← ← Back to Shabda
epicdurga
नेपालीदेवनागरी script
Durga Saptashati (Devi Mahatmyam)
Durgā Saptaśatī
Viewing in नेपाली · देवनागरी script
॥ श्रीदुर्गासप्तश्लोकी ॥ ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमहामन्त्रस्यनारायण ऋषिः । अनुष्टुपादीनि छन्दांसि ।श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ।श्री जगदम्बाप्रीत्यर्थ पाठे विनियोगः ॥ ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।बलादाकृष्य मोहाय महामाया प्रयच्छति ॥१॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोःस्वस्थैः स्मृता मतिमतीव शुभां ददासि ।दारिद्रयदुःखभयहारिणि का त्वदन्यासर्वोपकारकरणाय सदार्द्र चित्ता ॥२॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥३॥ शरणागतदीनार्तपरित्राणपरायणे ।सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥४॥ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥५॥ रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥६॥ सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।एवमेव त्वया कार्यमस्मद्वैरि विनाशनम् ॥७॥
navratrituesdayshaktasanskrit700-versesscripturegoddess