ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← Back to Shabda
नेपाली interface

भगवद् गीता — अध्याय 11: विश्वरूप दर्शन योग

Bhagavad Gita — Chapter 11: Vishvarupa Darshana Yoga

Bhagavad Gita — Chapter 11: Vishvarupa Darshana Yoga

Text in देवनागरी script

Devotional text

मूल श्लोकःअर्जुन उवाचमदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।11.1।।
मूल श्लोकःभवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।11.2।।
मूल श्लोकःएवमेतद्यथात्थ त्वमात्मानं परमेश्वर।द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम।।11.3।।
मूल श्लोकःमन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।योगेश्वर ततो मे त्वं दर्शयाऽत्मानमव्ययम्।।11.4।।
मूल श्लोकःश्री भगवानुवाचपश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।नानाविधानि दिव्यानि नानावर्णाकृतीनि च।।11.5।।
मूल श्लोकःपश्यादित्यान्वसून्रुद्रानश्िवनौ मरुतस्तथा।बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत।।11.6।।
मूल श्लोकःइहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्।मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि।।11.7।।
मूल श्लोकःन तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा।दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्।।11.8।।
मूल श्लोकःसञ्जय उवाचएवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः।दर्शयामास पार्थाय परमं रूपमैश्वरम्।।11.9।।
मूल श्लोकःअनेकवक्त्रनयनमनेकाद्भुतदर्शनम्।अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्।।11.10।।
मूल श्लोकःदिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्।सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्।।11.11।।
मूल श्लोकःदिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः।।11.12।।
मूल श्लोकःतत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा।।11.13।।
मूल श्लोकःततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः।प्रणम्य शिरसा देवं कृताञ्जलिरभाषत।।11.14।।
मूल श्लोकःअर्जुन उवाचपश्यामि देवांस्तव देव देहेसर्वांस्तथा भूतविशेषसङ्घान्।ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान्।।11.15।।
मूल श्लोकःअनेकबाहूदरवक्त्रनेत्रंपश्यामि त्वां सर्वतोऽनन्तरूपम्।नान्तं न मध्यं न पुनस्तवादिंपश्यामि विश्वेश्वर विश्वरूप।।11.16।।
मूल स्लोकःकिरीटिनं गदिनं चक्रिणं चतेजोराशिं सर्वतोदीप्तिमन्तम्।पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्।।11.17।।
मूल श्लोकःत्वमक्षरं परमं वेदितव्यंत्वमस्य विश्वस्य परं निधानम्।त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषो मतो मे।।11.18।।
मूल श्लोकःअनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्।पश्यामि त्वां दीप्तहुताशवक्त्रम्स्वतेजसा विश्वमिदं तपन्तम्।।11.19।।
मूल श्लोकःद्यावापृथिव्योरिदमन्तरं हिव्याप्तं त्वयैकेन दिशश्च सर्वाः।दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदंलोकत्रयं प्रव्यथितं महात्मन्।।11.20।।
मूल श्लोकःअमी हि त्वां सुरसङ्घा विशन्तिकेचिद्भीताः प्राञ्जलयो गृणन्ति।स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाःस्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः।।11.21।।
मूल श्लोकःरुद्रादित्या वसवो ये च साध्याविश्वेऽश्िवनौ मरुतश्चोष्मपाश्च।गन्धर्वयक्षासुरसिद्धसङ्घावीक्षन्ते त्वां विस्मिताश्चैव सर्वे।।11.22।।
मूल श्लोकःरूपं महत्ते बहुवक्त्रनेत्रंमहाबाहो बहुबाहूरुपादम्।बहूदरं बहुदंष्ट्राकरालंदृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्।।11.23।।
मूल श्लोकःनभःस्पृशं दीप्तमनेकवर्णंव्यात्ताननं दीप्तविशालनेत्रम्।दृष्ट्वा हि त्वां प्रव्यथितान्तरात्माधृतिं न विन्दामि शमं च विष्णो।।11.24।।
मूल श्लोकःदंष्ट्राकरालानि च ते मुखानिदृष्ट्वैव कालानलसन्निभानि।दिशो न जाने न लभे च शर्मप्रसीद देवेश जगन्निवास।।11.25।।
मूल श्लोकःअमी च त्वां धृतराष्ट्रस्य पुत्राःसर्वे सहैवावनिपालसङ्घैः।भीष्मो द्रोणः सूतपुत्रस्तथाऽसौसहास्मदीयैरपि योधमुख्यैः।।11.26।।
मूल श्लोकःवक्त्राणि ते त्वरमाणा विशन्तिदंष्ट्राकरालानि भयानकानि।केचिद्विलग्ना दशनान्तरेषुसंदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।।11.27।।
मूल श्लोकःयथा नदीनां बहवोऽम्बुवेगाःसमुद्रमेवाभिमुखा द्रवन्ति।तथा तवामी नरलोकवीराविशन्ति वक्त्राण्यभिविज्वलन्ति।।11.28।।
मूल श्लोकःयथा प्रदीप्तं ज्वलनं पतङ्गाविशन्ति नाशाय समृद्धवेगाः।तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः।।11.29।।
मूल श्लोकःलेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः।तेजोभिरापूर्य जगत्समग्रंभासस्तवोग्राः प्रतपन्ति विष्णो।।11.30।।
मूल श्लोकःआख्याहि मे को भवानुग्ररूपोनमोऽस्तु ते देववर प्रसीद।विज्ञातुमिच्छामि भवन्तमाद्यंन हि प्रजानामि तव प्रवृत्तिम्।।11.31।।
मूल श्लोकःश्री भगवानुवाचकालोऽस्मि लोकक्षयकृत्प्रवृद्धोलोकान्समाहर्तुमिह प्रवृत्तः।ऋतेऽपि त्वां न भविष्यन्ति सर्वेयेऽवस्थिताः प्रत्यनीकेषु योधाः।।11.32।।
मूल श्लोकःतस्मात्त्वमुत्तिष्ठ यशो लभस्वजित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्।मयैवैते निहताः पूर्वमेवनिमित्तमात्रं भव सव्यसाचिन्।।11.33।।
मूल श्लोकःद्रोणं च भीष्मं च जयद्रथं चकर्णं तथाऽन्यानपि योधवीरान्।मया हतांस्त्वं जहि मा व्यथिष्ठायुध्यस्व जेतासि रणे सपत्नान्।।11.34।।
मूल श्लोकःसञ्जय उवाचएतच्छ्रुत्वा वचनं केशवस्यकृताञ्जलिर्वेपमानः किरीटी।नमस्कृत्वा भूय एवाह कृष्णंसगद्गदं भीतभीतः प्रणम्य।।11.35।।
मूल श्लोकःअर्जुन उवाचस्थाने हृषीकेश तव प्रकीर्त्याजगत् प्रहृष्यत्यनुरज्यते च।रक्षांसि भीतानि दिशो द्रवन्तिसर्वे नमस्यन्ति च सिद्धसङ्घाः।।11.36।।
मूल श्लोकःकस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।अनन्त देवेश जगन्निवासत्वमक्षरं सदसत्तत्परं यत्।।11.37।।
मूल श्लोकःत्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्।वेत्तासि वेद्यं च परं च धामत्वया ततं विश्वमनन्तरूप।।11.38।।
मूल श्लोकःवायुर्यमोऽग्निर्वरुणः शशाङ्कःप्रजापतिस्त्वं प्रपितामहश्च।नमो नमस्तेऽस्तु सहस्रकृत्वःपुनश्च भूयोऽपि नमो नमस्ते।।11.39।।
मूल श्लोकःनमः पुरस्तादथ पृष्ठतस्तेनमोऽस्तु ते सर्वत एव सर्व।अनन्तवीर्यामितविक्रमस्त्वंसर्वं समाप्नोषि ततोऽसि सर्वः।।11.40।।
मूल श्लोकःसखेति मत्वा प्रसभं यदुक्तंहे कृष्ण हे यादव हे सखेति।अजानता महिमानं तवेदंमया प्रमादात्प्रणयेन वापि।।11.41।।
मूल श्लोकःयच्चावहासार्थमसत्कृतोऽसिविहारशय्यासनभोजनेषु।एकोऽथवाप्यच्युत तत्समक्षंतत्क्षामये त्वामहमप्रमेयम्।।11.42।।
मूल श्लोकःपितासि लोकस्य चराचरस्यत्वमस्य पूज्यश्च गुरुर्गरीयान्।न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्योलोकत्रयेऽप्यप्रतिमप्रभाव।।11.43।।
मूल श्लोकःतस्मात्प्रणम्य प्रणिधाय कायंप्रसादये त्वामहमीशमीड्यम्।पितेव पुत्रस्य सखेव सख्युःप्रियः प्रियायार्हसि देव सोढुम्।।11.44।।
मूल श्लोकःअदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वाभयेन च प्रव्यथितं मनो मे।तदेव मे दर्शय देव रूपंप्रसीद देवेश जगन्निवास।।11.45।।
मूल श्लोकःकिरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव।तेनैव रूपेण चतुर्भुजेनसहस्रबाहो भव विश्वमूर्ते।।11.46।।
मूल श्लोकःश्री भगवानुवाचमया प्रसन्नेन तवार्जुनेदंरूपं परं दर्शितमात्मयोगात्।तेजोमयं विश्वमनन्तमाद्यंयन्मे त्वदन्येन न दृष्टपूर्वम्।।11.47।।
मूल श्लोकःन वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः।एवंरूपः शक्य अहं नृलोकेद्रष्टुं त्वदन्येन कुरुप्रवीर।।11.48।।
मूल श्लोकःमा ते व्यथा मा च विमूढभावोदृष्ट्वा रूपं घोरमीदृङ्ममेदम्।व्यपेतभीः प्रीतमनाः पुनस्त्वंतदेव मे रूपमिदं प्रपश्य।।11.49।।
मूल श्लोकःसञ्जय उवाचइत्यर्जुनं वासुदेवस्तथोक्त्वास्वकं रूपं दर्शयामास भूयः।आश्वासयामास च भीतमेनंभूत्वा पुनः सौम्यवपुर्महात्मा।।11.50।।
मूल श्लोकःअर्जुन उवाचदृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन।इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।11.51।।
मूल श्लोकःश्री भगवानुवाचसुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम।देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः।।11.52।।
मूल श्लोकःनाहं वेदैर्न तपसा न दानेन न चेज्यया।शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा।।11.53।।
मूल श्लोकःभक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।ज्ञातुं दृष्टुं च तत्त्वेन प्रवेष्टुं च परंतप।।11.54।।
मूल श्लोकःमत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः।निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव।।11.55।।

About this parayana — Vishnu

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

ekadashidaily-pujavaishnavasanskritparayanadevotionalgitabhagavad-gitascripture