ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← ശബ്ദത്തിലേക്ക്
മലയാളം interface

വാല്മീകി രാമായണ — ഉത്തര കാണ്ഡ

Valmiki Ramayana — Uttara Kanda

Valmiki Ramayana — Uttara Kanda

Text in देवनागरी script

Devotional text

🌐

മലയാളം script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.

प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ।आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ।। ७.१.१ ॥
कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च ।कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ।। ७.१.२ ॥
स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा ।आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ।। ७.१.३ ॥
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ।ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ।। ७.१.४ ॥
वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः ।जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा ।। ७.१.५ ॥
उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ।। ७.१.६ ॥
सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् ।विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः ।वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ।। ७.१.७ ॥
द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः ।निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ।। ७.१.८ ॥
प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् ।समीपं राघवस्याशु प्रविवेश महात्मनः ।। ७.१.९ ॥
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः ।स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ।। ७.१.१० ॥
अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ।। ७.१.११ ॥
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् ।प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ।। ७.१.१२ ॥
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः ।पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सादरम् ।। ७.१.१३ ॥
रामो ऽभिवाद्य प्रयत आसनान्यादिदेश ह ।तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ।। ७.१.१४ ॥
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च ।यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ।। ७.१.१५ ॥
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः ।महर्षयो वेदविदो रामं वचनमब्रुवन् ।। ७.१.१६ ॥
कुशलं नो महाबाहो सर्वत्र रघुनन्दन ।त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ।। ७.१.१७ ॥
दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः ।न हि भारः स ते राम रावणः पुत्रपौत्रवान् ।। ७.१.१८ ॥
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः ।दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ।। ७.१.१९ ॥
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया ।लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ।। ७.१.२० ॥
मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप ।दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ।अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ।। ७.१.२१ ॥
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ।दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ।। ७.१.२२ ॥
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।दिष्ट्या ते निहता राम महावीर्या निशाचराः ।। ७.१.२३ ॥
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ ।दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ।। ७.१.२४ ॥
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ ।यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ।। ७.१.२५ ॥
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः ।अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ।। ७.१.२६ ॥
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ।देवतानामवध्येन विजयं प्राप्तवानसि ।। ७.१.२७ ॥
सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः ।द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ।। ७.१.२८ ॥
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ।मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ।। ७.१.२९ ॥
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् ।सो ऽवध्यः सर्वभूतानां महामायाधरो युधि ।। ७.१.३० ॥
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ।। ७.१.३१ ॥
एते चान्ये च बहवो राक्षसाः कामरूपिणः ।दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ।। ७.१.३२ ॥
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ॥
दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ।। ७.१.३३ ॥
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् ।विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ।। ७.१.३४ ॥
भगवन्तः कुम्भकर्णं रावणं च निशाचरम् ।अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ।। ७.१.३५ ॥
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् ।मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ॥
अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ।। ७.१.३६ ॥
अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् ।अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ।। ७.१.३७ ॥
कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः ।केन वा कारणेनैष रावणादतिरिच्यते ।। ७.१.३८ ॥
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ।यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ।। ७.१.३९ ॥
शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः ।कथं च बलवानन्पुत्रो न पिता तस्य रावणः ।। ७.१.४० ॥
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः ।वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ।। ७.१.४१ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ।। ७.२.१ ॥
शृणु राम कथावृत्तं तस्य तेजोबलं महत् ।जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ।। ७.२.२ ॥
तावत्ते रावणस्येदं कुलं जन्म च राघव ।वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ।। ७.२.३ ॥
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ।। ७.२.४ ॥
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ।। ७.२.५ ॥
प्रजापतिसुतत्वेन देवानां वल्लभो हि सः ।हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ।। ७.२.६ ॥
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ।। ७.२.७ ॥
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ।। ७.२.८ ॥
देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे ।। ७.२.९ ॥
सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च ।नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ।। ७.२.१० ॥
देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः ।गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ।मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ।। ७.२.११ ॥
अथ क्रुद्धो महातेजा व्याजहार महामुनिः ।या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ।। ७.२.१२ ॥
तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ।ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ।। ७.२.१३ ॥
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ।। ७.२.१४ ॥
गत्वाश्रमपदं तत्र विचचार सुनिर्भया ।न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ।। ७.२.१५ ॥
तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः ।स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ।। ७.२.१६ ॥
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ।। ७.२.१७ ॥
वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः ।इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽ ऽश्रमे स्थिता ।। ७.२.१८ ॥
तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् ।किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ।। ७.२.१९ ॥
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ।न जाने कारणं तात येन मे रूपमीदृशम् ।। ७.२.२० ॥
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ।। ७.२.२१ ॥
न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् ।रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ।। ७.२.२२ ॥
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ।। ७.२.२३ ॥
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ।। ७.२.२४ ॥
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ।। ७.२.२५ ॥
तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते ।शुश्रूषणपरा नित्यं भविष्यति न संशयः ।। ७.२.२६ ॥
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ।। ७.२.२७ ॥
दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ।। ७.२.२८ ॥
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः ।प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ।। ७.२.२९ ॥
परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् ।तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ।। ७.२.३० ॥
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ।यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम ।। ७.२.३१ ॥
तस्मात्स विश्रवा नाम भविष्यति न संशयः ।एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ।। ७.२.३२ ॥
अचिरेणैव कालेनासूत विश्रवसं सुतम् ।त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ।। ७.२.३३ ॥
श्रुतिमान्समदर्शी च व्रताचाररतस्तथा ।पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ।। ७.२.३४ ।।
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः ।अचिरेणैव कालेन पितेव तपसि स्थितः ।। ७.३.१ ॥
सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः ।सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ।। ७.३.२ ॥
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः ।ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ।। ७.३.३ ॥
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ।प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ।। ७.३.४ ॥
मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः ।स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ।। ७.३.५ ॥
जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् ।तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ।। ७.३.६ ॥
दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति ।नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ।। ७.३.७ ॥
यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव ।तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ।। ७.३.८ ॥
स तु वैश्रवणस्तत्र तपोवनगतस्तदा ।अवर्धताहुतिहुतो महातेजा यथानलः ।। ७.३.९ ॥
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ।। ७.३.१० ॥
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ।। ७.३.११ ॥
पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् ।जलाशी मारुताहारो निराहारस्तथैव च ।। ७.३.१२ ॥
एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् ।अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।। ७.३.१३ ॥
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ।परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत ।वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ।। ७.३.१४ ॥
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् ।भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ।। ७.३.१५ ॥
अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा ।ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ।। ७.३.१६ ॥
अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ।। ७.३.१७ ॥
यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् ।तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि ।शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ।। ७.३.१८ ॥
एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् ।प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ।। ७.३.१९ ॥
स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् ।कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ।। ७.३.२० ॥
इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ।। ७.३.२१ ॥
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् ।वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् ।निवासनं न मे देवो विदधे स प्रजापतिः ।। ७.३.२२ ॥
भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् ।तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ।। ७.३.२३ ॥
न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् ।एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ।। ७.३.२४ ॥
वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः ।दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।। ७.३.२५ ॥
तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा ।लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ।। ७.३.२६ ॥
राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ।तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ।। ७.३.२७ ॥
हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता ।रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ।। ७.३.२८ ॥
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ।शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ।। ७.३.२९ ॥
शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते ।स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ।। ७.३.३० ॥
निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् ।एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ।। ७.३.३१ ॥
निवासयामास तदा लङ्कां पर्वतमूर्धनि ।नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ।। ७.३.३२ ॥
अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ।। ७.३.३३ ॥
स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः ।समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ।। ७.३.३४ ॥
काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ।अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ।। ७.३.३५ ॥
स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः ।गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ।। ७.३.३६ ।।
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः ।कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ।। ७.४.१ ॥
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् ।तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत ।। ७.४.२ ॥
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् ।श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ।। ७.४.३ ॥
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् ।इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ।। ७.४.४ ॥
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि ।रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ।। ७.४.५ ॥
क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत्कटः ।अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ।। ७.४.६ ॥
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ।। ७.४.७ ॥
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् ।ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ।। ७.४.८ ॥
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः ।तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ।। ७.४.९ ॥
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः ।किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ।। ७.४.१० ॥
प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव ।आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ।। ७.४.११ ॥
रक्षामेति च तत्रान्ये जक्षाम इति चापरे ।भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ।। ७.४.१२ ॥
रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः ।जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ।। ७.४.१३ ॥
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ ।मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ।। ७.४.१४ ॥
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा ।हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ।। ७.४.१५ ॥
स कालभगिनीं कन्यां भयां नाम भयावहाम् ।उदावहदमेयात्मा स्वयमेव महामतिः ।। ७.४.१६ ॥
स तस्यां जनयामास हेती राक्षसपुङ्गवः ।पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ।। ७.४.१७ ॥
विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः ।व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ।। ७.४.१८ ॥
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः ।ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ।। ७.४.१९ ॥
सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः ।वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ।। ७.४.२० ॥
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया ।चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ।। ७.४.२१ ॥
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।रमते स्म तया सार्धं पौलोम्या मघवानिव ।। ७.४.२२ ॥
केनचित्त्वथ कालेन राम सालकटङ्कटा ।विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ।। ७.४.२३ ॥
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् ।प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ।। ७.४.२४ ॥
समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी ।रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ।। ७.४.२५ ॥
उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः ।तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ।निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ।। ७.४.२६ ॥
ततो वृषभमास्थाय पार्वत्या सहितः शिवः ।वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ।। ७.४.२७ ॥
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ।कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ।। ७.४.२८ ॥
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ।अमरं चैव तं कृत्वा महादेवो ऽक्षरो ऽव्ययः ।। ७.४.२९ ॥
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ।उमयापि वरो दत्तो राक्षसानां नृपात्मज ।। ७.४.३० ॥
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ।सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् ।। ७.४.३१ ॥
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ।चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा ।। ७.४.३२ ।।
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् ।ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ।। ७.५.१ ॥
तस्य देववती नाम द्वितीया श्रीरिवात्मजा ।त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ।। ७.५.२ ॥
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ।। ७.५.३ ॥
स तया सह संयुक्तो रराज रजनीचरः ।अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ।। ७.५.४ ॥
देववत्यां सुकेशस्तु जनयामास राघव ।। ७.५.५ ॥
त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् ।माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ।त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ।। ७.५.६ ॥
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ।। ७.५.७ ॥
त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः ।विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ।। ७.५.८ ॥
वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ।तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ।। ७.५.९ ॥
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ।। ७.५.१० ॥
सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ।। ७.५.११ ॥
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः ।सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत ।। ७.५.१२ ॥
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ।। ७.५.१३ ॥
तपसाराधितो देव यदि नो दिशसे वरम् ।अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।। ७.५.१४ ॥
प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ।। ७.५.१५ ॥
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः ।स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ।। ७.५.१६ ॥
वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा ।सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ।। ७.५.१७ ॥
तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः ।त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ।। ७.५.१८ ॥
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ।। ७.५.१९ ॥
ओजस्तेजोबलवतां महतामात्मतेजसा ।गृहकर्ता भवानेव देवानां हृदयेप्सितम् ।। ७.५.२० ॥
अस्माकमपि तावत्त्वं गृहं कुरु महामते ।हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा ।महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।। ७.५.२१ ॥
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।निवासं कथयामास शक्रस्येवामरावतीम् ।। ७.५.२२ ॥
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ।। ७.५.२३ ॥
शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे ।शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ।। ७.५.२४ ॥
त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता ।स्वर्णप्राकारसंवीता हेमतोरणसंवृता ।। ७.५.२५ ॥
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ।तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ।। ७.५.२६ ॥
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।। ७.५.२७ ॥
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ।। ७.५.२८ ॥
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः ।सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ।। ७.५.२९ ॥
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ।। ७.५.३० ॥
एतस्मिन्नेव काले तु यथाकामं च राघव ।नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ।। ७.५.३१ ॥
तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति ।ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ।। ७.५.३२ ॥
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ।त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ।। ७.५.३३ ॥
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते ।कुतदारास्तु ते राम सुकेशतनयास्तदा ।। ७.५.३४ ॥
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ।ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।। ७.५.३५ ॥
स तस्यां जनयामास यदपत्यं निबोध तत् ।वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ।। ७.५.३६ ॥
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ।। ७.५.३७ ॥
सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना ।नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी ।। ७.५.३८ ॥
सुमाली जनयामास यदपत्यं निशाचरः ।केतुमत्यां महाराज तन्निबोधानुपूर्वशः ।। ७.५.३९ ॥
प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः ।धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ।। ७.५.४० ॥
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ॥
कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ।। ७.५.४१ ॥
मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी ।भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ।। ७.५.४२ ॥
सुमालेरनुजस्तस्यां जनयामास यत् प्रभो ।अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ।। ७.५.४३ ॥
अनिलश्चानलश्चैव हरः सम्पातिरेव च ।एते विभीषणामात्या मालेयास्तु निशाचरः ।। ७.५.४४ ॥
ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः ।सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ।। ७.५.४५ ॥
जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः ।वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ।। ७.५.४६ ।।
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ।भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ।। ७.६.१ ॥
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् ।आधारं सर्वलोकानामाराध्यं परमं गुरुम् ।। ७.६.२ ॥
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ।ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ।। ७.६.३ ॥
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ।प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ।। ७.६.४ ॥
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ।। ७.६.५ ॥
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ।अहं यमश्च वरुणश्चन्द्रो ऽहं रविरप्यहम् ।। ७.६.६ ॥
इति माली सुमाली च माल्यवांश्चैव राक्षसाः ।बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।तन्नो देव भयार्तानामभयं दातुमर्हसि ।। ७.६.७ ॥
अशिवं वपुरास्थाय जहि वै देवकण्टकान् ।। ७.६.८ ।।धन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः ।सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ।। ७.६.९ ॥
अहं तान्न हनिष्यामि मयावध्या हि ते सुराः ।किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ।। ७.६.१० ॥
एतमेव समुद्योगं पुरस्कृत्य महर्षयः ।गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ।। ७.६.११ ॥
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् ।विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ।। ७.६.१२ ॥
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ।। ७.६.१३ ॥
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः ।आक्रम्य वरदानेन स्थानान्यपहृतानि नः ।। ७.६.१४ ॥
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ।तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ।। ७.६.१५ ॥
स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन ।शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ।। ७.६.१६ ॥
चक्रकृत्तास्यकमलान्निवेदय यमाय वै ।भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना ।। ७.६.१७ ॥
राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् ।नुदं त्वं नो भयं देव नीहारमिव भास्करः ।। ७.६.१८ ॥
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ।अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह ।। ७.६.१९ ॥
सुकेशं राक्षसं जाने ईशानवरदर्पितम् ।तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ।। ७.६.२० ॥
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् ।निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः ।। ७.६.२१ ॥
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ।। ७.६.२२ ॥
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः ।श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ।। ७.६.२३ ॥
अमरा ऋषयश्चैव सङ्गम्य किल शकरम् ।अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ।। ७.६.२४ ॥
सुकेशतनया देव वरदानबलोद्धताः ।बाधन्ते ऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ।। ७.६.२५ ॥
राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते ।स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ।। ७.६.२६ ॥
तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन ।राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर ।। ७.६.२७ ॥
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।शिरः करं च धुन्वान इदं वचनमब्रवीत् ।। ७.६.२८ ॥
अवध्या मम ते देवाः सुकेशतनया रणे ।मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ।। ७.६.२९ ॥
यो ऽसौ चक्रगदापाणिः पीतवासा जनार्दनः ।हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ।। ७.६.३० ॥
हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च ।नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ।। ७.६.३१ ॥
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः ।सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ।। ७.६.३२ ॥
देवानां भयभीतानां हरिणा राक्षसर्षभौ ।प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम् ।। ७.६.३३ ॥
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् ।नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ।। ७.६.३४ ॥
राधेयो बहुमायी च लोकपालो ऽथ धार्मिकः ।यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ।। ७.६.३५ ॥
असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः ।सर्वे समरमासाद्य न श्रूयन्ते ऽपराजिताः ।। ७.६.३६ ॥
सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा ।सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः ।। ७.६.३७ ॥
नारायणेन निहताः शतशो ऽथ सहस्रशः ।एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ।। ७.६.३८ ॥
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ।ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ।। ७.६.३९ ॥
स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् ।आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ।। ७.६.४० ॥
देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च ।जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ।। ७.६.४१ ॥
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा ।अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ।। ७.६.४२ ॥
विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर ।देवानामेव दोषेण विष्णोः प्रचलितं मनः ।। ७.६.४३ ॥
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ।देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ।। ७.६.४४ ॥
एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः ।उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ॥
युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ।। ७.६.४५ ॥
इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः ।युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ।। ७.६.४६ ॥
स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः ।खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ।। ७.६.४७ ॥
मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः ।सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ।। ७.६.४८ ॥
त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः ।प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ।। ७.६.४९ ॥
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ।भूतानि भयदर्शीनि विमनस्कानि सर्वशः ।। ७.६.५० ॥
रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः ।। ७.६.५१ ॥
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः ।रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ।। ७.६.५२ ॥
भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ।। ७.६.५३ ॥
अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च ।वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ।। ७.६.५४ ॥
अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः ।वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ।। ७.६.५५ ॥
सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ।गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ।। ७.६.५६ ॥
राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् ।कपोता रक्तपादाश्च शारिका विद्रुता ययुः ॥
काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ।। ७.६.५७ ॥
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः ।यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ।। ७.६.५८ ॥
माल्यवांश्च सुमाली च माली च सुमहाबलाः ।आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ।। ७.६.५९ ॥
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् ।निशाचरा ह्याश्रयन्ति धातारमिव देवताः ।। ७.६.६० ॥
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् ।जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ।। ७.६.६१ ॥
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ।। ७.६.६२ ॥
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः ।आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ।। ७.६.६३ ॥
आबध्य शरसम्पूर्णे इषुधी विमले तदा ।श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः ॥
शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ।। ७.६.६४ ॥
सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः ।राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ।। ७.६.६५ ॥
सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः ।काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ।। ७.६.६६ ॥
स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः ।समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ।। ७.६.६७ ॥
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् ।चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ।। ७.६.६८ ॥
ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः ।निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ।। ७.६.६९ ।।
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ।ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।। ७.७.१ ॥
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः ।वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ।। ७.७.२ ॥
शलभा इव केदारं मशका इव पर्वतम् ।यथामृतघटं दंशा मकरा इव चार्णवम् ।। ७.७.३ ॥
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः ।हरिं विशन्ति स्म शरा लोका इव विपर्यये ।। ७.७.४ ॥
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः ।अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ।। ७.७.५ ॥
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः ।निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ।। ७.७.६ ॥
निशाचरैस्ताड्यमानो मीनैरिव महोदधिः ।शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान् ।। ७.७.७ ॥
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः ।चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः ।। ७.७.८ ॥
विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् ।पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ।। ७.७.९ ॥
सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ।ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ।। ७.७.१० ॥
शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् ।मृगराज इवारण्ये समदानिव कुञ्जरान् ।। ७.७.११ ॥
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् ।स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ।। ७.७.१२ ॥
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ।विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ।। ७.७.१३ ॥
भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः ।निपेतू राक्षसा भूमौ शैला वज्रहता इव ।। ७.७.१४ ॥
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै ।असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ।। ७.७.१५ ॥
शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा ।राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ।। ७.७.१६ ॥
तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च ।रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ।। ७.७.१७ ॥
सूर्यादिव करा घोरा ऊर्मयः सागरादिव ।पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ।। ७.७.१८ ॥
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः ।निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ।। ७.७.१९ ॥
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा ।द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ।। ७.७.२० ॥
द्वीपिनेव यथा श्वानः शुना मार्जारका यथा ।मार्जारेण यथा सर्पाः सर्पेण च यथा ऽ ऽखवः ।। ७.७.२१ ॥
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना ।द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ।। ७.७.२२ ॥
राक्षसानां सहस्राणि निहत्य मधुसूदनः ।वारिजं पूरयामास तोयदं सुरराडिव ।। ७.७.२३ ॥
नारायणशरत्रस्तं शङ्खनादसुविह्वलम् ।ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ।। ७.७.२४ ॥
प्रभग्ने राक्षसबले नारायणशराहते ।सुमाली शरवर्षेण निववार रणे हरिम् ।। ७.७.२५ ॥
स तु तं छादयामास नीहार इव भास्करम् ।राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ।। ७.७.२६ ॥
अथ सो ऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः ।महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ।। ७.७.२७ ॥
उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः ।ररास राक्षसो हर्षात्सतडित्तोयदो यथा ।। ७.७.२८ ॥
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् ।चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ।। ७.७.२९ ॥
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ।इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ।। ७.७.३० ॥
ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे ।हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ।। ७.७.३१ ॥
माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः ।मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः ।विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ।। ७.७.३२ ॥
अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः ।चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ।। ७.७.३३ ॥
अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः ।मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ।। ७.७.३४ ॥
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः ।पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ।। ७.७.३५ ॥
मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः ।मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ।। ७.७.३६ ॥
विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः ।आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ।। ७.७.३७ ॥
गदया गरुडेशानमीशानमिव चान्तकः ।ललाटदेशे ऽभ्यहनद्वज्रेणेन्द्रो यथा ऽचलम् ।। ७.७.३८ ॥
गदयाभिहतस्तेन मालिना गरुडो भृशम् ।रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ।। ७.७.३९ ॥
पराङ्मुखे कृते देवे मालिना गरुडेन वै ।उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ।। ७.७.४० ॥
रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ।। ७.७.४१ ॥
तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः ।पराङ्मुखो ऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ।। ७.७.४२ ॥
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ।कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ।। ७.७.४३ ॥
तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् ।पपात रुधिरोद्गारि पुरा राहुशिरो यथा ।। ७.७.४४ ॥
ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः ।सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ।। ७.७.४५ ॥
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि ।सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ।। ७.७.४६ ॥
गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा ।राक्षसान्द्रावयामास पक्षवातेन कोपितः ।। ७.७.४७ ॥
चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः ।लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ।। ७.७.४८ ॥
केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः ।निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ।। ७.७.४९ ॥
नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः ।नक्तञ्चरान्मुक्तविधूतकेशान्यथा ऽशनीभिः सतडिन्महाभ्राः ।। ७.७.५० ॥
भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् ।विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ।। ७.७.५१ ॥
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् ।रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ।। ७.७.५२ ॥
ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः ।धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ।। ७.७.५३ ॥
चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः ।अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ।। ७.७.५४ ॥
विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः ।निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ।। ७.७.५५ ।।
हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः ।माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः ।। ७.८.१ ॥
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः ।पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ।। ७.८.२ ॥
नारायण न जानीषे क्षात्रधर्मं पुरातनम् ।अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ।। ७.८.३ ॥
पराङ्मुखवधं पापं यः करोत्यसुरेतरः ।स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ।। ७.८.४ ॥
युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर । ४अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ।। ७.८.५ ॥
माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् ।उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।। ७.८.६ ॥
युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् ।राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ।। ७.८.७ ॥
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया ।सो ऽहं वो निहनिष्यामि रसातलगतानपि ।। ७.८.८ ॥
देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् ।शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ।। ७.८.९ ॥
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना ।हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ।। ७.८.१० ॥
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ।माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ।। ७.८.११ ॥
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता ।काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ।। ७.८.१२ ॥
सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते ।अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ।। ७.८.१३ ॥
तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः ।माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ।। ७.८.१४ ॥
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् ।प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ।। ७.८.१५ ॥
तथैव रणरक्तस्तु मुष्टिना वासवानुजम् ।ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ।। ७.८.१६ ॥
ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः ।आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ।। ७.८.१७ ॥
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् ।व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ।। ७.८.१८ ॥
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् ।सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ।। ७.८.१९ ॥
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः ।स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ।। ७.८.२० ॥
एवं ते राक्षसा तेन हरिणा कमलेक्षण ।बहुशः संयुगे भग्ना हतप्रवरनायकाः ।। ७.८.२१ ॥
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः ।त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ।। ७.८.२२ ॥
सुमालिनं समासाद्य राक्षसं रघुसत्तम ।स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ।। ७.८.२३ ॥
ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः सुमाली माल्यवान्माली ये च तेषां पुरःसराः ।सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ।। ७.८.२४ ॥
न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ।ऋते नारायणं देवं शङ्खचक्रगदाधरम् ।। ७.८.२५ ॥
भवान्नारायणो देवश्चतुर्बाहुः सनातनः ।राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ।। ७.८.२६ ॥
नष्टधर्मव्यवस्थाता काले काले प्रजाकरः ।उत्पद्यते दस्युवधे शरणागतवत्सलः ।। ७.८.२७ ॥
एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् ।भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ।। ७.८.२८ ॥
चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा ।पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ।। ७.८.२९ ।।
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ।रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ।। ७.९.१ ॥
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः ।कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ।। ७.९.२ ॥
राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् ।तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ।। ७.९.३ ॥
गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् ।तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ।। ७.९.४ ॥
रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः ।इत्येवं चिन्तयामास राक्षसानां महामतिः ।। ७.९.५ ॥
किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् ।अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ।। ७.९.६ ॥
पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते ।प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ।। ७.९.७ ॥
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः ।त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। ७.९.८ ॥
न ज्ञायते च कः कन्यां वरयेदिति कन्यके ।। ७.९.९ ॥
त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ।। ७.९.१० ॥
सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् ।भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ।। ७.९.११ ॥
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ।तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः ।। ७.९.१२ ॥
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् ।तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ।। ७.९.१३ ॥
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः ।अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ।। ७.९.१४ ॥
अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् ।उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ।विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ।। ७.९.१५ ॥
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ।अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ।। ७.९.१६ ॥
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ।किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ।। ७.९.१७ ॥
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ।आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ।। ७.९.१८ ॥
किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् ।कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ।। ७.९.१९ ॥
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह ।विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ।। ७.९.२० ॥
सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि ।दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ।। ७.९.२१ ॥
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ।दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ।। ७.९.२२ ॥
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ।सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ।। ७.९.२३ ॥
भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः ।नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ।। ७.९.२४ ॥
कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः ।उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ।। ७.९.२५ ॥
पश्चिमो यस्तव सुतो भविष्यति शुभानने ।मम वंशानुरूपः स धर्मात्मा च भविष्यति ।। ७.९.२६ ॥
एवमुक्ता तु सा कन्या राम कालेन केनचित् ।जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ।। ७.९.२७ ॥
दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् ।ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ।। ७.९.२८ ॥
तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः ।क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ।। ७.९.२९ ॥
ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः ।प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ।। ७.९.३० ॥
चकम्पे जगती चैव ववुर्वाताः सुदारुणाः ।अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ।। ७.९.३१ ॥
अथ नामाकरोत्तस्य पितामहसमः पिता ।दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति ।। ७.९.३२ ॥
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः ।प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ।। ७.९.३३ ॥
ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना ।विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ।। ७.९.३४ ॥
तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ।। ७.९.३५ ॥
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा ।वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ।। ७.९.३६ ॥
तौ तु तत्र महारण्ये ववृधाते महौजसौ ।कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ।। ७.९.३७ ॥
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् ।त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ।। ७.९.३८ ॥
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः ।स्वाध्यायनियताहार उवास विजितेन्द्रियः ।। ७.९.३९ ॥
अथ वैश्रवणो देवस्तत्र कालेन केनचित् ।आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ।। ७.९.४० ॥
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा ।आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ।। ७.९.४१ ॥
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् ।भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ।। ७.९.४२ ॥
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम ।यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ।। ७.९.४३ ॥
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ।। ७.९.४४ ॥
सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा ।भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ।। ७.९.४५ ॥
ततस्तेनैव कोपेन दशग्रीवः सहानुजः ।चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ।। ७.९.४६ ॥
प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च ।आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ।। ७.९.४७ ॥
स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः ।अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ।। ७.९.४८ ।।
अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने ।कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ।। ७.१०.१ ॥
अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् ।तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ।। ७.१०.२ ॥
कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः ।तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ।। ७.१०.३ ॥
मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत ।नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ।। ७.१०.४ ॥
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः ।धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ।। ७.१०.५ ॥
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ।पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ।। ७.१०.६ ॥
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ।पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ।। ७.१०.७ ॥
पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत ।तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ।। ७.१०.८ ॥
एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने ।दशवर्षसहस्राणि गतानि नियतात्मनः ।। ७.१०.९ ॥
दशवर्षसहस्रं तु निराहारो दशाननः ।पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ।। ७.१०.१० ॥
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ।शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ।। ७.१०.११ ॥
अथ वर्षसहस्रे तु दशमे दशमं शिरः ।छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ।। ७.१०.१२ ॥
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत ।। ७.१०.१३ ॥
शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः ।कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ।। ७.१०.१४ ॥
अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना ।प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ।। ७.१०.१५ ॥
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् ।नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ।। ७.१०.१६ ॥
एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ।नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ।। ७.१०.१७ ॥
एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा ।दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ।। ७.१०.१८ ॥
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ।। ७.१०.१९ ॥
नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित ।तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ।। ७.१०.२० ॥
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ।उवाच वचनं देवः सह देवैः पितामहः ।। ७.१०.२१ ॥
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव ।एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।। ७.१०.२२ ॥
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ।हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ।। ७.१०.२३ ॥
पुनस्तानि भविष्यन्ति तथैव तव राक्षस ।वितरामीह ते सौम्य वरं चान्यं दुरासदम् ।। ७.१०.२४ ॥
छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् ।भविष्यति न सन्देहो मद्वरात्तवराक्षस ।। ७.१०.२५ ॥
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः ।अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ।। ७.१०.२६ ॥
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।विभीषणमथोवाच वाक्यं लोकपितामहः ।। ७.१०.२७ ॥
विभीषण त्वया वत्स धर्मसंहितबुद्धिना ।परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ।। ७.१०.२८ ॥
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः ।वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।। ७.१०.२९ ॥
भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् ।प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।। ७.१०.३० ॥
परमापद्गतस्यापि धर्मे मम मतिर्भवेत् ।अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ।। ७.१०.३१ ॥
या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ।सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ।। ७.१०.३२ ॥
एष मे परमोदार वरः परमको मतः ।नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ।। ७.१०.३३ ॥
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह ।धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ।। ७.१०.३४ ॥
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन ।नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।। ७.१०.३५ ॥
इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् ।प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ।। ७.१०.३६ ॥
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया ।जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ।। ७.१०.३७ ॥
नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश ।अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ।। ७.१०.३८ ॥
अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु ।तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ।। ७.१०.३९ ॥
वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ ।लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ।। ७.१०.४० ॥
एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः ।चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ।। ७.१०.४१ ॥
प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती ।इयमस्म्यागता देव किं कार्यं करवाण्यहम् ।। ७.१०.४२ ॥
प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् ।वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ।। ७.१०.४३ ॥
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ।कुम्भकर्ण महाबाहो वरं वरय यो मतः ।। ७.१०.४४ ॥
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ।। ७.१०.४५ ॥
एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् ।देवी सरस्वती चैव राक्षसं तं जहौ पुनः ।। ७.१०.४६ ॥
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् ।विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ।। ७.१०.४७ ॥
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ।ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ।। ७.१०.४८ ॥
अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः ।एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ।श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ।। ७.१०.४९ ।।
सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् ।उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ।। ७.११.१ ॥
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः ।उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ।। ७.११.२ ॥
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः ।अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ।। ७.११.३ ॥
दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः ।यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ।। ७.११.४ ॥
यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् ।तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ।। ७.११.५ ॥
असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् ।विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ।। ७.११.६ ॥
अस्मदीया च लङ्केयं नगरी राक्षसोचिता ।निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ।। ७.११.७ ॥
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ ।तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ।। ७.११.८ ॥
त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः ।त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः ।सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ।। ७.११.९ ॥
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् ।वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ।। ७.११.१० ॥
साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा ।किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ।। ७.११.११ ॥
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः ।उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ।। ७.११.१२ ॥
प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ।। ७.११.१३ ॥
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् ।सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ।। ७.११.१४ ॥
अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते ।भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ।। ७.११.१५ ॥
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ।दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ।। ७.११.१६ ॥
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा ।सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः ।। ७.११.१७ ॥
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना ।देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ।। ७.११.१८ ॥
नैतदेको भवानेव करिष्यति विपर्ययम् ।सुरासुरैराचरितं तत्कुरुष्व वचो मम ।। ७.११.१९ ॥
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना ।चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् ।। ७.११.२० ॥
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् ।वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ।। ७.११.२१ ॥
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः ।प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ।। ७.११.२२ ॥
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् ।वचसा मम वित्तेशं सामपूर्वमिदं वचः ।। ७.११.२३ ॥
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् ।त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ।। ७.११.२४ ॥
तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम ।कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ।। ७.११.२५ ॥
स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् ।अब्रवीत्परमोदारं वित्तपालमिदं वचः ।। ७.११.२६ ॥
प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत ।त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ।। ७.११.२७ ॥
तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद ।वचनं मम वित्तेश यद्ब्रवीति दशाननः ।। ७.११.२८ ॥
इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा ।भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ।। ७.११.२९ ॥
तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज ।तदेषा दीयतां तात याचतस्तस्य सामतः ।। ७.११.३० ॥
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः ।प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ।। ७.११.३१ ॥
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः ।निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ।। ७.११.३२ ॥
ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम ।तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ।। ७.११.३३ ॥
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ।। ७.११.३४ ॥
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् ।एष तात दशग्रीवो दूतं प्रेषितवान्मम ।। ७.११.३५ ॥
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता ।मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ।। ७.११.३६ ॥
ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः ।प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ।। ७.११.३७ ॥
दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ ।मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ।। ७.११.३८ ॥
स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः ।श्रेयो ऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ।। ७.११.३९ ॥
वरप्रदानसम्मूढो मान्या ऽमान्यान् स दुर्मतिः ।न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ।। ७.११.४० ॥
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् ।निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ।। ७.११.४१ ॥
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी ।काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ।। ७.११.४२ ॥
कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः ।। ७.११.४३ ॥
तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः ।विहारशीलाः सततं रमन्ते सर्वदा ऽ ऽश्रिताः ।। ७.११.४४ ॥
न हि क्षमं तवानेन वैरं धनद रक्षसा ।जानीषे हि यथा ऽनेन लब्धः परमको वरः ।। ७.११.४५ ॥
एवमुक्तो गृहीत्वा ऽ ऽशु तद्वचः पितृगौरवात् ।सदारपुत्रः सामान्यः सवाहनधनो गतः ।। ७.११.४६ ॥
प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् ।प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ।। ७.११.४७ ॥
शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः ।प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ।। ७.११.४८ ॥
एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः ।विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ।। ७.११.४९ ॥
धनदेन परित्यक्तां सुविभक्तमहापथाम् ।आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ।। ७.११.५० ॥
स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः ।निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ।। ७.११.५१ ॥
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् ।स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदा ऽमरावतीम् ।। ७.११.५२ ।।
राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ।ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ।। ७.१२.१ ॥
स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ।। ७.१२.२ ॥
अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् ।तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ।। ७.१२.३ ॥
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।अपृच्छत्को भवानेको निर्मनुष्यमृगे वने ।अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ।। ७.१२.४ ॥
मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् ।श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ।। ७.१२.५ ॥
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया ।दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ।। ७.१२.६ ॥
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् ।सा च दैवतकार्येण त्रयोदश समा गताः ।। ७.१२.७ ॥
वर्षं चतुर्दशं चैव ततो हेममयं पुरम् ।वज्रवैडूर्यचित्रं च मायया निर्मितं मया ।। ७.१२.८ ॥
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ।। ७.१२.९ ॥
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ।इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।। ७.१२.१० ॥
भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् ।कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। ७.१२.११ ॥
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ।पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ।। ७.१२.१२ ॥
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ।एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।। ७.१२.१३ ॥
त्वामिदानीं कथं तात जानीयां को भवानिति ।एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् ।। ७.१२.१४ ॥
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः ।मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत् ।। ७.१२.१५ ॥
एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः ।महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः ।दातुं दुहितरं तस्मै रोचयामास यत्र वै ।। ७.१२.१६ ॥
करेण तु करं तस्या ग्राहयित्वा मयस्तदा ।प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ।। ७.१२.१७ ॥
इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता ।कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ।। ७.१२.१८ ॥
बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत ।प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् ।। ७.१२.१९ ॥
स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ।विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ।। ७.१२.२० ॥
अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ।परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ।। ७.१२.२१ ॥
एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः ।गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ।। ७.१२.२२ ॥
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ।तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ।। ७.१२.२३ ॥
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ।सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ।। ७.१२.२४ ॥
तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि ।सरस्तदा मानसं तु ववृधे जलदागमे ।। ७.१२.२५ ॥
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ।सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् ।। ७.१२.२६ ॥
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ।स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ।। ७.१२.२७ ॥
ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ।स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ।। ७.१२.२८ ॥
जातमात्रेण हि पुरा तेन रावणसूनुना ।रुदता सुमहान्मुक्तो नादो जलधरोपमः ।। ७.१२.२९ ॥
जडीकृता च सा लङ्का तस्य नादेन राघव ।पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ।। ७.१२.३० ॥
सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे ।रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ।। ७.१२.३१ ॥
मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ।। ७.१२.३२ ।।
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् ।निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ।। ७.१३.१ ॥
ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः ।निद्रा मां बाधते राजन्कारयस्व ममालयम् ।। ७.१३.२ ॥
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ।। ७.१३.३ ॥
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ।स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ।। ७.१३.४ ॥
वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ।दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ।। ७.१३.५ ॥
मनोहरं सर्वसुखं कारयामास राक्षसः ।सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ।। ७.१३.६ ॥
तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः ।बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ।। ७.१३.७ ॥
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ।। ७.१३.८ ॥
उद्यानानि च चित्राणि नन्दनादीनि यानि च ।तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ।। ७.१३.९ ॥
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् ।नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ।। ७.१३.१० ॥
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ।कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ।। ७.१३.११ ॥
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा ।लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ।। ७.१३.१२ ॥
स गत्वा नगरीं लङ्कामाससाद विभीषणम् ।मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ।। ७.१३.१३ ॥
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः ।सभायां दर्शयामास तमासीनं दशाननम् ।। ७.१३.१४ ॥
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ।जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ।। ७.१३.१५ ॥
तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते ।उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ।। ७.१३.१६ ॥
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् ।उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ।। ७.१३.१७ ॥
साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः ।साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ।। ७.१३.१८ ॥
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ।। ७.१३.१९ ॥
निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप ।अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ।। ७.१३.२० ॥
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ।। ७.१३.२१ ॥
तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ।सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ।। ७.१३.२२ ॥
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ।। ७.१३.२३ ॥
देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् ।रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ।। ७.१३.२४ ॥
ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ।तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ।। ७.१३.२५ ॥
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ।प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ।। ७.१३.२६ ॥
पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ।प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ।। ७.१३.२७ ॥
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ।तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ।। ७.१३.२८ ॥
व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा ।तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ।। ७.१३.२९ ॥
तपसा निर्जितश्चैव सखा भव ममानघ ।देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ।। ७.१३.३० ॥
एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् ।एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ।। ७.१३.३१ ॥
आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः ।। ७.१३.३२ ॥
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् ।चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ।। ७.१३.३३ ॥
एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः ।हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ।। ७.१३.३४ ॥
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे ।नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ।। ७.१३.३५ ॥
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ।महेश्वरसखित्वं तु मूढ श्रावयते किल ।। ७.१३.३६ ॥
न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया ।यदेतावन्मया कालं दूत तस्य तु मर्षितम् ।। ७.१३.३७ ॥
न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते ।तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ।। ७.१३.३८ ॥
त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ।। ७.१३.३९ ॥
एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ।चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ।। ७.१३.४० ॥
एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् ।ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ।। ७.१३.४१ ॥
एवं कृतस्वस्त्ययनो रथमारुह्य रावणः ।त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ।। ७.१३.४२ ।।
ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः ।महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ।। ७.१४.१ ॥
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना ।वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ।। ७.१४.२ ॥
पुराणि स नदीः शैलान्वनान्युपवनानि च ।अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ।। ७.१४.३ ॥
सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु ।युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ।। ७.१४.४ ॥
यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः ।राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ।। ७.१४.५ ॥
ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् ।अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ।। ७.१४.६ ॥
ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः ।तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ।। ७.१४.७ ॥
ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् ।व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ।। ७.१४.८ ॥
स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः ।हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ।। ७.१४.९ ॥
ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः ।तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ।। ७.१४.१० ॥
ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः ।हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ।। ७.१४.११ ॥
स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः ।वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ।। ७.१४.१२ ॥
न चकार व्यथां चैव यक्षशस्त्रैः समाहतः ।महीधर इवाम्भोदैर्धाराशतसमुक्षितः ।। ७.१४.१३ ॥
स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् ।प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ।। ७.१४.१४ ॥
स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् ।वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ।। ७.१४.१५ ॥
तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः ।अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ।। ७.१४.१६ ॥
केचित्समाहता भग्नाः पतिताः समरक्षितौ ।ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ।। ७.१४.१७ ॥
श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे ।सीदन्ति च तदा यक्षाः कूला इव जलेन ह ।। ७.१४.१८ ॥
हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले ।प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ।। ७.१४.१९ ॥
भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् ।धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ।। ७.१४.२० ॥
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ।प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ।। ७.१४.२१ ॥
तेन चक्रेण मारीचो विष्णुनेव रणे हतः ।पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ।। ७.१४.२२ ॥
ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः ।तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ।। ७.१४.२३ ॥
ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् ।मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ।। ७.१४.२४ ॥
तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् ।सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ।। ७.१४.२५ ॥
स वार्यमाणो यक्षेण प्रविवेश निशाचरः ।यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ।। ७.१४.२६ ॥
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ।रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ।। ७.१४.२७ ॥
स शैलशिखराभेण तोरणेन समाहतः ।जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ।। ७.१४.२८ ॥
तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः ।नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ।। ७.१४.२९ ॥
ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् ।ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः ।त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा ।। ७.१४.३० ।।
ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः ।धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ।। ७.१५.१ ॥
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ।। ७.१५.२ ॥
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः ।वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ।। ७.१५.३ ॥
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ।। ७.१५.४ ॥
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ।। ७.१५.५ ॥
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ।दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ।। ७.१५.६ ॥
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे ।महोदरेण चानिन्द्यं सहस्रमपरं हतम् ।। ७.१५.७ ॥
क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना ।निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ।। ७.१५.८ ॥
क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् ।रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि ।। ७.१५.९ ॥
धूम्राक्षेण समागम्य माणिभद्रो महारणे ।मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ।। ७.१५.१० ॥
ततो गदां समाविध्य माणिभद्रेण राक्षसः ।धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ।। ७.१५.११ ॥
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ।। ७.१५.१२ ॥
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ।। ७.१५.१३ ॥
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे ।तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ।। ७.१५.१४ ॥
ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ।तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः ।सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत ।। ७.१५.१५ ॥
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ।। ७.१५.१६ ॥
स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् ।उवाच वचनं धीमान्युक्तं पैतामहे कुले ।। ७.१५.१७ ॥
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते ।पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ।। ७.१५.१८ ॥
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।स तस्य परिणामान्ते जानीते कर्मणः फलम् ।। ७.१५.१९ ॥
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ।येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ।। ७.१५.२० ॥
मातरं पितरं यो हि आचार्यं चावमन्यते ।स पश्यति फलं तस्य प्रेतराजवशं गतः ।। ७.१५.२१ ॥
अध्रुवे हि शरीरे यो न करोति तपोर्जनम् ।स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम् ।। ७.१५.२२ ॥
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च ।तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ।। ७.१५.२३ ॥
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ।तस्मादात्मापघातार्थं मूढः पापं करिष्यति ।। ७.१५.२४ ॥
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।देवं चेष्टयते सर्वं हतो दैवेन हन्यते ।यादृशं कुरुते कर्म तादृशं फलमश्नुते ।। ७.१५.२५ ॥
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च ।प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ।। ७.१५.२६ ॥
एवं निरयगामी त्वं यस्य ते मतिरीदृशी ।न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ।। ७.१५.२७ ॥
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः ।मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ।। ७.१५.२८ ॥
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ।। ७.१५.२९ ॥
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे ।न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ।। ७.१५.३० ॥
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ।। ७.१५.३१ ॥
ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः ।रूपाणां शतसाहस्रं विनाशाय चकार च ।। ७.१५.३२ ॥
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः ।यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ।। ७.१५.३३ ॥
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ।प्रतिगृह्य ततो राम महदस्त्रं दशाननः ।। ७.१५.३४ ॥
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् ।एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।। ७.१५.३५ ॥
कृत्तमूल इवाशोको निपपात धनाधिपः ।। ७.१५.३६ ॥
ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः ।धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ।। ७.१५.३७ ॥
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ।पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ।। ७.१५.३८ ॥
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ।मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ।। ७.१५.३९ ॥
मनोजवं कामगमं कामरूपं विहङ्गमम् ।मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ।। ७.१५.४० ॥
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् ।बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ।। ७.१५.४१ ॥
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ।न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ।। ७.१५.४२ ॥
स तं राजा समारुह्य कामगं वीर्यनिर्जितम् ।जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ।। ७.१५.४३ ॥
जित्वा वैश्रवणं देवं कैलासात्समवातरत् ।। ७.१५.४४ ॥
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् ।रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ।। ७.१५.४५ ।।
स जित्वा धनदं राम भ्रातरं राक्षसाधिपः ।महासेनप्रसूतिं तद्ययौ शरवणं महत् ।। ७.१६.१ ॥
अथापश्यदृशग्रीवो रौक्मं शरवणं महत् ।गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ।। ७.१६.२ ॥
स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् ।अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ।। ७.१६.३ ॥
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् ।अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ।। ७.१६.४ ॥
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् ।पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ।। ७.१६.५ ॥
ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ।नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ।। ७.१६.६ ॥
अथवा पुष्पकमिदं धनदान्नान्यवाहनम् ।अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ।। ७.१६.७ ॥
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः ।वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ।। ७.१६.८ ॥
ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् ।नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ।। ७.१६.९ ॥
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः ।सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।। ७.१६.१० ॥
सर्वेषामेव भूतानामगम्यः पर्वतः कृतः ।इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।। ७.१६.११ ॥
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः ।को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ।। ७.१६.१२ ॥
सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् ।दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ।। ७.१६.१३ ॥
तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः ।प्रहासं मुमुचे तत्र सतोय इव तोयदः ।। ७.१६.१४ ॥
तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः ।अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ।। ७.१६.१५ ॥
यस्माद्वानररूपं मामवज्ञाय दशानन ।अशनीपातसङ्काशमपहासं प्रमुक्तवान् ।। ७.१६.१६ ॥
तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः ।उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ।। ७.१६.१७ ॥
नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः ।युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ।। ७.१६.१८ ॥
ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् ।व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ।। ७.१६.१९ ॥
किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर ।न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ।। ७.१६.२० ॥
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।। ७.१६.२१ ॥
अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः ।पर्वतं तु समासाद्य वाक्यमाह दशाननः ।। ७.१६.२२ ॥
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।तमिमं शैलमुन्मूलं करोमि तव गोपते ।। ७.१६.२३ ॥
केन प्रभावेण भवो नित्यं क्रीडति राजवत् ।विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ।। ७.१६.२४ ॥
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ।तोलयामास तं शीघ्रं स शैलं समकम्पत ।। ७.१६.२५ ॥
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः ।चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ।। ७.१६.२६ ॥
ततो राम महादवो देवानां प्रवरो हरः ।पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। ७.१६.२७ ॥
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः ।विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ।। ७.१६.२८ ॥
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा ।मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ।। ७.१६.२९ ॥
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ।तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ।। ७.१६.३० ॥
समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः ।यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ।। ७.१६.३१ ॥
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् ।तोषयस्व महादेवं नीलकण्ठमुमापतिम् ।। ७.१६.३२ ॥
तमृते शरणं नान्यं पश्यामो ऽत्र दशानन ।स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।। ७.१६.३३ ॥
कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति ।एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ।। ७.१६.३४ ॥
सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ।संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ।। ७.१६.३५ ॥
ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः ।मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ।। ७.१६.३६ ॥
प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन ।शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ।। ७.१६.३७ ॥
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ।। ७.१६.३८ ॥
देवता मानुषा यक्षा ये चान्ये जगतीतले ।एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ।। ७.१६.३९ ॥
गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि ।मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ।। ७.१६.४० ॥
एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् ।प्रीतो यदि महादेव वरं मे देहि याचतः ।। ७.१६.४१ ॥
अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः ।राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ।। ७.१६.४२ ॥
मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः ।दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ।। ७.१६.४३ ॥
वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे ।एवमुक्तस्ततस्तेन रावणेन स शङ्करः ।। ७.१६.४४ ॥
ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् ।आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ।। ७.१६.४५ ॥
दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया ।अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ।। ७.१६.४६ ॥
एवं महेश्वरेणैव कृतनामा स रावणः ।अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ।। ७.१६.४७ ॥
ततो महीतले राम पर्यक्रामत रावणः ।क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ।। ७.१६.४८ ॥
केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः ।तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ।। ७.१६.४९ ॥
अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः ।जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ।। ७.१६.५० ।।
अथ राजन्महाबाहुर्विचरन्स महीतले ।हिमवद्वनमासाद्य परिचक्राम रावणः ।। ७.१७.१ ॥
तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् ।आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव ।। ७.१७.२ ॥
स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम् ।काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ।। ७.१७.३ ॥
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते ।नहि युक्ता तवैतस्य रूपस्यैव प्रतिक्रिया ।। ७.१७.४ ।।रूपं ते ऽनुपमं भीरु कामोन्मादकरं नृणाम् ।न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ।। ७.१७.५ ॥
कस्यासि किमिदं भद्रे कश्च भर्ता वरानने ।येन सम्भुज्यसे भीरु स नरः पुण्यभाग्भुवि ।। ७.१७.६ ॥
पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः ।एवमुक्ता तु सा कन्या रावणेन यशस्विनी ।। ७.१७.७ ॥
अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ।कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः ।बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ।। ७.१७.८ ॥
तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ।। ७.१७.९ ॥
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।ते ऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ।। ७.१७.१० ॥
न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ ।कारणं तद्वदिष्यामि निशाचर निशामय ।। ७.१७.११ ॥
पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ।अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ।। ७.१७.१२ ॥
दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः ।दम्भुर्नाम ततो राजा दैत्यानां कुपितो ऽभवत् ।। ७.१७.१३ ॥
तेन रात्रौ शयानो मे पिता पापेन हिंसितः ।। ७.१७.१४ ॥
ततो मे जननी दीना तच्छरीरं पितुर्मम ।परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ।। ७.१७.१५ ॥
ततो मनोरथं सत्यं पितुर्नारायणं प्रति ।करोमीति तमेवाहं हृदयेन समुद्वहे ।। ७.१७.१६ ॥
इति प्रतिज्ञामारुह्य चरामि विपुलं तपः ।एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ।। ७.१७.१७ ॥
नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् ।आश्रये नियमं घोरं नारायणपरीप्सया ।विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ।। ७.१७.१८ ॥
जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।। ७.१७.१९ ॥
सो ऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् ।अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ।। ७.१७.२० ॥
अवलिप्ता ऽसि सुश्रोणि यस्यास्ते मतिरीदृशी ।वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः ।। ७.१७.२१ ॥
त्वं सर्वंगुणसम्पन्ना नार्हसे वक्तुमीदृशम् ।त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ।। ७.१७.२२ ॥
अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः ।तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ।। ७.१७.२३ ॥
कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ।वीर्येण तपसा चैव भोगेन च बलेन च ॥
न मया स समो भद्रे यं त्वं कामयसे ऽङ्गने ।। ७.१७.२४ ॥
इत्युक्तवति तस्मिंस्तु वेदवत्यथ सा ऽब्रवीत् ।। ७.१७.२५ ।।ैव भोगेन च बलेन च ॥
मा मैवमिति सा कन्या तमुवाच निशाचरम् ।त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् ।त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान् ।। ७.१७.२६ ॥
एवमुक्तस्तया तत्र वेदवत्या निशाचरः ।मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ।। ७.१७.२७ ॥
ततो वेदवती क्रुद्धा केशान्हस्तेन सा ऽच्छिनत् ।असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदा ऽकरोत् ।। ७.१७.२८ ॥
सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् ।उवाचाग्निं समाधाय मरणाय कृतत्वरा ।। ७.१७.२९ ॥
धर्षितायास्त्वयानार्य न मे जीवितमिष्यते ।रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ।। ७.१७.३० ॥
यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने ।तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ।। ७.१७.३१ ॥
न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः ।शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ।। ७.१७.३२ ॥
यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा ।तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ।। ७.१७.३३ ॥
एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् ।पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ।। ७.१७.३४ ॥
पुनरेव समुद्भूता पद्मे पद्मसमप्रभा ।तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ।। ७.१७.३५ ॥
कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ ।प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ।। ७.१७.३६ ॥
लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् ।गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते ।। ७.१७.३७ ॥
एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः ।सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ।। ७.१७.३८ ॥
राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती ।सैषा जनकराजस्य प्रसूता तनया प्रभो ।तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ।। ७.१७.३९ ॥
पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा ।उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् ।। ७.१७.४० ॥
एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः ।क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ।। ७.१७.४१ ॥
एषा वेदवती नाम पूर्वमासीत्कृते युगे ।त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ।। ७.१७.४२ ॥
उत्पन्ना मैथिलकुले जनकस्य महात्मनः ।सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ।। ७.१७.४३ ।।
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः ।पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ।। ७.१८.१ ॥
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।उशीरबीजमासाद्य ददर्श स तु रावणः ।। ७.१८.२ ॥
संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः ।याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ।। ७.१८.३ ॥
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् ।तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ।। ७.१८.४ ॥
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः ।कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ।। ७.१८.५ ॥
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन ।रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ।। ७.१८.६ ॥
तं च राजानमासाद्य रावणो राक्षसाधिपः ।प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ।। ७.१८.७ ॥
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् ।अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ।। ७.१८.८ ॥
अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव ।धनदस्यानुजं यो मां नावगच्छसि रावणम् ।। ७.१८.९ ॥
त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् ।भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ।ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ।। ७.१८.१० ॥
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ।न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ।। ७.१८.११ ॥
नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् ।कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ।। ७.१८.१२ ॥
क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् ।श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ।। ७.१८.१३ ॥
तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते ।अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ।। ७.१८.१४ ॥
ततः शरासनं गृह्य सायकांश्च नराधिपः ।रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ।। ७.१८.१५ ॥
सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ।श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ।। ७.१८.१६ ॥
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ।। ७.१८.१७ ॥
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः ।संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ।। ७.१८.१८ ॥
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ।विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ।। ७.१८.१९ ॥
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः ।रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ।। ७.१८.२० ॥
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् ।वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ।। ७.१८.२१ ॥
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः ।ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ।। ७.१८.२२ ॥
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ।प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ।। ७.१८.२३ ॥
इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति ।वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् ।एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ।। ७.१८.२४ ॥
नीलाः किल पुरा बर्हा मयूराणां नराधिप ।सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ।। ७.१८.२५ ॥
धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ।पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ।। ७.१८.२६ ॥
यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया ।ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ।। ७.१८.२७ ॥
मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम ।यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ।। ७.१८.२८ ॥
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः ।त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ।। ७.१८.२९ ॥
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् ।श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ।। ७.१८.३० ॥
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः ।भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ।। ७.१८.३१ ॥
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि ।प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ।। ७.१८.३२ ॥
हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः ।पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ।। ७.१८.३३ ॥
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् ।हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ।। ७.१८.३४ ॥
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ।एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ।। ७.१८.३५ ॥
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः ।निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ।। ७.१८.३६ ।।
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ।नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ।। ७.१९.१ ॥
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् ।अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ।। ७.१९.२ ॥
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः ।अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ।। ७.१९.३ ।।ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः ।मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः ।निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ।। ७.१९.४ ॥
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ।एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ।। ७.१९.५ ॥
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ।। ७.१९.६ ॥
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् ।स तं पुरुषशार्दूलं पुरन्दरसमं बले ।। ७.१९.७ ॥
प्राह राजानमासाद्य युद्धं देहीति रावणः ।निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ।। ७.१९.८ ॥
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः ।अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ।। ७.१९.९ ॥
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया ।सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ।। ७.१९.१० ॥
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् ।निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ।। ७.१९.११ ॥
नागानां दशसाहस्रं वाजिनां नियुतं तथा ।रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ।। ७.१९.१२ ॥
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे ।ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ।। ७.१९.१३ ॥
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् ।तद्रावणबलं प्राप्य बलं तस्य महीपतेः ।। ७.१९.१४ ॥
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले ।युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ।। ७.१९.१५ ॥
प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् ।प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् ।नश्यति स्म बलं तत्र हव्यं हुतमिवानले ।। ७.१९.१६ ॥
सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् ।महार्णवं समासाद्य वनापगशतं यथा ।। ७.१९.१७ ॥
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् ।आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ।। ७.१९.१८ ॥
अनरण्येन ते ऽमात्या मारीचशुकसारणाः ।प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ।। ७.१९.१९ ॥
ततो बाणशतान्यष्टौ पातयामास मूर्धनि ।तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ।। ७.१९.२० ॥
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् ।वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ।। ७.१९.२१ ॥
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ।तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ।। ७.१९.२२ ॥
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ।वज्रदग्ध इवारण्ये सालो निपतितो यथा ।। ७.१९.२३ ॥
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् ।किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ।। ७.१९.२४ ॥
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप ।शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ।। ७.१९.२५ ॥
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ।किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ।। ७.१९.२६ ॥
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ।कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् ।। ७.१९.२७ ॥
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ।नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ।। ७.१९.२८ ॥
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ।यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥
यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ।। ७.१९.२९ ॥
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् ।रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ।। ७.१९.३० ॥
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः ।तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ।। ७.१९.३१ ॥
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत ।। ७.१९.३२ ।।
ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ।। ७.२०.१ ॥
तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ।अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ।। ७.२०.२ ॥
नारदस्तु महातेजा देवर्षिरमितप्रभः ।अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ।। ७.२०.३ ॥
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ।। ७.२०.४ ॥
विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः ।त्वया समं विमर्दैश्च भृशं हि परितोषितः ।। ७.२०.५ ॥
किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम ।तन्मे निगदतस्तात समाधिं श्रवणे कुरु ।। ७.२०.६ ॥
किमयं वध्यते तात त्वया ऽवध्येन दैवतैः ।हत एव ह्ययं लोको यदा मृत्युवशं गतः ।। ७.२०.७ ।।्तम ।देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् ।अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ।। ७.२०.८ ॥
नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् ।हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ।। ७.२०.९ ॥
तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः ।मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ।। ७.२०.१० ॥
क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः ।विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ।। ७.२०.११ ॥
पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् ।मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ।। ७.२०.१२ ॥
क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः ।रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ।। ७.२०.१३ ॥
मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः ।मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ।। ७.२०.१४ ॥
अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् ।जित एव त्वया सौम्य मर्त्यलोको न संशयः ।। ७.२०.१५ ॥
अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् ।तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ।। ७.२०.१६ ॥
तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः ।एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा ।अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ।। ७.२०.१७ ॥
महर्षे देवगन्धर्वविहार समरप्रिय ।अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ।। ७.२०.१८ ॥
ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।समुद्रममृतार्थं च मथिष्यामि रसालयम् ।। ७.२०.१९ ॥
अथाब्रवीदृशग्रीवं नारदो भगवानृषिः ।क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ।। ७.२०.२० ॥
अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति ।मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ।। ७.२०.२१ ॥
स तु शारदमेघाभं हासं मुक्त्वा दशाननः ।उवाच कृतमित्येव वचनं चेदमब्रवीत् ।। ७.२०.२२ ॥
तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः ।गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ।। ७.२०.२३ ॥
मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना ।अवजेष्यामि चतुरो लोकपालानिति प्रभो ।। ७.२०.२४ ॥
तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति ।प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ।। ७.२०.२५ ॥
एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ।प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ।। ७.२०.२६ ॥
नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ।। ७.२०.२७ ॥
येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ।। ७.२०.२८ ॥
स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः ।लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ।। ७.२०.२९ ॥
यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति ।। ७.२०.३० ॥
यो विधाता च धाता च सुकृतं दुष्कृतं तथा ।त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ।। ७.२०.३१ ॥
अपरं किन्तु कृत्वायं विधानं संविधास्यति ।कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।। ७.२०.३२ ॥
विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ।। ७.२०.३३ ।।
एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः ।आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ।। ७.२१.१ ॥
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ।विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ।। ७.२१.२ ॥
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् ।अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ।। ७.२१.३ ॥
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति ।किमागमनकृत्यं ते देवगन्धर्वसेवित ।। ७.२१.४ ॥
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः ।श्रूयतामभिधास्यामि विधानं च विधीयताम् ।। ७.२१.५ ॥
एष नाम्नो दशग्रीवः पितृराज निशाचरः ।उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ।। ७.२१.६ ॥
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो ।दण्डप्रहरणस्याद्य तव किं नु भविष्यति ।। ७.२१.७ ॥
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् ।ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ।। ७.२१.८ ॥
तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ।। ७.२१.९ ॥
सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः ।प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ।। ७.२१.१० ॥
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह ।यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ।। ७.२१.११ ॥
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः ।क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ।। ७.२१.१२ ॥
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ।। ७.२१.१३ ॥
क्षोत्रायासकरा वाचो वदतश्च भयावहाः ।सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ।। ७.२१.१४ ॥
वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः ।असिपत्रवने चैव भिद्यमानानधार्मिकान् ।। ७.२१.१५ ॥
रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ।पानीयं याचमानांश्च तृषितान्क्षुधितानपि ।। ७.२१.१६ ॥
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् ।मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ।। ७.२१.१७ ॥
ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः ।कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः ।प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ।। ७.२१.१८ ॥
गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः ।गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ।। ७.२१.१९ ॥
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ।। ७.२१.२० ॥
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा ।ददर्श सुमहाबाहू रावणो राक्षसाधिपः ।। ७.२१.२१ ॥
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः ।रावणो मोचयामास विक्रमेण बलाद्बली ।। ७.२१.२२ ॥
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा ।सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ।। ७.२१.२३ ॥
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा ।प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ।। ७.२१.२४ ॥
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः ।धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ।। ७.२१.२५ ॥
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः ।पुष्पकं समवर्षन्त शूराः शतसहस्रशः ।। ७.२१.२६ ॥
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च ।पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ।। ७.२१.२७ ॥
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ।भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ।। ७.२१.२८ ॥
असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः ।शूराणामग्रयातऽणां सहस्राणि शतानि च ।। ७.२१.२९ ॥
ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा ।ततस्ते सचिवास्तस्य यथाकामं यथाबलम् ।अयुध्यन्त महावीराः स च राजा दशाननः ।। ७.२१.३० ॥
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः ।अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ।। ७.२१.३१ ॥
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् ।यमस्य च महाबाहो रावणस्य च मन्त्रिणः ।। ७.२१.३२ ॥
अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः ।तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ।। ७.२१.३३ ॥
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ।फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ।। ७.२१.३४ ॥
स तु शूलगदापासाञ्छक्तितोमरसायकान् ।मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ।। ७.२१.३५ ॥
तरूणां च शिलानां च शस्त्राणां चातिदारुणम् ।यमसैन्येषु तद्वर्षं पपात धरणीतले ।। ७.२१.३६ ॥
तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च ।जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ।। ७.२१.३७ ॥
परिवार्य च तं सर्वे शैलं मोघोत्करा इव ।भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ।। ७.२१.३८ ॥
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः ।ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ।। ७.२१.३९ ॥
ततः स कार्मुकी वाणी समरे चाभिवर्तत ।लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ।। ७.२१.४० ॥
ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके ।तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ।। ७.२१.४१ ॥
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे ।मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ।। ७.२१.४२ ॥
तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् ।वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ।। ७.२१.४३ ॥
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ।मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ।। ७.२१.४४ ॥
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।रणे तस्मिन्निपतिता दावदग्धा नगा इव ।। ७.२१.४५ ॥
ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः ।ननाद सुमहानादं कम्पयन्निव मेदिनीम् ।। ७.२१.४६ ।।
स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः ।शत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् ।। ७.२२.१ ॥
स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः ।अब्रवीत्त्वरितं सूतं रथो ऽयमुपनीयताम् ।। ७.२२.२ ॥
तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् ।स्थितः स च महातेजा ह्यध्यारोहत तं रथम् ।प्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ।। ७.२२.३ ॥
येन सङ्क्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् ।कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् ।यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ।। ७.२२.४ ॥
तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ।। ७.२२.५ ।।पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ।। ७.२२.६ ॥
ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः ।कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ।। ७.२२.७ ॥
ततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान् ।प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ।। ७.२२.८ ॥
मुहूर्तेन यमं ते तु हया हरिहयोपमाः ।प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ।। ७.२२.९ ॥
दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् ।सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ।। ७.२२.१० ॥
लघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः ।नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ।। ७.२२.११ ॥
स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् ।नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ।। ७.२२.१२ ॥
स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् ।यमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत ।। ७.२२.१३ ॥
रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह ।तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ।। ७.२२.१४ ॥
ततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो) ।नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ।। ७.२२.१५ ॥
एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा ।सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ।। ७.२२.१६ ॥
तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः ।जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ।। ७.२२.१७ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ।। ७.२२.१८ ॥
संवर्त इव लोकानां क्रुध्यतोरभवत्तदा ।राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ।। ७.२२.१९ ॥
राक्षसेन्द्रो ऽपि विस्फार्य चापमिन्द्राशनिप्रभम् ।निरन्तरमिवाकाशं कुर्वन्बाणांस्ततो ऽसृजत् ।। ७.२२.२० ॥
मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् ।यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ।। ७.२२.२१ ॥
ततः क्रुद्धस्य वदनाद्यमस्य समजायत ।ज्वालामाली सनिःश्वासः सधूमः कोपपावकः ।। ७.२२.२२ ॥
तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ ।प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ।। ७.२२.२३ ॥
ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत ।मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् ।नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ।। ७.२२.२४ ॥
हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा ।विसन्धिर्धूमकेतुश्च बलिर्वैरोचनो ऽपि च ।। ७.२२.२५ ॥
दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च ।राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ।। ७.२२.२६ ॥
ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः ।युगान्तपरिवर्ते च पृथिवी समहार्णवा ।। ७.२२.२७ ॥
क्षयं नीता महाराज सपर्वतसरिद्द्रुमा ।एते चान्ये च बहवो बलवन्तो दुरासदाः ।। ७.२२.२८ ॥
विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ।। ७.२२.२९ ॥
मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् ।नहि कश्चिन्मया दृष्टो बलवानपि जीवति ।। ७.२२.३० ॥
बलं मम न खल्वेतन्मर्यादैषा निसर्गतः ।स दृष्टो न मया कालं मुहुर्तमापि जीवति ।। ७.२२.३१ ॥
तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् ।अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ।। ७.२२.३२ ॥
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः ।कालदण्डममोघं तु तोलयामास पाणिना ।। ७.२२.३३ ॥
यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः ।पावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः ।। ७.२२.३४ ॥
दर्शनादेव यः प्राणान्प्राणिनामपकर्षति ।किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ।। ७.२२.३५ ॥
स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् ।तेन स्पृष्टो बलवता महाप्रहरणो ऽस्फुरत् ।। ७.२२.३६ ॥
ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे ।सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ।। ७.२२.३७ ॥
तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् ।यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ।। ७.२२.३८ ॥
वैवस्वत महाबाहो न खल्वमितविक्रम ।न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ।। ७.२२.३९ ॥
वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव ।स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ।। ७.२२.४० ॥
यो हि मामनृतं कुर्याद्देवो वा मानुषो ऽपि वा ।त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ।। ७.२२.४१ ॥
क्रुद्धेन विप्रमुक्तो ऽयं निर्विशेषं प्रियाप्रिये ।प्रजाः संहरते रौद्रो लोकत्रयभयावहः ।। ७.२२.४२ ॥
अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः ।कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ।। ७.२२.४३ ॥
तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि ।नह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ।। ७.२२.४४ ॥
यदि ह्यन्मिन्निपतिते न म्रियेतैष राक्षसः ।म्रियते वा दशग्रीवस्तदाप्युभयतो ऽनृतम् ।। ७.२२.४५ ॥
तन्निवर्तय लङ्केशं द्दण्डमेतं समुद्यतम् ।सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ।। ७.२२.४६ ॥
एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा ।एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ।। ७.२२.४७ ॥
किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि ।न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ।। ७.२२.४८ ॥
एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः ।इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ।। ७.२२.४९ ॥
दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः ।आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ।। ७.२२.५० ॥
स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः ।जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ।। ७.२२.५१ ।।
ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् ।रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ।। ७.२३.१ ॥
ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् ।रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ।। ७.२३.२ ॥
जयेन वर्धयित्वा च मारीचप्रमुखास्ततः ।पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ।। ७.२३.३ ॥
ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् ।दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ।। ७.२३.४ ॥
स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् ।कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ।। ७.२३.५ ॥
निवातकवचास्तत्र दैत्या लब्धवरा वसन् ।राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ।। ७.२३.६ ॥
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः ।नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ।। ७.२३.७ ॥
शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः ।अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ।। ७.२३.८ ॥
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः ।न चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा ।। ७.२३.९ ॥
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः ।आजगाम द्रुतं देवो विमानवरमास्थितः ।। ७.२३.१० ॥
निवातकवचानां तु निवार्य रणकर्म तत् ।वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ।। ७.२३.११ ॥
नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः ।न भवन्तः क्षयं नेतुमपि सामरदानवैः ।। ७.२३.१२ ॥
राक्षसस्य सखित्वं च भवद्भिः सह रोचते ।अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ।। ७.२३.१३ ॥
ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः ।निवातकवचैः सार्धं प्रीतिमानभवत्तदा ।। ७.२३.१४ ॥
अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः ।स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ।। ७.२३.१५ ॥
ततोपधार्य मायानां शतमेकं समाप्तवान् ।सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ।। ७.२३.१६ ॥
ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् ।गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ।। ७.२३.१७ ॥
शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा ।श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम् ।जिह्वया संलिहन्तं च राक्षसं समरे तथा ।। ७.२३.१८ ॥
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ।। ७.२३.१९ ॥
ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् ।वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ।। ७.२३.२० ॥
क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् ।यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ।। ७.२३.२१ ।।
ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् ।यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ।। ७.२३.२२ ॥
यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः ।अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ।। ७.२३.२३ ॥
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः ।प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ।। ७.२३.२४ ॥
प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः ।ततो धाराशताकीर्णं शारदाभ्रनिभं तदा ।नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ।। ७.२३.२५ ॥
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः ।अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ।। ७.२३.२६ ॥
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् ।वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ।। ७.२३.२७ ॥
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः ।पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ।। ७.२३.२८ ॥
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः ।युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ।। ७.२३.२९ ॥
ततो युद्धं समभवद्दारुणं रोमहर्षणम् ।सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ।। ७.२३.३० ॥
अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः ।वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ।। ७.२३.३१ ॥
समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा ।अर्दिताः शरजालेन निवृत्ता रणकर्मणः ।। ७.२३.३२ ॥
महीतलगतास्ते तु रावणं दृश्य पुष्पके ।आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ।। ७.२३.३३ ॥
महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् ।आकाशयुद्धं तुमुलं देवदानवयोरिव ।। ७.२३.३४ ॥
ततस्ते रावणं युद्धे शरैः पावकसन्निभैः ।विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ।। ७.२३.३५ ॥
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् ।त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ।। ७.२३.३६ ॥
तेन ते दारुणा युद्धे कामगाः पवनोपमाः ।महोदरेण गदया हता वै प्रययुः क्षितिम् ।। ७.२३.३७ ॥
तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् ।मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ।। ७.२३.३८ ॥
ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः ।महोदरेण निहताः पतिताः पृथिवीतले ।। ७.२३.३९ ॥
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः ।आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ।। ७.२३.४० ॥
धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् ।रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ।। ७.२३.४१ ॥
सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः ।दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ।। ७.२३.४२ ॥
ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः ।शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ।। ७.२३.४३ ॥
ततस्तेनैव सहसा सीदन्ति स्म पदातयः ।मुसलानि विचित्राणि ततो भल्लशतानि च ।। ७.२३.४४ ॥
पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा ।पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ।। ७.२३.४५ ॥
अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः ।महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ।। ७.२३.४६ ॥
सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः ।ननाद रावणो हर्षान्महानम्बुधरो यथा ।। ७.२३.४७ ॥
ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् ।नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ।। ७.२३.४८ ॥
ततस्ते विमुखाः सर्वे पतिता धरणीतले ।रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ।। ७.२३.४९ ॥
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ।। ७.२३.५० ॥
रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः ।गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ।। ७.२३.५१ ॥
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि ।तत्किं तव वृथा वीर परिश्रम्य गते नृपे ।ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ।। ७.२३.५२ ॥
राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः ।हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ।। ७.२३.५३ ॥
आगतस्तु पथा येन तेनैव विनिवृत्य सः ।लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ।। ७.२३.५४ ।।
निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् ।जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ।। ७.२४.१ ॥
दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति ।हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ।। ७.२४.२ ॥
एवं पन्नगकन्याश्च राक्षसासुरमानुषीः ।यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ।। ७.२४.३ ॥
ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् ।तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ।। ७.२४.४ ॥
ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः ।आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ।। ७.२४.५ ॥
नागगन्धर्वकन्याश्च महर्षितनयाश्च याः ।दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ।। ७.२४.६ ॥
दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः ।पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ।। ७.२४.७ ॥
रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः ।स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ।। ७.२४.८ ॥
शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः ।तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ।। ७.२४.९ ॥
अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् ।दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ।। ७.२४.१० ॥
दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव ।काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ।। ७.२४.११ ॥
काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् ।इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च ।दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ।। ७.२४.१२ ॥
कथं नु खलु मे पुत्रो भविष्यति मया विना ।कथं माता कथं भ्राता निमग्नाः शोकसागरे ।। ७.२४.१३ ।॥
हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना ।मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ।। ७.२४.१४ ॥
किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।। ७.२४.१५ ॥
एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे ।न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ।। ७.२४.१६ ॥
अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः ।यद्दुर्बला बलवता भर्तारो रावणेन नः ।। ७.२४.१७ ॥
सूर्येणोदयता काले नक्षत्राणीव नाशिताः ।अहो सुबलवद्रक्षो वधोपायेषु युज्यते ।। ७.२४.१८ ॥
अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते ।सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ।। ७.२४.१९ ॥
इदं त्वसदृशं कर्म परदाराभिमर्शनम् ।यस्मादेष परक्यासु रमते राक्षसाधमः ।। ७.२४.२० ॥
तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् ।सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ।। ७.२४.२१ ॥
नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च ।शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ।। ७.२४.२२ ॥
पतिव्रताभिः साध्वीभिर्बभूव विमना इव ।एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः ।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।। ७.२४.२३ ॥
एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ।सहसा पतिता भूमौ भगिनी रावणस्य सा ।। ७.२४.२४ ॥
तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् ।अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ।। ७.२४.२५ ॥
सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् ।कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ।। ७.२४.२६ ॥
एते राजंस्त्वया वीरा दैत्या विनिहता रणे ।कालकेया इति ख्याताः सहस्राणि चतुर्दश ।। ७.२४.२७ ॥
प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ।। ७.२४.२८ ॥
सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना ।त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ।। ७.२४.२९ ॥
राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् ।ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ।स त्वया निहतो युद्धे स्वयमेव न लज्जसे ।। ७.२४.३० ॥
एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ।। ७.२४.३१ ॥
अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ।। ७.२४.३२ ॥
युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् ।नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ।। ७.२४.३३ ॥
जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः ।तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ।। ७.२४.३४ ॥
अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ।। ७.२४.३५ ॥
चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ।प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ।। ७.२४.३६ ॥
तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः ।भविष्यति तवादेशं सदा कुर्वन्निशाचरः ।। ७.२४.३७ ॥
शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् ।दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ।। ७.२४.३८ ॥
तत्र ते वचनं शूरः करिष्यति सदा खरः ।रक्षसां कामरूपाणां प्रभुरेष भविष्यति ।। ७.२४.३९ ॥
एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह ।चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ।। ७.२४.४० ॥
स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः ।आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ।। ७.२४.४१ ॥
स तत्र कारयामास राज्यं निहतकण्टकम् ।सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ।। ७.२४.४२ ।।
स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् ।भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ।। ७.२५.१ ॥
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् ।तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ।। ७.२५.२ ॥
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् ।ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ।। ७.२५.३ ॥
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ।ददर्श स्वसुतं तत्र मेघनादं भयावहम् ।। ७.२५.४ ॥
तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः ।अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ।। ७.२५.५ ॥
उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये ।रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ।। ७.२५.६ ॥
अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् ।यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ।। ७.२५.७ ॥
अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः ।राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा ।। ७.२५.८ ॥
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे ।वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ।। ७.२५.९ ॥
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ।मायां च तामसीं नाम यया सम्पद्यते तमः ।। ७.२५.१० ॥
एतया किल सङ्ग्रामे मायया राक्षसेश्वर ।प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ।। ७.२५.११ ॥
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् ।अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ।। ७.२५.१२ ॥
एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन ।अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ।। ७.२५.१३ ॥
ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् ।पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ।। ७.२५.१४ ॥
एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः ।आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ।। ७.२५.१५ ॥
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः ।स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः ।। ७.२५.१६ ॥
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् ।तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ।। ७.२५.१७ ॥
ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः ।धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। ७.२५.१८ ॥
ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः ।त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ।। ७.२५.१९ ॥
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् ।को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः ।। ७.२५.२० ॥
विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् ।श्रूयतामस्य पापस्य कर्मणः फलमागतम् ।। ७.२५.२१ ॥
मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः ।माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ।। ७.२५.२२ ॥
पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् ।तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् ।। ७.२५.२३ ॥
मातृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा ।भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ।। ७.२५.२४ ॥
सा हृता, मधुना राजन्राक्षसेन बलीयसा ।यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ।। ७.२५.२५ ॥
कुम्भकर्णे महाराज निद्रामनुभवत्यथ ।निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ।। ७.२५.२६ ॥
धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव ।श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः ।। ७.२५.२७ ॥
यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः ।तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ।। ७.२५.२८ ॥
अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते ।विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः ।दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ।। ७.२५.२९ ॥
ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः ।कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ।। ७.२५.३० ॥
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ।वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ।। ७.२५.३१ ॥
अद्य तं समरे हत्वा मधुं रावणनिर्भयम् ।सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ।। ७.२५.३२ ॥
अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् ।नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ।। ७.२५.३३ ॥
इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च ।जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ।। ७.२५.३४ ॥
विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् ।शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ।। ७.२५.३५ ॥
खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः ।राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम् ।। ७.२५.३६ ॥
दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः ।रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ।। ७.२५.३७ ॥
स तु गत्वा मधुपुरं प्रविश्य च दशाननः ।न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ।। ७.२५.३८ ॥
सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ।। ७.२५.३९ ॥
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा ।तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।। ७.२५.४० ॥
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ।साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज ।भर्तारं न ममेहाद्य हन्तुर्महसि मानद ।। ७.२५.४१ ॥
न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते ।भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ।। ७.२५.४२ ॥
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् ।त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ।। ७.२५.४३ ॥
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् ।क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ।। ७.२५.४४ ॥
सह तेन गमिष्यामि सुरलोकं जयावहे ।तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् ।। ७.२५.४५ ॥
इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् ।अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ।। ७.२५.४६ ॥
एष प्राप्तो दशग्रीवो मम भ्राता महाबलः ।सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ।। ७.२५.४७ ॥
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ।स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ।। ७.२५.४८ ॥
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।। ७.२५.४९ ॥
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः ।पूजयमास धर्मेण रावणं राक्षसाधिपम् ।। ७.२५.५० ॥
प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् ।तत्र चैकां निशामुष्य गमनायोपचक्रमे ।। ७.२५.५१ ॥
ततः कैलासमासाद्य शैलं वैश्रवणालयम् ।राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ।। ७.२५.५२ ।।
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् ।अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ।। ७.२६.१ ॥
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ।प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ।। ७.२६.२ ॥
रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि ।स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ।। ७.२६.३ ॥
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा ।पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ।। ७.२६.४ ॥
चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा ।चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः ।तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ।। ७.२६.५ ॥
आरग्वधैस्तमालैश्च प्रियालवकुलैरपि ।एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे ।किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ।। ७.२६.६ ॥
समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ।। ७.२६.७ ॥
भिरुद्भासितवनान्तरे ।विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः ।योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ।। ७.२६.८ ॥
घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः ।अप्सरोगणसङ्घानां गायतां धनदालये ।। ७.२६.९ ॥
पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः ।शैलं तं वासयन्तीव मधुमाधवगन्धिनः ।। ७.२६.१० ॥
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् ।प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः ।। ७.२६.११ ॥
गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् ।प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ।। ७.२६.१२ ॥
रावणस्तु महावीर्यः कामस्य वशमागतः ।विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ।। ७.२६.१३ ॥
एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता ।सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ।। ७.२६.१४ ॥
दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा ।दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ।। ७.२६.१५ ॥
चक्षुर्मनोहरं पीनं मेखलादामभूषितम् ।समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ।। ७.२६.१६ ॥
कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ।। ७.२६.१७ ॥
बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् ।नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ।। ७.२६.१८ ॥
यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे ।ऊरू करिकराकारौ करौ पल्लवकोमलौ ।सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ।। ७.२६.१९ ॥
तां समुत्थाय गच्छन्तीं कामबाणवशं गतः ।करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत ।। ७.२६.२० ॥
क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् ।कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते ।। ७.२६.२१ ॥
त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः ।सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति ।। ७.२६.२२ ॥
स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ।कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ।। ७.२६.२३ ॥
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ।अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम् ।। ७.२६.२४ ॥
मद्विशिष्टः पुमान्को ऽद्य शक्रो विष्णुरथाश्विनौ ।मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ।। ७.२६.२५ ॥
विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ।। ७.२६.२६ ॥
त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ।। ७.२६.२७ ॥
तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः ।भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ।। ७.२६.२८ ॥
एवमुक्ता ऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः ।प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ।। ७.२६.२९ ॥
अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ।तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते ।। ७.२६.३० ॥
अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् ।रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ।। ७.२६.३१ ॥
सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः ।बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ।। ७.२६.३२ ॥
धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव ।पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ।विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ।। ७.२६.३३ ॥
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् ।क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ।। ७.२६.३४ ॥
तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै ।तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ।। ७.२६.३५ ॥
तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ।। ७.२६.३६ ॥
तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ।। ७.२६.३७ ॥
स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः ।तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ।। ७.२६.३८ ॥
सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव ।माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते ।। ७.२६.३९ ॥
एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् ।स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।देवलोकस्थितिरियं सुराणां शाश्वती मता ।। ७.२६.४० ॥
पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ।। ७.२६.४१ ॥
स्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले ।कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ।। ७.२६.४२ ॥
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ।गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ।। ७.२६.४३ ॥
लुलिताकुलकेशान्ता करवेपितपल्लवा ।पवनेनावधूतेव लता कुसुमशालिनी ।। ७.२६.४४ ॥
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ।नलकूबरमासाद्य पादयोर्निपपात ह ।। ७.२६.४५ ॥
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः ।अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे ।। ७.२६.४६ ॥
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः ।तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ।। ७.२६.४७ ॥
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् ।तेन सैन्यसहायेन निशेयं परिणामिता ।। ७.२६.४८ ॥
आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम ।गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा ।। ७.२६.४९ ॥
मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् ।काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ।। ७.२६.५० ॥
याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो ।तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ।। ७.२६.५१ ॥
एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत ।न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ।। ७.२६.५२ ॥
एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः ।धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ।। ७.२६.५३ ॥
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः ।मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ।। ७.२६.५४ ॥
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि ।उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ।। ७.२६.५५ ॥
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता ।तस्मात्स युवतीमन्यां नाकामामुपयास्यति ।। ७.२६.५६ ॥
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् ।मूर्धा तु सप्तधा तस्य शकलीभविता तदा ।। ७.२६.५७ ॥
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे ।देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ।। ७.२६.५८ ॥
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः ।ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ।। ७.२६.५९ ॥
श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् ।नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ।। ७.२६.६० ॥
तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः ।नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ।। ७.२६.६१ ।।
कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः ।आससाद महातेजा इन्द्रलोकं निशाचरः ।। ७.२७.१ ॥
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ।देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ।। ७.२७.२ ॥
श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् ।अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ।। ७.२७.३ ॥
आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् ।सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ।। ७.२७.४ ॥
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि ।सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ।। ७.२७.५ ॥
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ।विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ।। ७.२७.६ ॥
विष्णो कथं करिष्यामि महावीर्यपराक्रमः ।असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ।। ७.२७.७ ॥
वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ।तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ।। ७.२७.८ ॥
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ।त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ।। ७.२७.९ ॥
नह्यन्यो देवदेवेश त्वामृते मधुसूदन ।गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ।। ७.२७.१० ॥
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ।त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ।। ७.२७.११ ॥
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ।त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ।। ७.२७.१२ ॥
तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् ।अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ।। ७.२७.१३ ॥
एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ।अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ।। ७.२७.१४ ॥
न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः ।हन्तुं चापि समासाद्य वरदानेन दुर्जयः ।। ७.२७.१५ ॥
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ।राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ।। ७.२७.१६ ॥
यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर ।नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ।। ७.२७.१७ ॥
नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते ।दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ।। ७.२७.१८ ॥
प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो ।भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ।। ७.२७.१९ ॥
अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् ।देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् ।एतत्ते कथितं तत्त्वं देवराज शचीपते ।। ७.२७.२० ॥
युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ।। ७.२७.२१ ॥
यामि ज्ञात्वा कालमुपागतम् ।ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ ।सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ।। ७.२७.२२ ॥
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ।तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ।। ७.२७.२३ ॥
ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै ।सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ।। ७.२७.२४ ॥
ततो दैवतसैन्यनां सङ्क्षोभः समजायत ।तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ।। ७.२७.२५ ॥
ततो युद्धं समभवेद्देवदानवरक्षसाम् ।घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ।। ७.२७.२६ ॥
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ।युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ।। ७.२७.२७ ॥
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ।अकम्पनो निकुम्भश्च शुकः सारण एव च ।। ७.२७.२८ ॥
संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः ।जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ।। ७.२७.२९ ॥
सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः ।त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ।। ७.२७.३० ॥
महाकायो ऽतिकायश्च देवान्तकनरान्तकौ ।एतैः सर्वैः परिवृतो महावीर्यो महाबलः ।। ७.२७.३१ ॥
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह ।स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः ।व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ।। ७.२७.३२ ॥
तद्दैवतबलं राम हन्यमानं निशाचरैः ।प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ।। ७.२७.३३ ॥
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ।सावित्र इति विख्यातः प्रविवेश रणाजिरम् ।। ७.२७.३४ ॥
तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ ।निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ।। ७.२७.३५ ॥
ततो युद्धं समभवत्सुराणां सह राक्षसैः ।क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ।। ७.२७.३६ ॥
ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् ।नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ।। ७.२७.३७ ॥
देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् ।समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ।। ७.२७.३८ ॥
एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः ।नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ।। ७.२७.३९ ॥
स दैवतबलं सर्वं नानाप्रहणैः शितैः ।व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ।। ७.२७.४० ॥
ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः ।हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ।। ७.२७.४१ ॥
ततो विद्राव्यमाणेषु दैवतेषु सुमालिना ।वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ।। ७.२७.४२ ॥
संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् ।विक्रमेण महातेजा वारयामास संयुगे ।। ७.२७.४३ ॥
ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ।। ७.२७.४४ ॥
सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ।ततस्तस्य महाबाणैर्वसुना सुमहात्मना ।निहतः पन्नगरथः क्षणेन विनिपातितः ।। ७.२७.४५ ॥
हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् ।गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ।। ७.२७.४६ ॥
ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् ।तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ।। ७.२७.४७ ॥
सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा ।इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ।। ७.२७.४८ ॥
तस्य नैवास्थि न शिरो न मांसं ददृशे तदा ।गदया भस्मतां नीतं निहतस्य रणाजिरे ।। ७.२७.४९ ॥
तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः ।व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् ।विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ।। ७.२७.५० ।।
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।स्वसैन्यं विद्रुतं चापि लक्षयित्वा ऽर्दितं सुरैः ।। ७.२८.१ ॥
ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा ।निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ।। ७.२८.२ ॥
सुरथेनाग्निवर्णेन कामगेन महारथः ।अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ।। ७.२८.३ ॥
ततः प्रविशतस्तस्य विविधायुधधारिणः ।विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ।। ७.२८.४ ॥
न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे ।सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रो ऽब्रवीत्सुरान् ।। ७.२८.५ ॥
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः ।एष गच्छति पुत्रो मे युद्धार्थमपराजितः ।। ७.२८.६ ॥
ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।रथेनाद्भुतकल्पेन सङ्ग्रामे सो ऽभ्यवर्तत ।। ७.२८.७ ॥
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ।। ७.२८.८ ॥
तेषां युद्धं समभवत्सदृशं देवरक्षसाम् ।महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ।। ७.२८.९ ॥
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः ।सारथौ पातयामास शरान्कनकभूषणान् ।। ७.२८.१० ॥
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् ।तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ।। ७.२८.११ ॥
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ।रावणिः शक्रतनयं शरवर्षैरवाकिरत् ।। ७.२८.१२ ॥
ततो नानाप्रहरणाञ्छितधारान्सहस्रशः ।पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ।। ७.२८.१३ ॥
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् ।महान्ति गिरिशृङ्गाणि पातयामास रावणिः ।। ७.२८.१४ ॥
ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् ।तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ।। ७.२८.१५ ॥
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् ।बहुप्रकारमस्वस्थमभवच्छरपीडितम् ।। ७.२८.१६ ॥
नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा ।तत्र तत्र विपर्यस्तं समन्तात्परिधावति ।। ७.२८.१७ ॥
देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा ।सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ।। ७.२८.१८ ॥
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् ।दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः ।। ७.२८.१९ ॥
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा ।आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ।। ७.२८.२० ॥
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ।अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ।। ७.२८.२१ ॥
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः ।अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ।। ७.२८.२२ ॥
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् ।मातलिं चाह देवेशो रथः समुपनीयताम् ।। ७.२८.२३ ॥
स तु दिव्यो महाभीमः सज्ज एव महारथः ।उपस्थितो मातलिना वाह्यमानो महाजवः ।। ७.२८.२४ ॥
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः ।अग्रतो वायुचपला नेदुः परमनिःस्वनाः ।। ७.२८.२५ ॥
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ।ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ।। ७.२८.२६ ॥
रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः ।वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ।। ७.२८.२७ ॥
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ ।भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ।। ७.२८.२८ ॥
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् ।आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ।। ७.२८.२९ ॥
पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः ।तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ।। ७.२८.३० ॥
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः ।समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत ।। ७.२८.३१ ॥
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ।सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ।। ७.२८.३२ ॥
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ।। ७.२८.३३ ॥
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ।। ७.२८.३४ ॥
दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः ।येन केनैव संरब्धस्ताडयामास वै सुरान् ।। ७.२८.३५ ॥
ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः ।प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ।। ७.२८.३६ ॥
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् ।विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ।। ७.२८.३७ ॥
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ।रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ।। ७.२८.३८ ॥
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ।वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ।। ७.२८.३९ ॥
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे ।शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ।। ७.२८.४० ॥
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः ।देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ।। ७.२८.४१ ॥
चित्रकर्म इवाभाति स तेषां रणसम्प्लवः ।निहतानां प्रमत्तानां राक्षसानां महीतले ।। ७.२८.४२ ॥
शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला ।प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ।। ७.२८.४३ ॥
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ।निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ।। ७.२८.४४ ॥
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् ।त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ।। ७.२८.४५ ॥
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् ।यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ।। ७.२८.४६ ॥
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ।निपातयामास शरान्पावकादित्यवर्चसः ।। ७.२८.४७ ॥
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ।शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ।। ७.२८.४८ ॥
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ।। ७.२८.४९ ।।
ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः ।अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ।। ७.२९.१ ॥
ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् ।दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ।। ७.२९.२ ॥
तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः ।अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ।। ७.२९.३ ॥
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः ।तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ।। ७.२९.४ ॥
स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् ।क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ।। ७.२९.५ ॥
क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह ।परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ।। ७.२९.६ ॥
अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् ।नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ।। ७.२९.७ ॥
अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् ।त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि ।विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ।। ७.२९.८ ॥
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ।। ७.२९.९ ॥
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् ।नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ।। ७.२९.१० ॥
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् ।आदिदेशाथ शत्रणां मध्येनैव च सारथिः ।। ७.२९.११ ॥
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा ।रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ।। ७.२९.१२ ॥
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते ।जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ।। ७.२९.१३ ॥
एष ह्यतिबलः सैन्यै रथेन पवनौजसा ।गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ।। ७.२९.१४ ॥
नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः ।तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ।। ७.२९.१५ ॥
यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया ।एवमेतस्य पापस्य निरोधो मम रोचते ।। ७.२९.१६ ॥
ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् ।अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ।। ७.२९.१७ ॥
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः ।दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ।। ७.२९.१८ ॥
ततः स योजनशतं प्रविष्टो राक्षसाधिपः ।देवतानां बलं सर्वं शरवर्षैरवाकिरत् ।। ७.२९.१९ ॥
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् ।न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ।। ७.२९.२० ॥
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः ।हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ।। ७.२९.२१ ॥
ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः ।तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ।। ७.२९.२२ ॥
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा ।प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ।। ७.२९.२३ ॥
स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत ।महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ।। ७.२९.२४ ॥
विमुक्तकवचस्तत्र वध्यमानो ऽपि रावणिः ।त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ।। ७.२९.२५ ॥
स मातलिं समायान्तं ताडयित्वा शरोत्तमैः ।महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ।। ७.२९.२६ ॥
ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् ।ऐरावतं समारुह्य मृगयामास रावणिम् ।। ७.२९.२७ ॥
स तत्र मायाबलवानदृश्यो ऽथान्तरिक्षगः ।इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ।। ७.२९.२८ ॥
स तं यदा परिश्रान्तमिन्द्रं जज्ञे ऽथ रावणिः ।तदैनं मायया बद्ध्वा स्वसैन्यमभितो ऽनयत् ।। ७.२९.२९ ॥
तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् ।महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ।। ७.२९.३० ॥
दृश्यते न स मायावी शक्रजित्समितिञ्जयः ।विद्यावानपि येनेन्द्रो मायया नीयते बलात् ।। ७.२९.३१ ॥
एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा ।रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ।। ७.२९.३२ ॥
रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा ।न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ।। ७.२९.३३ ॥
स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् ।रावणिः पितरं युद्धे दर्शनस्थो ऽब्रवीदिदम् ।। ७.२९.३४ ॥
आगच्छ तात गच्छामो रणकर्म निवर्तताम् ।जितं नो विदितं ते ऽस्तु स्वस्थो भव गतज्वरः ।। ७.२९.३५ ॥
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ।स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ।। ७.२९.३६ ॥
यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा ।वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ।। ७.२९.३७ ॥
ततस्ते दैवतगणा निवृत्ता रणकर्मणः ।तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ।। ७.२९.३८ ॥
अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ।स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ।। ७.२९.३९ ॥
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् ।यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ।। ७.२९.४० ॥
नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् ।अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ।। ७.२९.४१ ॥
अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः ।स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ।। ७.२९.४२ ।।
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै ।प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ।। ७.३०.१ ॥
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् ।अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ।। ७.३०.२ ॥
वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे ।अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा ।। ७.३०.३ ॥
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा ।कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै ।। ७.३०.४ ॥
अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् ।जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ।। ७.३०.५ ॥
बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः ।यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ।। ७.३०.६ ॥
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ।किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ।। ७.३०.७ ॥
अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः ।अमरत्वमहं देव वृणे यद्येष मुच्यते ।। ७.३०.८ ॥
चतुष्पदां खेचराणामन्येषां वा महौजसाम् ।वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ।। ७.३०.९ ॥
सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति ।अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ।। ७.३०.१० ॥
ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः ।नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि ।चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ।। ७.३०.११ ॥
श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ।। ७.३०.१२ ॥
्वं हि कस्यचित्प्राणिनो भुवि ।अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः ।श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ।। ७.३०.१३ ॥
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् ।सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ।। ७.३०.१४ ॥
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः ।तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ।। ७.३०.१५ ॥
तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ ।युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ।। ७.३०.१६ ॥
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् ।विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ।। ७.३०.१७ ॥
एवमस्त्विति तं चाह वाक्यं देवः पितामहः ।मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ।। ७.३०.१८ ॥
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः ।इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ।। ७.३०.१९ ॥
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः ।शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ।। ७.३०.२० ॥
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो ।एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ।। ७.३०.२१ ॥
तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा ।ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ।। ७.३०.२२ ॥
सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे ।यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ।। ७.३०.२३ ॥
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता ।हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ।। ७.३०.२४ ॥
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता ।अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ।। ७.३०.२५ ॥
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ ।भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् ।। ७.३०.२६ ॥
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो ।स्थानाधिकतया पत्नी ममैषेति पुरन्दर ।। ७.३०.२७ ॥
सा मया न्यासभूता तु गौतमस्य महात्मनः ।न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ।। ७.३०.२८ ॥
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः ।ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ।। ७.३०.२९ ॥
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः ।दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ।। ७.३०.३० ॥
सा त्वया धर्षिता शक्र कामार्तेन समन्युना ।दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ।। ७.३०.३१ ॥
ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा ।गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् ।। ७.३०.३२ ॥
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् ।तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ।। ७.३०.३३ ॥
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ।मानुषेष्वपि लोकेषु भविष्यति न संशयः ।। ७.३०.३४ ॥
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति ।न च ते स्थावरं स्थानं भविष्यति न संशयः ।। ७.३०.३५ ॥
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति ।एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ।। ७.३०.३६ ॥
तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः ।दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ।। ७.३०.३७ ॥
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता ।तस्माद्रूपवती लोके न त्वमेका भविष्यति ।। ७.३०.३८ ॥
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः ।यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ।। ७.३०.३९ ॥
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ।सा तं प्रसादयामास महर्षिं गौतमं तदा ।। ७.३०.४० ॥
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा ।न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ।। ७.३०.४१ ॥
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः ।उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ।। ७.३०.४२ ॥
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति ।ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः ।तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ।। ७.३०.४३ ॥
स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् ।तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ।। ७.३०.४४ ॥
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि ।एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ।। ७.३०.४५ ॥
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः ।शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ।। ७.३०.४६ ॥
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ।तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ।। ७.३०.४७ ॥
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः ।पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ।। ७.३०.४८ ॥
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ।नीतः सन्निहितश्चैव आर्यकेण महोदधौ ।। ७.३०.४९ ॥
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ।पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ।। ७.३०.५० ॥
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया ।निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः ।। ७.३०.५१ ॥
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा ।अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ।। ७.३०.५२ ॥
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ।आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ।। ७.३०.५३ ॥
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ।। ७.३०.५४ ॥
एवं राम समुद्भूतो रावणो लोककण्टकः ।सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ।। ७.३०.५५ ।।
ततो रामो महातेजा विस्मयात्पुनरेव हि ।उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ।। ७.३१.१ ॥
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् ।पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ।। ७.३१.२ ॥
राजा वा राजमात्रो वा किं तदा नात्र कश्चन ।धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ।। ७.३१.३ ॥
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः ।बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ।। ७.३१.४ ॥
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः ।उवाच रामं प्रहसन्पितामह इवेश्वरम् ।। ७.३१.५ ॥
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ ।चचार रावणो राम पृथिवीं पृथिवीपते ।। ७.३१.६ ॥
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ।सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ।। ७.३१.७ ॥
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः ।अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ।। ७.३१.८ ॥
तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली ।अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ।। ७.३१.९ ॥
तमेव दिवसं सो ऽथ रावणस्तत्र आगतः ।रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ।। ७.३१.१० ॥
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ ।रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह ।ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ।। ७.३१.११ ॥
इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः ।अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ।। ७.३१.१२ ॥
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् ।अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ।। ७.३१.१३ ॥
स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् ।अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ।। ७.३१.१४ ॥
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् ।प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ।। ७.३१.१५ ॥
देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः ।स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ।। ७.३१.१६ ॥
नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् ।फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ।। ७.३१.१७ ॥
उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् ।पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।। ७.३१.१८ ॥
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।। ७.३१.१९ ॥
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः ।उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ।। ७.३१.२० ॥
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः ।सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ।। ७.३१.२१ ॥
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् ।विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ।। ७.३१.२२ ॥
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् ।जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् ।पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ।। ७.३१.२३ ॥
इष्टामिव वरां नारीमवगाह्य दशाननः ।स तस्याः पुलिने रम्ये नानामुनिनिषेविते ।। ७.३१.२४ ॥
उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः ।प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः ।। ७.३१.२५ ॥
नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः ।उवाच सचिवांस्तत्र सलीलं शुकसारणौ ।। ७.३१.२६ ॥
एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् ।तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः ।। ७.३१.२७ ॥
मामासीनं विदित्वैव चन्द्रायति दिवाकरः ।। ७.३१.२८ ॥
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः ।मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः ।। ७.३१.२९ ॥
इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी ।नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ।। ७.३१.३० ॥
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि ।चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ।। ७.३१.३१ ॥
ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् ।महापद्ममुखा मत्ता गङ्गामिव गहागजाः ।अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ।। ७.३१.३२ ॥
अहमप्यद्य पुलिने शरदिन्दुसमप्रभे ।पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ।। ७.३१.३३ ॥
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः ।समहोदरधूम्राक्षा नर्मदां विजगाहिरे ।। ७.३१.३४ ॥
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी ।वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ।। ७.३१.३५ ॥
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः ।उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ।। ७.३१.३६ ॥
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे ।राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ।। ७.३१.३७ ॥
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः ।अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ।। ७.३१.३८ ॥
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् ।नर्मदासलिलात्तस्मादुत्ततार स रावणः ।। ७.३१.३९ ॥
ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् ।रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ।। ७.३१.४० ॥
तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः ।यत्र यत्र च याति स्म रावणो राक्षसेश्वरः ।जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ।। ७.३१.४१ ॥
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः ।अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ।। ७.३१.४२ ॥
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् ।समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ।। ७.३१.४३ ।।
नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः ।पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ।। ७.३२.१ ॥
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ।। ७.३२.२ ॥
तासां मध्यगतो राजा रराज च तदार्जुनः ।करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ।। ७.३२.३ ॥
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ।। ७.३२.४ ॥
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् ।कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ।। ७.३२.५ ॥
समीननक्रमकरः सपुष्पकुशसंस्तरः ।स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ।। ७.३२.६ ॥
स वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः ।पुष्पोपहारं सकलं रावणस्य जहार ह ।। ७.३२.७ ॥
रावणो ऽर्धसमाप्तं तमुत्सृज्य नियमं तदा ।नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ।। ७.३२.८ ॥
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् ।वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ।। ७.३२.९ ॥
ततो ऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् ।निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ।। ७.३२.१० ॥
सव्येतरकराङ्गुल्या सशब्दं च दशाननः ।वेगप्रभावमन्वेष्टुं सो ऽदिशच्छुकसारणौ ।। ७.३२.११ ॥
तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ ।व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ।। ७.३२.१२ ॥
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ ।पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ।। ७.३२.१३ ॥
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् ।मदरक्तान्तनयनं मदव्याकुलतेजसम् ।। ७.३२.१४ ॥
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ।गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ।। ७.३२.१५ ॥
बालानां वरनारीणां सहस्रेण समावृतम् ।समदानां करेणूनां सहस्रेणेव कुञ्जरम् ।। ७.३२.१६ ॥
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ।सन्निवृत्तावुपागम्य रावणं तमथोचतुः ।। ७.३२.१७ ॥
बृहत्सालप्रतीकाशः को ऽप्यसौ राक्षसेश्वर ।नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ।। ७.३२.१८ ॥
तेन बाहुसहस्रेण सन्निरुद्धजला नदी ।सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः ।। ७.३२.१९ ॥
इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ ।रावणो ऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ।। ७.३२.२० ॥
अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे ।चण्डः प्रवाति पवनः सनादः सुरजास्तथा ।। ७.३२.२१ ॥
सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः ।महोदरमहापार्श्वधूम्राक्षशुकसारणैः ।। ७.३२.२२ ॥
संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः ।अदीर्घेणैव कालेन स तदा राक्षसो बली ।तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ।। ७.३२.२३ ॥
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ।नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ।। ७.३२.२४ ॥
स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ।। ७.३२.२५ ॥
इत्येवमर्जुनामात्यनाह गम्भीरया गिरा ।अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ।। ७.३२.२६ ॥
युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः ।रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते ।उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ।। ७.३२.२७ ॥
युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण ।। ७.३२.२८ ।।
चः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते ।यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहते नृपम् ।स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसे ऽर्जुनम् ।वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ।। ७.३२.२९ ॥
क्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया ।युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरे ऽर्जुनम् ।। ७.३२.३० ॥
यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता ।निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ।। ७.३२.३१ ॥
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु ।सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ।। ७.३२.३२ ॥
ततो हलहलाशब्दो नर्मदातीर आबभौ ।अर्जुनस्यानुयातऽणां रावणस्य च मन्त्रिणाम् ।। ७.३२.३३ ॥
इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः ।सरावणानर्दयन्तः समन्तात्समभिद्रुताः ।। ७.३२.३४ ॥
हैहयाधिपयोधानां वेग आसीत्सुदारुणः ।सनक्रमीनमकरसमुद्रस्येव निःस्वनः ।। ७.३२.३५ ॥
रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः ।कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ।। ७.३२.३६ ॥
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ।क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ।। ७.३२.३७ ॥
श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततो ऽर्जुनः ।उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ।। ७.३२.३८ ॥
क्रोधदूषितनेत्रस्तु स ततो ऽर्जुनपावकः ।प्रजज्वाल महाघोरो युगान्त इव पावकः ।। ७.३२.३९ ॥
स तूर्णतरमादाय वरहेमाङ्गदो गदाम् ।अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ।। ७.३२.४० ॥
बाहुविक्षेपकरणां समुद्यम्य महागदाम् ।गारुडं वेगमास्थाय चापपातैव सो ऽर्जुनः ।। ७.३२.४१ ॥
तस्य मार्गं समारुद्ध्य विन्ध्यो ऽर्कस्येव पर्वतः ।स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ।। ७.३२.४२ ॥
ततो ऽस्य मुसलं घोरं लोहबद्धं महोद्धतः ।प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ।। ७.३२.४३ ॥
तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः ।प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ।। ७.३२.४४ ॥
अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः ।निपुणं वञ्चयामास सगदो ऽगदविक्रमः ।। ७.३२.४५ ॥
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः ।भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ।। ७.३२.४६ ॥
तथा हतो ऽतिवेगेन प्रहस्तो गदया तदा ।निपपात स्थितः शैलो वज्रिवज्रहतो यथा ।। ७.३२.४७ ॥
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः ।समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ।। ७.३२.४८ ॥
अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते ।रावणो ऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ।। ७.३२.४९ ॥
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् ।नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ।। ७.३२.५० ॥
सागराविव संरब्धौ चलन्मूलाविवाचलौ ।तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ।। ७.३२.५१ ॥
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ।मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ।। ७.३२.५२ ॥
रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ ।परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ।। ७.३२.५३ ॥
वज्रप्रहारानचला यथा घोरान्विषेहिरे ।गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ।। ७.३२.५४ ॥
यथा ऽ शनिरवेभ्यस्तु जायते ऽथ प्रतिश्रुतिः ।तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ।। ७.३२.५५ ॥
अर्जुनस्य गदा सा तु पात्यमाना ऽहितोरसि ।काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ।। ७.३२.५६ ॥
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः ।अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ।। ७.३२.५७ ॥
नार्जुनः खेदमायाति न राक्षसगणेश्वरः ।इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ।। ७.३२.५८ ॥
शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ ।परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ।। ७.३२.५९ ॥
ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ।स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ।। ७.३२.६० ॥
वरदानकृतत्राणे सा गदा रावणोरसि ।दुर्बलेव यथावेगं द्विधाभूत्वा ऽपतत्क्षितौ ।। ७.३२.६१ ॥
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः ।अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ।। ७.३२.६२ ॥
स विह्वलं तदालक्ष्य दशग्रीवं ततो ऽर्जुनः ।सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ।। ७.३२.६३ ॥
स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् ।बबन्ध बलवान्राजा बलिं नारायणो यथा ।। ७.३२.६४ ॥
बध्यमाने दशग्रीवे सिद्धचारणदेवताः ।साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ।। ७.३२.६५ ॥
व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् ।ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ।। ७.३२.६६ ॥
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् ।सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ।। ७.३२.६७ ॥
नक्तञ्चराणां वेगस्तु तेषामापततां बभौ ।उद्भूत आतपापाये पयोदानामिवाम्बुधौ ।। ७.३२.६८ ॥
मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् ।मुसलानि सशूलानि सोत्ससर्ज तदार्जुने ।। ७.३२.६९ ॥
अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः ।आयुधान्यमरारीणां जग्राहारिनिषूदनः ।। ७.३२.७० ॥
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः ।भित्त्वा विद्रावयामास वायुरम्बुधरानिव ।। ७.३२.७१ ॥
राक्षसांस्त्रासयित्वा तु कार्तवीर्यो ऽर्जुनस्तदा ।रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ।। ७.३२.७२ ॥
स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः ।तदा ऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ।। ७.३२.७३ ।।
रावणग्रहणं तत्तु वायुग्रहणसन्निभम् ।ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ।। ७.३३.१ ॥
ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः ।माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ।। ७.३३.२ ॥
स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ।पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ।। ७.३३.३ ॥
सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् ।प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ।। ७.३३.४ ॥
पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् ।ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ।। ७.३३.५ ॥
पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः ।शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ।। ७.३३.६ ॥
पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च ।पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ।। ७.३३.७ ॥
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् ।अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ।। ७.३३.८ ॥
स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च ।पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ।। ७.३३.९ ॥
अद्यैवममरावत्या तुल्या माहिष्मती कृता ।अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ।। ७.३३.१० ॥
अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् ।अद्य मे सफलं जन्म अद्य मे सफलं तपः ।यस्माद्देवगणैर्वन्द्यौ वन्दे ऽहं चरणौ तव ।। ७.३३.११ ॥
इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ।ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ।। ७.३३.१२ ॥
तं धर्मे ऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् ।पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम् ।। ७.३३.१३ ॥
नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन ।अतुलं ते बलं येन दशग्रीवस्त्वया जितः ।। ७.३३.१४ ॥
भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ ।सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ।। ७.३३.१५ ॥
पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया ।मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम् ।। ७.३३.१६ ॥
पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचो ऽर्जुनः ।मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ।। ७.३३.१७ ॥
स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः ।अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ।। ७.३३.१८ ॥
पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् ।परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ।। ७.३३.१९ ॥
पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः ।मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ।। ७.३३.२० ॥
एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् ।पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ।। ७.३३.२१ ॥
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन ।नावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः ।। ७.३३.२२ ॥
ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् ।पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ।। ७.३३.२३ ।।
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ।चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ।। ७.३४.१ ॥
राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् ।रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ।। ७.३४.२ ॥
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ।गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ।। ७.३४.३ ॥
ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः ।उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ।। ७.३४.४ ॥
राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् ।को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ।। ७.३४.५ ॥
चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण ।इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ।। ७.३४.६ ॥
एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः ।युद्धार्थिनामिमे राजन्वानराधिपतेजसा ।। ७.३४.७ ॥
यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस ।तदा वालिनमासाद्य तदन्तं तव जीवितम् ।। ७.३४.८ ॥
पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत ।इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ।। ७.३४.९ ॥
अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् ।वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ।। ७.३४.१० ॥
स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः ।पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ।। ७.३४.११ ॥
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् ।रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ।। ७.३४.१२ ॥
पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः ।ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ।। ७.३४.१३ ॥
यदृच्छया तदा दृष्टो वालिनापि स रावणः ।पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ।। ७.३४.१४ ॥
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ।न चिन्तयति तं वाली रावणं पापनिश्चयम् ।। ७.३४.१५ ॥
जिघृक्षमाणमायान्तं रावणं पापचेतसम् ।कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ।। ७.३४.१६ ॥
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् ।लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ।। ७.३४.१७ ॥
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः ।जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ।। ७.३४.१८ ॥
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ ।प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ।। ७.३४.१९ ॥
हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् ।पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ।। ७.३४.२० ॥
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ।खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ।। ७.३४.२१ ॥
तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः ।जहार रावणं वाली पवनस्तोयदं यथा ।। ७.३४.२२ ॥
अथ ते राक्षसामात्या ह्रियमाणं दशाननम् ।मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ।। ७.३४.२३ ॥
अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः ।अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ।। ७.३४.२४ ॥
ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः ।तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ।। ७.३४.२५ ॥
वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः ।किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ।। ७.३४.२६ ॥
अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः ।क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ।। ७.३४.२७ ॥
सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः ।पश्चिमं सागरं वाली ह्याजगाम सरावणः ।। ७.३४.२८ ॥
तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः ।उत्तरं सागरं प्रायाद्वहमानो दशाननम् ।। ७.३४.२९ ॥
बहुयोजनसाहस्रं वहमानो महाहरिः ।वायुवच्च मनोवच्च जगाम सह शत्रुणा ।। ७.३४.३० ॥
उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् ।वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ।। ७.३४.३१ ॥
तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः ।किष्किन्धामभितो गृह्य रावणं पुनरागमत् ।। ७.३४.३२ ॥
चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः ।रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ।। ७.३४.३३ ॥
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ।कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ।। ७.३४.३४ ॥
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः ।राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ।। ७.३४.३५ ॥
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः ।युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ।। ७.३४.३६ ॥
अहो बलमहो वीर्यमहो गाम्भीर्यमेव च ।येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ।। ७.३४.३७ ॥
एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् ।मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ।। ७.३४.३८ ॥
त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम ।मनोनिलसुपर्णानां तव चात्र न संशयः ।। ७.३४.३९ ॥
सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव ।त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ।। ७.३४.४० ॥
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् ।सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ।। ७.३४.४१ ॥
ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ ।भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ।। ७.३४.४२ ॥
अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ ।किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ।। ७.३४.४३ ॥
स तत्र मासमुषितः सुग्रीव इव रावणः ।अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ।। ७.३४.४४ ॥
एवमेतत्पुरावृत्तं वालिना रावणः प्रभो ।धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ।। ७.३४.४५ ॥
बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् ।सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ।। ७.३४.४६ ।।
अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् ।प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् ।। ७.३५.१ ॥
अतुलं बलमेतद्वै वालिनो रावणस्य च ।न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ।। ७.३५.२ ॥
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।विक्रमश्च प्रभावश्च हनूमति कृतालयाः ।। ७.३५.३ ॥
दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् ।समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ।। ७.३५.४ ॥
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा ।दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ।। ७.३५.५ ॥
सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः ।एते हनुमता तत्र ह्येकेन वितिपातिताः ।। ७.३५.६ ॥
भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् ।लङ्का भस्मीकृता येन पावकेनेव मेदिनी ।। ७.३५.७ ॥
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ।। ७.३५.८ ॥
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ।। ७.३५.९ ॥
हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा ।प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ।। ७.३५.१० ॥
किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया ।तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ।। ७.३५.११ ॥
नहि वेदितवान्मन्ये हनूमानात्मनो बलम् ।यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ।। ७.३५.१२ ॥
एतन्मे भगवन्सर्वं हनूमति महामतौ ।विस्तरेण यथातत्त्वं कथयामरपूजित ।। ७.३५.१३ ॥
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा ।हनूमतः समक्षं तमिदं वचनमब्रवीत् ।। ७.३५.१४ ॥
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ।न बले विद्यते तुल्यो न गतौ न मतौ परः ।। ७.३५.१५ ॥
अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा ।न वेत्ता हि बलं येन बली सन्निरिमर्दनः ।। ७.३५.१६ ॥
बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल ।तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ।। ७.३५.१७ ॥
यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव ।समाधाय मतिं राम निशामय वदाम्यहम् ।। ७.३५.१८ ॥
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ।यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ।। ७.३५.१९ ॥
तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता ।जनयामास तस्यां वै वायुरात्मजमुत्तमम् ।। ७.३५.२० ॥
शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना ।फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ।। ७.३५.२१ ॥
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ।रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ।। ७.३५.२२ ॥
तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ।। ७.३५.२३ ॥
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ।। ७.३५.२४ ॥
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति ।देवदानवयक्षाणां विस्मयः सुमहानभूत् ।। ७.३५.२५ ॥
नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा ।यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ।। ७.३५.२६ ॥
यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः ।यौवनं बलमासाद्य कथं वेगो भविष्यति ।। ७.३५.२७ ॥
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ।। ७.३५.२८ ॥
बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् ।पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ।। ७.३५.२९ ॥
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः ।कार्यं चात्र समायत्तमित्येवं न ददाह सः ।। ७.३५.३० ॥
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ।। ७.३५.३१ ॥
अनेन स परामृष्टो राम सूर्यरथोपरि ।अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ।। ७.३५.३२ ॥
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ।अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ।। ७.३५.३३ ॥
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ।। ७.३५.३४ ॥
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।अथान्यो राहुरासाद्य जग्राह सहसा रविम् ।। ७.३५.३५ ॥
स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः ।उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ।। ७.३५.३६ ॥
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ।। ७.३५.३७ ॥
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ।। ७.३५.३८ ॥
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् ।अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ।। ७.३५.३९ ॥
ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च ।उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ।। ७.३५.४० ॥
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् ।अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ।। ७.३५.४१ ॥
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ।इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ।। ७.३५.४२ ॥
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् ।श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ।। ७.३५.४३ ॥
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ।। ७.३५.४४ ॥
तथास्य धावतो रूपमैरावतजिघृक्षया ।मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ।। ७.३५.४५ ॥
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ।। ७.३५.४६ ॥
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।पतमानस्य चैतस्य वामो हनुरभज्यत ।। ७.३५.४७ ॥
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले ।चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ।। ७.३५.४८ ॥
प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः ।गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ।। ७.३५.४९ ॥
विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् ।रुरोध सर्वभूतानि यथा वर्षाणि वासवः ।। ७.३५.५० ॥
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ।सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ।। ७.३५.५१ ॥
निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् ।वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् ।। ७.३५.५२ ॥
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ।प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ।। ७.३५.५३ ॥
ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः ।त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ।। ७.३५.५४ ॥
त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः ।सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ।। ७.३५.५५ ॥
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ।। ७.३५.५६ ॥
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ।कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ।। ७.३५.५७ ॥
यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च ।प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ।। ७.३५.५८ ॥
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ।राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ।। ७.३५.५९ ॥
अशरीरः शरीरेषु वायुश्चरति पालयन् ।शरीरं हि विना वायुं समतां याति दारुभिः ।। ७.३५.६० ॥
वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ।। ७.३५.६१ ॥
अद्यैव च परित्यक्तं वायुना जगदायुषा ।अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ।। ७.३५.६२ ॥
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः ।मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ।। ७.३५.६३ ॥
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः ।जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ।। ७.३५.६४ ॥
ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ।चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ।। ७.३५.६५ ।।
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः ।शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ।। ७.३६.१ ॥
चलकुण्डलमौलिस्रक्तपनीयविभूषणः ।पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ।। ७.३६.२ ॥
तं तु वेदविदा तेन लम्बाभरणशोभिना ।वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ।। ७.३६.३ ॥
स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना ।जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ।। ७.३६.४ ॥
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा ।चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ।। ७.३६.५ ॥
मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् ।शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ।। ७.३६.६ ॥
ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः ।उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ।। ७.३६.७ ॥
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः ।जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ।। ७.३६.८ ॥
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति ।तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ।। ७.३६.९ ॥
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः ।कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ।। ७.३६.१० ॥
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः ।नाम्ना वै कपिशार्दूलो भविता हनुमानिति ।। ७.३६.११ ॥
अहमस्य प्रदास्यामि परमं वरमद्भुतम् ।इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ।। ७.३६.१२ ॥
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ।तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ।। ७.३६.१३ ॥
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति ।तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ।। ७.३६.१४ ॥
नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने ।वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति ।वर्षायुतशतेनापि मत्पाशादुदकादपि ।। ७.३६.१५ ॥
यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः ।वरं ददामि सन्तुष्ट अविषादं च संयुगे ।। ७.३६.१६ ॥
गदेयं मामिका नैनं संयुगेषु वधिष्यति ।इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ।। ७.३६.१७ ॥
मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति ।इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः ।। ७.३६.१८ ॥
सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति ।दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ।। ७.३६.१९ ॥
विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् ।शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ।। ७.३६.२० ॥
मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे ।तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ।। ७.३६.२१ ॥
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् ।चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ।। ७.३६.२२ ॥
अमित्राणां भयकरो मित्राणामभयङ्करः ।अजेयो भविता पुत्रस्तव मारुत मारुतिः ।। ७.३६.२३ ॥
कामरूपः कामचारी कामगः प्लवतां वरः ।भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ।। ७.३६.२४ ॥
रावणोत्सादनार्थानि रामप्रियकरणि च ।रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ।। ७.३६.२५ ॥
एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह ।यथागतं ययुः सर्वे पितामहपुरोगमाः ।। ७.३६.२६ ॥
सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् ।अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ।। ७.३६.२७ ॥
प्राप्य राम वरानेष वरदानसमन्वितः ।बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः ।। ७.३६.२८ ॥
तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः ।आश्रमेषु महर्षीणामपराध्यति निर्भयः ।। ७.३६.२९ ॥
स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् ।भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ।। ७.३६.३० ॥
एवंविधानि कर्माणि प्रावर्तत महाबलः ।सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ।। ७.३६.३१ ॥
जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ।। ७.३६.३२ ॥
यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः ।प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः ।। ७.३६.३३ ॥
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः ।शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ।। ७.३६.३४ ॥
बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम ।तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः ।यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ।। ७.३६.३५ ॥
ततस्स हृततेजौजा महर्षिवचनौजसा ।एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् ।। ७.३६.३६ ॥
अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता ।सर्ववानरराजा ऽ ऽसीत्तेजसा भास्करप्रभः ।। ७.३६.३७ ॥
स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः ।स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ।। ७.३६.३८ ॥
तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः ।पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ।। ७.३६.३९ ॥
सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् ।आबाल्यं सख्यमभवदनिलस्याग्निना यथा ।। ७.३६.४० ॥
एष शापवशादेव न वेद बलमात्मनः ।वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ।। ७.३६.४१ ॥
न ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना ।। ७.३६.४२ ॥
देव जानाति न ह्येष बलमात्मनि मारुतिः ।ऋषिशापाहृतबलस्तदैष कपिसत्तमः ।। ७.३६.४३ ॥
सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ।। ७.३६.४४ ॥
पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च ।गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके ।। ७.३६.४५ ॥
असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः ।उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ।। ७.३६.४६ ॥
ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः ।नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ।। ७.३६.४७ ॥
सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् ।सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ।। ७.३६.४८ ॥
प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्ययुगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ।। ७.३६.४९ ॥
एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः ।सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ।। ७.३६.५० ॥
तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि ।हनूमतो बालभावे कर्मैतत्कथितं मया ।। ७.३६.५१ ॥
श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च ।विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ।। ७.३६.५२ ॥
अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया ।दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ।। ७.३६.५३ ॥
श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः ।प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ।। ७.३६.५४ ॥
अद्य मे देवता हृष्टाः पितरः प्रपितामहाः ।युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ।। ७.३६.५५ ॥
विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः ।तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ।। ७.३६.५६ ॥
पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः ।क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ।। ७.३६.५७ ॥
सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् ।भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ।। ७.३६.५८ ॥
अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् ।अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ।। ७.३६.५९ ॥
तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः ।अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ।। ७.३६.६० ॥
एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ।। ७.३६.६१ ॥
एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् ।राघवश्च तमेवार्थं चिन्तयामास विस्मितः ।। ७.३६.६२ ॥
ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् ।सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः ।प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत् ।। ७.३६.६३ ।।
अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि ।व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ।। ७.३७.१ ॥
तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः ।वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ।। ७.३७.२ ॥
ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः ।तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः ।। ७.३७.३ ॥
वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन ।जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ।। ७.३७.४ ॥
विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव ।बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ।। ७.३७.५ ॥
क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः ।वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ।। ७.३७.६ ॥
अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् ।नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ।। ७.३७.७ ॥
यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः ।न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ।। ७.३७.८ ॥
श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ ।एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ।। ७.३७.९ ॥
सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् ।स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ।। ७.३७.१० ॥
स तद्विहाय शयनं पाण्डराच्छादनास्तृतम् ।उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ।। ७.३७.११ ॥
तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः ।सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ।। ७.३७.१२ ॥
कृतोदकशुचिर्भूत्वा काले हुतहुताशनः ।देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् ।। ७.३७.१३ ॥
तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि ।बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः ।। ७.३७.१४ ॥
उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः ।वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ।। ७.३७.१५ ॥
क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः ।रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः ।। ७.३७.१६ ॥
भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः ।उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ।। ७.३७.१७ ॥
याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः ।मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ।। ७.३७.१८ ॥
वानराश्च महावीर्या विंशतिः कामरूपिणः ।सुग्रीवप्रमुखा राममुपासन्ते महौजसः ।। ७.३७.१९ ॥
विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः ।उपासते महात्मानं धनेशमिव गुह्यकाः ।। ७.३७.२० ॥
तथा निगमवृद्धाश्च कुलीना ये च मानवाः ।शिरसा ऽ ऽवन्द्य राजानमुपासन्ते विचक्षणाः ।। ७.३७.२१ ॥
तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः ।राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ।। ७.३७.२२ ॥
यथा देवेश्वरो नित्यमृषिभिः समुपास्यते ।अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ।। ७.३७.२३ ॥
तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः ।कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ।। ७.३७.२४ ।।
एवमास्ते महाबाहुरहन्यहनि राघवः ।प्रशासत्सर्वकार्याणि पौरजानपदेषु च ।। ७.३८.१ ॥
ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् ।राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.३८.२ ॥
भवान्हि गतिरव्यग्रा भवता पालिता वयम् ।भवतस्तेजसोग्रेण रावणो निहतो मया ।। ७.३८.३ ॥
इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः ।अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः ।। ७.३८.४ ॥
तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव ।भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति ।। ७.३८.५ ॥
स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् ।प्रीतो ऽस्मि भवतो राजन्दर्शनेन नयेन च ।। ७.३८.६ ॥
यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै ।दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ।। ७.३८.७ ॥
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः ।प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ।। ७.३८.८ ॥
ततः प्रयाते जनके केकयं मातुलं प्रभुः ।राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.३८.९ ॥
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः ।आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ।। ७.३८.१० ॥
राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति ।तस्माद्गमनमद्यैव रोचते तव पार्थिव ।। ७.३८.११ ॥
लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते ।धनमादाय विपुलं रत्नानि विविधानि च ।। ७.३८.१२ ॥
युधाजित्तु तथेत्याह गमनं प्रति राघवम् ।रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ।। ७.३८.१३ ॥
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः ।रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ।। ७.३८.१४ ॥
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः ।हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः ।। ७.३८.१५ ॥
तं विसृज्य ततो रामो वयस्यमकुतोभयम् ।प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ।। ७.३८.१६ ॥
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् ।उद्योगश्च कृतो राजन्भरतेन त्वया सह ।। ७.३८.१७ ॥
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज ।रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ।। ७.३८.१८ ॥
एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् ।पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ।। ७.३८.१९ ॥
विसर्जयामास तदा कौसल्यानन्दवर्धनः ।राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः ।वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ।। ७.३८.२० ॥
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् ।प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ।। ७.३८.२१ ॥
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता ।धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ।। ७.३८.२२ ॥
युष्माकं चानुभावेन तेजसा च महात्मनाम् ।हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ।। ७.३८.२३ ॥
हेतुमात्रमहं तत्र भवतां तेजसा हतः ।रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ।। ७.३८.२४ ॥
भवन्तश्च समानीता भरतेन महात्मना ।श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ।। ७.३८.२५ ॥
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ।कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ।। ७.३८.२६ ॥
प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः ।दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः ।। ७.३८.२७ ॥
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः ।एष नः परमः काम एषा नः पीतिरुत्तमा ।। ७.३८.२८ ॥
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ।। ७.३८.२९ ॥
एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे ।प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ।। ७.३८.३० ॥
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् ।वर्तामहे महाबाहो प्रीत्यात्र महता वृताः ।भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ।। ७.३८.३१ ॥
बाढमित्येव राजानो हर्षेण परमान्विताः ।उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ।। ७.३८.३२ ॥
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ।। ७.३८.३३ ।।
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् ।गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ।। ७.३९.१ ॥
अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः ।भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः ।। ७.३९.२ ॥
ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ।। ७.३९.३ ॥
भरतेन वयं पश्चात्समानीता निरर्थकम् ।हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ।। ७.३९.४ ॥
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।सुखं पारेसमुद्रस्य युध्येम विगतज्वराः ।। ७.३९.५ ॥
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ।। ७.३९.६ ॥
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ।समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ।। ७.३९.७ ॥
यथापुराणि ते गत्वा रत्नानि विविधान्यथ ।रामस्य प्रियकामार्थमुपहारान् नृपा ददुः ।। ७.३९.८ ॥
अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् ।चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ।। ७.३९.९ ॥
मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ।अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः ।। ७.३९.१० ॥
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः ।आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ।। ७.३९.११ ॥
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।तानि रत्नानि चित्राणि रामाय समुपाहरन् ।। ७.३९.१२ ॥
प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः ।सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ।। ७.३९.१३ ॥
बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः ।राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ।। ७.३९.१४ ॥
ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ।। ७.३९.१५ ॥
हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः ।अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ।। ७.३९.१६ ॥
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् ।अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः ।। ७.३९.१७ ॥
सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ ।अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ।। ७.३९.१८ ॥
इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः ।स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ।। ७.३९.१९ ॥
आभाष्य च महावीर्यान्राघवो यूथपर्षभान् ।नीलं नलं केसरिणं कुमुदं गन्धमादनम् ।। ७.३९.२० ॥
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च ।जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ।। ७.३९.२१ ॥
वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् ।दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ।। ७.३९.२२ ॥
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ।सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ।। ७.३९.२३ ॥
युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः ।धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ।। ७.३९.२४ ॥
एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।वज्राणि च महार्हाणि सस्वजे च नरर्षभः ।। ७.३९.२५ ॥
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।मांसानि च सुमृष्टानि मूलानि च फलानि च ।। ७.३९.२६ ॥
एवं तेषां निवसतां मासः साग्रो ययौ तदा ।मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ।। ७.३९.२७ ॥
रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ।। ७.३९.२८ ॥
एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् ।वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ।। ७.३९.२९ ॥
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ।। ७.३९.३० ।।
तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ।। ७.४०.१ ॥
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।। ७.४०.२ ॥
अङ्गदं च महाबाहो प्रीत्या परमया युतः ।पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ।। ७.४०.३ ॥
सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् ।कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ।। ७.४०.४ ॥
वीरं शतवलिं चैव मैन्दं द्विविदमेव च ।गजं गवाक्षं गवयं शरभं च महाबलम् ।पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ।। ७.४०.५ ॥
ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् ।ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ।। ७.४०.६ ॥
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ।। ७.४०.७ ॥
एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः ।विभीषणमुवाचाथ रामो मधुरया गिरा ।। ७.४०.८ ॥
लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम ।पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ।। ७.४०.९ ॥
मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन ।बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ।। ७.४०.१० ॥
अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ।स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ।। ७.४०.११ ॥
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ।। ७.४०.१२ ॥
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ।। ७.४०.१३ ॥
तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् ।हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ।। ७.४०.१४ ॥
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ।भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ।। ७.४०.१५ ॥
वायद्रामकथा वीर चरिष्यति महीतले ।तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ।। ७.४०.१६ ॥
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन ।तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ।। ७.४०.१७ ॥
तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो ।उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ।। ७.४०.१८ ॥
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् ।उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ।। ७.४०.१९ ॥
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ।चरिष्यति कथा यावदेषा लोके च मामिका ।तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ।। ७.४०.२० ॥
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ।। ७.४०.२१ ।।
लोके च मामिका ।एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ।नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ।। ७.४०.२२ ॥
ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ।वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ।। ७.४०.२३ ॥
तेनोरसि निबद्धेन हारेण महता कपिः ।रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ।। ७.४०.२४ ॥
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ।। ७.४०.२५ ॥
सुग्रीवः स च रामेण निरन्तरमुरोगतः ।विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ।। ७.४०.२६ ॥
सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः ।सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ।। ७.४०.२७ ॥
कृतप्रसादास्तेनैवं राघवेण महात्मना ।जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ।। ७.४०.२८ ॥
ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् ।वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ।। ७.४०.२९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चत्वारिंशः सर्गः ।। ४० ।।
विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् ।भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ।। ७.४१.१ ॥
अथापराह्णसमये भ्रातृभिः सह राघवः ।शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ।। ७.४१.२ ॥
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् ।कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ।। ७.४१.३ ॥
तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति ।उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ।। ७.४१.४ ॥
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ।निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ।। ७.४१.५ ॥
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि ।रावणे सगणे चैव सपुत्रे सहबान्धवे ।। ७.४१.६ ॥
स त्वं रामेण लङ्कायां निर्जितः परमात्मना ।वह सौम्य तमेव त्वमहमाज्ञापयामि ते ।। ७.४१.७ ॥
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् ।वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ।। ७.४१.८ ॥
सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः ।त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ।। ७.४१.९ ॥
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया ।चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ।। ७.४१.१० ॥
एवमुक्तस्तदा रामः पुष्पकेण महाबलः ।उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ।। ७.४१.११ ॥
यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक ।आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ।। ७.४१.१२ ॥
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः ।पूजयित्वा महाबाहू राघवः पुष्पकं तदा ।। ७.४१.१३ ॥
गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा ।सिद्धानां च गतौ सौम्य मा विषादेन योजय ।प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ।। ७.४१.१४ ॥
एवमस्त्विति रामेण पूजयित्वा विसर्जितम् ।अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ।। ७.४१.१५ ॥
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि ।भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ।। ७.४१.१६ ॥
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति ।अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ।। ७.४१.१७ ॥
अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् ।जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ।। ७.४१.१८ ॥
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः ।हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ।। ७.४१.१९ ॥
काले वर्षति पर्जन्यः पातयन्नमृतं पयः ।वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ।। ७.४१.२० ॥
ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः ।कथयन्ति पुरे राजन्पौरजानपदास्तथा ।। ७.४१.२१ ॥
एता वाचः सुमधुरा भरतेन समीरिताः ।श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ।। ७.४१.२२ ।।
स विसृज्य ततो रामः पुष्पकं हेमभूषितम् ।प्रविवेश महाबाहुरशोकवनिकां तदा ।। ७.४२.१ ॥
चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि ।देवदारुवनैश्चापि समन्तादुपशोभिताम् ।। ७.४२.२ ॥
चम्पकाशोकपुन्नागमधूकपनसासनैः ।शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ।। ७.४२.३ ॥
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः ।मन्दारकदलीगुल्मलताजालसमावृताम् ।। ७.४२.४ ॥
प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि ।जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ।। ७.४२.५ ॥
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः ।दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ।। ७.४२.६ ॥
तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः ।चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ।। ७.४२.७ ॥
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः ।शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ।। ७.४२.८ ॥
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ।। ७.४२.९ ॥
सुरभीणि च पुष्पाणि माल्यानि विविधानि च ।दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।। ७.४२.१० ॥
माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः ।फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।। ७.४२.११ ॥
दात्यूहशुकसङ्घुष्टा हंससारसनादिताः ।तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ।। ७.४२.१२ ॥
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ।तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ।। ७.४२.१३ ॥
शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् ।तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ।। ७.४२.१४ ॥
प्रस्तराः पुष्पशबला नभस्तारागणैरिव ।नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।तथाभूतं हि रामस्य काननं सन्निवेशनम् ।। ७.४२.१५ ॥
बह्वासनगृहोपेतां लतागृहसमावृताम् ।अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ।। ७.४२.१६ ॥
आसने च शुभाकारे पुष्पप्रकरभूषिते ।कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह ।। ७.४२.१७ ॥
सीतामादायं हस्तेन मधुमैरेयकं शुचि ।पाययामास काकुत्स्थः शचीमिव पुरन्दरः ।। ७.४२.१८ ॥
मांसानि च समृष्टानि फलानि विविधानि च ।रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् ।। ७.४२.१९ ॥
उपानृत्यंश्च राजानं नृत्यगीतविशारदाः ।बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ।। ७.४२.२० ॥
मनोभिरामा रामास्ता रामो रमयतां वरः ।रमयामास धर्मात्मा नित्यं परमभूषितः ।। ७.४२.२१ ॥
स तया सीतया सार्धमासीनो विरराज ह ।अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ।। ७.४२.२२ ॥
एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ।रमयामास वैदेहीमहन्यहनि देववत् ।। ७.४२.२३ ॥
तथा तयोर्विहरतोः सीताराघवयोश्चिरम् ।अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा ।। ७.४२.२४ ॥
दशवर्षसहस्राणि गतानि सुमहात्मनोः ।प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ।। ७.४२.२५ ॥
पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् ।शेषं दिवसभागार्धमन्तःपुरगतो ऽभवत् ।। ७.४२.२६ ॥
सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै ।श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ।। ७.४२.२७ ॥
अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा ।त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ।। ७.४२.२८ ॥
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् ।प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। ७.४२.२९ ॥
अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् ।अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ।। ७.४२.३० ॥
किमिच्छसि वरारोहे कामः किं क्रियतां तव ।। ७.४२.३१ ॥
स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ।तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ।। ७.४२.३२ ॥
गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ।फलमूलाशिनां देव पादमूलेषु वर्तितुम् ।। ७.४२.३३ ॥
एष मे परमः कामो यन्मूलफलभोजिनाम् ।अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ।। ७.४२.३४ ॥
तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा ।विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ।। ७.४२.३५ ॥
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् ।मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ।। ७.४२.३६ ।।
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।कथानां बहुरूपाणां हास्यकाराः समन्ततः ।। ७.४३.१ ॥
विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः ।सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ।। ७.४३.२ ॥
एते कथा बहुविधाः परिहाससमन्विताः ।कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ।। ७.४३.३ ॥
ततः कथायां कस्याञ्चिद्राघवः समभाषत ।काः कथा नगरे भद्र वर्तन्ते विषयेषु च ।। ७.४३.४ ॥
मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ।। ७.४३.५ ॥
किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् ।वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ।। ७.४३.६ ॥
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ।। ७.४३.७ ॥
अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ।भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ।। ७.४३.८ ॥
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।कथयस्व यथातत्त्वं सर्वं निरवशेषतः ।। ७.४३.९ ॥
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ।श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ।। ७.४३.१० ॥
कथयस्व च विस्रब्धो निर्भयं विगतज्वरः ।कथयन्ति यथा पौराः पापा जनपदेषु च ।। ७.४३.११ ॥
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ।। ७.४३.१२ ॥
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् ।चत्वरापणरथ्यासु वनेषूपवनेषु च ।। ७.४३.१३ ॥
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ।। ७.४३.१४ ॥
रावणश्च दुराधर्षो हतः सबलवाहनः ।वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ।। ७.४३.१५ ॥
हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ।। ७.४३.१६ ॥
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् ।अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ।। ७.४३.१७ ॥
लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।रक्षसां वशमापन्नां कथं रामो न कुत्सते ।। ७.४३.१८ ॥
अस्माकमपि दारेषु सहनीयं भविष्यति ।यथा हि कुरुते राजा प्रजा तमनुवर्तते ।। ७.४३.१९ ॥
एवं बहुविधा वाचो वदन्ति पुरवासिनः ।नगरेषु च सर्वेषु राजञ्जनपदेषु च ।। ७.४३.२० ॥
तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ।। ७.४३.२१ ॥
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ।। ७.४३.२२ ॥
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ।। ७.४३.२३ ।।
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ।। ७.४४.१ ॥
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।भरतं च महाभागं शत्रुघ्नमपराजितम् ।। ७.४४.२ ॥
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ।। ७.४४.३ ॥
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ।द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ।। ७.४४.४ ॥
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् ।प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ।। ७.४४.५ ॥
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ।उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ।। ७.४४.६ ॥
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ।भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ।। ७.४४.७ ॥
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली ।दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ।। ७.४४.८ ॥
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह ।एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ।। ७.४४.९ ॥
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः ।श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ।। ७.४४.१० ॥
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः ।द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः ।निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ।। ७.४४.११ ॥
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः ।अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ।। ७.४४.१२ ॥
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ।एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ।। ७.४४.१३ ॥
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः ।प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ।। ७.४४.१४ ॥
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ।सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ।। ७.४४.१५ ॥
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः ।हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ।। ७.४४.१६ ॥
ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ।। ७.४४.१७ ॥
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ।आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ।। ७.४४.१८ ॥
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ।भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ।। ७.४४.१९ ॥
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ।सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ।। ७.४४.२० ॥
तथा वदति काकुत्स्थे अवधानपरायणाः ।उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ।। ७.४४.२१ ।।
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ।। ७.४५.१ ॥
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा ।पौराणां मम सीतायां यादृशी वर्तते कथा ।। ७.४५.२ ॥
पौरापवादः सुमहांस्तथा जनपदस्य च ।वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ।। ७.४५.३ ॥
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ।। ७.४५.४ ॥
जानासि त्वं यथा सौम्य दण्डके विजने वने ।रावणेन हृता सीता स च विध्वंसितो मया ।। ७.४५.५ ॥
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ।। ७.४५.६ ॥
प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ।अपापां मैथिलीमाह वायुश्चाकाशगोचरः ।। ७.४५.७ ॥
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ।ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ।। ७.४५.८ ॥
एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ ।लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ।। ७.४५.९ ॥
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ।ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ।। ७.४५.१० ॥
अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।पौरापवादः सुमहांस्तथा जनपदस्य च ।। ७.४५.११ ॥
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ।। ७.४५.१२ ॥
अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ।। ७.४५.१३ ॥
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः ।अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ।। ७.४५.१४ ॥
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ।। ७.४५.१५ ॥
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ।। ७.४५.१६ ॥
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ।आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ।। ७.४५.१७ ॥
तत्रैनां विजने देशे विसृज्य रघुनन्दन ।शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ।। ७.४५.१८ ॥
न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन ।तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ।। ७.४५.१९ ॥
अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते ।शापिता हि मया यूयं भुजाभ्यां जीवितेन च ।। ७.४५.२० ॥
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन ।अहिता नाम ते नित्यं मदभीष्टविघातनात् ।। ७.४५.२१ ॥
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ।। ७.४५.२२ ॥
पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् ।पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ।। ७.४५.२३ ॥
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः ।प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ।। ७.४५.२४ ॥
शोकसंलग्नहृदयो निशश्वास यथा द्विपः ।। ७.४५.२५ ।।
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ।। ७.४६.१ ॥
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे ।स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ।। ७.४६.२ ॥
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् ।मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ।। ७.४६.३ ॥
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ।रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ।। ७.४६.४ ॥
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् ।रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ।। ७.४६.५ ॥
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः ।प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ।। ७.४६.६ ॥
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः ।नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ।। ७.४६.७ ॥
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् ।शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः ।अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ।। ७.४६.८ ॥
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना ।प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ।। ७.४६.९ ॥
वासांसि च महार्हाणि रत्नानि विविधानि च ।गृहीत्वा तानि वैदेही गमनायोपचक्रमे ।। ७.४६.१० ॥
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् ।वस्त्राणि च महार्हाणि धनानि विविधानि च ।। ७.४६.११ ॥
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ।। ७.४६.१२ ॥
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् ।अशुभानि बहून्येव पश्यामि रघुनन्दन ।। ७.४६.१३ ॥
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ।। ७.४६.१४ ॥
औत्सुक्यं परमं चापि अधृतिश्च परा मम ।शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ।। ७.४६.१५ ॥
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ।श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ।। ७.४६.१६ ॥
पुरे जनपदे चैव कुशलं प्राणिनामपि ।इत्यञ्जलिकृता सीता देवता अभ्ययाचत ।। ७.४६.१७ ॥
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् ।शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ।। ७.४६.१८ ॥
ततो वासमुपागम्य गोमतीतीर आश्रमे ।प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ।। ७.४६.१९ ॥
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् ।शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ।। ७.४६.२० ॥
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् ।आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ।। ७.४६.२१ ॥
सा तु सूतस्य वचनादारुरोह रथोत्तमम् ।सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ।। ७.४६.२२ ॥
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् ।अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ।। ७.४६.२३ ॥
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ।। ७.४६.२४ ॥
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ।उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ।। ७.४६.२५ ॥
जाह्नवीतीरमासाद्य चिराभिलषितं मम ।हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ।। ७.४६.२६ ॥
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ ।कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ।। ७.४६.२७ ॥
ममापि दयितो रामो जीवितादपि लक्ष्मण ।न चाहमेवं शोचामि मैवं त्वं बालिशो भव ।। ७.४६.२८ ॥
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् ।ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ।। ७.४६.२९ ॥
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् ।तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ।। ७.४६.३० ॥
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् ।त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ।। ७.४६.३१ ॥
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ।नाविकानाह्वयामास लक्ष्मणः परवीरहा ।। ७.४६.३२ ॥
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ।। ७.४६.३३ ॥
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् ।गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ।। ७.४६.३४ ।।
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः ।आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ।। ७.४७.१ ॥
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ।उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ।। ७.४७.२ ॥
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः ।उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ।। ७.४७.३ ॥
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता ।अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ।। ७.४७.४ ॥
श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् ।न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ।। ७.४७.५ ॥
प्रसीद च न मे पापं कर्तुमर्हसि शोभने ।इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ।। ७.४७.६ ॥
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ।मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ।। ७.४७.७ ॥
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण ।पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ।। ७.४७.८ ॥
शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः ।तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ।। ७.४७.९ ॥
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ।अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ।। ७.४७.१० ॥
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् ।पुरे जनपदे चैव त्वत्कृते जनकात्मजे ।रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ।। ७.४७.११ ॥
न तानि वचनीयानि मया देवि तवाग्रतः ।यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ।। ७.४७.१२ ॥
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ ।पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ।। ७.४७.१३ ॥
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ।राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ।। ७.४७.१४ ॥
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ।पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ।। ७.४७.१५ ॥
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः ।सखा परमको विप्रो वाल्मीकिः सुमहायशाः ।। ७.४७.१६ ॥
पादच्छायामुपागम्य सुखमस्य महात्मनः ।उपवासपरैकाग्रा वस त्वं जनकात्मजे ।। ७.४७.१७ ॥
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि ।श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ।। ७.४७.१८ ।।
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ।परं विषादमागम्य वैदेही निपपात ह ।। ७.४८.१ ॥
सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा ।लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ।। ७.४८.२ ॥
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण ।धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते ।। ७.४८.३ ॥
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः ।या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ।। ७.४८.४ ॥
पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी ।अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ।। ७.४८.५ ॥
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता ।आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ।। ७.४८.६ ॥
किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् ।कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ।। ७.४८.७ ॥
न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले ।त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ।। ७.४८.८ ॥
यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् ।निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ।। ७.४८.९ ॥
श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च ।शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ।। ७.४८.१० ॥
शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण ।वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ।। ७.४८.११ ॥
जानासि च यथा शुद्धा सीता तत्त्वेन राघव ।भक्त्या च परया युक्ता हिता च तव नित्यशः ।। ७.४८.१२ ॥
अहं त्यक्ता त्वया वीर अयशोभीरुणा जने ।यच्च ते वचनीयं स्यादपवादसमुत्थितम् ।मया च परिहर्तव्यं त्वं हि मे परमा गतिः ।। ७.४८.१३ ॥
वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः ।यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ।। ७.४८.१४ ॥
परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ।। ७.४८.१५ ॥
यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् ।अहं तु नानुशोचामि स्वशरीरं नरर्षभ ।। ७.४८.१६ ॥
यथापवादं पौराणां तथैव रघुनन्दन ।पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ।। ७.४८.१७ ॥
प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः ।इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः ।निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ।। ७.४८.१८ ॥
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः ।शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ।। ७.४८.१९ ॥
प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः ।ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ।। ७.४८.२० ॥
दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे ।कथमत्र हि पश्यामि रामेण रहितां वने ।। ७.४८.२१ ॥
इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् ।आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ।। ७.४८.२२ ॥
स गत्वा चोत्तरं तीरं शोकभारसमन्वितः ।सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ।। ७.४८.२३ ॥
मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् ।चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ।। ७.४८.२४ ॥
दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः ।निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ।। ७.४८.२५ ॥
सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती ।रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ।। ७.४८.२६ ।।
सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः ।प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ।। ७.४९.१ ॥
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ।सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ।। ७.४९.२ ॥
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ।पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ।। ७.४९.३ ॥
भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् ।नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ।। ७.४९.४ ॥
दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा ।अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ।। ७.४९.५ ॥
न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् ।आश्रमस्याविदूरे च त्वामियं शरणं गता ।। ७.४९.६ ॥
त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि ।तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ।तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ।। ७.४९.७ ॥
तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ।तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ।। ७.४९.८ ॥
अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् ।ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ।। ७.४९.९ ।।
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः ।उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ।। ७.४९.१० ॥
स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ।जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ।। ७.४९.११ ॥
आयान्ती चासि विज्ञाता मया धर्मसमाधिना ।कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ।। ७.४९.१२ ॥
तव चैव महाभागे विदितं मम तत्त्वतः ।सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ।। ७.४९.१३ ॥
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा ।विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ।। ७.४९.१४ ॥
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ।तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ।। ७.४९.१५ ॥
इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ।यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ।। ७.४९.१६ ॥
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ।शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ।। ७.४९.१७ ॥
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ।। ७.४९.१८ ॥
तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ।उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ।। ७.४९.१९ ॥
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते ।अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ।। ७.४९.२० ॥
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ।सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ।। ७.४९.२१ ॥
स्नुषा दशरथस्यैषा जनकस्य सुता सती ।अपापा पतिना त्यक्ता परिपाल्या मया सदा ।। ७.४९.२२ ॥
इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि ।गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः ।। ७.४९.२३ ॥
मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ।स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ।। ७.४९.२४ ।।
दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् ।सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ।। ७.५०.१ ॥
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् ।सीतासन्तापजं दुःखं पश्य रामस्य सारथे ।। ७.५०.२ ॥
ततो दुःखतरं किं नु राघवस्य भविष्यति ।पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ।। ७.५०.३ ॥
व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् ।वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ।। ७.५०.४ ॥
यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः ।निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ।। ७.५०.५ ॥
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने ।उषित्वा नव वर्षाणि पञ्च चैव महावने ।। ७.५०.६ ॥
ततो दुःखतरं भूयः सीताया विप्रवासनम् ।पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ।। ७.५०.७ ॥
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे ।मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ।। ७.५०.८ ॥
एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः ।सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ।। ७.५०.९ ॥
न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति ।दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ।। ७.५०.१० ॥
भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् ।प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ।। ७.५०.११ ॥
त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ ।सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ।। ७.५०.१२ ॥
इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा ।राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ।। ७.५०.१३ ॥
महाजनसमीपे च मम चैव नरर्षभ ।ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ।। ७.५०.१४ ॥
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ।सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ।। ७.५०.१५ ॥
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः ।नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ।। ७.५०.१६ ॥
सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः ।यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ।। ७.५०.१७ ॥
यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ।तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ।। ७.५०.१८ ॥
येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् ।न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ।। ७.५०.१९ ॥
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ।तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ।। ७.५०.२० ।।
तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना ।तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ।। ७.५१.१ ॥
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ।। ७.५१.२ ॥
तमाश्रमं महातेजाः पिता ते सुमहायशाः ।पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम् ।। ७.५१.३ ॥
स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा ।उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ।। ७.५१.४ ॥
तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् ।स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥
पाद्येन फलमूलैश्च उवास मुनिभिः सह ।। ७.५१.५ ॥
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ।बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि ।। ७.५१.६ ॥
ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः ।उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ।। ७.५१.७ ॥
भगवन्किं प्रमाणेन मम वंशो भविष्यति ।किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ।। ७.५१.८ ॥
रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् ।काम्यया भगवन्बूहि वंशस्यास्य गतिं मम ।। ७.५१.९ ॥
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च ।दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ।। ७.५१.१० ॥
शृणु राजन्पुरावृत्तं तदा देवासुरे युधि ।दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ।। ७.५१.११ ॥
तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ।। ७.५१.१२ ॥
तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः ।चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत् ।। ७.५१.१३ ॥
ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ।। ७.५१.१४ ॥
यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः ।तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ।। ७.५१.१५ ॥
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।। ७.५१.१६ ॥
शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत् ।। ७.५१.१७ ॥
अर्चयामास तं देवं भृगुः शापेन पीडितः ।तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः ।लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् ।। ७.५१.१९ ॥
इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ।इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ।। ७.५१.२० ॥
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ।तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ।। ७.५१.२१ ॥
अयोध्यायाः पती रामो दीर्घकालं भविष्यति ।सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः ।। ७.५१.२२ ॥
दश वर्षसहस्राणि दश वर्षशतानि च ।रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।। ७.५१.२३ ॥
समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ।राजवंशांश्च बहुशो बहून्संस्थापयिष्यति ।। ७.५१.२४ ॥
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ।अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः ।। ७.५१.२५ ॥
सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ।। ७.५१.२६ ॥
स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ।। ७.५१.२७ ॥
तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ ।अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ।। ७.५१.२८ ॥
एतद्वचो मया तत्र मुनिना व्याहृतं पुरा ।श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ।। ७.५१.२९ ॥
एवं गते न सन्तापं कर्तुमर्हसि राघव ।सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ।। ७.५१.३० ॥
श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। ७.५१.३१ ॥
ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।अस्तमर्के गते वासं केशिन्यां तावथोषतुः ।। ७.५१.३२ ।।
तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः ।प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ।। ७.५२.१ ॥
ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः ।अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ।। ७.५२.२ ॥
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ।रामपादौ समासाद्य वक्ष्यामि किमहं गतः ।। ७.५२.३ ॥
तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् ।रामस्य परमोदारं पुरस्तान्समदृश्यत ।। ७.५२.४ ॥
राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् ।अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ।। ७.५२.५ ॥
स दृष्ट्वा राघवं दीनमासीनं परमासने ।नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ।। ७.५२.६ ॥
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ।उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ।। ७.५२.७ ॥
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ।गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ।। ७.५२.८ ॥
तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् ।पुनरप्यागतो वीर पादमूलमुपासितुम् ।। ७.५२.९ ॥
मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी ।त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ।। ७.५२.१० ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। ७.५२.११ ॥
तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च ।नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ।। ७.५२.१२ ॥
शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि ।लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ।। ७.५२.१३ ॥
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः ।अपवादः स किल ते पुनरेष्यति राघव ।। ७.५२.१४ ॥
यदर्थं मैथिली त्यक्ता अपवादभयान्नृप ।सो ऽपवादः पुरे राजन्भविष्यति न संशयः ।। ७.५२.१५ ॥
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ।त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ।। ७.५२.१६ ॥
एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना ।उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ।। ७.५२.१७ ॥
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ।परितोषश्च मे वीर मम कार्यानुशासने ।। ७.५२.१८ ॥
निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः ।भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ।। ७.५२.१९ ।।
लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् ।सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ।। ७.५३.१ ॥
दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः ।यादृशस्त्वं महाबुद्धेर्मम सौम्य मनो ऽनुगः ।। ७.५३.२ ॥
यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण ।तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ।। ७.५३.३ ॥
चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै ।अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ।। ७.५३.४ ॥
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ।कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ।। ७.५३.५ ॥
पौरकार्याणि यो राजा न करोति दिने दिने ।संवृते नरके घोरे पतितो नात्र संशयः ।। ७.५३.६ ॥
श्रूयते हि पुरा राजा नृगो नाम महायशाः ।बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः ।। ७.५३.७ ॥
स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः ।नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ।। ७.५३.८ ॥
ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिता ऽनघ ।ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ।। ७.५३.९ ॥
स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च ।नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ।। ७.५३.१० ॥
ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् ।ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ।। ७.५३.११ ॥
अथ तां नामधेयेन स्वकेनोवाच स द्विजः ।आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ।। ७.५३.१२ ॥
तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै ।अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ।। ७.५३.१३ ॥
यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् ।गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ।। ७.५३.१४ ॥
स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह ।तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ।। ७.५३.१५ ॥
विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः ।तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ।। ७.५३.१६ ॥
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ।ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ॥क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् ।। ७.५३.१७ ॥
अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् ।अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ।। ७.५३.१८ ॥
बहुवर्षसहस्राणि बहुवर्षशतानि च ।श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ।। ७.५३.१९ ॥
उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः ।वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ।। ७.५३.२० ॥
स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि ।कृता च तेन कालेन निष्कृतिस्ते भविष्यति ।। ७.५३.२१ ॥
भारावतरणार्थं हि नरनारायणावुभौ ।उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ।। ७.५३.२२ ॥
एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ।तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ।। ७.५३.२३ ॥
एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ।। ७.५३.२४ ॥
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते ।तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ।। ७.५३.२५ ॥
सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः ।तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ।। ७.५३.२६ ।।
रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् ।उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। ७.५४.१ ॥
अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः ।महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ।। ७.५४.२ ॥
श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ ।किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ।। ७.५४.३ ॥
लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् ।शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः ।। ७.५४.४ ॥
अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा ।आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ।। ७.५४.५ ॥
तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा ।दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ।। ७.५४.६ ॥
नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् ।गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ।। ७.५४.७ ॥
कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् ।श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम ।यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् ।। ७.५४.८ ॥
वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा ।ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ।। ७.५४.९ ॥
फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः ।विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः ।। ७.५४.१० ॥
क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम् ।सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ।। ७.५४.११ ॥
पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः ।परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ।। ७.५४.१२ ॥
एवं कृत्वा विधानं स सन्दिदेश वसं तदा ।धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ।। ७.५४.१३ ॥
प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः ।नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे ।। ७.५४.१४ ॥
मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ ।कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः ।। ७.५४.१५ ॥
प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति ।लब्धव्यान्येव लभते दुःखानि च सुखानि च ।। ७.५४.१६ ॥
पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह ।। ७.५४.१७ ॥
एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः ।श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ।। ७.५४.१८ ॥
एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् ।सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् ।। ७.५४.१९ ।।
एष ते नृगशापस्य विस्तरो ऽभिहितो मया ।यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ।। ७.५५.१ ॥
एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् ।तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ।। ७.५५.२ ॥
लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ।। ७.५५.३ ॥
आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ।पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ।। ७.५५.४ ॥
स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् ।निवेशयामास तदा अभ्याशे गौतमस्य तु ।। ७.५५.५ ॥
पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् ।निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ।। ७.५५.६ ॥
तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ।यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ।। ७.५५.७ ॥
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् ।वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ।। ७.५५.८ ॥
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः ।अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ।। ७.५५.९ ॥
तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् ।वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ।। ७.५५.१० ॥
अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ।वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत् ।। ७.५५.११ ॥
निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः ।अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः ।पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ।। ७.५५.१२ ॥
इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः ।सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ।। ७.५५.१३ ॥
तदन्तरमथापश्यद्गौतमेनाभिपूरितम् ।कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ।। ७.५५.१४ ॥
स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् ।तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम् ।। ७.५५.१५ ॥
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ।अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ।। ७.५५.१६ ॥
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव ।चेतनेन विनाभूतो देहस्तव भविष्यति ।। ७.५५.१७ ॥
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् ।ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ।। ७.५५.१८ ॥
अजानतः शयानस्य क्रोधेन कलुषीकृतः ।मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ।। ७.५५.१९ ॥
तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः ।देहः सुरुचिरप्रख्यो भविष्यति न संशयः ।। ७.५५.२० ॥
इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ ।सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ।। ७.५५.२१ ।।
रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। ७.५६.१ ॥
निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ ।पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ।। ७.५६.२ ॥
लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः ।प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ।। ७.५६.३ ॥
तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ ।अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ।। ७.५६.४ ॥
अशरीरः शरीरस्य कृते ऽन्यस्य महामुनिः ।वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ।। ७.५६.५ ॥
सो ऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् ।पितामहमथोवाच वायुभूत इदं वचः ।। ७.५६.६ ॥
भगवन्निमिशापेन विदेहत्वमुपागमम् ।लोकनाथ महादेव अण्डजो ऽपि त्वमब्जजः ।। ७.५६.७ ॥
सर्वेषां देहहीनानां महद्दुःखं भविष्यति ।लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो ।देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ।। ७.५६.८ ॥
तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः ।मित्रावरुणजं तेज प्रविश त्वं महायशः ।। ७.५६.९ ॥
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम ।धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ।। ७.५६.१० ॥
एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् ।कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ।। ७.५६.११ ॥
तमेव कालं मित्रो ऽपि वरुणत्वमकारयत् ।क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ।। ७.५६.१२ ॥
एतस्मिन्नेव काले तु उर्वशी परमाप्सराः ।यदृच्छया तमुद्देशमाययौ सखिभिर्वृता ।। ७.५६.१३ ॥
तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये ।आविशत्परमो हर्षो वरुणं चोर्वशीकृते ।। ७.५६.१४ ॥
स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् ।वरुणो वरयामास मैथुनायाप्सरोवराम् ।। ७.५६.१५ ॥
प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता ।मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ।। ७.५६.१६ ॥
वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः ।इदं तेजः समुत्स्रक्ष्ये कुम्भे ऽस्मिन्देवनिर्मिते ।। ७.५६.१७ ॥
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि ।कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् ।। ७.५६.१८ ॥
तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् ।उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ।। ७.५६.१९ ॥
काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् ।भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ।। ७.५६.२० ॥
उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् ।ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ।। ७.५६.२१ ॥
उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता ।तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत् ।। ७.५६.२२ ॥
मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता ।पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी ।। ७.५६.२३ ॥
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता ।मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि ।। ७.५६.२४ ॥
बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः ।तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ।। ७.५६.२५ ॥
ततः सा शापदोषेण पुरूरवसमभ्यगात् ।प्रतियाते पुरूरवं बुधस्यात्मजमौरसम् ।। ७.५६.२६ ॥
तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः ।नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ।। ७.५६.२७ ॥
वज्रमुत्सृज्य वृत्राय भ्रान्ते ऽथ त्रिदिवेश्वरे ।शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ।। ७.५६.२८ ॥
सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा ।बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च ।। ७.५६.२९ ।।
तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् ।लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ।। ७.५७.१ ॥
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ।। ७.५७.२ ॥
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः ।तां कथां कथयामास वसिष्ठस्य महात्मनः ।। ७.५७.३ ॥
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ।तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ।। ७.५७.४ ॥
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः ।नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ।। ७.५७.५ ॥
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् ।तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ।। ७.५७.६ ॥
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः ।वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ।। ७.५७.७ ॥
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् ।वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ।। ७.५७.८ ॥
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः ।कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ।। ७.५७.९ ॥
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते ।तं च ते योजयामासुर्यागदीक्षां मनीषिणः ।। ७.५७.१० ॥
तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः ।गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ।। ७.५७.११ ॥
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् ।आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ।। ७.५७.१२ ॥
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् ।वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ।। ७.५७.१३ ॥
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् ।नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ।। ७.५७.१४ ॥
बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् ।नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ।। ७.५७.१५ ॥
त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते ।वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ।। ७.५७.१६ ॥
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् ।ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् ।। ७.५७.१७ ॥
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा ।मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ।। ७.५७.१८ ॥
अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः ।मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् ।यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ।। ७.५७.१९ ॥
एवं विदेहराजश्च जनकः पूर्वको ऽभवत् ।मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् ।। ७.५७.२० ।।
एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा ।प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ।। ७.५८.१ ॥
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् ।निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ।। ७.५८.२ ॥
निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः ।न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ।। ७.५८.३ ॥
एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः ।उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ।। ७.५८.४ ॥
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् ।न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ।। ७.५८.५ ॥
सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना ।सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ।। ७.५८.६ ॥
नहुषस्य सुतो राजा ययातिः पौरवर्धनः ।तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ।। ७.५८.७ ॥
एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता ।शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ।। ७.५८.८ ॥
अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ ।न तु सा दयिता राज्ञो देवयानी सुमध्यमा ।। ७.५८.९ ॥
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ ।शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ।। ७.५८.१० ॥
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च ।ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ।। ७.५८.११ ॥
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः ।सहसे हृद्गतं दुःखमवमानं च दुःसहम् ।। ७.५८.१२ ॥
आवां च सहितौ देवि प्रविशाव हुताशनम् ।राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ।। ७.५८.१३ ॥
यदि वा सहनीयं ते मामनुज्ञातुमर्हसि ।क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः ।। ७.५८.१४ ॥
पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः ।देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ।। ७.५८.१५ ॥
इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा ।आगतस्त्वरितं तत्र देवयानी तु यत्र सा ।। ७.५८.१६ ॥
दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् ।पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ।। ७.५८.१७ ॥
पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् ।देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ।। ७.५८.१८ ॥
अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम ।भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ।। ७.५८.१९ ॥
न मां त्वमवजानीषे दुःखितामवमानिताम् ।वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ।। ७.५८.२० ॥
अवज्ञया च राजर्षिः परिभूय च भार्गव ।मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ।। ७.५८.२१ ॥
तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः ।व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ।। ७.५८.२२ ॥
यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् ।जरया परया जीर्णः शैथिल्यमुपयास्यसि ।। ७.५८.२३ ॥
एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः ।पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ।। ७.५८.२४ ॥
स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् ।पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ।। ७.५८.२५ ।।
श्रुत्वा तूशनसं क्रुद्धं तदा ऽ ऽर्तो नहुषात्मजः ।जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ।। ७.५९.१ ॥
यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् ।जरां परमिकां पुत्र भोगै रंस्ये महायशः ।। ७.५९.२ ॥
न तावत्कृतकृत्यो ऽस्मि विषयेषु नरर्षभ ।अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ।। ७.५९.३ ॥
यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् ।पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ।। ७.५९.४ ॥
बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च पार्थिव ।प्रतिगृह्णातु वै राजन्क सहाश्नाति भोजनम् ।। ७.५९.५ ।।
तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् ।इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ।। ७.५९.६ ॥
नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् ।धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः ।। ७.५९.७ ॥
पूरोर्वचनमाज्ञाय नाहुषः परया मुदा ।प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ।। ७.५९.८ ।।
ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः ।बहुवर्षसहस्राणि पालयामास मेदिनीम् ।। ७.५९.९ ॥
अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् ।आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ।। ७.५९.१० ॥
न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा ।तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ।। ७.५९.११ ॥
प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् ।त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ।। ७.५९.१२ ॥
एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः ।देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ।। ७.५९.१३ ॥
राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः ।प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ।। ७.५९.१४ ॥
पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे ।राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ।। ७.५९.१५ ॥
न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः ।वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ।। ७.५९.१६ ॥
तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् ।अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ।। ७.५९.१७ ॥
ततः कालेन महता दिष्टान्तमुपजग्मिवान् ।त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ।। ७.५९.१८ ॥
पूरुश्चकार तद्राज्यं धर्मेण महता वृतः ।प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ।। ७.५९.१९ ॥
यदुस्तु जनयामास यातुधानान्सहस्रशः ।पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ।। ७.५९.२० ॥
एष तूशनसा मुक्तः शापोत्सर्गो ययातिना ।धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ।। ७.५९.२१ ॥
एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् ।अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ।। ७.५९.२२ ॥
इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् ।अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ।। ७.५९.२३ ।।
तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ।। ७.६०.१ ॥
ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः ।अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ।। ७.६०.२ ॥
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ।। ७.६०.३ ॥
भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः ।दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः ।प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ।। ७.६०.४ ॥
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ।प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ।। ७.६०.५ ॥
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।प्रवेशयामास तदा तापसान्सुदुरासदान् ।। ७.६०.६ ॥
शतं समधिकं तत्र दीप्यमानं स्वतेजसा ।प्रविष्टं राजभवनं तापसानां महात्मनाम् ।। ७.६०.७ ॥
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ।गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ।। ७.६०.८ ॥
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः ।तीर्थोदकानि सर्वाणि फलानि विविधानि च ।। ७.६०.९ ॥
उवाच च महाबाहुः सर्वानेव महामुनीन् ।इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ।। ७.६०.१० ॥
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ।बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ।। ७.६०.११ ॥
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ।। ७.६०.१२ ॥
किमागमनकार्यं वः किं करोमि समाहितः ।आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् ।। ७.६०.१३ ॥
इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ।। ७.६०.१४ ॥
तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ।ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।। ७.६०.१५ ॥
ऊचुश्च ते महात्मानो हर्षेण महता वृताः ।उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ।। ७.६०.१६ ॥
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ।। ७.६०.१७ ॥
त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्ऺत्रातुमृषींस्त्वमर्हसि ।। ७.६०.१८ ।।
एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् ।किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ।। ७.६१.१ ॥
तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।भयानां शृणु यन्मूलं देशस्य च नरेश्वर ।। ७.६१.२ ॥
पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः ।लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ।। ७.६१.३ ॥
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ।। ७.६१.४ ॥
स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः ।बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ।। ७.६१.५ ॥
रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः ।बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ।। ७.६१.६ ॥
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ।। ७.६१.७ ॥
त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः ।प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ।। ७.६१.८ ॥
यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ।। ७.६१.९ ॥
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ।। ७.६१.१० ॥
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ।। ७.६१.११ ॥
भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ।। ७.६१.१२ ॥
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ।प्रत्युवाच महातेजा नैतदेवं भविष्यति ।। ७.६१.१३ ॥
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ।। ७.६१.१४ ॥
यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते ।अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ।। ७.६१.१५ ॥
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ।। ७.६१.१६ ॥
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ।। ७.६१.१७ ॥
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ।। ७.६१.१८ ॥
तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ।मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ।। ७.६१.१९ ॥
स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् ।शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ।। ७.६१.२० ॥
स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा ।सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ।। ७.६१.२१ ॥
एवंप्रभावो लवणः शूलं चैव तथाविधम् ।श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ।। ७.६१.२२ ॥
बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा ।अभयं याचिता वीर त्रातारं न च विद्महे ।। ७.६१.२३ ॥
ते वयं रावणं श्रुत्वा हतं सबलवाहनम् ।त्रातारं विद्महे तात नान्यं भुवि नराधिपम् ।तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ।। ७.६१.२४ ॥
इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् ।विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ।। ७.६१.२५ ।।
तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः ।किमाहारः किमाचारो लवणः क्व च वर्तते ।। ७.६२.१ ॥
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।ततो निवेदयामासुर्लवणो ववृधे यथा ।। ७.६२.२ ॥
आहारः सर्वसत्त्वानि विशेषेण च तापसाः ।आचारो रौद्रता नित्यं वासो मधुवने तथा ।। ७.६२.३ ॥
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् ।मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ।। ७.६२.४ ॥
ततो ऽन्तराणि सत्त्वानि खादते स महाबलः ।संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ।। ७.६२.५ ॥
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ।। ७.६२.६ ॥
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।स भ्रातऽन्सहितान्सर्वानुवाच रघुनन्दनः ।। ७.६२.७ ॥
को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ।। ७.६२.८ ॥
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।अहमेनं वधिष्यामि ममांशः स विधीयताम् ।। ७.६२.९ ॥
भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ।लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ।। ७.६२.१० ॥
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ।। ७.६२.११ ॥
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ।। ७.६२.१२ ॥
दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव ।शयानो दुःखशय्यासु नन्दिग्रामे ऽवसत्पुरा ।। ७.६२.१३ ॥
फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।अनुभूयेदृशं दुःखमेष राघवनन्दनः ।प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ।। ७.६२.१४ ॥
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ।। ७.६२.१५ ॥
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ।निवेशय महाबाहो भरतं यद्यवेक्षसे ।। ७.६२.१६ ॥
शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ।। ७.६२.१७ ॥
यो हि शत्रुं समुत्पाट्य पार्थिवस्य पुनः क्षये ।न विधत्ते नृपं तत्र नरकं स हि गच्छति ।। ७.६२.१८ ॥
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ।। ७.६२.१९ ॥
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ।बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ।। ७.६२.२० ॥
अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् ।वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ।। ७.६२.२१ ।।
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् ।शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह ।। ७.६३.१ ॥
अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर ।कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ।। ७.६३.२ ॥
अवश्यं करणीयं च शासनं पुरुषर्षभ ।तव चैव महाभाग शासनं दुरतिक्रमम् ।। ७.६३.३ ॥
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् ।नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ।। ७.६३.४ ॥
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे ।तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ।। ७.६३.५ ॥
उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः ।अधर्मसहितं चैव परलोकविवर्जितम् ।। ७.६३.६ ॥
सो ऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् ।मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ।। ७.६३.७ ॥
कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ ।अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ।। ७.६३.८ ॥
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ।उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ।। ७.६३.९ ॥
सम्भारानभिषेकस्य आनयध्वं समाहिताः ।अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ।। ७.६३.१० ॥
पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा ।मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ।। ७.६३.११ ॥
राज्ञः शासनमाज्ञाय तथा ऽकुर्वन्महारथाः ।अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् ।प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ।। ७.६३.१२ ॥
तथो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः ।सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ।। ७.६३.१३ ॥
अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः ।अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ।। ७.६३.१४ ॥
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा ।पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ।। ७.६३.१५ ॥
कौसल्या च सुमित्रा च मङ्गलं केकयी तथा ।चक्रुस्ता राजभवने याश्चान्या राजयोषितः ।। ७.६३.१६ ॥
ऋषयश्च महात्मानो यमुनातीरवासिनः ।हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ।। ७.६३.१७ ॥
ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः ।उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ।। ७.६३.१८ ॥
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः ।अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन ।। ७.६३.१९ ॥
सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे ।। ७.६३.२० ॥
स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः ।अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ।। ७.६३.२१ ॥
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः ।मधुकैटभयोर्वीर विघाते वर्तमानयोः ।स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ।। ७.६३.२२ ॥
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा ।अनेन शरमुख्येन ततो लोकांश्चकार सः ।। ७.६३.२३ ॥
नायं मया शरः पूर्वं रावणस्य वधार्थिना ।मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ।। ७.६३.२४ ॥
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना ।दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ।। ७.६३.२५ ॥
स तं निक्षिप्य भवने पूज्यमान पुनः पुनः ।दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ।। ७.६३.२६ ॥
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् ।तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ।। ७.६३.२७ ॥
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् ।अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ।। ७.६३.२८ ॥
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ ।आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ।। ७.६३.२९ ॥
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ।यदि त्वेवं कृते वीर विनाशमुपयास्यति ।। ७.६३.३० ॥
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः ।श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ।। ७.६३.३१ ।।
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ।पुनरेवापरं वाक्यमुवाच रघुनन्दनः ।। ७.६४.१ ॥
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ।रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ।। ७.६४.२ ॥
अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः ।अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ।। ७.६४.३ ॥
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ ।आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ।। ७.६४.४ ॥
बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् ।सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ।। ७.६४.५ ॥
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ।। ७.६४.६ ॥
ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ।। ७.६४.७ ॥
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ।लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ।। ७.६४.८ ॥
न तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ ।दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ।। ७.६४.९ ॥
स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते ।हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः ।। ७.६४.१० ॥
महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः ।यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ।। ७.६४.११ ॥
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः ।अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ।। ७.६४.१२ ॥
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् ।सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ।। ७.६४.१३ ॥
एते वो गणिता वासा यत्र तत्र निवत्स्यथ ।स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ।। ७.६४.१४ ॥
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् ।कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ।। ७.६४.१५ ॥
रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य च ।रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।। ७.६४.१६ ॥
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ।पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ।। ७.६४.१७ ॥
प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् ।उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ।। ७.६४.१८ ।।
प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि ।एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ।। ७.६५.१ ॥
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ।। ७.६५.२ ॥
सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ।। ७.६५.३ ॥
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ।। ७.६५.४ ॥
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।प्रत्युवाच महात्मानं स्वागतं ते महायशः ।। ७.६५.५ ॥
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि ।आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ।। ७.६५.६ ॥
प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ।। ७.६५.७ ॥
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ।। ७.६५.८ ॥
तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ।। ७.६५.९ ॥
युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः ।पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ।। ७.६५.१० ॥
स बाल एव सौदासो मृगयामुपचक्रमे ।चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ।। ७.६५.११ ॥
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः ।भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ।। ७.६५.१२ ॥
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।क्रोधेन महता ऽ ऽविष्टो जघानैकं महेषुणा ।। ७.६५.१३ ॥
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ।। ७.६५.१४ ॥
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ।। ७.६५.१५ ॥
यस्मादनपराधं त्वं सहायं मम जघ्निवान् ।तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ।। ७.६५.१६ ॥
एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत ।कालपर्याययोगेन राजा मित्रसहो ऽभवत् ।। ७.६५.१७ ॥
राजापि यजते यज्ञमस्याश्रमसमीपतः ।अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ।। ७.६५.१८ ॥
तत्र यज्ञो महानासीद्बहुवर्षगणायुतः ।समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् ।। ७.६५.१९ ॥
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।वसिष्ठरूपी राजानमिति होवाच राक्षसः ।। ७.६५.२० ॥
अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम ।दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ।। ७.६५.२१ ॥
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा ।भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ।। ७.६५.२२ ॥
हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ।। ७.६५.२३ ॥
शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः ।स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ।। ७.६५.२४ ॥
स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ।। ७.६५.२५ ॥
स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ।। ७.६५.२६ ॥
ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।क्रोधेन महता ऽ ऽविष्टो व्याहर्तुमुपचक्रमे ।। ७.६५.२७ ॥
यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ।तस्माद्भोजनमेतत्ते भविष्यति न संशयः ।। ७.६५.२८ ॥
ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ।। ७.६५.२९ ॥
राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः ।प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ।। ७.६५.३० ॥
ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ।। ७.६५.३१ ॥
तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः ।कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ।। ७.६५.३२ ॥
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ।। ७.६५.३३ ॥
तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ।। ७.६५.३४ ॥
मया रोषपरीतेन यदिदं व्याहृतं वचः ।नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ।। ७.६५.३५ ॥
कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति ।मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ।। ७.६५.३६ ॥
एवं स राजा तं शापमुपभुज्यारिसूदनः ।प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ।। ७.६५.३७ ॥
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव ।। ७.६५.३८ ॥
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।विवेश पर्णशालायां महर्षिमभिवाद्य च ।। ७.६५.३९ ।।
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् ।तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ।। ७.६६.१ ॥
ततो ऽर्धरात्रसमये बालका मुनिदारकाः ।वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ।। ७.६६.२ ॥
भगवन्रामपत्नी सा प्रसूता दारकद्वयम् ।ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ।। ७.६६.३ ॥
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् ।बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ।। ७.६६.४ ॥
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ।भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ।। ७.६६.५ ॥
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ।वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ।। ७.६६.६ ॥
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ।निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ।। ७.६६.७ ॥
यश्चावरो भवेत्ताभ्यां लवेन स समाहितः ।निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ।। ७.६६.८ ॥
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ।। ७.६६.९ ॥
तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः ।अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ।। ७.६६.१० ॥
तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च ।सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ।। ७.६६.११ ॥
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् ।पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ।। ७.६६.१२ ॥
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ।व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ।। ७.६६.१३ ॥
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् ।मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ।। ७.६६.१४ ॥
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ।ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ।। ७.६६.१५ ॥
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ।। ७.६६.१६ ॥
स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् ।कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ।। ७.६६.१७ ।।
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ।। ७.६७.१ ॥
शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः ।अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ।। ७.६७.२ ॥
तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ।प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ।। ७.६७.३ ॥
असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन ।इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ।। ७.६७.४ ॥
अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। ७.६७.५ ॥
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ।। ७.६७.६ ॥
इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ।मान्धातरि कृतोद्योगे देवलोकजिगीषया ।। ७.६७.७ ॥
अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः ।वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ।। ७.६७.८ ॥
तस्य पापमभिप्रायं विदित्वा पाकशासनः ।सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ।। ७.६७.९ ॥
राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ ।अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ।। ७.६७.१० ॥
यदि वीर समग्रा ते मेदिनी निखिला वशे ।देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ।। ७.६७.११ ॥
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ।क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ।। ७.६७.१२ ॥
तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ।। ७.६७.१३ ॥
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ।। ७.६७.१४ ॥
आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः ।पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ।। ७.६७.१५ ॥
स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः ।आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ।। ७.६७.१६ ॥
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।दूतं सम्प्रेषयामास सकाशं लवणस्य हि ।। ७.६७.१७ ॥
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।वदन्तमेवं तं दूतं भक्षयामास राक्षसः ।। ७.६७.१८ ॥
चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ।। ७.६७.१९ ॥
ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना ।वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ।। ७.६७.२० ॥
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ।भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ।। ७.६७.२१ ॥
एवं स राजा सुमहान्हतः सबलवाहनः ।शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ।। ७.६७.२२ ॥
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ।। ७.६७.२३ ॥
लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया ।एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ।। ७.६७.२४ ॥
शूलस्य च बलं घोरमप्रमेयं नरर्षभ ।विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ।। ७.६७.२५ ॥
त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे ।शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ।। ७.६७.२६ ।।
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ।। ७.६८.१ ॥
ततः प्रभाते विमले तस्मिन्काले स राक्षसः ।निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ।। ७.६८.२ ॥
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् ।तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ।। ७.६८.३ ॥
ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ।। ७.६८.४ ॥
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।तमुवाच ततो रक्षः किमनेन करिष्यसि ।। ७.६८.५ ॥
ईदृशानां सहस्राणि सायुधानां नराधम ।भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ।। ७.६८.६ ॥
आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम ।स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ।। ७.६८.७ ॥
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ।। ७.६८.८ ॥
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ।। ७.६८.९ ॥
उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् ।योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ।। ७.६८.१० ॥
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ।शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ।। ७.६८.११ ॥
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ।। ७.६८.१२ ॥
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते ।। ७.६८.१३ ॥
मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः ।हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ।। ७.६८.१४ ॥
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् ।अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ।। ७.६८.१५ ॥
निहताश्च हि मे सर्वे परिभूतास्तृणं यथा ।भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ।। ७.६८.१६ ॥
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ।तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये ।ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ।। ७.६८.१७ ॥
तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि ।शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ।। ७.६८.१८ ॥
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ।स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ।। ७.६८.१९ ॥
तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि ।यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ।। ७.६८.२० ।।
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।। ७.६९.१ ॥
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च ।लवणो रघुशार्दूलमाह्वयामास चासकृत् ।। ७.६९.२ ॥
तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् ।शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ।। ७.६९.३ ॥
न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया ।तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ।। ७.६९.४ ॥
ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे ।पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ।। ७.६९.५ ॥
त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर ।पुरे जनपदे चापि क्षेममेव भविष्यति ।। ७.६९.६ ॥
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ।। ७.६९.७ ॥
एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः ।शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ।। ७.६९.८ ॥
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ।। ७.६९.९ ॥
शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ।त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ।। ७.६९.१० ॥
ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि ।शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ।। ७.६९.११ ॥
ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् ।शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ।। ७.६९.१२ ॥
तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ।ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ।। ७.६९.१३ ॥
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ।। ७.६९.१४ ॥
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ।। ७.६९.१५ ॥
मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः ।शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ।। ७.६९.१६ ॥
ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ।। ७.६९.१७ ॥
वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ।नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ।। ७.६९.१८ ॥
असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् ।दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ।। ७.६९.१९ ॥
तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते ।दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ।। ७.६९.२० ॥
सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् ।जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ।। ७.६९.२१ ॥
उवाच देवदेवेशं वरदं प्रपितामहम् ।देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.२२ ॥
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह ।देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.२३ ॥
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।भयकारणमाचष्ट लोकानामभयङ्करः ।उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ।। ७.६९.२४ ॥
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ।तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ।। ७.६९.२५ ॥
एष पूर्वस्य देवस्य लोककर्तुः सनातनः ।शरस्तेजोमयो वत्सा येन वै भयमागतम् ।। ७.६९.२६ ॥
एष वै कैटभस्यार्थे मधुनश्च महाशरः ।सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ।। ७.६९.२७ ॥
एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ।एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ।। ७.६९.२८ ॥
इतो गच्छत पश्यध्वं वध्यमानं महात्मना ।रामानुजेन वीरेण लवणं राक्षसोत्तमम् ।। ७.६९.२९ ॥
तस्य ते देवदेवस्य निशम्य वचनं सुराः ।आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ।। ७.६९.३० ॥
तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् ।ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ।। ७.६९.३१ ॥
अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ।सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ।। ७.६९.३२ ॥
आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ।लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ।। ७.६९.३३ ॥
आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ।तं मुमोच महाबाणं लवणस्य महोरसि ।। ७.६९.३४ ॥
उरस्तस्य विदार्याशु प्रविवेश रसातलम् ।। ७.६९.३५ ॥
गत्वा रसातलं दिव्यः शरो विबुधपूजितः ।पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ।। ७.६९.३६ ॥
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।पपात सहसा भूमौ वज्राहत इवाचलः ।। ७.६९.३७ ॥
तच्च शूलं महत्तेन हते लवणराक्षसे ।पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ।। ७.६९.३८ ॥
एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः ।विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ।। ७.६९.३९ ॥
ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः ।दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ।। ७.६९.४० ।।
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ।। ७.७०.१ ॥
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।हतः पुरुषशार्दूल वरं वरय सुव्रत ।। ७.७०.२ ॥
वरदास्तु महाबाहो सर्व एव समागताः ।विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ।। ७.७०.३ ॥
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ।। ७.७०.४ ॥
इयं मधुपुरी रस्या मधुरा देवनिर्मिता ।निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ।। ७.७०.५ ॥
तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।भविष्यति पुरी रम्या शूरसेना न संशयः ।। ७.७०.६ ॥
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ।। ७.७०.७ ॥
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ।निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ।। ७.७०.८ ॥
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे ।निविष्टा शूरसेनानां विषयश्चाकुतोभयः ।। ७.७०.९ ॥
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ।। ७.७०.१० ॥
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ।। ७.७०.११ ॥
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ।। ७.७०.१२ ॥
आरामैश्च विहारैश्च शोभमानं समन्ततः ।शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ।। ७.७०.१३ ॥
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ।। ७.७०.१४ ॥
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः ।निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ।। ७.७०.१५ ॥
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ।। ७.७०.१६ ॥
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् ।नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ।। ७.७०.१७ ।।
ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् ।अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ।। ७.७१.१ ॥
ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च ।जगाम हयमुख्यैश्च रथानां च शतेन सः ।। ७.७१.२ ॥
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ।। ७.७१.३ ॥
सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः ।पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ।। ७.७१.४ ॥
बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।कथयामास स मुनिः शत्रुघ्नाय महात्मने ।। ७.७१.५ ॥
उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ।। ७.७१.६ ॥
बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ।लवणेन महाबाहो युध्यमाना महाबलाः ।। ७.७१.७ ॥
स त्वया निहतः पापो लीलया पुरुषर्षभ ।जगतश्च भयं तत्र प्रशान्तं तव तेजसा ।। ७.७१.८ ॥
रावणस्य वधो घोरो यत्नेन महता कृतः ।इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ।। ७.७१.९ ॥
प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते ।भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ।। ७.७१.१० ॥
तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।सभायां वासवस्याथ उपविष्टेन राघव ।। ७.७१.११ ॥
ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते ।उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ।। ७.७१.१२ ॥
इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः ।आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ।। ७.७१.१३ ॥
स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।शुश्राव रामचरितं तस्मिन्काले यथाकृमम् ।। ७.७१.१४ ॥
तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।संस्कृतं लक्षणोपेतं समतालसमन्वितम् ।शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ।। ७.७१.१५ ॥
तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ।श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ।। ७.७१.१६ ॥
स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः ।तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ।। ७.७१.१७ ॥
पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् ।अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ।। ७.७१.१८ ॥
परस्परं च ये तत्र सैनिकाः सम्बभाषिरे ।किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ।। ७.७१.१९ ॥
अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ।शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ।। ७.७१.२० ॥
विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ।साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ।। ७.७१.२१ ॥
शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् ।सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः ।। ७.७१.२२ ॥
आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ।न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ।। ७.७१.२३ ॥
एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः ।अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ।। ७.७१.२४ ।।
तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा ।चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ।। ७.७२.१ ॥
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ।। ७.७२.२ ॥
तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् ।उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ।। ७.७२.३ ॥
भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् ।त्वया ऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ।। ७.७२.४ ॥
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् ।वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ।। ७.७२.५ ॥
सो ऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ।। ७.७२.६ ॥
स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ।। ७.७२.७ ॥
स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् ।पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ।। ७.७२.८ ॥
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ।। ७.७२.९ ॥
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।हतः स लवणः पापः पुरी चास्य निवेशिता ।। ७.७२.१० ॥
द्वादशैते गता वर्षास्त्वां विना रघुनन्दन ।नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ।। ७.७२.११ ॥
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ।। ७.७२.१२ ॥
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ।। ७.७२.१३ ॥
नावसीदन्ति राजानो विप्रवासेषु राघव ।प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ।। ७.७२.१४ ॥
काले काले तु मां वीर अयोध्यामवलोकितुम् ।आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ।। ७.७२.१५ ॥
ममापि त्वं सुदयितः प्राणैरपि न संशयः ।अवश्यं करणीयं च राज्यस्य परिपालनम् ।। ७.७२.१६ ॥
तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस ।ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ।। ७.७२.१७ ॥
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् ।शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ।। ७.७२.१८ ॥
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।उष्य तत्र महेष्वासो गमनायोपचक्रमे ।। ७.७२.१९ ॥
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।भरतं लक्ष्मणं चैव महारथमुपारुहत् ।। ७.७२.२० ॥
दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना ।भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ।। ७.७२.२१ ।।
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ।। ७.७३.१ ॥
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः ।मृतं बालमुपादाय राजद्वारमुपागमत् ।। ७.७३.२ ॥
रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः ।असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ।। ७.७३.३ ॥
किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ।। ७.७३.४ ॥
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् ।अकाले कालमापन्नं मम दुःखाय पुत्रक ।। ७.७३.५ ॥
अल्पैरहोभिर्निधनं गमिष्यामि न संशयः ।अहं च जननी चैव तव शोकेन पुत्रक ।। ७.७३.६ ॥
न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् ।सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ।। ७.७३.७ ॥
केनाद्य दुष्कृतेनायं बाल एव ममात्मजः ।अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ।। ७.७३.८ ॥
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् ।मृत्युरप्राप्तकालानां रामस्य विषये यथा ।। ७.७३.९ ॥
रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः ।यथा हि विषयस्थानां बालानां मृत्युरागतः ।। ७.७३.१० ॥
नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ।। ७.७३.११ ॥
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ।। ७.७३.१२ ॥
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ।उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ।। ७.७३.१३ ॥
इदं तु पतितं तस्मात्तव राम वशे स्थिताः ।कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ।। ७.७३.१४ ॥
सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ।। ७.७३.१५ ॥
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।असद्वृत्ते तु नृपतावकाले म्रियते जनः ।। ७.७३.१६ ॥
यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ।कुर्वते न च रक्षा ऽस्ति तदा कालकृतं भयम् ।। ७.७३.१७ ॥
सुव्यक्तं राजदोषो हि भविष्यति न संशयः ।पुरे जनपदे चापि ततो बालवधो ह्ययम् ।। ७.७३.१८ ॥
एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः ।राजानं दुःखसन्तप्तः सुतं तमुपगूहते ।। ७.७३.१९ ।।
तथा तु करुणं तस्य द्विजस्य परिदेवनम् ।शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ।। ७.७४.१ ॥
स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् ।वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ।। ७.७४.२ ॥
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ।। ७.७४.३ ॥
मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः ।कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा ।एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ।। ७.७४.४ ॥
महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः ।मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ।। ७.७४.५ ॥
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ।राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते ।। ७.७४.६ ॥
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ।प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ।। ७.७४.७ ॥
शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः ।श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ।। ७.७४.८ ॥
पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः ।अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ।। ७.७४.९ ॥
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते ।अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ।। ७.७४.१० ॥
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ।क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः ।। ७.७४.११ ॥
वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि ।मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ।। ७.७४.१२ ॥
ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् ।युगयोरुभयोरासीत्समवीर्यसमन्वितम् ।। ७.७४.१३ ॥
अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः ।स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ।। ७.७४.१४ ॥
तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते ।अधर्मः पादमेकं तु पातयत्पृथिवीतले ।। ७.७४.१५ ॥
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ।। ७.७४.१६ ॥
आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् ।अनृतं नाम तद्भूतं पादेन पृथिवीतले ।। ७.७४.१७ ॥
अनृतं पातयित्वा तु पादमेकमधर्मतः ।ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ।। ७.७४.१८ ॥
पतिते त्वनृते तस्मिन्नधर्मे च महीतले ।शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ।। ७.७४.१९ ॥
त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये ।तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ।। ७.७४.२० ॥
स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् ।पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ।। ७.७४.२१ ॥
एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह ।ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ।। ७.७४.२२ ॥
ततः पादमधर्मस्स द्वितीयमवतारयत् ।ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत ।। ७.७४.२३ ॥
तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये ।अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ।। ७.७४.२४ ॥
तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् ।त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ।। ७.७४.२५ ॥
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः ।न शुद्धो लभते धर्मं युगतस्तु नरर्षभ ।हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ।। ७.७४.२६ ॥
भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे ।अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ।। ७.७४.२७ ॥
स वै विषयपर्यन्ते तव राजन्महातपाः ।अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ।। ७.७४.२८ ॥
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु ।करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ।क्षिप्रं च नरकं याति स च राजा न संशयः ।। ७.७४.२९ ॥
अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ।। ७.७४.३० ॥
षङ्भागस्य न भोक्ता ऽसौ रक्षते न प्रजाः कथम् ।। ७.७४.३१ ॥
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ।दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ।। ७.७४.३२ ॥
एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ।। ७.७४.३३ ।।
नारदस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ।। ७.७५.१ ॥
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् ।बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ।। ७.७५.२ ॥
गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः ।यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ।। ७.७५.३ ॥
यथा शरीरो बालस्य गुप्तः सन् शिष्टकर्मणः ।विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ।। ७.७५.४ ॥
एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।मनसा पुष्पकं दध्यावागच्छेति महायशाः ।। ७.७५.५ ॥
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।आजगाम मुहूर्तेन समीपे राघवस्य वै ।। ७.७५.६ ॥
सो ऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।वश्यस्तव महाबाहो किङ्करः समुपस्थितः ।। ७.७५.७ ॥
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।अभिवाद्य महर्षींस्तान् विमानं सो ऽध्यरोहत ।। ७.७५.८ ॥
धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् ।निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ।। ७.७५.९ ॥
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ।। ७.७५.१० ॥
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।पूर्वामपि दिशं सर्वामथो ऽपश्यन्नराधिपः ।। ७.७५.११ ॥
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ।। ७.७५.१२ ॥
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ।शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ।। ७.७५.१३ ॥
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ।। ७.७५.१४ ॥
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ।। ७.७५.१५ ॥
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ।। ७.७५.१६ ॥
को ऽर्थो मनीषितस्तुभ्यं स्वर्गलाभः परो ऽथवा ।वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् ।यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ।। ७.७५.१७ ॥
ब्राह्मणो वा ऽसि भद्रं ते क्षत्रियो वा ऽसि दुर्जयः ।वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ।। ७.७५.१८ ।।
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै ।उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः ।। ७.७५.१९ ।।
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ।। ७.७६.१ ॥
शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः ।देवत्वं पार्थये राम सशरीरो महायशः ।। ७.७६.२ ॥
न मिथ्या ऽहं वदे राम देवलोकजिगीषया ।शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ।। ७.७६.३ ॥
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ।। ७.७६.४ ॥
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः ।साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ।। ७.७६.५ ॥
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् ।पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ।। ७.७६.६ ॥
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् ।सुरकार्यमिदं सौम्य सुकृतं ते महामते ।। ७.७६.७ ॥
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम ।स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ।। ७.७६.८ ॥
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः ।उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ।। ७.७६.९ ॥
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।दिशन्तु वरमेतं मे इप्सितं परमं मम ।। ७.७६.१० ॥
ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः ।अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ।। ७.७६.११ ॥
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ ।द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ।। ७.७६.१२ ॥
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः ।प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ।। ७.७६.१३ ॥
निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः ।जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ।। ७.७६.१४ ॥
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः ।तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ।। ७.७६.१५ ॥
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ ।अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ।। ७.७६.१६ ॥
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।द्वादशं हि गतं वर्षं जलशय्यां समासतः ।। ७.७६.१७ ॥
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् ।त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ।। ७.७६.१८ ॥
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।आरुरोह विमानं तं पुष्पकं हेमभूषितम् ।। ७.७६.१९ ॥
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ।। ७.७६.२० ॥
दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः ।अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ।। ७.७६.२१ ॥
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् ।जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ।। ७.७६.२२ ॥
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ।। ७.७६.२३ ॥
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।आतिथ्यं परमं प्राप्य निषसाद नराधिपः ।। ७.७६.२४ ॥
तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ।। ७.७६.२५ ॥
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ।। ७.७६.२६ ॥
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ।। ७.७६.२७ ॥
उष्यतां चेह रजनी सकाशे मम राघव ।प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि ।। ७.७६.२८ ॥
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ।। ७.७६.२९ ॥
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ।। ७.७६.३० ॥
दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते ।भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ।। ७.७६.३१ ॥
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ।तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ।। ७.७६.३२ ॥
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ।। ७.७६.३३ ॥
अथोवाच महात्मानमिक्ष्वाकूणां महारथः ।रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ।। ७.७६.३४ ॥
प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः ।गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव ।। ७.७६.३५ ॥
ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि ।एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ।। ७.७६.३६ ॥
आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे ।अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ।। ७.७६.३७ ॥
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ।सुराणां स्थापितो राजा त्वया देव शतक्रतुः ।। ७.७६.३८ ॥
प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् ।यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ।न वसामो विना राज्ञा एष नो निश्चयः परः ।। ७.७६.३९ ॥
प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम् ।। ७.७६.४० ॥
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् ।समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ।। ७.७६.४१ ॥
ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः ।अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ।। ७.७६.४२ ॥
तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् ।ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ।। ७.७६.४३ ॥
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ।वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ।। ७.७६.४४ ॥
कौबेरेण तु भागेन वित्तमासां ददौ तदा ।यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म स प्रजाः ।। ७.७६.४५ ॥
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ।प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ।। ७.७६.४६ ॥
तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् ।तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ।। ७.७६.४७ ॥
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ।। ७.७६.४८ ॥
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ।कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ।। ७.७६.४९ ॥
कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः ।आश्चर्याणां बहूनां हि निधिः परमको भवान् ।। ७.७६.५० ॥
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ।शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ।। ७.७६.५१ ॥
रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् ।आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ।। ७.७६.५२ ।।
पुरा त्रेतायुगे राम बभूव बहुविस्तरम् ।समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ।। ७.७७.१ ॥
तस्मिन्निर्मानुषे ऽरण्ये कुर्वाणस्तप उत्तमम् ।अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ।। ७.७७.२ ॥
तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह ।फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ।। ७.७७.३ ॥
तस्यारण्यस्य मध्ये तु सरो योजनमायतम् ।हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।। ७.७७.४ ॥
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् ।तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ।। ७.७७.५ ॥
अरजस्कं तथा ऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् ।समीपे तस्य सरसो महदद्भुतमाश्रमम् ।। ७.७७.६ ॥
पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् ।तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ।। ७.७७.७ ॥
प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे ।अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ।। ७.७७.८ ॥
पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् ।तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ।। ७.७७.९ ॥
तमर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव ।उषितो ऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ।। ७.७७.१० ॥
अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् ।विमानं परमोदारं हंसयुक्तं मनोजवम् ।। ७.७७.११ ॥
अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन ।उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् ।। ७.७७.१२ ॥
गायन्ति दिव्यगेयानि वादयन्ति तथा ऽपराः ।क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथा ऽपराः ।। ७.७७.१३ ॥
अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः ।दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ।। ७.७७.१४ ॥
ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् ।पश्यतो मे तदा राम विमानादवरुह्य च ।तं शवं भक्षयामास स स्वर्गी रघुनन्दन ।। ७.७७.१५ ॥
तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् ।अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ।। ७.७७.१६ ॥
उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव ।आरोढुमुपचक्राम विमानवरमुत्तमम् ।। ७.७७.१७ ॥
तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै ।अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ।। ७.७७.१८ ॥
को भवान्देवसङ्काश आहारश्च विगर्हितः ।त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ।। ७.७७.१९ ॥
कस्य स्यादीदृशो भाव आहारो देवसम्मतः ।आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ।। ७.७७.२० ॥
नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ।। ७.७७.२१ ॥
इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च ।श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ।। ७.७७.२२ ।।
श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ।। ७.७८.१ ॥
शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः ।अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ।। ७.७८.२ ॥
पुरा वैदर्भको राजा पिता मम महायशाः ।सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। ७.७८.३ ॥
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत ।अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत् ।। ७.७८.४ ॥
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ।। ७.७८.५ ॥
एवं वर्षसहस्राणि समतीतानि सुव्रत ।राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ।। ७.७८.६ ॥
सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ।। ७.७८.७ ॥
सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे ।। ७.७८.८ ॥
भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् ।इदं सरः समासाद्य तपस्तप्तं मया चिरम् ।। ७.७८.९ ॥
सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने ।तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ।। ७.७८.१० ॥
तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ।बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः ।गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ।। ७.७८.११ ॥
भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः ।कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ।। ७.७८.१२ ॥
आहारः कश्च मे देव तन्मे ब्रूहि पितामह ।। ७.७८.१३ ॥
पितामहस्तु मामाह तवाहारः सुदेवज ।स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ।। ७.७८.१४ ॥
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।अनुप्तं रोहते श्वेत न कदाचिन्महामते ।। ७.७८.१५ ॥
तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते ।पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप ।न हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै ।। ७.७८.१६ ।।
दत्तं न ते ऽस्ति सूक्ष्मो ऽपि तप एव निषेवसे ।तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ।। ७.७८.१७ ॥
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ।। ७.७८.१८ ॥
यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ।आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते ।। ७.७८.१९ ॥
स हि तारयितुं सौम्य शक्तः सुरगणानपि ।किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ।। ७.७८.२० ॥
सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।आहारं गर्हितं स्वशरीरं द्विजोत्तम ।। ७.७८.२१ ॥
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया ।क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ।। ७.७८.२२ ॥
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय ।अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ।। ७.७८.२३ ॥
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ।। ७.७८.२४ ॥
इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज ।भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ।। ७.७८.२५ ॥
सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव ।तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ।। ७.७८.२६ ॥
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ।तारणायोपजग्राह तदाभरणमुत्तमम् ।। ७.७८.२७ ॥
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ।मानुषः पूर्वको देहो राजर्षेर्विननाश ह ।। ७.७८.२८ ॥
प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा ।तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ।। ७.७८.२९ ॥
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ।। ७.७८.३० ।।
तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ।। ७.७९.१ ॥
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ।। ७.७९.२ ॥
तद्वनं स कथ राजा शून्यं मनुजवर्जितम् ।तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ।। ७.७९.३ ॥
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ।। ७.७९.४ ॥
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ।। ७.७९.५ ॥
तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् ।पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ।। ७.७९.६ ॥
तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव ।ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ।। ७.७९.७ ॥
प्रीतो ऽस्मि परमोदार त्वं कर्ता ऽसि न संशयः ।दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ।। ७.७९.८ ॥
अपराधिषु यो दण्डः पात्यते मानवेषु वै ।स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ।। ७.७९.९ ॥
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक ।धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ।। ७.७९.१० ॥
इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना ।जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ।। ७.७९.११ ॥
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।जनयिष्ये कथं पुत्रानिति चिन्तापरो ऽभवत् ।। ७.७९.१२ ॥
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् ।जनयामास धर्मात्मा शतं देवसुतोपमान् ।। ७.७९.१३ ॥
तेषामवरजस्तात सर्वेषां रघुनन्दन ।मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ।। ७.७९.१४ ॥
नाम तस्य च दण्डेति पिता चक्रे ऽल्पमेधसः ।अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति ।। ७.७९.१५ ॥
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ।। ७.७९.१६ ॥
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि ।पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ।। ७.७९.१७ ॥
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।पुरोहितं तूशनसं वरयामास सुव्रतम् ।। ७.७९.१८ ॥
एवं स राजा तद्राज्यमकरोत्सपुरोहितः ।प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ।। ७.७९.१९ ॥
ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् ।चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ।। ७.७९.२० ।।
एतदाख्याय रामाय महर्षिः कुम्भसम्भवः ।अस्यामेवापरं वाक्यं कथायामुपचक्रमे ।। ७.८०.१ ॥
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ।। ७.८०.२ ॥
अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ।रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ।। ७.८०.३ ॥
तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ।विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम् ।। ७.८०.४ ॥
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ।। ७.८०.५ ।।
कुतस्त्वमसि सुश्रोणि कस्य वा ऽसि सुता शुभे ।पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने ।। ७.८०.६ ॥
तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ।। ७.८०.७ ॥
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ।। ७.८०.८ ॥
मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् ।गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ।। ७.८०.९ ॥
यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ।वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ।। ७.८०.१० ॥
अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् ।क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि निर्दहेत् ।। ७.८०.११ ॥
दास्यते चानवद्याङ्ग तव मा याचितः पिता ।। ७.८०.१२ ॥
एवं ब्रुवाणामरजां दण्डः कामवशं गतः ।प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ।। ७.८०.१३ ॥
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ।। ७.८०.१४ ॥
त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः ।भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ।। ७.८०.१५ ॥
एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली ।विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ।। ७.८०.१६ ॥
एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।नगरं प्रययावाशु मधुमन्तमनुत्तमम् ।। ७.८०.१७ ॥
अरजा ऽपि रुदन्ती सा आश्रमस्याविदूरतः ।प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम् ।। ७.८०.१८ ।।
स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ।। ७.८१.१ ॥
सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् ।ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ।। ७.८१.२ ॥
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह ।। ७.८१.३ ॥
पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ।विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ।। ७.८१.४ ॥
क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ।। ७.८१.५ ॥
यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् ।तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ।। ७.८१.६ ॥
सप्तरात्रेण राजासौ सभृत्यबलवाहनः ।पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ।। ७.८१.७ ॥
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।धक्ष्यते पांसुवर्षेण महता पाकशासनः ।। ७.८१.८ ॥
सर्वसत्वानि यानीह स्थावराणि चराणि च ।महता पांसुवर्षेण विलयं सर्वतो ऽगमन् ।। ७.८१.९ ॥
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् ।पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ।। ७.८१.१० ॥
इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ।जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ।। ७.८१.११ ॥
श्रुत्वा तूशनसो वाक्यं सो ऽ ऽश्रमावसथो जनः ।निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः ।। ७.८१.१२ ॥
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।इहैव वस दुर्मेधे आश्रमे सुसमाहिता ।। ७.८१.१३ ॥
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ।। ७.८१.१४ ॥
त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् ।अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ।। ७.८१.१५ ॥
श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा ।तथेति पितरं प्राह भार्गवं भृशदुःखिता ।इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ।। ७.८१.१६ ॥
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ।सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ।। ७.८१.१७ ॥
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप ।शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ।। ७.८१.१८ ॥
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत् ।। ७.८१.१९ ॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ।सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ।। ७.८१.२० ॥
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।कृतोदका नरव्याघ्र आदित्यं पर्युपासते ।। ७.८१.२१ ॥
स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ।रविरस्तं गतो राम गच्छोदकमुपस्पृश ।। ७.८१.२२ ।।
ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम् ।। ७.८२.१ ॥
तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् ।आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ।। ७.८२.२ ॥
तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम् ।शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ।। ७.८२.३ ॥
स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् ।प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ।। ७.८२.४ ॥
प्रभाते काल्यमुत्थाय कृत्वा ऽ ऽह्निकमरिन्दमः ।ऋषिं समुपचक्राम गमनाय रघूत्तमः ।। ७.८२.५ ॥
अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् ।आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ।। ७.८२.६ ॥
धन्यो ऽस्म्यनुगृहीतो ऽस्मि दर्शनेन महात्मनः ।द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ।। ७.८२.७ ॥
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ।। ७.८२.८ ॥
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ।पावनः सर्वभूतानां त्वमेव रघुनन्दन ।। ७.८२.९ ॥
मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन ।पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः ।। ७.८२.१० ॥
ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।हतास्ते यमदण्डेन सद्यो निरयगामिनः ।। ७.८२.११ ॥
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।भुवि त्वां कथयन्तो ऽपि सिद्धिमेष्यन्ति राघव ।। ७.८२.१२ ॥
गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम् ।प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ।। ७.८२.१३ ॥
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ।। ७.८२.१४ ॥
अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ।। ७.८२.१५ ॥
तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः ।अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ।। ७.८२.१६ ॥
स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते ।शशी मेघसमीपस्थो यथा जलधरागमे ।। ७.८२.१७ ॥
ततो ऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ।। ७.८२.१८ ॥
ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् ।विसर्जयित्वा गच्छेति स्वस्ति ते ऽस्त्विति च प्रभुः ।। ७.८२.१९ ॥
कक्षान्तरविनिक्षिप्तं द्वास्स्थं रामो ऽब्रवीद्वचः ।लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ।ममागमनमाख्याय शब्दापयत मा चिरम् ।। ७.८२.२० ।।
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः ।द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ।। ७.८३.१ ॥
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ।परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ।। ७.८३.२ ॥
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ।। ७.८३.३ ॥
अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ।। ७.८३.४ ॥
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ।। ७.८३.५ ॥
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ।सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ।। ७.८३.६ ॥
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ।। ७.८३.७ ॥
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ।। ७.८३.८ ॥
श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः ।भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.८३.९ ॥
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा ।प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ।। ७.८३.१० ॥
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ।। ७.८३.११ ॥
पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल ।पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव ।। ७.८३.१२ ॥
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ।। ७.८३.१३ ॥
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः ।सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ।। ७.८३.१४ ॥
स त्वं पुरुषशार्दूल गुणैरतुलविक्रम ।पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ।। ७.८३.१५ ॥
भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ।। ७.८३.१६ ॥
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् ।प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ।। ७.८३.१७ ॥
इदं वचनमक्लीबं त्वया धर्मसमाहितम् ।व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ।। ७.८३.१८ ॥
एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् ।निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ।। ७.८३.१९ ॥
लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ।बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज ।तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ।। ७.८३.२० ।।
तथोक्तवति रामे तु भरते च महात्मनि ।लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ।। ७.८४.१ ॥
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ।। ७.८४.२ ॥
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ।। ७.८४.३ ॥
पुरा किल महाबाहो देवासुरसमागमे ।वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ।। ७.८४.४ ॥
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ।। ७.८४.५ ॥
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ।शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ।। ७.८४.६ ॥
तस्मिन्प्रशासति तदा सर्वकामदुघा मही ।रसवन्ति प्रभूनानि मूलानि च फलानि च ।। ७.८४.७ ॥
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः ।स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ।। ७.८४.८ ॥
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् ।तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ।। ७.८४.९ ॥
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ।। ७.८४.१० ॥
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ।। ७.८४.११ ॥
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः ।बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ।। ७.८४.१२ ॥
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर ।यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ।। ७.८४.१३ ॥
तं चैनं परमोदारमुपेक्षसि महाबलम् ।क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ।। ७.८४.१४ ॥
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ।। ७.८४.१५ ॥
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः ।त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ।। ७.८४.१६ ॥
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ।। ७.८४.१७ ॥
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।असह्यमिदमन्येषामगतीनां गतिर्भवान् ।। ७.८४.१८ ।।
लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।वृत्रघातमशेषेण कथयेत्याह सुव्रत ।। ७.८५.१ ॥
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।भूय एव कथां दिव्यां कथयामास सुव्रतः ।। ७.८५.२ ॥
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ।। ७.८५.३ ॥
पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य ह महात्मनः ।तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ।। ७.८५.४ ॥
अवश्यं करणीयं च भवतां सुखमुत्तमम् ।तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ।। ७.८५.५ ॥
त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः ।तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ।। ७.८५.६ ॥
एकांशो वासवं यातु द्वितीयो वज्रमेव तु ।तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ।। ७.८५.७ ॥
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ।। ७.८५.८ ॥
भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।भजस्व परमोदार वासवं स्वेन तेजसा ।। ७.८५.९ ॥
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ।। ७.८५.१० ॥
ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ।। ७.८५.११ ॥
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।कथमेनं वधिष्यामः कथं न स्यात्पराजयः ।। ७.८५.१२ ॥
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ।। ७.८५.१३ ॥
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा ।पतता वृत्रशिरसा जगत्ऺत्रासमुपागमत् ।। ७.८५.१४ ॥
असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ।। ७.८५.१५ ॥
तमिन्द्रं ब्रह्महत्या ऽ ऽशु गच्छन्तमनुगच्छति ।अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ।। ७.८५.१६ ॥
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः ।विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ।। ७.८५.१७ ॥
त्वं गतिः परमेशान पूर्वजो जगतः पिता ।रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। ७.८५.१८ ॥
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ।। ७.८५.१९ ॥
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ।। ७.८५.२० ॥
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ।। ७.८५.२१ ॥
एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् ।जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ।। ७.८५.२२ ।।
तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ।। ७.८६.१ ॥
ततो हते महावीर्ये वृत्रे देवभयङ्करे ।ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ।। ७.८६.२ ॥
सो ऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः ।कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ।। ७.८६.३ ॥
अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ।। ७.८६.४ ॥
निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा ।सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतो ऽभवत् ।। ७.८६.५ ॥
क्षीयमाणे तु लोके ऽस्मिन्सम्भ्रान्तमनसः सुराः ।यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ।। ७.८६.६ ॥
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ।। ७.८६.७ ॥
ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया ।तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ।। ७.८६.८ ॥
ततो ऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ।। ७.८६.९ ॥
ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः ।अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ।। ७.८६.१० ॥
ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः ।चतुर्धा विभजात्मानमात्मनैव दुरासदे ।। ७.८६.११ ॥
देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ।सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ।। ७.८६.१२ ॥
एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ।। ७.८६.१३ ॥
भूम्यामहं सर्वकालमेकेनांशेन सर्वदा ।वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ।। ७.८६.१४ ॥
यो ऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ।त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ।। ७.८६.१५ ॥
हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् ।तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ।। ७.८६.१६ ॥
प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ।। ७.८६.१७ ॥
ततः प्रीत्या ऽन्विता देवाः सहस्राक्षं ववन्दिरे ।विज्वरः स च पूतात्मा वासवः समपद्यत ।। ७.८६.१८ ॥
प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते ।यज्ञं चाद्भुतसङ्काशं तदा शक्रो ऽभ्यपूजयत् ।। ७.८६.१९ ॥
ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन ।यजस्व सुमहाभाग हयमेधेन पार्थिव ।। ७.८६.२० ॥
इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा ।परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ।। ७.८६.२१ ।।
तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ।प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ।। ७.८७.१ ॥
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण ।वृत्रघातमशेषेण वाजिमेधफलं च यत् ।। ७.८७.२ ॥
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ।पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ।। ७.८७.३ ॥
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः ।राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ।। ७.८७.४ ॥
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ।नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ।। ७.८७.५ ॥
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ।अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ।। ७.८७.६ ॥
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ।बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ।। ७.८७.७ ॥
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने ।चैत्रे मनोरमे मासि सभृत्यबलवाहनः ।। ७.८७.८ ॥
प्रजघ्ने च नृपो ऽरण्ये मृगाञ्छतसहस्रशः ।हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ।। ७.८७.९ ॥
नानामृगाणामयुतं वध्यमानं महात्मना ।यत्र जातो माहासेनस्तं देशमुपचक्रमे ।। ७.८७.१० ॥
तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः ।रमयामास दुर्धर्षः सर्वैरनुचरैः सह ।। ७.८७.११ ॥
कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः ।देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ।। ७.८७.१२ ॥
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ।वृक्षाः पुरुषनामानस्ते ऽभवन् स्त्रीजनास्तदा ।। ७.८७.१३ ॥
यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह ।एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ।निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ।। ७.८७.१४ ॥
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् ।आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ।। ७.८७.१५ ॥
तस्य दुःखं महच्चासीद्दृष्ट्वा ऽ ऽत्मानं तथागतम् ।उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ।। ७.८७.१६ ॥
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ।जगाम शरणं राजा सभृत्यबलवाहनः ।। ७.८७.१७ ॥
ततः प्रहस्य वरदः सह देव्या महेश्वरः ।प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ।। ७.८७.१८ ॥
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ।पुरुषत्वमृते सौम्य वरं वरय सुव्रत ।। ७.८७.१९ ॥
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना ।न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ।। ७.८७.२० ॥
ततः शोकेन महता शैलराजसुतां नृपः ।प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ।। ७.८७.२१ ॥
ईशे वराणां वरदे लोकानामसि भामिनी ।अमोघदर्शने देवी भज सौम्येन चक्षुषा ।। ७.८७.२२ ॥
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ ।प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ।। ७.८७.२३ ॥
अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ।तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ।। ७.८७.२४ ॥
तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ।सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ।। ७.८७.२५ ॥
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ।मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ।। ७.८७.२६ ॥
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ।प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ।। ७.८७.२७ ॥
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ।स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ।। ७.८७.२८ ॥
एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः ।त्रैलोक्यसुन्दरी नारी मासमेकमिला ऽभवत् ।। ७.८७.२९ ।।
तां कथामिलसम्बद्धां रामेण समुदीरिताम् ।लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ।। ७.८८.१ ॥
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ।विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ।। ७.८८.२ ॥
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ।पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ।। ७.८८.३ ॥
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ।। ७.८८.४ ॥
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी ।ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ।। ७.८८.५ ॥
तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी ।द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ।। ७.८८.६ ॥
वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः ।पर्वताभोगविवरे तस्मिन्रेमे इला तदा ।। ७.८८.७ ॥
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ।। ७.८८.८ ॥
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा ।ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ।। ७.८८.९ ॥
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ।यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ।। ७.८८.१० ॥
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ।। ७.८८.११ ॥
बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ।नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि ।। ७.८८.१२ ॥
इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ।चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ।। ७.८८.१३ ॥
न देवीषु न नागीषु नासुरीष्वप्सरःसु च ।दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ।। ७.८८.१४ ॥
सदृशीयं मम भवेद्यदि नान्यपरिग्रहः ।इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ।। ७.८८.१५ ॥
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः ।शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ।। ७.८८.१६ ॥
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी ।किमर्थमागता चैव सर्वमाख्यात मा चिरम् ।। ७.८८.१७ ॥
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ।। ७.८८.१८ ॥
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ।। ७.८८.१९ ॥
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ।विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ।। ७.८८.२० ॥
सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् ।सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ।। ७.८८.२१ ॥
अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ ।आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ।। ७.८८.२२ ॥
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ।। ७.८८.२३ ॥
ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः ।उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ।। ७.८८.२४ ।।
श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा ।आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ।। ७.८९.१ ॥
अथ रामः कथामेतां भूय एव महायशाः ।कथयामास धर्मात्मा प्रजापतिसुतस्य वै ।। ७.८९.२ ॥
सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः ।उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ।। ७.८९.३ ॥
सोमस्याहं सुदयितः सुतः सुरुचिरानने ।भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ।। ७.८९.४ ॥
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते ।इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ।। ७.८९.५ ॥
अहं कामचरी सौम्य तवास्मि वशवर्तिनी ।प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ।। ७.८९.६ ॥
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः ।स वै कामी सह तया रेमे चन्द्रमसः सुतः ।। ७.८९.७ ॥
बुधस्य माधवो मासस्तामिलां रुचिराननाम् ।गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ।। ७.८९.८ ॥
अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः ।प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ।। ७.८९.९ ॥
सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये ।ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ।। ७.८९.१० ॥
भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः ।न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ।। ७.८९.११ ॥
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् ।प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ।। ७.८९.१२ ॥
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ।त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ।। ७.८९.१३ ॥
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः ।फलमूलाशनो वीर निवसेह यथासुखम् ।। ७.८९.१४ ॥
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः ।प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ।। ७.८९.१५ ॥
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः ।वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ।। ७.८९.१६ ॥
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः ।शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ।। ७.८९.१७ ॥
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् ।प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ।। ७.८९.१८ ॥
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् ।सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ।। ७.८९.१९ ॥
न सन्तापस्त्वया कार्यः कार्दमेय महाबल ।संवत्सरोषितस्येह कारयिष्यामि ते हितम् ।। ७.८९.२० ॥
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः ।वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ।। ७.८९.२१ ॥
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा ।मासं पुरुषभावेन धर्मबुद्धिं चकार सः ।। ७.८९.२२ ॥
ततः सा नवमे मासि इला सोमसुतात्सुतम् ।जनयामास सुश्रोणी पुरूरवसमूर्जितम् ।। ७.८९.२३ ॥
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् ।बुधस्य समवर्णभमिला पुत्रं महाबलम् ।। ७.८९.२४ ॥
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् ।कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ।। ७.८९.२५ ।।
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।उवाच लक्ष्मणो भूयो भरतश्च महायशाः ।। ७.९०.१ ॥
इला सा सोमपुत्रस्य संवत्सरमथोषिता ।अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ।। ७.९०.२ ॥
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ।। ७.९०.३ ॥
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।संवर्तं परमोदारमाजुहाव महायशाः ।। ७.९०.४ ॥
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ।। ७.९०.५ ॥
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः ।उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ।। ७.९०.६ ॥
अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ।। ७.९०.७ ॥
तेषां संवदतामेव तमाश्रममुपागमत् ।कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ।। ७.९०.८ ॥
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ।। ७.९०.९ ॥
ते सर्वे हृष्टमनसः परस्परसमागमे ।हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ।। ७.९०.१० ॥
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् ।द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ।। ७.९०.११ ॥
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ।तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ।। ७.९०.१२ ॥
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ।रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ।। ७.९०.१३ ॥
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः ।मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ।। ७.९०.१४ ॥
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः ।रुद्रश्च परमं तोषमाजगाम महायशाः ।। ७.९०.१५ ॥
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ।उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ।। ७.९०.१६ ॥
प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ।अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ।। ७.९०.१७ ॥
तथा वदति देवेशे द्विजास्ते सुसमाहिताः ।प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ।। ७.९०.१८ ॥
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ।इलायै सुमहातेजा दत्त्वा चान्तरधीयत ।। ७.९०.१९ ॥
निवृत्ते हयमेधे च गतश्चादर्शनं हरः ।यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ।। ७.९०.२० ॥
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ।निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ।। ७.९०.२१ ॥
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः ।प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ।। ७.९०.२२ ॥
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् ।ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।। ७.९०.२३ ॥
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ।। ७.९०.२४ ।।
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ।। ७.९१.१ ॥
वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् ।द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ।। ७.९१.२ ॥
एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण ।हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ।। ७.९१.३ ॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ।। ७.९१.४ ॥
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् ।राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ।। ७.९१.५ ॥
प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् ।आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ।। ७.९१.६ ॥
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् ।अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ।। ७.९१.७ ॥
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ।। ७.९१.८ ॥
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् ।प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ।। ७.९१.९ ॥
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ।सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ।। ७.९१.१० ॥
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।अश्वमेधं महायज्ञमायात्वतुलविक्रमः ।। ७.९१.११ ॥
राजानश्च महाभागा ये मे प्रियचिकीर्षवः ।सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ।। ७.९१.१२ ॥
देशान्तरगता ये च द्विजा धर्मसमाहिताः ।आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ।। ७.९१.१३ ॥
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ।देशान्तरगताः सर्वे सदाराश्च द्विजातयः ।तथैव तालावचरास्तथैव नटनर्तकाः ।। ७.९१.१४ ॥
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने ।आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ।। ७.९१.१५ ॥
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ।। ७.९१.१६ ॥
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।अनुभूय महायज्ञं नैमिशे रघुनन्दन ।। ७.९१.१७ ॥
तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि ।प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ।। ७.९१.१८ ॥
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ।। ७.९१.१९ ॥
चणकानां कुलित्थानां माषाणां लवणस्य च ।अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ।। ७.९१.२० ॥
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ।अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ।। ७.९१.२१ ॥
अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः ।सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ।। ७.९१.२२ ॥
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ।। ७.९१.२३ ॥
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् ।मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च ।। ७.९१.२४ ॥
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ।। ७.९१.२५ ॥
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ।। ७.९१.२६ ।।
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ।हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ।। ७.९२.१ ॥
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ।ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ।। ७.९२.२ ॥
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ।। ७.९२.३ ॥
नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ।। ७.९२.४ ॥
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ।। ७.९२.५ ॥
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ।भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ।। ७.९२.६ ॥
वानराश्च महात्मानः सुग्रीवसहितास्तदा ।विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ।। ७.९२.७ ॥
बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ।ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ।। ७.९२.८ ॥
एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत ।लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत ।ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ।। ७.९२.९ ॥
नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः ।छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ।। ७.९२.१० ॥
तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः ।विविधानि च गौडानि खाण्डवानि तथैव च ।। ७.९२.११ ॥
न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् ।तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ।। ७.९२.१२ ॥
न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः ।तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ।। ७.९२.१३ ॥
ये च तत्र महात्मानो मुनयश्चिरजीविनः ।नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ।। ७.९२.१४ ॥
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः ।वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ।। ७.९२.१५ ॥
रजतानां सुवर्णानामश्मनामथ वाससाम् ।अनिशं दीयमानानां राशिः समुपदृश्यते ।। ७.९२.१६ ॥
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा ।ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ।। ७.९२.१७ ॥
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ।। ७.९२.१८ ॥
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।संवत्सरमथो साग्रं वर्तते न च हीयते ।। ७.९२.१९ ।।
वर्तमाने तथाभूते यज्ञे च परमाद्भुते ।सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ।। ७.९३.१ ॥
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् ।एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ।। ७.९३.२ ॥
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् ।वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ।। ७.९३.३ ॥
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः ।वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ।। ७.९३.४ ॥
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ ।कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ।। ७.९३.५ ॥
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च ।रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ।। ७.९३.६ ॥
रामस्य भवनद्वारि यत्र कर्म च कुर्वते ।ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ।। ७.९३.७ ॥
इमानि च फलान्यत्र स्वादूनि विविधानि च ।जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ।। ७.९३.८ ॥
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ।मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ।। ७.९३.९ ॥
यदि शब्दापयेद्रामः श्रवणाय महीपतिः ।ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ।। ७.९३.१० ॥
दिवसे विंशतिः सर्गा गेया मधुरया गिरा ।प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ।। ७.९३.११ ॥
लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया ।किं धनेनाश्रमस्थानां फलमूलोपजीविना ।। ७.९३.१२ ॥
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ ।आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ।। ७.९३.१३ ॥
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् ।मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ।। ७.९३.१४ ॥
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् ।पिता हि सर्वभूतानां राजा भविति धर्मतः ।। ७.९३.१५ ॥
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ ।गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ।। ७.९३.१६ ॥
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा ।वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ।। ७.९३.१७ ॥
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ ।तथैव करवावेति निर्जग्मतुररिन्दमौ ।। ७.९३.१८ ॥
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा ।समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ।। ७.९३.१९ ।।
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ।। ७.९४.१ ॥
तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् ।अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ।। ७.९४.२ ॥
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् ।बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् ।। ७.९४.३ ॥
अथ कर्मान्तरे राजा समाहूय महामुनीन् ।पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ।। ७.९४.४ ॥
पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः ।स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ।। ७.९४.५ ॥
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः ।पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ।। ७.९४.६ ॥
कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् ।क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ।। ७.९४.७ ॥
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः ।हेतूपचारकुशलान् वचने चापि हैतुकान् ।। ७.९४.८ ॥
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् ।चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ।। ७.९४.९ ॥
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् ।एतान्सर्वान्समानीय गातारौ समवेशयत् ।। ७.९४.१० ॥
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः ।पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ।। ७.९४.११ ॥
ऊचुः परस्परं चेदं सर्व एव समन्ततः ।उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ।। ७.९४.१२ ॥
जटिलौ यदि न स्यातां न वल्कलधरौ यदि ।विशेषं नाधिगच्छामो गायतो राघवस्य च ।। ७.९४.१३ ॥
तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् ।गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ।। ७.९४.१४ ॥
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ।। ७.९४.१५ ॥
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् ।ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ।। ७.९४.१६ ॥
ततो ऽपराह्णसमये राघवः समभाषत ।श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ।। ७.९४.१७ ॥
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः ।प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ।ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ।। ७.९४.१८ ॥
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ ।ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ।। ७.९४.१९ ॥
वन्येन फलमूलेन निरतौ वनवासिनौ ।सुवर्णेन हिरण्येन किं करिष्यावहे वने ।। ७.९४.२० ॥
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः ।श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ।। ७.९४.२१ ॥
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ।। ७.९४.२२ ॥
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ।कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ।। ७.९४.२३ ॥
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ।। ७.९४.२४ ॥
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् ।येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ।। ७.९४.२५ ॥
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् ।उपाख्यानशतं चैव भार्गवेण तपस्विना ।। ७.९४.२६ ॥
आदिप्रभृति वै राजन्पञ्चसर्गशतानि च ।काण्डानि षट् कृतानीह सोत्तराणि महात्मना ।कृतानि गुरुणास्माकमृषिणा चरितं तव ।। ७.९४.२७ ॥
प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते ।। ७.९४.२८ ।।
सोत्तराणि महात्मना ।यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ ।कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ।। ७.९४.२९ ॥
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ।प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ।। ७.९४.३० ॥
रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ।श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ।। ७.९४.३१ ॥
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् ।तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ।। ७.९४.३२ ।।
रामो बहून्यहान्येवं तद्गीतं परमं शुभम् ।शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ।। ७.९५.१ ॥
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ।। ७.९५.२ ॥
मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ।। ७.९५.३ ।।परिषदो मध्ये रामो वचनमब्रवीत् ।यदि शुद्धसमाचारा यदि वा वीतकल्मषा ।करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ।। ७.९५.४ ॥
छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ।प्रत्ययं दातुकामायास्ततः शंसत मे लघु ।। ७.९५.५ ॥
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।करोतु परिषन्मध्ये शोधनार्थं ममैव च ।। ७.९५.६ ॥
श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् ।दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ।। ७.९५.७ ॥
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ।। ७.९५.८ ॥
तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् ।विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ।। ७.९५.९ ॥
एवं भवतु भद्रं वो यथा वदति राघवः ।तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ।। ७.९५.१० ॥
तथोक्ता मुनिना सर्वे राजदूता महौजसम् ।प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ।। ७.९५.११ ॥
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ।। ७.९५.१२ ॥
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ।। ७.९५.१३ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ।। ७.९५.१४ ॥
राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ।उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ।। ७.९५.१५ ॥
एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ।। ७.९५.१६ ॥
इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै ।विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ।। ७.९५.१७ ।।
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ।। ७.९६.१ ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ।। ७.९६.२ ॥
पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः ।मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ।। ७.९६.३ ॥
गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् ।भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ।। ७.९६.४ ॥
नारदः पर्वतश्चैव गौतमश्च महायशाः ।कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ।। ७.९६.५ ॥
एते चान्ये च बहवो मुनयः संशितव्रताः ।कौतूहलसमाविष्टाः सर्व एव समागताः ।। ७.९६.६ ॥
राक्षसाश्च महावीर्या वानराश्च महाबलाः ।सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ।। ७.९६.७ ॥
क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः ।नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ।। ७.९६.८ ॥
ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे ।सीताशपथवीक्षार्थं सर्व एव समागताः ।। ७.९६.९ ॥
तदा समागतं सर्वमश्मभूतमिवाचलम् ।श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ।। ७.९६.१० ॥
तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी ।कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ।। ७.९६.११ ॥
दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ।वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ।। ७.९६.१२ ॥
ततो हलहलाशब्दः सर्वेषामेवमाबभौ ।दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ।। ७.९६.१३ ॥
साधु रामेति केचित्तु साधु सीतेति चापरे ।उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ।। ७.९६.१४ ॥
ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ।सीतासहायो वाल्मीकिरिति होवाच राघवम् ।। ७.९६.१५ ॥
इयं दाशरथे सीता सुव्रता धर्मचारिणी ।अपवादैः परित्यक्ता ममाश्रमसमीपतः ।। ७.९६.१६ ॥
लोकापवादभीतस्य तव राम महाव्रत ।प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ।। ७.९६.१७ ॥
इमौ तु जानकीपुत्रावुभौ च यमजातकौ ।सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ।। ७.९६.१८ ॥
प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन ।न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ।। ७.९६.१९ ॥
बहुवर्षसहस्राणि तपश्चर्या मया कृता ।नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ।। ७.९६.२० ॥
मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् ।तस्याः फलमुपाश्नीयामपापा मैथिली यदि ।। ७.९६.२१ ॥
अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव ।विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ।। ७.९६.२२ ॥
इयं शुद्धसमाचारा अपापा पतिदेवता ।लोकापवादभीतस्य प्रत्ययं तव दास्यति ।। ७.९६.२३ ॥
तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा ।लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा ।। ७.९६.२४ ।।
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ।प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ।। ७.९७.१ ॥
एवमेतन्महाभाग यथा वदसि धर्मवित् ।प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ।। ७.९७.२ ॥
प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ ।शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ।लोकापवादो बलवान्येन त्यक्ता हि मैथिली ।। ७.९७.३ ॥
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ।परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति ।। ७.९७.४ ॥
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ।शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ।। ७.९७.५ ॥
अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः ।सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः ।। ७.९७.६ ॥
पितामहं पुरस्कृत्य सर्व एव समागताः ।। ७.९७.७ ॥
आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः ।गन्धर्वाप्सरसश्चैव सर्व एव समागताः ।। ७.९७.८ ॥
साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः ।नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः ।सीताशपथसम्भ्रान्ताः सर्व एव समागताः ।। ७.९७.९ ॥
दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् ।प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ।। ७.९७.१० ॥
शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ।। ७.९७.११ ॥
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ।तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ।। ७.९७.१२ ॥
तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः ।मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ।। ७.९७.१३ ॥
सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी ।अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ।। ७.९७.१४ ॥
यथा ऽहं राघवादन्यं मनसापि न चिन्तये ।तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१५ ॥
मनसा कर्मणा वाचा यथा रामं समर्चये ।तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१६ ॥
यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च ।तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१७ ॥
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् ।भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ।। ७.९७.१८ ॥
ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः ।दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ।। ७.९७.१९ ॥
तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ।स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ।। ७.९७.२० ॥
तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् ।पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ।। ७.९७.२१ ॥
साधुकारश्च सुमहान्देवानां सहसोत्थितः ।साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ।। ७.९७.२२ ॥
एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः ।व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ।। ७.९७.२३ ॥
यज्ञवाटगताश्चापि मुनयः सर्व एव ते ।राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ।। ७.९७.२४ ॥
अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ।दानवाश्च महाकायाः पाताले पन्नगाधिपाः ।। ७.९७.२५ ॥
केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः ।केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ।। ७.९७.२६ ॥
सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः ।तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत् ।। ७.९७.२७ ।।
रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः ।चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ।। ७.९८.१ ॥
दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः ।अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ।। ७.९८.२ ॥
स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् ।क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ।। ७.९८.३ ॥
अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति ।पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ।। ७.९८.४ ॥
सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः ।ततश्चापि मयानीता किं पुनर्वसुधातलात् ।। ७.९८.५ ॥
वसुधे देवि भवति सीता निर्यात्यतां मम ।दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ।। ७.९८.६ ॥
कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली ।कर्षता हलहस्तेन जनकेनोद्धृता पुरा ।। ७.९८.७ ॥
तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे ।पाताले नाकपृष्ठे वा वसेयं सहितस्तया ।। ७.९८.८ ॥
आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते ।न मे दास्यसि चेत्सीतां यथारूपां महीतले ।। ७.९८.९ ॥
सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् ।नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ।। ७.९८.१० ॥
एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते ।ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ।। ७.९८.११ ॥
राम राम न सन्तापं कर्तुमर्हसि सुव्रत ।स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ।। ७.९८.१२ ॥
न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् ।इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ।। ७.९८.१३ ॥
सीता हि विमला साध्वी तव पूर्वपरायणा ।नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ।। ७.९८.१४ ॥
स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः ।अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ।। ७.९८.१५ ॥
एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ।सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ।। ७.९८.१६ ॥
जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् ।भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ।। ७.९८.१७ ॥
आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् ।नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ।। ७.९८.१८ ॥
श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह ।दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ।। ७.९८.१९ ॥
स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः ।शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ।। ७.९८.२० ॥
उत्तरं नाम काव्यस्य शेषमत्र महायशः ।तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ।। ७.९८.२१ ॥
न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् ।परमम् ऋषिणा वीर त्वयैव रघुनन्दन ।। ७.९८.२२ ॥
एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः ।जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ।। ७.९८.२३ ॥
ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः ।ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः ।उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ।। ७.९८.२४ ॥
ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् ।श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ।। ७.९८.२५ ॥
भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः ।भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ।। ७.९८.२६ ॥
एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ ।तं जनौघं विसृज्याथ पर्णशालामुपागमत् ।तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ।। ७.९८.२७ ।।
रजन्यां तु प्रभातायां समानीय महामुनीन् ।गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ।। ७.९९.१ ॥
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु ।भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ।। ७.९९.२ ॥
प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा ।तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ।। ७.९९.३ ॥
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् ।शोकेन परमायस्तो न शान्तिं मनसा ऽगमत् ।। ७.९९.४ ॥
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् ।जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ।। ७.९९.५ ॥
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः ।ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ।। ७.९९.६ ॥
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह ।इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ।। ७.९९.७ ॥
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः ।यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ।। ७.९९.८ ॥
दशवर्षसहस्राणि वाजिमेघानथाकरोत् ।वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ।। ७.९९.९ ॥
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ।ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ।। ७.९९.१० ॥
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः ।धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ।। ७.९९.११ ॥
अनुरञ्जन्ति राजानमहन्यहनि राघवम् ।ऋक्षवानररक्षांसि स्थिता रामस्य शासने ।। ७.९९.१२ ॥
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ।हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ।। ७.९९.१३ ॥
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा ।नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ।। ७.९९.१४ ॥
अथ दीर्घस्य कालस्य राममाता यशस्विनी ।पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ।। ७.९९.१५ ॥
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी ।धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ।। ७.९९.१६ ॥
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च ।समागता महाभागाः सर्वधर्मं च लेभिरे ।। ७.९९.१७ ॥
तासां रामो महादानं काले काले प्रयच्छति ।मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु ।। ७.९९.१८ ॥
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् ।चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन् ।। ७.९९.१९ ॥
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् ।यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा ।। ७.९९.२० ।।
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।स्वगुरुं प्रेषयामास राघवाय महात्मने ।गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ।। ७.१००.१ ॥
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ।। ७.१००.२ ॥
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् ।रामाय प्रददौ राजा शुभान्याभरणानि च ।। ७.१००.३ ॥
श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् ।मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ।। ७.१००.४ ॥
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः ।गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ।। ७.१००.५ ॥
तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च ।पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च ।उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ।। ७.१००.६ ॥
किमाह मातुलो वाक्यं यदर्थं भगवानिह ।प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ।। ७.१००.७ ॥
रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् ।वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ।। ७.१००.८ ॥
मातुलस्ते महाबाहो वाक्यमाह नरर्षभः ।युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ।। ७.१००.९ ॥
अयं गन्धर्वविषयः फलमूलोपशोभितः ।सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ।। ७.१००.१० ॥
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ।शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ।। ७.१००.११ ॥
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् ।निवेशय महाबोहो स्वे पुरे सुसमाहिते ।। ७.१००.१२ ॥
अन्यस्य न गतिस्तत्र देशः परमशोभनः ।रोचतां ते महाबाहो नाहं त्वामहितं वदे ।। ७.१००.१३ ॥
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।उवाच बाढमित्येव भरतं चान्ववैक्षत ।। ७.१००.१४ ॥
सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ।इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ।। ७.१००.१५ ॥
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ।। ७.१००.१६ ॥
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ।। ७.१००.१७ ॥
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च ।आगमिष्यति मे भूयः सकाशमतिधार्मिकः ।। ७.१००.१८ ॥
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ।। ७.१००.१९ ॥
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् ।भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ।। ७.१००.२० ॥
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ ।राघवानुगता दूरं दुराधर्षा सुरैरपि ।। ७.१००.२१ ॥
मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च ।अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ।। ७.१००.२२ ॥
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः ।गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ।। ७.१००.२३ ॥
सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् ।बहूनि वै सहस्राणि सेनाया ययुरग्रतः ।। ७.१००.२४ ॥
अध्यर्धमासमुषिता पथि सेना निरामया ।हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ।। ७.१००.२५ ।।
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ।युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ।। ७.१०१.१ ॥
स निर्ययौ जनौघेन महता केकयाधिपः ।त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ।। ७.१०१.२ ॥
भरतश्च युधाजिच्च समेतौ लघुविक्रमैः ।गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ।। ७.१०१.३ ॥
श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः ।योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ।। ७.१०१.४ ॥
ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ।। ७.१०१.५ ॥
खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः ।नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ।। ७.१०१.६ ॥
ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् ।संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ।। ७.१०१.७ ॥
ते बद्धाः कालपाशेन संवर्तेन विदारिताः ।क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ।। ७.१०१.८ ॥
तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः ।निमेषान्तरमात्रेण तादृशानां महात्मनाम् ।। ७.१०१.९ ॥
हतेषु तेषु सर्वेषु भरतः केकयीसुतः ।निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ।। ७.१०१.१० ॥
तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते ।गन्धर्वदेशे रुचिरे गान्धारविषये च सः ।। ७.१०१.११ ॥
धनरत्नौघसङ्कीर्णे काननैरुपशोभिते ।अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ।। ७.१०१.१२ ॥
उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः ।उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ।। ७.१०१.१३ ॥
उभे पुरवरे रम्ये विस्तरैरुपशोभिते ।गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ।। ७.१०१.१४ ॥
शोभिते शोभनीयैश्च देवायतनविस्तरैः ।तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ।। ७.१०१.१५ ॥
निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः ।पुनरायान्महाबाहुरयोध्यां केकयीसुतः ।। ७.१०१.१६ ॥
सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् ।राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ।। ७.१०१.१७ ॥
शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् ।निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ।। ७.१०१.१८ ।।
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ।। ७.१०२.१ ॥
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ।। ७.१०२.२ ॥
इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् ।रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ।। ७.१०२.३ ॥
न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।स देशो दृश्यतां सौम्य नापराध्यामहे यथा ।। ७.१०२.४ ॥
तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।अयं कारुपथो देशो रमणीयो निरामयः ।। ७.१०२.५ ॥
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ।। ७.१०२.६ ॥
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ।। ७.१०२.७ ॥
अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता ।रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ।। ७.१०२.८ ॥
चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता ।चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ।। ७.१०२.९ ॥
ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ।। ७.१०२.१० ॥
अभिषिच्य कुमारौ स प्रस्थापयति राघवः ।अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ।। ७.१०२.११ ॥
अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह ।चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ।। ७.१०२.१२ ॥
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ।। ७.१०२.१३ ॥
भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् ।अयोध्यां पुनरागम्य रामपादावुपास्त सः ।। ७.१०२.१४ ॥
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ।। ७.१०२.१५ ॥
एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ।। ७.१०२.१६ ॥
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ।त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ।। ७.१०२.१७ ।।
कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते ।कालस्तापसरूपेण राजद्वारमुपागमत् ।। ७.१०३.१ ॥
सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् ।मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात् ।। ७.१०३.२ ॥
दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः ।रामं दिदृक्षुरायातः कार्येण हि महाबल ।। ७.१०३.३ ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः ।न्यवेदयत रामाय तापसं तं समागतम् ।। ७.१०३.४ ॥
जयस्व राम धर्मेण उभौ लोकौ महाद्युते ।दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ।। ७.१०३.५ ॥
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ।। ७.१०३.६ ॥
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः ।। ७.१०३.७ ॥
सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा ।ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ।। ७.१०३.८ ॥
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ।। ७.१०३.९ ॥
पृष्टश्च कुशलं तेन रामेण वदतां वरः ।आसने काञ्चने दिव्ये निषसाद महायशाः ।। ७.१०३.१० ॥
तमुवाच ततो रामः स्वागतं ते महामुने ।प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः ।। ७.१०३.११ ॥
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ।। ७.१०३.१२ ॥
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ।। ७.१०३.१३ ॥
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ।। ७.१०३.१४ ॥
स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् ।ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ।। ७.१०३.१५ ॥
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् ।तमुवाच मुने वाक्यं कथयस्वेति राघवः ।। ७.१०३.१६ ॥
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः ।कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ।। ७.१०३.१७ ।।
शृणु राजन्महासत्व यदर्थमहमागतः ।पितामहेन देवेन प्रेषितो ऽस्मि महाबल ।। ७.१०४.१ ॥
तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय ।मायासम्भावितो वीर कालः सर्वसमाहरः ।। ७.१०४.२ ॥
पितामहश्च भगवानाह लोकपतिः प्रभुः ।समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ।। ७.१०४.३ ॥
सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि ।महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ।। ७.१०४.४ ॥
भोगवन्तं ततो नागमनन्तमुदकेशयम् ।मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ।। ७.१०४.५ ॥
मधुं च कैटभं चैव ययोरस्थिचयैर्वृता ।इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ।। ७.१०४.६ ॥
पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि ।प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ।। ७.१०४.७ ॥
सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् ।रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ।। ७.१०४.८ ॥
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् ।रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। ७.१०४.९ ॥
अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः ।समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ।। ७.१०४.१० ॥
स त्वं वित्रास्यमानासु प्रजासु जगतां वर ।रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ।। ७.१०४.११ ॥
दश वर्षसहस्राणि दश वर्षशतानि च ।कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ।। ७.१०४.१२ ॥
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ।कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ।। ७.१०४.१३ ॥
यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ।वस वा वीर भद्रं त एवमाह पितामहः ।। ७.१०४.१४ ॥
अथ वा विजिगीषा ते सुरलोकाय राघव ।सनाथा विष्णुना देवा भवन्तु विगतज्वराः ।। ७.१०४.१५ ॥
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् ।राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ।। ७.१०४.१६ ॥
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् ।प्रीतिर्हि महती जाता तवागमनसम्भवा ।। ७.१०४.१७ ॥
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ।भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ।। ७.१०४.१८ ॥
हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा ।मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् ।स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ।। ७.१०४.१९ ।।
तथा तयोः संवदतोर्दुर्वासा भगवानृषिः ।रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ।। ७.१०५.१ ॥
सो ऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः ।रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते ।। ७.१०५.२ ॥
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ।। ७.१०५.३ ॥
किं कार्यं ब्रूहि भगवन्को वा ऽर्थः किं करोम्यहम् ।व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ।। ७.१०५.४ ॥
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ।उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ।। ७.१०५.५ ॥
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय ।अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ।। ७.१०५.६ ॥
विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ।भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ।। ७.१०५.७ ॥
न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ।तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः ।चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ।। ७.१०५.८ ॥
एकस्य मरणं मे ऽस्तु मा भूत्सर्वविनाशनम् ।इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ।। ७.१०५.९ ॥
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ।निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ।। ७.१०५.१० ॥
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ।। ७.१०५.११ ॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् ।प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ।। ७.१०५.१२ ॥
अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम ।सो ऽहं भोजनमिच्छामि यथासिद्धं तवानघ ।। ७.१०५.१३ ॥
तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः ।भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ।। ७.१०५.१४ ॥
स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् ।साधु रामेति सम्भाष्य स्वमाश्रममुपागमत् ।। ७.१०५.१५ ॥
तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः ।संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ।। ७.१०५.१६ ॥
दुःखेन च सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम् ।अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह ।। ७.१०५.१७ ॥
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ।। ७.१०५.१८ ।।
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् ।राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ।। ७.१०६.१ ॥
न संतापं महाबाहो मदर्थं कर्तुमर्हसि ।पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ।। ७.१०६.२ ॥
जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय ।हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ।। ७.१०६.३ ॥
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि ।जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ।। ७.१०६.४ ॥
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः ।मन्त्रिणः समुपानीय तथैव च पुरोधसम् ।। ७.१०६.५ ॥
अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः ।दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ।। ७.१०६.६ ॥
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत ।वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ।। ७.१०६.७ ॥
दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् ।लक्ष्मणेन वियोगश्च तव राम महायशः ।। ७.१०६.८ ॥
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः ।विनष्टायां प्रतिज्ञायां धर्मो ऽपि च लयं व्रजेत् ।। ७.१०६.९ ॥
ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् ।सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ।। ७.१०६.१० ॥
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् ।लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ।। ७.१०६.११ ॥
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् ।श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ।। ७.१०६.१२ ॥
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः ।त्यागो वधो वा विहितः साधूनां तूभयं समम् ।। ७.१०६.१३ ॥
रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः ।लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ।। ७.१०६.१४ ॥
स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः ।निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ।। ७.१०६.१५ ॥
अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः ।देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ।। ७.१०६.१६ ॥
अदृश्यं सर्वमनुजैः सशरीरं महाबलम् ।प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ।। ७.१०६.१७ ॥
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः ।दृष्ट्वा प्रमुदिताः सर्वे ऽपूजयन् समहर्षयः ।। ७.१०६.१८ ।।
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः ।पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ।। ७.१०७.१ ॥
अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् ।अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ।। ७.१०७.२ ॥
प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः ।अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ।। ७.१०७.३ ॥
तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् ।मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ।। ७.१०७.४ ॥
भरतश्च विसञ्ज्ञो ऽभूच्छ्रुत्वा रामस्य भाषितम् ।राज्यं विगर्हयामास राघवं चेदमब्रवीत् ।। ७.१०७.५ ॥
सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि ।न कामये यथा राज्यं त्वां विना रघुनन्दन ।। ७.१०७.६ ॥
इमौ कुशलवौ राजन्नभिषिञ्च नराधिप ।कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ।। ७.१०७.७ ॥
शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः ।इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम् ।। ७.१०७.८ ॥
तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् ।पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत् ।। ७.१०७.९ ॥
वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः ।ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ।। ७.१०७.१० ॥
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् ।किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ।। ७.१०७.११ ॥
ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् ।गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ।। ७.१०७.१२ ॥
पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः ।सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ।। ७.१०७.१३ ॥
तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा ।वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ।। ७.१०७.१४ ॥
एषा नः परमा प्रीतिरेष नः परमो वरः ।हृद्गता नः सदा प्रीतिस्तवानुगमने नृप ।। ७.१०७.१५ ॥
पौराणां दृढभक्तिं च बाढमित्येव सो ऽब्रवीत् ।स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः ।। ७.१०७.१६ ॥
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ।अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ।। ७.१०७.१७ ॥
अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः ।परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् ।। ७.१०७.१८ ॥
रथानां तु सहस्राणि नागानामयुतानि च ।दशायुतानि चाश्वानामेकैकस्य धनं ददौ ।। ७.१०७.१९ ॥
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ ।स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ।। ७.१०७.२० ॥
अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा ।दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने ।। ७.१०७.२१ ।।
ते दूता रामवाक्येन चोदिता लघुविक्रमाः ।प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ।। ७.१०८.१ ॥
ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ ।शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ।। ७.१०८.२ ॥
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ।पुत्रयोरभिषेकं च पौरानुगमनं तथा ।। ७.१०८.३ ॥
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि ।कुशावतीति नाम्ना सा कृता रामेण धीमता ।श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ।। ७.१०८.४ ॥
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा ।स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ।। ७.१०८.५ ॥
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ।विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ।। ७.१०८.६ ॥
तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् ।प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ।। ७.१०८.७ ॥
तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः ।आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ।। ७.१०८.८ ॥
ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः ।सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ।। ७.१०८.९ ॥
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ।। ७.१०८.१० ॥
सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् ।ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः ।। ७.१०८.११ ॥
स ददर्श महात्मानं ज्वलन्तमिव पावकम् ।सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ।। ७.१०८.१२ ॥
सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ।उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ।। ७.१०८.१३ ॥
कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन ।तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.१४ ॥
न चान्यदपि वक्तव्यमतो वीर न शासनम् ।विलोक्यमानमिच्छामि मद्विधेन विशेषतः ।। ७.१०८.१५ ॥
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ।बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ।। ७.१०८.१६ ॥
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ।ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ।। ७.१०८.१७ ॥
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः ।तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ।। ७.१०८.१८ ॥
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।रामक्षयं विदित्वा ते सर्व एव समागताः ।। ७.१०८.१९ ॥
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः ।तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ।। ७.१०८.२० ॥
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम ।यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ।। ७.१०८.२१ ॥
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ।। ७.१०८.२२ ॥
एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः ।प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ।। ७.१०८.२३ ॥
अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर ।तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.२४ ॥
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ।वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ।। ७.१०८.२५ ॥
सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः ।गच्छेयं देवलोकं वा परमं वा पदं महत् ।। ७.१०८.२६ ॥
बिभीषणमथोवाच राक्षसेन्द्रं महायशाः ।यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण ।राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ।। ७.१०८.२७ ॥
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ।। ७.१०८.२८ ॥
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् ।प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ।। ७.१०८.२९ ॥
किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ।। ७.१०८.३० ॥
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् ।आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ।। ७.१०८.३१ ॥
तथेति प्रतिजग्राह रामवाक्यं विभीषणः ।राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ।। ७.१०८.३२ ॥
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ।जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ।। ७.१०८.३३ ॥
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर ।तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ।। ७.१०८.३४ ॥
एवमुक्तस्तु हनुमान्राघवेण महात्मना ।वाक्यं विज्ञापयामास परं हर्षमवाप्य च ।। ७.१०८.३५ ॥
यावत्तव कथा लोके विचरिष्यति पावनी ।तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ।। ७.१०८.३६ ॥
जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा ।मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।यावत्कलिश्च सम्प्राप्तस्तावज्जीवत सर्वदा ।। ७.१०८.३७ ॥
तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ।। ७.१०८.३८ ।।
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ।। ७.१०९.१ ॥
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः ।वाजपेयातपत्रं च शोभमानं महापथे ।। ७.१०९.२ ॥
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ।। ७.१०९.३ ॥
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् ।कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ।। ७.१०९.४ ॥
अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि ।निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ।। ७.१०९.५ ॥
रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता ।सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः ।। ७.१०९.६ ॥
शरा नानाविधाश्चापि धनुरायतमुत्तमम् ।तथा ऽ ऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ।। ७.१०९.७ ॥
वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी ।ओङ्कारो ऽथ वषट्कारः सर्वे राममनुव्रताः ।। ७.१०९.८ ॥
ऋषयश्च महात्मानः सर्व एव महीसुराः ।अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ।। ७.१०९.९ ॥
तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः ।सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ।। ७.१०९.१० ॥
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ।रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ।। ७.१०९.११ ॥
ते च सर्वे महात्मानः साग्निहोत्राः समागताः ।सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ।। ७.१०९.१२ ॥
मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः ।सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ।। ७.१०९.१३ ॥
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः ।। ७.१०९.१४ ॥
ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः ।राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ।। ७.१०९.१५ ॥
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ।दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ।। ७.१०९.१६ ॥
न तत्र कश्चिद्दीनो वा व्रीडितो वा ऽपि दुःखितः ।हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् ।। ७.१०९.१७ ॥
द्रष्टुकामो ऽथ निर्यान्तं रामं जानपदो जनः ।यः प्राप्तः सो ऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा ।। ७.१०९.१८ ॥
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ।। ७.१०९.१९ ॥
यानि भूतानि नगरे ऽप्यन्तर्धानगतानि च ।राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ।। ७.१०९.२० ॥
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ।सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ।। ७.१०९.२१ ॥
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते ।तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ।। ७.१०९.२२ ॥
अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् ।सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ।। ७.११०.१ ॥
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः ।आगतः सप्रजो रामस्तं देशं रघुनन्दनः ।। ७.११०.२ ॥
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ।सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ।। ७.११०.३ ॥
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ।विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ।। ७.११०.४ ॥
दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् ।स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ।। ७.११०.५ ॥
पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः ।पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ।। ७.११०.६ ॥
तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले ।सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ।। ७.११०.७ ॥
ततः पितामहो वाणीमन्तरिक्षादभाषत ।आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव ।। ७.११०.८ ॥
भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् ।यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् ।वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ।। ७.११०.९ ॥
त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ।त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ।। ७.११०.१० ॥
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ।। ७.११०.११ ।।
ां विशालाक्षीं तव पूर्वपरिग्रहाम् ।पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।विवेश वैष्णवं तेजः सशरीरः सहानुजः ।। ७.११०.१२ ॥
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः ।साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ।। ७.११०.१३ ॥
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः ।सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ।। ७.११०.१४ ॥
सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् ।साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ।। ७.११०.१५ ॥
अथ विष्णुर्महातेजाः पितामहमुवाच ह ।एषां लोकं जनौघानां दातुमर्हसि सुव्रत ।। ७.११०.१६ ॥
इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः ।भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ।। ७.११०.१७ ॥
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ।लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ।। ७.११०.१८ ॥
यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् ।प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ।। ७.११०.१९ ॥
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ।। ७.११०.२० ॥
वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ।। ७.११०.२१ ॥
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् ।पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे ।। ७.११०.२२ ॥
तथोक्तवति देवेशे गोप्रतारमुपागताः ।भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ।। ७.११०.२३ ॥
अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् ।मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ।। ७.११०.२४ ॥
तिर्यग्योनिगतानां च शतानि सरयूजलम् ।सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च ।दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ।। ७.११०.२५ ॥
गत्वा तु सरयूतोयं स्थावराणि चराणि च ।प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ।। ७.११०.२६ ॥
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः ।ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ।। ७.११०.२७ ॥
ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि ।जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ।। ७.११०.२८ ।।
एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् ।रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ।। ७.१११.१ ॥
ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् ।येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ।। ७.१११.२ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ।। ७.१११.३ ॥
इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् ।रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ।। ७.१११.४ ॥
अपुत्रो लभते पुत्रमधनो लभते धनम् ।सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। ७.१११.५ ॥
पापान्यपि च यः कुर्यादहन्यहनि मानवः ।पठत्येकमपि श्लोकं पापात्स परिमुच्यते ।। ७.१११.६ ॥
वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् ।वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ।। ७.१११.७ ॥
एतदाख्यानमायुष्यं पठन्रामायणं नरः ।सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते ।। ७.१११.८ ॥
अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् ।ऋषभं प्राप्य राजानं निवासमुपयास्यति ।। ७.१११.९ ॥
एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् ।कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ।। ७.१११.१० ॥
अश्वमेधसहस्रस्य वाजपेयायुतस्य च ।लभते श्रावणादेव सर्गस्यैकस्य मानवः ।। ७.१११.११ ॥
प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि ।गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् ।। ७.१११.१२ ॥
हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति ।यश्च रामायणं लोके शृणोति सदृशावुभौ ।। ७.१११.१३ ॥
सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् ।सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ।। ७.१११.१४ ॥
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ।। ७.१११.१५ ॥
पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा ।सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ।। ७.१११.१६ ॥
गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ।। ७.१११.१७ ॥
अपुत्रो लभते पुत्रमधनो लभते धनम् ।सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। ७.१११.१८ ॥
यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह ।भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ।। ७.१११.१९ ॥
चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति ।श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ।। ७.१११.२० ॥
यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् ।सो ऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ।। ७.१११.२१ ॥
पिता पितामहस्तस्य तथैव प्रपितामहः ।तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ।। ७.१११.२२ ॥
चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु ।तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ।। ७.१११.२३ ॥
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा ।स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ।। ७.१११.२४ ॥
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ।। ७.१११.२५ ।।

About this parayana — Rama

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

ram-navamidaily-pujavaishnavasanskritparayanadevotionalramayanavalmikiscriptureepicitihasa