ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← Back to Shabda
नेपाली interface

महाभारत — सौप्तिक पर्व

Mahabharata — Sauptika Parva

Mahabharata — Sauptika Parva

Text in देवनागरी script

Devotional text

[सम्जय]
ततस ते सहिता वीराः परयाता दक्षिणामुखाः
उपास्तमय वेलायां शिबिराभ्याशम आगताः
विमुच्य वाहांस तवरिता भीताः समभवंस तदा
गहनं देशम आसाद्य परच्छन्ना नयविशन्त ते
सेनानिवेशम अभितॊ नातिदूरम अवस्थिताः
निवृत्ता निशितैः शस्त्रैः समन्तात कषतविक्षताः
दीर्घम उष्णं च निःश्वस्य पाण्डवान अन्वचिन्तयन
शरुत्वा च निनदं घॊरं पाण्डवानां जयैषिणाम
अनुसार भराद भीताः पराङ्मुखा पराद्रवन पुनः
ते मुहूर्तं ततॊ गत्वा शरान्तवाहाः पिपासिताः
नामृष्यन्त महेष्वासाः करॊधामर्षवशं गताः
राज्ञॊ वधेन संतप्ता मुहूर्तं समवस्थिताः
[धृ]
अश्रद्धेयम इदं कर्मकृतं भीमेन संजय
यत स नागायुत पराणः पुत्रॊ मम निपातितः
अवध्यः सर्वभूतानां वज्रसंहननॊ युवा
पाण्डवैः समरे पुत्रॊ निहतॊ मम संजय
न दिष्टम अभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः
यत समेत्य रणे पार्थैः पुत्रॊ मम निपातितः
अद्रिसारमयं नूनं हृदयं मम संजय
हतं पुत्रशतं शरुत्वा यन न दीर्णं सहस्रधा
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति
न हय अहं पाण्डवेयस्य विषये वस्तुम उत्सहे
कथं राज्ञः पिता भूत्वा सवयं राजा च संजय
परेष्यभूतः परवर्तेयं पाण्डवेयस्य शासनात
आज्ञाप्य पृथिवीं सर्वां सथित्वा मूर्ध्नि च संजय
कथम अद्य भविष्यामि परेष्यभूतॊ दुरन्त कृत
कथं भीमस्य वाक्यानि शरॊतुं शक्ष्यामि संजय
येन पुत्रशतं पूर्णम एकेन निहतं मम
कृतं सत्यं वचस तस्य विदुरस्य महात्मनः
अकुर्वता वचस तेन मम पुत्रेण संजय
अधर्मेण हते तात पुत्रे दुर्यॊधने मम
कृतवर्मा कृपॊ दरौणिः किम अकुर्वत संजय
[स]
गत्वा तु तावका राजन नातिदूरम अवस्थिताः
अपश्यन्त वनं घॊरं नानाद्रुमलताकुलम
ते मुहूर्तं तु विश्रम्य लब्धतॊयैर हयॊत्तमैः
सूर्यास्तमय वेलायाम आसेदुः सुमहद वनम
नानामृगगणैर जुष्टं नानापक्षिसमाकुलम
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम
नाना तॊयसमाकीर्णं तडागैर उपशॊभितम
पद्मिनी शतसंछन्नं नीलॊत्पलसमायुतम
परविश्य तद वनं घॊरं वीक्षमाणाः समन्ततः
शाखा सहस्रसंछन्नं नयग्रॊधं ददृशुस ततः
उपेत्य तु तदा राजन नयग्रॊधं ते महारथाः
ददृशुर दविपदां शरेष्ठाः शरेष्ठं तं वै वनस्पतिम
ते ऽवतीर्य रथेभ्यस तु विप्रमुच्य च वाजिनः
उपस्पृश्य यथान्यायं संध्याम अन्वासत परभॊ
ततॊ ऽसतं पर्वतश्रेष्ठम अनुप्राप्ते दिवाकरे
सर्वस्य जगतॊ धात्री शर्वरी समपद्यत
गरहनक्षत्रताराभिः परकीर्णाभिर अलंकृतम
नभॊऽंशुकम इवाभाति परेक्षणीयं समन्ततः
ईषच चापि परवल्गन्ति ये सत्त्वा रात्रिचारिणः
दिवा चराश च ये सत्त्वास ते निद्रावशम आगताः
रात्रिंचराणां सत्त्वानां निनादॊ ऽभूत सुदारुणः
करव्यादाश च परमुदिता घॊरा पराप्ता च शर्वरी
तस्मिन रात्रिमुखे घॊरे दुःखशॊकसमन्विताः
कृतवर्मा कृपॊ दरौणिर उपॊपविविशुः समम
तत्रॊपविष्टाः शॊचन्तॊ नयग्रॊधस्य समन्ततः
तम एवार्थम अतिक्रान्तं कुरुपाण्डवयॊः कषयम
निद्रया च परीताङ्गा निषेदुर धरणीतले
शरमेण सुदृढं युक्ता विक्षता विविधैः शरैः
ततॊ निद्रावशं पराप्तौ कृप भॊजौ महारथौ
सुखॊचिताव अदुःखार्हौ निषण्णौ धरणीतले
तौ तु सुप्तौ महाराज शरमशॊकसमन्वितौ
करॊधामर्षवशं पराप्तॊ दरॊणपुत्रस तु भारत
नैव सम स जगामाथ निद्रां सर्प इव शवसन
न लेभे स तु निद्रां वै दह्यमानॊ ऽतिमन्युना
वीक्षां चक्रे महाबाहुस तद वनं घॊरदर्शनम
वीक्षमाणॊ वनॊद्देशं नाना सत्त्वैर निषेवितम
अपश्यत महाबाहुर नयग्रॊधं वायसायुतम
तत्र काकसहस्राणि तां निशां पर्यणामयन
सुखं सवपन्तः कौरव्य पृथक्पृथग अपाश्रयाः
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः
सॊ ऽपश्यत सहसायान्तम उलूकं घॊरदर्शनम
महास्वनं महाकायं हर्यक्षं बभ्रु पिङ्गलम
सुदीर्घघॊणा नखरं सुपर्णम इव वेगिनम
सॊ ऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः
नयग्रॊधस्य ततः शाखां परार्थयाम आस भारत
संनिपत्य तु शाखायां नयग्रॊधस्य विहंगमः
सुप्ताञ जघान सुबहून वायसान वायसान्तकः
केषां चिद अच्छिनत पक्षाञ शिरांसि च चकर्त ह
चरणांश चैव केषां चिद बभञ्ज चरणायुधः
कषणेनाहन सबलवान ये ऽसय दृष्टिपथे सथिताः
तेषां शरीरावयवैः शरीरैश च विशां पते
नयग्रॊधमण्डलं सर्वं संछन्नं सर्वतॊ ऽभवत
तांस तु हत्वा ततः काकान कौशिकॊ मुदितॊ ऽभवत
परतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः
तद दृष्ट्वा सॊपधं कर्म कौशिकेन कृतं निशि
तद्भावकृतसंकल्पॊ दरौणिर एकॊ वयचिन्तयत
उपदेशः कृतॊ ऽनेन पक्षिणा मम संयुगे
शत्रुणां कषपणे युक्तः पराप्तकालश च मे मतः
नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः
बलवन्तः कृतॊत्साहा लब्धलक्षाः परहारिणः
राज्ञः सकाशे तेषां च परतिज्ञातॊ वधॊ मया
पतंगाग्निसमां वृत्तिम आस्थायात्म विनाशिनीम
नयायतॊ युध्यमानस्य पराणत्यागॊ न संशयः
छद्मना तु भवेत सिद्धिः शत्रूणां च कषयॊ महान
तत्र संशयिताद अर्थाद यॊ ऽरथॊ निःसंशयॊ भवेत
तं जना बहु मन्यन्ते ये ऽरथशास्त्रविशारदाः
यच चाप्य अत्र भवेद वाच्यं गर्हितं लॊकनिन्दितम
कर्तव्यं तन मनुष्येण कषत्रधर्मेण वर्तता
निन्दितानि च सर्वाणि कुत्सितानि पदे पदे
सॊपधानि कृतान्य एव पाण्डवैर अकृतात्मभिः
अस्मिन्न अर्थे पुरा गीतौ शरूयेते धर्मचिन्तकैः
शलॊकौ नयायम अवेक्षद्भिस तत्त्वार्थं तत्त्वदर्शिभिः
परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः
परस्थाने च परवेशे च परहर्तव्यं रिपॊर बलम
निद्रार्तम अर्धरात्रे च तथा नष्टप्रणायकम
भिन्नयॊधं बलं यच च दविधा युक्तं च यद भवेत
इत्य एवं निश्चयं चक्रे सुप्तानां युधि मारणे
पाण्डूनां सह पाञ्चालैर दरॊणपुत्रः परतापवान
स करूरां मतिम आस्थाय विनिश्चित्य मुहुर मुहुः
सुप्तौ पराबॊधयत तौ तु मातुलं भॊजम एव च
नॊत्तरं परतिपेदे च तत्र युक्तं हरिया वृतः
स मुहूर्तम इव धयात्वा बाष्पविह्वलम अब्रवीत
हतॊ दुर्यॊधनॊ राजा एकवीरॊ महाबलः
यस्यार्थे वैरम अस्माभिर आसक्तं पाण्डवैः सह
एकाकी बहुभिः कषुद्रैर आहवे शुद्धविक्रमः
पातितॊ भीमसेनेन एकादश चमूपतिः
वृकॊदरेण कषुद्रेण सुनृशंसम इदं कृतम
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता
विनर्दन्ति सम पाञ्चालाः कष्वेडन्ति च हसन्ति च
धमन्ति शङ्खाञ शतशॊ हृष्टा घनन्ति च दुन्दुभीन
वादित्रघॊषस तुमुलॊ विमिश्रः शङ्खनिस्वनैः
अनिलेनेरितॊ घॊरॊ दिशः पूरयतीव हि
अश्वानां हेषमाणानां गजानां चैव बृंहताम
सिंहनादश च शूराणां शरूयते सुमहान अयम
दिशं पराचीं समाश्रित्य हृष्टानां गर्जतां भृशम
रथनेमि सवनाश चैव शरूयन्ते लॊमहर्षणाः
पाण्डवैर धार्तराष्ट्राणां यद इदं कदनं कृतम
वयम एव तरयः शिष्टास तस्मिन महति वैशसे
के चिन नागशतप्राणाः के चित सर्वास्त्रकॊविदाः
निहताः पाण्डवेयैः सम मन्ये कालस्य पर्ययम
एवम एतेन भाव्यं हि नूनं कार्येण तत्त्वतः
यथा हय अस्येदृशी निष्ठा कृते कार्ये ऽपि दुष्करे
भवतॊस तु यदि परज्ञा न मॊहाद अपचीयते
वयापन्ने ऽसमिन महत्य अर्थे यन नः शरेयस तद उच्यताम
[कृप]
शरुतं ते वचनं सर्वं हेतुयुक्तं मया विभॊ
ममापि तु वचः किं चिच छृणुष्वाद्य महाभुज
आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणॊर दवयॊः
दैवे पुरुषकारे च परं ताभ्यां न विद्यते
न हि दैवेन सिध्यन्ति कर्माण्य एकेन सत्तम
न चापि कर्मणैकेन दवाभ्यां सिद्धिस तु यॊगतः
ताभ्याम उभाभ्यां सर्वार्था निबद्धा हय अधमॊत्तमाः
परवृत्ताश चैव दृश्यन्ते निवृत्ताश चैव सर्वशः
पर्जन्यः पर्वते वर्षन किं नु साधयते फलम
कृष्टे कषत्रे तथावर्षन किं नु साधयते फलम
उत्थानं चाप्य अदैवस्य हय अनुत्थानस्य दैवतम
वयर्थं भवति सर्वत्र पूर्वं कस तत्र निश्चयः
परवृष्टे च यथा देवे सम्यक कषेत्रे च कर्षिते
बीजं महागुणं भूयात तथा सिद्धिर हि मानुषी
तयॊर दैवं विनिश्चित्य सववशेनैव वर्तते
पराज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यम आस्थिताः
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ
विचेष्टन्तश च दृश्यन्ते निवृत्ताश च तथैव हि
कृतः पुरुषकारः सन सॊ ऽपि दैवेन सिध्यति
तथास्य कर्मणः कर्तुर अभिनिर्वर्तते फलम
उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम
अफलं दृश्यते लॊके सम्यग अप्य उपपादितम
तत्रालसा मनुष्याणां ये भवन्त्य अमनस्विनः
उत्थानं ते विगर्हन्ति पराज्ञानां तन न रॊचते
परायशॊ हि कृतं कर्म अफलं दृश्यते भुवि
अकृत्वा च पुनर दुःखं कर्म दृश्येन महाफलम
चेष्टाम अकुर्वँल लभते यदि किं चिद यदृच्छया
यॊ वा न लभते कृत्वा दुर्दशौ ताव उभाव अपि
शक्नॊति जीवितुं दक्षॊ नालसः सुखम एधते
दृश्यन्ते जीवलॊके ऽसमिन दक्षाः परायॊ हितैषिणः
यदि दक्षः समारम्भात कर्मणां नाश्नुते फलम
नास्य वाच्यं भवेत किं चित तत्त्वं चाप्य अधिगच्छति
अकृत्वा कर्म यॊ लॊके फलं विन्दति विष्ठितः
स तु वक्तव्यतां याति दवेष्यॊ भवति परायशः
एवम एतद अनादृत्य वर्तते यस तव अतॊ ऽनयथा
स करॊत्य आत्मनॊ ऽनर्थान नैष बुद्धिमतां नयः
हीनं पुरुषकारेण यदा दैवेन वा पुनः
कारणाभ्याम अथैताभ्याम उत्थानम अफलं भवेत
हीनं पुरुषकारेण कर्म तव इह न सिध्यति
दैवतेभ्यॊ नमस्कृत्य यस तव अर्थान सम्यग ईहते
दक्षॊ दाक्षिण्यसंपन्नॊ न स मॊघं विहन्यते
सम्यग ईहा पुनर इयं यॊ वृद्धान उपसेवते
आपृच्छति च यच छरेयः करॊति च हितं वचः
उत्थायॊत्थाय हि सदा परष्टव्या वृद्धसंमताः
ते ऽसय यॊगे परं मूलं तन मूला सिद्धिर उच्यते
वृद्धानां वचनं शरुत्वा यॊ हय उत्थानं परयॊजयेत
उत्थानस्य फलं सम्यक तदा स लभते ऽचिरात
रागात करॊधाद भयाल लॊभाद यॊ ऽरथान ईहेत मानवः
अनीशश चावमानीच स शीघ्रं भरश्यते शरियः
सॊ ऽयं दुर्यॊधनेनार्थॊ लुब्धेनादीर्घ दर्शिना
असमर्थ्य समारब्धॊ मूढत्वाद अविचिन्तितः
हितबुद्धीन अनादृत्य संमन्त्र्यासाधुभिः सह
वार्यमाणॊ ऽकरॊद वैरं पाण्डवैर गुणवत्तरैः
पूर्वम अप्य अतिदुःशीलॊ न दैन्यं कर्तुम अर्हति
तपत्य अर्थे विपन्ने हि मित्राणाम अकृतं वचः
अन्वावर्तामहि वयं यत तु तं पापपूरुषम
अस्मान अप्य अनयस तस्मात पराप्तॊ ऽयं दारुणॊ महान
अनेन तु ममाद्यापि वयसनेनॊपतापिता
बुद्धिश चिन्तयतः किं चित सवं शरेयॊ नावबुध्यते
मुह्यता तु मनुष्येण परष्टव्याः सुहृदॊ बुधाः
ते च पृष्टा यथा बरूयुस तत कर्तव्यं तथा भवेत
ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह
उपपृच्छामहे गत्वा विदुरं च महामतिम
ते पृष्टाश च वदेयुर यच छरेयॊ नः समनन्तरम
तद अस्माभिः पुनः कार्यम इति मे नैष्ठिकी मतिः
अनारम्भात तु कार्याणां नार्थसंपद्यते कव चित
कृते पुरुषकारे च येषां कार्यं न सिध्यति
दैवेनॊपहतास ते तु नात्र कार्या विचारणा
[स]
कृपस्य वचनं शरुत्वा धर्मार्थसहितं शुभम
अश्वत्थामा महाराज दुःखशॊकसमन्वितः
दह्यमानस तु शॊकेन परदीप्तेनाग्निना यथा
करूरं मनस ततः कृत्वा ताव उभौ परत्यभाषत
पुरुषे पुरुषे बुद्धिः सा सा भवति शॊभना
तुष्यन्ति च पृथक सर्वे परज्ञया ते सवया सवया
सर्वॊ हि मन्यते लॊक आत्मानं बुद्धिमत्तरम
सर्वस्यात्मा बहुमतः सर्वात्मानं परशंसति
सर्वस्य हि सवका परज्ञा साधुवादे परतिष्ठिता
परबुद्धिं च निन्दन्ति सवां परशंसन्ति चासकृत
कारणान्तर यॊगेन यॊगे येषां समा मतिः
ते ऽनयॊन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत
तस्यैव तु मनुष्यस्य सा सा बुद्धिस तदा तदा
कालयॊगविपर्यासं पराप्यान्यॊन्यं विपद्यते
अचिन्त्यत्वाद धि चित्तानां मनुष्याणां विशेषतः
चित्तवैकल्यम आसाद्य सा सा बुद्धिः परजायते
यथा हि वैद्यः कुशलॊ जञात्वा वयाधिं यथाविधि
भेषजं कुरुते यॊगात परशमार्थम इहाभिभॊ
एवं कार्यस्य यॊगार्थं बुद्धिं कुर्वन्ति मानवाः
परज्ञया हि सवया युक्तास तां च निन्दति मानवाः
अन्यया यौवने मर्त्यॊ बुद्ध्या भवति मॊहितः
मध्ये ऽनयया जरायां तु सॊ ऽनयां रॊचयते मतिम
वयसनं वा पुनर घॊरं समृद्धिं वापि तादृशीम
अवाप्य पुरुषॊ भॊज कुरुते बुद्धिवैकृतम
एकस्मिन्न एव पुरुषे सा सा बुद्धिस तदा तदा
भवत्य अनित्य परज्ञत्वात सा तस्यैव न रॊचते
निश्चित्य तु यथा परज्ञं यां मतिं साधु पश्यति
तस्यां परकुरुते भावं सा तस्यॊद्यॊग कारिका
सर्वॊ हि पुरुषॊ भॊज साध्व एतद इति निश्चितः
कर्तुम आरभते परीतॊ मरणादिषु कर्मसु
सर्वे हि युक्तिं विज्ञाय परज्ञां चापि सवकां नराः
चेष्टन्ते विविधाश चेष्टा हितम इत्य एव जानते
उपजाता वयसनजा येयम अद्य मतिर मम
युवयॊस तां परवक्ष्यामि मम शॊकविनाशिनीम
परजापतिः परजाः सृष्ट्वा कर्म तासु विधाय च
वर्णे वर्णे समाद्धत्त एकैकं गुणवत्तरम
बराह्मणे दमम अव्यग्रं कषत्रिये तेज उत्तमम
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम
अदान्तॊ बराह्मणॊ ऽसाधुर निस्तेजाः कषत्रियॊ ऽधमः
अदक्षॊ निन्द्यते वैश्यः शूद्रश च परतिकूलवान
सॊ ऽसमि जातः कुले शरेष्ठे बराह्मणानां सुपूजिते
मन्दभाग्यतयास्म्य एतं कषत्रधर्मम अनु षठितः
कषत्रधर्मं विदित्वाहं यदि बराह्मण्य असंश्रितम
परकुर्यां सुमहत कर्म न मे तत साधु संमतम
धारयित्वा धनुर विद्यं दिव्यान्य अस्त्राणि चाहवे
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि
सॊ ऽहम अद्य यथाकामं कषत्रधर्मम उपास्य तम
गन्तास्मि पदवीं राज्ञः पितुश चापि महाद्युतेः
अद्य सवप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः
विमुक्तयुग्य कवचा हर्षेण च समन्विताः
वयं जिता मताश चैषां शरान्ता वयायम अनेन च
तेषां निशि परसुप्तानां सवस्थानां शिबिरे सवके
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम
तान अवस्कन्द्य शिबिरे परेतभूतान विचेतसः
सूदयिष्यामि विक्रम्य मघवान इव दानवान
अद्य तान सहितान सर्वान धृष्टद्युम्नपुरॊगमान
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः
निहत्य चैव पाञ्चालाञ शान्तिं लब्धास्मि सत्तम
पाञ्चालेषु चरिष्यामि सूदयन्न अद्य संयुगे
पिनाक पाणिः संक्रुद्धः सवयं रुद्रः पशुष्व इव
अद्याहं सर्वपाञ्चालान निहत्य च निकृत्य च
अर्दयिष्यामि संक्रुद्धॊ रणे पाण्डुसुतांस तथा
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम
परहृत्यैकैकशस तेभ्यॊ भविष्याम्य अनृणः पितुः
दुर्यॊधनस्य कर्णस्य भीष्म सैन्धवयॊर अपि
गमयिष्यामि पाञ्चालान पदवीम अद्य दुर्गमाम
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि
विरात्रे परमथिष्यामि पशॊर इव शिरॊ बलात
अद्य पाञ्चाल पाण्डूनां शयितान आत्मजान निशि
खड्गेन निशितेनाजौ परमथिष्यामि गौतम
अद्य पाञ्चाल सेनां तां निहत्य निशि सौप्तिके
कृतकृत्यः सुखी चैव भविष्यामि महामते
[कृप]
दिष्ट्या ते परतिकर्तव्ये मतिर जातेयम अच्युत
न तवा वारयितुं शक्तॊ वज्रपाणिर अपि सवयम
अनुयास्यावहे तवां तु परभाते सहिताव उभौ
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः
अहं तवाम अनुयास्म्यामि कृतवर्मा च सात्वतह
परान अभिमुखं यान्तं रथाव आस्थाय दंशितौ
आवाभ्यां सहितः शत्रूञ शवॊ ऽसि हन्ता समागमे
विक्रम्य रथिनां शरेष्ठ पाञ्चालान सपदानुगान
शक्तस तवम असि विक्रान्तुं विश्रमस्व निशाम इमाम
चिरं ते जाग्रतस तात सवप तावन निशाम इमाम
विश्रान्तश च विनिद्रश च सवस्थचित्तश च मानद
समेत्य समरे शत्रून वधिष्यसि न संशयः
न हि तवा रथिनां शरेष्ठ परगृहीतवयायुधम
जेतुम उत्सहते कश चिद अपि देवेषु पावकिः
कृपेण सहितं यान्तं युक्तं च कृतवर्मणा
कॊ दरौणिं युधि संरब्धं यॊधयेद अपि देवराट
ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः
परभातायां रजन्यां वै निहनिष्याम शात्रवान
तव हय अस्त्राणि दिव्यानि मम चैव न संशयः
सात्वतॊ ऽपि महेष्वासॊ नित्यं युद्धेषु कॊविदः
ते वयं सहितास तात सर्वाञ शत्रून समागतान
परसह्य समरे हत्वा परीतिं पराप्स्याम पुष्कलाम
विश्रमस्व तवम अव्यग्रः सवप चेमां निशां सुखम
अहं च कृतवर्मा च परयान्तं तवां नरॊत्तम
अनुयास्याव सहितौ धन्विनौ परतापिनौ
रथिनं तवरया यान्तं रथाव आस्थाय दंशितौ
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे
ततः कर्तासि शत्रूणां युध्यतां कदनं महत
कृत्वा च कदनं तेषां परभाते विमले ऽहनि
विहरस्व यथा शक्रः सूदयित्वा महासुरान
तवं हि शक्तॊ रणे जेतुं पाञ्चालानां वरूथिनीम
दैत्य सेनाम इव करुद्धः सर्वदानव सूदनः
मया तवां सहितं संख्ये गुप्तं च कृतवर्त्मणा
न सहेत विभुः साक्षाद वज्रपाणिर अपि सवयम
न चाहं समरे तात कृतवर्मा तथैव च
अनिर्जित्य रणे पाण्ड्दून वयपयास्याव कर्हि चित
हत्वा च समरे कषुद्रान पाञ्चालान पाण्डुभिः सह
निवर्तिष्यामहे सर्वे हता वा सवर्गगा वयम
सर्वॊपायैः सहायास ते परभाते वयम एव हि
सत्यम एतन महाबाहॊ परब्रवीमि तवानघ
एवम उक्तस ततॊ दरौणिर मातुलेन हितं वचः
अब्रवीन मातुलं राजन करॊधाद उद्वृत्य लॊचने
आतुरस्य कुतॊ निद्रा नरस्यामर्षितस्य च
अर्थांश चिन्तयतश चापि कामयानस्य वा पुनः
तद इदं समनुप्राप्तं पश्य मे ऽदय चतुष्टयम
यस्य भागश चतुर्थॊ मे सवप्नम अह्नाय नाशयेत
किंनाम दुःखं लॊके ऽसमिन पितुर वधम अनुस्मरन
हृदयं निर्दहन मे ऽदय रात्र्यहानि न शाम्यति
यथा च निहतः पापैः पिता मम विशेषतः
परत्यक्षम अपि ते सर्वं तन मे मर्माणि कृन्तति
कथं हि मादृशॊ लॊके मुहूर्तम अपि जीवति
दरॊणॊ हतेति यद वाचः पाञ्चालानां शृणॊम्य अहम
दृष्टद्युम्नम अहत्वाजौ नाहं जीवितुम उत्सहे
स मे पितृवधाद वध्यः पाञ्चाला ये च संगताः
विलापॊ भग्नसक्थस्य यस तु राज्ञॊ मया शरुतः
स पुनर हृदयं कस्य करूरस्यापि न निर्दहेत
कस्य हय अकरुणस्यापि नेत्राभ्याम अश्नु नाव्रजेत
नृपतेर भग्नसक्थस्य शरुत्वा तादृग वचः पुनः
यश चायं मित्र पक्षॊ मे मयि जीवति निर्जितः
शॊकं मे वर्धयत्य एष वारिवेग इवार्णवम
एकाग्रमनसॊ मे ऽदय कुतॊ निद्रा कुतः सुखम
वासुदेवार्जुनाभ्यां हि तान अहं परिरक्षितान
अविषह्यतमान मन्ये महेन्द्रेणापि मातुल
न चास्मि शक्यः संयन्तुम अस्मात कार्यात कथं चन
न तं पश्यामि लॊके ऽसमिन यॊ मां कार्यान निवर्तयेत
इति मे निश्चिता बुद्धिर एषा साधुमता च मे
वार्त्तिकैः कथ्यमानस तु मित्राणां मे पराभवः
पाण्डवानां च विजयॊ हृदयं दहतीव मे
अहं तु कदनं कृत्वा शत्रूणाम अद्य सौप्तिके
ततॊ विश्रमिता चैव सवप्ता च विगतज्वरः
[क]
शुश्रूषुर अपि दुर्मेधाः पुरुषॊ ऽनियतेन्द्रियः
नालं वेदयितुं कृत्स्नौ धर्मार्थाव इति मे मतिः
तथैव तावन मेधावी विनयं यॊ न शिक्षति
न च किं चन जानाति सॊ ऽपि धर्मार्थनिश्चयम
शुश्रूषुस तव एव मेधावी पुरुषॊ नियतेन्द्रियः
जानीयाद आगमान सर्वान गराह्यं च न विरॊधयेत
अनेयस तव अवमानी यॊ दुरात्मा पापपूरुषः
दिष्टम उत्सृज्य कल्याणं करॊति बहु पापकम
नाथवन्तं तु सुहृदः परतिषेधन्ति पातकात
निवर्तते तु लक्ष्मीवान नालक्ष्मीवान निवर्तते
यथा हय उच्चावचैर वाक्यैः कषिप्तचित्तॊ नियम्यते
तथैव सुहृदा शक्यॊ न शक्यस तव अवसीदति
तथैव सुहृदं पराज्ञं कुर्वाणं कर्म पापकम
पराज्ञाः संप्रतिषेधन्ते यथाशक्ति पुनः पुनः
स कल्याणे मतिं कृत्वा नियम्यात्मानम आत्मना
कुरु मे वचनं तात येन पश्चान न तप्यसे
न वधः पूज्यते लॊके सुप्तानाम इह धर्मतः
तथैव नयस्तशस्त्राणां विमुक्तरथवाजिनाम
ये च बरूयुस तवास्मीति ये च सयुः शरणागताः
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः
अद्य सवप्स्यन्ति पाञ्चाला विमुक्तकवचा विभॊ
विश्वस्ता रजनीं सर्वे परेता इव विचेतसः
यस तेषां तदवस्थानां दरुह्येत पुरुषॊ ऽनृजुः
वयक्तं स नरके मज्जेद अगाधे विपुले ऽपलवे
सर्वास्त्रविदुषां लॊके शरेष्ठस तवम असि विश्रुतः
न च ते जातु लॊके ऽसमिन सुसूक्ष्मम अपि किल्बिषम
तवं पुनः सूर्यसंकाशः शवॊभूत उदिते रवौ
परकाशे सर्वभूतानां विजेता युधि शात्रवान
असंभावित रूपं हि तवयि कर्म विगर्हितम
शुक्ले रक्तम इव नयस्तं भवेद इति मतिर मम
[अष्व]
एवम एतद यथात्थ तवम अनुशास्मीह मातुल
तैस तु पूर्वमयं सेतुः शतधा विदली कृतः
परत्यक्षं भूमिपालानां भवतां चापि संनिधौ
नयस्तशस्त्रॊ मम पिता धृष्टद्युम्नेन पातितः
कर्णश च पतिते चक्रे रथस्य रथिनां वरः
उत्तमे वयसने सन्नॊ हतॊ गाण्डीवधन्वना
तथा शांतनवॊ भीष्मॊ नयस्तशस्त्रॊ निरायुधः
शिखण्डिनं पुरस्कृत्य हतॊ गाण्डीवधन्वना
भूरिश्रवा महेष्वासस तथा पराय गतॊ रणे
करॊशतां भूमिपालानां युयुधानेन पातितः
दुर्यॊधनश च भीमेन समेत्य गदया मृधे
पश्यतां भूमिपालानाम अधर्मेण निपातितः
एकाकी बहुभिस तत्र परिवार्य महारथैः
अधर्मेण नरव्याघ्रॊ भीमसेनेन पातितः
विलापॊ भग्नसक्थस्य यॊ मे राज्ञः परिश्रुतः
वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति
एवम अधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः
तान एवं भिन्नमर्यादान किं भवान न विगर्हति
पितृहन्तॄन अहं हत्वा पाञ्चालान निशि सौप्तिके
कामं कीटः पतंगॊ वा जन्म पराप्य भवामि वै
तवरे चाहम अनेनाद्य यद इदं मे चिकीर्षितम
तस्य मे तवरमाणस्य कुतॊ निद्रा कुतः सुखम
न स जातः पुमाँल लॊके कश चिन न च भविष्यति
यॊ मे वयावर्तयेद एतां वधे तेषां कृतां मतिम
[स]
एवम उक्त्वा महाराज दरॊणपुत्रः परतापवान
एकान्ते यॊजयित्वाश्वान परायाद अभिमुखः परान
तम अब्रूतां महात्मानौ भॊजशारद्वताव उभौ
किम अयं सयन्दनॊ युक्तः किं च कार्यं चिकीर्षितम
एकसार्थं परयातौ सवस तवया सह नरर्षभ
समदुःखसुखौ चैव नावां शङ्कितुम अर्हसि
अश्वत्थामा तु संक्रुद्धः पितुर वधम अनुस्मरन
ताभ्यां तथ्यं तदाचख्यौ यद अस्यात्म चिकीर्षितम
हत्वा शतसहस्राणि यॊधानां निशितैः शरैः
नयस्तशस्त्रॊ मम पिता धृष्टद्युम्नेन पातितः
तं तथैव हनिष्यामि नयस्तवर्माणम अद्य वै
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा
कथं च निहतः पापः पाञ्चालः पशुवन मया
शस्त्राहव जितां लॊकान पराप्नुयाद इति मे मतिः
कषिप्रं संनद्ध कवचौ सखड्गाव आत्तकार्मुकौ
समास्थाय परतीक्षेतां रथवर्यौ परंतपौ
इत्य उक्त्वा रथम आस्थाय परायाद अभिमुखः परान
तम अन्वगात कृपॊ राजन कृतवर्मा च सात्वतः
ते परयाता वयरॊचन्त परान अभिमुखास तरयः
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः
ययुश च शिबिरं तेषां संप्रसुप्त जनं विभॊ
दवारदेशं तु संप्राप्य दरौणिस तस्थौ रथॊत्तमे
[धृ]
दवारदेशे ततॊ दरौणिम अवस्थितम अवेक्ष्य तौ
अकुर्वतां भॊजकृपौ किं संजय वदस्व मे
[स]
कृतवर्माणम आमन्त्र्य कृपं च स महारथम
दरौणिर मन्युपरीतात्मा शिबिर दवारम आसदत
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम
सॊ ऽपश्यद दवारम आवृत्य तिष्ठन्तं लॊमहर्षणम
वसानं चर्मवैयाघ्रं महारुधिरविस्रवम
कृष्णाजिनॊत्तरासङ्गं नागयज्ञॊपवीतिनम
बाहुभिः सवायतैः पीनैर नानाप्रहरणॊद्यतैः
बद्धाङ्गद महासर्पं जवालामाला कुलाननम
दंष्ट्राकराल वदनं वयादितास्यं भयावहम
नयनानां सहस्रैश च विचित्रैर अभिभूषितम
नैव तस्य वपुः शक्यं परवक्तुं वेष एव वा
सर्वथा तु तद आलक्ष्य सफुटेयुर अपि पर्वताः
तस्यास्यान नासिकाभ्यां च शरवणाभ्यां च सर्वशः
तेभ्यश चाक्षि सहस्रेभ्यः परादुरासन महार्चिषः
तथा तेजॊ मरीचिभ्यः शङ्खचक्रगदाधराः
परादुरासन हृषीकेशाः शतशॊ ऽथ सहस्रशः
तद अत्यद्भुतम आलॊक्य भूतं लॊकभयंकरम
दरौणिर अव्यथितॊ दिव्यैर अस्त्रवर्षैर अवाकिरत
दरौणिमुक्ताञ शरांस तांस तु तद भूतं महद अग्रसत
उदधेर इव वार्यॊघान पावकॊ वडवामुखः
अश्वत्थामा तु संप्रेक्ष्य ताञ शरौघान निरर्थकान
रथशक्तिं मुमॊचास्मै दीप्ताम अग्निशिखाम इव
सा तदाहत्य दीप्ताग्रा रथशक्तिर अशीर्यत
युगान्ते सूर्यम आहत्य महॊक्लेव दिवश चयुता
अथ हेमत्सरुं दिव्यं खड्गम आकाशवर्चसम
कॊशात समुद्बबर्हाशु बिलाद दीप्तम इवॊरगम
ततः खड्गवरं धीमान भूताय पराहिणॊत तदा
स तदासाद्य भूतं वै विलयं तूलवद ययौ
ततः स कुपितॊ दरौणिर इन्द्रकेतुनिभां गदाम
जवलन्तीं पराहिणॊत तस्मै भूतं ताम अपि चाग्रसत
ततः सर्वायुधाभावे वीक्षमाणस ततस ततः
अपश्यत कृतम आकाशम अनाकाशं जनार्दनैः
तद अद्भुततमं दृष्ट्वा दरॊणपुत्रॊ निरायुधः
अब्रवीद अभिसंतप्तः कृप वाक्यम अनुस्मरन
बरुवताम अप्रियं पथ्यं सुहृदां न शृणॊति यः
स शॊचत्य आपदं पराप्य यथाहम अतिवर्त्य तौ
शास्त्रदृष्टान अवध्यान यः समतीत्य जिघांसति
स पथः परच्युतॊ धर्म्यात कुपथं परतिपद्यते
गॊब्राह्मण नृप सत्रीषु सख्युर मातुर गुरॊस तथा
वृद्धबाल जडान्धेषु सुप्त भीतॊत्थितेषु च
मत्तॊन्मत्त परमत्तेषु न शस्त्राण्य उपधारयेत
इत्य एवं गुरुभिः पूर्वम उपदिष्टं नृणां सदा
सॊ ऽहम उत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम
अमार्गेणैवम आरभ्य घॊराम आपदम आगतः
तां चापदं घॊरतरां परवदन्ति मनीषिणः
यद उद्यम्य महत कृत्यं भयाद अपि निवर्तते
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलाद इह
न हि दैवाद गरीयॊ वै मानुषं कर्म कथ्यते
मानुषं कुर्वतः कर्म यदि दैवान न सिध्यति
स पथः परच्युतॊ धर्म्याद विपदं परतिपद्यते
परतिघातं हय अविज्ञातं परवदन्ति मनीषिणः
यद आरभ्य करियां कां चिद भयाद इह निवर्तते
तद इदं दुष्प्रणीतेन भयं मां समुपस्थितम
न हि दरॊण सुतः संख्ये निवर्तेत कथं चन
इदं च सुमहद भूतं दैवदण्डम इवॊद्यतम
न चैतद अभिजानामि चिन्तयन्न अपि सर्वथा
धरुवं येयम अधर्मे मे परवृत्ता कलुषा मतिः
तस्याः फलम इदं घॊरं परतिघाताय दृश्यते
तद इदं दैवविहितं मम संख्ये निवर्तनम
नान्यत्र दैवाद उद्यन्तुम इह शक्यं कथं चन
सॊ ऽहम अद्य महादेवं परपद्ये शरणं परभुम
दैवदण्डम इमं घॊरं स हि मे नाशयिष्यति
कपर्दिनं परपद्याथ देवदेवम उमापतिम
कपालमालिनं रुद्रं भग नेत्रहरं हरम
स हि देवॊ ऽतयगाद देवांस तपसा विक्रमेण च
तस्माच छरणम अभ्येष्ये गिरिशं शूलपाणिनम
[स]
स एवं चिन्तयित्वा तु दरॊणपुत्रॊ विशां पते
अवतीर्य रथॊपस्थाद दध्यौ संप्रयतः सथितः
[द]
उग्रं सथाणुं शिवं रुद्रं शर्वम ईशानम ईश्वरम
गिरिशं वरदं देवं भवं भावनम अव्ययम
शितिकण्ठम अजं शक्रं करथं करतुहरं हरम
विश्वरूपं विरूपाक्षं बहुरूपम उमापतिम
शमशानवासिनं दृप्तं महागणपतिं परभुम
खट्वाङ्गधारिणं मुण्डं जटिलं बरह्मचारिणम
मनसाप्य असुचिन्त्येन दुष्करेणाल्प चेतसा
सॊ ऽहम आत्मॊपहारेण यक्ष्ये तरिपुरघातिनम
सतुतं सतुत्यं सतूयमानम अमॊघं चर्म वाससम
विलॊहितं नीलकण्ठम अपृक्थं दुर्निवारणम
शुक्रं विश्वसृजं बरह्म बरह्मचारिणम एव च
वरतवन्तं तपॊनित्यम अनन्तं तपतां गतिम
बहुरूपं गणाध्यक्षं तयक्षं पारिषद परियम
गणाध्यक्षेक्षित मुखं गौरी हृदयबल्लभम
कुमार पितरं पिङ्गं गॊवृषॊत्तम वाहनम
तनु वाससम अत्युग्रम उमा भूषणतत्परम
परं परेभ्यः परमं परं यस्मान न विद्यते
इष्वस्त्रॊत्तमभर्तारं दिग अन्तं चैव दक्षिणम
हिरण्यकवचं देवं चन्द्र मौलिविभूषितम
परपद्ये शरणं देवं परमेण समाधिना
इमां चाप्य आपदं घॊरां तराम्य अद्य सुदुस्तराम
सर्वभूतॊपहारेण यक्ष्ये ऽहं शुचिना शुचिम
इति तस्य वयवसितं जञात्वा तयागात्मकं मनः
पुरस्तात काञ्चनी वेदिः परादुरासीन महात्मनः
तस्यां वेद्यां तदा राजंश चित्रभानुर अजायत
दयां दिशॊ विदिशः खं च जवालाभिर अभिपूरयन
दीप्तास्य नयनाश चात्र नैकपादशिरॊ भुजाः
दविपशैलप्रतीकाशाः परादुरासन महाननाः
शववराहॊष्ट्र रूपाश च हयगॊमायु गॊमुखाः
ऋक्षमार्जार वदना वयाघ्रद्वीपिमुखास तथा
काकवक्त्राः पलव मुखाः शुकवक्त्रास तथैव च
महाजगर वक्त्राश च हंसवक्त्राः सितप्रभाः
दार्वाघाट मुखाश चैव चाष वक्त्राश च भारत
कूर्मनक्रमुखाश चैव शिशुमार मुखास तथा
महामकर वक्त्राश च तिमिवक्त्रास तथैव च
हरि वक्त्राः करौञ्चमुखाः कपॊतेभ मुखास तथा
पारावत मुखाश चैव मद्गुवक्त्रास तथैव च
पाणिकर्णाः सहस्राक्षास तथैव च शतॊदराः
निर्मांसाः कॊक वत्राश च शयेनवक्त्राश च भारत
तथैवाशिरसॊ राजन्न ऋक्षवत्राश च भीषणाः
परदीप्तनेत्रजिह्वाश च जवाला वक्त्रास तथैव च
मेषवक्त्रास तथैवान्ये तहा छाग मुखा नृप
शङ्खाभाः शङ्खवक्त्राश च शङ्खकर्णास तथैव च
शङ्खमाला परिकराः शङ्खध्वनि समस्वनाः
जटाधराः पञ्च शिखास तथा मुण्डाः कृशॊदराः
चतुर्दंष्ट्राश चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः
मौली धराश च राजेन्द्र तथाकुञ्चित मूर्धजाः
उष्णीषिणॊ मुकुटिनश चारु वक्त्राः सवलंकृताः
पद्मॊत्पलापीड धरास तथा कुमुदधारिणः
माहात्म्येन च संयुक्ताः शतशॊ ऽथ सहस्रशः
शतघ्नी चक्रहस्ताश च तथा मुसलपाणयः
भुशुण्डी पाशहस्ताश च गदाहस्ताश च भारत
पृष्ठेषु बद्धॊषुधयश चित्रबाणा रणॊत्कटाः
सध्वजाः सपताकाश च सघण्टाः सपरश्वधाः
महापाशॊद्यत करास तथा लगुड पाणयः
सथूणा हस्ताः खड्गहस्ताः सर्पॊच्छ्रितकिरीटिनः
महासर्पाङ्गद धराश चित्राभरण धारिणः
रजॊध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बर सरजः
नीलाङ्गाः कमलाङ्गाश च मुण्डवक्त्रास तथैव च
भेरीशङ्खमृदङ्गांस ते झर्झरानक गॊमुखान
अवादयन पारिषदाः परहृष्टाः कनकप्रभाः
गायमानास तथैवान्ये नृत्यमानास तथापरे
लङ्घयन्तः पलवन्तश च वल्गन्तश च महाबलाः
धावन्तॊ जवनाश चण्डाः पवनॊद्धूत मूर्धजाः
मत्ता इव महानागा विनदन्तॊ मुहुर मुहुः
सुभीमा घॊररूपाश च शूलपट्टिशपाणयः
नाना विराग वसनाश चित्रमाल्यानुलेपनाः
रत्नचित्राङ्गद धराः समुद्यतकरास तथा
हन्तारॊ दविषतां शूराः परसह्यासह्य विक्रमाः
पातारॊ ऽसृग वसाद्यानां मांसान्त्र कृतभॊजनाः
चूडालाः कर्णिकालाश च परकृशाः पिठरॊदराः
अतिह्रस्वातिदीर्घाश च परबलाश चातिभैरवाः
विकटाः काललम्बौष्ठा बृहच छेफास्थि पिण्डिकाः
महार्हनाना मुकुटा मुण्डाश च जटिलाः परे
सार्केन्दु गरहनक्षत्रां दयां कुर्युर ये महीतले
उत्सहेरंश च ये हन्तुं भूतग्रामं चतुर्विधम
ये च वीतभया नित्यं हरस्य भरुकुटी भटाः
कामकार कराः सिद्धास तरैलॊक्यस्येश्वरेश्वराः
नित्यानन्द परमुदिता वाग ईशा वीतमत्सराः
पराप्याष्ट गुणम ऐश्वर्यं ये न यान्ति च विस्मयम
येषां विस्मयते नित्यं भगवान कर्मभिर हरः
मनॊवाक कर्मभिर भक्तैर नित्यम आराधितश च यैः
मनॊवाक कर्मभिर भक्तान पाति पुत्रान इवौरसान
पिबन्तॊ ऽसृग वसास तव अन्ये करुद्धा बरह्म दविषां सदा
चतुविंशात्मकं सॊमं ये पिबन्ति च नित्यदा
शरुतेन बरह्मचर्येण तपसा च दमेन च
ये समाराध्य शूलाङ्कं भव सायुज्यम आगताः
यैर आत्मभूतैर भगवान पार्वत्या च महेश्वरः
सह भूतगणान भुङ्क्ते भूतभव्य भवत परभुः
नाना विचित्रहसित कष्वेडितॊत्क्रुष्ट गर्जितैः
संनादयन्तस ते विश्वम अश्वत्थामानम अभ्ययुः
संस्तुवन्तॊ महादेवं भाः कुर्वाणाः सुवर्चसः
विवर्धयिषवॊ दरौणेर महिमानं महात्मनः
जिज्ञासमानास तत तेजः सौप्तिकं च दिदृक्षवः
भीमॊग्रपरिघालातशूलपट्टिशपाणयः
घॊररूपाः समाजग्मुर भूतसंघाः समन्ततः
जनयेयुर भयं ये सम तरैलॊक्यस्यापि दर्शनात
तान परेक्षमाणॊ ऽपि वयथां न चकार महाबलः
अथ दरौणिर धनुष्पाणिर बद्धगॊधाङ्गुलि तरवान
सवयम एवात्मनात्मानम उपहारम उपाहरत
धनूंषि समिधस तत्र पवित्राणि शिताः शराः
हविर आत्मवतश चात्मा तस्मिन भारत कर्मणि
ततः सौम्येन मन्त्रेण दरॊणपुत्रः परतापवान
उपहारं महामन्युर अथात्मानम उपाहरत
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिर अच्युतम
अभिष्टुत्य महात्मानम इत्य उवाच कृताज्ञ्जलिः
इमम आत्मानम अद्याहं जातम आङ्गिरसे कुले
अग्नौ जुहॊमि भगवन परतिगृह्णीष्व मां बलिम
भवद्भक्त्या महादेव परमेण समाधिना
अस्याम आपदि विश्वात्नन्न उपाकुर्मि तवाग्रतः
तवयि सर्वाणि भूतानि सर्वभूतेषु चासि वै
गुणानां हि परधानानाम एकत्वं तवयि तिष्ठति
सर्वभूताशयविभॊ हविर भूतम उपस्थितम
परतिगृहाण मां देवयद्य अशक्याः परे मया
इत्य उक्त्वा दरौणिर आस्थाय तां वेदीं दीप्तपावकाम
संत्यक्तात्मा समारुह्य कृष्णवर्त्मन्य उपाविशत
तम ऊर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविर उपस्थितम
अब्रवीद भगवान साक्षान महादेवॊ हसन्न इव
सत्यशौचार्जव तयागैस तपसा नियमेन च
कषान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा
यथावद अहम आराद्धः कृष्णेनाक्लिष्टकर्मणा
तस्माद इष्टतमः कृष्णाद अन्यॊ मम न विद्यते
कुर्वता तस्य संमानं तवां च जिज्ञासता मया
पाञ्चालाः सहसा गुप्ता मायाश च बहुशः कृताः
कृतस तस्यैष संमानः पाञ्चालान रक्षता मया
अभिभूतास तु कालेन नैषाम अद्यास्ति जीवितम
एवम उक्त्वा महेष्वासं भगवान आत्मनस तनुम
आविवेश ददौ चास्मै विमलं खड्गम उत्तमम
अथाविष्टॊ भगवता भूयॊ जज्वाल तेजसा
वर्ष्मवांश चाभवद युद्धे देव सृष्टेन तेजसा
तम अदृश्यानि भूतानि रक्षांसि च समाद्रवन
अभितः शत्रुशिबिरं यान्तं साक्षाद इवेश्वरम
[धृ]
तथा परयाते शिबिरं दरॊणपुत्रे महारथे
कच चित कृपश च भॊजश च भयार्तौ न नयवर्तताम
कच चिन न वारितौ कषुद्रै रक्षिभिर नॊपलक्षितौ
असह्यम इति वा मत्वा न निवृत्तौ महारथौ
कच चित परमथ्य शिबिरं हत्वा सॊमक पाण्डवान
दुर्यॊधनस्य पदवीं गतौ परमिकां रणे
पाञ्चालैर वा विनिहतौ कच चिन नास्वपतां कषितौ
कच चित ताभ्यां कृतं कर्म तन ममाचक्ष्व संजय
[स]
तस्मिन परयाते शिबिरं दरॊणपुत्रे महात्मनि
कृपश च कृतवर्मा च शिबिर दवार्य अतिष्ठताम
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ
परहृष्टः शनकै राजन्न इदं वचनम अब्रवीत
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने
किं पुनर यॊधशेषस्य परसुप्तस्य विशेषतः
अहं परवेक्ष्ये शिबिरं चरिष्यामि च कालवत
यथा न कश चिद अपि मे जीवन मुच्येत मानवः
इत्य उक्त्वा पराविशद दरौणिः पार्थानां शिबिरं महत
अद्वारेणाभ्यवस्कन्द्य विहाय भयम आत्मनः
स परविश्य महाबाहुर उद्देशज्ञश च तस्य ह
धृष्टद्युम्नस्य निलयं शनकैर अभ्युपागमत
ते तु कृत्वा महत कर्म शरान्ताश च बलवद रणे
परसुप्ता वै सुविश्वस्ताः सवसैन्यपरिवारिताः
अथ परविश्य तद वेश्म धृष्टद्युम्नस्य भारत
पाञ्चाल्यं शयने दरौणिर अपश्यत सुप्तम अन्तिकात
कषौमावदाते महति सपर्ध्यास्तरण संवृते
माल्यप्रवर संयुक्ते धूपैश चूर्णैश च वासिते
तं शयानं महात्मानं विस्रब्धम अकुतॊभयम
पराबॊधयत पादेन शयनस्थं महीपते
स बुद्ध्वा चरणस्पर्शम उत्थाय रणदुर्मदः
अभ्यजानद अमेयात्मा दरॊणपुत्रं महारथम
तम उत्पतन्तं शयनाद अश्वत्थामा महाबलः
केशेष्व आलम्ब्य पाणिभ्यां निष्पिपेष मही तके
सबलात तेन निष्पिष्टः साध्वसेन च भारत
निद्रया चैव पाञ्चाल्यॊ नाशकच चेष्टितुं तदा
तम आक्रम्य तदा राजन कण्ठे चॊरसि चॊभयॊः
नदन्तं विस्फुरन्तं च पशुमारम अमारयत
तुदन नखैस तु स दरौणिं नातिव्यक्तम उदाहरत
आचार्य पुत्र शस्त्रेण जहि मा मां चिरं कृथाः
तवत्कृते सुकृताँल लॊकान गच्छेयं दविपदां वर
तस्याव्यक्तां तु तां वाचं संश्रुत्य दरौणिर अब्रवीत
आचार्य घातिनां लॊका न सन्ति कुलपांसन
तस्माच छस्त्रेण निधनं न तवम अर्हसि दुर्मते
एवं बरुवाणस तं वीरं सिंहॊ मत्तम इव दविपम
मर्मस्व अभ्यवधीत करुद्धः पादाष्ठीलैः सुदारुणैः
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि
अबुध्यन्त महाराज सत्रियॊ ये चास्य रक्षिणः
ते दृष्ट्वा वर्ष्मवन्तं तम अतिमानुष विक्रमम
भूतम एव वयवस्यन्तॊ न सम परव्याहरन भयात
तं तु तेन भयुपायेन गमयित्वा यमक्षयम
अध्यतिष्ठत स तेजस्वी रथं पराप्य सुदर्शनम
स तस्य भवनाद राजन निष्क्रम्यानादयन दिशः
रथेन शिबिरं परायाज जिघांसुर दविषतॊ बली
अपक्रान्ते ततस तस्मिन दरॊणपुत्रे महारथे
सह तै रक्षिभिः सर्वैः परणेदुर यॊषितस तदा
राजानं निहतं दृष्ट्वा भृशं शॊकपरायणाः
वयाक्रॊशन कषत्रियाः सर्वे धृष्टद्युम्नस्य भारत
तासां तु तेन शब्देन समीपे कषत्रियर्षभाः
कषिप्रं च समनह्यन्त किम एतद इति चाब्रुवन
सत्रियस तु राजन वित्रस्ता भरद्वाजं निरीक्ष्य तम
अब्रुवन दीनकण्ठेन कषिप्रम आद्रवतेति वै
राक्षसॊ वा मनुष्यॊ वा नैनं जानीमहे वयम
हत्वा पाञ्चालराजं यॊ रथम आरुह्य तिष्ठति
ततस ते यॊधमुख्यास तं सहसा पर्यवारयन
स तान आपततः सर्वान रुद्रास्त्रेण वयपॊथयत
धृष्टद्युम्नं च हत्वा स तांश चैवास्य पदानुगान
अपश्यच छयने सुप्तम उत्तमौजसम अन्तिके
तम अप्य आक्रम्य पादेन कण्ठे चॊरसि चौजसा
तथैव मारयाम आस विनर्दन्तम अरिंदमम
युधामन्युस तु संप्राप्तॊ मत्त्वा तं रक्षसा हतम
गदाम उद्यम्य वेगेन हृदि दरौणिम अताडयत
तम अभिद्रुत्य जग्राह कषितौ चैनम अपातयत
विस्फुरन्तं च पशुवत तथैवैनम अमारयत
तथा स वीरॊ हत्वा तं ततॊ ऽनयान समुपाद्रवत
संसुप्तान एव राजेन्द्र तत्र तत्र महारथान
सफुरतॊ वेपमानांश च शमितेव पशून मखे
ततॊ निस्त्रिंशम आदाय जघानान्यान पृथग्जनान
भागशॊ विचरन मार्गान असियुद्धविशारदः
तथैव गुल्मे संप्रेक्ष्य शयानान मध्यगौल्मिकान
शरान्तान नयस्तायुधान सर्वान कषणेनैव वयपॊथयत
यॊधान अश्वान दविपांश चैव पराच्छिनत स वरासिना
रुधिरॊक्षितसर्वाङ्गः कालसृष्ट इवान्तकः
विस्फुरद्भिश च तैर दरैणिर निस्त्रिंशस्यॊद्यमेन च
आक्षेपेण तथैवासेस तरिधा रक्तॊक्षितॊ ऽभवत
तस्य लॊहितसिक्तस्य दीप्तखड्गस्य युध्यतः
अमानुष इवाकारॊ बभौ परमभीषणः
ये तव अजाग्रत कौरव्य ते ऽपि शब्देन मॊहिताः
निरीक्ष्यमाणा अन्यॊन्यं दरौणिं दृष्ट्वा परविव्यथुः
तद रूपं तस्य ते दृष्ट्वा कषत्रियाः शत्रुकर्शनाः
राक्षसं मन्यमानास तं नयनानि नयमीलयन
स घॊररूपॊ वयचरत कालवच छिबिरे ततः
अपश्यद दरौपदीपुत्रान अवशिष्टांश च सॊमकान
तेन शब्देन वित्रस्ता धनुर हस्ता महारथाः
धृष्टद्युम्नं हतं शरुत्वा दरौपदेया विपां पते
अवाकिरञ शरव्रातैर भारद्वाजम अभीतवत
ततस तेन निनादेन संप्रबुद्धाः परभद्रकाः
शिली मिखैः शिखण्डी च दरॊणपुत्रं समार्दयन
भरद्वाजस तु तान दृष्ट्वा शरवर्षाणि वर्षतः
ननाद बलवान नादं जिघांसुस तान सुदुर्जयान
ततः परमसंक्रुद्धः पितुर वधम अनुस्मरन
अवरुह्य रथॊपस्थात तवरमाणॊ ऽभिदुद्रुवे
सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे
खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम
दरौपदेयान अभिद्रुत्य खड्गेन वयचरद बली
ततः स नरशार्दूलः परतिबिन्ध्यं तम आहवे
कुक्षि देशे ऽवधीद राजन स हतॊ नयपतद भुवि
परासेन विद्ध्वा दरौणिं तु सुत सॊमः परतापवान
पुनश चासिं समुद्यम्य दरॊणपुत्रम उपाद्रवत
सुत सॊमस्य सासिं तु बाहुं छित्त्वा नरर्षभः
पुनर अभ्यहनत पार्श्वे स भिन्नहृदयॊ ऽपतत
नाकुलिस तु शतानीकॊ रथचक्रेण वीर्यवान
दॊर्भ्याम उत्क्षिप्य वेगेन वक्षस्य एनम अताडयत
अताडयच छतानीकं मुक्तचक्रं दविजस तु सः
स विह्वलॊ ययौ भूमिं ततॊ ऽसयापाहरच छिरः
शरुतकर्मा तु परिघं गृहीत्वा समताडयत
अभिद्रुत्य ततॊ दरौणिं सव्ये सफलके भृशम
स तु तं शरुतकर्माणम आस्ये जघ्ने वरासिना
स हतॊ नयपतद भूमौ विमूढॊ विकृताननः
तेन शब्देन वीरस तु शरुतकीर्तिर महाधनुः
अश्वत्थामानम आसाद्य शरवर्षैर अवाकिरत
तस्यापि शरवर्षाणि चर्मणा परतिवार्य सः
सकुण्डलं शिरः कायाद भराजमानम अपाहरत
ततॊ भीष्म निहन्ता तं सह सर्वैः परभद्रकैः
अहनत सर्वतॊ वीरं नानाप्रहरणैर बली
शिलीमुखेन चाप्य एनं भरुवॊर मध्ये समार्दयत
स तु करॊधसमाविष्टॊ दरॊणपुत्रॊ महाबलः
शिखण्डिनं समासाद्य दविधा चिच्छेद सॊ ऽसिना
शिखण्डिनं ततॊ हत्वा करॊधाविष्टः परंतपः
परभद्रक गडान सर्वान अभिदुद्राव वेगवान
यच च शिष्टं विराटस्य बलं तच च समाद्रवत
दरुपदस्य च पुत्राणां पौत्राणां सुहृदाम अपि
चकार कदनं घॊरं दृष्ट्वा दृष्ट्वा महाबलः
अन्यान अन्यांश च पुरुषान अभिसृत्याभिसृत्य च
नयकृन्तद असिना दरौणिर असि मार्गविशारदः
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम
रक्ताम्बरधराम एकां पाशहस्तां शिखण्डिनीम
ददृशुः कालरात्रिं ते समयमानाम अवस्थिताम
नराश्वकुञ्जरान पाशैर बद्ध्वा घॊरैः परतस्थुषीम
हरन्तीं विविधान परेतान पाशबद्धान विमूर्धजान
सवप्ने सुप्तान नयन्तीं तां रात्रिष्व अन्यासु मारिष
ददृशुर यॊधमुख्यास ते घनन्तं दरौणिं च नित्यदा
यतः परवृत्तः संग्रामः कुरुपाण्डवसेनयॊः
ततः परभृति तां कृत्याम अपश्यन दरौणिम एव च
तांस तु दैवहतान पूर्वं पश्चाद दरौणिर नयपातयत
तरासयन सर्वभूतानि विनदन भैरवान रवान
तद अनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम
इदं तद इत्य अमन्यन्त दैवेनॊपनिपीडिताः
ततस तेन निनादेन परत्यबुध्यन्त धन्विनः
शिबिरे पाण्डवेयानां शतशॊ ऽथ सहस्रशः
सॊ ऽचछिनत कस्य चित पादौ जघनं चैव कस्य चित
कांश चिद बिभेद पार्श्वेषु कालसृष्ट इवान्तकः
अत्युग्र परतिपिष्टैश च नदद्भिश च भृशातुरैः
गजाश्वमथितैश चान्यैर मही कीर्णाभवत परभॊ
करॊशतां किम इदं कॊ ऽयं किं शब्दः किं नु किं कृतम
एवं तेषां तदा दरौणिर अन्तकः समपद्यत
अपेतशस्त्रसंनाहान संरब्धान पाण्डुसृञ्जयान
पराहिणॊन मृत्युलॊकाय दरौणिः परहरतां वरः
ततस तच छस्त्र वित्रस्ता उत्पतन्तॊ भयातुराः
निद्रान्धा नष्टसंज्ञाश च तत्र तत्र निलिल्यिरे
ऊरुस्तम्भगृहीताश च कश्मलाभिहतौजसः
विनदन्तॊ भृशं तरस्ताः संन्यपेषन परस्परम
ततॊ रथं पुनर दरौणिर आस्थितॊ भीमनिस्वनम
धनुष्पाणिः शरैर अन्यान परेषयद वै यमक्षयम
पुनर उत्पततः कांश चिद दूराद अपि नरॊत्तमान
शूरान संपततश चान्यान कालरात्र्यै नयवेदयत
तथैव सयन्दनाग्रेण परमथन स विधावति
शरवर्षैश च विविधैर अवर्षच छात्रवांस ततः
पुनश च सुविचित्रेण शतचन्द्रेण चर्मणा
तेन चाकाशवर्णेन तदाचरत सॊ ऽसिना
तथा स शिबिरं तेषां दरौणिर आहवदुर्मदः
वयक्षॊभयत राजेन्द्र महाह्रदम इव दविपः
उत्पेतुस तेन शब्देन यॊधा राजन विचेतसः
निद्रार्ताश च भयार्ताश च वयधावन्त ततस ततः
विस्वरं चुक्रुशुश चान्ये बह्वबद्धं तथावदन
न च सम परतिपद्यन्ते शस्त्राणि वसनानि च
विमुक्तकेशाश चाप्य अन्ये नाभ्यजानन परस्परम
उत्पतन्तः परे भीताः के चित तत्र तथाभ्रमन
पुरीषम असृजन के चित के चिन मूत्रं परसुस्रुवुः
बन्धनानि च राजेन्द्र संछिद्य तुरगा दविपाः
समं पर्यपतंश चान्ये कुर्वन्तॊ महद आकुलम
तत्र के चिन नरा भीता वयलीयन्त महीतले
तथैव तान निपतितान अपिंषन गजवाजिनः
तस्मिंस तथा वर्तमाने रक्षांसि पुरुषर्षभ
तृप्तानि वयनदन्न उच्चैर मुदा भरतसत्तम
स शब्दः परेरितॊ राजन भूतसंघैर मुदा युतैः
अपूरयद दिशः सर्वा दिवं चापि महास्वनः
तेषाम आर्तस्वरं शरुत्वा वित्रस्ता गजवाजिनः
मुक्ताः पर्यपतन राजन मृद्नन्तः शिबिरे जनम
तैस तत्र परिधावद्भिश चरणॊदीरितं रजः
अकरॊच छिबिरे तेषां रजन्यां दविगुणं तमः
तस्मिंस तमसि संजाते परमूढाः सर्वतॊ जनाः
नाजानन पितरः पुत्रान भरातॄन भरातर एव च
गजा गजान अतिक्रम्य निर्मनुष्या हया हयान
अताडयंस तथाभञ्जंस तथामृद्नंश च भारत
ते भग्नाः परपतन्तश च निघ्नन्तश च परस्परम
नयपातयन्त च परान पातयित्वा तथापिषन
विचेतसः सनिद्राश च तमसा चावृता नराः
जघ्नुः सवान एव तत्राथ कालेनाभिप्रचॊदिताः
तयक्त्वा दवाराणि च दवाःस्थास तथा गुल्मांश च गौल्मिकाः
पराद्रवन्त यथाशक्ति कांदिशीका विचेतसः
विप्रनष्टाश च ते ऽनयॊन्यं नाजानन्त तदा विभॊ
करॊशन्तस तात पुत्रेति दैवॊपहतचेतसः
पलायतां दिशस तेषां सवान अप्य उत्सृज्य बान्धवान
गॊत्र नामभिर अन्यॊन्यम आक्रन्दन्त ततॊ जनाः
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे
तान बुद्ध्वा रणमत्तॊ ऽसौ दरॊणपुत्रॊ वयपॊथयत
तत्रापरे वध्यमाना मुहुर मुहुर अचेतसः
शिबिरान निष्पतन्ति सम कषत्रिया भयपीडिताः
तांस तु निष्पततस तरस्ताञ शिबिराञ जीवितैषिणः
कृतवर्मा कृपश चैव दवारदेशे निजघ्नतुः
विशस्त्र यन्त्रकवचान मुक्तकेशान कृताञ्जलीन
वेपमानान कषितौ भीतान नैव कांश चिद अमुञ्चताम
नामुच्यत तयॊः कश चिन निष्क्रान्तः शिबिराद बहिः
कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः
भूयश चैव चिकीर्षन्तौ दरॊणपुत्रस्य तौ परियम
तरिषु देशेषु ददतुः शिबिरस्य हुताशनम
ततः परकाशे शिबिरे खड्गेन पितृनन्दनः
अश्वत्थामा महाराज वयचरत कृतहस्तवत
कांश चिद आपततॊ वीरान अपरांश च परधावतः
वययॊजयत खड्गेन पराणैर दविज वरॊ नरान
कांश चिद यॊधान स खड्गेन मध्ये संछिद्य वीर्यवान
अपातयद दरॊणसुतः संरब्धस तिलकाण्डवत
विनदद्भिर भृशायास तैर नराश्वद्विरदॊत्तमैः
पतितैर अभवत कीर्णा मेदिनी भरतर्षभ
मानुषाणां सहस्रेषु हतेषु पतितेषु च
उदतिष्ठन कबन्धानि बहून्य उत्थाय चापतन
सायुधान साङ्गदान बाहून निचकर्त शिरांसि च
हस्तिहस्तॊपमान ऊरून हस्तान पादांश च भारत
पृष्ठच छिन्नाञ शिरश छिन्नान पार्श्वच छिन्नांस तथापरान
समासाद्याकरॊद दरौणिः कांश चिच चापि पराङ्मुखान
मध्यकायान नरान अन्यांश चिछेदान्यांश च कर्णतः
अंसदेशे निहत्यान्यान काये परावेशयच छिरः
एवं विचरतस तस्य निघ्नतः सुबहून नरान
तमसा रजनी घॊरा बभौ दारुणदर्शना
किं चित पराणैश च पुरुषैर हतैश चान्यैः सहस्रशः
बहुना च गजाश्वेन भूर अभूद भीमदर्शना
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे
करुद्धेन दरॊणपुत्रेण संछिन्नाः परापतन भुवि
मातॄर अन्ये पितॄन अन्ये भरातॄन अन्ये विचुक्रुशुः
के चिद ऊचुर न तत करुद्धैर धार्तराष्ट्रैः कृतं रणे
यत्कृतं नः परसुप्तानां रक्षॊभिः करूरकर्मभिः
असांनिध्याद धि पार्थानाम इदं नः कदनं कृतम
न देवासुरगन्धर्वैर न यक्षैर न च राक्षसैः
शक्यॊ विजेतुं कौन्तेयॊ गॊप्ता यस्य जनार्दनः
बरह्मण्यः सत्यवाग दान्तः सर्वभूतानुकम्पकः
न च सुप्तं परमत्तं वा नयस्तशस्त्रं कृताञ्जलिम
धावन्तं मुक्तकेशं वा हन्ति पार्थॊ धनंजयः
तद इदं नः कृतं घॊरं रक्षॊभिः करूरकर्मभिः
इति लालप्यमानाः सम शेरते बहवॊ जनाः
सतनतां च मनुष्याणाम अपरेषां च कूजताम
ततॊ मुहूर्तात पराशाम्यत स शब्दस तुमुलॊ महान
शॊणितव्यतिषिक्तायां वसुधायां च भूमिप
तद रजस तुमुलं घॊरं कषणेनान्तर अधीयत
संवेष्टमानान उद्विग्नान निरुत्साहान सहस्रशः
नयपातयन नरान करुद्धः पशून पशुपतिर यथा
अन्यॊन्यं संपरिष्वज्य शयानान दरवतॊ ऽपरान
संलीनान युध्यमानांश च सर्वान दरौणिर अपॊथयत
दह्यमाना हुताशेन वध्यमानाश च तेन ते
परस्परं तदा यॊधा अनयन यमसादनम
तस्या रजन्यास तव अर्धेन पाण्डवानां महद बलम
गमयाम आस राजेन्द्र दरौणिर यम निवेशनम
निशाचराणां सत्त्वानां स रात्रिर हर्षवर्धिनी
आसीन नरगजाश्वानां रौद्री कषयकरी भृशम
तत्रादृश्यन्त रक्षांसि पिशाचाश च पृथग्विधाः
खादन्तॊ नरमांसानि पिबन्तः शॊणितानि च
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः
जटिला दीर्घसक्थाश च पञ्च पादा महॊदराः
पश्चाद अङ्गुलयॊ रूक्षा विरूपा भैरवस्वनाः
घटजानवॊ ऽतिह्रस्वाश च नीलकण्ठा विभीषणाः
सपुत्रदाराः सुक्रूरा दुर्दर्शन सुनिर्घृणाः
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम
पीत्वा च शॊणितं हृष्टाः परानृत्यन गणशॊ ऽपरे
इदं वरम इदं मेध्यम इदं सवाद्व इति चाब्रुवन
मेदॊ मज्जास्थि रक्तानां वसानां च भृशासिताः
परमांसानि खादन्तः करव्यादा मांसजीविनः
वसां चाप्य अपरे पीत्वा पर्यधावन विकुक्षिलाः
नाना वक्त्रास तथा रौद्राः करव्यादाः पिशिताशिनः
अयुतानि च तत्रासन परयुतान्य अर्बुदानि च
रक्षसां घॊररूपाणां महतां करूरकर्मणाम
मुदितानां वितृप्तानां तस्मिन महति वैशसे
समेतानि बहून्य आसन भूतानि च जनाधिप
परत्यूषकाले शिबिरात परतिगन्तुम इयेष सः
नृशॊणितावसिक्तस्य दरौणेर आसीद असि तसरुः
पाणिना सह संश्लिष्ट एकीभूत इव परभॊ
स निःशेषान अरीन कृत्वा विरराज जनक्षये
युगान्ते सर्वभूतानि भस्मकृत्वेव पावकः
यथाप्रतिज्ञं तत कर्मकृत्वा दरौणायनिः परभॊ
दुर्गमां पदवीं कृत्वा पितुर आसीद गतज्वरः
यथैव संसुप्त जने शिबिरे पराविशन निशि
तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः
निष्क्रम्य शिबिरात तस्मात ताभ्यां संगम्य वीर्यवान
आचख्यौ कर्म तत सर्वं हृष्टः संहर्षयन विभॊ
ताव अप्य आचख्यतुस तस्मै परियं परियकरौ तदा
पाञ्चालान सृञ्जयांश चैव विनिकृत्तान सहस्रशः
परीत्या चॊच्चैर उदक्रॊशंस तथैवास्फॊटयंस तलान
एवंविधा हि सा रात्रिः सॊमकानां जनक्षये
परसुप्तानां परमत्तानाम आसीत सुभृशदारुणा
असंशयं हि कालस्य पर्यायॊ दुरतिक्रमः
तादृशा निहता यत्र कृत्वास्माकं जनक्षयम
[धृ]
पराग एव सुमहत कर्म दरौणिर एतन महारथः
नाकरॊद ईदृशं कस्मान मत पुत्र विजये धृतः
अथ कस्माद धते कषत्रे कर्मेदं कृतवान असौ
दरॊणपुत्रॊ महेष्वासस तन मे शंसितुम अर्हसि
[स]
तेषां नूनं भयान नासौ कृतवान कुरुनन्दन
असांनिध्याद धि पार्थानां केशवस्य च धीमतः
सात्यकेश चापि कर्मेदं दरॊणपुत्रेण साधितम
न हि तेषां समक्षं तान हन्याद अपि मरुत्पतिः
एतद ईदृशकं वृत्तं राजन सुप्त जने विभॊ
ततॊ जनक्षयं कृत्वा पाण्डवानां महात्ययम
दिष्ट्या दिष्ट्येति चान्यॊन्यं समेत्यॊचुर महारथाः
पर्यष्वजत ततॊ दरौणिस ताभ्यां च परतिनन्दितः
इदं हर्षाच च सुमहद आददे वाक्यम उत्तमम
पाञ्चाला निहताः सर्वे दरौपदेयाश च सर्वशः
सॊमका मत्स्यशेषाश च सर्वे विनिहता मया
इदानीं कृतकृत्याः सम यामतत्रैव माचिरम
यदि जीवति नॊ राजा तस्मै शंसामहे परियम
[स]
ते हत्वा सर्वपाञ्चालान दरौपदेयांश च सर्वशः
अगच्छन सहितास तत्र यत्र दुर्यॊधनॊ हतः
गत्वा चैनम अपश्यंस ते किं चित पराणं नराधिपम
ततॊ रथेभ्यः परस्कन्द्य परिवव्रुस तवात्मजम
तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणम अचेतसम
वमन्तं रुधिरं वक्त्राद अपश्यन वसुधातले
वृतं समन्ताद बहुभिः शवापदैर घॊरदर्शनैः
शाला वृकगडैश चैव भक्षयिष्यद्भिर अन्तिकात
निवारयन्तं कृच्छ्रात ताञ शवापदान संचिखादिषून
विवेष्टमानं मह्यां च सुभृशं गाढवेदनम
तं शयानं महात्मानं भूमौ सवरुधिरॊक्षितम
हतशिष्टास तरयॊ वीराः शॊकार्ताः पर्यवारयन
अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः
तैस तरिभिः शॊणितादिग्धैर निःश्वसद्भिर महारथैः
शुशुभे संवृतॊ राजा वेदी तरिभिर इवाग्निभिः
ते तं शयानं संप्रेक्ष्य राजानम अतथॊचितम
अविषह्येन दुःखेन ततस ते रुरुदुस तरयः
ततस ते रुधिरं हस्तैर मुखान निर्मृज्य तस्य ह
रणे राज्ञः शयानस्य कृपणं पर्यदेवयन
[कृप]
न दैवस्यातिभारॊ ऽसति यद अयं रुधिरॊक्षितः
एकादश चमू भर्ता शेते दुर्यॊधनॊ हतः
पश्य चामीकराभस्य चामीकरविभूषिताम
गदां गदा परियस्येमां समीपे पतितां भुवि
इयम एनं गदा शूरं न जहाति रणे रणे
सवर्गायापि वरजन्तं हि न जहाति यशस्विनम
पश्येमां सह वीरेण जाम्बूनदविभूषिताम
शयानां शयने धर्मे भार्यां परीतिमतीम इव
यॊ वै मूर्धावसिक्तानाम अग्रे यातः परंतपः
स हतॊ गरसते पांसून पश्य कालस्य पर्ययम
येनाजौ निहता भूमाव अशेरत पुरा दविषः
स भूमौ निहतः शेते कुरुराजः परैर अयम
भयान नमन्ति राजानॊ यस्य सम शतसंघशः
स वीरशयने शेते करव्याद्भिः परिवारितः
उपासत नृपाः पूर्वम अर्थहेतॊर यम ईश्वरम
धिक सद्यॊ निहतः शेते पश्य कालस्य पर्ययम
[स]
तं शयानं नृपश्रेष्ठं ततॊ भरतसत्तम
अश्वत्थामा समालॊक्य करुणं पर्यदेवयत
आहुस तवां राजशार्दूल मुख्यं सर्वधनुष्मताम
धनाध्यक्षॊपमं युद्धे शिष्यं संकर्षणस्य ह
कथं विवरम अद्राक्षीद भीमसेनस तवानघ
बलिनः कृतिनॊ नित्यं स च पापात्मवान नृप
कालॊ नूनं महाराज लॊके ऽसमिन बलवत्तरः
पश्यामॊ निहतं तवां चेद भीमसेनेन संयुगे
कथं तवां सर्वधर्मज्ञं कषुद्रः पापॊ वृकॊदरः
निकृत्या हतवान मन्दॊ नूनं कालॊ दुरत्ययः
धर्मयुद्धे हय अधर्मेण समाहूयौजसा मृधे
गदया भीमसेनेन निर्भिन्ने सक्थिनी तव
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः
यद उपेक्षितवान कषुद्रॊ धिक तम अस्तु युधिष्ठिरम
युद्धेष्व अपवदिष्यन्ति यॊधा नूनं वृकॊदरम
यावत सथास्यन्ति भूतानि निकृत्या हय असि पातितः
ननु रामॊ ऽबरवीद राजंस तवां सदा यदुनन्दनः
दुर्यॊधन समॊ नास्ति गदया इति वीर्यवान
शलाघते तवां हि वार्ष्णेयॊ राजन संसत्सु भारत
सुशिष्यॊ मम कौरव्यॊ गदायुद्ध इति परभॊ
यां गतिं कषत्रियस्याहुः परशस्तां परमर्षयः
हतस्याभिमुखस्याजौ पराप्तस तवम असि तां गतिम
दुर्यॊधन न शॊचामि तवाम अहं पुरुषर्षभ
हतपुत्रां तु शॊचामि गान्धारीं पितरं च ते
भिक्षुकौ विचरिष्येते शॊचन्तौ पृथिवीम इमाम
धिग अस्तु कृष्णं वार्ष्णेयम अर्जुनं चापि दुर्मतिम
धर्मज्ञ मानिनौ यौ तवां वध्यमानम उपेक्षताम
पाण्डवाश चापि ते सर्वे किं वक्ष्यन्ति नराधिपान
कथं दुर्यॊधनॊ ऽसमाभिर हत इत्य अनपत्रपाः
धन्यस तवम असि गान्धारे यस तवम आयॊधने हतः
परयातॊ ऽभिमुखः शत्रून धर्मेण पुरुषर्षभ
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा
परज्ञा चक्षुश च दुर्धर्षः कां गतिं परतिपत्स्यते
धिग अस्तु कृतवर्माणं मां कृपं च महारथम
ये वयं न गताः सवर्गं तवां पुरस्कृत्य पार्थिवम
दातारं सर्वकामानां रक्षितारं परजाहितम
यद वयं नानुगच्छामस तवां धिग अस्मान नराधमान
कृपस्य तव वीर्येण मम चैव पितुश च मे
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च
भवत्प्रसादाद अस्माभिः समित्रैः सह बान्धवैः
अवाप्ताः करतवॊ मुख्या बहवॊ भूरिदक्षिणाः
कुतश चापीदृशं सार्थम उपलप्स्यामहे वयम
यादृशेन पुरस्कृत्य तवं गतः सर्वपार्थिवान
वयम एव तरयॊ राजन गच्छन्तं परमां गतिम
यद वै तवां नानुगच्छामस तेन तप्स्यामहे वयम
तवत सवर्गहीना हीनार्थाः समरन्तः सुकृतस्य ते
किंनाम तद भवेत कर्म यन तवानुव्रजेम वै
दुःखं नूनं कुरुश्रेष्ठ चरिष्यामॊ महीम इमाम
हीनानां नस तवया राजन कुतः शान्तिः कुतः सुखम
गत्वैतांस तु महाराज समेत्य तवं महारथान
यथा शरेष्ठं यथा जयेष्ठं पूजयेर वचनान मम
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम
हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप
परिष्वजेथा राजानं बाह्लिकं सुमहारथम
सैन्धवं सॊमदत्तं च भूरिश्रवसम एव च
तथा पूर्वगतान अन्यान सवर्गं पार्थिव सत्तमान
अस्मद वाक्यात परिष्वज्य पृच्छेथास तवम अनामयम
इत्य एवम उक्त्वा राजानं भग्नसक्थम अचेतसम
अश्वत्थामा समुद्वीक्ष्य पुनर वचनम अब्रवीत
दुर्यॊधन जीवसि चेद वाचं शरॊत्रसुखां शृणु
सप्त पाण्डवतः शेषा धार्तराष्ट्रास तरयॊ वयम
ते चैव भरातरः पञ्च वासुदेवॊ ऽथ सात्यकिः
अहं च कृतवर्मा च कृपः शारद्वतस तथा
दरौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः
पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत
कृते परतिकृतं पश्य हतपुत्रा हि पाण्डवाः
सौप्तिके शिबिरं तेषां हतं सनर वाहनम
मया च पापकर्मासौ धृष्टद्युम्नॊ महीपते
परविश्य शिबिरं रात्रौ पशुमारेण मारितः
दुर्यॊधनस तु तां वाचं निशम्य मनसः परियाम
परतिलभ्य पुनश चेत इदं वचनम अब्रवीत
न मे ऽकरॊत तद गानेयॊ न कर्णॊ न च ते पिता
यत तवया कृप भॊजाभ्यां सहितेनाद्य मे कृतम
स चेत सेनापतिः कषुद्रॊ हतः सार्धं शिखण्डिना
तेन मन्ये मघवता समम आत्मानम अद्य वै
सवस्ति पराप्नुत भद्रं वः सवर्गे नः संगमः पुनः
इत्य एवम उक्त्वा तूष्णीं स कुरुराजॊ महामनाः
पराणान उदसृजद वीरः सुहृदां शॊकम आदधत
तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम
पुनः पुनः परेक्षमाणाः सवकान आरुरुहू रथान
इत्य एवं तव पुत्रस्य निशम्य करुणां गिरम
परत्यूषकाले शॊकार्तः पराधावं नगरं परति
तव पुत्रे गते सवर्गे शॊकार्तस्य ममानघ
ऋषिदत्तं परनष्टं तद दिव्यदर्शित्वम अद्य वै
[व]
इति शरुत्वा स नृपतिः पुत्र जञातिवधं तदा
निःश्वस्य दीर्घम उष्णं च ततश चिन्तापरॊ ऽभवत
[व]
तस्यां रात्र्यां वयतीतायां धृष्टद्युम्नस्य सारथिः
शशंस धर्मराजाय सौप्तिके कदनं कृतम
दरौपदेया महाराज दरुपदस्यात्मजैः सह
परमत्ता निशि विश्वस्ताः सवपन्तः शिबिरे सवके
कृतवर्मणा नृशंसेन गौतमेन कृपेण च
अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि
एतैर नरगजाश्वानां परासशक्तिपरश्वधैः
सहस्राणि निकृन्तद्भिर निःशेषं ते बलं कृतम
छिद्यमानस्य महतॊ वनस्येव परश्वधैः
शुश्रुवे सुमहाञ शब्दॊ बलस्य तव भारत
अहम एकॊ ऽवशिष्टस तु तस्मात सैन्यान महीपते
मुक्तः कथं चिद धर्मात्मन वयग्रस्य कृतवर्मणः
तच छरुत्वा वाक्यम अशिवं कुन्तीपुत्रॊ युधिष्ठिरः
पपात मह्यां दुर्धर्षः पुत्रशॊकसमन्वितः
तं पतन्तम अभिक्रम्य परिजग्राह सात्यकिः
भीमसेनॊ ऽरजुनश चैव माद्रीपुत्रौ च पाण्डवौ
लब्धचेतास तु कौन्तेयः शॊकविह्वलया गिरा
जित्वा शत्रूञ जितः पश्यात पर्यदेवयद आतुरः
दुर्विदा गतिर अर्थानाम अपि ये दिव्यचक्षुषः
जीयमाना जयन्त्य अन्ये जयमाना वयं जिताः
हत्वा भरातॄन वयस्यांश च पितॄन पुत्रान सुहृद्गणान
बन्धून अमात्यान पौत्रांश च जित्वा सर्वाञ जिता वयम
अनर्थॊ हय अर्थसंकाशस तथार्थॊ ऽनर्थदर्शनः
जयॊ ऽयम अजयाकारॊ जयस तस्मात पराजयः
यं हित्वा तप्यते पश्चाद आपन्न इव दुर्मतिः
अक्थं मन्येत विजयं ततॊ जिततरः परैः
येषाम अर्थाय पापस्य धिग जयस्य सुहृद वधे
निर्जितैर अप्रमत्तैर हि विजिता जितकाशिनः
कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे
चापव्यात्तस्य रौद्रस्य जयातलस्वननादिनः
करुद्धस्य नरसिंहस्य संग्रामेष्व अपलायिनः
ये वयमुच्यन्त कर्णस्य परमादात त इमे हताः
रथह्रदं शरवर्षॊर्मि मन्तं; रत्नाचितं वाहन राजियुक्तम
शक्त्यृष्टि मीनध्वजनागनक्रं; शरासनावर्त महेषु फेनम
संग्रामचन्द्रॊदय वेगवेलं; दरॊणार्णवं जयातलनेमि घॊषम
ये तेरुर उच्चावचशस्त्रनौभिस; ते राजपुत्रा निहताः परमादात
न हि परमादात परमॊ ऽसति कश चिद; वधॊ नराणाम इह जीवलॊके
परमत्तम अर्था हि नरं समन्तात; तयजन्त्य अनर्थाश च समाविशन्ति
धवजॊत्तम गरॊच्छ्रितधूमकेतुं; शरार्चिषं कॊपमहासमीरम
महाधनुर जयातलनेमि घॊषं; तनुत्र नानाविध शस्त्रहॊमम
महाचमू कक्षवराभिपन्नं; महाहवे भीष्म महादवाग्निम
ये सेहुर आत्तायत शस्त्रवेगं; ते राजपुत्रा निहताः परमादात
न हि परमत्तेन नरेण लभ्या; विद्या तपः शरीर विपुलं यशॊ वा
पश्याप्रमादेन निहत्य शत्रून; सर्वान महेन्द्रं सुखम एधमानम
इन्द्रॊपमान पार्थिव पुत्रपौत्रान; पश्याविशेषेण हतान परमादात
तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कु नद्याम इव हेलमानाः
अमर्षितैर ये निहताः शयाना; निःसंशयं ते तरिदिवं परपन्नाः
कृष्णां नु शॊचामि कथं न साध्वीं; शॊकार्णवे साद्य विनङ्क्ष्यतीति
भरातॄंश च पुत्रांश च हतान निशम्य; पाञ्चालराजं पितरं च वृद्धम
धरुवं विसंज्ञा पतिता पृथिव्यां; सा शेष्यते शॊककृशाङ्गयष्टिः
तच छॊकजं दुःखम अपारयन्ती; कथं भविष्यत्य उचिता सुखानाम
पुत्रक्षयभ्रातृवध परणुन्ना; परदह्यमानेव हुताशनेन
इत्य एवम आर्तः परिदेवयन स; राजा कुरूणां नकुलं बभाषे
गच्छानयैनाम इह मन्दभाग्यां; समातृपक्षाम इति राजपुत्रीम
माद्रीर उतस तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः
ययौ रथेनालयम आशु देव्याः; पाञ्चालराजस्य च यत्र दाराः
परस्थाप्य माद्रीसुतम आजमीढः; शॊकार्दितस तैः सहितः सुहृद्भिः
रॊरूयमाणः परययौ सुतानाम; आयॊधनं भूतगणानुकीर्णम
स तत परविशाशिवम उग्ररूपं; ददर्श पुत्रान सुहृदः सखींश च
भूमौ शयानान रुधिरार्द्रगात्रान; विभिन्नभग्नापहृतॊत्तमाङ्गान
स तांस तु दृष्ट्वा भृशम आर्तरूपॊ; युधिष्ठिरॊ धर्मभृतां वरिष्ठः
उच्चैः पचुक्रॊश च कौरवाग्र्यः; पपात चॊर्व्यां सगणॊ विसंज्ञः
[व]
स दृष्ट्वा निहतान संख्ये पुत्रान भरातॄन सखींस तथा
महादुःखपरीतात्मा बभूव जनमेजय
ततस तस्य महाञ शॊकः परादुरासीन महात्मनः
समरतः पुत्रपौत्राणां भरातॄणां सवजनस्य ह
तम अश्रुपरिपूर्णाक्षं वेपमानम अचेतसम
सुहृदॊ भृशसंविग्नाः सान्त्वयां चक्रिरे तदा
ततस तस्मिन कषणे काल्ये रथेनादित्यवर्चसा
नकुलः कृष्णया सार्धम उपायात परमार्तया
उपप्लव्य गता सा तु शरुत्वा सुमहद अप्रियम
तदा विनाशं पुत्राणां सर्वेषां वयथिताभवत
कम्पमानेव कदली वातेनाभिसमीरिता
कृष्णा राजानम आसाद्य शॊकार्ता नयपतद भुवि
बभूव वदनं तस्याः सहसा शॊककर्शितम
फुल्लपद्मपलाशाक्ष्यास तमॊ धवस्त इवांशुमान
ततस तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः
बाहुभ्यां परिजग्राह समुपेत्य वृकॊदरः
सा समाश्वासिता तेन भीमसेनेन भामिनी
रुदती पाण्डवं कृष्णा सह भरातरम अब्रवीत
दिष्ट्या राजंस तवम अद्येमाम अखिलां भॊक्ष्यसे महीम
आत्मजान कषत्रधर्मेण संप्रदाय यमाय वै
दिष्ट्या तवं पार्थ कुशली मत्तमातङ्गगामिनम
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न समरिष्यसि
आत्मजांस तेन धर्मेण शरुत्वा शूरान निपातितान
उपप्लव्ये मया सार्धं दिष्ट्या तवं न समरिष्यसि
परसुप्तानां वधं शरुत्वा दरौणिना पापकर्मणा
शॊकस तपति मां पार्थ हुताशन इवाशयम
तस्य पापकृतॊ दरौणेर न चेद अद्य तवया मृधे
हरियते सानुबन्धस्य युधि विक्रम्य जीवितम
इहैव परायम आसिष्ये तन निबॊधत पाण्डवाः
न चेत फलम अवाप्नॊति दरौणिः पापस्य कर्मणः
एवम उक्त्वा ततः कृष्णा पाण्डवं परत्युपाविशत
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी
दृष्ट्वॊपविष्टां राजर्षिः पाण्डवॊ महिषीं परियाम
परत्युवाच स धर्मात्मा दरौपदीं चारुदर्शनाम
धर्म्यं धर्मेण धर्मज्ञे पराप्तास ते निधनं शुभे
पुत्रास ते भरातरश चैव तान न शॊचितुम अर्हसि
दरॊणपुत्रः स कल्याणि वनं दूरम इतॊ गतः
तस्य तवं पातनं संख्ये कथं जञास्यसि शॊभने
[दरौ]
दरॊणपुत्रस्य सहजॊ मणिः शिरसि मे शरुतः
निहत्य संख्ये तं पापं पश्येयं मणिम आहृतम
राजञ शिरसि तं कृत्वा जीवेयम इति मे मतिः
[व]
इत्य उक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना
भीमसेनम अथाभ्येत्य कुपिता वाक्यम अब्रवीत
तरातुम अर्हसि मां भीमक्षत्रधर्मम अनुस्मरन
जहि तं पापकर्माणं शम्बरं मघवान इव
न हि ते विक्रमे तुल्यः पुमान अस्तीह कश चन
शरुतं तत सर्वलॊकेषु परमव्यसने यथा
दवीपॊ ऽभूस तवं हि पार्थानां नगरे वारणावते
हिडिम्बदर्शने चैव तथा तवम अभवॊ गतिः
तथा विराटनगरे कीचकेन भृशार्दिताम
माम अप्य उद्धृतवान कृच्छ्रात पौलॊमीं मघवान इव
यथैतान्य अकृथाः पार्थ महाकर्माणि वै पुरा
तथा दरौणिम अमित्रघ्न विनिहत्य सुखी भव
तस्या बहुविधं दुःखान निशम्य परिदेवितम
नामर्षयत कौन्तेयॊ भीमसेनॊ महाबलः
स काञ्चनविचित्राङ्गम आरुरॊह महारथम
आदाय रुचिरं चित्रं समार्गण गुणं धनुः
नकुलं सारथिं कृत्वा दरॊणपुत्र वधे वृतः
विस्फार्य सशरं चापं तूर्णम अश्वान अचॊदयत
ते हयाः पुरुषव्याघ्र चॊदिता वातरंहसः
वेगेन तवरिता जग्मुर हरयः शीघ्रगामिनः
शिबिरात सवाद गृहीत्वा स रथस्य पदम अच्युतः
दरॊणपुत्र रथस्याशु ययौ मार्गेण वीर्यवान
[व]
तस्मिन परयाते दुर्धर्षे यदूनाम ऋषभस ततः
अब्रवीत पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम
एष पाण्डव ते भराता पुत्रशॊकम अपारयन
जिघांसुर दरौणिम आक्रन्दे याति भारत भारतः
भीमः परियस ते सर्वेभ्यॊ भरातृभ्यॊ भरतर्षभ
तं कृच्छ्रगतम अद्य तवं कस्मान नाभ्यवपद्यसे
यत तद आचष्ट पुत्राय दरॊणः परपुरंजयः
अस्त्रं बरह्मशिरॊ नाम दहेद यत पृथिवीम अपि
तन महात्मा महाभागः केतुः सर्वधनुष्मताम
परत्यपादयद आचार्यः परीयमाणॊ धनंजयम
तत पुत्रॊ ऽसयैवम एवैनम अन्वयाचद अमर्षणः
ततः परॊवाच पुत्राय नातिहृष्टमना इव
विदितं चापलं हय आसीद आत्मजस्य महात्मनः
सर्वधर्मविद आचार्यॊ नान्विषत सततं सुतम
परमापद गतेनापि न सम तात तवया रणे
इदम अस्त्रं परयॊक्तव्यं मानुषेषु विशेषतः
इत्य उक्तवान गुरुः पुत्रं दरॊणः पश्चाद अथॊक्तवान
न तवं जातु सतां मार्गे सथातेति पुरुषर्षभ
स तद आज्ञाय दुष्टात्मा पितुर वचनम अप्रियम
निराशः सर्वकल्याणैः शॊचन पर्यपतन महीम
ततस तदा कुरुश्रेष्ठ वनस्थे तवयि भारत
अवसद दवारकाम एत्य वृष्णिभिः परमार्चितः
स कदा चित समुद्रान्ते वसन दरारवतीम अनु
एक एकं समागम्य माम उवाच हसन्न इव
यत तद उग्रं तपः कृष्ण चरन सत्यपराक्रमः
अगस्याद भारताचार्यः परत्यपद्यत मे पिता
अस्त्रं बरह्मशिरॊ नाम देवगन्धर्वपूजितम
तद अद्य मयि दाशार्ह यथा पितरि मे तथा
अस्मत्तस तद उपादाय विद्यम अस्त्रं यदूत्तम
ममाप्य अस्त्रं परयच्छ तवं चक्रं रिपुहरं रणे
स राजन परीयमाणेन मयाप्य उक्तः कृताञ्जलिः
याचमानः परयत्नेन मत्तॊ ऽसत्रं भरतर्षभ
देवदानवगन्धर्वमनुष्यपतगॊरगाः
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः
इदं धनुर इयं शक्तिर इदं चक्रम इयं गदा
यद यद इच्छसि चेद अस्त्रं मत्तस तत तद ददानि ते
यच छक्नॊषि समुद्यन्तुं परयॊक्तुम अपि वा रणे
तद्गृहाण विनास्त्रेण यन मे दातुम अभीप्ससि
स सुनाभं सहस्रारं वज्रनाभम अयस्मयम
वव्रे चक्रं महाबाहॊ सपर्धमानॊ मया सह
गृहाण चक्रम इत्य उक्तॊ मया तु तदनन्तरम
जग्राहॊपेत्य सहसा चक्रं सव्येन पाणिना
न चैतद अशकत सथानात संचालयितुम अच्युत
अथ तद दक्षिणेनापि गरहीतुम उपचक्रमे
सर्वयत्नेन तेनापि गृह्णन्न एतद अकल्पयत
ततः सर्वबलेनापि यच चैतन न शशाक सः
उद्धर्तुं वा चालयितुं दरौणिः परमदुर्मनाः
कृत्वा यत्नं परं शरान्तः स नयवर्तत भारत
निवृत्तम अथ तं तस्माद अभिप्रायाद विचेतसम
अहम आमन्त्र्य सुस्निग्धम अश्वत्थामानम अब्रुवम
यः स देवमनुष्येषु परमाणं परमं गतः
गाण्डीवधन्वा शवेताश्वः कपिप्रवर केतनः
यः साक्षाद देवदेवेशं शितिकण्ठम उमापतिम
दवंद्व युद्धे पराजिष्णुस तॊषयाम आस शंकरम
यस्मात परियतरॊ नास्ति ममान्यः पुरुषॊ भुवि
नादेयं यस्य मे किं चिद अपि दाराः सुतास तथा
तेनापि सुहृदा बरह्मन पार्थेनाक्लिष्ट कर्मणा
नॊक्तपुर्वम इदं वाक्यं यत तवं माम अभिभाषसे
बरह्मचर्यं महद घॊरं चीर्त्वा दवादश वार्षिकम
हिमवत्पार्श्वम अभ्येत्य यॊ मया तपसार्चितः
समानव्रतचारिण्यां रुक्मिण्यां यॊ ऽनवजायत
सनत्कुमारस तेजस्वी परद्युम्नॊ नाम मे सुतः
तेनाप्य एतन महद दिव्यं चक्रम अप्रतिमं मम
न परार्थितम अभून मूढ यद इदं परार्थितं तवया
रामेणातिबलेनैतन नॊक्तपूर्वं कदा चन
न गदेन न साम्बेन यद इदं परार्थितं तवया
दवारकावासिभिश चान्यैर वृष्ण्यन्धकमहारथैः
नॊक्तपूर्वम इदं जातु यद इदं परार्थितं तवया
भारताचार्य पुत्रः सन मानितः सर्वयादवैः
चक्रेण रथिनां शरेष्ठ किं नु तात युयुत्ससे
एवम उक्तॊ मया दरौणिर माम इदं परत्युवाच ह
परयुज्य भवते पूजां यॊत्स्ये कृष्ण तवयेत्य उत
ततस ते परार्थितं चक्रं देवदानव पूजितम
अजेयः सयाम इति विभॊ सत्यम एतद बरवीमि ते
तवत्तॊ ऽयं दुर्लभं कामम अनवाप्यैव केशव
परतियास्यामि गॊविन्द शिवेनाभिवदस्व माम
एतत सुनाभं वृष्णीनाम ऋषभेण तवया धृतम
चक्रम अप्रतिचक्रेण भुवि नान्यॊ ऽभिपद्यते
एतावद उक्त्वा दरौणिर मां युग्मम अश्वान धनानि च
आदायॊपययौ बालॊ रत्नानि विविधानि च
स संरम्भी दुरात्मा च चपलः करूर एव च
वेद चास्त्रं बरह्मशिरस तस्माद रक्ष्यॊ वृकॊदरः
[व]
एवम उक्त्वा युधां शरेष्ठः सर्वयादवनन्दनः
सर्वायुधवरॊपेतम आरुरॊह महारथम
युक्तं परमकाम्बॊजैस तुरगैर हेममालिभिः
आदित्यॊदयवर्णस्य दुरं रथवरस्य तु
दक्षिणाम अवहत सैन्यः सुग्रीवः सव्यतॊ ऽवहत
पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ
विश्वकर्म कृता दिव्या नानारत्नविभूषिता
उच्छ्रितेव रथे माया धवजयष्टिर अदृश्यत
वैनतेयः सथितस तस्यां परभा मण्डलरश्मिवान
तस्य सत्यवतः केतुर भुजगारिर अदृश्यत
अन्वारॊहद द धृषीकेशः केतुः सर्वधनुष्मताम
अर्जुनः सत्यकर्मा च कुरुराजॊ युधिष्ठिरः
अशॊभेतां महात्मानौ दाशार्हम अभितः सथितौ
रथस्थं शार्ङ्गधन्वानम अश्विनाव इव वासवम
ताव उपारॊप्य दाशार्हः सयन्दनं लॊकपूजितम
परतॊदेन जवॊपेतान परमाश्वान अचॊदयत
ते हयाः सहसॊत्पेतुर गृहीत्वा सयन्दनॊत्तमम
आस्थितं पाण्डवेयाभ्यां यदूनाम ऋषभेण च
वहतां शार्ङ्गधन्वानम अश्वानां शीघ्रगामिनाम
परादुरासीन महाञ शब्दः पक्षिणां पतताम इव
ते समार्छन नरव्याघ्राः कषणेन भरतर्षभ
भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः
करॊधदीप्तं तु कौन्तेयं दविषद अर्थे समुद्यतम
नाशक्नुवन वारयितुं समेत्यापि महारथाः
स तेषां परेक्षताम एव शरीमतां दृढधन्विनाम
ययौ भागिरथी कच्छं हरिभिर भृशवेगितैः
यत्र सम शरूयते दरौणिः पुत्र हन्ता महात्मनाम
स ददर्श महात्मानम उदकान्ते यशस्विनम
कृष्णद्वैपायनं वयासम आसीनम ऋषिभिः सह
तं चैव करूरकर्माणं घृताक्तं कुशचीरिणम
रजसा धवस्तकेशान्तं ददर्श दरौणिम अन्तिके
तम अभ्यधावत कौन्तेयः परगृह्य सशरं धनुः
भीमसेनॊ महाबाहुस तिष्ठ तिष्ठेति चाब्रवीत
स दृष्ट्वा भीमधन्वानं परगृहीतशरासनम
भरातरौ पृष्ठतश चास्य जनार्दन रथे सथितौ
वयथितात्माभवद दरौणिः पराप्तं चेदम अमन्यत
स तद दिव्यम अदीनात्मा परमास्त्रम अचिन्तयत
जग्राह च स चैषीकां दरौणिः सव्येन पाणिना
स ताम आपदम आसाद्य विद्यम अस्त्रम उदीरयत
अमृष्यमाणस ताञ शूरान दिव्यायुध धरान सथितान
अपाण्ड्दवायेति रुषा वयसृजद दारुणं वचः
इत्य उक्त्वा राजशार्दूल दरॊणपुत्रः परतापवान
सर्वलॊकप्रमॊहार्थं तद अस्त्रं परमुमॊच ह
ततस तस्याम इषीकायां पावकः समजायत
परधक्ष्यन्न इव लॊकांस तरीन कालान्तकयमॊपमः
[व]
इङ्गितेनैव दाशार्हस तम अभिप्रायम आदितः
दरौणेर बुद्ध्वा महाबाहुर अर्जुनं परत्यभाषत
अर्जुनार्जुन यद दिव्यम अस्त्रं ते हृदि वर्तते
दरॊपॊपदिष्टं तस्यायं कालः संप्रति पाण्डव
भरातॄणाम आत्मनश चैव परित्राणाय भारत
विसृजैतत तवम अप्य आजाव अस्त्रम अस्त्रनिवारणम
केशवेनैवम उक्तस तु पाण्डवः परवीरहा
अवातरद रथात तूर्णं परगृह्य सशरं धनुः
पूर्वम आचार्य पुत्राय ततॊ ऽनन्तरम आत्मने
भरातृभ्यश चैव सर्वेभ्यः सवस्तीत्य उक्त्वा परंतपः
देवताभ्यॊ नमस्कृत्य गुरुभ्यश चेव सर्वशः
उत्ससर्ज शिवं धयायन्न अस्त्रम अस्त्रेण शाम्यताम
ततस तद अस्त्रं सहसा सृष्टं गाण्डीवधन्वना
परजज्वाल महार्चिष्मद युगान्तानल संनिभम
तथैव दरॊणपुत्रस्य तद अस्त्रं तिग्मतेजसः
परजज्वाल महाज्वालं तेजॊ मण्डलसंवृतम
निर्घाता बहवश चासन पेतुर उल्काः सहस्रशः
महद भयं च भूतानां सर्वेषां समजायत
सशब्दम अभवद वयॊम जवालामाला कुलं भृशम
चचाल च महीकृत्स्ना सपर्वतवनद्रुमा
ते अस्त्रे तेजसा लॊकांस तापयन्ती वयवस्थिते
महर्षी सहितौ तत्र दर्शयाम आसतुस तदा
नारदः स च धर्मात्मा भरतानां पितामहः
उभौ शमयितुं वीरौ भारद्वाज धनंजयौ
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ
दीप्तयॊर अस्त्रयॊर मध्ये सथितौ परमतेजसौ
तदन्तरम अनाधृष्याव उपगम्य यशस्विनौ
आस्ताम ऋषिवरौ तत्र जवलिताव इव पावकौ
पराणभृद्भिर अनाधृष्यौ देवदानव संमतौ
अस्त्रतेजः शमयितुं लॊकानां हितकाम्यया
[रसी]
नानाशस्त्रविदः पूर्वे ये ऽपय अतीता महारथाः
नैतद अस्त्रं मनुष्येषु तैः परयुक्तं कथं चन
[व]
दृष्ट्वैव नरशार्दूलस ताव अग्निसमतेजसौ
संजहार शरं दिव्यं तवरमाणॊ धनंजयः
उवाच वदतां शरेष्ठस ताव ऋषी पराञ्जलिस तदा
परयुक्तम अस्त्रम अस्त्रेण शाम्यताम इति वै मया
संहृते परमास्त्रे ऽसमिन सर्वान अस्मान अशेषतः
पापकर्मा धरुवं दरौणिः परधक्ष्यत्य अस्त्रतेजसा
अत्र यद धितम अस्माकं लॊकानां चैव सर्वथा
भवन्तौ देवसंकाशौ तथा संहर्तुम अर्हतः
इत्य उक्त्वा संजहारास्त्रं पुनर एव धनंजयः
संहारॊ दुष्करस तस्य देवैर अपि हि संयुगे
विसृष्टस्य रणे तस्य परमास्त्रस्य संग्रहे
न शक्तः पाण्डवाद अन्यः साक्षाद अपि शतक्रतुः
बरह्मतेजॊ भवं तद धि विसृष्टम अकृतात्मना
न शक्यम आवर्तयितुं बरह्म चारि वरताद ऋते
अचीर्ण बरह्मचर्यॊ यः सृष्ट्वावर्तयते पुनः
तद अस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति
बरह्म चारी वरती चापि दुरवापम अवाप्य तत
परमव्यसनार्तॊ ऽपि नार्जुनॊ ऽसत्रं वयमुञ्चत
सत्यव्रतधरः शूरॊ बरह्म चारी च पाण्डवः
गुरुवर्ती च तेनास्त्रं संजहारार्जुनः पुनः
दरौणिर अप्य अथ संप्रेक्ष्य ताव ऋषी पुरतः सथितौ
न शशाक पुनर घॊरम अस्त्रं संहर्तुम आहवे
अशक्तः परतिसंहारे परमास्त्रस्य संयुगे
दरौणिर दीनमना राजन दवैपायनम अभाषत
उक्तम अव्यसनार्तेन पराणत्राणम अभीप्सुना
मयैतद अस्त्रम उत्सृष्टं भीमसेन भयान मुने
अधर्मश च कृतॊ ऽनेन धार्तराष्ट्रं जिघांसता
मिथ्याचारेण भगवन भीमसेनेन संयुगे
अतः सृष्टम इदं बरह्मन मयास्त्रम अकृतात्मना
तस्य भूयॊ ऽदय संहारं कर्तुं नाहम इहॊत्सहे
विसृष्टं हि मया दिव्यम एतद अस्त्रं दुरासदम
अपाण्डवायेति मुने वह्नि तेजॊ ऽनुमन्त्र्य वै
तद इदं पाण्डवेयानाम अन्तकायाभिसंहितम
अद्य पाण्डुसुतान सर्वाञ जीविताद भरंशयिष्यति
कृतं पापम इदं बरह्मन रॊषाविष्टेन चेतसा
वधम आशास्य पार्थानां मयास्त्रं सृजता रणे
[व]
अस्त्रं बरह्मशिरस तात विद्वान पार्थॊ धनंजयः
उत्सृष्टवान न रॊषेण न वधाय तवाहवे
अस्त्रम अस्त्रेण तु रणे तव संशमयिष्यता
विसृष्टम अर्जुनेनेदं पुनश च परतिसंहृतम
बरह्मास्त्रम अप्य अवाप्यैतद उपदेशात पितुस तव
कषत्रधर्मान महाबाहुर नाकम्पत धनंजयः
एवं धृतिमतः साधॊः सर्वास्त्रविदुषः सतः
सभ्रातृबन्धॊः कस्मात तवं वधम अस्य चिकीर्षसि
अस्त्रं बरह्मशिरॊ यत्र परमास्त्रेण वध्यते
समा दवादश पर्जन्यस तद राष्ट्रं नाभिवर्षति
एतदर्थं महाबाहुः शक्तिमान अपि पाण्डवः
न विहन्त्य एतद अस्त्रं ते परजाहितचिकीर्षया
पाण्डवास तवं च राष्ट्रं च सदा संरक्ष्यम एव नः
तस्मात संहर दिव्यं तवम अस्त्रम एतन महाभुज
अरॊषस तव चैवास्तु पार्थाः सन्तु निरामयाः
न हय अधर्मेण राजर्षिः पाण्डवॊ जेतुम इच्छति
मणिं चैतं परयच्छैभ्यॊ यस ते शिरसि तिष्ठति
एतद आदाय ते पराणान परतिदास्यन्ति पाण्डवाः
[दरौडि]
पाण्डवैर यानि रत्नानि यच चान्यत कौरवैर धनम
अवाप्तानीह तेभ्यॊ ऽयं मणिर मम विशिष्यते
यम आबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम
देवेभ्यॊ दानवेभ्यॊ वा नागेभ्यॊ वा कथं चन
न च रक्षॊगणभयं न तस्कर भयं तथा
एवं वीर्यॊ मणिर अयं न मे तयाज्यः कथं चन
यत तु मे भगवान आह तन मे कार्यम अनन्तरम
अयं मणिर अयं चाहम इषीका निपतिष्यति
गर्भेषु पाण्डवेयानाम अमॊघं चैतद उद्यतम
[व]
एवं कुरु न चान्या ते बुद्धिः कार्या कदा चन
गर्भेषु पाण्डवेयानां विसृज्यैतद उपारम
[व]
ततः परमम अस्त्रं तद अश्वत्थामा भृशातुरः
दवैपायन वचः शरुत्वा गर्भेषु परमुमॊच ह
[व]
तद आज्ञाय हृषीकेशॊ विसृष्टं पापकर्मणा
हृष्यमाण इदं वाक्यं दरौणिं परत्यब्रवीत तदा
विराटस्य सुतां पूर्वं सनुषां गाण्डीवधन्वनः
उपप्लव्य गतां दृष्ट्वा वरतवान बराह्मणॊ ऽबरवीत
परिक्षीणेषु कुरुषु पुत्रस तव जनिष्यति
एतद अस्य परिक्षित तवं गर्भस्थस्य भविष्यति
तस्य तद वचनं साधॊः सत्यम एव भविष्यति
परिक्षिद भविता हय एषां पुनर वंशकरः सुतः
एवं बरुवाणं गॊविन्दं सात्वत परवरं तदा
दरौणिः परमसंरब्धः परत्युवाचेदम उत्तरम
नैतद एवं यथात्थ तवं पक्षपातेन केशव
वचनं पुण्डरीकाक्ष न च मद्वाक्यम अन्यथा
पतिष्यत्य एतद अस्त्रं हि गर्भे तस्या मयॊद्यतम
विराट दुहितुः कृष्टयां तवं रक्षितुम इच्छसि
[वासुदेव]
अमॊघः परमास्त्रस्य पातस तस्य भविष्यति
स तु गर्भॊ मृतॊ जातॊ दीर्घम आयुर अवाप्स्यति
तवां तु कापुरुषं पापं विदुः सर्वे मनीषिणः
असकृत पापकर्माणं बाल जीवितघातकम
तस्मात तवम अस्य पापस्य कर्मणः फलम आप्नुहि
तरीणि वर्षसहस्राणि चरिष्यसि महीम इमाम
अप्राप्नुवन कव चित कां चित संविदं जातु केन चित
निर्जनान असहायस तवं देशान परविचरिष्यसि
भवित्री नहि ते कषुद्रजनमध्येषु संस्थितिः
पूय शॊणितगन्धी च दुर्ग कान्तारसंश्रयः
विचरिष्यसि पापात्मन सर्वव्याधिसमन्वितः
वयः पराप्य परिक्षित तु वेद वरतम अवाप्य च
कृपाच छारद्वताद वीरः सर्वास्त्राण्य उपलप्स्यते
विदित्वा परमास्त्राणि कषत्रधर्मव्रते सथितः
षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति
इतश चॊर्ध्वं महाबाहुः कुरुराजॊ भविष्यति
परिक्षिन नाम नृपतिर मिषतस ते सुदुर्मते
पश्य मे तपसॊ वीर्यं सत्यस्य च नराधम
[वयास]
यस्माद अनादृत्य कृतं तवयास्मान कर्म दारुणम
बराह्मणस्य सतश चैव यस्मात ते वृत्तम ईदृशम
तस्माद यद देवकीपुत्र उक्तवान उत्तमं वचः
असंशयं ते तद्भावि कषुद्रकर्मन वरजाश्व इतः
[अष्वत्तामन]
सहैव भवता बरह्मन सथास्यामि पुरुषेष्व अहम
सत्यवाग अस्तु भगवान अयं च पुरुषॊत्तमः
[व]
परदायाथ मणिं दरौणिः पाण्डवानां महात्मनाम
जगाम विमनास तेषां सर्वेषां पश्यतां वनम
पाण्डवाश चापि गॊविन्दं पुरस्कृत्य हतद्विषः
कृष्णद्वैपायनं चैव नारदं च महामुनिम
दरॊणपुत्रस्य सहजं मणिम आदाय सत्वराः
दरौपदीम अभ्यधावन्त परायॊपेतां मनस्विनीम
ततस ते पुरुषव्याघ्राः सदश्वैर अनिलॊपमैः
अभ्ययुः सह दाशार्हाः शिबिरं पुनर एव ह
अवतीर्य रथाभ्यां तु तवरमाणा महारथाः
ददृशुर दरौपदीं कृष्णाम आर्ताम आर्ततराः सवयम
ताम उपेत्य निर आनन्दां दुःखशॊकसमन्विताम
परिवार्य वयतिष्ठन्त पाण्डवाः सह केशवाः
ततॊ राज्ञाभ्यनुज्ञातॊ भीमसेनॊ महाबलः
परददौ तु मणिं दिव्यं वचनं चेदम अब्रवीत
अयं भद्रे तव मणिः पुत्र हन्ता जितः स ते
उत्तिष्ठ शॊकम उत्सृज्य कषत्रधर्मम अनुस्मर
परयाणे वासुदेवस्य शमार्थम असितेक्षणे
यान्य उक्तानि तवया भीरु वाक्यानि मधु घातिनः
नैव मे पतयः सन्ति न पुत्रा भरातरॊ न च
नैव तवम अपि गॊविन्द शमम इच्छति राजनि
उक्तवत्य असि घॊराणि वाक्यानि पुरुषॊत्तमम
कषत्रधर्मानुरूपाणि तानि संस्मर्तुम अर्हसि
हतॊ दुर्यॊधनः पापॊ राज्यस्य परिपन्थकः
दुःशासनस्य रुधिरं पीतं विस्फुरतॊ मया
वैरस्य गतम आनृण्यं न सम वाच्या विवक्षताम
जित्वा मुक्तॊ दरॊणपुत्रॊ बराह्मण्याद गौरवेण च
यशॊ ऽसय पातितं देवि शरीरं तव अवशेषितम
वियॊजितश च मणिना नयासितश चायुधं भुवि
[दरौपदी]
केवलानृण्यम आप्तास्मि गुरुपुत्रॊ गुरुर मम
शिरस्य एतं मणिं राजा परतिबध्नातु भारत
[व]
तं गृहीत्वा ततॊ राजा शिरस्य एवाकरॊत तदा
गुरुर उच्छिष्टम इत्य एव दरौपद्या वचनाद अपि
ततॊ दिव्यं मणिवरं शिरसा धारयन परभुः
शुशुभे स महाराजः सचन्द्र इव पर्वतः
उत्तस्थौ पुत्रशॊकार्ता ततः कृष्णा मनस्विनी
कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट
[व]
हतेषु सर्वसैन्येषु सौप्तिके तै रथैस तरिभिः
शॊचन युधिष्ठिरॊ राजा दाशार्हम इदम अब्रवीत
कथं नु कृष्ण पापेन कषुद्रेणाक्लिष्ट कर्मणा
दरौणिना निहताः सर्वे मम पुत्रा महारथाः
तथा कृतास्त्रा विक्रान्ताः सहस्रशतयॊधिनः
दरुपदस्यात्मजाश चैव दरॊणपुत्रेण पातिताः
यस्य दरॊणॊ महेष्वासॊ न परादाद आहवे मुखम
तं जघ्ने रथिनां शरेष्ठं धृष्टद्युम्नं कथं नु सः
किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ
यद एकः शिबिरं सर्वम अवधीन नॊ गुरॊः सुतः
[वासुदेव]
नूनं स देव देनानाम ईश्वरेश्वरम अव्ययम
जगाम शरणं दरौणिर एकस तेनावधीद बहून
परसन्नॊ हि महादेवॊ दद्याद अमरताम अपि
वीर्यं च गिरिशॊ दद्याद येनेन्द्रम अपि शातयेत
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ
यानि चास्य पुराणानि कर्माणि विविधान्य उत
आदिर एष हि भूतानां मध्यम अन्तश च भारत
विचेष्टते जगच चेदं सर्वम अस्यैव कर्मणा
एवं सिसृक्षुर भूतानि ददर्श परथमं विभुः
पिता महॊ ऽबरवीच चैनं भूतानि सृज माचिरम
हरि केशस तथेत्य उक्त्वा भूतानां दॊषदर्शिवान
दीर्घकालं तपस तेपे मग्नॊ ऽमभसि महातपाः
सुमहान्तं ततः कालं परतीक्ष्यैनं पितामहः
सरष्टारं सर्वभूतानां ससर्ज मनसापरम
सॊ ऽबरवीत पितरं दृष्ट्वा गिरिशं भग्नम अम्भसि
यदि मे नाग्रजस तव अन्यस ततः सरक्ष्याम्य अहं परजाः
तम अब्रवीत पिता नास्ति तवदन्यः पुरुषॊ ऽगरजः
सथाणुर एष जले मग्नॊ विस्रब्धः कुरु वै कृतिम
स भूतान्य असृजत सप्त दक्षादींस तु परजापतीन
यैर इमं वयकरॊत सर्वं भूतग्रामं चतुर्विधम
ताः सृष्ट मात्राः कषुधिताः परजाः सर्वाः परजापतिम
बिभक्षयिषवॊ राजन सहसा पराद्रवंस तदा
स भक्ष्यमाणस तराणार्थी पितामहम उपाद्रवत
आभ्यॊ मां भगवान पातु वृत्तिर आसां विधीयताम
ततस ताभ्यॊ ददाव अन्नम ओषधीः सथावराणि च
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम
विहितान्नाः परजास तास तु जग्मुस तुष्टा यथागतम
ततॊ ववृधिरे राजन परीतिमत्यः सवयॊनिषु
भूतग्रामे विवृद्धे तु तुष्टे लॊकगुराव अपि
उदतिष्ठज जलाज जयेष्ठः परजाश चेमा ददर्श सः
बहुरूपाः परजा दृष्ट्वा विवृद्धाः सवेन तेजसा
चुक्रॊध भगवान रुद्रॊ लिङ्गं सवं चाप्य अविध्यत
तत परविद्धं तदा भूमौ तथैव परत्यतिष्ठत
तम उवाचाव्ययॊ बरह्मा वचॊभिः शमयन्न इव
किं कृतं सलिले शर्व चिरकालं सथितेन ते
किमर्थं चैतद उत्पाट्य भूमौ लिङ्गं परवेरितम
सॊ ऽबरवीज जातसंरम्भस तदा लॊकगुरुर गुरुम
परजाः सृष्टाः परेणेमाः किं करिष्याम्य अनेन वै
तपसाधिगतं चान्नं परजार्थं मे पितामह
ओषध्यः परिवर्तेरन यथैव सततं परजाः
एवम उक्त्वा तु संक्रुद्धॊ जगाम विमना भवः
गिरेर मुञ्जवतः पादं तपस तप्तुं महातपाः
[वासुदेव]
ततॊ देवयुगे ऽतीते देवा वै समकल्पयन
यज्ञं वेद परमाणेन विधिवद यष्टुम ईप्सवः
कल्पयाम आसुर अव्यग्रा देशान यज्ञॊचितांस ततः
भागार्हा देवताश चैव यज्ञियं दरव्यम एव च
ता वै रुद्रम अजानन्त्यॊ याथा तथ्येन देवताः
नाकल्पयन्त देवस्य सथाणॊर भागं नराधिप
सॊ ऽकल्प्यमाने भागे तु कृत्ति वासा मखे ऽमरैः
तरसा भागम अन्विच्छन धनुर आदौ ससर्ज ह
लॊकयज्ञः करिया यज्ञॊ गृहयज्ञः सनातनः
पञ्च भूतमयॊ यज्ञॊ नृयज्ञश चैव पञ्चमः
लॊकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः
धनुः सृष्टम अभूत तस्य पञ्च किष्कु परमाणतः
वषट्कारॊ ऽभवज जया तु धनुषस तस्य भारत
यज्ञाङ्गानि च चत्वारि तस्य संहनने ऽभवन
ततः करुद्धॊ महादेवस तद उपादाय कार्मुकम
आजगामाथ तत्रैव यत्र देवाः समीजिरे
तम आत्तकार्मुकं दृष्ट्वा बरह्मचारिणम अव्ययम
विव्यथे पृथिवी देवी पर्वताश च चकम्पिरे
न ववौ पवनश चैव नाग्निर जज्वाल चैधितः
वयभ्रमच चापि संविग्नं दिवि नक्षत्रमण्डलम
न बभौ भास्करश चापि सॊमः शरीमुक्तमण्डलः
तिमिरेणाकुलं सर्वम आकाशं चाभवद वृतम
अभिभूतास ततॊ देवा विषयान न परजज्ञिरे
न परत्यभाच च यज्ञस तान वेदा बभ्रंशिरे तदा
ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा
अपक्रान्तस ततॊ यज्ञॊ मृगॊ भूत्वा सपावकः
स तु तेनैव रूपेण दिवं पराप्य वयरॊचत
अन्वीयमानॊ रुद्रेण युधिष्ठिर नभस्तले
अपक्रान्ते ततॊ यज्ञे संज्ञा न परत्यभात सुरान
नष्टसंज्ञेषु देवेषु न परज्ञायत किं चन
तर्यम्बकः सवितुर बाहू भगस्य नयने तथा
पूष्णश च दशनान करुद्धॊ धनुष्कॊट्या वयशातयत
पराद्रवन्त ततॊ देवा यज्ञाङ्गानि च सर्वशः
के चित तत्रैव घूर्णन्तॊ गतासव इवाभवन
स तु विद्राव्य तत सर्वं शितिकण्ठॊ ऽवहस्य च
अवष्टभ्य धनुष्कॊटिं रुरॊध विबुधांस ततः
ततॊ वाग अमरैर उक्ता जयां तस्य धनुषॊ ऽचछिनत
अथ तत सहसा राजंश छिन्नज्यं विस्फुरद धनुः
ततॊ विधनुषं देवा देव शरेष्ठम उपागमन
शरणं सहयज्ञेन परसादं चाकरॊत परभुः
ततः परसन्नॊ भगवान परास्यत कॊपं जलाशये
स जलं पावकॊ भूत्वा शॊषयत्य अनिशं परभॊ
भगस्य नयने चैव बाहू च सवितुस तथा
परादात पूष्णश च दशनान पुनर यज्ञं च पाण्डव
ततः सर्वम इदं सवस्थं बभूव पुनर एव ह
सर्वाणि च हवींष्य अस्य देवा भागम अकल्पयन
तस्मिन करुद्धे ऽभवत सर्वम अस्वस्थं भुवनं विभॊ
परसन्ने च पुनः सवस्थं स परसन्नॊ ऽसय वीर्यवान
ततस ते निहताः सर्वे तव पुत्रा महारथाः
अन्ये च बहवः शूराः पाञ्चालाश च सहानुगाः
न तन मनसि कर्तव्यं न हि तद दरौणिना कृतम
महादेव परसादः स कुरु कार्यम अनन्तरम

About this parayana

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

daily-pujasanskritparayanadevotionalmahabharatascriptureepicitihasa