Rohini Nakshatra·Shukla Tritiya·Vaishakha
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
Birth ChartDoshas
Get Free
Sign In
Sankalpa Guru
← Back to Shabda
stotramvishnu
नेपालीदेवनागरी script

Venkatesha Suprabhatam

Veṅkateśa Suprabhātam

Viewing in नेपाली · देवनागरी script

कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते ।उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥१॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥२॥

मातस्समस्तजगतां मधुकैटभारेःवक्षोविहारिणि मनोहरदिव्यमूर्ते ।श्रीस्वामिनि श्रितजनप्रियदानशीलेश्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥३॥

तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले ।विधिशङ्करेन्द्रवनिताभिरर्चिते वृशशैलनाथदयिते दयानिधे ॥४॥

अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यांआकाशसिन्धुकमलानि मनोहराणि ।आदाय पादयुगमर्चयितुं प्रपन्नाःशेषाद्रिशेखरविभो तव सुप्रभातम् ॥५॥

पञ्चाननाब्जभवषण्मुखवासवाद्याःत्रैविक्रमादिचरितं विबुधाः स्तुवन्ति ।भाषापतिः पठति वासरशुद्धिमारात्शेषाद्रिशेखरविभो तव सुप्रभातम् ॥६॥

ईषत्प्रफुल्लसरसीरुहनारिकेलपूगद्रुमादिसुमनोहरपालिकानाम् ।आवाति मन्दमनिलस्सह दिव्यगन्धैःशेषाद्रिशेखरविभो तव सुप्रभातम् ॥७॥

उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाःपात्रावशिष्टकदलीफलपायसानि ।भुक्त्वा सलीलमथ केलिशुकाः पठन्तिशेषाद्रिशेखरविभो तव सुप्रभातम् ॥८॥

तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्यागायत्यनन्तचरितं तव नारदोऽपि ।भाषासमग्रमसकृत्करचाररम्यंशेषाद्रिशेखरविभो तव सुप्रभातम् ॥९॥

भृङ्गावली च मकरन्दरसानुविद्धझङ्कारगीतनिनदैस्सह सेवनाय ।निर्यात्युपान्तसरसीकमलोदरेभ्यःशेषाद्रिशेखरविभो तव सुप्रभातम् ॥१०॥

योषागणेन वरदध्नि विमथ्यमानेघोषालयेषु दधिमन्थनतीव्रघोषाः ।रोषात्कलिं विदधते ककुभश्च कुम्भाःशेषाद्रिशेखरविभो तव सुप्रभातम् ॥११॥

पद्मेशमित्रशतपत्रगतालिवर्गाःहर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।भेरीनिनादमिव बिभ्रति तीव्रनादंशेषाद्रिशेखरविभो तव सुप्रभातम् ॥१२॥

श्रीमन्नभीष्टवरदाखिललोकबन्धोश्रीश्रीनिवास जगदेकदयैकसिन्धो ।श्रीदेवतागृहभुजान्तरदिव्यमूर्तेश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१३॥

श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गाःश्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः ।द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाःश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१४॥

श्रीशेषशैल गरुडाचलवेङ्कटाद्रिनारायणाद्रि वृषभाद्रिवृषाद्रि मुख्याम् ।आख्यां त्वदीयवसतेरनिशं वदन्तिश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१५॥

सेवापराश्शिवसुरेशकृशानुधर्मरक्षोऽम्बुनाथ पवमान धनादिनाथाः ।बद्धाञ्जलि प्रविलसन्निजशीर्ष देशाःश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१६॥

धाटीषु ते विहगराज मृगाधिराजनागाधिराज गजराज हयाधिराजाः ।स्वस्वाधिकार महिमाधिकमर्थयन्तेश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१७॥

सूर्येन्दु भौम बुध वाक्पति काव्यसौरिस्वर्भानु केतु दिविषत्परिषत्प्रधानाः ।त्वद्दास दास चरमावधि दासदासाःश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१८॥

त्वत्पादधूलि भरितस्फुरितोत्तमाङ्गाःस्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः ।कल्पागमाकलनयाकुलतां लभन्तेश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१९॥

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाःस्वर्गापवर्गपदवीं परमां श्रयन्तः ।मर्त्या मनुष्यभुवने मतिमाश्रयन्तेश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२०॥

श्रीभूमिनायक दयादिगुणामृताब्धेदेवाधिदेव जगदेकशरण्यमूर्ते ।श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रेश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२१॥

श्रीपद्मनाभ पुरुषोत्तम वासुदेववैकुण्ठ माधव जनार्दन चक्रपाणे ।श्रीवत्सचिह्न शरणागतपारिजातश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२२॥

कन्दर्पदर्पहर सुन्दर दिव्यमूर्तेकान्ताकुचाम्बुरुह कुटमल लोलदृष्टे ।कल्याणनिर्मलगुणाकर दिव्यकीर्तेश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२३॥

मीनाकृते कमठ कोल नृसिंह वर्णिन्स्वामिन् परश्वथतपोधन रामचन्द्र।शेषांशराम यदुनन्दन कल्किरूपश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२४॥

एला लवङ्ग घनसारसुगन्धितीर्थंदिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।धृत्वाऽद्य वैदिक शिखामणयः प्रहृष्टाःतिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥२५॥

भास्वानुदेति विकचानि सरोरुहाणिसम्पूरयन्ति निनदैः ककुभो विहङ्गाः ।श्रीवैष्णवास्सततमर्थितमङ्गलास्तेधामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥२६॥

ब्रह्मादयस्सुरवरास्समहर्षयस्तेसन्तस्सनन्दनमुखास्तवथ योगिवर्याः ।धामान्तिके तव हि मङ्गलवस्तुहस्ताःश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२७॥

लक्ष्मीनिवास निरवद्यगुणैकसिन्धोसंसार सागर समुत्तरणैकसेतो ।वेदान्तवेद्यनिजवैभव भक्तभोग्यश्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२८॥

इत्थं वृषाचलपतेरिह सुप्रभातंये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।तेषां प्रभातसमये स्मृतिरङ्गभाजांप्रज्ञां परार्थसुलभां परमां प्रसूते ॥२९॥
morningtirupativaishnavasanskritmorningclassical