ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← Back to Shabda
नेपाली interface

भगवद् गीता — अध्याय 7: ज्ञान विज्ञान योग

Bhagavad Gita — Chapter 7: Jnana Vijnana Yoga

Bhagavad Gita — Chapter 7: Jnana Vijnana Yoga

Text in देवनागरी script

Devotional text

मूल श्लोकःश्री भगवानुवाचमय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु।।7.1।।
मूल श्लोकःज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते।।7.2।।
मूल श्लोकःमनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये।यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः।।7.3।।
मूल श्लोकःभूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च।अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा।।7.4।।
मूल श्लोकःअपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।जीवभूतां महाबाहो ययेदं धार्यते जगत्।।7.5।।
मूल श्लोकःएतद्योनीनि भूतानि सर्वाणीत्युपधारय।अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा।।7.6।।
मूल श्लोकःमत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय।मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव।।7.7।।
मूल श्लोकःरसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः।प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु।।7.8।।
मूल श्लोकःपुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ।जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु।।7.9।।
मूल श्लोकःबीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्।बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्।।7.10।।
मूल श्लोकःबलं बलवतां चाहं कामरागविवर्जितम्।धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ।।7.11।।
मूल श्लोकःये चैव सात्त्विका भावा राजसास्तामसाश्च ये।मत्त एवेति तान्विद्धि नत्वहं तेषु ते मयि।।7.12।।
मूल श्लोकःत्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्।मोहितं नाभिजानाति मामेभ्यः परमव्ययम्।।7.13।।
मूल श्लोकःदैवी ह्येषा गुणमयी मम माया दुरत्यया।मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते।।7.14।।
मूल श्लोकःन मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।माययापहृतज्ञाना आसुरं भावमाश्रिताः।।7.15।।
मूल श्लोकःचतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ।।7.16।।
मूल श्लोकःतेषां ज्ञानी नित्ययुक्त एकभक्ितर्विशिष्यते।प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः।।7.17।।
मूल श्लोकःउदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्।आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्।।7.18।।
मूल श्लोकःबहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।वासुदेवः सर्वमिति स महात्मा सुदुर्लभः।।7.19।।
मूल श्लोकःकामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः।तं तं नियममास्थाय प्रकृत्या नियताः स्वया।।7.20।।
मूल श्लोकःयो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति।तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्।।7.21।।
मूल श्लोकःस तया श्रद्धया युक्तस्तस्याराधनमीहते।लभते च ततः कामान्मयैव विहितान् हि तान्।।7.22।।
मूल श्लोकःअन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्।देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि।।7.23।।
मूल श्लोकःअव्यक्तं व्यक्ितमापन्नं मन्यन्ते मामबुद्धयः।परं भावमजानन्तो ममाव्ययमनुत्तमम्।।7.24।।
मूल श्लोकःनाहं प्रकाशः सर्वस्य योगमायासमावृतः।मूढोऽयं नाभिजानाति लोको मामजमव्ययम्।।7.25।।
मूल श्लोकःवेदाहं समतीतानि वर्तमानानि चार्जुन।भविष्याणि च भूतानि मां तु वेद न कश्चन।।7.26।।
मूल श्लोकःइच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत।सर्वभूतानि संमोहं सर्गे यान्ति परन्तप।।7.27।।
मूल श्लोकःयेषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्।ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः।।7.28।।
मूल श्लोकःजरामरणमोक्षाय मामाश्रित्य यतन्ति ये।ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्।।7.29।।
मूल श्लोकःसाधिभूताधिदैवं मां साधियज्ञं च ये विदुः।प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।।7.30।।

About this parayana — Vishnu

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

ekadashidaily-pujavaishnavasanskritparayanadevotionalgitabhagavad-gitascripture