रवणे देशे गुहा साधु भविष्यति ।पश्चात् च एव उन्नता सौम्य निवाते अयम् भविष्यति ॥४-२७-१२॥ गुहा द्वारे च सौमित्रे शिला सम तला शिवा ।कृष्णा च एव आयता चैव भिन्न अंजन चय उपममा ॥४-२७-१३॥ गिरि शृंगम् इदम् तात पश्य च उत्तरतः सुभम् ।भिन्न अंजन चय आकारम् अंभोधरम् इव उदितम् ॥४-२७-१४॥ दक्षिणस्याम् अपि दिश स्थितम् श्वेतम् इव अंबरम् ।कैलास शिखर प्रख्यम् नाना धातु विराजितम् ॥४-२७-१५॥ प्राचीन वाहिनीम् चैव नदीम् भृशम् अकर्दमम् ।गुहायाः परतः पश्य त्रिकूटे जह्नवीम् इव ॥४-२७-१६॥ चन्दनैः तिलकैः सालैः तमालैः अतिमुक्तकैः ।पद्मकैः सरलैः चैव अशोकैः चैव शोभितम् ॥४-२७-१७॥ वानीरैः तिमिदैः चैव वकुलैः केतकैः अपि ।हिन्तालैः तिनिशैः नीपैः वेतसैः कृतमालकैः ॥४-२७-१८॥ तीरजैः शोभिता भाति नाना रूपैः ततः ततः ।वसन आभरण उपेत प्रमद एव अभ्यलंकृता ॥४-२७-१९॥ शतशः पक्षि सन्घैः च नाना नाद विनादिता ।एकैकम् अनुरक्तैः च चक्रवाकैः अलंकृता ॥४-२७-२०॥ पुलिनैः अति रम्यैः च हंस सारस सेविता ।प्रहसंती इव भाति एषा नारी रत्न विभूषिता ॥४-२७-२१॥ क्वचित् नीलोत्पलैः च्छन्न भाति रक्तोत्पलैः क्वचित् ।क्वचित् भाति शुक्लैः च दिव्यैः कुमुद कुड्मलैः ॥४-२७-२२॥ पारिप्लव शतैः जुष्टा बर्हि क्रौन्च विनादिता ।रमणिया नदी सौम्य मुनि संघ निषेविता ॥४-२७-२३॥ पश्य चंदन वृक्षाणाम् पंक्ती सुरुचिरा इव ।ककुभानम् च दृश्यन्ते मनसा इव उदिताः समम् ॥४-२७-२४॥ अहो सुरमणीयो अयम् देशः शत्रु निषूदन ।दृढम् रंस्याव सौमित्रे साधु अत्र निवसावहे ॥४-२७-२५॥ इतः च न अति दूरे सा किष्किंधा चित्र कानना ।सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥४-२७-२६॥ गीत वादित्र निर्घोषः श्रूयते जयताम् वर ।नदताम् वानराणाम् च मृदंग आडंबरैः सह ॥४-२७-२७॥ लब्ध्वा भार्याम् कपिवरः प्राप्य राज्यम् सुहृत् वृतः ।ध्रुवम् नंदति सुग्रीवः संप्राप्य महतीम् श्रियम् ॥४-२७-२८॥ इति उक्त्वा न्यवसत् तत्र राघवः सह लक्ष्मणः ।बहु दृश्य दरी कुंजे तस्मिन् प्रस्रवणे गिरौ ॥४-२७-२९॥ सुसुखे हि बहु द्रव्ये तस्मिन् हि धरणी धरे ।वसतः तस्य रामस्य रतिः अल्पा अपि न अभवत् ॥४-२७-३०॥ हृताम् हि भार्याम् स्मरतः प्राणेभ्यो अपि गरीयसीम् ।उदय अभ्युदितम् दृष्ट्वा शशांकम् च विशेषतः ॥४-२७-३१॥ आविवेश न तम् निद्रा निशासु शयनम् गतम् ।तत् समुत्थेन शोकेन बाष्प उपहत चेतसम् ॥४-२७-३२॥ तम् शोचमानम् काकुत्स्थम् नित्यम् शोक परायणम् ।तुल्य दुःखो अब्रवीद् भ्राता लक्ष्मणो अनुनयम् वचः ॥४-२७-३३॥ अलम् वीर व्यथाम् गत्वा न त्वम् शोचितुम् अर्हसि ।शोचतो हि अवसीदन्ति सर्व अर्था विदितम् हि ते ॥४-२७-३४॥ भवान् क्रिया परो लोके भवान् देव परायणः ।आस्तिको धर्म शीलः च व्यवसायी च राघव ॥४-२७-३५॥ न हि अव्यवसितः शत्रुम् राक्षसम् तम् विशेषतः ।समर्थः त्वम् रणे हन्तुम् विक्रमैः जिह्म कारिणम् ॥४-२७-३६॥ समुन्मूलय शोकम् त्वम् व्यवसायम् स्थिरी कुरु ।ततः सपरिवारम् तम् राक्षसम् हन्तुम् अर्हसि ॥४-२७-३७॥ पृथिवीम् अपि काकुत्स्थ ससागर वन अचलाम् ।परिवर्तयितुम् शक्तः किम् पुनः तम् हि रावणम् ॥४-२७-३८॥ शरत् कालम् प्रतीक्षस्व प्रावृट् कालो अयम् आगतः ।ततः स राष्ट्रम् स गणाम् रावणम् तम् वधिष्यसि ॥४-२७-३९॥ अहम् तु खलु ते वीर्यम् प्रसुप्तम् प्रतिबोधये ।दीप्तैः आहुतिभिः काले भस्म चन्नम् इव अनलम् ॥४-२७-४०॥ लक्ष्मणस्य हि तद् वाक्यम् प्रतिपूज्य हितम् शुभम् ।राघवः सुहृदम् स्निग्धम् इदम् वचनम् अब्रवीत् ॥४-२७-४१॥ वाच्यम् यद् अनुरक्तेन स्निग्धेन च हितेन च ।सत्य विक्रम युक्तेन तद् उक्तम् लक्ष्मण त्वया ॥४-२७-४२॥ एष शोकः परित्यक्तः सर्व कार्य अवसादकः ।विक्रमेषु अप्रतिहतम् तेजः प्रोत्साहयामि अहम् ॥४-२७-४३॥ शरत् कालम् प्रतीक्षिष्ये स्थितो अस्मि वचने तव ।सुग्रीवस्य नदीनाम् च प्रसादम् अनुपालयन् ॥४-२७-४४॥ उपकारेण विरः तु प्रतिकारेण युज्यते ।अकृतज्ञो अप्रतिकृतो हन्ति सत्ववताम् मनः ॥४-२७-४५॥ तत् एव युक्तम् प्रणिधाय लक्ष्मणःकृत अंजलि तत् प्रतिपूजय भाषितम् ।उवाच रामम् स्वभिराम दर्शनम्प्रदर्शयन् दर्शनम् आत्मनः शुभम् ॥४-२७-४६॥ यथोक्तम् एतत् तव सर्वम् ईप्सितम्नरेन्द्र कर्ता न चिरात् तु वानर ।शरत् प्रतीक्षः क्षमताम् इमम् भवान्जल प्रपातम् रिपु निग्रहे धृतः ॥४-२७-४७॥ नियम्य कोपम् प्रतिपाल्यताम् शरत्क्षमस्व मासाम् चतुरो मया सह ।वस अचले अस्मिन् मृग राज सेवितेसंवर्तयन् शत्रु वधे समर्थः ॥४-२७-४८॥ स तदा वालिनम् हत्वा सुग्रीवम् अभिषिच्य च ।वसन् माल्यवतः पृष्टे रामो लक्ष्मणम् अब्रवीत् ॥४-२८-१॥ अयम् स कालः संप्राप्तः समयो अद्य जल आगमः ।संपश्य त्वम् नभो मेघैः संवृतम् गिरि संनिभैः ॥४-२८-२॥ नव मास धृतम् गर्भम् भास्करस्य गभस्तिभिः ।पीत्वा रसम् समुद्राणाम् द्यौः प्रसूते रसायनम् ॥४-२८-३॥ शक्यम् अंबरम् आरुह्य मेघ सोपान पंक्तिभिः ।कुटज अर्जुन मालाभिः अलंकर्तुम् दिवाकरम् ॥४-२८-४॥ संध्या राग उत्थितैः ताम्रैः अंतेषु अधिक पाण्डुरैः ।स्निग्धैः अभ्र पट च्छेदैः बद्ध व्रणम् इव अंबरम् ॥४-२८-५॥ मन्द मारुत निःश्वासम् संध्या चंदन रंजितम् ।आपाण्डु जलदम् भाति काम आतुरम् इव अंबरम् ॥४-२८-६॥ एषा घर्म परिक्लिष्टा नव वारि परिप्लुता ।सीता इव शोक संतप्ता मही बाष्पम् विमुंचति ॥४-२८-७॥ मेघ उदर विनिर्मुक्ताः कर्पूर दल शीतलाः ।शक्यम् अंजलिभिः पातुम् वाताः केतकि गन्धिनः ॥४-२८-८॥ एष फुल्ल अर्जुनः शैलः केतकैः अधिवासितः ।सुग्रीव इव शान्त अरिः धाराभिः अभिषिच्यते ॥४-२८-९॥ मेघ कृष्ण अजिन धरा धारा यज्ञ उपवीतिनः ।मारुत आपूरित गुहाः प्राधीता इव पर्वताः ॥४-२८-१०॥ कशाभिः इव हैमीभिः विद्युद्भिः इव ताडितम् ।अन्तः स्तनित निर्घोषम् सवेदनम् इव अंबरम् ॥४-२८-११॥ नील मेघ आश्रिता विद्युत् स्फुरंती प्रतिभाति मे ।स्फुरंती रावणस्य अंके वैदेही इव तपस्विनी ॥४-२८-१२॥ इमाः ता मन्मथवताम् हिताः प्रतिहता दिशः ।अनुलिप्ता इव घनैः नष्ट ग्रह निशा कराः ॥४-२८-१३॥ क्वचित् बाष्प अभिसंरुद्धान् वर्ष आगम समुत्सुकान् ।कुटजान् पश्य सौमित्रे पुष्टितान् गिरि सानुषु ।मम शोक अभिभूतस्य काम सम्दीपनान् स्थितान् ॥४-२८-१४॥ रजः प्रशांतम् स हिमो अद्य वायुःनिदाघ दोष प्रसराः प्रशांताः ।स्थिता हि यात्रा वसुधा अधिपानाम्प्रवासिनो यांति नराः स्व देशान् ॥४-२८-१५॥ संप्रस्थिता मानस वास लुब्धाःप्रिय अन्विताः संप्रति चक्रवाकः ।अभीक्ष्ण वर्ष उदक विक्षतेषुयानानि मार्गेषु न संपतन्ति ॥४-२८-१६॥ क्वचित् प्रकाशम् क्वचिद् अप्रकाशम्नभः प्रकीर्णा अंबु धरम् विभाति ।क्वचित् क्वचित् पर्वत संनिरुद्धम्रूपम् यथा शान्त महार्णवस्य ॥४-२८-१७॥ व्यामिश्रितम् सर्ज कदंब पुष्पैःनवम् जलम् पर्वत धातु ताम्रम् ।मयूर केकाभिः अनुप्रयातम्शैल अपगाः शीघ्रतरम् वहन्ति ॥४-२८-१८॥ रस आकुलम् षट्पद संनिकाशम्प्रभुज्यते जंबु फलम् प्रकामम् ।अनेक वर्णम् पवन अवधूतम्भूमौ पतति आम्र फलम् विपक्वम् ॥४-२८-१९॥ विद्युत् पताकाः स बलाक मालाःशैलेन्द्र कूट आकृति संनिकाशाः ।गर्जन्ति मेघाः समुदीर्ण नादामत्त गजेन्द्रा इव संयुगस्थाः ॥४-२८-२०॥ वर्ष उदक आअप्यायित शाद्वलानिप्रवृत्त नृत्त उत्सव बर्हिणानि ।वनानि निर्वृष्ट बलाहकानिपश्य अपराह्णेषु अधिकम् विभान्ति ॥४-२८-२१॥ सम् उद् वहन्तः सलिल अति भारम्बलाकिनो वारि धरा नदन्तः ।महत्सु शृंगेषु मही धराणाम्विश्रम्य विश्रम्य पुनः प्रयान्ति ॥४-२८-२२॥ मेघ अभिकामा परिसंपतन्तीसम्मोदिता भाति बलाक पंक्तिः ।वात अवधूता वर पौण्डरीकीलंब इव माला रुचिर अंबरस्य ॥४-२८-२३॥ बाल इन्द्रगोप्ता अंतर चित्रितेनविभाति भूमिः नव शाद्वलेन ।गात्र अनुपृक्तेन शुक प्रभेणनारी इव लाक्ष उक्षित कंबलेन ॥४-२८-२४॥ निद्रा शनैः केशवम् अभ्युपैतिद्रुतम् नदी सागरम् अभ्युपैति ।हृष्टा बलाका घनम् अभ्युपैतिकान्ता स कामा प्रियम् अभ्युपैति ॥४-२८-२५॥ जाता वनान्ताः शिखि सुप्रनृत्ताजाताः कदंबाः स कदंब शाखाः ।जाता वृषा गोषु समान कामाजाता मही सस्य वन अभिरामा ॥४-२८-२६॥ वहन्ति वर्षन्ति नदन्ति भान्तिध्यायन्ति नृत्यन्ति समाश्वसन्ति ।नद्यो घना मत्त गजा वन अन्ताःप्रिया विहीनाः शिखिनः प्लवंगाः ॥४-२८-२७॥ प्रहर्षिताः केतक पुष्प गन्धम्आघ्राय मत्ता वन निर्झरेषु ।प्रपात शब्द आकुलिता गजेन्द्राःसार्धम् मयूरैः स मदा नदन्ति ॥४-२८-२८॥ धारा निपातैः अभिहन्यमानाःकदंब शाखासु विलंबमानाः ।क्षण अर्जितम् पुष्प रस अवगाढम्शनैर् मदम् षट् चरणाः त्यजन्ति ॥४-२८-२९॥ अंगार चूर्ण उत्कर संनिकाशैःफलैः सुपर्याप्त रसैः समृद्धैः ।जंबू द्रुमाणाम् प्रविभान्ति शाखानिपीयमाना इव षट्पद ओघैः ॥४-२८-३०॥ तडित् पताकाभिः अलंकृतानाम्उदीर्ण गंभीर महा रवाणाम् ।विभान्ति रूपाणि बलाहकानाम्रण उत्सुकानाम् इव वारणानाम् ॥४-२८-३१॥ मार्ग अनुगः शैल वन अनुसारीसंप्रस्थितो मेघ रवम् निशम्य ।युद्ध अभिकामः प्रतिनाद शन्कीमत्तो गजेन्द्रः प्रतिसंनिवृत्तः ॥४-२८-३२॥ क्वचित् प्रगीता इव षट्पद ओघैःक्वचित् प्रवृत्ता इव नील कण्ठैः ।क्वचित् प्रमत्ता इव वारण इन्द्रैःविभाति अनेक आश्रयिणो वनान्ता ॥४-२८-३३॥ कदंब सर्जा अर्जुन कंदल आढ्यावनान्त भूमि मधु वारि पूर्णा ।मयूर मत्ता अभिरुत प्रवृत्तैःअपान भूमि प्रतिमा विभाति ॥४-२८-३४॥ मुक्ता समाभम् सलिलम् पतत् वैसुनिर्मलम् पत्र पुटेषु लग्नम् ।हृष्टा विवर्ण च्छदना विहंगाःसुरेन्द्र दत्तम् तृषिताः पिबन्ति ॥४-२८-३५॥ षत्पद तंत्री मधुर अभिधानम्प्लवंगम् उदीरित कण्ठ तालम् ।आविष्कृतम् मेघ मृदंग नादैःवनेषु संगीतम् इव प्रवृत्तम् ॥४-२८-३६॥ क्वचित् प्रनृत्तैः क्वचित् उन् नदद्भिःक्वचित् च वृक्ष अग्र निषण्ण कायैः ।व्यालंब बर्ह आभरणैः मयूरैःवनेषु संगितम् इव प्रवृत्तम् ॥४-२८-३७॥ स्वनैः घनानाम् प्लवगाः प्रबुद्धाविहाय निद्राम् चिर संनिरुद्धाम् ।अनेक रूपा आकृति वर्ण नादानव अंबु धारा अभिहता नदन्ति ॥४-२८-३८॥ नद्यः समुद्वाहित चक्रवाकातटानि शीर्णानि अपवाहयित्वा ।दृप्ता नव प्राभृत पूर्ण भोगाद्रुतम् स्व भर्तारम् उपोप यान्ति ॥४-२८-३९॥ नीलेषु नीला नव वारि पूर्णामेघेषु मेघाः प्रविभान्ति सक्ताः ।दवाग्नि दग्धेषु दवाग्नि दग्धाःशैलेषु शैला इव बद्ध मूलाः ॥४-२८-४०॥ प्रमत्त संनाददित बर्हिणानिस शक्रगोप अकुल शाद्वलानि ।चरन्ति नीप अर्जुन वासितानिगजाः सुरम्याणि वन अन्तराणि ॥४-२८-४१॥ नव अंबु धार आहत केसराणिद्रुतम् परित्यज्य सरोरुहाणि ।कदंब पुष्पाणि स केसराणिनवानि हृष्टा भ्रमराः पिबन्ति ॥४-२८-४२॥ मत्ता गजेन्द्रा मुदिता गवेन्द्रावनेषु विक्रांततरा मृगेन्द्राः ।रम्या नगेन्द्रा निभृता नरेन्द्राःप्रक्रीडितो वारि धरैः सुरेन्द्रः ॥४-२८-४३॥ मेघाः समुद् भूत समुद्र नादामहाजल ओघैः गगन अवलंबाः ।नदीः तटाकानि सरांसि वापिःमहीम् च कृत्स्नाम् अपवाहयन्ति ॥४-२८-४४॥ वर्ष प्रवेगा विपुला पतन्तिप्रवान्ति वाताः समुदीर्ण वेगाः ।प्रनष्ट कूलाः प्रवहन्ति शीघ्रम्नद्यो जलम् विप्रतिपन्न मार्गाः ॥४-२८-४५॥ नरैः नरेन्द्रा इव पर्वतेन्द्राःसुरेन्द्र नीतैः पवन उपनीतैः ।घन अंबु कुम्भैः अभिषिच्यमानारूपम् श्रियम् स्वाम् इव दर्शयन्ति ॥४-२८-४६॥ घन उपगूढम् गगनम् न तारान भास्करो दर्शनम् अभ्युपैति ।नवैः जल ओघैः धरणी वितृप्तातमो विलिप्ता न दिशः प्रकाशाः ॥४-२८-४७॥ महान्ति कूटानि मही धराणाम्धारा विधौतानि अधिकम् विभान्ति ।महा प्रमाणैः विपुलैः प्रपातैःमुक्त कलापैः इव लंबमानैः ॥४-२८-४८॥ शैलोपल प्रस्खलमान वेगाःशैलोत्तमानाम् विपुलाः प्रपाताः ।गुहासु संनादित बर्हिणासुहारा विकीर्यन्त इव अवभान्ति ॥४-२८-४९॥ शीघ्र प्रवेगा विपुलाः प्रपातानिर्धौत शृंग उपतला गिरीणाम् ।मुक्ता कलाप प्रतिमाः पतन्तोमहा गुह उस्त्संग तलैः ध्रियन्ते ॥४-२८-५०॥ सुरताम् अर्द विच्छिन्नाः स्वर्ग स्त्री हार मौक्तिकाः ।पतन्ति च अतुलाः दिक्षु तोय धाराः समन्ततः ॥४-२८-५१॥ विलीयमानैः विहगैः निमीलद्भिः च पंकजैः ।विकसन्त्या च मालत्या गतो अस्तम् ज्ञायते रविः ॥४-२८-५२॥ वृत्ता यात्रा नरेन्द्राणाम् सेना पथि एव वर्तते ।वैराणि चैव मार्गाः च सलिलेन समीकृताः ॥४-२८-५३॥ मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानाम् विवक्षताम् ।अयम् अध्याय समयः सामगानाम् उपस्थितः ॥४-२८-५४॥ निवृत्त कर्म आयतनो नूनम् संचित संचयः ।आषाढीम् अभ्युपगतो भरतः कोसल अधिपः ॥४-२८-५५॥ नूनम् आपूर्यमाणायाः सरय्वा वधते रयः ।माम् समीक्ष्य समायान्तम् अयोध्याया इव स्वनः ॥४-२८-५६॥ इमाः स्फीत गुणा वर्षाः सुग्रीवः सुखम् अश्नुते ।विजित अरिः स दारः च राज्ये महति च स्थितः ॥४-२८-५७॥ अहम् तु हृत दारः च राज्यात् च महतः च्युतः ।नदी कूलम् इव क्लिन्नम् अवसीदामि लक्ष्मण ॥४-२८-५८॥ शोकः च मम विस्तीर्णो वर्षाः च भृश दुर्गमाः ।रावणः च महान् शत्रुः अपारम् प्रतिभाति मे ॥४-२८-५९॥ अयात्राम् चैव दृष्ट्वा इमाम् मार्गाम् च भृश दुर्गमान् ।प्रणते चैव सुग्रीवे न मया किंचित् ईरितम् ॥४-२८-६०॥ अपि च अति परिक्लिष्टम् चिरात् दारैः समागतम् ।आत्म कार्य गरीयस्त्वात् वक्तुम् न इच्छामि वानरम् ॥४-२८-६१॥ स्वयम् एव हि विश्रम्य ज्ञात्वा कालम् उपागतम् ।उपकारम् च सुग्रीवो वेत्स्यते न अत्र संशयः ॥४-२८-६२॥ तस्मात् काल प्रतीक्षो अहम् स्थितो अस्मि शुभ लक्षण ।सुग्रीवस्य नदीनाम् च प्रसादम् अभिकांक्षयन् ॥४-२८-६३॥ उपकारेण वीरो हि प्रतिकारेण युज्यते ।अकृतज्ञो अप्रतिकृतो हन्ति सत्त्ववताम् मनः ॥४-२८-६४॥ अथ एवम् उक्तः प्रणिधाय लक्ष्मणःकृत अंजलिः तत् प्रतिपूज्य भाषितम् ।उवाच रामम् स्वभिराम दर्शनम्प्रदर्शयन् दर्शनम् आत्मनः शुभम् ॥४-२८-६५॥ यत् उक्तम् एतत् तव सर्वम् ईप्सितम्नर इन्द्र कर्ता नचिरा हरि ईश्वरः ।शरत् प्रतीक्षः क्षमताम् इमम् भवान्जल प्रपातम् रिपु निग्रहे धृतः ॥४-२८-६६॥ समीक्ष्य विमलम् व्योम गत विद्युत् बलाहकम् ।सारसा आकुल संघुष्टम् रम्य ज्योत्स्ना अनुलेपनम् ॥४-२९-१॥ समृद्ध अर्थम् च सुग्रीवम् मन्द धर्मार्थ संग्रहम् ।अत्यर्थम् च असताम् मार्गम् एकांत गत मानसम् ॥४-२९-२॥ निवृत्त कार्यम् सिद्धार्थम् प्रमद अभिरतम् सदा ।प्राप्तवन्तम् अभिप्रेतान् सर्वान् एव मनोरथान् ॥४-२९-३॥ स्वाम् च पात्नीम् अभिप्रेताम् ताराम् च अपि समीप्सिताम् ।विहरंतम् अहो रात्रम् कृतार्थम् विगत ज्वरम् ॥४-२९-४॥ क्रीडन्तम् इव देवेशम् गन्धर्व अप्सरसाम् गणैः ।मंत्रिषु न्यस्त कार्यम् च मंत्रिणाम् अनवेक्षकम् ॥४-२९-५॥ उच्छिन्न राज्य संदेहम् काम वृत्तम् इव स्थितम् ।निश्चित अर्थो अर्थ तत्त्वज्ञः काल धर्म विशेष वित् ॥४-२९-६॥ प्रसाद्य वाक्यैः मधुरैः हेतुमद्भिः मनो रमैः ।वाक्यवित् वाक्य तत्त्वज्ञम् हरीशम् मारुतात्मजः ॥४-२९-७॥ हितम् तथ्यम् च पथ्यम् च साम धर्म अर्थ नीतिमत् ।प्रणय प्रीति संयुक्तम् विश्वास कृत निश्चयम् ॥४-२९-८॥ हरीश्वरम् उपागम्य हनुमान् वाक्यम् अब्रवीत् ।राज्यम् प्राप्तम् यशः चैव कौली श्रीः अभिवर्थिता ॥४-२९-९॥ मित्राणाम् संग्रहः शेषः तत् भवान् कर्तुम् अर्हति ।यो हि मित्रेषु कालज्ञः सततम् साधु वर्तते ॥४-२९-१०॥ तस्य राज्यम् च कीर्तिः च प्रतापः च अपि वर्धते ।यस्य कोशः च दण्डः च मित्राणि आत्मा च भूमिप ।समानि एतानि सर्वाणि स राज्यम् महत् अश्नुते ॥४-२९-११॥ तत् भवान् वृत्त संपन्नः स्थितः पथि निरत्यये ।मित्रार्थम् अभिनीतार्थम् यथावत् कर्तुम् अर्हति ॥४-२९-१२॥ संत्यज्य सर्व कर्माणि मित्रार्थम् यो न वर्तते ।संभ्रमात् हि कृत उत्साहः सः अनर्थेन अवरुध्यते ॥४-२९-१३॥ यो हि काल व्यतीतेषु मित्र कार्येषु वर्तते ।स कृत्वा महतो अपि अर्थान् न मित्रार्थेन युज्यते ॥४-२९-१४॥ तत् इदम् मित्रकार्यम् नः काल अतीतम् अरिंदम ।क्रियताम् राघवस्य एतत् वैदेह्याः परिमार्गणम् ॥४-२९-१५॥ न च कालम् अतीतम् ते निवेदयति कालवित् ।त्वरमाणो अपि स प्राज्ञः तव राजन् वशानुगः ॥४-२९-१६॥ कुलस्य हेतुः स्फीतस्य दीर्घ बन्धुः च राघवः ।अप्रमेय प्रभावः च स्वयम् च अप्रतिमो गुणैः ॥४-२९-१७॥ तस्य त्वम् कुरु वै कार्यम् पूर्वम् तेन कृतम् तव ।हरीश्वर हरि श्रेष्ठान् आज्ञापयितुम् अर्हसि ॥४-२९-१८॥ न हि तावत् भवेत् कालो व्यतीतः चोदनात् ऋते ।चोदितस्य हि कार्यस्य भवेत् काल व्यतिक्रमः ॥४-२९-१९॥ अकर्तुर् अपि कार्यस्य भवान् कर्ता हरीश्वर ।किम् पुनः प्रतिकर्तुः ते राज्येन च वधेन च ॥४-२९-२०॥ शक्तिमान् अतिविक्रान्तो वानर ऋष्क गण ईश्वर ।कर्तुम् दाशरथेः प्रीतिम् आज्ञायाम् किम् नु सज्जसे ॥४-२९-२१॥ कामम् खलु शरैः शक्तः सुर असुर महा उरगान् ।वशे दाशरथिः कर्तुम् त्वत् प्रतिज्ञाम् अवेक्षते ॥४-२९-२२॥ प्राण त्याग अविशंकेन कृतम् तेन महत् प्रियम् ।तस्य मार्गाम वैदेहीम् पृथिव्याम् अपि च अंबरे ॥४-२९-२३॥ न देवा न च गंधर्वा न असुरा न मरुत् गणाः ।न च यक्षा भयम् तस्य कुर्युः किम् इव राक्षसाः ॥४-२९-२४॥ तत् एवम् शक्ति युक्तस्य पूर्वम् प्रिय कृतः तथा ।रामस्य अर्हसि पिंगेश कर्तुम् सर्व आत्मना प्रियम् ॥४-२९-२५॥ न अधस्तात् अवनौ न अप्सु गतिः न उपरि च अम्बरे ।कस्यचित् सज्जते अस्माकम् कपीश्वर तव आज्ञया ॥४-२९-२६॥ तत् आज्ञापय कः किम् ते कुतो वा अपि व्यवस्यतु ।हरयो हि अप्रधृष्याः ते सन्ति कोटि अग्रतो अनघ ॥४-२९-२७॥ तस्य तद् वचनम् श्रुत्वा काले साधु निरूपितम् ।सुग्रीवः सत्त्व संपन्नः चकार मतिम् उत्तमाम् ॥४-२९-२८॥ संदिदेश अति मति मान् नीलम् नित्य कृत उद्यमम् ।दिक्षु सर्वासु सर्वेषाम् सैन्यानाम् उपसंग्रहे ॥४-२९-२९॥ यथा सेना समग्रा मे यूथपालाः च सर्वशः ।समागच्छन्ति असंगेन सेनाग्राणि तथा कुरु ॥४-२९-३०॥ ये तु अंतपालाः प्लवगाः शीघ्रगा व्यवसायिनः ।समानयंतु ते शीघ्रम् त्वरिताः शासनात् मम ।स्वयम् च अनंतरम् सैन्यम् भवान् एव अनुपश्यतु ॥४-२९-३१॥ त्रि पंच रात्रात् ऊर्ध्वम् यः प्राप्नुयात् इह वानरः ।तस्य प्राण अन्तिको दण्डो न अत्र कार्या विचारणा ॥४-२९-३२॥ हरीन् च वृद्धान् उपयातु स अंगदोभवान् मम आज्ञाम् अधिकृत्य निश्चितम् ।इति व्यवस्थाम् हरि पुंगव ईश्वरोविधाय वेश्म प्रविवेश वीर्यवान् ॥४-२९-३३॥ गुहाम् प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।वर्ष रात्रे स्थितो रामः काम शोक अभिपीडितः ॥४-३०-१॥ पाण्डुरम् गगनम् दृष्ट्वा विमलम् चन्द्र मण्डलम् ।शारदीम् रजनीम् चैव दृष्ट्वा ज्योत्स्न अनुलेपनाम् ॥४-३०-२॥ काम वृत्तम् च सुग्रीवम् नष्टाम् च जनक आत्मजाम् ।दृष्ट्वा कालम् अतीतम् च मुमोह परम आतुरः ॥४-३०-३॥ स तु संज्ञाम् उपागम्य मुहूर्तात् मतिमान् नृपः ।मनः स्थाम् अपि वैदेहीम् चिंतयामास राघवः ॥४-३०-४॥ दृष्ट्वा च विमलम् व्योम गत विद्युत् बलाहकम् ।सारस आरव संघुष्टम् विललाप आर्तया गिरा ॥४-३०-५॥ आसीनः पर्वतस्य अग्रे हेम धातु विभूषिते ।शारदम् गगनम् दृष्ट्वा जगाम मनसा प्रियाम् ॥४-३०-६॥ सारस आरव संनादैः सारस आरव नादिनी ।या आश्रमे रमते बाला सा अद्य मे रमते कथम् ॥४-३०-७॥ पुष्पिताम् च आसनान् दृष्ट्वा कांचनान् इव निर्मलान् ।कथम् सा रमते बाला पश्यंती माम् अपश्यती ॥४-३०-८॥ या पुरा कलहंसानाम् स्वरेण कल भाषिणी ।बुध्यते चारु सर्वांगी सा अद्य मे रमते कथम् ॥४-३०-९॥ निःस्वनम् चक्रवाकानाम् निशम्य सहचारिणाम् ।पुण्डरीकविशालाक्षी कथम् एषा भविष्यति ॥४-३०-१०॥ सरांसि सरितो वापीः काननानि वनानि च ।ताम् विना मृगशावाक्षीम् चरन् न अद्य सुखम् लभे ॥४-३०-११॥ अपि ताम् मत् वियोगात् च सौकुमार्यात् च भामिनीम् ।सुदूरम् पीडयेत् कामः शरत् गुण निरंतरः ॥४-३०-१२॥ एवम् आदि नरश्रेष्ठो विललाप नृपात्मजः ।विहंग इव सारंगः सलिलम् त्रिदशेश्वरात् ॥४-३०-१३॥ ततः चंचूर्य रम्येषु फलार्थी गिरि सानुषु ।ददर्श पर्युपावृत्तो लक्ष्मीवान् लक्ष्मणो अग्रजम् ॥४-३०-१४॥ स चिन्तया दुस्सहया परीतम्विसंज्ञम् एकम् विजने मनस्वी ।भ्रातुर् विषादात् त्वरितो अति दीनःसमीक्ष्य सौमित्रिः उवाच रामम् ॥४-३०-१५॥ किम् आर्य कामस्य वशम् गतेनकिम् आत्म पौरुष्य पराभवेन ।अयम् ह्रिया संह्रियते समाधिःकिम् अत्र योगेन निवर्तितेन ॥४-३०-१६॥ क्रियाभियोगम् मनसः प्रसादम्समाधि योग अनुगतम् च कालम् ।न जानकी मानव वंश नाथत्वया सनाथा सुलभा परेण ।न च अग्नि चूडाम् ज्वलिताम् उपेत्यन दह्यते वीर वरार्ह कश्चित् ॥४-३०-१७॥ सलक्षणम् लक्ष्मणम् अप्रधृष्यम्स्वभावजम् वाक्यम् उवाच रामः ।हितम् च पथ्यम् च नय प्रसक्तम्ससाम धर्मार्थ समाहितम् च ॥४-३०-१८॥ निस्संशयम् कार्यम् अवेक्षितव्यम्क्रिया विशेषो अपि अनुवर्तितव्यः ।न तु प्रवृद्धस्य दुरासदस्यकुमार वीर्यस्य फलम् च चिन्त्यम् ॥४-३०-१९॥ अथ पद्म पलाश अक्षीम् मैथिलीम् अनुचिन्तयन् ।उवाच लक्ष्मणम् रामो मुखेन परिशुष्यता ॥४-३०-२०॥ तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् ।निर्वर्तयित्वा सस्यानि कृत कर्मा व्यवस्थितः ॥४-३०-२१॥ दीर्घ गंभीर निर्घोषाः शैल द्रुम पुरोगमाः ।विसृज्य सलिलम् मेघाः परिश्रांता नृप आत्मज ॥४-३०-२२॥ नील उत्पल दल श्यामः श्यामी कृत्वा दिशो दश ।विमदा इव मातंगाः शान्त वेगाः पयो धराः ॥४-३०-२३॥ जल गर्भा महा वेगाः कुटज अर्जुन गंधिनः ।चरित्वा विरताः सौम्य वृष्टि वाताः समुद्यताः ॥४-३०-२४॥ घनानाम् वारणानाम् च मयूराणाम् च लक्ष्मण ।नादः प्रस्रवणानाम् च प्रशान्तः सहसा अनघ ॥४-३०-२५॥ अभिवृष्टा महा मेघैः निर्मलाः चित्र सानवः ।अनुलिप्ता इव आभान्ति गिरयः चन्द्र रश्मिभिः ॥४-३०-२६॥ शाखासु सप्त च्छद पादपानाम्प्रभासु तार अर्क निशा कराणाम् ।लीलासु चैव उत्तम वारणानाम्श्रियम् विभज्य अद्य शरत् प्रवृत्ता ॥४-३०-२७॥ संप्रति अनेक आश्रय चित्र शोभालक्ष्मीः शरत् काल गुण उपपन्ना ।सूर्य अग्र हस्त प्रतिबोधितेषुपद्माकरेषु अभ्यधिकम् विभाति ॥४-३०-२८॥ सप्त च्छदानाम् कुसुमोप गंधीषट् पाद वृन्दैः अनुगीयमानः ।मत्त द्विपानाम् पवन अनुसारीदर्पम् विनेष्यन् अधिकम् विभाति ॥४-३०-२९॥ अभ्यागतैः चारु विशाल पक्षैःसरः प्रियैः पद्म रजो अवकीर्णैः ।महा नदीनाम् पुलिन उपयातैःक्रीडन्ति हंसाः सह चक्रवाकैः ॥४-३०-३०॥ मद प्रगल्भेषु च वारिणेषुगवाम् समूहेषु च दर्पितेषु ।प्रसन्न तोयासु च निम्न गासुविभाति लक्ष्मीः बहुधा विभक्ता ॥४-३०-३१॥ नभः समीक्ष्या अंबु धरैः विमुक्तम्विमुक्त बर्ह आभरणा वनेषु ।प्रियासु अरक्ता विनिवृत्त शोभागत उत्सवा ध्यान परा मयूराः ॥४-३०-३२॥ मनोज्ञ गन्धैः प्रियकैः अनल्पैःपुष्प अति भार अवनत अग्र शाखैः ।सुवर्ण गौरैः नयन अभिरामैःउद्योतितान् इव वन अन्तराणि ॥४-३०-३३॥ प्रिय अन्वितानाम् नलिनी प्रियाणाम्वन प्रियाणाम् कुसुम उद्धतानाम् ।मद उत्कटानाम् मद लालसानाम्गज उत्तमानम् गतयो अद्य मन्दाः ॥४-३०-३४॥ व्यक्तम् नभः शस्त्र विधौत वर्णम्कृश प्रवाहानि नदी जलानि ।कह्लार शिताः पवनाः प्रवान्तितमो विमुक्ताः च दिशः प्रकाशाः ॥४-३०-३५॥ सूर्य आतप क्रामण नष्ट पंकाभूमिः चिर उद्घाटित सांद्र रेणुः ।अन्योन्य वैरेण समायुतानाम्उद्योग कालो अद्य नर अधिपानाम् ॥४-३०-३६॥ शरत् गुण आप्यायित रूप शोभाःप्रहर्षित पांशु समुक्षित अंगाः ।मद उत्कटाः संप्रति युद्ध लुब्धावृषा गवाम् मध्य गता नदन्ति ॥४-३०-३७॥ स मन्मध तीव्रतर अनुरागाकुलान्विता मन्द गतिः करेणुः ।मदान्वितम् संपरिवार्य यान्तम्वनेषु भर्तारम् अनुप्रयाति ॥४-३०-३८॥ त्यक्त्वा वराणि आत्म विभूषणानिबर्हाणि तीर उपगता नदीनाम् ।निर्भर्त्स्यमाना इव सार ओघैःप्रयान्ति दीना विमना मयूराः ॥४-३०-३९॥ वित्रास्य कारण्डव चक्रवाकान् ।महा रवैः भिन्न कटा गजेन्द्राः ।सरस्सु बद्ध अंबुज भूषणेषुविक्षोभ्य विक्षोभ्य जलम् पिबन्ति ॥४-३०-४०॥ व्यपेत पंकजासु स वालुकासुप्रसन्न तोयासु स गो कुलासु ।स सारसा राव विनादितासुनदिषु हंसा निपतन्ति हृष्टाः ॥४-३०-४१॥ नदी घन प्रस्रवण उदकानाम्अति प्रवृद्ध अनिल बर्हिणानाम् ।प्लवंगमानाम् च गत उत्सवानाम्ध्रुवम् रवाः संप्रति संप्रणष्टाः ॥४-३०-४२॥ अनेक वर्णाः सुविनष्ट कायाःनव उदितेषु अंबुधरेषु नष्टाः ।क्षुध अर्दिता घोर विषा बिलेभ्यःचिर उषिता विप्रसरन्ति सर्पाः ॥४-३०-४३॥ चंचत् चन्द्र कर स्पर्श हर्ष उन्मीलित तारका ।अहो रागवती संध्या जहाति स्वयम् अंबरम् ॥४-३०-४४॥ रात्रिः शशांक उदित सौम्य वक्त्रातारा गण उन्मीलित चारु नेत्रा ।ज्योत्स्ना अंशुक प्रावरणा विभातिनारी इव शुक्ल अंशुक संवृत अंगी ॥४-३०-४५॥ विपक्व शालि प्रसवानि भुक्त्वाप्रहर्षिता सारस चारु पंक्ति ।नभः समाक्रामति शीघ्र वेगावात अवधूता ग्रथित इव माला ॥४-३०-४६॥ सुप्त एक हंसम् कुमुदैः उपेतम्महा ह्रदस्थम् सलिलम् विभाति ।घनैः विमुक्तम् निशि पूर्ण चन्द्रम्तारा गण कीर्णम् इव अंतरिक्षम् ॥४-३०-४७॥ प्रकीर्ण हंसा अकुल मेखलानाम्प्रबुद्ध पद्म उत्पल मालिनीनाम् ।वापीः उत्तमानाम् अधिक अद्य लक्ष्मीःवर अंगनाम् इव भूषितानाम् ॥४-३०-४८॥ वेणु स्वर व्यंजित तूर्य मिश्रःप्रत्यूष काले अनिल संप्रवृत्तः ।संमूर्च्छितो गह्वर गो वृषाणाम्अन्योन्यम् आपूरयति इव शब्दः ॥४-३०-४९॥ नवैः नदीनाम् कुसुम प्रहासैःव्या धूयमानैः मृदु मारुतेन ।धौत अमल क्षौम पट प्रकाशैःकूलानि काशैः उपशोभितानि ॥४-३०-५०॥ वन प्रचण्डा मधु पान शौण्डाःप्रिय अन्विताः षट् चरणाः प्रहृष्टाः ।वनेसु मत्ताः पवन अनु यात्राम्कुर्वन्ति पद्म आसन रेणु गौराः ॥४-३०-५१॥ जलम् प्रसन्नम् कुसुम प्रहासम्क्रौन्च स्वनम् शालि वनम् विपक्वम् ।मृदुः च वायुः विमलः च चन्द्रःशंसन्ति वर्ष व्यपनीत कालम् ॥४-३०-५२॥ मीन उप संदर्शित मेखलानाम्नदी वधूनाम् गतयो अद्य मंदाः ।कान्त उपभुक्त अलस गामिनीनाम्प्रभात कालेषु इव कामिनीनाम् ॥४-३०-५३॥ स चक्रवाकानि स शैवलानिकाशैः दुकूलैः इव संवृतानि ।स पत्र रेखाणि स रोचनानिवधू मुखानि इव नदी मुखानि ॥४-३०-५४॥ प्रफुल्ल बाण आसन चित्रितेषुप्रहृष्ट षट्पदानि कूजितेषु ।गृहीत चापः उद्यत दण्ड चण्डःप्रचण्ड चारो अद्य वनेषु कामः ॥४-३०-५५॥ लोकम् सुवृष्ट्या परितोषयित्वनदीः तटाकानि च पूरयित्वा ।निष्पन्न सस्याम् वसुधाम् च कृत्वात्यक्त्वा नभः तोय धराः प्रणष्टाः ॥४-३०-५६॥ दर्शयन्ति शरन् नद्यः पुलिनानि शनैः शनैः ।नव संगम सव्रीडा जघनानि इव योषितः ॥४-३०-५७॥ प्रसन्न सलिलाः सौम्य कुरराभिः विनादिताः ।चक्रवाक गण आकीर्णा विभांति सलिल आशयाः ॥४-३०-५८॥ अन्योन्य बद्ध वैराणाम् जिगीषूणाम् नृपात्मज ।उद्योग समयः सौम्य पार्थिवानाम् उपस्थितः ॥४-३०-५९॥ इयम् सा प्रथमा यात्रा पार्थिवानाम् नृपात्मज ।न च पश्यामि सुग्रीवम् उद्योगम् वा तथा विधम् ॥४-३०-६०॥ असनाः सप्त पर्णाः च कोविदाराः च पुष्पिताः ।दृश्यन्ते बन्धुजीवाः च श्यामाः च गिरि सानुषु ॥४-३०-६१॥ हंस सारस चक्राह्वैः कुररैः च समंततः ।पुलिनानि अवकीर्णानि नदीनाम् पश्य लक्ष्मण ॥४-३०-६२॥ चत्वारो वार्षिका मासा गता वर्ष शत उपमाः ।मम शोक अभितप्तस्य तथा सीताम् अपश्यतः ॥४-३०-६३॥ चक्रवाकी इव भर्तारम् पृष्टतो अनुगता वनम् ।विषमम् दण्डकारण्यम् उद्यान वनम् इव च अंगना ॥४-३०-६४॥ प्रिया विहीने दुःख आर्ते हृत राज्ये विवासिते ।कृपाम् न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥४-३०-६५॥ अनाथो हृत राज्यो अयम् रावणेन च धर्षितः।दीनो दूर गृहः कामी माम् चैव शरणम् गतः ॥४-३०-६६॥ इति एतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ।अहम् वानर राजस्य परिभूतः परंतप ॥४-३०-६७॥ स कालम् परिसंख्याय सीतायाः परिमार्गणे ।कृतार्थः समयम् कृत्वा दुर्मतिः न अवबुध्यते ॥४-३०-६८॥ स किष्किंधाम् प्रविश्य त्वम् ब्रूहि वानर पुंगवम् ।मूर्खम् ग्राम्य सुखे सक्तम् सुग्रीवम् वचनात् मम ॥४-३०-६९॥ अर्थिनाम् उपपन्नानाम् पूर्वम् च अपि उपकारिणाम् ।आशाम् सम्श्रुत्य यो हन्ति स लोके पुरुषाधमः ॥४-३०-७०॥ शुभम् वा यदि वा पापम् यो हि वाक्यम् उदीरितम् ।सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ॥४-३०-७१॥ कृतार्था हि अकृतार्थानाम् मित्राणाम् न भवन्ति ये ।तान् मृतान् अपि क्रव्यादाः कृतघ्नान् न उपभुंजते ॥४-३०-७२॥ नूनम् कांचन पृष्ठस्य विकृष्टस्य मया रणे ।द्रष्टुम् इच्छसि चापस्य रूपम् विद्युत् गण उपमम् ॥४-३०-७३॥ घोरम् ज्या तल निर्घोषम् क्रुद्धस्य मम संयुगे ।निर्घोषम् इव वज्रस्य पुनः संश्रोतुम् इच्छसि ॥४-३०-७४॥ कामम् एवम् गते अपि अस्य परिज्ञाते पराक्रमे ।त्वत् सहायस्य मे वीर न चिन्ता स्यात् नृपात्मज ॥४-३०-७५॥ यद् अर्थम् अयम् आरंभः कृतः पर पुरम् जय ।समयम् न अभिजानाति कृतार्थः प्लवगेश्वरः ॥४-३०-७६॥ वर्षा समय कालम् तु प्रतिज्ञाय हरीश्वरः ।व्यतीतान् चतुरो मासान् विहरन् न अवबुध्यते ॥४-३०-७७॥ स अमात्य परिषत् क्रीडन् पानम् एव उपसेवते ।शोक दीनेषु न अस्मासु सुग्रीवः कुरुते दयाम् ॥४-३०-७८॥ उच्यताम् गच्छ सुग्रीवः त्वया वीरः महाबल ।मम रोषस्य यत् रूपम् ब्रूयाः च एनम् इदम् वचः ॥४-३०-७९॥ न स संकुचितः पंथा येन वाली हतो गतः ।समये तिष्ठ सुग्रीव मा वालि पथम् अन्वगाः ॥४-३०-८०॥ एक एव रणे वाली शरेण निहतो मया ।त्वाम् तु सत्यात् अतिक्रांतम् हनिष्यामि स बान्धवम् ॥४-३०-८१॥ तत् एवम् विहिते कार्ये यत् हितम् पुरुषर्षभ ।तत् तत् ब्रूहि नरश्रेष्ठ त्वर काल व्यतिक्रमः ॥४-३०-८२॥ कुरुष्व सत्यम् मम वानरेश्वरप्रतिश्रुतम् धर्मम् अवेक्ष्य शाश्वतम् ।मा वालिनम् प्रेत गतो यम क्षयम्त्वम् अद्य पश्येः मम चोदितः शरैः ॥४-३०-८३॥ स पूर्वजम् तीव्र विवृद्ध कोपम्लालप्यमानम् प्रसमीक्ष्य दीनम् ।चकार तीव्राम् मतिम् उग्र तेजाहरीश्वरे मानव वंश वर्थनः ॥४-३०-८४॥ स कामिनम् दीनम् अदीन सत्त्वःशोक अभिपन्नम् समुदीर्ण कोपम् ।नरेन्द्र सूनुर् नरदेव पुत्रम्रामानुजः पूर्वजम् इति उवाच ॥४-३१-१॥ न वानरः स्थास्यति साधु वृत्तेन मन्यते कर्म फल अनुषंगान् ।न भोक्ष्यते वानर राज्य लक्ष्मीम्तथा हि न अभिक्रमते अस्य बुद्धिः ॥४-३१-२॥ मति क्षयात् ग्राम्य सुखेषु सक्तःतव प्रसाद अप्रतिकार बुद्धिः ।हतो अग्रजम् पश्यतु वालिनम्न राज्यम् एवम् विगुणस्य देयम् ॥४-३१-३॥ न धारये कोपम् उदीर्ण वेगम्निहन्मि सुग्रीवम् असत्यम् अद्य ।हरि प्रवीरैः सह वालि पुत्रोनरेन्द्र पुत्र्या विचयम् करोतु ॥४-३१-४॥ तम् आत्त बाण आसनम् उत्पतंतम्निवेदित अर्थम् रण चण्ड कोपम् ।उवच रामः पर वीर हन्तास्व वेक्षितम् स अनुनयम् च वाक्यम् ॥४-३१-५॥ न हि वै त्वत् विधो लोके पापम् एवम् समाचरेत् ।कोपम् आर्येण यो हन्ति स वीरः पुरुषोत्तमः ॥४-३१-६॥ न इदम् अत्र त्वया ग्राह्यम् साधु वृत्तेन लक्ष्मण ।ताम् प्रीतिम् अनुवर्तस्व पूर्व वृत्तम् च संगतम् ॥४-३१-७॥ साम उपहितया वाचा रूक्षाणि परिवर्जयन् ।वक्तुम् अर्हसि सुग्रीवम् व्यतीतम् काल पर्यये ॥४-३१-८॥ सो अग्रजेन अनुशिष्ट अर्थो यथावत् पुरुषर्षभः ।प्रविवेश पुरीम् वीरो लक्ष्मणः पर वीर हा ॥४-३१-९॥ ततः शुभ मतिः प्राज्ञो भ्रातुः प्रियहितेरतः ।लक्ष्मणः प्रतिसंरब्धो जगाम भवनम् कपेः ॥४-३१-१०॥ शक्र बाणासन प्रख्यम् धनुः कालांतक उपमः ।प्रगृह्य गिरि शृंगाभम् मन्दरः सानुमान् इव ॥४-३१-११॥ यथा उक्त कारी वचनम् उत्तरम् चैव स उत्तरम् ।बृहस्पति समो बुद्ध्या मत्त्वा रामानुजः तदा ॥४-३१-१२॥ काम क्रोध समुत्थेन भ्रातुः कोपाग्निना वृतः ।प्रभंजन इव अप्रीतः प्रययौ लक्ष्मणः तदा ॥४-३१-१३॥ साल ताल अश्व कर्णाम् च तरसा पातयन् बलात् ।पर्यस्यन् गिरि कूटानि द्रुमान् अन्याम् च वेगितः ॥४-३१-१४॥ शिलाः च शकली कुर्वन् पद्भ्याम् गज इव आशु गः ।दूरम् एक पदम् त्यक्त्वा ययौ कार्यवशात् द्रुतम् ॥४-३१-१५॥ ताम् अपश्यत् बल आकीर्णाम् हरिराज महापुरीम् ।दुर्गाम् इक्ष्वाकु शार्दूलः किष्किंधाम् गिरि संकटे ॥४-३१-१६॥ रोषात् प्रस्फुरमाण ओष्ठः सुग्रीवम् प्रति लक्ष्मणः ।ददर्श वानरान् भीमान् किष्किंधाया बहिः चरान् ॥४-३१-१७॥ तम् दृष्ट्वा वानराः सर्वे लक्ष्मणम् पुरुषर्षभम्शैल शृंगाणि शतशः प्रवृद्धाम् च महीरुहान् ।जगृहुः कुंजर प्रख्या वानराः पर्वत अंतरे ॥४-३१-१८॥ तान् गृहीत प्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः ।बभूव द्विगुणम् क्रुद्धो बहु इंधन इव अनलः ॥४-३१-१९॥ तम् ते भयपरीत अंगाः ख्सुब्धम् दृष्ट्वा प्लवंगमाः ।काल मृत्यु युगांताअभम् शतशो विद्रुता दिशः ॥४-३१-२०॥ ततः सुग्रीव भवनम् प्रविश्य हरिपुंगवाः ।क्रोधम् आगमनम् चैव लक्ष्मणस्य न्यवेदयन् ॥४-३१-२१॥ तारया सहितः कामी सक्तः कपिवृषः तदा ।न तेषाम् कपि वीराणाम् शुश्राव वचनम् तदा ॥४-३१-२२॥ ततः सचिव संदिष्टा हरयो रोमहर्षणाः ।गिरि कुंजर मेघ आभा नगर्या निर्ययुः तदा ॥४-३१-२३॥ नख दंष्ट्र आयुधा सर्वे वीराः विकृत दर्शनाः ।सर्वे शार्दूल दर्पाः च सर्वे च विकृत आननाः ॥४-३१-२४॥ दश नाग बलाः केचित् केचित् दश गुणोत्तराः ।केचित् नाग सहस्रस्य बभूवुः तुल्य वर्चसः ॥४-३१-२५॥ ततः तैः कपिभिर् व्याप्ताम् द्रुम हस्तैर् महाबलैः ।अपश्यत् लक्ष्मणः क्रुद्धः किष्किंधाम् ताम् दुरासदम् ॥४-३१-२६॥ ततः ते हरयः सर्वे प्राकार परिख अंतरात् ।निष्क्रम्य उदग्र सत्त्वाः तु तस्थुर् आविष्कृतम् तदा ॥४-३१-२७॥ सुग्रीवस्य प्रमादम् च पूर्वजस्य अर्थम् आत्मवान् ।दृष्ट्वा कोप वशम् वीरः पुनर् एव जगाम सः ॥४-३१-२८॥ स दीर्घ उष्ण महा उच्छ्वासः कोप संरक्त लोचनः ।बभूव नर शार्दूल स धूम इव पावकः ॥४-३१-२९॥ बाण शल्य स्फुरत् जिह्वः सायक आसन भोगवान् ।स्व तेजो विष संघातः पंच आस्य इव पन्नगः ॥४-३१-३०॥ तम् दीप्तम् इव कालाग्निम् नागेन्द्रम् इव कोपितम् ।समासाद्य अंगदः त्रासात् विषादम् अगमत् परम् ॥४-३१-३१॥ सो अंगदम् रोष ताम्राक्षः संदिदेश महायशाः ।सुग्रीवः कथ्यताम् वत्स मम आगमनम् इति उत ॥४-३१-३२॥ एष रामानुजः प्राप्तः त्वत् सकाशम् अरिन्दमः ।भ्रातुर् व्यसन संतप्तो द्वारि तिष्ठति लक्ष्मणः ॥४-३१-३३॥ तस्य वाक्यम् यदि रुचिः क्रियताम् साधु वानरः ।इति उक्त्वा शीघ्रम् आगच्छ वत्स वाक्यम् अरिन्दम ॥४-३१-३४॥ लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टो अंगदो अब्रवीत् ।पितुः समीपम् आगम्य सौमित्रिः अयम् आगतः ॥४-३१-३५॥ अथ अंगदः तस्य सुतीव्र वाचासंभ्रांत भावः परिदीन वक्त्रः ।निर्गत्य पूर्वम् नृपतेः तरस्वीततो रुमायाः चरणौ ववन्दे ॥४-३१-३६॥ संगृह्य पादौ पितुः उग्रतेजाजग्राह मातुः पुनर् एव पादौ ।पादौ रुमायाः च निपीडयित्वानिवेदयामास ततः तत् अर्थम् ॥४-३१-३७॥ स निद्रा मद संवीतो वानरो न विबुद्धवान् ।बभूव मद मत्तः च मदनेन च मोहितः ॥४-३१-३८॥ ततः किल किलाम् चक्रुः लक्ष्मणम् प्रेक्ष्य वानराः ।प्रसादयन्तः तम् क्रुद्धम् भय मोहित चेतसः ॥४-३१-३९॥ ते महा ओघ निभम् दृष्ट्वा वज्र अशनि सम स्वनम् ।सिंह नादम् समम् चक्रुर् लक्ष्मणस्य समीपतः ॥४-३१-४०॥ तेन शब्देन महता प्रत्यबुध्यत वानरः ।मद विह्वल ताम्राक्षो व्याकुल स्रग्वि भूषणः ॥४-३१-४१॥ अथ अंगद वचः श्रुत्वा तेन एव च समागतौ ।मंत्रिणो वानरेन्द्रस्य सम्मत उदार दर्शिनौ ॥४-३१-४२॥ प्लक्षः च एव प्रभावः च मंत्रिणौ अर्थ धर्मयोः ।वक्तुम् उच्चावचम् प्राप्तम् लक्ष्मणम् तौ शशंसतुः ॥४-३१-४३॥ प्रसादयित्वा सुग्रीवम् वचनैः स अर्थ निश्चितैः ।आसीनम् पर्युपासीनौ यथा शक्रम् मरुत्पतिम् ॥४-३१-४४॥ सत्य संधौ महाभागौ भ्रातरौ राम लक्ष्मणौ ।वयस्य भावम् संप्राप्तौ राज्य अर्हौ राज्य दायिनौ ॥४-३१-४५॥ तयोः एको धनुष्पाणिर् द्वारि तिष्ठति लक्ष्मणः ।यस्य भीताः प्रवेपन्ते नादान् मुंचन्ति वानराः ॥४-३१-४६॥ स एष राघव भ्राता लक्ष्मणो वाक्य सारथिः ।व्यवसाय रथः प्राप्तः तस्य रामस्य शासनात् ॥४-३१-४७॥ अयम् च तनयो राजन् ताराया दयितो अंगदः ।लक्ष्मणेन सकाशम् ते प्रेषितः त्वरया अनघ ॥४-३१-४८॥ सः अयम् रोष परीताक्षो द्वारि तिष्ठति वीर्यवान् ।वानरान् वानरपते चक्षुसा निर्दहन इव ॥४-३१-४९॥ तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्र सह बान्धवः ।गच्छ शीघ्रम् महाराज रोषो हि अद्य उपशम्यताम् ॥४-३१-५०॥ यथा आह रामो धर्मात्मा तत् कुरुष्व समाहितः ।राजन् तिष्ठ स्व समये भव सत्य प्रतिश्रवः ॥४-३१-५१॥ अंगदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह ।लक्ष्मणम् कुपितम् श्रुत्वा मुमोच आसनम् आत्मवान् ॥४-३२-१॥ स च तान् अब्रवीत् वाक्यम् निश्चित्य गुरु लाघवम् ।मंत्रज्ञान् मंत्र कुशलो मंत्रेषु परिनिष्ठितः ॥४-३२-२॥ न मे दुर् व्याहृतम् किंचित् न अपि मे दुर् अनुष्ठितम् ।लक्ष्मणो राघव भ्राता क्रुद्धः किम् इति चिंतये ॥४-३२-३॥ असुहृद्भिः मम अमित्रैः नित्यम् अन्तर दर्शिभिः ।मम दोषान् असंभूतान् श्रावितो राघवानुजः ॥४-३२-४॥ अत्र तावत् यथा बुद्धि सर्वैः एव यथा विधि ।भावस्य निश्चयः तावत् विज्ञेयो निपुणम् शनैः ॥४-३२-५॥ न खलु अस्ति मम त्रासो लक्ष्मणान् न अपि राघवात् ।मित्रम् तु अस्थान कुपितम् जनयति एव संभ्रमम् ॥४-३२-६॥ सर्वथा सुकरम् मित्रम् दुष्करम् प्रतिपालनम् ।अनित्यत्वात् तु चित्तानाम् प्रीतिः अल्पे अपि भिद्यते ॥४-३२-७॥ अतो निमित्तम् त्रस्तो अहम् रामेण तु महात्मना ।यन् मम उपकृतम् शक्यम् प्रतिकर्तुम् न तन् मया ॥४-३२-८॥ सुग्रीवेण एवम् उक्ते तु हनुमान् हरि पुंगवः ।उवाच स्वेन तर्केण मध्ये वानर मंत्रिणाम् ॥४-३२-९॥ सर्वथा न एतद् आश्चर्यम् यत् त्वम् हरिगणेश्वर ।न विस्मरसि सुस्निग्धम् उपकारम् कृतम् शुभम् ॥४-३२-१०॥ राघवेण तु वीरेण भयम् उत्सृज्य दूरतः ।त्वत् प्रिय अर्थम् हतो वाली शक्र तुल्य पराक्रमः ॥४-३२-११॥ सर्वथा प्रणयात् क्रुद्धो राघवो न अत्र संशयः ।भ्रातरम् संप्रहितवान् लक्ष्मणम् लक्ष्मि वर्धनम् ॥४-३२-१२॥ त्वम् प्रमत्तो न जानीषे कालम् कलविदाम् वर ।फुल्ल सप्त च्छद श्यामा प्रवृत्ता तु शरत् शिवा ॥४-३२-१३॥ निर्मल ग्रह नक्षत्रा द्यौः प्रनष्ट बलाहका ।प्रसन्नाः च दिशः सर्वाः सरितः च सरांसि च ॥४-३२-१४॥ प्राप्तम् उद्योग कालम् तु न अवैषि हरिपुंगव ।त्वम् प्रमत्त इति व्यक्तम् लक्ष्मणो अयम् इह आगतः ॥४-३२-१५॥ आर्तस्य हृत दारस्य परुषम् पुरुष अन्तरात् ।वचनम् मर्षणीयम् ते राघवस्य महात्मनः ॥४-३२-१६॥ कृत अपराधस्य हि ते न अन्यत् पश्यामि अहम् क्षमम् ।अंतरेण अंजलिम् बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥४-३२-१७॥ नियुक्तैः मंत्रिभिः वाच्यो अवश्यम् पार्थिवो हितम् ।इत एव भयम् त्यक्त्वा ब्रवीमि अवधृतम् वचः ॥४-३२-१८॥ अभिक्रुद्धः समर्थो हि चापम् उद्यम्य राघवः ।स देव असुर गंधर्वम् वशे स्थापयितुम् जगत् ॥४-३२-१९॥ न स क्षमः कोपयितुम् यः प्रसाद्य पुनर् भवेत् ।पूर्व उपकारम् स्मरता कृतज्ञेन विशेषतः ॥४-३२-२०॥ तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्रः स सुहृत् जनः ।राजन् तिष्ठ स्व समये भर्तुः भार्या इव तत् वशे ॥४-३२-२१॥ न राम रामानुज शासनम् त्वयाकपीन्द्र युक्तम् मनसा अपि अपोहितुम् ।मनो हि ते ज्ञास्यति मानुषम् बलम्स राघवस्य अस्य सुरेन्द्र वर्चसः ॥४-३२-२२॥ अथ प्रतिसंआदिष्टो लक्ष्मणः परवीरहा ।प्रविवेश गुहाम् रम्याम् किष्किंधाम् राम शासनात् ॥४-३३-१॥ द्वारस्था हरयः तत्र महाकाया महाबलाः ।बभूवुः लक्ष्मणम् दृष्ट्वा सर्वे प्रांजलयः स्थिताः ॥४-३३-२॥ निःश्वसन्तम् तु तम् दृष्ट्वा क्रुद्धम् दशरथ आत्मजम् ।बभूवुः हरयः त्रस्ता न च एनम् पर्यवारयन् ॥४-३३-३॥ स तम् रत्नमयीम् दिव्याम् श्रीमान् पुष्पित काननाम् ।रम्याम् रत्न समाकीर्णाम् ददर्श महतीम् गुहाम् ॥४-३३-४॥ हर्म्य प्रासाद संबाधाम् नाना रत्नोपशोभिताम् ।सर्व काम फलैः वृक्षैः पुष्पितैः उपशोभिताम् ॥४-३३-५॥ देव गंधर्व पुत्रैः च वानरैः काम रूपिभिः ।दिव्य माल्य अम्बर धारैः शोभिताम् प्रिय दर्शनैः ॥४-३३-६॥ चन्दन अगरु पद्मानाम् गन्धैः सुरभि गन्धिताम् ।मैरेयाणाम् मधूनाम् च सम्मोदित महा पथाम् ॥४-३३-७॥ विंध्य मेरु गिरि प्रख्यैः प्रासादैः न एक भूमिभिः ।ददर्श गिरि नद्यः च विमलाः तत्र राघवः ॥४-३३-८॥ अंगदस्य गृहम् रम्यम् मैन्दस्य द्विविदस्य च ।गवयस्य गवाक्षस्य गजस्य शरभस्य च ॥४-३३-९॥ विद्युन्मालेः च संपातेः सूर्याक्षस्य हनूमतः ।वीरबाहोः सुबाहोः च नलस्य च महात्मनः ॥४-३३-१०॥ कुमुदस्य सुषेणस्य तार जाम्बवतोः तथा ।दधिवक्त्रस्य नीलस्य सुपाटल सुनेत्रयोः ॥४-३३-११॥ एतेषाम् कपि मुख्यानाम् राज मार्गे महात्मनाम् ।ददर्श गृह मुख्यानि महासाराणि लक्ष्मणः ॥४-३३-१२॥ पाण्डुर अभ्र प्रकाशानि गन्ध माल्य युतानि च ।प्रभूत धन धान्यानि स्त्री रत्नैः शोभितानि च ॥४-३३-१३॥ पाण्डुरेण तु शैलेन परिक्षिप्तम् दुरासदम् ।वानरेन्द्र गृहम् रम्यम् महेन्द्र सदन उपमम् ॥४-३३-१४॥ शुल्कैः प्रासाद शिखरैः कैलास शिखर उपमैः ।सर्व काम फलैः वृक्षैः पुष्पितैः उपशोभितम् ॥४-३३-१५॥ महेन्द्र दत्तैः श्रीमद्भिः नील जीमूत संनिभैः ।दिव्य पुष्प फलैः वृक्षैः शीत च्छायैः मनोरमैः ॥४-३३-१६॥ हरिभिः संवृत द्वारम् बलिभिः शस्त्र पाणिभिः ।दिव्य माल्य आवृतम् शुभ्रम् तप्त कांचन तोरणम् ॥४-३३-१७॥ सुग्रीवस्य गृहम् रम्यम् प्रविवेश महाबलः ।अवार्यमाणः सौमित्रिः महाअभ्रम् इव भास्करः ॥४-३३-१८॥ स सप्त कक्ष्या धर्मात्मा यान आसन समावृताः ।प्रविश्य सुमहत् गुप्तम् ददर्श अंतःपुरम् महत् ॥४-३३-१९॥ हैम राजत पर्यन्कैः बहुभिः च वर आसनैः ।महा अर्ह आस्तरण उपेतैः तत्र तत्र समावृतम् ॥४-३३-२०॥ प्रविशन् एव सततम् शुश्राव मधुर स्वनम् ।तंत्री गीत समाकीर्णम् सम ताल पदाक्षरम् ॥४-३३-२१॥ बह्वीः च विविध आकारा रूप यौवन गर्विताः ।स्त्रियः सुग्रीव भवने ददर्श स महाबलः ॥४-३३-२२॥ दृष्ट्वा अभिजन संपन्नाः तत्र माल्य कृत स्रजः ।वर माल्य कृत व्यग्रा भूषण उत्तम भूषिताः ॥४-३३-२३॥ न अतृप्तान् न अति च व्यग्रान् न अनुदात्त परिच्छदान् ।सुग्रीव अनुचरान् च अपि लक्षयामास लक्ष्मणः ॥४-३३-२४॥ कूजितम् नूपुराणाम् च कंचनीम् निःस्वनम् तथा ।स निशम्य ततः श्रीमान् सौमित्रिः लज्जितो अभवत् ॥४-३३-२५॥ रोष वेग प्रकुपितः श्रुत्वा च आभरण स्वनम् ।चकार ज्या स्वनम् वीरो दिशः शब्देन पूरयन् ॥४-३३-२६॥ चारित्रेण महाबाहुः अपकृष्टः स लक्ष्मनः ।तस्थौ एकांतम् आश्रित्य राम शोक समन्वितः ॥४-३३-२७॥ तेन चाप स्वनेन अथ सुग्रीवः प्लवगाधिपः ।विज्ञाय आगमनम् त्रस्तः स चचाल वर आसनात् ॥४-३३-२८॥ अंगदेन यथा मह्यम् पुरस्तात् प्रतिवेदितम् ।सुव्यक्तम् एष संप्रप्तः सौमित्रिः भ्रातृ वत्सलः ॥४-३३-२९॥ अंगदेन समाख्यतो ज्या स्वनेन च वानरः ।बुबुधे लक्ष्मणम् प्राप्तम् मुखम् च अस्य व्यशुष्यत ॥४-३३-३०॥ ततः ताराम् हरि श्रेष्ठः सुग्रीवः प्रिय दर्शनाम् ।उवाच हितम् अव्यग्र त्रास संभ्रांत मानसः ॥४-३३-३१॥ किम् नु रुट् कारणम् सुभ्रु प्रकृत्या मृदु मानसः ।स रोष इव संप्राप्तो येन अयम् राघवानुजः ॥४-३३-३२॥ किम् पश्यसि कुमारस्य रोष स्थानम् अनिन्दिते ।न खलु अकारणे कोपम् आहरेत् नरपुंगवः ॥४-३३-३३॥ यदि अस्य कृतम् अस्माभिः बुध्यसे किंचित् अप्रियम् ।तत् बुध्या संप्रधार्य आशु क्षिप्रम् एव अभिधीयताम् ॥४-३३-३४॥ अथवा स्वयम् एव एनम् द्रष्टुम् अर्हसि भामिनी ।वचनैः स्वांत्व युक्तैः च प्रसादयितुम् अर्हसि ॥४-३३-३५॥ त्वत् दर्शने विशुद्ध आत्मा न स कोपम् करिष्यति ।न हि स्त्रीषु महात्मानः क्वचित् कुर्वन्ति दारुणम् ॥४-३३-३६॥ त्वया स्वांत्वैः उपक्रांतम् प्रसन्न इन्द्रिय मानसम् ।ततः कमलपत्राक्षम् द्रक्ष्याअमि अहम् अरिंदमम् ॥४-३३-३७॥ सा प्रस्खलंती मद विह्वल अक्षीप्रलंब कांची गुण हेम सूत्रा ।सलक्षणा लक्ष्मण संनिधानम्जगाम तारा नमित अंग यष्टिः ॥४-३३-३८॥ स ताम् समीक्ष्य एव हरि ईश पत्नीम्तस्थौ उदासीनतया महात्मा ।अवाङ्मुखो आभूत् मनुजेन्द्र पुत्रःस्त्री सन्निकर्षात् विनिवृत्त कोपम् ॥४-३३-३९॥ सा पान योगात् च निवृत्त लज्जादृष्टि प्रसादात् च नरेन्द्र सूनोः ।उवाच तारा प्रणय प्रगल्भम्वाक्यम् महार्थम् परिसांत्व रूपम् ॥४-३३-४०॥ किम् कोप मूलम् मनुजेन्द्र पुत्रकः ते न सन्तिष्ठति वाक् निदेशे ।कः शुष्क वृक्षम् वनम् आपतन्तम्दवाग्निम् आसीदति निर्विशंकः ॥४-३३-४१॥ स तस्य वचनम् श्रुत्वा सांत्व पूर्वम् अशंकितः ।भूयः प्रणय दृष्टार्थम् लक्ष्मणो वाक्यम् अब्रवीत् ॥४-३३-४२॥ किम् अयम् काम वृत्तः ते लुप्त धर्मार्थ संग्रहः ।भर्ता भर्तृ हिते युक्ते न च एवम् अवबुध्यसे ॥४-३३-४३॥ न चिंतयति राज्यार्थम् सः अस्मान् शोक परायणान् ।स अमात्य परिषत् तारे कामम् एव उपसेवते ॥४-३३-४४॥ स मासान् चतुर कृत्वा प्रमाणम् प्लवगेश्वरः ।व्यतीतान् तान् मद उदग्रो विहरन् न अवबुध्यते ॥४-३३-४५॥ न हि धर्मार्थ सिद्ध्यर्थम् पानम् एवम् प्रशस्यते ।पानात् अर्थस्य कामः च धर्मः च परिहीयते ॥४-३३-४६॥ धर्म लोपो महान् तावत् कृते हि अप्रति कुर्वतः ।अर्थ लोपः च मित्रस्य नाशे गुणवतो महान् ॥४-३३-४७॥ मित्रम् हि अर्थ गुण श्रेष्ठम् सत्य धर्म परायणम् ।तत् द्वयम् तु परित्यक्तम् न तु धर्मे व्यवस्थितम् ॥४-३३-४८॥ तत् एवम् प्रस्तुते कार्ये कार्यम् अस्माभिः उत्तरम् ।यत् कार्यम् कार्य तत्त्वज्ञे त्वम् उदाहर्तुम् अर्हसि ॥४-३३-४९॥ सा तस्य धर्मार्थ समाधि युक्तम्निशम्य वाक्यम् मधुर स्वभावम् ।तारा गतार्थे मनुजेन्द्र कार्येविश्वास युक्तम् तम् उवाच भूयः ॥४-३३-५०॥ न कोप कालः क्षितिपाल पुत्रन च अपि कोपः स्व जने विधेयः ।त्वत् अर्थ कामस्य जनस्य तस्यप्रमादम् अपि अर्हसि वीर सोढुम् ॥४-३३-५१॥ कोपम् कथम् नाम गुण प्रकृष्टःकुमार कुर्यात् अपकृष्ट सत्त्वे ।कः त्वत् विधः कोप वशम् हि गच्छेसत्त्व अवरुद्धः तपसः प्रसूतिः ॥४-३३-५२॥ जानामि कोपम् हरि वीर बन्धोःजानामि कार्यस्य च काल संगम् ।जानामि कार्यम् त्वयि यत् कृतम् नःतत् च अपि जानामि यत् अत्र कार्यम् ॥४-३३-५३॥ तत् च अपि जानामि यथा अविषह्यम्बलम् नरश्रेष्ठ शरीरजस्य ।जानामि यस्मिन् च जने अवबद्धम्कामेन सुग्रीवम् अस्तकम् अद्य ॥४-३३-५४॥ न काम तंत्रे तव बुद्धिः अस्तित्वम् वै यथा मन्यु वशम् प्रपन्नः ।न देश कालौ हि न च अर्थ धर्मौअवेक्षते काम रतिः मनुष्यः ॥४-३३-५५॥ तम् काम वृत्तम् मम सन्निकृष्टम्काम अभियोगात् च विमुक्त लज्जम् ।क्षमस्व तावत् पर वीर हन्तःतव भ्रातर्म वानर वंश नाथम् ॥४-३३-५६॥ महर्षयो धर्म तपोभिरामाःकामा अनुकामाः प्रति बद्ध मोहाः ।अयम् प्रकृत्या चपलः कपिः तुकथम् न सज्जेत सुखेषु राजा ॥४-३३-५७॥ इति एवम् उक्त्वा वचनम् महार्थम्सा वानरी लक्ष्मणम् अप्रमेयम् ।पुनः स खेदम् मद विह्वलाक्षीभर्तुर् हितम् वाक्यम् इदम् बभाषे ॥४-३३-५८॥ उद्योगः तु चिर आज्ञप्तः सुग्रीवेण नरोत्तम ।काम्स्य अपि विधेयेन तव अर्थ प्रति साधने ॥४-३३-५९॥ आगता हि महा वीर्या हरयः काम रूपिणः ।कोटि शत सहस्राणि नाना नग निवासिनः ॥४-३३-६०॥ तत् आगच्छ महाबाहो चारित्रम् रक्षितम् त्वया ।अच्छलम् मित्र भावेन सताम् दरा अवलोकनम् ॥४-३३-६१॥ ताराया च अभ्यनुज्ञात त्वरया चा अपि चोदितः ।प्रविवेश महाबाहुः अभ्यंतरम् अरिन्दमः ॥४-३३-६२॥ ततः सुग्रीवम् आसीनम् कांचने परम आसने ।महाअर्ह आस्तरणोपेते ददर्श आदित्य संनिभम् ॥४-३३-६३॥ दिव्य आभरण चित्रांगम् दिव्य रूपम् यशस्विनम् ।दिव्य माल्यांबर धरम् महेन्द्रम् इव दुर्जयम् ॥४-३३-६४॥ दिव्य आभरण माल्याभिः प्रमदाभिः समावृतम् ।संरब्धतर रक्ताक्षो बभूव अंतक संनिभः ॥४-३३-६५॥ रुमाम् तु वीरः परिरभ्य गाढम्वर आसनस्थो वर हेम वर्णः ।ददर्श सौमित्रिम् अदीन सत्त्वम्विशाल नेत्रः स विशाल नेत्रम् ॥४-३३-६६॥ तम् अप्रतिहतम् क्रुद्धम् प्रविष्टम् पुरुषर्षभम् ।सुग्रीवो लक्ष्मणम् दृष्ट्वा बभूव व्यथित इन्द्रियः ॥४-३४-१॥ क्रुद्धम् निःश्वसमानम् तम् प्रदीप्तम् इव तेजसा ।भ्रातुर् व्यसन संतप्तम् दृष्ट्वा दशरथ आत्मजम् ॥४-३४-२॥ उत्पपात हरिश्रेष्ठो हित्वा सौवर्णम् आसनम् ।महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः ॥४-३४-३॥ उत्पतंतम् अनूत्पेतू रुमा प्रभृतयः स्त्रियः ।सुग्रीवम् गगने पूर्णम् चंद्रम् तारा गणा इव ॥४-३४-४॥ संरक्त नयनः श्रीमान् संचचार कृतांजलिः ।बभूव अवस्थितः तत्र कल्प वृक्षो महान् इव ॥४-३४-५॥ रुमा द्वितीयम् सुग्रीवम् नारी मध्य गतम् स्थितम् ।अब्रवीत् लक्ष्मणः क्रुद्धः स तारम् शशिनम् यथा ॥४-३४-६॥ सत्त्व अभिजन संपन्नः स अनुक्रोशो जितेन्द्रियः ।कृतज्ञः सत्य वादी च राजा लोके महीयते ॥४-३४-७॥ यस्तु राजा स्थितो अधर्मे मित्राणाम् उपकारिणाम् ।मिथ्या प्रतिज्ञाम् कुरुते को नृशंस तरः ततः ॥४-३४-८॥ शतम् अश्व अनृते हन्ति सहस्रम् तु गव अनृते ।आत्मानम् स्व जनम् हन्ति पुरुषः पुरुष अनृते ॥४-३४-९॥ पूर्वम् कृतार्थो मित्राणाम् न तत् प्रति करोति यः ।कृतघ्नः सर्व भूतानाम् स वध्यः प्लवगेश्वर ॥४-३४-१०॥ गीतो अयम् ब्रह्मणा श्लोकः सर्व लोक नमस्कृतः ।दृष्ट्वा कृतघ्नम् क्रुद्धेन तम् निबोध प्लवम्गम ॥४-३४-११॥ गो घ्ने च एव सुरापे च चौरे भग्न व्रते तथा ।निष्कृतिर् विहिता सद्भिः कृतघ्ने न अस्ति निष्कृतिः ॥४-३४-१२॥ अनार्य त्वम् कृतघ्नः च मिथ्या वादी च वानर ।पूर्वम् कृतार्थो रामस्य न तत् प्रतिकरोषि यत् ॥४-३४-१३॥ ननु नाम कृतार्थेन त्वया रामस्य वानर ।सीताया मार्गणे यत्नः कर्तव्यः कृतम् इच्छता ॥४-३४-१४॥ स त्वम् ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः ।न त्वाम् रामो विजानीते सर्पम् मण्डूक राविणम् ॥४-३४-१५॥ महाभागेन रामेण पापः करुण वेदिना ।हरीणाम् प्रापितो राज्यम् त्वम् दुरात्मा महात्मना ॥४-३४-१६॥ कृतम् चेत् न अभिजानीषे राघवस्य महात्मनः ।सद्यः त्वम् निशितैर् बाणैर् हतो द्रक्ष्यसि वालिनम् ॥४-३४-१७॥ न च संकुचितः पन्था येन वाली हतो गतः ।समये तिष्ठ सुग्रीव मा वालि पथम् अन्वगाः ॥४-३४-१८॥ न नूनम् इक्ष्वाकु वरस्य कार्मुकात्शरान् च तान् पश्यसि वज्र संनिभान् ।ततः सुखम् नाम विषेवसे सुखीन राम कार्यम् मनसा अपि अवेक्षसे ॥४-३४-१९॥ तथा ब्रुवाणम् सौमित्रिम् प्रदीप्तम् इव तेजसा ।अब्रवीत् लक्ष्मणम् तारा तारा अधिप निभ आनना ॥४-३५-१॥ न एवम् लक्ष्मण वक्तव्यो न अयम् परुषम् अर्हति ।हरीणाम् ईश्वरः श्रोतुम् तव वक्त्रात् विशेषतः ॥४-३५-२॥ न एव अकृतज्ञः सुग्रीवो न शठो न अपि दारुणः ।न एव अनृत कथो वीर न जिह्मः च कपीश्वरः ॥४-३५-३॥ उपकारम् कृतम् वीरो न अपि अयम् विस्मृतः कपिः ।रामेण वीर सुग्रीवो यत् अन्यैः दुष्करम् रणे ॥४-३५-४॥ राम प्रसादात् कीर्तिम् च कपि राज्यम् च शाश्वतम् ।प्राप्तवान् इह सुग्रीवो रुमाम् माम् च परंतप ॥४-३५-५॥ सुदुःख शयितः पूर्वम् प्राप्य इदम् सुखम् उत्तमम् ।प्राप्त कालम् न जानीते विश्वामित्रो यथा मुनिः ॥४-३५-६॥ घृताच्याम् किल संसक्तो दश वर्षाणि लक्ष्मण ।अहो अमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥४-३५-७॥ स हि प्राप्तम् न जानीते कालम् कालविदाम् वरः ।विश्वामित्रो महातेजाः किम् पुनर् यः पृथग् जनः ॥४-३५-८॥ देह धर्म गतस्य अस्य परिश्रान्तस्य लक्ष्मण ।अवितृप्तस्य कामेषु रामः क्षन्तुम् इह अर्हति ॥४-३५-९॥ न च रोष वशम् तात गंतुम् अर्हसि लक्ष्मण ।निश्चयार्थम् अविज्ञाय सहसा प्राकृतो यथा ॥४-३५-१०॥ सत्त्व युक्ता हि पुरुषाः त्वत् विधाः पुरुषर्षभ ।अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥४-३५-११॥ प्रसादये त्वाम् धर्मज्ञ सुग्रीवार्थे समाहिता ।महान् रोष समुत्पन्नः संरंभः त्यज्यताम् अयम् ॥४-३५-१२॥ रुमाम् माम् च अंगदम् राज्यम् धन धान्य पशूनि च ।राम प्रियार्थम् सुग्रीवः त्यजेत् इति मतिर् मम ॥४-३५-१३॥ समानेष्यति सुग्रीवः सीतया सह राघवम् ।शशांकम् इव रोहिण्या हत्वा तम् राक्षस अधमम् ॥४-३५-१४॥ शत कोटि सहस्राणि लंकायाम् किल रक्षसाम् ।अयुतानि च षट् त्रिंशत् सहस्राणि शतानि च ॥४-३५-१५॥ अहत्वा ताम् च दुर्धर्षान् राक्षसान् काम रूपिणः ।न शक्यो रावणो हंतुम् येन सा मैथिली हृता ॥४-३५-१६॥ ते न शक्या रणे हंतुम् असहायेन लक्ष्मण ।रावणः क्रूर कर्मा च सुग्रीवेण विशेषतः ॥४-३५-१७॥ एवम् आख्यातवान् वाली स हि अभिज्ञो हरीश्वरः ।आगमः तु न मे व्यक्तः श्रवात् तस्य ब्रवीमि अहम् ॥४-३५-१८॥ त्वत् सहाय निमित्तम् हि प्रेषिता हरिपुंगवाः ।आनेतुम् वानरान् युद्धे सुबहून् हरिपुंगवान् ॥४-३५-१९॥ ताम् च प्रतीक्षमाणो अयम् विक्रांतान् सुमहा बलान् ।राघवस्य अर्थ सिद्धि अर्थम् न निर्याति हरि ईश्वरः ॥४-३५-२०॥ कृता सुसंस्था सौमित्रे सुग्रीवेण यथा पुरा ।अद्य तैः वानरैः सर्वैः आगंतव्यम् महाबलैः ॥४-३५-२१॥ ऋक्ष कोटि सहस्राणि गोलांगूल शतानि च ।अद्य त्वाम् उपयास्यन्ति जहि कोपम् अरिन्दमकोट्यो अनेकाः तु काकुत्स्थ कपीनाम् दीप्त तेजसाम् ॥४-३५-२२॥ तव हि मुखम् इदम् निरीक्ष्य कोपात्क्षतज समे नयने निरीक्षमाणाः ।हरि वर वनिता न यान्ति शान्तिम्प्रथम भयस्य हि शन्किताः स्म सर्वाः ॥४-३५-२३॥ इति उक्तः तारया वाक्यम् प्रश्रितम् धर्म संहितम् ।मृदु स्वभावः सौमित्रिः प्रतिजग्राह तत् वचः ॥४-३६-१॥ तस्मिन् प्रतिगृहीते तु वाक्ये हरि गण ईश्वरः ।लक्ष्मणात् सुमहत् त्रासम् वस्त्रम् क्लिन्नम् इव अत्यजत् ॥४-३६-२॥ ततः कण्ठ गतम् माल्यम् चित्रम् बहु गुणम् महत् ।चिच्छेद विमदः च आसीत् सुग्रीवो वानर ईश्वरः ॥४-३६-३॥ स लक्ष्मणम् भीम बलम् सर्व वानर सत्तमः ।अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवः संप्रहर्षयन् ॥४-३६-४॥ प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् ।राम प्रसादात् सौमित्रे पुनः च आप्तम् इदम् मया ॥४-३६-५॥ कः शक्तः तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।तादृशम् प्रतिकुर्वीत अंशेन अपि नृपात्मज ॥४-३६-६॥ सीताम् प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ।सहाय मात्रेण मया राघवः स्वेन तेजसा ॥४-३६-७॥ सहाय कृत्यम् किम् तस्य येन सप्त महाद्रुमाः ।शैलः च वसुधा चैव बाणेन एकेन दारिताः ॥४-३६-८॥ धनुर् विस्फारमाणस्य यस्य शब्देन लक्ष्मण ।स शैला कम्पिता भूमिः सहायैः किम् नु तस्य वै ॥४-३६-९॥ अनुयात्राम् नर इन्द्रस्य करिष्ये अहम् नरषभ ।गच्छतो रावणम् हन्तुम् वैरिणम् स पुरःसरम् ॥४-३६-१०॥ यदि किंचित् अतिक्रान्तम् विश्वासात् प्रणयेन वा ।प्रेष्यस्य क्षमितव्यम् मे न कश्चिन् न अपराध्यति ॥४-३६-११॥ इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।अभवत् लक्ष्मणः प्रीतः प्रेम्णा च इदम् उवाच ह ॥४-३६-१२॥ सर्वथा हि मम भ्राता स नाथो वानरेश्वर ।त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥४-३६-१३॥ यः ते प्रभावः सुग्रीव यत् च ते शौचम् ईदृशम् ।अर्हः तम् कपि राज्यस्य श्रियम् भोक्तुम् अनुत्तमाम् ॥४-३६-१४॥ सहायेन च सुग्रीव त्वया रामः प्रतापवान् ।वधिष्यति रणे शत्रून् अचिरात् न अत्र संशयः ॥४-३६-१५॥ धर्मज्ञस्य कृतज्ञस्य संग्रामेषु अनिवर्तिनः ।उपपन्नम् च युक्तम् च सुग्रीव तव भाषितम् ॥४-३६-१६॥ दोषज्ञः सति सामर्थ्ये को अन्यो भाषितुम् अर्हति ।वर्जयित्वा मम ज्येष्ठम् त्वाम् च वानर सत्तम ॥४-३६-१७॥ सदृशः च असि रामस्य विक्रमेण बलेन च ।सहायो दैवतैः दत्तः चिराय हरि पुंगव ॥४-३६-१८॥ किम् तु शीघ्रम् इतो वीर निष्क्राम त्वम् मया सह ।सान्त्वयस्व वयस्यम् च भार्या हरण दुःखितम् ॥४-३६-१९॥ यत् च शोक अभिभूतस्य श्रुत्वा रामस्य भाषितम् ।मया त्वम् परुषाणि उक्तः तत् क्षमस्व सखे मम ॥४-३६-२०॥ एवम् उक्तः तु सुग्रीवो लक्ष्मणेन महात्मना ।हनूमन्तम् स्थितम् पार्श्वे वचनम् च इदम् अब्रवीत् ॥४-३७-१॥ महेन्द्र हिमवत् विंध्य कैलास शिखरेषु च ।मन्दरे पाण्डु शिखरे पंच शैलेषु ये स्थिताः ॥४-३७-२॥ तरुण आदित्य वर्णेषु भ्राजमानेषु नित्यशः ।पर्वतेषु समुद्र अंते पश्चिमस्याम् तु ये दिशि ॥४-३७-३॥ आदित्य भवने चैव गिरौ संध्या अभ्र संनिभे ।पद्म ताल वनम् भीमाः संश्रिता हरि पुंगवाः ॥४-३७-४॥ अंजन अंबुद संकाशाः कुंजर प्रतिम ओजसः ।अंजने पर्वते चैव ये वसन्ति प्लवंगमाः ॥४-३७-५॥ महाशैल गुहा आवासा वानराः कनक प्रभाः ।मेरु पार्श्व गताः चैव ये च धूम्र गिरिम् श्रिताः ॥४-३७-६॥ तरुण आदित्य वर्णाः च पर्वते ये महाअरुणे ।पिबंतो मधु मैरेयम् भीम वेगाः प्लवंगमाः ॥४-३७-७॥ वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ।तापस आश्रम रम्येषु वन अन्तेषु समंततः ॥४-३७-८॥ तान् तान् त्वम् आनय क्षिप्रम् पृथिव्याम् सर्व वानरान् ।साम दान आदिभिः कल्पैः वानरैः वेगवत्तरैः ॥४-३७-९॥ प्रेषिताः प्रथमम् ये च मया आज्ञाताः महाजवाः ।त्वरण अर्थम् तु भूयः त्वम् संप्रेषय हरीश्वरान् ॥४-३७-१०॥ ये प्रसक्ताः च कामेषु दीर्घ सूत्राः च वानराः ।इह आनयस्व तान् शीघ्रम् सर्वान् एव कपीश्वरान् ॥४-३७-११॥ अहोभिः दशभिः ये च न आगच्छन्ति मम आज्ञया ।हन्तव्याः ते दुरात्मानो राज शासन दूषकाः ॥४-३७-१२॥ शतानि अथ सहस्राणि कोट्यः च मम शासनात् ।प्रयान्तु कपि सिंहानाम् निदिशे मम ये स्थिताः ॥४-३७-१३॥ मेघ पर्वत संकाशाः छादयन्त इव अंबरम् ।घोर रूपाः कपि श्रेष्ठा यान्तु मत् शासनात् इतः ॥४-३७-१४॥ ते गतिज्ञा गतिम् गत्वा पृथिव्याम् सर्व वानराः ।आनयंतु हरीन् सर्वान् त्वरिताः शासनान् मम ॥४-३७-१५॥ तस्य वानर राजस्य श्रुत्वा वायु सुतो वचः ।दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥४-३७-१६॥ ते पदम् विष्णु विक्रान्तम् पतत्रि ज्योतिः अध्वगाः ।प्रयाताः प्रहिता राज्ञा हरयः तु क्षणेन वै ॥४-३७-१७॥ ते समुद्रेषु गिरिषु वनेषु च सरःसु च ।वानरा वानरान् सर्वान् राम हेतोः अचोदयन् ॥४-३७-१८॥ मृत्यु काल उपमस्य आज्ञाम् राज राजस्य वानराः ।सुग्रीवस्य आययुः श्रुत्वा सुग्रीव भय शन्किताः ॥४-३७-१९॥ ततः ते अंजन संकाशा गिरेः तस्मात् महाजवाः ।तिस्रः कोट्यः प्लवंगानाम् निर्ययुर् यत्र राघवः ॥४-३७-२०॥ अस्तम् गच्छति यत्र अर्कः तस्मिन् गिरिवरे रताः ।संतप्त हेम वर्ण आभा तस्मात् कोट्यो दश च्युताः ॥४-३७-२१॥ कैलास शिखरेभ्यः च सिंह केसर वर्चसाम् ।ततः कोटि सहस्राणि वानराणाम् समागमन् ॥४-३७-२२॥ फल मूलेन जीवन्तो हिमवन्तम् उपाश्रिताः ।तेषाम् कोटि सहस्राणाम् सहस्रम् समवर्तत ॥४-३७-२३॥ अंगारक समानानाम् भीमानाम् भीम कर्मणाम् ।विंध्यात् वानर कोटीनाम् सहस्राणि अपतन् द्रुतम् ॥४-३७-२४॥ क्षीर उद वेला निलयाः तमाल वन वासिनः ।नारि केल अशनाः चैव तेषाम् संख्या न विद्यते ॥४-३७-२५॥ वनेभ्यो गह्वरेभ्यः च सरित्भ्यः च महाबलाः ।आगच्छत् वानरी सेना पिबन्ति इव दिवा करम् ॥४-३७-२६॥ ये तु त्वरयितुम् याता वानराः सर्व वानरान् ।ते वीरा हिमवत् शैले ददृशुः तम् महाद्रुमम् ॥४-३७-२७॥ तस्मिन् गिरि वरे पुण्ये यज्ञो माहेश्वरः पुरा ।सर्व देव मनः तोषो बभूव सु मनोरमः ॥४-३७-२८॥ अन्न निस्यंद जातानि मूलानि च फलानि च ।अमृत स्वादु कल्पानि ददृशुः तत्र वानराः ॥४-३७-२९॥ तत् अन्न संभवम् दिव्यम् फलम् मूलम् मनोहरम् ।यः कश्चित् सकृत् अश्नाति मासम् भवति तर्पितः ॥४-३७-३०॥ तानि मूलानि दिव्यानि फलानि च फल अशनाः ।औषधानि च दिव्यानि जगृहुर् हरि पुंगवाः ॥४-३७-३१॥ तस्मात् च यज्ञ आयतनात् पुष्पाणि सुरभीणि च ।आनिन्युर् वानरा गत्वा सुग्रीव प्रिय कारणात् ॥४-३७-३२॥ ते तु सर्वे हरिवराः पृथिव्याम् सर्व वानरान् ।संचोदयित्वा त्वरितम् यूथानाम् जग्मुर् अग्रतः ॥४-३७-३३॥ ते तु तेन मुहूर्तेन कपयः शीघ्र चारिणः ।किष्किंधाम् त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥४-३७-३४॥ ते गृहीत्वा ओषधीः सर्वाः फल मूलम् च वानराः ।तम् प्रतिग्राहयामासुर् वचनम् च इदम् अब्रुवन् ॥४-३७-३५॥ सर्वे परिसृताः शैलाः सरितः च वनानि च ।पृथिव्याम् वानराः सर्वे शासनात् उपयान्ति ते ॥४-३७-३६॥ एवम् श्रुत्वा ततो हृष्टः सुग्रीवः प्लवग अधिपः ।प्रतिजग्राह च प्रीतः तेषाम् सर्वम् उपायनम् ॥४-३७-३७॥ प्रतिगृह्य च तत् सर्वम् उपानयम् उपाहृतम् ।वानरान् सान्त्वयित्वा च सर्वान् एव व्यसर्जयत् ॥४-३८-१॥ विसर्जयित्वा स हरीन् सहस्रान् तान् कृत कर्मणः ।मेने कृतार्थम् आत्मानम् राघवम् च महाबलम् ॥४-३८-२॥ स लक्ष्मणो भीम बलम् सर्व वानर सत्तमम् ।अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवम् संप्रहर्षयन् ॥४-३८-३॥ किष्किंधाया विनिष्क्राम यदि ते सौम्य रोचते ।तस्य तत् वचनम् श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥४-३८-४॥ सुग्रीवः परम प्रीतो वाक्यम् एतत् उवाच ह ।एवम् भवतु गच्छामः स्थेयम् त्वत् शासने मया ॥४-३८-५॥ तम् एवम् उक्त्वा सुग्रीवो लक्ष्मणम् शुभ लक्षणम् ।विसर्जयामास तदा तारा अद्याः च एव योषितः ॥४-३८-६॥ एहि इति उच्छैः हरि वरान् सुग्रीवः समुदाहरत् ।तस्य तद् वचनम् श्रुत्वा हरयः शीघ्रम् आययुः ॥४-३८-७॥ बद्ध अंजलि पुटाः सर्वे ये स्युः स्त्री दर्शन क्षमाः ।तान् उवाच ततः प्राप्तान् राजा अर्क सदृश प्रभः ॥४-३८-८॥ उपस्थापयत क्षिप्रम् शिबिकाम् मम वानराः ।श्रुत्वा तु वचनम् तस्य हरयः शीघ्र विक्रमाः ॥४-३८-९॥ समुपस्थापयामासुः शिबिकाम् प्रिय दर्शनाम् ।ताम् उपस्थापिताम् दृष्ट्वा शिबिकाम् वानराधिपः ॥४-३८-१०॥ लक्ष्मण आरुह्यताम् शीघ्रम् इति सौमित्रिम् अब्रवीत् ।इति उक्त्वा कांचनम् यानम् सुग्रीवः सूर्य सन्निभम् ॥४-३८-११॥ बहुभिः हरिभिः युक्तम् आरुरोह स लक्ष्मणः ।पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि ॥४-३८-१२॥ शुक्लैः च वाल व्यजनैः धूयमानैः समंततः ।शंख भेरी निनादैः च वन्दिभिः च अभिवन्दितः ॥४-३८-१३॥ निर्ययौ प्राप्य सुग्रीवो राज्य श्रियम् अनुत्तमाम् ।स वानर शतैः तीष्क्णैः बहुभिः शस्त्र पाणिभिः ॥४-३८-१४॥ परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ।स तम् देशम् अनुप्राप्य श्रेष्ठम् राम निषेवितम् ॥४-३८-१५॥ अवातरत् महातेजाः शिबिकायाः स लक्ष्मणः ।आसाद्य च ततो रामम् कृत अंजलि पुटो अभवत् ॥४-३८-१६॥ कृत अंजलौ स्थिते तस्मिन् वानराः च अभवन् तथा ।तटाकम् इव तम् दृष्ट्वा रामः कुड्मल पंकजम् ॥४-३८-१७॥ वानराणाम् महत् सैन्यम् सुग्रीवे प्रीतिमान् अभूत् ।पादयोः पतितम् मूर्ध्ना तम् उत्थाप्य हरीश्वरम् ॥४-३८-१८॥ प्रेम्णा च बहुमानात् च राघवः परिषस्वजे ।परिष्वज्य च धर्मात्मा निषीद इति ततो अब्रवीत् ॥४-३८-१९॥ निषण्णम् तम् ततो दृष्ट्वा क्षितौ रामो अब्रवीत् ततः ।धर्मम् अर्थम् च कामम् च काले यः तु निषेवते ॥४-३८-२०॥ विभज्य सततम् वीर स राजा हरिसत्तम ।हित्वा धर्मम् तथा अर्थम् च कामम् यः तु निषेवते ॥४-३८-२१॥ स वृक्ष अग्रे यथा सुप्तः पतितः प्रतिबुध्यते ।अमित्राणाम् वधे युक्तो मित्राणाम् संग्रहे रतः ॥४-३८-२२॥ त्रिवर्ग फल भोक्ता च राजा धर्मेण युज्यते ।उद्योग समयः तु एष प्राप्तः शत्रु निषूदन ॥४-३८-२३॥ संचिंत्यताम् हि पिंगेश हरिभिः सह मंत्रिभिः ।एवम् उक्तः तु सुग्रीवो रामम् वचनम् अब्रवीत् ॥४-३८-२४॥ प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् ।त्वत् प्रसादात् महाबाहो पुनः प्राप्तम् इदम् मया ॥४-३८-२५॥ तव देव प्रसदात् च भ्रातुः च जयताम् वर ।कृतम् न प्रतिकुर्यात् यः पुरुषाणाम् स दूषकः ॥४-३८-२६॥ एते वानर मुख्याः च शतशः शत्रु सूदन ।प्राप्ताः च आदाय बलिनः पृथिव्याम् सर्व वानरान् ॥४-३८-२७॥ ऋक्षाः च वानराः शूरा गोलांगूलाः च राघव ।कांतार वन दुर्गाणाम् अभिज्ञा घोर दर्शनाः ॥४-३८-२८॥ देव गन्धर्व पुत्राः च वानराः काम रूपिणः ।स्वैः स्वैः परिवृताः सैन्यैः वर्तन्ते पथि राघव ॥४-३८-२९॥ शतैः शत सहस्रैः च कोटिभिः च प्लवंगमाः ।अयुतैः च आवृता वीरा शंकुभिः च परंतप ॥४-३८-३०॥ अर्बुदैः अर्बुद शतैः मध्यैः च अन्तैः च वानराः ।समुद्राः च परार्धाः च हरयो हरि यूथपाः ॥४-३८-३१॥ आगमिष्यन्ति ते राजन् महेन्द्र सम विक्रमाः ।मेघ पर्वत संकाशा मेरु विन्ध्य कृत आलयाः ॥४-३८-३२॥ ते त्वाम् अभिगमिष्यन्ति राक्षसम् योद्धुम् आहवे ।निहत्य रावणम् युद्धे हि आनयिष्यन्ति मैथिलीम् ॥४-३८-३३॥ ततः समुद्योगम् अवेक्ष्य वीर्यवान्हरि प्रवीरस्य निदेश वर्तिनः ।बभूव हर्षात् वसुधा अधिप आत्मजःप्रबुद्ध नील उत्पल तुल्य दर्शनः ॥४-३८-३४॥ इति ब्रुवाणम् सुग्रीवम् रामो धर्मभृताम् वरः ।बाहुभ्याम् संपरिष्वज्य प्रत्युवाच कृतांजलिम् ॥४-३९-१॥ यत् इन्द्रो वर्षते वर्षम् न तत् चित्रम् भविष्यति ।आदित्यो असौ सहस्रांशुः कुर्यात् वितिमिरम् नभः ॥४-३९-२॥ चन्द्रमा रजनीम् कुर्यात् प्रभया सौम्य निर्मलाम् ।त्वत् विधो वा अपि मित्राणाम् प्रीतिम् कुर्यात् परंतप ॥४-३९-३॥ एवम् त्वयि तत् न चित्रम् भवेत् यत् सौम्य शोभनम् ।जानामि अहम् त्वाम् सुग्रीव सततम् प्रिय वादिनम् ॥४-३९-४॥ त्वत् स नाथः सखे संख्ये जेता अस्मि सकलान् अरीन् ।त्वम् एव मे सुहृत् मित्रम् साहाय्यम् कर्तुम् अर्हसि ॥४-३९-५॥ जहार आत्म विनाशाय वैदेहीम् राक्षस अधमः ।वंचयित्वा तु पौलोमीम् अनुह्लादो यथा शचीम् ॥४-३९-६॥ न चिरात् तम् हनिष्यामि रावणम् निशितैः शरैः ।पौलोम्याः पितरम् दृप्तम् शत क्रतुः इव अरिहा ॥४-३९-७॥ एतस्मिन् अन्तरे च एव रजः समभिवर्तत ।उष्णाम् तीव्राम् सहस्रांशोः छादयत् गगने प्रभाम् ॥४-३९-८॥ दिशः पर्याकुलाः च आसन् तमसा तेन दूषिताः ।चचाल च मही सर्वा स शैल वन कानना ॥४-३९-९॥ ततो नगेन्द्र संकाशैः तीक्ष्ण दन्ष्ट्रैः महाबलैः ।कृत्स्ना संछादिता भूमिः असंख्येयैः प्लवंगमैः ॥४-३९-१०॥ निमेष अंतर मात्रेण ततः तैः हरि यूथपैः ।कोटी शत परीवारैः कामरूपिभिः आवृता ॥४-३९-११॥ नादेयैः पार्वतेयैः च सामुद्रैः च महाबलैः ।हरिभिः मेघ निर्ह्रादैः अन्यैः च वन वासिभिः ॥४-३९-१२॥ तरुण आदित्य वर्णैः च शशि गौरैः च वानरैः ।पद्म केसर वर्णैः च श्वेतैः मेरु कृत आलयैः ॥४-३९-१३॥ कोटी सहस्रैः दशभिः श्रीमान् परिवृतः तदा ।वीरः शतबलिः नाम वानरः प्रत्यदृश्यत ॥४-३९-१४॥ ततः कांचन शैल आभः ताराया वीर्यवान् पिता ।अनेकैः बहु साहस्रैः कोटिभिः प्रत्यदृश्यत ॥४-३९-१५॥ तथा अपरेण कोटीनाम् साहस्रेण समन्वितः ।पिता रुमयाः संप्राप्तः सुग्रीव श्वशुरो विभुः ॥४-३९-१६॥ पद्म केसर संकाशः तरुण अर्क निभ आननः ।बुद्धिमान् वानर श्रेष्ठः सर्व वानर सत्तमः ॥४-३९-१७॥ अनीकैः बहु साहस्रैः वानराणाम् समन्वितः ।पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥४-३९-१८॥ गो लांगूल महाराजो गवाक्षो भीम विक्रमः ।वृतः कोटि सहस्रेण वानराणाम् अदृश्यत ॥४-३९-१९॥ ऋक्षाणाम् भीम वेगानाम् धूम्रः शत्रु निबर्हणः ।वृतः कोटि सहस्राभ्याम् द्वाभ्याम् समभिवर्तत ॥४-३९-२०॥ महा अचल निभैः घोरैः पनसो नाम यूथपः ।आजगाम महावीर्यः तिसृभिः कोटिभिः वृतः ॥४-३९-२१॥ नील अंजन चय आकारो नीलो नाम अथ यूथपः ।अदृश्यत महाकायः कोटिभिः दशभिः वृतः ॥४-३९-२२॥ ततः कांचन आभो गवयो नाम यूथपः ।आजगाम महावीर्यः कोटिभिः पंचभिः वृतः ॥४-३९-२३॥ दरीमुखः च बलवान् यूथपो अभ्याययौ तदा ।वृतः कोटि सहस्रेण सुग्रीवम् समुपस्थितः ॥४-३९-२४॥ मैन्दः च द्विविदः च उभौ अश्वि पुत्रौ महाबलौ ।कोटि कोटि सहस्रेण वानराणाम् अदृश्यताम् ॥४-३९-२५॥ गजः च बलवान् वीरः त्रिसृभिः कोटिभिः वृतः ।आजगाम महातेजाः सुग्रीवस्य समीपतः ॥४-३९-२६॥ ऋक्ष राजो महातेजा जांबवान् नाम नामतः ।कोटिभिः दशभिः व्याप्तः सुग्रीवस्य वशे स्थितः ॥४-३९-२७॥ रुमणो नाम तेजस्वी विक्रान्तैः वानरैः वृतः ।आगतो बलवान् तूर्णम् कोटि शत समावृतः ॥४-३९-२८॥ ततः कोटि सहस्राणाम् सहस्रेण शतेन च ।पृष्ठतो अनुगतः प्राप्तो हरिभिः गंधमादनः ॥४-३९-२९॥ ततः पद्म सहस्रेण वृतः शन्कु शतेन च ।युव राजो अंगदः प्राप्तः पितृ तुल्य पराक्रमः ॥४-३९-३०॥ ततः तारा द्युतिः तारो हरिः भीम पराक्रमः ।पंचभिः हरि कोटीभिः दूरतः प्रत्यदृश्यत ॥४-३९-३१॥ इन्द्रजानुः कपिः वीरो यूथपः प्रत्यदृश्यत ।एकादशानाम् कोटीनाम् ईश्वरः तैः च सम्वृतः ॥४-३९-३२॥ ततो रंभः तु अनुप्राप्तः तरुण आदित्य संनिभः ।आयुतेन वृतः चैव सहस्रेण शतेन च ॥४-३९-३३॥ ततो यूथ पतिः वीरो दुर्मुखो नाम वानरः ।प्रत्यदृश्यत कोटिभ्याम् द्वाभ्याम् परिवृतो बली ॥४-३९-३४॥ कैलास शिखर आकारैः वानरैः भीम विक्रमैः ।वृतः कोटि सहस्रेण हनुमान् प्रत्यदृश्यत ॥४-३९-३५॥ नलः च अपि महावीर्यः संवृतो द्रुम वासिभिः ।कोटी शतेन संप्राप्तः सहस्रेण शतेन च ॥४-३९-३६॥ ततो दधिमुखः श्रीमान् कोटिभिः दशभिः वृतः ।संप्राप्तो अभिनदन् तस्य सुग्रीवस्य महात्मनः ॥४-३९-३७॥ शरभः कुमुदो वह्निः वानरो रंहः एव च ।एते च अन्ये च बहवो वानराः काम रूपिणः ॥४-३९-३८॥ आवृत्य पृथिवीम् सर्वाम् पर्वतान् च वनानि च ।यूथपाः समनुप्राप्ता एषाम् संख्या न विद्यते ॥४-३९-३९॥ आगताः च निविष्टाः च पृथिव्याम् सर्व वानराः ।आप्लवंतः प्लवंतः च गर्जंतः च प्लवंगमाः ।अभ्यवर्तन्त सुग्रीवम् सूर्यम् अभ्र गणा इव ॥४-३९-४०॥ कुर्वाणा बहु शब्दान् च प्रकृष्टा बलशालिनः ।शिरोभिः वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥४-३९-४१॥ अपरे वानर श्रेष्ठाः संगम्य च यथा उचितम् ।सुग्रीवेण समागम्य स्थिताः प्रांजलयः तदा ॥४-३९-४२॥ सुग्रीवः त्वरितो रामे सर्वान् तान् वानरर्षभान् ।निवेदयित्वा धर्मज्ञः स्थितः प्रान्जलिः अब्रवीत् ॥४-३९-४३॥ यथा सुखम् पर्वत निर्झरेषुवनेषु सर्वेषु च वानरेन्द्राः ।निवेशयित्वा विधिवत् बलानिबलम् बलज्ञः प्रतिपत्तुम् ईष्टे ॥४-३९-४४॥ अथ राजा समृद्ध अर्थः सुग्रीवः प्लवगेश्वरः ।उवाच नरशार्दूलम् रामम् परबलार्दनम् ॥४-४०-१॥ आगता विनिविष्टाः च बलिनः कामरूपिणः ।वानरेन्द्रा महेन्द्र आभा ये मत् विषय वासिनः ॥४-४०-२॥ त इमे बहु विक्रान्तैः बलिभिः भीम विक्रमैः ।आगता वानरा घोरा दैत्य दानव संनिभाः ॥४-४०-३॥ ख्यात कर्म अपदानाः च बलवन्तो जित क्लमाः ।पराक्रमेषु विख्याता व्यवसायेषु च उत्तमाः ॥४-४०-४॥ पृथिवि अंबु चरा राम नाना नग निवासिनः ।कोटि ओघाः च इमे प्राप्ता वानराः तव किंकराः ॥४-४०-५॥ निदेश वर्तिनः सर्वे सर्वे गुरु हिते स्थिताः ।अभिप्रेतम् अनुष्ठातुम् तव शक्ष्यन्ति अरिंदम ॥४-४०-६॥ त इमे बहु साहस्रैः अनेकैः बहु विक्रमैः ।आगता वानरा घोरा दैत्य दानव संनिभाः ॥४-४०-७॥ यत् मन्यसे नरव्याघ्र प्राप्त कालम् तत् उच्यताम् ।तत् सैन्यम् त्वत् वशे युक्तम् आज्ञापयितुम् अर्हसि ॥४-४०-८॥ कामम् एषाम् इदम् कार्यम् विदितम् मम तत्त्वतः ।तथा अपि तु यथा युक्तम् आज्ञापयितुम् अर्हसि ॥४-४०-९॥ तथा ब्रुवाणम् सुग्रीवम् रामो दशरथात्मजः ।बाहुभ्याम् संपरिष्वज्य इदम् वचनम् अब्रवीत् ॥४-४०-१०॥ ज्ञायताम् सौम्य वैदेही यदि जीवति वा न वा ।स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥४-४०-११॥ अधिगम्य तु वैदेहीम् निलयम् रावणस्य च ।प्राप्त कालम् विधास्यामि तस्मिन् काले सह त्वया ॥४-४०-१२॥ न अहम् अस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः ।त्वम् अस्य हेतुः कार्यस्य प्रभुः च प्लवगेश्वर ॥४-४०-१३॥ त्वम् एव आज्ञापय विभो मम कार्य विनिश्चयम् ।त्वम् हि जानासि यत् कार्यम् मम वीर न संशयः ॥४-४०-१४॥ सुहृद् द्वितीयो विक्रान्तः प्राज्ञः काल विशेष वित् ।भवान् अस्मत् हिते युक्तः सुहृद् आप्तो अर्थवित्तमः ॥४-४०-१५॥ एवम् उक्तः तु सुग्रीवो विनतम् नाम यूथपम् ।अब्रवीत् राम सांनिध्ये लक्ष्मणस्य च धीमतः ॥४-४०-१६॥ शैलाभम् मेघ निर्घोषम् ऊर्जितम् प्लवगेश्वरम् ।सोम सूर्य निभैः सार्धम् वानरैः वानरोत्तम ॥४-४०-१७॥ देश काल नयैः युक्तः विज्ञः कार्य विनिश्चये ।वृतः शत सहस्रेण वानराणाम् तरस्विनाम् ॥४-४०-१८॥ अधिगच्छ दिशम् पूर्वाम् स शैल वन काननाम् ।तत्र सीताम् च वैदेहीम् निलयम् रावणस्य च ॥४-४०-१९॥ मार्गध्वम् गिरि दुर्गेषु वनेषु च नदीषु च ।नदीम् भागीरथीम् रम्याम् सरयूम् कौशिकीम् तथा ॥४-४०-२०॥ कालिंदीम् यमुनाम् रम्याम् यामुनम् च महागिरिम् ।सरस्वतीम् च सिंधुम् च शोणम् मणि निभ उदकम् ॥४-४०-२१॥ महीम् कालमहीम् चैव शैल कानन शोभिताम् ।ब्रह्ममालान् विदेहान् च मालवान् काशि कोसलान् ॥४-४०-२२॥ मागधाम् च महाग्रामान् पुण्ड्रान् अंगाम् तथैव च ।भूमिम् च कोशकाराणाम् भूमिम् च रजत आकराम् ॥४-४०-२३॥ सर्वम् च तत् विचेतव्यम् मार्गयद्भिः ततः ततः ।रामस्य दयिताम् भार्याम् सीताम् दशरथः स्नुषाम् ॥४-४०-२४॥ समुद्रम् अवगाढान् च पर्वतान् पत्तनानि च ।मंदरस्य च ये कोटिम् संश्रिताः केचित् आलयाः ॥४-४०-२५॥ कर्ण प्रावरणाः चैव तथा च अपि ओष्ठ कर्णकाः ।घोर लोह मुखाः चैव जवनाः च एक पादकाः ॥४-४०-२६॥ अक्षया बलवंतः च तथैव पुरुष आदकाः ।किराताः तीक्ष्ण चूडाः च हेमाभाः प्रिय दर्शनाः ॥४-४०-२७॥ आम मीन अशनाः चापि किराता द्वीप वासिनः ।अंतर् जल चरा घोरा नरव्याघ्रा इति स्मृताः ॥४-४०-२८॥ एतेषाम् आश्रयाः सर्वे विचेयाः कानन ओकसः ।गिरिभिर् ये च गम्यन्ते प्लवनेन प्लवेन च ॥४-४०-२९॥ यत्नवन्तो यव द्वीपम् सप्त राज्य उपशोभितम् ।सुवर्ण रूप्यकम् द्वीपम् सुवर्ण आकर मण्डितम् ॥४-४०-३०॥ यव द्वीपम् अतिक्रम्य शिशिरो नाम पर्वतः ।दिवम् स्पृशति शृन्गेण देव दानव सेवितः ॥४-४०-३१॥ एतेषाम् गिरि दुर्गेषु प्रपातेषु वनेषु च ।मार्गध्वम् सहिताः सर्वे राम पत्नीम् यशस्विनीम् ॥४-४०-३२॥ ततो रक्त जलम् प्राप्य शोण आख्यम् शीघ्र वाहिनीम् ।गत्वा पारम् समुद्रस्य सिद्ध चारण सेवितम् ॥४-४०-३३॥ तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४०-३४॥ पर्वत प्रभवा नद्यः सुभीम बहु निष्कुटाः ।मार्गितव्या दरीमन्तः पर्वताः च वनानि च ॥४-४०-३५॥ ततः समुद्र द्वीपान् च सुभीमान् द्रष्टुम् अर्हथ ।ऊर्मिमंतम् महारौद्रम् क्रोशंतम् अनिल उद्धितम् ॥४-४०-३६॥ तत्र असुरा महाकायाः छायाम् गृह्णन्ति नित्यशः ।ब्रह्मणा समनुज्ञाता दीर्घ कालम् बुभुक्षिताः ॥४-४०-३७॥ तम् काल मेघ प्रतिमम् महोरग निषेवितम् ।अभिगम्य महानादम् तीर्थेन एव महोदधिम् ॥४-४०-३८॥ ततो रक्तजलम् भीमम् लोहितम् नाम सागरम् ।गत्वा प्रेक्ष्यथ ताम् चैव बृहतीम् कूटशाल्मलीम् ॥४-४०-३९॥ गृहम् च वैनतेयस्य नाना रत्न विभूषितम् ।तत्र कैलास संकाशम् विहितम् विश्वकर्मणा ॥४-४०-४०॥ तत्र शैल निभा भीमा मन्देहा नाम राक्षसाः ।शैल शृंगेषु लंबन्ते नाना रूपा भयावहाः ॥४-४०-४१॥ ते पतन्ति जले नित्यम् सूर्यस्य उदयनम् प्रति ।अभितप्ताः च सूर्येण लंबन्ते स्म पुनः पुनः ॥४-४०-४२॥ निहता ब्रह्म तेजोभिः अहनि अहनि राक्षसाः ।ततः पाण्डुर मेघाभम् क्षीरौदम् नाम सागरम् ॥४-४०-४३॥ गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ता हारम् इव ऊर्मिभिः ।तस्य मध्ये महा श्वेतो ऋषभो नाम पर्वतः ॥४-४०-४४॥ दिव्य गन्धैः कुसुमितै आचितैः च नगैः वृतः ।सरः च राजतैः पद्मैः ज्वलितैः हेम केसरैः ॥४-४०-४५॥ नाम्ना सुदर्शनम् नाम राजहंसैः समाकुलम् ।विबुधाः चारणा यक्षाः किन्नराः स अप्सरो गणाः ॥४-४०-४६॥ हृष्टाः समधिगच्छन्ति नलिनीम् ताम् रिरंसवः ।क्षीरोदम् समतिक्रम्य ततो द्रक्ष्यथ वानराः ॥४-४०-४७॥ जलोदम् सागरम् शीघ्रम् सर्व भूत भयावहम् ।तत्र तत् कोपजम् तेजः कृतम् हयमुखम् महत् ॥४-४०-४८॥ अस्य आहुः तन् महावेगम् ओदनम् स चराचरम् ।तत्र विक्रोशताम् नादो भूतानाम् सागर ओकसाम् ।श्रूयते च असमर्थानाम् दृष्ट्वा तत् वडवा मुखम् ॥४-४०-४९॥ स्वादु उदस्य उत्तरे देशे योजनानि त्रयोदश ।जातरूप शिलो नाम सुमहान् कनक प्रभः ॥४-४०-५०॥ तत्र चन्द्र प्रतीकाशम् पन्नगम् धरणी धरम् ।पद्म पत्र विशालाक्षम् ततो द्रक्ष्यध वानराः ॥४-४०-५१॥ आसीनम् पर्वतस्य अग्रे सर्व भूत नमस्कृतम् ।सहस्र शिरसम् देवम् अनंतम् नील वाससम् ॥४-४०-५२॥ त्रिशिराः कांचनः केतुः तालः तस्य महात्मनः ।स्थापितः पर्वतस्य अग्रे विराजति स वेदिकः ॥४-४०-५३॥ पूर्वस्याम् दिशि निर्माणम् कृतम् तत् त्रिदशेश्वरैः ।ततः परम् हेममयः श्रीमान् उदय पर्वतः ॥४-४०-५४॥ तस्य कोटिः दिवम् स्पृष्ट्वा शत योजनम् आयता ।जातरूपमयी दिव्या विराजति स वेदिका ॥४-४०-५५॥ सालैः तालैः तमालैः च कर्णिकारैः च पुष्पितैः ।जातरूपमयैः दिव्यैः शोभते सूर्य सन्निभैः ॥४-४०-५६॥ तत्र योजन विस्तारम् उच्छ्रितम् दश योजनम् ।शृंगम् सौमनसम् नाम जातरूपमयम् ध्रुवम् ॥४-४०-५७॥ तत्र पूर्वम् पदम् कृत्वा पुरा विष्णुः त्रिविक्रमे ।द्वितीयम् शिखरम् मेरोः चकार पुरुषोत्तमः ॥४-४०-५८॥ उत्तरेण परिक्रम्य जंबू द्वीपम् दिवाकरः ।दृश्यो भवति भूयिष्ठम् शिखरम् तन् महोच्छ्रयम् ॥४-४०-५९॥ तत्र वैखानसा नाम वालखिल्या महर्षयः ।प्रकाशमाना दृश्यन्ते सूर्य वर्णाः तपस्विनः ॥४-४०-६०॥ अयम् सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ।तस्मिन् तेजः च चक्षुः च सर्व प्राणभृताम् अपि ॥४-४०-६१॥ शैलस्य तस्य पृष्ठेषु कंदरेषु वनेषु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४०-६२॥ कांचनस्य च शैलस्य सूर्यस्य च महात्मनः ।आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते ॥४-४०-६३॥ पूर्वम् एतत् कृतम् द्वारम् पृथिव्या भुवनस्य च ।सूर्यस्य उदयनम् चैव पूर्वा हि एषा दिक् उच्यते ॥४-४०-६४॥ तस्य शलस्य पृष्ठेषु निर्झरेषु गुहासु च ।रावणः सह वैदेह्या मार्गतव्या ततः ततः ॥४-४०-६५॥ ततः परम् अगम्या स्यात् दिक् पूर्वा त्रिदश आवृता ।रहिता चन्द्र सूर्याभ्याम् अदृश्या तिमिर आवृता ॥४-४०-६६॥ शैलेषु तेषु सर्वेषु कंदरेषु वनेषु च ।ये च न उक्ता मयोद्देशा विचेया तेषु जानकी ॥४-४०-६७॥ एतावत् वानरैः शक्यम् गन्तुम् वानर पुंगवाः ।अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४०-६८॥ अभिगम्य तु वैदेहीम् निलयम् रावणस्य च ।मासे पूर्णे निवर्तध्वम् उदयम् प्राप्य पर्वतम् ॥४-४०-६९॥ ऊर्ध्वम् मासात् न वस्तव्यम् वसन् वध्यो भवेन् मम ।सिद्ध अर्थाः संनिवर्तध्वम् अधिगम्य च मैथिलीम् ॥४-४०-७०॥ महेन्द्र कांताम् वन षण्ड मण्डिताम्दिशम् चरित्वा निपुणेन वानराः ।अवाप्य सीताम् रघु वंशज प्रियाम्ततो निवृत्ताः सुखिनो भविष्यथ ॥४-४०-७१॥ ततः प्रस्थाप्य सुग्रीवः तन् महत् वानरम् बलम् ।दक्षिणाम् प्रेषयामास वानरान् अभिलक्षितान् ॥४-४१-१॥ नीलम् अग्नि सुतम् चैव हनूमन्तम् च वानरम् ।पितामह सुतम् चैव जांबवंतम् महोजसम् ॥४-४१-२॥ सुहोत्रम् च शरारिम् च शरगुल्मम् तथा एव च ।गजम् गवाक्षम् गवयम् सुषेणम् वृषभम् तथा ॥४-४१-३॥ मैन्दम् च द्विविदम् चैव सुषेणम् गन्धमादनम् ।उल्कामुखम् अनंगम् च हुतशन सुतौ उभौ ॥४-४१-४॥ अंगद प्रमुखान् वीरान् वीरः कपि गण ईश्वरः ।वेग विक्रम संपन्नान् संदिदेश विशेषवित् ॥४-४१-५॥ तेषाम् अग्रेसरम् चैव बृहद् बलम् अथ अंगदम् ।विधाय हरि वीराणाम् आदिशद् दक्षिणाम् दिशम् ॥४-४१-६॥ ये केचन समुद्देशाः तस्याम् दिशि सुदुर्गमाः ।कपीइशः कपि मुख्यानाम् स तेषाम् समुदाहरत् ॥४-४१-७॥ सहस्र शिरसम् विंध्यम् नाना द्रुम लता आयुतम् ।नर्मदाम् च नदीम् रम्याम् महोरग निषेविताम् ॥४-४१-८॥ ततो गोदावरीम् रम्याम् कृष्णावेणीम् महानदीम् ।वरदाम् च महाभागाम् महोरग निषेविताम् ।मेखलान् उत्कलाम् चैव दशार्ण नगराणि अपि ॥४-४१-९॥ अब्रवंतीम् अवंतीम् च सर्वम् एव अनुपश्यत ।विदर्भान् ऋष्टिकान् चैव रम्यान् माहिषकान् अपि ॥४-४१-१०॥ तथा वन्गान् कलिन्गाम् च कौशिकान् च समंततः ।अन्वीक्ष्य दण्डक अरण्यम् स पर्वत नदी गुहम् ॥४-४१-११॥ नदीम् गोदावरीम् चैव सर्वम् एव अनुपश्यत ।तथैव आन्ध्रान् च पुण्ड्रान् च चोलान् पाण्ड्यान् केरलान् ॥४-४१-१२॥ अयोमुखः च गंतव्यः पर्वतो धातु मण्डितः ।विचित्र शिखरः श्रीमान् चित्र पुष्पित काननः ॥४-४१-१३॥ सुचंदन वनोद्देशो मार्गितव्यो महागिरिः ।ततः ताम् आपगाम् दिव्याम् प्रसन्न सलिलाशयान् ॥४-४१-१४॥ तत्र द्रक्ष्यथ कावेरीम् विहृताम् अप्सरो गणैः ।तस्य आसीनम् नगस्य अग्रे मलयस्य महोजसम् ॥४-४१-१५॥ द्रक्ष्यथ आदित्य संकाशम् अगस्त्यम् ऋषि सत्तमम् ।ततः तेन अभ्यनुज्ञाताः प्रसन्नेन महात्मना ॥४-४१-१६॥ ताम्रपर्णीम् ग्राह जुष्टाम् तरिष्यथ महानदीम् ।सा चन्दन वनैः चित्रैः प्रच्छन्ना द्वीप वारिणी ॥४-४१-१७॥ कान्ता इव युवती कान्तम् समुद्रम् अवगाहते ।ततो हेममयम् दिव्यम् मुक्ता मणि विभूषितम् ॥४-४१-१८॥ युक्तम् कवाटम् पाण्ड्यानाम् गता द्रक्ष्यथ वानराः ।ततः समुद्रम् आसाद्य संप्रधार्य अर्थ निश्चयम् ॥४-४१-१९॥ अगस्त्येन अन्तरे तत्र सागरे विनिवेशितः ।चित्र सानु नगः श्रीमान् महेन्द्रः पर्वतोत्तमः ॥४-४१-२०॥ जात रूपमयः श्रीमान् अवगाढो महार्णवम् ।नाना विधैः नगैः फुल्लैः लताभिः च उपशोभितम् ॥४-४१-२१॥ देव ऋषि यक्ष प्रवरैः अप्सरोभिः च सेवितम् ।सिद्ध चारण संघैः च प्रकीर्णम् सुमनोहरम् ॥४-४१-२२॥ तम् उपैति सहस्राक्षः सदा पर्वसु पर्वसु ।द्वीपः तस्य अपरे पारे शत योजन विसृतः ॥४-४१-२३॥ अगम्यो मानुषैः दीप्तः तम् मार्गध्वम् समंततः ।तत्र सर्व आत्मना सीता मार्गितव्या विशेषतः ॥४-४१-२४॥ स हि देशः तु वध्यस्य रावणस्य दुरात्मनः ।राक्षस अधिपतेः वासः सहस्राक्ष समद्युतेः ॥४-४१-२५॥ दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।अंगारक इति विख्याता चायाम् आक्षिप्य भोजिनी ॥४-४१-२६॥ एवम् निःसंशयान् कृत्वा संशयान् नष्ट संशयाः ।मृगयध्वम् नरेन्द्रस्य पत्नीम् अमित ओजसः ॥४-४१-२७॥ तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शत योजने ।गिरिः पुष्पितको नाम सिद्ध चारण सेवितः ॥४-४१-२८॥ चन्द्र सूर्य अंशु संकाशः सागर अंबु समाश्रयः ।भ्राजते विपुलैः शृन्गैः अम्बरम् विलिखन् इव ॥४-४१-२९॥ तस्य एकम् कांचनम् शृंगम् सेवते यम् दिवाकरः ।श्वेतम् राजतम् एकम् च सेवते यम् निशाकरः ।न तम् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥४-४१-३०॥ प्रणम्य शिरसा शैलम् तम् विमार्गथ वानराः ।तम् अतिक्रम्य दुर्धर्षम् सूर्यवान् नाम पर्वतः ॥४-४१-३१॥ अध्वना दुर्विगाहेन योजनानि चतुर्दश ।ततः तम् अपि अतिक्रम्य वैद्युतो नाम पर्वतः ॥४-४१-३२॥ सर्व काम फलैः वृक्षैः सर्व काल मनोहरैः ।तत्र भुक्त्वा वर अर्हाणि मूलानि च फलानि च ॥४-४१-३३॥ मधूनि पीत्वा जुष्टानि परम् गच्छत वानराः ।तत्र नेत्र मनः कांतः कुंजरो नाम पर्वतः ॥४-४१-३४॥ अगस्त्य भवनम् यत्र निर्मितम् विश्वकर्मणा ।तत्र योजन विस्तारम् उच्छ्रितम् दश योजनम् ॥४-४१-३५॥ शरणम् कांचनम् दिव्यम् नाना रत्न विभूषितम् ।तत्र भोगवती नाम सर्पाणाम् आलयः पुरी ॥४-४१-३६॥ विशाल रथ्या दुर्धर्षा सर्वतः परिरक्षिता ।रक्षिता पन्नगैः घोरैः तीष्क्ण दम्ष्ट्रैः महा विषैः ॥४-४१-३७॥ सर्प राजो महाघोरो यस्याम् वसति वासुकिः ।निर्याय मार्गितव्या च सा च भोगवती पुरी ॥४-४१-३८॥ तत्र च अंतरोद्देशा ये केचन समावृताः ।तम् च देशम् अतिक्रम्य महान् ऋषभ संस्थितिः ॥४-४१-३९॥ सर्व रत्नमयः श्रीमान् ऋषभो नाम पर्वतः ।गोशीर्षकम् पद्मकम् च हरिश्यामम् च चन्दनम् ॥४-४१-४०॥ दिव्यम् उत्पद्यते यत्र तत् चैव अग्नि सम प्रभम् ।न तु तत् चन्दनम् दृष्ट्वा स्प्रष्टव्यम् च कदाचन ॥४-४१-४१॥ रोहिता नाम गंधर्वा घोरम् रक्षन्ति तद् वनम् ।तत्र गंधर्व पतयः पंच सूर्य सम प्रभाः ॥४-४१-४२॥ शैलूषो ग्रामणीः शिक्षः शुको बभ्रुः तथैव च ।रवि सोम अग्नि वपुषा निवासः पुण्य कर्मणाम् ॥४-४१-४३॥ अन्ते पृथिव्या दुर्धर्षाः ततः स्वर्ग जितः स्थिताः ।ततः परम् न वः सेव्यः पितृ लोकः सुदारुणः ॥४-४१-४४॥ राजधानी यमस्य एषा कष्टेन तमसा आवृता ।एतावत् एव युष्माभिः वीरा वानर पुंगवाः ।शक्यम् विचेतुम् गन्तुम् वा न अतो गतिमताम् गतिः ॥४-४१-४५॥ सर्वम् एतत् समालोक्य यत् च अन्यत् अपि दृश्यते ।गतिम् विदित्वा वैदेह्याः संनिवर्तितम् अर्हथ ॥४-४१-४६॥ यः च मासान् निवृत्तो अग्रे दृष्टा सीत इति वक्ष्यति ।मत् तुल्य विभवो भोगैः सुखम् स विहरिष्यति ॥४-४१-४७॥ ततः प्रियतरो न अस्ति मम प्राणात् विशेषतः ।कृत अपराधो बहुशो मम बन्धुः भविष्यति ॥४-४१-४८॥ अमित बल पराक्रमा भवन्तोविपुल गुणेषु कुलेषु च प्रसूताः ।मनुज पति सुताम् यथा लभध्वम्तत् अधिगुणम् पुरुषार्थम् आरभध्वम् ॥४-४१-४९॥ ततः प्रस्थाप्य सुग्रीवः तान् हरीन् दक्षिणाम् दिशम् ।अब्रवित् मेघ संकाशम् सुशेषणम् नाम वानरम् ॥४-४२-१॥ तारायाः पितरम् राजा श्वशुरम् भीम विक्रमम् ।अब्रवीत् प्रांजलिः वाक्यम् अभिगम्य प्रणम्य च ॥४-४२-२॥ महर्षि पुत्रम् मारीचम् अर्चिष्मन्तम् महाकपिम् ।वृ^इतम् कपिवरैः शूरैः महेन्द्र सदृ^इश द्युतिम् ॥४-४२-३॥ बुद्धि विक्रम सम्पन्नान् वैनतेय सम द्युतिम् ।मरीचि पुत्रान् मारीचान् अर्चिर्माल्यान् महबलान् ॥४-४२-४॥ ऋषि पुत्रान् च तान् सर्वान् प्रतीचीम् आदिशत् दिशम् ।द्वाभ्याम् शत सहस्राभ्याम् कपीनाम् कपि सत्तमाः ॥४-४२-५॥ सुशेषण प्रमुखा यूयम् वैदेहीम् परिमार्गथ ।सौराष्ट्रान् सह बाह्लीकान् चंद्रचित्रान् तथैव च ॥४-४२-६॥ स्फीतान् जन पदान् रम्यान् विपुलानि पुराणि च ।पुंनाग गहनम् कुक्षिम् वकुल उद्दालक आकुलम् ॥४-४२-७॥ तथा केतक खंडान् च मार्गध्वम् हरि पुंगवाः ।प्रत्यक् स्रोतो वहाः चैव नद्यः शीतजलाः शिवाः ॥४-४२-८॥ तापसानाम् अरण्यानि कांतारा गिरयः च ये ।तत्र स्थलीः मरुप्राया अति उच्च शिखराः शिलाः ॥४-४२-९॥ गिरि जाल आवृताम् दुर्गाम् मार्गित्वा पश्चिमाम् दिशम् ।ततः पश्चिमम् आगम्य समुद्रम् द्रष्टुम् अर्हथ ॥४-४२-१०॥ तिमि नक्र आकुल जलम् गत्वा द्रक्ष्यथ वानराः ।ततः केतक खंडेषु तमाल गहनेषु च ॥४-४२-११॥ कपयो विहरिष्यन्ति नारिकेल वनेषु च ।तत्र सीताम् च मार्गध्वम् निलयम् रावणस्य च ॥४-४२-१२॥ वेलातल निवेष्टेषु पर्वतेषु वनेषु च ।मुरची पत्तनम् चैव रम्यम् चैव जटा पुरम् ॥४-४२-१३॥ अवंतीम् अंगलेपाम् च तथा च अलक्षितम् वनम् ।राष्ट्राणि च विशालानि पत्तनानि ततः ततः ॥४-४२-१४॥ सिंधु सागरयोः चैव संगमे तत्र पर्वतः ।महान् हेम गिरिः नाम शत शृंगो महाद्रुमः ॥४-४२-१५॥ तत्र प्रस्थेषु रम्येषु सिंहाः पक्ष गमाः स्थिताः ।तिमि मत्स्य गजाम्ब् चैव नीडानि आरोपयन्ति ते ॥४-४२-१६॥ तानि नीडानि सिंहानाम् गिरि शृंग गताः च ये ।दृप्ताः तृप्ताः च मातंगाः तोयद स्वन निःस्वनाः ॥४-४२-१७॥ विचरन्ति विशाले अस्मिन् तोय पूर्णे समन्ततः ।तस्य शृंगम् दिव स्पर्शम् कांचनम् चित्र पादपम् ॥४-४२-१८॥ सर्वम् आशु विचेतव्यम् कपिभिः काम रूपिभिः ।कोटिम् तत्र समुद्रे तु कांचनीम् शत योजनम् ॥४-४२-१९॥ दुर्दर्शाम् पारियात्रस्य गता द्रक्ष्यथ वानराः ।कोट्यः तत्र चतुर्विम्शत् गंधर्वाणाम् तरस्विनाम् ॥४-४२-२०॥ वसन्ति अग्नि निकाशानाम् घोराणाम् काम रूपिणाम् ।पावक अर्चिः प्रतीकाशाः समवेताः समन्ततः ॥४-४२-२१॥ न अति आसादयित्वाः ते वानरैः भीम विक्रमैः ।न अदेयम् च फलम् तस्मात् देशात् किम्चित् प्लवंगमैः ॥४-४२-२२॥ दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ।फल मूलानि ते तत्र रक्षन्ते भीम विक्रमाः ॥४-४२-२३॥ तत्र यत्नः च कर्तव्यो मार्गितव्या च जानकी ।न हि तेभ्यो भयम् किंचित् कपित्वम् अनुवर्तताम् ॥४-४२-२४॥ तत्र वैदूर्य वर्णाभो वज्र संस्थान संस्थितः ।नाना द्रुम लता आकीर्णो वज्रः नाम महागिरिः ॥४-४२-२५॥ श्रीमान् समुदितः तत्र योजनानाम् शतम् समम् ।गुहाः तत्र विचेतव्याः प्रयत्नेन प्लवंगमाः ॥४-४२-२६॥ चतुर् भागे समुद्रस्य चक्रवान् नाम पर्वतः ।तत्र चक्रम् सहस्रारम् निर्मितम् विश्वकर्मणा ॥४-४२-२७॥ तत्र पंचजनम् हत्वा हयग्रीवम् च दानवम् ।आजहार ततः चक्रम् शंखम् च पुरुषोत्तमः ॥४-४२-२८॥ तस्य सानुषु रम्येषु विशालासु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-२९॥ योजनानि चतुः षष्टिः वराहो नाम पर्वतः ।सुवर्ण शृंगः सुमहान् अगाधे वरुण आलये ॥४-४२-३०॥ तत्र प्राक् ज्योतिषम् नाम जातरूपमयम् पुरम् ।यस्मिन् वसति दुष्ट आत्मा नरको नाम दानवः ॥४-४२-३१॥ तत्र सानुषु रम्येषु विशालासु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-३२॥ तम् अतिक्रम्य शैलेन्द्रम् कांचनान् अन्तर दर्शनम् ।पर्वतः सर्व सौवर्णो धारा प्रस्रवण आयुतः ॥४-४२-३३॥ तम् गजाः च वराहाः च सिंहा व्याघ्राः च सर्वतः ।अभिगर्जन्ति सततम् तेन शब्देन दर्पिताः ॥४-४२-३४॥ यस्मिन् हरि हयः श्रीमान् महेन्द्रः पाकशासनः ।अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः ॥४-४२-३५॥ तम् अतिक्रम्य शैलेन्द्रम् महेन्द्र परिपालितम् ।षष्टिम् गिरि सहस्राणि कांचनानि गमिष्यथ ॥४-४२-३६॥ तरुण आदित्य वर्णानि भ्राजमानानि सर्वतः ।जातरूपमयैः वृक्षैः शोभितानि सुपुष्पितैः ॥४-४२-३७॥ तेषाम् मध्ये स्थितो राजा मेरुः उत्तम पर्वतः ।आदित्येन प्रसन्नेन शैलो दत्त वरः पुरा ॥४-४२-३८॥ तेन एवम् उक्तः शैलेन्द्रः सर्व एव त्वत् आश्रयाः ।मत् प्रसादात् भविष्यन्ति दिवा रात्रौ च कांचनाः ॥४-४२-३९॥ त्वयि ये च अपि वत्स्यन्ति देव गन्धर्व दानवाः ।ते भविष्यन्ति भक्ताः च प्रभया कांचन प्रभाः ॥४-४२-४०॥ विश्वेदेवाः च वसवो मरुतः च दिव ओकसः ।आगत्य पश्चिमाम् संध्याम् मेरुम् उत्तम पर्वतम् ॥४-४२-४१॥ आदित्यम् उपतिष्ठन्ति तैः च सूर्यो अभिपूजितः ।अदृश्यः सर्व भूतानाम् अस्तम् गच्छति पर्वतम् ॥४-४२-४२॥ योजनानाम् सहस्राणि दश तानि दिवाकरः ।मुहूर्त अर्धेन तम् शीघ्रम् अभियाति शिल उच्चयम् ॥४-४२-४३॥ शृंगे तस्य महत् दिव्यम् भवनम् सूर्य संनिभम् ।प्रासाद गण संबाधम् विहितम् विश्वकर्मणा ॥४-४२-४४॥ शोभितम् तरुभिः चित्रैः नाना पक्षि समाकुलैः ।निकेतम् पाश हस्तस्य वरुणस्य महात्मनः ॥४-४२-४५॥ अन्तरा मेरुम् अस्तम् च तालो दश शिरा महान् ।जातरूपमयः श्रीमान् भ्राजते चित्र वेदिकः ॥४-४२-४६॥ तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-४७॥ यत्र तिष्ठति धर्मज्ञः तपसा स्वेन भावितः ।मेरु सावर्णिर् इति एष ख्यातो वै ब्रह्मणा समः ॥४-४२-४८॥ प्रष्टव्यो मेरुसावर्णिः महर्षिः सूर्य संनिभः ।प्रणम्य शिरसा भूमौ प्रवृत्तिम् मैथिलीम् प्रति ॥४-४२-४९॥ एतावत् जीव लोकस्य भास्करो रजनी क्षये ।कृत्वा वितिमिरम् सर्वम् अस्तम् गच्छति पर्वतम् ॥४-४२-५०॥ एतावत् वानरैः शक्यम् गन्तुम् वानर पुंगवाः ।अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४२-५१॥ अवगम्य तु वैदेहीम् निलयम् रावणस्य च ।अस्तम् पर्वतम् आसाद्य पूर्णे मासे निवर्तत ॥४-४२-५२॥ ऊर्ध्वम् मासान् न वस्तव्यम् वसन् वध्यो भवेन् मम ।सह एव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥४-४२-५३॥ श्रोतव्यम् सर्वम् एतस्य भवद्भिः दिष्ट कारिभिः ।गुरुः एष महाबाहुः श्वशुरो मे महाबलः ॥४-४२-५४॥ भवन्तः च अपि विक्रान्ताः प्रमाणम् सर्वे एव हि ।प्रमाणम् एनम् संस्थाप्य पश्यध्वम् पश्चिमाम् दिशम् ॥४-४२-५५॥ दृष्टायाम् तु नरेन्द्रस्या पत्न्याम् अमित तेजसः ।कृत कृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥४-४२-५६॥ अतो अन्यत् अपि यत् कार्यम् कार्यस्य अस्य प्रियम् भवेत् ।संप्रधार्य भवद्भिः च देश काल अर्थ संहितम् ॥४-४२-५७॥ ततः सुषेण प्रमुखाः प्लवंगमाःसुग्रीव वाक्यम् निपुणम् निशम्य ।आमंत्र्य सर्वे प्लवगाधिपम् तेजग्मुर् दिशम् ताम् वरुण अभिगुप्ताम् ॥४-४२-५८॥ ततः संदिश्य सुग्रीवः श्वशुरम् पश्चिमाम् दिशम् ।वीरम् शतबलिम् नाम वानरम् वानररेश्वर ॥४-४३-१॥ उवाच राजा सर्वज्ञः सर्व वानर सत्तम ।वाक्यम् आत्म हितम् चैव रामस्य च हितम् तदा ॥४-४३-२॥ वृतः शत सहस्रेण त्वत् विधानाम् वन ओकसाम् ।वैवस्वत सुतैः सार्धम् प्रविष्ठ सर्व मंत्रिभिः ॥४-४३-३॥ दिशम् हि उदीचीम् विक्रान्त हिम शैल अवतंसिकाम् ।सर्वतः परिमार्गध्वम् राम पत्नीम् यशस्विनीम् ॥४-४३-४॥ अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये ।ऋणान् मुक्ता भविष्यामः कृत अर्था अर्थविदाम् वराः ॥४-४३-५॥ कृतम् हि प्रियम् अस्माकम् राघवेण महात्मना ।तस्य चेत् प्रतिकारो अस्ति सफलम् जीवितम् भवेत् ॥४-४३-६॥ अर्थिनः कार्य निर्वृत्तिम् अकर्तुम् अपि यः चरेत् ।तस्य स्यात् सफलम् जन्म किम् पुनः पूर्व कारिणः ॥४-४३-७॥ एताम् बुद्धिम् समास्थाय दृश्यते जानकी यथा ।तथा भवद्भिः कर्तव्यम् अस्मत् प्रिय हित एषिभिः ॥४-४३-८॥ अयम् हि सर्व भूतानाम् मान्यः तु नर सत्तमः ।अस्मासु च गतः प्रीतिम् रामः पर पुरम् जयः ॥४-४३-९॥ इमानि बहु दुर्गाणि नद्यः शैल अंतराणि च ।भवन्तः परिमार्गन्तु बुद्धि विक्रम संपदा ॥४-४३-१०॥ तत्र म्लेच्छान् पुलिन्दान् च शूरसेनान् तथैव च ।प्रस्थालान् भरतान् चैव कुरूम् च सह मद्रकैः ॥४-४३-११॥ कांबोज यवनान् चैव शकान् पत्तनानि च ।अन्वीक्ष्य दरदान् चैव हिमवन्तम् विचिन्वथ ॥४-४३-१२॥ लोध्र पद्मक खण्डेषु देवदारु वनेषु च ।रावणः सह वैदेह्या मार्गितव्या ततः ततः ॥४-४३-१३॥ ततः सोम आश्रमम् गत्वा देव गन्धर्व सेवितम् ।कालम् नाम महासानुम् पर्वतम् तम् गमिष्यथ ॥४-४३-१४॥ महत्सु तस्य शैलेषु पर्वतेषु गुहासु च ।विचिन्वत महाभागाम् राम पत्नीम् अनिन्दिताम् ॥४-४३-१५॥ तम् अतिक्रम्य शैलेन्द्रम् हेम गर्भम् महागिरिम् ।ततः सुदर्शनम् नाम पर्वतम् गन्तुम् अर्हथ ॥४-४३-१६॥ ततो देवसखो नाम पर्वतः पतग आलय ।नाना पक्षि समाकीर्णो विविध द्रुम भूषितः ॥४-४३-१७॥ तस्य कानन खण्डेषु निर्झरेषु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४३-१८॥ तम् अतिक्रम्य च आकाशम् सर्वतः शत योजनम् ।अपर्वत नदी वृक्षम् सर्व सत्त्व विवर्जितम् ॥४-४३-१९॥ तत् तु शीघ्रम् अतिक्रम्य कांतारम् रोम हर्षणम् ।कैलासम् पाण्डुरम् प्राप्य हृष्टा यूयम् भविष्यथ ॥४-४३-२०॥ तत्र पाण्डुर मेघाभम् जाम्बूनद परिष्कृतम् ।कुबेर भवनम् रम्यम् निर्मितम् विश्वकर्मणा ॥४-४३-२१॥ विशाला नलिनी यत्र प्रभूत कमलोत्पला ।हंस कारण्डव आकीर्णा अप्सरो गण सेविता ॥४-४३-२२॥ तत्र वैश्रवणो राजा सर्व भूत नमस्कृतः ।धनदो रमते श्रीमान् गुह्यकैः सह यक्ष राट् ॥४-४३-२३॥ तस्य चन्द्र निकशेषु पर्वतेषु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४३-२४॥ क्रौन्चम् तु गिरिम् आसाद्य बिलम् तस्य सुदुर्गमम् ।अप्रमत्तैः प्रवेष्टव्यम् दुष्प्रवेशम् हि तत् स्मृतम् ॥४-४३-२५॥ वसन्ति हि महात्मानः तत्र सूर्य सम प्रभाः ।देवैः अभ्यर्थिताः सम्यक् देव रूपा महर्षयः ॥४-४३-२६॥ क्रौन्चस्य तु गुहाः च अन्याः सानूनि शिखराणि च ।निर्दराः च नितंबाः च विचेतव्याः ततः ततः ॥४-४३-२७॥ अवृक्षम् काम शैलम् च मानसम् विहग आलयम् ।न गतिः तत्र भूतानाम् देवानाम् न च रक्षसाम् ॥४-४३-२८॥ स च सर्वैः विचेतव्यः स सानु प्रस्थ भूधरः ।क्रौन्चम् गिरिम् अतिक्रम्य मैनाको नाम पर्वतः ॥४-४३-२९॥ मयस्य भवनम् तत्र दानवस्य स्वयम् कृतम् ।मैनाकः तु विचेतव्यः स सानु प्रस्थ कंदरः ॥४-४३-३०॥ स्त्रीणाम् अश्व मुखीनाम् च निकेताः तत्र तत्र तु ।तम् देशम् समतिक्रम्य आश्रमम् सिद्ध सेवितम् ॥४-४३-३१॥ सिद्धा वैखानसाः तत्र वालखिल्याः च तापसाः ।वन्दितव्याः ततः सिद्धाः तापसा वीत कल्मषाः ॥४-४३-३२॥ प्रष्टव्याः च अपि सीतायाः प्रवृत्तिम् विनय अन्वितैः ।हेम पुष्कर संछन्नम् तत्र वैखानसम् सरः ॥४-४३-३३॥ तरुण आदित्य संकाशैः हंसैः विचरितम् शुभैः ।औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः ॥४-४३-३४॥ गजः पर्येति तम् देशम् सदा सह करेणुभिः ।तत् सारः समतिक्रम्य नष्ट चन्द्र दिवाकरम् ।अनक्षत्र गणम् व्योम निष्पयोदम् अनाअदितम् ॥४-४३-३५॥ गभस्तिभिः इव अर्कस्य स तु देशः प्रकाशते ।विश्राम्यद्भिः तपः सिद्धैः देव कल्पैः स्वयंप्रभैः ॥४-४३-३६॥ तम् तु देशम् अतिक्रम्य शैलोदा नाम निम्नगा ।उभयोः तीरयोः तस्याः कीचका नाम वेणवः ॥४-४३-३७॥ ते नयंति परम् तीरम् सिद्धान् प्रत्यानयन्ति च ।उत्तराः कुरवः तत्र कृत पुण्य प्रतिश्रियाः ॥४-४३-३८॥ ततः कांचन पद्माभिः पद्मिनीभिः कृतोदकाः ।नील वैदूर्य पत्राढ्या नद्यः तत्र सहस्रशः ॥४-४३-३९॥ रक्तोत्पल वनैः च अत्र मण्डिताः च हिरण्मयैः ।तरुण आदित्य संकाशा भान्ति तत्र जलाशयाः ॥४-४३-४०॥ महाअर्ह मणि पत्रैः च कांचन प्रभ केसरैः ।नीलोत्पल वनैः चित्रैः स देशः सर्वतो वृतः ॥४-४३-४१॥ निस्तुलाभिः च मुक्ताभिः मणिभिः च महाधनैः ।उद्भूत पुलिनाः तत्र जातरूपैः च निम्नगाः ॥४-४३-४२॥ सर्व रत्नमयैः चित्रैः अवगाढा नगोत्तमैः ।जातरूपमयैः च अपि हुताशन सम प्रभैः ॥४-४३-४३॥ नित्य पुष्प फलाः तत्र नगाः पत्ररथ आकुलाः ।दिव्य गन्ध रस स्पर्शाः सर्व कामान् स्रवन्ति च ॥४-४३-४४॥ नाना आकाराणि वासांसि फलन्ति अन्ये नगोत्तमाः ।मुक्ता वैदूर्य चित्राणि भूषणानि तथैव च ।स्त्रीणाम् यानि अनुरूपाणि पुरुषाणाम् तथैव च ॥४-४३-४५॥ सर्व ऋतु सुख सेव्यानि फलन्ति अन्ये नगोत्तमाः ।महा अर्हाणि मणि चित्राणि फलन्ति अन्ये नगोत्तमाः ॥४-४३-४६॥ शयनानि प्रसूयन्ते चित्र आस्तारणवन्ति च ।मनः कान्तानि माल्यानि फलन्ति अत्र अपरे द्रुमाः ॥४-४३-४७॥ पानानि च महा अर्हाणि भक्ष्याणि विविधानि च ।स्त्रियः च गुण संपन्ना रूप यौवन लक्षिताः ॥४-४३-४८॥ गन्धर्वाः किंनरा सिद्धा नागा विद्याधराः तथा ।रमन्ते सहिताः तत्र नारीभिः भास्वर प्रभाः ॥४-४३-४९॥ सर्वे सुकृत कर्माणः सर्वे रति परायणाः ।सर्वे काम अर्थ सहिता वसंति सह योषितः ॥४-४३-५०॥ गीत वादित्र निर्घोषः स उत्कृष्ट हसित स्वनः ।श्रूयते सततम् तत्र सर्व भूत मनोरमः ॥४-४३-५१॥ तत्र न अमुदितः कश्चिन् न अत्र कश्चित् असत् प्रियः ।अहनि अहनि वर्धन्ते गुणाः तत्र मनोरमाः ॥४-४३-५२॥ तम् अतिक्रम्य शैलेन्द्रम् उत्तरः पय्साम् निधिः ।तत्र सोम गिरिर् नाम मध्ये हेममयो महान् ॥४-४३-५३॥ इन्द्र लोक गता ये च ब्रह्म लोक गताः च ये ।देवाः तम् समवेक्षन्ते गिरि राजम् दिवम् गताः ॥४-४३-५४॥ स तु देशो विसूर्यो अपि तस्य भासा प्रकाशते ।सूर्य लक्ष्म्या अभिविज्ञेयः तपता इव विवस्वता ॥४-४३-५५॥ भगवान् तत्र विश्वात्मा शम्भुः एकादश आत्मकः ।ब्रह्मा वसति देवेशो ब्रह्म ऋषि परिवारितः ॥४-४३-५६॥ न कथंचन गंतव्यम् कुरूणाम् उत्तरेण वः ।अन्येषाम् अपि भूतानाम् न अनुक्रामति वै गतिः ॥४-४३-५७॥ सा हि सोम गिरिः नाम देवानाम् अपि दुर्गमः ।तम् आलोक्य ततः क्षिप्रम् उपावर्तितुम् अर्हथ ॥४-४३-५८॥ एतावत् वानरैः शक्यम् गंतुम् वानर पुंगवाः ।अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४३-५९॥ सर्वम् एतत् विचेतव्यम् यन् मया परिकीर्तितम् ।यत् अन्यत् अपि न उक्तम् च तत्र अपि क्रियताम् मतिः ॥४-४३-६०॥ ततः कृतम् दाशरथेः महत् प्रियम्महत्तरम् च अपि ततो मम प्रियम् ।कृतम् भविष्यति अनिलोअनलोउपमाविदेहजा दर्शनजेन कर्मणा ॥४-४३-६१॥ ततः कृतार्थाः सहिताः सबान्धवामया अर्चिताः सर्व गुणैः मनो रमैः ।चरिष्यथ उर्वीम् प्रतिशान्त शत्रवाअःसह प्रिया भूत धराः प्लवंगमाः ॥४-४३-६२॥ विशेषेण तु सुग्रीवो हनूमति अर्थम् उक्तवान् ।स हि तस्मिन् हरि श्रेष्ठे निश्चितार्थो अर्थ साधने ॥४-४४-१॥ अब्रवीत् च हनूमंतम् विक्रंतम् अनिल आत्मजम् ।सुग्रीवः परम प्रीतः प्रभुः सर्व वन ओकसाम् ॥४-४४-२॥ न भूमौ न अंतरिक्षे वा न अंबरे न अमर आलये ।न अप्सु वा गति संगम् ते पश्यामि हरि पुम्गव ॥४-४४-३॥ स असुराः सह गंधर्वाः स नाग नर देवताः ।विदिताः सर्व लोकाः ते स सागर धरा धराः ॥४-४४-४॥ गतिः वेगः च तेजः च लाघवम् च महाकपे ।पितुः ते सदृशम् वीर मारुतस्य महा ओजसः ॥४-४४-५॥ तेजसा वा अपि ते भूतम् न समम् भुवि विद्यते ।तत् यथा लभ्यते सीता तत् त्वम् एव अनुचिंतय ॥४-४४-६॥ त्वयि एव हनुमन् अस्ति बलम् बुद्धिः पराक्रमः ।देश काल अनुवृत्तिः च नयः च नय पण्डित ॥४-४४-७॥ ततः कार्य समासंगम् अवगम्य हनूमति ।विदित्वा हनुमन्तम् च चिन्तयामास राघवः ॥४-४४-८॥ सर्वथा निश्चित अर्थो अयम् हनूमति हरि ईश्वरः ।निश्चित अर्थतरः च अपि हनूमान् कार्य साधने ॥४-४४-९॥ तत् एवम् प्रस्थितस्य अस्य परिज्ञातस्य कर्मभिः ।भर्त्रा परिगृहीतस्य ध्रुवः कार्य फलोदयः ॥४-४४-१०॥ तम् समीक्ष्य महातेजा व्यवसायोत्तरम् हरिम् ।कृतार्थ इव संहृष्टः प्रहृष्ट इन्द्रिय मानसः ॥४-४४-११॥ ददौ तस्य ततः प्रीतः स्व नामांक उपशोभितम् ।अंगुलीयम् अभिज्ञानम् राजपुत्र्याः परंतपः ॥४-४४-१२॥ अनेन त्वाम् हरिश्रेष्ठ चिह्नेन जनकाअत्मजा ।मत् सकाशात् अनुप्राप्तम् अनुद्विग्ना अनुपश्यति ॥४-४४-१३॥ व्यवसायः च ते वीर सत्त्व युक्तः च विक्रमः ।सुग्रीवस्य च संदेशः सिद्धिम् कथयति इव मे ॥४-४४-१४॥ स तत् गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृतांजलिः ।वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः ॥४-४४-१५॥ स तत् प्रकर्षन् हरिणाम् महत् बलम्बभूव वीरः पवनात्मजः कपिः ।गत अंबुदे व्योम्नि विशुद्ध मण्डलःशशी इव नक्षत्र गणोपशोभितः ॥४-४४-१६॥ अतिबल बलम् आश्रितः तव अहम्हरि वर विक्रम विक्रमैः अनल्पैः ।पवन सुत यथा अधिगम्यते साजनक सुता हनुमन् तथा कुरुष्व ॥४-४४-१७॥ सर्वाः च आहूय सुग्रीवः प्लवगान् प्लवगर्षभः ।समस्तान् च अब्रवीत् राजा राम कार्यार्थ सिद्धये ॥४-४५-१॥ एवम् एतत् विचेतव्यम् भवद्भिः वानरोत्तमैः ।तत् उग्र शासनम् भर्तुर् विज्ञाय हरि पुंगवाः ॥४-४५-२॥ शलभा इव संछाद्य मेदिनीम् संप्रतस्थिरे ।रामः प्रस्रवणे तस्मिन् न्यवसत् सह लक्ष्मणः ॥४-४५-३॥ प्रतीक्षमाणः तम् मासम् यः सीता अधिगमे कृतः ।उत्तराम् तु दिशम् रम्याम् गिरि राज समावृताम् ॥४-४५-४॥ प्रतस्थे सहसा वीरो हरिः शतबलिः तदा ।पूर्वाम् दिशम् प्रति ययौ विनतो हरि यूथपः ॥४-४५-५॥ तारा अंगदादि सहितः प्लवगः पवनात्मजः ।अगस्त्य चरिताम् आशाम् दक्षिणाम् हरि यूथपः ॥४-४५-६॥ पश्चिमाम् तु दिशम् घोराम् सुषेणः प्लवगेश्वरः ।प्रतस्थे हरि शार्दूलो दिशम् वरुण पालिताम् ॥४-४५-७॥ ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् ।कपि सेना पतीन् वीरो मुमोद सुखितः सुखम् ॥४-४५-८॥ एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः ।स्वाम् स्वाम् दिशम् अभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥४-४५-९॥ नदन्तः च उन्नदन्तः च गर्जन्तः च प्लवंगमाः ।क्ष्वेलन्तो धावमानाः च विनदन्तो महाबलाः ॥४-४५-१०॥ एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः ।आनयिष्यामहे सीताम् हनिष्यामः च रावणम् ॥४-४५-११॥ अहम् एको वधिष्यामि प्राप्तम् रावणम् आहवे ।ततः च उन्मथ्य सहसा हरिष्ये जनक आत्मजाम् ॥४-४५-१२॥ वेपमानम् श्रमेण अद्य भवद्भिः स्थीयताम् इति ।एक एव आहरिष्यामि पातालात् अपि जानकीम् ॥४-४५-१३॥ विधमिष्यामि अहम् वृक्षान् दारयिष्यामि अहम् गिरीन् ।धरणीम् दारयिष्यामि क्षोभयिष्यामि सागरान् ॥४-४५-१४॥ अहम् योजन संख्यायाः प्लविता न अत्र संशयः ।शतम् योजन संख्यायाः शतम् समधिकम् हि अहम् ॥४-४५-१५॥ भू तले सागरे वा अपि शैलेषु च वनेषु च ।पातालस्य अपि वा मध्ये न मम आच्छिद्यते गतिः ॥४-४५-१६॥ इति एकैकः तदा तत्र वानरा बल दर्पिताः ।ऊचुः च वचनम् तस्य हरि राजस्य सन्निधौ ॥४-४५-१७॥ गतेषु वानरेन्द्रेषु रामः सुग्रीवम् अब्रवीत् ।कथम् भवान् विजानीते सर्वम् वै मण्डलम् भुवः ॥४-४६-१॥ सुग्रीवः च ततो रामम् उवाच प्रणत आत्मवान् ।श्रूयताम् सर्वम् आख्यास्ये विस्तरेण वचो मम ॥४-४६-२॥ यदा तु दुंदुभिम् नाम दानवम् महिष आकृतिम् ।परिकालयते वाली मलयम् प्रति पर्वतम् ॥४-४६-३॥ तदा विवेश महिषो मलयस्य गुहाम् प्रति ।विवेश वाली तत्र अपि मलयम् तत् जिघांसया ॥४-४६-४॥ ततो अहम् तत्र निक्षिप्तो गुहा द्वारि विनीतवत् ।न च निष्क्रमते वाली तदा संवत्सरे गते ॥४-४६-५॥ ततः क्षतज वेगेन आपुपूरे तदा बिलम् ।तत् अहम् विस्मितो दृष्ट्वा भ्रातुः शोक विष अर्दितः ॥४-४६-६॥ अथ अहम् गत बुद्धिः तु सुव्यक्तम् निहतो गुरुः ।शिला पर्वत संकाशा बिल द्वारि मया कृता ॥४-४६-७॥ अशक्नुवन् निष्क्रमितुम् महिषो विनशिष्यति ।ततो अहम् आगाम् किष्किंधाम् निराशः तस्य जीविते ॥४-४६-८॥ राज्यम् च सुमहत् प्राप्य ताराम् च रुमया सह ।मित्रैः च सहितः तत्र वसामि विगत ज्वरः ॥४-४६-९॥ आजगाम ततो वाली हत्वा तम् दानवर्षभः ।ततो अहम् अददाम् राज्यम् गौरवात् भय यंत्रितः ॥४-४६-१०॥ स माम् जिघांसुः दुष्टात्मा वाली प्रव्यथित इन्द्रियः ।परिकालयते क्रोधात् धावंतम् सचिवैः सह ॥४-४६-११॥ ततो अहम् वालिना तेन सानुबन्धः प्रधावितः ।नदीः च विविधाः पश्यन् वनानि नगराणि च ॥४-४६-१२॥ आदर्श तल संकाशा ततो वै पृथिवी मया ।अलात चक्र प्रतिमा दृष्टा गोष्पदवत् तदा - कृता ॥४-४६-१३॥ पूर्वम् दिशाम् ततो गत्वा पश्यामि विविधान् द्रुमान् ।पर्वतान् स दरीन् रम्यान् सरांसि विविधानि च ॥४-४६-१४॥ उदयम् तत्र पश्यामि पर्वतम् धातु मण्डितम् ।क्षीरोदम् सागरम् चैव नित्यम् अप्सर आलयम् ॥४-४६-१५॥ परिकाल्यमानः तदा वालिना अभिद्रुतः हि अहम् ।पुनः आवृत्य सहसा प्रस्थितो अहम् तदा विभो ॥४-४६-१६॥ दिशः तस्याः ततो भूयः प्रस्थितो दक्षिणम् दिशम् ।विन्ध्य पादप संकीर्णाम् चन्दन द्रुम शोभिताम् ॥४-४६-१७॥ द्रुम शैल अन्तरे पश्यन् भूयो दक्षिणतो अपराअम् ।अपराम् च दिशम् प्राप्तो वालिना समभिद्रुतः ॥४-४६-१८॥ स पश्यन् विविधान् देशान् अस्तम् च गिरि सत्तमम् ।प्राप्य च अस्तम् गिरि श्रेष्ठम् उत्तरम् संप्रधावितः ॥४-४६-१९॥ हिमवंतम् च मेरुम् च समुद्रम् च तथा उत्तरम् ।यदा न विन्दे शरणम् वालिना समभिद्रुतः ॥४-४६-२०॥ ततो माम् बुद्धि संपन्नो हनुमान् वाक्यम् अब्रवीत् ।इदानीम् मे स्मृतम् राजन् यथा वाली हरीश्वरः ॥४-४६-२१॥ मतंगेन तदा शप्तो हि अस्मिन् आश्रम मण्डले ।प्रविशेत् यदि वै वाली मूर्धा अस्य शतधा भवेत् ॥४-४६-२२॥ तत्र वासः सुखो अस्माकम् निर्उद्विग्नो भविष्यति ।ततः पर्वतम् आसाद्य ऋश्यमूकम् नृपात्मज ॥४-४६-२३॥ न विवेश तदा वाली मतंगस्य भयात् तदा ।एवम् मया तदा राजन् प्रत्यक्षम् उपलक्षितम् ।पृथिवी मण्डलम् सर्वम् गुहाम् अस्मि आगतः ततः ॥४-४६-२४॥ दर्शनार्थम् तु वैदेह्याः सर्वतः कपि कुंजराः ।व्यादिष्टाः कपि राजेन यथा उक्तम् जग्मुर् अंजसा ॥४-४७-१॥ ते सरांसि सरित् कक्षान् आकाशम् नगराणि च ।नदी दुर्गान् तथा शैलान् विचिन्वन्ति समन्ततः ॥४-४७-२॥ सुग्रीवेण समाख्याताः सर्वे वानर यूथपाः ।तत्र देशान् प्रविचिन्वन्ति स शैल वन काननान् ॥४-४७-३॥ विचिन्त्य दिवसम् सर्वे सीता अधिगमने धृताः ।समायान्ति स्म मेदिन्याम् निशा कालेषु वानराः ॥४-४७-४॥ सर्व ऋतुकान् च देशेषु वानराः स फलान् द्रुमान् ।आसाद्य रजनीम् शय्याम् चक्रुः सर्वेषु अहस्सु ते ॥४-४७-५॥ तत् अहः प्रथमम् कृत्वा मासे प्रस्रवणम् गताः ।कपि राजेन संगम्य निराशाः कपि कुंजराः ॥४-४७-६॥ विचित्य तु दिशम् पूर्वाम् यथा उक्ताम् सचिवैः सह ।अदृष्ट्वा विनतः सीताम् आजगाम महाबलः ॥४-४७-७॥ दिशम् अपि उत्तराम् सर्वाम् विविच्य स महाकपिः ।आगतः सह सैन्येन वीरः शतबलिः तदा ॥४-४७-८॥ सुषेणः पश्चिमाम् आशाम् विविच्य सह वानरैः ।समेत्य मासे पूर्णे तु सुग्रीवम् उपचक्रमे ॥४-४७-९॥ तम् प्रस्रवण पृष्ठस्थम् समासाद्य अभिवाद्य च ।आसीनम् सह रामेण सुग्रीवम् इदम् अब्रुवन् ॥४-४७-१०॥ विचिताः पर्वताः सर्वे वनानि गहनानि च ।निम्नगाः सागर अन्ताः च सर्वे जनपदाः तथा ॥४-४७-११॥ गुहाः च विचिताः सर्वा याः च ते परिकीर्तिताः ।विचिताः च महागुल्मा लता वितत संतताः ॥४-४७-१२॥ गहनेषु च देशेषु दुर्गेषु विषमेषु च ।सत्त्वानि अतिप्रमाणानि विचितानि हतानि च ।ये चैव गहना देशा विचिताः ते पुनः पुनः ॥४-४७-१३॥ उदार सत्त्व अभिजनो हनूमान्स मैथिलीम् ज्ञास्यसि वानरेन्द्र ।दिशम् तु याम् एव गता तु सीताताम् आस्थितो वायु सुतो हनूमान् ॥४-४७-१४॥ सह तार अंगदाभ्याम् तु सहसा हनुमान् कपिः ।सुग्रीवेण यथा उद्दिष्टम् तम् देशम् उपचक्रमे ॥४-४८-१॥ स तु दूरम् उपागम्य सर्वैः तैः कपि सत्तमैः ।ततो विचित्य विन्ध्यस्य गुहाः च गहनानि च ॥४-४८-२॥ पर्वताग्र नदी दुर्गान् सरांसि विपुल द्रुमान् ।वृक्ष खण्डान् च विविधान् पर्वतान् वन पादपान् ॥४-४८-३॥ अन्वेषमाणाः ते सर्वे वानराः सर्वतो दिशम् ।न सीताम् ददृशुर् वीरा मैथिलीम् जनक आत्मजाम् ॥४-४८-४॥ ते भक्षयन्तो मूलानि फलानि विविधानि अपि ।अन्वेषमाणा दुर्धर्षा न्यवसन् तत्र तत्र ह ॥४-४८-५॥ स तु देशो दुर्अन्वेषो गुहा गहनवान् महान् ।निर्जलम् निर्जनम् शून्यम् गहनम् घोर दर्शनम् ॥४-४८-६॥ ता दृशानि अन्या अपि अरण्यानि विचित्य भृइश पीडिताः ।स देशः च दुर्अन्वेष्यो गुहा गहनवान् महान् ॥४-४८-७॥ त्यक्त्वा तु तम् ततः देशम् सर्वे वै हरि यूथपाः ।देशम् अन्यम् दुराधर्षम् विविशुः च अकुतो भयाः ॥४-४८-८॥ यत्र वन्ध्य फला वृक्षा विपुष्पाः पर्ण वर्जिताः ।निस्तोयाः सरितो यत्र मूलम् यत्र सुदुर्लभम् ॥४-४८-९॥ न सन्ति महिषा यत्र न मृगा न च हस्तिनः ।शार्दूलाः पक्षिणो वा अपि ये च अन्ये वन गोचराः ॥४-४८-१०॥ न च अत्र वृक्षा न ओषध्यो न वल्ल्यो न अपि वीरुधः ।स्निग्ध पत्राः स्थले यत्र पद्मिन्यः फुल्ल पंकजाः ॥४-४८-११॥ प्रेक्षणीयाः सुगन्धाः च भ्रमरैः च वर्जिताः ।कण्डुर् नाम महाभागः सत्य वादी तपो धनः ॥४-४८-१२॥ महर्षिः परम अमर्षी नियमैः दुष्प्रधर्षणः ।तस्य तस्मिन् वने पुत्रो बालको दश वार्षिकः ॥४-४८-१३॥ प्रणष्टो जीवित अन्ताय क्रुद्धः तेन महामुनिः ।तेन धर्माअत्मना शप्तम् कृत्स्नम् तत्र महद् वनम् ॥४-४८-१४॥ अशरण्यम् दुराधर्षम् मृग पक्षि विवर्जितम् ।तस्य ते कानन अन्तान् तु गिरीणाम् कन्दराणि च ॥४-४८-१५॥ प्रभवाणि नदीनाम् च विचिन्वन्ति समाहिताः ।तत्र च अपि महात्मानो न अपश्यन् जनक आत्मजाम् ॥४-४८-१६॥ हर्तारम् रावणम् वा अपि सुग्रीव प्रिय कारिणः ।ते प्रविश्य तु तम् भीमम् लता गुल्म समावृतम् ॥४-४८-१७॥ ददृशुः भीम कर्माणम् असुरम् सुर निर्भयम् ।तम् दृष्ट्वा वनरा घोरम् स्थितम् शैलम् इव असुरम् ॥४-४८-१८॥ गाढम् परिहिताः सर्वे दृष्ट्वा तम् पर्वत उपमम् ।सो अपि तान् वानरान् सर्वान् नष्टाः स्थ इति अब्रवीत् बली ॥४-४८-१९॥ अभ्यधावत सम्क्रुद्धो मुष्टिम् उद्यम्य संगतम् ।तम् आपतन्तम् सहसा वालि पुत्रो अंगदः तदा ॥४-४८-२०॥ रावणो अयम् इति ज्ञात्वा तलेन अभिजघान ह ।स वालि पुत्र अभिहतो वक्त्रात् शोणितम् उद्वमन् ॥४-४८-२१॥ असुरो न्यपतत् भूमौ पर्यस्त इव पर्वतः ।ते तु तस्मिन् निर् उच्छ्वासे वानरा जित काशिनः ॥४-४८-२२॥ व्यचिन्वन् प्रायशः तत्र सर्वम् तत् गिरि गह्वरम् ।विचितम् तु ततः सर्वम् सर्वे ते कानन ओकसः ॥४-४८-२३॥ अन्यत् एव अपरम् घोरम् विविशुर् गिरि गह्वरम् ।ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः ।एकांते वृक्ष मूले तु निषेदुर् दीन मानसाः ॥४-४८-२४॥ अथ अंगदः तदा सर्वान् वानरान् इदम् अब्रवीत् ।परिश्रान्तो महा प्राज्ञः समाश्वास्य शनैर् वचः ॥४-४९-१॥ वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।दरी गिरि गुहाः चैव विचिता नः समंततः ॥४-४९-२॥ तत्र तत्र सह अस्माभिः जानकी न च दृश्यते ।तथा रक्षः अपहर्ता च सीतायाः चैव दुष्कृती ॥४-४९-३॥ कालः च नः महान् यातः सुग्रीवः च उग्र शासनः ।तस्मात् भवन्तः सहिता विचिन्वन्तु समंततः ॥४-४९-४॥ विहाय तन्द्रीम् शोकम् च निद्राम् चैव समुत्थिताम् ।विचिनुध्वम् तथा सीताम् पश्यामो जनक आत्मजाम् ॥४-४९-५॥ अनिर्वेदम् च दाक्ष्यम् च मनसः च अपराजयम् ।कार्य सिद्धि कराणि आहुः तस्मात् एतत् ब्रवीमि अहम् ॥४-४९-६॥ अद्य अपि इदम् वनम् दुर्गम् विचिन्वन्तु वन ओकसः ।खेदम् त्यक्त्वा पुनः सर्वम् वनम् एतत् विचिन्वताम् ॥४-४९-७॥ अवश्यम् कुर्वताम् दृश्यते कर्मणः फलम् ।परम् निर्वेदम् आगम्य न हि नः मीलनम् क्षमम् ॥४-४९-८॥ सुग्रीवः क्रोधनो राजा तीक्ष्ण दण्डः च वानराः ।भेतव्यम् तस्य सततम् रामस्य च महात्मनः ॥४-४९-९॥ हितार्थम् एतत् उक्तम् वः क्रियताम् यदि रोचते ।उच्यताम् हि क्षमम् यत् तत् सर्वेषाम् एव वानराः ॥४-४९-१०॥ अंगदस्य वचः श्रुत्वा वचनम् गंधमादनः ।उवाच व्यक्तया वाचा पिपासा श्रम खिन्नया ॥४-४९-११॥ सदृशम् खलु वः वाक्यम् अंगदो यत् उवाच ह ।हितम् च एव अनुकूलम् च क्रियताम् अस्य भाषितम् ॥४-४९-१२॥ पुनः मार्गामहे शैलान् कन्दराम् च शिलान् तथा ।काननानि च शून्यानि गिरि प्रस्रवणानि च ॥४-४९-१३॥ यथा उद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना ।विचिन्वन्तु वनम् सर्वे गिरि दुर्गाणि संगताः ॥४-४९-१४॥ ततः समुत्थाय पुनः वानराः ते महाबलाः ।विन्ध्य कानन संकीर्णाम् विचेरुर् दक्षिणाम् दिशम् ॥४-४९-१५॥ ते शारद अभ्र प्रतिमम् श्रीमत् रजत पर्वतम् ।शृंगवन्तम् दरीवंतम् अधिरुह्य च वानराः ॥४-४९-१६॥ तत्र लोध्र वनम् रम्यम् सप्त पर्ण वनानि च ।विचिन्वन्तो हरि वराः सीता दर्शन कान्क्षिणः ॥४-४९-१७॥ तस्य अग्रम् अधिरूढाः ते श्रान्ता विपुल विक्रमाः ।न पश्यन्ति स्म वैदेहीम् रामस्य महिषीम् प्रियाम् ॥४-४९-१८॥ ते तु दृष्टि गतम् दृष्ट्वा तम् शैलम् बहु कंदरम् ।अध्यारोहन्त हरयो वीक्षमाणाः समंततः ॥४-४९-१९॥ अवरुह्य ततो भूमिम् श्रान्ता विगत चेतसः ।स्थित्वा मुहूर्तम् तत्र अथ वृक्ष मूलम् उपाश्रिताः ॥४-४९-२०॥ ते मुहूर्तम् समाश्वस्ताः किंचित् भग्न परिश्रमाः ।पुनर् एव उद्यताः कृत्स्नाम् मार्गितुम् दक्षिणाम् दिशम् ॥४-४९-२१॥ हनुमत् प्रमुखाः ते तु प्रस्थिताः प्लवग ऋषभाः ।विंध्यम् एव आदितः कृत्वा विचेरुः ते समंततः ॥४-४९-२२॥ सह तारा अंगदाभ्याम् तु संगम्य हनुमान् कपिः ।विचिनोति च विन्ध्यस्य गुहाः च गहनानि च ॥४-५०-१॥ सिंह शार्दूल जुष्टाः च गुहाः च परितः तथा ।विषमेषु नग इन्द्रस्य महा प्रस्रवणेषु च ॥४-५०-२॥ आसेदुः तस्य शैलस्य कोटिम् दक्षिण पस्चिमाम् ।तेषाम् तत्र एव वसताम् स कालो व्यत्यवर्तत ॥४-५०-३॥ स हि देशो दुरन्वेष्यो गुहा गहनवान् महान् ।तत्र वायु सुतः सर्वम् विचिनोति स्म पर्वतम् ॥४-५०-४॥ परस्परेण रहिता अन्योन्यस्य अविदूरतः ।गजो गवाक्षो गवयः शरभो गन्धमादनः ॥४-५०-५॥ मैन्दः च द्विविदः चैव हनुमान् जांबवान् अपि ।अंगदो युव राजः च तारः च वनगोचरः ॥४-५०-६॥ गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् ।विचिन्वन्तः ततः तत्र ददृशुः विवृतम् बिलम् ॥४-५०-७॥ दुर्गम् ऋक्ष बिलम् नाम दानवेन अभिरक्षितम् ।क्षुत् पिपासा परीताः तु श्रान्ताः तु सलिल अर्थिनः ॥४-५०-८॥ अवकीर्णम् लता वृक्षैः ददृशुः ते महा बिलम् ।तत्र क्रौन्चाः च हंसाः च सारसाः च अपि निष्क्रमन् ॥४-५०-९॥ जल आर्द्राः चक्रवाकाः च रक्त अंगाः पद्म रेणुभिः ।ततः तत् बिलम् आसाद्य सुगन्धि दुरतिक्रमम् ॥४-५०-१०॥ विस्मय व्यग्र मनसो बभूवुः वानरर्षभाः ।संजात परिशंकाः ते तत् बिलम् प्लवग उत्तमाः ॥४-५०-११॥ अभ्यपद्यन्त संहृष्टाः तेजोवन्तो महाबलाः ।नाना सत्त्व समाकीर्णाम् दैत्य इन्द्र निलय उपमम् ॥४-५०-१२॥ दुर्दर्शम् इव घोरम् च दुर्विगाह्यम् च सर्वशः ।ततः पर्वत कूट आभो हनुमान् मारुत आत्मजः ॥४-५०-१३॥ अब्रवीत् वानरान् घोरान् कान्तार वन कोविदः ।गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् ॥४-५०-१४॥ वयम् सर्वे परिश्रांता न च पश्याम मैथिलीम् ।अस्मात् च अपि बिलात् हंसाः क्रौन्चाः च सह सारसैः ॥४-५०-१५॥ जल आर्द्राः चक्रवाकाः च निष्पतन्ति स्म सर्वशः ।नूनम् सलिलवान् अत्र कूपो वा यदि वा ह्रदः ॥४-५०-१६॥ तथा च इमे बिल द्वारे स्निग्धाः तिष्ठन्ति पादपाः ।इति उक्ताः तत् बिलम् सर्वे विविशुः तिमिर आवृतम् ॥४-५०-१७॥ अचन्द्र सूर्यम् हरयो ददृशू रोम हर्षणम् ।निशम्य तस्मात् सिंहाः च तान् तान् च मृग पक्षिणः ॥४-५०-१८॥ प्रविष्टा हरि शार्दूला बिलम् तिमिर आवृतम् ।न तेषाम् सज्जते दृष्टिः न तेजः न पराक्रमः ॥४-५०-१९॥ वायोः इव गतिः तेषाम् दृष्टिः तम् अपि वर्तते ।ते प्रविष्टाः तु वेगेन तत् बिलम् कपि कुंजराः ॥४-५०-२०॥ प्रकाशम् च अभिरामम् च ददृशुः देशम् उत्तमम् ।ततः तस्मिन् बिले भीमे नाना पादप संकुले ॥४-५०-२१॥ अन्योन्यम् संपरिष्वज्य जग्मुर् योजनम् अंतरम् ।ते नष्ट संज्ञाः तृषिताः संभ्रांताः सलिल अर्थिनः ॥४-५०-२२॥ परिपेतुर् बिले तस्मिन् कंचित् कालम् अतन्द्रिताः ।ते कृशा दीन वदनाः परिश्रान्ताः प्लवंगमाः ॥४-५०-२३॥ आलोकम् ददृशुः वीरा निराशा जीविते यदा ।ततः तम् देशम् आगम्य सौम्याः वितिमिरम् वनम् ॥४-५०-२४॥ ददृशुः कान्चनान् वृक्षान् दीप्त वैश्वानर प्रभान् ।सालान् तालान् तमालान् च पुन्नागान् वंजुलान् धवान् ॥४-५०-२५॥ चंपकान् नाग वृक्षान् च कर्णिकारान् च पुष्पितान् ।स्तबकैः कांचनैः चित्रैः रक्तैः किसलयैः तथा ॥४-५०-२६॥ आपीडैः च लताभिः च हेम आभरण भूषितैः ।तरुण आदित्य संकाशान् वैदूर्यमय वेदिकान् ॥४-५०-२७॥ विभ्राजमानान् वपुषा पादपान् च हिरण्मयान् ।नील वैदूर्य वर्णाः च पद्मिनीः पतगैः आवृताः ॥४-५०-२८॥ महद्भिः कांचनैः वृक्षैः वृता बाल अर्क संनिभैः ।जातरूपमयैः मत्स्यैः महद्भिः च अथ पन्कजैः ॥४-५०-२९॥ नलिनीः तत्र ददृशुः प्रसन्न सलिल आयुताः ।कांचनानि विमानानि राजतानि तथा एव च ॥४-५०-३०॥ तपनीय गवाक्षाणि मुक्ता जाल आवृतानि च ।हैम राजत भौमानि वैदूर्य मणिमन्ति च ॥४-५०-३१॥ ददृशुः तत्र हरयो गृह मुख्यानि सर्वशः ।पुष्पितान् फलिनो वृक्षान् प्रवाल मणि संनिभान् ॥४-५०-३२॥ कांचन भ्रमरान् चैव मधूनि च समन्ततः ।मणि कांचन चित्राणि शयनानि आसनानि च ॥४-५०-३३॥ विविधानि विशालानि ददृशुः ते समन्ततः ।हेम रजत कांस्यानाम् भाजनानाम् च राशयः ॥४-५०-३४॥ अगुरूणाम् च दिव्यानाम् चंदनानाम् च संचयम् ।शुचीनि अभ्यवहाराणि मूलानि च फलानि च ॥४-५०-३५॥ महा अर्हाणि च पानानि मधूनि रसवन्ति च ।दिव्यानाम् अम्बराणाम् च महा अर्हाणाम् च संचयान् ॥४-५०-३६॥ कंबलानाम् च चित्राणाम् अजिनानाम् च संचयान् ।तत्र तत्र विन्यस्तान् दीप्तान् वैश्वानर प्रभान् ॥४-५०-३७॥ ददृशुः वानराः शुभ्रान् जातरूपस्य संचयान् ।तत्र तत्र विचिन्वन्तो बिले तत्र महा प्रभाः ॥४-५०-३८॥ ददृशुः वानराः शूराः स्त्रियम् कांचित् अदूरतः ।ताम् च ते ददृशुः तत्र चीर कृष्ण अजिन अम्बराम् ॥४-५०-३९॥ तापसीम् नियत आहाराम् ज्वलंतीम् इव तेजसा ।विस्मिता हरयः तत्र व्यवतिष्टन्त सर्वशः ।प्रपच्छ हनुमान् तत्र का असि त्वम् कस्य वा बिलम् ॥४-५०-४०॥ ततो हनूमान् गिरि सन्निकाशःकृत अंजलिः ताम् अभिवाद्य वृद्धाम् ।पप्रच्छ का त्वम् भवनम् बिलम् चरत्नानि च इमानि वदस्व कस्य ॥४-५०-४१॥ इति उक्त्वा हनुमान् तत्र पुनः कृष्ण अजिन अंबराम् ।अब्रवीत् ताम् महाभागाम् तापसीम् धर्म चारिणीम् ॥४-५१-१॥ इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् ।क्षुत् पिपासा परिश्रांताः परिखिन्नाः च सर्वशः ॥४-५१-२॥ महत् धरण्या विवरम् प्रविष्टाः स्म पिपासिताः ।इमाम् तु एवम् विधान् भावान् विविधान् अद्भुत उपमान् ॥४-५१-३॥ दृष्ट्वा वयम् प्रव्यथिताः संभ्रांता नष्ट चेतसः ।कस्य एते कांचना वृक्षाः तरुण आदित्य सन्निभाः ॥४-५१-४॥ शुचीनि अभ्यवहार्याणि मूलानि च फलानि च ।कांचनानि विमानानि राजतानि गृहाणि च ॥४-५१-५॥ तपनीय गव अक्षाणि मणि जाल आवृतानि च ।पुष्पिताः फालवन्तः च पुण्याः सुरभि गन्धयः ॥४-५१-६॥ इमे जांबूनदमयाः पादपाः कस्य तेजसा ।कांचनानि च पद्मानि जातानि विमले जले ॥४-५१-७॥ कथम् मत्स्याः च सौवर्णा दृश्यन्ते सह कच्छपैः ।आत्मानः अनुभावात् वा कस्य वै एतत् तपो बलम् ॥४-५१-८॥ अजानताम् नः सर्वेषाम् सर्वम् आख्यातुम् अर्हसि ।एवम् उक्ता हनुमता तापसी धर्म चारिणी ॥४-५१-९॥ प्रति उवाच हनूमंतम् सर्व भूत हिते रता ।मयो नाम महातेजा मायावी दानवर्षभः ॥४-५१-१०॥ तेन इदम् निर्मितम् सर्वम् मायया कांचनम् वनम् ।पुरा दानव मुख्यानाम् विश्वकर्मा बभूव ह ॥४-५१-११॥ येन इदम् कांचनम् दिव्यम् निर्मितम् भवन उत्तमम् ।स तु वर्ष सहस्राणि तपः तप्त्वा महत् वने ॥४-५१-१२॥ पितामहात् वरम् लेभे सर्वम् औशसनम् धनम् ।विधाय सर्वम् बलवान् सर्व काम ईश्वरः तदा ॥४-५१-१३॥ उवास सुखितः कालम् कंचित् अस्मिन् महावने ।तम् अप्सरसि हेमायाम् सक्तम् दानव पुंगवम् ॥४-५१-१४॥ विक्रम्य एव अशनिम् गृह्य जघान ईशः पुरंदरः ।इदम् च ब्रह्मणा दत्तम् हेमायै वनम् उत्तमम् ॥४-५१-१५॥ शाश्वतः काम भोगः च गृहम् च इदम् हिरण्मयम् ।दुहिता मेरुसावर्णेः अहम् तस्याः स्वयंप्रभा ॥४-५१-१६॥ इदम् रक्षामि भवनम् हेमाया वानरोत्तम ।मम प्रिय सखी हेमा नृत्त गीत विशारदा ॥४-५१-१७॥ तया दत्त वरा च अस्मि रक्षामि भवनम् महान् ।किम् कार्यम् कस्य वा हेतोः कांताराणि प्रपद्यथ ॥४-५१-१८॥ कथम् च इदम् वनम् दुर्गम् युष्माभिः उपलक्षितम् ।शुचीनि अभ्यवहार्याणि मूलानि च फलानि च ।भुक्त्वा पीत्वा च पानीयम् सर्वम् मे वक्तुम् अर्हथ ॥४-५१-१९॥ अथ तान् अब्रवीत् सर्वान् विश्रांतान् हरि यूथपान् ।इदम् वचनम् एकाग्रा तापसी धर्म चारिणी ॥४-५२-१॥ वानरा यदि वः खेदः प्रनष्टः फल भक्षणात् ।यदि च एतत् मया श्राव्यम् श्रोतुम् इच्छामि कथताम् ॥४-५२-२॥ तस्याः तत् वचनम् श्रुत्वा हनुमान् मारुत आत्मजः ।आर्जवेन यथा तत्त्वम् आख्यातुम् उपचक्रमे ॥४-५२-३॥ राजा सर्वस्य लोकस्य महेन्द्र वरुण उपमः ।रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् ॥४-५२-४॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया ।तस्य भार्या जनस्थानात् रावणेन हृता बलात् ॥४-५२-५॥ वीरः तस्य सखा राज्ञः सुग्रीवो नाम वानरः ।राजा वानर मुख्यानाम् येन प्रस्थापिता वयम् ॥४-५२-६॥ अगस्त्य चरिताम् आशाम् दक्षिणाम् यम रक्षिताम् ।सहैभिर्वानरैमुख्यैरङ्गदप्रमुखैर्वयम् - यद्वा -सह एभिः वानरैः मुख्यैः अंगद प्रमुखैः वयम् ॥४-५२-७॥ रावणम् सहिताः सर्वे राक्षसम् काम रूपिणम् ।सीतया सह वैदेह्या मार्गध्वम् इति चोदिताः ॥४-५२-८॥ विचित्य तु वयम् सर्वे समग्रम् - समुद्रम् - दक्षिणाम् दिशम् ।वयम् बुभुक्षिताः सर्वे वृक्ष मूलम् उपाश्रिताः ॥४-५२-९॥ विवर्ण वदनाः सर्वे सर्वे ध्यान परायणाः ।न अधिगच्छामहे पारम् मग्नाः चिन्ता महाअर्णवे ॥४-५२-१०॥ चारयन्तः ततः चक्षुः दृष्टवन्तो महद् बिलम् ।लता पादप संछन्नम् तिमिरेण समावृतम् ॥४-५२-११॥ अस्मात् हंसा जल क्लिन्नाः पक्षैः सलिल रेणुभिः ।कुरराः सारसाः चैव निष्पतन्ति पतत्रिणः ॥४-५२-१२॥ साधु अत्र प्रविशाम इति मया तु उक्ताः प्लवंगमाः ।तेषाम् अपि हि सर्वेषाम् अनुमानम् उपागतम् ॥४-५२-१३॥ अस्मिन् निपतिताः सर्वे अपि अथ कार्य त्वरान्विताः ।ततो गाढम् निपतिता गृह्य हस्तौ परस्परम् ॥४-५२-१४॥ इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् ।एतत् नः कार्यम् एतेन कृत्येन वयम् आगताः ॥४-५२-१५॥ त्वाम् च एव उपगताः सर्वे परिद्यूना बुभुक्षिताः ।आतिथ्य धर्म दत्तानि मूलानि च फलानि च ॥४-५२-१६॥ अस्माभिः उपभुक्तानि बुभुक्षा परिपीडितैः ।यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥४-५२-१७॥ ब्रूहि प्रत्युपकार अर्थम् किम् ते कुर्वन्तु वानराः ।एवम् उक्ता तु सर्वज्ञा वानरैः तैः स्वयंप्रभा ॥४-५२-१८॥ प्रत्युवाच ततः सर्वान् इदम् वानर यूथपान् ।सर्वेषाम् परितुष्टा अस्मि वानराणाम् तरस्विनाम् ॥४-५२-१९॥ चरंत्या मम धर्मेण न कार्यम् इह केनचित् ।एवम् उक्तः शुभम् वाक्यम् तापस्या धर्म संहितम् ॥४-५२-२०॥ उवाच हनुमान् वाक्यम् ताम् अनिन्दित लोचनाम् ।शरणम् त्वाम् प्रपन्नाः स्मः सर्वे वै धर्मचारिणिम् ॥४-५२-२१॥ यः कृतः समयो अस्माकम् सुग्रीवेण महात्मना ।स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥४-५२-२२॥ सा त्वम् अस्मात् बिलात् अस्मान् उत्तारयितुम् अर्हसि ।तस्मात् सुग्रीव वचनात् अतिक्रान्तान् गत आयुषः ॥४-५२-२३॥ त्रातुम् अर्हसि नः सर्वान् सुग्रीव भय शन्कितान् ।महत् च कार्यम् अस्माभिः कर्तव्यम् धर्मचारिणि ॥४-५२-२४॥ तत् च अपि न कृतम् कार्यम् अस्माभिः इह वासिभिः ।एवम् उक्ता हनुमता तापसी वाक्यम् अब्रवीत् ॥४-५२-२५॥ जीवता दुष्करम् मन्ये प्रविष्टेन निवर्तितुम् ।तपसः सुप्रभावेन नियम उपार्जितेन च ॥४-५२-२६॥ सर्वान् एव बिलात् अस्मात् तारयिष्यामि वानरान् ।निमीलयत चक्षून्षि सर्वे वानर पुंगवाः ॥४-५२-२७॥ न हि निष्क्रमितुम् शक्यम् अनिमीलित लोचनैः ।ततो निमीलिताः सर्वे सुकुमार अंगुलैः करैः ॥४-५२-२८॥ सहसा पिदधुः दृष्टिम् हृष्टा गमन कान्क्षिणः ।वानराः तु महात्मानो हस्त रुद्ध मुखाः तदा ॥४-५२-२९॥ निमेष अन्तर मात्रेण बिलात् उत्तारिताः तथा ।उवाच सर्वान् तान् तत्र तापसी धर्म चारिणी ॥४-५२-३०॥ निःसृतान् विषमात् तस्मात् समाश्वास्य इदम् अब्रवीत् ।एष विन्ध्यो गिरिः श्रीमान् नाना द्रुम लता आयुतः ॥४-५२-३१॥ एष प्रसवणः शैलः सागरो अयम् महा उदधिः ।स्वस्ति वो अस्तु गमिष्यामि भवनम् वानरर्षभाः ।इति उक्त्वा तत् बिलम् श्रीमत् प्रविवेश स्वयम्प्रभा ॥४-५२-३२॥ ततः ते ददृशुः घोरम् सागरम् वरुण आलयम् ।अपारम् अभिगर्जन्तम् घोरैः ऊर्मिभिः आकुलम् ॥४-५३-१॥ मयस्य माया विहितम् गिरि दुर्गम् विचिन्वताम् ।तेषाम् मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥४-५३-२॥ विन्ध्यस्य तु गिरेः पादे संप्रपुष्पित पादपे ।उपविश्य महात्मानः चिन्ताम् आपेदिरे तदा ॥४-५३-३॥ ततः पुष्पातिभाराग्राँल्ल्ताशतसमावृतान् -यद्वा -ततः पुष्प अतिभार अग्रान् लता शत समावृतान् ।द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुः भय शन्किताः ॥४-५३-४॥ ते वसंतम् अनुप्राप्तम् प्रतिवेद्य परस्परम् ।नष्ट संदेश काल अर्था निपेतुर् धरणी तले ॥४-५३-५॥ ततः तान् कपि वृद्धान् च शिष्टान् चैव वनौकसः ।वाचा मधुरया अभाष्य यथावत् अनुमान्य च ॥४-५३-६॥ स तु सिंह ऋषभ स्कंधः पीन आयत भुजः कपिः ।युवराजो महाप्राज्ञ अंगदो वाक्यम् अब्रवीत् ॥४-५३-७॥ शासनात् कपि राजस्य वयम् सर्वे विनिर्गताः ।मासः पूर्णो बिलस्थानाम् हरयः किम् न बुध्यते ॥४-५३-८॥ वयम् आश्वयुजे मासि काल संख्या व्यवस्थिताः ।प्रस्थिताः सो अपि च अतीतः किम् अतः कार्यम् उत्तरम् ॥४-५३-९॥ भवन्त प्रत्ययम् प्राप्ता नीति मार्ग विशारदाः ।हितेषु अभिरता भर्त्तुः निसृष्टाः सर्व कर्मसु ॥४-५३-१०॥ कर्मसु अप्रतिमाः सर्वे दिक्षु विश्रुत पौरुषाः ।माम् पुरस्कृत्य निर्याताः पिन्गाक्ष प्रतिचोदिताः ॥४-५३-११॥ इदानीम् अकृत अर्थानाम् मर्तव्यम् न अत्र संशयः ।हरि राजस्य संदेशम् अकृत्वा कः सुखी भवेत् ॥४-५३-१२॥ आस्मिन् अतीते काले तु सुग्रीवेण कृते स्वयम् ।प्रायोपवेशनम् युक्तम् सर्वेषाम् च वन ओकसाम् ॥४-५३-१३॥ तीक्ष्णः प्रकृत्या सुग्रीवः स्वामि भावे व्यवस्थितः ।न क्षमिष्यति नः सर्वान् अपराध कृतो गतान् ॥४-५३-१४॥ अप्रवृत्तौ च सीतायाः पापम् एव करिष्यति ।तस्मात् क्षमम् इह अद्य एव गंतुम् प्रायोपविशनम् ॥४-५३-१५॥ त्यक्त्वा पुत्रन् च दारान् च धनानि च गृहाणि च ।ध्रुवम् नः हिंसते राजा सर्वान् प्रतिगतान् इतः ॥४-५३-१६॥ वधेन अप्रतिरूपेण श्रेयान् मृत्युः इह एव नः ।न च अहम् यौवराज्येन सुग्रीवेण अभिषेचितः ॥४-५३-१७॥ नरेन्द्रेण अभिषिक्तो अस्मि रामेण अक्लिष्ट कर्मणा ।स पूर्वम् बद्ध वैरो माम् राजा दृष्ट्वा व्यतिक्रमम् ॥४-५३-१८॥ घातयिष्यति दण्डेन तीक्ष्णेन कृत निश्चयः ।किम् मे सुहृद्भिः व्यसनम् पश्यद्भिः जीवितांतरे ।इह एव प्रायम् आसिष्ये पुण्ये सागर रोधसि ॥४-५३-१९॥ एतत् श्रुत्वा कुमारेण युव राजेन भाषितम् ।सर्वे ते वानर श्रेष्ठाः करुणम् वाक्यम् अब्रुवन् ॥४-५३-२०॥ तीक्ष्णः प्रकृत्या सुग्रीवः प्रिया रक्तः च राघवः ।समीक्ष्य अकृत कार्यान् तु तस्मिन् च समये गते ॥४-५३-२१॥ अदृष्टायाम् च वैदेह्याम् दृष्ट्वा चैव समागतान् ।राघव प्रिय कामाय घातयिष्यति असंशयम् ॥४-५३-२२॥ न क्षमम् च अपराद्धानाम् गमनम् स्वामि पार्श्वतः ।प्रधानबूताः च वयम् सुग्रीवस्य समागताः ॥४-५३-२३॥ इह एव सीताम् अन्वीक्ष्य प्रवृत्तिम् उपलभ्य वा ।नः चेत् गच्छाम तम् वीरम् गमिष्यामो यम क्षयम् ॥४-५३-२४॥ प्लवंगमानाम् तु भय अर्दितानाम्श्रुत्वा वचः तार इदम् बभाषे ।अलम् विषादेन बिलम् प्रविश्यवसाम सर्वे यदि रोचते वः ॥४-५३-२५॥ इदम् हि माया विहितम् सुदुर्गमम्प्रभूत वृक्ष उदक भोज्य पेयम् ।इह अस्ति नः न एव भयम् पुरंदरात्न राघवात् वानर राजतो अपि वा ॥४-५३-२६॥ श्रुत्वा अंगदस्य अपि वचो अनुकूलम्ऊचुः च सर्वे हरयः प्रतीताः ।यथा न हन्येम तथा विधानम्असक्तम् अद्य एव विधीयताम् नः ॥४-५३-२७॥ तथा ब्रुवति तारे तु तारा अधिपति वर्चसि ।अथ मेने हृतम् राज्यम् हनुमान् अंगदेन तत् ॥४-५४-१॥ बुद्ध्या हि अष्ट अंगया युक्तम् चतुर् बल समन्वितम् ।चतुर् दश गुणम् मेने हनुमान् वालिनः सुतम् ॥४-५४-२॥ आपूर्यमाणम् शश्वत् च तेजो बल पराक्रमैः ।शशिनम् शुक्ल पक्ष आदौ वर्धमानम् इव श्रिया ॥४-५४-३॥ बृहस्पति समम् बुद्ध्या विक्रमे सदृशम् पितुः ।शुश्रूषमाणम् तारस्य शुक्रस्य इव पुरंदरम् ॥४-५४-४॥ भर्तुः अर्थे परिश्रान्तम् सर्व शास्त्र विशारदः ।अभिसंधातुम् आरेभे हनुमान् अंगदम् ततः ॥४-५४-५॥ स चतुर्णाम् उपायानाम् तृतीयम् उपवर्णयन् ।भेदयामास तान् सर्वान् वानरान् वाक्य संपदा ॥४-५४-६॥ तेषु सर्वेषु भिन्नेषु ततो अभीषय अंगदम् ।भीषणैः विविधैः वाक्यैः कोप उपाय समन्वितैः ॥४-५४-७॥ त्वम् समर्थ तरः पित्रा युद्धे तारेय वै ध्रुवम् ।दृढम् धारयितुम् शक्तः कपि राज्यम् यथा पिता ॥४-५४-८॥ नित्यम् अस्थिर चित्ता हि कपयो हरि पुंगव ।न आज्ञाप्यम् विषहिष्यन्ति पुत्र दारान् विना त्वया ॥४-५४-९॥ त्वाम् न एते हि अनुयुंजेयुः प्रत्यक्षम् प्रवदामि ते ।यथा अयम् जांबवान् नीलः सुहोत्रः च महाकपिः ॥४-५४-१०॥ न हि अहम् ते इमे सर्वे साम दान आदिभिः गुणैः ।दण्डेन न त्वया शक्याः सुग्रीवात् अपकर्षितुम् ॥४-५४-११॥ विगृह्य आसनम् अपि आहुः दुर्बलेन बलीयसा ।आत्म रक्षा करः तस्मात् न विगृह्णीत दुर्बलः ॥४-५४-१२॥ याम् च इमाम् मन्यसे धात्रीम् एतत् बिलम् इति श्रुतम् ।एतत् लक्ष्मण बाणानाम् ईषत् कार्यम् विदारणे ॥४-५४-१३॥ स्वल्पम् हि कृतम् इन्द्रेण क्षिपता हि अशनिम् पुरा ।लक्ष्मणो निशितैः बाणैः भिन्द्यात् पत्र पुटम् यथा ॥४-५४-१४॥ लक्ष्मणस्य च नाराचा बहवः सन्ति तत् विधाः ।वज्र अशनि सम स्पर्शा गिरीणाम् अपि दारकाः ॥४-५४-१५॥ अवस्थाने यदा एव त्वम् आसिष्यसि परंतप ।तदा एव हरयः सर्वे त्यक्ष्यन्ति कृत निश्चयाः ॥४-५४-१६॥ स्मरंतः पुत्र दाराणाम् नित्य उद्विग्ना बुभुक्षिताः ।खेदिता दुःख शय्याभिः त्वाम् करिष्यन्ति पृष्ठतः ॥४-५४-१७॥ स त्वम् हीनः सुहृद्भिः च हित कामैः च बंधुभिः ।तृणात् अपि भृश उद्विग्नः स्पंदमानात् भविष्यसि ॥४-५४-१८॥ अति उग्र वेगा निशिता घोरा लक्ष्मण सायकाः ।अपवृत्तम् जिघांसन्तो महावेगा दुरासदाः ॥४-५४-१९॥ अस्माभिः तु गतम् सार्धम् विनीतवत् उपस्थितम् ।आनुपूर्व्यात् तु सुग्रीवो राज्ये त्वाम् स्थापयिष्यति ॥४-५४-२०॥ धर्म राजः पितृव्यः ते प्रीति कामो दृढ व्रतः ।शुचिः सत्य प्रतिज्ञः च स त्वाम् जातु न नाशयेत् ॥४-५४-२१॥ प्रिय कामः च ते मातुः तत् अर्थम् च अस्य जीवितम् ।तस्य अपत्यम् च न अस्ति अन्यत् तस्मात् अंगद गम्यताम् ॥४-५४-२२॥ श्रुत्वा हनुमतो वाक्यम् प्रश्रितम् धर्म संहितम् ।स्वामि सत्कार संयुक्तम् अंगदो वाक्यम् अब्रवीत् ॥४-५५-१॥ स्थैर्यमात्ममनःशौचमानृशंस्यमथाअर्जवम् - यद्व -स्थैर्यम् आत्म मनः शौचम् आनृशंस्यम् अथ आर्जवम् ।विक्रमः चैव धैर्यम् च सुग्रीवे न उपपद्यते ॥४-५५-२॥ भ्रातुः ज्येष्ठस्य यो भार्याम् जीवितो महिषीम् प्रियाम् ।धर्मेण मातरम् यः तु स्वीकरोति जुगुप्सितः ॥४-५५-३॥ कथम् स धर्मम् जानीते येन भ्रात्रा दुरात्मना ।युद्धाय अभिनियुक्तेन बिलस्य पिहितम् मुखम् ॥४-५५-४॥ सत्यात् पाणि गृहीतः च कृत कर्मा महायशाः ।विस्मृतो राघवो येन स कस्य सुकृतम् स्मरेत् ॥४-५५-५॥ लक्ष्मणस्य भयेन इह न अधर्म भय भीरुणा ।आदिष्टा मार्गितुम् सीताम् धर्मः तस्मिन् कथम् भवेत् ॥४-५५-६॥ तस्मिन् पापे कृतघ्ने तु स्मृति भिन्ने चल आत्मनि ।आर्यः को विश्वसेत् जातु तत् कुलीनो विशेषतः ॥४-५५-७॥ राज्ये पुत्रः प्रतिष्ठाप्यः स गुणो निर्गुणो अपि वा ।कथम् शत्रु कुलीनम् माम् सुग्रीवो जीवयिष्यति ॥४-५५-८॥ भिन्न मन्त्रो अपराद्धः च हीन शक्तिः कथम् हि अहम् ।किष्किन्धाम् प्राप्य जीवेयम् अनाथ इव दुर्बलः ॥४-५५-९॥ उपांशु दण्डेन हि माम् बंधनेन उपपादयेत् ।शठः क्रूरो नृशंसः च सुग्रीवो राज्य कारणात् ॥४-५५-१०॥ बंधनात् च अवसादात् मे श्रेयः प्रायोपवेशनम् ।अनुजानंतु माम् सर्वे गृहम् गच्छंतु वानराः ॥४-५५-११॥ अहम् वः प्रतिजानामि न गमिष्यामि अहम् पुरीम् ।इह एव प्रायम् आसिष्ये श्रेयो मरणम् एव मे ॥४-५५-१२॥ अभिवादन पूर्वम् तु राजा कुशलम् एव च ।अभिवादन पूर्वम् तु राघवौ बलशालिनौ ॥४-५५-१३॥ वाच्यः तातः यवीयान् मे सुग्रीवो वानर ईश्वरः ।आरोग्य पूर्वम् कुशलम् वाच्या माता रुमा च मे ॥४-५५-१४॥ मातरम् चैव मे ताराम् आश्वासयितुम् अर्हथ ।प्रकृत्या प्रिय पुत्रा सा सानुक्रोशा तपस्विनी ॥४-५५-१५॥ विनष्टम् माम् इह श्रुत्वा व्यक्तम् हास्यति जीवितम् ।एतावत् उक्त्वा वचनम् वृद्धान् तान् अभिवाद्य च ॥४-५५-१६॥ विवेश अंगदो भूमौ रुदन् दर्भेषु दुर्मनाः ।तस्य संविशतः तत्र रुदन्तो वानर ऋषभाः ॥४-५५-१७॥ नयनेभ्यः प्रमुमुचुः उष्णम् वै वारि दुःखिताः ।सुग्रीवम् चैव निन्दन्तः प्रशंसन्तः च वालिनम् ॥४-५५-१८॥ परिवार्य अंगदम् सर्वे व्यवस्यन् प्रायम् आसितुम् ।तत् वाक्यम् वालि पुत्रस्य विज्ञाय प्लवग ऋषभाः ॥४-५५-१९॥ उपस्पृश्य उदकम् सर्वे प्राक् मुखाः समुपाविशन् ।दक्षिण अग्रेषु दर्भेषु उदक् तीरम् समाश्रिताः ॥४-५५-२०॥ मुमूर्षवओ हरिश्रेष्टा एतत् क्षमम् इति स्म ह ।रामस्य वन वासम् च क्षयम् दशरथस्य च ॥४-५५-२१॥ जनस्थान वधम् चैव वधम् चैव जटायुषः ।हरणम् चैव वैदेह्या वालिनः च वधम् तथा ।राम कोपम् च वदताम् हरीणाम् भयम् आगतः ॥४-५५-२२॥ स संविशद्भिः बहुभिः महीधरोमहाअद्रि कूट प्रमितैः प्लवंगमैः ।बभूव सन्नादित निर्दर अन्तरोभृशम् नदद्भिः जलदैः इव अंबरम् ॥४-५५-२३॥ उपविष्टाः तु ते सर्वे यस्मिन् प्रायम् गिरि स्थले ।हरयो गृध्र राजः च तम् देशम् उपचक्रमे ॥४-५६-१॥ सांपातिः नाम नाम्ना तु चिर जीवी विहंगमः ।भ्राता जटायुषः श्रीमान् प्रख्यात बल पौरुषः ॥४-५६-२॥ कंदरात् अभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरम् अब्रवीत् ॥४-५६-३॥ विधिः किल नरम् लोके विधानेन अनुवर्तते ।यथा अयम् विहितो भक्ष्यः चिरात् मह्यम् उपागतः ॥४-५६-४॥ परंपराणाम् भक्षिष्ये वानराणाम् मृतम् मृतम् ।उवाच एतत् वचः पक्षी तान् निरीक्ष्य प्लवंगमान् ॥४-५६-५॥ तस्य तत् वचनम् श्रुत्वा भक्ष लुब्धस्य पक्षिणः ।अंगदः परम् आयस्तो हनूमंतम् अथ अब्रवीत् ॥४-५६-६॥ पश्य सीता - गृध्रा - अपदेशेन साक्षात् वैवस्वतो यमः ।इमम् देशम् अनुप्राप्तो वानराणाम् विपत्तये ॥४-५६-७॥ रामस्य न कृतम् कार्यम् न कृतम् राज शाशनम् ।हरीणाम् इयम् अज्ञाता विपत्तिः सहसा आगता ॥४-५६-८॥ वैदेह्याः प्रिय कामेन कृतम् कर्म जटायुषा ।गृध्र राजेन यत् तत्र श्रुतम् वः तत् अशेषतः ॥४-५६-९॥ तथा सर्वाणि भूतानि तिर्यक् योनि गतानि अपि ।प्रियम् कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् ॥४-५६-१०॥ अन्योन्यम् उपकुर्वन्ति स्नेह कारुण्य यन्त्रिताः ।ततः तस्य उपकार अर्थम् त्यजत आत्मानम् आत्मना ॥४-५६-११॥ प्रियम् कृत्वा हि रामस्य धर्मज्ञेन जटायुषा ।राघव अर्थे परिश्रान्ता वयम् संत्यक्त जीविताः ॥४-५६-१२॥ कांताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ।स सुखी गृध्र राजः तु रावणेन हतो रणे ।मुक्तः च सुग्रीव भयात् गतः च परमाम् गतिम् ॥४-५६-१३॥ जटायुषो विनाशेन राज्ञो दशरथस्य च ।हरणेन च वैदेह्याः संशयम् हरयो गताः ॥४-५६-१४॥ राम लक्ष्मणयोः वासाम् अरण्ये सह सीतया ।राघवस्य च बाणेन वालिनः च तथा वधः ॥४-५६-१५॥ राम कोपात् अशेषाणाम् राक्षसाम् च तथा वधम् ।कैकेय्या वर दानेन इदम् च विकृतम् कृतम् ॥४-५६-१६॥ तत् असुखम् अनुकीर्तितम् वचोभुवि पतितान् च निरीक्ष्य वानरान् ।भृश चकित मतिः महामतिःकृपणम् उदाहृतवान् स गृध्रराजः ॥४-५६-१७॥ तत् तु श्रुत्वा तदा वाक्यम् अंगदस्य मुख उद्गतम् ।अब्रवीत् वचनम् गृध्रः तीक्ष्ण तुण्डो महास्वनः ॥४-५६-१८॥ को अयम् गिरा घोषयति प्राणैः प्रियतरस्य मे ।जटायुषो वधम् भ्रातुः कंपयन् इव मे मनः ॥४-५६-१९॥ कथम् आसीत् जनस्थाने युद्धम् राक्षस गृध्रयोः ।नामधेयम् इदम् भ्रातुः चिरस्य अद्य मया श्रुतम् ॥४-५६-२०॥ इच्छेयम् गिरि दुर्गात् च भवद्भिः अवतारितुम् ।यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥४-५६-२१॥ अति दीर्घस्य कालस्य परितुष्टो अस्मि कीर्तितनात् ।तत् इच्छेयम् अहम् श्रोतुम् विनाशम् वानर ऋषभाः ॥४-५६-२२॥ भ्रातुः जटायुषः तस्य जनस्थान निवासिनः ।तस्य एव च मम भ्रातुः सखा दशरथः कथम् ॥४-५६-२३॥ यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरु जन प्रियः ।सूर्य अंशु दग्ध पक्षत्वात् न शक्नोमि विसर्पितुम् ।इच्छेयम् पर्वतात् अस्मात् अवतर्तुम् अरिन्दमाः ॥४-५६-२४॥ शोकात् भ्रष्ट स्वरम् अपि श्रुत्वा ते हरि यूथपाः ।श्रद्दधुः न एव तत् वाक्यम् कर्मणा तस्य शन्किताः ॥४-५७-१॥ ते प्रायम् उपविष्टाः तु दृष्ट्वा गृध्रम् प्लवंगमाः ।चक्रुः बुद्धिम् तदा रौद्राम् सर्वान् नः भक्षयिष्यति ॥४-५७-२॥ सर्वथा प्रायम् आसीनान् यदि नः भक्षयिष्यति ।कृत कृत्या भविष्यामः क्षिप्रम् सिद्धिम् इतो गताः ॥४-५७-३॥ एताम् बुद्धिम् ततः चक्रुः सर्वे ते हरि यूथपाः ।अवतार्य गिरेः शृंगात् गृध्रम् आह अंगदः तदा ॥४-५७-४॥ बभूवुः ऋक्षरजो नाम वानरेन्द्रः प्रतापवान् ।मम आर्यः पार्थिवः पक्षिन् धार्मिकौ तस्य च आत्मजौ ॥४-५७-५॥ सुग्रीवः चैव वली च पुत्रौ घन बलौ उभौ ।लोके विश्रुत कर्मा अभूत् राजा वाली पिता मम ॥४-५७-६॥ राजा कृत्स्नस्य जगतः इक्ष्वाकूणाम् महारथः ।रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् ॥४-५७-७॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया ।पितुः निदेश निरतो धर्मम् पन्थानम् आश्रितः ॥४-५७-८॥ तस्य भार्या जनस्थानात् रावणेन हृता बलात् ।रामस्य च पितुः मित्रम् जटायुः नाम गृध्र राट् ॥४-५७-९॥ ददर्श सीताम् वैदेहीम् ह्रियमाणाम् विहायसा ।रावणम् विरथम् कृत्वा स्थापयित्वा च मैथिलीम् ।परिश्रान्तः च वृद्धः च रावणेन हतो रणे ॥४-५७-१०॥ एवम् गृध्रो हतः तेन रावणेन बलीयसा ।संस्कृतः च अपि रामेण गतः च गतिम् उत्तमाम् ॥४-५७-११॥ ततो मम पितृव्येण सुग्रीवेण महात्मना ।चकार राघवः सख्यम् सः अवधीत् पितरम् मम ॥४-५७-१२॥ मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ।निहत्य वालिनम् रामः ततः तम् अभिषेचयत् ॥४-५७-१३॥ स राज्ये स्थापितः तेन सुग्रीवो वानरेश्वरः ।राजा वानर मुख्यानाम् तेन प्रस्थापिता वयम् ॥४-५७-१४॥ एवम् राम प्रयुक्ताः तु मार्गमाणाः ततः ततः ।वैदेहीम् न अधिगच्छामो रात्रौ सूर्य प्रभाम् इव ॥४-५७-१५॥ ते वयम् दण्दकारण्यम् विचित्य सुसमाहिताः ।अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतम् बिलम् ॥४-५७-१६॥ मयस्य माया विहितम् तत् बिलम् च विचिन्वताम् ।व्यतीतः तत्र नः मासः यः राज्ञा समयः कृतः ॥४-५७-१७॥ ते वयम् कपि राजस्य सर्वे वचन कारिणः ।कृताम् संस्थाम् अतिक्रान्ता भयात् प्रायम् उपासिताः ॥४-५७-१८॥ क्रुद्धे तस्मिन् तु काकुत्स्थे सुग्रीवे च स लक्ष्मणे ।गतानाम् अपि सर्वेषाम् तत्र नः न अस्ति जीवितम् ॥४-५७-१९॥ इति उक्तः करुणम् वाक्यम् वानरैः त्यक्त जीवितैः ।स बाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥४-५८-१॥ यवीयान् मम स भ्राता जटायुः नाम वानराः ।यम् आख्यात हतम् युद्धे रावणेन बलीयसा ॥४-५८-२॥ वृद्ध भावात् अपक्षत्वात् शृण्वन् तत् अपि मर्षये ।न हि मे शक्तिः अद्य अस्ति भ्रातुः वैर विमोक्षणे ॥४-५८-३॥ पुरा वृत्र वधे वृत्ते स च अहम् च जय एषिणौ ।आदित्यम् उपयातौ स्वो ज्वलंतम् रश्मि मालिनम् ॥४-५८-४॥ आवृत्य आकाश मार्गेण जवेन स्वर् गतौ भृशम् ।मध्यम् प्राप्ते च सूर्ये च जटायुः अवसीदति ॥४-५८-५॥ तम् अहम् भ्रातरम् दृष्ट्वा सूर्य रश्मिभिः अर्दितम् ।पक्षाभ्यम् छादयामास स्नेहात् परम विह्वलम् ॥४-५८-६॥ निर्दग्ध पत्रः पतितो विन्ध्ये अहम् वानरर्षभाः ।अहम् अस्मिन् वसन् भ्रातुः प्रवृत्तिम् न उपलक्षये ॥४-५८-७॥ जटायुषः तु एवम् उक्तो भ्रात्रा सम्पातिना तदा ।युव राजो महाप्राज्ञः प्रत्युवाच अंगदः तदा ॥४-५८-८॥ जटायुषो यदि भ्राता श्रुतम् ते गदितम् मया ।आख्याहि यदि जानासि निलयम् तस्य रक्षसः ॥४-५८-९॥ अदीर्घ दर्शिनम् तम् वा रावणम् राक्षसाधिपम् ।अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥४-५८-१०॥ ततो अब्रवीत् महातेजा भ्राता ज्येष्ठो जटायुषः ।आत्म अनुरूपम् वचनम् वानरान् संप्रहर्षयन् ॥४-५८-११॥ निर्दग्ध पक्षो गृध्रो अहम् गत वीर्यः प्लवम् गमाः ।वाङ् मात्रेण तु रामस्य करिष्ये साह्यम् उत्तमम् ॥४-५८-१२॥ जानामि वारुणान् लोकान् विष्णोः त्रैविक्रमान् अपि ।देव असुर विमर्दाम् च हि अमृतस्य च मंथनम् ॥४-५८-१३॥ रामस्य यत् इदम् कार्यम् कर्तव्यम् प्रथमम् मया ।जरया च हतम् तेजः प्राणाः च शिथिला मम ॥४-५८-१४॥ तरुणी रूप संपन्ना सर्व आभरण भूषिता ।ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥४-५८-१५॥ क्रोशन्ती राम राम इति लक्ष्मण इति च भामिनी ।भूषणानि अपविध्यन्ती गात्राणि च विधुन्वती ॥४-५८-१६॥ सूर्य प्रभा इव शैल अग्रे तस्याः कौशेयम् उत्तमम् ।असिते राक्षसे भाति यथा वा तडित् अंबुदे ॥४-५८-१७॥ ताम् तु सीताम् अहम् मन्ये रामस्य परिकीर्तनात् ।श्रूयताम् मे कथयतो निलयम् तस्य रक्षसः ॥४-५८-१८॥ पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।अध्यास्ते नगरीम् लंकाम् रावणो नाम राक्षसः ॥४-५८-१९॥ इतो द्वीपे समुद्रस्य संपूर्णे शत योजने ।तस्मिन् लंका पुरी रम्या निर्मिता विश्वकर्मणा ॥४-५८-२०॥ जांबूनदमयैः द्वारैः चित्रैः कांचन वेदिकैः ।प्रासादैः हेम वर्णैः च महद्भिः सुसमाकृता ॥४-५८-२१॥ प्राकारेण अर्क वर्णेन महता च समन्विता ।तस्याम् वसति वैदेही दीना कौशेय वासिनी ॥४-५८-२२॥ रावण अन्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।जनकस्य आत्मजाम् राज्ञः तस्याम् द्रक्ष्यथ मैथिलीम् ॥४-५८-२३॥ लंकायाम् अथ गुप्तायाम् सागरेण समंततः ।संप्राप्य सागरस्य अंतम् संपूर्णम् शत योजनम् ॥४-५८-२४॥ आसाद्य दक्षिणम् तीरम् ततो द्रक्ष्यथ रावणम् ।तत्र एव त्वरिताः क्षिप्रम् विक्रमध्वम् प्लवंगमाः ॥४-५८-२५॥ ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ।आद्यः पंथाः कुलिंगानाम् ये च अन्ये धान्य जीविनः ॥४-५८-२६॥ द्वितीयो बलि भोजानाम् ये च वृक्ष फल अशिनः ।भासाः तृतीयम् गच्छन्ति क्रौन्चाः च कुररैः सह ॥४-५८-२७॥ श्येनाः चतुर्थम् गच्छन्ति गृध्रा गच्छन्ति पंचमम् ।बल वीर्य उपपन्नानाम् रूप यौवन शालिनाम् ॥४-५८-२८॥ षष्ठः तु पन्था हंसानाम् वैनतेय गतिः परा ।वैनतेयात् च नः जन्म सर्वेषाम् वानरर्षभाः ॥४-५८-२९॥ गर्हितम् तु कृतम् कर्म येन स्म पिशित अशनाः ।प्रतिकार्यम् च मे तस्य वैरम् भ्रातृ कृतम् भवेत् ॥४-५८-३०॥ इह स्थः अहम् प्रपश्यामि रावणम् जानकीम् तथा ।अस्माकम् अपि सौपर्णम् दिव्यम् चक्षुर् बलम् तथा ॥४-५८-३१॥ तस्मात् आहार वीर्येण निसर्गेण च वानराः ।आयोजन शतात् साग्रात् वयम् पश्याम नित्यशः ॥४-५८-३२॥ अस्माकम् विहिता वृत्तिः निसार्गेण च दूरतः ।विहिता पाद मूले तु वृत्तिः चरण योधिनाम् ॥४-५८-३३॥ उपायो दृश्यताम् कश्चित् लंघने लवण अंभसः ।अभिगम्य तु वैदेहीम् समृद्ध अर्था गमिष्यथ ॥४-५८-३४॥ समुद्रम् नेतुम् इच्छामि भवद्भिः वरुण आलयम् ।प्रदास्यामि उदकम् भ्रातुः स्वर् गतस्य महात्मनः ॥४-५८-३५॥ ततो नीत्वा तु तम् देशम् तीरे नद नदी पतेः ।निर्दग्ध पक्षम् संपातिम् वानराः सुमहौओजसः ॥४-५८-३६॥ तम् पुनः प्रत्यानयित्वा वै तम् देशम् पतग ईश्वरम् ।बभूवुः वानरा हृष्टाः प्रवृत्तिम् उपलभ्य ते ॥४-५८-३७॥ ततः तत् अमृत आस्वादम् गृध्र राजेन भाषितम् ।निशम्य मुदितो हृष्टाः ते वचः प्लवगर्षभाः ॥४-५९-१॥ जांबवान् वानर श्रेष्ठः सह सर्वैः प्लवंगमैः ।भू तलात् सहसा उत्थाय गृध्र राजानम् अब्रवीत् ॥४-५९-२॥ क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।तत् आख्यातु भवान् सर्वम् गतिः भव वन ओकसाम् ॥४-५९-३॥ को दाशरथि बाणानाम् वज्र वेग निपातिनाम् ।स्वयम् लक्ष्मणम् मुक्तानाम् न चिंतयति विक्रमम् ॥४-५९-४॥ स हरीन् प्रति संयुक्तान् सीता श्रुति समाहितान् ।पुनः आश्वासयन् प्रीत इदम् वचनम् अब्रवीत् ॥४-५९-५॥ श्रूयताम् इह वैदेह्या यथा मे हरणम् श्रुतम् ।येन च अपि मम आख्यातम् यत्र च आयत लोचना ॥४-५९-६॥ अहम् अस्मिन् गिरौ दुर्गे बहु योजनम् आयते ।चिरात् निपतितो वृद्धः क्षीण प्राण पराक्रमः ॥४-५९-७॥ तम् माम् एवम् गतम् पुत्रः सुपार्श्वो नाम नामतः ।आहारेण यथा कालम् बिभर्ति पतताम् वरः ॥४-५९-८॥ तीक्ष्ण कामाः तु गंधर्वाः तीक्ष्ण कोपा भुजंगमाः ।मृगाणाम् तु भयम् तीक्ष्णम् ततः तीक्ष्ण क्षुधा वयम् ॥४-५९-९॥ स कदाचित् क्षुधा आर्तस्य मम आहार कान्क्षिणः ।गत सूर्यो अहनि प्राप्तो मम पुत्रो हि अनामिषः ॥४-५९-१०॥ स मया आहार संरोधात् पीडितः प्रीति वर्धनः ।अनुमान्य यथा तत्त्वम् इदम् वचनम् अब्रवीत् ॥४-५९-११॥ अहम् तात यथा कालम् आमिष अर्थी खम् आप्लुतः ।महेन्द्रस्य गिरेः द्वारम् आवृत्य च सुसमाश्रितः ॥४-५९-१२॥ तत्र सत्त्व सहस्राणाम् सागर अन्तर चारिणाम् ।पंथानम् एको अध्यवसम् संनिरोद्धुम् अवाङ् मुखः ॥४-५९-१३॥ तत्र कश्चित् मया दृष्टः सूर्य उदय सम प्रभाम् ।स्त्रियम् आदाय गच्छन् वै भिन्न अंजन चय उपमः ॥४-५९-१४॥ सो अहम् अभ्यवहार अर्थम् तौ दृष्ट्वा कृत निश्चयः ।तेन साम्ना विनीतेन पन्थानम् अनुयाचितः ॥४-५९-१५॥ न हि साम उपपन्नानाम् प्रहर्ता विद्यते भुवि ।नीचेषु अपि जनः कश्चित् किम् अङ्ग बत मत् विधः ॥४-५९-१६॥ स यातः तेजसा व्योम संक्षिपन् इव वेगतः ।अथ अहम् खे चरैः भूतैः अभिगम्य सभाजितः ॥४-५९-१७॥ दिष्ट्या जीवति सीत इति हि अब्रुवन् माम् महर्षयः ।कथंचित् स कलत्रः असौ गतः ते स्वस्ति असंशयम् ॥४-५९-१८॥ एवम् उक्तः ततो अहम् तैः सिद्धैः परम शोभनैः ।स च मे रावणो राजा रक्षसाम् प्रतिवेदितः ॥४-५९-१९॥ पश्यन् दाशरथेः भार्याम् रामस्य जनक आत्मजाम् ।भ्रष्ट आभरण कौशेयाम् शोक वेग पराजिताम् ॥४-५९-२०॥ राम लक्ष्मणयोः नाम क्रोशन्तीम् मुक्त मूर्धजाम् ।एष काल अत्ययः तात इति वाक्यविदाम् वरः ॥४-५९-२१॥ एतत् अर्थम् समग्रम् मे सुपार्श्वः प्रत्यवेदयत् ।तत् श्रुत्वा अपि हि मे बुद्धिः न आसीत् काचित् पराक्रमे ॥४-५९-२२॥ अपक्षो हि कथम् पक्षी कर्म किंचित् समारभेत् ।यत् तु शक्यम् मया कर्तुम् वाक् बुद्धि गुण वर्तिना ॥४-५९-२३॥ श्रूयताम् तत्र वक्ष्यामि भवताम् पौरुष आश्रयम् ।वाक् मतिभ्याम् हि सार्वेषाम् करिष्यामि प्रियम् हि वः ॥४-५९-२४॥ यत् हि दाशरथेः कार्यम् मम तत् न अत्र संशयः ।तत् भवन्तो मति श्रेष्ठा बलवन्तो मनस्विनः ॥४-५९-२५॥ प्रहिताः कपि राजेन देवैः अपि दुरासदाः ।राम लक्ष्मण बाणाः च निशिताः कंक पत्रिणः ॥४-५९-२६॥ त्रयाणाम् अपि लोकानाम् पर्याप्ताः त्राण निग्रहे ।कामम् खलु दशग्रीवः तेजो बल समन्वितः ।भवताम् तु समर्थानाम् न किंचित् अपि दुष्करम् ॥४-५९-२७॥ तत् अलम् काल संगेन क्रियताम् बुद्धि निश्चयः ।न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवत् विधाः ॥४-५९-२८॥ ततः कृत उदकम् स्नातम् तम् गृध्रम् हरि यूथपाः ।उपविष्टा गिरौ रम्ये परिवार्य समन्ततः ॥४-६०-१॥ तम् अंगदम् उपासीनम् तैः सर्वैः हरिभिः वृतम् ।जनित प्रत्ययो हर्षात् संपातिः पुनः अब्रवीत् ॥४-६०-२॥ कृत्वा निःशब्दम् एक अग्राः शृण्वन्तु हरयो मम ।तथ्यम् संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥४-६०-३॥ अस्य विन्ध्यस्य शिखरे पतितो अस्मि पुरा अनघ ।सूर्य ताप परीत अंगो निर्दग्धः सूर्य रश्मिभिः ॥४-६०-४॥ लब्ध संज्ञः तु षड् रात्रात् विवशो विह्वलन् इव ।वीक्षमाणो दिशः सर्वा न अभिजानामि किंचन ॥४-६०-५॥ ततः तु सागरान् शैलान् नदीः सर्वाः सरांसि च ।वनानि च प्रदेशान् च समीक्ष्य मतिः आगताम् ॥४-६०-६॥ हृष्ट पक्षि गण आकीर्णः कन्दर उदर कूटवान् ।दक्षिणस्य उदधेः तीरे विन्ध्यो अयम् इति निश्चितः ॥४-६०-७॥ आसीत् च अत्र आश्रमम् पुण्यम् सुरैः अपि सुपूजितम् ।ऋषिः निशाकरो नाम यस्मिन् उग्र तपा अभवत् ॥४-६०-८॥ अष्टौ वर्ष सहस्राणि तेन अस्मिन् ऋषिणा गिरौ ।वसतो मम धर्मज्ञो स्वर् गते तु निशाकरे ॥४-६०-९॥ अवतीर्य च विन्ध्य अग्रात् कृच्छ्रेण विषमात् शनैः ।तीक्ष्ण दर्भाम् वसुमतीम् दुःखेन पुनर् आगतः ॥४-६०-१०॥ तम् ऋषिम् द्रष्टु कामो अस्मि दुःखेन अभ्यागतो भृशम् ।जटायुषा मया चैव बहुशो अभिगतो हि सः ॥४-६०-११॥ तस्य आश्रम पदाभ्याशे ववुः वाताः सुगन्धिनः ।वृक्षो न अपुष्पितः कश्चित् अफलो वा न दृश्यते ॥४-६०-१२॥ उपेत्य च आश्रमम् पुण्यम् वृक्ष मूलम् उपाश्रितः ।द्रष्टु कामः प्रतीक्षे च भगवंतम् निशाकरम् ॥४-६०-१३॥ अथ पश्यमि दूरस्थम् ऋषिम् ज्वलित तेजसम् ।कृत अभिषेकम् दुर्धर्षम् उपावृत्तम् उदन् मुखम् ॥४-६०-१४॥ तम् ऋक्षाः सृमरा व्याघ्राः सिंहा नाना सरीसृपाः ।परिवार्य उपगच्छन्ति दातारम् प्राणिनो यथा ॥४-६०-१५॥ ततः प्राप्तम् ऋषिम् ज्ञात्वा तानि सत्त्वानि वै ययुः ।प्रविष्टे राजनि यथा सर्वम् स अमात्यकम् बलम् ॥४-६०-१६॥ ऋषिः तु दृष्ट्वा माम् तुष्टः प्रविष्टः च आश्रमम् पुनः ।मुहूर्त मात्रान् निर्गम्य ततः कार्यम् अपृच्छत ॥४-६०-१७॥ सौम्य वैकल्यताम् दृष्ट्वा रोम्णाम् ते न अवगम्यते ।अग्नि दग्धौ इमौ पक्षौ प्राणाः चापि शरीरके ॥४-६०-१८॥ गृध्रौ द्वौ दृष्ट पूर्वौ मे मातरिश्व समौ जवे ।गृध्राणाम् चैव राजानौ भ्रातरौ काम रूपिणौ ॥४-६०-१९॥ ज्येष्ठो अवित स्त्वम् तु संपाते जटायुः अनुजः तव ।मानुषम् रूपम् आस्थाय गृह्णीताम् चरणौ मम ॥४-६०-२०॥ किम् ते व्याधि समुत्थानम् पक्षयोः पतनम् कथम् ।दण्डो वा अयम् धृतः केन सर्वम् आख्याहि पृच्छतः ॥४-६०-२१॥ ततः तत् दारुणम् कर्म दुष्करम् साहसात् कृतम् ।आचचक्षे मुनेः सर्वम् सूर्य अनुगमनम् तथा ॥४-६१-१॥ भगवन् व्रण युक्तत्वात् लज्जया च अकुल इन्द्रियः ।परिश्रान्तो न शक्नोमि वचनम् परिभाषितुम् ॥४-६१-२॥ अहम् चैव जटायुः च संघर्षात् दर्प मोहितौ ।आकाशम् पतितौ दूरात् जिज्ञासन्तौ पराक्रमम् ॥४-६१-३॥ कैलास शिखरे बद्ध्वा मुनीनाम् अग्रतः पणम् ।रविः स्यात् अनुयातव्यो यावत् अस्तम् महागिरिम् ॥४-६१-४॥ अपि आवाम् युगपत् प्राप्तौ अपश्याव मही तले ।रथ चक्र प्रमाणानि नगराणि पृथक् पृथक् ॥४-६१-५॥ क्वचित् वादित्र घोषः च क्वचित् भूषण निःस्वनः ।गायन्तीः स्म अंगना बह्वीः पश्यावो रक्त वाससः ॥४-६१-६॥ तूर्णम् उत्पत्य च आकाशम् आदित्य पथम् आस्थितौ ।आवाम् आलोकयावः तत् वनम् शाद्वल संस्थितम् ॥४-६१-७॥ उपलैः इव संछन्ना दृश्यते भूः शिल उच्चयैः ।आपगाभिः च संवीता सूत्रैः इव वसुंधरा ॥४-६१-८॥ हिमवान् चैव विन्ध्यः च मेरुः च सुमहान् गिरिः ।भू तले संप्रकाशन्ते नागा इव जल आशये ॥४-६१-९॥ तीव्रः स्वेदः च खेदः च भयम् च आसीत् तदा अवयोः ।समाविशत मोहः च ततो मूर्च्छा च दारुणा ॥४-६१-१०॥ न च दिक् ज्ञायते याम्या न आग्नेयी न च वारुणी ।युग अन्ते नियतो लोको हतो दग्ध इव अग्निना ॥४-६१-११॥ मनः च मे हतम् भूयः चक्षुः प्राप्य तु संश्रयम् ।यत्नेन महता हि अस्मिन् मनः संधाय चक्षुषी ॥४-६१-१२॥ यत्नेन महता भूयो भास्करः प्रतिलोकितः ।तुल्यः पृथ्वी प्रमाणेन भास्करः प्रतिभाति नौ ॥४-६१-१३॥ जटायुः माम् अनापृच्छ्य निपपात महीम् ततः ।तम् दृष्ट्वा तूर्णम् आकाशात् आत्मानम् मुक्तवान् अहम् ॥४-६१-१४॥ पक्षभ्याम् च मया गुप्तो जटायुः न प्रदह्यत ।प्रमादात् तत्र निर्दग्धः पतन् वायु पथात् अहम् ॥४-६१-१५॥ आशन्के तम् निपतितम् जनस्थाने जटायुषम् ।अहम् तु पतितो विन्ध्ये दग्ध पक्षो जडी कृतः ॥४-६१-१६॥ राज्यात् हीनो भ्रात्रा च पक्षाभ्याम् विक्रमेण च ।सर्वथा मर्तुम् एव इच्छन् पतिष्ये शिखरात् गिरेः ॥४-६१-१७॥ एवम् उक्त्वा मुनिश्रेष्ठम् अरुदम् भृश दुःखितः ।अथ ध्यात्वा मुहूर्तम् तु भगवान् इदम् अब्रवीत् ॥४-६२-१॥ पक्षौ च ते प्रपक्षौ च पुनः अन्यौ भविष्यतः ।चक्षुषी चैव प्राणाः च विक्रमः च बलम् च ते ॥४-६२-२॥ पुराणे सुमहत् कार्यम् भविष्यम् हि मया श्रुतम् ।दृष्टम् मे तपसा चैव श्रुत्वा च विदितम् मम ॥४-६२-३॥ राजा दशरथो नाम कश्चित् इक्ष्वाकु वर्धनः ।तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥४-६२-४॥ अरण्यम् च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।तस्मिन् अर्थे नियुक्तः सन् पित्रा सत्य पराक्रमः ॥४-६२-५॥ नैर्ऋतो रावणो नाम तस्य भार्याम् हरिष्यति ।राक्षसेन्द्रो जनस्थानात् अवध्यः सुर दानवैः ॥४-६२-६॥ सा च कामैः प्रलोभ्यन्ती भक्ष्यैः भोज्यैः च मैथिली ।न भोक्ष्यति महाभागा दुःख मग्ना यशस्विनी ॥४-६२-७॥ परमान्नम् च वैदेह्या ज्ञात्वा दास्यति वासवः ।यत् अन्नम् अमृत प्रख्यम् सुराणाम् अपि दुर्लभम् ॥४-६२-८॥ तत् अन्नम् मैथिली प्राप्य विज्ञाय इन्द्रात् इदम् तु इति ।अग्रम् उद्धृत्य रामाय भू तले निर्वपिष्यति ॥४-६२-९॥ यदि जीवति मे भर्ता लक्ष्मणो वा अपि देवरः ।देवत्वम् गतयोः वा अपि तयोः अन्नम् इदम् तु इति ॥४-६२-१०॥ एष्यन्ति प्रेषिताः तत्र राम दूताः प्लवंगमाः ।आख्येया राम महिषी त्वया तेभ्यो विहंगम ॥४-६२-११॥ सर्वथा तु न गंतव्यम् ईदृशः क्व गमिष्यसि ।देश कालौ प्रतीक्षस्व पक्षौ त्वम् प्रतिपत्स्यसे ॥४-६२-१२॥ उत्सहेयम् अहम् कर्तुम् अद्य एव त्वाम् स पक्षकम् ।इह स्थः त्वम् तु लोकानाम् हितम् कार्यम् करिष्यसि ॥४-६२-१३॥ त्वया अपि खलु तत् कार्यम् तयोः च नृप पुत्रयोः ।ब्राह्मणानाम् गुरूणाम् च मुनीनाम् वासवस्य च ॥४-६२-१४॥ इच्छामि अहम् अपि द्रष्टुम् भ्रातरौ राम लक्ष्मणौ ।न इच्छे चिरम् धारयितुम् प्राणान् त्यक्ष्ये कलेवरम् ।महर्षि तु तत् अब्रवीत् इदम् दृष्ट तत्त्व अर्थ दर्शिनः ॥४-६२-१५॥ एतैः अन्यैः च बहुभिः वाक्यैः वाक्य विशारदः ।माम् प्रशस्य अभ्यनुज्ञाप्य प्रविष्टः स स्वम् आलयम् ॥४-६३-१॥ कंदरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः ।अहम् विंध्यम् समारुह्य भवतः प्रतिपालये ॥४-६३-२॥ अद्य तु एतस्य कालस्य साग्रम् वर्ष शतम् गतम् ।देश काल प्रतीक्षो अस्मि हृदि कृत्वा मुनेः वचः ॥४-६३-३॥ महाप्रस्थानम् आसाद्य स्वर् गते तु निशाकरे ।माम् निर्दहति संतापो वितर्कैः बहुभिः वृतम् ॥४-६३-४॥ उदिताम् मरणे बुद्धिम् मुनि वाक्यैः निवर्तये ।बुद्धिः या तेन मे दत्ता प्राणानाम् रक्षणे मम ॥४-६३-५॥ सा मे अपनयते दुःखम् दीप्ता इव अग्नि शिखा तमः ।बुध्यता च मया वीर्यम् रावणस्य दुरात्मनः ॥४-६३-६॥ पुत्रः संतर्जितो वाग्भिः न त्राता मैथिली कथम् ।तस्या विलपितम् श्रुत्वा तौ च सीता वियोजितौ ॥४-६३-७॥ न मे दशरथ स्नेहात् पुत्रेण उत्पादितम् प्रियम् ।तस्य तु एवम् ब्रुवाणस्य संहतैः वानरैः सह ॥४-६३-८॥ उत्पेततुः तदा पक्षौ समक्षम् वन चारिणाम् ।स दृष्ट्वा स्वाम् तनुम् पक्षैः उद्गतैः अरुण च्छदैः ॥४-६३-९॥ प्रहर्षम् अतुलम् लेभे वानरान् च इदम् अब्रवीत् ।निशाकरस्य राजर्षेः प्रभावात् अमित ओजसः ॥४-६३-१०॥ आदित्य रश्मि निर्दग्धौ पक्षौ पुनः उपस्थितौ ।यौवने वर्तमानस्य मम आसीत् यः पराक्रमः ॥४-६३-११॥ तम् एव अद्य अवगच्छामि बलम् पौरुषम् एव च ।सर्वथा क्रियताम् यत्नः सीताम् अधिगमिष्यथ ॥४-६३-१२॥ पक्ष लाभो मम अयम् वः सिद्धि प्रत्यय कारकः ।इति उक्त्वा तान् हरीन् सर्वान् संपातिः पतगोत्तम ॥४-६३-१३॥ उत्पपात गिरेः शृंगात् जिज्ञासुः ख गमो गतिम् ।तस्य तत् वचनम् श्रुत्वा प्रतिसंहृष्ट मानसाः ।बभूवुः हरि शार्दूला विक्रम अभ्युदय उन्मुखाः ॥४-६३-१४॥ अथ पवन समान विक्रमाःप्लवग वराः प्रतिलब्ध पौरुषाः ।अभिजित् अभिमुखाम् दिशम् ययुःजनक सुता परिमार्गण उन्मुखाः ॥४-६३-१५॥ आख्याता गृध्र राजेन समुत्प्लुत्य प्लवंगमाः ।संगताः प्रीति संयुक्ता विनेदुः सिंह विक्रमाः ॥४-६४-१॥ संपातेः वचनम् श्रुत्वा हरयो रावण क्षयम् ।हृष्टाः सागरम् आजग्मुः सीता दर्शन कान्क्षिणः ॥४-६४-२॥ अभिक्रम्य तु तम् देशम् ददृशुर् भीम विक्रमाः ।कृत्स्नम् लोकस्य महतः प्रतिबिंबम् इव स्थितम् ॥४-६४-३॥ दक्षिणस्य समुद्रस्य समासाद्य उत्तराम् दिशम् ।संनिवेशम् ततः चक्रुः सहिता वानर उत्तमाः ॥४-६४-४॥ प्रसुप्तम् इव च अन्यत्र क्रीडन्तम् इव च अन्यतः ।क्वचित् पर्वत मात्रैः च जल राशिभिः आवृतम् ॥४-६४-५॥ संकुलम् दानव इन्द्रैः च पाताल तल वासिभिः ।रोम हर्ष करम् दृष्ट्वा विषेदुः कपिकुंजराः ॥४-६४-६॥ आकाशम् इव दुष्पारम् सागरम् प्रेक्ष्य वानराः ।विषेदुः सहिता सर्वे कथम् कार्यम् इति ब्रुवन् ॥४-६४-७॥ विषण्णाम् वाहिनीम् दृष्ट्वा सागरस्य निरीक्षणात् ।आश्वासयामास हरीन् भय आर्तान् हरि सत्तमः ॥४-६४-८॥ न विषादे मनः कार्यम् विषादो दोषवत्तरः ।विषादो हन्ति पुरुषम् बालम् क्रुद्ध इव उरगः ॥४-६४-९॥ यो विषादो प्रसहते विक्रमे समुपस्थिते ।तेजसा तस्य हीनस्य पुरुष अर्थो न सिद्ध्यति ॥४-६४-१०॥ तस्याम् रात्र्याम् व्यतीतायाम् अंगदो वानरैः सह ।हरि वृद्धैः समागम्य पुनर् मंत्रम् अमंत्रयत् ॥४-६४-११॥ सा वानराणाम् ध्वजिनी परिवार्य अंगदम् बभौ ।वासवम् परिवार्य इव मरुताम् वाहिनी स्थिता ॥४-६४-१२॥ को अन्यः ताम् वानरीम् सेनाम् शक्तः स्तंभयितुम् भवेत् ।अन्यत्र वालि तनयात् अन्यत्र च हनूमतः ॥४-६४-१३॥ ततः तान् हरि वृद्धान् च तत् च सैन्यम् अरिन्दमः ।अनुमान्य अंगदः श्रीमान् वाक्यम् अर्थवत् अब्रवीत् ॥४-६४-१४॥ क इदानीम् महातेजा लंघयिष्यति सागरम् ।कः करिष्यति सुग्रीवम् सत्य सन्धम् अरिन्दमम् ॥४-६४-१५॥ को वीरो योजन शतम् लंघयेत प्लवंगमाः ।इमान् च यूथपान् सर्वान् मोचयेत् को महाभयात् ॥४-६४-१६॥ कस्य प्रसादात् दारान् च पुत्रान् चैव गृहाणि च ।इतो निवृत्ताः पश्येम सिद्ध अर्थाः सुखिनो वयम् ॥४-६४-१७॥ कस्य प्रसादात् रामम् च लक्ष्मणम् च महाबलम् ।अभिगच्छेम संहृष्टाः सुग्रीवम् च महाबलम् ॥४-६४-१८॥ यदि कश्चित् समर्थो वः सागर प्लवने हरिः ।स ददातु इह नः शीघ्रम् पुण्याम् अभय दक्षिणाम् ॥४-६४-१९॥ अंगदस्य वचः श्रुत्वा न कश्चित् किंचित् अब्रवीत् ।स्तिमिता इव अभवत् सर्वा सा तत्र हरि वाहिनी ॥४-६४-२०॥ पुनर् एव अंगदः प्राह तान् हरीन् हरि सत्तमः ।सर्वे बलवताम् श्रेष्ठा भवन्तो दृढ विक्रमाः ।व्यपदेश्य कुले जाताः पूजिताः च अपि अभीक्ष्णशः ॥४-६४-२१॥ न हि वो गमने संगः कदाचित् अपि कस्यचित् भवेत् ।ब्रुवध्वम् यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥४-६४-२२॥ अनेक शत साहस्रीम् विषण्णाम् हरि वाहिनीम् ।जांबवान् समुदीक्ष्य एवम् हनुमंतम् अथ अब्रवीत् ॥४-६६-१॥ वीर वानर लोकस्य सर्व शास्त्र विदाम् वर ।तूष्णीम् एकांतम् आश्रित्य हनुमन् किम् न जल्पसि ॥४-६६-२॥ हनुमन् हरि राजस्य सुग्रीवस्य समो हि असि ।राम लक्ष्मणयोः च अपि तेजसा च बलेन च ॥४-६६-३॥ अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।गरुत्मान् इव विख्यात उत्तमः सर्व पक्षिणाम् ॥४-६६-४॥ बहुशो हि मया दृष्टः सागरे स महाबलः ।भुजगान् उद्धरन् पक्षी महावेगो महायशाः ॥४-६६-५॥ पक्षयोः यत् बलम् तस्य तावत् भुज बलम् तव ।विक्रमः च अपि वेगः च न ते तेन अपहीयते ॥४-६६-६॥ बलम् बुद्धिः च तेजः च सत्त्वम् च हरि सत्तम ।विशिष्टम् सर्व भूतेषु किम् आत्मानम् न सज्जसे ॥४-६६-७॥ अप्सर अप्सरसाम् श्रेष्ठा विख्याता पुंजिकस्थला ।अंजना इति परिख्याता पत्नी केसरिणो हरेः ॥४-६६-८॥ विख्याता त्रिषु लोकेषु रूपेणा अप्रतिमा भुवि ।अभिशापात् अभूत् तात कपित्वे काम रूपिणी ॥४-६६-९॥ दुहिता वानर इन्द्रस्य कुंजरस्य महात्मनः ।मानुषम् विग्रहम् कृत्वा रूप यौवन शालिनी ॥४-६६-१०॥ विचित्र माल्य आभरणा कदाचित् क्षौम धारिणी ।अचरत् पर्वतस्य अग्रे प्रावृड् अंबुद सन्निभे ॥४-६६-११॥ तस्या वस्त्रम् विशालाक्ष्याः पीतम् रक्त दशम् शुभम् ।स्थितायाः पर्वतस्य अग्रे मारुतो अपहरत् शनैः ॥४-६६-१२॥ स ददर्श ततः तस्या वृत्तौ ऊरू सुसंहतौ ।स्तनौ च पीनौ सहितौ सुजातम् चारु च आननम् ॥४-६६-१३॥ ताम् बलात् आयत श्रोणीम् तनु मध्याम् यशस्विनीम् ।दृष्ट्वा एव शुभ सर्वान्गीम् पवनः काम मोहितः ॥४-६६-१४॥ स ताम् भुजाभ्याम् दीर्घाभ्याम् पर्यष्वजत मारुतः ।मन्मथ आविष्ट सर्वान्गो गत आत्मा ताम् अनिन्दिताम् ॥४-६६-१५॥ सा तु तत्र एव संभ्रांता सुवृत्ता वाक्यम् अब्रवीत् ।एक पत्नी व्रतम् इदम् को नाशयितुम् इच्छति ॥४-६६-१६॥ अंजनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ।न त्वाम् हिंसामि सुश्रोणि मा भूत् ते मनसोइ भयम् ॥४-६६-१७॥ मनसा अस्मि गतो यत् त्वाम् परिष्वज्य यशस्विनि ।वीर्यवान् बुद्धि संपन्नः पुत्रः तव भविष्यति ॥४-६६-१८॥ महासात्त्वो महातेज महाबल पराक्रमः ।लंघने प्लवने चैव भविष्यति मया समः ॥४-६६-१९॥ एवम् उक्ता ततः तुष्टा जननी ते महाकपेः ।गुहायाम् त्वाम् महाबाहो प्रजज्ञे प्लवगर्षभ ॥४-६६-२०॥ अभ्युत्थितम् ततः सूर्यम् बालो दृष्ट्वा महा वने ।फलंचेतिजिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतोदिवम् - यद्वा -फलम् च इति जिघृक्षुः त्वम् उत्प्लुत्य अभिउत्पतो दिवम् ॥४-६६-२१॥ शतानि त्रीणि गत्वा अथ योजनानाम् महाकपे ।तेजसा तस्य निर्धूतो न विषादम् ततो गतः ॥४-६६-२२॥ त्वाम् अपि उपगतम् तूर्णम् अंतरीक्षम् महाकपे ।क्षिप्तम् इन्द्रेण ते वज्रम् कोप आविष्टेन तेजसा ॥४-६६-२३॥ तदा शैलाग्र शिखरे वामो हनुर् अभज्यत ।ततो हि नाम धेयम् ते हनुमान् इति कीर्तितम् ॥४-६६-२४॥ ततः त्वाम् निहतम् दृष्ट्वा वायुः गन्ध वहः स्वयम् ।त्रैलोक्यम् भृश संक्रुद्धो न ववौ वै प्रभंजनः ॥४-६६-२५॥ संभ्रांताः च सुराः सर्वे त्रैलोक्ये क्षुभिते सति ।प्रसादयन्ति संक्रुद्धम् मारुतम् भुवनेश्वराः ॥४-६६-२६॥ प्रसादिते च पवने ब्रह्मा तुभ्यम् वरम् ददौ ।अशस्त्र वध्यताम् तात समरे सत्य विक्रम ॥४-६६-२७॥ वज्रस्य च निपातेन विरुजम् त्वाम् समीक्ष्य च ।सहस्र नेत्रः प्रीत आत्मा ददौ ते वरम् उत्तमम् ॥४-६६-२८॥ स्वच्छंदतः च मरणम् तव स्यात् इति वै प्रभो ।स त्वम् केसरिणः पुत्रः क्षेत्रजो भीम विक्रमः ॥४-६६-२९॥ मारुतस्य औरसः पुत्रः तेजसा च अपि तत् समः ।त्वम् हि वायु सुतो वत्स प्लवने च अपि तत् समः ॥४-६६-३०॥ वयम् अद्य गत प्राणा भवान् अस्मासु सांप्रतम् ।दाक्ष्य विक्रम संपन्नः कपि राज इव अपरः ॥४-६६-३१॥ त्रिविक्रमे मया तात स शैल वन कानना ।त्रिः सप्त कृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥४-६६-३२॥ तथा च ओषधयो अस्माभिः संचिता देव शासनात् ।निर्मथ्यम् अमृतम् याभिः तदा तदानीम् नो महत् बलम् ॥४-६६-३३॥ स इदानीम् अहम् वृद्धः परिहीन पराक्रमः ।साम्प्रतम् कालम् अस्माकम् भवान् सर्व गुण अन्वितः ॥४-६६-३४॥ तत् विजृंभस्व विक्रांतः प्लवताम् उत्तमो हि असि ।त्वत् वीर्यम् द्रष्टु कामा इयम् सर्वा वानर वाहिनी ॥४-६६-३५॥ उत्तिष्ठ हरि शार्दूल लंघयस्व महा अर्णवम् ।परा हि सर्व भूतानाम् हनुमन् या गतिः तव ॥४-६६-३६॥ विषाण्णा हरयः सर्वे हनुमन् किम् उपेक्षसे ।विक्रमस्व महावेग विष्णुः त्रीन् विक्रमान् इव ॥४-६६-३७॥ ततः कपीनाम् ऋषभेण चोदितःप्रतीत वेगः पवन आत्मजः कपिः ।प्रहर्षयन् ताम् हरि वीर वाहिनीम्चकार रूपम् महत् आत्मनः तदा ॥४-६६-३८॥ तम् दृष्ट्वा जृंभमाणम् ते क्रमितुम् शत योजनम् ।वेगेन आपूर्यमाणम् च सहसा वानरोत्तमम् ॥४-६७-१॥ सहसा शोकम् उत्सृज्य प्रहर्षेण समन्विताः ।विनेदुः तुष्टुवुः च अपि हनूमन्तम् महाबलम् ॥४-६७-२॥ प्रहृष्टा विस्मिताः च अपि ते वीक्षन्ते समंततः ।त्रिविक्रम कृत उत्साहम् नारायणम् इव प्रजाः ॥४-६७-३॥ संस्तूयमानो हनुमान् व्यवर्धत महाबलः ।समाविद्ध्य च लांगूलम् हर्षात् बलम् उपेयिवान् ॥४-६७-४॥ तस्य संस्तूयमानस्य सर्वैः वनर पुंगवैः ।तेजसा आपूर्यमाणस्य रूपम् आसीत् अनुत्तमम् ॥४-६७-५॥ यथा विजृंभते सिंहो विवृते गिरि गह्वरे ।मारुतस्य औरसः पुत्रः तथा संप्रति जृंभते ॥४-६७-६॥ अशोभत मुखम् तस्य जृंभमाणस्य धीमतः ।अंबरीष उपमम् दीप्तम् विधूम इव पावकः ॥४-६७-७॥ हरीणाम् उत्थितो मध्यात् संप्रहृष्ट तनू रुहः ।अभिवाद्य हरीन् वृद्धान् हनुमान् इदम् अब्रवीत् ॥४-६७-८॥ अरुजन् पर्वत अग्राणि हुताशन सखो अनिलः ।बलवान् अप्रमेयः च वायुः आकाश गोचरः ॥४-६७-९॥ तस्य अहम् शीघ्र वेगस्य शीघ्र गस्य महात्मनः ।मारुतस्य औरसः पुत्रः प्लवने च अस्मि तत् समः ॥४-६७-१०॥ उत्सहेयम् हि विस्तीर्णम् आलिखंतम् इव अंबरम् ।मेरुम् गिरिम् असंगेन परिगंतुम् सहस्रशः ॥४-६७-११॥ बाहु वेग प्रणुन्नेन सागरेण अहम् उत्सहे ।समाप्लावयितुम् लोकम् स पर्वत नदी ह्रदम् ॥४-६७-१२॥ मम ऊरु जन्घा वेगेन भविष्यति समुत्थितः ।समुत्थित महा ग्राहः समुद्रो वरुण आलयः ॥४-६७-१३॥ पन्नग अशनम् आकाशे पतन्तम् पक्षि सेवितम् ।वैनतेयम् अहम् शक्तः परिगंतुम् सहस्रशः ॥४-६७-१४॥ उदयात् प्रस्थितम् वा अपि ज्वलंतम् रश्मि मालिनम् ।अन् अस्तमितम् आदित्यम् अभिगंतुम् समुत्सहे ॥४-६७-१५॥ ततो भूमिम् असंस्पृष्ट्वा पुनः आगन्तुम् उत्सहे ।प्रवेगेन एव महता भीमेन प्लवगर्षभाः ॥४-६७-१६॥ उत्सहेयम् अतिक्रांतुम् सर्वान् आकाश गोचरान् ।सागरम् शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥४-६७-१७॥ पर्वतान् चूर्णष्यामि प्लवमानः प्लवंगमाः ।हरिष्यामि ऊरु वेगेन प्लवमानो महाअर्णवम् ॥४-६७-१८॥ लतानाम् विविधाम् पुष्पम् पादपानाम् च सर्वशः ।अनुयास्यति माम् अद्य प्लवमानम् विहायसा ॥४-६७-१९॥ भविष्यति हि मे पन्थाः स्वातेः पन्था इव अंबरे ।चरन्तम् घोरम् आकाशम् उत्पतिष्यन्तम् एव च ॥४-६७-२०॥ द्रक्ष्यन्ति निपतन्तम् च सर्व भूतानि वानराः ।महा मेरु प्रतीकाशम् माम् द्रक्ष्यध्वम् प्लवंगमाः ॥४-६७-२१॥ दिवम् आवृत्य गच्छन्तम् ग्रसमानम् इव अंबरम् ।विधमिष्यामि जीमूतान् कंपयिष्यामि पर्वतान् ।सागरम् शोषयिष्यामि प्लवमानः समाहितः ॥४-६७-२२॥ वैनतेयस्य वा शक्तिः मम वा मारुतस्य वा ।ऋते सुपर्ण राजानम् मारुतम् वा महाबलम् ।न तत् भूतम् प्रपश्यामि यत् माम् प्लुतम् अनुव्रजेत् ॥४-६७-२३॥ निमेष अन्तर मात्रेण निरालंबनम् अंबरम् ।सहसा निपतिष्यामि घनात् विद्युत् इव उत्थिता ॥४-६७-२४॥ भविष्यति हि मे रूपम् प्लवमानस्य सागरम् ।विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमान् इव ॥४-६७-२५॥ बुद्ध्या च अहम् प्रपश्यामि मनः चेष्टा च मे तथा ।अहम् द्रक्ष्यामि वैदेहीम् प्रमोदध्वम् प्लवंगमाः ॥४-६७-२६॥ मारुतस्य समो वेगे गरुडस्य समो जवे ।अयुतम् योजनानाम् तु गमिष्यामि इति मे मतिः ॥४-६७-२७॥ वासवस्य स वज्रस्य ब्रह्मणो वा स्वयंभुवः ।विक्रम्य सहसा हस्तात् अमृतम् तत् इह आनये ॥४-६७-२८॥ लंकाम् वा अपि समुत्क्षिप्य गच्छेयम् इति मे मतिः ।तम् एवम् वानर श्रेष्ठम् गर्जन्तम् अमित प्रभम् ॥४-६७-२९॥ प्रहृष्टा हरयः तत्र समुदैक्षन्त विस्मिताः ।तत् च अस्य वचनम् श्रुत्वा ज्ञातीनाम् शोक नाशनम् ॥४-६७-३०॥ उवाच परिसंहृष्टो जांबवान् प्लवगेश्वरः ।वीर केसरिणः पुत्र वेगवन् मारुत आत्मज ॥४-६७-३१॥ ज्ञातीनाम् विपुलः शोकः त्वया तात प्रणाशितः ।तव कल्याण रुचयः कपि मुख्याः समागताः ॥४-६७-३२॥ मंगलम् कार्य सिद्धि अर्थम् करिष्यन्ति समाहिताः ।ऋषीणाम् च प्रसादेन कपि वृद्ध मतेन च ॥४-६७-३३॥ गुरूणाम् च प्रसादेन प्लवस्व त्वम् महाअर्णवम् ।स्थास्यामः च एक पादेन यावत् आगमनम् तव ॥४-६७-३४॥ त्वत् गतानि च सर्वेषाम् जीवितानि वन ओकसाम् ।ततः च हरि शार्दूलः तान् उवाच वन ओकसः ॥४-६७-३५॥ को अपि लोके न मे वेगम् प्लवने धारयिष्यति ।एतानि हि नगस्य अस्य शिला संकट शालिनः ॥४-६७-३६॥ शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ।येषु वेगम् गमिष्यामि महेन्द्र शिखरेषु अहम् ॥४-६७-३७॥ नाना द्रुम विकीर्णेषु धातु निष्पन्द शोभिषु ।एतानि मम वेगम् हि शिखराणि महान्ति च ॥४-६७-३८॥ प्लवतो धारयिष्यन्ति योजनानाम् इतः शतम् ।ततः तु मारुत प्रख्यः स हरिः मारुत आत्मजः ।आरुरोह नग श्रेष्ठम् मह्न्द्रम् अरिंअर्दमः ॥४-६७-३९॥ वृतम् नाना विधैः पुष्पैः मृग सेवित शाद्वलम् ।लता कुसुम संबाधम् नित्य पुष्प फल द्रुमम् ॥४-६७-४०॥ सिंह शार्दूल चरितम् मत्त मातंग सेवितम् ।मत्त द्विज गण उद् धुष्टम् सलिल उत्पीड संकुलम् ॥४-६७-४१॥ महद्भिः उच्छ्रितम् शृन्गैः महेन्द्रम् स महाबलः ।विचचार हरिश्रेष्ठो महेन्द्र साम विक्रमः ॥४-६७-४२॥ बाहुभ्याम् पीडितः तेन महाशैलो महात्मना ।ररास सिंह अभिहतो महान् मत्त इव द्विपः ॥४-६७-४३॥ मुमोच सलिल उत्पीडान् विप्रकीर्ण शिलोउच्चयः ।वित्रस्त मृग मातंगः प्रकंपित महा द्रुमः ॥४-६७-४४॥ नानागंधर्वमिथुनैर्पानसंसर्गकर्कशैः ।उत्पतद्भिर्विहंगैश्चविद्याधरगणैरपि - यद्वा -नाना गन्धर्व मिथुनैः पान संसर्ग कर्कशैः ।उत् पतद्भिः विहंगैः च विद्याधर गणैः अपि ॥४-६७-४५॥ त्यज्यमान महा सानुः संनिलीन महा उरगः ।शैल शृन्ग शिला उत्पातः तदा अभूत् स महा गिरिः ॥४-६७-४६॥ निःश्वसद्भिस्तदातैतुभुजगैरर्धनिःसृतैः ।सपताकैवाभातिसतदाधरणीधरः।यद्वा -निःश्वसद्भिः तदा तैः तु भुजगैः अर्ध निःसृतैः ।स पताक इव आभाति स तदा धरणी धरः ॥४-६७-४७॥ ऋषिभित्राससंभ्रान्तैस्त्यज्यमानश्शिलोच्चयः - यद्वा -ऋषिभिः त्रास संभ्रांतैः त्यज्यमानः शिला उच्चयः ।सीदन् महति कांतारे सार्थ हीन इव अध्व गः ॥४-६७-४८॥ स वेगवान् वेग समाहित आत्माहरि प्रवीरः पर वीर हन्ता ।मनः समाधाय महाअनुभावोजगाम लंकाम् मनसा मनस्वी ॥४-६७-४९॥
About this parayana — Rama
Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.
How to chant
Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.