ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← Back to Shabda
नेपाली interface

भगवद् गीता — अध्याय 1: अर्जुन विषाद योग

Bhagavad Gita — Chapter 1: Arjuna Vishada Yoga

Bhagavad Gita — Chapter 1: Arjuna Vishada Yoga

Text in देवनागरी script

Devotional text

मूल श्लोकःधृतराष्ट्र उवाचधर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।
मूल श्लोकःसञ्जय उवाचदृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।।
मूल श्लोकःपश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।।1.3।।
मूल श्लोकःअत्र शूरा महेष्वासा भीमार्जुनसमा युधि।युयुधानो विराटश्च द्रुपदश्च महारथः।।1.4।।
मूल श्लोकःधृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्।पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः।।1.5।।
मूल श्लोकःयुधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्।सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।।1.6।।
मूल श्लोकःअस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते।।1.7।।
मूल श्लोकःभवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।
मूल श्लोकःअन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।
मूल श्लोकःअपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।
मूल श्लोकःअयनेषु च सर्वेषु यथाभागमवस्थिताः।भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।1.11।।
मूल श्लोकःतस्य संजनयन्हर्षं कुरुवृद्धः पितामहः।सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्।।1.12।।
मूल श्लोकःततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्।।1.13।।
मूल श्लोकःततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः।।1.14।।
मूल श्लोकःपाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः।पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः।।1.15।।
मूल श्लोकःअनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।।
मूल श्लोकःकाश्यश्च परमेष्वासः शिखण्डी च महारथः।धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।।1.17।।
मूल श्लोकःद्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्।।1.18।।
मूल श्लोकःस घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।1.19।।
मूल श्लोकःअथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः।प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः।।1.20।।
मूल श्लोकःअर्जुन उवाचहृषीकेशं तदा वाक्यमिदमाह महीपते।सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत।।1.21।।
मूल श्लोकःयावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्।कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे।।1.22।।
मूल श्लोकःयोत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः।धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः।।1.23।।
मूल श्लोकःसंजय उवाचएवमुक्तो हृषीकेशो गुडाकेशेन भारत।सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्।।1.24।।
मूल श्लोकःभीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्।उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति।।1.25।।
मूल श्लोकःतत्रापश्यत्स्थितान्पार्थः पितृ़नथ पितामहान्।आचार्यान्मातुलान्भ्रातृ़न्पुत्रान्पौत्रान्सखींस्तथा।।1.26।।
मूल श्लोकःश्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।1.27।।
मूल श्लोकःअर्जुन उवाचकृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्।दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।।1.28।।
मूल श्लोकःसीदन्ति मम गात्राणि मुखं च परिशुष्यति।वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।1.29।।
मूल श्लोकःगाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते।न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।।1.30।।
मूल श्लोकःनिमित्तानि च पश्यामि विपरीतानि केशव।न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे।।1.31।।
मूल श्लोकःन काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा।।1.32।।
मूल श्लोकःयेषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।1.33।।
मूल श्लोकःआचार्याः पितरः पुत्रास्तथैव च पितामहाः।मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा।।1.34।।
मूल श्लोकःएतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते।।1.35।।
मूल श्लोकःनिहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन।पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः।।1.36।।
मूल श्लोकःतस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्।स्वजनं हि कथं हत्वा सुखिनः स्याम माधव।।1.37।।
मूल श्लोकःयद्यप्येते न पश्यन्ति लोभोपहतचेतसः।कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्।।1.38।।
मूल श्लोकःकथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन।।1.39।।
मूल श्लोकःकुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः।धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत।।1.40।।
मूल श्लोकःअधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः।स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः।।1.41।।
मूल श्लोकःसङ्करो नरकायैव कुलघ्नानां कुलस्य च।पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।।1.42।।
मूल श्लोकःदोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः।उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः।।1.43।।
मूल श्लोकःउत्सन्नकुलधर्माणां मनुष्याणां जनार्दन।नरकेऽनियतं वासो भवतीत्यनुशुश्रुम।।1.44।।
मूल श्लोकःअहो बत महत्पापं कर्तुं व्यवसिता वयम्।यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः।।1.45।।
मूल श्लोकःयदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्।।1.46।।
मूल श्लोकःसञ्जय उवाचएवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्।विसृज्य सशरं चापं शोकसंविग्नमानसः।।1.47।।

About this parayana — Vishnu

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

ekadashidaily-pujavaishnavasanskritparayanadevotionalgitabhagavad-gitascripture