ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← शब्दावर परत
मराठी interface

महाभारत — स्त्री पर्व

Mahabharata — Stri Parva

Mahabharata — Stri Parva

Text in देवनागरी script

Devotional text

[ज]
हते दुर्यॊधने चैव हते सैन्ये च सर्वशः
धृतराष्ट्रॊ महाराजः शरुत्वा किम अकरॊन मुने
तथैव कौरवॊ राजा धर्मपुत्रॊ महामनाः
कृपप्रभृतयश चैव किम अकुर्वत ते तरयः
अश्वत्थाम्नः शरुतं कर्म शापश चान्यॊन्य कारितः
वृत्तान्तम उत्तरं बरूहि यद अभाषत संजयः
[व]
हते पुत्रशते दीनं छिन्नशाखम इव दरुमम
पुत्रशॊकाभिसंतप्तं धृतराष्ट्रं महीपतिम
धयानमूकत्वम आपन्नं चिन्तया समभिप्लुतम
अभिगम्य महाप्राज्ञः संजयॊ वाक्यम अब्रवीत
किं शॊचसि महाराज नास्ति शॊके सहायता
अक्षौहिण्यॊ हताश चाष्टौ दश चैव विशां पते
निर्जनेयं वसुमती शून्या संप्रति केवला
नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः
सहितास तव पुत्रेण सर्वे वै निधनं गताः
पितॄणां पुत्रपौत्राणां जञातीनां सुहृदां तथा
गुरूणां चानुपूर्व्येण परेतकार्याणि कारय
[व]
तच छरुत्वा करुणं वाक्यं पुत्रपौत्र वधार्दितः
पपात भुवि दुर्धर्षॊ वाताहत इव दरुमः
[धृ]
हतपुत्रॊ हतामात्यॊ हतसर्वसुहृज जनः
दुःखं नूनं भविष्यामि विचरन पृथिवीम इमाम
किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै
लूनपक्षस्य इव मे जरा जीर्णस्य पक्षिणः
हृतराज्यॊ हतसुहृद धतचक्षुश च वै तथा
न भराजिष्ये महाप्राज्ञ कषीणरश्मिर इवांशुमान
न कृतं सुहृदॊ वाक्यं जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च
सभामध्ये तु कृष्णेन यच छरेयॊ ऽभिहितं मम
अलं वैरेण ते राजन पुत्रः संगृह्यताम इति
तच च वाक्यम अकृत्वाहं भृशं तप्यामि दुर्मतिः
न हि शरॊतास्मि भीष्मस्य धर्मयुक्तं परभाषितम
दुर्यॊधनस्य च तथा वृषभस्येव नर्दतः
दुःशासन वधं शरुत्वा कर्णस्य च विपर्ययम
दरॊण सूर्यॊपरागं च हृदयं मे विदीर्यते
न समराम्य आत्मनः किं चित पुरा संजय दुष्कृतम
यस्येदं फलम अद्येह मया मूढेन भुज्यते
नूनं हय अपकृतं किं चिन मया पूर्वेषु जन्मसु
येन मां दुःखभागेषु धाता कर्मसु युक्तवान
परिणामश च वयसः सर्वबन्धुक्षयश च मे
सुहृन मित्र विनाशश च दैवयॊगाद उपागतः
कॊ ऽनयॊ ऽसति दुःखिततरॊ मया लॊके पुमान इह
तन माम अद्यैव पश्यन्तु पाण्डवाः संशितव्रतम
विवृतं बरह्मलॊकस्य दीर्घम अध्वानम आस्थितम
[व]
तस्य लालप्यमानस्य बहु शॊकं विचिन्वतः
शॊकापहं नरेन्द्रस्य संजयॊ वाक्यम अब्रवीत
शॊकं राजन वयपनुद शरुतास ते वेद निश्चयाः
शास्त्रागमाश च विविधा वृद्धेभ्यॊ नृपसत्तम
सृञ्जये पुत्रशॊकार्ते यद ऊचुर मुनयः पुरा
तथा यौवनजं दर्पम आस्थिते ते सुते नृप
न तवया सुहृदां वाक्यं बरुवताम अवधारितम
सवार्थश च न कृतः कश चिल लुब्धेन फलगृद्धिना
तव दुःशासनॊ मन्त्री राधेयश च दुरात्मवान
शकुनिश चैव दुष्टात्मा चित्रसेनश च दुर्मतिः
शल्यश च येन वै सर्वं शल्य भूतं कृतं जगत
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च
न कृतं वचनं तेन तव पुत्रेण भारत
न धर्मः सत्कृतः कश चिन नित्यं युद्धम इति बरुवन
कषपिताः कषत्रियाः सर्वे शत्रूणां वर्धितं यशः
मध्यस्थॊ हि तवम अप्य आसीर न कषमं किं चिद उक्तवान
धूर धरेण तवया भारस तुलया न समं धृतः
आदाव एव मनुष्येण वर्तितव्यं यथा कषमम
यथा नातीतम अर्थं वै पश्चात तापेन युज्यते
पुत्रगृद्ध्या तवया राजन परियं तस्य चिकीर्षता
पश्चात तापम इदं पराप्तं न तवं शॊचितुम अर्हसि
मधु यः केवलं दृष्ट्वा परपातं नानुपश्यति
स भरष्टॊ मधु लॊभेन शॊचत्य एव यथा भवान
अर्थान न शॊचन पराप्नॊति न शॊचन विन्दते सुखम
न शॊचञ शरियम आप्नॊति न शॊचन विन्दते परम
सवयम उत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत
दह्यमानॊ मनस्तापं भजते न स पण्डितः
तवयैव स सुतेनायं वाक्यवायुसमीरितः
लॊभाज्येन च संसिक्तॊ जवलितः पार्थ पावकः
तस्मिन समिद्धे पतिताः शलभा इव ते सुताः
तान केशवार्चिर निर्दग्धान न तवं शॊचितुम अर्हसि
यच चाश्रुपात कलिलं वदनं वहसे नृप
अशास्त्रदृष्टम एतद धि न परशंसन्ति पण्डिताः
विस्फुलिङ्गा इव हय एतान दहन्ति किल मानवान
जहीहि मन्युं बुद्ध्या वै धारयात्मानम आत्मना
एवम आश्वासितस तेन संजयेन महात्मना
विदुरॊ भूय एवाह बुद्धिपूर्वं परंतप
[व]
ततॊ ऽमृतसमैर वाक्यैर हलादयन पुरुषर्षभम
वैचित्र वीर्यं विदुरॊ यद उवाच निबॊध तत
[विदुर]
उत्तिष्ठ राजन किं शेषे धारयात्मानम आत्मना
सथिरजङ्गम मर्त्यानां सर्वेषाम एष निर्णयः
सर्वे कषयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयॊगा विप्रयॊगान्ता मरणान्तं हि जीवितम
यदा शूरं च भीरुं च यमः कर्षति भारत
तत किं न यॊत्स्यन्ति हि ते कषत्रियाः कषत्रियर्षभ
अयुध्यमानॊ मरियते युध्यमानश च जीवति
कालं पराप्य महाराज न कश चिद अतिवर्तते
न चाप्य एतान हतान युद्धे राजञ शॊचितुम अर्हसि
परमाणं यदि शास्त्राणि गतास ते परमां गतिम
सर्वे सवाध्यायवन्तॊ हि सर्वे च चरितव्रताः
सर्वे चाभिमुखाः कषीणास तत्र का परिदेवना
अदर्शनाद आपतिताः पुनश चादर्शनं गताः
न ते तव न तेषां तवं तत्र का परिदेवना
हतॊ ऽपि लभते सवर्गं हत्वा च लभते यशः
उभयं नॊ बहुगुणं नास्ति निष्फलता रणे
तेषां कामदुघाँल लॊकान इन्द्रः संकल्पयिष्यति
इन्द्रस्यातिथयॊ हय एते भवन्ति पुरुषर्षभ
न यज्ञैर दक्षिणावद्भिर न तपॊभिर न विद्यया
सवर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः
माता पितृसहस्राणि पुत्रदारशतानि च
संसारेष्व अनुभूतानि कस्य ते कस्य वा वयम
शॊकस्थान सहस्राणि भयस्थान शतानि च
दिवसे दिवसे मूढम आविशन्ति न पण्डितम
न कालस्य परियः कश चिन न दवेष्यः कुरुसत्तम
न मध्यस्थः कव चित कालः सर्वं कालः परकर्षति
अनित्यं जीवितं रूपं यौवनं दरव्यसंचयः
आरॊग्यं परिय संवासॊ गृध्येद एषु न पण्डितः
न जानपदिकं दुःखम एकः शॊचितुम अर्हसि
अप्य अभावेन युज्येत तच चास्य न निवर्तते
अशॊचन परतिकुर्वीत यदि पश्येत पराक्रमम
भैषज्यम एतद दुःखस्य यद एतन नानुचिन्तयेत
चिन्त्यमानं हि न वयेति भूयश चापि विवर्धते
अनिष्ट संप्रयॊगाच च विप्रयॊगात परियस्य च
मनुष्या मानसैर दुःखैर युज्यन्ते ये ऽलपबुद्धयः
नार्थॊ न धर्मॊ न सुखं यद एतद अनुशॊचसि
न च नापैति कार्यार्थात तरिवर्गाच चैव भरश्यते
अन्याम अन्यां धनावस्थां पराप्य वैशेषिकीं नराः
असंतुष्टाः परमुह्यन्ति संतॊषं यान्ति पण्डिताः
परज्ञया मानसं दुःखं हन्याच छारीरम औषधैः
एतज जञानस्य सामर्थ्यं न बालैः समताम इयात
शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति
अनुधावति धावन्तं कर्म पूर्वकृतं नरम
यस्यां यस्याम अवस्थायां यत करॊति शुभाशुभम
तस्यां तस्याम अवस्थायां तत तत फलम उपाश्नुते
[धृ]
सुभाषितैर महाप्राज्ञ शॊकॊ ऽयं विगतॊ मम
भुय एव तु वाक्यानि शरॊतुम इच्छामि तत्त्वतः
अनिष्टानां च संसर्गाद इष्टानां च विवर्जनात
कथं हि मानसैर दुःखैः परमुच्यन्ते ऽतर पण्डिताः
[विदुर]
यतॊ यतॊ मनॊदुःखात सुखाद वापि परमुच्यते
ततस ततः शमं लब्ध्वा सुगतिं विन्दते बुधः
अशाश्वतम इदं सर्वं चिन्त्यमानं नरर्षभ
कदली संनिभॊ लॊकः सारॊ हय अस्य न विद्यते
गृहाण्य एव हि मर्त्यानाम आहुर देहानि पण्डिताः
कालेन विनियुज्यन्ते सत्त्वम एकं तु शॊभनम
यथा जीर्णम अजीर्णं वा वस्त्रं तयक्त्वा तु वै नरः
अन्यद रॊचयते वस्त्रम एवं देहाः शरीरिणाम
वैचित्र वीर्यवासं हि दुःखं वायदि वा सुखम
पराप्नुवन्तीह भूतानि सवकृतेनैव कर्मणा
कर्मणा पराप्यते सवर्गं सुखं दुःखं च भारत
ततॊ वहति तं भारम अवशः सववशॊ ऽपि वा
यथा च मृन मयं भाण्डं चक्रारूढं विपद्यते
किं चित परकिर्यमाणं वा कृतमात्रम अथापि वा
छिन्नं वाप्य अवरॊप्यन्तम अवतीर्णम अथापि वा
आर्द्रं वाप्य अथ वा शुष्कं पच्यमानम अथापि वा
अवतार्यमाणम आपाकाद उद्धृतं वापि भारत
अथ वा परिभुज्यन्तम एवं देहाः शरीरिणाम
गर्भस्थॊ वा परसूतॊ वाप्य अथ वा दिवसान्तरः
अर्धमास गतॊ वापि मासमात्रगतॊ ऽपि वा
संवत्सरगतॊ वापि दविसंवत्सर एव वा
यौवनस्थॊ ऽपि मध्यस्थॊ वृद्धॊ वापि विपद्यते
पराक कर्मभिस तु भूतानि भवन्ति न भवन्ति च
एवं सांसिद्धिके लॊके किमर्थम अनुतप्यसे
यथा च सलिले राजन करीडार्थम अनुसंचरन
उन्मज्जेच च निमज्जेच च किं चित सत्त्वं नराधिप
एवं संसारगहनाद उन्मज्जन निमज्जनात
कर्म भॊगेन बध्यन्तः कलिश्यन्ते ये ऽलपबुद्धयः
ये तु पराज्ञाः सथिताः सत्ये संसारान्त गवेषिणः
समागमज्ञा भूतानां ते यान्ति परमां गतिम
[धृ]
कथं संसारगहनं विज्ञेयं वदतां वर
एतद इच्छाम्य अहं शरॊतुं तत्त्वम आख्याहि पृच्छतः
[विदुर]
जन्मप्रभृति भूतानां करियाः सर्वाः शृणु परभॊ
पूर्वम एवेह कलले वसते किं चिद अन्तरम
ततः स पञ्चमे ऽतीते मासे मासं परकल्पयेत
ततः सर्वाङ्गसंपूर्णॊ गर्भॊ मासे परजायते
अमेध्यमध्ये वसति मांसशॊणितलेपने
ततस तु वायुवेगेन ऊर्ध्वपादॊ हय अधःशिराः
यॊनिद्वारम उपागम्य बहून कलेशान समृच्छति
यॊनिसंपीडनाच चैव पूर्वकर्मभिर अन्वितः
तस्मान मुक्तः स संसाराद अन्यान पश्यत्य उपद्रवान
गरहास तम उपसर्पन्ति सारमेया इवामिषम
ततः पराप्तॊत्तरे काले वयाधयश चापि तं तथा
उपसर्पन्ति जीवन्तं बध्यमानं सवकर्मभिः
बद्धम इन्द्रियपाशैस तं सङ्गस्वादुभिर आतुरम
वयसनान्य उपवर्तन्ते विविधानि नराधिप
बध्यमानश च तैर भूयॊ नैव तृप्तिम उपैति सः
अयं न बुध्यते तावद यम लॊकम अथागतम
यमदूतैर विकृष्यंश च मृत्युं कालेन गच्छति
वाग घीनस्य च यन मात्रम इष्टानिष्टं कृतं मुखे
भूय एवात्मनात्मानं बध्यमानम उपेक्षते
अहॊ विनिकृतॊ लॊकॊ लॊभेन च वशीकृतः
लॊभक्रॊधमदॊन्मत्तॊ नात्मानम अवबुध्यते
कुलीनत्वेन रमते दुष्कुलीनान विकुत्सयन
धनदर्पेण दृप्तश च दरिद्रान परिकुत्सयन
मूर्खान इति परान आह नात्मानं समवेक्षते
शिक्षां कषिपति चान्येषां नात्मानं शास्तुम इच्छति
अध्रुवे जीवलॊके ऽसमिन यॊ धर्मम अनुपालयन
जन्मप्रभृति वर्तेत पराप्नुयात परमां गतिम
एवं सर्वं विदित्वा वै यस तत्त्वम अनुवर्तते
स परमॊक्षाय लभते पन्थानं मनुजाधिप
[धृ]
यद इदं धर्मगहनं बुद्ध्या समनुगम्यते
एतद विस्तरशः सर्वं बुद्धिमार्गं परशंस मे
[विदुर]
अत्र ते वर्तयिष्यामि नम ः कृत्वा सवयं भुवे
यथा संसारगहनं वदन्ति परमर्षयः
कश चिन महति संसारे वर्तमानॊ दविजः किल
वनं दुर्गम अनुप्राप्तॊ महत करव्यादसंकुलम
सिंहव्याघ्र गजाकारैर अतिघॊरैर महाशनैः
समन्तात संपरिक्षिप्तं मृत्यॊर अपि भयप्रदम
तद अस्य दृष्ट्वा हृदयम उद्वेगम अगमत परम
अभ्युच्छ्रयश च रॊम्णां वै विक्रियाश च परंतप
स तद वनं वयनुसरन विप्रधावन इतस ततः
वीक्षमाणॊ दिशः सर्वाः शरणं कव भवेद इति
स तेषां छिद्रम अन्विच्छन परद्रुतॊ भयपीडितः
न च निर्याति वै दूरं न च तैर विप्रयुज्यते
अथापश्यद वनं घॊरं समन्ताद वागुरावृतम
बाहुभ्यां संपरिष्वक्तं सत्रिया परमघॊरया
पञ्चशीर्ष धरैर नागैः शैलैर इव समुन्नतैः
नभःस्पृशैर महावृक्षैः परिक्षिप्तं महावनम
वनमध्ये च तत्राभूद उदपानः समावृतः
वल्लीभिस तृणछन्नाभिर गूढाभिर अभिसंवृतः
पपात स दविजस तत्र निगूढे सलिलाशये
विलग्नश चाभवत तस्मिँल लता संतानसंकटे
पनसस्य यथा जातं वृन्त बद्धं महाफलम
स तथा लम्बते तत्र ऊर्ध्वपादॊ हय अधःशिराः
अथ तत्रापि चान्यॊ ऽसय भूयॊ जात उपद्रवः
कूपवीनाह वेलायाम अपश्यत महागजम
षड वक्त्रं कृष्ण शबलं दविषट्क पदचारिणम
करमेण परिसर्पन्तं वल्ली वृक्षसमावृतम
तस्य चापि परशाखासु वृक्षशाखावलम्बिनः
नानारूपा मधुकरा घॊररूपा भयावहाः
आसते मधु संभृत्य पूर्वम एव निकेतजाः
भूयॊ भूयः समीहन्ते मधूनि भरतर्षभ
सवादनीयानि भूतानां न यैर बालॊ ऽपि तृप्यते
तेषां मधूनां बहुधा धारा परस्रवते सदा
तां लम्बमानः स पुमान धारां पिबति सर्वदा
न चास्य तृष्णा विरता पिबमानस्य संकटे
अभीप्सति च तां नित्यम अतृप्तः स पुनः पुनः
न चास्य जीविते राजन निर्वेदः समजायत
तत्रैव च मनुष्यस्य जीविताशा परतिष्ठिता
कृष्णाः शवेताश च तं वृक्षं कुट्टयन्ति सम मूषकाः
वयालैश च वनदुर्गान्ते सत्रिया च परमॊग्रया
कूपाधस्ताच च नागेन वीनाहे कुञ्जरेण च
वृक्षप्रपाताच च भयं मूषकेभ्यश च पञ्चमम
मधु लॊभान मधुकरैः षष्ठम आहुर महद भयम
एवं स वसते तत्र कषिप्तः संसारसागरे
न चैव जीविताशायां निर्वेदम उपगच्छति
[धृ]
अहॊ खलु महद दुःखं कृच्छ्रवासं वसत्य असौ
कथं तस्य रतिस तत्र तुष्टिर वा वदतां वर
स देशः कव नु यत्रासौ वसते धर्मसंकटे
कथं वा स विमुच्येत नरस तस्मान महाभयात
एतन मे सर्वम आचक्ष्व साधु चेष्टामहे तथा
कृपा मे महती जाता तस्याभ्युद्धरणेन हि
[विदुर]
उपमानम इदं राजन मॊक्षविद्भिर उदाहृतम
सुगतिं विन्दते येन परलॊकेषु मानवः
यत तद उच्यति कान्तारं महत संसार एव सः
वनं दुर्गं हि यत तव एतत संसारगहनं हि तत
ये च ते कथिता वयाला वयाधयस ते परकीर्तिताः
या सा नारी बृहत काया अधितिष्ठति तत्र वै
ताम आहुस तु जरां पराज्ञा वर्णरूपविनाशिनीम
यस तत्र कूपॊ नृपते स तु देहः शरीरिणाम
यस तत्र वसते ऽधस्तान महाहिः काल एव सः
अन्तकः सर्वभूतानां देहिनां सर्वहार्य असौ
कूपमध्ये च या जाता वल्ली यत्र स मानवः
परताने लम्बते सा तु जीविताशा शरीरिणाम
स यस तु कूपवीनाहे तं वृक्षं परिसर्पति
षड वक्त्रः कुञ्जरॊ राजन स तु संवत्सरः समृतः
मुखानि ऋतवॊ मासाः पादा दवादश कीर्तिताः
ये तु वृक्षं निकृन्तन्ति मूषकाः सततॊत्थिताः
रात्र्यहानि तु तान्य आहुर भूतानां परिचिन्तकाः
ये ते मधुकरास तत्र कामास ते परिकीर्तिताः
यास तु ता बहुशॊ धाराः सरवन्ति मधु निस्रवम
तांस तु कामरसान विद्याद यत्र मज्जन्ति मानवाः
एवं संसारचक्रस्य परिवृत्तिं सम ये विदुः
ते वै संसारचक्रस्य पाशांश छिन्दन्ति वै बुधाः
[धृ]
अहॊ ऽभिहितम आख्यानं भवता तत्त्वदर्शिना
भूय एव तु मे हर्षः शरॊतुं वाग अमृतं तव
[विदुर]
शृणु भूयः परवक्ष्यामि मार्गस्यैतस्य विस्तरम
यच छरुत्वा विप्रमुच्यन्ते संसारेभ्यॊ विचक्षणाः
यथा तु पुरुषॊ राजन दीर्घम अध्वानम आस्थितः
कव चित कव चिच छरमात सथाता कुरुते वासम एव वा
एवं संसारपर्याये गर्भवासेषु भारत
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः
तस्माद अध्वानम एवैतम आहुः शास्त्रविदॊ जनाः
यत तु संसारगहनं वनम आहुर मनीषिणः
सॊ ऽयं लॊकसमावर्तॊ मर्त्यानां भरतर्षभ
चराणां सथावराणां च गृध्येत तत्र न पण्डितः
शारीरा मानसाश चैव मर्त्यानां ये तु वयाधयः
परत्यक्षाश च परॊक्षाश च ते वयालाः कथिता बुधैः
कलिश्यमानाश च तैर नित्यं हन्यमानाश च भारत
सवकर्मभिर महाव्यालैर नॊद्विजन्त्य अल्पबुद्धयः
अथापि तैर विमुच्येत वयाधिभिः पुरुषॊ नृप
आवृणॊत्य एव तं पश्चाज जरा रूपविनाशिनी
शब्दरूपरसस्पर्शैर गन्धैर्श च विविधैर अपि
मज्जमानं महापङ्के निरालम्बे समन्ततः
संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रसंधयः
करमेणास्य परलुम्पन्ति रूपम आयुस तथैव च
एते कालस्य निधयॊ नैताज जानन्ति दुर्बुधाः
अत्राभिलिखितान्य आहुः सर्वभूतानि कर्मणा
रथं शरीरं भूतानां सत्त्वम आहुस तु सारथिम
इन्द्रियाणि हयान आहुः कर्म बुद्धिश च रश्मयः
तेषां हयानां यॊ वेगं धावताम अनुधावति
स तु संसारचक्रे ऽसमिंश चक्रवत परिवर्तते
यस तान यमयते बुद्ध्या स यन्ता न निवर्तते
याम्यम आहू रथं हय एनं मुह्यन्ते येन दुर्बुधाः
स चैतत पराप्नुते राजन यत तवं पराप्तॊ नराधिप
राज्यनाशं सुहृन नाशं सुत नाशं च भारत
अनुतर्षुलम एवैतद दुःखं भवति भारत
साधुः परमदुःखानां दुःखभैषज्यम आचरेत
न विक्रमॊ न चाप्य अर्थॊ न मित्रं न सुहृज्जनः
तथॊन्मॊचयते दुःखाद यथात्मा सथिरसंयमः
तस्मान मैत्रं समास्थाय शीलम आपद्य भारत
दमस तयागॊ ऽपरमादश च ते तरयॊ बरह्मणॊ हयाः
शीलरश्मि समायुक्ते सथितॊ यॊ मानसे रथे
तयक्त्वा मृत्युभयं राजन बरह्मलॊकं स गच्छति
[व]
विदुरस्य तु तद वाक्यं निशम्य कुरुसत्तमः
पुत्रशॊकाभिसंतप्तः पपात भुवि मूर्छितः
तं तथा पतितं भूमौ निःसंज्ञं परेक्ष्य बान्धवाः
कृष्णद्वैपायनश चैव कषत्ता च विदुरस तथा
संजयः सुहृदश चान्ये दवाःस्था ये चास्य संमताः
जलेन सुखशीतेन तालवृन्तैश च भारत
पस्पृशुश च करैर गात्रं वीजमानाश च यत्नतः
अन्वासन सुचिरं कालं धृतराष्ट्रं तथागतम
अथ दीर्घस्य कालस्य लब्धसंज्ञॊ महीपतिः
विललाप चिरं कालं पुत्राधि भिर अभिप्लुतः
धिग अस्तु खलु मानुष्यं मानुष्ये च परिग्रहम
यतॊमूलानि दुःखानि संभवन्ति मुहुर मुहुः
पुत्र नाशे ऽरथनाशे च जञातिसंबन्धिनाम अपि
पराप्यते सुमहद दुःखं विषाग्निप्रतिमं विभॊ
येन दह्यन्ति गात्राणि येन परज्ञा विनश्यति
येनाभिभूतः पुरुषॊ मरणं बहु मन्यते
तद इदं वयसनं पराप्तं मया भाग्यविवर्ययात
तच चैवाहं करिष्यामि अद्यैव दविजसत्तम
इत्य उक्त्वा तु महात्मानं पितरं बरह्मवित्तमम
धृतराष्ट्रॊ ऽभवन मूढः शॊकं च परमं गतः
अभूच च तूष्णीं राजासौ धयायमानॊ महीपते
तस्य तद वचनं शरुत्वा कृष्णद्वैपायनः परभुः
पुत्रशॊकाभिसंतप्तं पुत्रं वचनम अब्रवीत
धृतराष्ट्र महाबाहॊ यत तवां वक्ष्यामि तच छृणु
शरुतवान असि मेधावी धर्मार्थकुशलस तथा
न ते ऽसत्य अविदितं किं चिद वेदितव्यं परंतप
अनित्यतां हि मर्त्यानां विजानासि न संशयः
अध्रुवे जीवलॊके च सथाने वाशाश्वते सति
जीविते मरणान्ते च कस्माच छॊचसि भारत
परत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः
पुत्रं ते कारणं कृत्वा कालयॊगेन कारितः
अवश्यं भवितव्ये च कुरूणां वैशसे नृप
कस्माच छॊचसि ताञ शूरान गतान परमिकां गतिम
जानता च महाबाहॊ विदुरेण महात्मना
यतितं सर्वयत्नेन शमं परति जनेश्वर
न च दैवकृतॊ मार्गः शक्यॊ भूतेन केन चित
घटतापि चिरं कालं नियन्तुम इति मे मतिः
देवतानां हि यत कार्यं मया परत्यक्षतः शरुतम
तत ते ऽहं संप्रवक्ष्यामि कथं सथैर्यं भवेत तव
पुराहं तवरितॊ यातः सभाम ऐन्द्रीं जितक्लमः
अपश्यं तत्र च तदा समवेतान दिवौकसः
नारदप्रमुखांश चापि सर्वान देव ऋषींस तथा
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते
कार्यार्थम उपसंप्राप्ता देवतानां समीपतः
उपगम्य तदा धात्री देवान आह समागतान
यत कार्यं मम युष्माभिर बरह्मणः सदने तदा
परतिज्ञातं महाभागास तच छीघ्रं संविधीयताम
तस्यास तद वचनं शरुत्वा विष्णुर लॊकनमस्कृतः
उवाच परहसन वाक्यं पृथिवीं देव संसदि
धृतराष्ट्रस्य पुत्राणां यस तु जयेष्ठः शतस्य वै
दुर्यॊधन इति खयातः स ते कार्यं करिष्यति
तं च पराप्य महीपालं कृतकृत्या भविष्यसि
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः
अन्यॊन्यं घातयिष्यन्ति दृढैः शस्त्रैः परहारिणः
ततस ते भविता देवि भारस्य युधि नाशनम
गच्छ शीघ्रं सवकं सथानं लॊकान धारय शॊभने
स एष ते सुतॊ राजँल लॊकसंहार कारणात
कलेर अंशः समुत्पन्नॊ गान्धार्या जठरे नृप
अमर्षी चपलश चापि करॊधनॊ दुष्प्रसाधनः
दैवयॊगात समुत्पन्ना भरातरश चास्य तादृशाः
शकुनिर मातुलश चैव कर्णश च परमः सखा
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः
एतम अर्थं महाबाहॊ नारदॊ वेद तत्त्वतः
आत्मापराधात पुत्रास ते विनष्टाः पृथिवीपते
मा ताञ शॊचस्व राजेन्द्र न हि शॊके ऽसति कारणम
न हि ते पाण्डवाः सवल्पम अपराध्यन्ति भारत
पुत्रास तव दुरात्मानॊयैर इयं घातिता मही
नारदेन च भद्रं ते पूर्वम एव न संशयः
युधिष्ठिरस्य समितौ राजसूये निवेदितम
पाण्डवाः कौरवाश चैव समासाद्य परस्परम
न भविष्यन्ति कौन्तेय यत ते कृत्यं तद आचर
नारदस्य वचः शरुत्वा तदाशॊचन्त पाण्डवाः
एतत ते सर्वम आख्यातं देव गुह्यं सनातनम
कथं ते शॊकनाशः सयात पराणेषु च दया परभॊ
सनेहश च पाण्डुपुत्रेषु जञात्वा दैवकृतं विधिम
एष चार्थॊ महाबाहॊ पूर्वम एव मया शरुतः
कथितॊ धर्मराजस्य राजसूये करतूत्तमे
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते
अविग्रहे कौरवाणां दैवं तु बलवत्तरम
अनतिक्रमणीयॊ हि विधी राजन कथं चन
कृतान्तस्य हि भूतेन सथावरेण तरसेन च
भवान कर्म परॊ यत्र बुद्धिश्रेष्ठश च भारत
मुह्यते पराणिनां जञात्वा गतिं चागतिम एव च
तवां तु शॊकेन संतप्तं मुह्यमानं मुहुर मुहुः
जञात्वा युधिष्ठिरॊ राजा पराणान अपि परित्यजेत
कृपालुर नित्यशॊ वीरस तिर्यग्यॊनिगतेष्व अपि
स कथ तवयि राजेन्द्र कृपां वै न करिष्यति
मम चैव नियॊगेन विधेश चाप्य अनिवर्तनात
पाण्डवानां च कारुण्यात पराणान धारय भारत
एवं ते वर्तमानस्य लॊके कीर्तिर भविष्यति
धर्मश च सुमहांस तात तप्तं सयाच च तपश चिरात
पुत्रशॊकसमुत्पन्नं हुताशं जवलितं यथा
परज्ञाम्भसा महाराज निर्वापय सदा सदा
एतच छरुत्वा तु वचनं वयासस्यामित तेजसः
मुहूर्तं समनुध्याय धृतराष्ट्रॊ ऽभयभाषत
महता शॊकजालेन परणुन्नॊ ऽसमि दविजॊत्तम
नात्मानम अवबुध्यामि मुह्यमानॊ मुहुर मुहुः
इदं तु वचनं शरुत्वा तव दैवनियॊगजम
धारयिष्याम्य अहं पराणान यतिष्ये च न शॊचितुम
एतच छरुत्वा तु वचनं वयासः सत्यवती सुतः
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत
[ज]
गते भगवति वयासे धृतराष्ट्रॊ महीपतिः
किम अचेष्टत विप्रर्षे तन मे वयाख्यातुम अर्हसि
[व]
एतच छरुत्वा नरश्रेष्ठ चिरं धयात्वा तव अचेतनः
संजयं यॊजयेत्य उक्त्वा विदुरं परत्यभाषत
कषिप्रम आनय गान्धारीं सर्वाश च भरत सत्रियः
वधूं कुन्तीम उपादाय याश चान्यास तत्र यॊषितः
एवम उक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम
शॊकविप्रहत जञानॊ यानम एवान्वपद्यत
गान्धारी चैव शॊकार्ता भर्तुर वचनचॊदिता
सह कुन्त्या यतॊ राजा सह सत्रीभिर उपाद्रवत
ताः समासाद्य राजानं भृशं शॊकसमन्विताः
आमन्त्र्यान्यॊन्यम ईयुः सम भृशम उच्चुक्रुशुस ततः
ताः समाश्वासयत कषत्ता ताभ्यश चार्ततरः सवयम
अश्रुकण्ठीः समारॊप्य ततॊ ऽसौ निर्ययौ पुरात
ततः परणादः संजज्ञे सर्वेषु कुरु वेश्मसु
आ कुमारं पुरं सर्वम अभवच छॊककर्शितम
अदृष्टपूर्वा या नार्यः पुरा देवगणैर अपि
पृथग्जनेन दृश्यन्त तास तदा निहतेश्वराः
परकीर्य केशान सुशुभान भूषणान्य अवमुच्य च
एकवस्त्रधरा नार्यः परिपेतुर अनाथवत
शवेतपर्वत रूपेभ्यॊ गृहेभ्यस तास तव अपाक्रमन
गुहाभ्य इव शैलानां पृषत्यॊ हतयूथपाः
तान्य उदीर्णानि नारीणां तदा वृन्दान्य अनेकशः
शॊकार्तान्य अद्रवान राजन किशॊरीणाम इवाङ्गने
परगृह्य बाहून करॊशन्त्यः पुत्रान भरातॄन पितॄन अपि
दर्शयन्तीव ता ह सम युगान्ते लॊकसंक्षयम
विलपन्त्यॊ रुदन्त्यश च धावमानास ततस ततः
शॊकेनाभ्याहत जञानाः कर्तव्यं न परजज्ञिरे
वरीडां जग्मुः पुरा याः सम सखीनाम अपि यॊषितः
ता एकवस्त्रा निर्लज्जाः शवश्रूणां पुरतॊ ऽभवन
परस्परं सुसूक्ष्मेषु शॊकेष्व आश्वासयन सम याः
ताः शॊकविह्वला राजन्न उपैक्षन्त परस्परम
ताभिः परिवृतॊ राजा रुदतीभिः सहस्रशः
निर्ययौ नगराद दीनस तूर्णम आ यॊधनं परति
शिल्पिनॊ वणिजॊ वैश्याः सर्वकर्मॊपजीविनः
ते पार्थिवं पुरस्कृत्य निर्ययुर नगराद बहिः
तासां विक्रॊशमानानाम आर्तानां कुरु संक्षये
परादुरासीन महाञ शब्दॊ वयथयन भुवनान्य उत
युगान्तकाले संप्राप्ते भूतानां दह्यताम इव
अभावः सयाद अयं पराप्त इति भूतानि मेनिरे
भृशम उद्विग्नमनसस ते पौराः कुरु संक्षये
पराक्रॊशन्त महाराज सवनुरक्तास तदा भृशम
[व]
करॊशमात्रं ततॊ गत्वा ददृशुस तान महारथान
शारद्वतं कृपं दरौणिं कृतवर्माणम एव च
ते तु दृष्ट्वैव राजानं परज्ञा चक्षुषम ईश्वरम
अश्रुकण्ठा विनिःश्वस्य रुदन्तम इदम अब्रुवन
पुत्रस तव महाराज कृत्वा कर्म सुदुष्करम
गतः सानुचरॊ राजञ शक्र लॊकं महीपतिः
दुर्यॊधन बलान मुक्ता वयम एव तरयॊ रथाः
सर्वम अन्यत परिक्षीणं सैन्यं ते भरतर्षभ
इत्य एवम उक्त्वा राजानं कृपः शारद्वतस तदा
गान्धारीं पुत्रशॊकार्ताम इदं वचनम अब्रवीत
अभीता युध्यमानास ते घनन्तः शत्रुगणान बहून
वीरकर्माणि कुर्वाणाः पुत्रास ते निधनं गताः
धरुवं संप्राप्य लॊकांस ते निर्मलाञ शस्त्रनिर्जितान
भास्वरं देहम आस्थाय विहरन्त्य अमरा इव
न हि कश चिद धि शूराणां युध्यमानः पराङ्मुखः
शस्त्रेण निधनं पराप्तॊ न च कश चित कृताञ्जलिः
एतां तां कषत्रियस्याहुः पुराणां परमां गतिम
शस्त्रेण निधनं संख्ये तान न शॊचितुम अर्हसि
न चापि शत्रवस तेषाम ऋध्यन्ते राज्ञि पाण्डवाः
शृणु यत्कृतम अस्माभिर अश्वत्थाम पुरॊगमैः
अधर्मेण हतं शरुत्वा भीमसेनेन ते सुतम
सुप्तं शिबिरम आविश्य पाण्डूनां कदनं कृतम
पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरॊगमाः
दरुपदस्यात्मजाश चैव दरौपदेयाश च पातिताः
तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते
पराद्रवाम रणे सथातुं न हि शक्यामहे तरयः
ते हि शूरा महेष्वासाः कषिप्रम एष्यन्ति पाण्डवाः
अमर्षवशम आपन्ना वैरं परतिजिहीर्षवः
निहतान आत्मजाञ शरुत्वा परमत्तान पुरुषर्षभाः
निनीषन्तः पदं शूराः कषिप्रम एव यशस्विनि
पाण्डूनां किल्बिषं कृत्वा संस्थातुं नॊत्सहामहे
अनुजानीहि नॊ राज्ञि मा च शॊके मनः कृथाः
राजंस तवम अनुजानीहि धैर्यम आतिष्ठ चॊत्तमम
निष्ठान्तं पश्य चापि तवं कषत्रधर्मं च केवलम
इत्य एवम उक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम
कृपश च कृतवर्मा च दरॊणपुत्रश च भारत
अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम
गङ्गाम अनु महात्मानस तूर्णम अश्वान अचॊदयन
अपक्रम्य तु ते राजन सर्व एव महारथाः
आमन्त्र्यान्यॊन्यम उद्विग्नास तरिधा ते परययुस ततः
जगाम हास्तिनपुरं कृपः शारद्वतस तदा
सवम एव राष्ट्रं हार्दिक्यॊ दरौणिर वयासाश्रमं ययौ
एवं ते परययुर वीरा वीक्षमाणाः परस्परम
भयार्ताः पाण्डुपुत्राणाम आगः कृत्वा महात्मनाम
समेत्य वीरा राजानं तदा तव अनुदिते रवौ
विप्रजग्मुर महाराज यथेच्छकम अरिंदमाः
[व]
हतेषु सर्वसैन्येषु धर्मराजॊ युधिष्ठिरः
शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात
सॊ ऽभययात पुत्रशॊकार्तः पुत्रशॊकपरिप्लुतम
शॊचमानॊ महाराज भरातृभिः सहितस तदा
अन्वीयमानॊ वीरेण दाशार्हेण महात्मना
युयुधानेन च तथा तथैव च युयुत्सुना
तम अन्वगात सुदुःखार्ता दरौपदी शॊककर्शिता
सह पाञ्चाल यॊषिद्भिर यास तत्रासन समागताः
स गङ्गाम अनु वृन्दानि सत्रीणां भरतसत्तम
कुररीणाम इवार्तानां करॊशन्तीनां ददर्श ह
ताभिः परिवृतॊ राजा रुदतीभिः सहस्रशः
ऊर्ध्वबाहुभिर आर्ताभिर बरुवतीभिः परियाप्रिये
कव नु धर्मज्ञता राज्ञः कव नु साद्य नृशंसता
यदावधीत पितॄन भरातॄन गुरून पुत्रान सखीन अपि
घातयित्वा कथं दरॊणं भीष्मं चापि पितामहम
मनस ते ऽभून महाबाहॊ हत्वा चापि जयद्रथम
किं नु राज्येन ते कार्यं पितॄन भरातॄन अपश्यतः
अभिमन्युं च दुर्धर्षं दरौपदेयांश च भारत
अतीत्य ता महाबाहुः करॊशन्तीः कुररीर इव
ववन्दे पितरं जयेष्ठं धर्मराजॊ युधिष्ठिरः
ततॊ ऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः
नयवेदयन्त नामानि पाण्डवास ते ऽपि सर्वशः
तम आत्मजान्त करणं पिता पुत्रवधार्दितः
अप्रीयमाणः शॊकार्तः पाण्डवं परिषस्वजे
धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत
दुष्टात्मा भीमम अन्वैच्छद दिधक्षुर इव पावकः
स कॊपपावकस तस्य शॊकवायुसमीरितः
भीमसेन मयं दावं दिधक्षुर इव दृश्यते
तस्य संकल्पम आज्ञाय भीमं परत्यशुभं हरिः
भीमम आक्षिप्य पाणिभ्यां परददौ भीमम आयसम
पराग एव तु महाबुद्धिर बुद्ध्वा तस्येङ्गिरं हरिः
संविधानं महाप्राज्ञस तत्र चक्रे जनार्दनः
तं तु गृह्यैव पाणिभ्यां भीमसेनम अयस्मयम
बभञ्ज बलवान राजा मन्यमानॊ वृकॊदरम
नागायुत बलप्राणः स राजा भीमम आयसम
भङ्क्त्वा विमथितॊरस्कः सुस्राव रुधिरं मुखात
ततः पपात मेदिन्यां तथैव रुधिरॊक्षितः
परपुष्पिताग्र शिखरः पारिजात इव दरुमः
पर्यगृह्णत तं विद्वान सूतॊ गावल्गणिस तदा
मैवम इत्य अब्रवीच चैनं शमयन सान्त्वयन्न इव
स तु कॊपं समुत्सृज्य गतमन्युर महामनाः
हाहा भीमेति चुक्रॊश भूयः शॊकसमन्वितः
तं विदित्वा गतक्रॊधं भीमसेनवधार्दितम
वासुदेवॊ वरः पुंसाम इदं वचनम अब्रवीत
मा शुचॊ धृतराष्ट्र तवं नैष भीमस तवया हतः
आयसी परतिमा हय एषा तवया राजन निपातिता
तवां करॊधवशम आपन्नं विदित्वा भरतर्षभ
मयापकृष्टः कौन्तेयॊ मृत्यॊर दंष्ट्रान्तरं गतः
न हि ते राजशार्दूल बले तुल्यॊ ऽसति कश चन
कः सहेत महाबाहॊ बाह्वॊर निग्रहणं नरः
यथान्तकम अनुप्राप्य जीवन कश चिन न मुच्यते
एवं बाह्वन्तरं पराप्य तव जीवेन न कश चन
तस्मात पुत्रेण या सा ते परतिमा कारितायसी
भीमस्य सेयं कौरव्य तवैवॊपहृता मया
पुत्रशॊकाभिसंतापाद धर्माद अपहृतं मनः
तव राजेन्द्र तेन तवं भीमसेनं जिघांससि
न च ते तत्क्षमं राजन हन्यास तवं यद वृकॊदरम
न हि पुत्रा महाराज जीवेयुस ते कथं चन
तस्माद यत्कृतम अस्माभिर मन्यमानैः कषमं परति
अनुमन्यस्व तत सर्वं मा च शॊके मनः कृथाः
[व]
तत एनम उपातिष्ठञ शौचार्थं परिचारकाः
कृतशौचं पुनश चैनं परॊवाच मधुसूदनः
राजन्न अधीता वेदास ते शास्त्राणि विविधानि च
शरुतानि च पुराणानि राजधर्माश च केवलाः
एवं विद्वान महाप्राज्ञ नाकार्षीर वचनं तदा
पाण्डवान अधिकाञ जानबले शौर्ये च कौरव
राजा हि यः सथिरप्रज्ञः सवयं दॊषान अवेक्षते
देशकालविभागं च परं शरेयः स विन्दति
उच्यमानं च यः शरेयॊ गृह्णीते नॊ हिताहिते
आपदं समनुप्राप्य स शॊचत्य अनये सथितः
ततॊ ऽनयवृत्तम आत्मानं समवेक्षस्व भारत
राजंस तवं हय अविधेयात्मा दुर्यॊधन वशे सथितः
आत्मापराधाद आयस्तस तत किं भीमं जिघांससि
तस्मात संयच्छ कॊपं तवं सवम अनुस्मृत्य दुष्कृतम
यस तु तां सपर्धया कषुद्रः पाञ्चालीम आनयत सभाम
स हतॊ भीमसेनेन वैरं परतिचिकीर्षता
आत्मनॊ ऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः
यद अनागसि पाण्डूनां परित्यागः परंतप
एवम उक्तः स कृष्णेन सर्वं सत्यं जनाधिप
उवाच देवकीपुत्रं धृतराष्ट्रॊ महीपतिः
एवम एतन महाबाहॊ यथा वदसि माधव
पुत्रस्नेहस तु धर्मात्मन धैर्यान मां समचालयत
दिष्ट्या तु पुरुषव्याघ्रॊ बलवान सत्यविक्रमः
तवद गुप्तॊ नागमत कृष्ण भीमॊ बाह्वन्तरं मम
इदानीं तव अहम एकाग्रॊ गतमन्युर गतज्वरः
मध्यमं पाण्डवं वीरं सप्रष्टुम इच्छामि केशव
हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च
पाण्डुपुत्रेषु मे शर्म परीतिश चाप्य अवतिष्ठते
ततः स भीमं च धनंजयं च; माद्र्याश च पुत्रौ पुरुषप्रवीरौ
पस्पर्श गात्रैः पररुदन सुगात्रान; आश्वास्य कल्याणम उवाच चैनान
[ब]
धृतराष्ट्राभ्यनुज्ञातास ततस ते कुरुपुंगवाः
अभ्ययुर भरातरः सर्वे गान्धारीं सह केशवाः
ततॊ जञात्वा हतामित्रं धर्मराजं युधिष्ठिरम
गान्धारी पुत्रशॊकार्ता शप्तुम ऐच्छद अनिन्दिता
तस्याः पापम अभिप्रायं विदित्वा पाण्डवान परति
ऋषिः सत्यवती पुत्रः पराग एव समबुध्यत
स गङ्गायाम उपस्पृश्य पुण्यगन्धं पयः शुचि
तं देशम उपसंपेदे परमर्षिर मनॊजवः
दिव्येन चक्षुषा पश्यन मनसानुद्धतेन च
सर्वप्राणभृतां भावं स तत्र समबुध्यत
स सनुषाम अब्रवीत काले कल्य वादी महातपाः
शापकालम अवाक्षिप्य शम कालम उदीरयन
न कॊपः काण्डवे कार्यॊ गान्धारि शमम आप्नुहि
रजॊ निगृह्यताम एतच छृणु चेदं वचॊ मम
उक्तास्य अष्टादशाहानि पुत्रेण जयम इच्छता
शिवम आशास्स्व मे मातर युध्यमानस्य शत्रुभिः
सा तथा याच्यमाना तवं काले काले जयैषिणा
उक्तवत्य असि गान्धारि यतॊ धर्मस ततॊ जयः
न चाप्य अतीतां गान्धारि वाचं ते वितथाम अहम
समरामि भाषमाणायास तथा परणिहिता हय असि
सा तवं धर्मं परिस्मृत्य वाचा चॊक्त्वा मनस्विनि
कॊपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि
[ग]
भगवन नाभ्यसूयामि नैतान इच्छामि नश्यतः
पुत्रशॊकेन तु बलान मनॊ विह्वलतीव मे
यथैव कुन्त्या कौन्तेया रक्षितव्यास तथा मया
यथैव धृतराष्ट्रेण रक्षितव्यास तथा मया
दुर्यॊधनापराधेन शकुनेः सौबलस्य च
कर्ण दुःशासनाभ्यां च वृत्तॊ ऽयं कुरु संक्षयः
नापराध्यति बीभत्सुर न च पार्थॊ वृकॊदरः
नकुलः सहदेवॊ वा नैव जातु युधिष्ठिरः
युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम
निहताः सहिताश चान्यैस तत्र नास्त्य अप्रियं मम
यत तु कर्माकरॊद भीमॊ वासुदेवस्य पश्यतः
दुर्यॊधनं समाहूय गदायुद्धे महामनाः
शिक्षयाम्य अधिकं जञात्वा चरन्तं बहुधा रणे
अधॊ नाभ्यां परहृतवांस तन मे कॊपम अवर्धयत
कथं नु धर्मं धर्मज्ञैः समुद्धिष्टं महात्मभिः
तयजेयुर आहवे शूराः पराणहेतॊः कथं चन
[व]
तच छरुत्वा वचनं तस्या भीमसेनॊ ऽथ भीतवत
गान्धारीं परत्युवाचेदं वचः सानुनयं तदा
अधर्मॊ यदि वा धर्मस तरासात तत्र मया कृतः
आत्मानं तरातुकामेन तन मे तवं कषन्तुम अर्हसि
न हि युद्धेन पुत्रस ते धर्मेण स महाबलः
शक्यः केन चिद उद्यन्तुम अतॊ विषमम आचरम
सैन्यस्यैकॊ ऽवशिष्टॊ ऽयं गदायुद्धे च वीर्यवान
मां हत्वा न हरेद राज्यम इति चैतत कृतं मया
राजपुत्रीं च पाञ्चालीम एकवस्त्रां रजस्वलाम
भवत्या विदितं सर्वम उक्तवान यत सुतस तव
सुयॊधनम असंगृह्य न शक्या भूः स सारगा
केवला भॊक्तुम अस्माभिर अतश चैतत कृतं मया
तच चाप्य अप्रियम अस्माकं पुत्रस ते समुपाचरत
दरौपद्या यत सभामध्ये सव्यम ऊरुम अदर्शयत
तत्रैव वध्यः सॊ ऽसमाकं दुराचारॊ ऽमब ते सुतः
धर्मराजाज्ञया चैव सथिताः सम समये तदा
वैरम उद्धुक्षितं राज्ञि पुत्रेण तव तन महत
कलेशिताश च वने नित्यं तत एतत कृतं मया
वैरस्यास्य गतः पारं हत्वा दुर्यॊधनं रणे
राज्यं युधिष्ठिरः पराप्तॊ वयं च गतमन्यवः
[गान्धारी]
न तस्यैष वधस तात यत परशंससि मे सुतम
कृतवांश चापि तत सर्वं यद इदं भाषसे मयि
हताश्वे नकुले यत तद वृषसेनेन भारत
अपिबः शॊणितं संख्ये दुःशासन शरीरजम
सद्भिर विगर्हितं घॊरम अनार्य जनसेवितम
करूरं कर्माकरॊः कस्मात तद अयुक्तं वृकॊदर
[भीम]
अन्यस्यापि न पातव्यं रुधिरं किं पुनः सवकम
यथैवात्मा तथा भराता विशेषॊ नास्ति कश चन
रुधिरं न वयतिक्रामद दन्तौष्ठं मे ऽमब मा शुचः
वैवस्वतस तु तद वेद हस्तौ मे रुधिरॊक्षितौ
हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे
भरातॄणां संप्रहृष्टानां तरासः संजनितॊ मया
केशपक्षपरामर्शे दरौपद्या दयूतकारिते
करॊधाद यद अब्रुवं चाहं तच च मे हृदि वर्तते
कषत्रधर्माच चयुतॊ राज्ञि भवेयं शास्वतीः समाः
परतिज्ञां ताम अनिस्तीर्य ततस तत कृतवान अहम
न माम अर्हसि गान्धारि दॊषेण परिशङ्कितुम
अनिगृह्य पुरा पुत्रान अस्मास्व अनपकारिषु
[ग]
वृद्धस्यास्य शतं पुत्रान निघ्नंस तवम अपराजितः
कस्मान न शेषयः कं चिद येनाल्पम अपराधितम
संतानम आवयॊस तात वृद्धयॊर हृतराज्ययॊः
अक्थम अन्धद्वयस्यास्य यष्टिर एका न वर्जिता
शेषे हय अवस्थिते तात पुत्राणाम अन्तके तवयि
न मे दुःखं भवेद एतद यदि तवं धर्मम आचरः
[व]
एवम उक्त्वा तु गान्धारी युधिष्ठिरम अपृच्छत
कव स राजेति सक्रॊधा पुत्रपौत्र वधार्दिता
ताम अभ्यगच्छद राजेन्द्रॊ वेपमानः कृताञ्जलिः
युधिष्ठिर इदं चैनां मधुरं वाक्यम अब्रवीत
पुत्र हन्ता नृशंसॊ ऽहं तव देवि युधिष्ठिरः
शापार्हः पृथिवी नाशे हेतुभूतः शपस्व माम
न हि मे जीवितेनार्थॊ न राज्येन धनेन वा
तादृशान सुहृदॊ हत्वा मूढस्यास्य सुहृद दरुहः
तम एवं वादिनं भीतं संनिकर्ष गतं तदा
नॊवाच किं चिद गान्धारी निःश्वासपरमा भृशम
तस्यावनत देहस्य पादयॊर निपतिष्यतः
युधिष्ठिरस्य नृपतेर धर्मज्ञा धर्मदर्शिनी
अङ्गुल्य अग्राणि ददृशे देवी पट्टान्तरेण सा
ततः स कु नकी भूतॊ दर्शनीयनखॊ नृपः
तं दृष्ट्वा चार्जुनॊ ऽगच्छद वासुदेवस्य पृष्ठतः
एवं संचेष्टमानांस तान इतश चेतश च भारत
गान्धारी विगतक्रॊधा सान्त्वयाम आस मातृवत
तया ते समनुज्ञाता मातरं वीरमातरम
अभ्यगच्छन्त सहिताः पृथां पृथुल वक्षसः
चिरस्य दृष्ट्वा पुत्रान सा पुत्राधिभिर अभिप्लुता
बाष्पम आहारयद देवी वस्त्रेणावृत्य वै मुखम
ततॊ बाष्पं समुत्सृज्य सह पुत्रैस तथा पृथा
अपश्यद एताञ शस्त्रौघैर बहुधा परिविक्षतान
सा तान एकैकशः पुत्रान संस्पृशन्ती पुनः पुनः
अन्वशॊचन्त दुःखार्ता दरौपदीं च हतात्मजाम
रुदतीम अथ पाञ्चालीं ददर्श पतितां भुवि
[दर]
आर्ये पौत्राः कव ते सर्वे सौभद्र सहिता गताः
न तवां ते ऽदयाभिगच्छन्ति चिरदृष्टां तपस्विनीम
किं नु राज्येन वै कार्यं विहीनायाः सुतैर मम
[व]
तां समाश्वासयाम आस पृथा पृथुल लॊचना
उत्थाप्य याज्ञसेनीं तु रुदतीं शॊककर्शिताम
तयैव सहिता चापि पुत्रैर अनुगता पृथा
अभ्यगच्छत गान्धारीम आर्ताम आर्ततरा सवयम
ताम उवाचाथ गान्धारी सह वध्वा यशस्विनीम
मैवं पुत्रीति शॊकार्ता पश्य माम अपि दुःखिताम
मन्ये लॊकविनाशॊ ऽयं कालपर्याय चॊदितः
अवश्य भावी संप्राप्तः सवभावाल लॊमहर्षणः
इदं तत समनुप्राप्तं विदुरस्य वचॊ महत
असिद्धानुनये कृष्णे यद उवाच महामतिः
तस्मिन्न अपरिहार्ये ऽरथे वयतीते च विशेषतः
मा शुचॊ न हि शॊच्यास ते संग्रामे निधनं गताः
यथैव तवं तथैवाहं कॊ वा माश्वासयिष्यति
ममैव हय अपराधेन कुलम अग्र्यं विनाशितम
[व]
एवम उक्त्वा तु गान्धारी कुरूणाम आविकर्तनम
अपश्यत तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा
पतिव्रता महाभागा समानव्रतचारिणी
उग्रेण तपसा युक्ता सततं सत्यवादिनी
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः
दिव्यज्ञानबलॊपेता विविधं पर्यदेवयत
ददर्श सा बुद्धिमती दूराद अपि यथान्तिके
रणाजिरं नृवीराणाम अद्भुतं लॊमहर्षणम
अस्थि केशपरिस्तीर्णं शॊणितौघपरिप्लुतम
शरीरैर बहुसाहस्रैर विनिकीर्णं समन्ततः
गजाश्वरथयॊधानाम आवृतं रुधिराविलैः
शरीरैर बहुसाहस्रैर विनिकीर्णं समन्ततः
गजाश्वनरवीराणां निःसत्त्वैर अभिसंवृतम
सृगालबड काकॊल कङ्ककाकनिषेवितम
रक्षसां पुरुषादानां मॊदनं कुरराकुलम
अशिवाभिः शिवाभिश च नादितं गृध्रसेवितम
ततॊ वयासाभ्यनुज्ञातॊ धृतराष्ट्रॊ महीपतिः
पाण्डुपुत्राश च ते सर्वे युधिष्ठिरपुरॊगमाः
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम
कुरु सत्रियः समासाद्य जग्मुर आयॊधनं परति
समासाद्य कुरुक्षेत्रं ताः सत्रियॊ निहतेश्वराः
अपश्यन्त हतांस तत्र पुत्रान भरातॄन पितॄन पतीन
करव्यादैर भक्ष्यमाणान वै गॊमायुबड वायसैः
भूतैः पिशाचै रक्षॊभिर विविधैश च निशाचरैः
रुद्राक्रीड निभं दृष्ट्वा तदा विशसनं सत्रियः
महार्हेभ्यॊ ऽथ यानेभ्यॊ विक्रॊशन्त्यॊ निपेतिरे
अदृष्टपूर्वं पश्यन्त्यॊ दुःखार्ता भरत सत्रियः
शरीरेष्व अस्खलन्न अन्या नयपतंश चापरा भुवि
शरान्तानां चाप्य अनाथानां नासीत का चन चेतना
पाञ्चाल कुर यॊषाणां कृपणं तद अभून महत
दुःखॊपहत चित्ताभिः समन्ताद अनुनादितम
दृष्ट्वायॊधनम अत्युग्रं धर्मज्ञा सुबलात्मजा
ततः सा पुण्डरीकाक्षम आमन्त्र्य पुरुषॊत्तमम
कुरूणां वैशसं दृष्ट्वा दुःखाद वचनम अब्रवीत
पश्यैताः पुण्डरीकाक्ष सनुषा मे निहतेश्वराः
परकीर्णकेशाः करॊशन्तीः कुररीर इव माधव
अमूस तव अभिसमागम्य समरन्त्यॊ भरतर्षभान
पृथग एवाभ्यधावन्त पुत्रान भरातॄन पितॄन पतीन
वीरसूभिर महाबाहॊ हतपुत्राभिर आवृतम
कव चिच च वीर पत्नीभिर हतवीराभिर आकुलम
शॊभितं पुरुषव्याघ्रैर भीष्म कर्णाभिमन्युभिः
दरॊण दरुपद शल्यैश च जवलद्भिर इव पावकैः
काञ्चनैः कवचैर निष्कैर मणिभिश च महात्मनाम
अङ्गदैर हस्तकेयूरैः सरग्भिश च समलंकृतम
वीरबाहुविसृष्टाभिः शक्तिभिः परिघैर अपि
खड्गैश च विमलैस तीक्ष्णैः स शरैश च शरासनैः
करव्यादसंघैर मुदितैस तिष्ठद्भिः सहितैः कव चित
कव चिद आक्रीडमानैश च शयानैर अपरैः कव चित
एतद एवंविधं वीर संपश्यायॊधनं विभॊ
पश्यमाना च दह्यामि शॊकेनाहं जनार्दन
पाञ्चालानां कुरूणां च विनाशं मधुसूदन
पञ्चानाम इव भूतानां नाहं वधम अचिन्तयम
तान सुपर्णाश च गृध्राश च निष्कर्षन्त्य असृग उक्षितान
निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः
जयद्रथस्य कर्णस्य तथैव दरॊण भीष्मयॊः
अभिमन्यॊर विनाशं च कश चिन्तयितुम अर्हति
अवध्यकल्पान निहतान दृष्ट्वाहं मधुसूदन
गृध्रकङ्कबड शयेनश्वसृगालादनी कृतान
अमर्षवशम आपन्नान दुर्यॊधन वशे सथितान
पश्येमान पुरुषव्याघ्रान संशान्तान पावकान इव
शयनान्यूचिताः सर्वे मृदूनि विमलानि च
विपन्नास ते ऽदय वसुधां विवृताम अधिशेरते
बन्दिभिः सततं काले सतुवद्भिर अभिनन्दिताः
शिवानाम अशिवा घॊराः शृण्वन्ति विविधा गिरः
ये पुरा शेरते वीराः शयनेषु यशस्विनः
चन्दनागुरुदिग्धाङ्गास ते ऽदय पांसुषु शेरते
तेषाम आभरणान्य एते गृध्रगॊमायुवायसाः
आक्षिपन्त्य अशिवा घॊरा विनदन्तः पुनः पुनः
चापानि विशिखान पीतान निस्त्रिंशान विमला गदा
युद्धाभिमानिनः परीता जीवन्त इव बिभ्रति
सुरूप वर्णा बहवः करव्यादैर अवघट्टिताः
ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः
अपरे पुनर आलिङ्ग्य गदाः परिघबाहवः
शेरते ऽभिमुखाः शूरा दयिता इव यॊषितः
बिभ्रतः कवचान्य अन्ये विमलान्य आयुधानि च
न धर्षयन्ति करव्यादा जीवन्तीति जनार्दन
करव्यादैः कृष्यमाणानाम अपरेषां महात्मनाम
शातकौम्भ्यः सरजश चित्रा विप्रकीर्णाः समन्ततः
एते गॊमायवॊ भीमा निहतानां यशस्विनाम
कण्ठान्तर गतान हारान आक्षिपन्ति सहस्रशः
सर्वेष्व अपररात्रेषु यान अनन्दन्त बन्दिनः
सतुतिभिश च परार्ध्याभिर उपचारैश च शिक्षिताः
तान इमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः
कृपणं वृष्णिशार्दूल दुःखशॊकार्दिता भृशम
रक्तॊत्पलवनानीव विभान्ति रुचिराणि वै
मुखानि परमस्त्रीणां परिशुष्काणि केशव
रुदितॊपरता हय एता धयायन्त्यः संपरिप्लुताः
कुरु सत्रियॊ ऽभिगच्छन्ति तेन तेनैव दुःखिताः
एतान्य आदित्यवर्णानि तपनीयनिभानि च
रॊषरॊदन ताम्राणि वक्त्राणि कुरु यॊषिताम
आ साम परिपूर्णार्थं निशम्य परिदेवितम
इतरेतर संक्रन्दान न विजानन्ति यॊषितः
एता दीर्घम इवॊच्छ्वस्य विक्रुश्य च विलप्य च
विस्पन्दमाना दुःखेन वीरा जहति जीवितम
बह्व्यॊ दृष्ट्वा शरीराणि करॊशन्ति विलपन्ति च
पाणिभिश चापरा घनन्ति शिरांसि मृदु पाणयः
शिरॊभिः पतितैर हस्तैः सर्वाङ्गैर यूथशः कृतैः
इतरेतर संपृक्तैर आकीर्णा भाति मेदिनी
विशिरस्कान अथॊ कायान दृष्ट्वा घॊराभिनन्दिनः
मुह्यन्त्य अनुचिता नार्यॊ विदेहानि शिरांसि च
शिरः कायेन संधाय परेक्षमाणा विचेतसः
अपश्यन्त्यॊ परं तत्र नेदम अस्येति दुःखिताः
बाहूरुचरणान अन्यान विशिखॊन्मथितान पृथक
संदधत्यॊ ऽसुखाविष्टा मूर्छन्त्य एताः पुनः पुनः
उत्कृत्त शिरसश चान्यान विजग्धान मृगपक्षिभिः
दृष्ट्वा काश चिन न जानन्ति भर्तॄन भरत यॊषितः
पाणिभिश चापरा घनन्ति शिरांसि मधुसूदन
परेक्ष्य भरातॄन पितॄन पुत्रान पतींश च निहतान परैः
बाहुभिश च स खड्गैश च शिरॊभिश च सकुण्डलैः
अगम्यकल्पा पृथिवी मांसशॊणितकर्दमा
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्य अनिन्दिताः
भरातृभिः पितृभिः पुत्रैर उपकीर्णां वसुंधराम
यूथानीव किशॊरीणां सुकेशीनां जनार्दन
सनुषाणां धृतराष्ट्रस्य पश्य वृन्दान्य अनेकशः
अतॊ दुःखतरं कुं नु केशव परतिभाति मे
यद इमाः कुर्वते सर्वा रूपम उच्चावचं सत्रियः
नूनम आचरितं पापं मया पूर्वेषु जन्मसु
या पश्यामि हतान पुत्रान पौत्रान भरातॄंश च केशव
एवम आर्ता विलपती ददर्श निहतं सुतम
[वैषम्पायन]
ततॊ दुर्यॊधनं दृष्ट्वा गान्धारी शॊककर्शिता
सहसा नयपतद भूमौ छिन्नेव कदली वने
सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः
दुर्यॊधनम अभिप्रेक्ष्य शयानं रुधिरॊक्षितम
परिष्वज्य च गान्धारी कृपणं पर्यदेवयत
हाहा पुत्रेति गान्धारी विललापाकुलेन्द्रिया
सुगूढ जत्रु विपुलं हारनिष्कनिषेवितम
वारिणा नेत्रजेनॊरः सिञ्चन्ती शॊकतापिता
समीपस्थं हृषीकेशम इदं वचनम अब्रवीत
उपस्थितेऽसमिन संग्रामे जञातीनां संक्षये विभॊ
माम अयं पराह वार्ष्णेय पराञ्जलिर नृपसत्तमः
अस्मिञ जञातिसमुद्धर्षे जयम अम्बा बरवीतु मे
इत्य उक्ते जानती सर्वम अहं सवं वयसनागमम
अब्रुवं पुरुषव्याघ्र यतॊ धर्मस ततॊ जयः
यथा न युध्यमानस तवं संप्रमुह्यसि पुत्रक
धरुवं शास्त्रजिताँल लॊकान पराप्तास्य अमरवद विभॊ
इत्य एवम अब्रुवं पूर्वं नैनं शॊचामि वै परभॊ
धृतराष्ट्रं तु शॊचामि कृपणं हतबान्धवम
अमर्षणं युधां शरेष्ठं कृतास्त्रं युद्धदुर्मदम
शयानं वीरशयने पश्य माधव मे सुतम
यॊ ऽयं मूर्धावसिक्तानाम अग्रे याति परंतपः
सॊ ऽयं पांसुषु शेते ऽदय पश्य कालस्य पर्ययम
धरुवं दुर्यॊधनॊ वीरॊ गतिं नसुलभां गतः
तथा हय अभिमुखः शेते शयने वीरसेविते
यं पुरा पर्युपासीना रमयन्ति महीक्षितः
महीतलस्थं निहतं गृध्रास तं पर्युपासते
यं पुरा वयजनैर अग्र्यैर उपवीजन्ति यॊषितः
तम अद्य पक्षव्यजनैर उपवीजन्ति पक्षिणः
एष शेते महाबाहुर बलवान सत्यविक्रमः
सिंहेनेव दविपः संख्ये भीमसेनेन पातितः
पश्य दुर्यॊधनं कृष्ण शयानं रुधिरॊक्षितम
निहतं भीमसेनेन गदाम उद्यम्य भारत
अक्षौहिणीर महाबाहुर दश चैकां च केशव
अनयद यः पुरा संख्ये सॊ ऽनयान निधनं गतः
एष दुर्यॊधनः शेते महेष्वासॊ महारथः
शार्दूल इव सिंहेन भीमसेनेन पातितः
विदुरं हय अवमन्यैष पितरं चैव मन्दभाक
बालॊ वृद्धावमानेन मन्दॊ मृत्युवशं गतः
निःसपत्ना मही यस्य तरयॊदश समाः सथिता
स शेते निहतॊ भूमौ पुत्रॊ मे पृथिवीपतिः
अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात
पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच चिरम
ताम एवाद्य महाबाहॊ पश्याम्य अन्यानुशासनात
हीनां हस्तिगवाश्वेन किं नु जीवामि माधव
इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान मम
यद इमां पर्युपासन्ते हताञ शूरान रणे सत्रियः
परकीर्णकेशां सुश्रॊणीं दुर्यॊधन भुजाङ्कगाम
रुक्मवेदी निभां पश्य कृष्ण लक्ष्मणमातरम
नूनम एषा पुरा बाला जीवमाने महाभुजे
भुजाव आश्रित्य रमते सुभुजस्य मनस्विनी
कथं तु शतधा नेदं हृदयं मम दीर्यते
पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे
पुत्रं रुधिरसंसिक्तम उपजिघ्रत्य अनिन्दिता
दुर्यॊधनं तु वामॊरुः पाणिना परिमार्जति
किं नु शॊचति भर्तारं पुत्रं चैषा मनस्विनी
तथा हय अवस्थिता भाति पुत्रं चाप्य अभिवीक्ष्य सा
सवशिरः पञ्चशाखाभ्याम अभिहत्यायतेक्षणा
पतत्य उरसि वीरस्य कुरुराजस्य माधव
पुण्डरीकनिभा भाति पुण्डरीकान्तर परभा
मुखं विमृज्य पुत्रस्य भर्तुश चैव तपस्विनी
यदि चाप्य आगमाः सन्ति यदि वा शरुतयस तथा
धरुवं लॊकान अवाप्तॊ ऽयं नृपॊ बाहुबलार्जितान
[गान्धारी]
पश्य माधव पुत्रान मे शतसंख्याञ जितक्लमान
गदया भीमसेनेन भूयिष्ठं निहतान रणे
इदं दुःखतरं मे ऽदय यद इमा मुक्तमूर्धजाः
हतपुत्रा रणे बालाः परिधावन्ति मे सनुषाः
परासादतलचारिण्यश चरणैर भूषणान्वितैः
आपन्ना यत सपृशन्तीमा रुधिरार्द्रां वसुंधराम
गृध्रान उत्सारयन्त्यश च गॊमायून वायसांस तथा
शॊकेनार्ता विघूर्णन्त्यॊ मत्ता इव चरन्त्य उत
एषान्या तव अनवद्याङ्गी करसंमितमध्यमा
घॊरं तद वैशसं दृष्ट्वा निपतत्य अतिदुःखिता
दृष्ट्वा मे पार्थिवसुताम एतां लक्ष्मणमातरम
राजपुत्रीं महाबाहॊ मनॊ न वयुपशाम्यति
भरातॄंश चान्याः पतींश चान्याः पुत्रांश च निहतान भुवि
दृष्ट्वा परिपतन्त्य एताः परगृह्य सुभुजा भुजान
मध्यमानां तु नारीणां वृद्धानां चापराजित
आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु
रथनीडानि देहांश च हतानां गजवाजिनाम
आश्रिताः शरममॊहार्ताः सथिताः पश्य महाबल
अन्या चापहृतं कायाच चारुकुण्डलम उन्नसम
सवस्य बन्धॊः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति
पूर्वजातिकृतं पापं मन्ये नाप्लम इवानघ
एताभिर अनवद्याभिर मया चैवाल्पमेधया
तद इदं धर्मराजेन यातितं नॊ जनार्दन
न हि नाशॊ ऽसति वार्ष्णेय कर्मणॊः शुभपापयॊः
परत्यग्र वयसः पश्य दर्शनीयकुचॊदराः
कुलेषु जाता हरीमत्यः कृष्णपक्षाक्षि मूर्धजाः
हंसगद्गद भाषिण्यॊ दुःखशॊकप्रमॊहिताः
सारस्य इव वाशन्त्यः पतिताः पश्य माधव
फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष यॊषिताम
अनवद्यानि वत्राणि तपत्य असुखरश्मिवान
ईर्षूणां मम पुत्राणां वासुदेवावरॊधनम
मत्तमातङ्गदर्पाणां पश्यन्त्य अद्य पृथग्जनाः
शतचन्द्राणि चर्माणि धवजांश चादित्यसंनिभान
रौक्माणि चैव वर्माणि निष्कान अपि च काञ्चनान
शीर्ष तराणानि चैतानि पुत्राणां मे महीतले
पश्य दीप्तानि गॊविन्द पावकान सुहुतान इव
एष दुःशासनः शेते शूरेणामित्र घातिना
पीतशॊणितसर्वाङ्गॊ भीमसेनेन पातितः
गदया वीर घातिन्या पश्य माधव मे सुतम
दयूतक्लेशान अनुस्मृत्य दरौपद्या चॊदितेन च
उक्ता हय अनेन पाञ्चाली सभायां दयूतनिर्जिता
परियं चिकीर्षता भरातुः कर्णस्य च जनार्दन
सहैव सहदेवेन नकुलेनार्जुनेन च
दासभार्यासि पाञ्चालि कषिप्रं परविश नॊ गृहान
ततॊ ऽहम अब्रुवं कृष्ण तदा दुर्यॊधनं नृपम
मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय
निबॊधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम
कषिप्रम एनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः
न बुध्यसे तवं दुर्बुद्धे भीमसेनम अमर्षणम
वाङ्नाराचैस तुदंस तीक्ष्णैर उल्काभिर इव कुञ्जरम
तान एष रभसः करूरॊ वाक्शल्यान अवधारयन
उत्ससर्ज विषं तेषु सर्पॊ गॊवृषभेष्व इव
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ
निहतॊ भीमसेनेन सिंहेनेव महर्षभः
अत्यर्थम अकरॊद रौद्रं भीमसेनॊ ऽतयमर्षणः
दुःशासनस्य यत करुद्धॊ ऽपिबच छॊणितम आहवे
[ग]
एष माधव पुत्रॊ मे विकर्णः पराज्ञसंमतः
भूमौ विनिहतः शेते भीमेन शतधा कृतः
गजमध्य गतः शेते विकर्णॊ मधुसूदन
नीलमेघपरिक्षिप्तः शरदीव दिवाकरः
अस्य चापग्रहेणैष पाणिः कृतकिणॊ महान
कथं चिच छिद्यते गृध्रैर अत्तु कामैस तलत्रवान
अस्य भार्यामिष परेप्सून गृध्रान एतांस तपस्विनी
वारयत्य अनिशं बाला न च शक्नॊति माधव
युवा वृन्दारकः शूरॊ विकर्णः पुरुषर्षभ
सुखॊचितः सुखार्हश च शेते पांसुषु माधव
कर्णिनालीकनाराचैर भिन्नमर्माणम आहवे
अद्यापि न जहात्य एनं लक्ष्णीर भरतसत्तमम
एष संग्रामशूरेण परतिज्ञां पालयिष्यता
दुर्मुखॊ ऽभिमुखः शेते हतॊ ऽरिगणहा रणे
तस्यैतद वदनं कृष्ण शवापदैर अर्धभक्षितम
विभात्य अभ्यधिकं तात सप्तम्याम इव चन्द्रमाः
शूरस्य हि रणे कृष्ण यस्याननम अथेदृशम
स कथं निहतॊ ऽमित्रैः पांसून गरसति मे सुतः
यस्याहवं मुखे सौम्या सथाता नैवॊपपद्यते
स कथं कुर्मुखॊ ऽमित्रैर हतॊ विबुधलॊकजित
चित्रसेनं हतं भूमौ शयानं मधुसूदन
धार्तराष्ट्रम इमं पश्य परतिमानं दनुष्मताम
तं चित्रमाल्याभरणं युवत्यः शॊककर्शिताः
करव्यादसंघैः सहिता रुदन्त्यः पर्युपासते
सत्रीणां रुदितनिर्घॊषः शवापदानां च गर्जितम
चित्ररूपम इदं कृष्ण विचित्रं परतिभाति मे
युवा वृन्दारकॊ नित्यं परवर सत्री निषेवितः
विविंशतिर असौ शेते धवस्तः पांसुषु माधव
शरसंकृत्त वर्णाणं वीरं विशसने हतम
परिवार्यासते गृध्राः परिविंशा विविंशतिम
परविश्य समरे वीरः पाण्डवानाम अनीकिनाम
आविश्य शयने शेते पुनः सत्पुरुषॊचितम
समितॊपपन्नं सुनसं सुभ्रु ताराधिपॊपमम
अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः
यं सम तं पर्युपासन्ते वसुं वासव यॊषितः
करीडन्तम इव गन्धर्वं देवकन्याः सहस्रशः
हन्तारं वीरसेनानां शूरं समितिशॊभनम
निबर्हणम अमित्राणां दुःसहं विषहेत कः
दुःसहस्यैतद आभाति शरीरं संवृतं शरैः
गिरिर आत्मरुहैः फुल्लैः कर्णिकारैर इवावृतः
शातकौम्भ्या सरजा भाति कवचेन च भास्वता
अग्निनेव गिरिः शवेतॊ गतासुर अपि दुःसहः
[ग]
अध्यर्धगुणम आहुर यं बले शौर्ये च माधव
पित्रा तवया च दाशार्ह दृप्तं सिंहम इवॊत्कटम
यॊ बिभेद चमूम एकॊ मम पुत्रस्य दुर्भिदाम
स भूत्वा मृत्युर अन्येषां सवयं मृत्युवशं गतः
तस्यॊपलक्षये कृष्ण कार्ष्णेर अमिततेजसः
अभिमन्यॊर हतस्यापि परभा नैवॊपशाम्यति
एषा विराट दुहिता सनुषा गाण्डीवधन्वनः
आर्ता बाला पतिं वीरं शॊच्या शॊचत्य अनिन्दिता
तम एषा हि समासाद्य भार्या भर्तारम अन्तिके
विराट दुहिता कृष्ण पाणिना परिमार्जति
तस्य वक्त्रम उपाघ्राय सौभद्रस्य यशस्विनी
विबुद्धकमलाकारं कम्बुवृत्तशिरॊ धरम
काम्यरूपवती चैषा परिष्वजति भामिनी
लज्ज माना पुरैवैनं माध्वीक मदमूर्छिता
तस्य कषतजसंदिग्धं जातरूपपरिष्कृतम
विमुच्य कवचं कृष्ण शरीरम अभिवीक्षते
अवेक्षमाणा तं बाला कृष्ण तवाम अभिभाषते
अयं ते पुण्डरीकाक्ष सदृशाक्षॊ निपातितः
बले वीर्ये च सदृशस तेजसा चैव ते ऽनघ
रूपेण च तवात्यर्थं शेते भुवि निपातितः
अत्यन्तसुकुमारस्य राङ्क वाजिन शायिनः
कच चिद अद्य शरीरं ते भूमौ न परितप्यते
मातङ्गभुज वर्ष्माणौ जयाक्पेप कठिन तवचौ
काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ
वयायम्य बहुधा नूनं सुखसुप्तः शरमाद इव
एवं विलपतीम आर्तां न हि माम अभिभाषसे
आर्याम आर्य सुभद्रां तवम इमांश च तरिदशॊपमान
पितॄन मां चैव दुःखार्तां विहाय कव गमिष्यसि
तस्य शॊणितसंदिग्धान केशान उन्नाम्य पाणिना
उत्सङ्गे वक्त्रम आधाय जीवन्तम इव पृच्छति
सवस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः
कथं तवां रणमध्यस्थं जघ्नुर एते महारथाः
धिग अस्तु करूर कर्तॄंस तान कृप कर्णजयद्रथान
दरॊण दरौणायनी चॊभौ यैर असि वयसनी कृतः
रथर्षभाणां सर्वेषां कथम आसीत तदा मनः
बालं तवां परिवार्यैकं मम दुःखाय जघ्नुषाम
कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम
तवं वीर निधनं पराप्तॊ नाथवान सन्ननाथवत
दृष्ट्वा बहुभिर आक्रन्दे निहतं तवाम अनाथवत
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः
न राज्यलाभॊ विपुलः शत्रूणां वा पराभवः
परीतं दास्यति पार्थानां तवाम ऋते पुष्करेक्षण
तव शस्त्रजिताँल लॊकान धर्मेण च दमेन च
कषिप्रम अन्वागमिष्यामि तत्र मां परतिपालय
दुर्मरं पुनर अप्राप्ते काले भवति केन चित
यद अहं तवां रणे दृष्ट्वा हतं जीवामि दुर्भगा
काम इदानीं नरव्याघ्र शलक्ष्णया समितया गिरा
पितृलॊके समेत्यान्यां माम इवामन्त्रयिष्यसि
नूनम अप्सरसां सवर्गे मनांसि परमथिष्यसि
परमेण च रूपेण गिरा च समितपूर्वया
पराप्य पुण्यकृताँल लॊकान अप्सरॊभिः समेयिवान
सौभद्र विहरन काले समरेथाः सुकृतानि मे
एतावान इह संवासॊ विहितस ते मया सह
षण मासान सप्तमे मासि तवं वीर निधनं गतः
इत्य उक्तवचनाम एताम अपकर्षन्ति दुःखिताम
उत्तरां मॊघसंकल्पां मत्स्यराजकुलस्त्रियः
उत्तराम अपकृष्यैनाम आर्ताम आर्ततराः सवयम
विराटं निहतं दृष्ट्वा करॊशन्ति विलपन्ति च
दरॊणास्त्र शरसंकृत्तं शयानं रुधिरॊक्षितम
विराटं वितुदन्त्य एते गृध्रगॊमायुवायसाः
वितुद्यमानं विहगैर विराटम असितेक्षणाः
न शक्नुवन्ति विवशा निवर्तयितुम आतुराः
आसाम आतपतप्तानाम आयसेन च यॊषिताम
शरमेण च विवर्णानां रूपाणां विगतं वपुः
उत्तरं चाभिमन्युं च काम्बॊजं च सुदक्षिणम
शिशून एतान हतान पश्य लक्ष्मणं च सुदर्शनम
आयॊधन शिरॊमध्ये शयानं पश्य माधव
[गान्धारी]
एष वैकर्तनः शेते महेष्वासॊ महारथः
जवलितानलवत संख्ये संशान्तः पार्थ तेजसा
पश्य वैकर्तनं कर्णं निहत्यातिरथान बहून
शॊणितौघपरीताङ्गं शयानं पतितं भुवि
अमर्षी दीर्घरॊषश च महेष्वासॊ महारथः
रणे विनिहतः शेते शूरॊ गाण्डीवधन्वना
यं सम पाण्डव संत्रासान मम पुत्रा महारथाः
परायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम
शार्दूलम इव सिंहेन समरे सव्यसाचिना
मातङ्गम इव मत्तेन मातङ्गेन निपातितम
समेताः पुरुषव्याघ्र निहतं शूरम आहवे
परकीर्णमूर्धजाः पत्न्यॊ रुदत्यः पर्युपासते
उद्विग्नः सततं यस्माद धर्मराजॊ युधिष्ठिरः
तरयॊदश समा निद्रां चिन्तयन्न नाध्यगच्छत
अनाधृष्यः परैर युद्धे शत्रुभिर मघवान इव
युगान्ताग्निर इवार्चिष्मान हिमवान इव च सथिरः
स भूत्वा शरणं वीरॊ धार्तराष्ट्रस्य माधव
भूमौ विनिहतः शेते वातरुग्ण इव दरुमः
पश्य कर्णस्य पत्नीं तवं वृषसेनस्य मातरम
लालप्यमानाः करुणं रुदतीं पतितां भुवि
आचार्य शापॊ ऽनुगतॊ धरुवं तवां; यद अग्रसच चक्रम इयं धरा ते
ततः शरेणापहृतं शिरस ते; धनंजयेनाहवे शत्रुमध्ये
अहॊ धिग एषा पतिता विसंज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम
कर्णं महाबाहुम अदीनसत्त्वं; सुषेण माता रुदती भृशार्ता
अल्पावशेषॊ हि कृतॊ महात्मा; शरीरभक्षैः परिभक्षयद्भिः
दरष्टुं न संप्रीति करः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे
सावर्तमाना पतिता पृथिव्याम; उत्थाय दीना पुनर एव चैषा
कर्णस्य वक्त्रं परिजिघ्रमाणा; रॊरूयते पुत्रवधाभितप्ता
[ग]
आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम
गृध्रगॊमायवः शूरं बहु बन्धुम अबन्धुवत
तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन
शयानं वीरशयने रुधिरेण समुक्षितम
तं सृगालाश च कङ्काश च करव्यादाश च पृथग्विधाः
तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम
शयानं वीरशयने वीरम आक्रन्द सारिणम
आवन्त्यम अभितॊ नार्यॊ रुदत्यः पर्युपासते
परातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम
परसुप्तम इव शार्दूलं पश्य कृष्ण मनस्विनम
अतीव मुखवर्णॊ ऽसय निहतस्यापि शॊभते
सॊमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः
पुत्रशॊकाभितप्तेन परतिज्ञां परिरक्षता
पाकशासनिना संख्ये वार्द्ध कषत्रिर निपातितः
एकादश चमूर जित्वा रक्ष्यमाणं महात्मना
सत्यं चिकीर्षता पश्य हतम एनं जयद्रथम
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम
संरक्ष्यमाणं भार्याभिर अनुरक्ताभिर अच्युत
भषन्तॊ वयपकर्षन्ति गहनं निम्नम अन्तिकात
तम एताः पर्युपासन्ते रक्षमाणा महाभुजम
सिन्धुसौवीरगान्धारकाम्बॊजयवनस्त्रियः
यदा कृष्णाम उपादाय पराद्रवत केकयैः सह
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथ
दुःशलां मानयद्भिस तु यदा मुक्तॊ जयद्रथः
कथम अद्य न तां कृष्ण मानयन्ति सम ते पुनः
सैषा मम सुता बाला विलपन्ती सुदुःखिता
परमापयति चात्मानम आक्रॊशति च पाण्डवान
किं नु दुःखतरं कृष्ण परं मम भविष्यति
यत सुता विधवा बाला सनुषाश च निहतेश्वराः
अहॊ धिग दुःशलां पश्य वीतशॊकभयाम इव
शिरॊ भर्तुर अनासाद्य धावमानाम इतस ततः
वारयाम आस यः सर्वान पाण्डवान पुत्रगृद्धिनः
स हत्वा विपुलाः सेनाः सवयं मृत्युवशं गतः
तं मत्तम इव मातङ्गं वीरं परमदुर्जयम
परिवार्य रुदन्त्य एताः सत्रियश चन्द्रॊपमाननाः
[ग]
एष शल्यॊ हतः शेते साक्षान नकुल मातुलः
धर्मज्ञेन सता तात धर्मराजेन संयुगे
यस तवया सपर्धते नित्यं सर्वत्र पुरुषर्षभ
स एष निहतः शेते मद्रराजॊ महारथः
येन संगृह्णता तात रथम आधिरथेर युधि
जवार्थं पाण्डुपुत्राणां तथा तेजॊवधः कृतः
अहॊ धिक पश्य शल्यस्य पूर्णचन्द्र सुदर्शनम
मुखं पद्मपलाशाक्षं वडैर आदष्टम अव्रणम
एषा चामीकराभस्य तप्तकाञ्चनस परभा
आस्याद विनिःसृता जिह्वा भक्ष्यते कृष्णपक्षिभिः
युधिष्ठिरेण निहतं शल्यं समितिशॊभनम
रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः
एताः सुसूक्ष्म वसना मद्रराजं नरर्षभम
करॊशन्त्य अभिसमासाद्य कषत्रियाः कषत्रियर्षभम
शल्यं निपतितं नार्यः परिवार्याभितः सथिताः
वाशिता गृष्टयः पङ्के परिमग्नम इवर्षभम
शल्यं शरणदं शूरं पश्यैनं रथसत्तमम
शयानं वीरशयने शरैर विशकलीकृतम
एष शैलालयॊ राजा भगदत्तः परतापवान
गजाङ्कुश धरः शरेष्ठः शेते भुवि निपातितः
यस्य रुक्ममयी माला शिरस्य एषा विराजते
शवापदैर भक्ष्यमाणस्य शॊभयन्तीव मूर्धजान
एतेन किल पार्थस्य युद्धम आसीत सुदारुणम
लॊमहर्षणम अत्युग्रं शक्रस्य बलिना यथा
यॊधयित्वा महाबाहुर एष पार्थं धनंजयम
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः
यस्य नास्ति समॊ लॊके शौर्ये वीर्ये च कश चन
स एष निहतः शेते भीष्मॊ भीष्मकृद आहवे
पश्य शांतनवं कृष्ण शयानं सूर्यवर्चसम
युगान्त इव कालेन पातितं सूर्यम अम्बरात
एष तप्त्वा रणे शत्रूञ शस्त्रतापेन वीर्यवान
नरसूर्यॊ ऽसतम अभ्येति सूर्यॊ ऽसतम इव केशव
शरतल्पगतं वीरं धर्मे देवापिना समम
शयानं वीरशयने पश्य शूर निषेविते
कर्णिनालीकनाराचैर आस्तीर्य शयनॊत्तमम
आविश्य शेते भगवान सकन्दः शरवणं यथा
अतूल पूर्णं गाङ्गेयस तरिभिर बाणैः समन्वितम
उपधायॊपधानाग्र्यं दत्तं गाण्डीवधन्वना
पालयानः पितुः शास्त्रम ऊर्ध्वरेता महायशाः
एष शांतनवः शेते माधवाप्रतिमॊ युधि
धर्मात्मा तात धर्मज्ञः पारम्पर्येण निर्णये
अमर्त्य इव मर्त्यः सन्न एष पराणान अधारयत
नास्ति युद्धे कृती कश चिन न विद्वान न पराक्रमी
यत्र शांतनवॊ भीष्मः शेते ऽदय निहतः परैः
सवयम एतेन शूरेण पृच्छ्यमानेन पाण्डवैः
धर्मज्ञेनाहवे मृत्युर आख्यातः सत्यवादिना
परनष्टः कुरुवंशश च पुनर येन समुद्धृतः
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम
धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव
गते देवव्रते सवर्गं देवकल्पे नरर्षभे
अर्जुनस्य विनेतारम आचार्यं सात्यकेस तथा
तं पश्य पतितं दरॊणं कुरूणां गुरु सत्तमम
अस्त्रं चतुर्विधं वेद यथैव तरिदशेश्वरः
भार्गवॊ वा महावीर्यस तथा दरॊणॊ ऽपि माधव
यस्य परसादाद बीभत्सुः पाण्डवः कर्म दुष्करम
चकार स हतः शेते नैनम अस्त्राण्य अपालयन
यं पुरॊधाय कुरव आह्वयन्ति सम पाण्डवान
सॊ ऽयं शस्त्रभृतां शरेष्ठॊ दरॊणः शस्त्रैः पृथक कृतः
यस्य निर्दहतः सेनां गतिर अग्नेर इवाभवत
स भूमौ निहतः शेते शान्तार्चिर इव पावकः
धनुर मुष्टिर अशीर्णश च हस्तावापश च माधव
दरॊणस्य निहतस्यापि दृश्यते जीवतॊ यथा
वेदा यस्माच च चत्वारः सर्वास्त्राणि च केशव
अनपेतानि वै शूराद यथैवादौ परजापतेः
बन्दनार्हाव इमौ तस्य बन्दिभिर वन्दितौ शुभौ
गॊमायवॊ विकर्षन्ति पादौ शिष्यशतार्चितौ
दरॊणं दरुपदपुत्रेण निहतं मधुसूदन
कृपी कृपणम अन्वास्ते दुःखॊपहत चेतना
तां पश्य रुदतीम आर्तां मुखकेशीम अधॊमुखीम
हतं पतिम उपासन्तीं दरॊणं शस्त्रभृतां वरम
बाणैर भिन्नतनु तराणं धृष्टद्युम्नेन केशव
उपास्ते वै मृधे दरॊणं जटिला बरह्मचारिणी
परेतकृत्ये च यतते कृपी कृपणम आतुरा
हतस्य समरे भर्तुः सुकुमारी यशस्विनी
अग्नीन आहृत्य विधिवच चितां परज्वाल्य सर्वशः
दरॊणम आधाय गायन्ति तरीणि सामानि सामगाः
किरन्ति च चिताम एते जटिला बरह्मचारिणः
धनुर्भिः शक्तिभिश चैव रथनीदैश च माधव
शस्त्रैश च विविधैर अन्यैर धक्ष्यन्ते भूरि तेजसम
त एते दरॊणम आधाय शंसन्ति च रुदन्ति च
सामभिस तरिभिर अन्तःस्थैर अनुशंसन्ति चापरे
अग्नाव अग्निम इवाधाय दरॊणं हुत्वा हुताशने
गच्छन्त्य अभिमुखा गङ्गां दरॊणशिष्या दविजातयः
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा
[ग]
सॊमदत्तसुतं पश्य युयुधानेन पातितम
वितुद्यमानं विहगैर बहुभिर माधवान्तिके
पुत्रशॊकाभिसंतप्तः सॊमदत्तॊ जनार्दन
युयुधानं महेष्वासं गर्हयन्न इव दृश्यते
असौ तु भूरिश्रवसॊ माता शॊकपरिप्लुता
आश्वासयति भर्तारं सॊमदत्तम अनिन्दिता
दिष्ट्या नेदं महाराज दारुणं भरतक्षयम
कुरु संक्रन्दनं घॊरं युगान्तम अनुपश्यसि
दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम
अनेकक्रतुयज्वानां निहतं नाद्य पश्यसि
दिष्ट्या सनुषाणाम आक्रन्दे घॊरं विलपितं बहु
न शृणॊषि महाराज सारसीनाम इवार्णवे
एकवस्त्रानुसंवीताः परकीर्णासित मूर्धजाः
सनुषास ते परिधावन्ति हतापत्या हतेश्वराः
शवापदैर भक्ष्यमाणं तवम अहॊ दिष्ट्या न पश्यसि
छिन्नबाहुं नरव्याघ्रम अर्जुनेन निपातितम
शलं विनिहतं संख्ये भूरिश्रवसम एव च
सनुषाश च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि
दिष्ट्या तत काञ्चनं छत्रं यूपकेतॊर महात्मनः
विनिकीर्णं रथॊपस्थे सौमदत्तेर न पश्यसि
अमूस तु भूरिश्रवसॊ भार्याः सात्यकिना हतम
परिवार्यानुशॊचन्ति भर्तारम असितेक्षणाः
एता विलप्य बहुलं भर्तृशॊकेन कर्शिताः
पतन्त्य अभिमुखा भूमौ कृपणं बत केशव
बीभत्सुर अतिबीभत्सं कर्मेदम अकरॊत कथम
परमत्तस्य यद अच्छैत्सीद बाहुं शूरस्य यज्वनः
ततः पापतरं कर्मकृतवान अपि सात्यकिः
यस्मात परायॊपविष्टस्य पराहार्षीत संशितात्मनः
एकॊ दवाभ्यां हतः शेषे तवम अधर्मेण धार्मिकः
इति यूपध्वजस्यैताः सत्रियः करॊशन्ति माधव
भार्या यूपध्वजस्यैषा करसंमितमध्यमा
कृत्वॊत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत
अयं स रशनॊत्कर्षी पीनस्तन विमर्दनः
नाभ्यूरुजघनस्पर्शी नीवी विस्रंसनः करः
वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्ट कर्मणा
युध्यतः समरे ऽनयेन परमत्तस्य निपातितः
किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन
अर्जुनस्य महत कर्म सवयं वा स किरीटवान
इत्य एवं गर्हयित्वैषा तूष्टीम आस्ते वराङ्गना
ताम एताम अनुशॊचन्ति सपत्न्यः सवाम इव सनुषाम
गान्धारराजः शकुनिर बलवान सत्यविक्रमः
निहतः सहदेवेन भागिनेयेन मातुलः
यः पुरा हेमदण्डाभ्यां वयजनाभ्यां सम वीज्यते
स एष पक्षिभिः पक्षैः शयान उपवीज्यते
यः सम रूपाणि कुरुते शतशॊ ऽथ सहस्रशः
तस्य मायाविनॊ माया दग्धाः पाण्डव तेजसा
मायया निकृतिप्रज्ञॊ जितवान यॊ युधिष्ठिरम
सभायां विपुलं राज्यं स पुनर जीवितं जितः
शकुन्ताः शकुनिं कृष्ण समन्तात पर्युपासते
कितवं मम पुत्राणां विनाशायॊपशिक्षितम
एतेनैतन महद वैरं परसक्तं पाण्डवैः सह
वधाय मम पुत्राणाम आत्मनः सगणस्य च
यथैव मम पुत्राणां लॊकाः शस्त्रजिताः परभॊ
एवम अस्यापि दुर्बुद्धेर लॊकाः शस्त्रेण वै जिताः
कथं च नायं तत्रापि पुत्रान मे भरातृभिः सह
विरॊधयेद ऋजु परज्ञान अनृजुर मधुसूदन
[ग]
काम्बॊजं पश्य दुर्धर्षं काम्बॊजास्तरणॊचितम
शयानम ऋषभस्कन्धं हतं पांसुशु माधव
यस्य कषतजसंदिग्धौ बाहू चन्दनरूषितौ
अवेक्ष्य कृपणं भार्या विलपत्य अतिदुःखिता
इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली
ययॊर विवरम आपन्नां न रतिर मां पुराजहत
कां गतिं नु गमिष्यामि तवया हीना जनेश्वर
दूरबन्धुर नाथेव अतीव मधुरस्वरा
आतपे कलाम्यमानानां विविधानाम इव सरजाम
कलान्तानाम अपि नारीणां न शरीर जहति वै तनुम
शयानम अभितः शूरं कालिङ्गं मधुसूदन
पश्य दीप्ताङ्गद युगप्रतिबद्ध महाभुजम
मागधानाम अधिपतिं जयत्सेनं जनार्दन
परिवार्य पररुदिता मागध्यः पश्य यॊषितः
आसाम आयतनेत्राणां सुस्वराणां जनार्दन
मनः शरुतिहरॊ नादॊ मनॊ मॊहयतीव मे
परकीर्णसर्वाभरणा रुदन्त्यः शॊककर्शिताः
सवास्तीर्णशयनॊपेता मागध्यः शेरते भुवि
कॊसलानाम अधिपतिं राजपुत्रं बृहद्बलम
भर्तारं परिवार्यैताः पृथक पररुदिताः सत्रियः
अस्य गात्रगतान बाणान कार्ष्णि बाहुबलार्पितान
उद्धरन्त्य असुखाविष्टा मूर्छमानाः पुनः पुनः
आसां सर्वानवद्यानाम आतपेन परिश्रमात
परम्लान नलिनाभानि भान्ति वक्त्राणि माधव
दरॊणेन निहताः शूराः शेरते रुचिराङ्गदाः
दरॊणेनाभिमुखाः सर्वे भरातरः पञ्च केलयाः
तप्तकाञ्चनवर्माणस ताम्रध्वजरथस्रजः
भासयन्ति महीं भासा जवलिता इव पावकाः
दरॊणेन दरुपदं संख्ये पश्य माधव पातितम
महाद्विपम इवारण्ये सिंहेन महता हतम
पाञ्चालराज्ञॊ विपुलं पुण्डरीकाक्ष पाण्डुरम
आतपत्रं समाभाति शरदीव दिवाकरः
एतास तु दरुपदं वृद्धं सनुषा भार्याश च दुःखिताः
दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानम अपसव्यतः
धृष्टकेतुं महेष्वासं चेदिपुंगवम अङ्गनाः
दरॊणेन निहतं शूरं हरन्ति हृतचेतसः
दरॊणास्त्रम अभिहत्यैष विमर्दे मधुसूदन
महेष्वासॊ हतः शेते नद्या हृत इव दरुमः
एष चेदिपतिः शूरॊ धृष्टकेतुर महारथः
शेते विनिहतः संख्ये हत्वा शत्रून सहस्रशः
वितुद्यमानं विहगैस तं भार्याः परत्युपस्थिताः
चेदिराजं हृषीकेशहतं सबलबान्धवम
दाशार्ही पुत्रजं वीरं शयानं सत्यविक्रमम
आरॊप्याङ्के रुदन्त्य एताश चेदिराजवराङ्गनाः
अस्य पुत्रं हृषीकेशसुवक्त्रं चारुकुण्डलम
दरॊणेन समरे पश्य निकृत्तं बहुधा शरैः
पितरं नूनम आजिस्थं युध्यमानं परैः सह
नाजहात पृष्ठतॊ वीरम अद्यापि मधुसूदन
एवं ममापि पुत्रस्य पुत्रः पितरम अन्वगात
दुर्यॊधनं महाबाहॊ लक्ष्मणः परवीरहा
विन्दानुविन्दाव आवन्त्यौ पतितौ पश्य माधव
हिमान्ते पुष्पितौ शालौ मरुता गलिताव इव
काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ
ऋषभप्रति रूपाक्षौ शयानौ विमलस्रजौ
अवध्याः पाण्डवाः कृष्ण सर्व एव तवया सह
ये मुक्ता दरॊण भीष्माभ्यां कर्णाद वैकर्तनात कृपात
दुर्यॊधनाद दरॊणसुतात सैन्धवाच च महारथात
सॊमदत्ताद विकर्णाच च शूराच च कृतवर्मणः
ये हन्युः शस्त्रवेगेन देवान अपि नरर्षभाः
त इमे निहताः संख्ये पश्य कालस्य पर्ययम
नातिभारॊ ऽसति दैवस्य धरुवं माधव कश चन
यद इमे निहताः शूराः कषत्रियैः कषत्रियर्षभाः
तदैव निहताः कृष्ण मम पुत्रास तरस्विनः
यदैवाकृत कामस तवम उपप्लव्यं गतः पुनः
शंतनॊश चैव पुत्रेण पराज्ञेन विदुरेण च
तदैवॊक्तास्मि मा सनेहं कुरुष्वात्म सुतेष्व इति
तयॊर न दर्शनं तात मिथ्या भवितुम अर्हति
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन
[व]
इत्य उक्त्वा नयपतद भूमौ गान्धारी शॊककर्शिता
दुःखॊपहत विज्ञाना धैर्यम उत्सृज्य भारत
ततः कॊपपरीताङ्गी पुत्रशॊकपरिप्लुता
जगाम शौरिं दॊषेण गान्धारी वयथितेन्द्रिया
[ग]
पाण्डवा धार्तराष्ट्राश च दरुग्धाः कृष्ण परस्परम
उपेक्षिता विनश्यन्तस तवया कस्माज जनार्दन
शक्तेन बहु भृत्येन विपुले तिष्ठता बले
उभयत्र समर्थेन शरुतवाक्येन चैव ह
इच्छतॊपेक्षितॊ नाशः कुरूणां मधुसूदन
यस्मात तवया महाबाहॊ फलं तस्माद अवाप्नुहि
पतिशुश्रूषया यन मे तपः किं चिद उपार्जितम
तेन तवां दुरवापात्मञ शप्स्ये चक्रगदाधर
यस्मात परस्परं घनन्तॊ जञातयः कुरुपाण्डवाः
उपेक्षितास ते गॊविन्द तस्माज जञातीन वधिष्यसि
तवम अप्य उपस्थिते वर्षे षट्त्रिंशे मधुसूदन
हतज्ञातिर हतामात्यॊ हतपुत्रॊ वनेचरः
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि
तवाप्य एवं हतसुता निहतज्ञातिबान्धवाः
सत्रियः परिपतिष्यन्ति यथैता भरत सत्रियः
[व]
तच छरुत्वा वचनं घॊरं वासुदेवॊ महामनाः
उवाच देवीं गान्धारीम ईषद अभ्युत्स्मयन्न इव
संहर्ता वृष्णिचक्रस्य नान्यॊ मद विद्यते शुभे
जाने ऽहम एतद अप्य एवं चीर्णं चरसि कषत्रिये
अवध्यास ते नरैर अन्यैर अपि वा देवदानवैः
परस्परकृतं नाशम अतः पराप्स्यन्ति यादवाः
इत्य उक्तवति दाशार्हे पाण्डवास तरस्तचेतसः
बभूवुर भृशसंविग्ना निराशाश चापि जीविते
[वा]
उत्तिष्ठॊत्तिष्ठ गान्धारि मा च शॊके मनः कृथाः
तवैव हय अपराधेन कुरवॊ निधनं गताः
या तवं पुत्रं दुरात्मानम ईर्षुम अत्यन्तमानिनम
दुर्यॊधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे
निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम
कथम आत्मकृतं दॊषं मय्य आधातुम इहेच्छसि
मृतं वा यदि वा नष्टं यॊ ऽतीतम अनुशॊचति
दुःखेन लभते दुःखं दवाव अनर्थौ परपद्यते
तपॊ ऽरथीयं बराह्मणी धत्त गर्भं; गौर वॊढारं धावितारं तुरंगी
शूद्रा दासं पशुपालं तु वैश्या; वधार्थीयं तवद्विधा राजपुत्री
[व]
तच छरुत्वा वासुदेवस्य पुनरुक्तं वचॊ ऽपरियम
तूष्णीं बभूव गान्धारी शॊकव्याकुल लॊचना
धृतराष्ट्रस तु राजर्षिर निगृह्याबुद्धिजं तमः
पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम
जीवतां परिमाणज्ञः सैन्यानाम असि पाण्डव
हतानां यदि जानीषे परिमाणं वदस्व मे
[य]
दशायुतानाम अयुतं सहस्राणि च विंशतिः
कॊट्यः षष्टिश च षट चैव ये ऽसमिन राजमृधे हताः
अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश
दश चान्यानि राजेन्द्र शतं षष्टिश च पञ्च च
[धृ]
युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः
आचक्ष्व मे महाबाहॊ सर्वज्ञॊ हय असि मे मतः
[य]
यैर हुतानि शरीराणि हृष्टैः परमसंयुगे
देवराजसमाँल लॊकान गतास ते सत्यविक्रमाः
ये तव अहृष्टेन मनसा मर्तव्यम इति भारत
युध्यमाना हताः संख्ये ते गन्धर्वैः समागताः
ये तु संग्रामभूमिष्ठा याचमानाः पराङ्मुखाः
शस्त्रेण निधनं पराप्ता गतास ते गुह्यकान परति
पीड्यमानाः परैर ये तु हीयमाना निरायुधाः
हरीनिषेधा महात्मानः परान अभिमुखा रणे
छिद्यमानाः शितैः शस्त्रैः कषत्रधर्मपरायणाः
गतास ते बरह्म सदनं हता वीराः सुवर्चसः
ये तत्र निहता राजन्न अन्तर आयॊधनं परति
यथा कथं चित ते राजन संप्राप्ता उत्तरान कुरून
[धृ]
केन जञानबलेनैवं पुत्रपश्यसि सिद्धवत
तन मे वद महाबाहॊ शरॊतव्यं यदि वै मया
[य]
निदेशाद भवतः पूर्वं वने विचरता मया
तीर्थयात्रा परसङ्गेन संप्राप्तॊ ऽयम अनुग्रहः
देवर्षिर लॊमशॊ हृष्टस ततः पराप्तॊ ऽसम्य अनुस्मृतिम
दिव्यं चक्षुर अपि पराप्तं जञानयॊगेन वै पुरा
[धृ]
ये ऽतरानाथा जनस्यास्य स नाथा ये च भारत
कच चित तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम
न येषां सन्ति कर्तारॊ न च ये ऽतराहिताग्नयः
वयं च कस्य कुर्यामॊ बहुत्वात तात कर्मणः
यान सुपर्णाश च गृध्राश च विकर्षन्ति ततस ततः
तेषां तु कर्मणा लॊका भविष्यन्ति युधिष्ठिर
[व]
एवम उक्तॊ महाप्राज्ञः कुन्तीपुत्रॊ युधिष्ठिरः
आदिदेश सुधर्माणं दौम्यं सूतं च संजयम
विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम
इन्द्रसेन मुखांश चैव भृत्यान सूतांश च सर्वशः
भवन्तः कारयन्त्व एषां परेतकार्याणि सर्वशः
यथा चानाथवत किं चिच छरीरं न विनश्यति
शासनाद धर्मराजस्य कषत्ता सूतश च संजयः
सुधर्मा धौम्य सहित इन्द्रसेनादयस तथा
चन्दनागुरुकाष्ठानि तथा कालीयकान्य उत
घृतं तैलं च गन्धांश च कषौमाणि वसनानि च
समाहृत्य महार्हाणि दारूणां चैव संचयान
रथांश च मृदितांस तत्र नानाप्रहरणानि च
चिताः कृत्वा परयत्नेन यथामुख्यान नराधिपान
दाहयाम आसुर अव्यग्रा विधिदृष्टेन कर्मणा
दुर्यॊधनं च राजानं भरातॄंश चास्य शताधिकान
शल्यं शलं च राजानं भूरिश्रवसम एव च
जयद्रथं च राजानम अभिमन्युं च भारत
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम
बृहन्तं सॊमदत्तं च सृञ्जयांश च शताधिकान
राजानं कषेमधन्वानं विराटद्रुपदौ तथा
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम
युधामन्युं च विक्रान्तम उत्तमौजसम एव च
कौसल्यं दरौपदेयांश च शकुनिं चापि सौबलम
अचलं वृषकं चैव भगदत्तं च पार्थिवम
कर्णं वैकर्तनं चैव सह पुत्रम अमर्षणम
केकयांश च महेष्वासांस तरिगर्तांश च महारथान
घटॊत्कचं राक्षसेन्द्रं बकभ्रातरम एव च
अलम्बुसं च राजानं जलसंघं च पार्थिवम
अन्यांश च पार्थिवान राजञ शतशॊ ऽथ सहस्रशः
घृतधारा हुतैर दीप्तैः पावकैः समदाहयन
पितृमेधाश च केषां चिद अवर्तन्त महात्मनाम
सामभिश चाप्य अगायन्त ते ऽनवशॊच्यन्त चापरैः
साम्नाम ऋचां च नादेन सत्रीणां च रुदितस्वनैः
कश्मलं सर्वभूतानां निशायां समपद्यत
ते विधूमाः परदीप्ताश च दीप्यमानाश च पावकाः
नभसीवान्वदृश्यन्त गरहास तन्व अभ्रसंवृताः
ये चाप्य अनाथास तत्रासन नानादेशसमागताः
तांश च सर्वान समानाय्य राशीन कृत्वा सहस्रशः
चित्वा दारुभिर अव्यग्रः परभूतैः सनेहतापितैः
दाहयाम आस विदुरॊ धर्मराजस्य शासनात
कारयित्वा करियास तेषां कुरुराजॊ युधिष्ठिरः
धृतराष्ट्रं पुरस्कृत्य गङ्गाम अभिमुखॊ ऽगमत
[व]
ते समासाद्य गङ्गां तु शिवां पुण्यजनॊचिताम
हरदिनीं वप्रसंपन्नां महानूपां महावनाम
भूषणान्य उत्तरीयाणि वेष्टनान्य अवमुच्य च
ततः पितॄणां पौत्राणां भरातॄणां सवजनस्य च
पुत्राणाम आर्यकाणां च पतीनां च कुरु सत्रियः
उदकं चक्रिरे सर्वा रुदन्त्यॊ भृशदुःखिताः
सुहृदां चापि धर्मज्ञाः परचक्रुः सलिलक्रियाः
उदके करियमाणे तु वीराणां वीर पत्निभिः
सूपतीर्था अभवद गङ्गा भूयॊ विप्रससार च
तन महॊदधि संकाशं निरानन्दम अनुत्सवम
वीर पत्नीभिर आकीर्णं गङ्गातीरम अशॊभत
ततः कुन्ती महाराज सहसा शॊककर्शिता
रुदती मन्दया वाचा पुत्रान वचनम अब्रवीत
यः स शूरॊ महेष्वासॊ रथयूथप यूथपः
अर्जुनेन हतः संख्ये वीर लक्षणलक्षितः
यं सूतपुत्रं मन्यध्वं राधेयम इति पाण्डवाः
यॊ वयराजच चमूमध्ये दिवाकर इव परभुः
परत्ययुध्यत यः सर्वान पुरा वः सपदानुगान
दुर्यॊधन बलं सर्वं यः परकर्षन वयरॊचत
यस्य नास्ति समॊ वीर्ये पृथिव्याम अपि कश चन
सत्यसंधस्य शूरस्य संग्रामेष्व अपलायिनः
कुरुध्वम उदकं तस्य भरातुर अक्लिष्टकर्मणः
स हि वः पूर्वजॊ भराता भास्करान मय्य अजायत
कुण्डली कवची शूरॊ दिवाकरसमप्रभः
शरुत्वा तु पाण्डवाः सर्वे मातुर वचनम अप्रियम
कर्णम एवानुशॊचन्त भूयश चार्ततराभवन
ततः स पुरुषव्याघ्रः कुन्तीपुत्रॊ युधिष्ठिरः
उवाच मातरं वीरॊ निःश्वसन्न इव पन्नगः
यस्येषु पातम आसाद्य नान्यस तिष्ठेद धनंजयात
कथं पुत्रॊ भवत्यां स देवगर्भः पुराभवत
यस्य बाहुप्रतापेन तापिताः सर्वतॊ वयम
तम अग्निम इव वस्त्रेण कथंछादितवत्य असि
यस्य बाहुबलं घॊरं धार्तराष्ट्त्रैर उपासितम
नान्यः कुन्तीसुतात कर्णाद अगृह्णाद रथिनां रथी
स नः परथमजॊ भराता सर्वशस्त्रभृतां वरः
असूत तं भवत्य अग्रे कथम अद्भुतविक्रमम
अहॊ भवत्या मन्त्रस्य पिधानेन वयं हताः
निधनेन हि कर्णस्य पीडिताः सम स बान्धवाः
अभिमन्यॊर विनाशेन दरौपदेय वधेन च
पाञ्चालानां च नाशेन कुरूणां पतनेन च
ततः शतगुणं दुःखम इदं माम अस्पृशद भृशम
कर्णम एवानुशॊचन हि दह्याम्य अग्नाव इवाहितः
न हि सम किं चिद अप्राप्यं भवेद अपि दिवि सथितम
न च सम वैशसं घॊरं कौरवान्त करं भवेत
एवं विलप्य बहुलं धर्मराजॊ युधिष्ठिरः
विनदञ शनकै राजंश चकारास्यॊदकं परभुः
ततॊ विनेदुः सहसा सत्रीपुंसास तत्र सर्वशः
अभितॊ ये सथितास तत्र तस्मिन्न उदककर्मणि
तत आनाययाम आस कर्णस्य स परिच्छदम
सत्रियः कुरुपतिर धीमान भरातुः परेम्णा युधिष्ठिरः
स ताभिः सहधर्मात्मा परेतकृत्यम अनन्तरम
कृत्वॊत्ततार गङ्गायाः सलिलाद आकुलेन्द्रियः

About this parayana

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

daily-pujasanskritparayanadevotionalmahabharatascriptureepicitihasa