Rohini Nakshatra·Shukla Tritiya·Vaishakha
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
Birth ChartDoshas
Get Free
Sign In
Sankalpa Guru
← Back to Shabda
parayanabrahma
ଓଡ଼ିଆଓଡ଼ିଆ script

Brahma Purana

Brahma Purana

Viewing in ଓଡ଼ିଆ · ଓଡ଼ିଆ script

🌐

ଓଡ଼ିଆ script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.

<b>।। श्रीगणेशाय नमः ।।</b>
<b>तत्रादौ नैमिषारण्य-वर्णनम्</b>
यस्मात् सर्व्वमिदं प्रपञ्चरचितं मायाजगज्जायते, यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः।
यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवं, तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम्।। १.१ ।।
यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभं, नित्यानन्दमयं प्रसन्नममलं सर्व्वेश्वरं निर्गुणम्।
व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकागम्यं विभुं, तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम्।। १.२ ।।
सुपण्ये नैमिषारण्ये पवित्रे सुमनोहरे।
नानामुनिजनाकीर्णे नानापुष्पोपशोभिते।। १.३ ।।
सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः।
आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः।। १.४ ।।
अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः।
बकुलैः सप्तपर्णैश्च पुन्नागैर्नागकेशरैः।। १.५ ।।
शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्ज्जुनैः।
अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते।। १.६ ।।
नानापक्षिगणकीर्णे नानामृगगणैर्युते।
नानाजलाशयैः पुण्यैर्दोर्घिकाद्यैरलङ्कृते।। १.७ ।।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शुद्रैश्चान्यैश्च जातिभिः।
वानप्रस्थैर्गृहस्थैश्छ यतिभिर्ब्रह्मचारिभिः।। १.८ ।।
सम्पन्नैर्गौकुलैश्चैव सर्व्वत्र समलङ्कृते।
यवगोधूमचणकैमषिमुद्गतिलेक्षुभिः।। १.९ ।।
चीनकाद्यैस्तथा मेध्यैः शस्यैश्चान्यैश्च शोभिते।
तत्र दीप्ते हुतवहे हूयमाने महामखे।। १.१० ।।
यजतां नैमिषेयाणां सत्रे द्वादशवार्षिके।
आजग्मुस्तत्र मुनयस्तथाऽन्येपि द्विजातयः।। १.११ ।।
तानागतान् द्विजांस्ते तु पूजां चक्रुर्यथोचिताम्।
तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च।। १.१२ ।।
तत्राजगाम सूतस्तु मतिमाँल्लोमहर्षणः।
तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः।। १.१३ ।।
सोऽपि तान् प्रतिपूज्यैव संविवेश वरासने।
कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः।। १.१४ ।।
कथान्ते व्याशिष्यं ते पप्रच्छु संशयं मुदा।
ऋत्विग्भिः सहिताः सर्व्वे सदस्यैः सह दीक्षिताः।। १.१५ ।।
मुनय ऊचुः।।
पुराणागमशास्त्राणि सेतिहासानि सत्तम।
देवदैत्यानां चरितं जन्म कर्म्म च।। १.१६ ।।
न तेऽस्त्यविदितं किञ्चिचद्वेदे शास्त्रे च भारते।
पुराणे मोक्षशास्त्रे च सर्व्वज्ञोऽसि महामते।। १.१७ ।।
यथापूर्व्वमिदं सर्व्वमुत्पन्नं सचराचरम्।
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्।। १.१८ ।।
श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत्।
बभूव भूयश्च यथा महाभागा भविष्यति।। १.१९ ।।
यतश्चैव जगत् सूत यतश्चैव चराचरम्।
लीनमासीत्तथा यत्र लयमेष्यति यत्र च ।। १.२० ।।
लोमहर्षण उवाच।।
अविकाराय शुद्धाय नित्याय परमात्मने।
सदैकरूपरूपाय विष्णवे सर्व्वजिष्णवे।। १.२१ ।।
नमो हिण्यगर्भाय हरये शङ्कराय च।
वासुदेवाय ताराय सर्गस्थित्यन्तकर्म्मणे।। १.२२ ।।
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः।
अव्यक्ताव्यक्तभूताय विष्णवे मुक्तिहेतवे।। १.२३ ।।
सर्गस्थितिविनाशाय जगतो योऽजरामरः।
मूलभूतो नमस्तस्मै विष्णवे परमात्मने।। १.२४ ।।
आधारभूतं विश्वस्याप्यणीयांसमणीयसाम्।
प्रणम्य सर्व्वभूतस्थमच्युतं पुरुषोत्तमम्।। १.२५ ।।।
ज्ञानस्वरूपमत्यन्तं निर्म्मलं परमार्थतः।
तमोवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्।। १.२६ ।।
विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम्।
सर्व्वज्ञं जगतामौशमजमक्षयमव्ययम्।। १.२७ ।।
आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च ।।
इतिहासपुराणज्ञं वेदवेदाङ्गपारगम्।। १.२८ ।।
सर्व्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम्।
गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम्।। १.२९ ।।
कथयामि यथापूर्व्वं दक्षाद्यैनिसत्तमैः।
पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः।। १.३० ।।
श्रृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम्।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम्।। १.३१ ।।
यस्त्विमां धारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते।। १.३२ ।।
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्।
प्रधानं पुरुषस्तस्मान्निर्म्ममे विश्वमीश्वरः।। १.३३ ।।
तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्मणममितौजसम्।
प्रधानं पुरुषस्तस्मान्निर्म्ममे विश्वमीश्वरः।। १.३४ ।।
अहङ्कारस्तु महतस्तस्माद्भूतानि जज्ञिरे।
भूरभेदाश्च भूतेभ्य इति सर्गः सनातनः।। १.३५ ।।
विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति।
कीर्त्त्यमानं श्रुणुध्वं वः सर्व्वेषां कीर्त्तिवर्द्धनम्।। १.३६ ।।
कीर्त्तितं स्थिरकीर्त्तोनां सर्व्वेषां पुण्यवर्द्धतम्।
ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः।। १.३७ ।।
अप एव ससर्ज्जादौ तासु वीर्य्यमथासृजत्।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः।। १.३८ ।।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः।
हिरण्यवर्णमभवत्तदण्डमुदकेशयम्।। १.३९ ।।
तत्र जज्ञे ब्रह्मा स्वयम्भूरिति नः श्रुतम्।
हिरण्यवर्णौ भगवानषित्वा परिवत्सरम्।। १.४० ।।
तदण्डमकरोद्द्द्वैधं दिवं भुवमथापि च।
तयोः शकलयोर्म्मध्य आकाशमकरोत्प्रभुः।। १.४१ ।।
अप्सु पारिण्लवां पृथ्वीं दिशश्च दशाधा दधे।
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम्।। १.४२ ।।
ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन्।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्।। १.४३ ।।
वसिष्ठं च महातेजाः सोऽसृजत्सप्त मानसान्।
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः।। १.४४ ।।
नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम्।
ततोऽसृजत् पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम्।। १.४५ ।।
सनत्कुमारं च विभुं पूर्व्वेषामपि पूर्व्वजम्।
सप्तस्वेता अजायन्त प्रजा रुद्राश्च भो द्विजाः।। १.४६ ।।
स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः।
तेषां सप्त महावंशा दिव्या देवगणान्विताः।। १.४७ ।।
क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः।
विद्युतोऽसनिमघाश्च रोहितेन्द्रधनूंषि च।। १.४८ ।।
वयांसि च ससर्जादौ पर्जन्यञ्च ससर्ज ह।
ऋचो यजूंषि सामानि निर्म्ममे यज्ञसिद्धये।। १.४९ ।।
साध्यानजनयद् देवानित्येवमनुसञ्जगुः।
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे। १.५० ।।
आपवस्य प्रजासग सृजतो हि प्रजापतेः।
सृज्यमानाः प्रजा नैव विवर्द्धन्ते यदा तदा।। १.५१ ।।
द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषोऽभवत्।
अर्द्धेन नारी तस्यां तु सोऽसृजद्विविधाः प्रजाः।। १.५२ ।।
दिवञ्च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति।
विराजमसृजद्विष्णुः सोऽसृजत् पुरुषं विराट्।। १.५३ ।।
पुरुषं तं मनुं विद्यात्तस्य मन्वन्तरं स्मृतम्।
द्वितीयं मानसस्यैतन्मनरन्तरमुच्यते।। १.५४ ।।
स वैराजः प्रजासर्गं पुरुषः प्रभुः।
नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजाः।। १.५५ ।।
आयुष्मान् कीर्त्तिमान् पुण्यप्रजापांश्च भवेन्नरः।
विदित्वेमं यथेष्टां चाप्नुयाद् गतिम्।। १.५६ ।।
इति श्रीब्राह्मे महापुराणे आदिसर्गवर्णनं नाम प्रथमोऽध्यायः।। १ ।।
लोमहर्षण उवाच।
स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः ।
लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् १।।
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।
धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत २।
सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ३।
स वै स्वायंभुवो विप्राः पुरुषो मनुरुच्यते ।
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ४।
वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत ५।
काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः ।
काम्यापुत्रास्तु चत्वारः सम्राट्कुक्षिर्विराट्प्रभुः ६।
उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः ।
उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् ७।
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ।
उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ८।
ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा ।
उत्तानपादोऽजनयत्सूनृतायां प्रजापतिः ९।
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः ।
तपस्तेपे महाभागः प्रार्थयन्सुमहद्यशः १०।
तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः ।
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ११।
तस्याभिमानमृद्धिं च महिमानं निरीक्ष्य च ।
देवासुराणामाचार्यः श्लोकं प्रागुशना जगौ १२।
अहोऽस्य तपसो वीर्यमहो श्रुतमहोऽद्भुतम् ।
यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः १३।
तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छंभुर्व्यजायत ।
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् १४।
रिपुं रिपुंजयं वीरं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् १५।
अजीजनत्पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् ।
प्रजापतेरात्मजायां वीरण्यस्य महात्मनः १६।
मनोरजायन्त दश नड्वलायां महौजसः ।
कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः १७।
कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव १८।
अभिमन्युश्च दशमो नड्वलायां महौजसः ।
पुरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् १९।
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं मयम् ।
अङ्गात्सुनीथापत्यं वै वेणमेकं व्यजायत २०।
अपचारेण वेणस्य प्रकोपः सुमहानभूत् ।
प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् २१।
वेणस्य मथिते पाणौ संबभूव महान्नृपः ।
तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः २२।
करिष्यति महातेजा यशश्च प्राप्स्यते महत् ।
स धन्वी कवची जातो ज्वलज्ज्वलनसंनिभः २३।
पृथुर्वैण्यस्तथा चेमां ररक्ष क्षत्रपूर्वजः ।
राजसूयाभिषिक्तानामाद्यः स वसुधापतिः २४।
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।
तेनेयं गौर्मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता २५।
प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह ।
पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः २६।
सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा ।
तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा २७।
प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयन् ।
पृथोस्तु पुत्रौ धर्मज्ञौ यज्ञान्तेऽन्तर्धिपातिनौ २८।
शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत ।
हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् २९।
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ।
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ३०।
हविर्धानान्मुनिश्रेष्ठा येन संवर्धिताः प्रजाः ।
प्राचीनबर्हिर्भगवान्पृथिवीतलचारिणीः ३१।
समुद्र तनयायां तु कृतदारोऽभवत्प्रभुः ।
महतस्तपसः पारे सवर्णायां प्रजापतिः ३२।
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।
सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान् ३३।
अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः ।
दश वर्षसहस्राणि समुद्र सलिलेशयाः ३४।
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
अरक्षमाणामावव्रुर्बभूवाथ प्रजाक्षयः ३५।
नाशकन्मारुतो वातुं वृतं खमभवद्द्रुमैः ।
दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ३६।
तदुपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः ।
मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ३७।
उन्मूलानथ वृक्षांस्तु कृत्वा वायुरशोषयत् ।
तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः ३८।
द्रुमक्षयमथो बुद्ध्वा किंचिच्छिष्टेषु शाखिषु ।
उपगम्याब्रवीदेतांस्तदा सोमः प्रजापतीन् ३९।
कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः ।
वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ४०।
रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी ।
भविष्यं जानता तात धृता गर्भेण वै मया ४१।
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता ।
भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी ४२।
युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः ।
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ४३।
स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ।
अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ४४।
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ४५।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ४६।
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ४७।
ददौ दश स धर्माय कश्यपाय त्रयोदश ।
शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ४८।
तासु देवाः खगा गावो नागा दितिजदानवाः ।
गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ४९।
ततः प्रभृति विप्रेन्द्रा ः! प्रजा मैथुनसंभवाः ।
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां प्रोच्यते प्रजा ५०।
मुनय ऊचुः।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
संभवस्तु श्रुतोऽस्माभिर्दक्षस्य च महात्मनः ५१।
अङ्गुष्ठाद्ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः ।
वामाङ्गुष्ठात्तथा चैवं तस्य पत्नी व्यजायत ५२।
कथं प्राचेतसत्वं स पुनर्लेभे महातपाः ।
एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि ।
दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ५३।
लोमहर्षण उवाच।
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः ।
ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ५४।
युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः ।
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ५५।
ज्यैष्ठ्यं कानिष्ठमप्येषां पूर्वं नासीद्द्विजोत्तमाः ।
तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ५६।
इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ।
प्रजावानायुरुत्तीर्णः स्वर्गलोके महीयते ५७।
इति श्रीब्राह्मे महापुराणे सृष्टिकथनं नाम द्वितीयोऽध्यायः २ ।
।
।
<b>देवदानवोत्पत्ति-वर्णनम्</b>
<b>मुनय ऊचुः</b>
देवानां दानवानां च गन्धर्वोंरगरक्षसाम्।
उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्त्तय।। ३.१ ।।
लोमहर्षण उवाच
प्रजाः सृजति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा
यथा ससर्ज भूतानि तथा श्रृणुत भो द्विजाः।। ३.२ ।।
मानसान्यव भूतानि पूर्व्वमेवासृजत् प्रभु।
ऋषीन्देवान् सगन्धर्व्वनसुरान्यक्षराक्षसान्।। ३.३ ।।
यदास्य मानसी विप्रा न व्यवर्द्धत वै प्रजा।
तदा सञ्चित्य धर्म्मात्मा प्रजाहेतोः प्रजापति।। ३.४ ।
स मैथुनेन धर्म्मेण सिसृक्षुर्विविधाः प्रजाः।
असिक्नीमावहत् पत्नीं वीरणस्य प्रजापतेः।। ३.५ ।।
सुतां सुतपसा युक्तां महतीं लोकधारिणीम्।
अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्य्यवान्।। ३.६ ।।
असिक्न्यां जनयामास दक्ष एव प्रजापतिः।
तांस्तु दृष्ट्वा महाभागान्संविवर्द्धयिषून् प्रजाः। ३.७ ।।
देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम्।
नाशाय वचनं तेषां शापायैवात्मनस्तथा।। ३.८ ।।
यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत्।
दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः।। ३.९ ।।
पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः।
असिक्न्यामथ वैरण्यां भूयो देवर्षिसत्तमः।। ३.१० ।।
तं भूयो जनयामास पितेव मुनिपुङ्गवम्।
तेन दक्षस्य वै पुत्रा हर्यश्वा इति विक्षुताः।। ३.११ ।।
निर्म्मथ्य नाशिताः सर्व्वे विधिना च न संशयः।
तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः।। ३.१२ ।।
ब्रह्मर्षोन् पुरतः कृत्वा याचितः परमेष्ठिना।
ततोऽभिसन्धिश्चक्रे वै दक्षस्य परमेष्ठिना ।। ३.१३ ।।
कन्यायां नारदो मह्यं तव पुत्रो भवेदिति।
ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने।। ३.१४ ।।
स तस्यां नारदो जज्ञे भूयः शापभयादृषिः
मुनय ऊचुः
कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा।
प्रजापते सूतवर्य्य श्रोतुमिच्छाम तत्त्वतः।। ३.१५ ।।
लोमहर्षण उवाच
दक्षस्य पुत्रा हर्य्यश्वा विवर्द्धयिषवः प्रजाः।
समागता महावीर्य्या नारदस्तानुवाच ह।। ३.१६ ।।
नारद उवाच
बालिशा बत यूयं वै नास्या जानीत वै भुवः।
प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः।। ३.१७ ।।
अन्तरूद्र्ध्वमधश्चैव कथं सृजथ वै प्रजा।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्व्वतो दिशः।। ३.१८ ।।
अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः।
हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः।। ३.१९ ।।
वैरण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः।
विवर्द्धयिषवस्ते तु शवलाश्वास्तथा प्रजा।। ३.२० ।।
पूर्व्वांक्तं वचनं ते तु नारदेन प्रचोदिताः।
अन्योन्यमूचुस्ते सर्व्वे सम्यगाह महानृषिः।। ३.२१ ।।
भ्रातृणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः।
ज्ञात्वा प्रमाणँ पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः।। ३.२२ ।।
तेऽपि तेनैव मार्गेण प्रयाताः सर्व्वतो दिशम्।
अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः।। ३.२३ ।।
तदा प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विजाः।
प्रयातो नश्यति क्षिप्रं तन्न कार्य्यं विपश्चिता।। ३.२४ ।।
तांश्चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः।
षष्टिं ततोऽसृजत् कन्या वैरण्यामिति नः श्रुतम्।। ३.२५ ।।
तास्तदा प्रतिजग्राह भार्य्यार्थं कश्यपः प्रभुः।
सोमो धर्म्मश्च भो विप्रास्तथैवान्ये महर्षयः।। ३.२६ ।।
ददौ स दश धर्म्माय कश्यपाय त्रयोदश।
सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने।। ३.२७ ।।
द्वै चैव बहुपुत्राय चेवाङ्गिरसे तथा।
द्वे कृशाश्वाय विदुषे तासां नामानि मे श्रुणु। ३.२८ ।।
अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती।
सङ्गल्पा च मुहूर्त्ता च साध्या विश्वा च भो द्विजाः।। ३.२९ ।।
धर्म्मपत्न्यो दश त्वेतास्तास्वपत्यानि बोधत।
विश्वेदेवास्तु विश्वायाः साध्या साध्यान् व्यजयात।। ३.३० ।।
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः सुताः।
भानोस्तु भानवः पुत्रा मुहूर्त्तास्तु मुहूर्त्तजाः।। ३.३१ ।।
लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा।
पृथिवोविषयं सर्व्वमरुन्धत्यां व्यजायत।। ३.३२ ।।
सङ्कल्पायास्तु विश्वातमा जज्ञे सङ्कल्प एव हि।
नागवीथ्याढञ्च यामिन्यां वृषलश्च व्यजायत।। ३.३३ ।।
परा याः सोमपत्नीश्च दक्षः प्राचेतसो ददौ।
सर्व्वा नक्षत्रनाम्न्यस्ता ज्योतिषे परिकीर्त्तिता।। ३.३४ ।।
ये त्वन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः।
वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम्।। ३.३५ ।।
आपो ध्रुवश्च सोमश्च धवश्चैवानिलोऽनलः।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः।। ३.३६ ।।
आपस्य पुत्रो वैतयण्ड्यः श्रमः श्रान्तो मुनिस्तथा।
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः।। ३.३७ ।।
सोमस्य भगवान् वर्च्चा वर्च्चस्वी येन जायते।
धवस्य पुत्रो द्रवीणो हुतहव्यवहस्तथा।। ३.३८ ।।
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तस्था।
अनिलस्य शिवा भार्य्या तस्याः पुत्रो मनोजवः।। ३.३९ ।।
अविज्ञातगतिश्चै द्वौ पुत्रावनिलस्य च अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रिया वृतः।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः।। ३.४० ।।
अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः।
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम्।। ३.४१ ।।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणी।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी।। ३.४२ ।।
योगसिद्धा जगत् कृत्स्नामसक्ता विचचार ह।
प्रभासस्य तु सा भार्य्या वसूनामष्टमस्य तु।। ३.४३ ।।
विश्वकर्म्मा महाभागो यस्यां जज्ञे प्रजापतिः।
कर्त्ता शिल्पसहस्राणां त्रिदशानाञ्च वार्द्धकिः।। ३.४४ ।।
भूषणानाञ्च सर्व्वेषां कर्त्ता शिल्पवतां वरः।
यः सर्व्वेषां विमानानि देवतानां चकार ह ।। ३.४५ ।।
मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः।
सुरभी कश्यपाद्रुद्रानेकादश विनिर्म्ममे।। ३.४६ ।।
महादेवप्रसदेन तपसा भाविता सती।
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्य्यवान्।। ३.४७ ।।
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः।
वृषाकपिश्ट शम्भुश्च कपर्दी रैवतस्तथा।। ३.४८ ।।
मृगव्याधश्च शर्व्वश्च कपाली च द्विजोत्तमाः।
एकादशैते विख्याता रुद्रास्त्रिभुवनेश्वराः।। ३.४९ ।।
शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम्।
पुराणे मुनिशाद्र्दूला यैव्यप्तिं सचराचरम्।। ३.५० ।।
दारान् श्रृणुध्वं विप्रेन्द्राः कश्यपस्य प्रजापतेः।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खसा।। ३.५१ ।।
सूरभिर्विनता चैव ताम्रा क्रोधवशा इरा।
कद्रुर्मुनिश्च भो विप्रास्तास्वपत्यानि बोधत।। ३.५२ ।।
पूर्व्वमन्वन्तरे श्रेष्ठा द्वादशासत् सुरोत्तमाः।
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे।। ३.५३ ।।
उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः।
हितार्थ सर्व्वलोकानां समागम्य परस्परम्।। ३.५४ ।।
आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै।
मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति ।। ३.५५ ।।
लोमहर्षण उवाच
एवमुक्ता तु ते सर्व्वे चाक्षुषस्यान्तरे मनोः।
मारीचात् कश्यपाज्जातास्त्वदित्या दक्षकन्यया।। ३.५६ ।।
तत्र विष्णुश्च शक्रश्च जज्ञोते पुनरेव हि।
अर्य्यमा चैव धाता च त्वष्टा पूषा तथैव च।। ३.५७ ।।
विवस्वान् सविता चैव मित्रो वरुणा एव च।।
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः।। ३.५८ ।।
सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः।
तासामपत्यान्यभवन् दीप्तान्यमिततेजसः।। ३.५९ ।।
अरिष्टनेमिपत्नीनामपत्यानीह षोडश।
बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः।। ३.६० ।।
चाक्षुषस्यान्तरे पूर्व्वे ऋचो ब्रह्मर्षिसत्कृताः।
कुशाश्वस्य च देवर्षेदैवप्रहरणाः स्मृताः।। ३.६१ ।।
एते युगसहस्रान्ते जायन्ते पुनरेव हि।
सर्व्वे देवगणाश्चात्र त्रयस्त्रिंशत्तु कामजाः।। ३.६२ ।।
तेषामपि च भो विप्रा निरोधोत्पत्तिरुच्यते।
यथा सर्य्यस्य गगन उदयास्तमयाविह।। ३.६३ ।।
एवं देवनिकायास्ते सम्भवन्ति युगे युगे।
दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम्।। ३.६४ ।।
हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्य्यवान्।
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः।। ३.६५ ।।
सैहिकेया इति ख्याता यस्याः पुत्रा महाबलाः।
हिण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः।। ३.६६ ।।
ह्रादश्च अनुह्रादश्च प्रह्रादश्चैव वनीर्य्यवान्।
संह्रादश्च चतुर्थोऽभूद्ह्रादपुत्रो ह्रदस्तथा।। ३.६७ ।।
ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस्तथैव च।
विरोचनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात्।। ३.६८ ।।
बलेः पुत्रशतं त्वासीद्बाणज्योष्ठं तपोधनाः।
धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चन्द्रतापनः।। ३.६९ ।।
कुम्भनाभो गद्र्दभाक्षः कुक्षिरित्येवमादयः।
बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः।। ३.७०
पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम्।
पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः।। ३.७१ ।।
हिरण्याक्षसुताश्चैव विद्वांसश्च महाबलाः।
भर्भरः शकुनिश्चैव भूतसन्तापनस्तथा।। ३.७२ ।।
महानाभश्च विक्रान्तः कालनाभस्तथैव च।
अभवन् दनुपुत्राश्च शतं तीव्रवराक्रमाः।। ३.७३ ।।
तपस्विनो महावीर्य्याः प्राधान्येन ब्रवीमि तान्।
द्विमूर्द्वाशंकुकर्णश्च तथा हयशिरा विभुः।। ३.७४ ।।
अयोमुखः शम्बरश्च कपिलो वामनस्तथा।
मारीचिर्मघवांश्चैव इल्वलः स्वसृमस्तथा। ३.७५ ।।
विक्षोभणश्च केतुश्च केतुवीर्य्यशतह्रदौ।
इन्द्रजित्सर्व्वजिच्चैव वज्रनाभस्तथैव च।। ३.७६ ।।
एकचक्रो महाबाहुस्तारकश्च महाबलः।
वैश्वानरः पुलोमा च विद्रावणमहाशिराः।। ३.७७ ।।
स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्य्यवान्।
सर्व्व एते दनोः पुत्राः कश्यपादभिजज्ञिरे ।। ३.७८ ।।
विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः।
एतेषां पुत्रपौत्रन्तु न तच्छक्यं द्विजोत्तमाः।। ३.७९ ।।
प्रसंख्यातुं बहुत्वाच्च पुत्रपौत्रमनन्तकम्।
स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शचीसुता ।। ३.८० ।।
उपदोप्तिर्हयशिराः शर्मिष्ठा वार्षपर्व्वणी।
पुलोमा कालिका चैव वैश्वानरसुते उभे।। ३.८१ ।।
बह्वपत्ये महापत्ये मरीचेस्तु परिग्रहः।
तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः।। ३.८२ ।।
चतुर्दशशतानन्यान् हिरण्यपुरवासिनः।
मीरीचिर्जनयामास महता तपसन्वितः।। ३.८३ ।।
पौलोमाः कालकेयाश्च दानवास्ते महाबलाः।
आवध्या देवतानां हि हिरण्यपुरवासिनः।। ३.८४ ।।
पितामहप्रसादेन ये हताः सव्यसाचिना।
ततोऽपरे महावीर्य्या दानवास्त्वतिदारुणाः।। ३.८५ ।।
सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा।
दैत्यदानवसंयोगाज्जातास्तीव्प्रपराक्रमाः।। ३.८६ ।।
सैहिकेया इति ख्यातास्त्रयोदश महाबलाः।
वंशः शल्यश्च बलिनौ नलश्चैव तथाबलः।। ३.८७ ।।
वातापिर्नमुचिश्चैव इलवलः स्वसृमस्तथा।
अञ्जिको नरकश्चैव कालनाभस्ततैव च।। ३.८८ ।।
सरमानस्तथा चैव स्वरकल्पश्च वीर्य्यवान्।
एते वै दानवाः श्रेष्ठा दनोवशविवर्धनाः।। ३.८९ ।।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः।
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले।। ३.९० ।।
समुत्पन्नाः सुमहता तपसा भावितात्मनः।
तिस्रः कोट्यः सुतास्तेषां मणिवत्यां निवासिनः।। ३.९१ ।।
अवध्यास्तेऽपि देवानामर्ज्जुनेन निपातिताः।
षट्सुताः सुमहाभागास्ताम्रायाः परिकीर्त्तिताः।। ३.९२ ।।
क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका।
क्रौञ्ची तु जनयामास उलूकप्रत्यलूककान्।। ३.९३ ।।
श्येनी श्येनांस्तथा भासी भासान्गृधांश्च गृध्य्रपि।
शुचिरौदकान्पक्षिणान्सुग्रीवी तु द्विजोत्तमाः।। ३.९४ ।।
अश्वानुष्ट्रान् गद्र्दभांश्च ताम्रावंशः प्रकीर्त्तितः।
विनतायास्तु द्वौ पुत्रौ विख्यातौ गरुङारुणौ।। ३.९५ ।।
गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्म्मणा।
सुरसायाः सहस्रन्तु सर्पाणाममितौजसाम्।। ३.९६ ।।
अनेकशिरसां विप्राः खचराणां महात्मनाम्।
काद्रवेयास्तु बलिनः सहस्रममितौजसः।। ३.९७ ।।
सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः।
येषां प्रधानाः सततं शेषवासुकितक्षकाः।। ३.९८ ।।
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ।
एलापत्रश्च शङ्खश्च कर्कोटकधनञ्जयौ।। ३.९९ ।।
महानीलमहाकर्णै धृतराष्ट्रबलाहकौ।
कुहरः पुष्पदंष्ट्रश्च दुर्म्मुखः सुमुखस्तथा।। ३.१०० ।।
शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा।
नहुषः शङ्खरोमा च मणिरित्येवमादयः।। ३.१०१ ।।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः।
चतुर्दशसहस्राणि क्रूराणामनिलाशिनाम्।। ३.१०२ ।।
गणं क्रोधवशं विप्रास्तस्य सर्व्वे च दंष्ट्रिणः।
स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवाः स्मृताः।। ३.१०३ ।।
गास्तु वै जनयामास सुरभिर्महिषीस्तथा
इरा वृक्षलतावल्लीस्तृणजातीश्च सर्व्वशः।। ३.१०४ ।।
खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा।
अरिष्टा तु महासिद्धा गंधर्वानमितौजसः।। ३.१०५ ।।
एते कश्यपदायादाः कीर्त्तिताः स्थाणुजङ्गमाः।
येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः।। ३.१०६ ।।
एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः।
वैवस्वतेऽतिमहति वारुणे वितते क्रतौ।। ३.१०७ ।।
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते।
पूर्व्वं यत्र समुत्पन्नान्ब्रह्मर्षीन्सप्त मानसान्।। ३.१०८
पुत्रत्वे कल्पयामास स्वयमेव पितामहः।
ततो विरोधे देवानां दानवानां च भो द्विजाः।। ३.१०९ ।।
दितिर्विनष्टपुत्रा वै तोषयामास कस्यपम्।
कश्यपस्तु प्रसन्नात्मा सम्यगाराधितस्तया।। ३.११० ।।
वरेण च्छन्दयामास सा च वव्रे वरं तदा।
पुत्रमिन्द्रवधार्थाय समर्थममितौजसम्।। ३.१११ ।।
स च तस्मै वरं प्रादात् प्रार्थितः सुमहातपाः।
दत्त्वा च वरमत्युग्रो मारीचः समभाषत ।। ३.११२ ।।
इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम्।
यदि धारयसे शौचतत्परा ब्रतमास्थिता।। ३.११३ ।।
तथेत्यभिहितो भर्त्ता तया देव्या महातपाः।
धारयामास गर्भं तु शुचिः सा मुनिसत्तमाः।। ३.११४ ।।
ततोऽभ्युपागमद्दित्यां गर्भमाधाय कश्यपः।
रोधयन् वै गणं श्रेष्ठं देवानाममितौजसम्।। ३.११५ ।।
तेजः संहृद्य दुर्धर्षमवध्यममरैरपि।
जगाम पर्व्वतायैव तपसे संशितब्रता ।। ३.११६ ।।
तस्याश्चैवान्तरप्रेप्सुरभवत् पाकशासनः।
जाते वर्षशते चास्या ददर्शान्तरमच्युतः।। ३.११७ ।
अकृत्वा पादयोः शौचं दितिः शयनमाविशत्।
निद्रां चाहारयामास तस्यां कुक्षिं प्रविश्य सः।। ३.११८ ।।
वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तयत्।
स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोदह ।। ३.११९ ।।
मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत्।
सोऽभवत् सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः।। ३.१२० ।।
एकैकं सप्तधा चक्रेः वज्रेणैवारिकर्षणः।
मरुतो नाम ते देवा बभूवुर्द्विजसत्तमाः।। ३.१२१ ।।
यथोक्तं वै मघवता तथैव मरुतोऽभवन्।
देवाश्चैकोनपञ्चाशत्सहाया वज्रपाणिनः।। ३.१२२ ।।
तेषामेवं प्रवृत्तानां भूतानां द्विजसत्तमाः।
रोचयन् वै गणश्रेष्ठान् देवानाममितौजसाम्।। ३.१२३ ।।
निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन्।
क्रमशस्तानि राज्यानि पृथुपूर्वाणि भो द्विजाः।। ३.१२४ ।।
स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः।
पर्जन्यस्तपनोऽनन्तस्तस्य सर्व्वमिदं जगत्।। ३.१२५ ।।
भूतसर्गमिमं सम्यग्जानतो द्विजसत्तमाः।
नावृत्तिभयमस्तीह परलोकभयं कुतः।। ३.१२६ ।।
इति श्रीब्राह्मे महापुराणे देवसुराणामुत्पत्तिकथनं नाम तृतीयोऽध्यायः ।। ३ ।।
<b>पृथुमारभ्य सर्व्वदेवदानवादीनां राज्याभिषेक-वर्णनम्</b>
<b>लोमहर्षण उवाच</b>
अभिषिच्याधिराजेन्द्रं पुथुं वैन्यं पितामहः।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे।। ४.१ ।।
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत्।। ४.२ ।।
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम्।
आदित्यानां तथा विष्णुं वसूनामथ पावकम्।। ४.३ ।।
प्रजापतीनां दक्षं तु मरुतामथ वासवम्।
दैत्यानां दानवानां वै प्रह्लादमितौजसम्।। ४.४ ।।
वैवस्वतं पितॄणाञ्च यमं राज्येऽभ्यषेचयत्।
यक्षाणां राक्षसानाञ्च पार्थिवानां तथैव च ।। ४.५ ।।
सर्व्वभूतपिशाचानां गिरीशं शूलपाणिनम्।
शैलानां हिमवन्तञ्च नदीनामथ सागरम्।। ४.६ ।।
गंधर्व्वभूतपिधिपतिं चक्रे चित्ररथं प्रभुम्।
नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम्।। ४.७ ।
वारणानां तु राजानमैरावतमथादिशत्।
उच्चैः श्रवसमश्वानां गरुडञ्चैव पक्षिणाम्।। ४.८ ।।
मृगाणामथ शाद्र्दूलं गोवृषन्तु गवां पतिम्।
वनस्पतीनां राजानं प्लक्षमेवाभ्यषेचयत्।। ४.९ ।।
एवं विभज्य राज्यानि क्रमेणैव पितामहः।
दिशां पालानथ ततः स्थापयामास स प्रभुः।। ४.१० ।।
पूर्व्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः।
दिशः पालं सुधन्वानं राजानं सोऽभ्यषेचयत्।। ४.११ ।।
दक्षिणस्यां दिशि तथा कद्र्दमस्य प्रजापतेः।
पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ।। ४.१२ ।।
पश्चिमस्यां दिशि तथा रजसः पुत्रच्युतम्।
केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत्।। ४.१३ ।।
तथा हिरण्यरोमाणं पर्ज्जन्यस्य प्रजापतेः।
उदीच्यां दिशि दुर्द्धर्षराजानं सोऽभ्यषेचयत्।। ४.१४ ।।
तैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना।
यथाप्रदेशमद्यापि धर्म्मेण प्रतिपाल्यते ।। ४.१५ ।।
राजसूयाभिषिक्तस्तु पृथुरेतैर्नराधिपैः।
वैददृष्टेन विधिना राजा राज्ये नराधिपः।। ४.१६ ।।
ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि।
वैवस्वताय मनवे पृथिव्यां राज्यमादिशत्।। ४.१७ ।।
तस्य विस्तरमाख्यास्ते मनोर्वैवस्वतस्य ह।
भवतां चातुकूल्याय यदि श्रोतुमिहेच्छथ।। ४.१८ ।।
महदेतदधिष्ठानं पुराणे तदधिष्ठितम्।
मुनय ऊचुः
विस्तरेण पृथोर्जन्म लोमहर्षण कीर्त्तय।
यथा महात्मना तेन दुग्धा वेयं वसुन्धरा।। ४.१९ ।।
यथा वापि नृभिर्दुग्धा यथा देवैर्महर्षिभिः।
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः।। ४.२० ।।
यथा शैलैः पिशाचैश्च वक्तुमर्हसि सुब्रत।
वत्सक्षीरविशेषांश्च दोग्धारं चानुपूर्व्वशः।। ४.२१ ।।
तेषां पात्रविशेषांश्च वक्तुमर्हसि सुब्रत।
वत्सक्षीरविशेषांश्च दोग्धारं चानुपूर्व्वशः।। ४.२२ ।।
यस्माच्च कारणात् पाणिर्व्वेणस्य मथितः पुरा।
क्रुर्द्धर्महर्षिभिस्तात कारणं तच्च कीर्त्तय।। ४.२३ ।।
लोमहर्षण उवाच
श्रृणुध्वं कीर्त्तयिष्यामि पृथोर्वैण्यस्य विस्तरम्।
एकाग्राः प्रयताश्चैवपुण्यार्थ वै द्विजर्षभाः।। ४.२४ ।।
नाशुचेः क्षुद्रमानसो नाशिष्यस्याव्रतस्य च।
कीर्त्तयेयमिदं विप्राः कृतघ्नायाहिताय च।। ४.२५ ।।
स्वर्ग्य यशस्यमायुष्यं धन्यं वेदैश्च सम्मितम्।
रहस्यमृषिभिः प्रोक्तं श्रृणुध्वं वै यथातथम्।। ४.२६ ।।
यश्चेमं कीर्त्तयेन्नित्यं पृथोर्वैण्यस्य विस्तरम्।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम्।। ४.२७ ।।
आसीद्धर्म्मस्य संगोप्ता पूर्व्वमत्रिसमः प्रभुः।
अत्रिवंशे समुत्पन्नस्त्वङ्गो नाम प्रजापतिः।। ४.२८ ।।
तस्य पुत्रोऽभवद्वेणो नात्यर्थं धर्म्मकोविदः।
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः।। ४.२९ ।।
स मातामहदोषेण तेन कालात्मजात्मजः।
स्वधर्म्मं पृष्ठतः कृत्वा कामलोभेष्ववर्त्तत।। ४.३० ।।
मर्य्यादां भेदयामास धर्म्मोपेतां स पार्थिवः।
वेदधर्म्मानतिक्रम्य सोऽधर्म्मनिरतोऽभवत्।। ४.३१ ।।
निःस्वाध्यायवषट्काराः प्रजास्तस्मिन् प्रजापतौ।
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः।। ४.३२ ।।
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः।
आसीत् प्रतिज्ञा क्रूरेयं विनाशं प्रत्युपस्थिते।। ४.३३ ।।
अहमिज्यश्च यष्टा च यज्ञश्चेति भृगूद्वह।
मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि।। ४.३४ ।।
तमतिक्रान्तमर्य्यादमाददानमसाम्प्रतम्।
ऊचुर्महर्षयः सर्व्वे मरीचिप्रमुखास्तदा ।। ४.३५ ।।
वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून्।
अधर्म्मं कुरु मा वेण एष धर्म्मः सनातनः।। ४.३६ ।।
निधनेऽत्रेः प्रसूतस्त्वं प्रजापतिरसंशयम्।
प्रजाश्च पालयिष्येऽहमितीह समयः कृतः।। ४.३७ ।।
तांस्तथा ब्रुवतः सर्वामहर्षिनब्रवीत्तदा।
वेणः प्रहस्य दुर्ब्बुद्धिरिममर्थमनर्थवित्।। ४.३८ ।।
वेण उवाच
स्रष्टा धर्म्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया।
श्रुतवीर्य्यतपः सत्यैर्मया वा कः समो भुवि।। ४.३९ ।।
प्रभवं सर्व्वभूतानां धर्म्माणां च विशेषतः।
सम्मूढा न विदुर्नूनं भवन्तो मां विचेतसः।। ४.४० ।।
इच्छन् दहेयं पृथिवीं प्लावयेयं जलैस्तथा।
द्यां वै भुवं च रुन्धेयं नात्र कार्य्या विचारणाः।। ४.४१ ।।
यदा न शक्यते मोहादवलेपाच्च पार्थिवः।
अपनेतुं तदा वेणस्ततः क्रुद्धा महर्षयः।। ४.४२ ।।
तं निगृह्य महात्मानो विस्फुरन्तं महाबलम्।
ततोऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः।। ४.४३ ।।
तस्मिन्निर्मथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान्।
ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चेति बभूव ह।। ४.४४ ।।
स भीतः प्राञ्जलिर्भूत्वा तस्थिवान् द्विजसत्तमाः।
तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत्तदा।। ४.४५ ।।
निषादवंशकर्त्ताऽसौ बभूव वदतां वराः।
धीवरानसृजच्चापि वेणकल्मषसम्भवान्।। ४.४६ ।।
ये चान्ये विन्ध्यनिलयास्तथा पर्व्वतसंश्रयाः।
अधर्म्मरुचयो विप्रास्ते तु वेणकल्मषाः।। ४.४७ ।।
ततः पुनर्महात्मानः पाणिं वेणस्य दक्षिणम्।
अरणीमिव संरब्धा ममन्थुर्जातमन्यवः।। ४.४८ ।।
पृथुस्तस्मात् समुत्पन्नः कराज्ज्वलनसन्निभः।
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलम्।। ४.४९ ।।
अथ सोऽजगवं नाम धनुर्गृह्य महारवम्।
शरांश्च दिव्यान् रक्षार्थं कवचं च महाप्रभम्।। ४.५० ।।
तस्मिन् जातेऽथ भूतानि सम्प्रहृष्टानि सर्व्वशः।
समापेतुर्महाभागा वेणस्तु त्रिदिवं ययौ।। ४.५१ ।।
समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना।
त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा।। ४.५२ ।।
तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्व्वशः।
तोयानि चाभिषेकार्थं सर्व्व एवोपतस्थिरे।। ४.५३ ।।
पितामहश्च भगवान् देवैराङ्गिरसैः सह।
स्थावराणि च भूतानि जङ्गमानि च सर्व्वशः।। ४.५४ ।।
समागम्य तदा वैण्यमभ्यषिञ्चन्नराधिपम्।
महता राजराजेन प्रजास्तनानुरञ्चिताः।। ४.५५ ।।
सोऽभिषिक्तो महातेजा विधिवद्धर्म्मकोविदैः।
आधिराज्ये तदा राज्ञां पृथुर्वैण्यः प्रतापवान्।। ४.५६ ।।
पित्रापरञ्जितास्तस्य प्रजास्तनानुरञ्जिताः।
अनुरागात्ततस्तस्य नाम राजाभ्यजायत्।। ४.५७ ।।
आपस्तस्तम्भिरे तस्य समुद्रमभियास्यतः।
पर्व्वताश्च ददुर्म्मार्गं ध्वभङ्गश्च नाभवत्।। ४.५८ ।।
अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तनात्।
सर्व्वकामदुधा गावः पुटके पुटके मधु।। ४.५९ ।।
एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः।। ४.६० ।।
तस्मिन्नेव महायज्ञे यज्ञे प्राज्ञोऽथ मागधः।
पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः।। ४.६१ ।।
तावूचुर्ऋषयः सर्व्वे स्तूयतामेष पार्थिवः।
कर्म्मैतदनुरूपं वां पात्रं चायं नराधिपः।। ४.६२ ।।
तावूचतुस्तदा सर्वास्तानृषीन् सूतमाघधौ।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्म्मभिः।। ४.६३ ।।
न चास्य विद्मोवै कर्म्म नाम वा लक्षणं यशः।
स्तोत्रं ये नास्य कुर्य्यावराज्ञस्तजस्विनो द्विजाः।। ४.६४ ।।
ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति।
यानि कर्म्माणि कृतवान् पृथुः पश्चान्महाबलः।। ४.६५ ।।
ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः।
आशीर्वादाः प्रयुज्यन्ते सूतमागधवन्दिभिः।। ४.६६ ।।
तयोः स्तवान्ते सुप्रीतः पुथुः प्रादात्प्रजेश्वरः।
अनूपदेशं सूताय मगधं मागाधाय च।। ४.६७ ।।
तं दृष्टावा परमप्रीताः प्रजाः प्रोचुर्मनीषिणः।
वृत्तीनामेष वो दाता भविष्यति नराधिपः।। ४.६८ ।।
ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः।
त्वं नो वृत्तिं विधत्स्वेति महर्षिमाद्रवद्बली।। ४.६९ ।।
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया।
धनुर्गृह्य पृषत्कांश्च पृथिवीमाद्रवद्बली।। ४.७० ।।
ततो वैण्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही।
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत।। ४.७१ ।।
सा लोकान् ब्रह्मलोकादीन् गत्वा वैण्यभयात्तदा।
प्रददर्शाग्रतो वैण्यं प्रगुहीतशरासनम्।। ४.७२ ।।
ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमन्ततः।
महायोगं महात्मानं दुर्द्धर्षममरैरपि।। ४.७३ ।।
अलभन्ती तु सा त्राणं वैण्यमेवान्वपद्यत।
कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिस्तदा।। ४.७४ ।।
उवाच वैण्यं नाधर्म्मं स्त्रीवधे परिपश्यसि।
कथं धारयिता चासि प्रजा राजन् विना मया।। ४.७५ ।।
मयि लोकाः स्थिताः राजनमयेदं धार्य्यते जगत्।
मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत्।। ४.७६ ।।
न मामर्हसि हन्तुं वै श्रेयश्चेत्त्वे चिकीर्षसि।
प्रजानां पृथिवीपाल श्रुणु चेदं वचो मम।। ४.७७ ।।
उपायतः समारब्धाः सर्व्वे सिध्यन्त्युपक्रमाः।
उवायं पश्य येन त्वं धारयेथाः प्रजामिमाम्।। ४.७८ ।।
हत्वापि मां न शक्तस्त्वं प्रजानां पोषणं नृप।
अनुकूला भविष्यामि यच्छ कोपं महामते।। ४.७९ ।।
अवध्यां च स्त्रियं प्राहुस्तिर्य्यग्योनिगतेष्वपि।
यद्येवं पृथिवीपाल न धर्म्मं त्यक्तुमर्हसि।। ४.८० ।।
एवं बहुविधं वाक्यं श्रुत्वा राजा महमनाः।
कोपं निगृह्य धर्म्मात्मा वसुधामिदमब्रवीत्।। ४.८१ ।।
पृथुरुवाच
एकस्यार्थे तु यो हन्यादात्मनो वा परस्य वा।
बहून् वा प्राणिनोऽनन्तं भवेत्तस्येह पातकम्।। ४.८२ ।।
सुखमेधन्ति बहवो यस्मिंस्तु निहतेऽशुभे।
तस्मिन् हते नास्ति भद्रे पातकं चोपपातकम्।। ४.८३ ।।
सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे।
यदि मे वचनान्नाद्य करिष्यसि जगद्धितम्।। ४.८४ ।।
त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम्।
आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम्।। ४.८५ ।।
सा त्वं शासनमास्थाय मम धर्म्मभृतां वरे।
सञ्जीवय प्रजाः सर्व्वाः समर्था ह्यसिधारणे।। ४.८६ ।।
दुहितृत्वं च मे गच्छ तत एनमहं शरम्।
नियच्छेयं त्वद्वधार्थमद्यन्तं घोरदर्शनम्।। ४.८७ ।।
वसुधोवाच
सर्व्वमेतदहं वीर विधास्यामि न संशयः।
वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला।। ४.८८ ।।
समाञ्च कुरु सर्व्वत्र मां त्वं धर्मभृतां वर।
यथा विस्यन्दमानं मे क्षीरं सर्व्वत्र भावयेत्।। ४.८९ ।।
लोमहर्षण उवाच
तत उत्सारयामास शैलाञ्शतसहस्रशः।
धनुष्टोट्या तदा वैण्यस्तेन शैला विवर्द्धिताः।। ४.९० ।।
न हि पूर्व्वविसर्गे वै विषमै पृथिवीतले।
संविभागाःपुराणां वा ग्रामाणां वाभवत्तदा।। ४.९१ ।।
म शस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः।
नैव सत्यानृतं चासीन्न लोभो न च मत्सरः।। ४.९२ ।।
वैवस्वतेऽन्तरे तस्मिन् साम्प्रतं समुपस्थिते।
वैण्यात्प्रभृति वै विप्राः सर्व्वस्यै तस्य सम्भवः।। ४.९३ ।।
यत्र यत्र समं त्वस्या भूमेरासीत्तदा द्विजाः।
तत्र तत्र प्रजाः सर्वा विवासं समरोचयन्।। ४.९४ ।।
आहारः फलमूलानि प्रजानामभवत्तदा।
कुच्छ्रेण महता युक्त इत्येवमनुसुश्रुम।। ४.९५ ।।
सचाकल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम्।
स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः।। ४.९६ ।।
शस्यजातानि सर्वाणि पृथुर्वैयण्यः प्रतापवान्।
तेनान्नेन प्रजाः सर्वा वर्त्तन्तेऽद्यापि सर्व्वशः।। ४.९७ ।।
ऋषयश्च तदा देवाः पितरोऽथ सरीसृपाः।
दैत्या यक्षाः पण्यजना गन्धर्त्वाः पर्व्वता नगा।। ४.९८ ।।
एते पुरा द्विजश्रेष्ठा दुदुर्हुर्धरणीं किल।
क्षीरं वत्सश्च पात्रं च तेषां दोग्धा पृथक्पृथक्।। ४.९९ ।।
ऋषीणामभवत्सोमो वत्सो दोग्धा बृहस्पतिः।
क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः।। ४.१०० ।।
देवानां काञ्चनं पात्रं वत्सस्तेषां शतक्रतुः।
क्षीरमोजस्करं चैव दोग्धा च भगवान्रविः।। ४.१०१ ।।
पितृणां राजतं पात्रं यमो वत्सः प्रतापवान्।
अन्तकश्चाभवद्देग्धा क्षीरं तेषां सुधा स्मृता ।। ४.१०२ ।।
नागानां तक्षको वत्सः पात्रं चालाबुसंज्ञकम्।
दोग्धा त्वैरावतो नगस्तेषां क्षीरं विषं स्मृतम्।। ४.१०३ ।।
असुराणां मधुर्दोग्धा क्षीरं मायामयं स्मृतम्।
विरोचनस्तु वत्सोऽभूदायसं पात्रमेव च।। ४.१०४ ।।
यक्षाणामामपात्रं तु वत्सो वैश्रवणः प्रभुः।
दोग्धा रजतनाभस्तु क्षीरान्तर्धानमेव च।। ४.१०५ ।।
सुमाली राक्षसेन्द्राणां वत्सं क्षीरं च शोणितम्।
दोग्धा रजतनाभस्तु कपालं पात्रमेव च।। ४.१०६ ।।
गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम्।
दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः।। ४.१०७ ।।
शैलं पात्रं पर्व्वतानां क्षीरं रत्नौषधीस्तथा।
वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः।। ४.१०८ ।।
प्लक्षो वत्स्तु वृक्षाणां दोग्धा सालस्तु पुष्पितः।
पालाशपात्रं क्षीरञ्च छिन्नदग्धप्ररोहणम्।। ४.१०९ ।।
सेयं धात्री विधात्री च पावनी च वसुन्धरा।
चराचरस्य सर्व्वस्य प्रतिष्ठा योनिरेव च।। ४.११० ।।
सर्व्वकामदुधा दोग्ध्री सर्व्वशस्यप्ररोहणी।
आसीदियं समुद्रान्ता मेदिनी परिविश्रुता।। ४.१११ ।।
मधुकैटभयोः सृत्स्ना मेदसा समभिप्लुता।
तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः।। ४.११२ ।।
ततोऽभ्युपगमाद्राज्ञः पृथोर्वैण्यस्य भो द्विजाः।
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते।। ४.११३ ।।
पृथुना प्रविभक्ता च शोधिता च वसुन्धरा।
शस्याकरवती स्फीता पुरपत्तनशालिनी।। ४.११४ ।।
एवम्प्रभावो वैण्यः स राजासीद्राजसत्तमः।
नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः।। ४.११५ ।।
ब्राह्मणैश्च महाभागैर्व्वेदवेदाङ्गपारगैः।
पृथुरेव नमस्कार्य्यो ब्रह्मयोनिः सनातनः।। ४.११६ ।।
पार्थिवैश्च महाभागैः पार्थिवत्वमिहेच्छुभिः।
आदिराजो नमस्कार्य्यः पृथुर्वैण्यः प्रतापवान्।। ४.११७ ।।
योधैरपि च विक्रान्तैः प्राप्नुकामैर्जयं युधि।
आदिराजो नमस्कार्य्यो योधानां प्रथमो नृपः।। ४.११८ ।।
यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम्।
सघोररूपात्संपात्संग्रामात् क्षेमो भवति कीर्त्तिमान्।। ४.११९ ।।
वैश्यैरपि च वित्ताढ्यैर्वैश्यवृत्तिविधायिभिः।
पृथुरेव नमस्कार्य्यों वृत्तिदाता महायशाः।। ४.१२० ।।
तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः।
पृथुरेव नमस्कार्य्यः श्रेयः परमिहेप्सुभिः।। ४.१२१ ।।
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च।
पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः।। ४.१२२ ।।
इति श्रीब्राह्मे महापुराणे पृथोर्जन्ममाहात्म्यकथनं नाम चतुर्थोऽध्यायः।। ४ ।।
<b>मन्वन्तर-वर्णनम्</b>
<b>ऋषय ऊचुः</b>
मन्वन्तराणि सर्वाणि विस्तरेण महामते।
तेषां पूर्व्वविसृष्टिं च लोमहर्षण कीर्त्तय।। ५.१ ।।
यावन्तो मनवश्चैव यावन्तं कालमेव च।
मन्वन्तराणि भो सूत श्रोतुमिच्छाम तत्त्वतः।। ५.२ ।।
लोमहर्षण उवाच
न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैरपि।
मन्वन्तराणां सर्व्वेषां संक्षेपाच्छृणुत द्विजाः।। ५.३ ।।
स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा।। ५.४ ।।
वैवस्वतश्च भो विप्राः साम्प्रतं मनुरुच्यते।
सावर्णिश्च मनुस्तद्वद्रैभ्यो रौच्यस्तथैव च।। ५.५ ।।
तथैव मेरुसावर्ण्यश्चत्वारो मनवः स्मृताः।
अतीता वर्त्तमानाश्च तथैवानागता द्विजाः।। ५.६ ।।
कीर्त्तिता मनवस्तुभ्यं मयैवैते यथाश्रुताः।
ऋषींस्त्वेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा।। ५.७ ।।
मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः।
पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः।। ५.८ ।।
उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस्तथा।
आग्निध्रश्चाग्निबाहुश्च मेध्यो मेधातिथिर्व्वसुः।। ५.९ ।।
ज्योतिष्मान्द्युतिमान्हव्यः सबलः पुत्रसंज्ञकः।
मनोः महर्षयो विप्रा वायुप्रोक्ता महाव्रताः।। ५.१० ।।
एतद्वै प्रथमं विप्रा मन्वन्तरमुदाहृतम्।
और्वों वसिष्टपुत्रश्च स्तम्बः कश्यप एव च।। ५.११ ।।
प्राणो बृहस्पतिश्चैव दत्तोऽत्रिश्च्यवनस्तथा।
एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः।। ५.१२ ।।
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे।
हविघ्नः सुकृतिर्ज्योतिरापोमूर्त्तिरपि स्मृतः।। ५.१३ ।।
प्रतीतश्च नभस्यश्च नभ ऊर्जस्तथैव च।
स्वारोचिषस्य पुत्रास्ते मनोर्विप्रा महात्मनः।। ५.१४ ।।
कीर्त्तिताः पृथिवीपाला महावीर्य्यपराक्रमाः।
द्वितीयमेतत्कथितं विप्रा मन्वन्तरं मया।। ५.१५ ।।
इदं तृतीयं वक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः।
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः।। ५.१६ ।।
हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः।
ऋषयोऽत्र मया प्रोक्ताः कीर्त्त्यमानान्निबोधत।। ५.१७ ।।
औत्तमेयान्मुनिश्रेष्ठा दश पुत्रान्मनोरिमान्।
इष ऊर्जस्तनूर्जस्तु मधुर्माधव एव च।। ५.१८ ।।
शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च।
भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम्।। ५.१९ ।।
मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम्।
काव्यः पृथुस्तथैवाग्निर्जहनुर्धाता द्विजोत्तमाः।। ५.२० ।।
कपीवानकपीवांश्च तत्र सप्तर्षयो द्विजाः।
पुराणे कीर्त्तिता विप्राः पुत्राः पौत्राश्च भो द्विजाः।। ५.२१ ।।
तथा देवगणाश्चैव तामसस्यान्तरे मनोः।
द्युतिस्तपस्यः सुतपास्तपोभूतः सनातनः।। ५.२२ ।।
तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः।
तामसस्य मनोरेते दशा पुत्राः प्रकीर्त्तिताः।। ५.२३ ।।
वायुप्रोक्ता मुनिश्रेष्ठाश्चतुर्थं चैतदन्तरम्।
देवबाहुर्यदुध्रश्च मुनिर्व्वेदशिरास्तथा।। ५.२४ ।।
हिरण्यरोमा पर्ज्जन्य ऊर्ध्वबाहुश्च सोमजः।
सत्यनेत्रस्तथात्रेय एते सप्तर्षयोऽपरे।। ५.२५ ।।
देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः।
वारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते।। ५.२६ ।।
अथ पुत्रानिमास्तस्य बुध्यध्वं गदतो मम।
घृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः।। ५.२७ ।।
आरण्यस्च प्रकाशश्च निर्म्मोहः सत्यवाक्कृती।
रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम्।। ५.२८ ।।
षष्ठं तु सम्प्रवक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः।
भृघुर्नभो विवस्वांश्च सुधामा विरजास्तथा।। ५.२९ ।।
अतिनामा सहिष्णुश्च सप्तैते च महर्षयः।
चाक्षुषस्यान्तरे विप्रा मनोर्देवास्त्विमे स्मृताः। ५.३० ।।
आबालप्रथितास्ते वै पृथक्त्वेन दिवौकसः।
लेखाश्च नामतो विप्राः पञ्च देवगणाः स्मृताः।। ५.३१ ।।
ऋषेरङ्गिरसः पुत्रा महात्मानो महौजस।
नाड्वलेयाः मुनिश्रेष्ठा दशा पुत्रास्तु विश्रुताः।। ५.३२ ।।
रुरुप्रभृतयो विप्राश्चाक्षुषस्यान्तरे मनोः।
षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत।। ५.३३ ।।
अत्रिर्व्वसिष्ठो भगवान् कश्यपश्च महानृषिः।
गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च।। ५.३४ ।।
तथैव पुत्रो भगवानृचीकस्य महात्मनः।
सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि।। ५.३५ ।।
साध्या रुद्रास्च विश्वे च वसवो मरुतस्तथा।
आदित्याश्चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ।। ५.३६ ।।
मनोर्वैवस्वतस्यैते वर्त्तन्ते साम्प्रतेऽन्तरे।
इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः।। ५.३७ ।।
एतेषां कीर्त्तितानान्तु महर्षीणां महौजसाम्।
तेषां पुत्राश्च पौत्राश्च दिक्षु सर्वासु भो द्विजाः।। ५.३८ ।।
मन्वन्तरेषु सर्व्वेषु प्रागासन् सप्त सप्तकाः।
लोके धर्म्मव्यवस्थार्थं लोकसंरक्षणाय च।। ५.३९ ।।
मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः।
कृत्वा कर्म्म दिवं यान्ति ब्रह्मलोकमनामयम्।। ५.४० ।।
ततोऽन्ये तपसा युक्ताः स्थानं तत्पूरयन्त्युत।
अतीता वर्त्तमानाश्च क्रमेणैतेन भो द्विजाः।। ५.४१ ।।
अनागताश्च सप्तैते स्मृता दिवि महर्षयः।
मनोरन्तरमासाद्य सावर्णस्येह भो द्विजाः।। ५.४२ ।।
रामो व्यासस्तथात्रेयो दीप्तिमन्तो बहुश्रुताः।
भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः।। ५.४३ ।।
गौतमश्चाजरश्चैव शरद्वान्नाम गौतमः।
कौशिको गलवश्चैव और्वः काश्यप एव च।। ५.४४ ।।
एते सप्त महात्मानो भविष्या मुनिसत्तमाः।
वैरी चैवाध्वरीवांश्च शमनो धृतिमान् वसुः।। ५.४५ ।।
अरिष्टश्चाप्यधृष्टश्च वाजी सुमतिरेव च।।
सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः।। ५.४६ ।।
एतेषां कल्यमुत्थाय कीर्त्तनात् सुखमेधते।
यश्श्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः।। ५.४७ ।।
एतान्युक्तानि भो विप्राः सप्तसप्त च तत्त्वतः।
मन्वन्तराणि संक्षेपाच्छृणुतानागतान्यपि।। ५.४८ ।।
सावर्णा मनवो विप्राः पञ्च तांश्च निबोधतः।
एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः।। ५.४९ ।।
परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः।
दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृपाः।। ५.५० ।।
महता तपसा युक्ता मेरुपृष्ठे महौजसः।
रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः।। ५.५१ ।।
भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः।
अनागताश्च सप्तैते कल्पेऽस्मिन्मनवः स्मृताः।। ५.५२ ।।
तैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना।
पूर्णं युगसहस्रन्तु परिपाल्या द्विजोत्तमाः।। ५.५३ ।।
प्रजापति(ते)श्च तपसा संहारं तेषु नित्यशः।
युगानि सप्ततिस्तानि साग्राणि कथितानि च।। ५.५४ ।।
कृतत्रेतादियुक्तानि मनोरन्तरमुच्यते।
चतुर्दशैते मनवः कथिताः कीर्त्तिवर्द्धनाः।। ५.५५ ।।
वेदेषु सपुराणेषु सर्व्वेषु प्रभविष्णवः।
प्रजानां पतयो विप्रा धन्यमेषां प्रकीर्त्तनम्।। ५.५६ ।।
मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः।
न शक्यतेऽतस्तेषां वै वक्तुं वर्षशतैरपि।। ५.५७ ।।
विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः।
मन्वन्तरेषु संहाराः श्रुतेन च समन्विताः।। ५.५८ ।।
सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह।
तपसा ब्रह्मचर्य्येण श्रुतेन च समन्विताः।। ५.५९ ।।
पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते।
तत्र भूतानि सर्वाणि दग्धान्यादित्यरशिमभिः।। ५.६० ।।
ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्द्विजाः।
प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम्।। ५.६१ ।।
स्रष्टारं सर्व्वभूतानां कल्पान्तेषु पुनःपुनः।
अव्यक्तं शाश्वतो देवस्तस्य सर्व्वमिदं जगत्।। ५.६२ ।।
अत्र वः कीर्त्तयिष्यामि मनीर्वैवस्वतस्य वै।
विसर्गं मुनिशार्दूलाः साम्प्रतस्य महाद्युतेः।। ५.६३ ।।
अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम्।
यत्रोऽपन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः।। ५.६४ ।।
इति श्रीब्राह्मे महापुराणे मन्वन्तरकीर्त्तनं नाम पञ्चमोऽध्यायः।। ५ ।।
<b>आदित्योत्पत्ति-कथनम्</b>
<b>लोमहर्षण उवाच</b>
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः।
तस्य भार्य्याभवत्संज्ञा त्वाष्ट्री देवी विवस्वतः॥ ६.१ ॥
सुरेश्वरीति विख्याता त्रिपु लोकेषु भाविनी।
सा वै भार्य्या भगवतो मार्त्तण्डस्य महात्मनः॥ ६.२ ॥
भर्त्तृरूपेण नातुष्यद्रूपयोवनशालिनी।
संज्ञा नाम सुतपसा सुदीप्तेन समन्विता॥ ६.३ ॥
आदित्यस्य हि तद्रूपं मण्डलस्य सुतेजसा।
गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत्॥ ६.४ ॥
न खल्वयं मृतोऽण्डस्थ इति स्नेहादभाषत।
अजानन् काश्यपस्तस्मान्मार्त्तण्ड इति चोच्यते॥ ६.५ ॥
तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः।
येनातितापयामास त्रींल्लोकान् कश्यपात्मजः॥ ६.६ ॥
त्रीण्यपत्यानि भो विप्रा संज्ञायां तपतां वरः।
आदित्यो जनयामास कन्यां द्वौ च प्रजापती॥ ६.७ ॥
मनुर्वैवस्वतः पूर्व्वं श्राद्धदेवः प्रजापतिः।
यमश्च यमुना चैव यमजौ सम्बभूवतुः॥ ६.८ ॥
श्यामवर्णन्तु तद्रूपं संज्ञा दृष्ट्वा विवस्वतः।
असहन्ती तु स्वां छायां सवर्णां निर्म्ममे ततः॥ ६.९ ॥
मायामयी तु सा संज्ञा तस्यां छायासमुत्थिताम्।
प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां द्विजोत्तमाः॥ ६.१0 ॥
उवाच किं मया कार्य्यं कथयस्व शुचिस्मिते।
स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि॥ ६.११ ॥
<b>संज्ञोवाच</b>
अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः।
त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया॥ ६.१२ ॥
इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा।
सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित्॥ ६.१३ ॥
<b>सवर्णोवाच</b>
आ कचग्रहणाद्देवि आ शापान्नैव कर्हिचित्।
आख्यास्यामि नमस्तुभ्यं गच्छ देवि यथासुखम्॥ ६.१४ ॥
<b>लोमहर्षण उवाच</b>
समादिश्य सवर्णान्तु तथेत्युक्ता तया च सा।
त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी॥ ६.१५ ॥
पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा।
भर्त्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः॥ ६.१६ ॥
आगच्छद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता।
कुरूनथोत्तरान् गत्वा तृणान्यथ चचार ह॥ ६.१७
द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्तयन्।
आदित्यो जनयामास पुत्रमात्मसमं तदा॥ ६.१८ ॥
पूर्व्वजस्य मनोर्विप्राः सदृशोऽयमिति प्रभुः।
मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते॥ ६.१९ ॥
द्वितीयो यः सुतस्तस्याः स विज्ञेय शनैश्चरः।
संज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा॥ ६.२0 ॥
चकाराभ्यधिकं स्नेहं न तथा पूर्व्वजेषु वै।
मनुस्तस्याः क्षमत्तत्तु यमस्तस्या न चक्षमे॥ ६.२१ ॥
स वै रोषाच्च बाल्याच्च भाविनोऽर्थस्य वानघ।
पदा सन्तर्ज्जयामास संज्ञां वैवस्वतो यमः॥ ६.२२ ॥
तं शशाप ततः क्रोधात् सावर्णजननी तदा।
चरणः पततामेष तवेति भृशदुःखिता॥ ६.२३ ॥
यमस्तु तत्पितुः सर्व्वं प्राञ्जलिः प्रत्यवेदयत्।
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विशङ्कितः॥ ६.२४ ॥
शापोऽयं विनिवर्त्तव प्रोवाच पितरं द्विजाः।
मात्रा स्नेहेन सर्व्वेषु वर्त्तितव्यं सुतेषु वै॥ ६.२५ ॥
सेयमास्मानपास्येह विवस्वन् सम्बुभूषति।
तस्यां मयोद्यतः पादो न तु देहे निपातितः॥ ६.२६ ॥
बाल्याद्वा यदि वा लौल्यान्मोहात्तत्क्षन्तुमर्हसि।
शप्तोऽहमस्मि लोकेश जनन्या तपतां वर॥ ६.२७ ॥
तव प्रसादाच्चरणो न पतेन्मम गोपते
<b>विवस्वानुवाच</b>
असंशयं पुत्र महृद्भविष्यत्यत्र कारणम्।
येन त्वामाविशत् क्रोधो धर्म्मज्ञं सत्यवादिनम्॥ ६.२८ ॥
न शक्यमेतन्मिथ्या तु कर्त्त मातृवचस्तव।
कृमयो मांसमादाय यास्यन्त्यवनिमेव च॥ ६.२९ ॥
कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति।
शापस्य परिहारेण त्वं च त्रातो भविष्यसि॥ ६.३0 ॥
आदित्यश्चाब्रवीत् संज्ञां किमर्थं तनयेषु वै॥
तुल्येष्वभ्यधिकः स्नेह एकस्मिन् क्रियते त्वया॥ ६.३१ ॥
सा तत् परिहरन्ती तु नाचचक्षे विवस्वते।
स चात्मानं समाधाय योगात्तथ्यमपश्यत॥ ६.३२ ॥
तां शप्तुकामो भगवान्नाशपन्मुनिसत्तमाः।
मूर्द्धजेषु निजग्राह स तु तां मुनिसत्त्माः॥ ६.३३ ॥
ततः सर्व्वं यथावृत्तमाचचक्षे विवस्वते।
विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात्॥ ६.३४ ॥
दृष्ट्वा तु तं यथान्यायमर्च्चयित्वा विभावसुम्।
निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा॥ ६.३५ ॥
<b>त्वष्टोवाच</b>
तवातितेजसाविष्टमिदं रूपं न शोभते।
असहन्ती च संज्ञा सा वने चरति शाद्वले॥ ६.३६ ॥
द्रष्टा हि तां भवानद्य स्वां भार्य्यां शुभचारिणीम्।
श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते॥ ६.३७ ॥
अनुकूलं तु ते देव यदि स्यान्मम सम्मतम्।
रूपं निर्वर्त्तयाम्यद्य तव कान्तमरिन्दम॥ ६.३८ ॥
ततोऽभ्युपागमत्त्वष्टा मार्त्तण्डस्य विवस्वतः।
भ्रमिमारोप्य तत्तेजः शातयामास भो द्विजाः॥ ६.३९ ॥
ततो निर्भासितं रूपं तेजसा संहतेन वै।
कान्तात् कान्ततरं द्रष्टुमधिकं शुसुभ तदा ॥ ६.४0 ॥
ददर्श योगमास्थाय स्वां भार्य्यां वडवां ततः।
अधृष्यां सर्व्वभूतानां तेजसा नियमेन च॥ ६.४१ ॥
वडवावपुषा विप्राश्चरन्तीमकुतोभयाम्।
सोऽश्वरूपेण भगवांस्तां मुखे समभावयत्॥ ६.४२ ॥
मैथुनाय विचेष्टन्तीं परपुंसोऽवशङ्कया।
सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः॥ ६.४३ ॥
देवौ तस्यामजायेतामश्विनौ भिषजां वरौ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति॥ ६.४४ ॥
मार्त्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः।
तां तु रूपेण कान्तेन दर्शयामास भास्करः॥ ६.४५ ॥
सा तु दृष्ट्वैव भर्त्तारं तुतोष मुनिसत्तमाः।
यमस्तु कर्म्मणा तेन भृशं पीडितमानसः॥ ६.४६ ॥
धर्मेण रञ्जयामास धर्म्मराज इमाः प्रजाः।
स लेभे कर्म्मणा तेन शुभेन परमद्युतिः॥ ६.४७ ॥
पितणामाधिपत्यं च लोकपालत्वमेव च।
मनुः प्रजापतिस्त्वासीत्सावर्णिः स तपोधनाः॥ ६.४८ ॥
भाव्यः समागते तस्मिन्मनुः सावर्णिकेऽनतरे।
मेरुपृष्ठे तपो नित्यमद्यापि स चरत्युत॥ ६.४९ ॥
भ्राता शनैस्चरस्तस्य ग्रहत्वं स तु लब्धवान्।
त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत्॥ ६.५0 ॥
तदप्रतिहतं युद्धे दानवान्तचिकीर्षया।
यवीयसी तु साप्यासीद्यामी कन्या यशस्विनी॥ ६.५१ ।
अभवच्च सरिच्छ्रेष्ठा यमुना लोकपावनी
मनुरित्युच्यते लोके सावर्ण इति चोच्यते॥ ६.५२ ॥
द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः।
ग्रहत्वं स च लेभे वै सर्व्वलोकाभिपूजितः॥ ६.५३ ॥
य इदं जन्म देवानां श्रुणुयान्नारसत्तमः।
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः॥ ६.५४ ॥
इति श्रीब्रह्मे महापुराणे आदित्योत्पत्तिकथनं नाम षष्ठोऽध्यायः॥ ६ ॥
लोमहर्षण उवाच
मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः
इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च  १
नरिष्यन्तश्च षष्ठो वै प्रांशू रिष्टश्च सप्तमः
करूषश्च पृषध्रश्च नवैते मुनिसत्तमाः  २
अकरोत्पुत्रकामस्तु मनुरिष्टिं प्रजापतिः
मित्रावरुणयोर्विप्राः पूर्वमेव महामतिः  ३
अनुत्पन्नेषु बहुषु पुत्रेष्वेतेषु भो द्विजाः
तस्यां च वर्तमानायामिष्ट्यां च द्विजसत्तमाः  ४
मित्रावरुणयोरंशे मनुराहुतिमावहत्
तत्र दिव्याम्बरधरा दिव्याभरणभूषिता  ५
दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः
तामिलेत्येव होवाच मनुर्दण्डधरस्तदा  ६
अनुगच्छस्व मां भद्रे  तमिला प्रत्युवाच ह
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम्  ७
इलोवाच
मित्रावरुणयोरंशे जातास्मि वदतां वर
तयोः सकाशं यास्यामि न मां धर्महतां कुरु  ८
सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला
गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत्  ९
इलोवाच
अंशेऽस्मि युवयोर्जाता देवौ किं करवाणि वाम्
मनुना चाहमुक्ता वाऐ अनुगच्छस्व मामिति  १०
तौ तथावादिनीं साध्वीमिलां धर्मपरायणाम्
मित्रश्च वरुणश्चोभावूचतुस्तां द्विजोत्तमाः  ११
मित्रावरुणावूचतुः
अनेन तव धर्मेण प्रश्रयेण दमेन च
सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि  १२
आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि  १३
मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि
सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने  १४
जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः
निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकात्  १५
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता
सोमपुत्राद्बुधाद्विप्रास्तस्यां जज्ञे पुरूरवाः  १६
जनयित्वा ततः सा तमिला सुद्युम्नतां गता
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः  १७
उत्कलश्च गयश्चैव विनताश्वश्च भो द्विजाः
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः  १८
दिक्पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता
प्रविष्टे तु मनौ विप्रा दिवाकरमरिंदमम्  १९
दशधा तत्पुनः क्षत्रमकरोत्पृथिवीमिमाम्
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान्  २०
कन्याभावात्तु सुद्युम्नो नैतद्रा ज्यमवाप्तवान्
वसिष्ठवचनात्त्वासीत्प्रतिष्ठाने महात्मनः  २१
प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः
तत्पुरूरवसे प्रादाद्रा ज्यं प्राप्य महायशाः  २२
मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणैर्युतः
धृतवांस्तामिलेत्येवं सुद्युम्नेति च विश्रुतः  २३
नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः
अम्बरीषोऽभवत्पुत्रः पार्थिवर्षभसत्तमः  २४
धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह
करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः  २५
नाभागधृष्टपुत्राश्च क्षत्रिया वैश्यतां गताः
प्रांशोरेकोऽभवत्पुत्रः प्रजापतिरिति स्मृतः  २६
नरिष्यन्तस्य दायादो राजा दण्डधरो यमः
शर्यातेर्मिथुनं त्वासीदानर्तो नाम विश्रुतः  २७
पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह
आनर्तस्य तु दायादो रैवो नाम महाद्युतिः  २८
आनर्तविषयश्चैव पुरी चास्य कुशस्थली
रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः  २९
ज्येष्ठः पुत्रः स तस्यासीद्राज्यं प्राप्य कुशस्थलीम्
स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणोऽन्तिके  ३०
मुहूर्तभूतं देवस्य तस्थौ बहुयुगं द्विजाः
आजगाम स चैवाथ स्वां पुरीं यादवैर्वृताम्  ३१
कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम्
भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः  ३२
तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः
कन्यां तां बलदेवाय सुभद्रां नाम रेवतीम्  ३३
दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः
रेमे रामोऽपि धर्मात्मा रेवत्या सहितः सुखी  ३४
मुनय ऊचुः
कथं बहुयुगे काले समतीते महामते
न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम्  ३५
मेरुं गतस्य वा तस्य शर्यातेः संततिः कथम्
स्थिता पृथिव्यामद्यापि श्रोतुमिच्छाम तत्त्वतः  ३६
लोमहर्षण उवाच
न जरा क्षुत्पिपासा वा न मृत्युर्मुनिसत्तमाः
ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघाः
ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह  ३७
हृता पुण्यजनैर्विप्रा राक्षसैः सा कुशस्थली
तस्य भ्रातृशतं त्वासीद्धार्मिकस्य महात्मनः  ३८
तद्वध्यमानं रक्षोभिर्दिशः प्राक्रामदच्युताः
विद्रुतस्य च विप्रेन्द्रा स्तस्य भ्रातृशतस्य वै  ३९
अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः
तेषां ह्येते मुनिश्रेष्ठाः शर्याता इति विश्रुताः  ४०
क्षत्रिया गुणसंपन्ना दिक्षु सर्वासु विश्रुताः
शर्वशः सर्वगहनं प्रविष्टास्ते महौजसः  ४१
नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः  ४२
पृषध्रो हिंसयित्वा तु गुरोर्गां द्विजसत्तमाः
शापाच्छूद्र त्वमापन्नो नवैते परिकीर्तिताः  ४३
वैवस्वतस्य तनया मुनेर्वै मुनिसत्तमाः
क्षुवतस्तु मनोर्विप्रा इक्ष्वाकुरभवत्सुतः  ४४
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम्
तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वादयोधताम्  ४५
प्राप्तः परमधर्मज्ञ सोऽयोध्याधिपतिः प्रभुः
शकुनिप्रमुखास्तस्य पुत्राः पञ्चशतं स्मृताः  ४६
उत्तरापथदेशस्य रक्षितारो महाबलाः
चत्वारिंशद्दशाष्टौ च दक्षिणस्यां तथा दिशि  ४७
वशातिप्रमुखाश्चान्ये रक्षितारो द्विजोत्तमाः
इक्ष्वाकुस्तु विकुक्षिं वाऐ अष्टकायामथादिशत्  ४८
मांसमानय श्राद्धार्थं मृगान्हत्वा महाबल
श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि  ४९
भक्षयित्वा शशं विप्राः शशादो मृगयां गतः
इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात्प्रभुः  ५०
इक्ष्वाकौ संस्थिते विप्राः शशादस्तु नृपोऽभवत्
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान्  ५१
अनेनास्तु ककुत्स्थस्य पृथुश्चानेनसः स्मृतः
विष्टराश्वः पृथोः पुत्रस्तस्मादार्द्र स्त्वजायत  ५२
आर्द्र स्तु युवनाश्वस्तु श्रावस्तस्तत्सुतो द्विजाः
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता  ५३
श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः
कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः  ५४
यः स धुन्धुवधाद्रा जा धुन्धुमारत्वमागतः  ५५
मुनय ऊचुः
धुन्धोर्वधं महाप्राज्ञ श्रोतुमिच्छाम तत्त्वतः
यद्वधात्कुवलाश्वोऽसौ धुन्धुमारत्वमागतः  ५६
लोमहर्षण उवाच
कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम्
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः  ५७
बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः
कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत्  ५८
पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह
तमुत्तङ्कोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत्  ५९
उत्तङ्क उवाच
भवता रक्षणं कार्यं तच्च कर्तुं त्वमर्हसि
निरुद्विग्नस्तपश्चर्तुं नहि शक्नोमि पार्थिव  ६०
ममाश्रमसमीपे वै समेषु मरुधन्वसु
समुद्रो  वालुकापूर्ण उद्दालक इति स्मृतः  ६१
देवतानामवध्यश्च महाकायो महाबलः
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान्  ६२
राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः
शेते लोकविनाशाय तप आस्थाय दारुणम्  ६३
संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति
यदा तदा मही तत्र चलति स्म नराधिप  ६४
तस्य निःश्वासवातेन रज उद्धूयते महत्
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम्  ६५
सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम्
तेन तात न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे  ६६
तं मारय महाकायं लोकानां हितकाम्यया
लोकाः स्वस्था भवन्त्यद्य तस्मिन्विनिहते त्वया  ६७
त्वं हि तस्य वधायैकः समर्थः पृथिवीपते
विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप  ६८
यस्तं महासुरं रौद्रं  हनिष्यति महाबलम्
तस्य त्वं वरदानेन तेजश्चाख्यापयिष्यसि  ६९
नहि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते
निर्दग्धुं पृथिवीपाल चिरं युगशतैरपि  ७०
वीर्यं च सुमहत्तस्य देवैरपि दुरासदम्
स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना
कुवलाश्वं सुतं प्रादात्तस्मै धुन्धुनिबर्हणे  ७१
बृहदश्व उवाच
भगवन्न्यस्तशस्त्रोऽहमयं तु तनयो मम
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः  ७२
स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे
जगाम पर्वतायैव नृपतिः संशितव्रतः  ७३
लोमहर्षण उवाच
कुवलाश्वस्तु पुत्राणां शतेन सह भो द्विजाः
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निबर्हणे  ७४
तमाविशत्तदा विष्णुस्तेजसा भगवान्प्रभुः
उत्तङ्कस्य नियोगाद्वै लोकानां हितकाम्यया  ७५
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्
एष श्रीमानवध्योऽद्य धुन्धुमारो भविष्यति  ७६
दिव्यैर्गन्धैश्च माल्यैश्च तं देवाः समवाकिरन्
देवदुन्दुभयश्चैव प्रणेदुर्द्विजसत्तमाः  ७७
स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान्
समुद्रं  खानयामास वालुकान्तरमव्ययम्  ७८
तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा
धुन्धुरासादितो विप्रा दिशमावृत्य पश्चिमाम्  ७९
मुखजेनाग्निना क्रोधाल्लोकानुद्वर्तयन्निव
वारि सुस्राव वेगेन महोदधिरिवोदये  ८०
सौमस्य मुनिशार्दूला वरोर्मिकलिलो महान्
तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा  ८१
ततः स राजा द्युतिमान्राक्षसं तं महाबलम्
आससाद महातेजा धुन्धुं धुन्धुविनाशनः  ८२
तस्य वारिमयं वेगमापीय स नराधिपः
योगी योगेन वह्निं च शमयामास वारिणा  ८३
निहत्य तं महाकायं बलेनोदकराक्षसम्
उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः  ८४
उत्तङ्कस्तु वरं प्रादात्तस्मै राज्ञे महात्मने
ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजितम्  ८५
धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम्
पुत्राणां चाक्षयांल्लोकान्स्वर्गे ये रक्षसा हताः  ८६
तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते
चन्द्रा श्वकपिलाश्वौ तु कनीयांसौ कुमारकौ  ८७
धौन्धुमारेर्दृढाश्वस्य हर्यश्वश्चात्मजः स्मृतः
हर्यश्वस्य निकुम्भोऽभूत्क्षत्रधर्मरतः सदा  ८८
संहताश्वो निकुम्भस्य सुतो रणविशारदः
अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः  ८९
तस्य हैमवती कन्या सतां मता दृषद्वती
विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित्  ९०
लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम्
अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत्  ९१
तस्य पुत्रो महानासीद्युवनाश्वो नराधिपः
मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः  ९२
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत्
साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि  ९३
पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य वै
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ द्विजाः  ९४
पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम्
पुरुकुत्ससुतस्त्वासीत्त्रसदस्युर्महीपतिः  ९५
नर्मदायामथोत्पन्नः संभूतस्तस्य चात्मजः
संभूतस्य तु दायादस् त्रिधन्वा रिपुमर्दनः  ९६
राज्ञस्त्रिधन्वनस्त्वासीद्विद्वांस्त्रय्यारुणः प्रभुः
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः  ९७
परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः
येन भार्या कृतोद्वाहा हृता चैव परस्य ह  ९८
बाल्यात्कामाच्च मोहाच्च साहसाच्चापलेन च
जहार कन्यां कामार्तः कस्यचित्पुरवासिनः  ९९
अधर्मशङ्कुना तेन तं स त्रय्यारुणोऽत्यजत्
अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः  १००
सोऽब्रवीत्पितरं त्यक्तः क्व गच्छामीति वै मुहुः
पिता च तमथोवाच श्वपाकैः सह वर्तय  १०१
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन
इत्युक्तः स निराक्रामन्नगराद्वचनात्पितुः  १०२
न च तं वारयामास वसिष्ठो भगवानृषिः
स तु सत्यव्रतो विप्राः श्वपाकावसथान्तिके  १०३
पित्रा त्यक्तोऽवसद्वीरः पिताप्यस्य वनं ययौ
ततस्तस्मिंस्तु विषये नावर्षत्पाकशासनः  १०४
समा द्वादश भो विप्रास्तेनाधर्मेण वै तदा
दारांस्तु तस्य विषये विश्वामित्रो महातपाः  १०५
संन्यस्य सागरान्ते तु चकार विपुलं तपः
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्  १०६
शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन वै
तं च बद्धं गले दृष्ट्वा विक्रयार्थं नृपात्मजः  १०७
महर्षिपुत्रं धर्मात्मा मोक्षयामास भो द्विजाः
सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत्  १०८
विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च
सोऽभवद्गालवो नाम गले बन्धान्महातपाः
महर्षिः कौशिको धीमांस्तेन वीरेण मोक्षितः  १०९
इति श्रीब्राह्मे महापुराणे सूर्यवंशनिरूपणं नाम सप्तमोऽध्यायः  ७
<b>सूर्यवंश-वर्णनम्</b>
<b>लोमहर्षण उवाच</b>
सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया।
विश्वामित्रकलत्रं तु बभार विनये स्थितः॥ ८.१ ॥
हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान्।
विश्वामीत्राश्रमाब्यासे मांसं वृक्षे बबन्ध च ॥ ८.२ ॥
उपांशुव्रतमास्ताय दीक्षां द्वादशवार्षिकीम्।
पितुर्नियोगादवसत्तस्मिन् वनगते ऩपे॥ ८.३ ॥
अयोध्यां चैव राज्यं च तथैवान्तः पुरं मुनिः।
याज्योपाध्यायसंयोगाद्वसिष्ठः पर्य्यरक्षत॥ ८.४ ॥
सद्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वै बलात्।
वसिष्ठेऽभ्यधिकं मन्युं धारयामास नित्यशः॥ ८.५ ॥
पित्रा हि तं तदा राष्ट्रात्त्यज्यमानं प्रियं सुतम्।
निवारयामास मुनिर्बहुना कारणेन च॥ ८.६ ॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे।
न च सत्यव्रतस्तस्माद्धृतवान् सप्तमे पदे॥ ८.७ ॥
जानन् धर्म्मवसिष्ठस्तु न मां त्रातीति भो द्विजाः।
सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत्॥ ८.८ ॥
गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तथा।
न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत॥ ८.९ ॥
तस्मिन्नपरितोषश्च पितुरासीन्महात्मनः।
तेन द्वादश वर्षाणि नावर्षत् पाकशासनः॥ ८.१० ॥
तेन त्विदानीं विहतां दीक्षां तां दुर्वहां भुवि।
कुलस्य निष्कृतिर्विप्राः कृता सा वै भवेदिति॥ ८.११ ॥
न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत्।
अभिषेक्ष्याम्यहं पुत्रमस्येत्येवंमतिर्म्मुनिः॥ ८.१२ ॥
स तु द्वादश वर्षाणि तां दीक्षामवहद्बली।
अविद्यामाने मांसे तु वसिष्ठस्य महात्मनः॥ ८.१३ ॥
सर्व्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः।
तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः॥ ८.१४ ॥
देवशधर्म्मगतो राजा जघान मुनिसत्तमाः।
तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान्॥ ८.१५ ॥
भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे॥ ८.१६ ॥
<b>वसिष्ठ उवाच</b>
पातयेयमहं क्रूर तव शङ्कुमसंशयम्।
यदि ते द्वाविमौ शङ्कू न स्यातां वै कृतौ पुनः॥ ८.१७ ॥
पितुश्चापरितोषेण भुरुदोग्व्रीवधेन च।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः॥ ८.१८ ॥
एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः।
त्रिशङ्कुरिति होवाचत्रिशङ्कुस्तेन स स्मृतः॥ ८.१९ ॥
विश्वामित्रस्य दाराणामनेन भरणं कृतम्।
तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे॥ ८.२० ॥
छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः।
शशरीरो व्रजे स्वर्गमित्येवं याचितो वरः॥ ८.२१ ॥
अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ।
पित्र्ये राज्येऽभिषिच्याथ याजयामास पार्थिवम्॥ ८.२२ ॥
मिषतां देवतानां च वसिष्ठस्य च कौशिकः।
दिवमारोपयामास सशरीरं महातपाः॥ ८.२३ ॥
तस्य सत्यरथा नाम पत्नी कैकेयवंशजा।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्॥ ८.२४ ॥
स वै राजा हरिश्चन्द्रस्क्षैशङ्कव इति स्मृतः।
आहर्त्ता राजसूयस्य सम्रडिति ह विश्रुतः॥ ८.२५ ॥
हरिश्चन्द्रस्य पुत्रोऽभूद्रोहितो नाम पार्थिवः।
हरितो रोहितस्याथ चञ्चुर्हारित उच्यते॥ ८.२६ ॥
विजयश्च मुनिश्रेष्ठाश्चञ्चुपुत्रो बभूव ह।
जेता स सर्व्वपृथिवीं विजयस्तेन स स्मृतः॥ ८.२७ ॥
रुरुकस्तनयस्तस्य राजा धर्म्मर्थकोविदः।
रुरुकस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान्॥ ८.२८ ॥
हैहयास्तलजङघाश्च निरस्यन्ति स्म तं नृपम्।
तत्पत्नी गर्भमादाय और्व्वस्याश्रममाविशत्॥ ८.२९ ॥
नासत्यो धार्म्मकश्चैव स हि धर्मम्मुगेऽभवत्।
सगरस्तु सुतो बाहोर्यज्ञे सह गरेण वै॥ ८.३० ॥
और्व्वस्याश्रममासाद्य भार्गवेमाभिरक्षितः।
आग्नेयमस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः॥ ८.३१ ॥
जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान्।
शकानां पह्लवानां च धर्मं निरसदच्युतः।
क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्म्मवित्॥ ८.३२ ॥
<b>मुनय ऊचुः</b>
कथं स सगरो जातो गरेणैव सहाच्युतः।
किमर्थं च शकादीनां क्षत्रियाणांमहौजसाम्॥ ८.३३ ॥
धर्म्मान्कुलोचितान् राजा क्रुद्धो निरसदच्युतः।
एतन्नः सर्व्वमाचक्ष्व विस्तरेण महामते॥ ८.३४ ॥
<b>लोमहर्षण उवाच</b>
वाहोर्व्यसनिनः पूर्व्वं हृतं राज्यमभूत् किल।
हैहयैस्तालङ्जघैश्च शकैः सार्द्ध द्विजोत्तमाः॥ ८.३५ ॥
यवनाः पारदाश्चैव काम्बोजाः पह्लवास्तथा।
एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमम्॥ ८.३६ ॥
हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ।
पत्न्या चानुगतो दुःखी तत्र प्राणानवासृजत्॥ ८.३७ ॥
पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात्।
सपत्न्या च गरस्तस्यै दत्तः पूर्व्व किलानघाः॥ ८.३८ ॥
सा तु भर्त्तुश्चितां कृत्वा वने तामभ्यरोहत।
और्व्वस्तां भार्गवो विप्राः कारुण्यात् समवारयत्॥ ८.३९ ॥
तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः।
व्यजायत महाबाहुः सगरो नाम पार्थिवः॥ ८.४० ॥
और्व्वस्तु जातकर्म्मादींस्तस्य कृत्वा महात्मनः।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं ततोऽस्त्रं प्रत्यपादयत्॥ ८.४१ ॥
आग्नेयं तु महाभागा अमरैरपि दुःसहम्।
स तेनास्त्रबलेनाजौ बलेन च समन्वितः॥ ८.४२ ॥
हचैहयान् विजघानाशु क्रुद्धो रुद्रः पशूनिव।
आजहार च लोकेषु कीर्त्तिं कीर्त्तिमतां वरः॥ ८.४३ ॥
ततः शकांश्च यवनान् काम्बोजान् पारदांस्तथा।
पहलवांश्चैव निःशोषान् कर्त्तु व्यवसितो नृपः॥ ८.४४ ॥
ते वध्यमाना वीरेण सगरेम महात्मना।
वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम्॥ ८.४५ ॥
वसिष्ठस्त्वथ तान् दृष्ट्वा समयेन महाद्युतिः।
सगरं वारयामास तेषां दत्त्वाभयं तदा॥ ८.४६ ॥
सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निश्म्य च।
धर्म्मं जघान तेषां वै वेशानन्यांश्चकार ह॥ ८.४७ ॥
अर्द्ध शकानां शिरसो मुण्डयित्वा व्यसर्जयत्।
यवनानां शिरः सर्व्वं काम्बोजानां तथैव च॥ ८.४८ ॥
पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना॥ ८.४९ ॥
शका यवनकाम्बोजाः पारदाश्च द्विजोत्तमाः।
कोणिसर्पा माहिषका दर्व्वाश्चोलाः सकेरलाः॥ ८.५० ॥
सर्व्वे ते क्षत्रिया विप्रा धर्म्मस्तेषां निराकृतः।
वसिष्ठवचनाद्राज्ञा सगरेण महात्मना॥ ८.५१ ॥
स धर्म्मविजयी राजा विजित्येमां वसुन्धराम्।
अश्वं प्रचारयामास वाजिमेधाय दीक्षितः॥ ८.५२ ॥
तस्य चारयतः सोऽश्वः समुद्रे पूर्व्वदक्षिणे।
वैलासमीपेऽपहृतो भूमिं चैव प्रवेशितः॥ ८.५३ ॥
स तं देशं तदा पुत्रैः खानयामास पार्थिवः।
आसेदुस्ते तदा तत्र ख्न्यमाने महार्णवे॥ ८.५४ ॥
तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम्।
विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा॥ ८.५५ ॥
तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः।
दग्धाः सर्व्वे मुनिश्रेष्ठाश्चत्वारस्त्ववशेषिताः॥ ८.५६ ॥
बर्हिकेतुः सुकेतुश्च तथआ धर्म्मरथो नृपः।
शूरः पञ्चनदश्चैव तस्य वंशकरा नृपाः॥ ८.५७ ॥
प्रादाच्च तस्मै भगवान् हरिर्नारायणो वरम्।
आक्षयं वंशमिक्ष्वाकोः कीर्त्तिं चाप्यनिवर्त्तिनीम्॥ ८.५८ ॥
पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम्।
समुद्रश्चार्ध्यमादाय ववन्दे तं महीपतिम्॥ ८.५९ ॥
सागरत्वं च लेभे स कर्म्मणा तेन तस्य ह।
तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्॥ ८.६० ॥
आजहाराश्वमेधानां शतं स सुमहातपाः।
पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम्॥ ८.६१ ॥
<b>मुनय ऊचुः</b>
सगरास्यात्मजा धीराः कथं जाता महाबलाः।
विक्रान्ताः षष्टिसाहस्राः चिधिना केन सत्तम॥ ८.६२ ॥
<b>लोमहर्षण उवाच</b>
द्वे भार्य्ये सगरस्यास्तां तपसा दग्धकिल्विषे।
ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः॥ ८.६३ ॥
कनीयसी तु महती पत्नी परमधर्म्मिणी।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि॥ ८.६४ ॥
प्रौर्व्वस्ताभ्यां वरं प्रादात्तद्बुध्यध्वं द्विजोत्तमाः।
षष्टिं पुत्रसहस्राणि गृह्णात्वेका नितम्बिनी॥ ८.६५ ॥
एकं वंशधरं त्वेका यथेष्टं वरयत्विति।
तत्रैका जगृहे पुत्रान् षष्टिसाहस्रसम्मितान्॥ ८.६६ ॥
एकं वंशधरं त्वेका तथेत्याह ततो मुनिः।
राजा पञ्चजनो नाम बभूव स महाद्युतिः॥ ८.६७ ॥
इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः।
तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः॥ ८.६८ ॥
संबभूवुर्यथाकालं ववृधुश्च यथासुखम्।
घृतपूर्णेषु कुम्भेषु तान् गर्भान्निदधे ततः॥ ८.६९ ॥
घात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृपः।
ततो दशसु मासेषु समुत्तस्थुर्यथाक्रमम्॥ ८.७० ॥
कुमारास्ते यथाकालं सगरप्रीतिवर्द्धनाः।
षष्टिपुत्रसहस्राणि तस्यैवमभवन् द्विजाः॥ ८.७१ ॥
गर्भादलाबुमध्याद्वै जातानि पृथिवीपतेः।
तेषां नारायणं तेजः प्रविष्टानां महात्मनाम्॥ ८.७२ ॥
एकः पञ्चजनो नाम पुत्रो राजा बभूव ह।
शूरः पञ्चजनस्यासीदंशुमान्नाम वीर्य्यवान्॥ ८.७३ ॥
दिलीपस्तस्य तनयः खट्वाङ्ग इति विश्रुतः।
येन स्वर्गादिहागत्य मुहूर्त्त प्राप्य जीवितम्॥ ८.७४ ॥
त्रयोऽभिसन्धिता लोका बुद्धया सत्येन चानघाः।
दिलीपस्य तु दायादो महाराजो भगीरथः॥ ८.७५ ॥
यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः।
समुद्रमानयच्चैनां दुहितृत्वेऽप्यकल्पयत्॥ ८.७६ ॥
तस्माद्भागीरथी गङ्गा कथ्यते वंशचिन्तकैः।
भगीरथसुतो राजा श्रुता इत्यभिविश्रुतः॥ ८.७७ ।
नाभागस्तु श्रुतस्यासीत् पुत्रः परमधार्म्मिकः।
अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत्॥ ८.७८ ॥
अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्य्यवान्।
अयुताजित्सुतस्त्वीसीदृतुपर्णो महायशाः॥ ८.७९ ॥
दिव्याक्षहृदयज्ञो वै राजाच नलसखो बली।
ऋतुपर्णसुतस्त्वासीदात्तपर्णिर्महायशाः॥ ८.८० ॥
सुदासस्तस्य तनयो राजा इन्द्रसखोऽभवत्।
सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः॥ ८.८१ ॥
ख्यातः कल्माषपादो वै राजा मित्रसहोऽभवत्।
कल्माषपादस्य सुतः सर्व्वकर्म्मेति विश्रुतः॥ ८.८२ ॥
अनरण्यस्तु पुत्रोऽभूद्विश्रुतः सर्व्वकर्म्मणः।
अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः॥ ८.८३ ॥
अनमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ।
अनमित्रसुतो राजा विद्वान् दुलिदुहोऽभवत्॥ ८.८४ ॥
दिलीपस्तनयस्तस्य रामस्य प्रपितामहः।
दीर्घबाहुर्दिलीपस्य रघुर्नाम्ना सुतोऽभवत्॥ ८.८५ ॥
अयोध्यायां महाराजो यः पुरासीन्महाबलः।
अजस्तु राघवो जज्ञे तथा दशरथोऽप्यजात्॥ ८.८६ ॥
रामो दशरथाज्जज्ञे धर्म्मात्मा सुमहायशः
रामस्य तनयो जज्ञे कुश इत्यभिसंज्ञितः॥ ८.८७ ॥
अतिथिस्तु कुशाज्जज्ञे धर्म्मात्मा सुमहायशाः।
अतिथेस्त्वभवत्पुत्रो निषधो नाम वीर्य्यवान्॥ ८.८८ ॥
निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु।
नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः॥ ८.८९ ॥
क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान्।
आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः॥ ८.९० ॥
अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः।
सुधन्वनः सुतश्चापि ततो जज्ञे शलो नृपः॥ ८.९१ ॥
उक्यो नाम म धर्म्मात्मा शलपुत्रो बभूव ह।
वज्रनाभः सुतस्तस्य नलस्तस्य महात्मनः॥ ८.९२ ॥
नलौ द्वावेव विख्यातौ पुराणे मुनिसत्तमाः।
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः॥ ८.९३ ॥
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्त्तिताः।
एते विवस्वतो वंशे राजानो भूरितेजसः॥ ८.९४ ॥
पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च।
प्रजावानेति सायुज्यमादित्यस्य विवस्वतः॥ ८.९५ ॥
इति श्रीब्राह्मे महापुराणे आदित्यवंसानुकीर्त्तनं नामाष्टमोऽध्यायः॥ ८ ॥
<b>तत्रादौ सोमोत्पत्ति-वर्णनम्</b>
<b>लोमहर्षण उवाच</b>
पिता सोमस्य भो विप्रा जज्ञेऽत्रिर्भगवानृषिः।
ब्रह्मणो मानसात्पूर्व्वं प्रजासर्गं विधित्सतः॥ ९.१
अनुत्तरं नाम तपो येन तप्तं हि तत्पुरा।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम्॥ ९.२ ॥
ऊर्द्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवान्।
नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः॥ ९.३ ॥
तं गर्भं विधिनादिष्टा दश देव्यो दधुस्ततः।
समेत्य धारयामासुर्न च ताः समशवनुवन्॥ ९.४ ॥
यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः।
ततस्ताभिः स त्यक्तस्तु निपपात वसुन्धराम्॥ ९.५ ॥
पतितं सोममालोक्य ब्रह्मा लोकपितामहः।
रथमारोपयामास लोकानां हितकाम्यया। ९.६ ॥
तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि।
तुष्टुवुर्ब्रह्मणः पुत्रास्ततथान्ये मुनिसत्तमाः॥ ९.७ ॥
तस्य संस्तूयमानस्य तेजः पृथिवीमन्वपद्यत।
ओप्यायनाय लकानां भावयामास सर्व्वतः॥ ९.८ ॥
स तेन रथमुख्येन सागरान्तां वसुन्धराम्।
त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणाम्॥ ९.९ ॥
तस्य यच्चरितं तेजः पृथिवीमन्वपद्यत।
ओषध्यस्ताः समुद्भूता याभिः सन्धार्यते जगत्॥ ९.१० ॥
स लब्धतेजा भगवान् संस्तवैश्च स्वकर्म्मभिः।
तपस्तेपे महाभागः पद्मानां दर्शनाय सः॥ ९.११ ॥
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदांवरः।
वीजौषधीनां विप्राणामपां च मुनिसत्तमाः॥। ९.१२
स तत्प्राप्य महाराज्यं सोमः सौम्यवतांवरः।
समाजह्रे राजसूयं सहस्रशतदक्षिणम्॥ ९.१३ ॥
दक्षिणामददात् सोमस्त्रींल्लोकानिति नः श्रुतम्।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विजाः॥ ९.१४ ॥
हिरण्यगर्भो ब्रह्मात्रिर्भृगुश्च ऋत्विजोऽभवत्।
सदस्योऽभूद्धरिस्तत्र मुनिभिर्बहुभिर्वृतः॥ ९.१५ ॥
तं सिनीश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः।
कीर्त्तिर्धृतिश्च लक्षमीश्च नव देव्यः सिषेविरे॥ ९.१६ ॥
प्राप्यावभृथमप्यग्र्यं सर्व्वदेवर्षिपूजितः।
विरराजाधिराजेन्द्रो दशधा भासयन् दिशः॥ ९.१७ ॥
तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्य्यमृषिसत्कृतम्।
विबभ्राम मतिस्ताताविनयादनया हृता॥ ९.१८ ॥
बृहस्पतेः स वै भार्य्यामैश्वर्य्यमृषिसत्कृतम्।
विबभ्राम मतिस्ताताविनयादनयाहृता॥ ९.१९ ॥
स याच्यमानो देवैश्च तथा देवर्षिभिर्मुहुः।
नैव व्यसर्ज्जयत्तारां तस्मा अङ्गिरसे तदा॥ ९.२० ॥
उशना तस्य जग्राह पार्ष्णिमङ्गिरसस्तथा।
रुद्रश्च पार्ष्णि जग्राह गृहीत्वाजगवं धनुः॥ ९.२१ ॥
तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना।
उदिदश्य देवानुत्सृष्टं येनैषां नाशितं यशः॥ ९.२२ ॥
तत्र तद्युद्धमभवत् प्रख्यातं तारकामयम्।
देवानां दानवानाञ्च लोकक्षयकरं महत्॥ ९.२३ ॥
तत्र शिष्टाश्च ये देवास्तुषिताश्चैव ये द्विजाः।
ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम्॥ ९.२४ ॥
तदा निवार्य्योशनसं तं वै रुद्रञ्च शङ्करम्।
ददावाङ्गिरसे तारां स्वयमेव पितामहः॥ ९.२५ ॥
तामन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः।
मदीयायां न ते योनौ गर्भो धार्य्यः कथञ्चनः॥ ९.२६ ॥
इषीकास्तम्बमासाद्य गर्भं सा चोत्ससर्ज्ज ह।
जातमात्रः स भगवान् देवानामाक्षिपद्वपुः॥ ९.२७ ॥
ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः।
सत्यं ब्रूहि सुतः कस्य सोमस्ताथ बृहस्पतेः॥ ९.२८ ॥
पृच्छ्यमाना यदा देवैर्नाह सा विबुधान् किल।
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः॥ ९.२९ ॥
तं निवार्य्य ततो ब्रह्मा तारां प्रपच्छ संशयम्.
यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम्॥ ९.३० ॥
उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम्।
तदा तं मूर्ध्नि चाघ्राय सोमो राजासुतं प्रति॥ ९.३१ ॥
बुध इत्यकरोन्नाम तस्य बालस्य धीमतः।
प्रतिकूलञ्च गगने समभ्युत्तिष्ठते बुधः॥ ९.३२ ॥
उत्पादयामास तदा पुत्रं वै राजपुत्रिकम्।
तस्यापत्यं महातेजाः बभूवैलः पुरूरवाः॥ ९.३३ ॥
उर्व्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः।
एतत् सोमस्य वो जन्म कीर्त्तितं कीर्त्तिवर्द्धनम्॥ ९.३४ ॥
वंशमस्य मुनिश्रेष्ठाः कीर्त्त्यमानं निबोधत।
धन्यमायुष्यमारोग्यं पुण्यं सङ्कल्पसाधनम्॥ ९.३५ ॥
सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते॥ ९.३६ ॥
इति श्रीबाह्मे महापुराणे सोमोत्पत्तिकथनं नाम नवमोऽध्यायः॥ ९ ॥
{लोमहर्षण उवाच॒ }
बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः॥ १०.१॥
ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः।
आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः॥ १०.२॥(1.8.2)
सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः।
अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा॥ १०.३॥
तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम्।
उर्वशी वरयामास हित्वा मानं यशस्विनी॥ १०.४॥
तया सहावसद्राजा दश वर्षाणि पञ्च च।
षट्पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः॥ १०.५॥
वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे।
अलकायां विशालायां नन्दने च वनोत्तमे॥ १०.६॥
उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान्।
गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे॥ १०.७॥
एतेषु वनमुख्येषु सुरैराचरितेषु च।
उर्वश्या सहितो राजा रेमे परमया मुदा॥ १०.८॥
देशे पुण्यतमे चैव महर्षिभिरभिष्टुते।
राज्यं स कारयामास प्रयागे पृथिवीपतिः॥ १०.९॥
एवंप्रभावो राजासीदैलस्तु नरसत्तमः।
उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः॥ १०.१०॥
{लोमहर्षण उवाच॒ }
ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः।
गन्धर्वलोके विदिता आयुर्धीमानमावसुः॥ १०.११॥
विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः।
दृढायुश्च वनायुश्च बह्वायुश्चोर्वशीसुताः॥ १०.१२॥
अमावसोस्तु दायादो भीमो राजाथ राजराट्।
श्रीमान् भीमस्य दायादो राजासीत्काञ्चनप्रभः॥ १०.१३॥
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः।
सुहोत्रस्याभवज्जह्नुः केशिन्या गर्भसंभवः॥ १०.१४॥
आजह्रे यो महत्सत्त्रं सर्पमेधं महामखम्।
पतिलोभेन यं गङ्गा पतित्वेन ससार ह॥ १०.१५॥
नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः।
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः॥ १०.१६॥
सौहोत्रिरशपद्गङ्गां क्रुद्धो राजा द्विजोत्तमाः।
एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम्॥ १०.१७॥
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि।
जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः॥ १०.१८॥
उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम्।
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत्॥ १०.१९॥
युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता।
कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम्॥ १०.२०॥
जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्मिकम्।
कावेर्यां जनयामास अजकस्तस्य चात्मजः॥ १०.२१॥
अजकस्य तु दायादो बलाकाश्वो महीपतिः।
बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत्॥ १०.२२॥
कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः।
कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा॥ १०.२३॥
बल्लवैः सह संवृद्धो राजा वनचरः सदा।
कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः॥ १०.२४॥
लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान्।
पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत॥ १०.२५॥
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः।
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः॥ १०.२६॥
पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः।
स गाधिरभवद्राजा मघवान् कौशिकः स्वयम्॥ १०.२७॥
पौरा यस्याभवद्भार्या गाधिस्तस्यामजायत।
गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा॥ १०.२८॥
तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः।
तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः॥ १०.२९॥
पुत्रार्थं साधयामास चरुं गाधेस्तथैव च।
उवाचाहूय तां भार्यामृचीको भार्गवस्तदा॥ १०.३०॥
उपयोज्यश्चरुरयं त्वया मात्रा स्वयं शुभे।
तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः॥ १०.३१॥
अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः।
तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम्॥ १०.३२॥
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति।
एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः॥ १०.३३॥
तपस्यभिरतो नित्यमरण्यं प्रविवेश ह।
गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात्॥ १०.३४॥
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः।
चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा॥ १०.३५॥
चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत्।
माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ॥ १०.३६॥
तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह।
अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा॥ १०.३७॥
धारयामास दीप्तेन वपुषा घोरदर्शना।
तामृचीकस्ततो दृष्ट्वा योगेनाभ्युपसृत्य च॥ १०.३८॥
ततोऽब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम्।
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना॥ १०.३९॥
जनयिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः।
भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः॥ १०.४०॥
विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम्।
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा॥ १०.४१॥
प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत्।
ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत्॥ १०.४२॥
{ऋचीक उवाच॒ }
नैष संकल्पितः कामो मया भद्रे तथास्त्विति।
उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात्॥ १०.४३॥
पुनः सत्यवती वाक्यमेवमुक्त्वाब्रवीदिदम्।
इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम्॥ १०.४४॥
शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि।
काममेवंविधः पौत्रो मम स्यात्तव च प्रभो॥ १०.४५॥
यद्यन्यथा न शक्यं वै कर्तुमेतद्द्विजोत्तम।
ततः प्रसादमकरोत्स तस्यास्तपसो बलात्॥ १०.४६॥
पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि।
त्वया यथोक्तं वचनं तथा भद्रे भविष्यति॥ १०.४७॥
ततः सत्यवती पुत्रं जनयामास भार्गवम्।
तपस्यभिरतं दान्तं जमदग्निं समात्मकम्॥ १०.४८॥
भृगोर्जगत्यां वंशेऽस्मिञ्जमदग्निरजायत।
सा हि सत्यवती पुण्या सत्यधर्मपरायणा॥ १०.४९॥
कौशिकीति समाख्याता प्रवृत्तेयं महानदी।
इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः॥ १०.५०॥
तस्य कन्या महाभागा कामली नाम रेणुका।
रेणुकायां तु कामल्यां तपोविद्यासमन्वितः॥ १०.५१॥
आर्चीको जनयामास जामदग्न्यं सुदारुणम्।
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्॥ १०.५२॥
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्।
और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः॥ १०.५३॥
जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः।
मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः॥ १०.५४॥
विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः।
जनयामास पुत्रं तु तपोविद्याशमात्मकम्॥ १०.५५॥
प्राप्य ब्रह्मर्षिसमतां योऽयं ब्रह्मर्षितां गतः।
विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः॥ १०.५६॥
जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्धनः।
विश्वामित्रस्य च सुता देवरातादयः स्मृताः॥ १०.५७॥
प्रख्यातास्त्रिषु लोकेषु तेषां नामान्यतःपरम्।
देवरातः कतिश्चैव यस्मात्कात्यायनाः स्मृताः॥ १०.५८॥
शालावत्यां हिरण्याक्षो रेणुर्जज्ञेऽथ रेणुकः।
सांकृतिर्गालवश्चैव मुद्गलश्चैव विश्रुतः॥ १०.५९॥
मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः।
कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः॥ १०.६०॥
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम्।
पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च॥ १०.६१॥
पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः।
लोहिता यमदूताश्च तथा कारूषकाः स्मृताः॥ १०.६२॥
पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च।
संबन्धोऽप्यस्य वंशेऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः॥ १०.६३॥
विश्वामित्रात्मजानां तु शुनःशेफोऽग्रजः स्मृतः।
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः॥ १०.६४॥
विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवत्किल।
हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः॥ १०.६५॥
देवैर्दत्तः शुनःशेफो विश्वामित्राय वै पुनः।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत्॥ १०.६६॥
देवरातादयः सप्त विश्वामित्रस्य वै सुताः।
दृषद्वतीसुतश्चापि वैश्वामित्रस्तथाष्टकः॥ १०.६७॥
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया।
अत ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः॥ १०.६८॥
<b>तत्रादौ सोमवंशवर्मनम्</b>
<b>लोमहर्षण उवाच</b>
आयोः पुत्राश्च ते पञ्च सर्व्वे वीरा महारथाः।
स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः॥ ११.१ ॥
नहुषः प्रथमं जज्ञे वृद्धशर्म्मा ततः परम्।
रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः॥ ११.२ ॥
रजिः पुत्रशतानीह जनयामासं पञ्च वै।
राजेयमिति विख्यातं क्षत्रमिन्द३भयावहम्॥ ११.३ ॥
यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन्॥ ११.४ ॥
<b>देवासुरा ऊचुः</b>
आवयोर्भगवन् युद्धे को विजेता भविष्यति।
ब्रूहि नः सर्व्वभूतेश श्रोतुमिच्छाम तत्त्वतः॥ ११.५ ॥
येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः।
योत्स्यते ते विजेष्यन्ति त्रींल्लोकान्नात्र संशयः॥ ११.६ ॥
यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः।
यतो धृतिश्च श्रीश्चैव धर्म्मस्तत्र जयस्तथा॥ ११.७ ॥
ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा।
अभ्ययुर्जयमिच्छन्तो वृण्वानास्तं नरर्षभम्॥ ११.८ ॥
स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत।
राजा परमतेजेस्वी सोमवंशविवर्द्धनः॥ ११.९ ॥
ते हृष्टमनसः सर्व्वे रजिं वै देवदानवाः।
ऊचुरस्मज्जयाय त्वं गृहाण वरकार्म्मुकम्॥ ११.१० ॥
अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः।
अर्थज्ञः स्वर्थमुदिदश्य यशः स्वं च प्रकाशयन्॥ ११.११ ॥
<b>रजिरुवाच</b>
यदि दैत्यगणान् सर्व्वान् जित्वा वीर्य्येण वासवः।
इन्द्रो भवामि धर्म्मेण ततो योत्स्यामि संयुगे॥ ११.१२ ॥
देवाः प्रथमतो विप्राः प्रतीयुर्हृष्टमानसाः।
एवं यथेष्टं नृपते कामः सम्पद्यतां तव॥ ११.१३ ॥
श्रुत्वा सुरागणानान्तु वाक्यं राजा रजिस्तदा।
पप्रच्छासुरमुक्यांस्तु यथा देवानपृच्छत॥ ११.१४ ॥
दानवा दर्पसम्पूर्णाः स्वार्थमेवावगम्य ह।
प्रत्यूचुस्तं नृपवरं साभिमानमिदं वचः॥ ११.१५ ॥
<b>दानवा ऊचुः</b>
अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे।
अस्मिंस्तु समरे राजंस्तिष्ठ त्वं राजसत्तम॥ ११.१६ ॥
स तथेति ब्रुवन्नेव देवैरप्यतिचोदितः।
भविष्यसीन्द्रो जित्वैनं देवैरुक्तस्तु पार्थिवचः॥ ११.१७ ॥
जघान दानवान् सर्व्वान् येऽवध्या वज्रपाणिनः।
स विप्रनष्टां देवानां परमश्रीः श्रियं वशी॥ ११.१८ ॥
निहत्य दानवान् सर्व्वानाजहार रजिः प्रभुः।
ततो रजिं महावीर्य्यं देवैः सह शतक्रतुः॥ ११.१९ ॥
रजिपुत्रोऽहमित्युवत्वा पुनरेवाब्रवीद्वचः।
इन्द्रोऽसि तात देवानां सर्व्वेषां नात्र संशयः। ११.२० ॥
यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्म्मभिः।
स तु शत्रुवचः श्रुत्वा वञ्चितस्तेन मायया॥ ११.२१ ॥
तथैवेत्यब्रवीद्राजा प्रीयमाणः शतक्रतुम्।
तस्मिंस्तु देवैः सदृशे दिवं प्राप्ते महीपतौ॥ ११.२२ ॥
दायाद्यमिन्द्रादाजह्रुः राज्यं तत्तनया रजेः।
पञ्च पुत्रशतान्यस्य तद्वै स्तानं शतक्रतोः॥ ११.२३ ॥
समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम्।
ते यदा तु स्वम्मूढा रागोन्मत्ता विधर्म्मिणः॥ ११.२४ ॥
ब्रह्मद्विषश्च संवृत्ता हतवीर्य्यपराक्रमाः।
ततो लेभे स्वमैस्वर्य्यमिन्द्रः स्थानं तथोत्तमम्॥ ११.२५ ॥
हत्वा रजिसुतान् सर्व्वान् कामक्रोधपरायणान्।
य इदं च्यावनं स्थानात्प्रतिष्ठानं शतक्रतोः।
श्रृणुयाद्धारयेद्वापि न स दौर्गत्यमाप्नुयात्॥ ११.२६ ॥
<b> लोमहर्षण उवाच</b>
रम्भोऽनपत्यस्त्वासीच्च वंशं वक्ष्याम्यनेनसः।
अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः॥ ११.२७ ॥
प्रतिक्षत्रसुतश्चासीत् सञ्जयो नाम विश्रुतः।
सञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः॥ ११.२८ ॥
विजयस्य कृतिः पुत्रस्तस्य हर्य्यत्वतः सुतः।
हर्य्यत्वतसुतो राजा सहदेवः प्रतापवान्॥ ११.२९ ॥
सहदेवस्य धर्म्मात्मा नदीन इति विश्रुतः।
नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः॥ ११.३० ॥
सङ्कृतेरपि धर्म्मात्मा क्षत्रवृद्धो महायशाः।
अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः। ११.३१ ॥
क्षत्रवृद्धात्मत्मजस्तत्र सुनहोत्रो महायशाः।
सुनहोत्रस्य दायादास्त्रयः पमधार्मिकाः॥ ११.३२ ॥
काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः।
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः॥ ११.३३ ॥
ब्रह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च।
शलात्मज आर्ष्टिसेनस्तनयस्तस्य काश्यपः॥ ११.३४ ॥
काशस्य काशिपो राजा पुत्रो दीर्घतपास्तथा।
धनुस्तु दीर्घतपसो विद्वान् धन्वन्तरिस्ततः॥ ११.३५ ॥
तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः।
पुनर्धन्वन्तरिर्देवो मानषेष्विह जन्मनि॥ ११.३६ ॥
तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा।
काशिराजो महाराजः सर्व्वरोगप्रणाशनः॥ ११.३७ ॥
आयुर्व्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियः।
तमष्टधा पुनर्व्व्यस्य शिष्येभ्यः प्रत्यपादयत्॥ ११.३८ ॥
धन्वन्तरेस्तु तनयः केतुमानिति वश्रुतः।
अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः॥ ११.३९ ॥
पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः।
दिवोदासस्तु धर्म्मात्मा वाराणस्यधिपोऽभवत्॥ ११.४० ॥
एतस्मिनेव काले तु पुरीं वाराणसीं द्विजाः।
शून्यां निवेशयामास क्षेमको नाम राक्षशः॥ ११.४१ ॥
शप्ता हि सा मतिमता निकुम्बेन महात्मना।
शून्या वर्षसहस्रं वै भवित्री तु न संशयः॥ ११.४२ ॥
तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः।
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत्॥ ११.४३ ॥
भद्रश्रेण्यस्य पूर्व्वं तु पुरी वाराणसी ह्यभूत्।
भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम्॥ ११.४४ ॥
हत्वा निवेशयामास दिवोदासो नराधिपः।
भद्रश्रेण्यस्य तद्राज्यं हृतं येन बलीयसा ॥ ११.४५ ॥
भद्रश्रेष्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः।
दिवोदासेन बालेति घृणया स विसर्जितः॥ ११.४६ ॥
हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः।
आजह्रे पितृधायाद्यं दिवोदासहृतं बलात्॥ ११.४७ ॥
भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना।
वैरस्यान्तो महाभागाः कृतश्चात्मीयतेजसा॥ ११.४८ ॥
दिवोदासाद्दुषद्वत्यां वीरो जज्ञे प्रतर्दनः।
तेन बालेन पुत्रेण प्रहृतं तु पुनर्बलम्॥ ११.४९ ॥
प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ।
वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः॥ ११.५० ॥
अलर्कस्तस्य पुत्रस्तु ब्रह्मण्यः सत्यसङ्गरः।
अलर्कं प्रति राजर्षिः श्लोको गीतः पुरातनैः॥ ११.५१ ॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च।
युवा रूपेण सम्पन्नः प्रागासीच्च कुलोद्वहः॥ ११.५२ ॥
लोपामुद्राप्रसादेन परमायुरवाप्तवान्।
तस्यासीत् सुमहद्राज्यं रूपयौवनसालिनः॥ ११.५३ ॥
शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम्।
रम्यां निवेशयामास पुरीं वाराणसीं पुनः। ११.५४ ॥
सन्नतेरपि दायादः सुनीथो नाम धार्मिकः।
सुनीथस्य तु दायादः क्षेमो नाम महायशाः॥ ११.५५ ॥
क्षेमस्य केतुमान् पुत्रः सुकेतुस्तस्य चात्मजः।
सुकेतोस्तनयश्चापि धर्म्मकेतुरिति स्मृतः॥ ११.५६ ॥
धर्म्मकेतोस्तु दायादः सत्यकेतुर्महारथः।
सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः॥ ११.५७ ॥
आनर्त्तस्तु विभोः पुत्रः सुकुमारश्च तत्सुतः।
सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः॥ ११.५८ ॥
धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः।
वेणुहोत्रसुतश्चापि भार्गो नाम प्रजेश्वरः॥ ११.५९ ॥
वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गजः।
एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे॥ ११.६० ॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयः पुत्राः सहस्रशः।
इत्येते काश्यपाः प्रोक्ता नहुषस्य निबोधत॥ ११.६१ ॥
इति श्रीब्राह्मे महापुराणे सोमवंशे वृद्धक्षत्रप्रसूतिनिरूपणं नामैकादशोऽध्यायः॥ ११ ॥
<b>सोमवंशवर्णन आयुवंश-वर्मनम्</b>
<b>लोमहर्षण उवाच</b>
उत्पन्नाः पितृकन्यायां विरजायां महौजसः।
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः॥ १२.१ ॥
यतिर्ययातिः संयातिरायातिर्यातिरेव च।
सुयातिः षष्ठस्तेषां वै ययातिः पार्थिवोऽभवत्॥ १२.२ ॥
ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः।
यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन् मुनिः॥ १२.३ ॥
तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम्।
देवयानीमुशनसः सुतां भार्य्यामवाप सः॥ १२.४ ॥
शर्म्मिष्ठामासुरीं चैव तनयां वृषपर्व्वणः।
यदुञ्च चतुर्व्वसुञ्चैव देवयानी व्यजायत॥ १२.५ ॥
द्रुह्यं चानुं च पुरुं च शर्म्मिष्ठा वार्षपर्व्वणी।
तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम्॥ १२.६ ॥
अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः।
युक्तं मनोजवैः शुभ्रैर्येन कार्य्यं समुद्वहन्॥ १२.७ ॥
स तेन रथमुख्येन षड्रात्रेणाजयन्मीम्।
ययातिर्युधि दुर्द्धर्षस्तथा देवान् सदानवान्॥ १२.८ ॥
स रथः कौरवाणां तु सर्व्वषामभवत्तदा।
संवर्त्तवसुनामस्तु कौरवाज्जनमेजयात्॥ १२.९ ॥
कुरोः पुत्रस्य राजेन्द्रराज्ञः पारिक्षितस्य ह।
जगाम स रथो नाशं सापाद्गर्गस्य धीमतः॥ १२.१० ॥
गर्गस्य हि सुतं बालं स राजा जनमेजयः।
कालेन हिंसयामास ब्रह्महत्यामवाप सः॥ १२.११ ॥
स लोहगन्धो राजर्षिः परिधावन्नितस्ततः।
पौरजानपदैस्तयवतो न लेभे शर्म्म कर्हिचित्॥ १२.१२ ॥
ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित्।
विप्रेन्द्रं शौनकं राजा शरणं प्रत्ययद्यत॥ १२.१३ ॥
याजयामास च ज्ञानी शौनको जनमेजयम्।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः॥ १२.१४ ॥
स लोहगन्धो व्यनशत्तस्यावभृथमेत्य ह।
स च दिव्यरथो राज्ञो वशश्चेदिपतेस्तदा॥ १२.१५ ॥
दत्तः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः।
बृहद्रथात्क्रमेणैव गतो बार्हद्रथं नृपम्॥ १२.१६ ॥
ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम्।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः॥ १२.१७ ॥
सपत्द्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम्।
विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस्तदा॥ १२.१८ ॥
ययातिर्दिशि पूर्व्वस्यां यदुं ज्येष्ठं न्ययोजयत्।
मध्ये पुरुं च राजानमभ्यषिञ्चत् स नाहुषः॥ १२.१९ ॥
दिशि दक्षिणपूर्व्वस्यां तुर्व्वसुं मतिमान्नृपः।
तैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना॥ १२.२० ॥
यथाप्रदेशमद्यापि धर्म्मेण प्रतिपाल्यते।
प्रजास्तेषां पुरस्तात्तु वक्ष्यामि मुनिसत्तमाः॥ १२.२१ ॥
धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः।
जरावानभवद्राजा भारमावेश्य बन्धुषु॥ १२.२२ ॥
विक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः।
प्रीतिमानभवद्राजा ययातिरपराजितः॥ १२.२३ ॥
एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत्।
जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै॥ १२.२४ ॥
तरुणस्तव रूपेण चरेयं पृथिवीमिमाम।
जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह॥ १२.२५ ॥
<b>यदुरुवाच</b>
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता।
अनपाकृत्य तां ग्रहीष्यमि ते जराम्॥ १२.२६ ॥
जरायां बहवो दोषाः पानभोजनकारिताः।
तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे॥ १२.२७ ॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप।
प्रतिग्रहीतुं धर्म्मज्ञ पुत्रमन्यं वृणीष्व वै॥ १२.२८ ॥
स एवमुक्तो यदुना राजा कोपसमन्वितः।
उवाच वदतां श्रेष्ठो ययातिर्गर्हयन् सुतम्॥ १२.२९ ॥
<b>ययातिरुवाच</b>
क आश्रमस्तवान्योऽस्ति को वा धर्म्मो विधीयत्।
मामनादृत्य दुर्व्बुद्धे यदहं तव देशिकः॥ १२.३० ॥
एवमुक्त्वा यदुं विप्राः शशापैनं स मन्युमान।
अराज्या ते प्रजा मूढ भवित्रीति न संशयः॥ १२.३१ ॥
द्रुहयुं च तुर्व्वसुं चैवाप्यनुं च द्विजसत्तमाः।
एवमेवाब्रवीद्राजा प्रत्याख्यातश्च तैरपि॥ १२.३२ ॥
शशेप तानतिक्रुद्धो ययातिरपराजितः।
यथावत् कथितं सर्व्वं मयास्य द्विजसत्तममाः॥ १२.३३ ॥
एवं शप्त्वा सुतान् सर्व्वाश्चतुरः पुरुपुर्व्वजान्।
तदेव वचनं राजा पुरुमप्याह भो द्विजाः॥ १२.३४ ॥
तरुणास्तव रूपेण चरेयं पृथिवीमिमाम्।
जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे॥ १२.३५ ॥
स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान्।
ययातिरपि रूपेम पुरोः पर्य्यचरन् महीम्॥ १२.३६ ॥
स मार्गमाणः कामानामन्तं नृपतिसत्तमः॥
विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः॥ १२.३७ ॥
यदा स तृप्तः कामेषु भोगेषु च नराधिपः।
तदा पुरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत॥ १२.३८ ॥
यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना।
याभिः प्रत्याहरेत्कामान् सर्वशोऽङ्गानि कूर्म्मवत्॥ १२.३९ ॥
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते॥ १२.४० ॥
यत्पुथिव्यां व्रीहियवं हिरण्यं पश्वः स्त्रियः।
नालमेकस्य तत्सर्वमिति कृत्वा न मुह्यति॥ १२.४१ ॥
यदा भावं न कुरुते सर्व्वभूतेषु पापकम्।
कर्म्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ १२.४२ ॥
यदा तेभ्यो न बिभेति यदा चास्मान्न बिब्यति।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा॥ १२.४३ ॥
या दुस्त्यजा दुर्म्मतिभिर्या न जीर्य्यति जीर्य्यतः।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥ १२.४४ ॥
जीर्य्यन्ति जीर्य्यतः केशा दन्ता जीर्य्यन्ति जीर्य्यतः।
धनाशा जीविताशा चजीर्य्यतोऽपि न जीर्य्यति॥ १२.४५ ॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्।
तृष्माक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम्॥ १२.४६ ॥
एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम्।
कालेन महता नार्हन्ति षोडशीं कलाम्॥ १२.४७ ॥
भृगुतुङ्गे गतिं प्राप तपसोऽन्ते महायशाः।
अनश्नन् देहमुत्सृज्य सदारः स्वर्गमाप्तवान्॥ १२.४८ ॥
तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः।
यैर्व्याप्ता पृतिवी सर्व्वा सूर्य्यस्येव गभस्तिभिः॥ १२.४९ ॥
यदोस्तु वंशं वक्ष्यामि श्रुणुध्वं राजसत्कृतम्।
यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः॥ १२.५० ॥
सुस्तः प्रजावानायुष्मान् कीर्त्तिमांश्च भवेन्नरः।
ययातिचरितं नित्यमिदं श्रुण्वन् द्विजोत्तमाः॥ १२.५१ ॥
इति श्रीब्राह्मे महापुराणे सोमवंशे ययातिचरितनिरूपणं नाम द्वादशोऽध्यायः॥ १२ ॥
<b>पुरुवंश-वर्णनम्</b>
<b>ब्राह्मणाःऊचुः</b>
पुरोर्वशं वयं सूत श्रोतुमिच्छाम तत्तवतः।
द्रुह्यस्यानोर्यदोश्चैव तुर्वसोश्च पुथक् पृथक्॥ १३.१ ॥
<b>लोमहर्षण उवाच</b>
श्रृणुध्वं मुनिशार्दूलाः पुरोर्वशं महात्मनः।
विस्तरेणानुपूर्व्व्या च प्रथमं वदतो मम ॥ १३.२ ॥
पुरोः पुत्रः सुवीरोऽभून्मनस्युस्तस्य चात्मजः।
राजा चाभयदो नाम मनस्योरभवत् सुतः॥ १३.३ ॥
तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः।
सुधन्वनः सुबाहुश्च रौद्राश्वस्तस्य चात्मजः॥ १३.४ ॥
रौद्राश्वस्य दशार्णेयुः कृकाणेयुस्तथैव च।
कक्षेयुस्थण्डिलेयुश्च सन्नतेयुस्तथैव च॥ १३.५ ॥
ऋचोयुश्च जलेयुश्च स्थलेयुश्च महाबलः।
धनेयुश्च वनेयुश्च पुत्रकाश्च दश स्त्रियः॥ १३.६ ॥
भद्रा शूद्रा च मद्रा च शलदा तथा।
खलदा च ततो विप्रा नलदा सुरसापि च॥ १३.७ ॥
तथा गोचपला च स्त्रीरत्नकूटा च ता दश।
ऋषिर्जातोऽत्रिवंशे च तासां भर्त्ता प्रभाकरः॥ १३.८ ॥
भद्रायां जनयामास सुतं सोमं यशस्विनम्।
स्वर्भानुना हते सूर्य्ये पतमाने दिवो महीम्॥ १३.९ ॥
तमोऽभिभूते लोके च प्रभा येन प्रवर्त्तिता।
स्वस्ति तेऽस्त्विति चोक्त्वा वै पतमानो दिवाकरः॥ १३.१० ॥
वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम्।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः॥ १३.११ ॥
यज्ञेष्वत्रेर्बलञ्चैव देवैर्यस्य प्रतिष्ठितम्।
स तासु जनयामास पुत्रिकास्वात्मकामजान्॥ १३.१२ ॥
दश पुत्रान् महासत्त्वांस्तपस्युग्रे रतांस्तथा।
ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः॥ १३.१३ ॥
स्वस्त्यात्रेय इति ख्याताः किञ्च त्रिधनवर्जिताः।
कक्षेयोस्तनयास्त्वासंस्त्रय एव महारथाः॥ १३.१४ ॥
सभानरश्चाक्षुषश्च परमन्युस्तथैव च।
सभानरस्य पुत्रस्यु विद्वान् कालानलो नृपः॥ १३.१५ ॥
कालानलस्य धर्म्मज्ञः सृञ्जयो नाम वै सुतः।
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः॥ १३.१६ ॥
जनमेजयो मुनिश्रेष्ठाः पुरञ्जयसुतोऽभवत्।
जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः॥ १३.१७ ॥
देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि।
महामना नाम सुतो महाशालस्य विश्रुतः॥ १३.१८ ॥
जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः।
महामनास्तु पुत्रौ द्वौ जनयामास भो द्विजाः॥ १३.१९ ॥
उशीनरञ्टच धर्म्मज्ञं तितिक्षुञ्च महाबलम्।
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिशजाः॥ १३.२० ॥
नृगा कृमिर्नवा दर्व्वा पञ्चमी च दृषद्वती।
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः॥ १३.२१ ॥
तपसा चव महता जाता वृद्धस्य चात्मजाः।
नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत॥ १३.२२ ॥
नवायास्तु नवः पुत्रो दर्व्वायाः सुव्रतोऽभवत्।
दृषद्वत्यस्तु सञ्जज्ञे शिविरौशनरो नृपः॥ १३.२३ ॥
शिबेस्तु शिबयो विप्रा यौधेयास्तु नृगस्य ह।
नवस्य नवराष्ट्रन्तु कृमेस्तु कृमिला पुरी॥ १३.२४ ॥
सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान्निबोधत।
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः॥ १३.२५ ॥
वृषदर्भः सुवीरश्च केकयो मद्रकस्तथा।
तेषां जनपदाः स्फीता केकया मद्रकास्तथा॥ १३.२६ ॥
वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजास्त्विमाः।
तितिक्षुरभवद्राजा पूर्व्वस्यां दिशि बो द्विजाः॥ १३.२७ ॥
उषद्रथो महावीर्य्यः फेनस्तस्य सुतोऽभवत्।
फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः॥ १३.२८ ॥
जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः।
महायोगी स तु बलिल्बभूव नृपतिः पुरा॥ १३.२९ ॥
पुत्रानुत्पादयामास पञ्च वंशकरान् भुवि।
अङ्गः प्रथमतो जज्ञे बङ्गः सुह्यस्तथैव च॥ १३.३० ॥
पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते।
बालेया ब्राह्मणास्चैव तस्य वंशकरा भुवि॥ १३.३१ ॥
बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः।
महायोगित्वमायुश्च कल्पस्य परिमाणतः॥ १३.३२ ॥
बले चाप्रतिमत्वं वै धर्म्मतत्त्वार्थदर्शनम्।
संग्रामे चाप्यजेयत्वं धर्म्मे चैव प्रधानताम्॥ १३.३३ ॥
त्रैलोक्यदर्शनञ्चापि प्राधन्यं प्रसवे तथा।
चतुरो नियतान् वर्णास्त्वञ्च स्थापयितेति च॥ १३.३४ ॥
इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ।
कालेन महता विप्रा स्वञ्च स्तानमुपागमत्॥ १३.३५ ॥
तेषां जनपदाः पञ्च अङ्गा ससुह्मकाः।
कालिङ्गा पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य साम्प्रतम्॥ १३.३६ ॥
अङ्गपुत्रो महानासीद्राजेन्द्रो दधिवाहनः।
दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत्॥ १३.३७ ॥
पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः।
विद्वान् धर्म्मरथो नाम तस्य चित्ररथः सुतः॥ १३.३८ ॥
तेन धर्म्मरथेनाथ तदा कालञ्जरे गिरौ।
यजता सह शक्रेण सोमः पीतो महात्मना॥ १३.३९ ॥
अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत्।
लोमपादः इति ख्यातो यस्य शान्ता सुताभवत्॥ १३.४० ॥
तस्य दाशरथिर्वोरश्चतुरङ्गो महायशाः।
ऋष्यश्रृङ्गप्रसादेन जज्ञे वंशविवर्द्धनः॥ १३.४१ ॥
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः।
पृथुलाक्षसुतो राजा चम्पो नाम महायशा॥ १३.४२ ॥
चम्पस्य तु पुरी चम्पा या मालिन्यभवत् पुरा।
पूर्णभद्रप्रसादेन हर्य्यङ्गोऽस्य सुतोऽभवत्॥ १३.४३ ॥
ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम्।
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम्॥ १३.४४ ॥
हर्य्यङ्गस्य सुतस्तत्र राजा भद्ररथः स्मृतः।
पुत्रो भद्ररथस्यासीद्बृहत्कर्म्मा प्रजेश्वरः॥ १३.४५ ॥
बृहद्दर्भः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः।
बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम्॥ १३.४६ ॥
नाम्ना जयद्रथं नाम यस्माद्दृढरथो नृपः।
आसीद्दृढरथस्यापि विश्वजिज्जनमेजयी॥ १३.४७ ॥
दायादस्तस्य वैकर्णो विकर्णस्तस्य चात्मजः।
तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्द्धनम्॥ १३.४८ ॥
एतेऽङ्गवंशजाः सर्व्वे राजानः कीर्त्तिता मया।
सत्यव्रता महात्मानः प्रजावन्तो महारथाः॥ १३.४९ ॥
ऋचेयोस्तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै।
श्रृणुध्वं सम्प्रवक्ष्यामि वंशं राज्ञास्तु भो द्विजाः॥ १३.५० ॥
ऋचेयोस्तनयो राजा मतिनारो महीपतिः।
मतिनारसुतास्त्वासंस्त्रयः परमधार्म्मिकाः॥ १३.५१ ॥
वसुरोधः प्रतिरथः सुबाहुश्चैव दार्म्मिकः।
सर्व्वे वेदविदश्चैव ब्रह्मण्याः सत्यवादिनः॥ १३.५२ ॥
इला नाम तु यस्यासीत् कन्या वै मुनिसत्तमाः।
ब्रह्मवादिन्यधिस्त्री सा तंसुस्तामभ्यगच्छत॥ १३.५३ ॥
तंसोः सुतोऽथ राजर्षिधर्म्मनेत्रः प्रतापवान्।
ब्रह्मवादी पराक्रान्तस्तस्य भार्य्योपदानवी॥ १३.५४ ॥
उपदानवी ततः पुत्रांश्चतुरोऽजनयच्छुभान्।
दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा॥ १३.५५ ॥
दुष्यन्तस्य तु दायादो भरतो नाम वीर्य्यवान्।
स सर्व्वदमनो नाम नागायुतबलो महान्॥ १३.५६ ॥
चक्रवर्त्ति सुतो जज्ञे दुष्यन्तस्य महात्मनः।
शकुन्तलायां भरतो यस्य नाम्ना तु भारताः॥ १३.५७ ॥
भरतस्य विनष्टेषु तनयेषु महीपतेः।
मातॄणां तु प्रकोपेण मया तत्कथितं पुरा॥ १३.५८ ॥
बृहस्पतेरङ्गिरसः पुत्रो विप्रो महामुनिः।
अयाजयद्भरद्वाजो महद्भिः क्रतुभिर्विभुः॥ १३.५९ ॥
पूर्व्वं तु वितथे तस्य कृते वै पुत्रजन्मनि।
ततोऽथ वितथो नाम भरद्वाजात्सुतोऽभवत्॥ १३.६० ॥
तथोऽथ वितथे जाते भरतस्तु दिवं ययौ।
वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ॥ १३.६१ ॥
स चापि वितथः पुत्रान् जनयामास पञ्च वै।
सुहोत्रञ्च सुहोतारं गर्यं गर्गं तथैव च॥ १३.६२ ॥
कपिलञ्च महात्मानं सुहोत्रस्य सुतद्वयम्।
काशिकञ्च महासत्यं तथा गृत्समतिं नृपम्॥ १३.६३ ॥
तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः।
काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा॥ १३.६४ ॥
बभूव दीर्घतपसो विद्वान् धन्वन्तरिः सुतः।
धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः॥ १३.६५ ॥
तथा केतुमनः पुत्रो विद्वान् भीमरथः स्मृतः।
पुत्रो भीमरथस्यापि वारामस्यधिपोऽभवत्॥ १३.६६ ॥
दिवोदास इति ख्यातः सर्व्वशत्रुप्रणाशनः।
दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः॥ १३.६७ ॥
प्रतर्दनस्य पुत्रौ द्वौ वत्सो भर्गव एव च।
अलर्को राजपुत्रस्तु राजा सन्मतिमान् भुवि॥ १३.६८ ॥
हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः।
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात्॥ १३.६९ ॥
भद्रश्रेण्यस्य पुत्रेण चदुर्दमेन महात्मना।
दिवोदासेन बालेति घृणयासौ विसर्ज्जितः॥ १३.७० ॥
अष्टारथो नाम नृपः सुतो भीमरथस्य वै।
तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः॥ १३.७१ ॥
वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता।
अलर्कः कासिराजस्तु ब्रह्मण्यः सत्यसङ्गरः॥ १३.७२ ॥
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च।
युवा रूपेण सम्पन्न आसीत्काशिकुलोद्वहः॥ १३.७३ ॥
लोपामुद्राप्रसादेन परमायुरवाप सः।
वयसोऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम्॥ १३.७४ ॥
रम्यां निवेशयामास पुरीं वाराणसीं नृपः।
अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः॥ १३.७५ ॥
क्षेमकस्य तु पुत्रो वै वर्षकेतुस्ततोऽभवत्।
वर्षकेतोश्च दायादो विभुर्नाम प्रजेश्वरः॥ १३.७६ ॥
आनर्त्तस्तु विभोः पुत्रः सुकुमारस्ततोऽभवत्।
सुकुमारस्य पुत्रस्तु सत्यकेतुर्महारथः॥ १३.७७ ॥
सुतोऽभवनन्महातेजा राजा परमधार्म्मिकः।
वत्सस्य वत्सभूमिस्तु भर्गभूमिस्तु भार्गवात्॥ १३.७८ ॥
एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे।
ब्राह्मणाः क्षत्रियाच वैश्याः शूद्राश्च मुनिसत्तमाः॥ १३.७९ ॥
आजमीढोऽपरो वंशः श्रूयतां द्विजसत्तमाः।
सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः॥ १३.८० ॥
अजमीढो द्विमीढश्च पुरुमीढश्च वीर्य्यवान्।
अजमीढस्य पत्न्यस्तु तिस्रो वै यशसन्विताः॥ १३.८१ ॥
नीली च केशिनी चैव धूमिनी च वराङ्गनाः।
अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्॥ १३.८२ ॥
आजह्रे यो महासन्नं सर्व्वमेधमखं विभुम्।
पतिलोभेन यं गङ्गा विनीतेव ससार ह॥ १३.८३ ॥
नेच्छतः प्लावयामास तस्य गङ्गा च तत्सदः।
तत्तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः॥ १३.८४ ॥
जह्नुरप्यब्रवीद्गङ्गां क्रुद्धो विप्रास्तदा नृपः।
एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्यहम्॥ १३.८५ ॥
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि।
ततः पीताः महात्मानो दृष्ट्वा गङ्गां महर्षयः॥ १३.८६ ॥
उपनिन्युर्महाभागा दुहितृत्वेन जाह्नावीम्।
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत्॥ १३.८७ ॥
गङ्गाशापेन देहार्द्ध यस्याः पश्चान्नदीकृतम्।
जह्नोस्तु दयितः पुत्रो अजको नाम वीर्य्यवान्।
अजकस्य तु दायादो बलाकाश्वो महीपतिः॥ १३.८८ ॥
बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः।
पह्नवैः सह संवृद्धो राजा वनचरैः सह॥ १३.८९ ॥
कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं विभुम्।
लभेयमिति तं शक्रस्त्रासादभ्यत्य जज्ञिवान्॥ १३.९० ॥
स गाधिरभवद्राजा मघवा कौशिकः स्वयम्।
विश्वामित्रस्तु गाधयो विश्वमित्रात्तथाष्टकः॥ १३.९१ ॥
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया।
आजमीढोऽपरो वंशः श्रूयतां मुनिसत्तमाः॥ १३.९२ ॥**
अजमीढात्तु नील्यां वै सुशान्तिरुदपद्यत।
पुरुजातिः सुशान्तश्च बाह्याश्वः पुरुजातितः॥ १३.९३ ॥
बाह्याश्वतनयाः विक्रान्तः गृमिलाश्वश्च पञ्चमः।
पञ्चैते रक्षणायालं देशानामिति विश्रुताः॥ १३.९४ ॥
यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः।
पञ्चैते रक्षणायालं देशानामिति विश्रुताः॥ १३.९५ ॥
पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः।
अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः॥ १३.९६ ॥
मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः।
इन्द्रसेना यतो गर्भं ब्रध्नश्वं प्रत्यपद्यत॥ १३.९७ ॥
आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः।
सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः॥ १३.९८ ॥
सोमदत्तस्य दायादः सहदेवो महायशाः।
सहदेवसुतश्चापि सोमको नाम विश्रुतः॥ १३.९९ ॥
अजमीढसुतो जातः क्षीणे वंशे तु सोमकः।
सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ॥ १३.१०० ॥
तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः।
आजमीढाः स्मृताश्चैते महात्मास्तु सोमकाः॥ १३.१०१ ॥
महीषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी।
पतिव्रता महाभागा कुलजा मुनिसत्तमाः॥ १३.१०२ ॥
सा च पुत्रार्थिनी देवी व्रतचर्य्यसमन्विता।
कततो वर्षायुतं तप्त्वा तपः परमदुश्चरम्॥ १३.१०३ ॥
हुत्वाग्निं विधिवत्सा तु पवित्रामितभोजना।
अग्निहोत्रकुसेष्वेव सुष्वाप मुनिसत्तमाः॥ १३.१०४ ॥
धूमिन्या स तया देव्या त्वजमीढः समियिवान्।
ऋक्षं सञ्जनयामास धूम्रवर्णं सुदर्शनम्॥ १३.१०५ ॥
ऋक्षात् संवरणो जज्ञे कुरुः संवरणात्तथा।
यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह॥ १३.१०६ ॥
पण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम्।
तस्यान्ववायः सुमहान् यस्य नाम्नाथ कौरवाः॥ १३.१०७ ॥
कुरोश्च पुत्राश्चत्वारः सुधान्वा सुधनुस्तथा।
परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः॥ १३.१०८ ॥
परीक्षितस्तु दायादो धार्म्मिको जनमेजयः।
श्रुतसनोऽग्रसेनश्च भीमसेनश्च नामतः॥ १३.१०९ ॥
एते सर्व्वे महाभागा विक्रान्ता बलशालिनः।
जनमेजयस्य पुत्रस्तु सुरथो मतिमांस्तथा॥ १३.११० ॥
सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः।
विदूरथस्य दायाद ऋक्ष एव महारथः॥ १३.१११ ॥
द्वितीयस्तु भरद्वाजान्नाम्ना तेनैव विश्रुतः।
द्वावृक्षौ सोमवंशेऽस्मिन् द्वावेव च परीक्षितौ॥ १३.११२ ॥
भीमसेनास्त्रयो विप्रा द्वौ चापि नजमेजयौ।
ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः॥ १३.११३।
प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः।
देवापिर्बाहि लकश्चैव त्रय एव महारथाः॥ १३.११४ ॥
शान्तनोस्तवभवद्भीष्मस्तस्मिन् वंशे द्विजोत्तमाः।
बाह्लिकस्य तु राजर्षेर्व्वशं श्रुणुत भो द्विजाः॥ १३.११५ ॥
बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः।
जज्ञिरे सोमदत्तात्तु भूरिर्भूरिरश्रवाः शलः॥ १३.११६ ॥
उपाध्यायस्तु देवानां देवापिरभवन्मुनिः।
च्यवनपुत्रः कृतक इष्ट आसीन्महात्मनः॥ १३.११७ ॥
शान्तनुस्त्वभवनद्राजा कौरवाणां धुरन्धऱः।
शान्तनोः सम्प्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम्॥ १३.११८ ॥
गाङ्गं वेवव्रतं नाम पुत्रं सोऽजनयत् प्रभुः।
स तु भीष्म इति ख्यातः पाण्डवानां पितामहः॥ १३.११९ ॥
काली विचित्रवीर्य्यं तु जनयामास बो द्विजाः।
शान्तनोर्दयितं पुत्रं धर्म्मात्मानमकल्मषम्॥ १३.१२० ॥
कृष्णद्वैपायनाच्चैव क्षेत्रे वैचित्रवीर्य्यके।
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत्॥ १३.१२१ ॥
धृतराष्टस्तु गान्धार्य्यां पुत्रानुत्पादयच्छतम्।
तेषां दुर्य्योधनः श्रेष्ठः सर्ब्वेषामपि स प्रभुः॥ १३.१२२ ॥
पाण्डोर्धनञ्जयः पुत्रः सौभद्रस्तस्य चात्मजः।
अभिमन्वोः परीक्षित्तु पिता पारीक्षितस्य ह॥ १३.१२३ ॥
पारिक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः।
चन्द्रापीडस्तु नृपतिः सूर्य्यापीडश्च मोभवित्॥ १३.१२४ ॥
चन्द्रापॣस्य पुत्राणां शतमुत्तमधन्विनाम्।
जानमेजयमित्येवं क्षात्रं भुवि परिश्रुतम्॥ १३.१२५ ॥
तेषां ज्येष्ठस्तु तत्रासीत् पुरे वाराणसाह्वये।
सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः॥ १३.१२६।
सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान्।
अपुत्रः स तु धर्म्मात्मा प्रविवेश तपोवनम्॥ १३.१२७ ॥
तस्माद्वनगता गर्भं यादवी प्रत्यपद्यत।
सुचारोर्दुहिता सूभ्रर्मालिनी ग्राहमालिनी॥ १३.१२८ ॥
सम्भूते स च गर्भे च स्वेतकर्मः प्रजेश्वरः।
अन्वगच्छत् कृतं पूर्व्वं महाप्रस्थानमच्युतम्॥ १३.१२९ ॥
सा तु दुष्ट्वा प्रियं तं च पृष्ठतोऽन्वगात्।
सुचारोर्दुहिता साध्वी वने राजीवलोचना॥ १३.१३०॥
पथि सा सुषुवे बाला सुकुमारं कुमारकम्।
तमपास्ताथ तत्रैव राजानं सान्वगच्छत॥ १३.१३१ ॥
पतिव्रता महाभागा द्रौपदीव पुरा सती।
कुमारः सुकुमारोऽसौ गिरिपृष्ठे रुरोद ह॥ १३.१३२ ॥
दयार्थं तस्य मेघास्तु प्रादुरासन्महात्मनः।
श्रविष्ठायास्तु पुत्रौ द्वौ पैप्पलादिश्च कौशिकः॥ १३.१३३ ॥
दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले।
निघृष्टौ तस्य पाश्वौ तु शिलायां रुधिरप्लुतौ॥ १३.१३४ ॥
अजश्यामः स पार्श्वाब्यां घृष्टाभ्यां सुसमाहितः।
अजश्यामौ तु तत्पाशौ देवेन सम्बभूवतुः॥ १३.१३५ ॥
अथाजपार्श्व इति वै चक्राते नाम तस्य तौ॥
स तु रेमकशालायां द्विजाब्यामभिवार्द्धितः॥ १३.१३६ ।
रेमकस्य तु भार्य्यां तमुद्वहत् पुत्रकारणात्।
रेमत्याः स तु पुत्रोऽभूद्ब्राह्मणौ सचिवौ तु तौ॥ १३.१३७ ॥
तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः।
स एष पौरवो वंशः पाण्डवानां महात्मनाम्॥ १३.१३८ ॥
श्लोक्रोऽपि चात्र गीतोऽयं नाहुषेन ययातिना।
जरासंक्रमणे पूर्व्वं तदा प्रीतेन धीमता॥ १३.१३९ ॥
अचन्द्रार्क्रग्रहा भूमिर्भवेदियमसंशायम्।
अपौरवा मही नैव भविष्यति कदाचन॥ १३.१४० ॥
एष वऋ पौरवो वंशो विख्यातः कथितो मया।
तुर्व्वसोस्तु प्रवक्ष्यामि द्रुह्योस्चानोर्यदोस्तथा॥ १३.१४१ ॥
तुर्व्वसोऽस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः।
गोभानोस्तु सुतो राजा ऐशानुरपराजितः॥ १३.१४२ ॥
करन्धमस्तु ऐशानोर्मरुत्तस्तस्य चात्मजः।
अन्यस्त्वाविक्षितो राजा मरुत्तः कथितो मया॥ १३.१४३ ॥
अनपत्योऽभद्राजा यज्वा विपुलदक्षिणः।
दुहिता संयता नाम तस्यासीत् पथिवीपतेः॥ १३.१४४ ॥
दक्षिणार्थं तु सा दत्ता संवर्त्ताय महात्मने।
दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम्॥ १३.१४५ ॥
एवं ययातिशापेन जरासंक्रमणे तदा।
पौरवं तुर्व्वसोर्वशं प्रविवेश द्विजोत्तमाः॥ १३.१४६ ॥
दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः।
करूरोमादथाह्रीदस्चत्वारस्तस्य चात्मजाः। १३.१४७ ।
पाण्ड्यश्च केरलस्चैव कालश्चोलश्च पार्थिवः।
द्रुह्योश्च तनयो राजन् बभ्रुसेतुश्च पार्थिवः॥ १३.१४८ ॥
अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते।
यौवनाश्वेन समरे कृच्छेण निहतो बली॥ १३.१४९ ॥
युद्धं सुमहदप्यासीन्मासान् परिचतुर्दश।
अङ्गारसेतोर्दायादो गान्दारो नाम पार्थिवः॥ १३.१५० ॥
ख्यायते यस्य नाम्ना वै गान्धारविषयो महान्।
गान्धारदेशजाश्चैव तुरगा वाजिनां वराः॥ १३.१५१ ॥
अनोस्तु पुत्रो धर्म्मोऽभूद्द्युतस्तस्यात्मजोऽभवत्।
द्युताद्वनदुहो जज्ञे प्रचेतास्तस्य चात्मजः॥ १३.१५२ ॥
प्रचेतसः सुचेतास्तु कीर्त्तितास्तुर्वसोर्मया।
बभूवुस्ते यदोः पुत्राः पञ्च देवसुतोपमाः॥ १३.१५३ ॥
सहस्रादः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा।
सहस्रादस्य दायादास्त्रयः परमधार्म्मिकाः॥ १३.१५४ ॥
हैहयस्च हयश्चैव राजा वेणुहयस्तथा।
हैहयस्याभवत् पुत्रो धर्म्मनेत्र इति श्रुतः॥ १३.१५५ ॥
धर्म्मनेत्रस्य कार्त्तस्तु साहञ्जस्तस्य चात्मजः।
साहञ्जनी नाम पुरी तेन राज्ञा निवेशिताः॥ १३.१५६ ॥
आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्।
भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः॥ १३.१५७ ॥
दुर्दमस्य सुतो धीमान्कनको नाम नामतः।
कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः॥ १३.१५८ ॥
कुतवीर्य्यः कृतौजाश्च कृतधन्वा तथैव च।
कृताग्निस्तु चतुर्थोऽभूत् कृतवीर्य्यादथार्ज्जुनः॥ १३.१५९ ॥
योऽसौ बाहुसहस्रेण सप्तद्वीपेस्वरोऽभवत्।
जिगाय पृथिवीमेको रथेनादित्यवर्च्चसा॥ १३.१६० ॥
स हि वर्षायुतं तप्त्वा तपः पमदुश्चरम्।
दत्तमाराधयामास कार्त्तवीर्य्योऽत्रिसम्भवम्॥ १३.१६१ ॥
तस्मै दत्तो वरन् प्रादाच्चतुरो भूरितेजसः।
पूर्व्वं बाहुसहस्रं तु प्रार्थितं सु महद्वरम्॥ १३.१६२ ॥
अधर्म्मोऽधीयमानस्य सद्भिस्तत्र निवारणम्।
उग्रेण पृथिवीं जित्वा धर्म्मेणैवानुरञ्जनम्॥ १३.१६३ ॥
संग्रामात् सुबहून् जित्वा हत्वा चारीन् सहस्रशः।
संग्रामे वर्त्तमानस्य वधं चाभ्यधिकाद्रणे॥ १३.१६४ ॥
तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः।
योगाद्योगीश्वरस्येव प्रादुर्भवति मायया॥ १३.१६५ ॥
तनेयं पृथिवी सर्र्वा सप्तद्वीपा सपत्तना।
ससमुद्रा सनगरा उग्रेण विधिना जिता॥ १३.१६६ ॥
तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि वै।
प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः॥ १३.१६७ ॥
सर्व्वे यज्ञा मुनिश्रेष्ठा सहस्रशतदक्षिणाः।
सर्व्वे काञ्चनयूपाश्च सर्व्वे काञ्चनवेदयः॥ १३.१६८ ॥
सर्व्वे देवैर्म्मुनिश्रेष्ठा विमानस्तैरलङ्कृतैः।
गन्धर्व्वैरप्सरोभिश्च नित्यमेवापशोभिताः॥ १३.१६९ ॥
यस्य यज्ञे जगौ गाथां गन्धर्व्वो नारदस्तथा।
वरीदासात्मजो विद्वान्महिम्ना तस्य विस्मितः॥ १३.१७० ॥
<b>नारद उवाच</b>
न नूनं सार्तवीर्य्यस्य गतिं यास्यन्ति पार्थिवाः।
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च॥ १३.१७१ ॥
स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी।
रथि द्वीपाननुचरन् योगी संदृश्यते नृभिः॥ १३.१७२ ॥
अनष्ट्द्रव्यता चैव न शोको न च विभ्रमः।
प्रभावेण मया राज्ञः प्रजा धर्म्मेण रक्षतः॥ १३.१७३ ॥
स सर्व्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह।
स एव पशुपालोऽभूत् क्षेत्रपालः स एव च॥ १३.१७४ ॥
स एव वृष्ट्या पर्जन्यो योगित्वादर्ज्जुनोऽभवत्।
स वै बाहुसहस्रेण ज्याघातकठिनत्वचा॥ १३.१७५ ॥
भाति रश्मिसहस्रेम शरदीव च भास्करः।
स हि नागान्मनुष्येषु माहिष्मत्यां महाद्युतिः॥ १३.१७६ ॥
कर्कोटकसुतान् जित्वा पुर्य्यां तस्यां न्यवेशयत्।
स वै वेगं समुद्रस्य प्रावृट्कालेऽम्बुजेक्षणः॥ १३.१७७ ॥
क्रडिन्निव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह।
लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी॥ १३.१७८ ॥
चलदूर्म्मिसहस्रेण शङ्किताभ्येति नर्म्मदा।
तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ॥ १३.१७९ ॥
भयान्निलीना निश्चेष्टाः पातालस्था महासुराः।
चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम्॥ १३.१८० ॥
मारुताविद्धफेनौघमावर्त्तक्षोभसङ्कुलम्।
प्रावर्त्तयत्तदा राजा सहस्रेण च बाहुना॥ १३.१८१ ॥
देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः।
मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः॥ १३.१८२ ॥
सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम्।
नता निश्चलमूर्द्धानो बभूवुस्ते महोरगाः॥ १३.१८३ ॥
सायाह्ने कदलीखण्डाः कम्पिता इव वायुना।
स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः॥ १३.१८४ ॥
लङ्केशं मोहयित्वा तु सबलं रावणं बलात्।
निर्जित्य वशमानीय महाष्मत्यां बबन्ध तम्॥ १३.१८५ ॥
श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्ज्जुनेन च।
ततो गत्वा पुलस्त्यस्तमर्ज्जुनं ददृशे स्वयम्॥ १३.१८६ ॥
मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः।
यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः॥ १३.१८७ ॥
युगान्ते तोयदस्येव स्फुटतो ह्यशनेरिव।
अहो बल मृधे वीर्य्यं भार्गवस्य यदच्छिनत्॥ १३.१८८ ॥
राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा।
तृषितेन कदाचित् स भिक्षितश्चित्रभानुना॥ १३.१८९ ॥
स भिक्षामददाद्वीरः सप्त द्वीपान् विभावसोः।
पुराणि ग्रामघोषांश्च विषयांश्चैव सर्व्वशः॥ १३.१९० ॥
जज्वाल तस्य सर्व्वाणि चित्रभानुर्दिदृक्षया।
स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः॥ १३.१९१ ॥
ददाह कार्त्तवीर्य्यस्तु शैलांश्चैव वनानि च।
सशून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै॥ १३.१९२ ॥
ददाह बलवद्भीतश्चित्रभानुः सहैहयः।
यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम्॥ १३.१९३ ॥
वशिष्ठं नाम स मुनिः ख्यात आपव इत्युत।
तत्रापवस्तु तं क्रोधाच्छप्तवानर्ज्जुनं विभुः॥ १३.१९४ ॥
यस्मान्न वर्ज्जितमिदं वनं ते मम हैहय।
तस्मात्ते दुष्करं कर्म्म कृतमन्यो हनिष्यति॥ १३.१९५ ॥
रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान्।
छित्त्वा बाहुसहस्रन्ते प्रमथ्य तरसा बलो॥ १३.१९६ ॥
तपस्वी ब्राह्मणस्त्वां तु हनिष्यति स भार्गवः।
अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः॥ १३.१९७ ॥
प्रतावेन नरेन्द्रस्य प्रजा धर्म्मेण रक्षतः।
प्राप्तस्ततोऽस्य मृत्युर्वै तस्य शापान्महामुनेः॥ १३.१९८ ॥
वरस्तथैव भो विप्राः स्वयमेव वृतः पुरा।
तस्य पुत्रशतं त्वासीत् पञ्च शषा महात्मनः॥ १३.१९९ ॥
कृतास्त्रा बलिनः शूरा धर्म्मात्मानो यशस्विनः।
शूरसेनश्च शूरश्च वृषणो मधुपध्वजः॥ १३.२०० ॥
जयध्वजश्व नाम्नासीदावन्त्यो नृपतिर्महान्।
कार्त्तवीर्य्यस्य तनया वीर्य्यवन्तो महाबलाः॥ १३.२०१ ॥
जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः।
तस्य पुत्रशतं ख्यातास्तालजङ्घा इति स्मृताः॥ १३.२०२ ॥
तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम्।
वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः॥ १३.२०३ ॥
तौण्डिकेराश्च विख्यातास्तालजङ्घास्तथैव च।
भरताश्च सुजाताश्च बहुत्वान्नानुकीर्त्तिताः॥ १३.२०४ ॥
वृषप्रभृतयो विप्रा यादवाः पुण्यकर्म्मिणः।
वृषो वंशधरस्तत्र तसाय पुत्रोऽभवन्मधुः॥ १३.२०५ ॥
मधोः पुत्रशतं त्वासीद्वृषणस्तस्य वंशकृत्।
वृषणाद्वृष्णयः सर्व्वे मधोस्तु माधवाः स्मृताः॥ १३.२०६ ॥
यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः।
न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः॥ १३.२०७ ॥
कार्त्तवीर्य्यस्य यो जन्म कथयेदिह नित्यशः।
न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः॥ १३.२०८ ॥
कीर्त्तिता लोकवीराणां ये लोकान् धारयन्ति वै।
भूतानीव मुनिश्रेष्ठाः पञ्चस्थावरजङ्गमान्॥ १३.२०९ ॥
श्रुत्वा पञ्च विसर्गास्तु राजा धर्म्मार्थकोविदः।
वशीभवति पञ्चानामात्मजानां तथेश्वरः॥ १३.२१० ॥
लभेत् पञ्च वरांश्चैव दुर्लभानिह लौकिकान्।
आयुः कीर्त्तिं तथा पुत्रानैश्वर्य्यं भूतिमेव च॥ १३.२११ ॥
धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भो द्विजाः।
क्रोष्टोर्व्वशं मुनिश्रेष्ठाः श्रृणुध्वं गदतो मम॥ १३.२१२ ॥
यदोर्व्वशधरस्याथ यज्विनः पुण्यकर्म्मिणः।
क्रोष्टोर्व्वशं हि श्रुत्वैव सर्व्वपापैः प्रमुच्यते।
यस्यान्ववायजो विष्णुर्हरिर्वृष्णकुलोद्वहः॥ १३.२१३ ॥
इति श्रीब्राह्मे महापुराणे ययातिवंशानुकीर्त्तनं नाम त्रयोदशोऽध्यायः॥ १३ ॥
<b>तत्रादौ यदुपुत्र-क्रोष्टुवंश-वर्णनम्</b>
<b>लोमहर्षण उवाच</b>
गान्धारी चैव माद्री च क्रोष्टार्भर्य्ये बभूवतुः।
गान्धारी जनयामास अनमित्रं महाबलम्॥ १४.१ ॥
माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम्।
तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलबर्द्धनः॥ १४.२ ॥
माद्रयाः पुत्रौ तु जज्ञाते श्रुतौवृष्ण्यन्धकावुभौ।
जज्ञाते तनयौ वृष्णे श्वफल्कश्चित्रकस्तथा॥ १४.३ ॥
श्वफल्फस्तु मुनिश्रेष्ठा धर्म्मात्मा यत्र वर्तते।
नास्ति व्याधिभयं तत्र नावर्षस्तपमेव च ॥ १४.४ ॥
कदाचित् काशिराजस्य विषये मुनिसत्तमाः।
त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः॥ १४.५ ॥
स तत्र चानयामास श्वफल्कं परमार्च्चितम्।
श्वफल्कपरिवर्त्तेन ववर्ष हरिवाहनः॥ १४.६ ॥
श्वफल्फः काशिराजस्य सुतां भार्य्यामविन्दत।
गान्दिनी नाम गां सा च ददौ विप्राय नित्यशः॥ १४.७ ॥
दाता यज्वा च वीरश्च श्रुतवानतिथिप्रियः।
अक्रूरः सुषुवे तस्माच्छ्वफलकाद्भूरिदक्षिणः॥ १४.८ ॥
उपमद्गुस्तथा मद्गुर्मेदुरश्चारिमेजयः।
अविक्षितस्तथाक्षेपः शत्रुघ्नश्चारिमर्दनः॥ १४.९ ॥
धर्म्मधृग् यतिधर्म्मा च धर्म्मोक्षान्धकरुस्तथा।
आवाहप्रतिवाहा च सुन्दरी च वराङ्गना॥ १४.१० ॥
अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः।
प्रसेनश्चोपदेवश्च जज्ञाते देववर्च्चसौ॥ १४.११ ॥
चित्रकस्याभवन् पुत्राः पृथुर्व्विपृथुरेव च।
अश्वग्रीवोऽश्वबाहुश्च स्वपार्श्वकगवेषणौ॥ १४.१२ ॥
अरिष्टनेमिरश्वश्च सुधर्मा धर्म्मभृत्तथा।
सुबाहुर्व्वहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ॥ १४.१३ ॥
असिक्न्यां जनयामास शूरं वै देवमीढुषम्।
महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश॥ १४.१४ ॥
वसुदेवो महाबाहुः पूर्व्वमानकदुन्दुभिः।
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि॥ १४.१५ ॥
आनकानां च संह्रादः सुमहानभवदिदवि।
पपात पुष्पवर्षश्च शूरस्य जननी महान्॥ १४.१६ ॥
मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि।
यस्यासीत्पुरुषाग्य्रस्य कान्तिश्चन्द्रमसो यथा॥ १४.१७ ॥
देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः।
अनाधृष्टिः सनवको वत्सवानथ गृञ्जमः॥ १४.१८ ॥
श्यामः शमीको गण्डूषः पञ्च यास्य वराङ्गनाः।
पृथुकीर्त्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा॥ १४.१९ ॥
राजाधिदेवी च तता पञ्चैता वीरमातरः।
श्रुतश्रवायां चैद्यस्तु शिशुपालोऽभवन्नृपः॥ १४.२० ॥
हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत्पुरा।
पृथुकीर्त्त्यां तु सञ्जज्ञे तनयो वृद्धशर्म्मणः॥ १४.२१ ॥
करूषाधिपतिर्वोरो दन्तवक्रो महाबलः।
पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत्॥ १४.२२ ॥
यस्यां स धर्म्मविद्राजा धर्म्मो जज्ञे युधिष्ठिरः।
भीमसेनस्तथा वातादिन्द्राच्चैव धनञ्जयः॥ १४.२३ ॥
लोकेऽप्रतिरथो वीरः शत्रुतुल्यपराक्रमः।
अनमित्राच्छिनिर्जज्ञे कनिषठाद्वृष्णिनन्दनात्॥ १४.२४ ॥
शैनेयः सत्यकस्तस्माद्युयुधानश्च सात्यकिः।
उद्धघो देवभागस्य महाभागः सुतोऽभवत्॥ १४.२५ ॥
पण्डितानां परं प्राहुर्देवश्रवसमुत्तमम्।
अश्मक्यं प्राप्तवान् पुत्रमनाधृष्टिर्यशस्विनम्॥ १४.२६ ॥
निवृत्तशत्रुं शत्रुघ्नं श्रुतदेव त्वजायत।
श्रुतदेवात्मजास्ते तु नैषादिर्यः परिश्रुतः॥ १४.२७ ॥
एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्द्धितः।
वत्सवते त्वपुत्राय वसुदेवः प्रतापवान्।
अद्भिर्ददौ सुतं वीरं कौशिकमौरसम्॥ १४.२८ ॥
गण्डूषाय ह्यपुत्राय विष्वक्सेनो ददौ सुतान्।
चारुदेष्णं सुदेष्णञ्च पञ्चालं कृतलक्षणम्॥ १४.२९ ॥
असंग्रामेण यो वीरो नावर्त्तत कदाचन।
रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः॥ १४.३० ॥
वायसानां सहस्राणि यं यान्तुं पृष्ठतोऽन्वयुः।
चारूनद्योपभोक्ष्यामश्चारुदेष्णहतानिति॥ १४.३१ ॥
तन्त्रिजस्तन्त्रिपालश्च सुतौ कनवकस्य तौ।
वीरुश्चाश्वहनुश्चैव वीरौ तावथ गृञ्जिमौ॥ १४.३२ ॥
श्यामपुत्रः शमोकस्तु शमीको राज्यमावहत्।
जुगुप्समानो भोजत्वाद्राजसूयमवाप सः॥ १४.३३ ॥
अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः।
वसुदेवसुतान् वीरान् कीर्त्तयिष्याम्यतःपरम्। १४.३४ ॥
वृष्णेस्त्रिविधमेवन्तु बहुशाखं महौजसम्।
धारयन् विपुलं वंशं नानर्थैरिह युज्यते॥ १४.३५ ॥
याः पत्न्यो वसुदेवस्य चतुर्द्दश वराङ्गनाः।
पौरवी रोहिणी नाम मदिरादिस्तथापरा॥ १४.३६ ॥
वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी।
सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिताः॥ १४.३७ ॥
वृकदेव्युपदेवी च देवकी चैव सप्तमी।
सुतनुर्वडवा चैव द्वे एते परिचारिके॥ १४.३८ ॥
पौरवी रोहिणी नाम वाह्लिकस्यात्मजाभवत्।
ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः॥ १४.३९ ॥
लेभे ज्येष्ठं सुतं रामं शरण्यं शठमेव च।
दुद्र्दमं दमनं शुभ्रं पिण्डारकमुशीनरम्॥ १४.४० ॥
वित्रा नाम कुमारी च रोहिणीतनया नव।
चित्रा सुभद्रेति पुनर्विख्याता मुनिसत्तमाः॥ १४.४१ ॥
वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः।
रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः॥ १४.४२ ॥
सुभद्रायां रथी पार्थादभिमन्युरजायत।
अक्रूरात्काशिकन्यायां सत्यकेतुरजारत॥ १४.४३ ॥
वसुदेवस्य भार्य्यासु महाभागासु सप्तसु।
ये पुत्रा जज्ञिरे शूराः समस्तांस्तान्निबोधत॥ १४.४४ ॥
भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ।
वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ॥ १४.४५ ॥
अगावहं महात्मानं वृकदेवी व्यजायत।
कन्या त्रिगर्त्तराजस्य भार्य्या वै शिशिरायणेः॥ १४.४६ ॥
जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम्।
कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा॥ १४.४७ ॥
मिथ्याभिशस्तो गार्ग्यस्तु मन्युनातिसमीरितः।
घोषकन्यामुपादाय मैथुनायोपचक्रमे॥ १४.४८ ॥
गोपाली चाप्सरास्तस्य गोपस्त्रीवेशधारिणी।
धारयामास गार्ग्यस्य गर्भं दुर्द्धरमच्युतम्॥ १४.४९ ॥
मानुष्यां गर्गभार्य्यायां नियोगाच्छूलपाणिनः।
स कालयवनो नाम यज्ञे राजा महाबलः॥ १४.५० ॥
वृत्तपूर्व्वार्द्धकायस्तु सिंहसंहननो युवा।
अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः॥ १४.५१ ॥
यवनस्य मुनिश्रेष्ठाः स कालयवनोऽभवत्।
आयुध्यमानो नृपतिः पर्य्यपृच्छद्द्विजोत्तमम्॥ १४.५२ ॥
वृष्ण्यन्धककुलं तस्य नारदोऽकथयद्विभुः।
अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा॥ १४.५३
दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम्।
ततो वृष्ण्यन्दकाः कृष्णं पुरस्कृत्य महामतिम्॥ १४.५४ ॥
समेता मन्त्रयामासुर्यवनस्य भयात्तदा।
कृत्वा विनिश्चयं सर्व्वे पलायनमरोचयत् ॥ १४.५५ ॥
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम्।
कुशस्थलीं द्वारवतीं निवेशयितुमिप्सवः॥ १४.५६ ॥
इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः।
पर्व्वसु श्रावयेद्विद्वाननृणः स शुखी भवेत्॥ १४.५७ ॥
इति श्रीब्राह्मपुराणे कृष्णजन्मानुकीर्त्तनं नाम चतुर्दशोऽध्यायः॥ १४ ॥
<b>वृष्णिवंश-वर्णनम्</b>
<b>लोमहर्षण उवाच</b>
क्रोष्टोरथाभवत् पुत्रो वृजिनीवान्महायशाः।
वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम्॥ १५.१ ॥
स्वाहिपुत्रोऽभवद्राजा उषद्गुर्वदतां वरः।
महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः॥ १५.२ ॥
ततः प्रसूतिमिच्छन् वै उषद्गुःसोऽग्य्रमात्मजम्।
जज्ञे चित्ररथस्तस्य पुत्रः कर्म्मभिरन्वितः॥ १५.३ ॥
आसीच्चैत्ररथिर्वोरो यज्वा विपुलदक्षिमः।
शशविन्दुः परं वृत्तं राजर्षिणामनुष्ठितः॥ १५.४ ॥
पृथुश्रवाः पृथुयशाः राजासीच्छाशविन्दवः।
शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम्॥ १५.५ ॥
अन्तरस्य सुथज्ञस्तु सुयज्ञतनयोऽभवत्।
उषतो यज्ञमखिलं स्वधर्म्मे च कृतादरः॥ १५.६ ॥
शिनेयुरभवत् पुत्र उषतः शत्रुतापनः।
मरुतस्तस्य तनयो राजर्षिरभवन्नृपः॥ १५.७ ॥
मरुतोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम्।
चचार विपुलं धर्म्मममषति प्रत्यभागपि॥ १५.८ ॥
स सत्प्रसूतिमिच्छन् वै सुतं कम्बलबर्हिषः।
बभूव रुक्मकवचः शतप्रसवतः सुतः॥ १५.९ ॥
निहत्य रुक्मकवचः शतं कवचिनां रणे।
धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम्॥ १५.१० ॥
जज्ञे ज रुक्मकवचात् परिजित्परवीरहा।
जज्ञिरे पञ्च चपत्रास्तु महावीर्य्याः पराजिताः॥ १५.११ ॥
रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः।
पातितं च हरिं चैव विदेहेभ्यः पिता ददौ॥ १५.१२ ॥
रुक्मेषुरभवद्राजा पृथुर्क्मस्य संश्रयात्।
ताभ्यां प्रव्राजितो राजा ज्यामघोऽवसदाश्रमे॥ १५.१३ ॥
प्रशान्तश्च तदा राजा ब्राह्मणैश्चावबोधितः।
जगाम धनुरादाय देशमन्यं ध्वजी रथी॥ १५.१४ ॥
नर्म्मदाकूलमेकाकीमेकलां मृत्तिकावतीम्।
ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः॥ १५.१५ ॥
ज्यामघस्याभवद्भार्य्या शैब्या बलवती सती।
अपुत्रोऽपि स राजा वै नान्यां भार्य्यामविन्दता॥ १५.१६ ॥
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप सः॥
भार्य्यामुवाच सन्त्रस्तः स्नुषेति स जनेश्वरः॥ १५.१७ ॥
एतच्छ्रुत्वाब्रवीद्देवी कस्य देव स्नुषेति वै।
अब्रवीत्तदुपश्रुत्य ज्यामघो राजसतमः॥ १५.१८ ॥
<b>राजोवाच</b>
यस्ते जनिष्यते पुत्रास्तस्य भार्य्यापपादिता॥ १५.१९ ॥
उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती॥ १५.२० ॥
राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ।
पश्चाद्विदर्भोऽजनयच्छूरौ रणविशारवौ॥ १५.२१ ॥
भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत्।
कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापनवान्॥ १५.२२ ॥
घृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः।
आवन्तस्च दशार्हश्च बली विषहरश्च सः॥ १५.२३ ॥
दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते।
जीमूतपुत्रो विकृतिस्तस्य भीमरथः स्मृतः॥ १५.२४ ॥
अथ भीमरथस्यासीत् पुत्रो नवरथस्तथा।
तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः॥ १५.२५ ॥
तस्मात्करम्भः कारम्भिर्दैवरातोऽभवन्नृपः।
देवक्षत्रोऽभवत्तस्य वृद्धक्षत्रो महायशाः॥ १५.२६ ॥
देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः।
मधूनां वंशकृद्राजा मधुर्मधुरवागपि॥ १५.२७ ॥
मधोर्जज्ञेऽथ वेदर्भ्यां पुरुद्वान्पुरुषोत्तमः।
ऐक्ष्वाकी चाभवद्भार्य्या मधोस्तस्यां व्यजायत॥ १५.२८
सत्त्वान् सर्व्वगुणोपेतः सात्वतां कीर्त्तिवर्द्धनः।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।
युज्यते परमप्रीत्या प्रजावांश्च भवेत् सदा। १५.२९ ॥
<b>लोमहर्षण उवाच</b>
सत्त्वतः सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान्।
भागिनं भजमानं च दिव्यं देवावृधं नृपम्॥ १५.३० ।
अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम्।
तेषां विसर्गाश्चत्वारो विस्तरेणेह कीर्त्तिताः॥ १५.३१ ॥
भजमानस्य सृञ्जय्यौ ब३ह्यकाथोपबाह्यका।
आस्तां भार्य्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः॥ १५.३२ ॥
क्रिमिश्च क्रमणश्चैव धृष्टः शूरः पुरञ्जयः।
एते बाह्यकमृञ्जय्यां भजमानाद्विजज्ञिरे॥ १५.३३ ॥
अयुताजित् सहस्राजिच्छताजित्त्वथ दासकः।
उपबाह्यकसृञ्जय्यां भजमानद्विजज्ञिरे॥ १५.३४ ॥
यज्वा देवावृधो राजा चचार विपुलं तपः।
पुत्रः सर्व्वगुणोपेतो मम स्यादिति निश्चितः॥ १५.३५ ॥
संयुज्यमानस्तपसा पर्णाशाया जलं स्पृशन्।
सदोपस्पृशतस्तस्य चकार प्रियमापगा॥ १५.३६ ॥
चिन्तयाभिपरीता सा न जगामैव निश्चयम्।
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तममा॥ १५.३७ ॥
नाध्यगच्छत्तु तां नारीं यस्यामेवंविधः सुतः।
भवेत्तस्मात् स्वयं गत्वा भवाम्यस्य सहानुगा॥ १५.३८ ॥
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः।
वरयामास नृपतिं तामियेष च स प्रभुः॥ १५.३९ ॥
तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः।
अथ सा दशमे मासि सुषुवे सरितां वरा॥ १५.४० ॥
पुत्रं सर्व्वगुणोपेतंम बभ्रुं देवावृधं द्विजाः।
अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम्॥ १५.४१ ॥
गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः।
यथैवाग्रे तथा दूरात्पश्यामस्तावदन्तिकात्॥ १५.४२ ॥
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः।
षष्टिस्च षट् च पुरुषाः सहस्राणि च सप्त च ॥ १५.४३ ॥
एतेऽमृतत्वं प्राप्ता वै बभ्रोर्देवावृधादपि।
यज्जा दानपतिर्धीमान् ब्रह्मण्यः सुदृढायुधः॥ १५.४४ ॥
तस्यान्ववायः सुमहान्भोजा ये सार्त्तिकावताः।
अन्धकात्काश्यदुहिता चतुरोऽलभतात्मजान्॥ १५.४५ ॥
कुकुरं भजमानं च ससकं बलबर्हिषम्।
कुकुरस्य सुतो वृष्टिर्वृष्टेस्तु तनयस्तथा॥ १५.४६ ॥
कपोतरोमा तस्याथ तिलिरिस्तनयोऽभवत्।
जज्ञे पुनर्व्वसुस्तस्मादभिजिच्च पुनर्व्वसोः॥ १५.४७ ॥
तथा वै पुत्रमिथुनं बभूवाभिजितः किल।
आहुकझ श्राहुकश्चैव ख्यातौ ख्यातिमतां वरौ॥ १५.४८ ॥
इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम्।
श्वेतेन पिरवारेण किशोरप्रतिमो महान्॥ १५.४९ ॥
अशीतिवर्म्मणा युक्ता आहुकः प्रथमं व्रजेत्।
नापुत्रवान्नाशतदो नासहस्रशतायुषः॥ १५.५० ॥
नाशुद्धकर्म्मा नायज्वा यो भोजमभितो व्रजेत्।
पूर्व्वस्यां दिशि नागानां भोजस्य प्रययुः किल॥ १५.५१ ॥
सोमात्सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम।
रथानां मेघघोषाणां सहस्राणि दशैव तु॥ १५.५२ ॥
रौप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः।
तावत्येव सहस्राणि उत्तरस्यां तथा दिशि॥ १५.५३ ॥
आभूमिपाला भोजास्तु सन्ति ज्याकिङ्किणीकिनः।
आहुः किं चाप्यवन्तिभ्यः स्वासारं ददुरन्धकाः॥ १५.५४ ॥
आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः।
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ॥ १५.५५ ॥
देवकस्याभवन् पुत्राश्चत्वारस्त्रिदशोपमाः।
देववानुपदेवश्च संदेवो देवरक्षितः॥ १५.५६ ॥
कुमार्य्यः सप्त चास्याथ वसुदेवाय ता ददौ।
देकी शान्तिदेवा च सुदेवा देवरक्षिता॥ १५.५७ ॥
वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी।
नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्व्वजः॥ १५.५८ ॥
न्यग्रोधश्च सुनामा च तथा कङ्कः सुभूषणः।
राष्ट्रपालोऽथ सुतनुरनावृष्टिस्तु पुष्टिमान्॥ १५.५९ ॥
तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा।
सुतन् राष्टपाली च कङ्ता चैव वराङ्गना॥ १५.६० ॥
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः।
कुकुराणामिमं वंशं धारयन्नमितौजसाम्॥ १५.६१ ॥
आत्मनो विपुलं वंशं प्रजावानाप्नुयान्नरः॥ १५.६२ ॥
इति श्रीब्राह्मे महापुराणे वृष्णिवंशनिरूपणं नाम पञ्चदशोऽध्यायः॥ १५ ॥
<b>तत्रादौ सत्राजिदुपाख्यानवर्णनम्</b>
<b>लोमहर्षण उवाच</b>
भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः।
राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत्॥ १६.१ ॥
राजाधिदेवस्य सुता जज्ञिरे वीर्य्यवत्तराः।
दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः॥ १६.२ ॥
शमी च दण्डशर्म्मा च दन्तशत्रुश्च शत्रुजित्।
श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः॥ १६.३ ॥
शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः।
स्वयम्भोजः स्वयम्भोजाद्भदिकः सम्बभूव ह॥ १६.४ ॥
तस्य पुत्रा बभूवुर्हि सर्व्वे भीमपराक्रमाः।
कृतवर्म्माग्रजस्तेषां शतधन्वा तु मध्यमः॥ १६.५ ॥
देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः।
सुदान्तश्चादिदान्तश्च निकाश्यः कामदम्भकः॥ १६.६ ॥
देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः।
असमौजाः सुतस्तस्य नासमौजाश्च तावुभौ॥ १६.७ ॥
अजातपुत्राय चसुतान् प्रददावसमौजसे।
सुदंष्ट्रश्च शुचारुश्च कृष्ण इत्यन्धकाः स्मृता॥ १६.८ ॥
गान्धारी चैव माद्री च क्रोष्टुभार्य्ये बभूवतुः।
गान्धारी जनयामास अनमित्रं महाबलम्॥ १६.९ ॥
माद्री युधाजितं पुत्रं ततो वै देवमीढुषम्।
अनमित्रममित्राणां जेतारमपराजितम्॥ १६.१० ॥
अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः।
प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ॥ १६.११ ॥
प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम्।
दिव्यं स्यमन्तकं नाम स सूर्यादुपलब्धवान्॥ १६.१२ ॥
तस्य सत्राजितः सूर्य्यः यथा प्राणसमोऽभवत्।
स कदाचिन्निशापाये रथेन रथिनां वरः॥ १६.१३ ॥
तोयकूलमपः स्प्रष्टुमुपस्थातुं                                                                                                                                                                                                                                                                                                                                                           ययौ रविम्।
तस्योपतिष्ठतः सूर्य्यं विवस्वानग्रतः स्थितः॥ १६.१४ ॥
विस्पष्टमूर्त्तिर्भगवांस्तेजोमण्डलवान् विभुः।
अथ राजा विवस्वन्तमुवाच स्थितमग्रतः॥ १६.१५ ॥
यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते।
तेजोमण्डलिनं देवं तथैव पुरतः स्थितम्॥ १६.१६ ॥
को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै।
एतच्छ्रुत्वा तु भगवान्मणिरत्नं स्यमन्तकम्॥ १६.१७ ॥
स्वकण्ठादवमुच्याथ एकान्ते न्यस्तवान् विभुः।
ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा॥ १६.१८ ॥
प्रीतिमानथ तं दृष्ट्वा मुहूर्त्तं कृतवान् कथाम्।
तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित्॥ १६.१९ ॥
लोकान् भासयसे सर्व्वान् भास्करस्तदा।
तदेतन्मणिरत्नं मे भगवन् दातुमर्हसि॥ १६.२० ॥
ततः स्यमन्तकमणिं दत्तवात् भास्करस्तदा।
स तमाबध्य नगरीं प्रविवेश महीपतिः॥ १६.२१ ॥
तं जनाः पर्य्यधावन्तः सूर्य्योऽयं गच्छतीति ह।
स्वां पुरीं स विसिष्माय राजा त्वन्तःपुरं तथा॥ १६.२२ ॥
तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम्।
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम्॥ १६.२३ ॥
स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने।
कालवर्षी च पर्जन्यो न च व्याधिभयं ह्मभूत्॥ १६.२४ ॥
लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके।
गोविन्दो न च तं लेभे भक्तोऽपि न जहार सः॥ १६.२५ ॥
कदचिन्मृगयां यातः प्रसेनस्तेन भूषितः।
स्यमन्तककृते सिंहाद्वधं प्राप वनेचरात् ॥ १६.२६ ॥
अथ सिंहं प्रधावन्तमृक्षराजो महाबलः।
निहत्य मणिरत्नं तदादाय प्राविशद्गुहाम्॥ १६.२७ ॥
ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात्।
प्रार्थनां तां मणेर्बुद्ध्वा सर्व्व एव शशङ्किरे॥ १६.२८ ॥
स शङ्क्यमानो धर्म्मात्मा ह्यकारी तस्य कर्म्मणः।
आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ॥ १६.२९ ॥
यत्र प्रसेनो मृगयां व्याचरत्तत्र चाप्यथ।
प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः॥ १६.३० ॥
ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तम्।
अन्वेषयन् परिश्रान्तः स ददर्श महामनाः॥ १६.३१ ॥
साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम्।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः॥ १६.३२ ॥
ऋक्षेण निहतो दृष्टः पदैर्ऋक्षस्तु सूचितः।
पदैस्तैरन्वियायाथ गुहामृक्षस्य माधवः॥ १६.३३ ॥
स हि ऋक्षविले वाणीं शुश्राव प्रमदेरिताम्।
धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः॥ १६.३४ ॥
क्रीडयन्त्या च मणिना मा रोदीरित्यथेरिताम्॥ १६.३५ ॥
<b>धात्र्युवाच</b>
सिंहः प्रसेनमधीत् सिंहो जाम्बवता हतः।
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः॥ १६.३६ ॥
व्यक्तितस्तस्य शब्दस्य तूर्णमेव बिलं ययौ।
प्रविश्य तत्र च भगवांस्तदृक्षबिलमञ्जसा॥ १६.३७ ॥
स्थापयित्वा बिलद्वारे यदूँल्लाङ्गलिना सह।
शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः॥ १६.३८ ॥
युयुधे वासुदेवस्तु बिले जाम्बवता सह।
बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम्॥ १६.३९ ॥
प्रविष्टेऽथ बिले कृष्णे बलदेवपुरःसराः।
पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन्॥ १६.४० ॥
वासुदेवोऽपि निर्जित्य जाम्बवन्तं महाबलम्।
लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम्॥ १६.४१ ॥
मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये।
अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात्॥ १६.४२ ॥
उपायाद्द्वारकां कृष्णः सविनीतैः पुरःसरैः।
एवं स मणिराहृत्य विशोध्यात्मानमच्युतः॥ १६.४३ ॥
ददौ सत्राजिते तं वै सर्वसात्त्वतसंसदि।
एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना॥ १६.४४ ॥
आत्मा विशोधितः पापाद्विनिर्जित्य स्यमन्तकम्।
सत्राजितो दश त्वासन् भार्य्यास्तासां शतं सुताः॥ १६.४५ ॥
ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्व्वजः।
वीरो वातपतिश्चैव वसुमेधस्तथेव च ॥ १६.४६ ॥
कुमार्य्यश्चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः।
सत्यभामोत्तमा तासां व्रतिनी च च दृढव्रता॥ १६.४७ ॥
तथा प्रस्वापिनी चैव भार्य्याः कृष्णाय ता ददौ।
सभाक्षो भङ्गकारिस्तु नावेयश्च नरोत्तमौ॥ १६.४८ ॥
जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा।
माद्रयाः पुत्रस्तु जज्ञेऽथ वृष्णिपुत्रो युधाजितः॥ १६.४९ ॥
जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा।
श्वफल्कः काशिराजस्य सुतां भार्य्यामविन्दत॥ १६.५० ॥
गान्दिनीं नाम तस्याश्च गाः सदा प्रददौ पिता।
तस्यां जज्ञे महाबाहुः श्रुतवानतिथिप्रियः॥ १६.५१ ॥
अक्रूरोऽथ महाभागो जज्ञे विपुलदक्षिणः।
उपमद्गुस्ततथा मद्गुर्म्मुदरश्चारिमर्दनः॥ १६.५२ ॥
आरिक्षेपस्तथोपेक्षः शत्रुहा चारिमेजयः।
धर्म्मभृच्चापि धर्म्मा च गृध्रभोजान्धकस्तथा॥ १६.५३ ॥
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना।
विश्रुताश्वस्य महिषी कन्या चास्य वसुन्धरा॥ १६.५४ ॥
रुपयौवनसम्पन्ना सर्व्वसत्त्वमनोहरा।
अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ॥ १६.५५ ॥
वसुदेवश्चोपदेवश्च जज्ञाते देववर्च्चसौ।
चित्रकस्याभवन् पुत्राः पृथुर्व्विपृथुरेव च॥ १६.५६ ॥
अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ।
अरिष्टनेमिश्च सुता धर्म्मो धर्म्मभृदेव च॥ १६.५७ ॥
सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ।
इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम्॥ १६.५८ ॥
वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन॥ १६.५९ ॥
इति श्रीब्राह्मे महापुराणे स्यमन्तकप्रत्यानयननिरूपणं नाम षोडशोऽध्यायः॥ १६ ॥
<b>स्यमन्तकोपाख्यानवर्मनम्	</b>
<b>लोमहर्षण उवाच</b>
यत्तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम्।
ददावहारयद्‌बभ्रुर्भोजेन शतधन्वना॥ १७.१ ॥
सदा हि प्रार्थयामास सत्यभामामनिन्दिताम्।
अक्रूरोऽन्तरमन्विषयन्मणिं चैव स्यमन्तकम्॥ १७.२ ॥
सत्राजितं ततो हत्वा शतधन्वा महाबलः।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान्॥ १७.३ ॥
अक्रूरस्तु तदा विप्रा रत्नमादाय चोत्तमम्।
समयं कारयाञ्चक्रे नावेद्योऽहं त्वयेत्युत॥ १७.४ ॥
वयमभ्युत्‌प्रपत्‌स्यामः कृष्णेन त्वां प्रधर्षितम्।
ममाद्य द्वारका सर्व्व वसे तिष्ठत्यसंशयम्॥ १७.५ ॥
हते पितरि दुःखार्त्ता सत्यभामा मनस्विनी।
प्रययौ रथमारुह्य नगरं वारणावतम्॥ १७.६ ॥
सत्यभामा तु तद्‌वृत्तं भोजस्य शतधन्वनः।
भर्त्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत्॥ १७.७ ॥
पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम्।
कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम्॥ १७.८ ॥
ततस्त्वरितमागम्य द्वारकां मधुसूदनः।
पूर्व्वजं हलिनं श्रीमानिदं वचनमब्रवीत्॥ १७.९ ॥
<b>श्रीकृष्ण उवाच</b>
हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना।
स्यमन्तकस्तु मद्गामी तस्य प्रभुरहं विभो॥ १७.१० ॥
तदारोह रथं शीघ्रं भोजं हत्वा महारथम्।
स्यमन्तको महाबाहो अस्माकं स भविष्यति॥ १७.११ ॥
<b>लोमहर्षण उवाच॥</b>
ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः।
शतधन्वा ततोऽक्रूरं सर्व्वतोदिशमैक्षत॥ १७.१२ ॥
संरब्धौ तावुभौ तत्र दृष्ट्वा भोजजनार्दनौ।
शक्तोऽपि सापाद्धार्दिक्यमक्रूरो नान्वपद्यत॥ १७.१३ ॥
अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः।
योजनानां शतं साग्रं हृदया प्रत्यपद्यत॥ १७.१४ ॥
विख्याता हृदया नाम शतयोजनगामिनी।
भोजस्य वडवा विप्रा यया शतधन्वानमद्‌र्दयत् ॥ १७.१५ ॥
क्षीणां जवेन हृदयामध्वनः शतयोजने।
दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमद्‌र्दयत्॥ १७.१६ ॥
ततस्तस्या हतायास्तु श्रमात् खेदाच्च भो द्विजाः।
खमुत्पेतुरथ प्राणाः कुष्णो राममथाब्रवीत्॥ १७.१७ ॥
<b>श्रीकृष्ण उवाच॥</b>
तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया।
पद्‌भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम्॥ १७.१८ ॥
पद्‌भ्यामेव ततो गत्वा शतधन्वानमच्युतः।
मिथिलामभितो विप्रा जघान परमास्त्रवित्॥ १७.१९ ॥
स्यमन्तकं च नापश्यद्धत्वा भोजं महाबलम्।
निवृत्तं चाब्रवीत् कृष्णं मणिं चदेहीति लाङ्गली॥ १७.२० ॥
नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः।
धिक्‌शब्दपूर्व्वमसकृत् प्रत्युवाच जनाद्‌र्दनम्॥ १७.२१ ॥
<b>बलराम उवाच</b>
भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम्।
कृत्यं न मे द्वारकया नत्वया न च वृष्णिभिः॥ १७.२२ ॥
प्रविवेश ततो रामो मिथिलामरिमद्‌र्दनः।
सर्व्वकामैरुपहृतैर्मिथिलेनाभिपूजितः॥ १७.२३ ॥
एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः।
नानारूपान् क्रतून् सर्व्वानाजहार निरर्गलान्॥ १७.२४ ॥
दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह।
स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशा॥ १७.२५ ॥
अथ रत्नानि चान्यानि धनानि विविधानि च।
षष्टिं वर्षाणि धर्म्मात्मा यज्ञेष्वेव न्ययोजयत्॥ १७.२६ ॥
अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः।
बह्वन्नदक्षिणाः सर्व्वे सर्व्वकामप्रदायिन॥ १७.२७ ॥
अथ दुर्य्योधनो राजा गत्वा स मिथिलां प्रभुः।
गदाशिक्षां ततो दिव्यां बलदेवादवाप्तवान्॥ १७.२८ ॥
सप्प्रसाद्य ततो रामो वृष्णयन्धकमहार्थैः।
आनीतो द्वारकामेव कृष्णेन च महात्मना॥ १७.२९ ॥
अक्रूरश्चान्धकैः सार्द्धमायातः पुरुषर्षभः।
हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः॥ १७.३० ॥
ज्ञातिभेदभयात्कृषणस्तमुपेक्षितवांस्तदा।
अपयाते तदाक्रूरे नावर्षत्पाकशासनः॥ १७.३१ ॥
अनावृष्ट्या तदा राष्ट्रमभवद्बहुधा कृशम्।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः॥ १७.३२ ॥
पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः।
प्रववर्ष सहस्राक्षः कक्षे जलनिधेस्तदा॥ १७.३३ ॥
कन्यां च वासुदेवाय स्वसारं शीलसम्मताम्।
अक्रूरः प्रददौ धीमान् प्रीत्यर्थ मुनिसत्तमाः॥ १७.३४ ॥
अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम्।
सभामध्यगतः प्राह तमक्रूरं जनद्‌र्दनः॥ १७.३५ ॥
<b>श्रीकृष्ण उवाच</b>
यत्तद्रत्नं मणिवरं तव हस्तगतं विभो।
तत्प्रयच्छ च मानार्ह मयि मानार्य्यकं कृथाः॥ १७.३६ ॥
षष्टिवर्षगते काले यो रोषोऽभून्ममानघ।
स संरुढोऽसकृत् प्राप्तस्ततः कालात्ययो महान्॥ १७.३७ ॥
स ततः कृष्णवचनात् सर्व्वसात्तवतसंसदि।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः॥ १७.३८ ॥
ततस्तमार्जवात् प्राप्तं बभ्रोर्हस्तादरिन्दमः।
ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः॥ १७.३९ ॥
स कृष्णहस्तान् सम्प्राप्तं मणिरत्नं स्यमन्तकम्।
आबध्य गान्दिनीपुत्रो विरराजशुंमानिव॥ १७.४० ॥
इति श्रब्राह्मे महापुराणे सोमवंशकथनं नाम सप्तदशोऽध्यायः॥ १७ ॥
<b>तत्रादौ भुवनकोश्द्वीपवर्णनम्</b>
<b>मुनय ऊचुः</b>
अहो सुमहदाख्यानं भवता परिकीर्त्तितम्।
भारतानां च सर्व्वेषां पार्थिवानां तथैव च॥ १८.१ ॥
देवानां दानवानां च गन्धर्व्वोरगरक्षसाम्।
दैत्यानामथ सिद्धानां गुह्यकानां तथैव च॥ १८.२ ॥
अत्यद्‌भुतानि कर्म्माणि विक्रमा धर्म्मनिश्चयाः।
विविधाश्च कथा दिव्या जन्म चाग्य्रमनुत्तमम्॥ १८.३ ॥
सृष्टिः प्रजापतेः सम्यक्तवया प्रोक्ता महामते।
प्रजापतीनां सर्व्वेषां गुह्यकाप्सरसां तथा॥ १८.४ ॥
स्थावारं जङ्मं सर्व्वमुत्पन्नं विविधं जगत्।
त्वया प्रोक्तं महाभाग श्रुतं चैतन्मनोहरम्॥ १८.५ ॥
कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा।
मनःकर्णसुखं सम्यक् प्रीणात्यमृतसम्मितम्॥ १८.६ ॥
इदानीं श्रोतुमिच्छामः सकलं मण्डलं भुवः।
वक्तुमर्हसि सर्व्वज्ञ पं कौतूहलं हि नः॥ १८.७ ॥
यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्व्वताः।
वनानि सरितः पुण्यवादीनां महामते॥ १८.८ ॥
यत्प्रमाणमिदं सर्व्वं यदाधारं यदात्मकम्।
संस्थानमस्य जगतो यथावद्वक्तुमर्हसि॥ १८.९ ॥
मुनयः श्रूयतामेतत् संक्षेपाद्वदतो मम।
नास्य वर्षशतेनापि वक्तुं शवयोऽतिविस्तरः॥ १८.१० ॥
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः।
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः॥ १८.११ ॥
एते द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्॥ १८.१२ ॥
जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः।
तस्यापि मध्ये विप्रेन्द्राः मेरुः कनकपर्व्वतः॥ १८.१३ ॥
चतुरशीतिसाहस्रैर्योजनैस्तस्य चोच्छ्रयः।
प्रविष्टः षौडशाधस्ताद्‌द्वात्रिंशन्मूर्ध्नि विस्तृतः॥ १८.१४ ॥
मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्व्वतः।
भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसस्थिंतः॥ १८.१५ ॥
जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः।
तस्यापि मध्ये विप्रेन्द्राः मेरुः कनकपर्व्वतः॥ १८.१६ ॥
लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे।
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते॥ १८.१७ ॥
भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम्।
हरिवर्षं तथैवान्यन्मेरोद्‌र्दक्षिणतो द्विजाः॥ १८.१८ ॥
रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्ययम्।
उत्तराः कुरवश्चैव यथा वै भारतं तथा॥ १८.१९ ॥
नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः।
इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः॥ १८.२० ॥
मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम्।
इलावृतं महाभागाश्चत्वारश्चात्र पर्व्वताः॥ १८.२१ ॥
विष्कम्भा वितता मेरोर्योजनायुतविस्तृताः।
पूर्व्वेण मन्दरो नाम दक्षिणे गन्धमादनः॥ १८.२२ ॥
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः।
कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च॥ १८.२३ ॥
एकादशशतायामाः पादपा गिरिकेतवः।
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः॥ १८.२४ ॥
महागजप्रमामानि जम्बास्तस्याः फलानि वै।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्व्वतः॥ १८.२५ ॥
रसेन तेषआं विख्याता तत्र जम्बूनदीति वै।
सरित्प्रवर्तते सा च पीयते तन्निवासिभिः॥ १८.२६ ॥
न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः।
तत्पानस्वस्तमनसां जनानां तत्र जायते॥ १८.२७ ॥
तीरमृत्तद्रसं प्राप्य सुखवायुविसोषिता।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्॥ १८.२८ ॥
भद्राश्वं पूर्व्वतो मेरोः केतुमालञ्च पश्चिमे।
वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम्॥ १८.२९ ॥
वनं चैत्ररथं पूर्व्वे दक्षिणे गन्धमादनम्।
वै भ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम्॥ १८.३० ॥
अरुणोदं महाभद्रमसितोदं समानसम्।
सरास्येतानि चत्वारि देवभोग्यानि सर्व्वदा॥ १८.३१ ॥
शान्तवांश्चक्रकुञ्जश्च कुररी माल्यवांस्तथा।
वैकङ्कप्रमुखा मेरोः पूर्व्वतः केसराचलाः॥ १८.३२ ॥
त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा।
निषधादयो दक्षिणतस्तस्य केसरपर्व्वताः॥ १८.३३ ॥
सिखिवासः सवैदूर्य्यः कपिलो गन्धमादनः।
जानुधिप्रमुखास्तद्वत् पश्चिमे केसराचलाः॥ १८.३४ ॥
मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः।
शङ्खकूटोऽथ ऋषभो हंसो नागस्तथापराः॥ १८.३५ ॥
कालञ्जराद्याश्च तथा उत्तरे केसराचलाः।
चतुद्‌र्दश सहस्राणि योजनानां महपुरो॥ १८.३६ ॥
मेरोरुपरि विप्रन्द्रा ब्रह्मणः कथिता दिवि।
तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च॥ १८.३७ ॥
इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः।
विष्णुपादविनिष्क्रान्ता प्लावयन्तोन्दुमण्डलम्॥ १८.३८ ॥
समन्ताद्‌ब्रह्मणः पुर्य्याः गङ्गा पतति वै दिवि।
सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत॥ १८.३९ ॥
सोता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात्।
पूर्व्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगाः॥ १८.४० ॥
ततश्च पूर्व्ववर्षेण भद्राश्वेनेति सार्णवम्।
तथैवालकनन्दा च दक्षिणेनैत्य भारतम्॥ १८.४१ ॥
प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः।
चक्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः॥ १८.४२ ॥
पश्चिमं केतुमालाख्यं वर्षमन्वेति सार्णवम्।
भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून्॥ १८.४३ ॥
अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः।
आनीलनिषधायामौ माल्यवद्‌गन्धमादनौ॥ १८.४४ ॥
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः।
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा॥ १८.४५ ॥
पत्राणि लोकशैलस्य मर्य्यादाशैलबाह्यतः।
जठरो देवटकूटश्च मर्य्यदापर्व्वतावुभौ॥ १८.४६ ॥
तौ दक्षिणोत्तरायाभावानीलनिषधायतौ।
गन्धमादनकैलासौ पूर्व्वपश्चात्तु तावुभौ॥ १८.४७ ॥
अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ।
निषधः पारियात्रश्च मर्य्यादापर्व्वतावुभौ॥ १८.४८ ॥
तौ दक्षिणोत्तरायामावानीलनिषधायतौ।
मेरोः पश्चिमदिग्भागे यथा पूर्व्वौ तथा स्थितौ॥ १८.४९ ॥
त्रिश्रृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्व्वतौ।
पूर्व्वपश्चायतावेतावर्मवान्तर्व्यवस्थितौ॥ १८.५० ॥
इत्येते हि मया प्रोक्ता मर्य्यादापर्व्वता द्विजाः।
जठरावस्थिता मेरोर्य्येषां द्वौद्वौ चतुर्दिदशम्॥ १८.५१ ॥
मेरोश्चतुर्द्दिशं ये तु प्रोक्ताः केसरपर्व्वताः।
सीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः॥ १८.५२ ॥
शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः।
सुरम्याणि तथा तासु काननानि पुराणि च॥ १८.५३ ॥
लक्ष्मीविष्ण्वग्निसूर्य्येन्द्रदेवानां मुनिसत्तमाः।
तास्वायतनवर्षाणि जुष्टानि नरकिन्नरैः॥ १८.५४ ॥
गन्धर्व्वयक्षरक्षांसि तथा दैतेयदानवाः।
क्रीडन्ति तासु रम्यासु शैलद्रोणिष्वहर्निशम्॥ १८.५५ ॥
भौमा ह्येते स्मृताः सर्गा धर्म्मिणामालया द्विजाः।
नैतेषु पापकर्त्तारो यान्ति जन्मशतैरपि॥ १८.५६ ॥
भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विजाः।
वाराहः केतुमाले तु भारते कूर्म्मरूपधृक्॥ १८.५७ ॥
मत्स्यरूपश्च गोविन्दः कुरुषवास्ते सनातनः।
विश्वरूपेण सर्व्वत्र सर्व्वः सर्व्वेस्वरो हरिः॥ १८.५८ ॥
सर्व्वस्याधारभूतोऽसौ द्विजा आस्तेऽखिलात्मकः।
यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमा॥ १८.५९ ॥
न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम्।
सुस्थाः प्रजा निरातङ्काः सर्व्वदुःखविवर्ज्जिताः॥ १८.६० ॥
दसद्वादशवर्षाणां सहस्राणि स्थिरायुषः।
नैतेषु भौमान्यन्यानि श्रुत्पिपासादि नो द्विजाः॥ १८.६१ ॥
कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना।
सर्व्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः।
नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तमाः॥ १८.६२ ॥
इति श्रीब्रह्मे महापुराणे भुवनकोशद्वीपवर्णनं नामाष्टादशोऽध्यायः॥ १८ ॥
<b>जम्बूद्वीपवर्मनम्	</b>
<b>लोमहर्षण उवाच	</b>
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः॥ १९.१ ॥
नवयोजनसाहस्रो विस्तारश्च द्विजोत्तमाः।
कर्म्मभूमिरियं स्वर्गमपवर्गञ्च इच्छताम्र॥ १९.२ ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः।
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलर्व्वताः॥ १९.३ ॥
अतः सम्प्राण्यते स्वर्गो मुक्तिमस्मात् प्रयाति वै।
तिर्य्यवत्वं नरकं चापि यान्त्यतः पुरुषा द्विजाः॥ १९.४ ॥
इतः स्वर्गश्च मोभश्च मध्यं चान्ते च गच्छति।
न खल्वन्यत्र मर्त्त्यानां कर्म्मभूमौ विधीयते॥ १९.५ ॥
भारतस्यास्य वर्षस्य नव भेदान्निशामय।
इन्द्रद्वीपः कसेतुमांस्ताम्रपर्णो गभस्तिमान्॥ १९.६ ॥
नागद्वीपस्तथा सौम्यो गन्धर्व्वस्त्वथ वारुणः।
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः। १९.७ ॥
योजनानां सहस्रं च द्वीपोऽयं दक्षिणोत्तरात्।
पूर्व्व किरातास्तिष्ठन्ति पश्चिमे यवनाः स्थिताः॥ १९.८ ॥
ब्राह्मणाःक्षत्रिया वैश्या मध्ये शूद्राश्च भागशः।
इज्यायुद्धवणिज्याद्यवृत्तिमन्तो व्यावस्थिताः॥ १९.९ ॥
शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः।
वेदस्मृतिसुखाश्चान्याः पारियात्रोद्‌भवा मुने॥ १९.१० ॥
नर्म्मदासुरामाद्यास्च नद्यो विन्ध्यविनिःसृताः।
तापीपयोष्णीनिर्व्विन्ध्याकावेरीप्रमुखा नदीः॥ १९.११ ॥
ऋक्षपादोद्भवा ह्येता श्रुताः पापं हरन्ति याः।
गोदावरीभीमरथीकृष्णावेण्यादिकास्तथा॥ १९.१२ ॥
सह्यपादोद्‌भवा नद्यः स्मृताः पापभयापहाः।
कृतमालाताम्रर्णोप्रमुखा मलयोद्‌भवाः॥ १९.१३ ॥
त्रिसान्ध्यऋषिकुल्याद्याः महेन्द्रप्रभवाः स्मृताः।
ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः॥ १९.१४ ॥
आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः।
तास्विमे कुरुपञ्चालमध्यदेशादयो जनाः॥ १९.१५ ॥
पूर्व्वदेशादिकाश्चैव कामरूपनिवासिनः।
प्रोण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्व्वशः॥ १९.१६ ॥
तथआपरान्त्याः सौराष्ट्राः शूद्राभीरास्तथाऽर्व्वुदाः।
मारुका मालवाश्चैव पारियात्रनिवासिनः॥ १९.१७ ॥
सौवीराः सौन्धवापन्नाः शाल्वाः शाकलवासिनः।
मद्रारामास्तताम्बष्ठाः पारसीकादयस्तथा॥ १९.१८ ॥
आसां पिबन्ति सलिलं वसन्ति सरितां सदा।
समोपेता महाभागा हष्टपुष्टजनाकुलाः॥ १९.१९ ॥
वसन्ति भारते वर्षे युगान्यत्र महामुने।
कृतं त्रेता द्वापरं च कलिश्चाप्यत्र न क्वचित्॥ १९.२० ॥
तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः।
दानानि चात्र दीयन्ते परलोकार्थमादरात्॥ १९.२१ ॥
पूरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते।
यज्ञेर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा॥ १९.२२ ॥
अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने।
यतो हि कर्म्मभूरेषा यतोऽन्या भोगभूमयः॥ १९.२३ ॥
अत्र जन्मसहस्राणां सहस्रैरपि सत्तम।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयात्॥ १९.२४ ॥
गायन्ति देवाः किल गीतकानि, धन्यास्तु ये भारतभूमिभागे।
स्वर्गापवर्गास्पदहेतुभूते, भवन्ति भूयः पुरषा मनुष्याः॥ १९.२५ ॥
कर्म्माण्यसंकल्पिततत्फलानि, संन्यस्य विष्णौ परमात्मरूपे।
अवाप्य तां कर्म्ममहीमनन्ते, तस्मिंल्लयं ये त्वमलाः प्रयान्ति॥ १९.२६ ॥
जानीम नो तत्तु वयं विलीने, स्वर्गप्रदे कर्म्मणि देहबन्धम्।
प्राप्स्यन्ति धन्याः खलु ते मनुष्या, ये भारते नेन्द्रियविप्रहीनाः॥ १९.२७ ॥
नववर्षञ्च भो विप्रा जम्बूद्वीपमिदं मया।
लक्षयोजनविस्तारं संक्षेपात् कथितं द्विजाः॥ १९.२८ ॥
जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः।
भो द्विजा वलयाकारः स्थितः श्रीरोदधिर्बहिः॥ १९.२९ ॥
इति श्रीब्राह्मे महापुराणे जम्बूद्वीपनिरुपणं नामैकोनविंशोऽध्यायः॥ १९ ॥
<b>जम्बूद्वीपवर्णनम्	</b>
<b>लोमहर्षण उवाच	</b>
क्षीरोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः।
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थिताः॥ २०.१ ॥
जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः।
स एव द्विगुणो विप्राः प्लक्षद्वीपेऽप्युदाहृतः॥ २०.२ ॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै।
श्रेष्ठ शान्तमयो नाम शिशिरस्तदनन्तरम्॥ २०.३ ॥
सुखोदयस्तथानन्दः शिवः क्षेमक एव च।
ध्रुवश्च सप्तमस्तेषां प्लक्षद्विपेश्वरा हि ते॥ २०.४ ॥
पूर्व्व शान्तमयं वर्षं शिशिरं सुखदं तथा।
आनन्दञ्च शिवञ्चैव क्षेमकं धुवमेव च॥ २०.५ ॥
मर्य्यादाकारकास्तेषां तथान्ये वर्षपर्व्वताः।
सप्तैव तेषां नामानि शृणृध्वं मुनिसत्तमाः॥ २०.६ ॥
गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा।
सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः॥ २०.७ ॥
वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघआः।
वसन्ति देवगन्धर्व्वसहिताः सहितं प्रजाः॥ २०.८ ॥
तेषु पुण्या जनपदा वीरा न म्रियते जनः।
नाधयो व्याधयो वापि सर्व्वकालसुखं हि तत्॥ २०.९ ॥
तेषां नद्यश्च सप्तैव वर्षाणान्तु समुद्रगाः।
नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः॥ २०.१० ॥
अनुतप्ता शिखा चैव विप्रासा त्रिदिवा क्रमुः।
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः॥ २०.११ ॥
एते शैलास्तथा नद्यः प्रथानाः कथिता द्विजाः।
क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति महस्रशः॥ २०.१२ ॥
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते।
अवसर्पिणी नदी तेषां न चैवोत्सपिर्णो द्विजाः॥ २०.१३ ॥
न तेष्वस्ति युगावस्था तेषु स्थानेषु सपतषु।
त्रेतायुगसमः कालः सर्व्वदैव द्विजोत्तमाः॥ २०.१४ ॥
प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै।
पञ्चवर्षसहस्राणि जना जीवन्त्यनामयाः॥ २०.१५ ॥
धर्म्मस्चतुर्व्विधस्तेषु वर्णाश्रमविभागजः।
वर्णास्च तत्र चत्वारस्तान् बुधाः प्रवदामि वः॥ २०.१६ ॥
आर्य्यकाः कुरवश्चैव विविश्वा भाविनश्च ये।
विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तमाः॥ २०.१७ ॥
जम्बुवृक्षप्रमाणन्तु तन्मध्ये सुमहातरुः।
प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तमाः॥ २०.१८ ॥
इज्येते तत्र भगवांस्तैर्व्वर्णैरार्य्यकादिभिः।
सोमरूपी जगत्‌स्रष्टा सर्ध्वः सर्व्वेश्वरो हरिः॥ २०.१९ ॥
प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समागवृतः।
तथैवेक्षुरसोदेन परिवेषानुकारिणा॥ २०.२० ॥
इत्येतद् वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः।
संक्षोपेम मया भूयः शाल्मलं तं निबोधत॥ २०.२१ ॥
शाल्मस्येश्वरो वीरो वपुष्मांस्तत्सुता द्विजाः।
तेषान्तु नाम संज्ञानि सप्त वर्षाणि तानि वै ॥ २०.२२ ॥
श्वेतोऽथ हरितस्चैव जीमूतो रोहितस्तथा।
वैद्युतो मानसश्चैव सुप्रभश्च द्विजोत्तमाः॥ २०.२३ ॥
शाल्मलश्च समुद्रोऽसौ द्वीपेनेक्षुरसोदकः।
विस्ताराद्‌द्विगुणेनाथ सर्व्वतः संवृतः स्थितः॥ २०.२४ ॥
तत्रापि पर्व्वताः सप्त विज्ञेया रत्नयोनयः।
वर्षाभिव्यञ्जकास्ते तु तथा स्पतैव निम्नगाः॥ २०.२५ ॥
कुमुदश्चोन्नतश्चैव तृतीयस्तु बलाहकः।
द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः॥ २०.२६ ॥
कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा।
ककुद्‌मान् पर्व्वतवरः सरिन्नामान्यतो द्विजाः॥ २०.२७ ॥
श्रोणीतोया वितृष्णा च चन्द्रा शुक्रा विमोचनी।
निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः॥ २०.२८ ॥
श्वेतञ्च चलोहितञ्चैव जीमूतं हरितं तथा।
वैद्युतं मानसञचैव सुप्रभं नाम सप्तमम्॥ २०.२९ ॥
सप्तैतानि तु वर्षाणि चातुर्व्वर्ण्ययुतानि च।
वर्णाश्च शाल्मले ये च वसन्त्येषु द्विजोत्तमाः॥ २०.३० ॥
कपिलाश्चारुणाः पीताः कृष्णास्चैवपृथक्‌पृथक्।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम्॥ २०.३१ ॥
भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम्।
वायुभूतं मखश्रेष्ठैर्यज्वानो यज्ञसंस्थितम्॥ २०.३२ ॥
देवानामत्र सान्निध्यमतीव सुमनोहरे।
शाल्मलिश्च महावृक्षो नामनिवृत्तिकारकः॥ २०.३३ ॥
एष द्वीपः समुद्रेण सुरोदेन समावृतः।
शाल्मलस्य तु विस्ताराद्‌द्विगुणेन समन्ततः॥ २०.३४ ॥
सुरोदकः परिवृतः कुशद्वीपेन सर्व्वतः।
शाल्मलस्य तु विस्ताराद्‌द्विगुणेन समन्ततः॥ २०.३५ ॥
ज्योतिष्मतः कुशद्वीपे श्रृणुध्वं तस्य पुत्रकान्।
उद्भिदो वेणुमांश्चैव स्वैरथो रन्धनो धृतिः॥ २०.३६ ॥
प्रभाकरोऽथ कपिलस्तन्नाम्ना वर्षपद्धतिः।
तस्यां वसन्ति मनुजैः सह दैतेयदानवाः॥ २०.३७ ॥
तथैव देवगन्धर्व्वा यक्षकिम्पुरुषादयः।
वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः॥ २०.३८ ॥
दमिनः शुष्मिणः स्नेहा मान्दहाश्च द्विजोत्तमाः।
ब्राह्मणाः क्षत्रिया वैस्याः शूद्रास्चानुकमोदिताः॥ २०.३९ ॥
यथोक्तकर्म्मकर्त्तृत्वात् स्वाधिकारक्षयाय ते।
तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनाद्र्दनम्॥ २०.४० ॥
यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम्।
विद्रुमो हेमसैलश्च द्युतिमान् पुष्टिमांस्तथा॥ २०.४१ ॥
कुशेशयो हरिश्चैव सप्तमो मन्दराचलः।
वर्षाचलास्तु सप्तैते द्वीपे तत्र द्विजोत्तमाः॥ २०.४२ ॥
नद्यश्च सप्त तासां तु वक्ष्ये नामान्यनुक्रमात्।
धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा॥ २०.४३ ॥
विद्युदम्भो मही चान्या सर्व्वपापहरास्त्विमाः।
अन्याः सहस्रस्स्तत्र क्षुद्रनद्यस्तथाचलाः॥ २०.४४ ॥
कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत्स्मृतम्।
तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः॥ २०.४५ ॥
घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः।
क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान्॥ २०.४६ ॥
कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य विस्तरः।
क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्ममनः॥ २०.४७ ॥
तन्नामानि च वर्षाणि तेषां चक्रे महामनाः।
कुशगो मन्दगश्चोष्णः पीवरोऽथान्धकारकः॥ २०.४८ ॥
मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता द्विजाः।
तत्रापि देवगन्धर्व्वसेविताः सुमनोरमाः॥ २०.४९ ॥
वर्षाचला मुनिश्रेष्ठास्तेषां नामानि भो द्विजाः।
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः॥ २०.५० ॥
देवव्रतो धमश्चैव तथान्यः पुण्डरीकवान्।
दुन्दुभिश्च महाशैलो द्विगुणास्ते पचरस्परम्॥ २०.५१ ॥
द्वीपाद्द्वीपेषु ये शैलास्तथा द्वीपानि ते तथा।
वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च॥ २०.५२ ॥
निवसन्ति निरातङ्काः सह देवगणैः प्रजाः।
पुष्कला पुष्करा धन्यास्ते ख्याताश्च द्विजोत्तमाः॥ २०.५३ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः।
तत्र नद्यो मुनिश्रेष्ठा याः पिबन्दि तु ते सदा॥ २०.५४ ॥
सप्त प्रधानाः शतशस्तथान्याः क्षद्रनिम्नगाः।
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा॥ २०.५५ ॥
ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः।
तत्रापि वर्णैर्भगवान् पुष्कराद्यैर्ज्जनाद्र्दनः॥ २०.५६ ॥
ध्यानयोगै रुद्ररूप इज्यते यज्ञसन्निधौ।
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु॥ २०.५७ ॥
आवृतः सर्व्वतः क्रौञ्चद्वीपतुल्येन मानतः।
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः॥ २०.५८ ॥
क्रौञ्चद्वीपस्य विस्तारद्विगुणेन द्विजोत्तमाः।
शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः॥ २०.५९ ॥
सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः।
जलदश्च कुमारश्च सुकुमारो मनीरकः॥ २०.६० ॥
कुसमोदश्च मोदाकिः सप्तमश्च महाद्रुमः।
तत्संज्ञानयेव तत्रापि सप्त वर्षाण्यनुक्रमात्॥ २०.६१ ॥
तत्रापि पर्व्वताः सप्त वर्षविच्छेदकारकाः।
पूर्व्वस्तत्रोदयगिरिर्ज्जलधारस्तथापरः॥ २०.६२ ॥
तथा रैवतकः श्यामस्तथैवाम्भोगिरिद्विजाः।
आस्तिकेयस्तता रम्यः केसरी पर्व्वतोत्तमः॥ २०.६३ ॥
शाकश्चात्र महावृक्षः सिद्धगन्धर्व्वसेवितः।
यत्पत्रवातसंस्पर्शादाह्लादो जायते परः॥ २०.६४ ॥
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः।
निवसन्ति महात्मानो निरातङ्का निरामयाः॥ २०.६५ ॥
नद्यश्चात्र महापुण्याः सर्व्वपापभयापहाः।
सुकुमारी च नलिनी रेणुका च या॥ २०.६६ ॥
इक्षुश्च धेनुका चैव गभस्ती सप्तमी तथा।
अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो द्विजोत्तमाः॥ २०.६७ ॥
महीधरास्तथा सन्ति शतशोऽथ सहस्रशः।
ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्तिताः॥ २०.६८ ॥
वर्षेषु ये जनपदाश्चतुर्थार्थसमन्विताः।
नद्याश्चात्र महापुण्याः स्वर्गादभ्येत्य मेदिनीम्॥ २०.६९ ॥
धर्म्महानिर्न तेष्वस्ति न संहर्षो न शुक् तथा।
मर्य्यादाव्युत्क्रमश्चापि तेषु देशेषु सप्तसु॥ २०.७० ॥
मगाश्च मागधाश्चैव मानसा मन्दागास्तथा।
मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास्तु ते॥ २०.७१ ॥
वैश्यास्तु मानसास्तेषां शूद्रा ज्ञेयास्तु मन्दगाः।
शाकद्वीपे स्थितैर्विष्णुः सूर्य्यरूपधरो हरिः॥ २०.७२ ॥
यथोक्तैरिज्यते सम्यक्कर्म्मभिर्नियतात्मभिः।
साकद्वीपस्ततो विप्राः क्षीरोदेन समन्ततः॥ २०.७३ ॥
शाकद्वीपप्रमाणेन बलयेनेव वेष्टितः।
क्षीराब्धिः सर्व्वतो विप्राः पुष्कराख्येन वेष्टितः॥ २०.७४ ॥
द्वीपेन साकद्वीपातु द्विगुणेन समन्ततः।
पुष्करे सवनस्यापि महावीतोऽभवत् सुतः॥ २०.७५ ॥
धातकिश्च तयोस्तद्वद्द्वे वर्षे नामसंज्ञिते।
महावीतं तथैवान्यद्वातकीखण्डसंज्ञितम्॥ २०.७६ ॥
एकश्चात्र महाभागाः प्रख्यातो वर्षपर्व्वतः।
मानसोत्तरसंज्ञो वै मध्यतो वलयाकृतिः॥ २०.७७ ॥
योजनानां सहस्राणि ऊर्ध्व पञ्चाशदुच्छ्रितः।
तावदेव च विस्तीर्णः सर्व्वतः परिमण्डलः॥ २०.७८ ॥
पुष्करद्वीपवलयं तयोर्म्मध्ये महागिरिः।
दशावर्षसहस्राणि तत्र जीवन्ति मानवाः॥ २०.७९ ॥
वलयाकारमेकैकं तयोर्म्मध्ये महागिरिः।
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः॥ २०.८० ॥
निरामया विशोकाश्च रागद्वेषविवर्ज्जिताः।
अधमोत्तमो न तेष्वास्तां न वध्यवधकौ द्विजाः॥ २०.८१ ॥
नेर्ष्यासूया भयं रोषो लोभादिकं न च।
महावीतं बहिर्व्वर्ष धातकोखण्डमन्ततः॥ २०.८२ ॥
मानसोत्तरशैलस्य देवदैत्यादिसेवितम्।
सत्यानृते न तत्रास्तां द्वीपे पुष्करसंज्ञिते॥ २०.८३ ॥
न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते।
तुल्यवेषास्तु मनुजा देवैस्तत्रैकरूपिणः॥ २०.८४ ॥
वर्णाश्रमाचारहीनं धर्म्महरणवर्ज्जितम्।
त्रयीवार्त्तदण्डनीतिशुश्रूषारहितं च तत्॥ २०.८५ ॥
वर्षद्वयं ततो विप्रा भौमस्वर्गोऽयमुत्तमः।
सर्व्वस्य सुखदः कालो जरारोगविवर्ज्जितः॥ २०.८६ ॥
पुष्करे धातकीखण्डे महावीते च वै द्विजाः।
न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम्॥ २०.८७ ॥
तस्मिन्निवसति ब्रह्मापूज्यमानः सुरासुरैः।
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः॥ २०.८८ ॥
समेन पुष्करस्यैव विस्तारान्मण्डलात्तथा।
एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः॥ २०.८९ ॥
द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ।
पयांसि सर्व्वदा सर्व्वसमद्रेषु समानि वै॥ २०.९०॥
न्यूनातिरिक्तता तेषां गटाचिन्नैव जायते।
स्तालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा॥ २०.९१ ॥
तथेन्दुवृद्धौ सलिलम्मभौधो मुनिसत्तमाः।
अनयूनानतिरिक्ताश्च वर्द्धन्त्यापो हसन्ति च॥ २०.९२ ॥
उदयास्तमने त्विन्दौः पक्षयोः सुक्लकृष्णयोः।
दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च॥ २०.९३ ॥
अपां वृद्धिक्षयो दृष्टौ सामुद्रीणां द्विजोत्तमाः।
भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम्॥ २०.९४ ॥
भुञ्जन्ति षड्सं विप्राः प्रजाः सर्व्वाः सदैव हि।
स्वादूदकस्य परितो दृस्यते लोकसंस्थितिः॥ २०.९५ ॥
द्विगुणा काञ्चनी भूमिः सर्व्वजन्तुविवर्जिता।
लोकालोकस्ततः शैलो योजनायुतविस्तृतः॥ २०.९६ ॥
उच्छ्रयेणापि तावन्ति सहस्रण्यावलोहि सः।
ततस्तमः समावृत्य तं शैलं सर्व्वतः स्थितम्॥ २०.९७ ॥
तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम्।
पञ्चाशत्कोटिविस्तारा सेयमुर्व्वे द्विजोत्तमाः॥ २०.९८ ॥
सहैवाण्‍कटाहेन सद्वीपा समहीधरा।
सेयं धात्री विधात्री च सर्व्वभूतगुणाधिक।
आधारभूता जगतं सर्व्वेषां सा द्विजोत्तमाः॥ २०.९९ ॥
इति श्रीब्राह्मे महापुराणे समुद्रद्वीपपरिमाणवर्णनं नाम विंशोऽधायायः॥ २० ॥
<b>तत्रादौ पातालप्रमाणवर्णनम्	</b>
<b>लोमहर्षण उवाच	</b>
विस्तार एष कथितः पृतिव्या मुनिसत्तमाः।
सप्ततिस्तु सहस्राणि तदुच्छ्रयोऽपि क्थ्यते॥ २१.१ ॥
दशसाहस्रमेकैकं पातालं मुनिसत्तमाः।
अतलं वितलञ्चैव नितलं सुतलं तथा॥ २१.२ ॥
तलातलं रसातलं पातालञ्चापि सप्तमम्।
कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनो॥ २१.३ ॥
भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः।
तेषु दानवदैतेयजातयः शतशः स्थिताः॥ २१.४ ॥
नागानाञ्च महाङ्गानां ज्ञातयश्च द्विजोत्तमाः।
स्वर्लोकादपि रम्याणि पातालानीति नारद॥ २१.५ ॥
प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम्।
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः॥ २१.६ ॥
नागाभरणभूषाश्च पातालं केन तत्समम्।
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते॥ २१.७ ॥
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते।
दिवार्करश्मयो यत्र प्रभास्तन्वन्ति नातपम्॥ २१.८ ॥
शशिनश्च न शीताय निशि द्योताय केवलम्।
भक्ष्यभोज्यमहापानमदमत्तैश्च भोगिभिः॥ २१.९ ॥
यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः।
वनानि नद्यो रम्याणि सरांसि कमलाकराः॥ २१.१० ॥
पुंस्कोकिलादिलापाश्च मनोज्ञान्यम्बरामि च ।
भूषणान्यतिरम्याणि गन्धाद्यञ्चानुलेपनम्॥ २१.११ ॥
वीणावेणुमृदङ्गानां निःस्वनाश्च सदा द्विजाः।
एतान्यन्यानिरम्याणि गन्धाद्यञ्चानुलेपनम्॥ २१.१२ ॥
दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः।
पातालानामधश्चास्ते विष्णोर्या तामसी तनुः॥ २१.१३ ॥
शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः।
योऽनन्तः पठ्यते सिद्धैर्देवदेवर्षिपूजितः॥ २१.१४ ॥
सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः।
फणामणिसहस्रेण यः स विद्योतयन् दिशः॥ २१.१५ ॥
सर्व्वान् करोति निर्वोर्य्यातन् हिताय जगतोऽसुरान्।
मदाघूर्णितनेत्रोऽसौ यः सदैवैककुण्डलः॥ २१.१६ ॥
किरीटो स्रग्धरो भाति साग्निश्वेत इवाचलः।
नीलवासा मदोत्सिक्तः श्वेतहारोपसोभितः॥ २१.१७ ॥
साभ्रगङ्गाप्रपातोऽसौ कैलासाद्रिरिवोत्तमः।
लांगलासक्तहस्ताग्रो बिभ्रन्मुशलमुत्तमम्॥ २१.१८ ॥
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्त्तया।
कल्पान्ते यस्य वक्‌त्रेभ्यो विषानलशिखोज्ज्वलः॥ २१.१९ ॥
संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम्।
स विभ्रच्छिखरीभूतमशेषं क्षितिमण्डलम्॥ २१.२० ॥
आस्ते पातालमूलस्थः शेषोऽशेषसुरार्च्चितः।
तस्य वीर्य्यं प्रभावश्च स्वरूपं रूपमेव च॥ २१.२१ ॥
न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि।
यस्यैषा सकला पृथ्वी फणामणिशिखारुणा॥ २१.२२ ॥
आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति।
यदा विजृम्भतेऽनन्तो मदाधूर्णितलोचनः॥ २१.२३ ॥
तदा चलति भूरेषा साद्रितोयाधिकानना।
गन्धर्व्वप्सिरसः। सिद्धाः किन्नरोरगवारणाः॥ २१.२४ ॥
नान्तं गुणानां गच्छन्ति ततोऽनन्तोऽयमव्ययः।
यस्य नागवधूहस्तैर्लापितं हरिचन्दनम्॥ २१.२५ ॥
मुहुः श्वासानिलायस्तं याति दिक्‌पटवासताम्।
यमाराध्य पुराणर्षिर्गर्गौ ज्योतींषि तत्त्वतः॥ २१.२६ ॥
ज्ञातवान् सकलं चैव निमित्तपठितं पलम्।
तेनेयं नागवर्य्येण शिरसा विधृता महो।
बिभर्ति सकलाल्लो कान् स देवासुरमानुषान्॥ २१.२७ ॥
इति श्रीब्राह्मे महापुराणे पातालप्रमाणकीर्त्तनं नामैकविंशोऽध्यायः॥ २१ ॥
<b>तत्रादौ नरकवर्णनम्	</b>
<b>लोमहर्षण उवाच	</b>
ततश्चानन्तरं विप्रा नरका रौरवादयः।
पापिनो येषु पात्याते ताञ्छृणुध्वं द्विजोत्तमाः॥ २२.१ ॥
रौरवः शौकरो रोधस्तानो विशसनस्था।
महाज्वालस्तप्तकुड्यो महालोभो विमोहनः॥ २२.२ ॥
रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः।
असिप्रवनं कृष्णो लालाभक्षश्च दारुणः॥ २२.३ ॥
तथा पूयवहः पापो वह्निज्वालो ह्यधःशिराः।
सदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च॥ २२.४ ॥
श्वभोजनोऽथाप्रतिष्ठोमावीचिश्च तथापरः।
इत्येवमादयश्चन्ये नरका भृशदारुणाः॥ २२.५ ॥
यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः।
पतन्ति येषु पुरुषाः पापकर्म्मरताश्च ये॥ २२.६ ॥
कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत्।
यश्चान्यदनृतं वक्ति स नरो याति रौरवम्॥ २२.७ ॥
भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तमाः।
यान्ति रौरवं घोरं यश्चोच्छ्वासनिरोधकः॥ २२.८ ॥
सूरापो ब्रह्महा हर्त्ता सुवर्णस्य च शूकरे।
प्रयाति नरके यश्च तैः संसर्गमुपैति वै॥ २२.९ ॥
राजन्यवैश्यहा चैव तथैव गुरुतल्पगः।
तप्तकुम्बे स्वसृगामो हन्ति राजभटञ्च यः॥ २२.१० ॥
माध्वीविक्रयकृद्वध्यपालः केसरविक्रयी।
तप्तलोहे पतन्त्येते यश्च भवतं परित्यजेत्॥ २२.११ ॥
सुतां स्नुषाञ्चापि गत्वा महाज्वाले निपात्यते।
अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः॥ २२.१२ ॥
वेददूषयिता यश्च वेदविक्रयकश्च यः।
अगम्यगामी यस्च स्यात् ते यान्ति शबलं द्विजाः॥ २२.१३ ॥
चौरो विमोहे पतति मर्य्यादादूषकस्तथा।
देवद्विजपितृदेष्टा रत्नदूषयिता च यः॥ २२.१४ ॥
स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत्।
पितृदेवातिथीन् यस्तु पर्य्यश्नाति नराधमः॥ २२.१५ ॥
लालाभक्ष्ये स यात्युग्रे शरकर्त्ता च वेधके।
करोति कर्णिनो यश्च यश्च खड्गादिकृन्नरः॥ २२.१६ ॥
प्रयान्त्येते विशसने नरके भृशदारुणे।
असत्प्रतिग्रहीता च नरके यात्यधोमुखे॥ २२.१७ ॥
अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः।
कृमिपूये नरश्चैको याति मिष्टान्नभुक् सदा॥ २२.१८ ॥
लाक्षामांसरसानाञ्च तिलानां लवणस्य च।
विक्रेता ब्राह्मणो याति तमेव नरकं द्विजः॥ २२.१९ ॥
मार्ज्जारकुवकुटच्छागश्वराहविहङ्गमान्।
पोषयन्नरकं याति तमेव द्विजसत्तमाः॥ २२.२० ॥
रङ्गोपजीवी कैवर्त्तः कुण्डाशी गरदस्तथा।
सूची माहिषिकश्चैव पर्व्वगामी च यो द्विजः॥ २२.२१ ॥
अगारदाही मित्रध्नः शकुनिग्रामयाजकः।
रुधिरान्धे पतन्त्येते सोमं विक्रोणते च ये॥ २२.२२ ॥
मधुहा ग्रामहन्ता च याति वैतरणीं नरः।
रेतःपानादिकर्त्तारो मर्य्यादाभेदिनश्च ये॥ २२.२३ ॥
ते कृच्छ्रे यान्त्यशौचाश्च कुहकाजीविनश्च ये।
असिपत्रवनं याति वनच्छदी वृथैव यः॥ २२.२४ ॥
औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै।
यान्ति तत्रैव ते विप्रा यश्चापाकेषु वह्निदः॥ २२.२५ ॥
व्रतोपलोपको यश्च स्वाश्रमाद्विच्युतश्च यः।
सन्दंशयातनामध्ये पततस्तावुभावपि॥ २२.२६ ॥
दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः।
पुत्रैरध्यापिता ये तु ते पतन्ति श्वभोजने॥ २२.२७ ॥
एते चान्ये च नरकाः शतशोऽथ सहस्रशः।
येषु दुष्कृतकर्म्माणः पच्यन्ते यातनागताः॥ २२.२८ ॥
तथैव पापान्येतानि तथान्यानि सहस्रशः।
भुज्यन्ते जातिपुरुषैर्नरकान्तरगोचरैः॥ २२.२९ ॥
वर्णाश्रमविरुद्धञ्च कर्म्म कुर्व्वन्ति ये नराः
कर्म्मणा मनसा वाचा निरयेषु पतन्ति ते॥ २२.३० ॥
अधः शिरोभिरदृश्यन्ते नारकैर्दिवि देवताः।
देवाश्चाधोमुखान् सर्व्वानधः पश्यन्ति नारकान्॥ २२.३१ ॥
स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः।
धार्म्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम्॥ २२.३२ ॥
सहस्रभागाः प्रथमाद्द्वितीयोऽनुक्रमात्तथा।
सर्व्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः॥ २२.३३ ॥
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः।
पापकृद्‌याति नरकं प्रायश्चित्तपराङमुखः॥ २२.३४ ॥
पापानामनुरूपाणि प्रायश्चित्तनि यद्‌यथा।
तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः॥ २२.३५ ॥
पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः।
प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायम्भुवादयः॥ २२.३६ ॥
प्रायश्चित्तान्यशेषाणि तपःकर्म्मात्मकानि वै।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम्॥ २२.३७ ॥
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते।
प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परम्॥ २२.३८ ॥
प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन्।
नारायणमवाप्नोति सद्यः पापक्षयान्नरः॥ २२.३९ ॥
विष्णुसंस्मरणात् क्षीणसमस्तवलेशसञ्चयः।
मुक्तिं प्रयाति भो विप्रा विष्णीस्तस्यानुकीर्त्तनात्॥ २२.४० ॥
वासुदेव मनो यस्य जपहोमार्च्चनादिषु।
तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वदिकं फलम्॥ २२.४१ ॥
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम्।
क्व जपो वासुदेवेति मुक्तिवीजमनुत्तमम्॥ २२.४२ ॥
तस्मादहर्निशं स्वर्गो नरकस्तद्विपर्य्ययः।
नरकस्वर्गसंज्ञे वै पापपुष्ये द्विजोत्तमाः॥ २२.४३ ॥
मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्य्ययः।
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तमाः॥ २२.४४ ॥
वस्त्वेकमेव दुःखाय सुकायेर्ष्योदयाय च।
कोपाय च यतस्तस्माद्वस्तु दुःखात्मकं कुतः॥ २२.४५
तदेव प्रीयते भूत्वा पुनर्दुःखाय जायते।
तदेव कोपाय यतः प्रसादाय च जायते॥ २२.४६ ॥
तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम्।
मनसः परिणामोऽयं सुखदुःखादिलक्षणः॥ २२.४७ ॥
ज्ञानमेव परं ब्रह्माज्ञानं बन्धाय चेष्यते।
ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम्॥ २२.४८ ॥
विद्याविद्ये हिभो विप्रा ज्ञानमेवावधार्यताम्।
एवमेतन्मयाख्यातं भवतां मण्डलं भुवः॥ २२.४९ ॥
पातालानि च सर्व्वाणि तथैव नरका द्विजाः।
समुद्राः पर्व्वताश्चैव द्वीपा वर्षाणि निम्नगाः संक्षेपात् सर्व्वमाख्यातं किं भूयः श्रोतुमिच्छथ॥ २२.५० ॥
इति श्रीब्राह्मे महापुराणे पातालनरककीर्त्तनं नाम द्वाविंशोऽध्यायः॥ २२ ॥
<b>तत्रादौ भूर्भुवःस्वरादिवर्णनम्	</b>
<b>मुनय ऊचुः	</b>
कथितं भवता सर्व्वमस्माकं सकलं तथा।
भुवर्लोकादिकाँल्लोकान् श्रोतुमिच्छामहे वयम्॥ २३.१ ॥
तथैव ग्रहसंस्थानं प्रमाणानि यता तथा।
समाचक्ष्व महाभाग यथावल्लोमहर्षणः॥ २३.२ ॥
<b>लोमहर्षण उवाच	</b>
रविचन्द्रमसोर्यावन्मयूखैरवभास्यते।
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता॥ २३.३ ॥
यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला।
नभस्तावत्प्रमाणं हि विस्तारपरिमण्डलम्॥ २३.४ ॥
भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम्।
लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम्॥ २३.५ ॥
पूर्णे शतसहस्रे तु योजनानां निशाकरात्।
नक्षत्रमण्डलं कृत्‌स्नमुपरिष्टात् प्रकाशते॥ २३.६ ॥
द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात्।
तावत् प्रमाणभागे तु बुधस्याप्युशना स्थितः॥ २३.७ ॥
अङ्गारकोऽपि शुक्रस्य तत्‌प्रमाणे व्यवस्थितः।
लक्षद्वियेन भौमस्य स्थितो देवपुरोहितः॥ २३.८ ॥
सौरिर्बृहस्पतेरूद्‌र्ध्वं द्विलक्षे समवस्थितः।
सप्तर्षिमण्डलं तस्माल्ल्क्षमेकं द्विजोत्तमाः॥ २३.९ ॥
ऋषिभ्यस्तु सहस्राणां शतदूद्‌र्ध्वं व्यवस्थितः।
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः॥ २३.१० ॥
त्रैलोक्यमेतत् कथितं संक्षोपेण द्विजोत्तमाः।
इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता॥ २३.११ ॥
ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः।
एकयोजनकोटी तु महर्लोको विधोयते॥ २३.१२ ॥
द्वे कोट्यौ तु जनो लोको यत्र ब्रह्मणः सुताः।
सनन्दनाद्याः कथिता विप्राश्चामलचेतसः॥ २३.१३ ॥
चतुर्गुणोत्तरं चोद्‌र्ध्वं जनलोकात्तपः स्मृतम्।
वैराजा यत्र ते दवाः स्थिता देहविवर्ज्जिताः॥ २३.१४ ॥
षड्गुणेन तपोलोकात् सत्यलोको विराजते।
अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम्॥ २३.१५ ॥
पादगम्यं तु यत् किञ्चिवद्वस्त्वस्ति पृथिवीमयम्।
सभूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः॥ २३.१६ ॥
भूमिसूर्य्यन्तरं यत्तु सिद्धादिमुनिसेवितम्।
भूवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तमाः॥ २३.१७ ॥
ध्रुवसूर्य्यान्तरं यत्तु नियुतानि चतुर्द्दश।
स्वर्लोकः सोऽपि कथितो लोकसंस्थानचिन्तकैः॥ २३.१८ ॥
त्रैलोक्यमेतत् कृतकं विप्रैश्च परिपठ्यते।
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम्॥ २३.१९ ॥
कृतकाकृतको मध्ये महर्लोक इति स्मृतः।
शून्यो भवति कल्पान्ते योऽन्तं न च विनश्यति॥ २३.२० ॥
एते सप्त महालोका मया वः कथिता द्विजाः।
पातालानि च स्पैतव ब्रह्माण्डस्यैष विस्तरः॥ २३.२१ ॥
एतदण्डकटाहेन तिर्य्यगूर्द्ध्वमधस्तथा।
कपित्थस्य यथा बीजं सर्व्वतो वै समावृतम्॥ २३.२२ ॥
दशोत्तरेण पयसा द्विजाश्चाण्डञ्च तद्वृतम्।
स चाम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः॥ २३.२३ ॥
वह्निस्तु वायुना वायुर्विप्रास्तु नभसावृतः।
आकाशोऽपि मुनिश्रेष्ठा महता परिवेष्टितः॥ २३.२४ ॥
दशोत्तराण्यशेषाणि विप्राश्चैतानि सप्त वै।
महान्तञ्च समावृत्य प्रधानं समवस्थितम्॥ २३.२५ ॥
अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते।
तदनन्तमसंख्यातं प्रमाणेनापि वै यतः॥ २३.२६ ॥
हेतुभूतमशेषस्य प्रकृतिः सा परा द्विजाः।
अण्डानान्तु सहस्राणां सहस्राण्ययुतानि च॥ २३.२७ ॥
ईदृशानां तथा तत्र कोटिकोटिशतानि च।
दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमानिह॥ २३.२८ ॥
प्रधानेऽवस्थितो व्यापी चेतनात्मनिवेदनः।
प्रधानञ्च पुमांश्चैव सर्व्वभूतानुभूतया॥ २३.२९ ॥
विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्म्मिणौ।
तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥ २३.३० ॥
क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः।
यथा शैत्यं वातो बिभार्त्ति कणिकागतम्॥ २३.३१ ॥
जगच्छक्तिस्तथा विष्णोः प्रधानपुरुषात्मकम्।
यथा च पादपो मूलस्कन्धशाखादिसंयुतः॥ २३.३२ ॥
आद्यबीजात् प्रभवति बीजान्यन्यानि वै ततः।
प्रभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः॥ २३.३३ ॥
तेऽपि तल्लक्षणद्रव्यकारणानुगता द्विजाः।
एवमव्याकृतात् पूर्व्व जायन्ये महदादयः २३.३४ ॥
विशेषान्तास्ततस्तेभ्यः सम्भवन्ति सुरादयः।
तेभ्यश्च पुत्रास्तेषां तु पुत्राणां परमे सुताः॥ २३.३५ ॥
वीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः।
भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा॥ २३.३६ ॥
सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः।
तथैवापरिणामेन विश्वस्य भगवान् हरिः॥ २३.३७ ॥
व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा।
काण्डकोषास्तथा पुष्पं क्षीरं तद्वच्च तण्डुलः॥। २३.३८ ॥
तुषाः पणाश्च सन्तो वै यान्त्याविर्बावमात्मनः।
प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तमाः॥ २३.३९ ॥
तथा कर्म्मस्वनेकेषु देवाद्यास्तनवः स्थिताः।
विष्णुशवितं समासाद्य प्ररोहमुपयान्ति वै॥ २३.४० ॥
स च विष्णुः परं ब्रह्म यतः सर्व्वमिदं जगत्।
जगच्च यो यत्र चेदं यस्मिन्विलयमेष्यति॥ २३.४१ ॥
तद्ब्रह्म परमं धाम सदसत् परमं पदम्।
यस्य सर्व्वमभेदेन जगदेतच्चराचतरम्॥ २३.४२ ॥
स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः।
तस्मिन्नेव लयं सर्व्वं याति तत्र च तिष्ठति॥ २३.४३ ॥
कर्त्ता क्रियाणां च स इज्यते क्रतुः, स एव तत् कर्म्मफलञ्च तस्य यत्।
युगादि यसामाच्च भवेदशेषतोहरेर्न किञ्चिद्व्यतिरिवतमस्ति तत्॥ २३.४४ ॥
इति श्रीब्राह्मे महापुराणे भूर्भुवःस्वरादिकीर्त्तनं नाम त्रयोविंशोऽध्यायः॥ २३ ॥
लोमहर्षण उवाच॒
तारामयं भगवतः शिशुमाराकृति प्रभोः।
दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः॥ २४.१॥
सएष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान्।
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत्॥ २४.२॥
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै॥ २४.३॥
शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि।
नारायणः परं धाम तस्याधारः स्वयं हृदि॥ २४.४॥
उत्तानपादतनयस्तमाराध्य प्रजापतिम्।
स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः॥ २४.५॥
आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः।
ध्रुवस्य शिशुमारश्च ध्रुवे भानुर्व्यवस्थितः॥ २४.६॥
तदाधारं जगच्चेदं सदेवासुरमानुषम्।
येन विप्रा विधानेन तन्मे शृणुत सांप्रतम्॥ २४.७॥
विवस्वानष्टभिर्मासैर्ग्रसत्यपो रसात्मिकाः।
वर्षत्यम्बु ततश्चान्नमन्नादमखिलं जगत्॥ २४.८॥
विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम्।
सोमं पुष्यत्यथेन्दुश्च वायुनाडीमयैर्दिवि॥ २४.९॥
जलैर्विक्षिप्यतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु।
न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः॥ २४.१०॥
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः।
संस्कारं कालजनितं विप्राश्चासाद्य निर्मलाः॥ २४.११॥
सरित्समुद्रा भौमास्तु तथापः प्राणिसंभवाः।
चतुष्प्रकारा भगवानादत्ते सविता द्विजाः॥ २४.१२॥
आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान्।
अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः॥ २४.१३॥
तस्य संस्पर्शनिर्धूत पापपङ्को द्विजोत्तमाः।
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम्॥ २४.१४॥
दृष्टसूर्यं हि तद्वारि पतत्यभ्रैर्विना दिवः।
आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः॥ २४.१५॥
कृत्तिकादिषु ऋक्षेषु विषमेष्वम्बु यद्दिवः।
दृष्ट्वार्कं पतितं ज्ञेयं तद्गाङ्गं दिग्गजोह्नितम्॥ २४.१६॥
युग्मर्क्षेषु तु यत्तोयं पतत्यर्कोद्गितं दिवः।
तत्सूर्यरश्मिभिः सद्यः समादाय निरस्यते॥ २४.१७॥
उभयं पुण्यमत्यर्थं नृणां पापहरं द्विजाः।
आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः॥ २४.१८॥
यत्तु मेघैः समुत्सृष्टं वारि तत्प्राणिनां द्विजाः।
पुष्णात्योषधयः सर्वा जीवनायामृतं हि तत्॥ २४.१९॥
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः।
साधकः फलपाकान्तः प्रजानां तु प्रजायते॥ २४.२०॥
तेन यज्ञान् यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः।
कुर्वतेऽहरहश्चैव देवानाप्याययन्ति ते॥ २४.२१॥
एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः।
सर्वदेवनिकायाश्च पशुभूतगणाश्च ये॥ २४.२२॥
वृष्ट्या धृतमिदं सर्वं जगत्स्थावरजङ्गमम्।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः॥ २४.२३॥
आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तमाः।
ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणाश्रयः॥ २४.२४॥
हृदि नारायणस्तस्य शिशुमारस्य संस्थितः।
विभर्ता सर्वभूतानामादिभूतः सनातनः॥ २४.२५॥
एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम्।
भूसमुद्रादिभिर्युक्तं किमन्यच्छ्रोतुमिच्छथ॥ २४.२६॥
इति श्रीब्राह्मे महापुराणे ध्रुवसंस्थितिनिरूपणं नाम चतुर्व्विंशोऽध्यायः॥ २४ ॥
मुनय ऊचुः
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च
वक्तुमर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः  १
लोमहर्षण उवाच
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते  २
मनो विशुद्धं पुरुषस्य तीर्थं
वाचां तथा चेन्द्रि यनिग्रहश्च
एतानि तीर्थानि शरीरजानि
स्वर्गस्य मार्गं प्रतिबोधयन्ति  ३
चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति
शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि  ४
न तीर्थानि न दानानि न व्रतानि न चाश्रमाः
दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रि यम्  ५
इन्द्रि याणि वशे कृत्वा यत्र यत्र वसेन्नरः
तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा  ६
तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च
संक्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै  ७
विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि
प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च  ८
प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः
धेनुकं चम्पकारण्यं सैन्धवारण्यमेव च  ९
पुण्यं च मगधारण्यं दण्डकारण्यमेव च
गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा  १०
भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम्
लोहाकुलं सकेदारं मन्दरारण्यमेव च  ११
महाबलं कोटितीर्थं सर्वपापहरं तथा
रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम्  १२
योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा
तीर्थं कोकामुखं पुण्यं बदरीशैलमेव च  १३
सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा
कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा  १४
धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम्
गङ्गाद्वारं पञ्चकूटं मध्यकेसरमेव च  १५
चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम्
दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकमेव च  १६
तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा
ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा  १७
चतुःस्रोतश्चतुःशृङ्गं शैलं द्वादशधारकम्
मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी  १८
लोकपालं मनुवरं सोमाह्वशैलमेव च
सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम्  १९
महास्रोतं कोटरकं पञ्चधारं त्रिधारकम्
सप्तधारैकधारं च तीर्थं चामरकण्टकम्  २०
शालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम्
बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा  २१
शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा
अग्निप्रभं च पुंनागं देवप्रभमनुत्तमम्  २२
विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम्
सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा  २३
तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा
मलव्यं गोप्रभावं च गोवरं वटमूलकम्  २४
स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा
कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम्  २५
गभस्तितीर्थं च तथा ययातिपतनं शुचि
कोटितीर्थं भद्र वटं महाकालवनं तथा  २६
नर्मदातीर्थमपरं तीर्थवज्रं तथार्बुदम्
पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसंगमम्  २७
तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम्
ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम्  २८
शक्रतीर्थं पञ्चनदं रेणुकातीर्थमेव च
पैतामहं च विमलं रुद्र पादं तथोत्तमम्  २९
मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम्
यजनं याजनं चैव तथैव ब्रह्मवालुकम्  ३०
पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम्
दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा  ३१
गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदमेव च
वस्त्रापदं दारुवलं छायारोहणमेव च  ३२
सिद्धेश्वरं मित्रवलं कालिकाश्रममेव च
वटावटं भद्र वटं कौशाम्बी च दिवाकरम्  ३३
द्वीपं सारस्वतं चैव विजयं कामदं तथा
रुद्र कोटिं सुमनसं तीर्थं सद्रा वनामितम्  ३४
स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम्
सततं पृथिवीसर्वं पारिप्लवपृथूदकौ  ३५
दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम्
कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम्  ३६
पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम्
बदरीवनमासीनं रत्नमूलकमेव च  ३७
लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव च
सूर्यतीर्थं शङ्खिनी च गवां भवनमेव च  ३८
तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम्
कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा  ३९
स्नानलोमापहं चैव माससंसरकं तथा
दशाश्वमेधं केदारं ब्रह्मोदुम्बरमेव च  ४०
सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम्
ईटास्पदं कोटिकूटं किंदानं किंजपं तथा  ४१
कारण्डवं चावेध्यं च त्रिविष्टपमथापरम्
पाणिषातं मिश्रकं च मधूवटमनोजवौ  ४२
कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम्
दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा  ४३
अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम्
श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम्  ४४
ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च
ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम्  ४५
सौगन्धिकवनं चैव मणितीर्थं सरस्वती
ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम्  ४६
त्रिशूलधारं माहेन्द्रं  देवस्थानं कृतालयम्
शाकंभरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम्  ४७
क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम्
ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतमेव च  ४८
कुब्जाम्बकं भद्र वटं वसिष्ठपदमेव च
स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च  ४९
रुद्रा वर्तं सुगन्धाश्वं कपिलावनमेव च
भद्र कर्णह्रदं चैव शङ्कुकर्णह्रदं तथा  ५०
सप्तसारस्वतं चैव तीर्थमौशनसं तथा
कपालमोचनं चैव अवकीर्णं च काम्यकम्  ५१
चतुःसामुद्रि कं चैव शतकिं च सहस्रिकम्
रेणुकं पञ्चवटकं विमोचनमथौजसम्  ५२
स्थाणुतीर्थं कुरोस्तीर्थं स्वर्गद्वारं कुशध्वजम्
विश्वेश्वरं मानवकं कूपं नारायणाश्रयम्  ५३
गङ्गाह्रदं वटं चैव बदरीपाटनं तथा
इन्द्र मार्गमेकरात्रं क्षीरकावासमेव च  ५४
सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः
कोटितीर्थस्थलीं चैव भद्र कालीह्रदं तथा  ५५
अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम्
अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा  ५६
वीरं प्रमोक्षं सिन्धूत्थमृष कुल्या सकृत्तिकम्
उर्वीसंक्रमणं चैव मायाविद्योद्भवं तथा  ५७
महाश्रमो वैतसिकारूपं सुन्दरिकाश्रमम्
बाहुतीर्थं चारुनदीं विमलाशोकमेव च  ५८
तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः
सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा  ५९
सूर्यप्रभं सूर्यतीर्थमशोकवनमेव च
अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम्  ६०
पिशाचमोचनं चैव सुभद्रा ह्रदमेव च
कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च  ६१
ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा
जैगीषव्यगुहा चैव हरिकेशवनं तथा  ६२
अजामुखसरं चैव घण्टाकर्णह्रदं तथा
पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च  ६३
सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा
कुण्डं घर्घरिकायाश्च श्यामकूपं च चन्द्रि का  ६४
श्मशानस्तम्भकूपं च विनायकह्रदं तथा
कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा  ६५
रुद्रा वासं तथा तीर्थं नागतीर्थं पुलोमकम्
भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम्  ६६
ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम्
शृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी  ६७
दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम्
दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम्  ६८
कपिलाह्रदं गृध्रवटं सावित्रीह्रदमेव च
प्रभासनं सीतवनं योनिद्वारं च धेनुकम्  ६९
धन्यकं कोकिलाख्यं च मतङ्गह्रदमेव च
पितृकूपं रुद्र तीर्थं शक्रतीर्थं सुमालिनम्  ७०
ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा
कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा  ७१
विश्वेश्वरं कल्पसरः कन्यासंवेत्यमेव च
निश्चीवा प्रभवश्चैव वसिष्ठाश्रममेव च  ७२
देवकूटं च कूपं च वसिष्ठाश्रममेव च
वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली  ७३
कुमारधारा श्रीधारा गौरीशिखरमेव च
शुनः कुण्डोऽथ तीर्थं च नन्दितीर्थं तथैव च  ७४
कुमारवासं श्रीवासमौर्वीशीतार्थमेव च
कुम्भकर्णह्रदं चैव कौशिकीह्रदमेव च  ७५
धर्मतीर्थं कामतीर्थं तीर्थमुद्दालकं तथा
संध्यातीर्थं कारतोयं कपिलं लोहितार्णवम्  ७६
शोणोद्भवं वंशगुल्ममृषभं कलतीर्थकम्
पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम्  ७७
रामतीर्थं पितृवनं विरजातीर्थमेव च
मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम्  ७८
रोहिणीकूपप्रवरमिन्द्र द्युम्नसरं च यत्
सानुगर्तं समाहेन्द्रं  श्रीतीर्थं श्रीनदं तथा  ७९
इषुतीर्थं वार्षभं च कावेरीह्रदमेव च
कन्यातीर्थं च गोकर्णं गायत्रीस्थानमेव च  ८०
बदरीह्रदमन्यच्च मध्यस्थानं विकर्णकम्
जातीह्रदं देवकूपं कुशप्रवणमेव च  ८१
सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा
तथान्यद्वालखिल्यानां सपूर्वाणां तथापरम्  ८२
तथान्यच्च महर्षीणामखण्डितह्रदं तथा
तीर्थेष्वेतेषु विधिवत्सम्यक्श्रद्धासमन्वितः  ८३
स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रि यः
देवानृषीन्मनुष्यांश्च पितॄन्संतर्प्य च क्रमात्  ८४
अभ्यर्च्य देवतास्तत्र स्थित्वा च रजनीत्रयम्
पृथक्पृथक्फलं तेषु प्रतितीर्थेषु भो द्विजाः  ८५
प्राप्नोति हयमेधस्य नरो नास्त्यत्र संशयः
यस्त्विदं शृणुयान्नित्यं तीर्थमाहात्म्यमुत्तमम्
पठेच्च श्रावयेद्वापि सर्वपापैः प्रमुच्यते  ८६
इति श्रीब्राह्मे महापुराणे तीर्थमाहात्म्यवर्णनं नाम पञ्चविंशोऽध्यायः  २५
<b>तत्रादौ स्वयम्भूब्रह्मर्षिसंवादवर्णनम्	</b>
<b>मुनय ऊचुः	</b>
पृथिव्यामुत्तमां भूमिं धर्म्मकामार्थमोक्षदाम्।
तीर्थानामुत्तमं तीर्थं ब्रूहि नो वदातांवर॥ २६.१ ॥
<b>लोमहर्षण उवाच	</b>
इमं प्रश्नं मम गरुं पप्रच्छुर्म्मुनयः पुरा।
तमहं सम्प्रक्ष्यामि यत्पृच्छध्वं द्विजोत्तमाः॥ २६.२ ॥
स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते।
नानाद्रुमलताकीर्णे नानामृगगणैर्युते॥ २६.३ ॥
पुन्नागैः कर्णिकारैश्च सरलैर्देवदारुभिः।
शालैस्तालैस्तमालैश्च पनसैर्धवखादिरैः॥ २६.४ ॥
पाटलाशोकबकुलैः करवीरैः सचम्पकैः।
अन्यैस्च विविधैर्वृक्षैर्नानापुष्पोपसोभितैः॥ २६.५ ॥
कुरुक्षेत्रे समासानं व्यासं मतिमतां वरम्।
महाभारतकर्त्तार सर्व्वशस्त्रविशारदम्॥ २६.६ ॥
अध्यात्मनिष्ठं सर्व्वज्ञं सर्व्वभूतहिते रतम्।
पुरामागमवक्तारं वेदवेदाङ्गपारगम्॥ २६.७ ॥
पराशरसुतं शान्तं पद्मपत्रायतेक्षणम्।
द्रष्टुमभ्याययुः प्रीत्या मुनयः संशितव्रताः॥ २६.८ ॥
कश्यपो जमदग्निश्च भरद्वाजोऽथ गौतम्।
वसिष्ठो जैमिनिर्धौम्यो मार्कण्डेयोऽथ वाल्मिकिः॥ २६.९ ॥
विश्वामित्रः शतानन्दो वात्स्यो गार्ग्योऽथ आसुरिः।
सुमन्तुर्भार्गवो नाम कण्वो मेधातिथिर्गुरुः॥ २६.१० ॥
माण्डव्यश्च्यवनो धूम्रो ह्यसितो देवलस्तथा।
मैद्‌गल्यस्तृणयज्ञस्च दुर्व्वासा लोमशस्तथा॥ २६.११ ॥
संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस्तथा।
शाण्डिल्यश्च विभाण्डश्च दुर्व्वासा लोमशस्तथा॥ २६.१२ ॥
नारदः पर्व्वतश्चैव वैशम्पायनगालवौ।
भास्करिः पूरणः सूतः पुलस्त्यः कपिलस्तथा॥ २६.१३ ॥
उलूकः पुलहो वायुर्देवस्थानश्चतुर्भुजः।
सनत्कुमारः पैलश्च कुष्णः कृष्णनुभौतिकः॥ २६.१४ ॥
एतैर्म्मुनिवरैश्चान्यैर्वृतः सत्यवतीसुतः।
रराज स मुनिः श्रोमान् नक्षत्रैरिवल चन्द्रमाः॥ २६.१५ ॥
तानागतान्मुनीन् सर्व्वान् पूजयामास वेदवित्।
तेऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम्॥ २६.१६
कथान्ते ते मुनिश्रेष्ठाः कृष्णां सत्यवतीसुतम्।
पप्रच्छुः सशयं सर्व्वे तपोवननिवासिनः॥ २६.१७ ॥
<b>नुनय ऊचुः	</b>
मुने वेदांश्च शास्त्राणि पुराणागमभारतम्।
भूतं भव्यं भविष्यञ्च सर्व्वजानासि वाङ्मयम्॥ २६.१८ ॥
कष्टेऽस्मिन् दुःखबहुले निःसारे भवसागरे।
रागग्राहाकुले रौद्रे विषयदकसंप्लवे॥ २६.१९ ॥
इन्द्रियावर्त्तकलिले दृष्टोर्मिशतसङ्कुले।
मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे॥ २६.२० ॥
निमज्जज्जगदालोक्य निरालम्बमचेतनम्।
पृच्छामस्त्वां महाभागं ब्रूहि नो मुनिसत्तम?॥ २६.२१ ॥
श्रेयः किमत्र संसारे भैरवे लोमहर्षणे।
उपदेशप्रदानेन लोकानुद्धर्त्तुमर्हसि॥ २६.२२ ॥
दुर्लभं परमं क्षेत्रं वक्तुमर्हसि मोभदम्।
पृथिव्यां कर्म्ममूमिञ्च श्रोतुमिच्छामहे वयम्॥ २६.२३ ॥
कृत्वा किल नरः सम्यक् कर्म्मभूमौ यथोदितम्।
प्राप्नोति परमां सिद्धिं नरकञ्च विकर्म्मतः॥ २६.२४ ॥
मोक्षक्षेत्रे तथा मोत्रं प्राप्नोति पुरुषः सुधीः।
तस्माद् ब्रूहि महाप्राज्ञ यत्पृष्टोऽसि द्विजोत्तम?॥। २६.२५ ॥
श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम्।
व्यासः प्रोवाच भगवान्‌भूतभव्यभविष्यवित्॥ २६.२६ ॥
<b>व्यास उवाच	</b>
श्रुणुध्वं मुनयः सर्व्वे वक्ष्यामि यदि पृच्छथ।
यःसंवादोऽभवत् पूर्व्वमृषीणां ब्रह्मण सह॥ २६.२७ ॥
मेरृपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते।
नानाद्रुमलताकीर्णे नानापुष्पेपशोभिते॥ २६.२८ ॥
नानापक्षिरुते रम्ये नानाप्रसवनाकुले।
नानासत्त्वसमाकीर्णे नानाश्चर्य्यसमन्विते॥ २६.२९ ॥
नानावर्णशिलाकीर्णे नानाधातुविभूषिते।
नानामुनिजनाकीर्णे नानाश्रमसमन्विते॥ २६.३० ॥
नत्रासीने जगन्नाथं जगद्‌योनिं यतुर्मखम्।
जगत्पतिं जगद्वन्धं जगदाधारमीश्वरम्॥ २६.३१ ॥
देवदानवगन्धर्व्वैर्यक्षविद्याधरोरगैः।
मुनिसिद्धाप्सरोभिश्च वृतमन्यैर्दिवालयैः॥ २६.३२ ॥
क्रेचित् स्तुवन्ति तं देवं कोचिद्‌गायन्ति चाग्रतः।
कोचिद्वाद्यानि वाद्यन्ते केचिन्न्‌त्यन्ति चापरे॥ २६.३३ ॥
एवं प्रमुदिते काले सर्व्वभूतसमागमे।
नानाकुसुमगन्धाढ्‌ये दक्षिणानिलसेविते॥ २६.३४ ॥
भृग्वाद्यास्तं तदा देवं प्रणिपत्य पितामहम्।
इममर्थमृषिवराः। प्रपच्छुः पितरं द्विजाः॥ २६.३५ ॥
<b>ऋषय ऊचुः।	</b>
भगवञ्श्रोतुमिच्छामः कर्म्मभूमिं महीतले।
वक्तुमर्हसि देवेश मोक्षक्षेत्रञ्च दुर्लभम्॥ २६.३६ ॥
<b>व्यास उवाच	</b>
तेषां ववनमाकर्ण्य प्राह ब्रह्म सुरेरवरः।
पप्रच्छुस्ते यथा प्रश्नं तत्सर्व्व मुनिसत्तमाः॥ २६.३७ ॥
इति श्रीब्राह्मे महापुराणे स्वयम्भूब्रह्मर्षिसंवादे प्रश्ननिरूपणं नामषड्‌विंशोऽध्यायः॥ २६ ॥
<b>तत्रादौ भारतवर्षवर्णनम्	</b>
<b>ब्रह्मोवाच	</b>
श्रृणुध्वं मुनयः सर्व्वे यद्वो वक्ष्यामि साम्प्रतम्।
पुराणं वेदसम्बद्धं भुक्तितमुक्तिप्रदं शुभम्॥ २७.१ ॥
पृथिव्यां भारतं वर्ष कर्म्मभूमिरुदाहृता।
कर्म्मणः फलभूमिश्च स्वर्गञ्च नरकं तथा॥ २७.२ ॥
तस्मिन् वर्षे नरः पापं कृत्वा धर्म्मञ्च भो द्विजाः।
अवश्यं फलमाप्नोति अशुभस्य शुभस्य च॥ २७.३ ॥
ब्राह्मणाद्याः स्वकं कर्म्म कृत्वा सम्यक्‌सुसंयताः।
प्राप्नुवन्ति परां सिद्धिं तस्मिन्‌वर्षे न संशयः॥ २७.४ ॥
धर्म्मञ्चार्थञ्च काम्ञ्च मोक्षञ्टच द्विजसत्तमाः।
प्राप्नोति पुरुषः सर्व्वं तस्मिन् वर्षे सुसंयतः॥ २७.५ ॥
इन्द्राद्याश्च सुराः सर्व्वे तस्मिन् वर्षे द्विजोत्तमाः।
कृत्वा सुशोभनं कर्म्म देवत्वं प्रतिपेदिरे॥ २७.६ ॥
अन्येऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः।
तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः॥ २७.७ ॥
ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः।
तेऽपि कृत्वा शुभं कर्म्म तस्मिन् वर्षे दिवं गताः॥ २७.८ ॥
निवासं भारते वर्षे आकाङक्षन्ति सदा सुराः।
स्वर्गपवर्गफलदे तत्पश्यामः कदा वयम्॥ २७.९ ॥
<b>मुनय ऊचुः	</b>
यदेतद्‌भवता प्रोक्तं कर्म्म नान्यत्र पुण्यदम्।
पापाय वा सुरश्रेष्ठ वर्ज्जयित्वा च भारतम्॥ २७.१० ॥
ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते।
न खल्वन्यत्र मर्त्त्यानां भूमौ कर्म्म विधीयते॥ २७.११ ॥
तस्माद्विस्तरतो ब्रह्मन्नस्माकं भारतं वद।
यदि तेऽस्ति दयास्मासु यथावस्थितिरेव च॥ २७.१२ ॥
तस्माद्वर्षमिदं नाथ ये वास्मिन् वर्षपर्व्वताः।
भेदाश्च तस्य वर्षस्य ब्रूहि सर्व्वानशेषतः॥ २७.१३ ॥
श्रृणुध्वं भारतं वर्ष नवभेदेन भो द्विजाः।
समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम्‌॥ २७.१४ ॥
इन्द्रद्वीपः कशेएरुस्च ताम्रपर्णों सागरसंवृतः।
नागद्वीपस्तथा सौम्यो गान्धर्व्वो वारुणस्तथा॥ २७.१५ ॥
अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः।
योजनानां सहस्रं वै द्वीपोऽयं दक्षिणोत्तरः॥ २७.१६ ॥
पूर्व्वे किराता यस्यासन् पश्चिमे यवनास्तथा।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ते स्थिता द्विजाः॥ २७.१७ ॥
इज्यायुद्धवणिज्याद्यैः कर्म्मभिः कृतपावनाः।
तेषां संव्यवहारश्च एभिः कर्म्मभिरिष्‌यते ॥ २७.१८ ॥
स्वर्गापवर्गहेतुश्च पुण्यं पापञ्च वै तथा।
महेन्द्रो मलयः सह्यः शुवितमानृक्षपर्व्वतः॥ २७.१९ ॥
विन्ध्यश्च पारियात्रस्च सप्तैवात्र कुलाचलाः।
तेषां सहस्रशश्चान्ये भूधरा ये समोपगाः॥ २७.२० ॥
विस्तारोच्छ्रयिणो र्या विपुलाश्चित्रसानवः।
कोलाहलः स वैश्राजो मन्दरो दद्‌र्दुराचलः॥ २७.२१ ॥
बालन्धयो वैद्युतश्च मैनाकः सुरसस्तथा।
तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डराचलः॥ २७.२२ ॥
पुष्पगिरिर्वैजयन्तो रैवतोऽर्ब्बुद एव च।
ऋष्यमूकः स गोमन्थः कुतशैलः कृताचलः॥ २७.२३ ॥
श्रीपार्व्वतस्चकोरश्च शतशोऽन्ये च पर्व्वताः।
तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः॥ २७.२४ ॥
तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः।
गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा॥ २७.२५ ॥
यमुना शतद्रुर्विपाशा वितस्तैरावती कूहुः।
गोमती धूतपापा च बाहुदा च दृषद्वती॥ २७.२६ ॥
विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा।
कौशिकी चापगा चैव हिमवत्पादनिःसृताः॥ २७.२७ ॥
देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च।
वेण्या तु चन्दना चैव सदानीरा मही तथा॥ २७.२८ ॥
चर्म्मण्वती वृषी वैव विदिशा वेदवत्यपि।
सिप्रा हवन्ती च तथा पारियात्रानुगाः स्मृताः॥ २७.२९ ॥
शोणा महानदी चैव नर्म्मदा सुरथा क्रिया।
मन्दाकिनी दशार्णा च चित्रकूटा तथापरा॥ २७.३० ॥
चित्रोत्पला वेत्रवती करमोदा पिशाचिका।
तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी॥ २७.३१ ॥
सधेरुजा शक्तिमती शकुनी त्रदिवा क्तमुः।
ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी॥ २७.३२ ॥
सिप्रा पयोष्णी निर्व्विन्ध्या तापी चैव सरिद्वरा।
वैणा वैतरणी चैव सिनीवाली कुमुर्द्वतीः॥ २७.३३ ॥
तोया चैव महागौरी दुर्गा चान्तःशिला तथा।
विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः॥ २७.३४ ॥
गोदावरी भीमरथी कृष्णवेणा तथापगा।
तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी॥ २७.३५ ॥
सह्यपादविनिष्क्रान्ता इत्येताः सरितां वराः।
कृतमाला ताम्रपर्णो पुष्यजा प्रत्यलावति॥ २७.३६ ॥
मलयाद्रिसमुद्‌भूताः पूण्याः शीतजलास्त्विमाः।
पितृसोमर्षिकुल्या च व़ञ्जुला त्रिदिवा च या॥ २७.३७ ॥
लाङ्गलिनो वंशकरा महेन्द्रप्रभवाः स्मृताः।
सुविकाला कुमारी च मनूगा मन्दगामिनो॥ २७.३८ ॥
क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृता।
सर्व्वाः पुण्याः सरस्वत्यः सर्व्वा गङ्गाः समुद्रगाः॥ २७.३९ ॥
विश्वस्य मातरः सर्व्वाः सर्व्वाः पापहराः स्मृताः।
अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः॥ २७.४० ॥
प्रवृट्‌कालवहाः सन्ति सदाकालवहाश्च याः।
मत्स्या मुकुटकुल्याश्च कुन्तलाः काशिकोशलाः॥ २७.४१ ॥
अन्ध्रकाश्च कलिङ्गाश्च शमकाश्च वृकैः सह।
मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्त्तिताः॥ २७.४२ ॥
सह्यस्य चोत्तरे यस्तु त्र गोदावरी नदी।
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः॥ २७.४३ ॥
गोवर्द्धनपुरं रम्यं भार्गवस्य महात्मनः।
वाहीका वाटधानाश्च सुतीराः कोलतोयदाः॥ २७.४४ ॥
अपरान्ताश्च शूद्रश्च वाह्लिकाश्च सकेरलाः।
गानधारा यवनाश्चैव सिन्धुसौवोरमद्रकाः॥ २७.४५ ॥
शतद्रुहाः कलिङ्गाश्च पारदा हारभूषिकाः।
माठराश्चैव कनकाः कैकेया दम्भमालिकाः॥ २७.४६ ॥
क्षत्रियोपमदेश्च वैस्यशूद्रकुलानि च।
काम्बोजाश्चैव विप्रेन्द्रा बर्व्बराश्च सलौकिकाः॥ २७.४७ ॥
वीराश्चैव तुषाराश्च पह्लवाधायता नराः।
आत्रेयाश्च भरद्वाजाः पुष्कलाश्च दशेरकाः॥ २७.४८ ॥
लम्पकाः शुनःशोकाश्च कुलिका जाङ्गलैः सह।
औषध्यश्चन्द्रा च किरातानाञ्व दशेरकाः॥ २७.४९ ॥
तोमरा हंसमार्गाश्च काश्मीराः करुणास्तथा।
शूलिकाः कुहकाश्चैव मागधाश्च तथैव च॥ २७.५० ॥
एते देशा उदीच्यास्तु प्राच्यान् देशान्निबोधत।
अन्धा वामङकुराकाश्च वल्लकाश्च मखान्तकाः॥ २७.५१ ॥
तथापरेऽङ्गा वङ्गाश्च मलदा मालवर्त्तिकाः।
भद्रतुङ्गाः प्रतिजया भार्य्याङ्गाश्चापमद्‌र्दकाः॥ २७.५२ ॥
प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः।
मल्ला मगधका नन्दाः प्राच्या जनपदास्तथा॥ २७.५३ ॥
तथापरे जनपदा दक्षिणापथवासिनः।
पूर्णाश्च केवलाश्चैव गोलाङगूलास्तथैव च॥ २७.५४ ॥
ऋषिका मुषि काश्चैव कुमारा रामठाः शकाः।
महाराष्ट्रा माहिषका कलिङ्गाश्चैव सर्व्वशः॥ २७.५५ ॥
आभीराः सह वैशिक्या अटव्याः रवाश्च ये।
पुलिन्दाश्चैव मौलेया वैदर्भा दण्डकैः सह॥ २७.५६ ॥
पौलिका मौलिकाश्चैव अश्मका भोजवर्द्धनाः।
कौलिकाः कुन्तलाश्चैव दम्भका नीलकालकाः॥ २७.५७ ॥
दिक्षिणात्यास्त्वमी देशा अपरान्तान्निबोधत।
शूपरिकाः कालिधना लोलास्तालकटैः सह॥ २७.५८ ॥
इत्येते ह्यपरान्ताश्चज श्रृणुध्वं विन्ध्यवासिनः।
मलजाः कर्कशाश्चैव मेलकाश्चोलकैः सह॥ २७.५९ ॥
उत्तमार्णा दशार्णाश्च भोजाःच किष्किन्ध्यकैः सह।
तोषलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा॥ २७.६० ॥
तुम्बुरास्तु चराश्चैव यवनाः पवनैः सह।
अभया रुणिडिकेराश्च चर्च्चरा होत्रधर्त्तयः॥ २७.६१ ॥
एते जनपदाः सर्व्वे तत्र विन्ध्यनिवासिनः।
अतो देशान् प्रवक्ष्यामि पर्व्वताश्रयिणश्च ये॥ २७.६२ ॥
नीहारास्तुषमार्गाश्च कुरवस्तङ्गणाः खसाः।
कर्णप्रावरणाश्चैव ऊर्णा दर्घाः सकुन्तकाः॥ २७.६३ ॥
चित्रमार्गा मालवाश्च किरातास्तोमरैः सह।
कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः॥ २७.६४ ॥
एवं तु भारतं वर्ष नवसंस्थानसंस्थितम्।
दक्षिणे परतो यस्य पूर्व्वे चैव सहोदधिः॥ २७.६५ ॥
हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः।
तदेतद्‌भारतं वर्षं सर्व्ववीजं द्विजोत्तमाः॥ २७.६६ ॥
ब्रह्मत्वममरेशत्वं देवत्वं मरुतां तथा।
मृगयक्षाप्सरोयोनिं तद्वत् सर्पसरीसृपाः॥ २७.६७ ॥
स्थावराणाञ्च सर्व्वेषामितो विप्राः शुभाशुभैः।
प्रयान्ति कर्म्मभूर्विप्रा नान्या लोकेषु वुद्यते॥ २७.६८ ॥
देवानामपि भो विप्राः सदैवैष मनोरथः।
अपि मानुष्यमाप्स्यामो देवत्वात् प्रत्युताः क्षितौ॥ २७.६९ ॥
मनुष्यः कुर्ते यत्तु तन्न शक्यं सुरासुरैः।
तत्‌कर्म्मनिगडुग्रस्तैस्तत्‌कर्म्मक्षपणोन्मुखैः॥ २७.७० ॥
न भारतसमं वर्षं पृथिव्यामस्ति भो द्विजाः।
यत्र विप्रादयो वर्णाः प्राप्नुवन्त्यभिवाञ्छितम्॥ २७.७१ ॥
धन्यास्ते भारते वर्षे जायन्ते ये नरोत्तमाः।
धर्म्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम्॥ २७.७२ ॥
प्राप्यते यत्र तपसः फलं परमदुर्लभम्।
सर्व्वदानफलञ्चैव सर्व्वयज्ञफलं तथा॥ २७.७३ ॥
तीर्थयात्राफल़ञचैव गुरुसेवाफलं तथा।
देवताराधनफलं स्वाध्यायस्य फलं द्विजाः॥ २७.७४ ॥
यत्र देवाः सदा हृष्टाः जन्म वाञ्छन्ति शोभनम्।
नानाव्रतफलञ्चैव नानाशास्त्रफलं तथा॥ २७.७५ ॥
अहिंसादिफलं सम्यक्‌फलं सर्व्वाभिवाञ्छितम्।
ब्रह्मचर्य्यफलंञ्चैव गार्हस्थ्येन च यत्‌फलम्॥ २७.७६ ॥
यत् फलं वनवासेन सन्न्यासेन च यत्‌फलम्।
हष्टापूर्त्तफलञ्चैव तथान्यच्छुभकर्म्मणाम्॥ २७.७७ ॥
प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः।
कः शक्तनोति गुणान् वक्तुं भारतस्याखिलान्द्विजाः॥ २७.७८ ॥
एवं सम्यङमया प्रोक्तं भारतं वर्षमुत्तमम्।
सर्व्वपापहरं पुण्यं धन्यं बुद्धिविवर्द्धनम्॥ २७.७९ ॥
य इदं श्रृणुयान्नित्यं पठेद्वा नियतेन्द्रियः।
सर्व्वपापैनिर्मुक्तो विष्णुलोकं स गच्छति॥ २७.८० ॥
इति श्रीब्राह्मे महापुराणे भारतवर्षानुकीर्त्तनं नाम सप्तविंशोऽध्यायः॥ २७ ॥
<b>तत्रादौ कोणादित्यमाहात्म्यवर्णनम्	</b>
<b>ब्रह्मोवाच	</b>
तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः।
ओष्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः॥ २८.१ ॥
समुद्रदुत्तरं तावद्‌यावद्विरजमण्डलम्।
देशोऽसौ पुण्यशीलानां गुणैः सर्व्वैरलङ्कृतः॥ २८.२ ॥
तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः।
तपःस्वाध्यायनिरता वन्द्याः पूज्याश्च ते सदा॥ २८.३ ॥
श्राद्धे दाने विवाहे च यज्ञे वाचार्य्यकर्म्मणि।
प्रशस्ताः सर्व्वकार्य्येषु तत्रदेशोद्भवा द्विजाः॥ २८.४ ॥
षट्‌कर्म्मनिरतास्तत्र ब्राह्मणा वेदपारगाः।
इतिहासविदश्चैव पुराणार्थविशारदाः॥ २८.५ ॥
सर्व्वशास्त्रार्थकुशला यज्वानो वीतमत्‌सराः।
अग्निहोत्ररताः कोचित्‌केचित् स्मार्त्ताग्नितत्‌पराः॥ २८.६ ॥
पुत्रदारधनैर्युक्ता दातारः सत्यवादिनः।
निवसन्त्युत्‌कले पुण्ये यज्ञोत्सवविभूषिते॥ २८.७ ॥
इतरेऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः।
स्वकर्म्मनिरताः शान्तास्त्र तिष्ठन्ति धार्म्मिकाः॥ २८.८ ॥
कोणादित्य इति ख्यातस्तस्मिन् देशे व्यवस्थितः।
यं दृष्ट्वा भास्करं मर्त्त्यः सर्व्वपापैः प्रमुच्यते॥ २८.९ ॥
<b>मुनय ऊचुः	</b>
श्रोतुमिच्छाम तद्‌ब्रिह क्षेत्रं सूर्य्यस्य साम्प्रतम्।
तस्मिन् देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः॥ २८.१० ॥
<b>ब्रह्मोवाच	</b>
लवणस्योदधेस्तीरे पवित्रे सुमनोहरे।
सर्व्वत्र वालुकाकीर्णे देशे सर्व्वगुणान्विते॥ २८.११ ॥
चम्पकाशोकबकुलैः करवीरैः सपाटलैः।
पुन्नागैः कर्णिकारैश्च वकुलैर्नागकेसरैः॥ २८.१२ ॥
तगरैर्धवबाणैश्च अतिमुक्तैः सकुज्जकैः।
मालतीकुन्दपुष्पैश्च तथान्यैर्मल्लिकादिभिः॥ २८.१३ ॥
केतकीवनखण्डैश्च सर्व्वर्त्तुकुसुमोज्ज्वलैः।
गतम्बैर्लुकुचैः शालैः पनसैर्दैवदारुभिः॥ २८.१४ ॥
सरलैर्मुचुकुन्दैश्च चन्दनैश्च सितेतरैः।
अश्वत्थैः सप्तपर्णैस्च आर्म्रराम्रातकैस्तथाः॥ २८.१५ ॥
तालैः पूगफलैश्चैव नारिकेलैः कपित्थकैः।
अन्यैश्च विविधैर्वृक्षैः सर्व्वतः समलङकृतम्॥ २८.१६ ॥
क्षेत्रं त६ रवेः पुण्यमास्ते जगति विश्रुतम्।
समन्ताद्‌योजनं साग्रं भुक्तिमुक्तिफलप्रदम्॥ २८.१७ ॥
आस्ते तत्र स्वयं देवः सहस्रांशुर्दिवाकरः।
कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः॥ २८.१८ ॥
माघे मासि सिते पक्षे सप्तम्यैं संयतेन्द्रियः।
कृतोपवासो यत्रैत्य स्नात्वा तु मकरालये॥ २८.१९ ॥
कृतशौचो विशुद्धात्मा स्मरन् देवं दिवाकरम्।
सागरे विधिवत् स्नात्वा शर्व्वर्य्यन्ते समाहितः॥ २८.२० ॥
देवानृषीन्मनुष्यांश्च पितॄन् सन्तर्प्य च द्विजाः।
उत्तीर्य्य चवाससी धौते परिधाय सुनिर्म्मले॥ २८.२१ ॥
आचम्य प्रयोत भूत्वा तीरे तस्य महोदधेः।
उपविश्योदये काले प्राङ्मुखः सवितुस्तदा॥ २८.२२ ॥
विलिख्य पद्‌मं मेधावी रक्तचन्दनवारिणा।
अष्टपत्रं केसराढ्यं वर्त्तुलं चोर्ध्वकर्णिकम्॥ २८.२३ ॥
तिलतण्डुलतोयञ्च रक्तचन्दनसंयुतम्।
रवतपुष्पं सदर्भञ्च प्रक्षिपेत्ताम्रभाजने॥ २८.२४ ॥
ताम्राभावेऽर्कपत्रस्य पुटैः कृत्वा तिलदिकम्।
पिधाय तन्मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत्॥ २८.२५ ॥
करन्यासाङ्गविन्यासं कृत्वाङ्गैर्हृदयादिभिः।
आत्मानं भास्करं ध्यात्वा सम्यक् श्रद्धासमन्वितः॥ २८.२६ ॥
मध्ये चाग्निदले धीमान्नैर्ऋते श्वसने दले।
कामारिगोचरे चैव पुनर्मध्ये च पूजयेत्॥ २८.२७ ॥
प्रभूतं विमलं सारमाराध्यं परमं सुखम्।
सम्पूज्य पद्‌ममावाह्य गगनात्तत्र भास्करम्॥ २८.२८ ॥
कर्णिकोपपि संस्थाप्य ततो मुद्रां प्रदर्शयेत्।
कृत्वा स्नानादिकं सर्व्वं ध्यात्वा तं सुसमाहितः॥ २८.२९ ॥
सितपद्‌मोपरि रविं तेजोबिम्बे व्यवस्थितम्।
पिङ्गाक्षं द्विभुजं रक्तं पद्‌मपत्रारुणाम्बरम्॥ २८.३० ॥
सर्व्वलक्षणसयुक्तं सर्व्वाभरणभूषितम्।
सुरूपं वरदं शान्तं प्रभामण्डलमिण्डितम्॥ २८.३१ ॥
उद्यन्तं भास्करं दृष्ट्‌वा सान्द्रसिन्दूरसन्निभम्।
ततस्तत्पात्रमादाय जानुभ्यां धरणों गतः॥ २८.३२ ॥
कृत्वा शिरसि तत्प्रत्रमेकचित्तस्तु वाग्‌यतः।
त्र्यक्षरेण तु मन्त्रेण सूर्य्यायार्घ्यं निवेदयेत्॥ २८.३३ ॥
अदीक्षितस्तु तस्यैव नाम्नैवार्घ्घं प्रयच्छति।
श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर्यतः॥ २८.३४ ॥
अग्निनि र्ऋतिवाय्वीशमध्यपूर्व्वादिदिक्षु च।
हृच्छिरश्च शिखावर्मनेत्राण्यस्त्रञ्च पूजयेत्॥ २८.३५ ॥
दत्त्वार्घ्यं गन्धधूपञ्च दीपं नैवेद्यमेव च।
जप्त्वा स्तुत्वा नमस्कृत्वा मुद्रां बद्‌ध्वा विसर्ज्जयेत्॥ २८.३६ ॥
ये वार्घ्यं सम्प्रयच्छन्ति सूर्य्याय नियतेन्द्रियाः।
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च संयताः॥ २८.३७ ॥
भक्तितभावेन सततं विशुद्धेनान्तरात्मना।
ते भुक्त्‌वाभिमतान् कामान् प्राप्नुवन्ति परां गतिम्॥ २८.३८ ॥
त्रैलोक्यदीपकं देवं भास्करं गगनेचरम्।
ये संश्रन्ति मनुजास्ते स्युः सुखस्य भाजनम्॥ २८.३९ ॥
यावन्न दीयते चार्घ्यं भास्कराय तथोदितम्।
तावन्न पूजयेद्धिष्णुं शङ्करं वा सुरेश्वरम्॥ २८.४० ॥
तस्मात् प्रयत्नमास्थाय दद्यादर्घ्यं दिने दिने।
आदित्याय शुचिर्भूत्वा पुष्पैर्गन्धैर्मनोरमैः॥ २८.४१ ॥
एवं ददाति यश्चार्घ्यं सप्तम्यां सुसमाहितः।
आदित्याय शुचिः स्नातः स लभेदोप्सितं फलम्॥ २८.४२ ॥
रोगाद्विमुत्यते रोगी वित्तार्थी लभते धनम्।
विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान् भवेत्॥ २८.४३ ॥
यं यं काममभिध्यायन् सूर्य्यायार्घ्यं प्रयच्छति।
तस्य तस्य फलं सम्यक् प्राप्नोति पुरुषः सुधीः॥ २८.४४ ॥
स्नात्वा वै सागरे दत्त्वा सूर्य्यायार्घ्यं प्रणम्य च।
नरो वा यदि वा नारी सर्व्वकामफलं लभेत्॥ २८.४५ ॥
ततः सूर्य्यालयं गच्छेत् पुष्पमादाय वाग्‌यतः।
प्रविश्य पूजयेद्‌भानुं कृत्वा तु त्रिः प्रदक्षिणम्॥ २८.४६ ॥
पूजयेत् परया भक्त्या कोणार्कं मुनिसत्तमाः
गन्धैः पुष्पैस्तथा दीपैर्धूपै र्नैवेद्यके रपि॥ २८.४७ ॥
दण्डवत् प्रणिपातैस्च जयशब्दैस्तथा स्तवैः।
एव सम्पूज्य तं देवं सहस्रांशु जगत्‌पतिम्॥ २८.४८ ॥
दशानामश्वमेधानां फलं प्राप्नोति मानवः।
सर्व्वपापविनिर्म्मुक्तो युवा दिव्यवपुर्नरः॥ २८.४९ ॥
सप्तावरान् सप्त परान् वंशानुद्‌धृत्य भो दिजाः।
विमानेनार्कवर्णेन कामगेन सुवर्च्चसा॥ २८.५० ॥
उपगीयमानो गन्धर्व्वैः सूर्य्यलोकं स गच्छति।
भुक्त्‌वा तत्र वरान् भोगान् यावगाभूतसंप्लवम्॥ २८.५१ ॥
पुण्यक्षयादिहायातः प्रवेर योगिनां कुले।
चतुर्व्वेदो भवेद्विप्रः स्वधर्म्मनिरतः शुचिः॥ २८.५२ ॥
योगं विवस्वतः प्राप्य ततो मोक्षमवाप्नुयात्।
चैत्रे मासि सिते पक्षे यात्रां मदनभञ्जिकाम्॥ २८.५३ ॥
यः करोति नास्तत्र पूर्व्वोक्तं स फलं लभेत्।
शयनोत्थापने भानोः संक्रान्त्यां विषुवायने॥ २८.५४ ॥
वारे रवेस्तिथौ चैव पर्व्वकालेऽतवा द्विजाः।
येतत्र यात्रां कुर्व्वन्ति श्रद्धया संयतेन्द्रियाः॥ २८.५५ ॥
विमानेनार्कवर्णेन सूर्य्यलोकं व्रजन्ति ते।
आस्ते तत्र महादेवस्तीरे नदनदीपतेः॥ २८.५६ ॥
रामेश्वर इति ख्यातः सर्व्वकामफलप्रदः।
ये तं पश्यन्ति कामारिं स्नात्वा सम्यङमहोदधौ॥ २८.५७ ॥
गन्धैः पुष्पैस्तथा धूपैर्दीपैनैवेद्यकैर्व्वरैः।
प्रणिपातैस्तथा स्तोत्रैर्गोतैर्वद्यैर्मनोहरैः॥ २८.५८ ॥
राजसूयफलं सम्यग्वाजिमैधफलं तथा।
प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा॥ २८.५९ ॥
कामगेन विमानेन किङ्किणीजालमालिना।
उपगीयमाना गन्धर्व्वैः शिवलोकं व्रजन्ति ते॥ २८.६० ॥
आभूतसंप्लवं यावद्‌भुक्त्वा भोगान्मनोरमान्।
पुण्यक्षयादिहागत्य चातुर्व्वेदा भवन्ति ते॥ २८.६१ ॥
शाङकरं योगमास्थाय ततो मोभं व्रजन्ति ते।
यस्तत्रच सवितुः क्षेत्रे प्राणांस्त्यजति मानवः॥ २८.६२ ॥
स सूर्य्यलोकमास्थाय देववन्मोदते दिवि।
पुनर्मानुषतां प्राप्य राजा भवति धार्म्मिकः॥ २८.६३ ॥
योगं रवेः समासाद्य ततो मोक्षमवाप्नुयात्।
एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम्॥ २८.६४ ॥
<b>तत्रादौ सूर्यपूजाप्रकारणम्	</b>
<b>मुनय ऊचुः	</b>
श्रुतोऽस्माभिः सुरश्रेष्ठ भवता यदुदाहृतम्।
भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम्॥ २९.१ ॥
न तृप्तिमधिगच्छामः श्रृण्वन्तः सुखदां कथाम्।
तव वक्त्रोद्‌भवां पुण्यामादित्यस्याधनाशिनीम्॥ २९.२ ॥
अतः परं सुरश्रेष्ठ ब्रूहि नो वदतांवर।
देवपूजाफलं यच्च यच्च दानफलं प्रभो॥ २९.३ ॥
प्रणिपाते नमस्कारे तदथा चैव प्रदक्षिणे।
दीपधूपप्रदाने च सम्मार्ज्जविधौ च यत्॥ २९.४ ॥
उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने।
अर्घ्यश्च कीदृशः प्रोक्तः कुत्र वा संप्रदीयते॥ २९.५ ॥
कथञ्च क्रियते भक्तिः कथं देवः प्रसीदति।
एतत् सर्व्वं सुरश्रेष्ठ श्रोदुमिच्छामहे वयम्॥ २९.६ ॥
<b>ब्रह्मोवाच	</b>
अर्घ्यं पूजादिकं सर्व्वं भास्करस्य द्विजोत्तमाः।
भक्तिं श्रद्धां समाधिञ्च कथ्यमानं निबोधत॥ २९.७ ॥
मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्त्यते।
ध्यानं समाधिरित्युक्तं श्रृणुध्वं सुसमाहिताः॥ २९.८ ॥
तत्कथां श्रावयेद् यस्तु तद्‌भक्तान् पूजयीत वा।
अग्निशुश्रूषकस्चैव स वै भक्तः सनातनः॥ २९.९ ॥
तच्चित्त्स्तन्मनाश्चैव देवपूजारतः सदा।
तत्कर्म्मकृद्‌भवेद् यस्तु स वै भक्तः सनातनः॥ २९.१० ॥
देवार्थे क्रियमाणानि यः कर्म्माण्यनुमन्यते।
कीर्त्तनाद्वा परो विप्राः स वै भक्ततरो नरः॥ २९.११ ॥
नाभ्यसूयेत तद्‌भक्तान् न निन्द्याच्चान्यदेवताम्।
आदित्यव्रतचारी च स वै भक्ततरो नरः॥ २९.१२ ॥
गच्छस्तिष्ठन् स्वपञ्जिघ्रन्नुन्मिषन्निमिषन्नपि।
यः स्मरेद्‌भास्करं नित्यं स वै भक्ततरो नरः॥ २९.१३ ॥
एवंविधा त्वियं भक्तिः सदा कार्य्या विजानता।
भक्त्या समाधिना चैव स्तवेन मनसा तथा॥ २९.१४ ॥
क्रियते नियमो यस्तु दानं विप्राय दीयते।
प्रतिगृह्‌णन्ति तं देवा मनुष्याः पितरस्तथा॥ २९.१५ ॥
पत्रं पुष्पं फलं तोयं यद्‌भक्त्या समुपाहृतम्।
प्रतिगृह्णन्ति तद्देवा नास्तिकान् वर्ज्जयन्ति च॥ २९.१६ ॥
भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता।
भावशुद्ध्‌या क्रियते यत्तत् सर्व्वं सफलं भवेत्॥ २९.१७ ॥
स्तुतिजप्योपहारेण पूजयापि विवस्वतः।
उपवासेन भक्त्या वै सव्वपापैः प्रमुच्यते॥ २९.१८ ॥
प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः।
तत्क्षणात् सर्व्व्पापेभ्यो मुच्यते नात्र संशयः॥ २९.१९ ॥
भक्तियुक्तो नरो योऽसौ रवेः कुर्यात् प्रदक्षिणाम्।
प्रदक्षणीकृता तेन सप्तद्वीपा वसुन्धरा॥ २९.२० ॥
सूर्य्या मनसि यः कृत्वा कुर्य्याद्‌व्योमप्रदक्षिणाम्।
प्रदक्षिमीकृतास्तेन सर्व्वे देवा भवन्ति हि॥ २९.२१ ॥
एकाहारो नरो भूत्वा षष्ठ्यां योऽर्च्चयते रविम्।
नियमव्रतचारी च भवेद्‌भक्तिसमन्वितः॥ २९.२२ ॥
सप्तम्यां वा महाभागाः सोऽश्वमेधफलं तभेत्।
अहोरात्रोपवासेन पूजयेद् यस्तु भास्करम्॥ २९.२३ ॥
सप्तम्यामथवा षष्ठ्यां स याति परमां गतिम्।
कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः॥ २९.२४ ॥
सर्व्वरत्नोपहारेण पूजयेद् यस्तु भास्करम्।
पद्मप्रभेण यानेन यूर्य्यलोकं स गच्छति॥ २९.२५ ॥
शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः।
सर्व्वशुक्लोपहारेण पूजयेद् यस्तु भास्करम्॥ २९.२६ ॥
सर्व्वपापविनिर्म्मक्तः सूर्य्यलोकं स गच्छति।
अर्कसम्पुटसंयुक्तमुदकं प्रसृतं पिबेत्॥ २९.२७ ॥
क्रमवृद्ध्या चतुर्व्विशमेकैक क्षपयेत् पुनः।
द्वाभ्यां संवत्सराभ्यान्तु समाप्तनियमो भवेत्॥ २९.२८ ॥
सर्व्वकामप्रदा ह्येषा प्रशस्ता ह्यर्कसप्तमी।
शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत्॥ २९.२९ ॥
सप्तमी विजया नाम तत्र दत्तं महत् फलम्।
स्नानं दानं तपो होम उपवासस्तथैव च॥ २९.३० ॥
सर्व्वं विजयसप्तम्यां महापातकनाशनम्।
ये चादित्यदिने प्राप्ते श्राद्धं कुर्व्वन्ति मानवाः॥ २९.३१ ॥
यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम्।
येषां धर्म्याः क्रियाः सर्व्वाः सदैवोद्दिश्य भास्करम्॥ २९.३२ ॥
न कुले जायते तेषां दरिद्रो व्याधितोऽपि वा।
श्वेतया रक्तया वापि पीतमृत्तिकयापि वा॥ २९.३३ ॥
उपलेपनकर्त्ता तु चिन्तितं लभते फलम्।
चित्रभानुं विचित्रैस्तु कुसुमैश्च सुगन्धिभिः॥ २९.३४ ॥
पूजयेत् सोपवासो यः स कामानीप्सितांल्लभेत्।
घृतेन प्रज्वाल्य तिलतैलेन वा पुनः॥ २९.३५ ॥
आदित्यं पूजयेद्‌यस्तु चक्षुषा न स हीयते।
दीपदाता नरो नित्यं ज्ञानदीपेन दीप्य॥ २९.३६ ॥
तिलाः पवित्रं तैलं वा तिलगोदानमुत्तमम्।
अग्निकार्य्ये च दीपे च महापातकनाशनम्॥ २९.३७ ॥
दीपं ददाति यो नित्यं देवतायतनेषु च।
चतुष्पथेषु रथ्यासु रूपवान् सुभागो भवेत्॥ २९.३८ ॥
हविर्भिः प्रथमः कल्पो द्वितीयश्चोषधीरसैः।
वसामेदोस्थिनिर्य्यासैर्न तु देयः कथञ्चन॥ २९.३९ ॥
भवेदूर्ध्वगतिर्दोषो न कदाचादधोगतिः।
दाता दीप्यति चाप्येवं न तिर्य्यग्गतिमाप्नुयात्॥ २९.४० ॥
ज्वलमानं सदा दीपं न हरेन्नापि नाशयेत्।
दीपहर्त्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत्॥ २९.४१ ॥
दीपदाता स्वर्गलोके दीपमालेव राजते।
यः समालभते नित्यं कुङकुमागुरुचन्दनैः॥ २९.४२ ॥
सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया।
रक्तचन्दनसंमिश्रै रक्तपुष्पैः शुचिर्नरः॥ २९.४३ ॥
उदयेऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल्लभेत्।
उदयात् परिवर्त्तेत यावदस्तमने स्थितः॥ २९.४४ ॥
जपन्नभिमुखः किञ्चिनमन्त्रं स्तोत्रमथापि वा।
आदित्यव्रतमेतत्तु महापातकनाशनम्॥ २९.४५ ॥
अर्घ्येण सहितञ्चैव सर्व्वं साङ्गं प्रदापयेत्।
उदये श्रद्धया युक्तः सर्व्वपापैः प्रमुच्यते॥ २९.४६ ॥
सुवर्णधेनवनडुवसुधावस्त्रसंयुतम्।
अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम्॥ २९.४७ ॥
अग्नौ तोयेऽन्तरिक्षे च शुचौ भूम्यां तथैव च।
प्रतिमायां तथा पिण्ड्यां देयमर्घ्यं प्रयत्नतः॥ २९.४८ ॥
नापसव्यं न सव्यञ्च दद्यादभिमुखः सदा।
सघृतं वापि रवेर्भक्तिसमन्वितः॥ २९.४९ ॥
तत्क्षणात् सर्व्वपापेभ्यो मुच्यते नात्र संशयः।
श्रीवासं चतुरस्रञ्च च देवदारुं तथैव च॥ २०.५० ॥
कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः।
अयने तूत्तरे सूर्य्यमथवा दक्षिणायने॥ २९.५१ ॥
पूजयित्वा विशेषेण सर्व्वपापैः प्रमुच्यते।
विषुवेषूपरागेषु षडशीतिमुखेषु च॥ २९.५२ ॥
पूजयित्वा विशेषण सर्व्वपापैः प्रमुच्यते।
एवं वेलासु सर्व्वासु सर्व्वकालञ्च मानवः॥ २९.५३ ॥
भक्त्या पूजयते योऽर्कं सोऽर्कलोके महीयते।
कृसरैः पायसैः पूपैः फलमूलघृतौदनैः॥ २९.५४ ॥
बलिं कृत्वा तु सूर्य्याय सर्व्वान् कामानवाप्नुयात्।
घृतेन तर्पणं कृत्वा सर्व्वसिद्धो भवेन्नरः॥ २९.५५ ॥
क्षीरेण तर्पणं च कृत्वा मनस्तापैर्न युज्यते।
दध्ना तु तर्पणं कृत्वा कार्य्यसिद्धिं लभेन्नरः॥ २९.५६ ॥
स्नानार्थमाहरेद् यस्तु जलं भानोः समाहितः।
तीर्थेषु शुचितापन्नः स याति परमां गतिम्॥ २९.५७ ॥
छत्रं ध्वजं वितानं वा पताकां चामराणि च।
श्रद्धया भानवे दत्त्वा गतिमिष्टामवाप्नुयात्॥ २९.५८ ॥
यद्‌यद्‌द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति।
तत्तस्य शतसाहस्रमुत्पादयति भास्करः॥ २९.५९ ॥
मानसं वाचिकं वापि कायजं यच्च दुष्कृतम्।
सर्व्वं सूर्य्यप्रसादेन दतशेषं व्यपोहति॥ २९.६० ॥
एकाहेनापि यद्‌भानोः पूजायाः प्राप्यते फलम्।
यथोक्तदक्षिणैर्विप्रैर्न तत् क्रतुशतैरपि॥ २९.६१ ॥
इति श्रीब्राह्मे महापुराणे सूर्य्यपूजादि नामैकोनत्रिंशोऽध्यायः॥ २९ ॥
<b>आदित्यमाहात्म्यवर्णनम्	</b>
अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते।
भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम्॥ ३०.१॥                  1.28.1
भूयः प्रब्रूहि देवेश यत्पृच्छामो जगत्पते।
श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः॥ ३०.२॥
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः।
य इच्छेन्मोक्षमास्थातुं देवतां कां यजेत सः॥ ३०.३॥
कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम्।
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते पुनः॥ ३०.४॥
देवानां चात्र को देवः पितॄणां चैव कः पिता।
यस्मात्परतरं नास्ति तन्मे ब्रूहि सुरेश्वर॥ ३०.५॥
कुतः सृष्टमिदं विश्वं सर्वं स्थावरजङ्गमम्।
प्रलये च कमभ्येति तद्भवान् वक्तुमर्हति॥ ३०.६॥
ब्रह्मोवाच
उद्यन्नेवैष कुरुते जगद्वितिमिरं करैः।
नातः परतरो देवः कश्चिदन्यो द्विजोत्तमाः॥ ३०.७॥
अनादिनिधनो ह्येष पुरुषः शाश्वतोऽव्ययः।
तापयत्येष त्रींल्लोकान् भवन् रश्मिभिरुल्बणः॥ ३०.८॥
सर्वदेवमयो ह्येष तपतां तपनो वरः।
सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः॥ ३०.९॥
संक्षिपत्येष भूतानि तथा विसृजते पुनः।
एष भाति तपत्येष वर्षत्येष गभस्तिभिः॥ ३०.१०॥
एष धाता विधाता च भूतादिर्भूतभावनः।
न ह्येष क्षयमायाति नित्यमक्षयमण्डलः॥ ३०.११॥
पितॄणां च पिता ह्येष देवतानां हि देवता।
ध्रुवं स्थानं स्मृतं ह्येतद्यस्मान्न च्यवते पुनः॥ ३०.१२॥
सर्गकाले जगत्कृत्स्नमादित्यात्संप्रसूयते।
प्रलये च तमभ्येति भास्करं दीप्ततेजसम्॥ ३०.१३॥
योगिनश्चाप्यसंख्यातास्त्यक्त्वा गृहकलेवरम्।
वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे॥ ३०.१४॥
अस्य रश्मिसहस्राणि शाखा इव विहंगमाः।
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह॥ ३०.१५॥
गृहस्था जनकाद्याश्च राजानो योगधर्मिणः।
वालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः॥ ३०.१६॥
वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा।
योगमास्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम्॥ ३०.१७॥
शुको व्याससुतः श्रीमान् योगधर्ममवाप्य सः।
आदित्यकिरणान् गत्वा ह्यपुनर्भावमास्थितः॥ ३०.१८॥
शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः।
प्रत्यक्षोऽयं परो देवः सूर्यस्तिमिरनाशनः॥ ३०.१९॥
तस्मादन्यत्र भक्तिर्हि न कार्या शुभमिच्छता।
यस्माद्दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः॥ ३०.२०॥
अतो भवद्भिः सततमभ्यर्च्यो भगवान् रविः।
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः॥ ३०.२१॥
अनाद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः।
मित्रत्वे च स्थितो यस्मात्तपस्तेपे द्विजोत्तमाः॥ ३०.२२॥
अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च।
सृष्ट्वा ससागरान् द्वीपान् भुवनानि चतुर्दश॥ ३०.२३॥
लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे।
सृष्ट्वा प्रजापतीन् सर्वान् सृष्ट्वा च विविधाः प्रजाः॥ ३०.२४॥
ततः शतसहस्रांशुरव्यक्तश्च पुनः स्वयम्।
कृत्वा द्वादशधात्मानमादित्यमुपपद्यते॥ ३०.२५॥
इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्यमा भगः।
विवस्वान् विष्णुरंशश्च वरुणो मित्र एव च॥ ३०.२६॥
आभिर्द्वादशभिस्तेन सूर्येण परमात्मना।
कृत्स्नं जगदिदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः॥ ३०.२७॥
तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसंज्ञिता।
स्थिता सा देवराजत्वे देवानां रिपुनाशिनी॥ ३०.२८॥
द्वितीया तस्य या मूर्तिर्नाम्ना धातेति कीर्तिता।
स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः॥ ३०.२९॥
तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता।
मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः॥ ३०.३०॥
चतुर्थी तस्य या मूर्तिर्नाम्ना त्वष्टेति विश्रुता।
स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः॥ ३०.३१॥
पञ्चमी तस्य या मूर्तिर्नाम्ना पूषेति विश्रुता।
अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः॥ ३०.३२॥
मूर्तिः षष्ठी रवेर्या तु अर्यमा इति विश्रुता।
वायोः संसरणा सा तु देवेष्वेव समाश्रिता॥ ३०.३३॥
भानोर्या सप्तमी मूर्तिर्नाम्ना भगेति विश्रुता।
भूयिष्ववस्थिता सा तु शरीरेषु च देहिनाम्॥ ३०.३४॥
मूर्तिर्या त्वष्टमी तस्य विवस्वानिति विश्रुता।
अग्नौ प्रतिष्ठिता सा तु पचत्यन्नं शरीरिणाम्॥ ३०.३५॥
नवमी चित्रभानोर्या मूर्तिर्विष्णुश्च नामतः।
प्रादुर्भवति सा नित्यं देवानामरिसूदनी॥ ३०.३६॥
दशमी तस्य या मूर्तिरंशुमानिति विश्रुता।
वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः॥ ३०.३७॥
मूर्तिस्त्वेकादशी भानोर्नाम्ना वरुणसंज्ञिता।
जलेष्ववस्थिता सा तु प्रजां पुष्णाति नित्यशः॥ ३०.३८॥
मूर्तिर्या द्वादशी भानोर्नाम्ना मित्रेति संज्ञिता।
लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे॥ ३०.३९॥
वायुभक्षस्तपस्तेपे स्थित्वा मैत्रेण चक्षुषा।
अनुगृह्णन् सदा भक्तान् वरैर्नानाविधैस्तु सः॥ ३०.४०॥
एवं सा जगतां मूर्तिर्हिता विहिता पुरा।
तत्र मित्रः स्थितो यस्मात्तस्मान्मित्रं परं स्मृतम्॥ ३०.४१॥
आभिर्द्वादशभिस्तेन सवित्रा परमात्मना।
कृत्स्नं जगदिदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः॥ ३०.४२॥
तस्माद्ध्येयो नमस्यश्च द्वादशस्थासु मूर्तिषु।
भक्तिमद्भिर्नरैर्नित्यं तद्गतेनान्तरात्मना॥ ३०.४३॥
इत्येवं द्वादशादित्यान्नमस्कृत्वा तु मानवः।
नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते॥ ३०.४४॥
मुनय ऊचुः॒
यदि तावदयं सूर्यश्चादिदेवः सनातनः।
ततः कस्मात्तपस्तेपे वरेप्सुः प्राकृतो यथा॥ ३०.४५॥
ब्रह्मोवाच
एतद्वः संप्रवक्ष्यामि परं गुह्यं विभावसोः।
पृष्टं मित्रेण यत्पूर्वं नारदाय महात्मने॥ ३०.४६॥
प्राङ्मयोक्तास्तु युष्मभ्यं रवेर्द्वादश मूर्तयः।
मित्रश्च वरुणश्चोभौ तासां तपसि संस्थितौ॥ ३०.४७॥
अब्भक्षो वरुणस्तासां तस्थौ पश्चिमसागरे।
मित्रो मित्रवने चास्मिन् वायुभक्षोऽभवत्तदा॥ ३०.४८॥
अथ मेरुगिरेः शृङ्गात्प्रच्युतो गन्धमादनात्।
नारदस्तु महायोगी सर्वांल्लोकांश्चरन् वशी॥ ३०.४९॥
आजगामाथ तत्रैव यत्र मित्रोऽचरत्तपः।
तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्यभूत्॥ ३०.५०॥
योऽक्षयश्चाव्ययश्चैव व्यक्ताव्यक्तः सनातनः।
धृतमेकात्मकं येन त्रैलोक्यं सुमहात्मना॥ ३०.५१॥
यः पिता सर्वदेवानां पराणामपि यः परः।
अयजद्देवताः कास्तु पितॄन् वा कानसौ यजेत्।
इति संचिन्त्य मनसा तं देवं नारदोऽब्रवीत्॥ ३०.५२॥
नारद उवाच
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे।
त्वमजः शाश्वतो धाता त्वं निधानमनुत्तमम्॥ ३०.५३॥
भूतं भव्यं भवच्चैव त्वयि सर्वं प्रतिष्ठितम्।
चत्वारश्चाश्रमा देव गृहस्थाद्यास्तथैव हि॥ ३०.५४॥
यजन्ति त्वामहरहस्त्वां मूर्तित्वं समाश्रितम्।
पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम्॥ ३०.५५॥
यजसे पितरं कं त्वं देवं वापि न विद्महे॥* ३०.५६॥
मित्र उवाच
अवाच्यमेतद्वक्तव्यं परं गुह्यं सनातनम्।
त्वयि भक्तिमति ब्रह्मन् प्रवक्ष्यामि यथातथम्॥ ३०.५७॥
यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्।
इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैर्विवर्जितम्॥ ३०.५८॥
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चैव कथ्यते।
त्रिगुणाद्व्यतिरिक्तोऽसौ पुरुषश्चैव कल्पितः॥ ३०.५९॥
हिरण्यगर्भो भगवान् सैव बुद्धिरिति स्मृतः।
महानिति च योगेषु प्रधानमिति कथ्यते॥ ३०.६०॥
सांख्ये च कथ्यते योगे नामभिर्बहुधात्मकः।
स च त्रिरूपो विश्वात्मा शर्वोऽक्षर इति स्मृतः॥ ३०.६१॥
धृतमेकात्मकं तेन त्रैलोक्यमिदमात्मना।
अशरीरः शरीरेषु सर्वेषु निवसत्यसौ॥ ३०.६२॥
वसन्नपि शरीरेषु न स लिप्येत कर्मभिः।
ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः॥ ३०.६३॥
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित्।
सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्यसौ स्मृतः॥ ३०.६४॥
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः।
सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठति॥ ३०.६५॥
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः।
एकश्चरति वै क्षेत्रे स्वैरचारी यथासुखम्॥ ३०.६६॥
क्षेत्राणीह शरीराणि तेषां चैव यथासुखम्।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते॥ ३०.६७॥
अव्यक्ते च पुरे शेते पुरुषस्तेन चोच्यते।
विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते॥ ३०.६८॥
तस्मात्स बहुरूपत्वाद्विश्वरूप इति स्मृतः।
तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः॥ ३०.६९॥
महापुरुषशब्दं हि बिभर्त्येकः सनातनः।
स तु विधिक्रियायत्तः सृजत्यात्मानमात्मना॥ ३०.७०॥
शतधा सहस्रधा चैव तथा शतसहस्रधा।
कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना॥ ३०.७१॥
आकाशात्पतितं तोयं याति स्वाद्वन्तरं यथा।
भूमे रसविशेषेण तथा गुणरसात्तु सः॥ ३०.७२॥
एक एव यथा वायुर्देहेष्वेव हि पञ्चधा।
एकत्वं च पृथक्त्वं च तथा तस्य न संशयः॥ ३०.७३॥
स्थानान्तरविशेषाच्च यथाग्निर्लभते पराम्।
संज्ञां तथा मुने सोऽयं ब्रह्मादिषु तथाप्नुयात्॥ ३०.७४॥
यथा दीपसहस्राणि दीप एकः प्रसूयते।
तथा रूपसहस्राणि स एकः संप्रसूयते॥ ३०.७५॥
यदा स बुध्यत्यात्मानं तदा भवति केवलः।
एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते॥ ३०.७६॥
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्।
अक्षयश्चाप्रमेयश्च सर्वगश्च स उच्यते॥ ३०.७७॥
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमाः।
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते॥ ३०.७८॥
तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः।
लोके च पूज्यते योऽसौ दैवे पित्र्ये च कर्मणि॥ ३०.७९॥
नास्ति तस्मात्परो ह्यन्यः पिता देवोऽपि वा द्विजाः।
आत्मना स तु विज्ञेयस्ततस्तं पूजयाम्यहम्॥ ३०.८०॥
स्वर्गेष्वपि हि ये केचित्तं नमस्यन्ति देहिनः।
तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम्॥ ३०.८१॥
तं देवाः स्वाश्रमस्थाश्च नानामूर्तिसमाश्रिताः।
भक्त्या संपूजयन्त्याद्यं गतिश्चैषां ददाति सः॥ ३०.८२॥
स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते।
एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम्॥ ३०.८३॥
ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः।
एतदप्यधिकं तेषां यदेकं प्रविशन्त्युत॥ ३०.८४॥
इति गुह्यसमुद्देशस्तव नारद कीर्तितः।
अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम्॥ ३०.८५॥
सुरैर्वा मुनिभिर्वापि पुराणैर्वरदं स्मृतम्।
सर्वे च परमात्मानं पूजयन्ति दिवाकरम्॥ ३०.८६॥
ब्रह्मोवाच
एवमेतत्पुराख्यातं नारदाय तु भानुना।
मयापि च समाख्याता कथा भानोर्द्विजोत्तमाः॥ ३०.८७॥
इदमाख्यानमाख्येयं मयाख्यातं द्विजोत्तमाः।
न ह्यनादित्यभक्ताय इदं देयं कदाचन॥ ३०.८८॥
यश्चैतच्छ्रावयेन्नित्यं यश्चैव शृणुयान्नरः।
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः॥ ३०.८९॥
मुच्येतार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम्।
जिज्ञासुर्लभते ज्ञानं गतिमिष्टां तथैव च॥ ३०.९०॥
क्षणेन लभतेऽध्वानमिदं यः पठते मुने।
यो यं कामयते कामं स तं प्राप्नोत्यसंशयम्॥ ३०.९१॥
तस्माद्भवद्भिः सततं स्मर्तव्यो भगवान् रविः।
स च धाता विधाता च सर्वस्य जगतः प्रभुः॥ ३०.९२॥
इति श्रीब्राह्मे महापुराणे आदित्यमाहात्म्यवर्मनं नाम त्रिंशोऽध्यायः ॥ ३० ॥
daily-pujasmartasanskritparayanadevotionalpuranascripture