← ← शब्दावर परत
stotramlakshmi
मराठीदेवनागरी script
Kanakadhara Stotram
Kanakadhārā Stotram
Viewing in मराठी · देवनागरी script
अङ्गं हरेः पुलकभूषणमाश्रयन्तीभृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।अङ्गीकृताखिलविभूतिरपाङ्गलीलामाङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥१॥ मुग्धा मुहुर्विदधती वदने मुरारेःप्रेमत्रपाप्रणिहितानि गतागतानि ।माला दृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागरसम्भवायाः ॥२॥ विश्वामरेन्द्रपदविभ्रमदानदक्षम्_आनन्दहेतुरधिकं मुरविद्विषोऽपि ।ईषन्निषीदतु मयि क्षणमीक्षणार्धम्_इन्दीवरोदरसहोदरमिन्दिरायाः ॥३॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दम्_आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।आकेकरस्थितकनीनिकपक्ष्मनेत्रंभूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥४॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे याहारावलीव हरिनीलमयी विभाति ।कामप्रदा भगवतोऽपि कटाक्षमालाकल्याणमावहतु मे कमलालयायाः ॥५॥ कालाम्बुदालिललितोरसि कैटभारेर्_धाराधरे स्फुरति या तडिदङ्गनेव ।मातुः समस्तजगतां महनीयमूर्तिर्_भद्राणि मे दिशतु भार्गवनन्दनायाः ॥६॥ प्राप्तं पदं प्रथमतः किल यत्प्रभावान्माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।मय्यापतेत्तदिह मन्थरमीक्षणार्धंमन्दालसं च मकरालयकन्यकायाः ॥७॥ दद्याद् दयानुपवनो द्रविणाम्बुधाराम्_अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।दुष्कर्मघर्ममपनीय चिराय दूरंनारायणप्रणयिनीनयनाम्बुवाहः ॥८॥ इष्टा विशिष्टमतयोऽपि यया दयार्द्र_दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टांपुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥९॥ गीर्देवतेति गरुडध्वजसुन्दरीतिशाकम्भरीति शशिशेखरवल्लभेति ।सृष्टिस्थितिप्रलयकेलिषु संस्थितायैतस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥१०॥ श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यैरत्यै नमोऽस्तु रमणीयगुणार्णवायै ।शक्त्यै नमोऽस्तु शतपत्रनिकेतनायैपुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥११॥ नमोऽस्तु नालीकनिभाननायैनमोऽस्तु दुग्धोदधिजन्मभूत्यै ।नमोऽस्तु सोमामृतसोदरायैनमोऽस्तु नारायणवल्लभायै ॥१२॥ सम्पत्कराणि सकलेन्द्रियनन्दनानिसाम्राज्यदानविभवानि सरोरुहाक्षि ।त्वद्वन्दनानि दुरिताहरणोद्यतानिमामेव मातरनिशं कलयन्तु मान्ये ॥१३॥ यत्कटाक्षसमुपासनाविधिःसेवकस्य सकलार्थसम्पदः ।संतनोति वचनाङ्गमानसैस्_त्वां मुरारिहृदयेश्वरीं भजे ॥१४॥ सरसिजनिलये सरोजहस्तेधवलतमांशुकगन्धमाल्यशोभे ।भगवति हरिवल्लभे मनोज्ञेत्रिभुवनभूतिकरि प्रसीद मह्यम् ॥१५॥ दिग्घस्तिभिः कनककुम्भमुखावसृष्ट_स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।प्रातर्नमामि जगतां जननीमशेष_लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥१६॥ कमले कमलाक्षवल्लभेत्वं करुणापूरतरङ्गितैरपाङ्गैः ।अवलोकय मामकिञ्चनानांप्रथमं पात्रमकृत्रिमं दयायाः ॥१७॥ स्तुवन्ति ये स्तुतिभिरमूभिरन्वहंत्रयीमयीं त्रिभुवनमातरं रमाम् ।गुणाधिका गुरुतरभाग्यभागिनोभवन्ति ते भुवि बुधभाविताशयाः ॥१८॥
fridayakshaya-tritiyasmartavaishnavasanskritwealthclassical