ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← Back to Shabda
नेपाली interface

भगवद् गीता — अध्याय 2: साङ्ख्य योग

Bhagavad Gita — Chapter 2: Sankhya Yoga

Bhagavad Gita — Chapter 2: Sankhya Yoga

Text in देवनागरी script

Devotional text

मूल श्लोकःसञ्जय उवाचतं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।।
मूल श्लोकःश्री भगवानुवाचकुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन।।2.2।।
मूल श्लोकःक्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप।।2.3।।
मूल श्लोकःअर्जुन उवाचकथं भीष्ममहं संख्ये द्रोणं च मधुसूदन।इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन।।2.4।।
मूल श्लोकःगुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके।हत्वार्थकामांस्तु गुरूनिहैवभुञ्जीय भोगान् रुधिरप्रदिग्धान्।।2.5।।
मूल श्लोकःन चैतद्विद्मः कतरन्नो गरीयोयद्वा जयेम यदि वा नो जयेयुः।यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः।।2.6।।
मूल श्लोकःकार्पण्यदोषोपहतस्वभावःपृच्छामि त्वां धर्मसंमूढचेताः।यच्छ्रेयः स्यान्निश्िचतं ब्रूहि तन्मेशिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।।2.7।।
मूल श्लोकःन हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्।अवाप्य भूमावसपत्नमृद्धम्राज्यं सुराणामपि चाधिपत्यम्।।2.8।।
मूल श्लोकःसञ्जय उवाचएवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप।न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह।।2.9।।
मूल श्लोकःतमुवाच हृषीकेशः प्रहसन्निव भारत।सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः।।2.10।।
मूल श्लोकःश्री भगवानुवाचअशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।।2.11।।
मूल श्लोकःन त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।न चैव न भविष्यामः सर्वे वयमतः परम्।।2.12।।
मूल श्लोकःदेहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा।तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति।।2.13।।
मूल श्लोकःमात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत।।2.14।।
मूल श्लोकःयं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते।।2.15।।
मूल श्लोकःनासतो विद्यते भावो नाभावो विद्यते सतः।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।।2.16।।
मूल श्लोकःअविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति।।2.17।।
मूल श्लोकःअन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत।।2.18।।
मूल श्लोकःय एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।2.19।।
मूल श्लोकःन जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे।।2.20।।
मूल श्लोकःवेदाविनाशिनं नित्यं य एनमजमव्ययम्।कथं स पुरुषः पार्थ कं घातयति हन्ति कम्।।2.21।।
मूल श्लोकःवासांसि जीर्णानि यथा विहायनवानि गृह्णाति नरोऽपराणि।तथा शरीराणि विहाय जीर्णा-न्यन्यानि संयाति नवानि देही।।2.22।।
मूल श्लोकःनैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।2.23।।
मूल श्लोकःअच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च।नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।।2.24।।
मूल श्लोकःअव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि।।2.25।।
मूल श्लोकःअथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्।तथापि त्वं महाबाहो नैवं शोचितुमर्हसि।।2.26।।
मूल श्लोकःजातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।।2.27।।
मूल श्लोकःअव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत।अव्यक्तनिधनान्येव तत्र का परिदेवना।।2.28।।
मूल श्लोकःआश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः।आश्चर्यवच्चैनमन्यः श्रृणोतिश्रुत्वाप्येनं वेद न चैव कश्चित्।।2.29।।
मूल श्लोकःदेही नित्यमवध्योऽयं देहे सर्वस्य भारत।तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि।।2.30।।
मूल श्लोकःस्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि।धर्म्याद्धि युद्धाछ्रेयोऽन्यत्क्षत्रियस्य न विद्यते।।2.31।।
मूल श्लोकःयदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्।सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्।।2.32।।
मूल श्लोकःअथ चैत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।2.33।।
मूल श्लोकःअकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।संभावितस्य चाकीर्तिर्मरणादतिरिच्यते।।2.34।।
मूल श्लोकःभयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।2.35।।
मूल श्लोकःअवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः।निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।।2.36।।
मूल श्लोकःहतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।।2.37।।
मूल श्लोकःसुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।।2.38।।
मूल श्लोकःएषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु।बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।।2.39।।
मूल श्लोकःनेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।।2.40।।
मूल श्लोकःव्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।।2.41।।
मूल श्लोकःयामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।वेदवादरताः पार्थ नान्यदस्तीति वादिनः।।2.42।।
मूल श्लोकःकामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति।।2.43।।
मूल श्लोकःभोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्।व्यवसायात्मिका बुद्धिः समाधौ न विधीयते।।2.44।।
मूल श्लोकःत्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन।निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्।।2.45।।
मूल श्लोकःयावानर्थ उदपाने सर्वतः संप्लुतोदके।तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।2.46।।
मूल श्लोकःकर्मण्येवाधिकारस्ते मा फलेषु कदाचन।मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।2.47।।
मूल श्लोकःयोगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।2.48।।
मूल श्लोकःदूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय।बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः।।2.49।।
मूल श्लोकःबुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।।2.50।।
मूल श्लोकःकर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः।जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्।।2.51।।
मूल श्लोकःयदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति।तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च।।2.52।।
मूल श्लोकःश्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।समाधावचला बुद्धिस्तदा योगमवाप्स्यसि।।2.53।।
मूल श्लोकःअर्जुन उवाचस्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव।स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्।।2.54।।
मूल श्लोकःश्री भगवानुवाचप्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्।आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते।।2.55।।
मूल श्लोकःदुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।।2.56।।
मूल श्लोकःयः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।2.57।।
मूल श्लोकःयदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।2.58।।
मूल श्लोकःविषया विनिवर्तन्ते निराहारस्य देहिनः।रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते।।2.59।।
मूल श्लोकःयततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः।इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।।2.60।।
मूल श्लोकःतानि सर्वाणि संयम्य युक्त आसीत मत्परः।वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।।2.61।।
मूल श्लोकःध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते।सङ्गात् संजायते कामः कामात्क्रोधोऽभिजायते।।2.62।।
मूल श्लोकःक्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः।स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति।।2.63।।
मूल श्लोकःरागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्।आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति।।2.64।।
मूल श्लोकःप्रसादे सर्वदुःखानां हानिरस्योपजायते।प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते।।2.65।।
मूल श्लोकःनास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्।।2.66।।
मूल श्लोकःइन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि।।2.67।।
मूल श्लोकःतस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।2.68।।
मूल श्लोकःया निशा सर्वभूतानां तस्यां जागर्ति संयमी।यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।2.69।।
मूल श्लोकःआपूर्यमाणमचलप्रतिष्ठंसमुद्रमापः प्रविशन्ति यद्वत्।तद्वत्कामा यं प्रविशन्ति सर्वेस शान्तिमाप्नोति न कामकामी।।2.70।।
मूल श्लोकःविहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।निर्ममो निरहंकारः स शांतिमधिगच्छति।।2.71।।
मूल श्लोकःएषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।2.72।।

About this parayana — Vishnu

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

ekadashidaily-pujavaishnavasanskritparayanadevotionalgitabhagavad-gitascripture