ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← Back to Shabda
ଓଡ଼ିଆ interface

ମାର୍କଣ୍ଡେଯ ପୁରାଣ

Markandeya Purana

Markandeya Purana

Text in देवनागरी script

Devotional text

🌐

ଓଡ଼ିଆ script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.

प्रथमोऽध्यायः
आरम्भमङ्गलम्
यद्योगिभिर्भवभयार्तिविनाशयोग्यम्
आसाद्य वन्दितमतीव विवक्तचित्तैः ।
तद्वः पुनातु हरिपादसरोजयुग्मम्
अविर्भवत्क्रमविलङ्घितभूर्भुवः स्वः॥मंगल१॥
पायात् स वः सकलकल्मषभेददक्षः
क्षीरोदकुक्षिफणिभोगनिविष्टमूर्तिः ।
श्वासावधूतसलिलोत्कणिकाकरालः
सिन्धुः प्रनृत्यमिव यस्य करोति सङ्गात्॥मंगल२॥
नारायणं समस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥मंगल३॥
तपः स्वाध्यायनिरतं मार्कण्डेयं महामुनिम् ।
व्यासशिष्यो महातेजा जैमिनिः पर्यपृच्छत॥१.१॥
भगवन् भारताख्यानं व्यासेनोक्तं महात्मना ।
पूर्णमस्तमलैः शुभ्रैर्नानाशास्त्रसमुच्चयैः॥१.२॥
जातिशुद्धिसमायुक्तं साधुशब्दोपशोभितम् ।
पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम्॥१.३॥
त्रिदशानां यथा विष्णुर्द्विपदां ब्राह्मणो यथा ।
भूषणानाञ्च सर्वेषां यथा चूडामणिर्वरः॥१.४॥
यथायुधानां कुलिशमिन्द्रियाणां यथा मनः ।
तथेह सर्वशास्त्रणां महाभारतमुत्तमम्॥१.५॥
अत्रार्थश्चैव धर्मश्च कामो मोक्षश्च वर्ण्यते ।
परस्परानुबन्धाश्च सानुबन्धाश्च ते पृथक्॥१.६॥
धर्मशास्त्रमिदं श्रेष्ठमर्थशास्त्रमिदं परम् ।
कामशास्त्रमिदं चाग्र्यं मोक्षशास्त्रं तथोत्तमम्॥१.७॥
चतुराश्रमधर्माणामाचारस्थितिसाधनम् ।
प्रोक्तमेतन्महाभाग वेदव्यासेन धीमता॥१.८॥
तथा तात कृतं ह्येतद् व्यासेनोदारकर्मणा ।
यथा व्याप्तं महाशास्त्रं विरोधैर्नाभिभूयते॥१.९॥
व्यासवाक्यजलौघेन कुतर्कतरुहारिणा ।
वेदशैलावतीर्णेन नीरजस्का मही कृता॥१.१०॥
कलशब्दमहाहंसं माख्यानपराम्बुजम् ।
कथाविस्तीर्णसलिलं कार्ष्ण वेदमहाह्रदम्॥१.११॥
तदिदं भारताख्यानं बह्विर्थं श्रुतिविस्तरम् ।
तत्त्वतो ज्ञातुकामोऽहं भगवंस्त्वामुपस्थितः॥१.१२॥
कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः ।
वासुदेवो जगत्सूति-स्थिति-संयमकारणम्॥१.१३॥
कस्माच्च पाण्डुपुत्त्राणामेका सा द्रुपदात्मजा ।
पञ्चानां महीषी कृष्णा ह्यत्र नः संशयो महान्॥१.१४॥
भेषजं ब्रह्महत्याया बलदेवो महाबलः ।
तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः॥१.१५॥
कथञ्च द्रौपदेयास्तेऽकृतदारा महारथाः ।
पाण्डुनाथा महात्मानो वधमापुरनाथवत्॥१.१६॥
एतत्सर्वं विस्तरशो ममाख्यातुमिहार्हसि ।
भवन्तो मूढबुद्धीनामवबोधकराः सदा॥१.१७॥
इति तस्य वचः श्रुत्वा मार्कण्डेयो माहमुनिः ।
दशाष्टदोषरहितो वक्तुं समुपचक्रमे॥१.१८॥
क्रियाकालोऽयमस्माकं समप्राप्तो मुनिसत्तम ।
विस्तरे चापि वक्तव्ये नैष कालः प्रशस्यते॥१.१९॥
ये तु वक्ष्यन्ति वक्ष्येऽद्य तानहं जैमिने तव ।
तथा च नष्टसन्देहं त्वां करिष्यन्ति पक्षिणः॥१.२०॥
पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा ।
द्रोणपुत्राः खगश्रेष्ठास्तत्त्वज्ञाः शास्त्रचिन्तकाः॥१.२१॥
वेदशास्त्रार्थविज्ञाने येषामव्याहता मतिः ।
विन्ध्यकन्दरमध्यस्थास्तानुपास्य च पृच्छ च॥१.२२॥
एवमुक्तस्तदा तेन मार्कण्डेयेन धीमता ।
प्रत्युवाचर्षिशार्दूलो विस्मयोत्फुल्ललोचनः॥१.२३॥
अत्यद्भुतमिदं ब्रह्मन् खगवागिव मानुषी ।
यत् पक्षिणस्ते विज्ञानमापुरत्यन्तदुर्लभम्॥१.२४॥
तिर्यग्योन्यां यदि भवस्तेषां ज्ञानं कुतोऽभवत् ।
कथञ्च द्रोणतनयाः प्रोच्यन्ते ते पतत्रिणः॥१.२५॥
कश्च द्रोणः प्रविख्यातो यस्य पुत्रचतुष्टयम् ।
जातं गुणवतां तेषां धर्मज्ञानं महात्मनाम्॥१.२६॥
शृणुष्वावहितो भूत्वा यद्वृत्तं नन्दने पुरा ।
शक्रस्याप्यसरसां चैव नारदस्य च सङ्गमे॥१.२७॥
नारदो नन्दनेऽपश्यत् पुंश्चलीगणमध्यगम् ।
शक्रं सुराधिराजानं तन्मुखासक्तलोचनम्॥१.२८॥
स तेनर्षिवरिष्ठेन दृष्टमात्रः शचीपतिः ।
समुत्तस्थौ स्वकं चास्मै ददावासनमादरात्॥१.२९॥
तं दृष्ट्वा बलवृत्रघ्नमुत्थितं त्रिदशाङ्गनाः ।
प्रणेमुस्ताश्च देवर्षि विनयावनताः स्थिताः॥१.३०॥
ताभिरभ्यर्चितः सोऽथ उपविष्टे शतक्रतौ ।
यथार्हं कृतसम्भाषः कथाश्चक्रे मनोरमाः॥१.३१॥
ततः कथान्तरे शक्रस्तमुवाच महामुनिम् ।
देह्याज्ञां नृत्यतामासां तव याभिमतेति वै॥१.३२॥
रम्भा वा कर्कशा वाथ उर्वश्यथ तिलोत्तमा ।
घृताची मेनका वापि यत्र वा भवतो रुचिः॥१.३३॥
एतच्छ्रुत्वा द्विजश्रेष्ठो वचो शक्रस्य नारदः ।
विचिन्त्याप्सरसः प्राह विनयावनताः स्थिताः॥१.३४॥
युष्माकमिह सर्वासां रूपौदार्यगुणाधिकम् ।
आत्मानं मन्यते या तु सा नृत्यतु ममाग्रतः॥१.३५॥
गुणरूपविहीनायाः सिद्धिर्नाट्यस्य नास्ति वै ।
चार्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बनम्॥१.३६॥
तद्वाक्यसमकालं च एकैकास्ता नतास्ततः ।
अहं गुणाधिका न त्वं न त्वं चान्याब्रवीदिदम्॥१.३७॥
तासां संभ्रममालोक्य भगवान् पाकशासनः ।
पृच्छ्यतां मुनिरित्याह वक्ता यां वो गुणाधिकाम्॥१.३८॥
शक्रच्छन्दानुयाताभिः पृष्टस्ताभिः सनारदः ।
प्रोवाच यत् तदा वाक्यं जैमिने तन्निबोध मे॥१.३९॥
तपस्यन्तं नगेन्द्रस्थं या वः क्षोभयते बलात् ।
दुर्वाससं मुनिश्रेष्ठं तां वो मन्ये गुणाधिकाम्॥१.४०॥
तस्य तद्वचनं श्रुत्वा सर्वा वेपतकन्धराः ।
अशक्यमेतदस्माकमिति ताश्चक्रिरे कथाः॥१.४१॥
तत्राप्सरा वपुर्नाम मुनिक्षोभणगर्विता ।
प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः॥१.४२॥
अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् ।
स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम्॥१.४३॥
ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः ।
तमप्यद्य करिष्यामि कामबाणक्षतान्तरम्॥१.४४॥
इत्युक्त्वा प्रजगामाथ प्रालेयाद्रिं वपुस्तदा ।
मुनेस्तपः प्रभावेण प्रशान्तश्वापदाश्रमम्॥१.४५॥
स पुंस्कोकिलमाधुर्या यत्रास्ते स महामुनिः ।
क्रोशमात्रं स्थिता तस्मादगायत वराप्सराः॥१.४६॥
तद्गीतध्वनिमाकर्ण्य मुनिर्विस्मितमानसः ।
जगाम तत्र यत्रास्ते सा बाला रुचिरानना॥१.४७॥
तां दृष्ट्वा चारुसर्वाङ्गीं मुनिः संस्तभ्य मानसम् ।
क्षोभणायागतां ज्ञात्वा कोपामर्षसन्वितः॥१.४८॥
उवाचेदं ततो वाक्यं महर्षिस्तां महातपाः॥१.४९॥
यस्माद्दुः खार्जितस्येह तपसो विध्नकारणात् ।
आगतासि मदोन्मत्ते मम दुः खाय खेचरि॥१.५०॥
तस्मात् सुपर्णगोत्रे त्वं मत्क्रोधकलुषीकृता ।
जन्म प्राप्स्यसि दुष्प्रज्ञे यावद्वर्षाणि षोडश॥१.५१॥
निजरूपं परित्यज्य पक्षिणीरूपधारिणी ।
चत्वारस्ते च तनया जनिष्यन्तेऽधमाप्सराः॥१.५२॥
अप्राप्य तेषु च प्रीतिं शस्त्रपूता पुनर्दिवि ।
वासमाप्स्यसि वक्तव्यं नोत्तरं ते कथञ्चन॥१.५३॥
इति वचनमसह्यं कोपसंरक्तदृष्टिश्
चलकलबलयां तां मानिनीं श्रावयित्वा ।
तरलतरतरङ्गां गां परित्यज्य विप्रः
प्रथितगुणगणौघां संप्रयाताः खगङ्गाम्॥१.५४॥
इति श्रीमार्कण्डेयपुराणे वपुशापो नाम प्रथमोऽध्यायः
द्वितीयोऽध्यायः
अरिष्टनेमिपुत्रोऽभूद् गरुडो नाम पक्षिराट् ।
गरुडस्याभवत् पुत्रः सम्पातिरिति विश्रुतः॥२.१॥
तस्याप्यासीत् सुतः शूरः सुपार्श्वो वायुविक्रमः ।
सुपार्श्वतनयः कुन्तिः कुन्तिपुत्रः प्रलोलुपः॥२.२॥
तस्यापि तनयावास्तां कङ्कः कन्धर एव च॥२.३॥
कङ्कः कैलासशिखरे विद्युद्रूपेति विश्रुतम् ।
ददर्शाम्बुजपत्राक्षं राक्षसं धनदानुगम्॥२.४॥
आपानासक्तममलस्त्रग्दामाम्बरधारिणम् ।
भार्यासहायमासीनं शिलापट्टेऽमले शुभे॥२.५॥
तद्दृष्टमात्रं कङ्केन रक्षः क्रोधसमन्वितम् ।
प्रोवाच कस्मादायातस्त्वमितो ह्यण्डजाधम॥२.६॥
स्त्रीसन्निकर्षे तिष्ठन्तं कस्मान्मामुपसर्पसि ।
नैष धर्मः सुबुद्धीनां मिथोनिष्पाद्यवस्तुषु॥२.७॥
साधारणोऽयं शैलेन्द्रो यथा तव तथा मम ।
अन्येषां चैव जन्तूनां ममता भवतोऽत्र का॥२.८॥
ब्रुवाणमित्थं खड्गेन कङ्कं चिन्छेद राक्षसः ।
क्षरत्क्षतजबीभत्सं विस्फुरन्तमचेतनम्॥२.९॥
कङ्कं विनिहतं श्रुत्वा कन्धरः क्रोधमूर्च्छितः ।
विद्युद्रूपवधायाशु मनश्चक्रेऽण्डजेश्वरः॥२.१०॥
स गत्वा शैलशिखरं कङ्को यत्र हतः स्थितः ।
तस्य संकलनं चक्रे भ्रातुर्ज्येष्ठस्य खेचरः ।
कोपामर्षविवृताक्षो नागेन्द्र इव निः श्वसन्॥२.११॥
जगामाथ स यत्रास्ते भ्रातृहा तस्य राक्षसः ।
पक्षवातेन महता चालयन् भूधरान् वरान्॥२.१२॥
वेगात् पयोदजालानि विक्षिपन् क्षतजेक्षणः ।
क्षणात् क्षयितशत्रुः स पक्षाभ्यां क्रान्तभूधरः॥२.१३॥
पानासक्तमतिं तत्र तं ददर्श निशाचरम् ।
आताम्रवक्त्रनयनं हेमपर्यङ्कमाश्रितम्॥२.१४॥
स्त्रग्दामापूरितशिखं हरिचन्दनभूषितम् ।
केतकीगर्भपत्राभैर्दन्तैर्घोरतराननम्॥२.१५॥
वामोरुमाश्रितां चास्य ददर्शायतलोचनाम् ।
पत्नीं मदनिकां नाम पुंस्कोकिलकलस्वनाम्॥२.१६॥
ततो रोषपरीतात्मा कन्धरः कन्दरस्थितम् ।
तमुवाच सुदुष्टात्मन्नेहि युध्यस्व वै मया॥२.१७॥
यस्माज्जेष्ठो मम भ्राता विश्रब्धो घाततस्त्वया ।
तस्मात्त्वां मदसंसक्तं नयिष्ये यमसादनम्॥२.१८॥
विश्वस्तघातिनां लोका ये च स्त्रीबालघातिनाम् ।
यास्यसे निरयान् सर्वांस्तांस्त्वमद्य मया हतः॥२.१९॥
इत्येवं पतगेन्द्रेण प्रोक्तं स्त्रीसन्निधौ तदा ।
रक्षः क्रोधसमाविष्टं प्रत्यभाषत पक्षिणम्॥२.२०॥
यदि ते निहतो भ्राता पौरुषं तद्धि दर्शितम् ।
त्वामप्यद्य हनिष्येऽहं खड्गेनानेन खेचर॥२.२१॥
तिष्ठ क्षणं नात्र जीवन् पतगाधम यास्यसि ।
इत्युक्त्वाञ्जनपुञ्जाभं विमलं खड्गमाददे॥२.२२॥
ततः पतगराजस्य यक्षाधिपभटस्य च ।
बभूव युद्धमतुलं यथा गरुड-शक्रयोः॥२.२३॥
ततः स राक्षसः क्रोधात् खड्गमाविध्य वेगवत् ।
चिक्षेप पतगेन्द्राय निर्वाणाङ्गारवर्चसम्॥२.२४॥
पतगेन्द्रश्च तं खड्गङ्किञ्चिदुत्प्लुत्य भूतलात् ।
वक्त्रेण जग्राह तदा गरुडः पन्नगं यथा॥२.२५॥
वक्त्रपादतलैर्भङ्क्त्वा चक्रे क्षोभमथातुलम् ।
तस्मिन् भग्ने ततः खड्गे बाहुयुद्धमवर्तत॥२.२६॥
ततः पतगराजेन वक्षस्याक्रम्य राक्षसः ।
हस्त-पाद-करैराशु शिरसा च वियोजितः॥२.२७॥
तस्मिन् विनिहते सा स्त्री खगं शरणमभ्यगात् ।
किञ्चित् संजातसंत्रासा प्राह भार्या भवामि ते॥२.२८॥
तामादाय खगश्रेष्ठः स्वकं गृहमगात् पुनः ।
गत्वा स निष्कृतिं भ्रातुर्विद्युद्रुपनिपातनात्॥२.२९॥
कन्धरस्य च सा वेश्म प्राप्येच्छारूपधारिणी ।
मेनकातनया सुभ्रूः सौपर्णं रूपमाददे॥२.३०॥
तस्यां स जनयामास तार्क्षों नाम सुतां तदा ।
मुनिशापाग्निविप्लुष्टां वपुमप्सरसां वराम् ।
तस्या नाम तदा चक्रे तार्क्षोमिति विहङ्गमः॥२.३१॥
मन्दपालसुताश्चासंश्चत्वारोऽमितबुद्धयः ।
जरितारिप्रभृतयो द्रोणान्ता द्विजसत्तमाः॥२.३२॥
तेषां जघन्यो धर्मात्मा वेदवेदाङ्गपारगः ।
उपयेमे स तां तार्क्षों कन्धरानुमते शुभाम्॥२.३३॥
कस्यचित्त्वथ कालस्य तार्क्षो गर्भमवाप ह ।
सप्तपक्षाहिते गर्भे कुरुक्षेत्रं जगाम सा॥२.३४॥
कुरु-पाण्डवयोर्युद्धे वर्तमाने सुदारुणे ।
भावित्वाच्चैव कार्यस्य रणमध्ये विवेश सा॥२.३५॥
तत्रापश्यत् तदा युद्धं भगदत्तकिरीटिनोः ।
निरन्तरं शरैरासीदाकाशं शलभैरिव॥२.३६॥
पार्थकोदण्डनिर्मुक्तमासन्नमतिवेगवत् ।
तस्या भल्लमहिश्यामं त्वचं चिच्छेद जाठरीम्॥२.३७॥
भिन्ने कोष्ठे शसाङ्काभं भूमावण्डचतुष्टयम् ।
आयुषः सावशेषत्वात् तूलराशाविवापतत्॥२.३८॥
तत्पातसमकालं च सुप्रतीकाद्गजोत्तमात् ।
पपात महती घण्टा बाणसंछिन्नबन्धना॥२.३९॥
समं समन्तात् प्राप्ता तु निर्भिन्नधरणीतला ।
छादयन्ती खगाण्डानि स्थितानि पिशितोपरि॥२.४०॥
हते च तस्मिन् नृपतौ भगदत्ते नरेश्वरे ।
बहून्यहान्यभूद्युद्धं कुरुपाण्डवसैन्ययोः॥२.४१॥
वृत्ते युद्धे धर्मपुत्रे गते शान्तनवान्तिकम् ।
भीष्मस्य गदतोऽशेषान् श्रोतुं धर्मान् महात्मनः॥२.४२॥
घण्टागतानि तिष्ठन्ति यत्राण्डानि द्विजोत्तम ।
आजगाम तमुद्देशं शमीको नाम संयमी॥२.४३॥
स तत्र शब्दमशृणोच्चिचीकुचीति वाशताम् ।
बाल्यादस्फुटवाक्यानां विज्ञानेऽपि परे सति॥२.४४॥
अथर्षिः शिष्यसहितो घण्टामुत्पाट्य विस्मितः ।
अमातृपितृपक्षाणि शिशुकानि ददर्श ह॥२.४५॥
तानि तत्र तथा भूमौ शमीको भगवान् मुनिः ।
दृष्ट्वा स विस्मयाविष्टः प्रोवाचानुगतान् द्विजान्॥२.४६॥
सम्यगुक्तं द्विजाग्य्रेण शुक्रेणोशनसा स्वयम् ।
पलायनपरं दृष्ट्वा दैत्यसैन्यं सुरार्दितम्॥२.४७॥
न गन्तव्यं निवर्तध्वं कस्माद् व्रजथ कातराः ।
उत्सृज्य शौर्ययशसी क्व गता न मरिष्यथ॥२.४८॥
नश्यतो युध्यतो वापि तावद्भवति जीवितम् ।
यावद्धातासृजत् पूर्वं न यावन्मनसेप्सितम्॥२.४९॥
एके म्रियन्ते स्वगृहे पलायन्तोऽपरे जनाः ।
भुञ्जन्तोऽन्नं तथैवापः पिबन्तो निधनं गताः॥२.५०॥
विलासिनस्तथैवान्ये कामयाना निरामयाः ।
अविक्षताङ्गाः शस्त्रैश्च प्रेतराजवशङ्गताः॥२.५१॥
अन्ये तपस्यभिरता नीताः प्रेतनृपानुगैः ।
योगाभ्यासे रताश्चान्ये नैव प्रापुरमृत्युताम्॥२.५२॥
शम्बराय पुरा क्षिप्तं वज्रं कुलिशपाणिना ।
हृदयेऽभिहतस्तेन तथापि न मृतोऽसुरः॥२.५३॥
तेनैव खलु वज्रेण तेनैनेन्द्रेण दानवाः ।
प्राप्ते काले हता दैत्यास्तत्क्षणान्निधनं गताः॥२.५४॥
विदित्वैवं न सन्त्रासः कर्तव्यो विनिवर्तते ।
ततो निवृत्तास्ते दैत्यास्त्यक्त्वा मरणजं भयम्॥२.५५॥
इति शुक्रवचः सत्यं कृतमेभिः खगोत्तमैः ।
ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे॥२.५६॥
क्वाणाडानां पतनं विप्राः क्व घण्टापतनं समम् ।
क्व च मांस-वसा-रक्तैर्भूमेरास्तरणक्रियाः॥२.५७॥
केऽप्येते सर्वथा विप्रा नैते सामान्यपक्षिणः ।
दैवानुकूलता लोके महाभाग्यप्रदर्शिनी॥२.५८॥
एवमुक्त्वा स तान् वीक्ष्य पुनर्वचनमब्रवीत् ।
निवर्तताश्रमं यात गृहीत्वा पक्षिबालकान्॥२.५९॥
मार्जाराखुभयं यत्र नैषामण्डजजन्मनाम् ।
श्येनतो नकुलाद्वापि स्थाप्यन्तां तत्र पक्षिणः॥२.६०॥
द्विजाः किं वातियत्नेन मार्यन्ते कर्मभिः स्वकैः ।
रक्ष्यन्ते चाखिला जीवा यथैते पक्षिबालकाः॥२.६१॥
तथापि यत्नः कर्तव्यो नरैः सर्वेषु कर्मसु ।
कुर्वन् पुरुषकारन्तु वाच्यतां याति नो सताम्॥२.६२॥
इति मुनिवरचोदितास्ततस्ते
मुनितनयाः परिगृह्य पक्षिणस्तान् ।
तरुविटपसमाश्रितालिसङ्घं
ययुरथ तापसरम्यमाश्रमं स्वम्॥२.६३॥
स चापि वन्यं मनसाभिकामितं
प्रगृह्य मूलं कुसुमं फलं कुशान् ।
चकार चक्रायुध-रुद्र-वेधसां
सुरेन्द्र-वैवस्वतः जातवेदसाम्॥२.६४॥
अपाम्पतेर्गोष्पतिवित्तरक्षिणोः
समीरणस्यापि तथा द्विजोत्तमाः ।
धातुर्विधातुस्त्वथ वैश्वदेविकाः
श्रुतिप्रयुक्ता विवधास्तु सत्क्रियाः॥२.६५॥
इति श्रीमार्कण्डेयपुराणे चटकोत्पत्तिर्नाम द्वितीयोऽध्यायः
तृतीयोऽध्यायः
अहन्यहनि विप्रेन्द्र स तेषां मुनिसत्तमः ।
चकाराहारपयसा तथा गुप्त्या च पोषणम्॥३.१॥
मासमात्रेण जग्मुस्ते भानोः स्यन्दनवर्त्मनि ।
कौतूहलविलोलाक्षैर्दृष्टा मुनिकुमारकैः॥३.२॥
दृष्ट्वा महीं सनगरां साम्भोनिधिसरिद्वराम् ।
रथचक्रप्रमाणां ते पुनराश्रममागताः॥३.३॥
श्रमक्लान्तान्तरात्मानो महात्मानो वियोनिजाः ।
ज्ञानञ्च प्रकटीभूतं तत्र तेषां प्रभावतः॥३.४॥
ऋषेः शिष्यानुकम्पार्थं वदतो धर्मनिश्चयम् ।
कृत्वा प्रदक्षिणं सर्वे चरणावभ्यवादयन्॥३.५॥
ऊचुश्च मरणाद्घोरान्मोक्षिताः स्मस्त्वया मुने ।
आवास-भक्ष्य-पयसां त्वं नो दाता पिता गुरुः॥३.६॥
गर्भस्थानां मृता माता पित्रा नैवापि पालिताः ।
त्वया नो जीवितं दत्तं शिशवो येन रक्षिताः॥३.७॥
क्षितावक्षततेजास्त्वं कृमीणामिव शुष्यताम् ।
गजघण्टां समुत्पाट्य कृतवान् दुः खरेचनम्॥३.८॥
कथं वर्धेयुरबलाः खस्थान् द्रक्ष्याम्यहं कदा ।
कदा भूमेर्द्रुमं प्राप्तान् द्रक्ष्ये वृक्षान्तरं गतान्॥३.९॥
कदा मे सहजा कान्तिः पांशुना नाशमेष्यति ।
एषां पक्षानिलोत्थेन मत्समीपविचारिणाम्॥३.१०॥
इति चिन्तयता तात भवता प्रतिपालिताः ।
ते साम्प्रतं प्रवृद्धाः स्मः प्रबुद्धाः करवाम किम्॥३.११॥
इत्यृषिर्वचनं तेषां श्रुत्वा संस्कारवत् स्फुटम् ।
शिष्यैः परिवृतः सर्वैः सह पुत्रेण शृङ्गिणा॥३.१२॥
कौतूहलपरो भूत्वा रोमाञ्चपटसंवृतः ।
उवाच तत्त्वतो ब्रूत प्रवृत्तेः कारणं गिरः॥३.१३॥
कस्य शापादियं प्राप्ता भवद्भिर्विक्रिया परा ।
रूपस्य वचसश्चैव तन्मे वक्तुमीहार्हथ॥३.१४॥
विपुलस्वानिति ख्यातः प्रागासीन्मुनिसत्तमः ।
तस्य पुत्रद्वयं जज्ञे सुकृषस्तुम्बुरुस्तथा॥३.१५॥
सुकृषस्य वयं पुत्राश्चत्वारः संयतात्मनः ।
तस्यर्षेर्विनयाचारभक्तिनम्राः सदैव हि॥३.१६॥
तपश्चरणसक्तस्य शास्यमानेन्द्रियस्य च ।
यथाभिमतमस्माभिस्तदा तस्योपपादितम्॥३.१७॥
समित्पुष्पादिकं सर्वं यच्चैवाभ्यवहारिकम् ।
एवं तत्राथ वसतां तस्यास्माकञ्च कानने॥३.१८॥
आजगाम महावर्ष्मा भग्नपक्षो जरान्वितः ।
आताम्रनेत्रः स्त्रस्तात्मा पक्षी भूत्वा सुरेश्वरः॥३.१९॥
सत्य-शौच-क्षमाचारमतीवोदारमानसम् ।
जिज्ञासुस्तमृषिश्रेष्ठमस्मच्छापभवाय च॥३.२०॥
द्विजेन्द्र मां क्षुधाविष्टं परित्रातुमिहार्हसि ।
भक्षणार्थो महाभाग गतिर्भव ममातुला॥३.२१॥
विन्ध्यस्य शिखरे तिष्ठन् पत्रिपत्रेरितेन वै ।
पतितोऽस्मि महाभाग श्वसनेनातिरंहसा॥३.२२॥
सोऽहं मोहसमाविष्टो भूमौ सप्ताहमस्मृतिः ।
स्थितस्तत्राष्टमेनाह्ना चेतनां प्राप्तवानहम्॥३.२३॥
प्राप्तचेताः क्षुधाविष्टो भवन्तं शरणं गतः ।
भक्ष्यार्थो विगतानन्दो दूयमानेन चेतसा॥३.२४॥
तत् कुरुष्वामलमते मत्त्राणायाचलां मतिम् ।
प्रयच्छ भक्ष्यं विप्रर्षे प्राणयात्राक्षमं मम॥३.२५॥
स एवमुक्तः प्रोवाच तमिन्द्रं पक्षिरूपिणम् ।
प्राणसन्धारणार्थाय दास्ये भक्ष्यं तवेप्सितम्॥३.२६॥
इत्युक्त्वा पुनरप्येनमपृच्छत् स द्विजोत्तमः ।
आहारः कस्तवार्थाय उपकल्प्यो भवेन्मया ।
स चाह नरमांसेन तृप्तिर्भवति मे परा॥३.२७॥
कौमारं ते व्यतिक्रान्तमतीतं यौवनञ्च ते ।
वयसः परिणामस्ते वर्तते नूनमण्डज॥३.२८॥
यस्मिन् नराणां सर्वेषामशेषेच्छा निवर्तते ।
स कस्माद् वृद्धभावेऽपि सुनृशंसात्मको भवान्॥३.२९॥
क्व मानुषस्य पिशितं क्व वयश्चरमं तव ।
सर्वथा दुष्टभावानां प्रशमो नोपपद्यते॥३.३०॥
अथवा किं मयैतेन प्रोक्तेनास्ति प्रयोजनम् ।
प्रतिश्रुत्य सदा देयमिति नो भावितं मनः॥३.३१॥
इत्युक्त्वा तं स विप्रेन्द्रस्तथेति कृतनिश्चयः ।
शीघ्रमस्मान् समाहूय गुणतोऽनुप्रशस्य च॥३.३२॥
उवाच क्षुब्धहृदयो मुनिर्वाक्यं सुनिष्ठुरम् ।
विनयावनतान् सर्वान् भक्तियुक्तान् कृताञ्जलीन्॥३.३३॥
कृतात्मानो द्विजश्रेष्ठा ऋणैर्युक्ता मया सह ।
जातं श्रेष्ठमपत्यं वो यूयं मम यथा द्विजाः॥३.३४॥
गुरुः पूज्यो यदि मतो भवतां परमः पिता ।
ततः कुरुत मे वाक्यं निर्व्यलीकेन चेतसा॥३.३५॥
तद्वाक्यसमकालञ्च प्रोक्तमस्माभिरादृतैः ।
यद्वक्ष्यति भवांस्तद्वै कृतमेवावधार्यताम्॥३.३६॥
मामेष शरणं प्राप्तो विहगः क्षुत्तृषान्वितः ।
युष्मन्मांसेन येनास्य क्षणं तृप्तिर्भवेत वै॥३.३७॥
तृष्णाक्षयञ्च रक्तेन तथा शीघ्नं विधीयताम् ।
ततो वयं प्रव्यथिताः प्रकम्पोद्भूतसाध्वसाः ।
कष्टं कष्टमिति प्रोच्य नैतत् कुर्मेति चाब्रुवन्॥३.३८॥
कथं परशरीरस्य हेतोर्देहं स्वकं बुधः ।
विनाशयेद् घातयेद्वा यथा ह्यात्मा तथा सुतः॥३.३९॥
पितृ-देव-मनुष्याणां यान्युक्तानि ऋणानि वै ।
तान्यपाकुरुते पुत्रो न शरीरप्रदः सुतः॥३.४०॥
तस्मान्नैतत् करिष्यामो नी चीर्णं यत् पुरातनैः ।
जीवन् भद्राण्यवाप्नोति जीवन् पुण्यं करोति च॥३.४१॥
मृतस्य देहनाशश्च धर्माद्युपरतिस्तथा ।
आत्मानं सर्वतो रक्ष्यमाहुर्धर्मविदो जनाः॥३.४२॥
इत्थं श्रुत्वा वचोऽस्माकं मुनिः क्रोधादिव ज्वलन् ।
प्रोवाच पुनरप्यस्मान् निर्दहन्निव लोचनैः॥३.४३॥
प्रतिज्ञातं वचो मह्यं यस्मान्नैतत् करिष्यथ ।
तस्मान्मच्छापनिर्दग्धास्तिर्यग्योनौ प्रयास्यथ॥३.४४॥
एवमुक्त्वा तदा सोऽस्मास्तं विहङ्गमथाब्रवीत् ।
अन्त्येष्टिमात्मनः कृत्वा शास्त्रतश्चौर्ध्वदेहिकम्॥३.४५॥
भक्षयस्व सुविश्रब्धौ मामत्र द्विजसत्तम ।
आहारीकृतमेतत् ते मया देहमिहात्मनः॥३.४६॥
एतावदेव विप्रस्य ब्राह्मणत्वं प्रचक्ष्यते ।
यावत् पतगजात्यग्रय स्वसत्यपरिपालनम्॥३.४७॥
न यज्ञैर्दक्षिणावद्भिस्तत् पुण्यं प्राप्यते महत् ।
कर्मणान्येन वा विप्रैर्यत् सत्यपरिपालनात्॥३.४८॥
इत्यृषेर्वचनं श्रुत्वा सोऽन्तर्विस्मयनिर्भरः ।
प्रत्युवाच मुनिं शक्रः पक्षिरूपधरस्तदा॥३.४९॥
योगमास्थाय विप्रेन्द्र त्यजेदं स्वं कलेवरम् ।
जीवज्जन्तुं हि विप्रेन्द्र न भक्षामि कदाचन॥३.५०॥
तस्मैतद्वचनं श्रुत्वा योगयुक्तोऽभवन्मुनिः ।
तं तस्य निश्चयं ज्ञात्वा शक्रोऽप्याह स्वदेहभृत्॥३.५१॥
भो भो विप्रेन्द्र बुध्यस्व बुद्ध्या बोध्यं बुधात्मक ।
जिज्ञासार्थं मयायं ते अपराधः कृतोऽनघ॥३.५२॥
तत् क्षमस्वामलमते का चेच्छा क्रियतां तव ।
पालनात् सत्यवाक्यस्य प्रीतिर्मे परमा त्वयि॥३.५३॥
अद्यप्रभृति ते ज्ञानमैन्द्रं प्रादुर्भविष्यति ।
तपस्यथ तथा धर्मे न ते विघ्नो भविष्यति॥३.५४॥
इत्युक्त्वा तु गते शक्रे पिता कोपसमन्वितः ।
प्रणम्य शिरसास्माभिरिदमुक्तो महामुनिः॥३.५५॥
बिभ्यतां मरणात् तात त्वमस्माकं महामते ।
क्षन्तुमर्हसि दीनानां जीवितप्रियता हि नः॥३.५६॥
त्वगस्थिमांससङ्घाते पूयशोणितपूरिते ।
कर्तव्या न रतिर्यत्र तत्रास्माकमियं रतिः॥३.५७॥
श्रूयतां च महाभाग यथा लोको विमुह्यति ।
कामक्रोधादिभिर्देषैरवशः प्रबलारिभिः॥३.५८॥
प्रज्ञाप्राकारसंयुक्तमस्थिस्थूणं परं महत् ।
चर्मभित्तिमहारोधं मांसशोणितलेपनम्॥३.५९॥
नवद्वारं महायामं सर्वतः स्नायुवेष्टितम् ।
नृपश्च पुरुषस्तत्र चेतनावानवस्थितः॥३.६०॥
मन्त्रिणौ तस्य बुद्धिश्च मनश्चैव विरोधिनौ ।
यतेते वैरनाशाय तावुभावितरेतरम्॥३.६१॥
नृपस्य तस्य चत्वारो नाशमिच्छन्ति विद्विषः ।
कामः क्रोधस्तथा लोभो मोहश्चान्यस्तथा रिपुः॥३.६२॥
यदा तु स नृपस्तानि द्वाराण्यावृत्य तिष्ठति ।
सदा सुस्थबलश्चैव निरातङ्कश्च जायते॥३.६३॥
जातानुरागो भवति शत्रुभिर्नाभिभूयते॥३.६४॥
यदा तु सर्वद्वाराणि विवृतानि स मुञ्चति ।
रागो नाम तदा शत्रुर्नेत्रादिद्वारमृच्छति॥३.६५॥
सर्वव्यापी महायामः पञ्चद्वारप्रवेशनः ।
तस्यानुमार्गं विशति तद्वै घोरं रिपुत्रयम्॥३.६६॥
प्रविश्याथ स वै तत्र द्वारैरिन्द्रियसंज्ञकैः ।
रागः शंश्लेषमायाति मनसा च सहेतरैः॥३.६७॥
इन्द्रियाणि मनश्चैव वशे कृत्वा दुरासदः ।
द्वाराणि च वशे कृत्वा प्राकारं नाशयत्यथ॥३.६८॥
मनस्तस्याश्रितं दृष्ट्वा बुद्धिर्नश्यति तत्क्षणात् ।
अमात्यरहितस्तत्र पौरवर्गोज्झितस्तथा॥३.६९॥
रिपुभिर्लब्धविवरः स नृपो नाशमृच्छति ।
एवं रागस्तथा मोहो लोभः क्रोधस्तथैव च॥३.७०॥
प्रवर्तन्ते दुरात्मानो मनुष्यस्मृतिनाशकाः ।
रागात्तु क्रोधः प्रभवति क्रोधाल्लोभोऽभिजायते॥३.७१॥
लोभाद्भवति संमोहः संमोहात् स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति॥३.७२॥
एवं प्रणष्टबुद्धीनां रागलोभानुवर्तिनाम् ।
जीविते च सलोभानां प्रसादं कुरु सत्तम॥३.७३॥
योऽयं शापो भगवता दत्तः स न भवेत् तथा ।
न तामसीं गतिं कष्टां व्रजेम मुनिसत्तम॥३.७४॥
यन्मयोक्तं न तन्मिथ्या भविष्यति कदाचन ।
न मे वागनृतं प्राह यावदद्येति पुत्रकाः॥३.७५॥
दैवमत्र परं मन्ये धिक् पौरुषमनर्थकम् ।
अकार्यं कारितो येन बलादहमचिन्तितम्॥३.७६॥
यस्माच्च युष्माभिरहं प्रणिपत्य प्रसादितः ।
तस्मात् तिर्यक्त्वमापन्नाः परं ज्ञानमवाप्स्यथ॥३.७७॥
ज्ञानदर्शितमार्गाश्च निर्धूतक्लेशकल्मषाः ।
मत्प्रसादादसन्दिग्धाः परां सिद्धिमवाप्स्यथ॥३.७८॥
एवं शप्ताः स्म भगवन् पित्रा दैववशात् पुरा ।
ततः कालेन महता योन्यन्तरमुपागताः॥३.७९॥
जाताश्च रणमध्ये वै भवता परिपालिताः ।
वयमित्थं द्विजश्रेष्ठ खगत्वं समुपागताः ।
नास्त्यसाविह संसारे यो न दिष्टेन बाध्यते॥३.८०॥
इति तेषां वचः श्रुत्वा शमीको भगवान् मुनिः ।
प्रत्युवाच महाभागः समीपस्थायिनो द्विजान्॥३.८१॥
पूर्वमेव मया प्रोक्तं भवतां सन्निधाविदम् ।
सामान्यपक्षिणो नैते केऽप्येते द्विजसत्तमाः ।
ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे॥३.८२॥
ततः प्रीतिमता तेन तेऽनुज्ञाता महात्मना ।
जग्मुः शिखरिणां श्रेष्टं विन्ध्यं द्रुमलतायुतम्॥३.८३॥
यावदद्य स्थितास्तस्मिन्नचले धर्मपक्षिणः ।
तपः स्वाध्यायनिरताः समाधौ कृतनिश्चयाः॥३.८४॥
इति मुनिवरलब्धसत्क्रियास्ते
मुनितनया विहगत्वमभ्युपेताः ।
गिरिवरगहनेऽतिपुण्यतोये
यतमनसो निवसन्ति विन्ध्यपृष्ठे॥३.८५॥
इति श्रीमार्कण्डेयपुराणे विन्ध्यप्राप्तिर्नाम तृतीयोऽध्यायः
चतुर्थोऽध्यायः
एवं ते द्रोणतनयाः पक्षिणो ज्ञानिनोऽभवन् ।
वसन्ति ह्यचले विन्ध्ये तानुपास्व च पृच्छ च॥४.१॥
इत्यृषेर्वचनं श्रुत्वा मार्कण्डेयस्य जैमिनिः ।
जगाम विन्ध्यशिखरं यत्र ते धर्मपक्षिणः॥४.२॥
तन्नगासन्नभूतश्च शुश्राठ पठतां ध्वनिम् ।
श्रुत्वा च विस्मयाविष्टश्चिन्तयामास जैमिनिः॥४.३॥
स्थानसौष्ठवसम्पन्नं जितश्वासमविश्रमम् ।
विस्पष्टमपदोषञ्च पठ्यते द्विजसत्तमैः॥४.४॥
वियोनिमपि सम्प्राप्तानेतान् मुनिकुमारकान् ।
चित्रमेतदहं मन्ये न जहाति सरस्वती॥४.५॥
बन्धुवर्गस्तथा मित्रं यच्चेष्टमपरं गृहे ।
त्यक्त्वा गच्छति तत्सर्वं न जहाति सरस्वती॥४.६॥
इति सञ्चिन्तयन्नेव विवेश गिरिकन्दरम् ।
प्रविश्य च ददर्शासौ शिलापट्टगातान् द्विजान्॥४.७॥
पठतस्तान् समालोक्य मुखदोषविवर्जितान् ।
सोऽथ शोकेन हर्षेण सर्वानेवाभ्यभाषत॥४.८॥
स्वस्त्यस्तु वो द्विजश्रेष्ठा जैमिनिं मां निबोधत ।
व्यासशिष्यमनुप्राप्तं भवतां दर्शनोत्सुकम्॥४.९॥
मन्युर्न खलु कर्तव्यो यत् पित्रातीव मन्युना ।
शप्ताः खगत्वमापन्नाः सर्वथा दिष्टमेव तत्॥४.१०॥
स्फीतद्रव्ये कुले केचिज्जाताः किल मनस्विनः ।
द्रव्यनाशे द्विजेन्द्रास्ते शबरेण सुसान्त्विताः॥४.११॥
दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे ।
पातयित्वा च पात्यन्ते त एव तपसः क्षयात्॥४.१२॥
एतद्दृष्टं सुबहुशो विपरीतं तथा मया ।
भावाभावसमुच्छेदैरजस्त्रं व्याकुलं जगत्॥४.१३॥
इति सञ्चिन्त्य मनसा न शोकं कर्तुमर्हथ ।
ज्ञानस्य फलमेतावच्छोकहर्षैरधृष्यता॥४.१४॥
ततस्ते जैमिनिं सर्वे पाद्यार्घ्याभ्यामपूजयन् ।
अनामयञ्च पप्रच्छुः प्रणिपत्य महामुनिम्॥४.१५॥
अथोचुः खगमाः सर्वे व्यासशिष्यं तपोनिधिम् ।
सुखोपविष्टं विश्रान्तं पक्षानिलहतक्लमम्॥४.१६॥
अद्य नः सफलं जन्म जीवितञ्च सुजीवितम् ।
यत् पश्यामः सुरैर्वन्द्यं तव पादाम्बुजद्वयम्॥४.१७॥
पितृकोपाग्निरुद्भूतो यो नो देहेषु वर्तते ।
सोऽद्य शान्तिं गतो विप्र युष्मद्दर्शनवारिणा॥४.१८॥
कच्चित् ते कुशलं ब्रह्मन्नाश्रमे मृगपक्षिषु ।
वृक्षेष्वथ लता-गुल्म-त्वक्सार-तृणजातिषु॥४.१९॥
अथवा नैतदुक्तं हि सम्यगस्माभिरादृतैः ।
भवता सङ्गमो येषां तेषामकुशलं कुतः॥४.२०॥
प्रसादञ्च कुरुष्वात्र ब्रूह्यागमनकारणम् ।
देवानामिव संसर्गो भवतोऽभ्युदयो महान् ।
केनास्मद्भाग्यगुरुण आनीतो दृष्टिगोचरम्॥४.२१॥
श्रूयतां द्विजशार्दूलाः कारणं येन कन्दरम् ।
विन्ध्यस्येहागतो रम्यं रेवावारिकणोक्षितम् ।
सन्देहान् भारते शास्त्रे तान् प्रष्टुं गतवानहम्॥४.२२॥
मार्कण्डेयं महात्मानं पूर्वं भृगुकुलोद्वहम् ।
तमहं पृष्टवान् प्राप्य सन्देहान् भरतं प्रति॥४.२३॥
स च पृष्टो मया प्राह सन्ति विन्ध्ये महाचले ।
द्रोणपुत्रा महात्मानस्ते वक्ष्मन्त्यर्थविस्तरम्॥४.२४॥
तद्वाक्ययोदितश्चेममागतोऽहं महागिरिम् ।
तच्छृणुध्वमशेषेण श्रुत्वा व्याख्यातुमर्हथ॥४.२५॥
विषये सति वक्ष्यामो निर्विशङ्कः शृणुष्व तत् ।
कथं तन्न वदिष्यामो यदस्मद्बुद्धिगोचरम्॥४.२६॥
चतुर्ष्वपि हि वेदेषु धर्मशास्त्रेषु चैव हि ।
समस्तेषु तथाङ्गेषु यच्चान्यद्वेदसंमितम्॥४.२७॥
एतेषु गोचरोऽस्माकं बुद्धेर्ब्राह्मणसत्तम ।
प्रतिज्ञान्तु समारोढुं तथापि नहि शक्नुमः॥४.२८॥
तस्माद्वदस्व विश्रब्धं सन्दिग्धं यद्वि भारते ।
वक्ष्यामस्तव धर्मज्ञ न चेन्मोहो भविष्यति॥४.२९॥
सन्दिग्धानीह वस्तूनि भारतं प्रति यानि मे ।
शृणुध्वममलास्तानि श्रुत्वा व्याख्यातुमर्हथ॥४.३०॥
कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः ।
वासुदेवोऽखिलाधारः सर्वकारणकारणम्॥४.३१॥
कस्माच्च पाण्डुपुत्राणामेका सा द्रुपदात्मजा ।
पञ्चानां महिषी कृष्णा सुमाहनत्र संशयः॥४.३२॥
भेषजं ब्रह्महत्याया बलदेवो महाबलः ।
तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः॥४.३३॥
कथं च द्रौपदेयास्तेऽकृतदारा महारथाः ।
पाण्डुनाथा महात्मानो वधमापुरनाथवत्॥४.३४॥
एतत् सर्वं कथ्यतां मे सन्दिग्धं भारतं प्रति ।
कृतार्थोहं सुखं येन गच्छेयं निजमाश्रमम्॥४.३५॥
नमस्कृत्य सुरेशाय विष्णवे प्रभविष्णवे ।
पुरुषायाप्रमेयाय शाश्वतायाव्ययाय च॥४.३६॥
चतुर्व्यूहात्मने तस्मै त्रिगुणायागुणाय च ।
वरिष्ठाय गरिष्ठाय वरेष्यायामृताय च॥४.३७॥
यस्मादणुतरं नास्ति यस्मान्नास्ति बृहत्तरम् ।
येन विश्वमिदं व्याप्तमजेन जगदादिना॥४.३८॥
आविर्भाव-तिरोभाव-दृष्टादृष्ट-विलक्षणम् ।
वदन्ति यद् सृष्टमिदं तथैवान्ते च संहृतम्॥४.३९॥
ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना ।
ऋक्सामान्युद्गिरन् वक्त्रैर्यः पुनाति जगत्त्रयम्॥४.४०॥
प्रणिपत्य तथेशानमेकबाणविनिर्जितैः ।
यस्यासुरगणैर्यज्ञा विलुप्यन्ते न यज्विनाम्॥४.४१॥
प्रवक्ष्यामो मतं कृत्स्नं व्यासस्याद्भुतकर्मणः ।
येन भारतमुद्दिश्य धर्माद्याः प्रकटीकृताः॥४.४२॥
आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः॥४.४३॥
स देवो भगवान् सर्वं व्याप्य नारायणो विभुः ।
चतुर्धा संस्थितो ब्रह्मन् सगुणो निर्गुणस्तथा॥४.४४॥
एका मूर्तिरनिर्देश्या शुक्लां पश्यन्ति तां बुधाः ।
ज्वालामालोपरुद्धाङ्गी निष्ठा सा योगिनां परा॥४.४५॥
दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा ।
वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते॥४.४६॥
रूपवर्णादयस्तस्या न भावाः कल्पनामयाः ।
अस्त्येव सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी॥४.४७॥
द्वितीया पृथिवीं मूद्र्घ्ना शेषाख्या धारयत्यधः ।
तामसी सा समाख्याता तिर्यक्त्वं समुपाश्रिता॥४.४८॥
तृतीया कर्म कुरुते प्रजापालनतत्परा ।
सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी॥४.४९॥
चतुर्थो जलमध्यस्था शेते पन्नगतल्पगा ।
रजस्तस्या गुणः सर्गं सा करोति सदैव हि॥४.५०॥
या तृतीया हरेर्मूर्तिः प्रजापालनतत्परा ।
सा तु धर्मव्यवस्थानं करोति नियतं भुवि॥४.५१॥
प्रोद्धूतानसुरान् हन्ति धर्मविच्छित्तिकारिणः ।
पाति देवान् सतश्चान्यान् धर्मरक्षापरायणान्॥४.५२॥
यदा यदा हि धर्मस्य ग्लानिर्भवति जैमिने ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ॥४.५३॥
भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च ।
एकया दंष्ट्रयोत्खाता नलिनीव वसुन्धरा॥४.५४॥
कृत्वा नृसिंहरूपञ्च हिरण्यकशिपुर्हतः ।
विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः॥४.५५॥
वामनादींस्तथैवान्यान् न संख्यातुमिहोत्सहे ।
अवताराश्च तस्येह माथुरः साम्प्रतं त्वयम्॥४.५६॥
इति सा सात्त्विकी मूर्तिरवतारान् करोति वै ।
प्रद्युम्नेति च सा ख्याता रक्षाकर्मण्यवस्थिता॥४.५७॥
देवत्वेऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता ।
गृह्णाति तत्स्वभावं च वासुदेवेच्छया सदा॥४.५८॥
इत्येतत् ते समाख्यातं कृतकृत्योऽपि यत्प्रभुः ।
मानुषत्वं गतो विष्णुः शृणुष्वास्योत्तरं पुनः॥४.५९॥
इति श्रीमार्कण्डेयपुराणे चतुर्व्यूहावतारो नाम द्वितीयोऽध्यायः
पञ्चमोऽध्यायः
त्वष्टृपुत्रे हते पूर्वं ब्रह्मन्निन्द्रस्य तेजसः ।
ब्रह्महत्याभिभूतस्य परा हानिरजायत॥५.१॥
तद्धमं प्रविवेशाथ शाक्रतेजोऽपचारतः ।
निस्तेजाश्चाभवच्छक्रो धर्मे तेजसि निर्गते॥५.२॥
ततः पुत्रं हतं श्रुत्वा त्वष्टा क्रुद्धः प्रजापतिः ।
अवलुञ्च्य जटामेकामिदं वचनमब्रवीत्॥५.३॥
अद्य पश्यन्तु मे वीर्यं त्रयो लोकाः सदेवताः ।
स च पश्यतु दुर्बुद्धिर्ब्रह्महा पाकशासनः॥५.४॥
स्वकर्माभिरतो येन मत्सुतो विनपातितः ।
इत्युक्त्वा कोपरक्ताक्षो जटामग्नौ जुहाव ताम्॥५.५॥
ततो वृत्रः समुत्तस्थौ ज्वालामाली महासुरः ।
महाकायो महादंष्ट्रो भिन्नाञ्जनचयप्रभः॥५.६॥
इन्द्रशत्रुरमेयात्मा त्वष्टृतेजोपबृंहितः ।
अहन्यहनि सोऽवर्धदिषुपातं महाबलः॥५.७॥
वधाय चात्मनो दृष्ट्वा वृत्रं शक्रो महासुरम् ।
प्रेषयामास सप्तर्षोन् सन्धिमिच्छन् भयातुरः॥५.८॥
सख्यञ्चक्रुस्ततस्तस्य वृत्रेण समयांस्तथा ।
ऋषयः प्रीतमनसः सर्वभूतहिते रताः॥५.९॥
समयस्थितिमुल्लङ्घ्य यदा शक्रेण घातितः ।
वृत्रो हत्याभिभूतस्य तदा बलमशीर्यत॥५.१०॥
तच्छक्रदेहविभ्रष्टं बलं मारुतमाविशत् ।
सर्वव्यापिनमव्यक्तं बलस्यैवाधिदैवतम्॥५.११॥
अहल्याञ्च यदा शक्रो गौतमं रूपमास्थितः ।
धर्षयामास देवेन्द्रस्तदा रूपमहीयत॥५.१२॥
अङ्गप्रत्यङ्गलावण्यं यदतीव मनोरम् ।
विहाय दुष्टं देवेन्द्रं नासत्यावगमत् ततः॥५.१३॥
धर्मेण तेजसा त्यक्तं बलहीनमरूपिणम् ।
ज्ञात्वा सुरेशं दैतेयास्तज्जये चक्रुरुद्यमम्॥५.१४॥
राज्ञामुद्रिक्तवीर्याणां देवेन्द्रं विजिगीषवः ।
कुलेष्वतिबला दैत्या अजायन्त महामुने॥५.१५॥
कस्यचित्त्वथ कालस्य धरणी भारपीडिता ।
जगाम मेरुशिखरं सदो यत्र दिवौकसाम्॥५.१६॥
तेषां सा कथयामास भूरिभारावपीडिता ।
दनुजात्मजदैत्योत्थं खेदकारणमात्मनः॥५.१७॥
एते भवद्भिरसुरा निहताः पृथुलौजसः ।
ते सर्वे मानुषे लोके जाता गेहेषु भूभृताम्॥५.१८॥
अक्षौहिण्यो हि बहुलास्तद्भारार्ता व्रजाम्यधः ।
तथा कुरुध्वं त्रिदशा यथा शान्तिर्भवेन्मम॥५.१९॥
तेजोभागैस्ततो देवा अवतेरुर्दिवो महीम् ।
प्रजानामुपकारार्थं भूभारहरणाय च॥५.२०॥
यदिन्द्रदेहजं तेजस्तन्मुमोच स्वयं वृषः ।
कुन्त्या जातो महातेजास्ततो राजा युधिष्ठिरः॥५.२१॥
बलं मुमोच पवनस्ततो भीमो व्यजायत ।
शक्रवीर्यार्धतश्चैव जज्ञे पार्थो धनञ्जयः॥५.२२॥
उत्पन्नौ यमजौ माद्रयां शक्ररूपौ महाद्युती ।
पञ्चधा भगवानित्थमवतीर्णः शतक्रतुः॥५.२३॥
तस्योत्पन्ना महाभागा पत्नी कृष्णा हुताशनात्॥५.२४॥
शक्रस्यैकस्य सा पत्नी कृष्णा नान्यस्य कस्यचित् ।
योगीश्वराः शरीराणि कुर्वन्ति बहुलान्यपि॥५.२५॥
पञ्चानामेकपत्नीत्वमित्येतत् कथितं तव ।
श्रूयतां बलदेवोऽपि यथा यातः सरस्वतीम्॥५.२६॥
इति श्रीमार्कण्डेयपुराणे इन्द्रविक्रियानाम पञ्चमोऽध्यायः
षष्ठोऽध्यायः
पक्षिण ऊचुः
रामः पार्थे परां प्रीतिं ज्ञात्वा कृष्णस्य लाङ्गली ।
चिन्तयामास बहुधा किं कृतं सुकृतं भवेत्॥६.१॥
कृष्णेन हि विना नाहं यास्ये दुर्योधनान्तिकम् ।
पाण्डवान् वा समाश्रित्य कथं दुर्योधनं नृपम्॥६.२॥
जामातरं तथा शिष्यं घातयिष्ये नरेश्वरम् ।
तस्मान्न पार्थं यास्यामि नापि दुर्योधनं नृपम्॥६.३॥
तीर्थेष्वाप्लावयिष्यामि तावदात्मानमात्मना ।
कुरूणां पाण्डवानां च यावदन्ताय कल्पते॥६.४॥
इत्यामन्त्र्य हृषीकेशं पार्थ-दुर्योधनावपि ।
जगाम द्वारकां शौरिः स्वसैन्युपरिवारितः॥६.५॥
गत्वा द्वारवतीं रामो हृष्टपुष्टजनाकुलाम् ।
श्वो गन्तव्येषु तीर्थेषु पपौ पानं हलायुधः॥६.६॥
पीतपानो जगामाथ रैवतोद्यानमृद्धिमत् ।
हस्ते गृहीत्वा समदां रेवतीमप्सरोपमाम्॥६.७॥
स्त्रीकदम्बकमध्यस्थो ययौ मत्तः पदा स्खलन् ।
ददर्शच वनं वीरो रमणीयमनुत्तमम्॥६.८॥
सर्वर्तुफलपुष्पाढ्यं शाखामृगगणाकुलम् ।
पुण्यं पद्मवनोपेतं सपल्वलमहावनम्॥६.९॥
स शृण्वन् प्रीतिजननान् बहून् मदकलान् शुभान् ।
श्रोत्ररम्यान् सुमधुरान् शब्दान् खगमुखेरितान्॥६.१०॥
सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् ।
अपश्यत् पादपांस्तत्र विहगैरनुनादितान्॥६.११॥
आम्रानाम्रातकान् भव्यान् नारिकेलान् सतिन्दुकान् ।
आविल्वकांस्तथा जीरान् दाडिमान् बीजपूरकान्॥६.१२॥
पनसान् लकुचान् मोचान् नीपांश्चातिमनोहरान् ।
पारावतांश्च कङ्कोलान् नलिनानम्लवेतसान्॥६.१३॥
भल्लातकानामलकांस्तिन्दुकांश्च महाफलान् ।
इङ्गुदान् करमर्दांश्च हरीतक-विभीतकान्॥६.१४॥
एतानन्यांश्च स तरून् ददर्श यदुनन्दनः ।
तथैवाशोक-पुन्नाग-केतकी-बकुलानथ॥६.१५॥
चम्पकान् सप्तपर्णांश्च कर्णिकारान् समालतीन् ।
पारिजातान् कोविदारान् मन्दारान् बदरांस्तथा॥६.१६॥
पाटलान् पुष्पितान् रम्यान् देवदारुद्रुमांस्तथा ।
सालांस्तालांस्तमालांश्च किंशौकान् वञ्जुलान् वरान्॥६.१७॥
चकोरैः शातपत्रैश्च भृङ्गराजैस्तथा शुकैः ।
कोकिलैः कलविङ्कैश्च हारीतैर्जोवजीवकैः॥६.१८॥
प्रियपुत्रैश्चातकैश्च तथान्यैर्विविधैः खगैः ।
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितम्॥६.१९॥
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च ।
कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः॥६.२०॥
कह्लारैः कमलैश्चापि आचितानि समन्ततः ।
कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः॥६.२१॥
कारण्डवैः प्लवैर्हंसैः कूर्मैर्मद्गुभिरेव च ।
एभिश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः॥६.२२॥
क्रमेणेत्थं वनं शौरिर्वोक्षमाणो मनोरमम् ।
जगामानुगतः स्त्रीभिर्लतागृहमनुत्तमम्॥६.२३॥
स ददर्श द्विजांस्तत्र वेदवेदाङ्गपारगान् ।
कौशिकान् भार्गवांश्चैव भारद्वाजान् सगौतमान्॥६.२४॥
विविधेषु च सम्भूतान् वंशेषु द्विजसत्तमान् ।
कथाश्रवणबद्धोत्कानुपविष्टान् महत्सु च॥६.२५॥
कृष्णाजिनोत्तरीयेषु कुशेषु च वृषीषु च ।
सूतञ्च तेषां मध्यस्थं कथयानं कथाः शुभाः॥६.२६॥
पौराणिकीः सुरर्षोणामाद्यानां चरिताश्रयाः ।
दृष्ट्वा रामं द्विजाः सर्वे मधुपानारुणेक्षणम्॥६.२७॥
मत्तोऽयमिति मन्वानाः समुत्तस्थुस्त्वरान्विताः ।
पूजयन्तो हलधरमृते तं सूतवंशजम्॥६.२८॥
ततः क्रोधसमाविष्टो हली सूतं महाबलः ।
निजघान विवृत्ताक्षः क्षोभिताशेषदानवः॥६.२९॥
अध्यास्याति पदं ब्राह्मं तस्मिन् सूते निपातिते ।
निष्क्रान्तास्ते द्विजाः सर्वे वनात् कृष्णाजिनाम्बराः॥६.३०॥
अवधूतं तथात्मानं मन्यमानो हलायुधः ।
चिन्तयामास सुमहन्मया पापमिदं कृतम्॥६.३१॥
ब्राह्मं स्थानं गतो ह्येष यद् सूतो विनिपातितः ।
तथा हीमे द्विजाः सर्वे मामवेक्ष्य विनिर्गताः॥६.३२॥
शरीरस्य च मे गन्धो लोहस्येवासुखावहः ।
आत्मानञ्चावगच्छामि ब्रह्मघ्नमिव कुत्सितम्॥६.३३॥
धिगमर्षं तथा मद्यमतिमानमभीरुताम् ।
यैराविष्टेन सुमहन्मया पापमिदं कृतम्॥६.३४॥
तत्क्षयार्थं चरिष्यामि व्रतं द्वादशवार्षिकम् ।
स्वकर्मख्यापनं कुर्वंन् प्रयश्चित्तमनुत्तमम्॥६.३५॥
अथ येयं समारब्धा तीर्थयात्रा मयाधुना ।
एतामेव प्रयास्यामि प्रतिलोमां सरस्वतीम्॥६.३६॥
अतो जगाम रामोऽसौ प्रतिलोमां सरस्वतीम् ।
ततः परं शृणुष्वेमं पाण्डवेयकथाश्रयम्॥६.३७॥
इतिश्री मार्कण्डेयपुराणे बलदेवब्रह्महत्यानाम षष्ठोध्यायः
सप्तमोऽध्यायः
धर्मपक्षिण ऊचुः
हरिश्चन्द्रेति राजर्षिरासीत् त्रेतायुगे पुरा ।
धर्मात्मा पृथिवीपालः प्रोल्लसत्कीर्तिरुत्तमः॥७.१॥
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ।
नाधर्मरुचयः पौरास्तस्मिन् शासति पार्थिवे॥७.२॥
बभूवुर्न तथोन्मत्ता धन-वीर्य-तपोमदैः ।
नाजायन्त स्त्रियश्चैव काश्चिदप्राप्तयौवनाः॥७.३॥
स कदाचिन्महाबाहुररण्येऽनुसरन् मृगम् ।
शुश्राव शब्दमसकृत् त्रायस्वेति च योषिताम्॥७.४॥
स विहाय मृगं राजा मा भैषीरित्यभाषत ।
मयि शासति दुर्मेधाः कोऽयमन्यायवृत्तिमान्॥७.५॥
तत्क्रन्दितानुसारी च सर्वारम्भविघातकृत् ।
एकस्मिन्नन्तरे रौद्रो विघ्नराट् समचिन्तयत्॥७.६॥
विश्वामित्रोऽयमतुलं तप आस्थाय वीर्यवान् ।
प्रागसिद्धाभवादीनां विद्याः साध्यति व्रती॥७.७॥
साध्यमानाः क्षमामौनचित्तसंयमिनामुना ।
ता वै भयार्ताः क्रन्दन्ति कथं कार्यमिदं मया॥७.८॥
तेजस्वी कौशिकश्वेष्ठो वयमस्य सुदुर्बलाः ।
क्रोशन्त्येतास्तथा भीता दुष्पारं प्रतिभाति मे॥७.९॥
अथवायं नृपः प्राप्तो मा भैरिति वदन् मुहुः ।
इममेव प्रविश्याशु साधयिष्ये यथेप्सितम्॥७.१०॥
इति संचिन्त्य रौद्रेण विघ्नराजेन वै ततः ।
तेनाविष्टो नृपः कोपादिदं वचनमब्रवीत्॥७.११॥
कोऽयं बघ्नाति वस्त्रान्ते पावकं पापकृन्नरः ।
बलोष्णतेजसा दीप्ते मयि पत्यावुपस्थिते॥७.१२॥
सोऽद्य मत्कार्मुकाक्षेप-विदीपितदिगन्तरैः ।
शरैर्विभिन्नसर्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति॥७.१३॥
विश्वामित्रस्ततः क्रुद्धः श्रुत्वा तन्नृपतेर्वचः ।
क्रुद्धे चर्षिवरे तस्मिन् नेशुर्विद्याः क्षणेन ताः॥७.१४॥
स चापि राजा तं दृष्ट्वा विश्वामित्रं तपोनिधिम् ।
भीतः प्रावेपतात्यर्थं सहसाश्वत्थपर्णवत्॥७.१५॥
स दुरात्मन्निति यदा मुनिस्तिष्ठेति चाब्रवीत् ।
ततः स राजा विनयात् प्रणिपत्याभ्यभाषत॥७.१६॥
भगवन्नेष धर्मो मे नापराधो मम प्रभो ।
न क्रोद्धुमर्हसि मुने निजधर्मरतस्य मे॥७.१७॥
दातव्यं रक्षितव्यं च धर्मज्ञेन महीक्षिता ।
चापं चोद्यम्य योद्धव्यं धर्मशास्त्रानुसारतः॥७.१८॥
विश्वामित्र उवाच
दातव्यं कस्य के रक्ष्याः कैर्योद्धव्यं च ते नृप ।
क्षिप्रमेतत् समाचक्ष्व यद्यधर्मभयं तव॥७.१९॥
हरिश्चन्द्र उवाच
दातव्यं विप्रमुख्येभ्यो ये चान्ये कृशवृत्तयः ।
रक्ष्या भीताः सदा युद्धं कर्तव्यं परिपन्थिभिः॥७.२०॥
विश्वामित्र उवाच
यदि राजा भवान् सम्यग्राजधर्ममवेक्षते ।
निर्वेष्टुकामो विप्रोऽहं दीयतामिष्टदक्षिणा॥७.२१॥
पक्षिण ऊचुः
एतद्राजा वचः श्रुत्वा प्रहृष्टेनान्तरात्मना ।
पुनर्जातमिवात्मानं मेने प्राह च कौशिकम्॥७.२२॥
उच्यतां भगवन् यत्ते दातव्यमविशङ्कितम् ।
दत्तमित्येव तद्विद्धि यद्यपि स्यात् सुदुर्लभम्॥७.२३॥
हिरण्यं वा सुवर्णं वा पुत्रः पत्नी कलेवरम् ।
प्राणा राज्यं पुरं लक्ष्मीर्यदभिप्रेतमात्मनः॥७.२४॥
विश्वामित्र उवाच
राजन् प्रतिगृहीतोऽयं यस्ते दत्तः प्रतिग्रहः ।
प्रयच्छ प्रथमं तावद् दक्षिणां राजसूयिकीम्॥७.२५॥
राजोवाच
ब्रह्मंस्तामपि दास्यामि दक्षिणां भवतो ह्यहम् ।
व्रियतां द्विजशार्दूल यस्तवेष्टः प्रतिग्रहः॥७.२६॥
विश्वामित्र उवाच
ससागरां धरामेतां सभूभृद्ग्रामपत्तनाम् ।
राज्यं च सकलं वीर रथाश्व-गजसङ्कुलम्॥७.२७॥
कोष्ठागारं च कोषं च यच्चान्यद्विद्यते तव ।
विना भार्यां च पुत्रं च शरीरं च तवानघ॥७.२८॥
धर्मं च सर्वधर्मज्ञ यो यान्तमनुगच्छति ।
बहुना वा किमुक्तेन सर्वमेतत् प्रदीयताम्॥७.२९॥
पक्षिण ऊचुः
प्रहृष्टेनैव मनसा सोऽविकारमुखो नृपः ।
तस्यर्षेर्वचनं श्रुत्वा तथेत्याह कृताञ्जलिः॥७.३०॥
विश्वामित्र उवाच
सर्वस्वं यदि मे दत्तं राज्यमुर्वो बलं धनम् ।
प्रभुत्वं कस्य राजर्षे राज्यस्थे तापसे मयि॥७.३१॥
हरिश्चन्द्र उवाच
यस्मिन्नपि मया काले ब्राह्मन् दत्ता वसुन्धरा ।
तस्मिन्नपि भवान् स्वामी किमुताद्य महीपतिः॥७.३२॥
विश्वामित्र उवाच
यदि राजंस्त्वया दत्ता मम सर्वा वसुन्धरा ।
यत्र मे विषये स्वाम्यं तस्मान्निष्क्रान्तुमर्हसि॥७.३३॥
श्रोणीसूत्रादिसकलं मुक्त्वा भूषणसंग्रहम् ।
तरुवल्कलमाबध्य सह पत्न्या सुतेन च॥७.३४॥
पक्षिण ऊचुः
तथेति चोक्त्वा कृत्वा च राजा गन्तुं प्रचक्रमे ।
स्वपत्न्या शैव्यया सार्धं बालकेनात्मजेन च॥७.३५॥
व्रजतः स ततो रुद्ध्वा पन्थानं प्राह तं नृपम् ।
क्व यास्यसीत्यदत्त्वा मे दक्षिणां राजसूयिकीम्॥७.३६॥
हरिश्चन्द्र उवाच
भगवन् राज्यमेतत् ते दत्तं निहतकण्टकम् ।
अवशिष्टमिदं ब्रह्मन्नद्य देहत्रयं मम॥७.३७॥
विश्वामित्र उवाच
तथापि खलु दातव्या त्वया मे यज्ञदक्षिणा ।
विशेषतो ब्राह्मणानं हन्त्यदत्तं प्रतिश्रुतम्॥७.३८॥
यावत् तोषो राजसूये ब्राह्मणानां तभवेन्नृप ।
तावदेव तु दातव्या दक्षिणा राजसूयिकी॥७.३९॥
प्रतिश्रुत्य च दातव्यं योद्धव्यं चाततायिभिः ।
रक्षितव्यास्तथा चार्तास्त्वयैव प्राक् प्रतिश्रुतम्॥७.४०॥
हरिश्चन्द्र उवाच
भगवन् साम्प्रतं नास्ति दास्ये कालक्रमेण ते ।
प्रसादं कुरु विप्रर्षे सद्भावमनुचिन्त्य च॥७.४१॥
विश्वामित्र उवाच
किम्प्रमाणो मया कालः प्रतीक्ष्यस्ते जनाधिप ।
शीघ्रमाचक्ष्व शापाग्निरन्यथा त्वां प्रधक्ष्यति॥७.४२॥
हरिचन्द्र उवाच
मासेन तव विप्रर्षे प्रदास्ये दक्षिणाधनम् ।
साम्प्रतं नास्ति मे वित्तमनुज्ञां दातुमर्हसि॥७.४३॥
विश्वामित्र उवाच
गच्छ गच्छ नृपश्रेष्ठ स्वधर्ममनुपालय ।
शिवश्च तेऽध्वा भवतु मा सन्तु परिपन्थिनः॥७.४४॥
पक्षिण ऊचुः
अनुज्ञातश्च गच्छेति जगाम वसुधाधिपः ।
पद्भ्यामनुचिता गन्तुमन्वगच्छत तं प्रिया॥७.४५॥
तं सभार्यं नृपश्रेष्ठं निर्यान्तं ससुतं पुरात् ।
दृष्ट्वा प्रचुक्रुशुः पौरा राज्ञश्चैवानुयायिनः॥७.४६॥
हानाथ किं जहास्यस्मान् नित्यार्तिपरिपीडितान् ।
त्वं धर्मतत्परो राजन् पौरानुग्रहकृत् तथा॥७.४७॥
नयास्मानपि राजर्षे यदि धर्ममवेक्षसे ।
मुहूर्तं तिष्ठ राजेन्द्र भवतो मुखपङ्कजम्॥७.४८॥
पिबामो नेत्रभ्रमरैः कदा द्रक्ष्यामहे पुनः ।
यस्य प्रयातस्य पुरो यान्ति पृष्ठे च पार्थिवाः॥७.४९॥
तस्यानुयाति भार्येयं गृहीत्वा बालकं सुतम् ।
यस्य भृत्याः प्रयातस्य यान्तयग्रे कुञ्जचरस्थिताः॥७.५०॥
स एष पद्भ्यां राजेन्द्रो हरिश्चन्द्रोऽद्य गच्छति ।
हा राजन् सुकुमारं ते सुभ्रु सुत्वचमुन्नसम्॥७.५१॥
पथि पांशुपरिक्लिष्टं मुखं कीदृग्भविष्यति ।
तिष्ठ तिष्ठ नृपश्रेष्ठ स्वधर्ममनुपालय॥७.५२॥
आनृशंस्यं परो धर्मः क्षत्रियाणां विशेषतः ।
किं दारैः किं सुतैर्नाथ धनैर्धान्यैरथापि वा॥७.५३॥
सर्वमेतत् परित्यज्य छायाभूता वयं तव ।
हानाथ हा महाराज हा स्वामिन् किं जहासि नः॥७.५४॥
यत्र त्वं तत्र हि वयं तत् सुखं यत्र वै भवान् ।
नगरं तद्भवान् यत्र स स्वर्गो यत्र नो नृपः॥७.५५॥
इति पौरवचः श्रुत्वा राजा शोकपरिप्लुतः ।
अतिष्ठत् स तदा मार्गे तेषामेवानुकम्पया॥७.५६॥
विश्वामित्रोऽपि तं दृष्ट्वा पौरवाक्याकुलीकृतम् ।
रोषमर्षविवृत्ताक्षः समागम्य वचोऽब्रवीत्॥७.५७॥
धिक् त्वां दुष्टसमाचारमनृतं जिह्मभाषणम् ।
मम राज्यं च दत्वा यः पुनः प्राक्रष्टुमिच्छसि॥७.५८॥
इत्युक्तः परुषं तेन गच्छामीति सवेपथुः ।
ब्रुवन्नेवं ययौ शीघ्रमाकर्षन् दयितां करे॥७.५९॥
कर्षतस्तां ततो भार्यां सुकुमारीं श्रमातुराम् ।
सहसा दण्डकाष्ठेन ताडयामास कौशिकः॥७.६०॥
तां तथा ताडितां दृष्ट्वा हरिश्चन्द्रो महीपतिः ।
गच्छामीत्याह दुः खार्तो नान्यत् किञ्चिदुदाहरत्॥७.६१॥
अथ विश्वे तदा देवाः पञ्च प्राहुः कृपालवः ।
विश्वामित्रः सुपापोऽयं लोकान् कान् समवाप्स्यति॥७.६२॥
येनायां यज्वनां श्रेष्ठः स्वराज्यादवरोपितः ।
कस्य वा श्रद्धया पूतं सुतं सोमं महाध्वरे ।
पीत्वा वयं प्रयास्यामो मुदं मन्त्रपुरः सरम्॥७.६३॥
पक्षिण ऊचुः
इति तेषां वचः श्रुत्वा कौशिकोऽतिरुषान्वितः ।
शशाप तान् मनुष्यत्वं सर्वे यूयमवाप्स्यथ॥७.६४॥
प्रसादितश्च तैः प्राह पुनरेव महामुनिः. मानुषत्वेऽपि भवतां भवित्री नैव सन्ततिः॥७.६५॥
न दारसंग्रहश्चैव भविता न च मत्सरः ।
कामक्रोधविनिर्मुक्ता भविष्यथ सुराः पुनः॥७.६६॥
ततोऽवतेरुरंशैः स्वैर्देवास्ते कुरुवेश्मनि ।
द्रौपदीगर्भसम्भूताः पञ्च वै पाण्डुनन्दनाः॥७.६७॥
एतस्मात् कारणात् पञ्च पाण्डवेया महारथाः ।
न दारसंग्रहं प्राप्ताः शापात् तस्य महामुनेः॥७.६८॥
एतत्ते सर्वमाख्यातं पाण्डवेयकथाश्रयम् ।
प्रश्नं चतुष्टयं गीतं किमन्यच्छ्रोतुमिच्छसि॥७.६९॥
इति श्रीमार्कण्डेयपुराणे द्रौपदेयोत्पत्तिर्नाम सप्तमोऽध्यायः
अष्टमोऽध्यायः
जैमिनिरुवाच
भवद्भिरिदमाख्यातं यथाप्रश्नमनुक्रमात् ।
महत् कौतूहलं मेऽस्ति हरिश्चन्द्र कथां प्रति॥८.१॥
अहो महात्मना तेन प्राप्तं कृच्छ्रमनुत्तमम् ।
कच्चित् सुखमनुप्राप्तं तादृगेव द्विजोत्तमाः॥८.२॥
पक्षिण ऊचुः
विश्वामित्रवचः श्रुत्वा स राजा प्रययौ शनैः ।
शैव्ययानुगतो दुः खी भार्यया बलापुत्रया॥८.३॥
स गत्वा वसुधापालो दिव्यां वाराणसीं पुरीम् ।
नैषा मनुष्यभोग्येति शूलपाणेः परिग्रहः॥८.४॥
जगाम पद्भ्यां दुः खार्तः सह पत्न्यानुकूलया ।
पुरीप्रवेशे ददृशे विश्वामित्रमुपस्थितम्॥८.५॥
तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् ।
प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम्॥८.६॥
इमे प्राणाः सुतश्चायमियं पत्नी मुने ! मम ।
येन ते कृत्यमस्त्याशु तद्गृहाणार्घ्यमुत्तमम्॥८.७॥
यद्वान्यत् कार्यमस्माभिस्तदनुज्ञातुमर्हसि॥८.८॥
विश्वामित्र उवाच
पूर्णः स मासो राजर्षे दीयतां मम दक्षिणा ।
राजसूयनिमित्तं हि स्मर्यते स्ववचो यदि॥८.९॥
हरिश्चन्द्र उवाच
ब्राह्मन्नद्यैव सम्पूर्णो मासोऽम्लानतपोधन ।
तिष्ठत्येतद् दनार्धं यत्तत् प्रतीक्षस्व माचिरम्॥८.१०॥
विश्वामित्र उवाच
एवमस्तु महाराज आगमिष्याम्यहं पुनः ।
शापं तव प्रदास्यामि न चेदद्य प्रदास्यसि॥८.११॥
पक्षिण ऊचुः
इत्युक्त्वा प्रययौ विप्रो राजा चाचिन्तयत् तदा ।
कथमस्मै प्रदास्यामि दक्षिणा या प्रतिश्रुता॥८.१२॥
कुतः पुष्टानि मित्राणि कुतोर्ऽथः साम्प्रतं मम ।
प्रतिग्रहः प्रदुष्टो मे नाहं यायामधः कथम्॥८.१३॥
किमु प्राणान् विमुञ्चामि कां दिशं याम्यकिञ्चनः ।
यदि नाशं गमिष्यामि अप्रदाय प्रतिश्रुतम्॥८.१४॥
ब्रह्मस्वहृत्कृमिः पापो भविष्याम्यधमाधमः ।
अथवा प्रेष्यतां यास्ये वरमेवात्मविक्रयः॥८.१५॥
पक्षिण ऊचुः
राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् ।
प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा॥८.१६॥
त्यज चिन्तां महारजा स्वसत्यमनुपालय ।
श्मशानवद् वर्जनीयो नरः सत्यबहिष्कृतः॥८.१७॥
नातः परतरं धर्मं वदन्ति पुरुषस्य तु ।
यादृशं पुरुषव्याघ्र स्वसत्यपरिपालनम्॥८.१८॥
अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः ।
भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणम्॥८.१९॥
सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् ।
तारणायानृतं तद्वत् पातनायाकृतात्मनाम्॥८.२०॥
सप्ताश्वमेधानाहृत्य राजसूयं च पार्थिवः ।
कृतिर्नाम च्युतः स्वर्गादसत्यवचनात् सकृत्॥८.२१॥
राजन् जातमपत्यं मे इत्युक्त्वा प्ररुरोद ह ।
बाष्पाम्बुप्लुतनेत्रान्तामुवाचेदं महीपतिः॥८.२२॥
हरिश्चन्द्र उवाच
विमुञ्च भद्रे सन्तापमयं तिष्ठति बालकः ।
उच्यतां वक्तुकामासि यद्वा त्वं गजगामिनि॥८.२३॥
पत्न्युवाच
राजन् जातमपत्यं मे सतां पुत्रफलाः स्त्रियः ।
स मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम्॥८.२४॥
पक्षिण ऊचुः
एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः ।
प्रतिलभ्य च संज्ञां स विललापातिदुः खितः॥८.२५॥
महद्दुः खमिदं भद्रे यत् त्वमेवं ब्रवीषि माम् ।
किं तव स्मितसंलापा मम पापस्य विस्मृताः॥८.२६॥
हा हा कथं त्वया शक्यं वक्तुमेतत् शुचिस्मिते ।
दुर्वाच्यमेतद्वचनं कर्तुं शक्नोम्यहं कथम्॥८.२७॥
इत्युक्त्वा स नरश्रेष्ठो धिग्धिगित्यसकृद् ब्रुवन् ।
निपपात महीपृष्ठे मूर्च्छयाभिपरिप्लुतः॥८.२८॥
शयानं भुवि तं दृष्ट्वा हरिश्चन्द्रं महीपतिम् ।
उवाचेदं सकरुणं राजपत्नी सुदुः खिता॥८.२९॥
पत्न्युवाच
हा महारजा कस्येदमपध्यानमुपस्थितम् ।
यत् त्वं निपतितो भूमौ राङ्कवास्तरणोचितः॥८.३०॥
येन कोट्यग्रगोवित्तं विप्राणामपवर्जितम् ।
स एष पृथिवीनाथो भूमौ स्वपिति मे पतिः॥८.३१॥
हा कष्टं किं तवानेन कृतं देव ! महीक्षिता ।
यदिन्द्रोपेन्द्रतुल्योऽयं नीतः प्रस्वापनीं दशाम्॥८.३२॥
इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह ।
भर्तृदुः खमहाभारेणासह्येन निपीडिता॥८.३३॥
तौ तथा पतितौ भूमावनाथौ पितरौ शिशुः ।
दृष्ट्वात्यन्तं क्षुधाविष्टः प्राह वाक्यं सुदुः खितः॥८.३४॥
तात तात ! ददस्वान्नमम्बाम्ब ! भोजनं दद ।
क्षुन्मे बलवती जाता जिह्वाग्रं शुष्यते तथा॥८.३५॥
पक्षिण ऊचुः
एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः ।
दृष्ट्वा तु तं हरिश्चन्द्रं पतितं भुवि मूर्च्छितम्॥८.३६॥
स वारिणा समभ्युक्ष्य राजानमिदमब्रवीत् ।
उत्तिष्ठोतिष्ठ राजेन्द्र तां ददस्वेष्टदक्षिणाम्॥८.३७॥
ऋणं धारयतो दुः खमहन्यहनि वर्धन्ते ।
आप्याय्यमानः स तदा हिमशीतेन वारिणा॥८.३८॥
अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च ।
पुनर्मोहं समापेदे स च क्रोधं ययौ मुनिः॥८.३९॥
स समाश्वास्य राजानं वाक्यमाह द्विजोत्तमः ।
दीयतां दक्षिणा सा मे यदि धर्ममवेक्षसे॥८.४०॥
सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ।
सत्यं चोक्तं परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः॥८.४१॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥८.४२॥
अथवा किं ममैतेन साम्ना प्रोक्तेन कारणम् ।
अनार्त्ये पापसङ्कल्पे क्रूरे चानृतवादिनि॥८.४३॥
त्वयि राज्ञि प्रभवति सद्भावः श्रूयतामयम् ।
अद्य मे दक्षिणां राजन् न दास्यति भवान् यदि॥८.४४॥
अस्ताचलं प्रयातेर्ऽके शप्स्यामि त्वां ततो ध्रुवम् ।
इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः॥८.४५॥
कान्दिग्भूतोऽधमो निः स्वो नृशंसधनिनार्दितः ।
भार्यास्य भूयः प्राहेदं क्रियतां वचनं मम॥८.४६॥
मा शापानलनिर्दग्धः पञ्चत्वमुपयास्यसि ।
स तथा चोद्यमानस्तु राजा पत्न्या पुनः पुनः॥८.४७॥
प्राह भद्रे करोम्येष विक्रयं तव निर्घृणः ।
नृशंसैरपि यद् कर्तुं न शक्यं तत् करोम्यहम् । ४८।
यदि मे शक्यते वाणी वक्तुमीदृक् सुदुर्वचः ।
एवमुक्त्वा ततो भार्यां गत्वा नागरमातुरः ।
बाष्पापिहितकण्ठाक्षस्ततो वचनमब्रवीत्॥८.४९॥
राजोवाच
भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम ।
किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः॥८.५०॥
राक्षसो वातिकठिनस्ततः पापतरोऽपि वा ।
विक्रेतुं दयितां प्राप्तो यो न प्राणांस्त्यजाम्यहम्॥८.५१॥
यदि वः कस्यचित् कार्यं दास्या प्राणेष्टया मम ।
स ब्रीवीतु त्वरायुक्तो यावत् सन्धारयाम्यहम्॥८.५२॥
पक्षिण ऊचुः
अथ वृद्धो द्विजः कश्चिदागत्याह नराधिपम् ।
समर्पयस्व मे दासीमहं क्रेता धनप्रदः॥८.५३॥
अस्ति मे वित्तमस्तोकं सुकुमारी च मे प्रिया ।
गृहकर्म न शक्नोति कर्तुमस्मात् प्रयच्छ मे॥८.५४॥
कर्मण्यता-वयो-रूप-शीलानां तव योषितः ।
अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम्॥८.५५॥
एवमुक्तस्य विप्रेण हरिश्चन्द्रस्य भूपतेः ।
व्यदीर्यत मनो दुः खान्न चैनं किञ्चिदब्रवीत्॥८.५६॥
ततः स विप्रो नृपतेर्वल्कलान्ते दृढं धनम् ।
बद्ध्वा केशेष्वथादाय नृपपत्नीमकर्षयत्॥८.५७॥
रुरोद रोहिताश्वोऽपि दृष्ट्वा कृष्टां तु मातरम् ।
हस्तेन वस्त्रमाकर्षन् काकपक्षधरः शिशुः॥८.५८॥
राजपत्न्युवाच
मुञ्चार्य मुञ्च तावन्मां यावत्पश्याम्यहं शिशुम् ।
दुर्लभं दर्शनं तात पुनरस्य भविष्यति॥८.५९॥
पश्यैहि वत्स मामेवं मातरं दास्यतां गताम् ।
मां मा स्प्रार्क्षो राजपुत्र ! अस्पृश्याहं तवाधुना॥८.६०॥
ततः स बालः सहसा दृष्ट्वा कृष्टां तु मातरम् ।
समभ्यधावदम्बेति रुदन् सास्त्राविलेक्षणः॥८.६१॥
तमागतं द्विजः क्रोधाद्वालमभ्याहनत् पदा ।
वदंस्तथापि सोऽम्बेति नैवामुञ्चत मातरम्॥८.६२॥
राजपत्न्युवाच
प्रसादं कुरु में नाथ क्रीणीष्वेमं च बालकम् ।
क्रीतापि नाहं भवतो विनैनं कार्यसाधिका॥८.६३॥
इत्थं ममाल्पभाग्यायाः प्रसादसुमुखो भव ।
मां संयोजय बालेन वत्सेनेव पयस्विनीम्॥८.६४॥
ब्राह्मण उवाच
गृह्यतां वित्तमेतत् ते दीयतां बालको मम ।
स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ।
शतं सहस्रं लक्षं च कोटिमूल्यं तथा परैः॥८.६५॥
पक्षिण ऊचुः
तथैव तस्य तद्वित्तं बद्ध्वोत्तरपटे ततः ।
प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत्॥८.६६॥
नीयमानौ तु तौ दृष्ट्वा भार्या-पुत्रौ स पार्थिवः ।
विललाप सुदुः खार्तो निः श्वस्योष्णं पुनः पुनः॥८.६७॥
यां न वायुर्न चादित्यो नेन्दुर्न च पृथग्जनः ।
दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता॥८.६८॥
सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः ।
सम्प्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम्॥८.६९॥
हा प्रिये ! हा शिशो ! नत्स ! ममानार्यस्य दुर्नयैः ।
दैवाधीनां दशां प्राप्तो न मृतोऽस्मि तथापि धिक्॥८.७०॥
पक्षिण ऊचुः
एवं विलपतो राज्ञः स विप्रोऽन्तरधीयत ।
वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः॥८.७१॥
विश्वामित्रस्ततः प्राप्तो नृपं वित्तमयाचत ।
तस्मै समर्पयामास हरिश्चन्द्रोऽपि तद्धनम्॥८.७२॥
तद्वित्तं स्तोकमालोक्य दारविक्रयसम्भवम् ।
शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत्॥८.७३॥
क्षत्रबन्धो ! ममेमां त्वं सदृशीं यज्ञदक्षिणाम् ।
मन्यसे यदि तत् क्षिप्रं पश्य त्वं मे बलं परम्॥८.७४॥
तपसोऽत्र सुतप्तस्य ब्राह्मण्यस्यामलस्य च ।
मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च॥८.७५॥
अन्यां दास्यामि भगवन् ! कालः कश्चित्प्रतीक्ष्यताम् ।
साम्प्रतं नास्ति विक्रीता पत्नी पुत्रश्च बालकः॥८.७६॥
विश्वामित्र उवाच
चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप ।
एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया॥८.७७॥
पक्षिण ऊचुः
तमेवमुक्त्वा राजेन्द्रं निष्ठुरं निर्घृणं वचः ।
तदादाय धनं तूर्णं कुपितः कौशिको ययौ॥८.७८॥
विश्वामित्रे गते राजा भयशोकाब्धिमध्यगः ।
सर्वाकारं विनिश्चित्य प्रोवाचोच्चैरधोमुखः॥८.७९॥
वित्तक्रीतेन यो ह्यर्थो मया प्रेष्येण मानवः ।
स ब्रवीतु त्वरायुक्तो यावत् तपति भास्करः॥८.८०॥
अथाजगाम त्वरितो धर्मश्चण्डालरूपधृक् ।
दुर्गन्धो विकृतो रूक्षः श्मश्रुलो दन्तुरो घृणी॥८.८१॥
कृष्णो लम्बोदरः पिङ्गरूक्षाक्षः परुषाक्षरः ।
गृहीतपक्षिपुञ्जश्च शवमाल्यैरलङ्कृतः॥८.८२॥
कपालहस्तो दीर्घास्यो भैरवोऽतिवदन् मुहुः ।
श्वगणाभिवृतो घोरो यष्टिहस्तो निराकृतिः॥८.८३॥
चण्डाल उवाच
अहमर्थो त्वया शीघ्रं कथयस्वात्मवेतनम् ।
स्तोकेन बहुना वापि येन वै लभ्यते भवान्॥८.८४॥
पक्षिण ऊचुः
तं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिष्ठुरम् ।
वदन्तमतिदुः शीलं कस्त्वमित्याह पार्थिवः॥८.८५॥
चण्डाल उवाच
चण्डालोऽहमिहाख्यातः प्रवीरेति पुरोत्तमे ।
विख्यातो वध्यवधको मृतकम्बलहारकः॥८.८६॥
हरिश्चन्द्र उवाच
नाहं चण्डालदासत्वमिच्छेयं सुविगर्हितम् ।
वरं सापाग्निना दग्धो न चण्डालवशं गतः॥८.८७॥
पक्षिण ऊचुः
तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः ।
कोपामर्षविवृताक्षः प्राह चेदं नराधैपम्॥८.८८॥
विश्वामित्र उवाच
चण्डालोऽयमनल्पं ते दातुं वित्तमुपस्थितः ।
कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा॥८.८९॥
हरिश्चन्द्र उवाच
भगवन् ! सूर्यवंशोत्थमात्मानं वेद्मे कौशिक ।
कथं चण्डालदासत्वं गमिष्ये वित्तकामुकः॥८.९०॥
विश्वामित्र उवाच
यदि चण्डालवित्तं त्वमात्मविक्रयजं मम ।
न प्रदास्यसि कालेन शाप्स्यामि त्वामसंशयम्॥८.९१॥
पक्षिण ऊचुः
हरिश्चन्द्रस्ततो राजा चिन्तावस्थितजीवितः ।
प्रसीदेति वदन् पादावृषेर्जग्राह विह्वलः॥८.९२॥
दासोऽस्म्यार्तोऽस्मि भीतोऽस्मि त्वद्भक्तश्च विशेषतः ।
कुरु प्रसादं विप्रर्षे कष्टश्चण्डालसङ्करः॥८.९३॥
भवेयं वित्तशेषेण सर्वकर्मकरो वशः ।
तवैव मुनिशार्दूल ! प्रेष्यश्चित्तानुवर्तकः॥८.९४॥
विश्वामित्र उवाच
यदि प्रेष्यो मम भवान् चण्डालाय ततो मया ।
दासभावमनुप्राप्तो दत्तो वित्तार्बुदेन वै॥८.९५॥
पक्षिण ऊचुः
एकमुक्ते तदा तेन श्वपाको हृष्टमानसः ।
विश्वामित्राय तद्द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम्॥८.९६॥
दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम् ।
इष्टबन्धुवियोगार्तमनयन्निजपत्तनम्॥८.९७॥
हरिश्चन्द्रस्ततो राजा वसंश्चण्डालपत्तने ।
प्रातर्मध्याह्नसमये सायञ्चैतदगायत॥८.९८॥
बाला दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः ।
मां स्मरत्यसुखाविष्टा मोचयिष्यति नौ नृपः॥८.९९॥
उपात्तवित्तो विप्राय दत्त्वा वित्तमतोऽधिकम् ।
न सा मां मृगशावाक्षी वेत्ति पापतरं कृतम्॥८.१००॥
राज्यनाशः सुहृत्त्यागो भर्यातनयविक्रयः ।
प्राप्ता चण्डालता चेयमहो दुः खपरम्परा॥८.१०१॥
एवं स निवसन् नित्यं सस्मार दयितं सुतम् ।
आर्याञ्चात्मसमाविष्टां हृतसर्वस्व आतुरः॥८.१०२॥
कस्यचित्त्वथ कालस्य मृतचेलापहारकः ।
हरिश्चन्द्रोऽभवद्राजा श्मशाने तद्वशानुगः॥८.१०३॥
चण्डालेनानुशिष्टश्व मृतचेलापहारिणा ।
शवागमनमन्विच्छन्निह तिष्ठ दिवानिशम्॥८.१०४॥
इदं राज्ञेऽपि देयञ्च षड्भागन्तु शवं प्रति ।
त्रयस्तु मम भागाः स्युर्द्वो भागौ तव वेतनम्॥८.१०५॥
इति प्रतिसमादिष्टो जगाम शवमन्दिरम् ।
दिशन्तु दक्षिणां यत्र वाराणस्यां स्थितं तदा॥८.१०६॥
श्मशानं घोरसंनादं शिवाशतसमाकुलम् ।
शवमौलिसमाकीर्णं दुर्गन्धं बहुधूमकम्॥८.१०७॥
पिशाच-भूत-वेताल-डाकिनी-यक्षसङ्कुलम् ।
गृध्रगोमायुसङ्कीर्णं श्ववृन्दपरिवारितम्॥८.१०८॥
अस्थिसंघातसङ्कीर्णं महादुर्गन्धसंकुलम् ।
नानामृतसुहृन्नाद-रौद्रकोलाहलायुतम्॥८.१०९॥
हा पुत्र ! मित्र ! हा बन्धो ! भ्रातर्वत्स ! प्रियाद्य मे ।
हा पते ! भगिनि ! मातर्हा मातुल ! पितामह॥८.११०॥
मातामह ! पितः ! क्व गतोऽस्येहि बान्धव ।
इत्येवं वदतां यत्र ध्वनिः संश्रुयते महान्॥८.१११॥
ज्वलन्मांस-वसा-मेदच्छमच्छमितसंकुलम्॥८.११२॥
अर्धदग्धाः शवाः श्यामा विकसद्दन्तपङ्क्तयः ।
हसन्तीवाग्निमध्यस्थाः कायस्येयं दशा त्विति॥८.११३॥
अग्नेश्चटचटाशब्दो वयसामस्थिपङ्क्तिषु ।
बान्धवाक्रान्दशब्दश्च पुक्कसेषु प्रहर्षजः॥८.११४॥
गायतां भूत-वेताल-पिशाचगणः रक्षसाम् ।
श्रूयते सुमहान् घोरः कल्पान्त इव निः स्वनः॥८.११५॥
महामहिषकारीष-गोशकृद्राशिसङ्कुलम् ।
तदुत्थभस्मकूटैश्च वृतं सास्थिभिरुन्नतैः॥८.११६॥
नानोपहारस्त्रग्दीप-काकविक्षेपकालिकम् ।
अनेकशब्दबहुलं श्मशानं नरकायते॥८.११७॥
सवह्निगर्भैरशिवैः शिवारुतैर् निनादितं भीषणरावगह्वरम् ।
भयं भयस्याप्युपसञ्जनैर्भृशं श्मशानमाक्रन्दविरावदारुणम्॥८.११८॥
स राजा तत्र सम्प्राप्तो दुः खितः शोचनोद्यतः ।
हा भृत्या मन्त्रिणो विप्राः तद्राज्यं विधे गतम्॥८.११९॥
हा शैव्ये पुत्र हा बाल मां त्यक्त्वा मन्दभाग्यकम् ।
विश्वामित्रस्य दोषेण गताः कुत्रापि ते मम॥८.१२०॥
इत्येवं चिन्तयंस्तत्र चण्डालोक्तं पुनः पुनः ।
मलिनो रूक्षसर्वाङ्गः केशवान् गन्धवान् ध्वजी॥८.१२१॥
लकुटी कालकल्पश्च धावंश्चापि ततस्ततः ।
अस्मिन् शव इदं मूल्यं प्राप्तं प्राप्स्यामि चाप्युत॥८.१२२॥
इदं मम इदं राज्ञे मुख्यचण्डालके त्विदम् ।
इति धावन् दिशो राजा जीवन् योन्यन्तरं गतः॥८.१२३॥
जीर्णकर्पण्टसुग्रन्थि-कृतकन्थापरिग्रहः चिताभस्मरजोलिप्त-मुखबाहूदराङिघ्रकः॥८.१२४॥
नानामेदो-वसा-मज्जा लिप्तपाण्यङ्गुलिः श्वसन् ।
नानाशवोदनकृता-हारतृप्तिपरायणः॥८.१२५॥
तदीयमाल्यसंश्लेषकृतमस्तकमण्डनः ।
न रात्रौ न दिवा शेते हा हेति प्रवदन् मुहुः॥८.१२६॥
एवं द्वादशमासास्तु नीताः शतसमोपमाः ।
स कदाचिन्नृपश्रेष्ठः श्रान्तो बन्धुवियोगवान्॥८.१२७॥
निद्राभिभूतो रूक्षाङ्गो निश्चेष्टः सुप्त एव च ।
तत्रापि शयनीये स दृष्टवानद्भुतं हमत्॥८.१२८॥
श्मशानाभ्यासयोगेन दैवस्य बलवत्तया ।
अन्यदेहेन दत्त्वा तु गुरवे गुरुदक्षिणाम्॥८.१२९॥
तदा द्वादश वर्षाणि दुः खदानात्तु निष्कृतिः ।
आत्मानं स ददर्शाथ पुक्कसीगर्भसम्भवम्॥८.१३०॥
तत्रस्थश्चाप्यसौ राजा सोऽचिन्तयदिदं तदा ।
इतो निष्क्रान्तमात्रो हि दानधर्मं करोम्यहम्॥८.१३१॥
अनन्तरं स जातस्तु तदा पुक्कसबालकः ।
श्मशानमृतसंस्कार-करणेषु सदोद्यतः॥८.१३२॥
प्राप्ते तु सप्तमे वर्षे श्मशानेऽथ मृतो द्विजः ।
आनीतो बन्धुभिर्दृष्टस्तेन तत्राधनो गुणी॥८.१३३॥
मूल्यार्थिना तु तेनापि परिभूतास्तु ब्राह्मणाः ।
ऊचुस्ते ब्राह्मणास्तत्र विश्वामित्रस्य चेष्टितम्॥८.१३४॥
पापिष्ठमशुभं कर्म कुरु त्वं पापकारक ।
हरिश्चन्द्रः पुरा राजा विश्वामित्रेण पुक्कसः॥८.१३५॥
कृतः पुण्यविनाशेन ब्राह्मणस्वापनाशनात् ।
यदा न क्षमते तेषां तैः स शप्तो रुषा तदा॥८.१३६॥
गच्छ त्वं नरकं घोरमधुनैव नराधम ।
इत्युक्तमात्रे वचने स्वप्नस्थः स नृपस्तदा॥८.१३७॥
अपश्यद्यमदूतान् वै पाशहस्तान् भयावहान् ।
तैः संगृहीतमात्मानं नीयमानं तदा बलात्॥८.१३८॥
पश्यति स्म भृशं खिन्नो हा मातः पितरद्य मे ।
एवंवादी स नरके तैलद्रोण्यां निपातितः॥८.१३९॥
क्रकचैः पाट्यमानस्तु क्षुरधाराभिरप्यधः ।
अन्धे तमसि दुः खार्तः पूयशोणितभोजनः॥८.१४०॥
सप्तवर्षं मृतात्मानं पुक्कसत्वे ददर्श ह ।
दिनं दिनन्तु नरके दह्यते पच्यतेऽन्यतः॥८.१४१॥
खिद्यते क्षोभ्यतेऽन्यत्र मार्यते पाट्यतेऽन्यतः ।
क्षार्यते दीप्यतेऽन्यत्र शीतवाताहतोऽन्यतः॥८.१४२॥
एवं दिनं वर्षशत-प्रमाणं नरकेऽभवत् ।
तथा वर्षशतं तत्र श्रीवितं नरके भटैः॥८.१४३॥
ततो निपातितो भूमौ विष्ठाशी श्वा व्यजायत ।
वान्ताशी शीतदग्धश्च मासमात्रे मृतोऽपि सः॥८.१४४॥
अथापश्यत् खरं देहं हस्तिनं वानरं पशुम् ।
छागं विडालं कङ्कञ्च गामविं पक्षिणं कृमिम्॥८.१४५॥
मत्स्यं कूर्मं वराहञ्च श्वाविधं कुक्कुटं शुकम् ।
शारिकां स्थावरांश्चैव सर्पमन्यांश्व देहिनः॥८.१४६॥
दिवसे दिवसे जन्म प्राणिनः प्राणिनस्तदा ।
अपश्यद् दुः खसन्तप्तो दिनं वर्षशतं तथा॥८.१४७॥
एवं वर्षशतं पूर्णं गतं तत्र कुयोनिषु ।
अपश्यच्च कदाचित् स राजा तत् स्वकुलोद्भवम्॥८.१४८॥
तत्र स्थितस्य तस्यापि राज्यं द्यूतेन हारितम् ।
भार्या हृता च पुत्रश्च स चैकाकी वनं गतः॥८.१४९॥
तत्रापश्यत स सिंहं वै व्यादितास्यं भयावहम् ।
बिभक्षयिषुमायातं शरभेण समन्वितम्॥८.१५०॥
पुनश्च भक्षितः सोऽपि भार्यां शोचितुमुद्यतः ।
हा शैव्ये ! क्व गतास्यद्य मामिहापास्य दुः खितम्॥८.१५१॥
अपश्यत् पुनरेवापि भार्यां स्वं सहपुत्रकाम् ।
त्रायस्व त्वं हरिश्चन्द्र किं द्यूतेन तव प्रभो॥८.१५२॥
पुत्रस्ते शोच्यतां प्राप्तो भर्यंया शैव्यया सह ।
स नापश्यत् पुनरपि धावमानः पुनः पुनः॥८.१५३॥
अथापश्यत् पुनरपि स्वर्गस्थः स नराधिपः ।
नीयते मुक्तकेशी सा दीना विवसना बलात्॥८.१५४॥
हाहावाक्यं प्रमुञ्चन्ती त्रायस्वेत्यसकृत्स्वना ।
अथापश्यत् पुनस्तत्र धर्मराजस्य शासनात्॥८.१५५॥
आक्रान्दन्त्यन्तरीक्षस्था आगच्छेह नराधिप ।
विश्वामित्रेण विज्ञप्तो यमो राजंस्तवार्थतः॥८.१५६॥
इत्युक्त्वा सर्पपाशैस्तु नीयते बलवद्विभुः ।
श्राद्धदेवेन कथितं विश्वामित्रस्य चेष्टितम्॥८.१५७॥
तत्रापि तस्य विकृतिर्नाधर्मोत्था व्यवर्धत ।
एताः सर्वा दशास्तस्य याः स्वप्ने सम्प्रदर्शिताः॥८.१५८॥
सर्वास्तास्तेन सम्भुक्ता यावद्वर्षाणि द्वादश ।
अतीते द्वादशे वर्ष नीयमानो भटैर्बलात्॥८.१५९॥
यमं सोऽपश्यदाकारादुवाच च नराधिपम् ।
विश्वामित्रस्य कोपोऽयं दुर्निवार्यो महात्मनः॥८.१६०॥
पुत्रस्य ते मृत्युमपि प्रदास्यति स कौशिकः ।
गच्छ त्वं मानुषं लोकं दुः खशेषञ्च भुङ्क्ष्व वै ।
गतस्य तत्र राजेन्द्र श्रेयस्तव भविष्यति॥८.१६१॥
व्यतीते द्वादशे वर्षे दुः खस्यान्ते नराधिपः ।
अन्तरीक्षाच्च पतितो यमदूतैः प्रणोदितः॥८.१६२॥
पतितो यमलोकाच्च विबुद्धो भयसम्भ्रमात् ।
अहो कष्टमिति ध्यात्वा क्षते क्षारावसेवनम्॥८.१६३॥
स्वप्ने दुः खं महद्दृष्टं यस्यान्तो नोपलभ्यते ।
स्वप्ने दृष्टं मया यत्तु किं नु मे द्वादशाः समाः॥८.१६४॥
गतेत्यपृच्छत् तत्रस्थान् पुक्कसांस्तु स सम्भ्रमात् ।
नेत्युचुः केचित् तत्रस्था एवमेवापरेऽब्रुवन्॥८.१६५॥
श्रुत्वा दुः खी तदा राजा देवान् शरणमीयिवान् ।
स्वस्ति कुर्वन्तु मे देवाः शैव्याया बालकस्य च॥८.१६६॥
नमो धर्माय महते नमः कृष्णाय वेधसे ।
परावराय शुद्धाय पुराणायाव्ययाय च॥८.१६७॥
नमो बृहस्पते तुभ्यं नमस्ते वासवाय च ।
एवमुक्त्वा स राजा तु युक्तः पुक्कसकर्मणि॥८.१६८॥
शवानां मूल्यकरणे पुनर्नष्टस्मृतिर्यथा ।
मलिनो जटिलः कृष्णो लकुटी विह्वलो नृपः॥८.१६९॥
नैव पुत्रो न भार्या तु तस्य वै स्मृतिगोचरे ।
नष्टोत्साहो राज्यनाशात् श्मशाने निवसंस्तदा॥८.१७०॥
अथाजगाम स्वसुतं मृतमादाय लापिनी ।
भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम्॥८.१७१॥
हा वत्स ! हा पुत्र ! शिशो ! इत्येवं वदती मुहुः ।
कृशा विवर्णा विमनाः पांशुध्वस्तशिरोरुहा॥८.१७२॥
राजपत्न्युवाच
हा राजन्नद्य बालं त्वं पश्य सोमं महीतले ।
रममाणं पुरा दृष्टं दुष्टाहिना मृतम्॥८.१७३॥
तस्या विलापशब्दं तमाकर्ण्य स नराधिपः ।
जगाम त्वरितोऽत्रेति भविता मृतकम्बलः॥८.१७४॥
स तां रोरुदतीं भार्यां नाभ्यजानात्तु पार्थिवः ।
चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम्॥८.१७५॥
सापि तं चारुकेशान्तं पुरा दृष्ट्वा जटालकम् ।
नाभ्यजानान्नृपसुता शुष्कवृक्षोपमं नृपम्॥८.१७६॥
सोऽपि कृष्णपटे बालं दृष्ट्वाशीविषपीडितम् ।
नरेन्द्रलक्षणोपेतं चिन्तामाप नरेश्वरः॥८.१७७॥
अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः ।
जातो नीतः कृतान्तेन कामप्याशां दुरात्मना॥८.१७८॥
एवं दृष्ट्वा हि मे बालं मातुरुत्सङ्गशायिनम् ।
स्मृतिमभ्यागतो बालो रोहिताश्वोऽब्जलोचनः॥८.१७९॥
सोऽप्येतामेव मे वत्सो वयोऽवस्थामुपागतः ।
नीतो यदि न घोरेण कृतान्तेनात्मनो वशम्॥८.१८०॥
राजपत्न्युवाच
हा वत्स ! कस्य पापस्य अपध्यानादिदं महत् ।
दुः खमापतितं घोरं यस्यान्तो नोपलभ्यते॥८.१८१॥
हा नाथ ! राजन् ! भवता मामनाश्वास्य दुः खिताम् ।
क्वापि सन्तिष्ठता स्थाने विश्रब्धं स्थीयते कथम्॥८.१८२॥
राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ।
हरिश्चन्द्रस्य राजर्षेः किं विधे ! न कृतं त्वया॥८.१८३॥
इति तस्या वचः श्रुत्वा राजा स्वस्थानतश्च्युतः ।
प्रत्यभिज्ञाय दयितां पुत्रञ्च निधनं गतम्॥८.१८४॥
कष्टं शैव्येयमेषा हि स बालोऽयमितीरयन् ।
रुरोद दुः खसन्तप्तो मूर्च्छामभिजगाम च॥८.१८५॥
सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् ।
मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले॥८.१८६॥
चेतः सम्प्राप्य राजेन्द्रो राजपत्नी च तै समम् ।
विलेपतुः सुसन्तप्तौ शोकभारावपीडितौ॥८.१८७॥
राजोवाच
हा वत्स ! सुकुमारं ते स्वक्षिभ्रूनासिकालकम् ।
पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते॥८.१८८॥
तात ! तातेति मधुरं ब्रुवाणं स्वयमागतम् ।
उपगुह्य वदिष्ये कं वत्स ! वत्सेति सौहृदात्॥८.१८९॥
कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना ।
ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति॥८.१९०॥
अङ्गप्रत्यङ्गसम्भूतो मनोहृदयनन्दनः ।
मया कुपित्रा हा वत्स ! विक्रीतो येन वस्तुवत्॥८.१९१॥
हृत्वा राज्यमशेषं मे ससाधनधनं महत् ।
दैवाहिना नृशंसेन दष्टो मे तनयस्ततः॥८.१९२॥
अहं दैवाहिदष्टस्य पुत्रस्याननपङ्कजम् ।
निरीक्षन्नपि घोरेण विषेणान्धीकृतोऽधुना॥८.१९३॥
एकमुक्त्तवा तमादाय बालकं बाष्पगद्गदः ।
परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह॥८.१९४॥
राजपत्न्युवाच
अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते ।
विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः॥८.१९५॥
तथास्य नासिका तुङ्गा अग्रतोऽधोमुखं गता ।
दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः॥८.१९६॥
श्मशानमागतः कस्मादद्यैष स नरेश्वरः ।
अपहाय पुत्रशोकं सापश्यत् पतितं पतिम्॥८.१९७॥
प्रकृष्टा विस्मिता दीना भर्तृपुत्राधिपीडिता ।
वीक्षन्ती सा ततोऽपश्यद् भर्तृदण्डं जुगुप्सितम्॥८.१९८॥
श्वपाकार्हमतो मोहं जगामायतलोचना ।
प्राप्य चेतश्च शनकैः सगद्गदमभाषत॥८.१९९॥
धिक् त्वां दैवातिकरुणां निर्मर्यादं जुगुप्सितम् ।
येनायममरप्रख्यो नीतो राजा श्वपाकताम्॥८.२००॥
राज्यनाशं सुहृत्त्यागं भार्या-तनयविक्रयम् ।
प्रापयित्वापि नो कुक्तश्चण्डालोऽयं कृतो नृपः॥८.२०१॥
हा राजन् ! जातसन्तापामित्थं मां धरणीतलात् ।
उत्थाप्य नाद्य पर्यङ्कमारोहेति किमुच्यते॥८.२०२॥
नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः ।
चामरं व्यजनञ्चापि कोऽयं विधिविपर्ययः॥८.२०३॥
यस्याग्रे व्रजतः पूर्वं राजानो भृत्यतां गताः ।
स्वोत्तरीयैरकुर्वन्त नीरजस्कं महीतलम्॥८.२०४॥
सोऽयं कपालसंलग्न-घटीघटनिरन्तरे ।
मृतनिर्माल्यसूत्रान्तर्गूग्केशे सुदारुणे॥८.२०५॥
वसानिस्यन्दसंशुष्क-महीपुटकमण्डिते ।
भस्माङ्गारार्धदग्धास्थि-मज्जासङ्घट्टभीषणे॥८.२०६॥
गृध्र-गोमायुनादार्तनष्टक्षुद्रविहङ्गमे ।
चिताधूमाततिरुचा नीलीकृतदिगन्तरे॥८.२०७॥
कुणपास्वादनमुदा सम्प्रहृष्टनिशाचरे ।
चरत्यमेध्ये राजेन्द्रः श्मशाने दुः खपीडितः॥८.२०८॥
एवमुक्त्वा समाश्लिष्य कण्ठं राज्ञो नृपात्मजा ।
कष्टशोकशताधारा विललापार्तया गिरा॥८.२०९॥
राजपत्न्युवाच
राजन् ! स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् ।
तत् कथ्यतां महाभाग मनो वै मुह्यते मम॥८.२१०॥
यद्येतदेवं धर्मज्ञ नास्ति धर्मे सहायता ।
तथैव विप्रदेवादिपूजने पालने भुवः॥८.२११॥
नास्ति धर्मः कुतः सत्यमार्जवं चानृशंसता ।
यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः॥८.२१२॥
इति तस्या वचः श्रुत्वा निश्वस्योष्णं सगद्गदम् ।
कथयामास तन्वङ्ग्या यथा प्राप्ता श्वपाकता॥८.२१३॥
रुदित्वा सापि सुचिरं निश्वस्योष्णञ्च दुः खिता ।
स्वपुत्रमरणं भीरुर्यथावृत्तं न्यवेदयत्॥८.२१४॥
राजोवाच
प्रिये ! न रोचये दीर्घं कालं क्लेशमुपासितुम् ।
नात्मायत्तश्च तन्वङ्गि पश्य मे मन्दभाग्यताम्॥८.२१५॥
चण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि ।
चण्डालदासतां यास्ये पुनरप्यन्यजन्मनि॥८.२१६॥
नरके च तपिष्यामि कोटकः कृमिभोजनः ।
वैतरण्यां महापूय-वसासृक्-स्नायुपिच्छिले॥८.२१७॥
असिपत्रवने प्राप्य छेदं प्राप्स्यामि दारुणम् ।
तापं प्राप्स्यामि वा प्राप्य महारौरवरौरवौ॥८.२१८॥
मग्नस्य दुः खजलधौ पारः प्राणवियोजनम् ।
एकोऽपि बालको योऽयमासीद्वंशकरः सुतः॥८.२१९॥
मम दैवाम्बुवेगेन मग्नः सोऽपि बलीयसा ।
कथं प्राणान् विमुञ्चामि परायत्तोऽस्मि दुर्गतः॥८.२२०॥
अथवा नार्तिना क्लिष्टो नरः पापमवेक्षते ।
तिर्यक्त्वे नास्ति तद्दुः शं नासिपत्रवने तथा॥८.२२१॥
वैतरण्याङ्कुतस्तादृग् यादृशं पुत्रविप्लवे ।
सोऽहं सुतशिरीरेण दीप्यमाने हुताशने॥८.२२२॥
निपतिष्यामि तन्वङ्गि क्षन्तव्यं कुकृतं मम ।
अनुज्ञाता च गच्छ त्वं विप्रवेश्म सुछिस्मिते॥८.२२३॥
मम वाक्यञ्च तन्वङ्गि निबोधादृतमानसा ।
यदि दत्तं यदि हुतं गुरवो यदि तोषिताः॥८.२२४॥
परत्र सङ्गमो भूयात् पुत्रेण सह च त्वया ।
इह लोके कुतस्त्वेतद् भविष्यति ममेङ्गितम्॥८.२२५॥
त्वया सह मम श्रेयो गमनं पुत्रमार्गणे ।
यन्मया हसता किञ्चिद्रहस्ये वा शुचिस्मिते॥८.२२६॥
अश्लीलमुक्तं तत् सर्वं क्षन्तव्यं मम याचतः ।
राजपत्नीति गर्वेण नावज्ञेयः स ते द्विजः ।
सर्वयत्नेन ते तोष्यः स्वामिदैवतवच्छुभे॥८.२२७॥
राजपत्न्युवाच
अहमप्यत्र राजर्षे दीप्यमाने हुताशने ।
दुः खभारासहाद्यैव सह यास्यामि वै त्वया॥८.२२८॥
पक्षिण ऊचुः
ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् ।
भार्यया सहितश्चासौ बद्धाञ्जलिपुटस्तदा॥८.२२९॥
चिन्तयन् परमात्मानमीशं नारायणं हरिम् ।
हृत्कोटरगुहासीनं वासुदेवं सुरेश्वरम् ।
अनादिनिधनं ब्रह्म कृष्णं पीताम्बरं शुभम्॥८.२३०॥
तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः ।
धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः॥८.२३१॥
आगत्य सर्वे प्रोचुस्ते भो भो राजन् ! शृणु प्रभो ।
अयं पितामहः साक्षाद्धर्मश्च भगवान् स्वयम्॥८.२३२॥
साध्याश्च विश्वे मरुतो लोकपालाः सवाहनाः ।
नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ॥८.२३३॥
एते चान्ये च बहवो विश्वामित्रस्तथैव च ।
विश्वत्रयेण यो मित्रं कर्तुं न शकितः पुरा॥८.२३४॥
विश्वामित्रस्तु ते मैत्रीमिष्टञ्चाहर्तुमिच्छति ।
आरुरोह ततः प्राप्तो धर्मः शक्रोऽथ गाधिजः॥८.२३५॥
धर्मि उवाच
मा राजन् ! साहसं कार्षोर्धर्मोऽहं त्वामुपागतः ।
तितिक्षा-दम-सत्याद्यैः स्वगुणैः परितोषितः॥८.२३६॥
इन्द्र उवाच
हरिश्चन्द्र माहभाग ! प्राप्तः शक्रोऽस्मितेऽन्तिकम् ।
त्वया सभार्यपुत्रेण जिता लोकाः सनातनाः॥८.२३७॥
आरोह त्रिदिवं राजन् ! भार्यापुत्रसमन्वितः ।
सुदुष्प्राप्तं नरैरन्यैर्जितमात्मीयकर्मभिः॥८.२३८॥
पक्षिण ऊचुः
ततोऽमृतमयं वर्षमपमृत्युविनाशनम् ।
इन्द्रः प्रासृजदाकाशाच्चितास्थानगतः प्रभुः॥८.२३९॥
पुष्पवर्षञ्च सुमहद्देवदुन्दुभिनिस्वनम् ।
ततस्ततो वर्तमाने समाजे देवसंकुले॥८.२४०॥
समुत्तस्थौ ततः पुत्रो राज्ञस्तस्य महात्मनः ।
सुकुमारतनुः सुस्थः प्रसन्नेन्द्रियमानसः॥८.२४१॥
ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं क्षणात् ।
सभार्यः स श्रिया युक्तो दिव्यमाल्याम्बरान्वितः॥८.२४२॥
सुस्थः सम्पूर्णहृदयो मुदा परमया युतः ।
बभूव तत्क्षणादिन्द्रो भूयश्चैनमभाषत॥८.२४३॥
सभार्यस्त्वं सपुत्रश्च प्राप्स्यसे सद्गतिं पराम् ।
समारोह माहभाग निजानां कर्मणां फलैः॥८.२४४॥
हरिश्चन्द्र उवाच
देवराजाननुज्ञातः स्वामिना श्वपचेन वै ।
अगत्वा निष्कृतिं तस्य नारोक्ष्येऽहं सुरालयम्॥८.२४५॥
धर्म उवाच
तवैनं भाविनं क्लेशमवगम्यात्ममायया ।
आत्मा श्वपाकतां नीतो दर्शितं तच्च चापलम्॥८.२४६॥
इन्द्र उवाच
प्रार्थ्यते यत् परं स्थानं समस्तैर्मनुजैर्भुवि ।
तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम्॥८.२४७॥
हरिश्चन्द्र उवाच
देवाराज ! नमस्तुभ्यं वाक्यञ्चैतन्निबोध मे ।
प्रसादसुमुखं यत् त्वां ब्रवीमि प्रश्रयान्वितः॥८.२४८॥
मच्छोकमग्नमनसः कोशलानगरे जनाः ।
तिष्ठन्ति तानपोह्याद्य कथं यास्याम्यहं दिवम्॥८.२४९॥
ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा ।
तुल्यमेभिर्महापापं भक्तत्यागेऽप्युदाहृतम्॥८.२५०॥
भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः सुखम् ।
नेह नामुत्र पश्यामि तस्माच्छक्र ! दिवं व्रज॥८.२५१॥
यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर ।
ततोऽहमपि यास्यामि नरकं वापि तैः सह॥८.२५२॥
इन्द्र उवाच
बहूनि पुण्यपापानि तेषां भिन्नानि वै पृथक् ।
कथं सङ्घातभोग्यं त्वं भूयः स्वर्गमवाप्स्यसि॥८.२५३॥
हरिश्चन्द्र उवाच
शक्र भुङ्क्ते नृपो राज्यं प्रभावेण कुटुम्बिनाम् ।
यजते च महायज्ञैः कर्म पौर्तं करोति च॥८.२५४॥
तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् ।
उपकर्तॄन् न सन्त्यक्ष्ये तानहं स्वर्गलिप्सया॥८.२५५॥
तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम् ।
दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः॥८.२५६॥
बहुकालोपभोग्यं हि फलं यन्मम कर्मणः ।
तदस्तु दिनमप्येकं तैः समं त्वत्प्रसादतः॥८.२५७॥
पक्षिण ऊचुः
एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ।
प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः॥८.२५८॥
विमानकोटिसम्बद्धं स्वर्गलोकान्महीतलम् ।
गत्वायोध्याजनं प्राह दिवमारुह्यतामिति॥८.२५९॥
तदिन्द्रस्य वचः श्रुत्वा प्रीत्या तस्य च भूपतेः ।
आनीय रोहिताश्चञ्च विश्वामित्रो महातपाः॥८.२६०॥
अयोध्याख्ये पुरे रम्ये सोऽभ्यसिञ्चन्नृपात्मजम् ।
देवैश्च मुनिभिः सिद्धैरभिषिच्य नराधिपम्॥८.२६१॥
राज्ञा सह तदा सर्वे हृष्टपुष्टसुहृज्जनाः ।
सपुत्रभृत्यदारास्ते दिवमारुरुहुर्जनाः॥८.२६२॥
पदे पदे विमानात् ते विमानमगमन् नराः ।
तदा सम्भूतहर्षोऽसौ हरिश्चन्द्रश्च पार्थिवः॥८.२६३॥
सम्प्राप्य भूतिमतुलां विमानैः स महीपतिः ।
आसाञ्चक्रे पुराकारे वप्रप्राकारसंवृते॥८.२६४॥
ततस्तस्यर्धिमालोक्य श्लोकं तत्रोशना जगौ ।
दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित्॥८.२६५॥
शुक्र उवाच
हरिश्चन्द्रसमो राजा न भूतो न भविष्यति ।
यः शृणोति स्वदुः खार्तः स सुखं महदाप्नुयात्॥८.२६६॥
स्वर्गार्थोप्राप्नुयात् स्वर्गं पुत्रार्थो पुत्रमाप्नुयात् ।
भार्यार्थो प्राप्नुयाद्भार्यां राज्यार्थो राज्यमाप्नुयात्॥८.२६७॥
अहो तितिक्षामाहात्म्यमहो दानफलं महत् ।
यदागतो हरिश्चन्द्रः पुरीञ्चेन्द्रत्वमाप्तवान्॥८.२६८॥
पक्षिण ऊचुः
एतत् ते सर्वमाख्यातं हरिश्चन्द्रविचेष्टितम् ।
अतः परं कथाशेषः श्रूयतां मुनिसत्तम॥८.२६९॥
विपाको राजसूयस्य पृथिवीक्षयकारणम् ।
तद्विपाकनिमित्तञ्च युद्धमाडिबकं महत्॥८.२७०॥
इति श्रीमार्कण्डेयपुराणे हरिश्चन्द्रोपाख्यानं नामाष्टमोऽध्यायः
नवमोऽध्यायः
पक्षिण ऊचुः
राज्यच्युते हरिश्चन्द्रे गते च त्रिदशालयम् ।
निश्चक्राम महातेजा जलवासात् पुरोहितः॥९.१॥
वशिष्ठो द्वादशाब्दान्ते गङ्गापर्युषितो मुनिः ।
शुश्राव च समस्तन्तु विश्वामित्रविचेष्चितम्॥९.२॥
हरिश्चन्द्रस्य नाशञ्च राज्ञश्चोदारकर्मणः ।
चण्डालसम्प्रयोगञ्च भार्यातनयविक्रयम्॥९.३॥
स श्रुत्वा सुमाहभागः प्रीतिमानवनीपतौ ।
चकार कोपं तेजस्वी विश्वामित्रमृषिं प्रति॥९.४॥
वशिष्ठ उवाच
मम पुत्रशतं तेन विश्वामित्रेण घातितम् ।
तत्रापि नाभवत् क्रोधस्तादृशो यादृशोऽद्य मे॥९.५॥
श्रुत्वा नराधिपमिमं स्वराज्यादवरीपितम् ।
महात्मानं महाभागं देवब्राह्मणपूजकम्॥९.६॥
यस्मात् स सत्यवाक् शान्तः शत्रावपि विमत्सरः ।
अनागाश्चैव धर्मात्मा अप्रमत्तो मदाश्रयः॥९.७॥
सपत्नीभृत्यपुत्रस्तु प्रापितोऽन्त्यां दशां नृपः ।
स राज्याच्च्यावितोऽनेन बहुशश्च खिलीकृतः॥९.८॥
तस्माद् दुरात्मा ब्रह्मद्विट् प्राज्ञानामवरोपितः ।
मच्छापोपहतो मूढः स बकत्वमवाप्स्यति॥९.९॥
पक्षिण ऊचुः
श्रुत्वा शापं महातेजा विश्वामित्रोऽपि कौशिकः ।
त्वमप्याडिर्भवस्तेवति प्रतिशापमयच्छत॥९.१०॥
अन्योऽन्यशापात् तौ प्राप्तौ तिर्यक्त्वं परमद्युती ।
वशिष्ठः स महातेजा विश्वामित्रश्च कौशिकः॥९.११॥
अन्यजातिसमायोगं गतावप्यमितौजसौ ।
युयुधातेऽतिसंरब्धौ महाबलपराक्रमौ॥९.१२॥
योजनानां सहस्रे द्वे प्रमाणेनाडिरुच्छ्रितः ।
यन्नवत्यधिकं ब्रह्मन् ! सहस्रत्रितयं बकः॥९.१३॥
तौ तु पक्षप्रहाराभ्यामन्योन्यस्योरुविक्रमौ ।
प्रहरन्तौ भयं तीव्रं प्रजानाञ्चक्रतुस्तदा॥९.१४॥
विधूय पक्षाणि बको रक्तोद्वृत्ताक्षिराहनत् ।
आडिं सोऽप्युन्नतग्रीवो बकं पद्भ्यामताडयत्॥९.१५॥
तयोः पक्षानिलापास्ताः प्रपेतुर्गिरयो भुवि ।
गिरिप्रपाताभिहता चकम्पे च वसुन्धरा॥९.१६॥
क्ष्मा कम्पमाना जलधीनुद्वृत्ताम्बूंश्चकार च ।
ननाम चैकपार्श्वेन पातालगमनोन्मुखी॥९.१७॥
केचिदिगरिनिपातेन केचिदम्भोधिवारिणा ।
केचिन्महीसञ्चलनात् प्रययुः प्राणिनः क्षयम्॥९.१८॥
इति सर्वं परित्रस्तं हाहाभूतमचेतनम् ।
जगदासीत् सुसम्भ्रान्तं पर्यस्तक्षितिमण्डलम्॥९.१९॥
हा वत्स ! हा कान्त ! शिशो ! प्रयाह्येषोऽस्मि संस्थितः ।
हा प्रिये ! कान्त ! शैलोऽयं पतत्याशु पलायताम्॥९.२०॥
इत्याकुलीकृते लोके संत्रासविमुखे तदा ।
सुरैः परिवृतः सर्वैराजगाम पितामहः॥९.२१॥
प्रत्युवाच च विश्वेशास्तावुभावतिकोपितौ ।
युद्धं वा विरमत्वेतल्लोकाः स्वास्थ्यं व्रजन्तु च॥९.२२॥
शृण्वन्तावपि तौ वाक्यं ब्रह्मणोऽव्यक्तजन्मनः ।
कोपामर्षसमाविष्टो युयुधाते न तस्थतुः॥९.२३॥
ततः पितामहो देवस्तं दृष्ट्वा लोकसंक्षयम् ।
तयोश्च हितमन्विच्छन् तिर्यग्भावमपानुदत्॥९.२४॥
ततस्तौ पूर्वदेहस्थौ प्राह देवः प्रजापतिः ।
व्युदस्ते तामसे भावे वशिष्ठ०-कौशिकर्षभौ॥९.२५॥
जहि वत्स वशिष्ठ त्वं त्वञ्च कौशिक सत्तम ।
तामसं भावमाश्रित्य ईदृग्युद्धं चिकीर्षितम्॥९.२६॥
राजसूयविपाकोऽयं हरिश्चन्द्रस्य भूपतेः ।
युवयोर्विग्रहश्चायं पृथिवीक्षयकारकः॥९.२७॥
न चापि कौशिकश्रेष्ठस्तस्य राज्ञोऽपरध्यते ।
स्वर्गप्राप्तिकरो ब्रह्मन्नपकारपदे स्थितः॥९.२८॥
तपो विघ्नस्य कर्तारौ कामक्रोधवशं गतौ ।
परित्यजत भद्रं वो ब्रह्म हि प्रचुरं बलम्॥९.२९॥
एवमुक्तौ ततस्तेन लज्जितौ तावुभावपि ।
क्षमयामासतुः प्रीत्या परिष्वज्य परस्परम्॥९.३०॥
ततः सुरैर्वन्द्यमानो ब्रह्मा लोकं निजं ययौ ।
वशिष्ठोऽप्यात्मनः स्थानं कौशिकोऽपि स्वामाश्रयम्॥९.३१॥
एतदाडिबकं युद्धं हरिश्चन्द्रकथां तथा ।
कथयिष्यन्ति ये मर्त्याः सम्यक् श्रोष्यन्ति चैव ये॥९.३२॥
तेषां पापापनोदन्तु श्रुतं ह्येव करिष्यति ।
न चैव विघ्नकार्याणि भविष्यन्ति कदाचन॥९.३३॥
इति श्रीमार्कण्डेयपुराणे आडि-बकयुद्धवर्णनं नाम नवमोऽध्यायः
दशमोऽध्यायः
जैमिनिरुवाच
संशयं द्विजशार्दूलाः प्रब्रूत मम पृच्छतः ।
आविर्भाव-तिरोभावौ भूतानां यत्र संस्थितौ॥१०.१॥
कथं सञ्जायते जन्तुः कथं वा सविवर्धते ।
कथं वोदरमध्यस्थस्तिष्ठत्यङ्गनिपीडितः॥१०.२॥
निष्क्रान्तिमुदरात् प्राप्य कथं वा वृद्धिमृच्छति ।
उत्क्रान्तिकाले च कथञ्चिद्भावेन वियुज्यते॥१०.३॥
कृत्स्नो मृतस्तथाश्नाति उभे सुकृत-दुष्कृते ।
कथं ते च तथा तस्य फलं सम्पादयन्त्युत॥१०.४॥
कथं न जीर्यते तत्र पिण्डीकृत इवाशये ।
स्त्रीकोष्ठे यत्र जीर्यन्ते भुक्तानि सुगुरूण्यपि ।
भक्ष्याणि यत्र नो जन्तुर्जोर्यते कथमल्पकः॥१०.५॥
एतन्मे ब्रूत सकलं सन्देहोक्तिविवर्जितम् ।
तदेतत् परम गुह्यं यत्र मुह्यन्ति जन्तवः॥१०.६॥
पक्षिण ऊचुः
प्रश्नभारोऽयमतुलस्त्वयास्मासु निवेशितः ।
दुर्भाव्यः सर्वभूतानां भावाभावसमाश्रितः॥१०.७॥
तं शृणुष्व महाभाग यथा प्राह पितुः पुरा ।
पुत्रः परमधर्मात्मा सुमतिर्नाम नामतः॥१०.८॥
ब्राह्मणो भार्गवः कश्चित् सुतमाह महामतिः ।
कृतोपनयनं शान्तं सुमतिं जडरूपिणम्॥१०.९॥
वेदानधीष्व सुमते ! यथानुक्रममादितः ।
गुरुशुश्रूषणे व्यग्रो भैक्षान्नकृतभोजनः॥१०.१०॥
ततो गार्हस्थ्यमास्थाय चेष्ट्वा यज्ञाननुत्तमान् ।
इष्टमुत्पादयापत्यमाश्रयेथा वनं ततः॥१०.११॥
वनस्थश्च ततो वत्स परिव्राड् निष्परिग्रहः ।
एवमाप्स्यसि तद्ब्रह्म यत्र गत्वा न शोचसि॥१०.१२॥
पक्षिण ऊचुः
इत्येवमुक्तो बहुशो जडत्वान्नाह किञ्चन ।
पितापि तं सुबहुशः प्राह प्रीत्या पुनः पुनः॥१०.१३॥
इति पित्रा सुतस्नेहात् प्रलोभि मधुराक्षरम् ।
स चोद्यमानो बहुशः प्रहस्येदमथाब्रवीत्॥१०.१४॥
तातैतद्बहुशोऽभ्यस्तं यत् त्वयाद्योपदिश्यते ।
तथैवान्यानि शास्त्राणि शिल्पानि विविधानि च॥१०.१५॥
जन्मनामयुतं साग्रं मम स्मृतिपथं गतम् ।
निर्वेदाः परितोषाश्च क्षयवृद्ध्युदये गताः॥१०.१६॥
शत्रुमित्रकलत्राणां वियोगाः सङ्गमास्तथा ।
मातरो विवधा दृष्टाः पितरो विवधास्तथा॥१०.१७॥
अनुभूतानि सौख्यनि दुः खानि च सहस्रशः ।
बान्धवा बहवः प्राप्ताः पितरश्च पृथग्विधाः॥१०.१८॥
विण्मूत्रपिच्छिले स्त्रीणां तथा कोष्ठे मयोषितम् ।
पीडाश्च सुभृशं प्राप्ता रोगाणाञ्च सहस्रशः॥१०.१९॥
गर्भदुः खान्यनेकानि बालत्वे यौवने तथा ।
वृद्धतायां तथाप्तानि तानि सर्वाणि संस्मरे॥१०.२०॥
ब्राह्मण-क्षत्रिय-विशां शूद्राणाञ्चापि योनिषु ।
पुनश्च पुशुकीटानां मृगाणामथ पक्षिणाम्॥१०.२१॥
तथैव राजभृत्यानां राज्ञाञ्चाहवशालिनाम् ।
समुत्पन्नोऽस्मि गेहेषु तथैव तव वेश्मनि॥१०.२२॥
भृत्यतां दासताञ्चैव गतोऽस्मि बहुशो नृणाम् ।
स्वामित्वमीश्वरत्वं च दरिद्रत्वं तथा गतः॥१०.२३॥
हतं मया हतश्चान्यैर्हतं मे घातितं तथा ।
दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशाः॥१०.२४॥
पितृ-मातृ-सुहृद्-भ्रातृ-कलत्रादिकृतेन च ।
तुष्टोऽसकृत् तथा दैन्यमश्रुधौताननो गतः॥१०.२५॥
एवं संसारचक्रेऽस्मिन् भ्रमता तात सङ्कटे ।
ज्ञानमेतन्मया प्राप्तं मोक्षसम्प्राप्तिकारकम्॥१०.२६॥
विज्ञाते यत्र सर्वोऽयमृग्यजुः सामसंज्ञितः ।
क्रियाकलापो विगुणो न सम्यक् प्रतिभाति मे॥१०.२७॥
तस्मादुत्पन्नबोधस्य वेदैः किं मे प्रयोजनम् ।
गुरुविज्ञानतृप्तस्य निरीहस्य सदात्मनः॥१०.२८॥
षट् प्रकारक्रिया-दुःख-सुख-हर्ष-रसैश्च यत् ।
गुणैश्च वर्जितं ब्रह्म तत् प्राप्स्यामि परं पदम्॥१०.२९॥
रस-हर्ष-भयोद्वेग-क्रोधामर्ष-जरातुराम् ।
विज्ञातां स्वमृगग्राहिसंघपाशशताकुलम्॥१०.३०॥
तस्माद्यास्याम्यहं तात त्यक्त्वेमां दुः खसन्ततिम् ।
त्रयीधर्ममधर्माढ्यं किं पापफलसन्निभम्॥१०.३१॥
पक्षिण ऊचुः
तस्य तद्वचनं श्रुत्वा हर्षविस्मयगद्गदम् ।
पिता प्राह महाभागः स्वसुतं हृष्टमानसः॥१०.३२॥
पितोवाच
किमेतद्वदसे वत्स कुतस्ते ज्ञानसम्भवः ।
केन ते जडता पूर्वमिदानीञ्च प्रबुद्धता॥१०.३३॥
किन्नु शापविकारोऽयं मुनिदेवकृतस्तव ।
यत्ते ज्ञानं तिरोभूतमाविर्भावमुपागतम्॥१०.३४॥
पुत्र उवाच
शृणु तात ! यथा वृत्तं ममेदं सुख-दुःखदम् ।
यश्चाहमासमन्यस्मिन् जन्मन्यस्मत्परन्तु यत्॥१०.३५॥
अहमासं पुरा विप्रो न्यस्तात्मा परमात्मनि ।
आत्मविद्याविचारेषु परां निष्ठामुपागतः॥१०.३६॥
सततं योगयुक्तस्य सतताभ्याससङ्गमात् ।
सत्संयोगात् स्वस्वभावाद्विचारविधिशोधनात्॥१०.३७॥
तस्मिन्नवे परा प्रीतिर्ममासीद् युञ्जतः सदा ।
आचार्यताञ्च सम्प्राप्तः शिष्यसन्देहहृत्तमः॥१०.३८॥
ततः कालेन महता ऐकान्तिकमुपगतः ।
अज्ञानाकृष्टसद्भावो विपन्नश्च प्रमादतः॥१०.३९॥
उत्क्रान्तिकालादारभ्य स्मृतिलोपो न मेऽभवत् ।
यावदब्दं गतं चैव जन्मनां स्मृतिमागतम्॥१०.४०॥
पूर्वाभ्यासेन तेनैव सोऽहं तात ! जितेन्द्रियः ।
यतिष्यामि तथा कर्तुं न भविष्ये यथा पुनः॥१०.४१॥
ज्ञानदानफलं ह्येतद्यज्जातिस्मरणं मम ।
न ह्येतत् प्राप्यते तात त्रयीधर्माश्रितैर्नरैः॥१०.४२॥
सोऽहं पूर्वाश्रमादेव निष्ठाधर्ममुपाश्रितः ।
एकान्तित्वमुपागम्य यतिष्याम्यात्ममोक्षणे॥१०.४३॥
तद्ब्रूहि त्वं महाभाग ! यत् ते संशयिकं हृदि ।
एतावतापि ते प्रीतिमुत्पाद्यानृण्यमाप्नुयाम्॥१०.४४॥
पक्षिण ऊचुः
पिता प्राह ततः पुत्रं श्रद्दधत् तस्य तद्वचः ।
भवता यद्वयं पृष्टाः संसारग्रहणाश्रयम्॥१०.४५॥
पुत्र उवाच
शृणु तात ! यथा तत्त्वमनुभूतं मयासकृत् ।
संसारचक्रमजरं स्थितिर्यस्य न विद्यते॥१०.४६॥
सोऽहं वदामि ते सर्वं तवैवानुज्ञया पितः ।
उत्क्रान्तिकालादारभ्य यथा नान्यो वदिष्यति॥१०.४७॥
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
भिनत्ति मर्मस्थानानि दीप्यमानो निरिन्धनः॥१०.४८॥
उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते ।
भुक्तानामम्बुभक्ष्याणामधोगतिनिरोधकृत्॥१०.४९॥
ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा ।
दत्ताः स तस्य आह्लादमापदि प्रतिपद्यते॥१०.५०॥
अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा ।
सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा॥१०.५१॥
येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च ।
आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति॥१०.५२॥
देवब्राह्मणपूजायां ये रता नानसूयवः ।
शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः॥१०.५३॥
यो न कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ।
यथोक्तकारी सोम्यश्च स सुखं मृत्युमृच्छति॥१०.५४॥
अवारिदायिनो दाहं क्षुधाञ्चानन्नदायिनः ।
प्राप्नुवन्ति नराः काले तस्मिन् मृत्यावुपस्थिते॥१०.५५॥
शीतं जयन्तीन्धनदास्तापं चन्दनदायिनः ।
प्राणघ्नीं वेदनां कष्टां ये चानुद्वेगकारिणः॥१०.५६॥
मोहाज्ञानप्रदातारः प्राप्नुवन्ति महद्भयम् ।
वेदनाभिरुदग्राभिः प्रपीड्यन्तेऽधमा नराः॥१०.५७॥
कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै ।
ते मोहमृत्यवः सर्वे तथा वेदविनिन्दकाः॥१०.५८॥
विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ।
आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तदा॥१०.५९॥
प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ।
क्रान्दत्यविरतं सोऽथ भ्रातृ-मातृसुतानथ॥१०.६०॥
सास्य वागस्फुटा तात एकवर्णा विभाव्यते ।
दृष्टिश्च भ्राम्यते त्रासाच्छ्वासाच्छुष्यत्यथाननम्॥१०.६१॥
ऊर्ध्वश्वासान्वितः सोऽथ दृष्टिभङ्गसमन्वितः ।
ततः स वेदनाविष्टस्तच्छरीरं विमुञ्चति॥१०.६२॥
वाय्वग्रसारी तद्रूपं देहमन्यत् प्रपद्यते ।
तत्कर्मजं यातनार्थं न मातृ-पितृसम्भवम् ।
तत्प्रमाणवयोऽवस्था-संस्थानैः प्राग्भवं यथा॥१०.६३॥
ततो दूतो यमस्याशु पाशैर्बध्नाति दारुणैः ।
दण्डप्रहारसम्भ्रान्तं कर्षते दक्षिणां दिशम्॥१०.६४॥
कुश-कण्टक-वलमीक-शङ्कु-पाषाणकर्कशे ।
तथा प्रदीप्तज्वलने क्वचिच्छृभ्रशतोत्कटे॥१०.६५॥
प्रदीप्तादित्यतप्ते च दह्यमाने तदंशुभिः ।
कृष्यते यमदूतैश्चाशिवसन्नादभीषणैः॥१०.६६॥
विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः ।
प्रयाति दारुणे मार्गे पापकर्मा यमक्षयम्॥१०.६७॥
छत्रोपानत्प्रदातारो ये च वस्त्रप्रदा नराः ।
ये यान्ति मनुजा मार्गं तं सुखेन तथान्नदाः॥१०.६८॥
एवं क्लेशाननुभवन्नवशः पापपीडितः ।
नीयते द्वादशाहेन धर्मराजपुरं नरः॥१०.६९॥
कलेवरे दह्यमाने महान्तं दाहमृच्छति ।
ताड्यमाने तथैवार्ति छिद्यमाने च दारुणाम्॥१०.७०॥
क्लिद्यमाने चिरतरं जन्तुर्दुःखमवाप्नुते ।
स्वेन कर्मविपाकेन देहान्तरगतोऽपि सन्॥१०.७१॥
तत्र यद्वान्धवास्तोयं प्रयच्छन्ति तिलैः सह ।
यच्च पिण्डं प्रयच्छन्ति नीयमानस्तदश्नुते॥१०.७२॥
तैलाभ्यङ्गो बान्धवानामङ्गसंवाहनञ्च यत् ।
तेन चाप्याय्यते जन्तुर्यच्चाश्नन्ति सबान्धवाः॥१०.७३॥
भूमौ स्वपद्भिर्नात्यन्तं क्लेशमाप्नोति बान्धवैः ।
दानं ददद्भिश्च तथा जन्तुराप्याय्यते मृतः॥१०.७४॥
नीयमानः स्वकं गेहं द्वादशाहं स पश्यति ।
उपभुङ्क्ते तथा दत्तं तोयपिण्डादिकं भुवि॥१०.७५॥
द्वादशाहात् परं घोरमायसं भीषणाकृतिम् ।
याम्यं पश्यत्यथो जन्तुः कृष्यमाणः पुरं ततः॥१०.७६॥
गतमात्रोऽतिरक्ताक्षं भिन्नाञ्जनचयप्रभम् ।
मृत्युकालान्तकादीनां मध्ये पश्यति वै यमम्॥१०.७७॥
दंष्ट्राकरालवदनं भ्रकुटीदारुणाकृतिम् ।
विरूपैर्भोषणैर्वक्त्रैर्वृतं व्याधिशतैः प्रभुम्॥१०.७८॥
दण्डासक्तं महाबाहुं पाशहस्तं सुभैरवम् ।
तन्निर्दिष्टां ततो याति गतिं जन्तुः शुभाशुभाम्॥१०.७९॥
रौरवे कूटसाक्षी तु याति यश्चानृतो नरः ।
तस्य स्वरूपं गदतो रौरवस्य निशामय॥१०.८०॥
योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः ।
जानुमात्रप्रमाणश्च ततः श्वभ्रः सुदुस्तरः॥१०.८१॥
तत्राङ्गारचयोपेतं कृतञ्च धरणीसमम् ।
जाज्वल्यमानस्तीव्रेण तापिताङ्गारभूमिना॥१०.८२॥
तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुगाः ।
स दह्यमानस्तीव्रेण वह्निना तत्र धावति॥१०.८३॥
पदे पदे च पादोऽस्य शीर्यते जीर्यते पुनः ।
अहोरात्रेणोद्धरणं पादन्यासं च गच्छति॥१०.८४॥
एवं सहस्रमुत्तीर्णो योजनानां विमुच्यते ।
ततोऽन्यं पापशुद्ध्यर्थं तादृङ्निरयमृच्छति॥१०.८५॥
ततः सर्वेषु निस्तीर्णः पापी तिर्यकत्वमश्नुते ।
कृमि-कीट-पतङ्गेषु श्वापदे मशकादिषु॥१०.८६॥
गत्वा गजद्रुमाद्येषु गोष्वश्वेषु तथैव च ।
अन्यासु चैव पापासु दुः खदासु च योनिषु॥१०.८७॥
मानुषं प्राप्य कुब्जो वा कुत्सितो वामनोऽपि वा ।
चण्डालपुक्कसाद्यासु नरो योनिषु जायते॥१०.८८॥
अवशिष्टेन पापेन पुण्येन च समन्वितः ।
ततश्चारोहणीं जातिं शूद्र-वैश्य-नृपादिकाम्॥१०.८९॥
विप्रदेवेन्द्रतां चापि कदाचिदवरोहणीम् ।
एवन्तु पापकर्माणे नरकेषु पतन्त्यधः॥१०.९०॥
यथा पुण्यकृतो यान्ति तन्मे निगतदः शृणु ।
ते यमेन विनिर्दिष्टां यान्ति पुण्यां गतिं नराः॥१०.९१॥
प्रगीतगन्धर्वगणाः प्रवृत्ताप्सरसाङ्गणाः ।
हारनूपुरमादुर्य-शोभितान्युत्तमानि च॥१०.९२॥
प्रयान्त्याशु विमानानि नानादिव्यस्त्रगुज्ज्वलाः ।
तस्माच्च प्रच्युता राज्ञामन्येषां च महात्मनाम्॥१०.९३॥
जायन्ते च कुले तत्र सद्वृत्तपरिपालकाः ।
भोगान् सम्प्राप्नुवन्त्युग्रांस्ततो यान्त्यूर्ध्वमन्यथा॥१०.९४॥
अवरोहणीं च सम्प्राप्य पूर्ववद्यान्ति मानवाः ।
एतत् ते सर्वमाख्यातं यथा जन्तुर्विपद्यते ।
अतः शृणुष्व विप्रर्षे यथा गर्भं प्रपद्यते॥१०.९५॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम दशमोऽध्यायः
सञ्चरणावलिः
<b><a ="/ /%E0%A4% %E0%A4% %E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4% %E0%A4% %E0%A5%81%E0%A4%B0%E0%A4% %E0%A4%A3%E0%A4% %E0%A5%8D" ="मार्कण्डेयपुराणम्">मार्कण्डेयपुराणम्</a></b>
एकादशोऽध्यायः
निषेकं मानवं स्त्रीणां बीजं प्राप्तं रजस्यथ ।
विमुक्तमात्रो नरकात् स्वर्गाद्वापि प्रपद्यते॥११.१॥
तेनाभिभूतं तत् स्थैर्यं याति बीजद्वयं पितः ।
कललत्वं बुद्बुदत्वं ततः पेषित्वमेव च॥११.२॥
पेष्यां यथाणुबीजं स्यादह्कुरस्तद्वदुच्यते ।
अङ्गानां च तथोत्पत्तिः पञ्चानामनुभागशः॥११.३॥
उपाङ्गान्यङ्गुली-नेत्र-नासास्य-श्रवणानि च ।
प्ररोहं यान्ति चाङ्गेभ्यस्तद्वत् तेभ्यो नखादिकम्॥११.४॥
त्वचि रोमाणि जायन्ते केशाश्चैव ततः परम् ।
समं समृद्धिमायाति तेनैवोद्भवकोषकम्॥११.५॥
नारिकेलफलं यद्वत् सकोषं वृद्धिमृच्छति ।
तद्वत् प्रयात्यसौ वृद्धिं सकोषोऽधोमुखः स्थितः॥११.६॥
तले तु जानु-पार्श्वाभ्यां करौ न्यस्य स वर्धते ।
अङ्गुष्ठो चोपरि न्यस्तौ जान्वोरग्रे तथाङ्गुली॥११.७॥
जानुपृष्ठे तथा नेत्रे जानुमध्ये च नासिका ।
स्फिचौ पार्ष्णिद्वयस्थे च बाहुजङ्घे बहिः स्थिते॥११.८॥
एवं वृद्धिं क्रमाद्याति जन्तुः स्त्रीगर्भसंस्थितः ।
अन्यसत्त्वोदरे जन्तोर्यथा रूपं तथा स्थितिः॥११.९॥
काठिन्यमग्निना याति भुक्तपीतेन जीवति ।
पुण्यापुण्याश्रयमयी स्थितिर्जन्तोस्तथोदरे॥११.१०॥
नाडी चाप्यायनी नाम नाभ्यां तस्य निबध्यते ।
स्त्रीणां तथान्त्रसुषिरे सा निबद्धोपजायते॥११.११॥
क्रामन्ति भुक्तपीतानि स्त्रीणां गर्भोदरे यथा ।
तैराप्यायितदेहोऽसौ जन्तुर्वृद्धिमुपैति वै॥११.१२॥
स्मृतीस्तस्य प्रयान्त्यस्य बह्व्यः संसारभूमयः ।
ततो निर्वेदमायाति पीड्यमान इतस्ततः॥११.१३॥
पुनर्नैवं करिष्यामि मुक्तमात्र इहोदरात् ।
तथा तथा यतिष्यामि गर्भं नाप्स्याम्यहं यथा॥११.१४॥
इति चिन्तयते स्मृत्वा जन्मदुः खशतानि वै ।
यानि पूर्वानुभूतानि दैवभूतानि यानि वै॥११.१५॥
ततः कालक्रमाज्जन्तुः परिवर्तत्यधोमुखः ।
नवमे दशमे वापि मासि सज्जयते यतः॥११.१६॥
निष्क्रम्यमाणो वातेन प्राजापत्येन पीड्यते ।
निष्क्राम्यते च विलपन् हृदि दुः खनिपीडितः॥११.१७॥
निष्क्रान्तश्चोदरान्मूर्च्छामसह्यां प्रतिपद्यते ।
प्राप्नोति चेतनां चासौ वायुस्पर्शसमन्वितः॥११.१८॥
ततस्तं वैष्णवी माया समास्कन्दति मोहिनी ।
तया विमोहितात्मासौ ज्ञानभ्रंशमवाप्नुते॥११.१९॥
भ्रष्टज्ञानो बालभावं ततो जन्तुः प्रपद्यते ।
ततः कौमारकावस्थां यौवनं वृद्धतामपि॥११.२०॥
पुनश्च मरणं तद्वज्जन्म चाप्नोति मानवः ।
ततः संसारचक्रेऽस्मिन् भ्राम्यते घटियन्त्रवत्॥११.२१॥
कदाचित् स्वर्गमाप्नोति कदाचिन्निरयं नरः ।
नरकं चैव स्वर्गं च कदाचिच्च मृतोऽश्नुते॥११.२२॥
कदाचिदत्रैव पुनर्जातः स्वं कर्म सोऽश्नुते ।
कदाचिद्भुक्तकर्मा च मृतः स्वल्पेन गच्छति॥११.२३॥
कदाचिदल्पैश्च ततो जायतेऽत्र शुभाशुभैः ।
स्वर्लोके नरके चैव भुक्तप्रायो द्विजोत्तम॥११.२४॥
नरकेषु महद्दुः खमेतद् यत् स्वर्गवासिनः ।
दृश्यन्ते तात मोदन्ते पात्यमानाश्च नारकाः॥११.२५॥
स्वर्गेऽपि दुः खमतुलं यदारोहणकालतः ।
प्रभृत्यहं पतिष्यामीत्येतन्मनसि वर्तते॥११.२६॥
नारकांश्चैव संप्रेक्ष्य महद्दुः खमवाप्यते ।
एतां गतिमहं गन्तेत्यहर्निशमनिर्वृतः॥११.२७॥
गर्भवासे महद्दुः खं जायमानस्य योनितः ।
जातस्य बलाभावे च वृद्धत्वे दुः खमेव च॥११.२८॥
कामेर्ष्या-क्रोधसम्बन्धं यौवने चातिदुः सहम् ।
दुः खप्राया वृद्धता च मरणे दुः खमुत्तमम्॥११.२९॥
कृष्णमाणस्य याम्यैश्च नरकेषु च पात्यतः ।
पुनश्च गर्भो जन्माथ मरणं नरकस्तथा॥११.३०॥
एवं संसारचक्रेऽस्मिन् जन्तवो घटियन्त्रवत् ।
भ्राम्यन्ते प्राकृतैर्बन्धैर्बद्ध्वा बाध्यन्ति चासकृत्॥११.३१॥
नास्ति तात ! सुखं किञ्चिदत्र दुः खशताकुले ।
तस्मान्मोक्षाय यतता कथं सेव्या मया त्रयी॥११.३२॥
इति श्रीमार्कण्डेयपुराणेठपित्रापुत्रसंवादोऽ नाम एकादशोऽध्यायः
द्वादशोऽध्यायः
साधु वत्स ! त्वयाख्यातं संसारगहनं परम् ।
ज्ञानप्रदानसम्भूतं समाश्रित्य महाफलम्॥१२.१॥
तत्र ते नरकाः सर्वे यथा वै रौरवस्तथा ।
वर्णितास्तान् समाचक्ष्व विस्तरेण महामते॥१२.२॥
रौरवस्ते समाख्यातः प्रथमं नरको मया ।
महारौरवसंज्ञं तु शृणुष्व नरकं पितः॥१२.३॥
योजनानां सहस्राणि सप्त पञ्च समन्ततः ।
तत्र ताम्रमयी भूमिरधस्तस्य हुताशनः॥१२.४॥
तत्तापतप्ता सर्वाशा प्रोद्यदिन्दुसमप्रभा ।
विभात्यतिमहारौद्रा दर्शनस्पर्शनादिषु॥१२.५॥
तस्यां बद्धः कराभ्याञ्च पद्भ्याञ्चैव यमानुगैः ।
मुच्यते पापकृन्मध्ये लुठमानः स गच्छति॥१२.६॥
काकैर्वकैर्वृकोलूकैर्वृश्चिकैर्मशकैस्तथा ।
भक्ष्यमाणस्तथा गृध्रैर्द्रुतं मार्गे विकृष्यते॥१२.७॥
दह्यमानः पितर्मातर्भ्रातस्तातेति चाकुलः ।
वदत्यसकृदुद्विग्नो न शान्तिमधिगच्छति॥१२.८॥
एवं तस्मान्नरैमर्मोक्षो ह्यतिक्रान्तैरवाप्यते ।
वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः॥१२.९॥
तथान्यस्तु तमो नाम सोऽतिशीतः स्वभावतः ।
महारौरववद् दीर्घस्तथा स तमसा वृतः॥१२.१०॥
शीतार्तास्तत्र धावन्तो नरास्तमसि दारुणे ।
परस्परं समासाद्य परिरभ्याश्रयन्ति च॥१२.११॥
दन्तास्तेषाञ्च भज्यन्ते शीतार्तिपरिकम्पिताः ।
क्षुत्तृष्णाप्रबलास्तत्र तथैवान्येऽप्युपद्रवाः॥१२.१२॥
हिमखण्डवहो वायुर्भिनत्त्यस्थीनि दारुणः ।
मज्जासृग्गलितं तस्मादश्नुवन्ति क्षुधान्विताः॥१२.१३॥
लेलिह्यमाना भ्राम्यन्ते परस्परसमागमे ।
एवं तत्रापि सुमहान् क्लेशस्तमसि मानवैः॥१२.१४॥
प्राप्यते ब्राह्मणश्रेष्ठ यावद्दुष्कृतसंक्षयः ।
निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः॥१२.१५॥
तस्मिन् कुलालचक्राणि भ्राम्यन्त्यविरतं पितः ।
तेष्वारोप्य निकृत्यन्ते कालसूत्रेण मानवाः॥१२.१६॥
यमानुगाङ्गुलिस्थेन आपादतलमस्तकम् ।
न चैषां जीवितभ्रंशो जायते द्विजसत्तम॥१२.१७॥
छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति च ।
एवं वर्षसहस्राणि छिद्यन्ते पापकर्मिणः॥१२.१८॥
तावद् यावदशेषं वै तत्पापं हि क्षयं गतम् ।
अप्रतिष्ठञ्च नरकं शृणुष्व गदतो मम॥१२.१९॥
अत्रस्थैर्नारकैर्दुः खमसह्यमनुभूयते ।
तान्येव यत्र चक्राणि घटीयन्त्राणि चान्यतः॥१२.२०॥
दुः खस्य हेतुभूतानि पापकर्मकृतां नृणाम् ।
चक्रेष्वारोपिताः केचिद् भ्राम्यन्ते तत्र मानवाः॥१२.२१॥
यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा ।
घटीयन्त्रेषु चैवान्यो बद्धस्तोये यथा घटी॥१२.२२॥
भ्राम्यन्ते मानवा रक्तमुदिगरन्तः पुनः पुनः ।
अस्त्रैर्मुखविनिष्क्रान्तैः नेत्रैरश्रुविलम्बिभिः॥१२.२३॥
दुः खानि ते प्राप्नुवन्ति यान्यसह्यानि जन्तुभिः ।
असिपत्रवनं नाम नरकं शृणु चापरम्॥१२.२४॥
योजनानां सहस्रं यो ज्वलदग्न्यास्तृतावनिः ।
तप्ताः सूर्यकरैश्चण्डैर्यत्रातीव सुदारुणैः॥१२.२५॥
प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः ।
तन्मध्ये च वनं रम्यं स्निग्धपत्रं विभाव्यते॥१२.२६॥
पत्राणि तत्र खङ्गानां फलानि द्विजसत्तमम् ।
श्वानश्च तत्र सबलाः स्वनन्त्ययुतशोभिताः॥१२.२७॥
महावक्त्रा महादंष्ट्रा व्याघ्रा इव भयानकाः ।
ततस्तद्वनमालोक्य शिशिरच्छायमग्रतः॥१२.२८॥
प्रयान्ति प्राणिनस्तत्र तीव्रतृट्परिपीडिताः ।
हा मातर्हा तात ! इति क्रान्दन्तोऽतीव दुः खिता॥१२.२९॥
दह्यमानाङ्घ्रयुगला धरणीस्थेन वह्निना ।
तेषां गतानां तत्रासिपत्रपाती समीरणः॥१२.३०॥
प्रवाति तेन पात्यन्ते तेषां खड्गान्यथोपरि ।
ततः पतन्ति ते भूमौ ज्वलत्पवकसञ्चये॥१२.३१॥
लेलिह्यमाने चान्यत्र व्याप्ताशेषमहीतले ।
सारमेयास्ततः शीघ्रं शातयन्ति शरीरतः॥१२.३२॥
तेषामङ्गानि रुदतामनेकान्यतिभीषणाः ।
असिपत्रवनं तात ! मयैतत् कीर्तितं तव॥१२.३३॥
अतः परं भीमतरं तप्तकुम्भं निबोध मे ।
समन्ततस्तप्तकुम्भा वह्निज्वालासमावृताः॥१२.३४॥
ज्वलदग्निचयोद्वृत्ततैलायश्चूर्णपूरिताः ।
तेषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः॥१२.३५॥
क्वाथ्यन्ते विस्फुटद्गात्र-गलन्मज्जजलाविलाः ।
स्फुरत्कपालनेत्रास्थिच्छिद्यमाना विभीषणैः॥१२.३६॥
गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः ।
पुनः सिमसिमायन्ते तैलेनैक्यं व्रजन्ति च॥१२.३७॥
द्रवीभूतैः शिरोगात्र-स्नायु-मांस-त्वगस्थिभिः ।
ततो याम्यैर्नरैराशु दर्व्या घट्टनघट्टिताः॥१२.३८॥
कृतावर्ते महातैले मथ्यन्ते पापकर्मिणः ।
एष ते विस्तरेणोक्तस्तप्तकुम्भो मया पितः॥१२.३९॥
इति श्रीमार्कण्डेयपुराणे पिताः पुत्रसंवादे महारौरवादिनरकाख्यानं नाम द्वादशोऽध्यायः
त्रयोदशोऽध्यायः
अहं वैश्यकुले जातो जन्मन्यस्मात्तु सप्तमे ।
समतीते गवां रोधं निपाने कृतवान् पुरा॥१३.१॥
विपाकात् कर्मणस्तस्य नरकं भृशदारुणम् ।
सम्प्राप्तोऽग्निशिखाघोरमयोमुखखगाकुलम्॥१३.२॥
यन्त्रपीडनगात्रासृक्-प्रवाहोद्भूतकर्दमम् ।
विशस्यमानदुष्कर्मि-तन्निपातरवाकुलम्॥१३.३॥
पात्यमानस्य मे तत्र साग्रं वर्षशतं गतम् ।
महातापार्तितप्तस्य तृष्णादाहान्वितस्य च॥१३.४॥
तत्राह्लादकरः सद्यः पवनः सुखशीतलः ।
करम्भ-बालुकाकुम्भ-मध्यस्थो मे समागतः॥१३.५॥
तत्सम्पर्कादशेषाणां नाभवद्यातना नृणाम् ।
मम चापि यथा स्वर्गे स्वर्गिणां निर्वृतिः परा॥१३.६॥
किमेतदिति चाह्लाद-विस्तारस्तिमितेक्षणैः ।
दृष्टमस्माभिरासन्नं नररत्नमनत्तमम्॥१३.७॥
याम्यश्च पुरुषो घोरो दण्डहस्तोऽशनिप्रभः ।
पुरतो दर्शयन् मार्गमिति एहीति वगथ॥१३.८॥
पुरुषः स तदा दृष्ट्वा यातनाशतसंकुलम् ।
नरकं प्राह तं याम्यं किङ्करं कृपयान्वितः॥१३.९॥
भो याम्यपुरुषाचक्ष्व किं मया दुष्कृतं कृतम् ।
येनेदं यातनाभीम् प्राप्तोऽस्मि नरकं परम्॥१३.१०॥
विपश्चिदिति विख्यातो जनकानामहं कुले ।
जातो विदेहविषये सम्यङ्मनुजपालकः॥१३.११॥
यज्ञैर्मयेष्टं बहुभिर्धर्मतः पालिता मही ।
नोत्सृष्टश्चैव संग्रामो नातिथिर्विमुखो गतः॥१३.१२॥
पितृ-देवर्षि-भृत्याश्च न चापचरिता मया ।
कृता स्पृहा च न मया परस्त्रीविभवादिषु॥१३.१३॥
पर्वकालेषु पितरस्तिथिकालेषु देवताः ।
पुरुषं स्वयमायान्ति निपानमिव धेनवः॥१३.१४॥
यतस्ते विमुखा यान्ति निश्वस्य गृहमेधिनः ।
तस्मादिष्टश्च पूर्तश्च धमौ द्वावपि नश्यतः॥१३.१५॥
पितृनिश्वासविध्वस्तं सप्तजन्मार्जितं शुभम् ।
त्रिजन्मप्रभवं दैवो निश्वासो हन्त्यसंशयम्॥१३.१६॥
तस्माद् दैवे च पित्र्ये च नित्यमेवोद्यतोऽभवम् ।
सोऽहं कथमिमं प्राप्तो नरङ्क भृशदारुणम्॥१३.१७॥
इति श्रीमार्कण्डेयपुराणे पिता-पुत्रसंवादो नाम त्रयोदशोऽध्यायः
चतुर्दशोऽध्यायः
इति पृष्टस्तदा तेन शृण्वतां नो महात्मना ।
उवाच पुरुषो याम्यो घोरोऽपि प्रसृतं वचः॥१४.१॥
महाराज ! यथात्थ त्वं तथैतन्नात्र संशयः ।
किन्तु स्वल्पं कृतं पापं भवता स्मारयामि तत्॥१४.२॥
वैदर्भो तव या पत्नी पीवरी नाम नामतः ।
ऋतुमत्या ऋतुर्वन्ध्यस्त्वया तस्याः कृतः पुरा॥१४.३॥
शुशोभनायां कैकेय्यामासक्तेन ततो भवान् ।
ऋतुव्यतिक्रमात् प्राप्तो नरकं घोरमीदृशम्॥१४.४॥
होमकाले यथा वह्निराज्यपातमवेक्षते ।
ऋतौ प्रजापतिस्तद्वद् बीजपातमवेक्षते॥१४.५॥
यस्तमुल्लङ्घ्य धर्मात्मा कामेष्वासक्तिमान् भवेत् ।
स तु पित्र्यादृणात् पापमवाप्य नरकं पतेत्॥१४.६॥
एतावदेव ते पापं नान्यत् किञ्चन विद्यते ।
तदेहि गच्छ पुण्यानामुपभोगाय पार्थिव॥१४.७॥
यास्यामि देवानुचर यत्र त्वं मां नयिष्यसि ।
किञ्चित् पृच्छामि तन्मे त्वं यथावद्वक्तुमर्हसि॥१४.८॥
वज्रतुण्डास्त्वमी काकाः पुंसां नयनहारिणः ।
पुनः पुनश्च नेत्राणि तद्वदेषां भवन्ति हि॥१४.९॥
किं कर्म कृतवन्तश्च कथयैतज्जुगुप्सितम् ।
हरन्त्येषां तथा जिह्वां जायमानां पुनर्नवाम्॥१४.१०॥
परपत्रेण पाट्यन्ते कस्मादेतेऽतिदुः खिताः ।
करम्भवालुकास्वेते पच्यन्ते तैलगोचराः॥१४.११॥
अयोमुखैः खगैश्चैते कृष्यन्ते किंविधा वद ।
विश्र्लिष्टदेहबन्धार्ति-महारावविराविणः॥१४.१२॥
अयश्चञ्चुनिपातेन सर्वाङ्गक्षतदुः खिताः ।
किमेतेऽनिष्टकर्तारस्तुद्यन्तेऽहर्निशं नराः॥१४.१३॥
एताश्चान्याश्च दृश्यन्ते यातनाः पापकर्मिणाम् ।
येन कर्मविपाकेण तन्ममाशेषतो वद॥१४.१४॥
यन्मां पृच्छसि भूपाल ! पापकर्मफलोदयम् ।
तत् तेऽहं सम्प्रवक्ष्यामि संक्षेपेण यथातथम्॥१४.१५॥
पुण्यापुण्ये हि पुरुषः पर्यायेण समश्नते ।
भुञ्जतश्च क्षयं याति पापं पुण्यमथापि वा॥१४.१६॥
न तु भोगादृते पुण्यं किञ्चिद्वा कर्म मानवम् ।
पापकं वा पुनात्याशु क्षयो भोगात् प्रजायते॥१४.१७॥
परित्यजति भोगाच्च पुण्यापुण्ये निबोध मे ।
दुर्भिक्षादेव दुर्भिक्षं क्लेशात् क्लेशं भयाद्भयम्॥१४.१८॥
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः ।
गतिं नानाविधां यान्ति जन्तवः कर्मबन्धनात्॥१४.१९॥
उत्सवादुत्सवं यान्ति स्वर्गात् स्वर्गं सुखात् सुखम् ।
श्रद्धधानाश्च शान्ताश्च धनदाः शुभकारिणः॥१४.२०॥
व्यालकुञ्जरदुर्गाणि सर्पचौरभयानि तु ।
हताः पापेन गच्छन्ति पापिनः किमतः परम्॥१४.२१॥
अनेकशतसाहस्त्र-जन्मसंचयसञ्चितम् ।
पुण्यापुण्यं नृणां तद्वत् सुखदुः खाङ्कुरोद्भवम्॥१४.२३॥
यथा बीजं हि भूपाल ! पयांसि समवेक्षते ।
पुण्यापुण्ये तथा कालदेशान्यकर्मकारकम्॥१४.२४॥
स्वल्पं पापं कृतं पुंसा देशकालोपपादितम् ।
पादन्यासकृतं दुः खं कण्टकोत्थं प्रयच्छति॥१४.२५॥
तत् प्रभूततरं स्थूलं शूलकीलकसम्भवम् ।
दुः खं यच्छति तद्वच्च शिरोरोगादि दुः सहम्॥१४.२६॥
अपथ्याशनशीतोष्ण-श्रमतापादिकारकम् ।
तथान्योऽन्यमपेक्षन्ते पापानि फलसङ्गमे॥१४.२७॥
एवं महान्ति पापानि दीर्घरोगादिविक्रियाम् ।
तद्वच्छस्त्राग्निकृच्छ्रार्ति-बन्धनादिफलाय वै॥१४.२८॥
स्वल्पं पुण्यं शुभं गन्धं हेलया सम्प्रयच्छिति ।
स्पर्श वाप्यथवा शब्दं रसं रूपमथापि वा॥१४.२९॥
चिराद् गुरुतरं तद्वन्महान्तमपि कालजम् ।
एवञ्च सुखदुः खानि पुण्यापुण्योद्भवानि वै॥१४.३०॥
भुञ्जानोऽनेकसंसार-सम्भवानीह तिष्ठति ।
जाति देशावरुद्धानि ज्ञानाज्ञानफलानि च॥१४.३१॥
तिष्णन्ति तत्र युक्तानि लिङ्गमात्रेण चात्मनि ।
वपुषा मनसा वाचा न कदाचित् क्वचिन्नरः॥१४.३२॥
अकुर्वन् पापकं कर्म पुण्यं वाप्यवतिष्ठते ।
यद् यत् प्राप्नोति पुरुषो दुः खं सुखमथापि वा॥१४.३३॥
प्रभूतमथवा स्वल्पं विक्रियाकारि चेतसः ।
तावता तस्य पुण्यं वा पापं वाप्यथ चेतरत्॥१४.३४॥
उपभोगात् क्षयं याति भुज्यमानमिवाशनम् ।
एवमेते महापापं यातनाभिरहर्निशम्॥१४.३५॥
क्षपयन्ति नरा घोरं नरकान्तर्विवर्तिनः ।
तथैव राजन् ! पुण्यानि स्वर्गलोकेऽमरैः सह॥१४.३६॥
गन्धर्वसिद्धाप्सरसां गीताद्यैरुपभुञ्जते ।
देवत्वे मानुषत्वे च तिर्यक्त्वे च शुभाशुभम्॥१४.३७॥
पुण्यपापोद्भवं भुङ्क्ते सुखदुः खोपलक्षणम् ।
यद् त्वं पृच्छसि मां राजन् ! यातनाः पापकर्मिणाम् ।
केन केनेति पापेन तत् ते वक्ष्याम्यशेषतः॥१४.३८॥
दुष्टेन चक्षुषा दृष्टाः परदारा नराधमैः ।
मानसेन च दुष्टेन परद्रव्यञ्च सस्पृहैः॥१४.३९॥
वज्रतुण्डाः खगास्तेषां हरन्त्येते विलोचने ।
पुनः पुनश्च सम्भूतिरक्ष्णोरेषां भवत्यथ॥१४.४०॥
यावतोऽक्षिनिमेषांस्तु पापमेभिर्नृभिः कृतम् ।
तावद्वर्षसहस्राणि नेत्रात्ति प्राप्नुवन्त्युत॥१४.४१॥
असच्छास्त्रोपदेशास्तु यैर्दत्ता यैश्च मन्त्रिताः ।
सम्यग्दृष्टेर्विनाशाय रिपूणामपि मानवैः॥१४.४२॥
यैः शास्त्रमन्यथा प्रोक्तं यैरसद्वागुदाहृता ।
वेददेवद्विजातीनां गुरोर्निन्दा च यैः कृता॥१४.४३॥
हरन्ति तेषां जिह्वाश्च जायमानाः पुनः पुनः ।
तावतो वत्सरानेते वज्रतुण्डाः सदारुणाः॥१४.४४॥
मित्रभेदं तथा पित्रा पुत्रस्य स्वजनस्य च ।
याज्योपाध्याययोर्मात्रा सुतस्य सहचारिणः॥१४.४५॥
भार्यापत्योश्च ये केचिद् भेदं चक्रुर्नराधमाः ।
त हमे पश्य पाट्यन्ते करपत्रेण पार्थिव॥१४.४६॥
परोपतापका ये च ये चाह्लादनिषेधकाः ।
तालवृन्तानिलस्थान-चन्दनोशीरहारिणः॥१४.४७॥
प्राणान्तिकं ददुस्तापमदुष्टानाञ्च येऽधमाः ।
करम्भवालुकासंस्थास्त इमे पापभागिनः॥१४.४८॥
भुङ्क्ते श्राद्धन्तु योऽन्यस्य नरोऽन्येन निमन्त्रितः ।
दैवे वाप्यथवा पित्र्ये स द्विधा कृष्यते खगैः॥१४.४९॥
मर्माणि यस्तु साधूनामसद्वाग्भिर्निकृन्तति ।
तमिमे तुदमानास्तु खगास्तिष्ठन्त्यवारिता॥१४.५०॥
यः करोति च पैशुन्यमन्यवागन्यथामतिः ।
पाट्यते हि द्विधा जिह्वा तस्येत्थं निशितैः क्षुरैः॥१४.५१॥
माता-पित्रोर्गुरूणाञ्च येऽवज्ञां चक्रुरुद्धताः ।
त इमे पूयविण्मूत्र-गर्ते मज्जन्त्यधोमुखाः॥१४.५२॥
देवतातिथिभूतेषु भृत्येष्वभ्यागतेषु च ।
अभुक्तवत्सु येऽश्नन्ति तद्वत् पित्रग्निपक्षिषु॥१४.५३॥
दुष्टास्ते पूयनिर्यास-भुजः सूचीमुखास्तु ते ।
जायन्ते गिरिवर्ष्माणः पश्यैते यादृशा नराः॥१४.५४॥
एकपङ्क्त्या तु ये विप्रमथवेतरवर्णजम् ।
विषमं बोजयन्तीह विड्भुजस्त इमे यथा॥१४.५५॥
एकसार्थप्रयातं ये निः स्वमर्थार्थिनं नरम् ।
अपास्य स्वान्नमश्नन्ति त इमे श्लेष्मभोजिनः॥१४.५६॥
गोबाह्मणाग्नयः स्पृष्टा यैरुच्छिष्टैर्नरेश्वर ।
तेषामेतेऽग्निकुम्भेषु लेलिह्यन्त्याहिताः कराः॥१४.५७॥
सूर्येन्दुतारका दृष्टा यैरुच्छिष्टैस्तु कामतः ।
तेषां याम्यैर्नरैर्नेत्रे न्यस्तो वह्निः समेध्यते॥१४.५८॥
गावोऽग्निर्जननी विप्रोज्येष्ठभ्राता पिता स्वसा ।
जामयो गुरवो वृद्धा यैः स्पृष्टास्तु पदा नृभिः॥१४.५९॥
बद्धाङ्घ्रयस्ते निगडैलौहैरग्निप्रतापितैः ।
अङ्गारराशिमध्यस्थास्तिष्ठन्त्याजानुदाहिनः॥१४.६०॥
पायसं कृशरं छागो देवान्नानि च यानि वै ।
भुक्तानि यैरसंस्कृत्य तेषां नेत्राणि पापिनाम्॥१४.६१॥
निपातितानां भूपृष्ठे उद्वृत्ताक्षि निरीक्षताम् ।
सन्दंशैः पश्य कृष्यन्ते नरैर्याम्यैर्मुखात् ततः॥१४.६२॥
गुरु-देव-द्विजातीनां वेदानाञ्च नराधमैः ।
निन्दा निशामिता यैश्च पापानामभिनन्दताम्॥१४.६३॥
तेषामयोमयान् कीलानग्निवर्षान् पुनः पुनः ।
कर्णेषु प्रेरयन्त्येते याम्या विलपतामपि॥१४.६४॥
यैः प्रपा-देवविप्रौको-देवालयसभाः शुभाः ।
भङ्क्त्वा विध्वंसमानीताः क्रोधलोभानुवर्तिभिः॥१४.६५॥
तेषामेतैः शितैः शस्त्रैर्मुहुर्विलपतां त्वचः ।
पृथक् कुर्वन्ति वै याम्याः शरीरादतिदारुणाः॥१४.६६॥
गोब्राह्मणार्कमार्गेषु येऽवमेहन्ति मानवाः ।
तेषामेतानि कृष्यन्ते गुदेनान्त्राणि वायसैः॥१४.६७॥
दत्त्वा कन्यां च एकस्मै द्वितीयाय प्रयच्छति ।
स त्वेवं नैकधाच्छिन्नः क्षारनद्यां प्रवाह्यते॥१४.६८॥
स्वपोषणपरो यस्तु परित्यजति मानवः ।
पुत्र-भृत्य-कलत्रादि-बन्धुवर्गमकिञ्चिनम्॥१४.६९॥
दुर्भिक्षे सम्भ्रमे वापि सोऽप्येवं यमकिङ्करैः ।
उत्कृत्य दत्तानि मुखे स्वमांसान्यश्नुते क्षुधा॥१४.७०॥
शरणागतान् यस्त्यजति लोभाद् वृत्त्युपजीविनः ।
सोऽप्येवं यन्त्रपीडाभिः पीड्यते यमकिङ्करैः॥१४.७१॥
सुकृतं ये प्रयच्छन्ति यावज्जन्म कृतं नराः ।
ते पिष्यन्ते शिलापेषैर्यथैते पापकर्मिणः॥१४.७२॥
न्यासापहारिणो बद्धाः सर्वगात्रेषु बन्धनैः ।
कृमिवृश्चिककाकोलैर्भुज्यन्तेऽहर्निशं नराः॥१४.७३॥
क्षुत्क्षामास्तृट्पतज्जिह्वा-तालवो वेदनातुराः ।
दिवामैथुनिनः पापाः परदारभुजश्च ये॥१४.७४॥
तथैव कण्टकैर्देर्घैरायसैः पश्य शाल्मलिम् ।
आरोपिता विभिन्नाङ्गाः प्रभूतासृक्स्त्रवाविलाः॥१४.७५॥
मूषायामपि पश्यैतान् नाश्यमानान् यमानुगैः ।
पुरुषैः पुरुषाव्याघ्र ! परदारावमर्षिणः॥१४.७६॥
उपाद्यायमधः कृत्वा स्तब्धो योऽध्ययनं नरः ।
गृह्णाति शिल्पमथवा सोऽप्येवं शिरसा शिलाम्॥१४.७७॥
बिभ्रत् क्लेशमवाप्नोति जनमार्गेऽतिपीडितः ।
क्षुत्क्षामोऽहर्निशं भारपीडाव्यथितमस्तकः॥१४.७८॥
मूत्र-श्लेष्म-पूरीषाणि यैरुत्सृष्टानि वारिणि ।
त इमे श्लेष्मविण्मूत्र-दुर्गन्धं नरकं गताः॥१४.७९॥
परस्परञ्च मांसानि भक्ष्यन्ति क्षुधान्विताः ।
भुक्तं नातिथ्यविधिना पूर्वमेभैः परस्परम्॥१४.८०॥
अपविद्धास्तु यैर्वेदा वहनयश्चाहिताग्निभिः ।
त इमे शालशृङ्गाग्रात् पात्यन्तेऽधः पुनः पुनः॥१४.८१॥
पुनर्भूपतयो जीर्णा यावज्जीवन्ति ये नराः ।
इमे कृमित्वमापन्ना भक्ष्यन्तेऽत्र पिपीलिकैः॥१४.८२॥
पतितप्रतिग्रहादानाद्यजनान्नित्यसेवनात् ।
पाषाणमध्यकीटत्वं नरः सततमश्नुते॥१४.८३॥
पश्यतो भृत्यवर्गस्य मित्राणामतिथेस्तथा ।
एको मिष्टान्नभुग् भुङ्क्ते ज्वलदङ्गारसञ्चयम्॥१४.८४॥
वृकैर्भयङ्करैः पृष्ठं नित्यमस्योपभुज्यते ।
पृष्ठमांसं नृपैतेन यतो लोकस्य भक्षितम्॥१४.८५॥
अन्धोऽथ बधिरो मूको भ्राम्यतेऽयं क्षुधातुरः ।
अकृतज्ञोऽधमः पुंसामुपकारेषु वर्तताम्॥१४.८६॥
अयं कृतघ्रो मित्राणामपकारी सुदुर्मतिः ।
तत्पकुम्भे निपतति ततो यास्यति पेषणम्॥१४.८७॥
करम्भवालुकां तस्मात् ततो यन्त्रानपीडनम् ।
असिपत्रवनं तस्मात् करपत्रेण पाटनम्॥१४.८८॥
कालसूत्रे तथा छेदमनेकाश्चैव यातनाः ।
प्राप्य निष्कृतिमेतस्मान्न वेद्मि कथमेष्यति॥१४.८९॥
श्राद्धसङ्गतिनो विप्राः समुत्पत्य परस्परम् ।
दुष्टा हि निः सृतं फेनं सर्वाङ्गेभ्यः पिबन्ति वै॥१४.९०॥
सुवर्णस्तेयी विप्रघ्रः सुरापी गुरुतल्पगः ।
अधश्चोर्ध्वञ्च दीप्ताग्नौ दह्यमानाः समन्ततः॥१४.९१॥
तिष्ठन्त्यब्दसहस्राणि सुबहूनि ततः पुनः ।
जायन्ते मानवाः कुष्ठ-क्षयरोगादिचिह्नताः॥१४.९२॥
मृताः पुनश्च नरकं पुनर्जाताश्च तादृशम् ।
व्याधिमृच्छन्ति कल्पान्तपरिमाणं नराधिप॥१४.९३॥
गोघ्रो न्यूरतरं याति नरकेऽथ त्रिजन्मनि ।
तथोपपातकानाञ्च सर्वेषामिति निश्चयः॥१४.९४॥
नरकप्रच्युता यानि यैर्यैर्विहितपातकैः ।
प्रयान्ति योनिजातानि तन्मे निगदतः शृणु॥१४.९५॥
इति श्रीमार्कण्डेयपुराणे जडोपाख्याने यमकिङ्करसंवादो नाम चतुर्दशोऽध्यायः
पञ्चदशोऽध्यायः
पतितात् प्रतिगृह्यार्थं खरयोनिं व्रजेद् द्विजः ।
नरकात् प्रतिमुक्तस्तु कृमिः पतितयाजकः॥१५.१॥
उपाध्यायव्यलीकन्तु कृत्वा श्वा भवति द्विजः ।
तज्जायां मनसावाञ्छन् तद्द्रव्यञ्चाप्यसंशयम्॥१५.२॥
गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः ।
मातापितरावाक्रुश्य शारिका सम्प्रजायते॥१५.३॥
भ्रातुः पत्न्यवमन्ता च कपोतत्वं प्रपद्यते ।
तामेव पीडयित्वा तु कच्छपत्वं प्रपद्यते॥१५.४॥
भर्तृपिण्डमुपाश्नन् यस्तदिष्टं न निषेवते ।
सोऽपि मोहसमापन्नो जायते वानरो मृतः॥१५.५॥
न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः ।
असूयकश्च नरकान्मुक्तो भवति राक्षसः॥१५.६॥
विश्वासहन्ता च नरो मीनयोनौ प्रजायते ।
धान्यं यवांस्तिलान् माषान् कुलत्थान् सर्षपांश्चणान्॥१५.७॥
कलायान कलमान् मुद्गान् गोधूमानतसीस्तथा ।
शस्यान्यन्यानि वा हृत्वा मोहाज्जन्तुरचेतनः॥१५.८॥
सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः ।
परदाराभिमर्षात्तु वृको घोरोऽभिजायते॥१५.९॥
श्वा शृगालो वको गृध्रो व्याडः कङ्कस्तथा क्रमात् ।
भ्रातृभार्याञ्च दुर्बुद्धिर्यो धर्षयति पापकृत्॥१५.१०॥
पुंस्कोकिलत्वमाप्नोति स चापि नरकाच्च्युतः ।
सखिभार्यां गुरोर्भार्यां राजभार्याञ्च पापकृत्॥१५.११॥
प्रधर्षयित्वा कामात्मा शूकरो जायते नरः ।
यज्ञ-दान-विवाहानां विघ्रकर्ता भवेत् कृमिः॥१५.१२॥
पुनर्दात् च कन्यायाः कृमिरेवोपजायते ।
देवता-पितृ-विप्राणामदत्वा योऽन्नमश्नुते॥१५.१३॥
प्रमुक्तो नरकात् सोऽपि वायसः सम्प्रजायते ।
ज्येष्ठं पितृसमं वापि भ्रातरं योऽवमन्यते॥१५.१४॥
नरकात् सोऽपि विभ्रष्टः क्रौञ्चयोनौ प्रजायते ।
शूद्रश्च ब्राह्मणरिं गत्वा कृमियोनौ प्रजायते॥१५.१५॥
तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत् ।
शूकरः कृमिको मद्गुश्चण्डालश्च प्रजायते॥१५.१६॥
अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः ।
कृतघ्रः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा॥१५.१७॥
मत्स्यस्तु वायसः कूर्मः पुक्कसो जायते ततः ।
अशस्त्रं पुरुषं हत्वा नरः सञ्जायते खरः॥१५.१८॥
कृमिः स्त्रीवधकर्ता च बालहन्ता च जायते ।
भोजनं चोरयित्वा तु मक्षिका जायते नरः॥१५.१९॥
तत्राप्यस्ति विशेषो वै भोजनस्य शृणुष्व तत् ।
ह्त्वान्नन्तु स मार्जारो जायते नरकाच्च्युतः॥१५.२०॥
तिलपिण्याकसंमिश्रमन्नं हृत्वा तु मूषिकः ।
घृतं हृत्वा च नकुलः काको मद्गुरजामिषम्॥१५.२१॥
मत्स्यमांसापहृत् काकः श्येनो मार्गामिषापहृत् ।
वीचीकाकस्त्वपहृते लवणे दधनि कृमिः॥१५.२२॥
चोरयित्वा पयश्चापि बलाका सम्प्रजायते ।
यस्तु चोरयते तैलं तैलपायी स जायते॥१५.२३॥
मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः ।
चोरयित्वा तु निष्पावान् जायते गृहगोलकः॥१५.२४॥
आसवं चोरयित्वा तु तित्तिरित्वमवाप्नुयात् ।
अयो हृत्वा तु पापात्मा वायसः सम्प्रजायते॥१५.२५॥
हृते कांस्ये च हारीतः कपोतो रुप्यभाजने ।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते॥१५.२६॥
पत्रोर्णं चोरयित्वा तु क्रकरत्वञ्च गच्छति ।
कोषकारश्च कौषेये हृते वस्त्रेऽभिजायते॥१५.२७॥
दुकूले शार्ङ्गकः पापो हृते चैवांशुके शुकः ।
तथैवाजाविकं हृत्वा वस्त्रं क्षौमं च जायते॥१५.२८॥
कार्पासिके हृते क्रौञ्चो वाल्कहर्ता बकस्तथा ।
मयूरो वर्णकान् हृत्वा शाकपत्रं च जायते॥१५.२९॥
जीवज्जीवकतां याति रक्तवस्त्रापहृन्नरः ।
छुच्छुन्दरिः शुभान् गन्धान् वासो हृत्वा शशो भवेत्॥१५.३०॥
षण्ढः फलापहरणात् काष्ठस्य घुणकीटकः ।
पुष्पापहृद् दरिद्रश्च पङ्गुर्यानापहृन्नरः॥१५.३१॥
शाकहर्ता च हारीतस्तोयहर्ता च चातकः ।
भूहर्ता नरकान् गत्वा रौरवादीन् सुदारुणान्॥१५.३२॥
तृण-गुल्म-लता-वल्लि-त्वक्सारतरुतां क्रमात् ।
प्राप्य क्षीणाल्पपापस्तु नरो भवति वै ततः॥१५.३३॥
कृमिः कीटः पतङ्गोऽथ पक्षी तोय चरो मृगः ।
गोत्वं प्राप्य च चण्डाल-पुक्कसादि जुगुप्सितम्॥१५.३४॥
पङ्ग्वन्धो वधिरः कुष्ठी यक्ष्मणा च प्रपीडितः ।
मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते॥१५.३५॥
अपस्मारी च भवति शूद्रत्वं च स गच्छति ।
एष एव क्रमो दृष्टो गोसुवर्णापहारिणाम्॥१५.३६॥
विद्यापहारिणश्चोग्रा निष्क्रयभ्रंशिनो गुरोः ।
जायामन्यस्य पुरुषः पारख्यां प्रतिपादयन्॥१५.३७॥
प्राप्नोति षण्ढतां मूढो यातनाभ्यः परिच्युतः ।
यः करोति नरो होममसमिद्धे विभावसौ॥१५.३८॥
सोऽजिर्णव्याधिदुः खार्तो मन्दाग्निः संप्रजायते ।
परनिन्दा कृतघ्रत्वं परमर्मावघट्टनम्॥१५.३९॥
नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् ।
परस्वहरणाशौचं देवतानाञ्च कुत्सनम्॥१५.४०॥
निकृत्या कञ्चनं नृणां कार्पण्यं च नृणां वधः ।
यानि च प्रतिषिद्धानि तत्प्रवृत्तिश्च सन्तता॥१५.४१॥
उपलक्ष्याणि जानीयान्मुक्तानां नरकादनु ।
दया भूतेषु संवादः परलोकप्रतिक्रिया॥१५.४२॥
सत्यं भूतहितार्थोक्तिर्वेदप्रामाण्यदर्शनम् ।
गुरु-देवर्षि-सिद्धर्षिपूजनं साधुसङ्गमः॥१५.४३॥
सत्क्रियाभायसनं मैत्रीमिति बुध्यते पण्डितः ।
अन्यानि चैव सद्धर्मङ्क्रियाभूतानि यानि च॥१५.४४॥
स्वर्गच्युतानां लिङ्गानि पुरुषाणामपापिनाम् ।
एतदुद्देशतो राजन् भवतः कथितं मया॥१५.४५॥
स्वकर्मफलभोक्तॄणां पुण्यानां पापिनां तथा ।
तदेह्यन्यत्र गच्छामो दृष्टं सर्वं त्वयाधुना ।
त्वया दृष्टो हि नरकस्तदेह्यन्यत्र गम्यताम्॥१५.४६॥
ततस्तमग्रतः कृत्वा स राजा गन्तुमुद्यतः ।
ततश्च सर्वैरुत्क्रुष्टं यातनास्थायिभिर्नृभिः॥१५.४७॥
प्रसादं कुरु भूपेति तिष्ठ तावन्मुहूर्तकम् ।
त्वदङ्गसङ्गी पवनो मनो ह्लादयते हि नः॥१५.४८॥
परितापञ्च गात्रेभ्यः पीडाबाधाश्च कृत्स्नशः ।
अपहन्ति नरव्याघ्र यदां कुर महीपते॥१५.४९॥
एतच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः ।
पप्रच्छ कथमेतेषामाह्लादो मयि तिष्ठति॥१५.५०॥
किं मया कर्म तत् पुण्यं मर्त्यलोके महत् कृतम् ।
आह्लाददायिनी व्युष्टिर्येनेयं तदुदीरय॥१५.५१॥
पितृदेवातिथिप्रैष्य-शिष्टेनान्नेन ते तनुः ।
पुष्टिमभ्यागता यस्मात् तद्गतं च मनो यतः॥१५.५२॥
ततस्त्वद्गात्रसंसर्गो पवनो ह्लाददायकः ।
पापकर्मकृतो राजन् यातना न प्रबाधते॥१५.५३॥
अश्वमेधादयो यज्ञास्त्वयेष्टा विधिवद्यतः ।
ततस्त्वद्दर्शनाद्याम्या यन्त्रशस्त्राग्निवायसाः॥१५.५४॥
पीडन-च्छेद-दाहादि-महादुः खस्य हेतवः ।
मृदुत्वमागता राजन् तेजसापहतास्तव॥१५.५५॥
न स्वर्गे ब्रह्मलोके वा तत् सुखं प्राप्यते नरैः ।
यदार्तजन्तुनिर्वाण-दानोत्थमिति मे मतिः॥१५.५६॥
यदि मत्सन्निधावेतान् यातना न प्रबाधते ।
ततो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः॥१५.५७॥
एहि राजन् प्रगच्छामो निजपुण्यसमर्जितान् ।
भुङ्क्ष्व भोगानपास्येह यातनाः पापकर्मणाम्॥१५.५८॥
तस्मान्न तावद्यास्यामि यावदेते सुदुः खिताः ।
मत्सन्निधानात् सुखिनो भवन्ति नरकौकसः॥१५.५९॥
धिक् तस्य जीवनं पुंसः शरणार्थिनमातुरम् ।
यो नार्तमनुगृह्णाति वैरिपक्षमपि ध्रुवम्॥१५.६०॥
यज्ञ-दान-तपांसीह परत्र च न भूतये ।
भवन्ति तस्य यस्यार्त-परित्राणे न मानसम्॥१५.६१॥
नरस्य यस्य कठिनं मनो बालातुरादिषु ।
वृद्धेषु च न तं मन्ये मानुषं राक्षसो हि सः॥१५.६२॥
एतेषां सन्निकर्षात् तु यद्यग्निपरितापजम् ।
तथोग्रगन्धजं वापि दुः खं नरकसम्भवम्॥१५.६३॥
क्षुत्पिपासाभवं दुः खं यच्च मूर्च्छाप्रदं महत् ।
एतेषां त्राणदानन्तु मन्ये स्वर्गसुखात् परम्॥१५.६४॥
प्राप्स्यन्त्यार्ता यदि सुखं बहवो दुः खिते मयि ।
किन्नु प्राप्तं मया न स्यात् तस्मात् त्वं व्रज माचिरम्॥१५.६५॥
एष धर्मश्च शक्रश्च त्वां नेतुं समुपागतौ ।
अवश्यमस्माद् गन्तव्यं तस्मात् पार्थिव ! गम्यताम्॥१५.६६॥
नयामि त्वामहं स्वर्गं त्वया सम्यगुपासितः ।
विमानमेतदारुह्य मा विलम्बस्व गम्यताम्॥१५.६७॥
नरके मानवा धर्म पीड्यन्तेऽत्र सहस्रशः ।
त्राहीति चार्ताः क्रन्दन्ति मामतो न व्रजाम्यहम्॥१५.६८॥
कर्मणा नरकप्राप्तिरेतेषां पापकर्मिणाम् ।
स्वर्गस्त्वयापि गन्तव्यो नृप ! पुण्येन कर्मणा॥१५.६९॥
यदि जानासि धर्म ! त्वं त्वं वा शक्र ! शचीपते ।
मम यावत् प्रमाणन्तु शुभं तद्वक्तुमर्हथः॥१५.७०॥
अब्बिन्दवो यथाम्भोधौ यथा वा दिवि तारकाः ।
यथा वा वर्षता धारा गड्गायां सिकता यथा॥१५.७१॥
असंख्येया महाराज यथा बिन्द्वादयो ह्यपाम् ।
तथा तवापि पुण्यस्य संख्या नैवोपपद्यते॥१५.७२॥
अनुकम्पामिमामद्य नारकेष्विह कुर्वतः ।
तदेव शतसाहस्त्रं संख्यामुपगतं तव॥१५.७३॥
तद् गच्छ त्वं नृपश्रेष्ठ तद्भाक्तुममरालयम् ।
एतेऽपि पापं नरके क्षपयन्तु स्वकर्मजम्॥१५.७४॥
कथं स्पृहां करिष्यन्ति मत्सम्पर्केषु मानवाः ।
यदि सत्सन्निधावेषामुकत्कर्षो नोपजायते॥१५.७५॥
तस्माद्यत् सुकृतं किञ्चिन्ममास्ति त्रिदशाधिप ।
तेन मुच्यन्तु नरकात् पापिनो यातनां गताः॥१५.७६॥
एवमूर्ध्वतरं स्थानं त्वयावाप्तं महीपते ।
एतांश्च नरकात् पश्य विमुक्तान् पापकारिणः॥१५.७७॥
ततोऽपतत् पुष्पवृष्टिस्तस्योपरि महीपतेः ।
विमानञ्चाधिरोप्यैनं स्वर्लोकमनयद्धरिः॥१५.७८॥
अहञ्चान्ये च ये तत्र यातनाभ्यः परिच्युताः ।
स्वकर्मफलनिर्दिष्टं ततो जात्यन्तरं गताः॥१५.७९॥
एवमेते समाख्याता नरका द्विजसत्तम ।
येन येन च पापेन यां यां योनिमुपैति वै॥१५.८०॥
तत् तत् सर्वं समाख्यातं यथा दृष्टं मया पुरा ।
पुरानुभवजं ज्ञानमवाप्यावितथं तव ।
अतः परं महाभाग किमन्यत् कथयामि ते॥१५.८१॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम पञ्चदशोऽध्यायः
पितोवाच
कथितं मे त्वया वत्स संसारस्य व्यवस्थितम् ।
स्वरूपमतिहेयस्य घटीयन्त्रवदव्ययम्॥१६.१॥
तदेवमेतदखिलं मयावगतमीदृशम् ।
किं मया वद कर्तव्यमेवस्मिन् व्यवस्थिते॥१६.२॥
पुत्र उवाच
यदि मद्वचनं तात श्रद्दधास्यविशङ्कितः ।
तत् परित्यज्य गार्हस्थ्यं वानप्रस्थपरो भव॥१६.३॥
तमनुष्ठाय विधिवद् विहायाग्निपरिग्रहम् ।
आत्मन्यात्मानमाधया निर्द्वन्द्वो निष्परिग्रहः॥१६.४॥
एकान्तराशी वश्यात्मा भव भिक्षुरतन्द्रितः ।
तत्र योगापरो भूत्वा बाह्यस्पर्शविवर्जितः॥१६.५॥
ततः प्राप्स्यति तं योगं दुः शसंयोगभेषजम् ।
मुक्तिहेतुमनौपम्यमनाख्येयमसङ्गिनम् ।
यत्संयोगान्न ते योगो भूयो भूतैर्भविष्यति॥१६.६॥
पितोवाच
वत्स योगं ममाचक्ष्व मुक्तिहेतुमतः परम् ।
येन भूतैः पुनर्भूतो नेदृगः खमवाप्नुयाम्॥१६.७॥
यत्रासक्तिपरस्यात्मा मम संसारबन्धनैः ।
नैति योगमयोगोऽपि तं योगमधुना वद॥१६.८॥
संसारादित्यतापार्ति-विप्लुष्यद्देहमानसम् ।
ब्रह्मज्ञानाम्बुशीतेन सिञ्च मां वाक्यवारिणा॥१६.९॥
अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम् ।
स्ववाक्यामृतपानेन मां जीवय पुनर्मृतम्॥१६.१०॥
पुत्र-दार-गृह-क्षेत्र-ममत्वनिगजडार्दितम् ।
मां मोचयेष्टसद्भाव-विज्ञानोद्घाटनैस्त्वरन्॥१६.११॥
पुत्र उवाच
शृणु तात ! यथा योगो दत्तात्रेयेण धीमता ।
अलर्काय पुरा प्रोक्तः सम्यक् पृष्टेन विस्तरात्॥१६.१२॥
पितोवाच
दत्तात्रेयः सुतः कस्य कथं वा योगमुक्तवान् ।
कश्चालर्को महाभागो यो यौगं परिपृष्टवान्॥१६.१३॥
पुत्र उवाच
कौशिको ब्राह्मणः कश्चित् प्रतिष्ठानेऽभवत् पुरे ।
सोऽन्यजन्मकृतैः पापैः कुष्ठरोगातुरोऽभवत्॥१६.१४॥
तं तथा व्याधितं भार्या पतिं देवमिवार्च्चयत् ।
पादाभ्यङ्गाङ्गसंवाह-स्त्रानाच्छादनभोजनैः॥१६.१५॥
श्लेष्म-मूत्र-पुरीषासृक्-प्रवाहक्षालनेन च ।
रहश्चैवोपचारेण प्रियसम्भाषणेन च॥१६.१६॥
स तया पूज्यमानोऽपि सदातीव विनीतया ।
अतीव तीव्रकोपत्वान्निर्भर्त्सयति निष्ठुरः॥१६.१७॥
तथापि प्रणता भार्या तममन्यत दैवतम् ।
तं तथाप्यतिबीभत्सं सर्वश्रेष्ठममन्यत॥१६.१८॥
अचङ्क्रमणशोलोऽपि स कदाचिद् द्विजोत्तमः ।
प्राह भार्यां नयस्वेति त्वं मां तस्या निवेशनम्॥१६.१९॥
या सा वेश्या मया दृष्टा राजमार्गे गृहोषिता ।
तां मां प्रापय धर्मज्ञे ! सैव मे हृदि वर्तते॥१६.२०॥
दृष्टा सूर्योदये बाला रात्रिश्चेयमुपागता ।
दर्शनानन्तरं सा मे हृदयान्नापसर्पति॥१६.२१॥
यदि सा चारुसर्वाङ्गी पीनश्रोणिपयोधरा ।
नोपगूहति तन्वङ्गी तन्मां द्रक्ष्यसि वै मृतम्॥१६.२२॥
वामः कामो मनुष्याणां बहुभिः प्रार्थ्यते च सा ।
ममाशक्तिश्च गमने सङ्कुलं प्रतिभाति मे॥१६.२३॥
तत् तदा वचनं श्रुत्वा भर्तुः कामातुरस्य सा ।
तत्पत्नी सत्कुलोत्पन्ना महाभागा पतिव्रता॥१६.२४॥
गाग्ं परिकरं बद्ध्वा शुल्कमादाय चाधिकम् ।
स्कन्धे भर्तारमादाय जगाम मृदुगामिनी॥१६.२५॥
निशि मेघास्तृते व्योम्नि चलद्विद्युत्प्रदर्शिते ।
राजमार्गे प्रियं भर्तुश्चिकीर्षन्ती द्विजाङ्गना॥१६.२६॥
पथि शूले तथा प्रोतमचौरं यौरशङ्कया ।
माण्डव्यमतिदुः खार्तमन्धकारेऽथ स द्विजः॥१६.२७॥
पत्नीस्कन्धे समारूढश्चालयामास कौशिकः ।
पादावमर्षणात् क्रुद्धो माण्डव्यस्तमुवाच ह॥१६.२८॥
येनाहमेवमत्यर्थं दुः खितश्चालितः पदा ।
दशां कष्टामनुप्राप्तः स पापात्मा नराधमः॥१६.२९॥
सूर्योदयेऽवशः प्राणैर्विमोक्ष्यति न संशयः ।
भास्करालोकनादेव स विनाशमवाप्स्यति॥१६.३०॥
तस्य भार्याततः श्रुत्वा तं शापमतिदारुणम् ।
प्रोवाच व्यथिता सूर्यो नैवोदयमुपैष्यति॥१६.३१॥
ततः सूर्योदयाभावादभवत् सन्तता निशा ।
बहून्यहः प्रमाणानि ततो देवा भयं ययुः॥१६.३२॥
निः स्वाध्यायवषट्कार-स्वधास्वाहाविवर्जितम् ।
कथं नु खल्विदं सर्वं न गच्छेत् संक्षयं जगत्॥१६.३३॥
अहोरात्रव्यवस्थाया विना मासर्तुसंक्षयः ।
तत्संक्षयान्न त्वयने ज्ञायेते दक्षिणोत्तरे॥१६.३४॥
विना चायनविज्ञानात् कालः संवत्सरः कुतः ।
संवत्सरं विना नान्यत् कालज्ञानं प्रवर्तते॥१६.३५॥
पतिव्रताया वचसा नोद्गच्छति दिवाकरः ।
सूर्योदयं विना नैव स्त्रानदानादिकाः क्रियाः॥१६.३६॥
नाग्नेर्विहरणञ्चैव क्रात्वभावश्च लक्ष्यते ।
नैवाप्ययनमस्माकं विना होमेन जायते॥१६.३७॥
वयमाप्यायिता मर्त्यैर्यज्ञभागैर्यथोचितैः ।
वृष्ट्या ताननुगृह्णीमो मर्त्यान् शस्यादिसिद्धये॥१६.३८॥
निष्पादितास्वोषधीषु मर्त्या यज्ञैर्यजन्ति नः ।
तेषां वयं प्रयच्छामः कामान् यज्ञादिपूजिताः॥१६.३९॥
अधो हि वर्षाम वयं मर्त्याश्चोर्ध्वप्रवर्षिणः ।
तोयवर्षेण हि वयं हविर्वर्षेण मानवाः॥१६.४०॥
ये नास्माकं प्रयच्छन्ति नित्यनैमित्तकीः क्रियाः ।
क्रतुभागं दुरात्मानः स्वयञ्चाश्नन्ति लोलुपाः॥१६.४१॥
विनाशाय वयं तेषां तोयसूर्याग्निमारुतान् ।
क्षितिञ्च सन्दूषयामः पापानामपकारिणाम्॥१६.४२॥
दुष्टतोयादिभोगेन तेषां दुष्कृतकर्मिणाम् ।
उपसर्गाः प्रवर्तन्ते मरणाय सुदारुणाः॥१६.४३॥
ये त्वस्मान् प्रीणयित्वा तु भुञ्जते शेषमात्मना ।
तेषां पुण्यान् वयं योकान् विदधाम महात्मनाम्॥१६.४४॥
तन्नास्ति सर्वमेवैतद्विनैषां व्युष्टिसंस्थैतम् ।
कथं नु दिनसर्गः स्यादन्योऽन्यमवदन् सुराः॥१६.४५॥
तेषामेव समेतानां यज्ञव्युच्छित्तिशङ्किनाम् ।
देवानां वचनं श्रुत्वा प्राह देवः प्रजापतिः॥१६.४६॥
तेजः परं तेजसैव तपसा च तपस्तथा ।
प्रशाम्यतेऽमरास्तस्माच्छृणुध्वं वचनं मम॥१६.४७॥
पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः ।
तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा॥१६.४८॥
तस्मात् पतिव्रतामत्रेरनुभूयां तपस्विनीम् ।
प्रसादयत वै पत्नीं भानोरुदयकाम्यया॥१६.४९॥
पुत्र उवाच
तैः सा प्रसादिता गत्वा प्रोहेष्टं व्रियतामिति ।
अयाचन्त दिनं देवा भवत्विति यथा पुरा॥१६.५०॥
अनसूयोवाच
पतिव्रताया माहात्म्यं न हीयेत कथन्त्विति ।
संमान्य तस्मात् तां साध्वीमहः स्त्रक्ष्याम्यहं सुराः॥१६.५१॥
यथा पुनरहोरात्र-संस्थानमुपजायते ।
यथा च तस्याः स्वपतिर्न साध्व्या नाशमेष्यति॥१६.५२॥
पुत्र उवाच
एवमुक्त्वा सुरांस्तस्या गत्वा सा मन्दिरं शुभा ।
उवाच कुशलं पृष्टा धर्मं भर्तुस्तथात्मनः॥१६.५३॥
अनसूयोवाच
कच्चिन्नन्दसि कल्याणि स्वभर्तुर्मुखदर्शनात् ।
कच्चिच्चाखिलदेवेभ्यो मन्यसेऽभ्यधिकं पतिम्॥१६.५४॥
भर्तृशुश्रूषणादेव मया प्राप्तं महत् फलम् ।
सर्वकामफलावाप्त्या प्रत्यूहाः परिवर्तिताः॥१६.५५॥
पञ्चर्णानि मनुष्येण साध्वि ! देयानि सर्वदा ।
तथात्मवर्णधर्मेण कर्तव्यो धनसंचयः॥१६.५६॥
प्राप्तश्चार्थस्ततः पात्रे विनियोज्यो विधानतः ।
सत्यार्जव-तपो-दानैर्दयायुक्तो भवेत् सदा॥१६.५७॥
क्रियाश्च शास्त्रनिर्दिष्टा रागद्वेषविवर्जिताः ।
कर्तव्या अन्वहं श्रद्धा-पुरस्कारेण शक्तितः॥१६.५८॥
स्वजातिविहितानेव लोकानाप्नोति मानवः ।
क्लेशेन महता साध्वि ! प्राजापत्यादिकान् क्रमात्॥१६.५९॥
स्त्रियस्त्वेवं समस्तस्य नरैर्दुः खार्जितस्य वै ।
पुण्यस्यार्धापहारिण्यः पतिशुश्रूषयैव हि॥१६.६०॥
नास्ति स्त्रीणां पृथग्यज्ञो न श्राद्धं नाप्युपोषितम् ।
भर्तृशुश्रूषयैवैतान् लोकानिष्टान् व्रजन्ति हि॥१६.६१॥
तस्मात् साध्वि ! महाभागे ! पतिशुश्रूषणं प्रति ।
त्वया मतिः सदा कार्या यतो भर्ता परा गतिः॥१६.६२॥
यद्देवेभ्यो यच्च पित्रागतेभ्यः कुर्याद्भर्ताभ्यर्च्चनं सत्क्रियातः ।
तस्याप्यर्धं केवलानन्यचित्ता नारी भुङ्क्ते भर्तृशुश्रूषयैव॥१६.६३॥
पुत्र उवाच
तस्यास्तद्वचनं श्रुत्वा प्रतिपूज्य तथादरात् ।
प्रत्युवाचात्रिपत्नीं तामनसूयामिदं वचः॥१६.६४॥
धन्यास्म्यनुगृहीतास्मि देवैश्चाप्यवलोकिता ।
यन्मे प्रकृतिकल्याणि ! श्रद्धां वर्धयसे पुनः॥१६.६५॥
जानाम्येतन्न नारीणां काचित् पतिसमा गतिः ।
तत्प्रीतिश्चोपकाराय इह लोके परत्र च॥१६.६६॥
पतिप्रसादादिह च प्रेत्य चैव यशस्विनि ।
नारी सुखमवाप्नोति नार्या भर्ता हि देवता॥१६.६७॥
सा त्वं ब्रूहि महाभागे ! प्राप्ताया मम मन्दिरम् ।
आर्याया यन्मया कार्यं तथार्येणापि वा शुभे॥१६.६८॥
अनसूयोवाच
एते देवाः सहेन्द्रेण मामुपागम्य दुः खिताः ।
त्वद्वाख्यापास्तसत्कर्मदिननक्तनिरूपणाः॥१६.६९॥
याचन्तेऽहर्निशासंस्थां यथावदविखण्डिताम् ।
अहं तदर्थमायाता शृणु चैतद्वचो मम॥१६.७०॥
दिनाभावात् समस्तानामभावो यागकर्मणाम् ।
तदभावात् सुराः पुष्टिं नोपयान्ति तपस्विनि॥१६.७१॥
अह्नश्चैव समुच्छेदादुच्छेदः सर्वकर्मणाम् ।
तदुच्छेदादनावृष्ट्या जगदुच्छेदमेष्यति॥१६.७२॥
तत् त्वमिच्छसि चेदेतत् जगदुद्धर्तुमापदः ।
प्रसीद साध्वि ! लोकानां पूर्ववद्धर्ततां रविः॥१६.७३॥
ब्राह्मण्युवाच
माण्डव्येन महाभागे ! शप्तो भर्ता ममेश्वरः ।
सूर्योदये विनाशं त्वं प्राप्स्यसीत्यतिमन्युना॥१६.७४॥
अनसूयोवाच
यदि वा रोचते भद्रे ! ततस्त्वद्वचनादहम् ।
करोमि पूर्ववद्देहं भर्तारञ्च नवं तव॥१६.७५॥
मया हि सर्वथा स्त्रीणां माहात्म्यं वरवर्णिनि ।
पतिव्रतानामाराध्यमिति संमानयामि ते॥१६.७६॥
पुत्र उवाच
तथेत्युक्ते तया सूर्यमाजुहाव तपस्विनी ।
अनसूयार्घ्यमुद्यम्य दशरात्रे तदा निशि॥१६.७७॥
ततो विवस्वान् भगवान् फुल्लपद्मारुणाकृतिः ।
शैलराजानमुदयमारुरोहोरुमण्डलः॥१६.७८॥
समनन्तरमेवास्या भर्ता प्राणैर्व्ययुज्यत ।
पपात च महीपृष्ठे पतन्तं जगृहे च सा॥१६.७९॥
अनसूयोवाच
न विषादस्त्वया भद्रे ! कर्तव्यः पश्य मे बलम् ।
पतिशुश्रूषयावाप्तं तपसः किं चिरेण ते॥१६.८०॥
यथा भर्तृसमं नान्यमपश्यं पुरुषं क्वचित् ।
रूपतः शीलतो बुद्ध्या वाङ्माधुर्ंय्यादिभूषणैः॥१६.८१॥
तेन सत्येन विप्रोऽयं व्याधिमुक्तः पुनर्युवा ।
प्राप्नोतु जीवितं भार्यासहायः शरदां शतम्॥१६.८२॥
यथा भर्तृसमं नान्यमहं पश्यामि दैवतम् ।
तेन सत्येन विप्रोऽयं पुनर्जोवत्वनामयः॥१६.८३॥
कर्मणा मनसा वाचा भर्तुराराधनं प्रति ।
यथा ममोद्यमो नित्यं तथायं जीवतां द्विजः॥१६.८४॥
पुत्र उवाच
ततो विप्रः समुत्तस्थौ व्याधिमुक्तः पुनर्युवा ।
स्वभाभिर्भासयन् वेश्म वृन्दारक इवाजरः॥१६.८५॥
ततोऽपतत् पुष्पवृष्टिर्देववाद्यादिनिस्वनः ।
लेभिरे च मुदं देवा अनसूयामथाब्रुवन्॥१६.८६॥
देवा ऊचुः
वरं वृणीष्व कल्याणि देवकार्यं महत् कृतम् ।
त्वया यस्मात् ततो देवा वरदास्ते तपस्विनि॥१६.८७॥
अनसूयोवाच
यदि देवाः प्रसन्ना मे पितामहपुरोगमाः ।
वरदा वरयोग्या च यद्यहं भवतां मता॥१६.८८॥
तद्यान्तु मम पुत्रत्वं ब्रह्म-विष्णु-महेश्वराः ।
योगञ्च प्राप्नुयां भर्तृसहिता क्लेशमुक्तये॥१६.८९॥
एवमस्त्विति तां देवा ब्रह्म-विष्णु-शिवादयः ।
प्रोक्त्वा जग्मुर्यथान्यायमनुमान्य तपस्विनीम्॥१६.९०॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे अनसूयावरप्राप्तिर्नाम षोडशोऽध्यायः
सप्तदशोऽध्यायः
पुत्र उवाच
ततः काले बहुतिथे द्वितीयो ब्रह्मणः सुतः ।
स्वभार्यां भगवानत्रिरनसूयामपश्यत॥१७.१॥
ऋतुस्नातां सुचार्वङ्गीं लोभनीयोत्तमाकृतिम् ।
सकामो मनसा भेजे स मुनिस्तामनिन्दिताम्॥१७.२॥
तस्याभिध्यायतस्तान्तु विकारो योऽन्वजायत ।
तमेवोवाह पवनस्तिरश्चोर्ध्वञ्च वेगवान्॥१७.३॥
ब्रह्मरूपञ्च शुक्लाभं पतमानं समन्ततः ।
सोमरूपं रजोपेतं दिशस्तं जगृहुर्दश॥१७.४॥
स सोमो मानसो जज्ञे तस्यामत्रेः प्रजापतेः ।
पुत्रः समस्तसत्त्वानामायुराधार एव च॥१७.५॥
तुष्टेन विष्णुना जज्ञे दत्तात्रेयो महात्मना ।
स्वशरीरात् समुत्पाद्य सत्त्वोद्रिक्तो द्विजात्तमः॥१७.६॥
दत्तात्रेय इति ख्यातः सोऽनसूयास्तनं पपौ ।
विष्णुरेवावतीर्णोऽसौ द्वितीयोऽत्रेः सुतोऽभवत्॥१७.७॥
सप्ताहात् प्रच्युतो मातुरुदरात् कुपितो यतः ।
हैहयेन्द्रमुपावृत्तमपराध्यन्तमुद्धतम्॥१७.८॥
दृष्ट्वात्रौ कुपितः सद्यो दग्धुकामः स हैहयम् ।
गर्भवासमहायास-दुः खामर्षसमन्वितः॥१७.९॥
दुर्वासास्तमसोद्रिक्तो रुद्रांशः समजायत ।
इति पुत्रत्रयं तस्या जज्ञे ब्रह्मेशवैष्णवम्॥१७.१०॥
सोमो ब्रह्मभवद्विष्णुर्दत्तात्रेयो व्यजायत ।
दुर्वासाः शङ्करो जज्ञे वरदानाद्दिवौकसाम्॥१७.११॥
सोमः स्वरश्मिभैः शीतैर्वोरुधौषधिमानवान् ।
आप्याययन् सदा स्वर्गे वर्तते स प्रजापतिः॥१७.१२॥
दत्तात्रेयः प्रजां पाति दुष्टदैत्यनिबर्हणात् ।
शिष्टानुग्रहकृच्चेति ज्ञेयश्चांशः स वैष्णवः॥१७.१३॥
निर्दहत्यवमन्तारं दुर्वासा भगवानजः ।
रौद्रं समाश्रित्य वपुर्दृङ्मनोवाग्भिरुद्धतः॥१७.१४॥
सोमत्वं भगवानत्रैः पुनश्चक्रे प्रजापतिः ।
दत्तात्रेयोऽपि विषयान् योगास्थो बुभुजे हरिः॥१७.१५॥
दुर्वासाः पितरं हित्वा मातरञ्चोत्तम व्रतम् ।
उन्मत्ताख्यं समाश्रित्य परिबभ्राम मेदिनीम्॥१७.१६॥
मुनिपुत्रवृतो योगी दत्तात्रेयोऽप्यसङ्गिताम् ।
अभीप्स्यमानः सरसि निममज्ज चिरं प्रभुः॥१७.१७॥
तथापि तं महात्मानमतीव प्रियदर्शनम् ।
तत्यजुर्न कुमारास्ते सरसस्तीरमाश्रिताः॥१७.१८॥
दिव्ये वर्षशते पूर्णे यदा ते न त्यजन्ति तम् ।
तत्प्रीत्या सरसस्तीरं सर्वे मुनिकुमारकाः॥१७.१९॥
ततो दिव्याम्बरधरां चारुपीननितम्बिनीम् ।
नारीमादाय कल्याणीमुत्तितार जलान्मुनिः॥१७.२०॥
स्त्रीसन्निकर्षाद्यद्येते परित्यक्ष्यन्ति मामिति ।
मुनिपुत्रास्ततोऽसङ्गी स्थास्यामीति विचिन्तयन्॥१७.२१॥
तथापि तं मुनिसुता न त्यजन्ति यदा मुनिम् ।
ततः सह तया नार्या मद्यपानमथापिबत्॥१७.२२॥
सुरापानरतं ते न सभार्यं तत्यजुस्ततः ।
गीतवाद्यादिवनिता-भोगसंसर्गदूषितम्॥१७.२३॥
मन्यमाना महात्मानं पीतासव-सविक्रियम् ।
नावाप दोषं योगीशो वारुणीं स पिबन्नपि॥१७.२४॥
अन्तावसायिवेश्मान्तर्मातरिश्वा वसन्निव ।
सुरां पिबन् सपत्नीकस्तपस्तेपे स योगवित् ।
योगीश्वारश्चिन्त्यमानो योगिभिर्मुक्तिकाङ्क्षिभिः॥१७.२५॥
इति श्रीमार्कण्डेपुराणे पितापुत्रसंवादे दत्तात्रेयोत्पत्तिर्नाम सप्तदशोऽध्यायः
अष्टादशोऽध्यायः
पुत्र उवाच
कस्यचित्त्वथ कालस्य कृतवीर्यात्मजोर्ऽजुनः ।
कृतवीर्ये दिवं याते मन्त्रिभिः सपुरोहितैः॥१८.१॥
पौरैश्चात्माभिषेकार्थं समाहूतोऽब्रवीदिदम् ।
नाहं राज्यं करिष्यामि मन्त्रिणो नरकोत्तरम्॥१८.२॥
यदर्थं गृह्यते शुल्कं तदनिष्पादयन् वृथा ।
पण्यानां द्वादशं भागं भूपालाय वणिग्जनः॥१८.३॥
दत्त्वार्थरक्षिभिर्मार्गे रक्षितो याति दस्युतः ।
गोपाश्च घृततक्रादेः षड्भागञ्च कृषीबलाः॥१८.४॥
दत्त्वान्यद्भूभुजे दद्युर्यदि भागं ततोऽधिकम् ।
पण्यादीनामशेषाणां वणिजो गृह्णतस्ततः॥१८.५॥
इष्टापूर्तविनाशाय तद्राज्ञश्चौरधर्मिणः ।
यद्यन्यैः पाल्यते लोकस्तद्वृत्तयन्तरसंश्रितैः॥१८.६॥
गृह्णतो बलिषड्भागं नृपतेर्नरको ध्रुवम् ।
निरूपितमिदं राज्ञः पूर्वै रक्षणवेतनम्॥१८.७॥
अरक्षंश्चौरतश्चौर्यं तदेनो नृपतेर्भवेत् ।
तस्माद्यदि तपस्तप्त्वा प्राप्तो योगित्वमीप्सितम्॥१८.८॥
भुवः पालनसामर्थ्य-युक्त एको महीपतिः ।
पृथिव्यां शस्त्रधृङ्मान्यस्त्वहमेवर्धिसंयुतः ।
ततो भविष्ये नात्मानं करिष्ये पापभागिनम्॥१८.९॥
पुत्र उवाच
तस्य तन्निश्चयं ज्ञात्वा मन्त्रिमध्यस्थितोऽब्रवीत् ।
गर्गो नाम महाबुद्धिर्मुनिश्रेष्ठो वयोऽतिगः॥१८.१०॥
यद्येवं कर्तुकामस्त्वं राज्यं सम्यक् प्रशासितुम् ।
ततो शृणुष्व मे वाक्यं कुरुष्व च नृपात्मज॥१८.११॥
दत्तात्रेयं महाभागं सह्यद्रोणीकृताश्रयम् ।
तमाराधय भूपाल ! पाति यो भुवनत्रयम्॥१८.१२॥
योगयुक्तं महाभागं सर्वत्र समदर्शिनम् ।
विष्णोरंशं जगद्धातुरवतीर्णं महीतले॥१८.१३॥
यमाराध्य सहस्राक्षः प्राप्तवान् पदमात्मनः ।
हृतं दुरात्मभिर्दैत्यैर्जघान च दितेः सुतान्॥१८.१४॥
अर्जुन उवाच
कथमाराधितो देवैर्दत्तात्रेयः प्रतापवान् ।
कथञ्चापहृतं दैत्यैरिन्द्रत्वं प्राप वासवः॥१८.१५॥
गर्ग उवाच
देवानां दानवानाञ्च युद्धमासीत् सुदारुणम् ।
दैत्यानामीश्वरो जम्भो देवानाञ्च शचीपतिः॥१८.१६॥
तेषाञ्च युध्यमानानां दिव्यः संवत्सरो गतः ।
ततो देवाः पराभूता दैत्या विजयिनोऽभवन्॥१८.१७॥
विप्रचित्तिमुखैर्देवा दानवैस्ते पराजिताः ।
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये॥१८.१८॥
बृहस्पतिमुपागम्य दैत्यसैन्यवधेप्सवः ।
अमन्त्रयन्त सहिता बालखिल्यैस्तथर्षिभिः॥१८.१९॥
बृहस्पतिरुवाच
दत्तात्रेयं महात्मानमत्रेः पुत्रं तपोधनम् ।
विकृताचरणं भक्त्या सन्तोषयितुमर्हथ॥१८.२०॥
स वो दैत्यविनाशाय वरदो दास्यते वरम् ।
ततो हनिष्यथ सुरा सहिता दैत्यदानवान्॥१८.२१॥
गर्ग उवाच
इत्युक्तास्ते तदा जग्मुर्दत्तात्रेयाश्रमं सुराः ।
ददृशुश्च महात्मानं तं ते लक्ष्म्या समन्वितम्॥१८.२२॥
उद्गीयमानं गन्धर्वैः सुरापानरतं मुनिम् ।
ते तस्य गत्वा प्रणतिमवदन् साध्यसाधनम्॥१८.२३॥
चक्रुः स्तवञ्चोपजह्रुर्भक्ष्यभोज्यस्त्रगादिकम् ।
तिष्ठन्तमनुतिष्ठन्ति यान्तं यान्ति दिवौकसः॥१८.२४॥
आराधयामासुरधः स्थितास्तिष्ठन्तमासने ।
स प्राह प्रणतान् देवान् दत्तात्रेयः किमिष्यते ।
मत्तो भवद्भिर्येनेयं शुश्रूषा क्रियते मम॥१८.२५॥
देवा ऊचुः
दानवैर्मुनिशार्दूल ! जम्भाद्यैर्भूर्भुवादिकम् ।
हृतं तैलोक्यमाक्रम्य क्रतुभागाश्च कृत्स्नशः॥१८.२६॥
तद्वधे कुरु बुद्धिं त्वं परित्राणाय नोऽनघ ।
त्वत्प्रसादादभीप्सामः पुनः प्राप्तं त्रिविष्टपम्॥१८.२७॥
दत्तात्रेय उवाच
मद्यासक्तोऽहमुच्छिष्टो न चैवाहं जितेन्द्रियः ।
कथमिच्छथ मत्तोऽपि देवाः शत्रुपराभवम्॥१८.२८॥
देवा ऊचुः
अनघस्त्वं जगन्नाथ न लेपस्तव विद्यते ।
विद्याक्षालनशुद्धान्तर्निविष्टज्ञानदीधिते !॥१८.२९॥
दत्तात्रेय उवाच
सत्यमेतत् सुरा विद्या ममास्ति समदर्शिनः ।
अस्यास्तु योषितः सङ्गादहमुच्छिष्टतां गतः॥१८.३०॥
स्त्रीसम्भोगो हि दोषाय सातत्येनोपसेवितः ।
एवमुक्तास्ततो देवाः पुनर्वचनमब्रुवन्॥१८.३१॥
देवा ऊचुः
अनघेयं द्विजश्रेष्ठ जगन्माता न दुष्यते ।
यथांशुमाला सूर्यस्य द्विज-चाण्डालसङ्गिनी॥१८.३२॥
गर्ग उवाच
एवमुक्तस्ततो देवैर्दत्तात्रेयोऽब्रवीदिदम् ।
प्रहस्य त्रिदशान् सर्वान् यद्येतद्भवतां मतम्॥१८.३३॥
तदाहूयासुरान् सर्वान् युद्धाय सुरसत्तमाः ।
इहानयत मद्दृष्टिगोचरं मा विलम्बतः॥१८.३४॥
मद्दृष्टिपातहुतभुक्-प्रक्षीणबलतेजसः ।
येन नाशमशेषास्ते प्रयान्ति मम दर्शनात्॥१८.३५॥
गर्ग उवाच
तस्य तद्वचनं श्रुत्वा देवैर्दैत्या महाबलाः ।
आहवाय समाहूता जग्मुर्देवगणान् रुषा॥१८.३६॥
ते हन्यमाना दैतेयैर्देवा शीघ्रं भयातुराः ।
दत्तात्रेयाश्रमं जग्मुः समेताः शरणार्थिनः॥१८.३७॥
तमेव विविशुर्दैत्याः कालयन्तो दिवौकसः ।
ददृशुश्च महात्मानं दत्तात्रेयं महाबलम्॥१८.३८॥
वामपार्श्वस्थितामिष्टामशेषजगतां शुभाम् ।
भार्याञ्चास्य सुचार्वङ्गीं लक्ष्मीमिन्दुनिभाननाम्॥१८.३९॥
नीलोत्पलाभनयनां पीनश्रोणिपयोधराम् ।
गदन्तीं मधुरां भाषां सर्वैर्योषिद्गुणैर्युताम्॥१८.४०॥
ते तां दृष्ट्वाग्रतो दैत्याः साभिलाषा मनोभवम् ।
न शेसुरुद्धतं धैर्यान्मनसा वोढुमातुराः॥१८.४१॥
त्यक्त्वा देवान् स्त्रियं तां तु हर्तुकामा हतौजसः ।
तेन पापेन मुह्यन्तः संशक्तास्ते ततोऽब्रुवन्॥१८.४२॥
स्त्रोरत्नमेतत् त्रैलोक्ये सारं नो यदि वै भवेत् ।
कृतकृत्यास्ततः सर्व इति नो भावितं मनः॥१८.४३॥
तस्मात् सर्वे समुत्क्षिप्य शिविकायां सुरार्दनाः ।
आरोप्य स्वमधिष्ठानं नयाम इति निश्चिताः॥१८.४४॥
गर्ग उवाच
सानुरागास्ततस्ते तु प्रोक्ताश्चेत्त्थं परस्परम् ।
तस्य तां योषितं साध्वीं समुत्क्षिप्य स्मरार्दिताः॥१८.४५॥
शिविकायां समारोप्य सहिता दैत्यदानवाः ।
शिरः सु शिविकां कृत्वा स्वस्थानाभिमुखं ययुः॥१८.४६॥
दत्तात्रेयस्ततो देवान् विहस्येदमथाब्रवीत् ।
दिष्ट्या वर्धथ दैत्यानामेषा लक्ष्मीः शिरोगता ।
सप्त सथानान्यतिक्रान्ता नवमन्यमुपैष्यति॥१८.४७॥
देवा ऊचुः
कथयस्व जगन्नाथ ! केषु स्थानेष्वस्थिता ।
पुरुषस्य फलं किं वा प्रयच्छत्यथ नश्यति॥१८.४८॥
दत्तात्रेय उवाच
नृणां पदे स्थिता लक्ष्मीर्निलयं सम्प्रयच्छति ।
सक्थ्न्योश्च संस्थिता वस्त्रं तथा नानाविधं वसु॥१८.४९॥
कलात्रञ्च गुह्यसंस्था क्रोडस्थापत्यदायिनी ।
मनोरथान् पूरयति पुरुषाणां हृदि स्थिता॥१८.५०॥
लक्ष्मीर्लक्ष्मीवतां श्रेष्ठा कण्ठस्था कण्ठभूषणम् ।
अभीष्टबन्धुदारैश्च तथाश्लेषं प्रवासिभिः॥१८.५१॥
सृष्टानुवाक्यलावण्यमाज्ञामवितथां तथा ।
मुखसंस्था कवित्वञ्च यच्छत्युदधिसम्भवा॥१८.५२॥
शिरोगता सन्त्यजति ततोऽन्यं याति चाश्रयम् ।
सेयं शिरोगता चैतान् परित्यक्ष्यति साम्प्रतम्॥१८.५३॥
प्रगृह्यास्त्राणि बध्यन्तां तस्मादेते सुरारयः ।
न भेतव्यं भृशञ्चैते मया निस्तेजसः कृताः ।
परदारावमर्षाच्च दग्धपुण्या हतौजसः॥१८.५४॥
ततस्ते विविधैरस्त्रैर्वध्यमानाः सुरारयः ।
मूध्नि लक्ष्म्या समाक्रान्ता विनेशुरिति नः श्रुतम्॥१८.५५॥
लक्ष्मीश्चीत्पत्य सम्प्राप्ता दत्तात्रेयं महामुनिम् ।
स्तूयमाना सुरैः सर्वैर्दैत्यनाशान्मुदान्वितैः॥१८.५६॥
प्रणिपत्य ततो देवा दत्तात्रेयं मनीषिणम् ।
नाकपृष्ठमनुप्राप्ता यथापूर्वं गतज्वराः॥१८.५७॥
तथा त्वमपि रोजेन्द्र ! यदीच्छसि यथेप्सितम् ।
प्राप्तुमैश्वर्यमतुलं तूर्णमाराधयस्व ताम्॥१८.५८॥
इति श्रीमार्कण्डेयपुराणेठगर्गवाक्यम्ऽ नामाष्टादशोऽध्यायः
एकोनविंशोऽध्यायः
पुत्र उवाच
इत्यृषेर्वचनं श्रुत्वा कार्तवीर्यो नरेश्वरः ।
दत्तात्रेयाश्रमं गत्त्वा तं भक्त्या समपूजयत्॥१९.१॥
पादसंवाहनाद्येन मध्वाद्याहरणेन च ।
स्त्रक्चन्दनादिगन्धाम्बु-फलाद्यनयनेन च॥१९.२॥
तथान्नसाधनैस्तस्य उच्छिष्टापोहनेन च ।
परितुष्टो मुनिर्भूतं तमुवाच तथैव सः॥१९.३॥
यथैवोक्ताः पुरा देवा मद्यभोगादिकुत्सनम् ।
स्त्री चेयं मम पार्श्वस्थेत्येतद्भोगाच्च कुत्सितम्॥१९.४॥
सदैवाहं न मामेवमुपरोद्धुं त्वमर्हसि ।
अशक्तमुपकाराय शक्तमाराधयस्व भोः॥१९.५॥
जड उवाच
तेनैवमुक्तो मुनिना स्मृत्वा गर्गवचश्च तत् ।
प्रत्युवाच प्रणम्यैनं सार्तवीर्यार्जुनस्तदा॥१९.६॥
अर्जुन उवाच
किं मां मोहयसे देव ! स्वां मायां समुपाश्रितः ।
अनघस्त्वं तथैवेयं देवी सर्वभवारणिः॥१९.७॥
इत्युक्तः प्रीतिमान् देवस्ततस्तं प्रत्युवाच ह ।
कार्तवीर्यं महाभागं वशीकृतमहीतलम्॥१९.८॥
वरं वृणीष्व गुह्यं मे यत् त्वया समुदीरितम् ।
तेन तुष्टिः परा जाता त्वय्यद्य मम पार्थिव॥१९.९॥
ये च मां पूजयिष्यन्ति गन्धमाल्यादिभिर्नराः ।
मांसमद्योपहारैश्च मिष्टान्नैश्चाज्यसंयुतैः॥१९.१०॥
लक्ष्मीसमेतं गीतैश्च ब्राह्मणानां तथार्च्चनैः ।
वाद्यैर्मनोरमैर्वोणा-वेणु-शङ्कादिभिस्तथा॥१९.११॥
तेषामहं परां तुष्टिं पुत्रदारधनादिकम् ।
प्रदास्याम्यवघातञ्च हनिष्याम्यवमन्यताम्॥१९.१२॥
स त्वं वरय भद्रं ते वरं यन्मसेप्सितम् ।
प्रसादसुमुखस्तेऽहं गुह्यनामप्रकीर्तनात्॥१९.१३॥
कार्तवीर्य उवाच
यदि देव प्रसन्नस्त्वं तत् प्रयच्छर्धिमुत्तमाम् ।
यया प्रजाः पालयेऽहं न चाधर्ममवाप्नुयाम्॥१९.१४॥
परानुसरणे ज्ञानमप्रतिद्वन्द्वतां रणे ।
सहस्रमाप्तुमिच्छामि बाहूनां लघुतागुणम्॥१९.१५॥
असङ्गा गतयः सन्तु शैलाकाशाम्बु-भूमिषु ।
पातालेषु च सर्वेषु वधश्चाप्यधिकान्नरात्॥१९.१६॥
तथोन्मार्गप्रवृत्तस्य चास्तु सन्मार्गदेशकः ।
सन्तु मेऽतिथयः श्लाघ्या वित्तदाने तथाक्षये॥१९.१७॥
अनष्टद्रव्यता राष्ट्रे ममानुस्मरणेन च ।
त्वयि भक्तिर्ममैवास्तु नित्यमव्यभिचारिणी॥१९.१८॥
दत्तात्रेय उवाच
यत्र ते कीर्तिताः सर्वे तान् वरान् समवाप्स्यसि ।
मत्प्रसादाच्च भविता चक्रवर्तो त्वमीश्वरः॥१९.१९॥
जड उवाच
प्रणिपत्य ततस्तस्मै दत्तात्रेयाय सोऽर्जुनः ।
आनाय्य प्रकृतीः सम्यगभिषेकमगृह्णत॥१९.२०॥
आघोषयामास तदा स्थितो राज्ये स हैहयः ।
दत्तात्रेयात् परामृद्धिमवाप्यातिबलान्वितः॥१९.२१॥
अद्यप्रभृति यः शस्त्रं मामृतेऽन्यो ग्रहीष्यति ।
हन्तव्यः स मया दस्युः परिहंसारतोऽपि वा॥१९.२२॥
इत्याज्ञप्तेन तद्राष्ट्रे कश्चिदायुधधृङ्नरः ।
तमृते पुरुषव्याघ्रं बभूवोरुपराक्रमः॥१९.२३॥
स एव ग्रामपालोऽभूत् पशुपालः स एव च ।
क्षेत्रपालः स एवासीद् द्विजातीनाञ्च रक्षिता॥१९.२४॥
तपस्विनां पालयिता सार्थपालस्तु सोऽभवत् ।
द्स्यु-व्यालाग्रि-शस्त्रादि-भयेष्वब्धौ निमज्जताम्॥१९.२५॥
अन्यासु चैव मग्रानामापत्सु परवीरहा ।
स एव संस्मृतः सद्यः समुद्धर्ताभवन्नृणाम्॥१९.२६॥
अनष्टद्रव्यता चासीत् तस्मिन् शासति पार्थिवे ।
तेनेष्टं बहुभिर्यज्ञैः समाप्तवरदक्षिणैः॥१९.२७॥
तेनैव च तपस्तप्तं संग्रामेष्वभिचेष्टितम् ।
तस्यार्धिमतिमानञ्च दृष्ट्वा प्राहाङ्गिरा मुनिः॥१९.२८॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा संग्रामे चातिचेष्चितैः॥१९.२९॥
दत्तात्रेयाद्दिन् यस्मिन् स प्रापर्धि नरेश्वरः ।
तस्मिंस्तस्मिन् दिने यागं दत्तात्रेयस्य सोऽकरोत्॥१९.३०॥
तत्रैव च प्रजाः सर्वास्तस्मिन्नहनि भूपतेः ।
तस्यर्धि परमां दृष्ट्वा यागं चक्रुः समाधिना॥१९.३१॥
इत्येतत् तस्य माहात्म्यं दत्तात्रेयस्य धीमतः ।
विष्णोश्चराचरगुरोरनन्तस्य महात्मनः॥१९.३२॥
प्रादुर्भावाः पुराणेषु कथ्यन्ते शार्ड्गधन्विनः ।
अनन्तस्याप्रमेयस्य शङ्ख-चक्र-गदाभृतः॥१९.३३॥
एतस्य परमं रूपं यश्चिन्तयति मानवः ।
स सुखी स च संसारात् समुत्तीर्णोऽचिराद्भवेत्॥१९.३४॥
सदैव वैष्णवानाञ्च भक्त्याहं सुलभोऽस्मि भोः ।
इत्येवं यस्य वै वाचस्तं कथं नाश्रयेज्जनः॥१९.३५॥
अधर्मस्य विनाशाय धर्माचारार्थमेव च ।
अनादिनिधनो देवः करोति स्थिति-पालनम्॥१९.३६॥
तथैव जन्म चाख्यातमलर्कं कथयामि ते ।
तथा च योगः कथितो दत्तात्रेयेण तस्य वै ।
पितृभक्तस्य राजर्षेरलर्कस्य महात्मनः॥१९.३७॥
इति श्रीमार्कण्डेयपुराणे दत्तात्रेयीये ऊनविंशोऽध्यायः
विंशोऽध्यायः
जड उवाच
प्राग्बभूव महावीर्यः शत्रुजिन्नाम पार्थिवः ।
तुतोष यस्य यज्ञेषु सोमावाप्त्या पुरन्दरः॥२०.१॥
तस्यात्मजो महावीर्यो बभूवारिविदारणः ।
बुद्धि-विक्रम-लावण्यैर्गुरुशक्राश्विभिः समः॥२०.२॥
स समानवयो-बुद्धि-सत्त्व-विक्रम-चेष्टितैः ।
नृपपुत्रो नृपसुतैर्नित्यमास्ते समावृतः॥२०.३॥
कदाचिच्छास्त्रसम्भार-विवेककृतनिश्चयः ।
कदाचित् काव्यसंलाप-गीत-नाटकसम्भवैः॥२०.४॥
तथैवाक्षविनोदैश्च शस्त्रास्त्रविनयेषु च ।
योग्यानि युद्धनागाश्व-स्यन्दनाभ्यासतत्परः॥२०.५॥
रेमे नरेन्द्रपुत्रोऽसौ नरेन्द्रतनयैः सह ।
यथैव हि दिवा तद्वद्रात्रवपि मुदा युतः॥२०.६॥
तेषां तु क्रीडतां तत्र द्विज-भूप-विशां सुताः ।
समानवयसः प्रीत्या रन्तुमायान्त्यनेकशः॥२०.७॥
कस्यचित्त्वथ कालस्य नागलोकान्महीतलम् ।
कुमारावागतौ नागौ पुत्रावश्वतरस्य तु॥२०.८॥
ब्रह्मरूपप्रतिच्छन्नौ तरुणौ प्रियदर्शनौ ।
तौ तैर्नृपसुतैः सार्धं तथैवान्यैर्द्विजन्मभिः॥२०.९॥
विनोदैर्विविधैस्तत्र तस्थतुः प्रीतिसंयुतौ ।
सर्व च ते नृपसुतास्ते च ब्रह्मविशां सुताः॥२०.१०॥
नागराजात्मजौ तौ च स्त्रानसंवाहनादिकम् ।
वस्त्रगन्धानुसयुक्तां चक्रुर्भागभुजिक्रियाम्॥२०.११॥
अहन्यहन्यनुप्राप्ते तौ च नागकुमारकौ ।
आजग्मतुर्मुदा युक्तौ प्रीत्या सूनोर्महीपतेः॥२०.१२॥
स च ताभ्यां नृपसुतः परं निर्वाणमाप्तवान् ।
विनोदैर्विविधैर्हास्य-संलापादिभिरेव च॥२०.१३॥
विना ताभ्यां न बुभुजे न सस्त्रौ न पपौ मधु ।
न रराम न जग्राह शास्त्राण्यात्मगुणर्धये॥२०.१४॥
रसातले च तौ रात्रिं विना तेन महात्मना ।
निश्वासपरमौ नीत्वा जग्मतुस्तं दिने दिने॥२०.१५॥
मर्त्यलोके परा प्रीतिर्भवतोः केन पुत्रकौ ।
सहेति पप्रच्छ पिता तावुभौ नागदारकौ॥२०.१६॥
दृष्टयोरत्र पाताले बहूनि दिवसानि मे ।
दिवा रजन्यामेवोभौ पश्यामि प्रियदर्शनौ॥२०.१७॥
जड उवाच
इति पित्रा स्वयं पृष्टौ प्रणिपत्य कृताञ्जली ।
प्रत्यूचतुर्महाभागावुरगाधिपतेः सुतौ॥२०.१८॥
पुत्रावूचतुः
पुत्रः शत्रुजितस्तात नाम्ना ख्यात ऋतध्वजः ।
रूपवानार्जवोपेतः शूरो मानी प्रियंवदः॥२०.१९॥
अनापृष्टकथो वाग्ग्मी विद्वान् मैत्रो गुणाकरः ।
मान्यमानयिता धीमान् ह्रीमान् विनयभूषणः॥२०.२०॥
तस्योपचारसम्प्रीति-सम्बोगापहृतं मनः ।
नागलोके भुवर्लोके न रतिं विन्दते पितः॥२०.२१॥
तद्वियोगेन नस्तात ! न पातालञ्च शीतलम् ।
परितापाय तत्सङ्गादाह्लादाय रविर्दिवा॥२०.२२॥
पितोवाच
पुत्रः पुण्यवतो धन्यः स यस्यैवं भविद्विधैः ।
परोक्षस्यापि गुणिभैः क्रियते गुणकीर्तनम्॥२०.२३॥
सन्ति शास्त्रविदोऽशीलाः सन्ति मूर्खाः सुशीलिनः ।
शास्त्रशीले समं मन्ये पुत्रौ धन्यतरन्तु तम्॥२०.२४॥
तस्य मित्रगुणान् मित्राण्यमित्राश्च पराक्रमम् ।
कथयन्ति सदा सत्सु पुत्रवांस्तेन वै पिता॥२०.२५॥
तस्योपकारिणः कच्चिद् भवद्भ्यामभिवाञ्छितम् ।
किञ्चिन्निष्पादितं वत्सौ परितोषाय चेतसः॥२०.२६॥
स धन्यो जीवितं तस्य तस्य जन्म सुजन्मनः ।
यस्यार्थिनो न विमुखा मित्रार्थो न च दुर्बलः॥२०.२७॥
मद्गृहे यद् सुवर्णादि रत्नं वाहनमासनम् ।
यच्चान्यत् प्रीतये तस्य तद्देयमविशङ्कया॥२०.२८॥
धिक् तस्य जीवितं पुंसो मित्राणामुपकारिणाम् ।
प्रतिरूपमकुर्वन् यो जीवामीत्यवगच्छति॥२०.२९॥
उपकारं सुहृद्वर्गे योऽपकारञ्च शत्रुषु ।
नृमेघो वर्षति प्राज्ञास्तस्येच्छन्ति सदोन्नतिम्॥२०.३०॥
पुत्रावूचतुः
किं तस्य कृतकृत्यस्य कर्तुं शक्येत केनचित् ।
यस्य सर्वार्थिनो गेहे सर्वकामैः सदार्च्चिताः॥२०.३१॥
यानि रत्नानि तद्गेहे पाताले तानि नः कुतः ।
वाहनासनयानानि भूषणान्यम्बराणि च॥२०.३२॥
विज्ञानं तत्र यच्चास्ति तदन्यत्र न विद्यते ।
प्राज्ञानामप्यसौ तात सर्वसन्देहहृत्तमः॥२०.३३॥
एकं तस्यास्ति कर्तव्यमसाध्यं तच्च नौ मतम् ।
हिरण्यगर्भ-गोविन्द-शर्वादीनीश्वरादृते॥२०.३४॥
पितोवाच
पथापि श्रोतुमिच्छामि तस्य यद् कार्यमुत्तमम् ।
असाध्यमथवा साध्यं किं वासाध्यं विपश्चिताम्॥२०.३५॥
देवत्वममरेशत्वं तत्पूज्यत्वञ्च मानवाः ।
प्रयान्ति वाञ्छितं वान्यद् दृढं ये व्यवसायिनः॥२०.३६॥
नाविज्ञातं न चागम्यं नाप्राप्यं दिवि चेह वा ।
उद्यतानां मनुष्याणां यतचित्तेन्द्रियात्मनाम्॥२०.३७॥
योजनानां सहस्राणि व्रजन् याति पितीलिकः ।
अगच्छन् वैनतेयोऽपि पादमेकं न गच्छति॥२०.३८॥
क्व भूतलं क्व च ध्रौव्यं स्थानं यत् प्राप्तवान् ध्रुवः ।
उत्तानपादनृपतेः पुत्रः सन् भूमिगोचरः॥२०.३९॥
तत् कथ्यतां महाभाग कार्यवान् येन पुत्रकौ ।
स भूपालसुतः साधुर्येनानृण्यं भवेत वाम्॥२०.४०॥
पुत्रावूचतुः
तेनाख्यातमिदं तात पूर्ववृतं महात्मना ।
कौमारके यथा तस्य वृतं सद्वृत्तशालिनः॥२०.४१॥
तन्तु शत्रुजितं तात पूर्वं कश्चिदिद्वजोत्तमः ।
गालवोऽभ्यागमद्धीमान् गृहीत्वा तुरगोत्तमम्॥२०.४२॥
प्रत्युवाच च राजानं समुपेत्याश्रमं मम ।
कोऽपि दैत्याधमो राजन् विध्वंसयति पापकृत्॥२०.४३॥
तत्तद्रूपं समास्थाय सिंहेभ-वनचारिणाम् ।
अन्येषाञ्चाल्पकायानामहर्निशमकारणात्॥२०.४४॥
समाधिध्यानयुक्तस्य मौनव्रतरतस्य च ।
तथा करोति विघ्रानि यथा चलति मे मनः॥२०.४५॥
दग्धं कोपाग्निना सद्यः समर्थस्त्वं वयं न तु ।
दुः खार्जितस्य तपसो व्ययमिच्छामि पार्थिव॥२०.४६॥
एकदा तु मया राजन्नतिनिर्विण्णचेतसा ।
तत् क्लेशितेन निश्वासो निरीक्ष्यासुरमुज्झितः॥२०.४७॥
ततोऽम्बरतलात् सद्यः पतितोऽयं तुरङ्गमः ।
वाक् चाशरीरिणी प्राह नरनाथ शृणुष्व ताम्॥२०.४८॥
अश्रान्तः सकलं भूमेर्वलयं तुरगोत्तमः ।
समर्थः क्रान्तुमर्केण तवायं प्रतिपादितः॥२०.४९॥
पातालाम्बरतोयेषु न चास्य विहता गतिः ।
समस्तदिक्षु व्रजतो न भङ्गः पर्वतेष्वपि॥२०.५०॥
यतो भूवलयं सर्वमश्रान्तोऽयं चरिष्यति ।
अतः कुवलयो नाम्ना ख्यातिं लोके प्रयास्यति॥२०.५१॥
क्लिश्यत्यहर्निशं पापो यश्च त्वां दानवाधमः ।
तमप्येनं समारुह्य द्विजश्रेष्ठ हनिष्यति॥२०.५२॥
शत्रुजिन्नाम भूपालस्तस्य पुत्र ऋतध्वजः ।
प्राप्यैतदश्वरत्नञ्च ख्यातिमेतेन यास्यति॥२०.५३॥
सोऽहं त्वां समनुप्राप्तस्तपसो विघ्रकारिणम् ।
तं निवारय भूपाल भागभाङ्नृपतिर्यतः॥२०.५४॥
तदेतश्वरत्नं ते मया भूप निवेदितम् ।
पुत्रमाज्ञापय तथा यथा धर्मो न लुप्यते॥२०.५५॥
स तस्य वचनाद्राजा तं वै पुत्रमृतध्वजम् ।
तमश्वरत्नमारोप्य कृतकौतुकमङ्गलम्॥२०.५६॥
अप्रेषयत धर्मात्मा गालवेन समं तदा ।
स्वमाश्रमपदं सोऽपि तमादाय ययौ मुनिः॥२०.५७॥
इति श्रीमार्कण्डेयपुराणे पिता-पुत्रसंवादे कुवलयाश्वीयोऽ नाम विंशोऽध्यायः
एकविंशोऽध्यायः
गालवेन समं गत्वा नृपपुत्रेण तेन यत् ।
कृतं तत् कथ्यतां पुत्रौ विचित्रा युवयोः कथा॥२१.१॥
पुत्रावूचतुः
स गालवाश्रमे रम्ये तिष्ठन् भूपालनन्दनः ।
सर्वविघ्रोपशमनं चकार ब्रह्मवादिनाम्॥२१.२॥
वीरं कुवलयाश्वं तं वसन्तं गालवाश्रमे ।
मदावलेपोपहतो नाजानाद्दानवाधमः॥२१.३॥
ततस्तं गालवं विप्रं सन्ध्योपासनतत्परम् ।
शौकरं रूपमास्थाय प्रधर्षयितुमागतम्॥२१.४॥
मुनिशिष्यैरथोत्क्रुष्टे शीघ्रमारुह्य तं हयम् ।
अन्वधावद्वराहं तं नृपपुत्रः शरासनी॥२१.५॥
आजघान च बाणेन चन्द्रार्धाकारवर्चसा ।
आकृष्य बलवच्चापं चारुचित्रोपशोभितम्॥२१.६॥
नाराचाभिहतः शीघ्रमात्मत्राणपरो मृगः ।
गिरिपादपसम्बाधां सोऽन्वक्रामन्महाटवीम्॥२१.७॥
तमन्वधावद्वेगेन तुरगोऽसौ मनोजवः ।
चोदितो राजपुत्रेण पितुरादेशकारिणा॥२१.८॥
अतिक्रम्याथ वेगेन योजनानि सहस्रशः ।
धरण्यां विवृते गर्ते निपपात लघुक्रमः॥२१.९॥
तस्यानन्तरमेवाशु सोऽप्यश्वी नृपतेः सुतः ।
निपपात महागर्ते तिमिरौघसमावृते॥२१.१०॥
ततो नादृश्यत मृगः स तस्मिन् राजसूनुना ।
प्रकाशञ्च स पातालमपश्यत् तत्र नापि नम्॥२१.११॥
ततोऽपश्यत् स सौवर्ण-प्रासादशतसंकुलम् ।
पुरन्दरपुरप्रख्यं पुरं प्राकारशोभितम्॥२१.१२॥
तत् प्रविश्य स नापश्यत् तत्र कञ्चिन्नरं पुरे ।
भ्रमता च ततो दृष्टा तत्र योषित् त्वरान्विता॥२१.१३॥
सा पृष्टा तेन तन्वङ्गी प्रस्थिता केन कस्य वा ।
नोवाच किञ्चित् प्रासादमारुरोह च भामिनी॥२१.१४॥
सोऽप्यश्वमेकतो बद्ध्वा तामेवानुससार वै ।
विस्मयोत्फुल्लनयनो निः शङ्को नृपतेः सुतः॥२१.१५॥
ततोऽपश्यत् सुविस्तीर्णे पर्यङ्के सर्वकाञ्चने ।
निषण्णां कन्यकामेकां कामयुक्तां रतीमिव॥२१.१६॥
विस्पष्टेन्दुमुखीं सुभ्रूं पीनश्रोणिपयोधराम् ।
बिम्बाधरोष्ठीं नन्वङ्गीं नीलोत्पलविलोचनाम्॥२१.१७॥
रक्ततुङ्गनखीं श्यामां मृद्वीं ताम्रकराङ्घ्रिकाम् ।
करभोरुं सुदशनां नीलसूक्ष्मस्थिरालकाम्॥२१.१८॥
तां दृष्ट्वा चारुसर्वाङ्गीमनङ्गाङ्गलतामिव ।
सोऽमन्यत् पार्थिवसुतस्तां रसातलदेवताम्॥२१.१९॥
सा च दृष्ट्वैव तं बाला नीलकुञ्चितमूर्धजम् ।
पीनोरुस्कन्धबाहुं तममंस्त मदनं शुभा॥२१.२०॥
उत्तस्थौ च महाभागा चित्तक्षोभमवाप्य सा ।
लज्जाविस्मयदैन्यानां सद्यस्तन्वी वशं गता॥२१.२१॥
कोऽयं देवो नु यक्षो वा गन्धर्वो वोरगोऽपि वा ।
विद्याधरो वा सम्प्राप्तः कृतपुण्यरतिर्नरः॥२१.२२॥
एवं विचिन्त्य वहुधा निश्वस्य च महीतले ।
उपविश्य ततो भेजे सा मूर्च्छां मदिरक्षणा॥२१.२३॥
सोऽपि कामशराघातमवाप्य नृपतेः सुतः ।
तां समाश्वासयामास न भेतव्यमिति ब्रुवन्॥२१.२४॥
सा च स्त्री या तदा दृष्टा पूर्वं तेन महात्मना ।
तालवृन्तमुपादाय पर्यवीजयदाकुला॥२१.२५॥
समाश्वास्य तदा पृष्टा तेन संमोहकारणम् ।
किञ्चिल्लज्जान्विता बाला तस्याः सख्युर्न्यवेदयत्॥२१.२६॥
सा चास्मै कथयामास नृपपुत्राय विस्तरात् ।
मोहस्य कारणं सर्वं तद्दर्शनसमुद्भवम् ।
यथा तया समाख्यातं तद्वृत्तान्तञ्च भामिनी॥२१.२७॥
विश्वावसुरिति ख्यातो दिवि गन्धर्वराट् प्रभो ।
तस्येयमात्मजा सुभ्रूर्नाम्नरा ख्याता मदालसा॥२१.२८॥
वज्रकेतोः सुतश्चोग्रो दानवोऽरिविदारणः ।
पातालकेतुर्विख्यातः पातालान्तरसंश्रयः॥२१.२९॥
तेनेयमुद्यानगता कृत्वा मायां तमोमयीम् ।
अपहृत्य मयां हीना बाला नीता दुरात्मना॥२१.३०॥
आगामिन्यां त्रयोदश्यामुद्वक्ष्यति किलासुरः ।
स तु नार्हति चार्वङ्गीं शूद्रो वेदश्रुतीमिव॥२१.३१॥
अतीते च दिने बालामात्मव्यापदनोद्यताम् ।
सुरभिः प्राह नायं त्वं प्राप्स्यते दानवाधमः॥२१.३२॥
मर्त्यलोकमनुप्राप्तं य एनं छेत्स्यते शरैः ।
सते भर्ता महाभागे अचिरेण भविष्यति॥२१.३३॥
अहं चास्याः सखी नाम्नरा कुण्डलेति मनस्विनी ।
सुता विन्ध्यवतः पत्नी वीरपुष्करमालिनः॥२१.३४॥
हते भर्तरि शुम्भेन तीर्थात् तीर्थमनुव्रता ।
चरामि दिव्यया गत्या परलोकार्थमुद्यता॥२१.३५॥
पातालकेतुर्दुष्टात्मा वाराहं वपुरास्थितः ।
केनापि विद्धो बाणेन मुनीनां त्राणकारणात्॥२१.३६॥
तञ्चाहं तत्त्वतोऽन्विष्य त्वरिता समुपागता ।
सत्यमेव स केनापि ताडितो दानवाधमः॥२१.३७॥
इयञ्च मूर्च्छामगमत् कारणं यत् शृणुष्व तत् ।
त्वयि प्रीतिमती बाला दर्शनादेव मानद॥२१.३८॥
देवपुत्रोपमे चारु-वाक्यादिगुणशालिनि ।
भर्या चान्यस्य विहिता येन विद्धः स दानवः॥२१.३९॥
एतस्मात् कारणान्मोहं महान्तमियमागता ।
यावज्जीवं च तन्वङ्गी दुः खमेवोपभोक्ष्यते॥२१.४०॥
त्वय्यस्या हृदयं रागि भर्ता चान्यो भविष्यति ।
यावज्जीवमतो दुः खं सुरभ्या नान्यथा वचः॥२१.४१॥
अहं त्वस्याः प्रभी प्रीत्या दुः खितात्र समागता ।
यतो विशेषो नैवास्ति स्वसखी-निजदेहयोः॥२१.४२॥
यद्येषाभिमतं वीरं पतिमाप्नोति शोभना ।
ततस्तपस्त्वहं कुर्यां निर्व्यलीकेन चेतसा॥२१.४३॥
त्वन्तु को वा किमर्थं वा सम्प्राप्तोऽत्र महामते ।
देवो दैत्यो नु गन्धर्वः पन्नगः किन्नरोऽपि वा॥२१.४४॥
न ह्यत्र मानुषगतिर्न चेदृङ्मानुषं वपुः ।
तत्त्वमाख्याहि कथितं यथैवावितथं मया॥२१.४५॥
यन्मां पृच्छसि धर्मज्ञे कस्त्वं किं वा समागतः ।
तच्छृणुष्वामलप्रज्ञे कथयाम्यादितस्तव॥२१.४६॥
राज्ञः शत्रुजितः पुत्रः पित्रा सम्प्रेषितः शुभे ।
मुनिरक्षणमुद्दिश्य गालवाश्रममागतः॥२१.४७॥
कुर्वतो मम रक्षाञ्च मुनीनां धर्मचारिणाम् ।
विघ्नार्थमागतः कोषऽपि शौकरं रूपमास्थितः॥२१.४८॥
मया स विद्धो बाणेन चन्द्रार्धाकारवर्च्चसा ।
अपक्रान्तोऽतिवेगेन तमस्म्यनुगतो हयी॥२१.४९॥
पपात सहसा गर्ते सक्रीडोऽश्वश्च मामकः ।
सोऽहमश्वं समारूढस्तमस्येकः परिभ्रमन्॥२१.५०॥
प्रकाशमासादितवान् दृष्टा च भवती मया ।
पृष्टया च न मे किञ्चिद्भवत्या दत्तमुत्तरम्॥२१.५१॥
त्वाञ्चैवानुप्रविष्टोऽहमिमं प्रासादमुत्तमम् ।
इत्येतत् कथितं सत्यं न देवोऽहं न दानवः॥२१.५२॥
न पन्नगो न गन्धर्वः किन्नरो वा शुचिस्मिते ।
समस्ता पूज्यपक्षो वै देवाद्या मम कुण्डले ।
मनुष्योऽस्मि विशङ्का ते न कर्तव्यात्र कर्हिचित्॥२१.५३॥
पुत्रावूचतुः
ततः प्रहृष्टा सा कन्या सखीवदनमुत्तमम् ।
लज्जाजडं वीक्षमाणा किञ्चिन्नोवाच भामिनी॥२१.५४॥
सा सखी पुनरप्येनां प्रहृष्टा प्रत्युवाच ह ।
यथावत् कथितं तेन सुरभ्या वचनानुगे॥२१.५५॥
वीर सत्यमसन्दिग्धं भवताभिहितं वचः ।
नान्यत्र हृदयन्त्वस्या दृष्ट्वा स्थैर्यं प्रयास्यति॥२१.५६॥
चन्द्रमेवाधिका कान्तिः समुपैति रविं प्रभा ।
भूतिर्धन्यं धृतिर्धोरं क्षान्तिरभ्येति चोत्तमम्॥२१.५७॥
त्वयैव विद्धोऽसन्दिग्धं स पापो दानवाधमः ।
सुरभिः सा गवां माता कथं मिथ्या वदिष्यति॥२१.५८॥
तद्धन्येयं सभाग्या च त्वत्सम्बन्धं समेत्य वै ।
कुरुष्व वीर यत् कार्यं विधिनैव समाहितम्॥२१.५९॥
पुत्रावूचतुः
परवानहमित्याह राजपुत्रः सतां पितुः ।
सा च तं चिन्तयामास तुम्बुरुं तत्कुले गुरुम्॥२१.६०॥
स चापि तत्क्षणात् प्राप्तः प्रगृहीतसमित्कुशः ।
मदालसायाः सम्प्रीत्या कुण्डलागौरवेण च॥२१.६१॥
प्रज्वाल्य पावकं हुत्वा मन्त्रवित् कृतमङ्गलाम् ।
वैवाहिकविधिं कन्यां प्रतिपाद्य यथागतम्॥२१.६२॥
जगाम तपसे धीमान् स्वाश्रमपदं तदा ।
सा चाह तां सखीं बालां कृतार्थास्मि वरानने॥२१.६३॥
संयुक्ताममुना दृष्ट्वा त्वामहं रूपशालिनीम् ।
तमस्तप्स्येऽहमतुलं निर्व्यलीकेन चेतसा॥२१.६४॥
तीर्थाम्बुधूतपापा च भवित्री नेदृशी यथा ।
तञ्चाह राजपुत्रं सा प्रश्रयावनता तदा ।
गन्तुकामा निजसखी-स्नेहविक्लवभाषिणी॥२१.६५॥
पुंभिरप्यमितप्रज्ञ नोपदेशो भवद्विधे ।
दातव्यः किमुत स्त्रीभिरतो नोपदिशामि ते॥२१.६६॥
किन्त्वस्यास्तनुमध्यायाः स्नेहाकृष्टेन चेतसा ।
त्वया विश्रम्भिता चास्मि स्मारयाम्यरिसूदन॥२१.६७॥
भर्तव्या रक्षितव्या च भार्या हि पतिना सदा ।
धर्मार्थकामसंसिद्ध्यै भार्या भर्तृसहायिनी॥२१.६८॥
यदा भार्या च भर्ता च परस्परवशानुगौ ।
तदा धर्मार्थकामानां त्रयाणामपि सङ्गतम्॥२१.६९॥
कथं भार्यामृते धर्ममर्थं वा पुरुषः प्रभो ।
प्राप्नोति काममथवा तस्यां त्रितयमाहितम्॥२१.७०॥
तथैव भर्तारमृते भार्या धर्मादिसाधने ।
न समर्था त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः॥२१.७१॥
देवाता-पितृ-भृत्यानामतिथीनाञ्च पूजनम् ।
न पुंभिः शक्यते कर्तुमृते भार्यां नृपात्मज॥२१.७२॥
प्राप्तोऽपि चार्थो मनुजैरानीतोऽपी निजं गृहम् ।
क्षयमेति विना भार्यां कुभार्यासंश्रयेऽपि वा॥२१.७३॥
कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते ।
दम्पत्योः सहधर्मेण त्रयीधर्ममवाप्नुयात्॥२१.७४॥
पितॄन् पुत्रैस्तथैवान्न-साधनैरतिथीन् नरः ।
पूजाभिरमरांस्तद्वत् साध्वीं भार्यां नरोऽवति॥२१.७५॥
स्त्रियाश्चापि विना भर्त्रा धर्मकामार्थसन्ततिः ।
नैव तस्मात् त्रिवर्गोऽयं दाम्पत्यमधिगच्छति॥२१.७६॥
एतन्मयोक्तं युवयोर्गच्छामि च यथेप्सितम् ।
वर्ध त्वमनया सार्धं धन-पुत्र-सुखायुषा॥२१.७७॥
पुत्रावूचतुः
इत्युक्त्वा सा परिष्वज्य स्वसखीं तं नमस्य च ।
जगाम दिव्यया गत्या यथाभिप्रेतमात्मनः॥२१.७८॥
सोऽपि शत्रुजितः पुत्रस्तामारोप्य तुरङ्गमम् ।
निर्गन्तुकामः पातालाद्विज्ञातो दनुसम्भवैः॥२१.७९॥
ततस्तैः सहसोत्क्रुष्टं ह्रियते ह्रियतेऽति वै ।
कन्यारत्नं यदानीतं दिवः पातालकेतुना॥२१.८०॥
ततः परिघ-निस्त्रिंश-गदा-शूल-शरायुधम् ।
दानवानां बलं प्राप्तं सह पातालकेतुना॥२१.८१॥
तिष्ठ तिष्ठेति जल्पन्तस्ते तदा दानवोत्तमाः ।
शरवर्षैस्तथा शूलैर्ववर्षुर्नृपनन्दनम्॥२१.८२॥
स च शत्रुजितः पुत्रस्तदस्त्राण्यतिवीर्यवान् ।
चिच्छेद शरजालेन प्रहसन्निव लीलया॥२१.८३॥
क्षणेन पातालतलमसिखक्त्यृष्टिशायकैः ।
छिन्नैः सञ्छन्नमभवदृतध्वजशरोत्करैः॥२१.८४॥
ततोऽस्त्रं त्वाष्ट्रमादाय चिक्षेप प्रति दानवान् ।
तेन ते दानवाः सर्वे सह पातालकेतुना॥२१.८५॥
ज्वालामालातितीव्रेण स्फुटदस्थिचयाः कृताः ।
निर्दग्धाः कापिलं तेजः समासाद्येव सागराः॥२१.८६॥
ततः स राजपुत्रोऽश्वी निहत्यासुरसत्तमान् ।
स्त्रीरत्नेन समं तेन समागच्छत् पितुः पुरम्॥२१.८७॥
प्रणिपत्य च तत् सर्वं स तु पित्रे न्यवेदयत् ।
पातालगमनञ्चैव कुण्डलायाश्च दर्शनम्॥२१.८८॥
तद्वन्मदालसाप्राप्तिं दानवैश्चापि सङ्गरम् ।
वधञ्च तेषामस्त्रेण पुनरागमनं तथा॥२१.८९॥
इति श्रुत्वा पिता तस्य चरितं चारुचेतसः ।
प्रीतिमानभवच्चेदं परिष्वज्याह चात्मजम्॥२१.९०॥
सत्पात्रेण त्वया पुत्र तारितोऽहं महात्मना ।
भयेभ्यो मुनयस्त्राता येन सद्धर्मचारिणः॥२१.९१॥
मत्पूर्वैः ख्यातिमानीतं मया विस्तारितं पुनः ।
पराक्रमवता वीर त्वया तद्वहुलीकृतम्॥२१.९२॥
यदुपात्तं यशः पित्रा धनं वीर्यमथापि वा ।
तन्न हापयते यस्तु स नरो मध्यमः स्मृतः॥२१.९३॥
तद्वीर्यादधिकं यस्तु पुनरन्यत् स्वशक्तितः ।
निष्पादयति तं प्राज्ञाः प्रवदन्ति नरोत्तमम्॥२१.९४॥
यः पिता समुपात्तानि धनवीर्ययशांसि वै ।
न्यूनतां नयति प्राज्ञास्तमाहुः पुरुषाधमम्॥२१.९५॥
तन्मया ब्राह्मणत्राणं कृतमासीद्यथा त्वया ।
पातालगमनं यच्च यच्चासुरविनाशनम्॥२१.९६॥
एतदप्यधिकं वत्स तेन त्वं पुरुषोत्तमः ।
तद्धन्योऽस्म्य बाल त्वमहमेव गुणाधिकम्॥२१.९७॥
त्वां पुत्रमीदृशं प्राप्य श्लाघ्यः पुण्यवतामपि ।
न स पुत्रकृतां प्रीतिं मन्ये प्राप्नोति मानवः॥२१.९८॥
पुत्रेण नातिशयितो यः प्रज्ञादानविक्रमैः ।
धिग्जन्म तस्य यः पित्रा लोके विज्ञायते नरः॥२१.९९॥
यः पुत्रात् ख्यातिमभ्येति तस्य जन्म सुजन्मनः ।
आत्मना ज्ञायते धन्यो मध्यः पितृपितामहैः॥२१.१००॥
मातृपक्षेण मात्रा च ख्यातिमेति नराधमः ।
तत् पुत्र धनवीर्यैस्त्वं विवर्धस्व सुखेन च॥२१.१०१॥
घन्धर्वतनया चेयं मा त्वया वै वियुज्यताम् ।
इति पित्रा बहुविधं प्रियमुक्तः पुनः पुनः॥२१.१०२॥
परिष्वज्य स्वमावासं सभार्यः स विसर्जितः ।
स तया भार्याया सार्धं रेमे तत्र पितुः पुरे॥२१.१०३॥
अन्येषु च तथोद्यान-वन-पर्वतसानुषु ।
श्वश्रू-श्वसुरयोः पादौ प्रणिपत्य च सा शुभा ।
प्रातः प्रातस्ततस्तेन सह रेमे सुमध्यमा॥२१.१०४॥
इति श्रीमार्कण्डेयपुराणे कुवलयाश्वीये मदालसापरिणयनं नामैकविंशोऽध्यायः
द्वाविंशोऽध्यायः
पुत्रावूचतुः
ततः काले वहुतिथे गते राजा पुनः सुतम् ।
प्राह गच्छाशु विप्राणां त्राणाय चर मेदिनीम्॥२२.१॥
अश्वमेनं समारुह्य प्रातः प्रातर्दिने दिने ।
अबाधा द्विजमुख्यानामन्वेष्टव्या सदैव हि॥२२.२॥
दुर्वृत्ताः सन्ति शतशो दानवाः पापयोनयः ।
तेभ्यो न स्याद्यथा बाधा मुनीनां त्वं तथा कुरु॥२२.३॥
स यथोक्तस्ततः पित्रा तथा चक्रे नृपात्मजः ।
परिक्रम्य महीं सर्वां ववन्दे चरणौ पितुः॥२२.४॥
अहन्यहन्यनुप्राप्ते पूर्वाह्ने नृपनन्दनः ।
ततश्च शेषं दिवसं तया रेमे सुमध्यया॥२२.५॥
एकदा तु चारन् सोऽथ ददर्श यमुनातटे ।
पातालकेतोरनुजं तालकेतुं कृताश्रमम्॥२२.६॥
मायावी दानवः सोऽथ मुनिरूपं समास्थितः ।
स प्राह राजपुत्रं तं पूर्ववैरमनुस्मरन्॥२२.७॥
राजपुत्र ब्रीवीमि त्वां तत् कुरुष्व यदीच्छसि ।
न च ते प्रार्थनाभङ्गः कार्यः सत्यप्रतिश्रव॥२२.८॥
यक्ष्ये यज्ञेन धर्माय कर्तव्याश्च तथेष्टयः ।
चितयस्तत्र कर्तव्या नास्ति मे दक्षैणा यतः॥२२.९॥
अतः प्रयच्छ मे वीर हिरण्यार्थं स्वभूषणम् ।
यदेतत् कण्ठलग्नं ते रक्ष चेमं माश्रमम्॥२२.१०॥
यावदन्तर्जले देवं वरुणं यादसां पतिम् ।
वैदिकैर्वारुणैर्मन्त्रैः प्रजानां पुष्टिहेतुकैः॥२२.११॥
अभिष्टूय त्वरायुक्तः समभ्येमीति वादिनम् ।
तं प्रणम्य ततः प्रादात् स तस्मै कण्ठभूषणम्॥२२.१२॥
प्राह यैनं भवान् यातु निर्व्यलीकेन चेतसा ।
स्थास्यामि तावदत्रैव तवाश्रमसमीपतः॥२२.१३॥
तवादेशान्महाभाग यावदागमनं तव ।
न तेऽत्र कश्चिदाबाधां करिष्यति मयि स्थिते ।
विश्रब्धश्चात्वरन् ब्रह्मन् कुरुष्व त्वं मनोगतम्॥२२.१४॥
पुत्रावूचतुः
एकमुक्तस्ततस्तेन स ममज्ज नदीजले ।
ररक्ष सोऽपि तस्यैव मायाविहितमाश्रमम्॥२२.१५॥
गत्वा जलाशयात् तस्मात् तालकेतुश्च तत्परम् ।
मदालसायाः प्रत्यक्षमन्येषाञ्चैतदुक्तवान्॥२२.१६॥
वीरः कुवलयाश्वोऽसौ ममाश्रमसमीपतः ।
केनापि दुष्टदैत्येन कुर्वन् रक्षां तपस्विनाम्॥२२.१७॥
युध्यमानो यथाशक्ति निघ्नन् ब्रह्मद्विषो युधि ।
मायामाश्रित्य पापेन भिन्नः शूलेन वक्षसी॥२२.१८॥
म्रियमाणेन तेनेदं दत्तं मे कण्ठभूषणम् ।
प्रापितश्चाग्निसंयोगं स वने शूद्रतापसैः॥२२.१९॥
कृतार्तह्रेषाशब्दो वै त्रस्तः साश्रुविलोचनः ।
नीतः सोऽश्वश्च तेनैव दानवेन दुरात्मना॥२२.२०॥
एतन्मया नृशंसेन दृष्टं दुष्कृतकारिणा ।
यदत्रानन्तरं कृत्यं क्रियतां तदकालिकम्॥२२.२१॥
हृदयाश्वासनञ्चैतद् गृह्यतां कण्ठभूषणम् ।
नास्माकं हि सुवर्णेन कृत्यमस्ति तपस्विनाम्॥२२.२२॥
पुत्रावूचतुः
इत्युक्त्वोत्सृज्य दत्भूमौ स जगाम यथागतम् ।
निपपात जनः सोऽथ शोकार्तो मूर्च्छयाऽतुरः॥२२.२३॥
तत्क्षणात् चेतनां प्राप्य सर्वास्ता नृपयोषितः ।
राजपत्न्यश्च राजा च विलेपुरतिदुः खिताः॥२२.२४॥
मदालसा तु द् दृष्ट्वा तदीयं कण्ठभूषणम् ।
तत्याजाशु प्रियान् प्राणान् श्रुत्वा च निहन्त पतिम्॥२२.२५॥
ततस्तथा महाक्रन्दः पौराणां भवनेष्वभूत् ।
यथैव तस्य नृपतेः स्वगेहे समवर्तत॥२२.२६॥
राजा च तां मृतां दृष्ट्वा विना भर्त्रा मदालसाम् ।
प्रत्युवाच जनं सर्वं विमृश्य सुस्थमानसः॥२२.२७॥
न रोदितव्यं पश्यामि भवतामात्मनस्तथा ।
सर्वेषामेव संचिन्त्य सम्बन्धानामनित्यताम्॥२२.२८॥
किन्नु शोचामि तनयं किन्नु शोचाम्यहं स्नुषाम् ।
विमृश्य कृतकृत्यत्वाम्नम्येऽशोच्यावुभावपि॥२२.२९॥
मच्छ्रु श्रुपुर्मद्वचनाद्द्विजरक्षणतत्परः ।
प्राप्तो मे यः सुतो मृत्युं कथं शोच्यः स धीमताम्॥२२.३०॥
अवश्यं याति यद्देहं तद्द्विजानां कृते यदि ।
मम पुत्रेण संत्यक्तं नन्वभ्युदयकारि तत्॥२२.३१॥
इयञ्च सत्कुलोत्पन्ना भर्तर्येवमनुव्रतां ।
कथन्नु शोच्या नारीणां भर्तुरन्यन्न दैवतम्॥२२.३२॥
अस्माकं बान्धवानाञ्च तथान्येषां दयावताम् ।
शोच्या ह्येषा भवेदेवं यदि भर्त्रा वियोगिनी॥२२.३३॥
या तु भर्तुर्वधं श्रुत्वा तत्क्षणादेव भामिनी ।
भर्तारमनुयातेयं न शोच्यातो विपश्चिताम्॥२२.३४॥
ताः शोच्या या वियोगिन्यो न शोच्या या मृताः सह ।
भर्त्रा वियोगस्त्वनया नानुभूतः कृतज्ञया॥२२.३५॥
दातारं सर्वसौख्यानामिह चामुत्र चोभयोः ।
लोकयोः का हि भर्तारं नारी मन्येत मानुषम्॥२२.३६॥
नासौ शोच्यो न चैवेयं नाहं तज्जननी न च ।
त्यजता ब्राह्मणार्थाय प्राणान् सर्वे स्म तारिताः॥२२.३७॥
विप्राणं मम धर्मस्य गतः स हि महामतिः ।
आनृण्यमर्धभुक्तस्य त्यागाद् देहस्य मे सुतः॥२२.३८॥
मातुः सतीत्वं मद्वंशवैमल्यं शौर्यमात्मनः ।
संग्रामे संत्यजन् प्राणान् नात्यजद् द्विजरक्षणम्॥२२.३९॥
पुत्रावूचतुः
ततः कुवलयाश्वस्य माता भर्तुरनन्तरम् ।
श्रुत्वा पुत्रवधं तादृक् प्राह दृष्ट्वा तु तं पतिम्॥२२.४०॥
न मे मात्रा न मे स्वस्त्रा प्राप्ता प्रीतिर्नृपेदृशी ।
श्रुत्वा मुनिपरित्राणे हतं पुत्रं यथा मया॥२२.४१॥
शोचतां बान्धवानां ये निः श्वसन्तोऽतिदुः खिताः ।
म्रियन्ते व्याधिना क्लिष्टास्तेषां माता वृथाप्रजा॥२२.४२॥
संग्रामे युध्यमाना येऽभीता गोद्विजरक्षणे ।
क्षुण्णाः शस्त्रैर्विपद्यन्ते त एव भुवि मानवाः॥२२.४३॥
अर्थिनां मित्रवर्गस्य विद्विषाञ्च पराङ्मुखः ।
यो न याति पिता तेन पुत्री माता च वीरसूः॥२२.४४॥
गर्भक्लेशः स्त्रियो मन्ये साफल्यं भजते तदा ।
यदारिविजयी वा स्यात् संग्रामे वा हतः सुतः॥२२.४५॥
पुत्रावूचतुः
ततः स राजा संस्कारं पुत्रपत्नीमलम्भयत् ।
निर्गम्य च बहिः स्नातो ददौ पुत्राय चोदकम्॥२२.४६॥
तालकेतुश्च निर्गम्य तथैव यमुनाजलात् ।
राजपुत्रमुवाचेदं प्रणयान्मधुरं वचः॥२२.४७॥
गच्छ भूपालपुत्र ! त्वं कृतार्थोऽहं कृतस्त्वया ।
कार्यं चिराभिलषितं त्वय्यत्राविचले स्थिते॥२२.४८॥
वारुणं यज्ञकार्यञ्च जलेशस्य महात्मनः ।
तन्मया साधितं सर्वं यन्ममासीदभीप्सितम्॥२२.४९॥
प्रणिपत्य स तं प्रायाद्राजपुत्रः पुरं पितुः ।
समारुह्य तमेवाश्वं सुपर्णानिलविक्रमम्॥२२.५०॥
इति श्रीमार्कण्डेयपुराणे कुवलयाश्वीये मदालसावियोगो नाम द्वाविंशोऽध्यायः
त्रयोविंशोऽध्यायः
पुत्रावूचतुः
स राजपुत्रः संप्राप्य वेगादात्मपुरं ततः ।
पित्रोर्ववन्दिषुः पादौ दिदृक्षुश्च मदालसाम्॥२३.१॥
ददर्श जनमुद्विग्नमप्रहृष्टमुखं पुरः ।
पुनश्च विस्मिताकारं प्रहृष्टवदनं ततः॥२३.२॥
अन्यमुत्फुल्लनयनं दिष्ट्या दिष्ट्येतिवादिनम् ।
परिष्वजन्तमन्योन्यमतिकौतूहलान्वितम्॥२३.३॥
चिरं जीवोरुकल्याण ! हतास्ते परिपन्थिनः ।
पित्रोः प्रह्लादय मनस्तथास्माकमकण्टकम्॥२३.४॥
पुत्रावूचतुः
इत्येवं वादिभिः पौरैः पुरः पृष्ठे च संवृतः ।
तत्क्षणप्रभवानन्दः प्रविवेश पितुर्गृहम्॥२३.५॥
पिता च तं परिष्वज्य माता चान्ये च बान्धवाः ।
चिरं जीवेति कल्याणीर्ददुस्तस्मै तदाशिषः॥२३.६॥
प्रणिपत्य ततः सोऽथ किमेतदिति विस्मितः ।
पप्रच्छ पितरं तात ! सोऽस्मै सम्यक् तदुक्तवान्॥२३.७॥
स भार्यां तां मृतां श्रुत्वा हृदयेष्टां मदालसाम् ।
पितरौ च पुरो दृष्ट्वा लज्जाशोकाब्धिमध्यगः॥२३.८॥
चिन्तयामास सा बाला मां श्रुत्वा निधनं गतम् ।
तत्याज जीवितं साध्वी धिङ्मां निष्ठुरमानसम्॥२३.९॥
नृशंसोऽहमनार्योऽहं विना तां मृगलोचनाम् ।
मत्कृते निधनं प्राप्तां यज्जीवाम्यतिनिर्घृणः॥२३.१०॥
पुनः स चिन्तयामास परिसंस्तभ्य मानसम् ।
मोहोद्गममपास्याशु निः श्वस्योच्छवस्य चातरः॥२३.११॥
मृतेति सा मन्नमित्तं त्यजामि यदि जीवितम् ।
किं मयोपकृतं तस्याः श्लाघ्यमेतत्तु योषिताम्॥२३.१२॥
यदि रोदिमि वा दीनो हा प्रियेति ! वदन्मुहुः ।
तथाप्यश्लाघ्यमेतन्नो वयं हि पुरुषाः किल॥२३.१३॥
अथ शोकजडो दीनो स्त्रजा हीनो मलान्वितः ।
विपक्षस्य भविष्यामि ततः परिभवास्पदम्॥२३.१४॥
मयारिशातनं कार्यं राज्ञः शुश्रुषणं पितुः ।
जीवितं तस्य चायत्तं सन्त्याज्यं तत्कथं मया॥२३.१५॥
किन्त्वत्र मन्ये कर्तव्यस्त्यागो भागस्य योषितः ।
स चापि नोपकाराय तन्वङ्ग्याः किन्तु सर्वथा॥२३.१६॥
मया नृशंस्यं कर्तव्यं नोपकार्यपकारि च ।
या मदर्थेऽत्यजत् प्राणांस्तदर्थेऽल्पमिदं मम॥२३.१७॥
पुत्रावूचतुः
इति कृत्वा मतिं सोऽथ निष्पाद्योदकदानिकम् ।
क्रियाश्चानन्तरं कृत्वा प्रत्युवाच ऋतध्वजः॥२३.१८॥
यदि सा मम तन्वङ्गी न स्याद्भार्या मदालसा ।
अस्मिन् जन्मनि नान्या मे भवित्री सहचारिणी॥२३.१९॥
तामृते मृगशावाक्षीं गन्धर्वतनयामहम् ।
न भोक्ष्ये योषितं काञ्चिदिति सत्यं मयोदितम्॥२३.२०॥
सद्धर्मचारिणीं पत्नीं तां मुक्त्वा गजगामिनीम्,।
काञ्चिन्नाङ्गीकरिष्यामीत्येतत् सत्यं मयोदितम्॥२३.२१॥
पुत्रावूचतुः
परित्यज्य च स्त्रीभोगान् तात ! सर्वंस्तया विना ।
क्रीडन्नास्ते समं तुल्यैर्वयस्यैः शीलसम्पदा॥२३.२२॥
एतत्तस्य परं कार्यं तात ! तत् केन शक्यते ।
कर्तुमत्यर्थदुष्प्राप्यमीश्वरैः किमुतेतरैः॥२३.२३॥
इति वाक्यं तयोः श्रुत्वा विमर्शमगमत्पिता ।
विमृश्य चाह तौ पुत्रौ नागराट् प्रहसन्निव॥२३.२४॥
यद्यशक्यमिति ज्ञात्वा न करिष्यन्ति मानवाः ।
कर्मण्युद्यममुद्योगहान्या हानिस्ततः परम्॥२३.२५॥
आरभेत नरः कर्म स्वपौरुषमहापयन् ।
निष्पत्तिः कर्मणो दैवे पौरुषे च व्यवसथिता॥२३.२६॥
तस्मादहं तथा यत्नं करिष्ये पुत्रकावितः ।
तपश्चर्यां समास्थाय यथैतत् साध्यतेऽचिरात्॥२३.२७॥
एवमुक्त्वा स नागेन्द्रः प्लक्षावतरणं गिरेः ।
तीर्थं हिमवतो गत्वा तपस्तेपे सुदुश्चरम्॥२३.२८॥
तुष्टाव गीर्भिश्च ततस्तत्र देवीं सरस्वतीम् ।
तन्मना नियताहारो भूत्वा त्रिषवणाप्लुतः॥२३.२९॥
जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् ।
स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम्॥२३.३०॥
सदसद्देवि ! सय् किञ्चिन्मोक्षवच्चार्थवत् पदम् ।
तत्सर्वं त्वय्यसंयोगं योगवद्देवि ! संस्थितम्॥२३.३१॥
त्वमक्षरं परं देवि ! यत्र सर्वं प्रतिष्ठितम् ।
अक्षरं परमं देवि ! संस्थितं परमाणुवत्॥२३.३२॥
अक्षरं परमं ब्रह्म विश्वञ्चैतत् क्षरात्मकम् ।
दारुण्यवस्थितो वह्निर्भौमाश्च परमाणवः॥२३.३३॥
तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ।
ओङ्काराक्षरसंस्थानं यत्तु देवि ! स्थिरास्थिरम्॥२३.३४॥
तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ।
त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम्॥२३.३५॥
त्रीणि ज्योतींषि वर्णाश्च त्रयो धर्मागमास्तथा ।
त्रयो गुणास्त्रयः शब्दस्त्रयो वेदास्तथाश्रमाः॥२३.३६॥
त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः ।
एतन्मात्रात्रयं देवि ! तव रूपं सरस्वति॥२३.३७॥
विभिन्नदर्शिनामाद्या ब्रह्मणो हि सनातनाः ।
सोमसंस्था हविः संस्थाः पाकसंस्थाश्च सप्त याः॥२३.३८॥
तास्त्वदुच्चारणाद्देवि ! क्रियन्ते ब्रह्मवादिभिः ।
अनिर्देश्यं तथा चान्यदर्धमात्रान्वितं परम्॥२३.३९॥
अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ।
तवैतत्परमं रूपं यन्न शक्यं मयोदितुम्॥२३.४०॥
न चास्ये न च तज्जिह्वा ताम्रोष्ठादिभिरुच्यते ।
इन्द्रोऽपि वसवो ब्रह्मा चन्द्राकौ ज्योतिरेव च॥२३.४१॥
विश्वावासं विश्वरूपं विश्वेशं परमेश्वरम् ।
सांख्यवेदान्तवादोक्तं बहुशाखास्थिरीकृतम्॥२३.४२॥
अनादिमध्यनिधनं सदसन्न सदेव यत् ।
एकन्त्वनेकं नाप्येकं भवभेदसमाश्रैतम्॥२३.४३॥
अनाख्यं षड्गुणाख्यञ्च वर्गाख्यं त्रिगुणाश्रयम् ।
नानाशक्तिमतामेकं शक्तिवैभविकं परम्॥२३.४४॥
सुखासुखं महासौख्यरूपं त्वयि विभाव्यते ।
एवं देवि ! त्वया व्याप्तं सकलं निष्कलञ्च यत् ।
अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम्॥२३.४५॥
येर्ऽथा नित्या ये विनश्यन्ति चान्ये
ये वा स्थूला ये च सूक्ष्मातिसूक्ष्माः ।
ये वा भूमौ येऽन्तरीक्षेऽन्यतो वा
तेषां तेषां त्वत्त एवोपलब्धिः॥२३.४६॥
यच्चामूर्तं यच्च मूर्तं समस्तं
यद्वा भूतेष्वेकमेकञ्च किञ्चित् ।
यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा
त्वत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च॥२३.४७॥
एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती ।
प्रत्युवाच महात्मानं नागमश्वतरं ततः॥२३.४८॥
वरं ते कम्बलभ्रातः प्रयच्छाम्युरगाधिप ! ।
तदुच्यतां प्रदास्यामि यत्ते मनसि वर्तते॥२३.४९॥
सहायं देहि देवि ! त्वं पूर्वं कम्बलमेव मे ।
समस्तस्वरसम्बन्धमुभयोः संप्रयच्छ च॥२३.५०॥
सप्त स्वरा ग्रामरागाः सप्त पन्नगसत्तम ! ।
कीतकानि च सप्तैव तावतीश्चापि मूर्च्छनाः॥२३.५१॥
तालाश्चैकोनपञ्चाशत्तथा ग्रामत्रयञ्च यत् ।
एतत्सर्वं भवान् गाता कम्बलश्च तथानघ !॥२३.५२॥
ज्ञास्यसे मत्प्रसादेन भुजगेन्द्रापरं तथा ।
चतुर्विधं पदं तालं त्रिः प्रकारं लयत्रयम्॥२३.५३॥
यदित्रयं तथाऽतोद्यं मया दत्तं चतुर्विधम् ।
एतद्भवान् मत्प्रसादात् पन्नगेन्द्रापरञ्च यत्॥२३.५४॥
अस्यान्तर्गतमायत्तं स्वरव्यञ्जनसंमितम् ।
तदशेषं मया दत्तं भवतः कम्बलस्य च॥२३.५५॥
तथा नान्यस्य भूर्लोके पाताले चापि पन्नग ।
प्रणेतारौ भवन्तौ च सर्वस्यास्य भविष्यतः ।
पाताले देवलोके च भूर्लोके चैव पन्नगौ॥२३.५६॥
इत्युक्त्वा सा तदा देवी सर्वजिह्वा सरस्वती ।
जगामादर्शनं सद्यो नागस्य कमलेक्षणा॥२३.५७॥
तयोश्च तद्यथावृत्तं भ्रात्रोः सर्वमजायत ।
विज्ञानमुभयोरग्र्यं पदतालस्वरादिकम्॥२३.५८॥
ततः कैलासशैलेन्द्र-शिखरस्थितमीश्वरम् ।
गीतकैः स्प्तभिर्नागौ तन्त्रीलयसमन्वितौ॥२३.५९॥
आरिराधयिषू देवमनङ्गाङ्गहरं हरम् ।
प्रचक्रतुः परं यत्नमुभौ संहतवाक्कलौ॥२३.६०॥
प्रातर्निशायां मध्याह्ने सन्ध्ययोश्चापि तत्परौ ।
तयोः कालेन महता स्तूयमानो वृषध्वजः॥२३.६१॥
तुतोष गीतकैस्तौ च प्राहेशो गृह्यतां वरः ।
ततः प्रणम्याश्वतरः कम्बलेन समं तदा॥२३.६२॥
व्यज्ञापयन्महादेवं शितिकण्ठमुमापतिम् ।
यदि नौ भगवान् प्रीतो देवदेवस्त्रिलोचनः॥२३.६३॥
ततो यथाभिलषितं वरमेनं प्रयच्छ नौ ।
मृता कुवलयाश्वस्य पत्नी देव ! मदालसा॥२३.६४॥
तेनैव वयसा सद्यो दुहितृत्वं प्रयातु मे ।
जातिस्मरा यथा पूर्वं तद्वत्कान्तिसमन्विता ।
योगिनी योगमाता च मद्गेहे जायतां भव॥२३.६५॥
यथोक्तं पन्नगश्रेष्ठ ! सर्वेमेतद्भविष्यति ।
मत्प्रसादादसन्दिग्धं श्रुणु चेदं भुजङ्गम॥२३.६६॥
श्राद्धे तु समनुप्राप्ते मध्यमं पिण्डमात्मना ।
भक्षयेथाः फणिश्रेष्ठ ! शुचिः प्रयतमानसः॥२३.६७॥
भक्षिते तु ततस्तस्मिन् भवतो मध्यमात् फणात् ।
समुत्पत्स्यति कल्याणी तथारूपा यथामृता॥२३.६८॥
कामञ्चेममभिध्याय कुरु त्वं पितृतर्पणम् ।
तत्क्षणादेव सा सुभ्रूः श्वसतो मध्यमात् फणात्॥२३.६९॥
समुत्पत्स्यति कल्याणी तथारूपा यथामृता ।
एतच्छ्रुत्वा ततस्तौ तु प्रणिपत्य महेश्वरम्॥२३.७०॥
रसातलं पुनः प्राप्तौ परितोषसमन्वितौ ।
तथा च कृतवान् श्राद्धं स नागः कम्बलानुजः॥२३.७१॥
पिण्डञ्च मध्यमं तद्वद्यथावदुपभुक्तवान् ।
तञ्चापि ध्यायः कामं ततः सा तनुमध्यमा॥२३.७२॥
जज्ञे निश्वसतः सद्यस्तद्रूपा मध्यमात् फणात् ।
न चापि कथयामास कंस्यचित् स भुजङ्गमः॥२३.७३॥
अन्तर्गृहे तां सुदतीं स्त्रीभिर्गुप्तामधारयत् ।
तौ चानुदिनमागम्य पुत्रौ नागपतेः सुखम्॥२३.७४॥
ऋतध्वजेन सहितौ चिक्रीडातेऽमराविव ।
एकदा तु सुतौ प्राह नागराजौ मुदान्वितः॥२३.७५॥
यन्मया पूर्वमुक्तन्तु क्रियते किं न तत्तथा ।
स राजपुत्रो युवयोरुपकारी ममान्तिकम्॥२३.७६॥
कस्मान्नानीयते वत्सावुपकाराय मानदः ।
एवमुक्तौ ततस्तेन पित्रा स्नेहवता तु तौ॥२३.७७॥
गत्वा तस्य पुरं सख्यू रेमाते तेन धीमता ।
ततः कुवलयाश्वं तौ कृत्वा किञ्चित्कथान्तरम्॥२३.७८॥
अब्रूतां प्रणयोपेतं स्वगेहगमनं प्रति ।
तावाह नृपपुत्रोऽसौ नन्विदं भवतोर्गृहम्॥२३.७९॥
धनवाहनवस्त्रादि यन्मदीयं तदेव वाम् ।
यत्तु वां वाञ्छितं दातुं धनं रत्नमथापि वा॥२३.८०॥
तद्दोयतां द्विजसुतौ यदि वां प्रणयो मयि ।
एतावताहं दैवेन वञ्चितोऽस्मि दुरात्मना॥२३.८१॥
यद्भवद्भ्यां ममत्वं नो मदीये क्रियते गृहे ।
यदि वां मत्प्रियं कार्यमनुग्राह्योऽस्मि वां यदि॥२३.८२॥
तद्धने मम गेहे च ममत्वमनुकल्प्यताम् ।
युवयोर्यन्मदीयं तन्मामकं युवयोः स्वकम्॥२३.८३॥
एतत् सत्यं विजानीतं युवां प्राणा बहिश्चराः ।
पुनर्नैवं विभिन्नार्थं वक्तव्यं द्विजसत्तमौ॥२३.८४॥
मत्प्रसादपरौ प्रीत्या शापितौ हृदयेन मे ।
ततः स्नेहार्द्रवदनौ तावुभौ नागनन्दनौ॥२३.८५॥
ऊचतुर्नृपतेः पुत्रं किञ्चित् प्रणयकोपितौ ।
ऋतध्वज ! न सन्देहो यथैवाह भवानिदम्॥२३.८६॥
तथैव चास्मन्मनसि नात्र चिन्त्यमतोऽन्यथा ।
किन्त्वावयोः स्वयं पित्रा प्रोक्तमेतन्महात्मना॥२३.८७॥
द्रष्टुं कुवलयाश्वं तमिच्छामीति पुनः पुनः ।
ततः कुवलयाश्वोऽसौ समुत्थाय वरासनात् ।
यथाह तातेति वदन् प्रणाममकरोद्भुवि॥२३.८८॥
धन्योऽहमतिपुण्योऽहं कोऽन्योऽस्ति सदृशो मया ।
यत्तातो मामभिद्रष्टुं करोति प्रवणं मनः॥२३.८९॥
तदुत्तिष्ठत गच्छामस्ताताज्ञां क्षणमप्यहम् ।
नातिक्रान्तुमिहेच्छामि पदेभ्यां तस्य शपाम्यहम्॥२३.९०॥
एवमुक्त्वा ययौ सोऽथ सह ताभ्यां नृपात्मजः ।
प्राप्तश्च गोमतीं पुण्यां निर्गम्य नगराद्वहिः॥२३.९१॥
तन्मध्येन ययुस्ते वे नागेन्द्रनृपनन्दनाः ।
मेने च राजपुत्रोऽसौ पारे तस्यास्तयोर्गृहम्॥२३.९२॥
ततश्चाकृष्य पातालं ताभ्यां नीतो नृपात्मजः ।
पाताले ददृशे चोभौ स पन्नगकुमारकौ॥२३.९३॥
फणामणिकृतोद्योतौ व्यक्तस्वस्तिकलक्षणौ ।
विलोक्य तौ सुरूपाङ्गौ विस्मयोत्फुल्ललोचनः॥२३.९४॥
विहस्य चाब्रवीत् प्रेम्णा साधु भो द्विजसत्तमौ ।
कथयामासतुस्तौ च पितरं पन्नगेश्वरम्॥२३.९५॥
शान्तमश्वतरं नाम माननीयं दिवौकसाम् ।
रमणीयं ततोऽपस्यत् पातालं स नृपात्मजः॥२३.९६॥
कुमारैस्तरुणैर्वृद्धैरुरगैरुपशोभितम् ।
तथैव नागकन्याभिः क्रीडन्तीभिरितस्ततः॥२३.९७॥
चारुकुण्डलहाराभिस्ताराभिर्गगनं यथा ।
गीतशब्दैस्तथान्यत्र वीणावेणुस्वनानुगैः॥२३.९८॥
मृदङ्गपणवातोद्यं हारिवेश्मशताकुलम् ।
वीक्षमाणः स पातालं ययौ शत्रुजितः सुतः॥२३.९९॥
सह ताभ्यामभीष्टाभ्यां पन्नगाभ्यामरिन्दमः ।
ततः प्रविश्य ते सर्वे नागराजनिवेशनम्॥२३.१००॥
ददृशुस्ते महात्मानमुरगाधिपतिं स्थितम् ।
दिव्यमाल्याम्बरधरं मणिकुण्डलभूषणम्॥२३.१०१॥
स्वच्छमुक्ताफललताहारिहारोपशोभितम् ।
केयूरिणं महाभागमासने सर्वकाञ्चने॥२३.१०२॥
मणिविद्रुमवैदूर्य-जालान्तरितरूपके ।
स ताभ्यां दर्शितस्तस्य तातोऽस्माकमसाविति॥२३.१०३॥
वीरः कुवलयाश्वोऽयं पित्रे चासौ निवेदितः ।
ततो ननाम चरणौ नागेन्द्रस्य ऋतध्वजः॥२३.१०४॥
तमुत्थाप्य बलाद्गाढं नागेन्द्रः परीषस्वजे ।
मूर्ध्नि चैनमुपाघ्राय चिरं जीवेत्युवाच सः॥२३.१०५॥
निहतामित्रवर्गश्च पित्रोः सुश्रूषणं कुरु ।
वत्स ! धन्यस्य कथ्यन्ते परोक्षस्यापि ते गुणाः॥२३.१०६॥
भवतो मम पुत्राभ्यामसामान्या निवेदिताः ।
त्वमेवानेन वर्धेथा मनोवाक्कायचेष्टितैः॥२३.१०७॥
जीवितं गुणिनः श्लाघ्यं जीवन्नेव मृतोऽगुणः ।
गुणवान् निर्वृतिं पित्रोः शत्रुणां हृदयज्वरम्॥२३.१०८॥
करोत्यात्महितं कुर्वन् विश्वासञ्च महाजने ।
देवताः पितरो विप्रा मित्रार्थिविकलादयः॥२३.१०९॥
बान्धवाश्च तथेच्छन्ति जीवितं गुणिनश्चिरम् ।
परिवादनिवृत्तानां दुर्गतेषु दयावताम् ।
गुणिनां सफलं जन्म संश्रितानां विपद्गतैः॥२३.११०॥
एवमुक्त्वा स तं वीरं पुत्राविदमथाब्रवीत् ।
पूजां कुवलयाश्वस्य कर्तुकामो भुजङ्गमः॥२३.१११॥
स्नानादिकक्रमं कृत्वा सर्वमेव यथाक्रमम् ।
मधुपानादिसम्भोगमाहारञ्च यथेप्सितम्॥२३.११२॥
ततः कुवलयाश्वेन हृदयोत्सवभूतया ।
कथया स्वल्पकं कालं स्थास्यामो हृष्टचेतसः॥२३.११३॥
अनुमेन च तन्मौनो वचः शत्रुजितः सुतः ।
तथा चकार नृपतिः पन्नगानामुदारधीः॥२३.११४॥
समेत्य तैरात्मजभूपनन्दनैर्
महोरगाणामधिपः स सत्यवाक् ।
मुदान्वितोऽन्नानि मधूनि चात्मवान्
यथोपयोगं बुभुजे स भोगभुक्॥२३.११५॥
इति श्रीमार्कण्डेयपुराणे मदालसोपाख्याने कुवलयाश्वपातालगमनं नाम त्रयोविंसोऽध्यायः
चतुर्विशोऽध्यायः
कृताहारं महात्मनामधिपं पवनाशिनाम् ।
उपासाञ्चक्रिरे पुत्रौ भूपालतनयस्तथा॥२४.१॥
कथाभिरनुरूपाभिः स महात्मा भुजङ्गमः ।
प्रीतिं सञ्जनयामास पुत्रसख्युरुवाच च॥२४.२॥
तव भद्र ! सुखं ब्रूहि गेहमभ्यागतस्य यत् ।
कर्तव्यमुत्सृजाशङ्कां पितरीव सुतो मयि॥२४.३॥
रजतं वा सुवर्णं वा वस्त्रं वाहनमासनम् ।
यद्वाभिमतमत्यर्थं दुर्लभं तद्वृणुष्व माम्॥२४.४॥
तव प्रसादाद्भगवन् ! सुवर्णादि गृहे मम ।
पितुरस्ति ममाद्यापिन किञ्चित् कार्यमीदृशम्॥२४.५॥
ताते वर्षसहस्राणि शासतीमां वसुन्धराम् ।
तथैव त्वयि पातालं न मे याञ्चोन्मुकं मनः॥२४.६॥
ते स्वर्ग्याश्च सुपुण्याश्च येषां पितरि जीवति ।
तृणकोटिसमं वित्तं तारुण्याद्वित्तकोटिषु॥२४.७॥
मित्राणि तुल्यशिष्टानि तद्वद्देहमनामयम् ।
जनिता ध्रियते वित्तं यौवनं किन्नु नास्ति मे॥२४.८॥
असत्यर्थे नृणां याञ्चाप्रवणं जायते मनः ।
सत्यशेषे कथं याञ्चां मम जिह्वा करिष्यति॥२४.९॥
यैर्न चिन्त्यं धनं किञ्चिन्मम गेहेऽस्ति नास्ति वा ।
पितृबाहुतरुच्छायां संश्रिताः सुखिनो हि ते॥२४.१०॥
ये तु बाल्यात् प्रभृत्येव विना पित्रा कुटुम्बिनः ।
ते सुखास्वादविभ्रंशान्मन्ये धात्रैव वञ्चिताः॥२४.११॥
तद्वयं त्वत्प्रसादेन धनरत्नादिसञ्चयान् ।
पितृमुक्तान् प्रयच्छामः कामतो नित्यमर्थिनाम्॥२४.१२॥
तत् सर्वमिह संप्राप्तं यदङ्घ्रियुगलं तव ।
मच्चूडामणिना स्पृष्टं यच्चाङ्गस्पर्शमाप्तवान्॥२४.१३॥
इत्येवं प्रसृतं वाक्यमुक्तः पन्नगसत्तमः ।
प्राह राजसुतं प्रीत्या पुत्रयोरुपकारिणम्॥२४.१४॥
यदि रत्नसुवर्णादि मत्तोऽवाप्तुं न ते मनः ।
यदन्यन्मनसः प्रीत्यै तद्ब्रूहि त्वं ददाम्यहम्॥२४.१५॥
भगवंस्त्वत्प्रसादेन प्रार्थितस्य गृहे मम ।
सर्वमस्ति विशेषेण सम्प्राप्तं तव दर्शनात्॥२४.१६॥
कृतकृत्योऽस्मि चैतेन सफलं जीवितञ्च मे ।
यदङ्गसंश्लेषमितस्तव देवस्य मानुषः॥२४.१७॥
ममोत्तमाङ्गे त्वत्पादरजसा यदिहास्पदम् ।
कृतं तेनैव न प्राप्तं किं मया पन्नगेश्वर॥२४.१८॥
यदि त्ववश्यं दातव्यो वरो मम यथेप्सितः ।
तत्पुण्यकर्मसंस्कारो हृदयान्मा व्यपैतु मे॥२४.१९॥
सुवर्णमणिरत्नादि वाहनं गृहमासनम् ।
स्त्रियोऽन्नपानं पुत्राश्च चारुमाल्यानुलेपन्॥२४.२०॥
एते च विविधाः कामा गीतवाद्यादिकञ्च यत् ।
सर्वमेतन्मम मतं फलं पुण्यवनस्पतेः॥२४.२१॥
तस्मान्नरेण तन्मुलः कार्यो यत्नः कृतात्मना ।
कर्तव्यः पुण्यसक्तानां न किञ्चिद्भुवि दुर्लभम्॥२४.२२॥
एवं भविष्यति प्राज्ञ ! तव धर्माश्रिता मतिः ।
सत्यञ्चैतत् फलं सर्वं धर्मस्योक्तं यथा त्वया॥२४.२३॥
तथाप्यवश्यं मद्गेहमागतेन त्वयाधुना ।
ग्राह्यं यन्मानुषे लोके दुष्प्राप्तं भवतो मतम्॥२४.२४॥
तस्यैतद्वचनं श्रुत्वा स तदा नृपनन्दनः ।
मुकावलोकनञ्चक्रे पन्नगेश्वरपुत्रयोः॥२४.२५॥
ततस्तौ प्रणिपत्योभौ राजपुत्रस्य यन्मतम् ।
तत् पितुः सकलं वीरौ कथयामासतुः स्फुटम्॥२४.२६॥
पुत्रापूचतुः
ततोऽस्य पत्नी दयिता श्रुत्वेमं विनिपातितम् ।
अत्यजद्दयितान् प्राणान् विप्रलब्धा दुरात्मना॥२४.२७॥
केनापि कृतवैरेण दानवेन कुबुद्धिना ।
गन्धर्वराजस्य सुता नाम्ना ख्याता मदालसा॥२४.२८॥
कुतज्ञोऽयं ततस्तात ! प्रतिज्ञां कृतवानिमाम् ।
नान्या भार्या भवित्रीति वर्जयित्वा मदालसाम्॥२४.२९॥
द्रष्टुं तां चारुसर्वाङ्गीमयं वीर ! ऋतध्वजः ।
तात ! वाञ्छति यद्येतत् क्रियते तत् कृतं भवेत्॥२४.३०॥
भूतैर्वियोगिनो योगस्तादृशैरेव तादृशः ।
कथमेतद्विना स्वप्नं मायां वा शम्बरोदिताम्॥२४.३१॥
प्रणिपत्य भुजङ्गेशं पुत्रः शत्रुजितस्ततः ।
प्रत्युवाच महात्मानं प्रेमलज्जासमन्वितः॥२४.३२॥
मायामयीमप्यधुना मम तात ! मदालसाम् ।
यदि दर्शयते मन्ये परं कृतमनुग्रहम्॥२४.३३॥
तस्मात् पश्येह वत्स ! त्वं मायाञ्चेद् द्रष्टुमिच्छसि ।
अनुग्राह्यो भवान् गेहं बालोऽप्यभ्यागतो गुरुः॥२४.३४॥
आनयामास नागेन्द्रो गृहगुप्तां मदालसाम् ।
तेषां संमोहनार्थाय ज्जल्प च ततः स्फुटम्॥२४.३५॥
दर्शयामास च तदा राजपुत्राय तां शुभाम् ।
सेयं न वेति ते भार्या राजपुत्र ! मदालसा॥२४.३६॥
स दृष्ट्वा तां तदा तन्वीं तत्क्षणात् विगतत्रपः ।
प्रियेति तामभिमुखं ययौ वाचमुदीरयन् ।
निवारयामास च तं नागः सोऽश्वतरस्त्वरन्॥२४.३७॥
मायेयं पुत्र ! मा स्प्राक्षीः प्रागेव कथितं तव ।
अन्तर्धानमुपैत्याशु माया संस्पर्शनादिभिः॥२४.३८॥
ततः पपात मेदिन्यां स तु मूर्च्छापरिप्लुतः ।
हा प्रियेति वदन् सोऽथ चिन्तयामास भामिनीम्॥२४.३९॥
अहो स्नेहोऽस्य नृपतेर्ममोपर्यचलं मनः ।
येनायं पातनोऽरीणां विना शस्त्रेण पातितः॥२४.४०॥
मायेति दर्शिता तेन मिथ्या मायेति यत्स्फुटम् ।
वाय्वम्बुतेजसां भुमेराकाशस्य च चेष्टया॥२४.४१॥
ततः कुवलयाश्वं तं समाश्वास्य भुजङ्गमः ।
कथयामास तत् सर्वं मृतसञ्जीवनादिकम्॥२४.४२॥
ततः प्रहृष्टः प्रतिलभ्य कान्तां
प्रणम्य नागं निजगाम सोऽथ ।
सुशोभमानः स्वपुरं तमश्वम्
आरुह्य संचिन्तितमभ्युपतेम्॥२४.४३॥
इति श्रीमार्कण्डेयपुराणे मदालसाप्राप्तिर्नाम चतुर्विशोऽध्यायः
पञ्चविंशोऽध्यायः
आगम्य स्वपुरं सोऽथ पित्रोः सर्वमशेषतः ।
कथयामास तन्वङ्गी यथा प्राप्ता पुनर्मृता॥२५.१॥
ननाम सा च चरणौ श्वश्रूश्वशुरयोः शुभा ।
स्वजनञ्च यथापूर्वं वन्दनाश्लेषणादिभिः॥२५.२॥
पूजयामास तन्वङ्गी यथान्यायं यथावयः ।
ततो महोत्सवो जज्ञे पौराणां तत्र वै पुरे॥२५.३॥
ऋतध्वजश्च सुचिरं तया रेमे सुमध्यया ।
निर्झरेषु च शैलानां निम्नगापुलिनेषु च॥२५.४॥
काननेषु च रम्येषु तथैवोपवनेषु च ।
पुण्यक्षयं वाञ्छमाना सापि कामोपबोगतः॥२५.५॥
सह तेनातिकान्तेन रेमे रम्यासु भूमिषु ।
ततः कालेन महता शत्रुजित् स नराधिपः॥२५.६॥
सम्यक् प्रशास्य वसुधां कालधर्ममुपेयिवान् ।
ततः पौरा महात्मानं पुत्रं तस्य ऋतध्वजम्॥२५.७॥
अभ्यषिञ्चन्त राजानमुदाराचारचेष्टितम् ।
सम्यक् पालयतस्तस्य प्रजाः पुत्रानिवौरसान्॥२५.८॥
मदालसायाः सञ्जज्ञे पुत्रः प्रथमजस्ततः ।
तस्य चक्रे पिता नाम विक्रान्त इति धीमतः॥२५.९॥
तुतुषुस्तेन वै भृत्या जहास च मदालसा ।
सा वै मदालसा पुत्रं बालमुत्तानशायिनम् ।
उल्लापनच्छलेनाह रुदमानमविस्वरम्॥२५.१०॥
शुद्धोऽसि रे तात ! न तेऽस्ति नाम
कृतं हि ते कल्पनयाधुनैव ।
पञ्चात्मकं देहमिदं तवैतन्
नैवास्य त्वं रोदिषि कस्य हेतोः॥२५.११॥
न वा भवान् रोदिति वै स्वजन्मा
शब्दोऽयमासाद्य महीशशूनुम् ।
विकल्प्यमाना विविधा गुणास्ते
ऽगुणाश्च भौताः सकलेन्द्रियेषु॥२५.१२॥
भूतानि भूतैः परिदुर्बलानि
वृद्धिं समायान्ति यथेह पुंसः ।
अन्नाम्बुपानादिभिरेव कस्य
न तेऽस्ति वृद्धिर्न च तेऽस्ति हानिः॥२५.१३॥
त्वं कञ्चुके शीर्यमाणे निजेऽस्मिंस्
तस्मिंश्च देहे मूढतां मा व्रजेथाः ।
शुभाशुभैः कर्मभिर्देहमेतन्
मदादिमूढैः सञ्चुकस्तेऽपिनद्धः॥२५.१४॥
तातेति किञ्चित्तनयेति किञ्चिद्
अम्बेति किञ्चिद्दयितेति किञ्चित् ।
ममेति किञ्चिन्न ममेति किञ्चित्
त्वं भूतसङ्घं बहुमानयेथाः॥२५.१५॥
दुः खानि दुः खोपगमाय भोगान्
सुखाय जानाति विमूढचेताः ।
तान्येव दुः खानि पुनः सुखानि
जानात्यविद्वान सुविमूढयेताः॥२५.१६॥
हासोऽस्थिसन्दर्शनमक्षियुग्मम्
अत्युज्ज्वलं तर्जनमङ्गनायाः ।
कुचादिपीनं पिशितं घनं तत्
स्थानं रतेः किं नरकं न योषित्॥२५.१७॥
यानं क्षितौ यानगतञ्च देहं
देहेऽपि चान्यः पुरुषो निविष्टः ।
ममत्वबुद्धिर्न तथा यथा स्वे
देहेऽतिमात्रं बत मूढतैषा॥२५.१८॥
इति श्रीमार्कण्डेयपुराणे मदालसोपाख्याने पञ्चविंशोऽध्यायः
षड्विंशोऽध्यायः
जड उवाच
वर्धमानं सुतं सा तु राजपत्नी दिने दिने ।
तमुल्लापादिना बोधमनयन्निर्ममात्मकम्॥२६.१॥
यथायथं बलं लेभे यथा लेभे मतिं पितुः ।
तथा तथात्मबोधञ्च सोऽवापन्मातृभाषितैः॥२६.२॥
इत्थं तया स तनयो जन्मप्रभृति बोधितः ।
चकार न मतिं प्राज्ञो गार्हस्थ्यं प्रति निर्ममः॥२६.३॥
द्वितीयोऽस्याः सुतो जज्ञे तस्य नामाकरोत्पिता ।
सुबाहुरयमित्युक्ते सा जाहस मदालसा॥२६.४॥
तमप्येवं यथापूर्वं बालमुल्लापनादिना ।
प्राह बाल्यात् स च प्राप तथा बोधं माहमतिः॥२६.५॥
तृतीयं तनयं जातं स राजा शत्रुमर्दनम् ।
यदाह तेन सा सुभ्रुर्जहासातिचिरं पुनः॥२६.६॥
तथैव सोऽपि तन्वङ्ग्या बालत्वादवबोधितः ।
क्रियाश्चकार निष्कामो न किञ्चिदुपकारकम्॥२६.७॥
चतुर्थस्य सुतस्याथ चिकीर्षुर्नाम भूमिपः ।
ददर्श तां शुभाचारामीषद्धासां मदालसाम् ।
तामाह राजा हसतीं किञ्चित् कौतूहलान्वितः॥२६.८॥
राजोवाच
क्रियमाणेऽसकृन्नाम्नि कथ्यतां हास्यकारणम् ।
विक्रान्तश्च सुबाहुश्च तथान्यः शत्रुमर्दनः॥२६.९॥
शोभनानीति नामानि मया मन्ये कृतानि वै ।
योग्यानि क्षत्रबन्धूनां शौर्याटोपयुतानि च॥२६.१०॥
असन्त्येतानि चेद्भद्रे ! यदि ते मनसि स्थितम् ।
तदस्य क्रियतां नाम चतुर्थस्य सुतस्य मे॥२६.११॥
मदालसौवाच
मयाज्ञा भवतः कार्या महाराज ! यथात्थ माम् ।
तथा नाम करिष्यामि चतुर्थस्य सुतस्य ते॥२६.१२॥
अलर्क इति धर्मज्ञः ख्यातिं लोके प्रयास्यति ।
कनीयानेष ते पुत्रो मतिमांश्च भविष्यति॥२६.१३॥
तच्छ्रुत्वा नाम पुत्रस्य कृतं मात्रा महीपतिः ।
अलर्क इत्यसम्बद्धं प्रहस्येदमथाब्रवीत्॥२६.१४॥
राजोवाच
भवत्या यदिदं नाम मत्पुत्रस्य कृतं शुभे ।
किमीदृशमसम्बद्धमर्थः कोऽस्य मदालसे॥२६.१५॥
मदालसोवाच
कल्पनेयं महाराज ! कृता सा व्यावहारिको ।
त्वत्कृतानां तथा नाम्नां शृणु भूप ! निरर्थताम्॥२६.१६॥
वदन्ति पुरुषाः प्राज्ञा व्यापिनं पुरुषं यतः ।
क्रान्तिश्च गतिरुद्दिष्टा देशाद्देशान्तरन्तु या॥२६.१७॥
सर्वगो न प्रयातीति व्यापी देहेश्वरो यतः ।
ततो विक्रान्तसंज्ञेयं मता मम निरर्थिका॥२६.१८॥
सुबाहुरिति या संज्ञा कृतान्यस्य सुतस्य ते ।
निरर्था साप्यमूर्तत्वात् पुरुषस्य महीपते॥२६.१९॥
पुत्रस्य यद् कृतं नाम तृतीयस्यारिमर्दनः ।
मन्ये तदप्यसम्बद्धं शृणु चाप्यत्र कारणम्॥२६.२०॥
एक एव शरीरेषु सर्वेषु पुरुषो यदा ।
तदास्य राजन् ! क शत्रुः को वा मित्रमिहेष्यते॥२६.२१॥
भूतैर्भूतानि मृद्यन्ते अमूर्तो मृद्यते कथम् ।
क्रोधादीनां पृथग्भावात् कल्पनेयं निरर्थिका॥२६.२२॥
यदि संव्यवहारार्थमसन्नाम प्रकल्प्यते ।
नाम्नि कस्मादलर्काख्ये नैरर्थ्यं भवतो मतम्॥२६.२३॥
जड उवाच
एवमुक्तस्तया साधु महीष्या स महीपतिः ।
तथेत्याह महाबुद्धिर्दयितां तथ्यवादिनीम्॥२६.२४॥
तञ्चापि सा सुतं सुभ्रूर्यथा पूर्वसुतांस्तथा ।
प्रोवाच बोधजननं तामुवाच स पार्थिवः॥२६.२५॥
करोषि किमिदं मूढे ! ममाभावाय सन्ततेः ।
दुष्टावबोधदानेन यथापूर्वं सुतेषु मे॥२६.२६॥
यदि ते मत्प्रियं कार्यं यदि ग्राह्यं वचो मम ।
तदेनं तनयं मार्गे प्रवृत्तेः सन्नियोजय॥२६.२७॥
कर्ममार्गः समुच्छेदं नैवं देवि ! गमिष्यति ।
पितृपिण्डनिवृत्तिश्च नैवं साध्वि ! भविष्यति॥२६.२८॥
पितरो देवलोकस्थास्तथा तिर्यक्त्वमागताः ।
तद्वन्मनुष्यतां याता भूतवर्गे च संस्थिताः॥२६.२९॥
सपुण्यानसपुण्यांश्च क्षुत्क्षामान् तृट्परिप्लुतान् ।
पिण्डोदकप्रदानेन नरः कर्मण्यवस्थितः॥२६.३०॥
सदाप्यायते सुभ्रु ! तद्वद्देवातिथोनपि ।
देवैर्मनुष्यैः पितृभिः प्रेतैर्भूतैः सगुह्यकैः॥२६.३१॥
वयोभिः कृमिकीटैश्च नर एवोपजीव्यते ।
तस्मात् तन्वड्गि ! पुत्रं यत्कार्यं क्षत्रयोनिभिः॥२६.३२॥
ऐहिकामुष्मिकफलं तत् सम्यक् प्रतिपादय॥२६.३३॥
जड उवाच
तेनैवमुक्ता सा भर्त्रा वरनारी मदालसा ।
अलर्कं नाम तनयमुवाचोल्लापवादिनी॥२६.३४॥
पुत्र वर्धस्व मद्भर्तुर्मनो नन्दय कर्मभिः ।
मित्राणामुपकाराय दुर्हृदां नाशनाय च॥२६.३५॥
धन्योऽसि रे यो वसुधामशत्रुर् एकश्चिरं पालयितासि पुत्र ।
तत्पालनादस्तु सुखोपभोगो धर्मात् फलं प्राप्स्यसि चामरत्वम्॥२६.३६॥
धरामरान् पर्वसु तर्पयेथाः समीहितं बन्धुषु पूरयेथाः ।
हितं परस्मै हृदि चिन्तयेथाः मनः परस्त्रीषु निवर्तयेथाः॥२६.३७॥
यज्ञौरनेकैर्विबुधानजस्त्रम् अर्थैर्द्विजान् प्रीणय संश्रितांश्च ।
स्त्रियश्च कामैरतुलैश्चिराय युद्धैश्चारींस्तोषयितासि वीर॥२६.३८॥
बालो मनो नन्दय बान्धवानां गुरोस्तथाज्ञानकरणैः कुमारः ।
स्त्रीणां युवा सत्कुलभूषणानां वृद्धो वने वत्स ! वनेचराणाम्॥२६.३९॥
राज्यं कुर्वन् सुहृदो नन्दयेथाः साधून् रक्षंस्तात ! यज्ञैर्यजेथाः ।
दुष्टान्निघ्रन् वैरिणश्चाजिमध्ये गोविप्रार्थे वत्स ! मृत्युं व्रजेथाः॥२६.४०॥
इति श्रीमार्कण्डेयपुराणे पुत्रानुशासनं नाम षड्विंशोऽध्यायः
सप्तविंशोऽध्यायः
जड उवाच
एवमुल्लाप्यमानस्तु स तु मात्रा दिने दिने ।
ववृधे वयसा बालो बुद्ध्या चालर्कसंज्ञितः॥२७.१॥
स कौमारकमासाद्य ऋतध्वजसुतस्ततः ।
कृतोपनयनः प्राज्ञः प्रणिपत्याह मातरम्॥२७.२॥
मया यदत्र कर्तव्यमैहिकामुष्मिकाय वै ।
सुखाय वद तत् सर्वं प्रश्रयावनतस्य मे॥२७.३॥
मदालसोवाच
वत्स ! राज्येऽभिषिक्तेन प्रजारञ्जनमादितः ।
कर्तव्यमविरोधेन स्वधर्मस्य महीभृता॥२७.४॥
व्यसनानि परित्यज्य सप्त मूलहराणि वै ।
आत्मा रिपुभ्यः संरक्ष्यो बहिर्मन्त्रविनिर्गमात्॥२७.५॥
अष्टधा नाशमाप्नोति सुचक्रात् स्यन्दनाद्यथा ।
तथा राजाप्यसन्दिग्धं बहिर्मन्त्रविनिर्गमात्॥२७.६॥
दुष्टादुष्टांश्च जानीयादमात्यानरिदोषतः ।
चरैश्चरास्तथा शत्रोरन्वेष्टव्याः प्रयत्नतः॥२७.७॥
विश्वासो न तु कर्तव्यो राज्ञा मित्राप्तबन्धुषु ।
कार्ययोगादमित्रेऽपि विश्वसीत नराधिपः॥२७.८॥
स्थानवृद्धिक्षयज्ञेन षाड्गुण्यगुणितात्माना ।
भवितव्यं नरेन्द्रेण न कामवशवर्तिना॥२७.९॥
प्रागात्मा मन्त्रिणश्चैव ततो भृत्या महीभृता ।
जेयाश्चानन्तरं पौरा विरुध्येत ततोऽरिभिः॥२७.१०॥
यस्त्वेतानविजित्यैव वैरिणो विजिगीषते ।
सोऽजितात्मा जितामात्यः शत्रुवर्गेण बाध्यते॥२७.११॥
तस्मात् कामादयः पूर्वं जेयाः पुत्र ! महीभुजा ।
तज्जये हि जयोऽवश्यं राजा नश्यति तैर्जितः॥२७.१२॥
कामः क्रोधश्च लोभश्च मदो मानस्तथैव च ।
हर्षश्च शत्रवो ह्येते विनाशाय महीभृताम्॥२७.१३॥
कामप्रसक्तमात्मानं स्मृत्वा पाण्डुं निपातितम् ।
निवर्तयेत्तथा क्रोधादनुह्रादं हतात्मजम्॥२७.१४॥
हतमैलं तथा लोभान्मदाद्वेनं द्विजैर्हतम् ।
मानादनायुषापुत्रं बलिं हर्षात् पुरञ्जयम्॥२७.१५॥
एभिर्जितैर्जितं सर्वं मरुत्तेन महात्मना ।
स्मृत्वा विवर्जयेदेतान् दोषान् स्वीयान्महीपतिः॥२७.१६॥
काककोकिलभृङ्गाणां मृगव्यालशिखण्डिनाम् ।
हंसकुक्कुटलोहानां शिक्षेत चरित नृपः॥२७.१७॥
कीटकस्य क्रियां कुर्यात् विपक्षे मनुजेश्वरः ।
चेष्टां पिपीलिकानाञ्च काले भूपः प्रदर्शयेत्॥२७.१८॥
ज्ञेयाग्निविस्फुलिङ्गानां बीजचेष्टा च शाल्मलेः ।
चन्द्रसूर्यस्वरूपेण नीत्यर्थे पृथिवीक्षिता॥२७.१९॥
बन्धकीपद्मशरभशूलिकागुर्विणीस्तनात् ।
प्रज्ञा नृपेण चादेया तथा गोपालयोषितः॥२७.२०॥
शक्रार्कयमसोमानां तद्वद्वायोर्महीपतिः ।
रूपाणि पञ्च कुर्वोत महीपालनकर्मणि॥२७.२१॥
यथेन्द्रश्चतुरो मासान् तोयोत्सर्गेण भूगतम् ।
आप्याययेत्तथा लोकं परिहारैर्महीपतिः॥२७.२२॥
मासानष्टौ यथा सूर्यस्तोयं हरति रश्मिभिः ।
सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादिकं नृपः॥२७.२३॥
यथा यमः प्रियद्वेष्ये प्राप्तकाले नियच्छति ।
तथा प्रियाप्रिये राजा दुष्टादुष्टे समो भवेत्॥२७.२४॥
पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः ।
एवं यत्र प्रजाः सर्वा निर्वत्तास्तच्छशिव्रतम्॥२७.२५॥
मारुतः सर्वभूतेषु निगूढश्चरते यथा ।
एवं नृपश्चरेच्चारैः पौरामात्यादिबन्धुषु॥२७.२६॥
न लोभाद्वा न कामाद्वा नार्थाद्वा यस्य मानसम् ।
यथान्यैः कृष्यते वत्स ! स राजा स्वर्गमृच्छति॥२७.२७॥
उत्पथग्राहिणो मूढान् स्वधर्माच्चलतो नरान् ।
यः करोति निजे धर्मे स राजा स्वर्गमृच्छति॥२७.२८॥
वर्णधर्मा न सीदन्ति यस्य राज्ये तथाश्रमाः ।
वत्स ! तस्य सुखं प्रेत्य परत्रेह च शाश्वतम्॥२७.२९॥
एतद्राज्ञः परं कृत्यं तथैतत् सिद्धिकारकम् ।
स्वधर्मस्थापनं नृणां चाल्यन्ते ये कुबुद्धिभिः॥२७.३०॥
पालनेनैव भूतानां कृतकृत्यो महीपतिः ।
सम्यक् पालयिता भागं धर्मस्याप्नोति यत्नतः॥२७.३१॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे आत्मविवेको नाम सप्तविंशोऽध्यायः
अष्टाविंशोऽध्यायः
जड उवाच
तन्मातुर्वचनं श्रुत्वा सोऽलर्को मातरं पुनः ।
पप्रच्छ वर्णधर्मांश्च धर्मा ये चाश्रमेषु च॥२८.१॥
अलर्क उवाच
कथितोऽयं महाभागे ! राज्यतन्त्राश्रितस्त्वया ।
धर्मं तमहमिच्छामि श्रोतुं वर्णाश्रमात्मकम्॥२८.२॥
मदालसोवाच
दानमध्ययनं यज्ञो ब्राह्मणस्य त्रिधा मतः ।
नान्यश्चतुर्थो धर्मोऽस्ति धर्मस्तस्यापदं विना॥२८.३॥
याजनाध्यापने शुद्धे तथा पूतप्रतिग्रहः ।
एषा सम्यक् समाख्यता त्रिविधा चास्य जीविका॥२८.४॥
दानमध्ययनं यज्ञः क्षत्रियस्याप्ययं त्रिधा ।
धर्मः प्रोक्तः क्षिते रक्षा शस्त्राजीवञ्च जीविका॥२८.५॥
दानमध्ययनं यज्ञो वैश्यस्यापि त्रिधैव सः ।
वाणिज्यं पाशुपाल्यञ्च कृषिश्चैवास्य जीविका॥२८.६॥
दानं यज्ञोऽथ शुश्रूषा द्विजातीनां त्रिधा मया ।
व्याख्यातः शूद्रधर्मोऽपि जीविका कारुकर्म च॥२८.७॥
तद्वद् द्विजातिशुश्रूषा पोषणं क्रयविक्रयौ ।
वर्णधर्मास्त्विमे प्रोक्ताः श्रूयन्तां चाश्रमाश्रयाः॥२८.८॥
स्ववर्णधर्मात् संसिद्धिं नरः प्राप्नोति न च्युतः ।
प्रयाति नरकं प्रेत्य प्रतिषिद्धनिषेवणात्॥२८.९॥
यावत्तु नोपनयनं क्रियते वै द्विजन्मनः ।
कामचेष्टोक्तिभक्ष्यश्च तावद् भवति पुत्रक॥२८.१०॥
कृतोपनयनः सम्यग् ब्रह्मचारी गुरुर्गृहे ।
वसेत्तत्र च धर्मोऽस्य कथ्यते तं निबोध मे॥२८.११॥
स्वाध्यायोऽथाग्रिशुश्रूषा स्नानं भिक्षाटनं तथा ।
गुरोर्निवेद्य तच्चान्नमनुज्ञातेन सर्वदा॥२८.१२॥
गुरोः कर्मणि सोद्योगः सम्यक् प्रीत्युपपादनम् ।
तेनाहूतः पठेच्चैव तत्परो नान्यमानसः॥२८.१३॥
एकं द्वौ सकलान् वापि वेदान् प्राप्य गुरोर्मुखात् ।
अनुज्ञातोऽथ वन्दित्वा दक्षिणां गुरवे ततः॥२८.१४॥
गार्हस्थ्याश्रमकामस्तु गृहस्थाश्रममावसेत् ।
वानप्रस्थाश्रमं वापि चतुर्थं चेच्छयात्मनः॥२८.१५॥
तत्रैव वा गुरोर्गेहे द्विजो निष्ठामवाप्नुयात् ।
गुरोरभावे तत्पुत्रे तच्छिष्ये तत्सुतं विना॥२८.१६॥
शुश्रूषुर्निरभिमानो ब्रह्मचार्याश्रमं वसेत् ।
उपावृत्तस्ततस्तस्मात् गृहस्थाश्रमकाम्यया॥२८.१७॥
ततोऽसमानर्षिकुलां तुल्यां भार्यामरोगिणीम् ।
उद्वहेन्न्यायतोऽव्यङ्गां गृहस्थाश्रमकारणात्॥२८.१८॥
स्वकर्मणा धनं लब्ध्वा पितृदेवातिथींस्तथा ।
सम्यक् सम्प्रीणयन् भक्त्या पोषयेच्चाश्रितांस्तथा॥२८.१९॥
भृत्यात्मजान् जामयोऽथ दीनान्धपतितानपि ।
यथाशक्त्यान्नदानेन वयांसि पशवस्तथा॥२८.२०॥
एष धर्मो गृहस्थस्य ऋतावभिगमस्तथा ।
पञ्चयज्ञविधानन्तु यथाशक्त्या न हापयेत्॥२८.२१॥
पितृदेवातिथिज्ञातिभुक्तशेषं स्वयं नरः ।
भुञ्जीत च समं भृत्यैर्यथाविभवमादृतः॥२८.२२॥
एष तूद्देशतः प्रोक्तो गृहस्थस्याश्रमो मया ।
वानप्रस्थस्य धर्मं ते कथयाम्यवधार्यताम्॥२८.२३॥
अपत्यसन्ततिं दृष्ट्वा प्राज्ञो चानतिम् ।
वानप्रस्थाश्रमं गच्छेदात्मनः शुद्धिकारणात्॥२८.२४॥
तत्रारण्योपभोगश्च तपोभिश्चानुकर्षणम् ।
भूमौ शय्या ब्रह्मचर्यं पितृदेवातिथिक्रिया॥२८.२५॥
होमस्त्रिषवणस्त्रानं जटावल्कलधारणम् ।
योगाभ्यासः सदा चैव वन्यस्नेहनिषेवणम्॥२८.२६॥
इत्येष पापशुद्ध्यर्थमात्मनश्चोपकारकः ।
वानप्रस्थाश्रमस्तस्माद् भिक्षोस्तु चरमोऽपरः॥२८.२७॥
चतुर्थस्य स्वरूपं तु श्रुयतामाश्रमस्य मे ।
यः स्वधर्मोऽस्य धर्मज्ञैः प्रोक्तस्तात ! महात्मभिः॥२८.२८॥
सर्वसङ्गपरित्यागो ब्रह्मचर्यमकोपिता ।
यतेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम्॥२८.२९॥
अनारम्भस्तथाहारो भैक्षान्नेनैककालिना ।
आत्मज्ञानावबोधेच्छा तथा चात्मावलोकनम्॥२८.३०॥
चतुर्थे त्वाश्रमे धर्मो मयायं ते निवेदितः ।
सामान्यमन्यवर्णानामाश्रमाणाञ्च मे शृणु॥२८.३१॥
सत्यं शौचमहिंसा च अनसूया तथा क्षमा ।
आनृशंस्यमकार्पण्यं सन्तोषश्चाष्टमो गुणः॥२८.३२॥
एते संक्षेपतः प्रोक्ता धर्मा वर्णाश्रमेषु ते ।
एतेषु च स्वधर्मेषु स्वेषु तिष्ठेत् समन्ततः॥२८.३३॥
यश्चोल्लङ्घ्य स्वकं धर्मं स्ववर्णाश्रमसंज्ञितम् ।
नरोऽन्यथा प्रवर्तेत स दण्ड्यो भूभृतो भवेत्॥२८.३४॥
ये च स्वधर्मसन्त्यागात् पापं कुर्वन्ति मानवाः ।
उपेक्षतस्तान् नृपतेरिष्टापूर्तं प्रणश्यति॥२८.३५॥
तस्माद्राज्ञा प्रयत्नेन सर्वे वर्णाः स्वधर्मतः ।
प्रवर्तन्तोऽन्यथा दण्ड्याः स्थाप्याश्चैव स्वकर्मसु॥२८.३६॥
इति श्रीमार्कण्डेयपुराणे पुत्रानुशासने मदालसावाक्यं नामाष्टाविंशोऽध्यायः
ऊनत्रिंशोऽध्यायः
अलर्क उवाच
यत् कार्यं पुरुषाणाञ्च गार्हस्थ्यमनुवर्तताम् ।
बन्धश्च स्यादकरणे क्रियाया यस्य चोच्छ्रितिः॥२९.१॥
उपकाराय यन्नृणां यच्च वर्ज्यं गृहे सता ।
यथा च क्रियते तन्मे यथावत् पृच्छतो वद॥२९.२॥
मदालसोवाच
वत्स ! गार्हस्थ्यमादाय नरः सर्वमिदं जगत् ।
पुष्णाति तेन लोकांश्च स जयत्यभिवाञ्छितान्॥२९.३॥
पितरो मुनयो देवा भूतानि मनुजास्तथा ।
कृमिकीटपतङ्गाश्च वयांसि पशवोऽसुराः॥२९.४॥
गृहस्थमुपजीवन्ति ततस्तृप्तिं प्रयान्ति च ।
मुखं चास्य निरीक्षन्ते अपि नो दास्यतीति वै॥२९.५॥
सर्वस्याधारभूतेयं वत्स ! धेनुस्त्रयीमयी ।
यस्यां प्रतिष्ठितं विश्वं विश्वहेतुश्च या मता॥२९.६॥
ऋक्पृष्ठासौ यजुर्मध्या सामवक्त्रशिरोधरा ।
इष्टापूर्तविषाणा च साधुसूक्ततनूरुहा॥२९.७॥
शान्तिपुष्टिशकृन्मूत्रा वर्णपादप्रतिष्ठिता ।
आजीव्यमाना जगतां साक्षया नापचीयते॥२९.८॥
स्वाहाकारस्वधाकारौ वषट्कारश्च पुत्रक ! ।
हन्तकारस्तथा चान्यस्तस्याःस्तनचतुष्टयम्॥२९.९॥
स्वाहाकारं स्तनं देवाः पितरश्च स्वधामयम् ।
मुनयश्च वषट्कारं देवभूतसुरेतराः॥२९.१०॥
हन्तकारं मनुष्याश्च पिबन्ति सततं स्तनम् ।
एवमाप्याययत्येषा वत्स ! धेनुस्त्रयीमयी॥२९.११॥
तेषामुच्छेदकर्ता च यो नरोऽत्यन्तपापकृत् ।
स तमस्यान्धतामिस्त्रे तामिस्त्रे च निमज्जति॥२९.१२॥
यश्चेमां मानवो धेनुं स्वैर्वत्सैरमरादिभिः ।
पाययत्युचिते काले स स्वर्गायोपपद्यते॥२९.१३॥
तस्मात् पुत्र ! मनुष्येण देवर्षिपितृमानवाः ।
भूतानि चानुदिवसं पोष्याणि स्वतनुर्यथा॥२९.१४॥
तस्मात् स्त्रातः शुचिर्भूत्वा देवर्षिपितृतर्पणम् ।
प्रजापतेस्तथैवादिभः काले कुर्यात् समाहितः॥२९.१५॥
सुमनोगन्धपुष्पैश्च देवानभ्यर्च्य मानवः ।
ततोऽग्नेस्तर्पणं कुर्याद्देयाश्च बलयस्तथा॥२९.१६॥
ब्रह्मणे गृहमध्ये तु विश्वेदेवेभ्य एव च ।
धन्वन्तरिं समुद्दिश्य प्रागुदीच्यां बलिं क्षिपेत्॥२९.१७॥
प्राच्यां शक्राय याम्यायां यमाय बलिमाहरेत् ।
प्रतीच्यां वरुणायाथ सोमायोत्तरतो बलिम्॥२९.१८॥
दद्याद्धात्रे विधात्रे बलिं द्वारे गृहस्य तु ।
अर्यम्णेऽथ बहिर्दद्याद् गृहेभ्यश्च समन्ततः॥२९.१९॥
नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ।
पितॄणां निर्वपेच्चैव दक्षिणाभिमुखस्थितः॥२९.२०॥
गृहस्थस्तत्परो भूत्वा सुसमाहितमानसः ।
ततस्तोयमुपादाय तेष्वेवाचमनाय वै॥२९.२१॥
स्थानेषु निक्षिपेत् प्राज्ञस्तास्ता उद्दिश्य देवताः ।
एवं गृहबलिं कृत्वा गृहे हृहपतिः शुचिः॥२९.२२॥
आप्यायनाय भूतानां कुर्यादुत्सर्गमादरात् ।
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि॥२९.२३॥
वैश्वदेवं हि नामैतत् सायं प्रातरुदाहृतम् ।
आचम्य च ततः कुर्यात् प्राज्ञो द्वारावलोकनम्॥२९.२४॥
मुहूर्तस्याष्टमं भागमुदीक्ष्योऽप्यतिथिर्भवेत् ।
अतिथिं तत्र सम्प्राप्तमन्नाद्येनोदकेन च॥२९.२५॥
सम्पूजयेद्यथाशक्ति गन्धपुष्पादिभिस्तथा ।
न मित्रमतिथिं कुर्यान्नैकग्रामनिवासिनम्॥२९.२६॥
अज्ञातकुलनामानं तत्कालसमुपस्थितम् ।
बुभुक्षुमागतं श्रान्तं याचमानमकिञ्चनम्॥२९.२७॥
ब्राह्मणं प्राहुरतिथिं स पूज्यः शक्तितो बुधैः ।
न पृच्छेद् गोत्रचरणं स्वाध्यायञ्चापि पण्डितः॥२९.२८॥
शोभनाशोभनाकारं तं मन्येत प्रजापतिम् ।
अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते॥२९.२९॥
तस्मिंस्तृप्ते नृयज्ञोत्थादृणान्मुच्येद् गृहाश्रमी ।
तस्माद् अदत्त्वा यो भुङ्क्ते स्वयं किल्विषभुङ्नरः॥२९.३०॥
स पापं केवलं भुङ्क्ते पुरीषञ्चान्यजन्मनि ।
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते॥२९.३१॥
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ।
अप्यम्बुशाकदानेन यद्वाप्यश्नाति स स्वयम्॥२९.३२॥
पूजयेत् तु नरः शक्त्या तेनैवातिथिमादरात् ।
कुर्याच्चाहरहः श्राद्धमन्नाद्येनोदकेन च॥२९.३३॥
पितॄनुद्दिश्य विप्रांश्च भोजयेद्विप्रमेव वा ।
अन्नस्याग्रं तदुद्धृत्य ब्राह्मणायोपपादयेत्॥२९.३४॥
भिक्षाञ्च याचतां दद्यात् परिव्राड्ब्रह्मचारिणाम् ।
ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम्॥२९.३५॥
अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः ।
भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा॥२९.३६॥
अदत्त्वा तु न भोक्तव्यं यथाविभवमात्मनः ।
पूजयित्वातिथीनिष्टान् ज्ञातीन् बन्धूंस्तथार्थिनः॥२९.३७॥
विकलान् बालवृद्धांश्च भोजयेच्चातुरांस्तथा ।
वाञ्छते क्षुत्परीतात्मा यच्चान्योऽन्नमकिञ्चनः॥२९.३८॥
कुटुम्बिना भोजनीयः समर्थे विभवे सति ।
श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति॥२९.३९॥
सीदता यद् कृतं तेन तत् पापं स समश्नुते ।
सायं चैव विधिः कार्यः सूर्योढं तत्र चातिथिम्॥२९.४०॥
पूजयीत यथाशक्ति शयनासनभोजनैः ।
एवमुद्दवहतस्तात ! गार्हस्थ्यं भारमाहितम्॥२९.४१॥
स्कन्धे विधाता देवाश्च पितरश्च महर्षयः ।
श्रेयोऽभिवर्षिणः सर्वे तथैवातिथिबान्धवाः॥२९.४२॥
पशुपक्षिगणास्तृप्ता ये चान्ये सूक्ष्मकीटकाः ।
गाथाश्चात्र महाभाग ! स्वयमत्रिरगायत॥२९.४३॥
ता शृणुष्व महाभाग ! गृहस्थाश्रमसंस्थिताः ।
देवान् पितॄंश्चातिथींश्च तद्वत् सम्पूज्य बान्धवान्॥२९.४४॥
जामयश्च गुरुञ्चैव गृहस्थो विभवे सति ।
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि॥२९.४५॥
वैश्वदेवं हि नामैतत् कुर्यात् सायं तथा दिने ।
मांसमन्नं तथा शाकं गृहे यच्चोपसाधितम् ।
न च तत् स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्॥२९.४६॥
इति श्रीमार्कण्डेयपुराणे मदालसोपदेशो नामोनत्रिंशोऽध्यायः
त्रिंशोऽध्यायः
मदालसोवाच
नित्यं नैमित्तकञ्चैव नित्यनैमित्तिकं तथा ।
गृहस्थस्य तु यत् कर्म तन्निशामय पुत्रक !॥३०.१॥
पञ्चयज्ञाश्रितं नित्यं यदेतत् कथितं तव ।
नैमित्तिकं तथैवान्यत् पुत्रजन्मक्रियादिकम्॥३०.२॥
नित्यनैमित्तिकं ज्ञेयं पर्वश्राद्धादि पण्डितैः ।
तत्र नैमित्तिकं वक्ष्ये श्राद्धमभ्युदयं तव॥३०.३॥
पुत्रजन्मनि यत्कार्यं जातकर्मसमं नरैः ।
विवाहादौ च कर्तव्यं सर्वं सम्यक् क्रिमोदितम्॥३०.४॥
पितरश्चात्र सम्पूज्याः ख्याता नान्दीमुखास्तु ये ।
पिण्डांश्च दधिसंमिश्रान् दद्याद् यवसमन्वितान्॥३०.५॥
उदङ्मुखः प्राङ्मुखो वा यजमानः समाहितः ।
वैश्वदेवविहीनं तत् केचिदिच्छन्ति मानवाः॥३०.६॥
युग्माश्चात्र द्विजाः कार्यास्ते च पूज्याः प्रदक्षिणम् ।
एतन्नैमित्तिकं वृद्धौ तथान्यच्चौर्ध्वदेहिकम्॥३०.७॥
मृताहनि च कर्तव्यमेकोद्दिष्टं शृणुष्व तत् ।
दैवहीनं तथा कार्यं तथैवैकपवित्रकम्॥३०.८॥
आवाहनं न कर्तव्यमग्नौकरणवर्जितम् ।
प्रेतस्य पिण्डमेकञ्च दद्यादुच्छिष्टसन्निधौ॥३०.९॥
तिलोदकं चापसव्यं तन्नामस्मरणान्वितम् ।
अक्षय्यममुकस्येति स्थाने विप्रविसर्जने॥३०.१०॥
अभिरण्यतामिति ब्रूयाद् ब्रूयुस्तेऽभिरताः स्म ह ।
प्रतिमासं भवेदेतत् कार्यमा वत्सरं नरैः॥३०.११॥
अथ संवत्सरे पूर्णे यदा वा क्रियते नरैः ।
सपिण्डीकरणं कार्यं तस्यापि विधिरुच्यते॥३०.१२॥
तच्चापि दैवरहितमेकार्घ्यैकपवित्रकम् ।
नैवाग्नौकरणं तत्र तच्चावाहनवर्जितम्॥३०.१३॥
अपसव्यञ्च तत्रापि भोजयेदयुजो द्विजान् ।
विशेषस्तत्र चान्योऽस्ति प्रतिमासं क्रियाधिकः॥३०.१४॥
तं कथ्यमानमेकाग्रो वदन्त्या मे निशामय ।
तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम्॥३०.१५॥
कुर्यात् पितॄणां त्रितयमेकं प्रेतस्य पुत्रक ।
पात्रत्रये प्रेतपात्रमर्घ्यञ्चैव प्रसेचयेत्॥३०.१६॥
ये समाना इति जपन् पूर्ववच्छेषमाचरेत् ।
स्त्रीणामप्येवमेवैतदेकीद्दिष्टमुदाहृतम्॥३०.१७॥
सपिण्डीकरणं तासां पुत्राभावे न विद्यते ।
प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः॥३०.१८॥
मृताहनि यथान्यायं नृणां यद्वदिहोदितम् ।
पुत्राभावे सपिण्डास्तु तदभावे सहोदकाः॥३०.१९॥
मातुः सपिण्डा ये च स्युर्ये च मातुः सहोदकाः ।
कुर्युरेनं विधिं सम्यगपुत्रस्य सुतासुतः॥३०.२०॥
कुर्युर्मातामहायैवं पुत्रिकास्तनयास्तथा ।
द्व्यामुष्यायणसंज्ञास्तु मातामहपितामहान्॥३०.२१॥
पूजयेयुर्यथान्यायं श्राद्धैर्नैमित्तिकैरपि ।
सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम्॥३०.२२॥
तदभावे च नृपतिः कारयेत् स्वकुटुम्बिना ।
तज्जातीयैर्नरैः सम्याग् दाहाद्याः सकलाः क्रियाः॥३०.२३॥
सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः ।
एतास्ते कथिता वत्स ! नित्यनैमित्तकास्तथा॥३०.२४॥
क्रियां श्राद्धाश्रयामन्यां नित्यनैमित्तिकीं शृणु ।
दर्शस्तत्र निमित्तं वै कालश्चन्द्रक्षयात्मकः ।
नित्यातां नियतः कालस्तस्याः संसूचयत्यथ॥३०.२५॥
इति श्रीमार्कण्डेयपुराणे अलर्कानुशासने नैमित्तिकादिश्राद्धकल्पो नाम त्रिंशोऽध्यायः
एकत्रिंशोऽध्यायः
मदालसोवाच
सपिण्डीकरणादूर्ध्वं पितुर्यः प्रपितामहः ।
स तु लेपभुजो याति प्रलुप्तः पितृपिण्डतः॥३१.१॥
तेषामन्यश्चतुर्थो यः पुत्रलेपभुजान्नभुक् ।
सोऽपि सम्बन्धतो हीनमुपभोगं प्रपद्यते॥३१.२॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
पिण्डसम्बन्धिनो ह्येते विज्ञेयाः पुरुषास्त्रयः॥३१.३॥
तेपसम्बन्धिनश्चान्ये पितामहपितामहात् ।
प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः॥३१.४॥
इत्येष मु नभिः प्रोक्तः सम्बन्धः साप्तपौरुषः ।
यजमानात् प्रभृत्यूर्ध्वमनुलेपभुजस्तथा॥३१.५॥
ततोऽन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः ।
ये च तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः॥३१.६॥
तान् सर्वान् यजमानो वै श्राद्धं कुर्वन् यथाविधि ।
समाप्याययते वत्स ! येन येन शृणुष्व तत्॥३१.७॥
अन्नप्रकिरणं यत् तु मनुष्यैः क्रियते भुवि ।
तेन तृत्पिमुपायान्ति ये पिशाचत्वमागताः॥३१.८॥
यदम्बु स्त्रानवस्त्रोत्थं भूमौ पतति पुत्रक ! ।
तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते॥३१.९॥
यास्तु गात्राम्बुकणिकाः पतन्ति धरणीतले ।
ताभिराप्यायनं तेषां ये देवत्वं कुले गताः॥३१.१०॥
उद्धृतेष्वथ पिण्डेषु याश्चान्नकणिका भुवि ।
ताभिराप्यायनं प्राप्ता ये तिर्यकत्वं कुले गताः॥३१.११॥
ये वादग्धाः कुले बालाः क्रियायोग्या ह्यसंस्कृताः ।
विपन्नास्तेऽन्नविकिर-संमार्जनजलाशिनः॥३१.१२॥
भुक्त्वा चाचामतां यच्च जलं यच्चाङ्घ्रिसेचने ।
ब्राह्मणानां तथैवान्ये तेन तृप्तिं प्रयान्ति वै॥३१.१३॥
एवं यो यजमानस्य यश्च तेषां द्विजन्मनाम् ।
कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा॥३१.१४॥
तेनान्ये तत्कुले तत्र तत्तद्योन्यन्तरं गताः ।
प्रयान्त्याप्यायनं वत्स ! सम्यक् श्राद्धक्रियावताम्॥३१.१५॥
अन्यायोपार्जितैरर्थैर्यच्छ्राद्धं क्रियते नरैः ।
तृप्यन्ते तेन चाण्डालपुक्कसाद्यासु योनिषु॥३१.१६॥
एवमाप्यायनं वत्स ! बहूनामिह बान्धवैः ।
श्राद्धं कुर्वदिभरन्नाम्बुबिन्दुक्षेपेण जायते॥३१.१७॥
तस्माच्छ्राद्धं नरो भक्त्या शाकैरपि यथाविधि ।
कुर्वोत कुर्वतः श्राद्धं कुले कश्चिन्न सीदति॥३१.१८॥
तस्य कालानहं वक्ष्ये नित्यनैमित्तिकात्मकान् ।
विधिना येन च नरैः क्रियते तन्निबोध मे॥३१.१९॥
कार्यं श्राद्धममावास्यां मासि मास्युडुपक्षये ।
तथाष्टकास्वप्यवश्यमिच्छाकालं निबोध मे॥३१.२०॥
विशिष्टब्राह्मणप्राप्तौ सूर्येन्दुग्रहणेऽयने ।
विषुवे रविसंक्रान्तौ व्यतिपाते च पुत्रक॥३१.२१॥
श्राद्धार्हद्रव्यसम्प्राप्तौ तथा दुःस्वप्नदर्शने ।
जन्मर्क्षग्रहपीडासु श्राद्धं कुर्वोत चेच्छया॥३१.२२॥
विशिष्टः श्रोत्रियो योगी वेदविज्ज्येष्ठसामगः ।
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित्॥३१.२३॥
दौहित्रऋत्विग्जामातृस्वस्त्रीयाः श्वशुरस्तथा ।
पञ्चाग्निकर्मनिष्ठश्च तपोनिष्ठोऽथ मातुलः॥३१.२४॥
मातापितृपराश्चैव शिष्यसम्बन्धिबान्धवाः ।
एते द्विजोत्तमाः श्राद्धे समस्ताः केतनक्षमाः॥३१.२५॥
अवकीर्णो तथा रोगी न्यूने चाङ्गे तथाधिके ।
पौनर्भवस्तथा काणः कुण्डो गोलोऽथ पुत्रक॥३१.२६॥
मित्रध्रुक् कुनखी क्लीबः श्यावदन्तो निराकृतिः ।
अबिशस्तस्तु तातेन पिशुनः सोमविक्रयी॥३१.२७॥
कन्यादूषयिता वैद्यो गुरुपित्रोस्तथोज्झकः ।
भृतकाध्यापकोऽमित्रः परपूर्वापतिस्तथा॥३१.२८॥
वेदोज्झोऽथाग्निसन्त्यागी वृषलीपतिदूषितः ।
तथान्ये च विकर्मस्था वर्ज्याः पित्र्येषु वै द्विजाः॥३१.२९॥
निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् ।
दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत्॥३१.३०॥
तैश्च संयतिभिर्भाव्यं यश्च श्राद्धं करिष्यति ।
श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽनुगच्छति॥३१.३१॥
पितरस्तु तयोर्मासं तस्मिन रेतसि शेरते ।
गत्वा च योषितं श्राद्धे यो भुङ्क्ते यश्च गच्छति॥३१.३२॥
रेतोमूत्रकृताहारास्तन्मासं पितरस्तयोः ।
तस्मात्तु प्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम्॥३१.३३॥
अप्राप्तौ तद्दिने चापि वर्ज्या योषित्प्रसङ्गिनः ।
भिक्षार्थमागतान् वापि काले संयमिनो यतीन्॥३१.३४॥
भोजयेत् प्रणिपाताद्यैः प्रासाद्य यतमानसः ।
यथैव शुक्लपक्षाद्वै पितॄणामसितः प्रियः॥३१.३५॥
तथापराह्नः पूर्वाह्नात् पितॄणामतिरित्यते ।
संपूज्य स्वागतेनैतानभ्युपेतान् गृहे द्विजान्॥३१.३६॥
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ।
पितॄणामयुजः कामं युग्मान् दैवे द्विजोत्तमान्॥३१.३७॥
एकैकं वा पितॄणाञ्च देवानाञ्च स्वशक्तितः ।
तथा मातामहानाञ्च तुल्यं वा वैश्वदेविकम्॥३१.३८॥
पृथक् तयोस्तथा चान्ये केचिदिच्छन्ति मानवाः ।
प्राङ्मुखान्दैवसङ्कल्पान् पैत्र्यान् कुर्यादुदङ्मुखान्॥३१.३९॥
तथैव मातामहानां विधिरुक्तो मनीषिभिः ।
विष्टरार्थे कुशान् दत्त्वा पूज्य चार्घ्यादिना बुधः॥३१.४०॥
पवित्रकादि वै दत्त्वा तेभ्योऽनुज्ञामवाप्य च ।
कुर्यादावाहनं प्राज्ञो देवानां मन्त्रतो द्विजः॥३१.४१॥
यवाम्भोभिस्तथा चार्घ्यं दत्त्वा वै वैश्वदेविकम् ।
गन्धमाल्याम्बुधूपञ्च दत्त्वा सम्यक् सदिपकम्॥३१.४२॥
अपसव्यं पितॄणाञ्च सर्वमेवोपकल्पयेत् ।
दर्भांश्च द्विगुणान् दत्त्वा तेभ्योऽनुज्ञामवाप्य च॥३१.४३॥
मन्त्रपूर्वं पितॄणाञ्च कुर्यादावाहनं बुधः ।
अपसव्यं तथा चार्घ्यं यवार्थञ्च तथा तिलैः॥३१.४४॥
निष्पादयेन्महाभाग ! पितॄणं प्रीणने रतः ।
अग्नौ कार्यमनुज्ञातः कुरुष्वेति ततो द्विजैः॥३१.४५॥
जुहुयाद्व्यञ्जनक्षारवर्ज्यमन्नं यथाविधि ।
अग्नये कव्यवाहाय स्वहेति प्रथमाहुतिः॥३१.४६॥
सोमाय वै पितृमते स्वाहेत्यन्या तथा भवेत् ।
यमाय प्रेतपतये स्वाहेति त्रितयाहुतिः॥३१.४७॥
हुतावशिष्टं दद्याच्च भाजनेषु द्विजन्मनाम् ।
भाजनालम्भनं कृत्वा दद्याच्चान्नं यथाविधि॥३१.४८॥
यथा सुखं जुषध्वं भो इति वाच्यमनिष्ठुरम् ।
भुञ्जीरंश्च ततस्तेऽपि तच्चित्ता मौनिनः सुखम्॥३१.४९॥
यद्यदिष्टचतमं तेषां तत्तदन्नमसत्वरम् ।
अक्रुध्यंश्च नरो दद्यात् सम्भवेन प्रलोभयन्॥३१.५०॥
रक्षोघ्रांश्च जपेन्मन्त्रांस्तिलैश्च विकिरेन्महीम् ।
सिद्धार्थकैश्च रक्षार्थं श्राद्धं हि प्रचुरच्छलम्॥३१.५१॥
पृष्टैस्तृप्तैश्च तृप्ताः स्थ तृप्ताः स्म इति वादिभिः ।
अनुज्ञातो नरस्त्वन्नं प्रकिरेत् भुवि सर्वतः॥३१.५२॥
तद्वदाचमनार्थाय दद्यादापः सकृत् सकृत् ।
अनुज्ञाञ्च ततः प्राप्य यतवाक्कायमानसः॥३१.५३॥
सतिलेन ततोऽन्नेन पिण्डान् सव्येन पुत्रक ! ।
पितनुद्दिश्य दर्भेषु दद्यादुच्छिष्टसन्निधौ॥३१.५४॥
पितृतीर्थेन तोयञ्च दद्यात्तेभ्यः समाहितः ।
पितॄनिद्दिश्य यद्भक्त्या यजमानो नृपात्मज॥३१.५५॥
तद्वन्मातामहानाञ्च दत्त्वा पिण्डान् यथाविधि ।
गन्धमाल्यादिसंयुक्तं दद्यादाचमनं ततः॥३१.५६॥
दत्त्वा च तक्षिणां शक्त्या सुस्वधास्त्विति तान् वदेत् ।
तैश्च तुष्टैस्तथेत्युक्त्वा वाचयेद्वैश्वदेविकान्॥३१.५७॥
प्रीयन्तामिति भद्रं वो विश्वेदेवा इतीरयेन् ।
तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तदाशिषः॥३१.५८॥
विसर्जयेत् प्रियाण्युक्त्वा प्रणिपत्य च भक्तितः ।
आद्वारमनुगच्छेच्चागच्छेच्चानुप्रमोदितः॥३१.५९॥
ततो नित्यक्रियां कुर्याद् भोजयेच्च तथातिथीन् ।
नित्यक्रियां पितॄणाञ्च केचिदिच्छन्ति सत्तमाः॥३१.६०॥
न पितॄणान्तथैवान्ये शेषं पूर्ववदाचरेत् ।
पृथक् पाकेन नेत्यन्ये केचित् पूर्वञ्च पूर्ववत्॥३१.६१॥
ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्नरः ।
एवं कुर्वोत धर्मज्ञः श्राद्धं पित्र्यं समाहितः॥३१.६२॥
यथा वा द्विजमुख्यानां परितोषोऽभिजायते ।
त्रीणि श्राद्धे पवित्राणि दौहित्रं कुतपस्तिलाः॥३१.६३॥
वर्ज्यानि चाहुर्विप्रेन्द्र ! कोपोऽध्वगमनं त्वरा ।
राजतञ्च तथा पात्रं शस्तं श्राद्धेषु पुत्रक !॥३१.६४॥
रजतस्य तथा कार्यं दर्शनं दानमेव वा ।
राजते हि स्वधा दुग्धा पितृभिः श्रूयते मही ।
तस्मात् पितॄणां रजतमभीष्टं प्रीतिवर्धनम्॥३१.६५॥
इति श्रीमार्कण्डेयपुराणेऽलर्कानुशासने पार्वणश्राद्धकल्पोनाम एकत्रिंशोऽध्यायः
द्वात्रिंशोऽध्यायः
मदालसोवाच
अतः परं शृणुष्वेमं पुत्र ! भक्त्या यदाहृतम् ।
पितॄणां प्रीतये यद्वा वर्ज्यं वा प्रीतिकारकम्॥३२.१॥
मासं पितॄणां तृप्तिश्च हविष्यान्नेन जायते ।
मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः॥३२.२॥
त्रीन् मासान् हारिणां मांसं विज्ञेयं पितृतृप्तये ।
चतुर्मासांस्तु पुष्णाति शशस्य पिशितं पितॄन्॥३२.३॥
शाकुनं पञ्च वै मासान् षण्मासान् शूकरामिषम् ।
छागलं सप्त वै मासानैणेयञ्चाष्टमासिकीम्॥३२.४॥
करोति तृप्तिं नव वै रुरोर्मांसं न संशयः ।
गवयस्यामिषं तृप्तिं करोति दशमासिकीम्॥३२.५॥
तथैकादशमासंस्तु औरभ्रं पितृतृप्तिदम् ।
संवत्सरं तथा गव्यं पयः पायसमेव वा॥३२.६॥
वाध्रीणसामिषं लौहं कालशाकन्तथा मधु ।
दौहित्रामिषमन्यच्च यच्चान्यत् स्वकुलोद्भवैः॥३२.७॥
अनन्तां वै प्रयच्छन्ति तृप्तिं गौरीसुतस्तथा ।
पितॄणां नात्र सन्देहो गायाश्राद्धञ्च पुत्रक॥३२.८॥
श्यामाकराजश्यामाकौ तद्वच्चैव प्रसातिकाः ।
नीवाराः पौष्कलाश्चैव धान्यानां पितृतृप्तये॥३२.९॥
यवव्रीहिसगोधूमतिला मुद्गाः ससर्षपाः ।
प्रियङ्गवः कोविदारा निष्पावाश्चातिशोभनाः॥३२.१०॥
वर्ज्या मर्कटकाः श्राद्धे राजमाषास्तथाणवः ।
विप्राषिका मसूराश्च श्राद्धकर्मणि गर्हिताः॥३२.११॥
लशुनं गृञ्जनञ्चैव पलाण्डं,पिण्डमूलकम् ।
करम्भं यानि चान्यानि हीनानि रसवर्णतः॥३२.१२॥
गान्धारिकामलाबूनि लवणान्यूषराणि च ।
आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च॥३२.१३॥
वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ।
यच्चोत्कोचादिना प्राप्तं पतिताद्यदुपार्जितम्॥३२.१४॥
अन्यायकन्याशुल्कोत्थं द्रव्यञ्चात्र विगर्हितम् ।
दुर्गन्धि फेनिलञ्चाम्बु तथैवाल्पतरोदकम्॥३२.१५॥
न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चाप्युपाहृतम् ।
यन्न सर्वापचोत्सृष्टं यच्चाभोज्यं निपानजम्॥३२.१६॥
तद्वर्ज्यं सलिलं तात ! सदैव पितृकर्मणि ।
मार्गमाविकमौष्ट्रञ्च सर्वमैकशफञ्च यत्॥३२.१७॥
माहिषञ्चामरञ्चैव धेन्वा गोश्चाप्यनिर्दशम् ।
पित्रर्थं मे प्रयच्छस्वेत्युक्त्वा यच्चाप्युपाहृतम्॥३२.१८॥
वर्जनीयं सदा सदिभस्तत्पयः श्राद्धकर्मणि ।
वर्ज्या जन्तुमती रूक्षा क्षितिः प्लुष्टा तथाग्निना॥३२.१९॥
अनिष्टदुष्टशब्दोग्रदुर्गन्धा चात्र कर्मणि ।
कुलापमानकाः श्राद्धे व्यायुज्य कुलहिंसकाः॥३२.२०॥
नग्नाः पातकिनश्चैव हन्युर्दृष्ट्या पितृक्रियाम् ।
अपुमानपविद्धश्च कुक्कुटो ग्रामशूकरः॥३२.२१॥
श्वा चैव हन्ति श्राद्धानि यातुधानाश्च दर्शनात् ।
तस्मात् सुसंवृतो दद्यात्तिलैश्चावकिरन्महीम्॥३२.२२॥
एवं रक्षा भवेच्छ्राद्धे कृता तातोभयोरपि ।
शावसूतकसंस्पृष्टं दीर्घरोगिभिरेव च॥३२.२३॥
पतितैर्मलिनैश्चैव न पुष्णाति पितामहान् ।
वर्जनीयं तथा श्राद्धे तथोदक्याश्च दर्शनम्॥३२.२४॥
मुण्डशौण्डसमाभ्यासो यजमानेन यादरात् ।
केशकीटावपन्नञ्च तथाश्वभिरवेक्षितम्॥३२.२५॥
पूति पर्युषितञ्चैव वार्ताक्यभिषवांस्तथा ।
वर्जनीयानि वै श्राद्धे यच्च वस्त्रानिलाहतम्॥३२.२६॥
श्रद्धया परया दत्तं पितॄणां नामगोत्रतः ।
यदाहारास्तु ते जातास्तदाहारत्वमेति तत्॥३२.२७॥
तस्मात् श्रद्धावता पात्रे यच्छस्तं पितृकर्मणि ।
यथावच्चैव दातव्यं पितॄणां तृप्तिमिच्छता॥३२.२८॥
योगिनश्च सदा श्राद्धे भोजनीया विपश्चिता ।
योगाधारा हि पिररस्तस्मात् तान् पूजयेत् सदा॥३२.२९॥
ब्राह्मणानां सहस्रेभ्यो योगी त्वग्राशनी यदि ।
यजमानञ्च भोक्तॄंश्च नौरिवाम्भसि तारयेत्॥३२.३०॥
पितृगाथास्तथवात्र गीयन्ते ब्रह्मवादिभिः ।
या गीताः पितृभिः पूर्वमैलस्यासीन्महीपतेः॥३२.३१॥
कदा नः सन्ततावग्र्यः कस्यचिद् भविता सुतः ।
यो योगिभुक्तशोषान्नो भुवि पिण्डं प्रदास्यति॥३२.३२॥
गयायामथवा पिण्डं खड्गमांसं महाहविः ।
कालशाकं तिलाढ्यं वा कृसरं मासतृप्तये॥३२.३३॥
वैश्वदेवञ्च सौम्यञ्च खड्गमांसं परं हविः ।
विषाणवर्ज्यखड्गाप्त्या आसूर्यञ्चाश्नुवामहे॥३२.३४॥
दद्यात् श्राद्धं त्रयोदश्यां मघासु च यथाविधि ।
मधुसर्पिः समायुक्तं पायसं दक्षिणायने॥३२.३५॥
तस्मात् सम्पूजयेत् भक्त्या स्वपितॄन् पुत्र मानवः ।
कामानभीप्सन् सकलान् पापाच्चात्मविमोचनम्॥३२.३६॥
वसून् रुद्रांस्तथादित्यान्नक्षत्रग्रहतारकाः ।
प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः॥३२.३७॥
आयुः प्रज्ञां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः॥३२.३८॥
एतत् ते पुत्र ! कथितं श्राद्धकर्म यथोदितम् ।
काम्यानां श्रूयतां वत्स ! श्राद्धानां तिथिकीर्तनम्॥३२.३९॥
इति श्रीमार्कण्डेयपुराणे श्राद्धकल्पो नाम द्वात्रिंशोऽध्यायः
त्रयस्त्रिंशोऽध्यायः
मदालसोवाच
प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा ।
वरार्थिनी तृतीया तु चतुर्थो शत्रुनाशिनी॥३३.१॥
श्रियं प्राप्रोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन्नरः ।
गणाधिपत्यं सप्तम्यामष्टम्यां वृद्धिमुत्तमाम्॥३३.२॥
स्त्रियो नवम्यां प्राप्रोति दशम्यां पूर्णकामताम् ।
वेदांस्तथाप्नुयात् सर्वानेकादश्यां क्रियापरः॥३३.३॥
द्वादश्यां जयलाभञ्च प्राप्रोति पितृपूजकः ।
प्रजां मेधां पशुं वृद्धिं स्वतन्त्र्यं पुष्टमुत्तमाम्॥३३.४॥
दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
अवाप्नोति न सन्देहः श्राद्धं श्रद्धापरो नरः॥३३.५॥
यथासम्भावितान्नेन श्राद्धसम्पत्समन्वितः ।
युवानः पितरो यस्य मृताः शस्त्रेण वा हताः॥३३.६॥
तेन कार्यं चतुर्दश्यां तेषां प्रीतिमभीप्सता ।
श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषः शुचिः॥३३.७॥
सर्वान् कामानवाप्रोति स्वर्गञ्चानन्तमश्नुते ।
कृत्तिकासु पितॄनर्च्य स्वर्गमाप्नोति मानवः॥३३.८॥
अपत्यकामो रोहिण्यां सौम्ये चौजस्वितां लभेत् ।
शौर्यमार्द्रासु चाप्नोति क्षेत्रादि च पुनर्वसौ॥३३.९॥
पुष्टिं पुष्ये सदाभ्यर्च्य आश्लेषासु वरान् सुतान् ।
मघासु स्वजनश्रैष्ठ्यं सौभाग्यं फाल्गुनीषु च॥३३.१०॥
प्रदानशीलो भवति सापत्यश्चोत्तरासु च ।
प्रयाति श्रेष्ठतां सत्यं हस्ते श्राद्धप्रदो नरः॥३३.११॥
रूपयुक्तश्च चित्रासु तथापत्यान्यवाप्नुयात् ।
वाणिज्यलाभदा स्वातिर्विशाखा पुत्रकामदा॥३३.१२॥
कुर्वन्तश्चानुराधासु लभन्ते चक्रवर्तिताम् ।
आधिपत्यञ्च ज्येष्ठासु मूले चारोग्यमुत्तमम्॥३३.१३॥
आषाढासु यशः प्राप्तिरुत्तरासु विशोकता ।
श्रवणे च शुभान् लोकान् धनिष्ठासु धनं महत्॥३३.१४॥
वेदवित्त्वमभिजिति भिषक्सिद्धन्तु वारुणे ।
अजाविकं प्रौष्ठपदे विन्देद् गास्तु तथोत्तरे॥३३.१५॥
रेवतीषु तथा कुप्यमश्विनीषु तुरङ्गमान् ।
श्राद्धं कुर्वंस्तथाप्नोति भरणीष्वायुरुत्तमम् ।
तस्मात् काम्यानि कुर्वीत ऋक्षेष्वेतेषु तत्त्ववित्॥३३.१६॥
इति श्रीमार्कण्डेयपुराणे काम्यश्राद्धफलकथनं नाम त्रयस्त्रिंशोऽध्यायः
चतुस्त्रिंशोऽध्यायः
मदालसोवाच
एवं पुत्र ! गृहस्थेन देवताः पितरस्तथा ।
संपूज्या हव्यकव्याभ्यामन्नेनातिथिबान्धवाः॥३४.१॥
भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः ।
भिक्षवो याचमानाश्च ये चान्ये वसता गृहे॥३४.२॥
सदाचारवता तात ! साधुना गृहमेधिना ।
पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः॥३४.३॥
अलर्क उवाच
कथितं मे त्वया मातर्नित्य नैमित्तिकञ्च यत् ।
नित्यनैमित्तिकञ्चैव त्रिविधं कर्म पौरुषम्॥३४.४॥
सदाचारमहं श्रोतुमिच्छामि कुलनन्दिनि ।
यत् कुर्वन् सुखमाप्रोति परत्रेह च मानवः॥३४.५॥
मदालसोवाच
गृहस्थेन सदा कार्यमाचारपरिपालनम् ।
न ह्याचारविहीनस्य सुखमत्र परत्र वा॥३४.६॥
यज्ञदानतपांसीह पुरुषस्य च भूतये ।
भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते॥३४.७॥
दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।
कार्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम्॥३४.८॥
तस्य स्वरूपं वक्ष्यामि सदाचारस्य पुत्रक ।
तन्ममैकमनाः श्रुत्वा तथैव परिपालय॥३४.९॥
त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना ।
तत्संसिद्धो गृहस्थस्य सिद्धिरत्र परत्र च॥३४.१०॥
पादेनार्थस्य पारत्र्यं कुर्यात् सञ्चयमात्मवान् ।
अर्धेन चात्मभरणन्नित्यनैमित्तिकान्वितम्॥३४.११॥
पादञ्चात्मार्थमायस्य मूलभूतं विवर्धयेत् ।
एवमाचरतः पुत्र ! अर्थः साफल्यमर्हति॥३४.१२॥
तद्वत् पापनिषेधार्थं धर्मः कार्यो विपश्चिता ।
परत्रार्थं तथैवान्यः काम्योऽत्रैव फलप्रदः॥३४.१३॥
प्रत्यवायभयात् काम्यस्तथान्यश्चाविरोधवान् ।
द्विधा कामोऽपि गदितस्त्रिवर्गस्याविरोधतः॥३४.१४॥
परम्परानुबन्धांश्च धर्मादींस्तान् शृणुष्व मे॥३४.१५॥
धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थबाधकः ।
उभाभ्याञ्च द्विधा कामस्तेन तौ च द्विधा पुनः॥३४.१६॥
बाह्मे मुहूर्ते बुध्येत धर्मार्थौ चापि चिन्तयेत् ।
समुत्थाय तथाचम्य प्राङ्मुखो नियतः शुचिः॥३४.१७॥
पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम् ।
उपासीत यथान्यायं नैनां जह्यादनापदि॥३४.१८॥
असत्प्रलापमनृतं वाक्पारुष्यञ्च वर्जयेत् ।
असच्छास्त्रमसद्वादमसत्सेवाञ्च पुत्रक !॥३४.१९॥
सायं प्रापतस्तथा होमं कुर्वोत नियतात्मवान् ।
नोदयास्तमने बिम्बमुदीक्षेत विवस्वतः॥३४.२०॥
केशप्रसाधनादर्शदर्शनं दन्तधावनम् ।
पूर्वाह्न एव कार्याणि देवतानाञ्च तर्पणम्॥३४.२१॥
ग्रामावसथतीर्थानां क्षेत्राणाञ्चैव वर्त्मनि ।
विण्मूत्रं नानुतिष्ठेत न कृष्टे न च गोव्रजे॥३४.२२॥
नग्नां परस्त्रियं नेक्षेन्न पश्येदात्मनः सकृत् ।
उदक्या दर्शनां स्पर्शो वर्ज्यं सम्भाषणन्तथा॥३४.२३॥
नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ।
नाधितिष्ठेच्छकृन्मूत्रकेशभस्मकपालिकाः॥३४.२४॥
तुषाङ्गारास्थिशीर्णानि रज्जुवस्त्रादिकानि च ।
नाधितिष्ठेत्तथा प्राज्ञः पथि चैवन्तथा भुवि॥३४.२५॥
पितृदेवमनुष्याणां भूतानाञ्च तथार्च्चनम् ।
कृत्वा विभवतः पश्चाद् गृहस्थो भोक्तुमर्हति॥३४.२६॥
प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः ।
भुञ्जीतान्नञ्च तच्चित्तो ह्यन्तर्जानुः सदा नरः॥३४.२७॥
उपगातादृते दोषं नान्यस्योदीरयेद् बुधः ।
प्रत्यक्षलवणं वर्ज्यमन्नमत्युष्णमेव च॥३४.२८॥
न गच्छन्न च तिष्ठन् वै विण्मूत्रोत्सर्गमात्मवान् ।
कुर्वोत नैव चाचामन् यत् किञ्चिदपि भक्षयेत्॥३४.२९॥
उच्छिष्टो नालपेत् किञ्चित् स्वाध्यायञ्च विवर्जयेत् ।
गां ब्राह्मणं तथा चाग्निं स्वमूर्धानञ्च न स्पृशेत्॥३४.३०॥
न च पश्येद्रविं नेन्दुं न नक्षत्राणि कामतः ।
भिन्नासनं तथा शय्यां भाजनञ्च विवर्जयेत्॥३४.३१॥
गुरूणामासनं देयमभ्युत्थानादिसत्कृतम् ।
अनुकूलं तथालापमभिवादनपूर्वकम्॥३४.३२॥
तथानुगमनं कुर्यात् प्रतिकूलं न संजयेत् ।
नैकवस्त्रश्च भुञ्जीत न कुर्याद्देवतार्चनम्॥३४.३३॥
न वाहयेद् द्विजान्नाग्नौ मेहं कुर्वोत् बुद्धिमान् ।
स्नायीत न नरो नग्नो न शयीत कदाचन॥३४.३४॥
न पाणिभ्यामुभाभ्याञ्च कण्डूयेत शिरस्तथा ।
न चाभीक्ष्णं शिरः स्त्रानं कार्यं निष्कारणं नरैः॥३४.३५॥
शिरः स्त्रातश्च तैलेन नाङ्गं किञ्चिदपि स्पृशेत् ।
अनध्यायेषु सर्वेषु स्वाध्यायञ्च विवर्जयेत्॥३४.३६॥
ब्राह्मणानिलगोसूर्यान् न मेहेत कदाचन ।
उदङ्मुखो दिवा रात्रावुत्सर्गं दक्षिणामुखः॥३४.३७॥
आबाधाषु यथाकामं कुर्यान्मूत्रपुरीषयोः ।
दुष्कृतं न गुरोर्ब्रूयात् क्रुद्धं चैनं प्रसादयेत्॥३४.३८॥
परिवादं न शृणुयादन्येषामपि कुर्वताम् ।
पन्था देयो ब्राह्मणानां राज्ञो दुः खातुरस्य च॥३४.३९॥
विद्याधिकस्य गुर्विण्या भारार्तस्य यवीयसः ।
मूकान्धबधिराणाञ्च मत्तस्योन्मत्तकस्य च॥३४.४०॥
पुंश्चल्याः कृतवैरस्य बालस्य पतितस्य च ।
देवालकं चैत्यतरुं तथैव च चतुष्पथम्॥३४.४१॥
विद्याधिकं गुरुं देवं बुधः कुर्यात् प्रदक्षिणम् ।
उपानद्वस्त्रमाल्यादि धृतमन्यैर्न धारयेत्॥३४.४२॥
उपवीतमलङ्कारं करकञ्चैव वर्जयेत् ।
चतुर्दश्यान्तथाष्टम्यां पञ्चदश्याञ्च पर्वसु॥३४.४३॥
तैलाभ्यङ्गं तथा भोगं योषितश्च विवर्जयेत् ।
न क्षिप्तपादजङ्घश्च प्राज्ञस्तिष्ठेत् कदाचन॥३४.४४॥
न चापि विक्षिपेत् पादौ पादं पादेन नाक्रमेत् ।
मर्माभिघातमाक्रोशं पैशुन्यञ्च विवर्जयेत्॥३४.४५॥
दम्भाभिमानतीक्ष्णानि न कुर्वोत विचक्षणः ।
मूर्खोन्मत्तव्यसनिनो विरूपान्मायिनस्तथा॥३४.४६॥
न्यूनाङ्गांश्चाधिकाङ्गांश्च नोपहासैर्विदूषयेत् ।
परस्य दण्डं नोद्यच्छेच्छिक्षार्थं पुत्रशिष्ययोः॥३४.४७॥
तद्वन्नोपविशेत् प्राज्ञः पादेनाक्रम्य चासनम् ।
संयावं कृषरं मांसं नात्मार्थमुपसाधयेत्॥३४.४८॥
सायं प्रातश्च भोक्तव्यं कृत्वा चातिथिपूजनम् ।
प्राङ्मुखोदङ्मुको वापि वाग्यतो दन्तधावनम्॥३४.४९॥
कुर्वोत सततं वत्स ! वर्जयेद्वर्ज्यवीरुधः ।
नोदक्शिराः स्वपेज्जातु न चप्रत्यक्शिरा नरः॥३४.५०॥
शिरस्यगस्त्यमास्थाय शयीताथ पुरन्दरम् ।
न तु गन्धवतीष्वप्सु स्नायीत न तथा निशि॥३४.५१॥
उपरागे परं स्नानमृते दिनमुदाहृतम् ।
अपमृज्यान्न चास्नातो गात्राण्यम्बरपाणिभिः॥३४.५२॥
न चापि धूनयेत् केशान् वाससी न च धूनयेत् ।
नानुलेपनमादद्यादस्नातः कर्हिचिद् बुधः॥३४.५३॥
न चापि रक्तवासाः स्याच्चित्रासितधरोऽपि वा ।
न च कुर्याद्विपर्यासं वाससोर्नापि भूषणे॥३४.५४॥
वर्ज्यञ्च विदशं वस्त्रमत्यन्तोपहतञ्च यत् ।
केशकीटावपन्नञ्च क्षुण्णं श्वभिरवेक्षितम्॥३४.५५॥
अवलीढावपन्नञ्च सारोद्धरणदूषितम् ।
पृष्ठमांसं वृथामांसं वर्ज्यमांसञ्च पुत्रक !॥३४.५६॥
न भक्षयीत सततं प्रत्यक्षलवणानि च ।
वर्ज्यं चिरोषितं पुत्र ! भक्तं पर्युषितञ्च यत्॥३४.५७॥
पिष्टशाकेक्षुपयसां विकारान्नृपनन्दन! ।
तथा मांसविकारांश्च ते च वर्ज्याश्चिरोषिताः॥३४.५८॥
उदयास्तमने भानोः शयनञ्च विवर्जयेत् ।
नास्नातो नैव संविष्टो न चैवान्यमना नरः॥३४.५९॥
न चैव शयने नोर्व्यामुपविष्टो न शब्दवत् ।
न चैकवस्त्रो न वदन् प्रेक्षतामप्रदाय च॥३४.६०॥
भुञ्जीत पुरुषः स्नातः सायं प्रातर्यथाविधि ।
परदारा न गन्तव्याः पुरुषेण विपश्चिता॥३४.६१॥
इष्टापूर्तायुषां हन्त्री परदारगतिर्नृणाम् ।
न हीदृशमनायुष्यं लोके किञ्चन विद्यते॥३४.६२॥
यादृशं पुरुषस्येह परदाराभिमर्षणम् ।
देवार्चनाग्निकार्याण तथा गुर्वभिवादनम्॥३४.६३॥
कुर्वोत सम्यगाचम्य तद्वदन्नभुजिक्रियाम् ।
अफेनाभिरगन्धाभिरद्भरच्छाभिरादरात्॥३४.६४॥
आचामेत् पुत्र ! पुण्याभिः प्राङ्मुखोदङ्मुखोऽपि वा ।
अन्तर्जलादावसथाद्वल्मीकान्मूषिकस्थलात्॥३४.६५॥
कृतशौचावशिष्टाश्च वर्जयेत् पञ्च वै मृदः ।
प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः॥३४.६६॥
अन्तर्जानुस्तथाऽचामेत् त्रिश्चतुर्वा पिबेदपः ।
परिमृज्य द्विरास्यान्तं खानि मूर्धानमेव च॥३४.६७॥
सम्यगाचम्य तोयेन क्रियां कुर्वोत वै शुचिः ।
देवतानामृषीणाञ्च पितॄणाञ्चैव यत्नतः॥३४.६८॥
समाहितमना भूत्वा कुर्वोत सततं नरः ।
क्षुत्त्वा निष्ठीव्य वासश्च परिधायाचमेद् बुधः॥३४.६९॥
क्षुतेऽवलीढे वान्ते च तथा निष्ठीवनादिषु ।
कुर्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्शनम्॥३४.७०॥
कुर्वोतालम्बनं चापि दक्षिणश्रवणस्य वै ।
यथाविभवतो ह्येतत् पूर्वाभावे ततः परम्॥३४.७१॥
अविद्यमाने पूर्वोक्ते उत्तरप्राप्तिरिष्यते ।
न कुर्याद् दन्तसङ्घर्षं नात्मनो देहताडनम्॥३४.७२॥
स्वप्नाध्ययनभोज्यानि सन्ध्ययोश्च विवर्जयेत् ।
सन्ध्यायां मैथुनञ्चापि तथा प्रस्थानमेव च॥३४.७३॥
पूर्वाह्ने तात ! देवानां मनुष्याणाञ्च मध्यमे ।
भक्त्या तथापराह्ने च कुर्वोत पितृपूजनम्॥३४.७४॥
शिरः स्नातश्च कुर्वोत दैवं पैत्र्यमथापि वा ।
प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत्॥३४.७५॥
व्यङ्गिनीं वर्जयेत् कन्यां कुलजामपि रोगिणीम् ।
विकृतां पिङ्गलाञ्चैव वाचाटां सर्वदूषिताम्॥३४.७६॥
अव्यङ्गीं सौम्यनासाञ्च स्रवलक्षणलक्षिताम् ।
तादृशीमुद्वहेत् कन्यां श्रेयः कामो नरः सदा॥३४.७७॥
उद्वहेत् पितृमात्रोश्च सप्तमीं पञ्चमीन्तथा ।
रक्षेद्दारान् त्यजेदीर्ष्यां दिवा च स्वप्नमैथुने॥३४.७८॥
परोपतापकं कर्म जन्तुपीडाञ्च वर्जयेत् ।
उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम्॥३४.७९॥
स्त्रीजन्मपरिहारार्थं पञ्चमीमपि वर्जयेत् ।
ततः षष्ठ्यां व्रजेद्रात्र्यां श्रेष्ठा युगमासु पुत्रक॥३४.८०॥
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तस्माद्युग्मासु पुत्रार्थो संविशेत सदा नरः॥३४.८१॥
विधर्मिणोऽह्नि पूर्वाख्ये सन्ध्याकाले च षण्डकाः ।
क्षुरकर्मणि वान्ते च स्त्रीसम्भोगे च पुत्रक॥३४.८२॥
स्नायीत चेलवान् प्राज्ञः कटभूमिमुपेत्य च ।
देववेदद्विजातीनां साधुसत्यमहात्मनाम्॥३४.८३॥
गुरोः पतिव्रतानाञ्च तया यज्वितपस्विनाम् ।
परिवादं न कुर्वोत परिहासञ्च पुत्रक॥३४.८४॥
कुर्वतामविनीतानां न श्रोतव्यं कथञ्चन ।
नोत्कृष्टशय्यासनयोर्नापकृष्टस्य चारुहेत्॥३४.८५॥
न चामङ्गल्यवेशः स्यान्न चामङ्गल्यवाग्भवेत् ।
धवलाम्भरसंवीतः सितपुष्पविभूषितः॥३४.८६॥
नोद्धूतोन्मत्तमूढैश्च नाविनीतैश्च पण्डितः ।
गच्छेन्मैत्रीं न चाशीलैर्न च चौर्यादिदूषितैः॥३४.८७॥
न चातिव्ययशीलैश्च न लुब्धैर्नापि वैरिभिः ।
न बन्धकीभिर्न न्यूनैर्बन्धकीपतिभिस्तथा॥३४.८८॥
सार्धं न बलिभिः कुर्यान्न च न्यूनैर्न निन्दितैः ।
न सर्वशङ्किभिर्नित्यं न च दैवपरैर्नरैः॥३४.८९॥
कुर्वोत साधुभिर्मैत्रीं सदाचारावलम्बिभिः ।
प्राज्ञैरपिशुनैः शक्तैः कर्मण्युद्योगभागिभिः॥३४.९०॥
सुहृद्दीक्षितभूपालस्नातकश्वशुरैः सह ।
ऋत्विगादीन् षडर्घार्हानर्चयेच्च गृहागतान्॥३४.९१॥
यथाविभवतः पुत्र ! द्विजान् संवत्सरोषितान् ।
अर्चयेन्मधुपर्केण यथाकालमतन्द्रितः॥३४.९२॥
तिष्ठेच्च शासने तेषां श्रेयस्कामो द्विजोत्तमः ।
न च तान् विवदेद्वीमानाक्रुष्टश्चापि तैः सदा॥३४.९३॥
सम्यग्गृहार्चनं कृत्वा यथास्थानमनुक्रमात् ।
संपूजयेत्ततो वह्निं दद्याच्चैवाहुतीः क्रमात्॥३४.९४॥
प्रथमां ब्रह्मणे दद्यात् प्रजानांपतये ततः ।
तृतीयाञ्चैव गुह्येभ्यः कश्यपाय तथापराम्॥३४.९५॥
ततोऽनुमतये दत्त्वा दद्याद् गृहबलिन्ततः ।
पूर्वाख्यातं मया यत्ते नित्यकर्मक्रियाविधौ॥३४.९६॥
वैश्वदेवन्ततः कुर्याद्धलयस्तत्र मे शृणु ।
यथास्थानविभागन्तु देवानुद्दिश्य वै पृथके॥३४.९७॥
पर्जन्याय धरित्रीणां दद्याच्च माणके त्रयम् ।
वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादितः क्रमात्॥३४.९८॥
ब्रह्मणे चान्तरीक्षाय सूर्याय च यथाक्रमम ।
विश्वेभ्यश्चैव देवेभ्यो विश्वबूतभ्य एव च॥३४.९९॥
उषसे भूतपतये दद्याच्चोत्तरतस्ततः ।
स्वधा नम इतीत्युक्त्वा पितृभ्यश्चापि दक्षिणे॥३४.१००॥
कृत्वापसव्यं वायव्यां यक्ष्मैतत्तेति भाजनात् ।
अन्नावशेषमिच्छन् वै तोयं दद्याद्यथाविधि॥३४.१०१॥
ततोऽन्नाग्रं समुद्धृत्य हन्तकारोपकल्पनम् ।
यथाविधि यथान्यायं ब्राह्मणायोपपादयेत्॥३४.१०२॥
कुर्यात् कर्माणि तीर्थेन स्वेन स्वेन यथाविधि ।
देवादीनान्तथा कुर्याद् ब्राह्मेणाचमनक्रियाम्॥३४.१०३॥
अङ्गुष्ठोत्तरतो रेखा पाणेर्या दक्षिणस्य तु ।
एतद् ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै॥३४.१०४॥
तर्जन्यङ्गुष्ठयोरन्तः पैत्र्यं तीर्थमुदाहृतम् ।
पितॄणां तेन तोयादि दद्यान्नान्दीमुखादृते॥३४.१०५॥
अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः ।
तीर्थ कनिष्ठिकामूले कायं तेन प्रजापतेः॥३४.१०६॥
एवमेभिः सदा तीर्थैर्देवानां पितृभिः सह ।
सदा कार्याणि कुर्वोत नान्यतीर्थेन कर्हिचित्॥३४.१०७॥
ब्राह्मेणाचमनं शस्तं पित्र्यं पैत्र्येण सर्वदा ।
देवतीर्थेन देवानां प्राजापत्यं निजेन च॥३४.१०८॥
नान्दीमुखानां कुर्वोत प्राज्ञः पिण्डोदकक्रियाम् ।
प्राजापत्येन तीर्थेन यच्च किञ्चित् प्रजापतेः॥३४.१०९॥
युगपज्जलमग्निञ्च बिभृयान्न विचक्षणः ।
गुरुदेवान् प्रति तथा न च पादौ प्रसारयेत्॥३४.११०॥
नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् ।
शौचकालेषु सर्वेषु गुरुष्वल्पेषु वा पुनः॥३४.१११॥
न विलम्बेत शौचार्थं न मुखेनानलं धमेत् ।
तत्र पुत्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम्॥३४.११२॥
ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी ।
जितामित्रो नृपो यत्र बलवान् धर्मतत्परः॥३४.११३॥
तत्र नित्यं वसेत् प्राज्ञः कुतः कुनृपतौ सुखम् ।
यत्राप्रधृष्यो नृपतिर्यत्र शस्यवती मही॥३४.११४॥
पौराः सुसंयता यत्र सततं न्यायवर्तिनः ।
यत्रामत्सरिणो लोकास्तत्र वासः सुखोदयः॥३४.११५॥
यस्मिन् कृषीबला राष्ट्रे प्रायशो नातिभोगिनः ।
यत्रौषधन्यशेषाणि वसेत्तत्र विचक्षणः॥३४.११६॥
तत्र पुत्र न ! वस्तव्यं यत्रैतत् त्रितयं सदा ।
जिगीषुः पूर्ववैरश्च जनश्च सततोत्सवः॥३४.११७॥
वसेन्नित्यं सुशीलेषु सहवासिषु पण्डितः ।
इत्येतत् कथितं पुत्र ! मया ते हितकाम्यया॥३४.११८॥
इति श्रीमार्कण्डेयपुराणे अलर्कानुशासने सदाचारकथनं नाम चतुस्त्रिंशोऽध्यायः
पञ्चत्रिंशोऽध्यायः
मदालसोवाच
अतः परं शृणुष्व त्वं वर्ज्यावर्ज्यप्रतिक्रियाम् ।
भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसंभृतम्॥३५.१॥
अस्नेहाश्चापि गोधूमयवगोरसविक्रियाः ।
शशकः कच्छपो गोधा श्वावित् खड्गोऽथ पुत्रक॥३५.२॥
भक्ष्या ह्येते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ ।
पितृदेवादिशेषश्च श्राद्धे ब्राह्मणकाम्यया॥३५.३॥
प्रोक्षितञ्चौषधार्थञ्च खादन्मांसं न दुष्यति ।
शङ्खाश्मस्वर्णरूप्याणां रज्जूनामथ वाससाम्॥३५.४॥
शाकमूलफलानाञ्च तथा विदलचर्मणाम् ।
मणिवज्रप्रवालानान्तथा मुक्ताफलस्य च॥३५.५॥
गात्राणाञ्च मनुष्याणामम्बुना शौचमिष्यते ।
यथायसानां तोयेन ग्राव्णः सङ्घर्षणेन च॥३५.६॥
सस्त्रेहानाञ्च भाण्डानां शुद्धिरुष्णेन वारिणा ।
शूर्पधान्याजिनानाञ्च मुषलोलूखलस्य च॥३५.७॥
संहतानाञ्च वस्त्राणां प्रोक्षणात् सञ्चयस्य च ।
वल्कलानामशेषाणामम्बुमृच्छौचमिष्यते॥३५.८॥
तृणकाष्ठौषधीनाञ्च प्रोक्षणात् शुद्धिरिष्यते ।
आविकानां समस्तानां केशानाञ्चापि मेध्यता॥३५.९॥
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
साम्बुना तात ! भवति उपघातवतां सदा॥३५.१०॥
तथा कार्पासिकानाञ्च विशुद्धिर्जलभस्मना ।
दारुदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते॥३५.११॥
पुनः पाकेन भाण्डानां पार्थिवानाञ्च मेध्यता ।
शुचिर्भैक्षं कारुहस्तः पण्यं योषिन्मुखं तथा॥३५.१२॥
रथ्यागतमविज्ञातं दासवर्गादिनाहृतम् ।
वाक्रप्रशास्तं चिरातीतमनेकान्तरितं लघु॥३५.१३॥
अतिप्रभूतं बालञ्च वृद्धातुरविचेष्टितम् ।
कर्मान्ताङ्गाराशालाश्च स्तनन्धयसुताः स्त्रियः॥३५.१४॥
शुचिन्यश्च तथैवापः स्त्रन्त्योऽगन्धबुद्बुदाः ।
भूमिर्विशुध्यते कालाद्दाहमार्जनगोक्रमैः॥३५.१५॥
लेपादुल्लेखनात् सेकाद्वेश्मसंमार्जनार्चनात् ।
केशकीटावपन्ने च गोघ्राते मक्षिकान्विते॥३५.१६॥
मृदम्बुभस्मना तात ! प्रोक्षितव्यं विशुद्धये ।
औदुम्बराणामम्लेन क्षारेण त्रपुसीसयोः॥३५.१७॥
भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावाद् द्रवस्य च ।
अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च॥३५.१८॥
अन्येषाञ्चैव तद्द्रव्यैर्वर्णगन्धापहारतः ।
शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम्॥३५.१९॥
तथा मांसञ्च चण्डालक्राव्यादादिनिपातितम् ।
रथ्यागतञ्च चेलादि तात ! वातात् शुचि स्मृतम्॥३५.२०॥
रजोऽग्निरश्वो गौश्छाया रश्मयः पवनो मही ।
विप्रुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः॥३५.२१॥
अजाश्वौ मुखतो मेध्यौ न गोर्वत्सस्य चाननम् ।
मातुः प्रस्त्रवणं मेध्यं शकुनिः फलपातने॥३५.२२॥
आसनं शयनं यानं नावः पथि तृणानि च ।
सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत्॥३५.२३॥
रथ्यावसर्पण-स्त्रान-क्षुत्पान-म्लानकर्मसु ।
आचामेत यथान्यायं वासो विपरिधाय च॥३५.२४॥
स्पृष्टानामप्यसंसर्गैर्विरथ्याकर्दमाम्भसाम् ।
पक्वेष्टरचितानाञ्च मेध्यता वायुसङ्गमात्॥३५.२५॥
प्रभूतोपहतादन्नादग्रमुद्धृत्य सन्त्यजेत् ।
शेषस्य प्रोक्षणं कुर्यादाचम्यादिभस्तथा मृदा॥३५.२६॥
उपवासस्त्रिरात्रन्तु दुष्टभक्ताशिनो भवेत् ।
अज्ञाते ज्ञानपूर्वन्तु तद्दोषोपशमेन तु॥३५.२७॥
उदक्याश्वशृगालादीन् सूतिकान्त्यावसायिनः ।
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः॥३५.२८॥
नारं स्पृष्ट्वास्थि सस्त्रेहं स्त्रातः शुध्यति मानवः ।
आचम्यैव तु निः स्त्रेहं गामालभ्यार्कमीक्ष्य वा॥३५.२९॥
न लङ्घयेत् तथैवासृक्ष्ठीवनोद्वर्तनानि च ।
नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत् कदाचन॥३५.३०॥
न चालपेज्जनद्विष्टां वीरहीनान्तथा स्त्रियम् ।
गृहादुच्छिष्टविण्मूत्रपादाम्भांसि क्षिपेद्वहिः॥३५.३१॥
पञ्च पिण्डाननुधृत्य न स्त्रायात् परवारिणि ।
स्त्रायीत देवखातेषु गङ्गा-ह्रदृसरित्सु च॥३५.३२॥
देवता-पितृ-सच्छास्त्र-यज्ञ-मन्त्रादिनिन्दकैः ।
कृत्वा तु स्पर्शनालापं शुध्येतार्कावलोकनात्॥३५.३३॥
अवलोक्य तथोदक्यामन्त्यजं पतितं शवम् ।
विधर्मि-सूतिका-षण्ड-विवस्त्रान्त्यावसायिनः॥३५.३४॥
सूतनिर्यातकांश्चैव परदाररताश्च ये ।
एतदेव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः॥३५.३५॥
अभोज्यं सूतिका-षण्ड-मार्जाराखुश्वकुक्कुटान् ।
पतिताविद्धचण्डाल-मृतहारांश्च धर्मवित्॥३५.३६॥
संस्पृश्य शुध्यते स्त्रानादुदक्या ग्रामशूकरौ ।
तद्वच्च सूतिकाशौचदूषितौ पुरुषावपि॥३५.३७॥
यस्य चानुदिनं हानिर्गृहे नित्यस्य कर्मणः ।
यश्च ब्राह्मणसन्त्यक्तः किल्विषी स नराधमः॥३५.३८॥
नित्यस्य कर्मणो हानिं न कुर्वोत कदाचन ।
तस्य त्वकरणे बन्धः केवलं मृतजन्मसु॥३५.३९॥
दशाहं ब्राह्मणस्तिष्ठेद्दानहोमादिवर्जितः ।
क्षत्रियो द्वादशाहञ्च वैश्यो मासार्धमेव च॥३५.४०॥
शूद्रस्तु मासमासीत निजकर्मविवर्जितः ।
ततः परं निजं कर्म कुर्युः सर्वे यथोदितम्॥३५.४१॥
प्रोताय सलिलं देयं बहिर्दग्ध्वा तु गोत्रिकैः ।
प्रथमेऽह्नि चतुर्थे च सप्तमे नवमे तथा॥३५.४२॥
भस्मास्थिचयनं कार्यं चतुर्थे गोत्रिकैर्दिने ।
उर्ध्वं संचयनात् तेषामङ्गस्पर्शो विधीयते॥३५.४३॥
सोदकैस्तु क्रियाः सर्वाः कार्याः संचयनात्परम् ।
स्पर्श एव सपिण्डानां मृताहनि तथोभयोः॥३५.४४॥
अन्वेकमृक्षमाशस्त्र-तोयोद्बन्धन-वह्निषु ।
विषप्रपातादिमृते प्रायोनाशकयोरपि॥३५.४५॥
बाले देशान्तरस्थे च तथा प्रव्रजिते मृते ।
सद्यः शौचमथान्यैश्च त्र्यहमुक्तमशौचकम्॥३५.४६॥
सपिण्डानां सपिण्डस्तु मृतेऽन्यस्मिन्मृतो यदि ।
पूर्वाशौचसमाख्यातैः कार्यास्त्वत्र दिनैः क्रियाः॥३५.४७॥
एष एव विधिर्दृष्टो जन्मन्यपि हि सूतके ।
सपिण्डानां सपिण्डेषु यथावत्सोदकेषु च॥३५.४८॥
जाते पुत्रे पितुः स्त्रानं सचेलन्तु विधीयते ।
तत्रापि यदि चान्यस्मिन् जाते जायेत चापरः॥३५.४९॥
तत्रापि शुद्धिरुद्दिष्टा पूर्वजन्मवतो दिनैः ।
दशद्वादशमासार्ध-माससंख्यैर्दिनैर्गतैः॥३५.५०॥
स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि ।
प्रेतमुद्दिश्य कर्तव्यमेकोद्दिष्टं ततः परम्॥३५.५१॥
दाननि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः ।
यद्यदिष्टतमं लोके यच्चापि ययितं गृहे॥३५.५२॥
तत्तद् गुणवते देयं तदेवाक्षयमिच्छता ।
पूर्णैस्तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधम्॥३५.५३॥
प्रतोददण्डौ च तथा सम्यग्वर्णाः कृतक्रियाः ।
स्ववर्णधर्मनिर्दिष्टमुपादानं तथा क्रियाः॥३५.५४॥
कुर्युः समस्ताः शुचिनः परत्रेह च भूतिदाः ।
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता॥३५.५५॥
धर्मतो धनमाहार्यं यष्टव्यञ्चापि यत्नतः ।
यच्चापि कुर्वतो नात्मा जुगुप्सामेति पुत्रक !॥३५.५६॥
तत्कर्तव्यमशङ्केन यन्न गोप्यं महाजने ।
एवमाचरतो वत्स ! पुरुषस्य गृहे सतः ।
धर्मार्थकामसंप्राप्त्या परत्रेह च शोभनम्॥३५.५७॥
इति श्रीमार्कण्डेयपुराणेऽलर्कानुशासने वर्ज्यावर्ज्यनामा पञ्चत्रिंशोऽध्यायः
षट्त्रिंशोऽध्यायः
जड उवाच
स एवमनुशिष्टः सन् मात्रा संप्राप्य यौवनम् ।
ऋतध्वजसुतश्चक्रे सम्यग्दारपरिग्रहम्॥३६.१॥
पुत्रांश्चोत्पादयामास यज्ञैश्चाप्ययजद्विभुः ।
पितुश्च सर्वकालेषु चकाराज्ञानुपालनम्॥३६.२॥
ततः कालेन महता संप्राप्य चरमं वयः ।
चक्रेऽभिषेकं पुत्रस्य तस्य रज्ये ऋतध्वजः॥३६.३॥
भार्यया सह धर्मात्मा यियासुस्तपसे वनम् ।
अवतीर्णो महारक्षो महाभागो महीपतिः॥३६.४॥
मदालसा च तनयं प्राहेदं पश्चिमं वच ।
कामोपभोगसंसर्गप्रहाणाय सुतस्य वै॥३६.५॥
मदालसोवाच
यदा दुः खमसह्यं ते प्रियबन्धुवियोगजम् ।
शत्रुबाधोद्भवं वापि वित्तनाशात्मसम्भवम्॥३६.६॥
भवेत्तत् कुर्वतो राज्यं गृहधर्मावलम्बिनः ।
दुः खायतनभूतो हि ममत्वालम्बनो गृही॥३६.७॥
तदास्मात् पुत्र ! निष्कृष्य मद्दत्तादङ्गुलीयकात् ।
वाच्यं ते शासनं पट्टे सूक्ष्माक्षरनिवेशितम्॥३६.८॥
जड उवाच
इत्युक्त्वा प्रददौ तस्मै सौवर्णं साङ्गुलीयकम् ।
आशिषश्चापि या योग्याः परुषस्य गृहे सतः॥३६.९॥
ततः कुबलयाश्वोऽसौ सा च देवी मदालसा ।
पुत्राय दत्त्वा तद्राज्यं तपसे काननं गतौ॥३६.१०॥
सप्तत्रिंशोऽध्यायः
जड उवाच
सोऽप्यलर्को यथान्यायं पुत्रवन्मुदिताः प्रजाः ।
पालयामास धर्मात्मा स्वे स्वे कर्मण्यवस्थिताः॥३७.१॥
दुष्टैषु दण्डं शिष्टेषु सम्यक् च परिपालनम् ।
कुर्वन् परां मुदं लेभे इयाज च महामखैः॥३७.२॥
अजायन्त सुताश्चास्य महाबलपराक्रमाः ।
धर्मात्मानो माहत्मानो विमार्गपरिपन्थिनः॥३७.३॥
चकार सोर्ऽथं धर्मेण धर्ममर्थेन वा पुनः ।
तयोश्चैवाविरोधेन बुभुजे विषयानपि॥३७.४॥
एवं बहूनि वर्षाणि तस्य पालयतो महीम् ।
धर्मार्थकामसक्तस्य जग्मुरेकमहर्यथा॥३७.५॥
वैराग्यं नास्य सञ्जज्ञे भुञ्जतो विषयान् प्रियान् ।
न चाप्यलमभूत्तस्य धर्मार्थोपार्जनं प्रति॥३७.६॥
तं तथा भोगसंसर्ग-प्रमत्तमजितेन्द्रियम् ।
सुबाहुर्नाम शुश्राव भ्राता तस्य वनेचरः॥३७.७॥
तं बुबोधयिषुः सोऽथ चिरं ध्यात्वा महीपतिः ।
तद्वैरिसंश्रयं तस्य श्रेयोऽमन्यत भूपतेः॥३७.८॥
ततः स काशिभूपालमुदीर्णबलवाहनम् ।
स्वराज्यं प्राप्तुमागच्छद् बहुशः शरणं कृती॥३७.९॥
सोऽपि चक्रे बलोद्योगमलर्कं प्रति पार्थिवः ।
दूतञ्च प्रेषयामास राज्यमस्मै प्रदीयताम्॥३७.१०॥
सोऽपि नैच्छत्तदा दातुमाज्ञापूर्वं स्वधर्मवित् ।
प्रत्युवाच च तं दूतमलर्कः काशिभूभृतः॥३७.११॥
मामेवाभ्येत्य हार्देन याचतां राज्यमग्रजः ।
नाक्रान्त्या संप्रदास्यामि भयेनाल्पामपि क्षितिम्॥३७.१२॥
सुबाहुरपि नो याञ्चां चकार मतिमांस्तदा ।
न धर्मः क्षत्रियस्येति याञ्चा वीर्यधनो हि सः॥३७.१३॥
ततः समस्तसैन्येन काशीशः परिवारितः ।
आक्रान्तुमभ्यगाद्राष्ट्रमलर्कस्य महीपतेः॥३७.१४॥
अनन्तरैश्च संश्लेषमभ्येत्य तदनन्तरम् ।
तेषामन्यतमैर्भृत्यैः समाक्रम्यानयद्वशम्॥३७.१५॥
अपीडयंश्च सामान्तांस्तस्य राष्ट्रोपरोधनैः ।
तथा दुर्गानुपालांश्च चक्रे चाटविकान् वशे॥३७.१६॥
कांश्चिच्चोपप्रदानेन कांश्चिद् भेदेन पार्थिवान् ।
साम्नैवान्यान् वशं निन्ये निभृतास्तस्य येऽभवन्॥३७.१७॥
ततः सोऽल्पबलो राजा परचक्रावपीजितः ।
कोषक्षयमवापोच्चैः पुरञ्चारुध्यतारिणा॥३७.१८॥
इत्थं सम्पीड्यमानस्तु क्षीणकोषो दिने दिने ।
विषादमागात्परमं व्याकुलत्वञ्च चेतसः॥३७.१९॥
आर्ति स परमां प्राप्य तत् सस्माराङ्गुलीयकम् ।
यदुद्दिश्य पुरा प्राह माता तस्य मदालसा॥३७.२०॥
ततः स्त्रातः शुचिर्भूत्वा वाचयित्वा द्विजोत्तमान् ।
निष्कृष्य शासनं तस्माद्ददृशे प्रस्फुटाक्षरम्॥३७.२१॥
तत्रैव लिखितं मात्रा वाचयामास पार्थिवः ।
प्रकाशपुलकाङ्गोऽसौ प्रहर्षोत्फुल्ललोचनः॥३७.२२॥
सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ।
स सदिभः सह कर्तव्यः सतां सङ्गो हि भेषजम्॥३७.२३॥
कामः सर्वात्मना हेयो हातुञ्चेच्छक्यते न सः ।
मुमुक्षां प्रति तत्कार्यं सैव तस्यापि भेषजम्॥३७.२४॥
वाचयित्वा तु बहुशो नृणां श्रेयः कथं त्विति ।
मुमुक्षयेति निश्चित्य सा च तत्सङ्गतो यतः॥३७.२५॥
ततः स साधुसम्पर्कं चिन्तयन् पृथिवीपतिः ।
दत्तात्रेयं महाभागमगच्छत् परमार्तिमान्॥३७.२६॥
तं समेत्य महात्मानमकल्पषमसङ्गिनम् ।
प्रणिपत्याभिसम्पूज्य यथान्यायमभाषत॥३७.२७॥
ब्रह्मन् ! कुरु प्रसादं मे शरणं शरणार्थिनाम् ।
दुः खापहारं कुरु मे दुः खार्तस्यातिकामिनः॥३७.२८॥
दुः खापहारमद्यैव करोमि तव पार्थिव ! ।
सत्यं ब्रूहि किमर्थं ते दुः खं तत् पृथिवीपते॥३७.२९॥
जड उवाच
इत्युक्तश्चिन्तयामास स राजा तेन धीमता ।
त्रिविधस्यापि दुः खस्य स्थानमात्मानमेव च॥३७.३०॥
स विमृष्य चिरं राजा पुनः पुनरुदारधीः ।
आत्मानमात्मना धीरः प्रहस्येदमथाब्रावीत्॥३७.३१॥
नाहमुर्वो न सलिलं न ज्योतिरनिलो न च ।
नाकाशं किन्तु शारीरं समेत्य सुखमिष्यते॥३७.३२॥
न्यूनातिरिक्ततां याति पञ्चकेऽस्मिन् सुखासुखम् ।
यदि स्यान्म किन्न स्यादन्यस्थेऽपि हि तन्मयि॥३७.३३॥
नित्यप्रभूतसद्भावे न्यूनाधिक्यान्नतोन्नते ।
तथा च ममतात्यक्ते विशेषो नोपलभ्यते॥३७.३४॥
तन्मात्रावस्थिते सूक्ष्मे तृतीयांशे च पश्यतः ।
तथैव भूतसद्भावं शरीरं किं सुखासुखम्॥३७.३५॥
मनस्यवस्थितं दुःखं सुखं वा मानसञ्च यत् ।
यतस्ततो न मे दुः खं सुखं वा नह्यहं मनः॥३७.३६॥
नाहङ्कारो न च मनो बुद्धिर्नाहं यतस्ततः ।
अन्तः करणजं दुः खं पारख्यं मम तत्कथम्॥३७.३७॥
नाहं शरीरं न मनो यतोऽहं पृथक् शरीरान्मनसस्तथाहम् ।
तत् सन्तु चेतस्यथवापि देहे सुखानि दुः खानि च किं ममात्र॥३७.३८॥
राज्यस्य वाञ्छां सुरुतेऽग्रजोऽस्य देहस्य चेत् पञ्चमयः स राशिः ।
गुणप्रवृत्त्या मम किन्नु तत्र तत्स्थः स चाहञ्च शरीरतोऽन्यः॥३७.३९॥
न यस्य हस्तादिकमप्यशेषं मांसं न चास्थीनि खिराविभागः ।
कस्तस्य नागाश्वरथादिकोषैः स्वल्पोऽपि सम्बन्ध इहास्ति पुंसः॥३७.४०॥
तस्मान्न मेऽरिर्न च मेऽस्ति दुः खं न मे सुखं नापि पुरं न कोषम् ।
न चाश्वनागादि बलं न तस्य नान्यस्य वा कस्यचिद्वा ममास्ति॥३७.४१॥
यथा घटीकुम्भकमण्डलुस्थम् आकाशमेकं बहुधा हि दृष्टम् ।
तथा सुबाहुः स च काशिपोऽहं मल्ये च देहेषु शरीरभेदैः॥३७.४२॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे आत्मविवेको नाम सप्तत्रिंशोऽध्यायः
अष्टत्रिंशोऽध्यायः
जड उवाच
दत्तात्रेयं ततो विप्रं प्रणिपत्य स पार्थिवः ।
प्रत्युवाच महात्मानं प्रश्रयावनतो वचः॥३८.१॥
सम्यक् प्रपश्यतो ब्रह्मन् ! मम दुः खं न किञ्चन ।
असम्यग्दर्शिना मग्नाः सर्वदैवासुखार्णवे॥३८.२॥
यस्मिन् यस्मिन्ममासक्ता बुद्धिः पुंसः प्रजायते ।
ततस्ततः समादाय दुः खान्येव प्रयच्छति॥३८.३॥
मार्जारभक्षिते दुः खं यादृशं गृहकुक्कुटे ।
न तादृङ्ममताशून्ये कलविङ्केऽथ मूषिके॥३८.४॥
सोऽहं न दुः खी न सुखी यतोऽहं प्रकृतेः परः ।
यो भूताभिभवो भूतैः सुखदुः खात्मको हि सः॥३८.५॥
दत्तात्रेय उवाच
एवमेतन्नरव्याघ्र ! यथैतद्व्याहृतं त्वया ।
ममेति मूलं दुः कस्य न ममेति च निर्वृतेः॥३८.६॥
मत्प्रश्नादेव ते ज्ञानमुत्पन्नमिदमुत्तमम् ।
ममेति प्रत्ययो येन क्षिप्तः शाल्मलितूलवत्॥३८.७॥
अहमित्यङ्कुरोत्पन्नो ममेति स्कन्धवान् महान् ।
गृहक्षेत्रोच्चशाखश्च पुत्रदारादिपल्लवः॥३८.८॥
धनधान्यमहापत्रो नैककालप्रवर्धितः ।
पुण्यापुण्याग्रपुष्पश्च सुखदुः खमहाफलः॥३८.९॥
तत्र मुक्तिपथव्यापि मूढसम्पर्कसेचनः ।
विधित्साभृङ्गमालाढ्यो कृत्यज्ञानमहातरुः॥३८.१०॥
संसाराध्वपरिश्रान्ता ये तच्छायां समाश्रिताः ।
भ्रान्तिज्ञानसुखाधीनास्तेषामात्यन्तिकं कुतः॥३८.११॥
यैस्तु सत्सङ्गपाषाणशितेन ममतातरुः ।
छिन्नो विद्याकुठारेण ते गतास्तेन वर्त्मना॥३८.१२॥
प्राप्य ब्रह्मवनं शीतं नीरजस्कमकण्टकम् ।
प्राप्नुवन्ति परां प्राज्ञा निर्वृतिं वृत्तिवर्जिताः॥३८.१३॥
भूतेन्द्रियमयं स्थूलं न त्वं राजन्न चाप्यहम् ।
न तन्मात्रमयावावां नैवान्तः करणात्मकौ॥३८.१४॥
कं वा पश्यामि राजेन्द्र ! प्रधानमिदमावयोः ।
यतः परो हि क्षेत्रज्ञः सङ्घातो हि गुणात्मकः॥३८.१५॥
मशकोडुम्बरेषीकामुञ्जमत्स्याम्भसां यथा ।
एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनोर्नृप !॥३८.१६॥
अलर्क उवाच
भगवंस्त्वत्प्रसादेन ममाविर्भूतमुत्तमम् ।
ज्ञानं प्रधानचिच्छक्ति-विवेककरमीदृशम्॥३८.१७॥
किन्त्वत्र विषयाक्रान्ते स्थैर्यवत्त्वं न चेतसि ।
न चापि वेद्मि मुच्येयं कथं प्रकृतिबन्धनात्॥३८.१८॥
कथं न भूयां भूयश्च कथं निर्गुणतामियाम् ।
कथञ्च ब्रह्मणैकत्वं व्रजेयं शाश्वतेन वै॥३८.१९॥
तन्मे योगन्तथा ब्रह्मन् ! प्रणतायाभियाचते ।
सम्यग् ब्रूहि महाप्राज्ञ ! सत्सङ्गो ह्युपकृन्नृणाम्॥३८.२०॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे प्रश्नाध्यायो नामाष्टत्रिंशोऽध्यायः
अथ षटत्रिंशोऽध्यायः
योगनिरूपणवर्णनम्
दत्तात्रेय उवाच
ज्ञानपूर्वो वियोगो योऽज्ञानेन सह योगिनः ।
सा मुक्तिर्ब्रह्मणा चैक्यमनैक्यं प्राकृतैर्गुणैः ।। १
योगे च शक्तिर्विदुषां येन श्रेयः परं भवेत् ।
मुक्तिर्योगात्तथा योगः सम्यग्ज्ञानान्महीपते ।।
सङ्गदोषोद्भवं दुःखं ममत्वासक्तचेतसाम् ।।२
तस्मात्सङ्गं प्रयत्नेन मुमुक्षुः संत्यजेन्नरः ।
सङ्गाभावे ममेत्यस्याः ख्यातेर्हानिः प्रजायते ।।३
निर्ममत्वं सुखायैव वैराग्याद्दोषदर्शनम् ।
ज्ञानादेव च वैराग्यं ज्ञानं वैराग्यपूर्वकम् ।।४
तद्गृहं यत्र वसतिस्तद्भोज्यं येन जीवति ।
यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा ।।५
उपभोगेन पुण्यानामपुण्यानां च पार्थिव ।
कर्त्तव्यमिति नित्यानामकामकरणात्तथा ।।६
असञ्चयादपूर्वस्य क्षयात्पूर्वार्जितस्य च ।
कर्मणो बन्धमाप्नोति शरीरं च पुनः पुनः ।।७
कर्मणा मोक्षमाप्नोति वैपरीत्येन तस्य तु ।
एतत्ते कथितं ज्ञानं योगं चेमं निबोध मे ।।
यं प्राप्य ब्रह्मणो योगी शाश्वतान्नान्यतां व्रजेत् ।।८
प्रागेवात्मात्मना जेयो योगिनां स हि दुर्जयः ।
कुर्वीत तज्जये यत्नं तस्योपायं शृणुष्व मे । । ९
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ।
प्रत्याहारेण विषयान्ध्यानेनानीश्वरान्गुणान् । । 39.१०
यथा पर्वतधातूनां ध्मातानां दह्यते मलम् ।
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् । । ११
प्रथमं साधनं कुर्यात्प्राणायामस्य योगवित् ।
प्राणापाननिरोधस्तु प्राणायाम उदाहृतः । । १२
लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः ।
तस्य प्रमाणं वक्ष्यामि तदलर्क शृणुष्व मे । । १३
लघुर्द्वादशमात्रस्तु द्विगुणः स तु मध्यमः ।
त्रिगुणाभिस्तु मात्राभिरुत्तमः परिकीर्त्तितः । । १४
निमेषोन्मेषणे मात्रा कालो लघ्वक्षरस्तथा ।
प्राणायामस्य संख्यार्थं स्मृतो द्वादशमात्रिकः । । १५
प्रथमेन जयेत्स्वेदं मध्यमेन च वेपथुम् ।
विषादं हि तृतीयेन जयेद्दोषाननुक्रमात् । । १६
मृदुत्वं सेव्यमानास्तु सिंहशार्दूलकुञ्जराः ।
यथा यान्ति तथा प्राणो वश्यो भवति योगिनः । । १७
वश्यं मत्तं यथेच्छातो नागं नयति हस्तिपः ।
तथैव योगी छन्देन प्राणं नयति साधितम् । । १८
यथा हि साधितः सिंहो मृगान्हन्ति न मानवान् ।
तद्वन्निषिद्धपवनः किल्बिषं न नृणां तनुम् । । १९
तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् ।
श्रूयतां मुक्तिफलदं तस्यावस्थाचतुष्टयम् । । 39.२०
ध्वस्तिः प्राप्तिस्तथा संवित्प्रसादश्च महीपते ।
स्वरूपं शृणु चैतेषां कथ्यमानमनुक्रमात् । । २१
कर्मणामिष्टदुष्टानां जायते फलसंक्षयः ।
चेतसोऽपकषायत्वं यत्र सा ध्वस्तिरुच्यते । । २२
ऐहिकामुष्मिकान्कामांल्लोभमोहात्मकात्स्वयम् ।
निरुध्यास्ते सदा योगी प्राप्तिः सा सार्वकालिकी । । २३
अतीतानागतानर्थान्विप्रकृष्टतिरोहितान् ।
विजानातीन्दुसूर्यर्क्षग्रहाणां ज्ञानसम्पदा । । २४
तुल्यप्रभावस्तु यदा योगी प्राप्नोति संविदम् ।
तदा संविदिति ख्याता प्राणायामस्य सा स्थितिः । । २५
यान्ति प्रसादं येनास्य मनः पञ्च च वायवः ।
इन्द्रियाणीन्द्रियार्थाश्च स प्रसाद इति स्मृतः । । २६
शृणुष्व च महीपाल प्राणायामस्य लक्षणम् ।
युञ्जतश्च सदा योगं यादृग्विहितमासनम्॥३९.२७॥
पद्ममर्धासनञ्चापि तथा स्वस्तिकमासनम् ।
आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि॥३९.२८॥
समः समासनो भूत्वा संहृत्य चरणावुभौ ।
संवृतास्यस्तथैवोरू सम्यग्विष्टभ्य चाग्रतः॥३९.२९॥
पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन् प्रयतः स्थितः ।
किञ्चिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत्॥३९.३०॥
सम्पश्यन् नासिकाग्रं स्वं दिशश्चानवलोकयन् ।
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा॥३९.३१॥
सञ्छाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित् ।
इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च॥३९.३२॥
निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ।
यस्तु प्रत्याहरेत्कामान सर्वाङ्गानीव कच्छपः॥३९.३३॥
सदात्मरतिरेकस्थः वश्यत्यात्मानमात्मनि ।
स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः॥३९.३४॥
पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ।
प्राणायामा दश द्वौ च धारणा साभिधीयते॥३९.३५॥
द्वे धारणे स्मृते योगे योगिभिस्तत्त्वदृष्टिभिः ।
तथा वै योगयुक्तस्य योगिनो नियतात्मनः॥३९.३६॥
सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ।
वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान् पृथक्॥३९.३७॥
व्योमादिपरमाणूंश्च तथात्मानमकल्मषम् ।
इत्थं योगी यताहारः प्राणायामपरायणः॥३९.३८॥
जितां जितां शनैर्भूमिमारोहेत यथा गृहम् ।
दोषान् व्याधींस्तथा मोहमाक्रान्ता भूरनिर्जिता॥३९.३९॥
विवर्धयति नारोहेत्तस्माद् भूमिमनिर्जिताम् ।
प्राणानामुपसंरोधात् प्राणायाम इति स्मृतः॥३९.४०॥
धारणेत्युच्यते चेयं धार्यते यन्मनो यथा ।
शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः॥३९.४१॥
प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः ।
उपायश्चात्र कथितो योगिभिः परमर्षिभिः॥३९.४२॥
येन व्याध्यादयो दोषा न जायन्ते हि योगिनः ।
यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः॥३९.४३॥
आपिबेयुस्तथा वायुं पिबेद्योगी जितश्रमः ।
प्राङ्नाभ्यां हृदये चात्र तृतीये च तथोरसि॥३९.४४॥
कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्धसु ।
किञ्च तस्मात्परस्मिंश्च धारणा परमा स्मृता॥३९.४५॥
दशैता धारणा प्राप्य प्राप्रोत्यक्षरसाम्यताम् ।
नाध्मातः क्षुधितः श्रान्तो न च व्याकुलचेतनः॥३९.४६॥
युञ्जीत योगं राजेन्द्र ! योगी सिद्ध्यर्थमादृतः ।
नातिशीते न चोष्णे वै न द्वन्द्वे नानिलात्मके॥३९.४७॥
कालेष्वेतेषु युञ्जीत न योगं ध्यानतत्परः ।
सशब्दाग्निजालभ्यासे जीर्णगोष्ठे चतुष्पथे॥३९.४८॥
शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे ।
सभये कूपतीरे वा चैत्यवल्मीकसञ्चये॥३९.४९॥
देशेष्वेतेषु तत्त्वज्ञो योगाभ्यासं विवर्जयेत् ।
सत्त्वस्यानुपपत्तौ च देशकालं विवर्जयेत्॥३९.५०॥
नासतो दर्शनं योगे तस्मात्तत्परिवर्जयेत् ।
देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै॥३९.५१॥
विघ्राय तस्य वै दोषा जायन्ते तन्निबोध मे ।
बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता॥३९.५२॥
ज्वरश्च जायते सद्यस्तत्तदज्ञानयोगिनः ।
प्रमादाद्योगिनो दोषा यद्येते स्युश्चिकित्सितम्॥३९.५३॥
तेषां नाशाय कर्तव्यं योगिनां तन्निबोध मे ।
स्त्रिग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत्॥३९.५४॥
वात-गुल्मप्रशान्त्यर्थमुदावर्ते तथोदरे ।
यवागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत्॥३९.५५॥
तद्वत्कम्पे महाशैलं स्थिरं मनसि धारयेत् ।
विघाते वचसो वाचं बाधिर्ये श्रवणेन्द्रियम्॥३९.५६॥
यथैवाम्रफलं ध्यायेत् तृष्णार्तो रसनेन्द्रिये ।
यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारिणीम्॥३९.५७॥
धारयेद्धारणामुष्णे शीतां शीते च दाहिनीम् ।
कीलं शिरसि संस्थाप्य काष्ठं काष्ठेन ताडयेत्॥३९.५८॥
लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ।
द्यावापृथिव्यौ वाय्वग्री व्यापिनावपि धारयेत्॥३९.५९॥
अमानुषात् सत्त्वजाद्वा बाधास्त्वेताश्चिकित्सिताः ।
अमानुषं सत्त्वमन्तर्योगिनं प्रविशेद्यदि॥३९.६०॥
वाय्वग्रीधारणेनैनं देहसंस्थं विनिर्दहेत् ।
एवं सर्वात्मना रक्षा कार्या योगविदा नृप !॥३९.६१॥
धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ।
प्रवृत्तिलक्षणाख्यानाद्योगिनो विस्मयात्तथा ।
विज्ञानं विलयं याति तस्माद् गोप्याः प्रवृत्तयः॥३९.६२॥
आलोल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् ।
कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम्॥३९.६३॥
अनुरागी जनो याति परोक्षे गुणकीर्तनम् ।
न बभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम्॥३९.६४॥
शीतोष्णादिभिरत्युग्रैर्यस्य बाधा न विद्यते ।
न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता॥३९.६५॥
इति श्रीमार्कण्डेयपुराणे जडोपाख्याने योगाध्यायो नामैकोनचत्वारिंशोऽध्यायः
चत्वारिंशोऽध्यायः
दत्तात्रेय उवाच
उपसर्गाः प्रवर्तन्ते दृष्टे ह्यात्मनि योगिनः ।
ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे॥४०.१॥
काम्याः क्रियास्तथा कामान् मानुषानभिवाञ्छति ।
स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम्॥४०.२॥
देवत्वममरेशत्वं रसायनचयाः क्रियाः ।
मरुत्प्रपतनं यज्ञं जलग्न्यावेशनन्तथा॥४०.३॥
श्राद्धानां सर्वदानानां फलानि नियमांस्तथा ।
तथोपवासात् पूर्ताच्च देवताभ्यर्च्चनादपि॥४०.४॥
तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति ।
चित्तमित्थं वर्तमानं यत्नाद्योगी निवर्तयेत्॥४०.५॥
ब्रह्मसङ्गिमनः कुर्वन्नुपसर्गात् प्रमुच्यते ।
उपसर्गैर्जितैरेभिरुपसर्गास्ततः पुनः॥४०.६॥
योगिनः संप्रवर्तन्ते सात्त्वराजसतामसाः ।
प्रातिभिः श्रावणो दैवो भ्रमावत्तौ तथापरौ॥४०.७॥
पञ्चैते योगिनां योगविघ्राय कटुकोदयाः ।
वेदार्थाः काव्यशास्त्रार्था विद्याशिल्पान्यशेषतः॥४०.८॥
प्रतिभान्ति यदस्येति प्रातिभः स तु योगिनः ।
शब्दार्थानाखिलान् वेत्ति शब्दं गृह्णाति चैव यत्॥४०.९॥
योजनानां सहस्रेभ्यः श्रावणः सोऽभिधीयते ।
ममन्ताद्वीक्षते चाष्टौ स यदा देवतोपमः॥४०.१०॥
उपसर्गन्तमप्याहुर्दैवमुन्मत्तवद् बुधाः ।
भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः॥४०.११॥
समस्ताचारविभ्रांशाद् भ्रमः स परिकीर्तितः ।
आवर्त इव तोयस्य ज्ञानावर्तो यदाकुलः॥४०.१२॥
नाशयेच्चित्तमावर्त उपसर्गः स उच्यते ।
एतैर्नाशितयोगास्तु सकला देवयोनयः॥४०.१३॥
उपसर्गैर्महाघोरैरावर्तन्ते पुनः पुनः ।
प्रावृत्य कम्बलं शुक्लं योगी तस्मान्मनोमयम्॥४०.१४॥
चिन्तयेत् परमं ब्रह्म कृत्वा तत्प्रवणं मनः ।
योगयुक्तः सदा योगी लघ्वाहारो जितेन्द्रियः॥४०.१५॥
सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्घ्नि धारयेत् ।
धरित्रीं धारयेद्योगी तत् सौक्ष्म्यं प्रतिपद्यते॥४०.१६॥
आत्मानं मन्यते चोर्वों तद्गन्धञ्च जहाति सः ।
यथैवाप्सु रसं सूक्ष्मं तद्वद्रूपञ्च तेजसि॥४०.१७॥
स्पर्शं वायो तथा तद्वद्विभ्रतस्तस्य धारणाम् ।
व्योम्रः सूक्ष्मां प्रवृत्तिञ्च शब्दं तद्वज्जहाति सः॥४०.१८॥
मनसा सर्वभूतानां मनस्याविशते यदा ।
मानसीं धारणां बिभ्रन्मनः सूक्ष्मञ्च जायते॥४०.१९॥
तद्वद् बुद्धिमशेषाणां सत्त्वानामेत्य योगवित् ।
परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुत्तमम्॥४०.२०॥
परित्यजति सूक्ष्माणि सप्त त्वेतानि योगवित् ।
सम्यग्विज्ञाय योऽलर्क ! तस्यावृत्तिर्न विद्यते॥४०.२१॥
एतासां धारणानान्तु सप्तानां सौक्ष्म्यमात्मवान् ।
दृष्ट्वा दृष्ट्वा ततः सिद्धिं त्यक्त्वा त्यक्त्वा परां व्रजेत्॥४०.२२॥
यस्मिन् यस्मिंश्च कुरुते भूते रागं महीपते ।
तस्मिंस्तस्मिन् समासक्तिं संप्राप्य स विनश्यति॥४०.२३॥
तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् ।
परित्यजति यो देही स परं प्राप्नुयात् पदम्॥४०.२४॥
एतान्येव तु सन्धाय सप्त सूक्ष्माणि पार्थिव ! ।
भूतादीनां विरागोऽत्र सद्भावज्ञस्य मुक्तये॥४०.२५॥
गन्धादिषु समासक्तिं सम्प्राप्य स विनश्यति ।
पुनरावर्तते भूप ! स ब्रह्मापरमानुषम्॥४०.२६॥
सप्तैता धारणा योगी समतीत्य यदिच्छति ।
तस्मिंस्तस्मिंल्लयं सूक्ष्मे भूते याति नरेश्वर !॥४०.२७॥
देवानामसुराणां वा गन्धर्वोरगरक्षसाम् ।
देहेषु लयमायाति सङ्गं नाप्रोति च क्वचित्॥४०.२८॥
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ।
प्राकाम्यं च तथेशित्वं वशित्वञ्च तथापरम्॥४०.२९॥
यत्रकामावसायित्वं गुणानेतांस्तथैश्वरान् ।
प्राप्नोत्यष्टौ नरव्याघ्र ! परं निर्वाणसूचकान्॥४०.३०॥
सूक्ष्मात् सूक्ष्मतमोऽणीयान् शीघ्रत्वं लघिमा गुणः ।
महिमाशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यत्॥४०.३१॥
प्राकाम्यमस्य व्यापित्वादीशित्वञ्चेश्वरो यतः ।
वखित्वाद्वशिमा नाम योगिनः सप्तमो गुणः॥४०.३२॥
यत्रेच्छास्थानमप्युक्तं यत्रकामावसायिता ।
ऐश्वर्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा॥४०.३३॥
मुक्तिसंसूचकं भूप ! परं निर्वाणमात्मनः ।
ततो न जायते नैव वर्धते न विनश्यति॥४०.३४॥
नापि क्षयमवाप्रोति परिणामं न गच्छति ।
छेदं क्लेदं तथा दाहं शोषं भूरादितो न च॥४०.३५॥
भूतवर्गादवाप्नोति शब्दाद्यैः ह्रियते न च ।
न चास्य सन्ति शब्दाद्यास्तद्भोक्ता तैर्न युज्यते॥४०.३६॥
यथाहि कनकं खण्डमपद्रव्यवदग्निना ।
दग्धदोषं द्वितीयेन खण्डेनैक्यं व्रजेन्नृप॥४०.३७॥
न विशेषमवाप्रोति तद्वद्योगाग्निना यतिः ।
निर्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह॥४०.३८॥
यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् ।
तदाख्यस्तन्मयो भूतो न गृह्येत विशेषतः॥४०.३९॥
परेण ब्रह्मणा तद्वत् प्राप्यैक्यं दग्धकिल्विषः ।
योगी याति पृथग्भावं न कदाचिन्महीपते !॥४०.४०॥
यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति ।
तथात्मा साम्यमभ्येति योगिनः परमात्मनि॥४०.४१॥
इति श्रीमार्कण्डेयपुराणे योगसिद्धिर्नाम चत्वारिंशोऽध्यायः
एकचत्वारिशोऽध्यायः
भगवन् ! योगिनश्चर्यां श्रोतुमिच्छामि तत्त्वतः ।
ब्रह्मवर्त्मन्यनुसरन् यथा योगी न सीदति॥४१.१॥
मानापमानौ यावेतौ प्रत्युद्वेगकरौ नृणाम् ।
तावेव विपरीतार्थौ योगिनः सिद्धिकारकौ॥४१.२॥
मानापमानौ यावेतौ तावेवाहुर्विषामृते ।
अपमानोऽमृतं तत्र मानस्तु विषमं विषम्॥४१.३॥
चक्षुः पूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत्॥४१.४॥
आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च ।
महाजनञ्च सिद्ध्यर्थं न गच्छेद्योगवित् क्वचित्॥४१.५॥
व्यस्ते विधूमे व्यङ्गारे सर्वस्मिन् भुक्तवज्जने ।
अटेत योगविद् भैक्ष्यं न तु त्रिष्वेव नित्यशः॥४१.६॥
यथैवमवमन्यन्ते जनाः परिभवन्ति च ।
तथा युक्तश्चरेद्योगी सतां वर्त्म न दूषयन्॥४१.७॥
भैक्ष्यञ्चरेद् गृहस्थेषु यायावरगृहेषु च ।
श्रेष्ठा तु प्रथमा चेति वृत्तिरस्योपदिश्यते॥४१.८॥
अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः ।
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु॥४१.९॥
अत ऊर्ध्वं पुश्चापि अदुष्टापतितेषु च ।
भैक्ष्यचर्या विवर्णेषु जघन्या वृत्तिरिष्यते॥४१.१०॥
भैक्ष्यं यवागूं तक्रं वा पयो यावकमेव वा ।
फलं मूलं प्रियङ्गुं वा कणपिण्याकसक्तवः॥४१.११॥
इत्येते च शुभाहारा योगिनः सिद्धिकारकाः ।
तत् प्रयुञ्ज्यान्मुनिर्भक्त्या परमेण समाधिना॥४१.१२॥
अपः पूर्वं सकृत् प्राश्य तूष्णीं भूत्वा समाहितः ।
प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता॥४१.१३॥
अपानाय द्वितीया तु समानायते चापरा ।
उदानाय चतुर्थो स्याद्व्यानायेति च पञ्चमी॥४१.१४॥
प्राणायामैः पृथक् कृत्वा शेषं भुञ्जीत कामतः ।
अपः पुनः सकृत् प्रश्य आचम्य हृदयं स्पृशेत्॥४१.१५॥
अस्तेयं ब्रह्मचर्यञ्च त्यागोऽलोभस्तथैव च ।
व्रतानि पञ्च भिक्षूणामहिंसापरमाणि वै॥४१.१६॥
अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ।
नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्तिताः॥४१.१७॥
सारभूतमुपासीत ज्ञानं यत्कार्यसाधकम् ।
ज्ञानानां बहुता येयं योगविघ्रकरा हि सा॥४१.१८॥
इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् ।
अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात्॥४१.१९॥
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ।
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत्॥४१.२०॥
शून्येष्वेवावकाशेषु गुहासु च वनेषु च ।
नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत्॥४१.२१॥
वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः ।
यस्यैते नियता दण्डाः स त्रिदण्डी महायतिः॥४१.२२॥
सर्वमात्ममयं यस्य सदसज्जगदीदृशम् ।
गुणागुणमयन्तस्य कः प्रियः को नृपाप्रियः॥४१.२३॥
विसुद्धबुद्धिः समलोष्टकाञ्चनः
समस्तभूतेषु च तत्समाहितः ।
स्थानं परं शाश्वतमव्ययञ्च
परं हि मत्वा न पुनः प्रजायते॥४१.२४॥
वेदाच्छ्रेष्ठाः सर्वयज्ञक्रियाश्च
यज्ञाज्जप्यं ज्ञानमार्गश्च जप्यात् ।
ज्ञानाद्ध्यानं सङ्गरागव्यपेतं
तस्मिन् प्राप्ते शाश्वतस्योपलब्धिः॥४१.२५॥
समाहितो ब्रह्मपरोऽप्रमादी
सुचिस्तथैकान्तरतिर्यतेन्द्रियः ।
समाप्नुयाद्योगमिमं महात्मा
विमुक्तिमाप्रोति ततः स्वयोगतः॥४१.२६॥
इति श्रीमार्कण्डेयपुराणे योगिचर्यानामैकचत्वारिंशोऽध्यायः
द्विचत्वारिंशोऽध्यायः
एवं यो वर्तते योगी सम्यग्योगव्यवस्थितः ।
न स व्यावर्तितुं शक्यो जन्मान्तरशतैरपि॥४२.१॥
दृष्ट्वा च परमात्मानं प्रत्यक्षं विश्वरूपिणम् ।
विश्वपादशिरोग्रीवं विश्वेशं विश्वभावनम्॥४२.२॥
तत्प्राप्तये महत्पुण्यमोमित्येकाक्षरं जपेत् ।
तदेवाध्ययनं तस्य स्वरूपं शृण्वतः परम्॥४२.३॥
अकारश्च तथोकारो मकारश्चाक्षरत्रयम् ।
एता एव त्रयो मात्राः सात्त्वराजसतामसाः॥४२.४॥
निर्गुणा योगिगम्यान्या चार्धमात्रोर्ध्वसंस्थिता ।
गान्धारीति च विज्ञेया गान्धारस्वरसंश्रया॥४२.५॥
पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्ध्नि लक्ष्यते ।
यथा प्रयुक्त ओङ्गारः प्रतिनिर्याति मूर्धनि॥४२.६॥
तथोङ्कारमयो योगी त्वक्षरे त्वक्षरो भवेत् ।
प्राणो धनुः शरो ह्यात्मा ब्रह्म वेध्यमनुत्तमम्॥४२.७॥
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।
ओमित्येतत् त्रयो वेदास्त्रयो लोकास्त्रयोऽग्नयः॥४२.८॥
विष्णुर्-ब्रह्मा-हरश्चैव ऋक्सामानि यजूंषि च ।
मात्राः सार्धाश्च तिस्त्रश्च विज्ञेयाः परमार्थतः॥४२.९॥
तत्र युक्तस्तु यो योगी स तल्लयमवाप्नुयात् ।
अकारस्त्वथ भूर्लोक उकारश्चोच्यते भुवः॥४२.१०॥
सव्यञ्जनो मकारश्च स्वर्लोकः परिकल्प्यते ।
व्यक्ता तु प्रथमा मात्रा द्वितीयाव्यक्तसंज्ञिता॥४२.११॥
मात्रा तृतीया चिच्छक्तिरर्धमात्रा परं पदम् ।
अनेनैव क्रमेणैता विज्ञेया योगभूमयः॥४२.१२॥
ओमित्युच्चारणात् सर्वं गृहीतं सदसद् भवेत् ।
ह्रस्वा तु प्रथमा मात्रा द्वितीया दैर्घ्यसंयुता॥४२.१३॥
तृतीया च प्लुतार्धाख्या वचसः सा न गोचरा ।
इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम्॥४२.१४॥
यस्तु वेद नरः सम्यक् तथा ध्यायति वा पुनः ।
संसारचक्रमुत्सृज्य त्यक्तत्रिविधबन्धनः॥४२.१५॥
प्राप्रोति ब्रह्मणि लयं परमे परमात्मनि ।
अक्षीणकर्मबन्धश्च ज्ञात्वा मृत्युमरिष्टतः॥४२.१६॥
उत्क्रान्तिकाले संस्मृत्य पुनर्योगित्वमृच्छति ।
तस्मादसिद्धयोगेन सिद्धयोगेन वा पुनः ।
ज्ञेयन्यरिष्टानि सदा येनोत्क्रान्तौ न सीदति॥४२.१७॥
इति श्रीमार्कणाडेयपुराणे योगधर्मे ओङ्कारध्यायो नाम द्विचत्वारिंशोऽध्यायः
त्रिचत्वारिंशोऽध्यायः
अरिष्टानि महाराज ! शृणु वक्ष्यामि तानि ते ।
येषामालोकनान्मृत्युं निजं जानाति योगवित्॥४३.१॥
देवमार्गं ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् ।
यो न पश्येन्न जीवेत् स नरः संवत्सरात् परम्॥४३.२॥
अरश्मिबिम्बं सूर्यस्य वह्निं चैवांशुमालिनम् ।
दृष्ट्वै कादशमासात् तु नरो नोर्धन्तु जीवति॥४३.३॥
वान्ते मूत्रपूरीषे च यः स्वर्णं रजतं तथा ।
प्रत्यक्षं कुरुते स्वप्ने जीवेत् स दशमासिकम्॥४३.४॥
दृष्ट्वा प्रेतपिशाचादीन् गन्धर्वनगराणि च ।
सुवर्णवर्णान् वृक्षांश्च नव मासान् स जीवति॥४३.५॥
स्थूलः कृशः कृशः स्थूलो योऽकस्मादेव जायते ।
प्रकृतेश्च निवर्तेत तस्यायुश्चाष्टमासिकम्॥४३.६॥
खण्डं यस्य पदं पार्ष्णयां पादस्याग्रे च वा भवेत् ।
पांशुकर्दमयोर्मध्ये सप्त मासान् स जीवति॥४३.७॥
गृध्रः कपोतः काकालो वायसो वापि मूर्धनि ।
क्रव्यादो वा खगो नीलः षण्मासायुः प्रदर्शकः॥४३.८॥
हन्यते काकपङ्क्तीभिः पांशुवर्षेण वा नरः ।
स्वां च्छायामन्यथा दृष्ट्वा चतुः पञ्च स जीवति॥४३.९॥
अनभ्रे विद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् ।
रात्राविन्द्रधनुश्चापि जीवितं द्वित्रिमासिकम्॥४३.१०॥
घृते तैले तथादर्शे तोये वा नात्मनस्तनुम् ।
यः पश्येदशिरस्कां वा मासादूर्ध्वं न जीवति॥४३.११॥
यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा ।
तस्यार्धमासिकं ज्ञेयं योगिनो नृप ! जीवितम्॥४३.१२॥
यस्य वै स्त्रमात्रस्य हृत्पादमवशुष्यते ।
पिबतश्च जलं शोषो दशाहं सोऽपि जीवति॥४३.१३॥
सम्भिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति ।
हृष्यते नाम्बुसंस्पर्शात् तस्य मृत्युरुपस्थितः॥४३.१४॥
ऋक्षवानरयानस्थो गायन् यो दक्षिणां दिशम् ।
स्वप्ने प्रयाति तस्यापि न मृत्युः कालमिच्छति॥४३.१५॥
रक्तकृष्णाम्बरधरा गायन्ती हसती च यम् ।
दक्षिणाशान्नयेन्नारी स्वप्ने सोऽपि न जीवति॥४३.१६॥
नग्नं क्षपणकं स्वप्ने हसमानं महाबलम् ।
एकं संवीक्ष्य वल्गन्तं विद्यान्मृत्युमुपस्थितम्॥४३.१७॥
आमस्तकतलाद्यस्तु निमग्नं पङ्कसागरे ।
स्वप्ने पश्यत्यथात्मानं स सद्यो म्रियते नरः॥४३.१८॥
केशाङ्गारांस्तथा भस्म भुजङ्गान्निर्जलां नदीम् ।
दृष्ट्वा स्वप्ने दशाहात्तु मृत्युरेकादशे दिने॥४३.१९॥
करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः ।
पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः॥४३.२०॥
सूर्योदये यस्य शिवा क्रोशन्ती याति संमुखम् ।
विपरीतं परीतं वा स सद्यो मृत्युमृच्छति॥४३.२१॥
यस्य वै भुक्तमात्रस्य हृदयं बाधते क्षुधा ।
जायते दन्तघर्षश्च स गतायुर्न संशयम्॥४३.२२॥
दीपगन्धं न यो वेत्ति त्रस्यत्यह्नि तथा निशि ।
नात्मानं परनेत्रस्थं वीक्षते न स जीवति॥४३.२३॥
शक्रायुधं चार्धरात्रे दिवा ग्रहगणन्तथा ।
दृष्ट्वा मन्येत संक्षीणमात्मजीवितमात्मवित्॥४३.२४॥
नासिका वक्रतामेति कर्णयोर्नमनोन्नती ।
नेत्रञ्च वामं स्त्रवति यस्य तस्यायुरुद्गतम्॥४३.२५॥
आरक्ततामेति मुखं जिह्वा वा श्यामतां यदा ।
तदा प्राज्ञो विजानीयान्मृत्युमासन्नमात्मनः॥४३.२६॥
उष्ट्र-रासभयानेन यः स्वप्ने दक्षिणां दिशम् ।
प्रयाति तञ्च जानीयात् सद्योमृत्युं न संशयः॥४३.२७॥
पिधाय कर्णौ निर्घोषं न शृणोत्यात्मसम्भवम् ।
नश्यते चक्षुषोर्ज्योतिर्यस्य सोऽपि न जीवति॥४३.२८॥
पततो यस्य वै गर्ते स्वप्ने द्वारं पिधीयते ।
न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवितम्॥४३.२९॥
ऊर्ध्वा च दृष्टिर्न च संप्रतिष्ठा
रक्ता पुनः संपरिवर्तमाना ।
मुखस्य चोष्मा शुषिरञ्च नाभेः
शंसन्ति पुंसामपरं शरीरम्॥४३.३०॥
स्वप्नेऽग्निं प्रविशेद्यस्तु न च निष्क्रमते पुनः ।
जलप्रवेशादपि वा तदन्तं तस्य जीवितम्॥४३.३१॥
यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा ।
स मृत्युं सप्तरात्र्यन्ते नरः प्राप्रोत्यसंशयम्॥४३.३२॥
स्ववस्त्रममलं शुक्लं रक्तं पश्यत्यथासितम् ।
यः पुमान् मृत्युमासन्नं तस्यापि हि विनिर्दिशेत्॥४३.३३॥
स्वभाववैपरीत्यन्तु प्रकृतेश्च विपर्ययः ।
कथयन्ति मनुष्याणां सदासन्नौ यमान्तकौ॥४३.३४॥
येषां विनीतः सततं येऽस्य पूज्यतमा मताः ।
तानेव चावजानाति तानेव च विनिन्दति॥४३.३५॥
देवान्नार्चयते वृद्धान् गुरून् विप्रांश्च निन्दति ।
मातापित्रोर्न सत्कारं जामातॄणां करोति च॥४३.३६॥
योगिनां ज्ञानविदुषामन्येषाञ्च महात्मनाम् ।
प्राप्ते तु काले पुरुषस्तद्विज्ञेयं विचक्षणैः॥४३.३७॥
योगिनां सततं यत्नादरिष्टान्यवनीपते ।
संवत्सरान्ते तज्ज्ञेयं फलदानि दिवानिशम्॥४३.३८॥
विलोक्या विशदा चैषां फलपङ्क्तिः सुभीषणा ।
विज्ञाय कार्यो मनसि स च कालो नरेश्वर॥४३.३९॥
ज्ञात्व कालञ्च तं सम्यगभयस्थानमाश्रितः ।
युञ्जीत योगी कालोऽसौ यथा नास्याफलो भवेत्॥४३.४०॥
दृष्ट्वारिष्टं तथा योगी त्यक्त्वा मरणजं भयम् ।
तत्स्वभावं तदालोक्य काले यावत्युपागतम्॥४३.४१॥
तस्य भागे तथैवाह्नो योगं युञ्जीत योगवित् ।
पूर्वाह्ने चापराह्ने च मध्याह्ने चापि तद्दिने॥४३.४२॥
यत्र वा रजनीभागे तदरिष्टं निरीक्षितम् ।
तत्रैव तावद्युञ्जीत यावत् प्राप्तं हि तद्दिनम्॥४३.४३॥
ततस्त्यक्त्वा भयं सर्वं जित्वा तं कालमात्मवान् ।
तत्रैवावसथे स्थित्वा यत्र वा स्थैर्यमात्मनः॥४३.४४॥
युञ्जीत योगं निर्जित्य त्रीन् गुणान् परमात्मनि ।
तन्मयश्चात्मना भूत्वा चिद्वृत्तिमपि सन्त्यजेत्॥४३.४५॥
ततः परमनिर्वाणमतीन्द्रियमगोचरम् ।
यद्बुद्धेर्यन्न चाख्यातुं शक्यते तत् समश्नुते॥४३.४६॥
एतत् सर्वं समाख्यातं तवालर्क ! यथार्थवत् ।
प्राप्स्यसे येन तद्ब्रह्म संक्षेपात्तन्निबोध मे॥४३.४७॥
शशाङ्करश्मिसंयोगाच्छन्द्रकान्तमणिः पयः ।
समुत्सृजति नायुक्तः सोपमा योगिनः स्मृता॥४३.४८॥
यच्चार्करश्मिसंयोगादर्ककान्तो हुताशनम् ।
आविष्करोति नैकः सन्नुपमा सापि योगिनः॥४३.४९॥
पिपीलिकाखु-नकुल-गृहगोधा-कपिञ्जलाः ।
वसन्ति स्वामिवद् गेहे ध्वस्ते यान्ति ततोऽन्यतः॥४३.५०॥
दुः खन्तु स्वामिनो ध्वंसे तस्य तेषां न किञ्चन ।
वेश्मनो यत्र राजेन्द्र ! सोपमा योगसिद्धये॥४३.५१॥
मृद्वाहिकाल्पदेहापि मुखाग्रेणाप्यणीयसा ।
करोति मृद्भारचयमुपदेशः स योगिनः॥४३.५२॥
पशुपक्षिमनुष्याद्यैः पत्रपुष्पफलान्वितम् ।
वृक्षं विलुप्यमानन्तु दृष्ट्वा सिध्यन्ति योगिनः॥४३.५३॥
रुरुशावविषाणाग्रमालक्ष्य तिलकाकृतिम् ।
सह तेन विवर्धन्तं योगी सिद्धिमवाप्नुयात्॥४३.५४॥
द्रवपूर्णमुपादाय पात्रमारोहतो भुवः ।
तुङ्गमार्गं विलोक्योच्चैर्विज्ञातं किं न योगिना॥४३.५५॥
सर्वस्वे जीवनायालं निखाते पुरुषस्य या ।
चेष्टा तां तत्त्वतो ज्ञात्वा योगिनः कृतकृत्यता॥४३.५६॥
तद्गृहं यत्र वसतिः तद्भोज्यं येन जीवति ।
येन सम्पद्यते चार्थस्तत्सुखं ममतात्र का॥४३.५७॥
अभ्यर्थितोऽपि तैः कार्यं करोति करणैर्यथा ।
तथा बुध्यादिभिर्योगी पारक्यैः साधयेत्परम्॥४३.५८॥
ततः प्रणम्यात्रिपुत्रमलर्कः स महीपतिः ।
प्रश्रयावनतो वाक्यमुवाचातिमुदान्वितः॥४३.५९॥
दिष्ट्यादेवैरिदं ब्रह्मन् ! पराभिभवसम्भवम् ।
उपपादितमत्युग्रं प्राणसन्देहदं भयम्॥४३.६०॥
दिष्ट्या काशिपतेर्भूरि-बलसम्पत्पराक्रमः ।
यदुच्छेदादिहायातः स युष्मत्सङ्गदो मम॥४३.६१॥
दिष्ट्या मन्दबलश्चाहं दिष्ट्या भृत्याश्च मे हताः ।
दिष्ट्या कोषः क्षयं योतो दिष्ट्याहं भीतिमागतः॥४३.६२॥
दिष्ट्या त्वत्पादयुगलं मम स्मृतिपथं गतम् ।
दिष्ट्या त्वदुक्तयः सर्वा मम चेतसि संस्थितः॥४३.६३॥
दिष्ट्या ज्ञानं ममोत्पन्नं भवतश्च समागमात् ।
भवता चैव कारुण्यं दिष्ट्या ब्रह्मन् ! कृतं मम॥४३.६४॥
अनर्थोऽप्यर्थतां याति पुरुषस्य शुभोदये ।
यथेदमुपकाराय व्यसनं सङ्गमात्तव॥४३.६५॥
सुबाहुरुपकारी मे स च काशिपतिः प्रभो ।
ययोः कृतेऽहं संप्राप्तो योगीश ! भवतोऽन्तिकम्॥४३.६६॥
सोऽहन्तव प्रसादाग्नि-निर्दग्धाज्ञानकिल्विषः ।
तथा यतिष्ये येनेदृङ् न भूयां दुः खभाजनम्॥४३.६७॥
परित्यजिष्ये गार्हस्थ्यमार्तिपादपकाननम् ।
त्वत्तोऽनुज्ञां समासाद्य ज्ञानदातुर्महात्मनः॥४३.६८॥
गच्छ राजेन्द्र ! भद्रं ते यथा ते कथितं मया ।
निर्ममो निरहङ्कारस्तथा चर विमुक्तये॥४३.६९॥
एवमुक्तः प्रणम्यैनमाजगाम त्वरान्वितः ।
यत्र काशिपतिर्भ्राता सुबाहुश्चास्य सोऽग्रजः॥४३.७०॥
समुत्पत्य महाबहुं सोऽलर्कः काशिभूपतिम् ।
सुबाहोरग्रतो वीरमुवाच प्रहसन्निव॥४३.७१॥
राज्यकामुक काशीश ! भुज्यतां राज्यमूर्जितम् ।
तथा च रोचते तद्वत् सुबाहोः संप्रयच्छ वा॥४३.७२॥
किमलर्क ! परित्यक्तं राज्यं ते संयुगं विना ।
क्षत्रियस्य न धर्मोऽयं भवांश्च क्षत्रधर्मवित्॥४३.७३॥
निर्जितामात्यवर्गस्तु त्यक्त्वा मरणजं भयम् ।
सन्दधीत शरं राजा लक्ष्यमुद्दिश्य वैरिणम्॥४३.७४॥
तं जित्वा नृपतिर्भोगान् यथाभिलषितान् वरान् ।
भुञ्जीत परमं सिद्ध्यै यजेत च महामखैः॥४३.७५॥
एवमीदृशकं वीर ! ममाप्यासीन्मनः पुरा ।
साम्प्रतं विपरीतार्थं शृणु चाप्यत्र कारणम्॥४३.७६॥
यथायं भौतिकः सङ्घस्तथान्तः करणं नृणाम् ।
गुणास्तु सकलास्तद्वदशेषेष्वेव जन्तुषु॥४३.७७॥
चिच्छक्तिरेक एवायं यदा नान्योऽस्ति कश्चन ।
तदा का नृपते ज्ञानान्मित्रारिप्रभुभृत्यता॥४३.७८॥
तन्मया दुः खमासाद्य त्वद्भयोद्भवमुत्तमम् ।
दत्तात्रेयप्रसादेन ज्ञानं प्राप्तं नरेश्वर॥४३.७९॥
निर्जितेन्द्रियवर्गस्तु त्यक्त्वा सङ्गमशेषतः ।
मनो ब्रह्मणि सन्धाय तज्जये परमो जयः॥४३.८०॥
संसाध्यमन्यत्तत्सिद्ध्यै यतः किञ्चिन्न विद्यते ।
इन्द्रियाणि च संयम्य ततः सिद्धिं नियच्छति॥४३.८१॥
सोऽहं न तेऽरिर्न ममासि शत्रुः
सुबाहुरेषो न ममापकारी ।
दृष्टं मया सर्वमिदं यथात्मा
अन्विष्यतां भूप ! रिपुस्त्वयान्यः॥४३.८२॥
इत्थं स तेनाभिहितो नरेन्द्रो
हृष्टः समुत्थाय ततः सुबाहुः ।
दिष्ट्येति तं भ्रातरमाभिनन्द्य
काशीश्वरं वाक्यमिदं बभाषे॥४३.८३॥
इति श्रीमार्कण्डेयपुराणे अरिष्टकथनं नाम त्रिचत्वारिंशोऽध्यायः
चतुश्चत्वारिंशोऽध्यायः
यदर्थं नृपशार्दूल ! त्वामहं शरणं गतः ।
तन्मया सकलं प्राप्तं यास्यामि त्वं सुखी भव॥४४.१॥
किं निमित्तं भवान् प्राप्तो निष्पन्नोर्ऽथश्च कस्तव ।
सुबाहो ! तन्ममाचक्ष्व परं कौतूहलं हि मे॥४४.२॥
समाक्रान्तमलर्केण पितृपैतामहं महत् ।
राज्यं देहीति निर्जित्य त्वयाहमभिचोदितः॥४४.३॥
ततो मया समाक्रम्य राज्यमस्यानुजस्य ते ।
एतत्ते बलमानीतं तद्भुङ्क्ष्वस्वकुलोचितम्॥४४.४॥
काशिराज ! निबोध त्वं यदर्थमयमुद्यमः ।
कृतो मया भवांश्चैव कारितोऽत्यन्तमुद्यमम्॥४४.५॥
भ्राता ममायं ग्राम्येषु सक्तो भोगेषु तत्त्ववित् ।
विमूढौ बोधवन्तौ च भ्रातरावग्रजौ मम॥४४.६॥
तयोर्मम च यन्मात्रा बाल्ये स्तन्यं यथा मुखे ।
तथावबोधो विन्यस्तः कर्णयोरवनीपते॥४४.७॥
तयोर्मम च विज्ञेयाः पदार्था ये मता नृभिः ।
प्राकाश्यं मनसो नीतास्ते मात्रा नास्य पार्थिव॥४४.८॥
यथैकमर्थे यातानामेकस्मिन्नवसीदति ।
दुः खं भवति साधूनां ततास्माकं महीपते॥४४.९॥
गार्हस्थ्यमोहमापन्ने सीदत्यस्मिन्नरेश्वर ।
सम्बन्धिन्यस्य देहस्य बिभ्रति भ्रातृकल्पनाम्॥४४.१०॥
ततो मया विनिश्चित्य दुः खाद्वैराग्यभावना ।
भविष्यतीत्यस्य भवानित्युद्योगाय संश्रितः॥४४.११॥
तदस्य दुः खाद्वैराग्यं संबोधादवनीपते ।
समुद्भूतं कृतं कार्यं भद्रं तेऽस्तु व्रजाम्यहम्॥४४.१२॥
उष्ट्वा मदालसागर्भे पीत्वा सत्सास्तथा स्तनम् ।
नान्यनारीसुतैर्यातं वर्त्म यात्विति पार्थिव॥४४.१३॥
विचार्य तन्मया सर्वं युष्मत्संश्रयपूर्वकम् ।
कृतं तच्चापि निष्पन्नं प्रयास्ये सिद्धये पुनः॥४४.१४॥
उपेक्ष्यते सीदमानः स्वजनो बान्धवः सुहृत् ।
यैर्नरेन्द्र ! न तान् मन्ये सेन्द्रिया विकला हि ते॥४४.१५॥
सुहृदि स्वजने बन्धौ समर्थे योऽवसीदति ।
धर्मार्थकाममोक्षेभ्यो वाच्यास्ते तत्र न त्वसौ॥४४.१६॥
एतत् त्वत्सङ्गमाद् भूप ! मया कार्यं महत् कृतम् ।
स्वस्ति तेऽस्तु गमिष्यामि ज्ञानभाग्भव सत्तम॥४४.१७॥
उपकारस्त्वया साधोरलर्कस्य कृतो महान् ।
ममोपकाराय कथं न करोषि स्वमानसम्॥४४.१८॥
फलदायी सतां सदिभः सङ्गमो नाफलो यतः ।
तस्मात्तवत्संश्रयाद्युक्ता मया प्राप्ता समुन्नतिः॥४४.१९॥
धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयम् ।
तत्र धर्मार्थकामास्ते सकला हीयतेऽपरः॥४४.२०॥
तत्ते संक्षेपतो वक्ष्ये तदिहैकमनाः शृणु ।
श्रुत्वा च सम्यगालोच्य यतेथाः श्रेयसे नृप॥४४.२१॥
ममेतिप्रत्ययो भूप ! न कार्योऽहमिति त्वया ।
सम्यगालोच्य धर्मो हि धर्माभावे निराश्रयः॥४४.२२॥
कस्याहमिति संज्ञेयमित्यालोच्य त्वयात्मना ।
बाह्यन्तर्गतमालोच्यमालोच्यापररात्रिषु॥४४.२३॥
अव्यक्तादिविशेषन्तमविकारमचेतनम् ।
व्यक्ताव्यक्तं त्वया ज्ञेयं ज्ञाता कश्चाहमित्युत॥४४.२४॥
एतस्मिन्नेव विज्ञाने विज्ञातमखिलं त्वया ।
अनात्मन्यात्मविज्ञानमखे खमिति मूढता॥४४.२५॥
सोऽहं सर्वगतो भूप ! लोकसंव्यवहारतः ।
मयेदमुच्यते सर्वं त्वया पृष्टो व्रजाम्यहम्॥४४.२६॥
एवमुक्त्वा ययौ धीमान् ! सुबाहुः काशिभूमिपम् ।
काशिराजोऽपि संपूज्य सोऽलर्कं स्वपुरं ययौ॥४४.२७॥
अलर्कोऽपि सुतं ज्येष्ठमभिषिच्य नराधिपम् ।
वनं जगाम सन्त्यक्तसर्वसङ्गः स्वसिद्धये॥४४.२८॥
ततः कालेन महाता निर्द्वन्द्वो निष्परिग्रहः ।
प्राप्य योगर्धिमतुलां परं निर्वाणमाप्तवान्॥४४.२९॥
पश्यन् जगदिदं सर्वं सदेवासुरमानुषम् ।
पाशैर्गुणमयैर्बद्धं बध्यमानञ्च नित्यशः॥४४.३०॥
पुत्रादिभ्रातृपुत्रादि-स्वपारक्यादिभावितैः ।
आकृष्यमाणं करणैर्दुःखार्तं भिन्नदर्शनम्॥४४.३१॥
अज्ञानपङ्कगर्भस्थमनुद्धारं महामतिः ।
आत्मानञ्च समुत्तीर्णं गाथामेतामगायत॥४४.३२॥
अहो कष्टं यदस्माभैः पूर्वं राज्यमनुष्ठितम् ।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम्॥४४.३३॥
तातैनं त्वं समातिष्ठ मुक्तये योगमुत्तमम् ।
प्राप्स्यसे येन तद् ब्रह्म यत्र गत्वा न शोचसि॥४४.३४॥
ततोऽहमपि यास्यामि किं यज्ञैः किं जपेन मे ।
कृतकृत्यस्य करणं ब्रह्मभावाय कल्पते॥४४.३५॥
त्वत्तोऽनुज्ञामवाप्याहं निर्द्वन्द्वो निष्परिग्रहः ।
प्रयतिष्ये तथा मुक्तौ यथा यास्यामि निर्वृतिम्॥४४.३६॥
एवमुक्त्वा स पितरं प्राप्यानुज्ञां ततश्च सः ।
ब्रह्मन् ! जगाम मेधावी परित्यक्तपरिग्रहः॥४४.३७॥
सोऽपि तस्य पिता तद्वत् क्रमेण सुमहामतिः ।
वानप्रस्थं समास्थाय चतुर्थाश्रममभ्यगात्॥४४.३८॥
तत्रात्मजं समासाद्य हित्वा बन्धं गुणादिकम् ।
प्राप सिद्धिं परां प्राज्ञस्तत्कालोपात्तसंमतिः॥४४.३९॥
एतत्ते कथितं ब्रह्मन् ! यत्पृष्टा भवता वयम् ।
सुविस्तरं यथावच्च किमन्यच्छ्रोतुमिच्छसि॥४४.४०॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे जडोपाख्यानं नाम चतुश्चत्वारिंशोऽध्यायः
पञ्चचत्वारिंभोऽध्यायः
सम्यगेतन्ममाख्यातं भवदिभर्द्विजसत्तमाः ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्॥४५.१॥
अहो पितृप्रसादेन भवतां ज्ञानमीदृशम् ।
येन तिर्यक्त्वमप्येतत् प्राप्य मोहस्तिरस्कृतः॥४५.२॥
धन्या भवन्तः संसिद्ध्यै प्रागवस्थास्थितं यतः ।
भवतां विषयोद्भूतैर्न मोहैश्चाल्यते मनः॥४५.३॥
दिष्ट्या भगवता तेन मार्कण्डेयेन धीमता ।
भवन्तो वै समाख्याताः सर्वसन्देहहृत्तमाः॥४५.४॥
संसारेऽस्मिन् मनुष्याणां भ्रमतामतिसङ्कटे ।
भवद्विधैः समं सङ्गो जायते नातपस्विनाम्॥४५.५॥
यद्यहं सङ्गमासाद्य भवदिभर्ज्ञानदृष्टिभिः ।
न स्यां कृतार्थस्तन्नूनं न मेऽन्यत्र कृतार्थता॥४५.६॥
प्रवृते च निवृत्ते च भवतां ज्ञानकर्मणि ।
मतिमस्तमलां मन्ये यथा नान्यस्य कस्यचित्॥४५.७॥
यदि त्वनुग्रहवती मयी बुद्धिर्द्विजोत्तमाः ।
भवतां तत्समाख्यातुमर्हतेदमशेषतः॥४५.८॥
कथमेतत्समुद्भूतं जगत् स्थावरजङ्गमम् ।
कथञ्च प्रलयङ्काले पुनर्यास्यति सत्तमाः॥४५.९॥
कथञ्च वंशाः देवर्षि-पितृभूतादिसम्भवाः ।
मन्वन्तराणि च कथं वंशानुचरितञ्च यत्॥४५.१०॥
यावत्यः सृष्टयश्चैव यावन्तः प्रलयास्तथा ।
यथा कल्पविभागश्च या च मन्वन्तरस्थितिः॥४५.११॥
यथा च क्षितिसंस्थानं यत् प्रमाणञ्च वै भुवः ।
यथास्थिति समुद्राद्रि-निम्नगाः काननानि च॥४५.१२॥
भूर्लोकादिस्वर्लोकानां गणः पातालसंश्रयः ।
गतिस्तथार्कसोमादि-ग्रहर्क्षज्योतिषामपि॥४५.१३॥
श्रोतुमिच्छाम्यहं सर्वमेतदाहूतसंप्लवम् ।
उपसंहृते च यच्छेषं जगत्यस्मिन् भविष्यति॥४५.१४॥
प्रश्नभारोऽयमतुलो यस्त्वया मुनिसत्तम ।
पृष्टस्तं ते प्रवक्ष्यामस्तत् शृणुष्वेह जैमिने॥४५.१५॥
मार्कण्डेयेन कथितं पुरा क्रौष्टुकये यथा ।
द्विजपुत्राय शान्ताय व्रतस्त्राताय धीमते॥४५.१६॥
मार्कण्डेयं महात्मानमुपासीनं द्विजोत्तमैः ।
क्रौष्टुकिः परिपप्रच्छ यदेतत् पृष्टवान् प्रभो॥४५.१७॥
तस्य चाकथयत् प्रीत्या यन्मुनिर्भृगुनन्दनः ।
तत्ते प्रकथयिष्यामः शृणु त्वं द्विजसत्तम॥४५.१८॥
प्रणिपत्य जगन्नाथं पद्मयोनिं पितामहम् ।
जगद्योनिं स्थितं सृष्टौ स्थितौ विष्णुस्वरूपिणम् ।
प्रलये चान्तकर्तारं रौद्रं रुद्रस्वरूपिणम्॥४५.१९॥
उत्पन्नमात्रस्य पुरा ब्रह्मणोऽव्यक्तजन्मनः ।
पुराणमेतद्वेदाश्च मुखेभ्योऽनुविनिः सृताः॥४५.२०॥
पुराणसंहिताश्चक्रुर्बहुलाः परमर्षयः ।
वेदानां प्रविभागश्च कृतस्तैस्तु सहस्रशः॥४५.२१॥
धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च महात्मनः ।
तस्योपदेशेन विना न हि सिद्धं चतुष्टयम्॥४५.२२॥
वेदान् सप्तर्षयस्तस्माज्जगृहुस्तस्य मानसाः ।
पुराणं जगृहुश्चाद्या मुनयस्तस्य मानसाः॥४५.२३॥
भृगोः सकाशाच्च्यवनस्तेनोक्तञ्च द्विजन्मनाम् ।
ऋषिभिश्चापि दक्षाय प्रोक्तमेतन्महात्मभिः॥४५.२४॥
दक्षेण चापि कथितमिदमासीत्तदा मम ।
तत्तुभ्यं कथयाम्यद्य कलिकल्मषनाशनम्॥४५.२५॥
सर्वमेतन्महाभग ! श्रूयतां मे समाधिना ।
यथाश्रुतं मया पूर्वं दक्षस्य गदतो मुने॥४५.२६॥
प्रणिपत्य जगद्योनिमजमव्ययमाश्रयम् ।
चराचरस्य जगतोधातारं परमं पदम्॥४५.२७॥
ब्रह्माणमादिपुरुषमुत्पत्ति-स्थिति-संयमे ।
यत्कारणमनौपम्यं यत्र सर्वं प्रतिष्ठितम्॥४५.२८॥
तस्मै हिरण्यगर्भाय लोकतन्त्राय धीमते ।
प्रणम्य सम्यग्वक्ष्यामि भूतवर्गमनुत्तमम्॥४५.२९॥
महदाद्यं विशेषान्तं सवैरुप्यं सलक्षणम् ।
प्रमाणैः पञ्चभिर्गम्यं स्त्रोतोभिः षड्भिरन्वितम्॥४५.३०॥
पुरुषाधिष्ठितं नित्यमनित्यमिव च स्थितम् ।
तच्छ्रूयतां महाभाग ! परमेण समाधिना॥४५.३१॥
प्रधानं कारणं यत्तदव्यक्ताख्यं महर्षयः ।
यदाहुः प्रकृतिं सूक्ष्मां नित्यां सदसदात्मिकाम्॥४५.३२॥
ध्रुवमक्षय्यमजरममेयं नान्यसंश्रयम् ।
गन्धरूपरसैर्हेनं शब्दस्पर्शविवर्जितम्॥४५.३३॥
अनाद्यन्तं जगद्योनि त्रिगुणप्रभवाप्ययम् ।
असाम्प्रतमविज्ञेयं ब्रह्माग्रे समवर्तत॥४५.३४॥
प्रलयस्यानु तेनेदं व्याप्तमासीदशेषतः ।
गुणसाम्यात्ततस्तस्मात् क्षेत्रज्ञाधिष्ठितान्मुने॥४५.३५॥
गुणभावात् सृज्यमानात् सर्गकाले ततः पुनः ।
प्रधानं तत्त्वमुद्भूतं महान्तं तत् समावृणोत्॥४५.३६॥
यथा बीजं त्वचा तद्वदव्यक्तेनावृतो महान् ।
सात्त्विको राजसश्चैव तामसश्च त्रिधोदितः॥४५.३७॥
ततस्तस्मादहङ्कारस्त्रिविधो वै व्यजायत ।
वैकारिकस्तैजसश्च भूतादिश्च सतामसः॥४५.३८॥
महता चावृतः सोऽपि यथाव्यरक्तेन वै महान् ।
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकन्ततः॥४५.३९॥
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ।
आकाशं शब्दमात्रन्तु भूतादिश्चावृणोत्ततः॥४५.४०॥
स्पर्शतन्मात्रमेवेह जायते नात्र संशयः ।
बलवान् जायते वायुस्तस्य स्पर्शगुणो मतः॥४५.४१॥
वायुश्चापि विकुर्वाणो रुपमात्रं ससर्ज ह ।
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते॥४५.४२॥
स्पर्शमात्रस्तु वै वायूरूपमात्रं समावृणोत् ।
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह॥४५.४३॥
सम्भवन्ति ततो ह्यापश्चासन् वै ता रसात्मिकाः ।
रसमात्रन्तु ताह्यापो रूपमात्रं समावृणोत्॥४५.४४॥
आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे ।
सङ्घातो जायते तस्मात्तस्य गन्धो गुणो मतः॥४५.४५॥
तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ।
अविशेषवाचकत्वादविशेषास्ततश्च ते॥४५.४६॥
न शान्ता नापि घोरास्ते न मूढाश्चाविशेषतः ।
भूततन्मात्रसर्गोऽयमहङ्कारात्तु तामसात्॥४५.४७॥
वैकारिकादहङ्कारात् सत्त्वोद्रिक्तात्तु सात्त्विकात् ।
वैकारिकः स सर्गस्तु युगपत् सम्प्रवर्तते॥४५.४८॥
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ।
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश॥४५.४९॥
एकादशं मनस्तत्र देवा वैकारिकाः स्मृताः ।
श्रोतं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी॥४५.५०॥
शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वक्ष्यते ।
पादौ पायुरुपस्थश्च हस्तौ वाक् पञ्चमी भवेत्॥४५.५१॥
गतिर्विसर्गो ह्यानन्दः शिल्पं वाक्यञ्च कर्म तत् ।
आकाशं शब्दमात्रन्तु स्पर्शमात्रं समाविशत्॥४५.५२॥
द्विगुणो जायते वायुस्तस्य स्पर्शो गुणो मतः ।
रूपन्तथैवाविशतः शब्दस्पर्शगुणावुभौ॥४५.५३॥
द्विगुणस्तु ततश्चाग्निः स शब्दस्पर्शरूपवान् ।
शब्दः स्पर्शश्च रूपञ्च रसमात्रं समाविशत्॥४५.५४॥
तस्माच्चतुर्गुणा ह्यापो विज्ञेयास्ता रसात्मिकाः ।
शब्दः स्पर्शश्च रूपञ्च रसो गन्धं समाविशत्॥४५.५५॥
संहता गन्धमात्रेण आवृण्वंस्ते महीमिमाम् ।
तस्मात् पञ्चगुणा भूमिः स्थूला भूतेषु दृश्यते॥४५.५६॥
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ।
परस्परानुप्रवेशाद्धारयन्ति परस्परम्॥४५.५७॥
भूमेरन्तस्त्विदं सर्वं लोकालोकं घनावृतम् ।
विशेषाश्चेन्द्रियग्राह्या नियतत्वाच्च ते स्मृताः॥४५.५८॥
गुणं पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् ।
नानावीर्याः पृथग्भूताः सप्तैते संहतिं विना॥४५.५९॥
नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ।
समेत्यान्योन्यसंयोगमन्योन्याश्रयिणश्च ते॥४५.६०॥
एकसङ्घातचिह्नाश्च संप्राप्यैक्यमशेषतः ।
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च॥४५.६१॥
महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ।
जलबुद्बुदवत्तत्र क्रमाद्वै वृद्धिमागतम्॥४५.६२॥
भूतेभ्योऽण्डं महाबुद्धे ! वृहत्तदुदकेशयम् ।
प्राकृतेऽण्डे विवृद्धः सन् क्षेत्रज्ञो ब्रह्मसंज्ञितः॥४५.६३॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता च भूतानां ब्रह्माग्रे समवर्तत॥४५.६४॥
तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ।
मेरुस्तस्यानुसम्भूतो जरायुश्चापि पर्वताः॥४५.६५॥
समुदा गर्भसलिलं तस्याण्डस्य महात्मनः ।
तस्मिन्नण्डे जगत् सर्वं सदेवासुरमानुषम्॥४५.६६॥
दीपाद्यद्रिसमुद्राश्च राज्योतिर्लोकसंग्रहः ।
जलानिलानलाकाशैस्ततो भूतादिना बहिः॥४५.६७॥
वृतमण्डं दशगुणैरेकेकैकत्वेन तैः पुनः ।
महता तत्प्रमाणेन सहैवानेन वेष्टितः॥४५.६८॥
महांस्तैः सहितः सर्वैरव्यक्तेन समावृतः ।
एभिरावरणैरण्डं सप्तभैः प्राकृतैर्वृतम्॥४५.६९॥
अन्योन्यमावृत्य च ता अष्टौ प्रकृतयः स्थिताः ।
एषा सा प्रकृतिर्नित्या यदन्तः पुरुषश्च सः॥४५.७०॥
ब्रह्माख्यः कथितो यस्ते समासात् श्रू यतां पुनः ।
यथा मग्नो जले कश्चिदुन्मज्जन् जलसम्भवः॥४५.७१॥
जलञ्च क्षिपति ब्रह्मा स तथा प्रकृतिर्विभु ।
अव्यक्तं क्षेत्रमुदिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते॥४५.७२॥
एतत्समस्तं जानीयात् क्षेत्रक्षेत्रज्ञलक्षणम् ।
इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः ।
अबुद्धिपूर्वः प्रथमः प्रादुर्भूतस्तडिद्यथा॥४५.७३॥
इति श्रीमार्कण्डेयपुराणे ब्रह्मोत्पतिर्नाम पञ्चचत्वारिंशोऽध्यायः
षट्चत्वारिंशोऽध्यायः
क्रौष्टुकिरुवाच
भगवंस्त्वण्डसम्भूतिर्यथावत् कथिता मम ।
ब्रह्माण्डे ब्रह्मणो जन्म तथा चोक्तं महात्मनः॥४६.१॥
एतदिच्छाम्यहं श्रोतुं त्वत्तो भृगुकुलोद्भव ।
यदान सृष्टिर्भूतानामस्ति किन्नु न चास्ति वा ।
काले वै प्रलयस्यान्ते सर्वस्मिन्नुपसंहृते॥४६.२॥
मार्कण्डेय उवाच
यदा तु प्रकृतौ याति लयं विश्वमिदं जगत् ।
तदोच्यते प्राकृतोऽयं विद्वद्भिः प्रतिसञ्चरः॥४६.३॥
स्वात्मन्यवस्थितेव्यक्ते विकारे प्रतिसंहृते ।
प्रकृतिः पुरुषश्चैव साधर्म्येणावतिष्ठतः॥४६.४॥
तदा तमश्च सत्त्वञ्च समत्वेन व्यवस्थितौ ।
अनुद्रिक्तावनूनौ च तत्प्रोतौ च परस्परम्॥४६.५॥
तिलेषु वा यथा तैलं घृतं पयसि वा स्थितम् ।
तथा तमसि सत्त्वे च रजोऽप्यनुसृतं स्थितम्॥४६.६॥
उत्पत्तिर्ब्रह्मणो यावदायुषो द्विपरार्धिकम् ।
तावद्दिनं परेशस्य तत्समा संयमे निशा॥४६.७॥
अहर्मुखे प्रबुद्धस्तु जगदादिरनादिमान् ।
सर्वहेतुरचिन्त्यात्मा परः कोऽप्यपरक्रियः॥४६.८॥
प्रकृतिं पुरुषञ्चैव प्राविश्याशु जगत्पतिः ।
क्षोभयामास योगेन परेण परमेश्वरः॥४६.९॥
यथा मदो नवस्त्रीणां यथा वा माधवानिलः ।
अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान्॥४६.१०॥
प्रधाने क्षोभ्यमाने तु स देवो ब्रह्मसंज्ञितः ।
समुत्पन्नोऽण्डकोषस्थो यथा ते कथितं मया॥४६.११॥
स एव क्षोभकः पूर्वं स क्षोभ्यः प्रकृतेः पतिः ।
स सङ्कोचविकाशाभ्यां प्रधानत्वेऽपि च स्थितः॥४६.१२॥
अत्पन्नः स जगद्योनिरगुणोऽपि रजोगुणम् ।
भुञ्जन् प्रवर्तते सर्गे ब्रह्मत्वं समुपाश्रितः॥४६.१३॥
ब्रह्मत्वे स प्रजाः सृष्ट्वा ततः सत्त्वातिरेकवान् ।
विष्णुत्वमेत्य धर्मेण कुरुते परिपालनम्॥४६.१४॥
ततस्तमोगुणोद्रिक्तो रुद्रत्वे चाखिलं जगत् ।
उपसंहृत्य वै शेते त्रैलोक्यं त्रिगुणोऽगुणः॥४६.१५॥
यथा प्राग्व्यापकः क्षेत्री पालको लावकस्तथा ।
यथा स संज्ञामायाति ब्रह्मविष्ण्वीशकारिणीम्॥४६.१६॥
ब्रह्मत्वे सृजते लोकान् रुद्रत्वे संहरत्यपि ।
विष्णुत्वे चाप्युदासीनस्तिस्त्रोऽवस्थाः स्वयम्भुवः॥४६.१७॥
रजो ब्रह्मा तमो रुद्रो विष्णुः सत्त्वं जगत्पतिः ।
एत एव त्रयो देवा एत एव त्रयो गुणाः॥४६.१८॥
अन्योन्यमिथुना ह्येते अन्योन्याश्रयिणस्तथा ।
क्षणं वियोगो नह्येषां न त्यजन्ति परस्परम्॥४६.१९॥
एवं ब्रह्मा जगत्पूर्वो देवदेवश्चतुर्मुखः ।
रजोगुणं समाश्रित्य स्त्रष्ट्टत्वे स व्यवस्थितः॥४६.२०॥
हिरण्यगर्भो देवादिरनादिरुपचारतः ।
भूपद्मकर्णिकासंस्थो ब्रह्माग्रे समजायत॥४६.२१॥
तस्य वर्षशतं त्वेकं परमायुर्महात्मनः ।
ब्रह्म्येणैव हि मानेन तस्य संख्यां निबोध मे॥४६.२२॥
निमेषैर्दशभिः काष्ठा तथा पञ्चभिरुच्यते ।
कलास्त्रिंशच्च वै काष्ठा मुहूर्तं त्रिंशत्ताः कलाः॥४६.२३॥
अहोरात्रं मुहूर्तानां नृणां त्रिंशत्तु वै स्मृतम् ।
अहोरात्रैश्च त्रिंशद्भिः पक्षौ द्वौ मास उच्यते॥४६.२४॥
तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे ।
तद्देवानामहोरात्रं दिनं तत्रोत्तरायणम्॥४६.२५॥
दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् ।
चतुर्युगं द्वादशभिस्तद्विभागं शृणुष्व मे॥४६.२६॥
चत्वारि तु सहस्राणि वर्षाणां कृतमुच्यते ।
शतानि सन्ध्या चत्वारि सन्ध्यांशश्च तथाविधः॥४६.२७॥
त्रेता त्रीणि सहस्राणि दिव्याब्दानां शतत्रयम् ।
तत्सन्ध्या तत्समा चैव सन्ध्यांशश्च तथाविधः॥४६.२८॥
द्वापरं द्वे सहस्रे तु वर्षाणां द्वे शते तथा ।
तस्य सन्ध्या समाख्याता द्वे शताब्दे तदंशकः॥४६.२९॥
कलिः सहस्रं दिव्यानामब्दानां द्विजसत्तम ।
सन्ध्या सन्ध्यांशकश्चैव शतकौ समुदाहृतौ॥४६.३०॥
एषा द्वाधशसाहस्त्री युगाख्या कविभिः कृता ।
एतत् सहस्रगुणितमो ब्राह्म्यमुदाहृतम्॥४६.३१॥
ब्रह्मणो दिवसे ब्रह्मन् मनवः स्युश्चतुर्दश ।
भवन्ति भागशस्तेषां सहस्रं तद्विभज्यते॥४६.३२॥
देवाः सप्तर्षयः सेन्द्रा मनुस्तत्सूनवो नृपाः ।
मनुना सह सृज्यन्ते संह्रियन्ते च पूर्ववत्॥४६.३३॥
चतुर्युगानां संख्याता साधिका ह्ये कसप्ततिः ।
मन्वन्तरं तस्य संख्यां मानुषाब्दैर्निबोध मे॥४६.३४॥
त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विज ।
सत्पषष्टिस्तथान्यानि नियुतानि च संख्यया॥४६.३५॥
विंशतिश्च सहस्राणि कालोऽयं साधिकं विना ।
एतन्मन्वन्तरं प्रोक्तं दिव्यैर्वर्षैर्निबोध मे॥४६.३६॥
अष्टौ वर्षसहस्राणि दिव्यया संख्यया युतम् ।
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु॥४६.३७॥
चतुर्दशगुणो ह्येष कालो ब्रह्म्यमहः स्मृतम् ।
तस्यान्ते प्रलयः प्रोक्तो ब्रह्मन् नैमित्तिको बुधैः॥४६.३८॥
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च विनाशिनः ।
तथा विनाशमायान्ति महर्लोकश्च तिष्ठति॥४६.३९॥
तद्वासिनोऽपि तापेन जनलोकं प्रयान्ति वै ।
एकार्णवे च त्रैलोक्ये ब्रह्मा स्वपिति वै निशि॥४६.४०॥
तत्प्रमाणैव सा रात्रिस्तदन्ते सृज्यते पुनः ।
एवन्तु ब्रह्मणो वर्षमेकं वर्षशतन्तु तत्॥४६.४१॥
शतं हि तस्य वर्षाणां परमित्यभिधीयते ।
पञ्चाशद्भिस्तथा वर्षैः परार्धमिति कीर्त्यते॥४६.४२॥
एवमस्य परार्धन्तु व्यतीतं द्विजसत्तम ।
यस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः॥४६.४३॥
द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज ।
वाराह इति कल्पोऽयं प्रथमः परिकल्पितः॥४६.४४॥
इति श्रीमार्कण्डेयपुराणे ब्रह्मायुप्रमाणो नाम षट्टत्वारिंशोऽध्यायः
सप्तचत्वारिशोऽध्यायः ४७
क्रौष्टुकिरुवाच
यथा ससर्ज वै ब्रह्मा भगवानादिकृत् प्रजाः ।
प्रजापतिः पतिर्देवस्तन्मे विस्तरतो वद॥४७.१॥
मार्कण्डेय उवाच
कथयाम्येष ते ब्रह्मन् ससर्ज भगवान् यथा ।
लोककृच्छाश्वतः कृत्स्नं जगत् स्थावरजङ्गमम्॥४७.२॥
पद्मावसाने प्रलये निशासुत्पोत्थितः प्रभुः ।
सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत॥४७.३॥
इमञ्चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम्॥४७.४॥
आपो नारा वै तनव इत्यपां नाम शुश्रुम ।
तासु शेते स यस्माच्च तेन नारायणः स्मृतः॥४७.५॥
विबुद्धः सलिले तस्मिन् विज्ञायान्तर्गतां महीम् ।
अनुमानात् समुद्धारं कर्तुकामस्तदा क्षिते॥४७.६॥
अकरोत् स तनूरन्याः कल्पादिषु यथा पुरा ।
मत्स्यकूर्मादिकास्तद्वद्वाराहं वपुरास्थितः॥४७.७॥
वेदयज्ञमयं दिव्यं वेदयज्ञमयो विभुः ।
रूपं कृत्वा विवेशाप्सु सर्वगः सर्वसम्भवः॥४७.८॥
समुद्धृकत्य च पातालान्मुमोच सलिले भुवम् ।
जनलोकस्थितैः सिद्धैश्चिन्त्यमानो जगत्पतिः॥४७.९॥
तस्योपरि जलौघस्य महती नैरिव स्थिता ।
विततत्वात्तु देहस्य न मही याति संप्लवम्॥४७.१०॥
ततः क्षितिं समीकृत्य पृथिव्यां सोऽसृजद् गिरीन् ।
प्राक् सर्गे दह्यमाने तु तदा संवर्तकाग्निना॥४७.११॥
तेनाग्निना विशीर्णास्ते पर्वता भुवि सर्वशः ।
शैला एकार्णवे मग्ना वायुनापस्तु संहताः॥४७.१२॥
निषक्ता यत्र यत्रासंस्तत्र तत्राचलाभवन् ।
भूविभागन्ततः कृत्वा सप्तद्वीपोपशोभितम्॥४७.१३॥
भूराद्यांश्चतुरो लोकान् पूर्वंवत् समकल्पयत् ।
सृष्टिञ्चिन्तयतस्तस्य कल्पादिषु यथा पुरा॥४७.१४॥
अबुद्धिपूर्वकस्तस्मात् प्रादुर्भूतस्तमोमयः ।
तमो मोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः॥४७.१५॥
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।
पञ्चधावस्थितः सर्गो ध्यायतोऽप्रतिबोधवान्॥४७.१६॥
बहिरन्तश्चाप्रकाशः संवृतात्मा नगात्मकः ।
मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम्॥४७.१७॥
तं दृष्ट्वासाधकं सर्गममन्यदपरं पुनः ।
तस्याभिध्यायतः सर्गं तिर्यक्स्त्रोतो ह्यवर्तत॥४७.१८॥
यस्मात्तिर्यक्प्रवृत्तिः सा तिर्यक्स्त्रोतस्ततः स्मृतः ।
पश्वादयस्ते विख्यातास्तमः प्रायो ह्यवेदिनः॥४७.१९॥
अत्पथग्राहिनश्चैव तेऽज्ञाने ज्ञानमानिनः ।
अहङ्कृता अहंमाना अष्टाविशशद्विधात्मकाः॥४७.२०॥
अन्तः प्रकाशास्ते सर्वे आवृतास्तु परस्परम् ।
तमप्यसाधकं मत्वा ध्यायतोऽन्यस्ततोऽभवत्॥४७.२१॥
ऊर्ध्वस्त्रोतस्तृतीयस्तु सात्त्विकः समवर्तत ।
ते सुखप्रीतिबहुला बहिरन्तस्त्वनावृताः॥४७.२२॥
प्रकाशा बहिरन्तश्च ऊर्ध्वस्त्रोतः समुद्भवाः ।
तुष्टात्मकस्तृतीयस्तु देवसर्गो हि स स्मृतः॥४७.२३॥
तस्मिन् सर्गेऽभवत् प्रीतिर्निष्पन्ने ब्रह्मणस्तदा ।
ततोऽन्यं स तदा दध्यौ साधकं सर्गमुत्तमम्॥४७.२४॥
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः ।
प्रादुर्बभौ तदाव्यक्तादर्वाक्स्त्रोतस्तु साधकः॥४७.२५॥
यस्मादर्वाग् व्यवर्तन्त ततोर्ऽवाक्स्त्रोतसस्तु ते ।
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोऽधिकाः॥४७.२६॥
तस्मात् ते दुः खबहुला भूयोभूयश्च कारिणः ।
प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते॥४७.२७॥
पञ्चमोऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः ।
विपर्ययेण सिद्ध्या च शान्त्या तुष्ट्या तथैव च॥४७.२८॥
निर्वृत्तं वर्तमानञ्च तेर्ऽथं जानन्ति वै पुनः ।
भूतादिकानां भूतानां षष्ठः सर्ग स उच्यते॥४७.२९॥
ते परिग्राहिणः सर्वे संविभागरतास्तथा ।
चोदनाश्चाप्यशीलाश्च ज्ञेया भूतादिकाश्च ते॥४७.३०॥
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ।
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते॥४७.३१॥
वैकारिकस्तृतीयस्तु सर्गश्चैन्द्रियकः स्मृतः ।
इत्येष प्राकृतः सर्गः संभूतो बुद्धैपूर्वकः॥४७.३२॥
मुख्यः सर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्स्त्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः॥४७.३३॥
तथोर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।
ततोर्ऽवाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः॥४७.३४॥
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः॥४७.३५॥
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ।
इत्येते वै समाख्याता नव सर्गाः प्रजापतेः॥४७.३६॥
इति श्री मार्कण्डेयपुराणे प्राकृतवैकृतसर्गो नाम सप्तचात्वारिंशोऽध्यायः
अष्टचत्वारिंशोऽध्यायः- ४८
क्रौष्टुकिरुवाच
समासात् कथिता सृष्टिः सम्यग् भगवता मम ।
देवादीनां भवं ब्रह्मन् विस्तरात्तु ब्रवीहि मे॥४८.१॥
मार्कण्डेय उवाच
कुशलाकुशलैर्ब्रह्मन् ! भाविता पूर्वकमर्मभिः ।
ख्याता तथा ह्यनिर्मुक्ताः प्रलये ह्यु पसंहृताः॥४८.२॥
देवाद्याः स्थावरान्ताश्च प्रजा ब्रह्मंश्चतुर्विधाः ।
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तदा॥४८.३॥
ततो देवासुरान् पितॄन् मानुषांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत्॥४८.४॥
युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत् प्रजापतेः ।
सिसृक्षोर्जघनात् पूर्वमसुरा जज्ञिरे ततः॥४८.५॥
उत्ससर्ज ततस्तान्तु तमोमात्रात्मिकां तनुम् ।
सापविद्धा तनुस्तेन सद्यो रात्रिरजायत॥४८.६॥
अन्यां तनुमुपादाय सिसृक्षुः प्रीतिमाप सः ।
सत्त्वोद्रेकास्ततो देवा मुखतस्तस्य जज्ञिरे॥४८.७॥
उत्ससर्ज च भूतेशस्तनुं तामप्यसौ विभुः ।
सा चापविद्धा दिवसं सत्त्वप्रायमजायत्॥४८.८॥
सत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे॥४८.९॥
सृष्ट्वा पितॄनुत्ससर्ज तनुं तामपि स प्रभुः ।
सा चोत्सृष्टाभवत् सन्ध्या दिवननक्तान्तरस्थिता॥४८.१०॥
रजोमात्रात्मिकामन्यां तनुं भेजेऽथ स प्रभुः ।
ततो मनुष्याः सम्भूता रजोमात्रासमुद्भवाः॥४८.११॥
सृष्ट्वा मनुष्यान् स विभुरुत्ससर्ज तनुं ततः ।
ज्योत्स्ना समभवत् सा च नक्तान्तेऽहर्मुखे च या॥४८.१२॥
इत्येतास्तनवस्तस्य देवदेवस्य धीमतः ।
ख्याता रात्र्यहनी चैव सन्ध्या ज्योत्स्ना च वै द्विज॥४८.१३॥
ज्योत्स्तना सन्ध्या तथैवाह---सत्त्वमात्रात्मकं त्रयम् ।
तमोमात्रात्मिका रात्रिः सा वै तस्मात् त्रियामिका॥४८.१४॥
तस्माद् देवा दिवा रात्रावसुरास्तु बलान्विताः ।
ज्योत्स्नागमे च मनुजाः सन्ध्यायां पितरस्तथा॥४८.१५॥
भवन्ति बलिनोऽधृष्या विपक्षाणां न संशयः ।
तद्विपर्ययमासाद्य प्रयान्ति च विपर्ययम्॥४८.१६॥
ज्योत्स्नो रात्र्यहनी सन्ध्या चत्वार्येतानि वै प्रभोः ।
ब्रह्मणस्तु शरीराणि त्रिगुणोपश्रितानि तु॥४८.१७॥
चत्वार्येतान्यथोत्पाद्य तनुमन्यां प्रजापतिः ।
रजस्तमोमयीं रात्रौ जगृहे क्षुत्तृडन्वितः॥४८.१८॥
तदन्धकारे क्षुत्क्षामानसृजद् भगवानजः ।
विरूपान् श्मश्रुलानत्तुमारब्धास्ते च तां तनुम्॥४८.१९॥
रक्षाम इति तेभ्योऽन्ये य ऊचुस्ते तु राक्षसाः ।
खादाम इति ये चोचुस्ते यक्षा यक्षणात् द्विज॥४८.२०॥
तान् दृष्ट्वा ह्यप्रियेणास्य केशाः शीर्यन्त वेधसः ।
समारोहणहीनाश्च शिरसो ब्रह्मणस्तु ते॥४८.२१॥
सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः ।
सर्पान् दृष्ट्वा ततः क्रोधात् क्रोधात्मानो विनिर्ममे॥४८.२२॥
वर्णेन कपिलेनोग्रास्ते भूताः पिशिताशनाः ।
ध्यायतो गां ततस्तस्य गन्धर्वा जज्ञिरे सुताः॥४८.२३॥
जज्ञिरे पिबतो वाचं गन्धर्वास्तेन ते स्मृताः ।
अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः॥४८.२४॥
ततः स्वदेहतोऽन्यानि वयांसि पशवोऽसृजत् ।
मुखतोऽजाः ससर्जाथ वक्षसश्चावयोऽसृजत्॥४८.२५॥
गावश्चैवोदराद् ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे ।
पद्भ्याञ्चाश्वान् स मातङ्गान् रासबान् शशकान् मृगान्॥४८.२६॥
उष्ट्रानश्वतरांश्चैव नानारूपाश्च जातयः ।
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे॥४८.२७॥
एवं पश्वोषधीः सृष्ट्वा ह्ययजच्चाध्वरे विभुः ।
तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा॥४८.२८॥
गौरजः पुरुषो मेषो अश्वाश्वतरगर्दभाः ।
एतान् ग्राम्यान् पशूनाहुरारण्यांश्च निबोध मे॥४८.२९॥
श्वापदं द्विखुरं हस्ती वानराः पक्षिपञ्चमाः ।
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः॥४८.३०॥
गायत्रीञ्च ऋचञ्चैव त्रिवृत् सोमं रथन्तरम् ।
अग्निष्टोमञ्च यज्ञानां निर्ममे प्रथमान्मुखात्॥४८.३१॥
यजूंषि त्रैष्टुभं धन्दः स्तोमं पञ्चदशन्तथा ।
बृहत् साम तथोकथञ्च दक्षिणादसृजन्मुखात्॥४८.३२॥
सामानि जगतीच्छन्दः स्तोमं पञ्चदशन्तथा ।
वैरूपमतिरात्रञ्च निर्ममे पश्चिमान्मुखात्॥४८.३३॥
एकविशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्॥४८.३४॥
विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि च ।
वयांसि च ससर्जादौ कल्पस्य भगवान् विभुः॥४८.३५॥
उच्चावचानि भूतानि गात्रेभ्यस्तलस्य जज्ञिरे ।
सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन् प्रजाः॥४८.३६॥
ततोऽसृजत् स भूतानि स्थावराणि चराणि च ।
यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसाङ्गणान्॥४८.३७॥
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।
अव्ययञ्च व्ययञ्चैव यदिदं स्थाणुजङ्गमम्॥४८.३८॥
तेषां ये यानि कर्माणि प्राक् सृष्टेः प्रतिपेदिरे ।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः॥४८.३९॥
हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते॥४८.४०॥
इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः ।
नानात्वं विनियोगञ्च धातैव व्यदधात् स्वयम्॥४८.४१॥
नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ देवादीनाञ्चकार सः॥४८.४२॥
ऋषीणां नामधेयानि याश्च देवेषु सृष्टयः ।
शर्वर्यन्ते प्रसूतानामन्येषाञ्च ददाति सः॥४८.४३॥
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु॥४८.४४॥
एवंविधाः सृष्टयस्तु ब्रह्मणोऽव्यक्तजन्मनः ।
शर्वर्यन्ते प्रबुद्धस्य कल्पे कल्पे भवन्ति वै॥४८.४५॥
इति श्रीमार्कण्डेयपुराणे सृष्टिप्रकारणनामाष्टचत्वारिंशोऽध्यायः
ऊनपञ्चाशोऽध्यायः- ४९
क्रौष्टुकिरुवाच
अर्वाक्स्त्रोतस्तु कथितो भवता यस्तु मानुषः ।
ब्रह्मन् ! विस्तरतो ब्रूहि ब्रह्मा समसृजद्यथा॥४९.१॥
यथा च वर्णानसृजद्यद् गुणाश्च महामते ।
यच्च येषां स्मृतं कर्म विप्रादीनां वदस्व तत्॥४९.२॥
मार्कण्डेय उवाच
ब्रह्मणः सृजतः पूर्वं सत्याभिध्यायिनस्तथा ।
मिथुनानां सहस्रन्तु मुखात् सोऽथासृजन्मुने॥४९.३॥
जातास्ते ह्यु पपद्यन्ते सत्त्वोद्रिक्ताः स्वतेजसः ।
सहस्रमन्यद्वक्षस्तो मिथुनानां ससर्ज ह॥४९.४॥
ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यमर्षिणः ।
ससर्जान्यते सहस्रन्तु द्वन्द्वानामूरुतः पुनः॥४९.५॥
रजस्तमोभ्यामुद्रिक्ता ईहाशीलास्तु ते स्मृताः ।
पद्भ्यां सहस्रमन्यच्च मिथुनानां ससर्ज ह॥४९.६॥
उद्रिक्तास्तमसा सर्वे निः श्रीका ह्यल्पचेतसः ।
ततः संहर्षमाणास्ते द्वन्द्वोत्पन्नास्तु प्राणिनः॥४९.७॥
अन्योन्यहृर्च्छ्याविष्टा मैथुनायोपचक्रमुः ।
ततः प्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः॥४९.८॥
मासि मास्यार्तवं यत् तु न तदासीत्तु योषिताम् ।
तस्मात्तदा न सुषुवुः सेवितैरपि मैथुनैः॥४९.९॥
आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ताः सकृत् ।
ततः प्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः॥४९.१०॥
ध्यानेन मनसा तासां प्रजानां जायते सकृत् ।
शब्दादिर्विषयः शुद्धः प्रत्येकं पञ्चलक्षणः॥४९.११॥
इत्येषा मानुषी सृष्टिर्या पूर्वं वै प्रजापतेः ।
तस्यान्ववायसम्भूता यैरिदं पूरितं जगत्॥४९.१२॥
सरित्सरः समुद्रांश्च सेवन्ते पर्वतानपि ।
तास्तदा ह्यल्पशीतोष्णा युगे तस्मिंश्चरन्ति वै॥४९.१३॥
तृप्तिं स्वाभाविकीं प्राप्ता विषयेषु महामते ।
न तासां प्रतिघातोऽस्ति न द्वेषो नापि मत्सरः॥४९.१४॥
पर्वतोदधिसेविन्यो ह्यनिकेतास्तु सर्वशः ।
ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः॥४९.१५॥
पिशाचोरगरक्षांसि तथा मत्सरिणो जनाः ।
पशवः पक्षिणश्चैव नक्रा मत्स्याः सरीसृपाः॥४९.१६॥
अवारका ह्यण्डजा वा ते ह्यधर्मप्रसूतयः ।
न मूलफलपुष्पाणि नार्तवा वत्सराणि च॥४९.१७॥
सर्वकालसुखः कालो नात्यर्थं घर्मशीतता ।
कालेन गच्छता तेषां चित्रा सिद्धिरजायत॥४९.१८॥
ततश्च तेषां पूर्वाह्ने मध्याह्ने च वितृप्तता ।
पुनस्तथेच्छतां तृप्तिरनायासेन साभवत्॥४९.१९॥
इच्छताञ्च तथायासो मनसः समजायत ।
अपां सौक्ष्म्यं ततस्तासां सिद्धिर्नानारसोल्लसा॥४९.२०॥
समजायत चैवान्या सर्वकामप्रदायिनी ।
असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः॥४९.२१॥
तासां विना तु संकल्पं जायन्ते मिथुनाः प्रजाः ।
समं जन्म च रूपञ्च म्रियन्ते चैव ताः समम्॥४९.२२॥
अनिच्छाद्वेषसंयुक्ता वर्तन्ते तु परस्परम् ।
तुल्यरूपायुषः सर्वा अधमोत्तमतां विना॥४९.२३॥
तत्वारि तु सहस्राणि वर्षाणां मानुषाणि तु ।
आयुः प्रमाणं जीवन्ति न च क्लेशाद्विपत्तयः॥४९.२४॥
क्वचित् क्वचित् पुनः साभूत् क्षितिर्भाग्येन सर्वशः ।
कालेन गच्छता नाशमुपयान्ति यथा प्रजाः॥४९.२५॥
तथा ताः क्रमशो नाशं जग्मुः सर्वत्र सिद्धयः ।
तासु सर्वासु नष्टासु नभसः प्रच्युता नराः॥४९.२६॥
प्रायशः कल्पवृक्षास्ते संभूता गृहसंज्ञिताः ।
सर्वे प्रत्युपभोगाश्च तासं तेभ्यः प्रजायते॥४९.२७॥
वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे तदा ।
ततः कालेन वै रागस्तासामाकस्मिकोऽभवत्॥४९.२८॥
मासि मास्यार्तवोत्पत्त्या गर्भोत्पत्तिः पुनः पुनः ।
रागोत्पत्त्या ततस्तासां वृक्षास्ते गृहसंज्ञिताः॥४९.२९॥
ब्रह्मन्नन्वपरेषान्तु पेतुः शाखा महीरुहाम् ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च॥४९.३०॥
तेष्वेव जायते तेषां गन्धवर्णरसान्वितम् ।
अमाक्षिकं माहवीर्यं पुटके पुटके मधु॥४९.३१॥
तेन वा वर्तयन्ति स्म मुखे त्रेयायुगस्य वै ।
ततः कालान्तरेणैव पुनर्लोभान्वितास्तु ताः॥४९.३२॥
वृक्षांस्ताः पर्यगृह्णन्त ममत्वाविष्टचेतसः ।
नेशुस्तेनापचारेण तेऽपि तासां महीरुहाः॥४९.३३॥
ततो द्वन्द्वान्यजायन्ते शीतोष्णक्षुन्मुखानि वै ।
तास्तद्द्वन्द्वोपघातार्थं चक्रुः पूर्वं पुराणि तु॥४९.३४॥
मरुधन्वषु दुर्गेषु पर्वतेषु दरीषु च ।
संश्रयन्ति च दुर्गाणि वार्क्षं पार्वतमौदकम्॥४९.३५॥
कृत्रिमञ्च तथा दुर्गं मित्वा मित्वात्मनो।ङ्गुलैः ।
मानार्थानि प्रमाणानि तास्तु पूर्वं प्रचक्रिरे॥४९.३६॥
परमाणुः परं सूक्ष्मं त्रषरेणुर्महीरजः ।
बालाग्रञ्चैव लिक्षां च यूकां चाथ यवोदरम्॥४९.३७॥
क्रमादष्टगुणान्याहुर्यवानष्टौ तथाङ्गुलम् ।
षडङ्गुलं पदं तच्च वितस्तिर्द्विगुणं स्मृतम्॥४९.३८॥
द्वे वितस्ती तथा हस्तो ब्राह्म्यतीर्थादिवेष्टनः ।
चतुर्हस्तं धनुर्दण्डो नाडिकार्युगमेव च॥४९.३९॥
धनुषां द्वे सहस्रे तु गव्यूतिस्तच्चतुर्गुणम् ।
प्रोक्तञ्च योजवनं प्राज्ञैः संख्यानार्थमिदं परम्॥४९.४०॥
चतुर्णामथ दुर्गाणां स्वसमुत्थानि त्रीणि तु ।
चतुर्थं कृत्रिमं दुर्गं ते चक्रुर्यत्नतस्तु वै॥४९.४१॥
पुरञ्च खेटकञ्चैव तद्वद् द्रोणीमुखं द्विज ।
शाखानगरकञ्चापि तथा कर्वटकं द्रमी॥४९.४२॥
ग्रामं सघोषविन्यासं तेषु चावसथान् पृथक् ।
सोत्सेधवप्रकारञ्च सर्वतः परिखावृतम्॥४९.४३॥
योजनार्धार्धविष्कम्भमष्टभागायतं पुरम् ।
प्रागुदक्प्रवणं शस्तं शुद्धवंशबहिर्गमम्॥४९.४४॥
तदर्धेन तथा खेटं तत्पादेन च कर्वटम् ।
न्यूनं द्रोणीमुखं तस्मादन्तभागेन चोच्यते॥४९.४५॥
प्राकारपरिखाहीनां पुरं खर्वटमुच्यते ।
शाखानगरकञ्चान्यन्मन्त्रिसामन्तभुक्तिमत्॥४९.४६॥
तथा शूद्रजनप्रायाः स्वसमृद्धिकृषीबलाः ।
क्षेत्रोपभोग्यभूमध्ये वसतिर्ग्रामसंज्ञिता॥४९.४७॥
अन्यस्मान्नगरादेर्या कार्यमुद्दिश्य मानवैः ।
क्रियते वसतिः सा वै विज्ञेया वसतिर्नरैः॥४९.४८॥
दुष्टप्रायो विना क्षेत्रैः परभूमिचरो बली ।
ग्राम एव द्रमीसंज्ञो राजवल्लभसंश्रयः॥४९.४९॥
शकटारूढभाण्डैश्च गोपालैर्विपणं विना ।
गोसमूहैस्तथा घोषो यत्रेच्छाभूमिकेतनः॥४९.५०॥
त एवं नगरादींस्तु कृत्वा वासार्थमात्मनः ।
निकेतनानि द्वन्द्वानां चक्रुरावसथाय वै॥४९.५१॥
गृहाकारा यथा पूर्वं तेषामासन्नहीरुहाः ।
तथा संस्मृत्य तत्सर्वं चक्रुर्वेश्मानि ताः प्रजाः॥४९.५२॥
वृक्षस्यैवङ्गताः शाखास्तथैवञ्चापरी गताः ।
नताश्चैवोन्नताश्चैव तद्वच्छाखाः प्रचक्रिरे॥४९.५३॥
याः शाखाः कल्पवृक्षाणां पूर्वमासन् द्विजोत्तम ।
ता एव शाखा गेहानां शालात्वं तेन तासु तत्॥४९.५४॥
कृत्वा द्वन्द्वोपघातन्ते वार्तोपायमचिन्तयन् ।
नष्टेषु मधुना सार्धं कल्पवृक्षेष्वशेषतः॥४९.५५॥
विषादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधार्दिताः ।
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतामुखे तदा॥४९.५६॥
वार्तास्वसाधिता ह्यन्या वृष्टिस्तासां निकामतः ।
तासां वृष्ट्युदकानीह यानि निम्नगतानि वै॥४९.५७॥
वृष्ट्यावरुद्धैरभवत् स्त्रोतः खातानि निम्नगाः ।
ये पुरस्तादपां स्तोका आपन्नाः पृथिवीतले॥४९.५८॥
ततो भूमेश्च संयोगादोषध्यस्तास्तदा भवन् ।
अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश॥४९.५९॥
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे ।
प्रादुर्भावस्तु त्रेतायामाद्योऽयमौषधस्य तु॥४९.६०॥
तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे मुने ।
रागलोभौ समासाद्य प्रजाश्चाकस्मिकौ तदा॥४९.६१॥
ततस्ताः पर्यग्वह्णन्त नदीक्षेत्राणि पर्वतान् ।
वृक्षगुल्मौषधीश्चैवमात्मन्यायाद्यथाबलम्॥४९.६२॥
तेन दोषेण ता नेशुरौषध्यो मिषतां द्विज ।
अग्रसद् भूर्युगपत्तास्तदौषध्यो महामते॥४९.६३॥
पुनस्तासु प्रणष्टासु विभ्रान्तास्ताः पुनः प्रजाः ।
ब्रह्माणं शरणं जग्मुः क्षुधार्ताः परमेष्ठिनम्॥४९.६४॥
स चापि तत्त्वतो ज्ञात्वा तदा ग्रस्तां वसुन्धराम् ।
वत्सं कृत्वा सुमेरुन्तु दुदोह भगवान् विभुः॥४९.६५॥
दुग्धेयं गौस्तदा तेन शस्यानि पृथिवीतले ।
जज्ञिरे तानि बीजानि ग्राम्यारण्यास्तु ताः पुनः॥४९.६६॥
ओषध्यः फलपाकान्ता गणाः सप्तदशा स्मृताः ।
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः॥४९.६७॥
प्रियङ्गवो ह्युदाराश्च कोरदूषाः सचीनकाः ।
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः॥४९.६८॥
आढकाश्चणकाश्चैव गणाः सप्तदश स्मृताः ।
इत्येता ओषधीनान्तु ग्राम्याणां जातयः पुरा॥४९.६९॥
ओषध्यो जज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश ।
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः॥४९.७०॥
प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः ।
श्यामाकास्त्वथ नीवारा यत्तिला सगवेधुकाः॥४९.७१॥
कुरुविन्दा मर्कटकास्तथा वेणुयवाश्च ये ।
ग्राम्यारण्याः स्मृता ह्येता ओषध्यश्च चतुर्दश॥४९.७२॥
यदा प्रसृष्टा ओषध्यो न प्ररोहन्ति ताः पुनः ।
ततः स तासां वृद्ध्यर्थं वार्तोपायञ्चकार ह॥४९.७३॥
ब्रह्मा स्वयम्भूर्भगवान् हस्तसिद्धिञ्च कर्मजाम् ।
ततः प्रभृत्यथौषध्यः कृष्टपच्यास्तु जज्ञिरे॥४९.७४॥
संसिद्धायान्तु वार्तायां ततस्तासां स्वयं प्रभुः ।
मर्यादां स्थापयामास यथान्यायं यथागुणम्॥४९.७५॥
वर्णानामाश्रमाणाञ्च धर्मान् धर्मभृतांवर ।
लोकानां सर्ववर्णानां सम्यग्धर्मार्थपालिनाम्॥४९.७६॥
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम्॥४९.७७॥
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् ।
गान्धर्वं शूद्रजातीनां परिचर्यानुवर्तताम्॥४९.७८॥
अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषान्तु यत् स्थानं तदेव गुरुवासिनाम्॥४९.७९॥
सप्तर्षोणान्तु यत् स्थानं स्मृतं तद्वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयम् ।
योगिनाममृतं स्थानमिति वै स्थानकल्पना॥४९.८०॥
इति श्रीमार्कण्डेयपुराणे सृष्टिप्रकरणे एकोनपञ्चाशदध्यायः
मार्कण्डेय उवाच
ततोऽभिद्यायतस्तस्य जज्ञिरे मानसीः प्रजाः ।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह॥५०.१॥
क्षेत्रज्ञाः समवर्तन्त गात्रेब्यस्तस्य धीमतः ।
ते सर्वे समवर्तन्त ये मया प्रगुदाहृताः॥५०.२॥
देवाद्याः स्थावरान्ताश्च त्रैगुण्यविषयाः स्मृताः ।
एवंभूतानि सृष्टानि स्थावराणि चराणि च॥५०.३॥
यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः ।
अथान्यान्मानसान् पुत्रानु सदृशानात्मनोऽसृजत्॥५०.४॥
भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसन्तथा ।
मरीचिं दक्षमत्रिञ्च वसिष्टञ्चैव मानसम्॥५०.५॥
नव ब्रह्माण इत्येते पुराणे निश्चयङ्गताः ।
ततोऽसृजत् पुनर्ब्रह्मा रुद्रं क्रोधात्मसम्भवम्॥५०.६॥
सङ्कल्पञ्चैव धर्मञ्च पूर्वेषामपि पूर्वजम् ।
सनन्दनादयो ये च पूर्वं सृष्टाः स्वयंभुवा॥५०.७॥
न ते लोकेषु सज्जन्तो निरपेक्षाः समाहिताः ।
सर्वे तेऽनागतज्ञाना वीतरागा विमत्सराः॥५०.८॥
तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः ।
ब्रह्मणोऽभून्महाक्रोधस्तत्रोत्पन्नोर्ऽकसन्निभः॥५०.९॥
अर्धनारीनरवपुः पुरुषोऽतिशरीरवान् ।
विभजात्मानमित्युक्त्वा स तदान्तर्दधे ततः॥५०.१०॥
स चोक्तो वै पृथक् स्त्रीत्वं पुरुषत्वं तथाकरोत् ।
बिभेद पुरुषत्वञ्च दशधा चैकधा तु सः॥५०.११॥
सौम्यासौम्यैस्तथा शान्तैः पुंस्त्वं स्त्रीत्वञ्च स प्रभुः ।
बिभेद बहुधा देवः पुरुषैरसितैः सितैः॥५०.१२॥
ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायम्भुवं प्रभुः ।
आत्मनः सदृशं कृत्वा प्रजापालो मनुं द्विज॥५०.१३॥
शतरूपाञ्च तां नारीं तपोनिर्धूतकल्मषाम् ।
स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः॥५०.१४॥
तस्माच्च पुरुषात् पुत्रौ शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ प्रख्यातावात्मकर्मभिः॥५०.१५॥
कन्ये द्वे च तथा ऋद्धिं प्रसूतिञ्च ततः पिता ।
ददौ प्रसूतिं दक्षाय तथा ऋद्धिं रुचेः पुरा॥५०.१६॥
प्रजापतिः स जग्राह तयोर्यज्ञः सदक्षिणः ।
पुत्रो जज्ञे महाभाग ! दम्पतीमिथुनं ततः॥५०.१७॥
यज्ञस्य दक्षिणायान्तु पुत्रा द्वादश जज्ञिरे ।
यामा इति समाख्याता देवाः स्वायम्भुवोऽन्तरे॥५०.१८॥
तस्य पुत्रास्तु यज्ञस्य दक्षिणायां सभास्वराः ।
प्रसूत्याञ्च तथा दक्षश्चतस्त्रो विंशतिस्तथा॥५०.१९॥
ससर्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु ।
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा॥५०.२०॥
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ।
पत्न्यर्थे प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः॥५०.२१॥
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ।
ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिस्तथा क्षमा॥५०.२२॥
सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ।
भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः॥५०.२३॥
पुलस्त्यः पुलहश्चैव क्रतुश्च ऋषयस्तथा ।
वसिष्ठोऽत्रिस्तथा वह्निः पितरश्च यथाक्रमम्॥५०.२४॥
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ।
श्रद्धा कामं श्रीश्च दर्पं नियमं धृतिरात्मजम्॥५०.२५॥
सन्तोषञ्च तथा तुष्टिर्लोभं पुष्टिरजायत ।
मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च॥५०.२६॥
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ।
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत॥५०.२७॥
सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मयोनयः ।
कामादतिमुदं हर्षं धर्मपौत्रमसूयत॥५०.२८॥
हिंसा भार्या त्वधर्मस्य तस्यां जज्ञे तथानृतम् ।
कन्या च निरृतिस्तस्यां सुतौ द्वौ नरकं भयम्॥५०.२९॥
माया च वेदना चैव मिथुनं द्वयमेतयोः ।
तयोर्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम्॥५०.३०॥
वेदनात्मसुतञ्चापि दुःखं जज्ञेऽथ रौरवात् ।
मृत्योर्व्याधि-जरा-शोक-तृष्णा-क्रोधाश्च जज्ञिरे॥५०.३१॥
दुः खोद्भवाः स्मृता ह्येते सर्वे वाधर्मलक्षणाः ।
नैषां भार्यास्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः॥५०. ३२॥
निरृतिश्च तथा चान्या मृत्योर्भार्याभवन्मुने ।
अलक्ष्मीर्नाम तस्याञ्च मृत्योः पुत्राश्चतुर्दश॥५०.३३॥
अलक्ष्मीपुत्रका ह्येते मृत्योरादेशकारिणः ।
विनाशकालेषु नरान् भजन्त्येते शृणुष्व तान्॥५०.३४॥
इन्द्रियेषु दशस्वेते तथा मनसि च स्थिताः ।
स्वे स्वे नरं स्त्रियं वापि विषये योजयन्ति हि॥५०.३५॥
अथेन्द्रियाणि चाक्रम्य रागक्रोधादिभिर्नरान् ।
योजयन्ति यथा हानिं यान्त्यधर्मादिभिर्द्विज॥५०.३६॥
अहङ्कारगतश्चान्यस्तथान्यो बुद्धिसंस्थितः ।
विनाशाय नराः स्त्रीणां यतन्ते महोसंश्रिताः॥५०.३७॥
तथैवान्यो गृहे पुंसां दुः सहो नाम विश्रुतः ।
क्षुत्क्षामोऽधोमुखो नग्रश्चीरी काकसमस्वनः॥५०.३८॥
स सर्वान् खादितुं सृष्टो ब्रह्मणा तमसो निधिः ।
दंष्ट्राकरालमत्यर्थं विवृतास्यं सुभैरवम्॥५०.३९॥
तमत्तुकाममाहेदं ब्रह्मा लोकपितामहः ।
सर्वब्रह्ममयः शुद्धः कारणं जगतोऽव्ययः॥५०.४०॥
ब्रह्मोवाच
नात्तव्यन्ते जगदिदं जहि कोपं शमं व्रज ।
त्यजैनान्तामसी वृत्तिमपास्य रजसः कलाम्॥५०.४१॥
दुः सह उवाच
क्षुत्क्षामोऽस्मि जगन्नाथ ! पिपासुश्चापि दुर्बलः ।
कथं तृप्तिमियान्नाथ ! भवेयं बलवान् कथम् ।
कश्चाश्रयो ममाक्याहि वर्तेयं यत्र निर्वृतः॥५०.४२॥
ब्रह्मोवाच
तवाश्रयो गृहं पुंसां जनश्चाधार्मिको बलम् ।
पुष्टिं नित्यक्रियाहान्या भवान् वत्स ! गमिष्यति॥५०.४३॥
वृथास्फोटाश्च ते वस्त्रमाहारञ्च ददामि ते ।
क्षतं कीटावपन्नञ्च तथा श्वबिरवेक्षितम्॥५०.४४॥
भग्नभाणागतन्तद्वन्मुखवातोपशामितम् ।
उच्छिष्टापक्वमास्विन्नमवलीढमसंस्कृतम्॥५०.४५॥
भग्नासनस्थितैर्भुक्तमासन्नागतमेव च ।
विदिङ्मुखं सन्ध्ययोश्च नृत्यवाद्यस्वनाकुलम्॥५०.४६॥
उदक्योपहतं भुक्तमुदक्या दृष्टमेव च ।
यच्चोपघातवत् किञ्चिद् भक्ष्यं पेयमथापि वा॥५०.४७॥
एतानि तव पुष्ट्यर्थमन्यच्चापि ददामि ते ।
अश्रद्धया हुतं दत्तमस्नातैर्यदवज्ञया॥५०.४८॥
यन्नाम्बुपूर्वकं क्षिप्तमनर्थोकृतमेव च ।
त्यक्तुमाविष्कृतं यत् तु दत्तं चैवातिविस्मयात्॥५०.४९॥
दुष्टं क्रुद्धार्तदत्तञ्च यक्ष तद्भागि तत् फलम् ।
यच्च पौनर्भवः किञ्चित् करोत्यामुष्मिकं क्रमम्॥५०.५०॥
यच्च पौनर्भवा योषित् तद्यक्ष ! तव तृप्तये ।
कन्याशुल्कोपधानाय समुपास्ते धनक्रियाः॥५०.५१॥
तथैव यक्ष ! पुष्ट्यर्थमसच्छास्त्रक्रियाश्च याः ।
यच्चार्थनिर्वृतं किञ्चिदधीतं यन्न सत्यतः॥५०.५२॥
तत सर्वं तव कालांश्च ददामि तव सिद्धये ।
गुर्विण्यभिगमे सन्ध्यानित्यकार्यव्यतिक्रमे॥५०.५३॥
असच्छास्त्रक्रियालापदूषितेषु च दुः सह ।
तवाभिभवसामर्थ्यं भविष्यति सदा नृषु॥५०.५४॥
पङ्क्तिभेदे वृथापाके पाकभेदे तथा क्रिया ।
नित्यञ्च गेहकलहे भविता वसतिस्तव॥५०.५५॥
अपोष्यमाणे च तथा भृत्ये गोवाहनादिके ।
असन्ध्याभ्युक्षितागारे काले त्वत्तो भयं नृणाम्॥५०.५६॥
नक्षत्रग्रहपीडासु त्रिविधोत्पातदर्शने ।
अशान्तिकपरान् यक्ष ! नरानभिभविष्यसि॥५०.५७॥
वृथोपवासिनो मर्त्या द्यूतस्त्रीषु सदा रताः ।
त्वद्भाषणोपकर्तारो वैडालव्रतिकाश्च ये॥५०.५८॥
अब्रह्मचारिणाधीतमिज्या चाविदुषा कृता ।
तपोवने ग्राम्यभुजां तथैवानिर्वजितात्मनाम्॥५०.५९॥
ब्राह्मण-क्षत्रिय-विशां शूद्राणाञ्च स्वकर्मतः ।
परिच्युतानां या चेष्टा परलोकार्थमीप्सताम्॥५०.६०॥
तस्याश्च यत् फलं सर्वं तत् ते यक्ष ! भविष्यति ।
अन्यच्च ते प्रयच्छामि पुष्ट्यर्थं सन्निबोध तत्॥५०.६१॥
भवतो वैश्वदेवान्ते नामोच्चारणपूर्वकम् ।
एतत् तवेति दास्यन्ति भवतो बलिमूर्जितम्॥५०.६२॥
यः संस्कृताशी विधिवच्छुचिरन्तस्तथा बहिः ।
अलोलुपो जितस्त्रीकस्तद्गेहमपवर्जय॥५०.६३॥
पूज्यन्ते हव्यकव्याभ्यां देवताः पितरस्तथा ।
यामयोऽतिथयश्चापि तद्गेहं यक्ष ! वर्जय॥५०.६४॥
यत्र मैत्री गृहे बालवृद्धयोषिन्नरेषु च ।
तथा स्वजनवर्गेषु गृहं तच्चापि वर्जय॥५०.६५॥
योषितोऽबिरता यत्र न वहिर्गमनोत्सुकाः ।
लज्जान्विताः सदा गेहं यक्ष ! तत् परिवर्जय॥५०.६६॥
वयः सम्बन्धयोग्यानि शयनान्यशनानि च ।
यत्र गेहे त्वया यक्ष ! तद्वर्ज्यं वचनान्मम॥५०.६७॥
यत्र कारुणिका नित्यं साधुकर्मण्यवस्थिताः ।
सामान्योपस्करैर्युक्तास्त्यजेथा यक्ष ! तद्गृहम्॥५०.६८॥
यत्रासनस्थास्तिष्ठत्सु गुरु-वृद्ध-द्विजातिषु ।
न तिष्ठन्ति गृहं तच्च वर्ज्यं यक्ष ! त्वया सदा॥५०.६९॥
तरुगुल्मादिभिर्धारं न विद्धं यस्य वेश्मनः ।
मर्मभेदोऽथवा पुंसस्तच्छ्रेयो भवनं न ते॥५०.७०॥
देवतापितृभृत्त्यानामतिथीनाञ्च वर्तनम् ।
य्सायवशिष्टेनान्नेन पुंसस्तस्य गृहं त्यज॥५०. ७१॥
सत्यवाक्यान् क्षमाशीलानहिंस्त्रान्नानुतापिनः ।
पुरुषानीदृशान् यक्ष ! त्यजेथाश्चानसूयकान्॥५०.७२॥
भर्तृशुश्रूषणे युक्तामसत्स्त्रीसङ्गवर्जिताम् ।
कुटुम्बभर्तृशेषान्नपुष्टाञ्च त्यज योषितम्॥५०.७३॥
यजनाध्ययनाभ्यासदानासक्तमतिं सदा ।
याजनाध्यापनादानकृतवृत्तिं द्विजं त्यज॥५०.७४॥
दानाध्ययनयज्ञेषु सदोद्युक्तञ्च दुः सह ।
क्षत्रियं त्यज सच्छुल्कशस्त्राजीवात्तवेतनम्॥५०.७५॥
त्रिभिः पूर्वगुणैर्युक्तं पाशुपाल्य-वणिज्ययोः ।
कृषेश्चावाप्तवृत्तिञ्च त्यज वैश्यमकल्मषम्॥५०.७६॥
दानेझ्या-द्विजशुश्रूषा-तत्परं यक्ष ! सन्त्यज ।
शूद्रञ्च ब्राह्मणादीनांशुश्रूषावृत्तिपोषकम्॥५०.७७॥
श्रुतिस्मृत्यविरोधेन कृतवृत्तिर्गृहे गृही ।
यत्र तत्र च तत्पत्नि तस्यैवानुगतात्मिका॥५०.७८॥
यत्र पुत्रो गुरोः पूजां देवानाञ्च तथा पितुः ।
पत्नी च भर्तुः कुरुते तत्रालक्ष्मीभयं कुतः॥५०.७९॥
सदानुलिप्तं सन्ध्यासु गृहमम्बुसमुक्षितम् ।
कृतपुष्पबलिं यक्ष ! न त्वं शक्नोषि वीक्षितुम्॥५०.८०॥
भास्करादृष्टशय्यानि नित्याग्निसलिलानि च ।
सूर्यावलोकदीपानि लक्ष्म्या गेहानि भाजनम्॥५०.८१॥
यत्रोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।
विषाज्यताम्रपात्राणि तद्गृहं न तवाश्रयः॥५०.८२॥
यत्र कष्टकिनो वृक्षा यत्र निष्पाववल्लरी ।
भार्या पुनर्भूर्वल्मीकस्तद्यक्ष ! तव मन्दिरम्॥५०.८३॥
यस्मिन् गृहे नराः पञ्च स्त्रीत्रयं तावतीश्च गाः ।
अन्धकारेन्धनाग्निश्च तद्गृहं वसतिस्तव॥५०.८४॥
एकच्छागं द्विवालेयं त्रिगवं पञ्चमाहिषम् ।
षडश्वं सप्तमातङ्गं गृहं यक्षाशु शोषय॥५०.८५॥
कुद्दालदात्रपिटकं तद्वत् स्थाल्यादिभाजनम् ।
यत्र तत्रैव क्षिप्तानि तव दद्युः प्रतिश्रयम्॥५०.८६॥
मुसलोलूखले स्त्रीणामास्या तद्वदुदुम्बरे ।
अवस्करे मन्त्रणञ्च यक्षैतदुपकृत् तव॥५०.८७॥
लङ्घ्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ।
तद्वच्छास्त्राणि तत्र त्वं यथेष्टं चर दुः सह॥५०.८८॥
स्थालीपिधाने यत्राग्निर्दत्तो दर्वोफलेन वा ।
गृहे तत्र दुरिष्टानामशेषाणां समाश्रयः॥५०.८९॥
मानुषास्थि गृहे यत्र दिवारात्रं मृतस्थितिः ।
तत्र यक्ष ! तवावासस्तथान्येषाञ्च रक्षसाम्॥५०.९०॥
अदत्त्वा भुञ्जते ये वै बन्धोः पिण्डं तथोदकम् ।
सपिण्डान् सोदकांश्चैव तत्काले तान् नरान् भज॥५०.९१॥
यत्र पद्मपहापद्मौ सुरभिर्मोकाशिनी ।
वृषभैरावतौ यत्र कल्प्यन्ते तद्गृहं त्यज॥५०.९२॥
अशस्त्रा देवता यत्र सशस्त्राश्चाहवं विना ।
कल्प्यन्ते मनुजैरर्च्यास्तत् परित्यज मन्दिरम्॥५०.९३॥
पौरजानपदैर्यत्र प्राक्प्रसिद्धमहोत्सवाः ।
क्रियन्ते पूर्ववद् गेहे न त्वं तत्र गृहे चर॥५०.९४॥
शूर्पवातघटाम्भोभिः स्त्रानं वस्त्राम्बुविप्रुषैः ।
नखाग्रसलिलैश्चैव तान् याहि हतलक्षणान्॥५०.९५॥
देशाचारान् समयान् ज्ञातिधर्मं
जपं होपं मङ्गलं देवतेष्टिम् ।
सम्यक्शौचं विधिवल्लोकवादान्
पुंसस्त्वया कुर्वतो मास्तु सङ्गः॥५०.९६॥
मार्कण्डेय उवाच
इत्युक्त्वा दुः सहं ब्रह्मा तत्रैवान्तरधीयत ।
चकार शासनं सोऽपि तथा पङ्कजजन्मनः॥५०.९७॥
इति श्रीमार्कण्डेयपुराणे यक्षानुशासनो नाम पञ्चाशोऽध्यायः
एकपञ्चाशोऽध्यायः- ५१
दुः सहस्याभवद्भार्या निर्माष्टिर्नाम नामतः ।
जाता कलेस्तु भार्यायामृतौ चाण्डालदर्शनात्॥५१.१॥
तयोरपत्यान्यभवने जगद्व्यापीनि षोडश ।
अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः॥५१.२॥
तन्ताकृष्टिस्तथोक्तिश्च परिवर्तस्तथापरः ।
अङ्गध्रुक् शकुनिश्चैव गण्डप्रान्तरतिस्तथा॥५१.३॥
गर्भहा सस्यहा चान्यः कुमारास्तनयास्तयोः ।
कन्याश्चान्यास्तथैवाष्टौ तासां नामानि मे शृणु॥५१.४॥
नियोजिका वै प्रथमा तथैवान्या विरोधिनी ।
स्वयंहारकरी चैव भ्रामणी ऋतुहारिका॥५१.५॥
स्मृतिबीजहरे चान्ये तयोः कन्येऽतिदारुणे ।
विद्वेषण्यष्टमी नाम कन्या लोकभयावहा॥५१.६॥
एतासां कर्म वक्ष्यामि दोषप्रशमनञ्च यत् ।
अष्टानाञ्च कुमाराणां श्रुयतां द्विजसत्तम॥५१.७॥
दन्ताकृष्टिः प्रसुप्तानां बालानां दशनस्थितः ।
करोति दन्तसंघर्षं चिकीर्षुर्दुः सहागमम्॥५१.८॥
तस्योपशमनं कार्यं सुप्तस्य सितसर्षपैः ।
शयनस्योपरि क्षिप्तैर्मानुषैर्दशनोपरि॥५१.९॥
सुवार्च्चलौषधीस्नानात्तथा सच्छास्त्रकीर्तनात् ।
उष्ट्रकण्टकखड्गास्थि-क्षौमवस्त्रविधारणात्॥५१.१०॥
तिष्ठत्यन्यकुमारस्तु तथास्त्त्वित्यसकृद् ब्रुवन् ।
शुभाशुभे नृणां युङ्क्ते तथोक्तिस्तच्च नान्यथा॥५१.११॥
तस्माददुष्टं मङ्गल्यं वक्तव्यं पण्डितैः सदा ।
दुष्टे श्रुते तथैवोक्ते कीर्तनीयो जनार्दनः॥५१.१२॥
चराचरगुरुर्ब्रह्मा या यस्य कुलदेवता ।
अन्यगर्भे परान् गर्भान् सदैव परिवर्तयन्॥५१.१३॥
रतिमाप्नोति वाक्यञ्च विवक्षोरन्यदेव यत् ।
परिवर्तकसंज्ञोऽयं तस्यापि सितसर्षपैः॥५१.१४॥
रक्षोघ्नमन्त्रजप्यैश्च रक्षां कुर्वोत तत्त्ववित् ।
अन्यश्चानिलवन्नृणामङ्गेषु स्फुरणोदितम्॥५१.१५॥
शुभाशुभं समाचष्टे कुशैस्तस्याङ्गताडनम् ।
काकादिपक्षिसंस्थोऽन्यः श्वादेरङ्गगतोऽपि वा॥५१.१६॥
शुभाशुभञ्च शकुनिः कुमारोऽन्यो ब्रवीति वै ।
तत्रापि दुष्टे व्याक्षेपः प्रारम्भत्याग एव च॥५१.१७॥
शुभे द्रुततरं कार्यमिति प्राह प्रजापतिः ।
गण्डान्तेषु स्थितश्चान्यो मुहूर्तार्धं द्विजोत्तम॥५१.१८॥
सर्वारम्भान् कुमारोऽत्ति शस्ताताञ्चानसूयताम् ।
विप्रोक्त्या देवतास्तुत्या मूलोत्खातेन च द्विज॥५१.१९॥
गोमूत्रसर्षपस्त्रानैस्तदृक्षग्रहपूजनैः ।
पुनश्च धर्मोपनिषत्करणैः शास्त्रदर्शनैः॥५१.२०॥
अनज्ञया जन्मनश्च प्रशमं याति गण्डवान् ।
गर्भे स्त्रीणां तथान्यस्तु फलनाशी सुदारुणः॥५१.२१॥
तस्य रक्षा सदा कार्या नित्यं शौचनिषेवणात् ।
प्रसिद्धमन्त्रलिखनाच्छस्तमाल्यादिधारणात्॥५१.२२॥
विशुद्धगेहावसथादनायासाच्च वै द्विज ।
तथैव सस्यहा चान्यः सस्यर्धिमुपहन्ति यः॥५१.२३॥
तस्यापि रक्षां कुर्वोत जीर्णोपानद्विधारणात् ।
तथापसव्यगमनाच्छाण्डालस्य प्रवेशनात्॥५१.२४॥
बहिर्बलिप्रदानाच्च सोमाम्बुपरिकीर्तनात् ।
परदारपहद्रव्यहरणादिषु मानवान्॥५१.२५॥
नियोजयति चैवान्यान् कन्या सा च नियोजिका ।
तस्याः पवित्रपठनात् क्रोधलोभादिवर्जनात्॥५१.२६॥
नियोजयति मामिष्टविरोधाच्च विवर्जनम् ।
आक्रुष्टोऽन्येन मन्येत ताडितो वा नियोजिका॥५१.२७॥
नियोजयत्येनमिति न गच्छेत्तद्वशं बुधः ।
परदारादिसंसर्गे चित्तमात्मानमेव च॥५१.२८॥
नियोजयत्यत्र सा मामिति प्राज्ञो विचिन्तयेत् ।
विरोधं कुरुते चान्या दम्पत्योः प्रीयमाणयोः॥५१.२९॥
बन्धूनां सुहृदां पित्रोः पुत्रैः सावर्णिकैश्च या ।
विरोधिनी सा तद्रक्षां कुर्वोत बलिकर्मणा॥५१.३०॥
तथातिवादसहनाच्छास्त्राचारनिषेवणात् ।
धान्यं खलाद् गृहाद् गोभ्यः पयः सर्पिस्तथापरा॥५१.३१॥
समृद्धिमृद्धिमद्द्रव्यादपहिन्ति च कन्यका ।
सा स्वयंहारिकेत्युक्ता सदान्तर्धानतत्परा॥५१.३२॥
महानसादर्धसिद्धमन्नागारस्थितं तथा ।
परिविश्यमाणञ्च सदा सार्धं भुङ्क्ते च भुञ्जता॥५१.३३॥
उच्छेषणं मनुष्याणां हरत्यन्नञ्च दुर्हरा ।
कर्मान्तागारशालाभ्यः सिद्धर्धि हरति द्विज॥५१.३४॥
गोस्त्रीस्तनेभ्यश्च पयः क्षीरहारी सदैव सा ।
दध्नो घृतं तिलात्तैलं सुरागारात्तथा सुराम्॥५१.३५॥
रागं कुसुम्भकादीनां कार्पासात् सूत्रमेव च ।
सा स्वयंहारिका नाम हरत्यविरतं द्विज॥५१.३६॥
कुर्याच्छिखण्डिनोर्द्वन्द्वं रक्षार्थं कुत्रिमां स्त्रियम् ।
रक्षाश्चैव गृहे लेख्या वर्ज्याचो च्छिष्टता तथा॥५१.३७॥
होमाग्निदेवताधूपभस्मना च परिष्क्रिया ।
कार्या क्षीरादिभाण्डानामेवं तद्रक्षणं स्मृतम्॥५१.३८॥
उद्वेगं जनयत्यन्या एकस्थाननिवासिनः ।
पुरुषस्य तु या प्रोक्ता भ्रामणी सा तु कन्यका॥५१.३९॥
तस्याथ रक्षां कुर्वोत विक्षिप्तैः सितसर्षपैः ।
आसने शयने चोर्व्यां यत्रास्ते स तु मानवः॥५१.४०॥
चिन्तयेच्च नरः पापा मामेषा दुष्टचेतना ।
भ्रामयत्यसकृज्जप्यं भुवः सूक्तं समाधिना॥५१.४१॥
स्त्रीणां पुष्पं हरत्यन्या प्रवृत्तं सा तु कन्यका ।
तथाप्रवृत्तं सा ज्ञेया दौः सहा ऋतहारिका॥५१.४२॥
कुर्वोत तीर्थदेवौकश्चैत्यपर्वतसानुषु ।
नदीसङ्गमखातेषु स्त्रपनं तत्प्रशान्यते॥५१.४३॥
मन्त्रवित् कृततत्त्वज्ञः पर्वसूषसि च द्विज ।
चिकित्साज्ञश्च वै वैद्यः संप्रयुक्तैर्वरौषधैः॥५१.४४॥
स्मृतिञ्चापहरत्यन्या स्त्रीणां सा स्मृतिहारिका ।
विविक्तदेशसेवित्वात्तस्याश्चोपशमो भवेत्॥५१.४५॥
बीजापहारिणी चान्या स्त्रीपुंसोरतिभीषणा ।
मेध्यान्नभोजनैः स्नानैस्तस्याश्चोपशमो भवेत॥५१.४६॥
अष्टमी द्वेषणी नाम कन्या लोकभयावहा ।
या करोति जनद्विष्टं नरं नारीमथापि वा॥५१.४७॥
मधुक्षीरघृताक्तांस्तु शान्त्यर्थं होमयेत्तिलान् ।
कुर्वोत मित्रविन्दाञ्च तथेष्टिन्तत् प्रशान्यते॥५१.४८॥
एतेषान्तु कुमाराणां कन्यानां द्विजसत्तम ।
अष्टत्रिंशदपत्यानि तेषां नामानि मे शृणु॥५१.४९॥
दन्ताकृष्टेरभूत् कन्या विजल्पा कलहा तथा ।
अवज्ञानृतदुष्टोक्तिर्विजल्पा तत्प्रशान्तये॥५१.५०॥
तामेव चिन्तयेत् प्राज्ञः प्रयतश्च गृही भवेत् ।
कलहा कलहं गेहे करोत्यविरतं नृणाम्॥५१.५१॥
कुटुम्बनाशहेतुः सा तत्प्रशान्तिं निशामय ।
दूर्वाङ्कुरान्मधुघृतक्षीराक्तान् बलिकर्मणि॥५१.५२॥
विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्तयेत् ।
भूतानां मातृभिः सार्धं बालकानान्तु शान्तये॥५१.५३॥
विद्यानां तपसाञ्चैव संयमस्य यमस्य च ।
कृष्यां वाणिज्यलाभे च शान्तिं कुर्वन्तु मे सदा॥५१.५४॥
पूजिताश्च यथान्यायं तुष्टिं गच्छन्तु सर्वशः ।
कुष्माण्डा यातुधानाश्च ये चान्ये गणसंज्ञिताः॥५१.५५॥
महादेवप्रसादेन महेश्वरमतेन च ।
सर्व एते नृणां नित्यं तुष्टिमाशु व्रजन्तु ते॥५१.५६॥
तुष्टाः सर्वं निरस्यन्तु दुष्कृतं दुरनुष्ठितम् ।
महापताकजं सर्वं यच्चान्यद्विघ्नकारणम्॥५१.५७॥
तेषामेव प्रसादेन विघ्ना नश्यन्तु सर्वशः ।
उद्वाहेषु च सर्वेषु वृद्धिकर्मंसु चैव हि॥५१.५८॥
पुण्यानुष्ठानयोगेषु गुरुदेवार्चनेषु च ।
जपयज्ञविधानेषु यात्रासु च चतुर्दश॥५१.५९॥
शरीरारोग्यभोग्येषु सुखदानधनेषु च ।
वृद्धबालातुरेष्वेव शान्तिं कुर्वन्तु मे सदा॥५१.६०॥
सोमाम्बुपौ तथाम्भोधिः सविता चानिलानलौ ।
तथोक्तेः कालजिह्वोऽभूत् पुत्रस्तालनिकेतनः॥५१.६१॥
स येषां रसनासंस्थास्तानसाधून् विबाधते ।
परिवर्तसुतौ द्वौ तु विरूपविकृतौ द्विज॥५१.६२॥
तौ तु वृक्षाग्रपरिखाप्राकाराम्भोधिसंश्रयौ ।
गुर्विण्याः परिवर्तन्तौ कुरुतः पादपाणिषु॥५१.६३॥
क्रौष्टुके परिवर्तःस्यात् गर्भस्यान्योदरात्ततः ।
न वृक्षं चैव नैवाद्रिं न प्राकारं महोदधिम्॥५१.६४॥
परिखां वा समाक्रामेदबला गर्भधारिणी ।
अङ्गध्रुक् तनयं लेभे पिशुनं नाम नामतः॥५१.६५॥
सोऽस्थिमज्जागतः पुंसां बलमत्त्यजितात्मनाम् ।
श्येन-काक-कपोतांश्च गृध्रोलूकैश्च वै सुतान्॥५१.६६॥
अवाप शकुनिः पञ्च जगृहुस्तान् सुरासुराः ।
श्येनं जग्राह मृत्युश्च काकं कालो गृहीतवान्॥५१.६७॥
उलूकं निरृतिश्चैव जग्राहातिभयावहम् ।
गृध्रं व्याधिस्तदीशोऽथ कपोतं च स्वयं यमः॥५१.६८॥
एतेषामेव चैवोक्ता भूताः पापोपपादने ।
तस्माच्छ्येनादयो यस्य निलीयेयुः शिरस्यथ॥५१.६९॥
तेनात्मरक्षणायालं शान्तिं कुर्याद्विजोत्तम ।
गेहे प्रसूतिरेतेषां तद्वन्नीडनिवेशनम्॥५१.७०॥
नरस्तं वर्जयेद् गेहं कपोताक्रान्तमस्तकम् ।
श्येनः कपोतो गृध्रश्च काकोलूकौ गृहे द्विज॥५१.७१॥
प्रविष्टः कथयेदन्तं वसतां तत्र वेश्मनि ।
ईदृक् परित्यजेद् गेहं शान्तिं कुर्याच्च पण्डितः॥५१.७२॥
स्वप्नेऽपि हि कपोतस्य दर्शनं न प्रशस्यते ।
षडपत्यानि कथ्यन्ते गण्डप्रान्तरतेस्तथा॥५१.७३॥
स्त्रीणां रजस्यवस्थानं तेषां कालांश्च मे शृणु ।
चत्वार्यहानि पूर्वाणि तथैवान्यत् त्रयोदश॥५१.७४॥
एकादश तथैवान्यदपत्यं तस्य वै दिने ।
अन्यद्दिनाभिगमने श्राद्धदाने तथापरे॥५१.७५॥
पर्वस्वथान्यत् तस्मात्तु वर्ज्यान्येतानि पण्डितैः ।
गर्भहन्तुः सुतो निघ्नो मोहनी चापि कन्यका॥५१.७६॥
प्रविश्य गर्भमत्त्येको भुक्त्वा मोहयतेऽपरा ।
जायन्ते मोहनात्तस्याः सर्पमण्डूककच्छपाः॥५१.७७॥
सरीसृपाणि चान्यानि पुरीषमथवा पुनः ।
षण्मासान् गुर्विणीं मांसमश्नुवानामसंयताम्॥५१.७८॥
वृक्षच्छायाश्रयां रात्रावथवा त्रिचतुष्पथे ।
श्मशानकटभूमिष्ठामुत्तरीयविवर्जिताम्॥५१.७९॥
रुदमानां निशीथेऽथ आविशेत्तामसौ स्त्रियम् ।
शस्यहन्तुस्तथैवैकः क्षुद्रको नाम नामतः॥५१.८०॥
शस्यर्धिं स सदा हन्ति लब्ध्वा रन्ध्रं शृणुष्व तत् ।
अमङ्गल्यदिनारम्भे अतृप्तो वपते च यः॥५१.८१॥
क्षेत्रेष्वनुप्रवेशं वै करोत्यन्तोपसङ्गिषु ।
तस्मात् कल्पः सुप्रशस्ते दिनेऽभ्यर्च्य निशाकरम्॥५१.८२॥
कुर्यादारम्भमुप्तिञ्च हृष्टस्तुष्टः सहायवान् ।
नियोजिकेति या कन्या दुः सहस्य मयोदिता॥५१. ८३॥
जातं प्रचोदिकासंज्ञं तस्याः कन्याचतुष्टयम् ।
मत्तोन्मत्तप्रमत्तास्तु नरान् नारीस्तु ताः सदा॥५१.८४॥
समाविशन्ति नाशाय चोदयन्तीह दारुणम् ।
अधर्मं धर्मरूपेण कामञ्चाकामरूपिणम्॥५१.८५॥
अनर्थञ्चार्थरूपेण मोक्षञ्चामोक्षरूपिणम् ।
दुर्विनीता विना शौचं दर्शयन्ति पृथङ्नरान्॥५१.८६॥
भ्रश्यन्त्याभिः प्रविष्टाभिः पुरुषार्थात् पृथङ्नराः ।
तासां प्रवेशश्च गृहे संध्यारक्ते ह्यथाम्बरे॥५१.८७॥
धाताविधात्रोश्च बलिर्यत्र काले न दीयते ।
भुञ्जतां पिबतां वापि सङ्गिभिर्जलविप्रुषैः॥५१.८८॥
नवनारीषु संक्रान्तिस्तासामाश्वभिजायते ।
विरोधिन्यास्त्रयः पुत्राश्चोदको ग्राहकस्तथा॥५१.८९॥
तमः प्रच्छादकश्चान्यस्तत्स्वरूपं शृणुष्व मे ।
प्रदीपदैलसंसर्गदूषिते लङ्घिते खले॥५१.९०॥
मुषलोलूखले यत्र पादुके वासने स्त्रियः ।
शूर्पदात्रादिकं यत्र पदाकृष्य तथासनम्॥५१.९१॥
यत्रोपलिप्तञ्चानर्च्य विहारः क्रियते गृहे।
दर्वोमुखेन यत्राग्निराहृतोऽन्यत्र नीयते॥५१.९२॥
विरोधिनीसुतास्तत्र विजृम्भन्ते प्रचोदिताः ।
एको जिह्वागतः पुंसां स्त्रीणाञ्चालीकसत्यवान्॥५१.९३॥
चोदको नाम स प्रोक्तः पैशुन्यं कुरुते गृहे ।
अवधानगतश्चान्यः श्रवणस्थोऽतिदुर्मतिः॥५१.९४॥
करोति ग्रहणन्तेषां वचसां ग्राहकस्तु सः ।
आक्रम्यान्यो मनो नॄणां तमसाच्छाद्य दुर्मतिः॥५१.९५॥
क्रोधं जनयते यस्तु तमः प्रच्छादकस्तु सः ।
स्वयंहार्यास्तु चौर्येण जनितन्तनयत्रयम्॥५१.९६॥
सर्वहार्यर्धहारी च वीर्यहारी तथैव च ।
अनाचान्तगृहेष्वेते मन्दाचारगृहेषु च॥५१.९७॥
अप्रक्षालितपादेषु प्रविशत्सु महानसम् ।
खलेषु गोष्ठेषु च वै द्रोहो येषु गृहेषु वै॥५१.९८॥
तेषु सर्वे यथान्यायं विहरन्ति रमन्ति च ।
भ्रामण्यास्तनयस्त्वेकः काकजङ्घ इति स्मृतः॥५१.९९॥
तेनाविष्टो रतिं सर्वो नैव प्राप्नोति वै पुरे ।
भुञ्जन् यो गायते मैत्रे गायते हसते च यः॥५१.१००॥
सन्ध्यामैथुनिनञ्चैव नरमाविशति द्विज ।
कन्यात्रयं प्रसूता सा या कन्या ऋतुहारिणी॥५१.१०१॥
एका कुचहरा कन्या अन्या व्यञ्जनहारिका ।
तृतीया तु समाख्याता कन्यका जातहारिणी॥५१.१०२॥
यस्या न क्रियते सर्वः सम्यग् वैवाहिको विधिः ।
कालातीतोऽथवा तस्या हरत्येका कुचद्वयम्॥५१.१०३॥
सम्यक् श्राद्धमदत्त्वा च तथानर्च्य च मातरम् ।
विवाहितायाः कन्याया हरति व्यञ्जनं तथा॥५१.१०४॥
अग्न्यम्बुशून्ये च तथा विधूपे सूतिकागृहे ।
अदीपशस्त्रमुसले भूतिसर्षपवर्जिते॥५१.१०५॥
अनुप्रविश्य सा जातमपहृत्यात्मसम्भवम् ।
क्षणप्रसविनी बालं तत्रैवोत्सृजते द्विज॥५१.१०६॥
सा जातहारिणी नाम सुघोरा पिशिताशना ।
तस्मात् संरक्षणं कार्यं यत्नतः सूतिकागृहे॥५१.१०७॥
स्मृतिञ्चाप्रयतानाञ्च शून्यागारनिषेवणात् ।
अपहन्ति सुतस्तस्याः प्रचण्डो नाम नामतः॥५१.१०८॥
पौत्रेभ्यस्तस्य संभूता लीकाः शतसहस्रशः ।
चण्डालयोनयश्चाष्टौ दण्डपाशातिभीषणाः॥५१.१०९॥
क्षुधाविष्टास्ततो लीकास्ताश्च चण्डालयोनयः ।
अभ्यधावन्त चान्योन्यमत्तुकामाः परस्परम्॥५१.११०॥
प्रचण्डो वारियित्वा तु तास्ताश्चण्डालयोनयः ।
समये स्थापयामास यादृशे तादृशं शृणु॥५१.१११॥
अद्यप्रभृति लीकानामावासं यो हि दास्यति ।
दण्डं तस्याहमतुलं पातयिष्ये न संशयः॥५१.११२॥
चण्डालयोन्योऽवसथे लीका या प्रसविष्यति ।
तस्याश्च सन्तिः पूर्वा सा च सद्यो नशिष्यति॥५१.११३॥
प्रसूते कन्यके द्वे तु स्त्रीपुंसोर्बोजहारिणी ।
वातरूपामरूपाञ्च तस्याः प्रहरणन्तु ते॥५१.११४॥
वातरूपा निषेकान्ते सा यस्मै क्षिपते सुतम् ।
स पुमान् वातशुक्रत्वं प्रयाति वनितापि वा॥५१.११५॥
तथैव गच्छतः सद्यो निर्बोजत्वमरूपया ।
अस्नाताशी नरो यो वै तथैव पिशिताशनः॥५१.११६॥
विद्वेषिणी तु या कन्या भृकुटीकुटिलानना ।
तस्या द्वौ तनयौ पुंसामपकारप्रकाशकौ॥५१.११७॥
निर्बोजत्वं नरो याति नारी वा शौचवर्जिता ।
पैशुन्याभिरतं लोलमसज्जननिषेवणम्॥५१.११८॥
पुरुषद्वेषिणञ्चैतौ नारमाक्रम्य तिष्ठतः ।
मात्रा भ्रात्रा तथा मित्रैरभीष्टैः स्वजनैः परैः॥५१.११९॥
विद्विष्टो नाशमायाति पुरुषो धर्मतोर्ऽथतः ।
एकस्तु स्वगुणांल्लोके प्रकाशयति पापकृत्॥५१.१२०॥
द्वितीयस्तु गुणान् मैत्रीं लोकस्थामपकर्षति ।
इत्येते दौः सहाः सर्वे यक्ष्मणः सन्ततावथ ।
पापाचाराः समाख्याता यैर्व्याप्तमखिलं जगत्॥५१.१२१॥
इति श्रीमार्कण्डेयपुराणे दुः सहोत्पतिसमापनं नामैकपञ्चाशौऽध्यायः
द्विपञ्चाशोऽध्यायः- ५२
इत्येष तामसः सर्गो ब्रह्मणोऽव्यक्तजन्मनः ।
रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु॥५२.१॥
तनयाश्च तथैवाष्टौ पत्न्यः पुत्राश्च ते तथा ।
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतः प्रभोः॥५२.२॥
प्रादुरासीदथाङ्केऽस्य कुमारो नीललोहितः ।
रुरोद सुस्वरं सोऽथ द्रवंश्च द्विजसत्तम॥५२.३॥
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह ।
नाम देहीति तं सोऽथ प्रत्युवाच जगत्पतिम्॥५२.४॥
रुद्रस्त्वं देव ! नाम्नासि मा रोदीर्धैर्यमावह ।
एवमुक्तस्ततः सोऽथ सप्तकृत्वो रुरोद ह॥५२.५॥
ततोऽन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः ।
स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च वै द्विज॥५२.६॥
भवं शर्वं तथेशानं तथा पशुपतिं प्रभुः ।
भीममुग्रं महादेवमुवाच स पितामहः॥५२.७॥
चक्रे नामान्यथैतानि स्थानान्येषाञ्चकार ह ।
सूर्यो जलं मही वह्निर्वायुराकाशमेव च॥५२.८॥
दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ।
सुवर्चला तथैवोमा विकेशी चापरा स्वधा॥५२.९॥
स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् ।
सूर्यादीनां द्विजश्रेष्ठ ! रुद्राद्यैर्नामभिः सह॥५२.१०॥
शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः ।
स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात् सुतः॥५२.११॥
एवम्प्रकारो रुद्रोऽसौ सतीं भार्यामविन्दत ।
दक्षकोपाच्च तत्याज सा सती स्वं कलेवरम्॥५२.१२॥
हिमवद्दुहिता साभून्मेनायां द्विजसत्तम ।
तस्या भ्राता तु मैनाकः सखाम्भोधेरनुत्तमः॥५२.१३॥
उपयेमे पुनश्चैनामनन्यां भगवान् भवः ।
देवौ धाताविधातारौ भृगोः ख्यातिरसूयत॥५२.१४॥
श्रियञ्च देवदेवस्य पत्नी नारायणास्य या ।
आयातिर्नियतिश्चैव मेरोः कन्ये महात्मनः॥५२.१५॥
धाताविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ ।
प्राणश्चैव मृकण्डुश्च पिता मम महायशाः॥५२.१६॥
मनस्विन्यामहं तस्मात् पुत्रो वेदशिरा मम ।
धूम्रवत्यां समभवत् प्राणस्यापि निबोध मे॥५२.१७॥
प्राणस्य द्युतिमान् पुत्र उत्पन्नस्तस्य चात्मजः ।
अजराश्च तयोः पुत्राः पौत्राश्च बहवोऽभवन्॥५२.१८॥
पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत ।
विरजाः पर्वतश्चैव तस्य पुत्रौ महात्मनः॥५२.१९॥
तयोः पुत्रांस्तु वक्ष्येऽहं वंशसंकीर्तने द्विज ।
स्मृतिश्चाङ्गिरसः पत्नी प्रसूता कन्यकास्तथा॥५२.२०॥
सिनीवाली कुहूश्चैव राका भानुमती तथा ।
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्पषान्॥५२.२१॥
सोमं दुर्वाससञ्चैव दत्तात्रेयञ्च योगिनम् ।
प्रीत्यां पुलस्त्यभार्यायां दत्तोऽन्यस्तत्सुतोऽभवत्॥५२.२२॥
पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ।
कर्दमश्चार्ववीरश्च सहिष्णुश्च सुतत्रयम्॥५२.२३॥
क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः ।
क्रतोस्तु सन्नतिर्भार्या बालखिल्यानसूयत॥५२.२४॥
षष्टिर्यानि सहस्राणि ऋषीणामूर्ध्वरेतसाम् ।
ऊर्जायान्तु वसिष्ठस्य सप्ताजायन्त वै सुताः॥५२.२५॥
रजोगात्रोर्ध्वबाहुश्च सबलश्चानघस्तथा ।
सुतपाः शुक्ल इत्येते सर्वे सप्तर्षयः स्मृताः॥५२.२६॥
योऽसावग्निरभीमानी ब्रह्मणस्तनयोऽग्रजः ।
तस्मात् स्वाहा सुतान् लेभे त्रीनुदारौजसो द्विज॥५२.२७॥
पावकं पवमानञ्च शुचिञ्चापि जलाशिनम् ।
तेषान्तु सन्तातावन्ये चत्वारिंशच्च पञ्च च॥५२.२८॥
कथ्यन्ते बहुशश्चैते पिता पुत्रत्रयञ्च यत् ।
एवमेकोनपञ्चाशद् दुर्जयाः परिकीर्तिताः॥५२.२९॥
पितरो ब्रह्मणा सृष्टा ये व्याख्याता मया तव ।
अग्निष्वात्ता बर्हिषदोऽनग्नयः साग्नयश्च ये॥५२.३०॥
तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा ।
ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज॥५२.३१॥
उत्तमज्ञानसंपन्ने सर्वैः समुदिते गुणैः ।
इत्येषा दक्षकन्यानां कथितापत्यसंततिः ।
श्रद्धावान् संस्मरन्नित्यं प्रजावानभिजायते॥५२.३२॥
इति श्रीमार्कण्डेयपुराणे रुद्रसर्गाभिधानो नाम द्विपञ्चाशोऽध्यायः
त्रिपञ्चाशोऽध्यायः- ५३
स्वायम्भुवं त्वयाख्यातमेतन्मन्वन्तरञ्च यत् ।
तदहं भगवन् ! सम्यक् श्रोतुमिच्छामि कथ्यताम्॥५३.१॥
मन्वन्तरप्रमाणञ्च देवा देवर्षयस्तथा ।
ये च क्षितीशा भगवन् ! देवेन्द्रश्चैव यस्तथा॥५३.२॥
मन्वन्तराणां संख्याता साधिका ह्येकसप्ततिः ।
मानुषेण प्रमाणेन शृणु मन्वन्तरञ्च मे॥५३.३॥
त्रिंशत्कोट्यस्तु संख्याताः सहस्राणि च विंशतिः ।
सप्तषष्टिस्तथान्यानि नियुतानि च संख्यया॥५३.४॥
मन्वन्तरप्रमाणञ्च इत्येतत् साधिकं विना ।
अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम्॥५३.५॥
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि च ।
स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा॥५३.६॥
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ।
षडेते मनवोऽतीतास्तथा वैवस्वतोऽधुना॥५३.७॥
सावर्णिः पञ्च रौच्याश्च भौत्याश्चागामिनस्त्वमी ।
एतेषां विस्तरं भूयो मन्वन्तरपरिग्रहे॥५३.८॥
वक्ष्ये देवानृषींश्चैव यक्षेन्द्राः पितरश्च ये ।
उत्पत्तिं संग्रहं ब्रह्मन् ! श्रूयतामस्य सन्ततिः॥५३.९॥
यच्च तेषामभूत् क्षेत्रं तत्पुत्राणां महात्मनाम् ।
मनोः स्वायम्भुवस्यासन् दश पुत्रास्तु तत्समाः॥५३.१०॥
यैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ।
ससमुद्राकरवती प्रतिवर्षं निवेशिता॥५३.११॥
ससमुद्राकरवती प्रतिवर्षं त्रेतायुगे तथा ।
प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम्भुवस्य च॥५३.१२॥
प्रियव्रतात् प्रजावत्यां वीरात् कन्या व्यजायत ।
कन्या सा तु महाभागा कर्दमस्य प्रजापते॥५३.१३॥
कन्ये द्वे दश पुत्रांश्च सम्राट्कुक्षी च ते उभे ।
तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश॥५३.१४॥
आग्नीध्रो मेधातिथिश्च वपुष्मांश्च तथापरः ।
ज्योतिष्मान्द्युतिमान् भव्यः सवनः सप्त एव ते॥५३.१५॥
प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् ।
द्वीपेषु तेन धर्मेण द्वीपांश्चैव निबोध मे॥५३.१६॥
जम्बुद्वीपे तथाग्नीध्रं राजानं कृतवान् पिता ।
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः॥५३.१७॥
शाल्मलेस्तु वपुष्मन्तं ज्योतिष्मन्तं कुशाह्वये ।
क्रौञ्चद्वीपे द्युतिमन्तं भव्यं शाकाह्वयेश्वरम्॥५३.१८॥
पुष्कराधिपतिञ्चापि सवनं कृतवान् सुतम् ।
महावीतो धातकिश्च पुष्कराधिपतेः सुतौ॥५३.१९॥
द्विधा कृत्वा तयोर्वर्षं पुष्करे संन्यवेशयत् ।
भव्यस्य पुत्राः सप्तासन्नामतस्तान्निबोध मे॥५३.२०॥
जलदश्च कुमारश्च सुकुमारो मनीवकः ।
कुशोत्तरोऽथ मेधावी सप्तमस्तु महाद्रुमः॥५३.२१॥
तन्नामकानि वर्षाणि शाकद्वीपे चकार सः ।
तथा द्युतिमतः सप्त पुत्रास्तांश्च निबोध मे॥५३.२२॥
कुशलो मनुगश्चोष्णः प्राकरश्चार्थकारकः ।
मुनिश्च दुन्दुभिश्चैव सप्तमः परिकीर्तितः॥५३.२३॥
तेषां स्वनामधेयानि क्रौञ्चद्वीपे तथाभवन् ।
ज्योतिष्मतः कुशद्वीपे पुत्रनामाङ्कितानि वै॥५३.२४॥
तत्रापि सप्त वर्षापि तेषां नामानि मे शृणु ।
उद्भिदं वैष्णवञ्चैव सुरथं लम्बनं तथा॥५३.२५॥
धृतिमत् प्राकरञ्चैव कापिलं चापि सप्तमम् ।
वपुष्मतः सुताः सप्त शाल्मलेशस्य चाभवन्॥५३.२६॥
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्युतो मानसश्चैव केतुमान् सप्तमस्तथा॥५३.२७॥
तथैव शाल्मलेस्तेषां समनामानि सप्त वै ।
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै॥५३.२८॥
येषां नामाङ्गितैर्वर्षैः प्लक्षद्वीपस्तु सप्तधा ।
पूर्वं शाकभवं वर्षं शिशिरन्तु सुखोदयम्॥५३.२९॥
आनन्दञ्च शिवञ्चैव क्षेमकञ्च ध्रुवन्तथा ।
प्लक्षद्वीपादिभूतेषु शाकद्वीपान्तिमेषु वै॥५३.३०॥
ज्ञेयः पञ्चसु धर्मश्च वर्णाश्रमविभागजः ।
नित्यः स्वाभाविकश्चैव अहिंसाविधिवर्धितः॥५३.३१॥
पञ्चस्वेतेषु वर्षेषु सर्वसाधारणः स्मृतः ।
अग्नीध्राय पिता पूर्वं जम्बुद्वीपं ददौ द्विज॥५३.३२॥
तस्य पुत्रा बभूवुर्हि प्रजापतिसमा नव ।
ज्येष्ठो नाबिरिति ख्यातस्तस्य किंपुरुषोऽनुजः॥५३.३३॥
हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः ।
वश्यश्च पञ्चमः पुत्रो हिरण्यः षष्ठ उच्यते॥५३.३४॥
कुरुस्तु सप्तमस्तेषां भद्राश्वश्चाष्टमः स्मृतः ।
नवमः केतुमालश्च तन्नाम्ना वर्षसंस्थितिः॥५३.३५॥
यानि किपुरुषाद्यानि वर्जयित्वा हिमाह्वयम् ।
तेषां स्वबावतः सिद्धिः सुखप्राया ह्यत्नतः॥५३.३६॥
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ।
धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः॥५३.३७॥
न वै चतुर्युगावस्था नार्तवा ऋतवो न च ।
आग्नीध्रसूनोर्नाभेस्तु ऋषभोऽभूत् सुतो द्विज॥५३.३८॥
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताद्वरः ।
सोऽभिषिच्यर्षभः पुत्रं महाप्रव्राज्यमास्थितः॥५३.३९॥
तपस्तेपे महाभागः पुलहाश्रमसंश्रयः ।
हिमाह्विं दक्षिणं वर्षं भरताय पिता ददौ॥५३.४०॥
तस्मात् तु भारतं वर्षं तस्य नान्मा महात्मनः ।
भतस्याप्यभूत् पुत्रः सुमतिर्नाम धार्मिकः॥५३.४१॥
तस्मिन् राज्यं समावेश्य भरतोऽपि वनं ययौ ।
एतेषां पुत्रपौत्रैस्तु सप्तद्वीपा वसुन्धरा॥५३.४२॥
प्रियव्रतस्य पुत्रैस्तु भुक्त्वा स्वायम्भुवेऽन्तरे ।
एष स्वायम्भुवः सर्गः कथितस्ते द्विजोत्तम॥५३.४३॥
पूर्वमन्वन्तरे सम्यक् किमन्यत् कथयामि ते॥५३.४४॥
इति श्रीमार्कण्डेयपुराणेठमन्वन्तरकथनंऽ नाम त्रिपञ्चाशोऽध्यायः
चतुःपञ्चाशोऽध्यायः- ५४
कतिद्वीपाः समुद्रा वा पर्वता वा कति द्विज ।
कियन्ति चैव वर्षाणि तेषां नद्यश्च का मुने॥५४.१॥
महाभूतप्रमाणञ्च लोकालोकन्तथैव च ।
पर्यासं परिमाणञ्च गतिञ्चन्द्रार्कयोरपि॥५४.२॥
एतत् प्रब्रूहि मे सर्वं विस्तरेण महामुने॥५४.३॥
शतार्धकोटिविस्तारा पृथिवी कृत्स्त्रशो द्विज ।
तस्या हि स्थानमखिलं कथयामि शृणुष्व तत्॥५४.४॥
ये ते द्वीपा मया प्रोक्ता जम्बुद्वीपादयो द्विज ।
पुष्करान्ता महाभाग ! शृण्वेषां विस्तरं पुनः॥५४.५॥
द्वीपात् तु द्विगुणो द्वीपो जम्बुः प्लक्षोऽथ शाल्मलः ।
कुशः क्रौञ्चस्तथा शाकः पुष्करद्वीप एव च॥५४.६॥
लवणेक्षु-सुरा-सर्पिर्दधि-दुग्धःजलाब्धिभिः ।
द्विगुणैर्द्विगुणैर्वृद्ध्या सर्वतः परिवेष्टिताः॥५४.७॥
जम्बुद्वीपस्य संस्थानं प्रवक्ष्येऽहं निबोध मे ।
लक्षमेकं योजनानां वृत्तौ विस्तारदैर्घ्यतः॥५४.८॥
हिमवान् हेमकूटश्च ऋषभो मेरुरेव च ।
नीलः श्वेतस्तथा शृङ्गी सप्तास्मिन् वर्षपर्वताः॥५४.९॥
द्वौ लक्षयोजनायामौ मध्ये तत्र महाचलौ ।
तयोर्दक्षिणतो यौ तु यौ तथोत्तरतो गिरी॥५४.१०॥
दशभिर्दशभिर्न्यूनैः सहस्रैस्तैः परस्परम् ।
द्विसाहस्त्रोच्छ्रयाः सर्वे तावद्विस्तारिणश्च ते॥५४.११॥
समुद्रान्तः प्रविष्टाश्च षडस्मिन् वर्षपर्वताः ।
दक्षिणोत्तरतो निम्ना मध्ये तुङ्गायता क्षितिः॥५४.१२॥
वेद्यर्धे दक्षिमे त्रीणि त्रीणि वर्षाणि चोत्तरे ।
इलावृतं तयोर्मध्ये चन्द्रार्धाकारवत् स्थितम्॥५४.१३॥
ततः पूर्वेण भद्राश्वं केतुमालञ्च पश्चिमे ।
इलावृतस्य मध्ये तु मेरुः कनकपर्वतः॥५४.१४॥
चतुरशीतिसाहस्त्रस्तस्योच्छ्रायो महागिरेः ।
प्रविष्टः षोडशाधस्ताद्विस्तीर्णः षोडशैव तु॥५४.१५॥
शरावसंस्थितत्वाच्च द्वात्रिंशन्मूर्ध्नि विस्तृतः ।
शुक्लः पीतोऽसितो रक्तः प्राच्यादिषु यथाक्रमम्॥५४.१६॥
विप्रो वैश्यस्तथा शूद्रः क्षत्रियश्च स्ववर्णतः ।
तस्योपरि तथैवाष्टौ पुर्यो दिक्षु यथाक्रमम्॥५४.१७॥
इन्द्रादिलोकपालानां तन्मध्ये ब्रह्मणः सभा ।
योजनानां सहस्राणि चतुर्दश समुच्छ्रिता॥५४.१८॥
अयुतोच्छ्रायास्तस्याधस्तथा विषकम्भवर्वताः ।
प्राच्यादिषु क्रमेणैव मन्दरो गन्धमादनः॥५४.१९॥
विपुलश्च सुपार्श्वश्च केतुपादपशोभिताः ।
कदम्बो मन्दरे केतुर्जम्बुव गन्धमादने॥५४.२०॥
विपुले च तथाश्वत्थः सुपार्श्वे च वटो महान् ।
एकादशशतायामा योजनानामिमे नगाः॥५४.२१॥
जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ ।
आनीलनिषधौ प्राप्तौ परस्परनिरन्तरौ॥५४.२२॥
निषधः पारियात्रश्च मेरोः पार्श्वे तु पश्चिमे ।
यथा पूर्वौ तथा चैतावानीलनिषधायतौ॥५४.२३॥
कैलासो हिमवांश्चैव दक्षिणेन महाचलौ ।
पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ॥५४.२४॥
शृङ्गवान् जारुधिश्चैव तथैवोत्तरपर्वतौ ।
यतैव दक्षिणे तद्वदर्णप्वान्तर्व्यवस्थितौ॥५४.२५॥
मर्यादापर्वता ह्येते कथ्यन्तेऽष्टौ द्विजोत्तम ।
हिमवद्धेमकूटादिपर्वतानां परस्परम्॥५४.२६॥
नवयोजनसाहस्त्रं प्रागुदग्दक्षिणोत्तरम् ।
मेरोरिलावृते तद्वदन्तरे वै चतुर्दिशम्॥५४.२७॥
फलानि यानि वै जम्ब्वाः गन्धमादनपर्वते ।
गजदेहप्रमाणानि पतन्ति गिरिमूर्धनि॥५४.२८॥
तेषां स्त्रावात् प्रभवति ख्याता जम्बूनदीति वै ।
यत्र जाम्बूनदं नाम कनकं सम्प्रजायते॥५४.२९॥
सा परिक्रम्य वै मेरुं जम्बूमूलं पुनर्नदी ।
विशति द्विजशार्दूल ! पीयमाना जनैश्च तैः॥५४.३०॥
भद्राश्वेऽश्वशिरा विष्णुर्भारते कूर्मसंस्थितिः ।
वराहः केतुमाले च मत्स्यरूपस्तथोत्तरे॥५४.३१॥
तेषु नक्षत्रविन्यासाद्विषयाः समवस्थिताः ।
चतुर्ष्वपि द्विजश्रेष्ठ ! ग्रहाभिभवपाठकाः॥५४.३२॥
इति श्रीमार्कण्डेयपुराणे भुवनकोशठजम्बूद्वीपवर्णनंऽ नाम चतुः पञ्चाशोऽध्याय
पञ्चपञ्चाशोऽध्यायः- ५५
शैलेषु मन्दाराद्येषु चतुर्ष्वपि द्विजोत्तम ।
वाननि यानि चत्वारि सरांसि च निबोध मे॥५५.१॥
पूर्वं चैत्ररथं नाम दक्षिणे नन्दनं वनम् ।
वैभ्राजं पश्चिमे शैले सावित्रं चोत्तराचले॥५५.२॥
अरुणोदं सरः पूर्वं मानसं दक्षिणे तथा ।
शीतोदं पश्चिमे मेरोर्महाभद्रं तथोत्तरे॥५५.३॥
शीतार्तश्चक्रमुञ्जश्च कुलीरोऽथ सुकङ्कवान् ।
मणिशैलोऽथ वृषवान् महानीलो भवाचलः॥५५.४॥
सूबिन्दुर्मन्दरो वेणुस्तामसो निषधस्तथा ।
देवशैलश्च पूर्वेण मन्दरस्य महाचलः॥५५.५॥
त्रिकटशिखराद्रिश्च कलिङ्गोऽथ पतङ्गकः ।
रुचकः सानुमांश्चाद्रिस्ताम्रकोऽथ विशाखवान्॥५५.६॥
श्वेतोदरः समूलश्च वसुधारश्च रत्नवान् ।
एकशृङ्गो महाशैलो राजशालः पिपाठकः॥५५.७॥
पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः ।
इत्येते दक्षिणे पार्श्वे मेरोः प्रोक्ता महाचलाः॥५५.८॥
सुरक्षः शिशिराक्षश्च वैदुर्यः कपिलस्तथा ।
पिञ्जरोऽथ महाभद्रः सुरसः पिङ्गलो मधुः॥५५.९॥
अञ्जनः कुक्कुटः कृष्णः पाण्डरश्चालोत्तमः ।
सहस्रशिखरश्चाद्रिः पारियात्रः सशृङ्गवान्॥५५.१०॥
पश्चिमेन तथा मेरोर्विस्कम्भात् पश्चिमाद्वहिः ।
एतेऽचलाः समाख्याताः शृणुष्वन्यांस्तथोत्तरान्॥५५.११॥
शङ्खकूटोऽथ वृषभो हंसनाभस्तथाचलः ।
कपिलेन्द्रस्तथा शैलः सानुमान् नील एव च॥५५.१२॥
स्वर्णशृङ्गी शातशृङ्गी पुष्पको मेघपर्वतः ।
विरजाक्षो वराहाद्रिर्मयूरो जारुधिस्तथा॥५५.१३॥
इत्येते कथिता ब्रह्मन् ! मेरोरुत्तरतो नगाः ।
एतेषां पर्वतानान्तु द्रौण्योऽतीव मनोहराः॥५५.१४॥
वनैरमलपानीयैः सरोभिरुपशोभिताः ।
तासु पुण्यकृतां जन्म मनुष्याणां द्विजोत्तम॥५५.१५॥
एते भौमा द्विजश्रेष्ठ ! स्वर्गाः स्वर्गगुणाधिकाः ।
न तासु पुण्यपापानामपूर्वाणामुपार्जनम्॥५५.१६॥
पुण्योपभोगा एवोक्ता देवानामपि तास्वपि ।
शीतान्ताद्येषु चैतषु शैलेषु द्विजसत्तम॥५५.१७॥
विद्याधराणां यक्षाणां किन्नरोरगरक्षसाम् ।
देवानाञ्च महावासा गन्धर्वाणां च शोभनाः॥५५.१८॥
महापुण्या मनोज्ञैश्च सदैवोपवनैर्युताः ।
सरांसि च मनोज्ञानि सर्वर्तुसुखदोऽनिलः॥५५.१९॥
न चैतेषु मनुष्याणां वैमनस्यानि कुत्रचित् ।
तदेवं पार्थिवं पद्मं चतुष्पत्रं मयोदितम्॥५५.२०॥
भद्राश्चभारताद्यानि पत्राण्यस्य चतुर्दिशम् ।
भारतं नाम यद्वर्षं दक्षिणेन मयोदितम्॥५५.२१॥
तत् कर्मभूमिर्नान्यत्र संप्राप्तिः पुण्यपापयोः ।
एतत् प्रधानं विज्ञेयं यत्र सर्वं प्रतिष्ठितम्॥५५.२२॥
तस्मात् स्वर्गापवर्गौ च मानुष्यनारकावपि ।
तिर्यक्त्वमथवाप्यन्यत् नरः प्राप्नोति वै द्विज॥५५.२३॥
इति श्रीमार्कण्डेयपुराणे भुवनकोशे पञ्चपञ्चाशोऽध्यायः
षट्पञ्चाशोऽध्यायः- ५६
मार्कण्डेय उवाच
धराधरां जगद्योनेः पदं नारायणस्य च ।
ततः प्रवृत्ता या देवी गङ्गा त्रिपथगामिनी॥५६.१॥
सा प्रविश्य सुधायोनिं सोममाधारमम्भसाम् ।
ततः सम्बध्यमानार्करश्मिसङ्गतिपावनी॥५६.२॥
पपात मेरुपृष्ठे च सा चतुर्धा ततो ययौ ।
मेरुकूटतटान्तेभ्यो निपतन्ती ववर्तिता॥५६.३॥
विकीर्यमाणसलिला निरालम्बा पपात सा ।
मन्दराद्येषु पादेषु प्रविभक्तोदका समम्॥५६.४॥
चतुर्ष्वपि पपाताम्बुविभिन्नाङ्घ्रिशिलोच्चया ।
पूर्वा सीतेऽति विख्याता ययौ चैत्ररथं वनम्॥५६.५॥
तत् प्लावयित्वा च ययौ वरुणोदं सरोवनम् ।
शीतान्तञ्च गिरिं तस्मात्ततश्चान्यान् गिरीन् क्रमात्॥५६.६॥
गत्वा भुवं समासाद्य भद्राश्वाज्जलधिं गता ।
तथैवालकनन्दाख्या दक्षिणे गन्धमादने॥५६.७॥
मेरुपादवनं गत्वा नन्दनं देवनन्दनम् ।
मानसञ्च महावेगात् प्लापयित्वा सरोवरम्॥५६.८॥
आसाद्य शैलराजानं रम्यं हि शिखरन्तथा ।
तस्माच्च पर्वतान् सर्वान् दक्षिणोपक्रमोदितान्॥५६.९॥
तान् प्लावयित्वा संप्राप्ता हिमवन्तं महागिरिम् ।
दधार तत्र तां शम्भुर्न मुमोच वृषध्वजः॥५६.१०॥
भघीरथेनोपवासैः स्तुत्या चाराधितो विभुः ।
तत्र मुक्ता च शर्वेण सप्तधा दक्षिणोदधिम्॥५६.११॥
प्रविवेश त्रिधा प्राच्यां प्लावयन्ती महानदी ।
भगीरथरथस्यानु स्त्रोतसैकेन दक्षिणाम्॥५६.१२॥
तथैव पश्चिमे पादे विपुले सा महानदी ।
सुचक्षुरिति विख्याता वैभ्राजं साचलं ययौ । ५६.१३।
शीतोदञ्च सरस्तस्मात् प्लावयन्ती महानदी ।
सुचक्षुः पर्वतं प्राप्ता ततश्च त्रिशिखं गता॥५६.१४॥
तस्मात् क्रमेण चाद्रीणां शिखरेषु निपत्य सा ।
केतुमालं समासाद्य प्रविष्टा लवणोदधिम्॥५६.१५॥
सुपार्श्वन्तु तथैवाद्रिं मेरुपादं हि सा गता ।
(भद्रसोमेति) तत्र सोमेति विख्याता सा ययौ सवितुर्वनम्॥५६.१६॥
तत्पावयन्ती संप्राप्ता महाभद्रं सरोवरम् ।
ततश्च शङ्खकूटं सा प्रयाता वै महानदी॥५६.१७॥
तस्माच्च वृषभादीन् सा क्रमात् प्राप्य शिलोच्चयान् ।
महार्णवमनुप्राप्ता प्लावयित्वोत्तरान् कुरून्॥५६.१८॥
एवमेषा मया गङ्गां कथिता ते द्विजर्षभ ।
जम्बुद्वीपनिवेशश्च वर्षाणि च यथातथम्॥५६.१९॥
वसन्ति तेषु सर्वेषु प्रजाः किंपुरुषादिषु ।
सुखप्राया निरातङ्का न्यूनतोत्कर्षवर्जिताः॥५६.२०॥
नवस्वपि च वर्षेषु सप्त सप्त कुलाचलाः ।
एकैकस्मिंस्तथा देशे नद्यश्चाद्रिविनिः सृताः॥५६.२१॥
यानि किंपुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तम ।
तेषूद्भिज्जानि तोयानि मेघवार्यत्र भारते॥५६.२२॥
वार्क्षो स्वाभाविकी देश्या तोयोत्था मानसी तथा ।
कर्मजा च नृणां सिद्धर्वर्षेष्वेतेषु चाष्टसु॥५६.२३॥
कामप्रदेभ्यो वृक्षेभ्यो वार्क्षो सिद्धिः स्वभावजा ।
स्वाभाविकी समाख्याता तृप्तिर्देश्या च दैशिकी॥५६.२४॥
अपां शौक्ष्म्याच्च तोयोत्था ध्यानोपेता च मानसी ।
उपासनादिकार्यात्तु धर्मजा साप्युदाहृता॥५६.२५॥
न चैतेषु युगावस्था नाध्यो व्याधयो न च ।
पुण्यापुण्यसमारम्भो नैव तेषु द्विजोत्तम॥५६.२६॥
इति श्रीमार्कण्डेयपुराणे गङ्गावतारो नाम षट्पञ्चाशोऽध्यायः
सप्तपञ्चाशोऽध्यायः- ५७
क्रौष्टुकिरुवाच
भगवन् ! कथितन्त्वेतज्जम्बूद्वीपं समासतः ।
यदेतद्भवता प्रोक्तं कर्म नान्यत्र पुण्यदम्॥५७.१॥
पापाय वा महाभाग ! वर्जयित्वा तु भारतम् ।
इतः स्वर्गश्च मोक्षश्च मध्यञ्चान्तञ्च गम्यते॥५७.२॥
न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ।
तस्माद्विस्तरशो ब्रह्मन् ! ममैतद्भारतं वद॥५७.३॥
ये चास्य भेदा यावन्तो यथावत् स्थितिरेव च ।
वर्षोऽयं द्विजशार्दूल ! ये चास्मिन् देशपर्वताः॥५७.४॥
मार्कण्डेय उवाच
भारतस्यास्य वर्षस्य नव भेदान्निबोध मे ।
समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम्॥५७.५॥
इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान् ।
नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा॥५७.६॥
अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ।
योजनानां हसस्त्रं वै द्वीपोऽयं दक्षिणोत्तरात्॥५७.७॥
पूर्वे किराता यस्यान्ते पश्चिमे यवनास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्तः स्थिता द्विज॥५७.८॥
इज्याध्यायवणिज्याद्यैः कर्मभिः कृतपावनाः ।
तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते॥५७.९॥
स्वर्गापवर्गप्राप्तिश्च पुण्यं पापञ्च वै तदा ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः॥५७.१०॥
विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः ।
तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः॥५७.११॥
विस्तारोच्छ्रयिणो रम्या विपुलाश्चात्र सानवः ।
कोलाहलः सवैभ्राजो मन्दरो दर्दुराचलः॥५७.१२॥
वातस्वनो वैद्युतश्च मैनाकः स्वरसस्तथा ।
तुङ्गप्रस्थो नागगिरी रोचनः पाण्डराचलः॥५७.१३॥
पुष्पो गिरिर्दुर्जयन्तो रैवतोर्ऽबुद एव च ।
ऋष्यमूकः सगोमन्तः कूटशैलः कृतस्मरः॥५७.१४॥
श्रीपर्वतश्चकोरश्च शतशोऽन्ये च पर्वताः ।
तैर्विमिश्रा जनपदा म्लेच्छाश्चार्याश्च भागशः॥५७.१५॥
तैः पीयन्ते सरित्श्रेष्ठा यास्ताः सम्यङ्निबोध मे ।
गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा॥५७.१६॥
यमुना च शतद्रुश्च वितस्तेरावती कुहुः ।
गोमती धूतपापा च बाहुदा सदृशद्वती॥५७.१७॥
विपाशा देविका रङ्क्षुर्निश्चीरा गण्डकी तथा ।
कौशिकी चापगा विप्र ! हिमवत्पादनिः सृताः॥५७.१८॥
वेदस्मृतिर्वेदवती वृत्रघ्री सिन्धुरेव च ।
वेण्वा सानन्दनी चैव सदानीरा मही तथा॥५७.१९॥
पारा चर्मण्वती नूपी विदिशा वेत्रवत्यपि ।
शिप्रा ह्यवर्णो च तथा पारियात्राश्रयाः स्मृताः॥५७.२०॥
शोणो महानदश्चैव नर्मदा सुरथाद्रिजा ।
मन्दाकिनी दशार्णा च चित्रकूटा तथापरा॥५७.२१॥
चित्रोत्पला सतमसा करमोदा पिशाचिका ।
तथान्या पिप्पलिश्रोणिर्विपाशा वञ्जुला नदी॥५७.२२॥
सुमेरुजा शुक्तिमती शकुली त्रिदिवाक्रमुः ।
(विन्ध्य) (स्कन्ध) पादप्रसूता वै तथान्या वेगवाहिनी॥५७.२३॥
शिप्रा पयोष्णी निर्विन्ध्या तापी सनिषधावती ।
वेण्या वैतरणी चैव सिनीवाली कुमुद्वती॥५७.२४॥
करतोया महागौरी दुर्गा चान्तः शिरा तथा ।
(ऋक्ष) (विन्ध्य) पादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः॥५७.२५॥
गोदावरी भीमरथा कृष्णा वेण्या तथापरा ।
तुङ्गभद्रा सुप्रयोगा वाह्या कावेर्यथापगा॥५७.२६॥
(सह्य) (विन्ध्य) पादविनिष्क्रान्ता इत्येताः सरिदुत्तमाः ।
कृतमाला ताम्रपर्णो पुष्पजा सूत्पलावती॥५७.२७॥
मलयाद्रिसमुद्भूता नद्यः शीतजलास्त्विमाः ।
पितृसोमर्षिकुल्या च इक्षुका त्रिदिवा च या॥५७.२८॥
लाङ्गूलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ।
ऋषिकुल्या कुमारी च मन्दगा मन्दवाहिनी॥५७.२९॥
कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ।
सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः॥५७.३०॥
विश्वस्य मातरः सर्वाः सर्वपापहराः स्मृताः ।
अन्याः सहस्रशश्चोक्ताः क्षुद्रनद्यो द्विजोत्तम॥५७. ३१॥
प्रावृट्कालवहाः सन्ति सदाकालवहाश्च याः ।
मत्स्याश्वकूटाः कुल्याश्च कुन्तलाः काशिकोशलाः॥५७.३२॥
अथर्वाश्चार्कलिङ्गाश्च मलकाश्च वृकैः सह ।
मध्यदेश्या जनपदाः प्रायशोऽमी प्रकीर्तिताः॥५७.३३॥
सह्यस्य चोत्तरे या तु यत्र गोदावरी नदी ।
पृथिव्यामपि कृतस्त्रायां स प्रदेशो मनोरमः॥५७.३४॥
गोवर्धनं पुरं रम्यं भार्गवस्य महात्मनः ।
वाह्लीका वाटधानाश्च आभीराः कालतोयकाः॥५७.३५॥
अपरान्ताश्च शूद्राश्च पल्लवाश्चर्मखण्डिकाः ।
गान्धारा गबलाश्चैव सिन्धुसौवीरमद्रकाः॥५७.३६॥
शतद्रुजाः कलिङ्गाश्च पारदा हालमूषिकाः ।
माठरा बहुभद्राश्च कैकेया दशमालिकाः॥५७.३७॥
क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ।
काम्बोजा दरदाश्चैव वर्वरा हर्षवर्धनाः॥५७.३८॥
चीनाश्चैव तुखाराश्च बहुला बाह्यतोनराः ।
आत्रेयाश्च भरद्वाजाः पुष्कलाश्च कशेरुकाः॥५७.३९॥
लम्पाकाः शूलकाराश्च चूलिका जागुडैः सह ।
औषधाश्चानिमद्राश्च किरातानाञ्च जातयः॥५७.४०॥
तामसा हंसमार्गाश्च काश्मीरास्तुङ्गनास्तथा ।
शूलिकाः कुहकाश्चैव ऊर्णा दर्वास्तथैव च॥५७.४१॥
एते देशा ह्युदीच्यास्तु प्राच्यान्देशान्निबोध मे ।
अध्रारका मुदकरा अन्तर्गिर्या बहिर्गिराः॥५७.४२॥
यथा प्रवङ्गा रङ्गेया मानदा मानवर्तिकाः ।
ब्राह्मोत्तराः प्रविजया भार्गवा ज्ञेयमल्लकाः॥५७.४३॥
प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः ।
मल्ला मगधगोमन्ताः प्राच्या जनपदाः स्मृताः॥५७.४४॥
अथापरे जनपदा दक्षिणापथवासिनः ।
पुण्ड्राश्च केवलाश्चैव गोलाङ्गूलास्तथैव च॥५७.४५॥
शैलूषा मूषिकाश्चैव कुसुमा नामवासकाः ।
महाराष्ट्रा माहिषका कलिङ्गाश्चैव सर्वशः॥५७.४६॥
आभीराः सह वैशिक्या आढक्याः शबराश्च ये ।
पुलिन्दा विन्ध्यमौलेया वैदर्भा दण्डकैः सह॥५७.४७॥
पौरिका मौलिकाश्चैव अश्मका भोगवर्धनाः ।
नैषिकाः कुन्तला अन्धा उदिभदा वनदारकाः॥५७.४८॥
दाक्षिणात्यास्त्वमी देशा अपरान्तान् निबोध मे ।
सूर्पारकाः कालिबला दुर्गाश्चानीकटैः सह॥५७.४९॥
पुलिन्दाश्च सुमीनाश्च रूपपाः स्वापदैः सह ।
तथा कुरुमिनश्चैव सर्वे चैव कठाक्षराः॥५७.५०॥
नासिक्यावाश्च ये चान्ये ये चैवोत्तरनर्मदाः ।
भीरुकच्छाः समाहेयाः सह सारस्वतैरपि॥५७.५१॥
काश्मीराश्च सुराष्ट्राश्च अवन्त्याश्चार्बुदैः सह ।
इत्येते ह्यपरान्ताश्च शृणु विन्ध्यनिवासिनः॥५७.५२॥
सरजाश्च करूषाश्च केरलाश्चोत्कलैः सह ।
उत्तमर्णा दशार्णाश्च भोज्याः किष्किन्धकैः सह॥५७.५३॥
तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ।
तुम्बुरास्तुम्बुलाश्चैव पटवो नैषधेः सह॥५७.५४॥
अन्नजास्तुष्टिकाराश्च वीरहोत्रा ह्यवन्तयः ।
एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः॥५७.५५॥
अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च ये ।
नीहारा हंसमार्गाश्च कुरवो गुर्गणाः खसाः॥५७.५६॥
कुन्तप्रावरणाश्चैव ऊर्णा दार्वाः सकृत्रकाः ।
त्रिगर्ता गालवाश्चैव किरातास्तामसैः सह॥५७.५७॥
कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ।
एतत्तु भारतं वर्षं चतुः संस्थानसंस्थितम्॥५७.५८॥
दक्षिणापरतो ह्यस्य पूर्वेण च महोदधिः ।
हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः॥५७.५९॥
तदेतद् भारतं वर्षं सर्वबीजं द्विजोत्तम ।
ब्रह्मत्वममरेशत्वं देवत्वं मरुतस्तथा॥५७.६०॥
मृगपश्वप्सरोयोनिस्तद्वत् सर्वे सरीसृपाः ।
स्थावराणाञ्च सर्वेषामितो ब्रह्मन् ! शुभाशुभैः॥५७.६१॥
प्रयाति कर्मभूर्ब्रह्मन् ! नान्या लोकेषु विद्यते ।
देवानामपि विप्रर्षे ! सदा एष मनोरथः॥५७.६२॥
अपि मानुष्यमाप्स्यामो देवत्वात् प्रच्युताः क्षितौ ।
मनुष्यः कुरुते तत्तु यन्न शक्यं सुरासुरैः॥५७.६३॥
तत्कर्मनिगडग्रस्तैः स्वकर्मख्यापनोत्सुकः ।
न किञ्चित् क्रियते कर्म सुखलेशोपबृंहितैः॥५७.६४॥
इति श्रीमार्कण्डेयपुराणेठनद्यादिवर्णनऽ नाम सप्तपञ्चाशोऽध्यायः
अष्टपञ्चाशोऽध्यायः- ५८
क्रौष्टुकिरुवाच
भगवन् ! कथितं सम्यक् भवता भारतं मम ।
सरितः पर्वता देशा ये च तत्र वसन्ति वै॥५८.१॥
किन्तु कूर्मस्त्वया पूर्वं भारते भगवान् हरिः ।
कथितस्तस्य संस्थानं श्रोतुमिच्छाम्यशेषतः॥५८.२॥
कथं स संस्थितो देवः कूर्मरूपी जनार्दनः ।
शुभाशुभं मनुष्याणां व्यज्यते च ततः कथम् ।
यथामुखं यथापादन्तस्य तद् ब्रूह्यशेषतः॥५८.३॥
मार्कण्डेय उवाच
प्राङ्मुखो भगवान् ! देवः कूर्मरूपी व्यवस्थितः ।
आक्रम्य भारतं वर्षं नवभेदमिदं द्विज॥५८.४॥
नवधा संस्थितान्यस्य नक्षत्राणि समन्ततः ।
विषयाश्च द्विजश्रेष्ठ ! ये सम्यक् तान्निबोध मे॥५८.५॥
वेदमन्त्रा विमाण्डव्याः शाल्वनीपास्तथा शकाः ।
उज्जिहानास्तथा वत्स ! घोषसंख्यास्तथा खसाः॥५८.६॥
मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः ।
धर्मारण्या ज्योतिषिका गौरग्रीवा गुडाश्मकाः॥५८.७॥
कालकोटिसपाषण्डाः पारियात्रनिवासिनः ।
कापिङ्गलाः कुरुर्बाह्यस्तथैवोडुम्बरा जनाः॥५८.८॥
वैदेहकाः सपाञ्चालाः संकेताः कङ्कमारुताः ।
गजाह्वयाश्च कूर्मस्य जलमध्यनिवासिनः॥५८.९॥
कृत्तिका रोहिणी सौम्या एतेषां मध्यवासिनाम् ।
नक्षत्रत्रितयं विप्र ! शुभाशुभविपाकदम्॥५८.१०॥
वृषध्वजोऽञ्जनश्चैव जम्ब्वाख्यो मानवाचलः ।
शूर्पकर्णो व्याघ्रमुखः खर्मकः कर्वटाशनः॥५८.११॥
तथा चन्द्रेश्वराश्चैव खशाश्च मगधास्तथा ।
गिरयो मैथिलाः शुभ्रास्तथा वदनदन्तुराः॥५८.१२॥
प्राग्ज्योतिषाः सलौहित्याः सामुद्राः पुरुषादकाः ।
पुर्णोत्कटो भद्रगौरस्तथोदयगिरिर्द्विज !॥५८.१३॥
कशाया मेखलामुष्टास्ताम्रलिप्तैकपादपाः ।
वर्धमाना कोशलाश्च मुखे कूर्मस्य संश्थिताः॥५८.१४॥
रौद्रः पुनर्वसुः पुष्यो नक्षत्रत्रितयं मुखे ।
पादे तु दक्षिणे देशाः क्रौष्टुके वदतः शृणु॥५८.१५॥
कलिङ्गवङ्गजठराः कोशला मूषिकास्तथा ।
चेदयश्चोर्ध्वकर्णाश्च मत्स्याद्या विन्ध्यवासिनः॥५८.१६॥
विदर्भा नारिकेलाश्च धर्मद्वीपास्तथैलिकाः ।
व्याघ्रग्रीवा महाग्रीवास्त्रैपुराः श्मश्रुधारिणः॥५८.१७॥
कैष्किन्ध्या हैमकूटाश्च निषधाः कटकस्थलाः ।
दशार्णाहारिका नग्ना निषादाः काकुलालकाः॥५८.१८॥
तथैव पर्णशबराः पादे वै पूर्वदक्षिणे ।
आश्लेषर्क्षं तथा पैत्र्यं फाल्गुण्यः प्रथदमास्तथा॥५८.१९॥
नक्षत्रत्रितयं पादमाश्रितं पूर्वदक्षिणम् ।
लङ्का कालाजिनाश्चैव शैलिका निकटास्तथा॥५८.२०॥
महेन्द्रमलयाद्रौ च दुर्दुरे च वसन्ति ये ।
कर्कोटकवने ये च भृगुकच्छाः सकोङ्कणा॥५८.२१॥
सर्वाश्चैव तथाभीरा वेण्यास्तीरनिवासिनः ।
अवन्तयो दासपुरास्तथैवाकणिनो जनाः॥५८.२२॥
महाराष्ट्राः सकर्णाटा गोनर्दाश्चित्रकूटकाः ।
चोलाः कोलगिराश्चैव क्रौञ्चद्वीपजटाधराः॥५८.२३॥
कावेरी ऋष्यमूकस्था नासिक्याश्चैव ये जनाः ।
शङ्खशुक्त्यादिवैदूर्यशैलप्रान्तचराश्च ये॥५८.२४॥
तथा वारिचराः कोलाः चर्मपट्टनिवासिनः ।
गणबाह्याः पराः कृष्णा द्वीपवासनिवासिनः॥५८.२५॥
सूर्याद्रौ कुमुदाद्रौ च ते वसन्ति तथा जनाः ।
औखावनाः सपिशिकास्तथा ये कर्मनायकाः॥५८.२६॥
तक्षिणाः कौरुषा ये च ऋषिकास्तापसाश्रमाः ।
ऋषभाः सिहलाश्चैव तथा काञ्चीनिवासिनः॥५८.२७॥
तिलङ्गा कुञ्जारदरीकच्छवासाश्च ये जनाः ।
ताम्रपर्णो तथा कुक्षिरिति कूर्मस्य दक्षिणः॥५८.२८॥
फाल्गुन्यश्चोत्तरा हस्ता चित्रा चर्क्षत्रयं द्विज ।
कूर्मस्य दक्षिणे कुक्षौ बाह्यपादस्तथापरम्॥५८.२९॥
काम्बोजाः पह्लवाश्चैव तथैव वहवामुखाः ।
तथा च सिन्दुसौवीराः सानर्ता वनितामुखाः॥५८.३०॥
द्रावणाः मार्गिकाः शूद्रा कर्णप्राधेयवर्वराः ।
किराताः पारदाः पाण्ड्यास्तथा पारशवाः कलाः॥५८.३१॥
धूर्तका हैमगिरिकाः सिन्धुकालकवैरताः ।
सौराष्ट्रा दरदाश्चैव द्राविडाश्च महार्णवाः॥५८.३२॥
एते जनपदाः पादे स्थिता वै दक्षिणेऽपरे ।
स्वात्यो विशाखा मैत्रञ्च नक्षत्रत्रयमेव च॥५८.३३॥
मणिमेघः क्षुराद्रिश्च खञ्जनोऽस्तगिरिस्तथा ।
अपरान्तिका हैहयाश्च शान्तिका विप्रशस्तकाः॥५८.३४॥
कौङ्कणाः पञ्चनदका वामना ह्यवरास्तथा ।
तारक्षुरा ह्यङ्गतकाः कर्कराः शाल्मवेश्मकाः॥५८.३५॥
गुरुस्विराः फल्गुणका वेणुमत्याञ्च ये जनाः ।
तथा फल्गुलुका घोरा गुरुहाश्च कलास्तथा॥५८.३६॥
एकेक्षणा वाजिकेशा दीर्घग्रीवाः सचूलिकाः ।
अश्वकेशास्तथा पुच्छे जनाः कूर्मस्य संस्थिताः॥५८.३७॥
ऐन्द्रं मूलन्तथाषाग नक्षत्रत्रयमेव च ।
माण्डव्याश्चण्डखाराश्च अश्वकालनतास्तथा॥५८.३८॥
कुन्यतालडहाश्चैव स्त्रीबाह्या बालिक्रास्तथा ।
नृसिंहा वेणुमत्याञ्च बलावस्थास्तथापरे॥५८.३९॥
धर्मबद्धास्तथालूका उरुकर्मस्थिता जनाः ।
वामपादे जनाः पार्श्वे स्थिताः कूर्मस्य भागुरे॥५८.४०॥
आषाढाश्रवणे चैव धनिष्ठा यत्र संस्थिता ।
कैलासो हिमवांश्चैव धनुष्मान् वसुमांस्तथा॥५८.४१॥
क्रौञ्चाः कुरुवकाश्चैव क्षुद्रवीणाश्च ये जनाः ।
रसालया सकैकेया भोगप्रस्थाः सयामुनाः॥५८.४२॥
अन्तर्द्वोपास्त्रिगर्ताश्च अग्नीज्याः सार्दना जनाः ।
तथैवाश्वमुखाः प्राप्ताश्चिविडाः केशधारिणः॥५८.४३॥
दासेरका वाटधानाः शवधानास्तथैव च ।
पुष्कलाधमकैरातास्तथा तक्षशिलाश्रयाः॥५८.४४॥
अम्बाला मालवा मद्रा वेणुकाः सवदन्तिकाः ।
पिङ्गला मानकलहा हूणाः कोहलकास्तथा॥५८.४५॥
माण्डव्या भूतियुवकाः शातका हेमतारकाः ।
यशोमत्याः सगान्धाराः खरसागरराशयः॥५८.४६॥
यौधेया दासमेयाश्च राजन्याः श्यामकास्तथा ।
क्षेमधूर्ताश्च कूर्मस्य वामकुक्षिमुपाश्रिताः॥५८.४७॥
वारुणञ्चात्र नक्षत्रं तत्र प्रौष्ठपदाद्वयम् ।
येन किन्नरराज्यञ्च पुशुपालं सकीचकम्॥५८.४८॥
काश्मीरकं तथा राष्ट्रमभिसारजनस्तथा ।
दवदास्त्वङ्गनाश्चैव कुलटा वनराष्ट्रकाः॥५८.४९॥
सैरिष्ठा ब्रह्मपुरकास्तथैव वनवाह्यकाः ।
किरातकौशिका नन्दा जनाः पह्णवलोलनाः॥५८.५०॥
दार्वादा मरकाश्चैव कुरटाश्चान्नदारकाः ।
एकपादा खशा घोषाः स्वर्गभौमानवद्यकाः॥५८.५१॥
तथा सयवना हिङ्गाश्चीरप्रावरणाश्च ये ।
त्रिनेत्राः पौरवाश्चैव गन्धर्वाश्च द्विजात्तम॥५८.५२॥
पूर्वोत्तरन्तु कूर्मस्य पदामेते समाश्रिताः ।
रेवत्यश्चाश्विदैवत्यं याम्यञ्चर्क्षमिति त्रयम्॥५८.५३॥
तत्र पादे समाख्यातं पाकाय मुनिसत्तम ।
देशेष्वेतेषु चैतानि नक्षत्राण्यपि वै द्विज॥५८.५४॥
एतत्पीडा अमी देशाः पीड्यन्ते ये क्रमोदिताः ।
यान्ति चाभ्युदयं विप्र ! ग्रहैः सम्यगवस्थितैः॥५८.५५॥
यस्यर्क्षस्य पतिर्यो वै ग्रहस्तद्भावितो भयम् ।
तद्देशस्य मुनिश्रेष्ठ ! तदुत्कर्षे शुभागमः॥५८.५६॥
प्रत्येकं देशसामान्यं नक्षत्रग्रहसम्भवम् ।
भयं लोकस्य भवति शोभनं वा द्विजोत्तम॥५८.५७॥
स्वर्क्षैरशोभनैर्जन्तोः सामान्यमिति भीतिदम् ।
ग्रहैर्भवति पीडोत्थमल्पायासमशोभनम्॥५८.५८॥
तथैव शोभनः पाको दुः स्थितैश्च तथा ग्रहैः ।
अल्पोपकाराय नृणां देशज्ञैश्चात्मनो बुधैः॥५८.५९॥
द्रव्ये गोष्ठेऽथ भृत्येषु सुहृत्सु तनयेषु वा ।
भार्यायाञ्च ग्रहे दुस्थे भयं पुण्यवतां नृणाम्॥५८.६०॥
आत्मन्यथाल्पपुण्यानां सर्वत्रैवातिपापिनाम् ।
नैकत्रापि ह्यपापानां भयमस्ति कदाचन॥५८.६१॥
दिग्देशजनसामान्यं नृपसामान्यमात्मजम् ।
नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभम्॥५८.६२॥
परस्पराभिरक्षा च ग्रहादौस्थ्येन जायते ।
एतेभ्य एव विप्रेन्द्र ! शुभहानिस्तथाशुभैः॥५८.६३॥
यदेतत् कूर्मसंस्थानं नक्षत्रेषु मयोदितम् ।
एतत् तु देशसामान्यमशुभं शुभमेव च॥५८.६४॥
तस्माद्विज्ञाय देशर्क्षं ग्रहपीडान्तथात्मनः ।
कुर्वोत शान्तिं मेधावी लोकवादांश्च सत्तम॥५८.६५॥
आकाशाद्देवतानाञ्च दैत्यादीनाञ्च दौर्हृदाः ।
पृथ्व्यां पतन्ति ते लोके लोकवादा इति श्रुताः॥५८.६६॥
तां तथैव बुधः कुर्यात् लोकवादान्न हापयेत् ।
तेषान्तत्करणान्नॄणां युक्तो दुष्टागमक्षयः॥५८.६७॥
शुभोदयं प्रहानिञ्च पापानां द्विजसत्तम ।
प्रज्ञाहानिं प्रकुर्युस्ते द्रव्यादीनाञ्च कुर्वते॥५८.६८॥
तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ।
लोकवादांश्च शान्तीश्च ग्रहपीडासु कारयेत्॥५८.६९॥
अद्रोहानुपवासांश्च शस्तं चैत्यादिवन्दनम् ।
जपं होमं तथा दानं स्त्रानं क्रोधादिवर्जनम्॥५८.७०॥
अद्रोहः सर्वभूतेषु मैत्रीं कुर्याच्च पण्डितः ।
वर्जयेदसतीं वाचमतिवादांस्तथैव च॥५८.७१॥
ग्रहपूजाञ्च कुर्वोत सर्वपीडासु मानवः ।
एवं शाम्यन्त्यशेषाणि घोराणि द्विजसत्तम॥५८.७२॥
प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यशेषतः ।
एष कूर्मो मया ख्यातो भारते भगवान् विभुः॥५८.७३॥
नारायणो ह्यचिन्त्यात्मा यत्र सर्वं प्रतिष्ठितम् ।
तत्र देवाः स्थिताः सर्वे प्रतिनक्षत्रसंश्रयाः॥५८.७४॥
तथा मध्ये हुतवहः पृथ्वी सोमश्च वै द्विज ।
मेषादयस्त्रयो मध्ये मुखे द्वौ मिथुनादिकौ॥५८.७५॥
प्राग्दक्षिणे तथा पादे कर्कसिंहौ व्यवस्थितौ ।
सिंहकन्यातुलाश्चैव कुक्षौ राशैत्रयं स्थितम्॥५८.७६॥
तुलाथ वृश्चिकाश्चोभौ पादे दक्षिणपश्चिमे ।
पृष्ठे च वृश्चिकेनैव सह धन्वी व्यवस्थितः॥५८.७७॥
वायव्ये चास्य वै पादे धनुर्ग्राहादिकं त्रयम् ।
कुम्भमीनौ तथैवास्य उत्तरां कुक्षिमाश्रितौ॥५८.७८॥
मीनमेषौ द्विजश्रेष्ठ ! पादे पूर्वोत्तरे स्थितौ ।
कूर्मे देशास्तथर्क्षाणि देशेष्वेतेषु वै द्विज॥५८.७९॥
राशयश्च तथर्क्षेषु ग्रहराशिष्ववस्थिताः ।
तस्माद् ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत्॥५८.८०॥
तत्र स्त्रात्वा प्रकुर्वोत दानहोमादिकं विधिम् ।
स एष वैष्णवः पादो ब्रह्मा मध्ये ग्रहस्य यः ।
नारायणाख्योऽचिन्त्यात्मा कारणं जगतः प्रभुः॥५८.८१॥
इति श्रीमार्कण्डेयपुराणे कूर्मनिवेशो नामाष्टपञ्चाशोऽध्यायः
ऊनषष्टितमोऽध्यायः- ५९
मार्कण्डेय उवाच
एवन्तु भारतं वर्षं यथावत् कथितं मुने ।
कृतं त्रेता द्वापरञ्च तथाथिष्यं चतुष्टयम्॥५९.१॥
अत्रैवैतद्युगानान्तु चातुर्वर्ण्योऽत्र वै द्विज ।
चत्वारि त्रीणि द्वे चैव तथैकञ्च शरच्छतम्॥५९.२॥
जीवन्त्यत्र नरा ब्रह्मन् ! कृतत्रेतादिके क्रमात् ।
देवकूटस्य पूर्वस्य शैलेन्द्रस्य महात्मनः॥५९.३॥
पूर्वेण यत् स्थितं वर्षं भद्राश्वं तन्निबोध मे ।
श्वेतपर्णश्च नीलश्च शैवालश्चाचलोत्तमः॥५९.४॥
कौरञ्जः पर्णशालाग्रः पञ्चैते तु कुलाचलाः ।
तेषां प्रसूतिरन्ये ये बहवः क्षुद्रपर्वताः॥५९.५॥
तैर्विशिष्टा जनपदा नानारूपाः सहस्रशः ।
ततः कुमुदसंकाशाः शुद्धसानुसुमङ्गलाः॥५९.६॥
इत्येवमादयोऽन्येऽपि शतशोऽथ सहस्रशः ।
सीता शङ्खावती भद्रा चक्रावर्तादिकास्तथा॥५९.७॥
नद्योऽथ बह्व्यो विस्तीर्णाः शीततोयौघवाहिकाः ।
अत्र वर्षे नराः शङ्खशुद्धहेमसमप्रभाः॥५९.८॥
दिव्यसङ्गमिनः पुण्या दशवर्षशतायुषः ।
मन्दोत्तमौ न तेषु स्तः सर्वे ते समदर्शनाः॥५९.९॥
तितिक्षादिभिरष्टाभैः प्रकृत्या ते गुणैर्युताः ।
तत्राप्यश्वशिरा देवश्चतुर्बाहुर्जनार्दनः॥५९.१०॥
शिरोहृदयोमेढ्राङ्घ्रिहस्तैश्चाक्षित्रयान्वितः ।
तस्याप्यथैवं विषया विज्ञेया जगतः प्रभोः॥५९.११॥
केतुमालमतो वर्षं निबोध मम पश्चिमम् ।
विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः॥५९.१२॥
विशोको वर्धमानश्च सप्तैते कुलपर्वताः ।
अन्ये सहस्रशः शैला येषु लोकगणः स्थितः॥५९.१३॥
मौलयस्ते महाकायाः शाकपोतकम्भकाः ।
अङ्गुलप्रमुखाश्चापि वसन्ति शतशो जनाः॥५९.१४॥
ये पिबन्ति महानद्यो वङ्क्षुं श्यामां सकम्बलाम् ।
अमोघां कामिनीं श्यामां तथैवान्याः सहस्रशः॥५९.१५॥
अत्राप्यायुः समं पूर्वैरत्रापि भगवान् हरिः ।
वराहरूपी पादास्यहृत्पृष्ठपार्श्वतस्तथा॥५९.१६॥
त्रिनक्षत्रयुते देशे नक्षत्राणि शुभानि च ।
इत्येतत् केतुमालन्ते कथितं मुनिसत्तम॥५९.१७॥
अतः परं कुरून् वक्ष्ये निबोधेह ममोत्तरान् ।
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः॥५९.१८॥
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ।
सर्वकामप्रदास्ते हि सर्वकामफलप्रदाः॥५९.१९॥
भूमिर्मणिमयी वायुः सुगन्धः सर्वदा सुखः ।
जायन्ते मानवास्तत्र देवलोकपरिच्युताः॥५९.२०॥
मिथुनानि प्रसूयन्ते समकालस्थितानि वै ।
अन्योन्यमनुरक्तानि चक्रवाकोपमानि च॥५९.२१॥
चतुर्दशसहस्राणि तेषां सार्धानि वै स्थितिः ।
चन्द्रकान्तश्च शैलेन्द्रः सूर्यकान्तस्तथापरः॥५९.२२॥
तस्मिन् कुलाचलौ वर्षे तन्मध्ये च महानदी ।
भद्रसोमा प्रयात्युर्व्यां पुण्यामलजलौघिनी॥५९.२३॥
सहस्रशस्तथैवान्या नद्यो वर्षेऽपि चोत्तरे ।
तथान्याः क्षीरवाहिन्यो घृतवाहिन्य एव च॥५९.२४॥
दध्नो ह्रदास्तथा तत्र तथान्ये चानुपर्वताः ।
अमृतास्वादकल्पानि फलानि विविधानि च॥५९.२५॥
वनेषु तेषु वर्षेषु शतशोऽथ सहस्रशः ।
तत्रापि भगवान् विष्णुः प्राक्शिरा मत्स्यरूपवान्॥५९.२६॥
विभक्तो नवधा विप्र ! नक्षत्राणां त्रयं त्रयम् ।
दिशस्तथापि नवधा विभक्ता मुनिसत्तम॥५९.२७॥
चन्द्रद्वीपः समुद्रे च भद्रद्वीपस्तथापरः ।
तत्रापि पुण्यो विख्यातः समुद्रान्तर्महामुने॥५९.२८॥
इत्येतत् कथितं ब्रह्मन् ! कुरुवर्षं मयोत्तरम् ।
शृणु किंपुरुषादीनि वर्षाणि गदतो मम॥५९.२९॥
इति श्रीमार्कण्डेयपुराणेठौत्तरकुरुकथनंऽ नामैकोनषष्टितमोऽध्यायः
षष्टितमोऽध्यायः- ६०
मार्कण्डेय उवाच
यत्तु किम्पुरुषं वर्षं तत् प्रवक्ष्याम्यहं द्विज ।
यत्रायुर्दशसाहस्त्रं पुरुषाणां वपुष्मताम्॥६०.१॥
अनामया ह्यशोकाश्च नरा यत्र तथा स्त्रियः ।
प्लक्षः षण्डश्च तत्रोक्तः सुमहान्नन्दनोपमः॥६०.२॥
तस्य ते वै फलरसं पिबन्तः पुरुषाः सदा ।
स्थिरयौवननिष्पन्नाः स्त्रियश्चोत्पलगन्धिकाः॥६०.३॥
अतः परं किंपुरुषाद्धरिवर्षं प्रचक्ष्यते ।
महारजतसङ्काशा जायन्ते तत्र मानवाः॥६०.४॥
देवलोकच्युताः सर्वे देवरूपाश्च सर्वशः ।
हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम्॥६०.५॥
न जरा बाधते तत्र न जीर्यन्ते च कर्हिचित् ।
तावन्तमेव ते कालं जीवन्त्यथ निरामयाः॥६०.६॥
मेरुवर्षं मया प्रोक्तं मध्यमं यदिलावृतम् ।
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः॥६०.७॥
लभन्ते नात्मलाभञ्च रश्मयश्चन्द्रसूर्ययोः ।
नक्षत्राणां ग्रहाणाञ्च मेरोस्तत्र परा द्युतिः॥६०.८॥
पद्मप्रभाः पद्मगन्धा जम्बूफलरसाशिनः ।
पद्मपत्रायताक्षास्तु जायन्ते तत्र मानवाः॥६०.९॥
वर्षाणान्तु सहस्राणि तत्राप्यायुस्त्रयोदश ।
सरावाकारसंस्तारो मेरुमध्ये इलावृते॥६०.१०॥
मेरुस्तत्र महाशैलस्तदाख्यातमिलावृतम् ।
रम्यकं वर्षमस्माच्च कथयिष्ये निबोध तत्॥६०.११॥
वृक्षस्तत्रापि चोत्तुङ्गो न्यग्रोधो हरितच्छदः ।
तस्यापि ते फलरसं पिबन्तो वर्तयन्ति वै॥६०.१२॥
वर्षायुतायुषस्तत्र नरास्तत्फलभोगिनः ।
रतिप्रधानविमला जरादौर्गन्ध्यवर्जिताः॥६०.१३॥
तस्मादथोत्तरं वर्षं नाम्ना ख्यातं हिरण्मयम् ।
हिरण्वती नदी यत्र प्रभूतकमलोज्ज्वला॥६०.१४॥
महाबलाः सतेजस्का जायन्ते तत्र मानवाः ।
महाकाया महासत्त्वा धनिनः प्रियदर्शनाः॥६०.१५॥
इति श्रीमार्कण्डेयपुराणेठकिंपुरुषादिवर्षवर्णनम्ऽ नाम षष्टितमोऽध्यायः
61(58) एकषष्टितमोऽध्यायः- ६१
क्रौष्टुकिरुवाच
कथितं भवता सम्यग् यत् पृष्टोऽसि महामुने ।
भूसमुद्रादिसंस्थानं प्रमाणानि तथा ग्रहाः॥६१.१॥
तेषाञ्चैव प्रमाणञ्च नक्षत्राणाञ्च संस्थितिः ।
भूरादयस्तथा लोकाः पातालान्यखिलान्यपि॥६१.२॥
स्वायम्भुवं तथा ख्यातं मुने ! मन्वन्तरं मम ।
तदन्तराण्यहं श्रोतुमिच्छे मन्वन्तराणि वै ।
मन्वन्तराधिपान् देवानृषींस्तत्तनयान्नृपान्॥६१.३॥
मार्कण्डेय उवाच
मन्वन्तरं मयाख्यातं तव स्वायम्भुवं च यत् ।
स्वारोचिषाख्यमन्यत् तु शृणु तस्मादनन्तरम्॥६१.४॥
कश्चिद् द्विजातिप्रवरः पुरेऽभूदरुणास्पदे ।
वरुणायास्तटे विप्रो रूपेणात्यश्विनावपि॥६१.५॥
मृदुस्वभावः सद्वृत्तो वेदवेदाङ्गपारगः ।
सदातिथिप्रियो रात्रावागतानां समाश्रयः॥६१.६॥
तस्य बुद्धिरियं त्वासीदहं पश्ये वसुन्धराम् ।
अतिरम्यवनोद्यानां नानानगरशोभिताम्॥६१.७॥
अथागतो।ञतिथिः कश्चित् कदाचित्तस्य वेश्मनि ।
नानौषधिप्रभावज्ञो मन्त्रविद्याविशारदः॥६१.८॥
अभ्यर्थितस्तु तेनासौ श्रद्धापूतेन चेतसा ।
तस्याचख्यौ स देशांश्च रम्याणि नगराणि च॥६१.९॥
वनानि नद्यः शैलांश्च पुण्यान्यायतनानि च ।
स ततो विस्मयाविष्टः प्राह तं द्विजसत्तमम्॥६१.१०॥
अनेकदेशदर्शित्वेनातिश्रमसमन्वितः ।
त्वं नातिवृद्धो वयसा नातिवृत्तश्च यौवनात् ।
कथमल्पेन कालेन पृथिवीमटसि द्विज॥६१.११॥
ब्राह्मण उवाच
मन्त्रौषधिप्रभावेण विप्राप्रतिहता गतिः ।
योजनानां सहस्रं हि दिनार्धेन व्रजाम्यम्॥६१.१२॥
मार्कण्डेय उवाच
ततः स विप्रस्तं भूयः प्रत्युवाचेदमादरात् ।
श्रद्धधानो वचस्तस्य ब्राह्मणस्य विपश्चितः॥६१.१३॥
मम प्रसादं भगवन् ! कुरु मन्त्रप्रभावजम् ।
द्रष्टुमेतां मम महीमतीवेच्छा प्रवर्तते॥६१.१४॥
प्रादात् स ब्राह्मणश्चास्मै पादलेपमुदारधीः ।
अभिमन्त्रयामास दिशं तेनाख्याताञ्च यत्नतः॥६१.१५॥
तेनानुलिप्तपादोऽथ स द्विजो द्विजसत्तम ।
हिमवन्तमगाद् द्रष्टुं नानाप्रस्त्रवणान्वितम्॥६१.१६॥
सहस्रं योजनानां हि दिनार्धेन व्रजामि यत् ।
आयास्यामीति सञ्चिन्त्य तदर्धेनापरेण हि॥६१.१७॥
सम्प्राप्तो हिमवत्पृष्ठं नातिश्रान्ततनुर्द्विज ।
विचचार ततस्तत्र तुहिनाचलभूतले॥६१.१८॥
पादाक्रान्तेन तस्याथ तुहिनेन विलीयता ।
प्रक्षालितः पादलेपः परमौषधिसम्भः॥६१.१९॥
ततो जडगतिः सोऽथ इतश्चेतश्च पर्यटन् ।
ददर्शातिमनोज्ञानि सानूनि हिमभूभृतः॥६१.२०॥
सिद्धगन्धर्वजुष्टानि किन्नराभिरतानि च ।
क्रीडाविहाररम्याणि देवादीनामितस्ततः॥६१.२१॥
दिव्याप्सरोगणशतैराकीर्णान्यवलोकयन् ।
नातृप्यत द्विजश्रेष्ठः प्रोद्भूतपुलको मुने॥६१.२२॥
क्वचित् प्रस्त्रवणाद् भ्रष्टजलपातमनोरमम् ।
प्रनृत्यच्छिखिकेकाभिरन्यतश्च निनादितम्॥६१.२३॥
दात्यूहकोयष्टिकाद्यैः क्वचिच्चातिमनोहरैः ।
पुंस्कोकिलकलालापैः श्रुतिहारिभिरन्वितम्॥६१.२४॥
प्रफुल्लतरुगन्धेन वासितानिलवीजितम् ।
मुदा युक्तः स ददृशे हिमवन्तं महागिरिम्॥६१.२५॥
दृष्ट्वा चैतं द्विजसुतो हिमवन्तं महाचलम् ।
श्वो द्रक्ष्यामीति संचिन्त्य मतिञ्चक्रे गृहं प्रति॥६१.२६॥
विभ्रष्टपादलेपोऽथ चिरेण जडितक्रमः ।
चिन्तयामास किमिदं मयाज्ञानादनुष्ठितम्॥६१.२७॥
यदि प्रलेपो नष्टो मे विलीनो हिमवारिणा ।
शैलोऽतिदुर्गमश्चायं दूरञ्चाहमिहागतः॥६१.२८॥
प्रयास्यामि क्रियाहानिमग्निशुश्रूषणादिकम् ।
कथमत्र करिष्यामि सङ्कटं महदागतम्॥६१.२९॥
इदं रम्यमिदं रम्यमित्यस्मिन् वरपर्वते ।
शक्तदृष्टिरहं तृप्तिं न यास्येऽब्दशतैरपि॥६१.३०॥
किन्नराणां कलालापाः समन्ताच्छ्रोत्रहारिणः ।
प्रफुल्लतरुगन्धांश्च घ्राणमत्यन्तमृच्छति॥६१.३१॥
सुखस्पर्शस्तथा वायुः फलानि रसवन्ति च ।
हरन्ति प्रसभं चेतो मनोज्ञानि सरांसि च॥६१.३२॥
एवं गते तु पश्येयं यदि कञ्चित् तपोनिधिम् ।
स ममोपदिशेन्मार्गं गमनाय गृहं प्रति॥६१.३३॥
मार्कण्डेय उवाच
स एवं चिन्तयन् विप्रो बभ्राम च हिमाचले ।
भ्रष्टपादौषधिबलो वैक्लवं परमं गतः॥६१.३४॥
तं ददर्श भ्रमन्तञ्च मुनिश्रेष्ठं वरूथिनी ।
वराप्सरा महाभागा मौलेया रूपशालिनी॥६१.३५॥
तस्मिन् दृष्टे ततः साभूद् द्विजवर्ये वरूथिनी ।
मदनाकृष्टहृदया सानुरागा हि तत्क्षणात्॥६१.३६॥
चिन्तयामास को न्वेष रमणीयतमाकृतिः ।
सफलं मे भवेज्जन्म यदि मां नावमन्यते॥६१.३७॥
अहोऽस्य रूपमाधुर्यमहोऽस्य ललिता गतिः ।
अहो गम्भीरता दृष्टेः कुतोऽस्य सदृशो भुवि॥६१.३८॥
दृष्टा देवास्तथा दैत्याः सिद्धगन्धर्वपन्नगाः ।
कथमेकोऽपि नास्त्यस्य तुल्यरूपो महात्मनः॥६१.३९॥
यथाहमस्मिन्मय्येष सानुरागस्तथा यदि ।
भवेदत्र मया कार्यस्तत्कृतः पुण्यसञ्चयः॥६१.४०॥
यद्येष मयि सुस्त्रिग्धां दृष्टिमद्य निपातयेत् ।
कृतपुण्या न मत्तोऽन्या त्रैलोक्ये वनिता ततः॥६१.४१॥
मार्कण्डेय उवाच
एवं सञ्चिन्तयन्ती सा दिव्ययोषित् स्मरातुरा ।
आत्मानं दर्शयामास कमनीयतराकृतिम्॥६१.४२॥
तान्तु दृष्ट्वा द्विजसुतश्चारुरूपां वरूथिनीम् ।
सोपचारं समागम्य वाक्यमेतदुवाच ह॥६१.४३॥
का त्वं कमलगर्भाभे कस्य किं वानुतिष्ठसि ।
ब्राह्मणोऽहमिहायातो नगरादरुणास्पदात्॥६१.४४॥
पादलेपोऽत्र मे ध्वस्तो विलीनो हिमवारिणा ।
यस्यानुभावादत्राहमागतो मदिरेक्षणे॥६१.४५॥
वरूथिन्युवाच
मौलेयाहं महाभागा नाम्ना ख्याता वरूथिनी ।
विचरामि सदैवात्र रमणीये महाचले॥६१.४६॥
साहं त्वद्दर्शनाद्विप्र ! कामवक्तव्यताङ्गता ।
प्रशाधि यन्मया कार्यं त्वदधीनास्मि साम्प्रतम्॥६१.४७॥
ब्राह्मण उवाच
येनोपायेन गच्छेयं निजगेहं शुचिस्मिते ।
तन्ममाचक्ष्व कल्याणि हानिर्नोऽखिलकर्मणाम्॥६१.४८॥
नित्यनैमित्तिकानान्तु महाहानिर्द्विजन्मनः ।
भवत्यतस्त्वं हे भद्रे ! मामुद्धर हिमालयात्॥६१.४९॥
प्रशस्यते न प्रवासो ब्राह्मणानां कदाचम ।
अपराद्धं न मे भीरु देशदर्शनकौतुकम्॥६१.५०॥
सतो गृहे द्विजाग्र्यस्य निष्पत्तिः सर्वकर्मणाम् ।
नित्यनैमित्तिकानाञ्च हानिरेवं प्रवासिनः॥६१.५१॥
सा त्वं किं बहुनोक्तेन तथा कुरु यशस्विनि ।
यथा नास्तं गेत सूर्ये पश्यामि निजमालयम्॥६१.५२॥
वरूथिन्युवाच
मैवं ब्रूहि महाभाग ! मा भूत्स दिवसो मम ।
मां परित्यज्य यत्र त्वं निजगेहमुपैष्यसि॥६१.५३॥
अहो रम्यतरः स्वर्गो न यतो द्विजनन्दन ।
अतो वयं परित्यज्य तिष्ठामोऽत्र सुरालयम्॥६१.५४॥
स त्वं सह मया कान्त ! कान्तेऽत्र तुहिनाचले ।
रममाणो न मर्त्यानां बान्धवानां स्मरिष्यसि॥६१.५५॥
स्त्रजो वस्त्राण्यलङ्कारान् भोगभोज्यानुलेपनम् ।
दास्याम्यत्र तथाहन्ते स्मरेण वशगा हृता॥६१.५६॥
वीणावेणुस्वनं गीतं किन्नराणां मनोरमम् ।
अङ्गाह्लादकरो वायुरुष्णान्नमुदकं शुचि॥६१.५७॥
मनोभिलषिता शय्या सुगन्धमनुलेपनम् ।
इहासतो महाभाग गृहे किन्ते निजेऽधिकम्॥६१.५८॥
इहासतो नैव जरा कदाचित्ते भविष्यति ।
त्रिदशानामियं भूमिर्यौवनोपचयप्रदा॥६१.५९॥
इत्युक्त्वा सानुरागा सा सहसा कमलेक्षणा ।
आलिलिङ्ग प्रसीदेति वदन्ती कलमुन्मनाः॥६१.६०॥
ब्राह्मण उवाच
मा मां स्प्राक्षीर्व्रजान्यत्र दुष्टे यः सदृशस्तव ।
मयान्यथा याचिता त्वमन्यथैवाप्युपैषि माम्॥६१.६१॥
सायं प्रातर्हुतं हव्यं लोकान् यच्छति शाश्वतान् ।
त्रैलोक्यमेतदखिलं मूढे इव्ये प्रतिष्ठितम्॥६१.६२॥
वरूथिन्युवाच
किं ते नाहं प्रिया विप्र ! रमणीयो न किं गिरिः ।
गन्धर्वान् किन्नरादींश्च त्यक्त्वाभीष्टो हि कस्तव॥६१.६३॥
निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् ।
स्वल्पकालं मया सार्धं भुङ्क्षव भोगान् सुदुर्लभान्॥६१.६४॥
ब्राह्मण उवाच
अष्टावात्मगुणा ये हि तेषामादौ दया द्विज ।
तां करोषि कथं न त्वं मयि सद्धर्मपालक॥६१.६६॥
त्वद्विमुक्ता न जीवामि तथा प्रीतिमती त्वयि ।
नैतद्वदाम्यहं मिथ्या प्रसीद कुलनन्दन॥६१.६७॥
ब्राह्मण उवाच
यदि प्रीतिमती सत्यं नोपचाराद्ब्रवीषि माम् ।
तदुपायं समाचक्ष्व येन यामि स्वमालयम्॥६१.६८॥
वरूथिन्युवाच
निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् ।
स्वल्पकालं मया सार्धं भुङ्क्ष्व भोगान् सुदुर्लभान्॥६१.६९॥
ब्राह्मण उवाच
न भोगार्थाय विप्राणां शस्यते हि वरूथिनी ।
इह क्लेशाय विप्राणां चेष्टा प्रेत्याफलप्रदा॥६१.७०॥
वरूथिन्युवाच
सन्त्राणं म्रियमाणाया मम कृत्वा परत्र ते ।
पुण्यस्यैव फलं भावि भोगाश्चान्यत्र जन्मनि॥६१.७१॥
एवं च द्वयमप्यत्र तवोपचयकारणम् ।
प्रत्याख्यानादहं मृत्युं त्वञ्च पापमवाप्स्यसि॥६१.७२॥
ब्राह्मण उवाच
परस्त्रियं नाभिलषेदित्युचुर्गुरवो मम ।
तेन त्वां नाभिवाञ्छामि कामं विलप शुष्य वा॥६१.७३॥
मार्कण्डेय उवाच
इत्युक्त्वा स महाभागः स्पृष्ट्वापः प्रयतः शुचिः ।
प्राहेदं प्रणिपत्याग्निं गार्हपत्यमुपांशुना॥६१.७४॥
भगवन् ! गार्हपत्याग्ने योनिस्त्वं सर्वकर्मणाम् ।
त्वत्त आहवनीयोऽग्निर्दक्षिणाग्निश्च नान्यतः॥६१.७५॥
युष्मदाप्यायनाद् देवा वृष्टिशस्यादिहेतवः ।
भवन्ति शस्यादखिलं जगद्भवति नान्यतः॥६१.७६॥
एवं त्वत्तो भवत्येतद्येन सत्येन वै जगत् ।
तथाहमद्य स्वं गेहं पश्येयं सति भास्करे॥६१.७७॥
यथा वै वैदिकं कर्म स्वकाले नोज्झितं मया ।
तेन सत्येन पश्येयं गृहस्थोऽद्य दिवाकरम्॥६१.७८॥
यथा च न परद्रव्ये परदारे च मे मतिः ।
कदाचित् साभिलाषाभूत्तथैतत् सिद्धिमेतु मे॥६१.७९॥
इति श्रीमार्कण्डेयपुराणेठब्राह्मणवाक्यम्ऽ नामैकषष्टितमोऽध्यायः
द्विषष्टितमोऽध्यायः- ६२
मार्कण्डेय उवाच
एवन्तु वदतस्तस्य द्विजपुत्रस्य पावकः ।
गार्हपत्यः शरीरे तु सन्निधानमथाकरोत्॥६२.१॥
तेन चाधिष्ठितः सोऽथ प्रभामण्डलमध्यगः ।
व्यदीपयत तं देशं मूर्तिमानिव हव्यवाट्॥६२.२॥
तस्यास्तु सुतरां तत्र तादृग्रूपे द्विजन्मनि ।
अनुरागोऽभवद्विप्रं पश्यन्त्या देवयोषितः॥६२.३॥
ततः सोऽधिष्ठितस्तेन हव्यवाहेन तत्क्षणात् ।
यथापूर्वं तथा गन्तुं प्रवृत्तो द्विजनन्दनः॥६२.४॥
जगाम च त्वरायुक्तस्तया देव्या निरीक्षितः ।
आदृष्टिपातात्तन्वङ्ग्या निश्वासोत्कम्पिकन्धरम्॥६२.५॥
ततः क्षणेनैव तदा निजगेहमवाप्य सः ।
यथाप्रोक्तं द्विजश्रेष्ठश्चकार सकलाः क्रियाः॥६२.६॥
अथ सा चारुसर्वाङ्गी तत्रासक्तात्ममानसा ।
निश्वासपरमा निन्ये दिनशेषं तथा निशाम्॥६२.७॥
निश्वसन्त्यनवद्याङ्गी हाहेति रुदती मुहुः ।
मन्दभाग्येति चात्मानं निनिन्द मदिरेक्षणा॥६२.८॥
न विहारे न चाहारे रमणीये न वा वने ।
न कन्दरेषु रम्येषु सा बबन्ध तदा रतिम्॥६२.९॥
चकार रममाणे च चक्रवाकयुगे स्पृहाम् ।
मुक्ता तेन वरारोहा निनिन्द निजयौवनम्॥६२.१०॥
क्वागताहमिमं शैलं दुष्टदैवबलात्कृता ।
क्व च प्राप्तः स मे दृष्टेर्गोचरं तादृशो नरः॥६२.११॥
यद्यद्य स महाभागो न मे सङ्गमुपैष्यति ।
तत्कामाग्निरवश्यं मां क्षपयिष्यति दुः सहः॥६२.१२॥
रमणीयमभूद्यत्तत्पुंस्कोकिलनिनादितम् ।
तेन हीनन्तदेवैतद्दहतीवाद्य मामलम्॥६२.१३॥
मार्कण्डेय उवाच
इत्थं सा मदनाविष्टा जगाम मुनिसत्तम ।
ववृधे च तदा रागस्तस्यास्तस्मिन् प्रतिक्षणम्॥६२.१४॥
कलिर्नाम्ना तु गन्धर्वः सानुरागो निराकृतः ।
तया पूर्वमभूत्सोऽथ तदवस्थां ददर्श ताम्॥६२.१५॥
स चिन्तयामास तदा किं न्वेषा गजगामिनी ।
निश्वासपवनम्लाना गिरावत्र वरूथिनी॥६२.१६॥
मुनिशापक्षता किंनु केनचित् किं विमानिता ।
वाष्पवारिपरिक्लिन्नमियन्धत्ते यतो मुखम्॥६२.१७॥
ततः स दध्यौ सुचिरं तमर्थं कौतुकात् कलिः ।
ज्ञातवांश्च प्रभावेण समाधेः स यथातथम्॥६२.१८॥
पुनः स चिन्तयामास तद्विज्ञाय मुनेः कलिः ।
ममोपपादितं साधु भाग्यैरेतत्पुराकृतैः॥६२.१९॥
मयैषा सानुरागेण बहुशः प्रार्थिता सती ।
निराकृतवती सेयमद्य प्राप्या भविष्यति॥६२.२०॥
मानुषे सानुरागेयं तत्र तद्रूपधारिणि ।
रंस्यते मय्यसन्दिग्धं किं कालेन करोमि तत्॥६२.२१॥
मार्कण्डेय उवाच
आत्मप्रभावेण ततस्तस्य रूपं द्विजन्मनः ।
कृत्वा चचार यत्रास्ते निषण्णा सा वरूथिनी॥६२.२२॥
सा तं दृष्ट्वा वरारोहा किञ्चिदुत्फुल्ललोचना ।
समेत्य प्राह तन्वङ्गी प्रसीदेति पुनः पुनः॥६२.२३॥
त्वया त्यक्ता न सन्देहः परित्यक्ष्यामि जीवितम् ।
तत्राधर्मः कष्टतरः क्रियालोपो भविष्यति॥६२.२४॥
मया समेत्य रम्येऽस्मिन् महाकन्दरकन्दरे ।
मत्परित्राणजं धर्ममवश्यं प्रतिपत्स्यसे॥६२.२५॥
आयुषः सावशेषं मे नृनमस्ति महामते ।
निवृत्तस्तेन नूनं त्वं हृदयाह्लादकारकः॥६२.२६॥
कलिरुवाच
किं करोमि क्रियाहानिर्भवत्यत्र सतो मम ।
त्वमप्येवंविधं वाक्यं ब्रवीषि तनुमध्यमे॥६२.२७॥
तदहं सङ्कटं प्राप्तो यद्ब्रवीमि करोषि तत् ।
यदि स्यात् सङ्गमो मेऽद्य भवत्या सह नान्यथा॥६२.२८॥
वरूथिनी उवाच
प्रसीद यद्ब्रवीषि त्वं तत्करोमि न ते मृषा ।
ब्रवीम्येतदनाशङ्कं यत्ते कार्यं मयाधुना॥६२.२९॥
कलिरुवाच
नाद्य संभोगसमये द्रष्टव्योऽहं त्वया वने ।
निमीलिताक्ष्याः संसर्गस्तव सुभ्रु मया सह॥६२.३०॥
वरूथिन्युवाच
एवं भवतु भद्रन्ते यथेच्छसि तथास्तु तत् ।
मया सर्वप्रकारं हि वशे स्थेयं तवाधुना॥६२.३१॥
इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे द्विषष्टितमोऽध्यायः ।
त्रिषष्टितमोऽध्यायः- ६३
मार्कण्डेय उवाच
ततः सह तथा सोऽथ रराम गिरिसानुषु ।
फुल्लकाननहृद्येषु मनोज्ञेषु सरः सु च॥६३.१॥
कन्दरेषु च रम्येषु निम्नगापुलिनेषु च ।
मनोज्ञेषु तथान्येषु देशेषु मुदितो द्विज॥६३.२॥
वह्निनाधिष्ठितस्यासीद् यद्रूपन्तस्य तेजसा ।
अचिन्तयद्भोगकाले निमीलितविलोचना॥६३.३॥
ततः कालेन सा गर्भमवाप मुनिसत्तम ।
गन्धर्ववीर्यतो रूपचिन्तनाच्च द्विजन्मनः॥६३.४॥
तां गर्भधारिणीं सोऽथ सान्त्वयित्वा वरूथिनीम् ।
विप्ररूपधरो यातस्तया प्रीत्या विसर्जितः॥६३.५॥
जज्ञे स बालो द्युतिमान ज्वलन्निव विभावसुः ।
स्वरोचिभैर्यथा सूर्यो भासयन् सकला दिशः॥६३.६॥
स्वरोचिभिर्यतो भाति भास्वानिव स बालकः ।
ततः स्वरोचिरित्येवं नाम्ना ख्यातो बभूत सः॥६३.७॥
ववृधे च महाभागो वयसानुदिनन्तथा ।
गुणौघैश्च यथा बालः कलाभिः शशलाञ्छनः॥६३.८॥
स जग्राह धनुर्वेदं वेदांश्चैव यथाक्रमम् ।
विद्याश्चैव महाभागस्तदा यौवनगोचरः॥६३.९॥
मन्दराद्रौ कदाचित् स विचरंश्चारुचेष्टितः ।
ददर्शैकां तदा कन्यां गिरिप्रस्थे भयातुराम्॥६३.१०॥
त्रायस्वेति निरीक्ष्यैनं सा तदा वाक्यमब्रवीत् ।
मा भैषीरिति स प्राह भयविप्लुतलोचनाम्॥६३.११॥
किमेतदिति तेनोक्ते वीरवाक्ये महात्मना ।
ततः सा कथयामास श्वासाक्षेपप्लुताक्षरम्॥६३.१२॥
कन्योवाच
अहमिन्दीवराख्यस्य सुता विद्याधरस्य वै ।
नाम्ना मनोरमा जाता सुतायां मरुधन्वनः॥६३.१३॥
मन्दारविद्याधरजा सखी मम विभावरी ।
कलावती चाप्यपरा सुता पारस्य वै मुनेः॥६३.१४॥
ताभ्यां सह मया यातं कैलासतटमुत्तमम् ।
तत्र दृष्टो मुनिः कश्चित्तपसातिकृशाकृतिः॥६३.१५॥
क्षुत्क्षामकण्ठो निस्तेजा दूरपाताक्षितारकः ।
मयावहसितः क्रुद्धः स तदा मां शशाप ह॥६३.१६॥
क्षामक्षामस्वरः किञ्चित्कल्पिताधरपल्लवः ।
त्वयावहसितो यस्मादनार्ये दुष्टतापसि॥६३.१७॥
तस्मात् त्वामचिरेणैव राक्षसोऽभिभविष्यसि ।
दत्ते शापे मत्सखीभ्यां स तु निर्भत्सितो मुनिः॥६३.१८॥
धिक् ते ब्राह्मण्यमक्षान्त्या हृतन्ते निखिलन्तपः ।
अमर्षणैर्धर्षितोऽसि तपसा नातिकर्षितः॥६३.१९॥
क्षान्त्यास्पदं वै ब्राह्मण्यं क्रोधसंयमनन्तपः ।
एतच्छ्रुत्वा ददौ शापं तयोरप्यमितद्युतिः॥६३.२०॥
एकस्याः कुष्ठमङ्गेषु भाव्यन्यस्यास्तथा क्षयः ।
तयोस्तथैव तज्जातं यथोक्तं तेन तत्क्षणात्॥६३.२१॥
ममाप्येवं महद्रक्षः समुपैति पदानुगम् ।
न शृणोषि महानादं तस्यादूरेऽपि गर्जतः॥६३.२२॥
तृतीयमद्य दिवसं यन्मे पृष्ठन्न मुञ्चति ।
अस्त्रग्रामस्य सर्वस्य हृदज्ञाहमद्य ते॥६३.२३॥
ते प्रयच्छामि मां रक्ष रक्षसोऽस्मान्महामते ।
प्रादात् स्वायम्भुवस्यादौ स्वयं रुद्रः पिनाकधृक्॥६३.२४॥
स्वायम्भुवो वसिष्ठाय सिद्धवर्याय दत्तवान् ।
तेनापि दत्तं मन्मातुः पित्रे चित्रायुधाय वै॥६३.२५॥
प्रादादौद्वाहिकं सोऽपि मत्पित्रे श्वशुरः स्वयम् ।
मयापि शिक्षितं वीर ! सकाशाद् बालया पितुः॥६३.२६॥
हृदयं सकलास्त्राणामशेषरिपुनाशनम् ।
तदिदं गृह्यतां शीघ्रमशेषास्त्रपरायणम्॥६३.२७॥
ततो जहि दुरात्मानमेनं राक्षसमागतम्॥६३.२८॥
मार्कण्डेय उवाच
तथैत्युक्ते ततस्तेन वार्युपस्पृश्य तस्य तत् ।
अस्त्राणां हृदयं प्रादात् सरहस्यनिवर्तनम्॥६३.२९॥
एतस्मिन्नन्तरे रक्षस्तत्तदा भीषणाकृति ।
नर्दमानं महानादमाजगाम त्वरान्वितम्॥६३.३०॥
मयाभिभूता किं त्राणमुपैषि द्रुतमेहि मे ।
भक्षामि किञ्चिरेणेति ब्रुवाणं तं ददर्श सः॥६३.३१॥
स्वरोचिश्चिन्तयामास दृष्ट्वा तं समुपागतम् ।
गृह्णात्वेष वचः सत्यं तस्यास्त्विति महामुनेः॥६३.३२॥
जग्राह समुपेत्यैनां त्वरया सोऽपि राक्षसः ।
त्राहि त्राहीति करुणं विलपन्तीं सुमध्यमाम्॥६३.३३॥
ततः स्वरोचिः संक्रुद्धश्चण्डास्त्रमतिभैरवम् ।
दृष्ट्यां निवेश्य तद्रक्षो ददर्शानिमिषेक्षणः॥६३.३४॥
तदाभिभूतः स तदा तामुत्सृज्य निशाचरः ।
प्रसीद शाम्यतामस्त्रं श्रूयताञ्चेत्यभाषत॥६३.३५॥
मोक्षितोषऽहं त्वया शापादतिघोरान्महाद्युते ।
प्रदत्तादतितीव्रेण ब्रह्ममित्रेण धीमता॥६३.३६॥
उपकारी न मे त्वत्तो महाभागाधिकोऽपरः ।
येनाहं सुमहाकष्टान्महाशापाद्विमोक्षितः॥६३.३७॥
स्वरोचिरुवाच
ब्रह्ममित्रेण मुनिना किन्निमित्तं महात्मना ।
शप्तस्त्वं कीदृशश्चैव शापो दत्तोऽभवत् पुरा॥६३.३८॥
राक्षसा उवाच
ब्रह्ममित्रोऽष्टधा भिन्नमायुर्वेदमधीतवान् ।
त्रयोदशाधिकारञ्च प्रगृह्याथर्वणो द्विजः॥६३.३९॥
अहञ्चेन्दीवराख्येति ख्यातोऽस्या जनकोऽभवम् ।
विद्याधरपतेः पुत्रो नलनाभस्य खङ्गिनः॥६३.४०॥
मया च याचितः पुर्वं ब्रह्ममित्रोऽभवन्मुनिः ।
आयुर्वेदमशेषं मे भगवन् ! दातुमर्हसि॥६३.४१॥
यदा तु बहुशो वीर ! प्रश्रयावनतस्य मे ।
न प्रादाद्याचितो विद्यामायुर्वेदात्मिकां मम॥६३.४२॥
शिष्येभ्यो ददतस्तस्य मयान्तर्धानगेन हि ।
आयुर्वेदात्मिका विद्या गृहीताभूत्तदानघ॥६३.४३॥
गृहीतायान्तु विद्यायां मासैरष्टाभिरन्तरात् ।
ममातिहर्षादभवद्धासोऽतीव पुनः पुनः॥६३.४४॥
प्रत्यभिज्ञाय मां हासान्मुनिः कोपसमन्वितः ।
विकम्पिकन्धरः प्राह मामिदं परुषाक्षरम्॥६३.४५॥
राक्षसेनैव यस्मान्मे त्वयादृश्येन दुर्मते ।
हृता विद्यावहासश्च मामवज्ञाय वै कृतः॥६३.४६॥
तस्मात्त्वं राक्षसः पाप ! मच्छापेन निराकृतः ।
भविष्यसि न सन्देहः सप्तरात्रेण दारुणः॥६३.४७॥
इत्युक्ते प्रणिपाताद्यैरुपचारैः प्रसादितः ।
स मामाह पुनर्विप्रस्तत्क्षणान्मृदुमानसः॥६३.४८॥
यन्मयोक्तमवश्यन्तद्भावि गन्धर्व ! नान्यथा ।
किन्तु त्वं राक्षसो भूत्वा पुनः स्वं प्राप्स्यसे वपुः॥६३.४९॥
नष्टस्मृतिर्यदा क्रुद्धः स्वमपत्यञ्चिखादिषुः ।
निशाचरत्वं गन्तासि तदस्त्रानलतापितः॥६३.५०॥
पुनः संज्ञामवाप्य स्वामवाप्स्यसि निजं वपुः ।
तथैव स्वमधिष्ठानं लोके गन्धर्वसंज्ञिते॥६३.५१॥
सोऽहं त्वया महाभाग ! मोक्षितोऽस्मान्महाभयात् ।
निशाचरत्वाद् यद्वीर ! तेन मे प्रार्थनां कुरु॥६३.५२॥
इमान्ते तनयां भार्यां प्रयच्छामि प्रतीच्छ ताम् ।
आयुर्वेदश्च सकलस्त्वष्टाङ्गो यो मया ततः ।
मुनेः सकाशात् संप्राप्तस्तं गृह्णीष्व महामते॥६३.५३॥
मार्कण्डेय उवाच
इत्युक्त्वा प्रददौ विद्यां स च दिव्याम्बरोज्जवलः ।
स्त्रग्भूषणधरो दिव्यं पुराणं वपुरास्थितः॥६३.५४॥
दत्त्वा विद्यां ततः कन्यां स दातुमुपचक्रमे ।
तमाह सा तदा कन्या जनितारं स्वरूपिणम्॥६३.५५॥
अनुरागो ममाप्यत्र तातातीव महात्मनि ।
दर्शनादेव संजातो विशेषेणोपकारिणि॥६३.५६॥
किन्त्वेषा मे सखी सा च मत्कृते दुः खपीडिते ।
अतो नाभिलषे भोगान् भोक्तुमेतेन वै समम्॥६३.५७॥
पुरुषैरपि नो शक्या कर्तुमित्थं नृशंसता ।
स्वभावरुचिरैर्मादृक् कथं योषित् करिष्यति॥६३.५८॥
साहं यथा ते दुः खार्ते मत्कृते कन्यके पितः ।
तथा स्थास्यामि तद्दुः खे तच्छोकानलतापिता॥६३.५९॥
स्वरोचिरुवाच
आयुर्वेदप्रसादेन ते करिष्ये पुनर्नवे ।
सख्यौ तव महाशोकं समुत्सृज सुमध्यमे॥६३.६०॥
मार्कण्डेय उवाच
ततः पित्रा स्वयं दत्तां तां कन्यां स विधानतः ।
उपयेमे गिरौ तस्मिन् स्वरोचिश्चारुलोचवनाम्॥६३.६१॥
दत्तान्तु तां तदा कन्यामभिशान्त्य च भामिनीम् ।
जगाम दिव्यया गत्यागन्धर्वः स्वपुरन्ततः॥६३.६२॥
स चापि सहितस्तन्व्या सदुद्यानन्तदा ययौ ।
कन्यकायुगलं यत्र तच्छापोत्थगदातुरम्॥६३.६३॥
ततस्तयोः स तत्त्वज्ञो रोगघ्नैरौषधै रसैः ।
चकार नीरुजौ देहौ स्वरोचिरपराजितः॥६३.६४॥
ततोऽतिशोभने कन्ये विमुक्ते व्याधितः शुभे ।
स्वकान्त्योद्योति दिग्भागं चक्राते तन्महीधरम्॥६३.६५॥
इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे त्रिषष्टितमोऽध्यायः
चतुः षष्टितमोऽध्यायः- ६४
मार्कण्डेय उवाच
एवं विमुक्तरोगा तु कन्यका तं मुदान्विता ।
स्वरोचिषमुवाचेदं शृणुष्व वचनं प्रभो॥६४.१॥
मन्दारविद्याधरजा नाम्ना ख्याता विभावरी ।
उपकारिन् ! स्वमात्मानं प्रयच्छामि प्रतीच्छ माम्॥६४.२॥
विद्याञ्च तुभ्यं दास्यामि सर्वबूतरुतानि ते ।
ययाभिव्यक्तिमेष्यन्ति प्रसादपुरगो भव॥६४.३॥
मार्कण्डेय उवाच
एवमस्त्विति तेनोक्ते धर्मज्ञेन स्वरोचिषा ।
द्वितीया तु तदा कन्या इदं वचनमब्रवीत्॥६४.४॥
कुमारब्रह्मचार्यासीत् पारो नाम पिता मम ।
ब्रह्मर्षिः सुमहाभागो वेदवेदाङ्गपारगः॥६४.५॥
तस्य पुंस्कोकिलालापरमणीये मधौ पुरा ।
आजगामाप्सराभ्यासं प्रख्याता पुञ्जिकास्तना॥६४.६॥
कामवक्तव्यतां नीतः स तदा मुनिपुङ्गवः ।
तत्संयोगेऽहमुत्पन्ना तस्यामत्र महाचले॥६४.७॥
विहाय मां गता सा च मातास्मिन्निर्जने वने ।
बालामेकां महीपृष्ठे व्यालश्वापदसंकुले॥६४.८॥
ततः कलाभिः सोमस्य वर्धन्तीभिरहः क्षये ।
आप्याय्यमानाहरहो वृद्धिं यातास्मि सत्तम॥६४.९॥
ततः कलावतीत्येतन्मम नाम महात्मना ।
गृहीतायः कृतं पित्रा गन्धर्वेण शुभानना॥६४.१०॥
न दत्ताहं तदा तेन याचितेन महात्मना ।
देवारिणालिना सुप्तस्ततो मे घातितः पिता॥६४.११॥
ततोऽहमतिनिर्वेदादात्मव्यापादनोद्यता ।
निवारिता शम्भुपत्न्या सत्या सत्यप्रतिश्रवा॥६४.१२॥
मा शुचः सुभ्रु ! भर्ता ते महाभागो भविष्यति ।
स्वरोचिर्नाम पुत्रश्च मनुस्तस्य भविष्यति॥६४.१३॥
आज्ञाञ्च निधयः सर्वे करिष्यन्ति तवादृताः ।
यथाभिलषितं वित्तं प्रदास्यन्ति च ते शुभे॥६४.१४॥
यस्या वत्से प्रभावेण विद्यायास्तां गृहाण मे ।
पद्मिनी नाम विद्येयं महापद्माभिपूजिता॥६४.१५॥
इत्याह मां दक्षसुता सती सत्यपरायणा ।
स्वरोचिस्त्वं ध्रुवं देवी नान्यथा सा वदिष्यति॥६४.१६॥
साहं प्राणप्रदायाद्य तां विद्यां स्वं तथा वपुः ।
प्रयच्छामि प्रतीच्छ त्वं प्रसादसुमुखो मम॥६४.१७॥
मार्कण्डेय उवाच
एवमस्त्विति तामाह स तु कन्यां कलावतीम् ।
विभावर्याः कलावत्याः स्निग्धदृष्ट्यानुमोदितः॥६४.१८॥
जग्राह च ततः पाणी स तयोरमरद्युतिः ।
नदत्सु देवतूर्येषु नृत्यन्तीष्वप्सरः सु च॥६४.१९॥
इति श्रीमार्कण्जडेयपुराणेठस्वारोचिषे मन्वन्तरेऽ चतुः षष्टितमोऽध्यायः
पञ्चषष्टितमोऽध्यायः- ६५
मार्कण्डेय उवाच
ततः स ताभिः सहितः पत्नीभिरमरद्युतिः ।
रराम तस्मिन् शैलेन्द्रे रम्यकानननिर्झरे॥६५.१॥
सर्वोपभोगरत्नानि मधूनि मधुराणि च ।
निधयः समुपाजह्रुः पद्मिन्या वशवर्तिनः॥६५.२॥
स्त्रजो वस्त्राण्यलङ्कारान् गन्धाढ्यमनुलेपनम् ।
आसनान्यतिशुभ्राणि काञ्चनानि यथेच्छया॥६५.३॥
सौवर्णानि महाभाग ! करकान् भाजनानि च ।
तथा शय्याश्च विविधा दिव्यैरास्तरणैर्युताः॥६५.४॥
एवं स ताभिः सहितो दिव्यगन्धाधिवासिते ।
रराम स्वरुचिर्भाभिर्भासिते वरपर्वते॥६५.५॥
ताश्चापि सह तेनेति लेभिरे मुदमुत्तमाम् ।
रममाणा यथा स्वर्गे तथा तत्र शिलोच्चये॥६५.६॥
कलहंसी जगादैकां चक्रवाकीं जले सतीम् ।
तस्य तासाञ्च ललिते सम्बन्धे च स्पृहावती॥६५.७॥
धन्योऽयमतिपुण्योऽयं योऽय यौवनगोचरः ।
दयिताभिः सहैताभिर्भुङ्क्ते भोगानभीप्सितान्॥६५.८॥
सन्ति यौवनिनः श्लाघ्यास्तत्पत्न्यो नातिशोभनाः ।
जगत्यामल्पकाः पत्न्यः पतयश्चातिशोभनाः॥६५.९॥
अभीष्टा कस्यचित् कान्ता कान्तः कस्याश्चिदीप्सितः ।
परस्परानुरागाढ्यं दाम्पत्यमतिदुर्लभम्॥६५.१०॥
धन्योऽयं दयिताभीष्टो ह्येताश्चास्यातिवल्लभाः ।
परस्परानुरागो हि धन्यानामेव जायते॥६५.११॥
एतन्निशम्यवचनं कलहंसीसमीरितम् ।
उवाच चक्रवाकी तां नातिविस्मितमानसा॥६५.१२॥
नायं धन्यो यतो लज्जा नान्यस्त्रीसन्निकर्षतः ।
अन्यां स्त्रियमयं भुङ्क्ते न सर्वास्वस्य मानसम्॥६५.१३॥
चित्तानुराग एकस्मिन्नधिष्ठाने यतः सखि ।
ततो हि प्रीतिमानेष भार्यासु भविता कथम्॥६५.१४॥
एता न दयिताः पत्युर्नैतासां दयितः पतिः ।
विनोदमात्रमेवैता यथा परिजनोऽपरः॥६५.१५॥
एतासाञ्च यदिष्टोऽयं तत् किं प्राणान्न मुञ्चति ।
आलिङ्गत्यपरां कान्तां ध्यातो वै कान्तयान्यया॥६५.१६॥
विद्याप्रदानमूल्येन विक्रीतो ह्येष भृत्यवत् ।
प्रवर्तते न हि प्रेम समं बह्वीषु तिष्ठति॥६५.१७॥
कलहंसि ! पतिर्धन्यो मम धन्याहमेव च ।
यस्यैकस्याञ्चिरं चित्तं यस्याश्चैकत्र संस्थितम्॥६५.१८॥
सर्वसत्त्वरुतज्ञोऽसौ स्वरोचिरपराजितः ।
निशम्य लज्जितो दध्यौ सत्यमेव हि नानृतम्॥६५.१९॥
ततो वर्षशते याते रममाणो महागिरौ ।
रममाणः समं ताभिर्ददर्श पुरतो मृगम्॥६५.२०॥
सुस्निग्धपीनावयवं मृगयूथविहारिणम् ।
वासिताभिः सुरूपाभिर्मृगीभिः परिवारितम्॥६५.२१॥
आकृष्टघ्राणपुटका जिघ्रन्तीस्तास्ततो मृगीः ।
उवाच स मृगो रामा लज्जात्यागेन गम्यताम्॥६५.२२॥
नाहं स्वरोचिस्तच्छीलो न चैवाहं सुलोचनाः ।
निर्लज्जा बहवः सन्ति तादृशास्तत्र गच्छतः॥६५.२३॥
एका त्वनेकानुगता यथा हासास्पदं जने ।
अनेकाभिस्तथैवैको बोगदृष्ट्या निरीक्षितः॥६५.२४॥
तस्य धर्मक्रियाहानिरहन्यहनि जायते ।
सक्तोऽन्यभार्यया चान्यकामासक्तः सदैव सः॥६५.२५॥
यस्तादृशोऽन्यस्तच्छीलः परलोकपराङ्मुखः ।
तं कामयत भद्रं वो नाहं तुल्यः स्वरोचिषा॥६५.२६॥
इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे पञ्चषष्टितमोऽध्यायः
Æञ्ःâå>üúåßञादादनागतम् ।
यथाहं समतीतञ्च वर्तमानञ्च सर्वतः॥६९.५३॥
आलोच्याज्ञापयेत्युक्ते ततो ज्ञातं मयापि तत् ।
ततो न दत्तवानर्घमहं तुभ्यं विधानतः॥६९.५४॥
सत्यं राजन् ! त्वमर्घार्हः कुले स्वायम्भुवस्य च ।
तथापि नार्घयोग्यं त्वां मन्यामो वयमुत्तमम्॥६९.५५॥
राजोवाच
किं कृतं हि मया ब्रह्मन् ! ज्ञानादज्ञानतोऽपि वा ।
येन त्वत्तोर्ऽघमर्हामि नाहमभ्यागतश्चिरात्॥६९.५६॥
ऋषिरुवाच
किं विस्मृतन्ते यत्पत्नी त्वया त्यक्ता च कानने ।
परित्यक्तस्तया सार्धं त्वया धर्मो नृपाखिलः॥६९.५७॥
पक्षेण कर्मणो हान्या प्रयात्यस्पर्शतां नरः ।
विण्मूत्रैर्वार्षिकी यस्य हानिस्ते नित्यकर्मणः॥६९.५८॥
पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्तरि ।
दुः शीलापि तथा भार्या पोषणीया नरेश्वर॥६९.५९॥
प्रतिकूला हि सा पत्नी तस्य विप्रस्य या हृता ।
तथापि धर्मकामोऽसौ त्वामुद्योतितवान् नृप॥६९.६०॥
चलतः स्थापयस्यन्यान् स्वधर्मेषु महीपते ।
त्वां स्वधर्माद्विचलितं कोऽपरः स्थापयिष्यति॥६९.६१॥
मार्कण्डेय उवाच
विलक्ष्यः स महीपाल इत्युक्तस्तेन धीमता ।
तथेत्युक्त्वा च पप्रच्छ हृतां पत्नीं द्विजन्मनः॥६९.६२॥
भगवन् ! केन नीता सा पत्नी विप्रस्य कुत्र वा ।
अतीतानागतं वेत्ति जगत्यवितथं भवान्॥६९.६३॥
ऋषिरुवाच
तां जहाराद्रितनयो बलाको नाम राक्षसः ।
द्रक्ष्यसे चाद्य तां भूप ! उत्पलावतके वने॥६९.६४॥
गच्छ संयोजयाशु त्वं भार्यया हि द्विजात्तमम् ।
मा पापास्पदतां यातु त्वमिवासौ दिने दिने॥६९.६५॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकोनसप्ततितमोऽध्यायः
सप्ततितमोऽध्यायः- ७०
मार्कण्डेय उवाच
अथारुरोह स्वरथं प्रणिपत्य महामुनिम् ।
तेनाख्यातं वनन्तच्च प्रययावुत्पलावतम्॥७०.१॥
यथाख्यातस्वरूपाञ्च भार्यां भर्त्रा द्विजस्य ताम् ।
भक्षयन्तीं ददार्शाथ श्रीफलानि नरेश्वरः॥७०.२॥
पप्रच्छ च कथं भद्रे ! त्वमेतद्वनमागता ।
स्फुटं ब्रवीहि वैशालेरपि भार्या सुशर्मणः॥७०.३॥
ब्राह्मण्युवाच
सुताहमतिरात्रस्य द्विजस्य वनवासिनः ।
पत्नी विशालपुत्रस्य यस्य नाम त्वयोदितम्॥७०.४॥
साहं हृता बलाकेन राक्षसेन दुरात्मना ।
प्रसुप्ता भवनस्यान्ते भ्रातृमातृवियोजिता॥७०.५॥
भस्मीभवतु तद्रक्षो येनास्म्येवं वियोजिता ।
मात्रा भ्रातृभिरन्यैश्च तिष्टाम्यत्र सुदुः खिता॥७०.६॥
अस्मिन् वनेऽतिगहने तेनानीयाहमुज्झिता ।
न वेद्मि कारणं कि तन्नोपभुङ्क्ते न खादति॥७०.७॥
राजोवाच
अपि तज्ज्ञायते रक्षस्त्वामुत्सृज्य क्व वै गतम् ।
अहं भर्त्रा तवैवात्र प्रेषितो द्विजनन्दिनि॥७०.८॥
ब्राह्मण्युवाच
अस्यैव काननस्यान्ते स तिष्ठति निशाचरः ।
प्रविश्य पश्यतु भवान् न बिभेति ततो यदि॥७०.९॥
मार्कण्डेय उवाच
प्रविवेश ततः सोऽथ तया वर्त्मनि दर्शिते ।
ददृशे परिवारेण समवेतञ्च राक्षसम्॥७०.१०॥
दृष्टमात्रे ततस्तस्मिन् त्वरमाणः स राक्षसः ।
दूरादेव महीं मूर्ध्ना स्पृशन् पादान्तिकं ययौ॥७०.११॥
राक्षस उवाच
ममात्रागच्छता गेहं प्रसादस्ते महान् कृतः ।
प्रशाधि किं करोम्येष वसामि विषये तव॥७०.१२॥
अर्घञ्चेमं प्रतीच्छ त्वं स्थीयताञ्चेदमासनम् ।
वयं भृत्या भवान् स्वामी दृढमाज्ञापयस्व माम्॥७०.१३॥
राजोवाच
कृतमेव त्वया सर्वं सर्वामेवातिथिक्रियाम् ।
किमर्थं ब्राह्मणवधूस्त्वयानीता निशाचर॥७०.१४॥
नेयं सुरूपा सन्त्यन्या भार्यार्थञ्चेद् हृता त्वया ।
भक्ष्यार्थं चेत्कथं नात्ता त्वयैतत्कथ्यतां मम॥७०.१५॥
राक्षस उवाच
न वयं मानुषाहारा अन्ये ते नृप ! राक्षसाः ।
सुकृतस्य फलं यत्तु तदश्नीमो वयं नृप॥७०.१६॥
स्वभावञ्च मनुष्याणां योषिताञ्च विमानिताः ।
मानिताश्च समश्नीमो न वयं जन्तुखादकाः॥७०.१७॥
यदस्माभिर्नृणां क्षान्तिर्भुक्ता क्रुध्यन्ति ते तदा ।
भुक्ते दुष्टे स्वभावे च गुणवन्तो भवन्ति च॥७०.१८॥
सन्ति नः प्रमदा भूप ! रूपेणाप्सरसां समाः ।
राक्षस्यस्तासु तिष्ठत्सु मानुषीषु रतिः कथम्॥७०.१९॥
राजोवाच
यद्येषा नोपभोगाय नाहाराय निशाचर ।
गृहं प्रविश्य विप्रस्य तत्किमेषा हृता त्वया॥७०.२०॥
राक्षस उवाच
मन्त्रवित् स द्विजश्रेष्ठो यज्ञे यज्ञे गतस्य मे ।
रक्षोघ्नमन्त्रपठनात् करोत्युच्चाटनं नृप॥७०.२१॥
वयं बुभुक्षितास्तस्य मन्त्रोच्चाटनकर्मणा ।
क्व यामः सर्वयज्ञेषु स ऋत्विग् भवति द्विजः॥७०.२२॥
ततोऽस्माभिरिदन्तस्य वैकल्यमुपपादितम् ।
पत्न्या विना पुमानिज्याकर्मयोग्यो न जायते॥७०.२३॥
मार्कण्डेय उवाच
वैकल्योच्चारणात्तस्य ब्राह्मणस्य महामतेः ।
ततः स राजातिभृशं विषण्णः समजायत॥७०.२४॥
वैकल्यमेवं विप्रस्य वदन्मामेव निन्दति ।
अनर्हमर्घस्य च मां सोऽप्याह मुनिसत्तमः॥७०.२५॥
वैकल्यं तस्य विप्रस्य राक्षसोऽप्याह मे यथा ।
अपत्नीकतया सोऽहं सङ्कटं महदास्थितः॥७०.२६॥
मार्कण्डेय उवाच
एवं चिन्तयतस्तस्य पुनरप्याह राक्षसः ।
प्रणामनम्रो राजानं बद्धाञ्जलिपुटो मुने॥७०.२७॥
नरेन्द्राज्ञाप्रदानेन प्रसादः क्रियतां मम ।
भृत्यस्य प्रणतस्य त्वं युष्मद्विषयवासिनः॥७०.२८॥
राजोवाच
स्वभावं वयमश्नीमस्त्वयोक्तं यन्निशाचर ।
तदर्थिनो वयं येन कार्येण शृणु तन्मम॥७०.२९॥
अस्यास्त्वयाद्य ब्राह्मण्या दौः शील्यमुपभुज्यताम् ।
येन त्वयात्तदौः शील्या तद्विनीता भवेदियम्॥७०.३०॥
नीयतां यस्य भार्येयं तस्य वेश्म निशाचर ।
अस्मिन् कृते कृतं सर्वं गृहमभ्यागतस्य मे॥७०.३१॥
मार्कण्डेय उवाच
ततः स राक्षसस्तस्याः प्रविश्यान्तः स्वमायया ।
भक्षयामास दौः शील्यं निजशक्त्या नृपाज्ञया॥७०.३२॥
दौः शील्येनातिरौद्रेण पत्नी तस्य द्विजन्मनः ।
तेन सा संपरित्यक्ता तमाह जगतीपतिम्॥७०.३३॥
स्वकर्मफलपाकेन भर्तुस्तस्य महात्मनः ।
वियोजिताहं तद्धेतुरयमासीन्निशाचरः॥७०.३४॥
नास्य दोषो न वा तस्य मम भर्तुर्महात्मनः ।
ममैव दोषो नान्यस्य सुकृतं ह्युपभुज्यते॥७०.३५॥
अन्यजन्मनि कस्यापि विप्रयोगः कृतो मया ।
सोऽयं ममाप्युपगतः को दोषोऽस्य महात्मनः॥७०.३६॥
राक्षस उवाच
प्रापयामि तवादेशादिमां भर्तृगृहं प्रभो ।
यदन्यत्करणीयन्ते तदाज्ञापय पार्थिव॥७०.३७॥
राजोवाच
अस्मिन् कृते कृतं सर्वं त्वया मे रजनीचर ।
आगन्तव्यञ्च ते वीर ! कार्यकाले स्मृतेन मे॥७०.३८॥
मार्कण्डेय उवाच
नथेत्युक्त्वा तु तद्रक्षस्तामादाय द्विजाङ्गनाम् ।
निन्ये भर्तृगृहं शुद्धां दौः शोल्यापगमात्तदा॥७०.३९॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे सप्ततितमोऽध्यायः
अथ त्रिषष्टितमोऽध्यायः
ब्राह्मणवाक्यवर्णनम्
मार्कण्डेय उवाच
एवं निरस्यमानास्ता हरिणेन मृगाङ्गनाः ।
श्रुत्वा स्वरोचिरात्मानं मेने स पतितं यथा । । १
त्यागे चकार च मनः स तासां मुनिसत्तम ।
चक्रवाकीमृगप्रोक्तो मृगचर्याजुगुप्सितः । । २
समेत्य ताभिर्भूयश्च वर्द्धमानमनोभवः ।
आक्षिप्तनिर्वेदकथो रेमे वर्षशतानि षट् । । ३
किन्तु धर्माविरोधेन कुर्वन्धर्माश्रिताः क्रियाः ।
भुङ्क्ते स्वरोचिर्विषयान्सह ताभिरुदारधीः । । ४
ततश्च जज्ञिरे तस्य त्रयः पुत्राः स्वरोचिषः ।
विजयो मेरुनन्दश्च प्रभावश्च महाबलः । । ५
मनोरमा च विजयं प्रासूतेन्दीवरात्मजा ।
विभावरी मेरुनन्दं प्रभावं च कलावती । । ६
पद्मिनी नाम या विद्या सर्वभोगोपपादिका ।
स तेषां तत्प्रभावेण पिता चक्रे पुरत्रयम् । । ७
प्राच्यां तु विजयं नाम कामरूपे नगोत्तमे ।
विजयाय सुतायादौ स ददौ पुरमुत्तमम् । । ८
उदीच्यां मेरुनन्दस्य पुरीं नन्दवतीमिति ।
ख्यातां चकार प्रोत्तुङ्गवप्रप्राकारमालिनीम् । । ९
कलावतीसुतस्यापि प्रभावस्य निवेशितम् ।
पुरं तालमिति ख्यातं दक्षिणापथमाश्रितम् । । 66.१०
एवं निवेश्य पुत्रान्स पुरेषु पुरुषर्षभ ।
रेमे ताभिः समं विप्र मनोज्ञास्वद्रिभूमिषु । । ११
एकदा तु गतोऽरण्ये विहरन्स धनुर्द्धरः ।
चकर्ष धनुरालोक्य वराहमतिदूरगम् । । १२
अथाह काचिदभ्येत्य तं तदा हरिणाङ्गना ।
मय्येव पात्यतां बाणः प्रसीदेति पुनः पुनः । । १३
किमनेन हतेनाद्य मामाशु विनिपातय ।
त्वया निपातितो बाणो दुःखान्मां मोक्षयिष्यति । । १४
स्वरोचिरुवाच
न ते शरीरं सरुजमस्माभिरुपलक्ष्यते ।
किन्नु तत्कारणं येन त्वं प्राणान्हातुमिच्छसि । । १५
मृग्युवाच
अन्यास्वासक्तहृदये यस्मिंश्चेतः कृतास्पदम् ।
मम तेन विना मृत्युरौषधं किमिहापरम् । । १६
स्वरोचिरुवाच
कस्त्वां नाभिलषेद्भीरु सानुरागासि कुत्र वा ।
यदप्रात्तौ निजान्प्राणान्परित्यक्तुं व्यवस्यसि । । १७
मृग्युवाच
त्वामेवेच्छामि भद्रं ते त्वया मेऽपहृतं मनः ।
वृणोम्यहमतो मृत्युं मयि बाणो निपात्यताम् । । १८
स्वरोचिरुवाच
त्वं मृगी चञ्चलापाङ्गी नररूपधरा वयम् ।
कथं त्वया समं योगो मद्विधस्य भविष्यति । । १९
मृग्युवाच
यदि सापेक्षितं चित्तं मयि ते मां परिष्वज ।
यदि वाऽसाधु चित्तं ते करिष्यामि यथेप्सितम् । । 66.२०
एतावताहं भवता भविष्याम्यतिमानिता । ।
मार्कण्डेय उवाच
आलिलिङ्ग ततस्तां स स्वरोचिर्हरिणाङ्गनाम् । । २१
तेन चालिङ्गिता सद्यः साभूद्दिव्यवपुर्धरा ।
ततः सविस्मयाविष्टः का त्वमित्थभ्यभाषत । । २२
सा चास्मै कथयामास प्रेमलज्जाजडाक्षरम् ।
अहमम्यर्थिता देवैः काननस्यास्य देवता । । २३
उत्पादनीयो हि मनुस्त्वया मयि महामते ।
प्रीतिमत्यां मयि सुतं भूर्लोकपरिपालकम् । । २४
तमुत्पादय देवानां त्वामहं वचनाद्वदे । ।
मार्कण्डेय उवाच
ततः स तस्यां तनयं सर्वलक्षणलक्षितम् । । २५
तेजस्विनमिवात्मानं जनयामास तत्क्षणात् ।
जातमात्रस्य तस्याथ देववाद्यानि सस्वनुः । ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः । । २६
सिषिचुः शीकरैर्मेघा ऋषयश्च तपोधनाः । । २७
देवाश्च पुष्पवर्षं च मुमुचुश्च समन्ततः ।
तस्य तेजः समालोक्य नाम चक्रे पिता स्वयम् । । २८
द्युतिमानिति येनास्य तेजसा भासिता दिशः ।
स बालो द्युतिमान्नाम महाबलपराक्रमः । । २९
स्वरोचिषः सुतो यस्मात्तस्मात्स्वारोचिषोऽभवत् ।
स चापि विचरन्रम्ये कदाचिद्गिरिनिर्झरे । । 66.३०
स्वरोचिर्ददृशे हंसं निजपत्नीसमन्वितम् ।
उवाच स तदा हंसी साभिलाषां पुनः पुनः । । ३१
उपसंह्रियतामात्मा चिरं ते क्रीडितं मया ।
किं सर्वकालं भोगैस्ते आसन्नं चरमं वयः । । ३२
परित्यागस्य कालो मे तव चापि जलेचरि
हंस्युवाच
अकालः को हि भोगानां सर्वं भोगात्मकं जगत् । । ३३
यज्ञाः क्रियन्ते भोगार्थं ब्राह्मणैः संयतात्मभिः ।
दृष्टादृष्टांस्तथा भोगान्वाञ्छमाना विवेकिनः । । ३४
दानानि च प्रयच्छन्ति पूतान्धर्मांश्च कुर्वते ।
स त्वं नेच्छसि किं भोगान्भोगश्चेष्टफलं नृणाम् । । ३५
विवेकिनां तिरश्चां च किं पुनः संयतात्मनाम्
हंस उवाच
भोगेष्वासक्तचित्तानां परमार्थान्विता मतिः ।
भविष्यति कदा सङ्गमुपेतानां च बन्धुषु । । ३६
पुत्रमित्रकलत्रेषु सक्ताः सीदन्ति जन्तवः ।
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव । । ३७
किं न पश्यसि वा भद्रे जातसङ्गं स्वरोचिषम् ।
आबाल्यात्कामसंसक्तं मग्नं स्नेहाम्बुकर्दमे । । ३८
यौवनेऽतीव भार्यासु साम्प्रतं पुत्रनप्तृषु ।
स्वरोचिषो मनो मग्नमुद्धारं प्राप्स्यते कुतः । । ३९
नाहं स्वरोचिषस्तुल्यः स्त्रीवश्यो वा जलेचरि ।
विवेकवांश्च भोगानां निवृत्तोऽस्मि च साम्प्रतम् । । 66.४०
मार्कण्डेय उवाच
स्वरोचिरेतदाकर्ण्य जातोद्वेगः खगेरितम् ।
आदाय भार्यास्तपसे ययावन्यत्तपोवनम् । । ४१
तत्र तप्त्वा तपो घोरं सह ताभिरुदारधीः ।
जगाम लोकानमलान्निवृत्ताखिलकल्मषः । । ४२
इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे त्रिषष्टितमोऽध्यायः । ६३ ।
अथ चतुःषष्टितमोऽध्यायः.
स्वारोचिषमन्वन्तरवर्णनम्
मार्कण्डेय उवाच
ततः स्वारोचिषं नाम्ना द्युतिमन्तं प्रजापतिम् ।
मनुं चकार भगवांस्तस्य मन्वन्तरं शृणु । । १
तत्रान्तरे तु ये देवा मुनयस्तत्सुताश्च ये ।
भूपालाः क्रौष्टुके ये तान्गदतस्त्वं निशामय । । २
देवाः पारावतास्तत्र तथैव तुषिता द्विज ।
स्वारोचिषेऽन्तरे चेन्द्रो विपश्चिदिति विश्रुतः । । ३
ऊर्जस्तम्बस्तथा प्राणो दत्तोऽलिर्ऋषभस्तथा ।
निश्चरश्चार्ववीरश्च तत्र सप्तर्षयोऽभवम् । । ४
चैत्रकिंपुरुषाद्याश्च सुतास्तस्य महात्मनः ।
सप्तासन्सुमहावीर्याः पृथिवीपरिपालकाः । । ५
तस्य मन्वन्तरं यावत्तावत्तद्वंशविस्तरे ।
भुक्तेयमवनिः सर्वा द्वितीयं वै तदन्तरम् । । ६
स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य च ।
निशम्य मुच्यते पापैः श्रद्धधानो हि मानवः । । ७
इति श्रीमार्कण्डेयपुराणे स्वारोचिषसमाप्तिर्नाम चतुःषष्टितमोऽध्यायः । ६४ ।
पञ्चषष्टितमोऽध्यायः
निधिवर्णनम्
क्रौष्टुकिरुवाच
भगवन्कथितं सर्वं विस्तरेण त्वया मम ।
स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य तु । । १
या तु सा पद्मिनी नाम विद्या भोगोपपादिका ।
तत्संश्रया ये निधयस्तान्मे विस्तरतो वद । । २
अष्टौ ये निधयस्तेषां स्वरूपं द्रव्यसंस्थितिः ।
भवताभिहितं सम्यक्छ्रोतुमिच्छाम्यहं गुरो । । ३
मार्कण्डेय उवाच
पद्मिनी नाम या विद्या लक्ष्मीस्तस्याश्च देवता ।
तदाधाराश्च निधयस्तन्मे निगदतः शृणु । । ४
यत्र पद्ममहापद्मौ तथा मकरकच्छपौ ।
मुकुन्दो नंदकश्चैव नीलः शङ्खोऽष्टमो निधिः । । ५
सत्यामृद्धौ भवन्त्येते सिद्धिस्तेषां हि जायते ।
एते ह्यष्टौ समाख्याता निधयस्तव क्रौष्टुके । । ६
देवतानां प्रसादेन साधुसंसेवनेन च ।
एभिरालोकितं वित्तं मानुषस्य सदा मुने । । ७
यादृक्स्वरूपं भवति तन्मे निगदतः शृणु ।
पद्मो नाम निधिः पूर्वं स यस्य भवति द्विज । । ८
स तस्य तत्सुतानां च तत्पौत्राणां च नित्यशः ।
दाक्षिण्यसारः पुरुषस्तेन चाधिष्ठितो भवेत् । । ९
सत्त्वाधारो महाभागो यतोऽसौ सात्त्विको निधिः ।
सुवर्णरूप्यताम्रादिधातूनां च परिग्रहम् । । 68.१०
करोत्यतितरां सोऽथ तेषां च क्रयविक्रयम् ।
करोति च तथा यज्ञान्दक्षिणां च प्रयच्छति । । ११
(संपादयति कामांश्च सर्वानेव यथाक्रमम् ।
सभां देवनिकेतांश्च स कारयति तन्मनाः । ।
सत्त्वाधारो निधिश्चान्यो महापद्म इति श्रुतः । । १२
सत्त्वप्रधानो भवति तेन चाधिष्ठितो नरः ।
करोति पद्मरागादिरत्नानां च परिग्रहम् । । १३
मौक्तिकानां प्रवालानां तेषां च क्रयविक्रयान् ।
ददाति योगशीलेभ्यस्तेषामावसथांस्तथा । । १४
स कारयति तच्छीलः स्वयमेव च जायते ।
तत्प्रसूतास्तथाशीलाः पुत्रपौत्रक्रमेण च । । १५
पूर्वर्द्धिमात्रः सप्तासौ पुरुषांश्च न मुञ्चति ।
तामसो मकरो नाम निधिस्तेनावलोकितः । । १६
पुरुषोऽथ तमःप्रायः सुशीलोऽपि हि जायते ।
बाणखड्गर्ष्टि धनुषां चर्मणां च परिग्रहम् । । १७
दंशनानां च कुरुते योऽतिमैत्री च राजभिः ।
ददाति शौर्यवृत्तीनां भूभुजां ये च तत्प्रियाः । । १८
क्रयविक्रये च शस्त्राणां नान्यत्र प्रीतिमेति च ।
एकस्यैव भवत्येष नरस्य न सुतानुगः । । १९
द्रव्यार्थं दस्युतो नाशं संग्रामे वापि स व्रजेत् ।
कच्छपश्च निधिर्योऽसौ नरस्तेनाभिवीक्षितः । । 68.२०
तमःप्रधानो भवति यतोऽसौ तामसो निधिः ।
व्यवहारानशेषांस्तु पुण्यजातैः करोति च । । २१
कर्मस्थानखिलांश्चैव न विश्वसिति कस्यचित् ।
समस्तानि यथाङ्गानि संहरत्येव कच्छपः । । २२
तथाविष्टभ्य रत्नानि तिष्ठत्याकुलमानसः ।
न ददाति न वा भुङ्क्ते तद्विनाशभयाकुलः । । २३
निधानमुर्व्यां कुरुते निधिः सोऽप्येकपूरुषः ।
रजोगुणमयश्चान्यो मुकुन्दो नाम यो निधिः । । २४
नरोऽवलोकितस्तेन तद्गुणो भवति द्विज ।
वीणावेणुमृदङ्गानामातोद्यस्य परिग्रहम् । । २५
करोति गायतां वित्तं नृत्यतां च प्रयच्छति ।
बन्दिमागधसूतानां विटानां लास्यपाठिनाम् । । २६
ददात्यहर्निशं भोगान्भुङ्क्ते तैश्च समं द्विज ।
कुलटासु रतिश्चास्य भवत्यन्यैश्च तद्विधैः । । २७
प्रयाति सङ्गमेकं च यं निधिर्भजते नरम् ।
रजस्तमोमयश्चान्यो नन्दो नाम महानिधिः । । २८
उपैति स्तम्भमधिकं नरस्तेनावलोकितः ।
समस्तधातुरत्नानां पुण्यधान्यादिकस्य च । । २९
परिग्रहं करोत्येष तथैव क्रयविक्रयम् ।
आधारः स्वजनानां च आगताभ्यागतस्य च । । 68.३०
सहते नापमानोक्तिं स्वल्पमपि महामुने ।
स्तूयमानश्च महतीं प्रीतिं बध्नाति यच्छति । । ३१
यं यमिच्छति .वै कामं मृदुत्वमुपयाति च ।
बह्व्यो भार्या भवन्त्यस्य सूतिमत्योऽतिशोभनाः । । ३२
भजते सप्त च नरान्निधिर्नन्दोऽनुवर्तते ।
प्रवर्द्धमानोऽथ नरमष्टभागेन सत्तम । । ३३
दीर्घायुष्ट्वं च सर्वेषां पुरुषाणां प्रयच्छति ।
बन्धूनामेव भरणं ये च दूरादुपागताः । । ३४
तेषां करोति वै नन्दः परलोके न चादृतः ।
भवत्यस्य न च स्नेहः सहवासिषु जायते । । ३५
पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ।
तथैव सत्त्वरजसी यो बिभर्ति महानिधिः । । ३६
स नीलसंज्ञस्तत्सङ्गी नरस्तच्छीलवान्भवेत् ।
वस्त्रकार्पासधान्यादिफलपुष्पपरिग्रहम् । । ३७
मुक्ताविद्रुमशङ्खानां शुक्त्यादीनां तथा मुने ।
काष्ठादीनां करोत्येष यच्चान्यज्जलसम्भवम् । । ३८
क्रयविक्रयमन्येषां नान्यत्र रमते मनः ।
तडागान्पुष्करिण्योऽथ तथारामान्करोति च । । ३९
बन्धं च सरितां वृक्षांस्तथारोपयते नरः ।
अनुलेपनपुष्पादिभोगभुग्वाभिजायते । । 68.४०
त्रिपौरुषश्चापि निधिर्नीलो नामैष जायते ।
रजस्तमोमयश्चान्यः शङ्खसंज्ञो हि यो निधिः । । ४१
तेनापि नीयते विप्र तद्गुणित्वं निधीश्वरः ।
एकस्यैव भवत्येष नरं नान्यमुपैति च । । ४२
यस्य शङ्खो निधिस्तस्य स्वरूपं क्रौष्टुके शृणु ।
एक एवात्मना सृष्टमन्नं भुङ्क्ते तथाम्बरम् । । ४३
कदन्नभुक्परिजनो न च शोभनवस्त्रधृक् ।
न ददाति सुहृद्भार्याभ्रातृपुत्रस्नुषादिषु । । ४४
स्वपोषणपरः शङ्खी नरो भवति सर्वदा ।
इत्येते निधयः ख्याता नराणामर्थदेवताः । । ४५
मिश्रावलोकनान्मिश्राः स्वभावफलदायिनः ।
यथाख्यातस्वभावस्तु भवत्येव विलोकनात् । ।
सर्वेषामाधिपत्ये च श्रीरेषां द्विजपद्मिनी । । ४६
इति श्रीमार्कण्डेयपुराणे निधिवर्णनं नाम पञ्चषष्टितमोऽध्यायः । ६५ ।
षट्षष्टितमोऽध्यायः
ऋषिदर्शनवर्णनम्
क्रौष्टुकिरुवाच
विस्तरात्कथितं ब्रह्मन्मम स्वारोचिषं त्वया ।
मन्वन्तरं तथैवाष्टौ ये पृष्टा निधयो मया । । १
स्वायम्भुवं पूर्वमेव मन्वन्तरमुदाहृतम् ।
मन्वन्तरं तृतीयं मे कथयौत्तमसंज्ञितम् । । २
मार्कण्डेय उवाच
उत्तानपादपुत्रोऽभूदुत्तमो नाम नामतः ।
सुरुच्यास्तनयः ख्यातो महाबलपराक्रमः । । ३
धर्मात्मा च महात्मा च पराक्रमधनो नृपः ।
अतीत्य सर्वभूतानि बभौ भानुपराक्रमः । । ४
समः शत्रौ च मित्रे च परे पुत्रे च धर्मवित् ।
दुष्टे च यमवत्साधौ सोमवच्च महामुने । । ५
बाभ्रव्यां बहुलां नाम उपयेमे स धर्मवित् ।
उत्तानपादतनयः शचीमिन्द्र इवोत्तमः । । ६
तस्यामतीव तस्यासीद्द्विजवर्य मनः सदा ।
स्नेहवच्छशिनो यद्वद्रोहिण्यां निहितास्पदम् । । ७
अन्यप्रयोजनासक्तिमुपैति न हि तन्मनः ।
स्वप्ने चैव तदालम्बि मनोऽभूत्तस्य भूभृतः । । ८
स च तस्याः सुचार्वङ्ग्या दर्शनादेव पार्थिवः ।
ददाह लोचनैर्गात्रे गात्रस्पर्शश्च तन्मयः । । ९
श्रोत्रोद्वेगकरं वाक्यं प्रियमप्यवनीपतेः ।
तस्यापि भूरि सन्मानं मेने परिभवं ततः ।। 69.१०
अवमेने स्रजं दत्तां शुभान्याभरणानि च ।
उत्तस्थावर्धपीतेव पिबतोऽस्य वरासवम्. ।। ११
भुञ्जता च नरेन्द्रेण क्षणमात्रं करे धृता ।
बुभुजे स्वल्पकं भक्ष्यं द्विज नातिमुदावती ।। १२
एवं तस्यानुकूलस्य नानुकूला महात्मनः ।
प्रभूततरमत्यर्थं चक्रे रागं महीपतिः ।। १३
अथ पानगतो भूपः कदाचित्तां मनस्विनीम् ।
सुराभृतं पानपात्रं ग्राहयामास सादरः ।। १४
पश्यतां भूमिपालानां वारमुख्या समन्वितः ।
प्रगीयमानो मधुरैर्गेयगायनतत्परैः ।। १५
सा तु नेच्छति तत्पात्रमादातुं तत्पराङ्मुखी ।
समक्षमवनीशानां ततः क्रुद्धः स पार्थिवः ।। १६
उवाच द्वाःस्थमाहूय निश्वसन्नुरगो यथा ।
निराकृतस्तया देव्या प्रियया पतिरप्रियः ।। १७
द्वास्थैनां दुष्टहृदयामादाय विजने वने ।
परित्यज्याशु नैतत्ते विचार्यं वचनं मम ।। १८
मार्कण्डेय उवाच
ततो नृपस्य वचनमविचार्यमवेक्ष्य सः ।
द्वाःस्थस्तत्याज तां सुभ्रूमारोप्य स्यन्दने वने ।। १९
सा च तं विपिने त्यागं नीता तेन महीभृता ।
अपश्यमाना तं मेने परं कृतमनुग्रहम् ।।69.२०
सोऽपि तत्रानुरागार्तिदह्यमानात्ममानसः ।
औत्तानपादिर्भूपालो नान्यां भार्यामविन्दत ।।२ १
सस्मार तां सुचार्वङ्गीमहर्निशमनिर्वृतः ।
चकार च निजं राज्यं प्रजाधर्मेण पालयन् । । २२
प्रजाः पालयतस्तस्य पितुः पुत्रानिवौरसान् ।
आगत्य ब्राह्मणः कश्चिदिदमाहार्त्तमानसः । । २३
ब्राह्मण उवाच
महाराज भृशार्त्तोऽस्मि श्रूयतां गदतो मम ।
नृणामार्तिपरित्राणमन्यतो न नराधिपात् । । २४
मम भार्या प्रसुप्तस्य केनाप्यपहृता निशि ।
गृहद्वारमनुद्धाट्य तां समानेतुमर्हसि । । २५
राजोवाच
न वेत्सि केनापहृता क्व वा नीता तु सा द्विज ।
यतामि विग्रहे कस्य कुतो वाप्यानयामि ताम् । । २६
ब्राह्मण उवाच
तथैव स्थगिते द्वारि प्रसुप्तस्य गृहे मम ।
हृता हि भार्या किं केनेत्येतद्विज्ञायते भवान् । । २७
त्वं रक्षिता नो नृपते षड्भागादानवेतनः ।
धर्मस्य तेऽतो निश्चिन्ताः स्वपन्ति मनुजा निशि । । २८
राजोवाच
न ते दृष्टा मया भार्या यादृग्रूपा च देहतः ।
वयश्चैव समाख्याहि किंशीला ब्राह्मणी च ते । । २९
ब्राह्मण उवाच
कठोरनेत्रा सात्युच्चा ह्रस्वबाहुः कृशानना ।
( लम्बोदरीं हस्वस्फिजं तथा ह्रस्वस्तनीं नृप) । ।
विरूपरूपा भूपाल न निन्दामि तथैव ताम् । । 69.३०
वाचि भूपातिपरुषा न सौम्या सा च शीलतः ।
इत्याख्याता मया भार्या सा करालनिरीक्षणा । । ३१
मनागतीतं भूपाल तस्याश्च प्रथमं वयः ।
तादृग्रूपा हि मे भार्या सत्यमेतन्मयोदितम् । । ३२
राजोवाच
अलं ते ब्राह्मण तया भार्यामन्यां ददामि ते ।
सुखाय भार्या कल्याणी दुःखहेतुर्हि तादृशी । । ३३
अल्पा कुरूपता विप्र कारणं शीलमुत्तमम् ।
रूपशीलविहीना या त्याज्या तेऽन्येन सा हृता । । ३४
ब्राह्मण उवाच
रक्ष्या भार्या महीपाल इति च श्रुतिरुत्तमा ।
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता । । ३५
आत्मा हि जायते तस्य सा रक्ष्यातो नरेश्वर ।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः । । ३६
तस्यामरक्ष्यमाणायां भविता वर्णसङ्करः ।
स पातयेन्महीपाल पूर्वान्स्वर्गादधः पितॄन् । । ३७
अनुज्ञाय गुरुं राजन्दत्त्वान्यां जातवेदसे । । ३८
समिधं तु मया भार्या वृतेयं कर्कशा यतः ।
कथमेतां विहायान्यभार्यया सह सञ्चरे । । ३९
गृह्यधर्मो यतो ब्रह्म प्राप्यते शाश्वतं नरैः ।
पूर्वोढया तु धर्मेण गृही कुर्वन्न सीदति । । 69.४०
त्यक्त्वा तां च क्रियां कुर्वन्नैव कर्मफलं लभेत् ।
अग्निना सह या नूनं सा जगाम गृहं शुभा । ।४ १
धर्मस्य ग्रहणे सा तु पूर्वोढैव प्रशस्यते ।
शठायाचारणात्तस्या जायते वर्णसङ्करः । । ४२
धर्महानिश्चानुदिनमभार्यस्य भवेन्मम ।
नित्यक्रियाणां विभ्रंशात्स चापि पतनाय मे । । ४३
तस्यां च पृथिवीपाल भवित्री मम सन्ततिः ।
तव षड्भागदात्री सा भवित्री धर्महेतुकी । । ४४
तदेतत्ते मया ख्याता पत्नी या मे हृता प्रभो ।
तां समानय रक्षायां भवानधिकृतो यतः । । ४५
मार्कण्डेय उवाच
स तस्यैवं वचः श्रुत्वा विमृश्य च नरेश्वरः ।
सर्वोपकरणैर्युक्तमारुरोह महारथम् । । ४६
इतश्चेतश्च तेनासौ परिबभ्राम मेदिनीम् ।
ददर्श च महारण्ये तापसाश्रममुत्तमम् । । ४७
अवतीर्य च तत्रासौ प्रविश्य ददृशे मुनिम् ।
कौश्यां बृष्यां समासीनं ज्वलन्तमिव तेजसा । । ४८
स दृष्ट्वा नृपतिं प्राप्य समुत्थाय त्वरान्वितः ।
सम्मान्य स्वागतेनैव शिष्यमाहार्घ्यमानय । । ४९
तमाह शिष्यः शनकैर्दातव्योऽर्घ्योऽस्य किं मुने ।
तदाज्ञापय सञ्चिन्त्य तवाज्ञां हि करोम्यहम् । । 69.५०
ततोऽवगतवृत्तान्तो भूपतेस्तस्य स द्विजः ।
सम्भाषासनदानेन चक्रे सम्मानमात्मवान् । । ५१
ऋषिरुवाच
किं निमित्तमिहायातो भवान्किं ते चिकिर्षितम् ।
उत्तानपादतनयं वेद्मि त्वामुत्तमं नृप । । ५२
राजोवाच
ब्राह्मणस्य गृहाद्भार्या केनाप्यपहृता मुने ।
अविज्ञातस्यरूपेण तामन्वेष्टुमिहागतः । । ५३
पृच्छामि यत्ते तन्मे त्वं प्रणतस्यानुकम्पया।।
अभ्यागतस्याथ गृहं भगवन्वक्तुमर्हसि।।५३।।
ऋषिरुवाच।।
पृच्छ मामवनीपाल यत्प्रष्टव्यमशङिकितः।।
वक्तव्यं चेत्तव मया कथयिष्यामि तत्त्वतः।।५४।।
राजोवाच।।
गृहागताय यो मह्यं प्रथमे दर्शने मुने।।
त्वया समुद्यतो दातुं कथं सोऽर्घ्यो निवर्तितः।।५५।।
ऋषिरुवाच।।
त्वद्दर्शनेन रभसादज्ञप्तोऽयं मया नृप।।
यदा तदाहमेतेन शिष्येण प्रतिबोधितः।।५६।।
एष वेत्ति जगत्यत्र मत्प्रसादादनागतम्।।
यथाहं समतीतञ्च वर्तमानञ्च सर्वतः ॥ ६९.५३ ॥
आलोच्याज्ञापयेत्युक्ते ततो ज्ञातं मयापि तत् ।
ततो न दत्तवानर्घमहं तुभ्यं विधानतः॥६९.५४॥
सत्यं राजन् ! त्वमर्घार्हः कुले स्वायम्भुवस्य च ।
तथापि नार्घयोग्यं त्वां मन्यामो वयमुत्तमम्॥६९.५५॥
राजोवाच
किं कृतं हि मया ब्रह्मन् ! ज्ञानादज्ञानतोऽपि वा ।
येन त्वत्तोर्ऽघमर्हामि नाहमभ्यागतश्चिरात्॥६९.५६॥
ऋषिरुवाच
किं विस्मृतन्ते यत्पत्नी त्वया त्यक्ता च कानने ।
परित्यक्तस्तया सार्धं त्वया धर्मो नृपाखिलः॥६९.५७॥
पक्षेण कर्मणो हान्या प्रयात्यस्पर्शतां नरः ।
विण्मूत्रैर्वार्षिकी यस्य हानिस्ते नित्यकर्मणः॥६९.५८॥
पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्तरि ।
दुः शीलापि तथा भार्या पोषणीया नरेश्वर॥६९.५९॥
प्रतिकूला हि सा पत्नी तस्य विप्रस्य या हृता ।
तथापि धर्मकामोऽसौ त्वामुद्योतितवान् नृप॥६९.६०॥
चलतः स्थापयस्यन्यान् स्वधर्मेषु महीपते ।
त्वां स्वधर्माद्विचलितं कोऽपरः स्थापयिष्यति॥६९.६१॥
मार्कण्डेय उवाच
विलक्ष्यः स महीपाल इत्युक्तस्तेन धीमता ।
तथेत्युक्त्वा च पप्रच्छ हृतां पत्नीं द्विजन्मनः॥६९.६२॥
भगवन् ! केन नीता सा पत्नी विप्रस्य कुत्र वा ।
अतीतानागतं वेत्ति जगत्यवितथं भवान्॥६९.६३॥
ऋषिरुवाच
तां जहाराद्रितनयो बलाको नाम राक्षसः ।
द्रक्ष्यसे चाद्य तां भूप ! उत्पलावतके वने॥६९.६४॥
गच्छ संयोजयाशु त्वं भार्यया हि द्विजात्तमम् ।
मा पापास्पदतां यातु त्वमिवासौ दिने दिने॥६९.६५॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकोनसप्ततितमोऽध्यायः
सप्ततितमोऽध्यायः- ७०
मार्कण्डेय उवाच
अथारुरोह स्वरथं प्रणिपत्य महामुनिम् ।
तेनाख्यातं वनन्तच्च प्रययावुत्पलावतम्॥७०.१॥
यथाख्यातस्वरूपाञ्च भार्यां भर्त्रा द्विजस्य ताम् ।
भक्षयन्तीं ददार्शाथ श्रीफलानि नरेश्वरः॥७०.२॥
पप्रच्छ च कथं भद्रे ! त्वमेतद्वनमागता ।
स्फुटं ब्रवीहि वैशालेरपि भार्या सुशर्मणः॥७०.३॥
ब्राह्मण्युवाच
सुताहमतिरात्रस्य द्विजस्य वनवासिनः ।
पत्नी विशालपुत्रस्य यस्य नाम त्वयोदितम्॥७०.४॥
साहं हृता बलाकेन राक्षसेन दुरात्मना ।
प्रसुप्ता भवनस्यान्ते भ्रातृमातृवियोजिता॥७०.५॥
भस्मीभवतु तद्रक्षो येनास्म्येवं वियोजिता ।
मात्रा भ्रातृभिरन्यैश्च तिष्टाम्यत्र सुदुः खिता॥७०.६॥
अस्मिन् वनेऽतिगहने तेनानीयाहमुज्झिता ।
न वेद्मि कारणं कि तन्नोपभुङ्क्ते न खादति॥७०.७॥
राजोवाच
अपि तज्ज्ञायते रक्षस्त्वामुत्सृज्य क्व वै गतम् ।
अहं भर्त्रा तवैवात्र प्रेषितो द्विजनन्दिनि॥७०.८॥
ब्राह्मण्युवाच
अस्यैव काननस्यान्ते स तिष्ठति निशाचरः ।
प्रविश्य पश्यतु भवान् न बिभेति ततो यदि॥७०.९॥
मार्कण्डेय उवाच
प्रविवेश ततः सोऽथ तया वर्त्मनि दर्शिते ।
ददृशे परिवारेण समवेतञ्च राक्षसम्॥७०.१०॥
दृष्टमात्रे ततस्तस्मिन् त्वरमाणः स राक्षसः ।
दूरादेव महीं मूर्ध्ना स्पृशन् पादान्तिकं ययौ॥७०.११॥
राक्षस उवाच
ममात्रागच्छता गेहं प्रसादस्ते महान् कृतः ।
प्रशाधि किं करोम्येष वसामि विषये तव॥७०.१२॥
अर्घञ्चेमं प्रतीच्छ त्वं स्थीयताञ्चेदमासनम् ।
वयं भृत्या भवान् स्वामी दृढमाज्ञापयस्व माम्॥७०.१३॥
राजोवाच
कृतमेव त्वया सर्वं सर्वामेवातिथिक्रियाम् ।
किमर्थं ब्राह्मणवधूस्त्वयानीता निशाचर॥७०.१४॥
नेयं सुरूपा सन्त्यन्या भार्यार्थञ्चेद् हृता त्वया ।
भक्ष्यार्थं चेत्कथं नात्ता त्वयैतत्कथ्यतां मम॥७०.१५॥
राक्षस उवाच
न वयं मानुषाहारा अन्ये ते नृप ! राक्षसाः ।
सुकृतस्य फलं यत्तु तदश्नीमो वयं नृप॥७०.१६॥
स्वभावञ्च मनुष्याणां योषिताञ्च विमानिताः ।
मानिताश्च समश्नीमो न वयं जन्तुखादकाः॥७०.१७॥
यदस्माभिर्नृणां क्षान्तिर्भुक्ता क्रुध्यन्ति ते तदा ।
भुक्ते दुष्टे स्वभावे च गुणवन्तो भवन्ति च॥७०.१८॥
सन्ति नः प्रमदा भूप ! रूपेणाप्सरसां समाः ।
राक्षस्यस्तासु तिष्ठत्सु मानुषीषु रतिः कथम्॥७०.१९॥
राजोवाच
यद्येषा नोपभोगाय नाहाराय निशाचर ।
गृहं प्रविश्य विप्रस्य तत्किमेषा हृता त्वया॥७०.२०॥
राक्षस उवाच
मन्त्रवित् स द्विजश्रेष्ठो यज्ञे यज्ञे गतस्य मे ।
रक्षोघ्नमन्त्रपठनात् करोत्युच्चाटनं नृप॥७०.२१॥
वयं बुभुक्षितास्तस्य मन्त्रोच्चाटनकर्मणा ।
क्व यामः सर्वयज्ञेषु स ऋत्विग् भवति द्विजः॥७०.२२॥
ततोऽस्माभिरिदन्तस्य वैकल्यमुपपादितम् ।
पत्न्या विना पुमानिज्याकर्मयोग्यो न जायते॥७०.२३॥
मार्कण्डेय उवाच
वैकल्योच्चारणात्तस्य ब्राह्मणस्य महामतेः ।
ततः स राजातिभृशं विषण्णः समजायत॥७०.२४॥
वैकल्यमेवं विप्रस्य वदन्मामेव निन्दति ।
अनर्हमर्घस्य च मां सोऽप्याह मुनिसत्तमः॥७०.२५॥
वैकल्यं तस्य विप्रस्य राक्षसोऽप्याह मे यथा ।
अपत्नीकतया सोऽहं सङ्कटं महदास्थितः॥७०.२६॥
मार्कण्डेय उवाच
एवं चिन्तयतस्तस्य पुनरप्याह राक्षसः ।
प्रणामनम्रो राजानं बद्धाञ्जलिपुटो मुने॥७०.२७॥
नरेन्द्राज्ञाप्रदानेन प्रसादः क्रियतां मम ।
भृत्यस्य प्रणतस्य त्वं युष्मद्विषयवासिनः॥७०.२८॥
राजोवाच
स्वभावं वयमश्नीमस्त्वयोक्तं यन्निशाचर ।
तदर्थिनो वयं येन कार्येण शृणु तन्मम॥७०.२९॥
अस्यास्त्वयाद्य ब्राह्मण्या दौः शील्यमुपभुज्यताम् ।
येन त्वयात्तदौः शील्या तद्विनीता भवेदियम्॥७०.३०॥
नीयतां यस्य भार्येयं तस्य वेश्म निशाचर ।
अस्मिन् कृते कृतं सर्वं गृहमभ्यागतस्य मे॥७०.३१॥
मार्कण्डेय उवाच
ततः स राक्षसस्तस्याः प्रविश्यान्तः स्वमायया ।
भक्षयामास दौः शील्यं निजशक्त्या नृपाज्ञया॥७०.३२॥
दौः शील्येनातिरौद्रेण पत्नी तस्य द्विजन्मनः ।
तेन सा संपरित्यक्ता तमाह जगतीपतिम्॥७०.३३॥
स्वकर्मफलपाकेन भर्तुस्तस्य महात्मनः ।
वियोजिताहं तद्धेतुरयमासीन्निशाचरः॥७०.३४॥
नास्य दोषो न वा तस्य मम भर्तुर्महात्मनः ।
ममैव दोषो नान्यस्य सुकृतं ह्युपभुज्यते॥७०.३५॥
अन्यजन्मनि कस्यापि विप्रयोगः कृतो मया ।
सोऽयं ममाप्युपगतः को दोषोऽस्य महात्मनः॥७०.३६॥
राक्षस उवाच
प्रापयामि तवादेशादिमां भर्तृगृहं प्रभो ।
यदन्यत्करणीयन्ते तदाज्ञापय पार्थिव॥७०.३७॥
राजोवाच
अस्मिन् कृते कृतं सर्वं त्वया मे रजनीचर ।
आगन्तव्यञ्च ते वीर ! कार्यकाले स्मृतेन मे॥७०.३८॥
मार्कण्डेय उवाच
नथेत्युक्त्वा तु तद्रक्षस्तामादाय द्विजाङ्गनाम् ।
निन्ये भर्तृगृहं शुद्धां दौः शोल्यापगमात्तदा॥७०.३९॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे सप्ततितमोऽध्यायः
एकसप्ततितमोऽध्यायः- ७१
मार्कण्डेय उवाच
तां प्रेषयित्वा राजापि स्वभर्तृगृहमङ्गनाम् ।
चिन्तयामास निः श्वस्य किमत्र सुकतं भवेत्॥७१.१॥
अनर्घयोग्यता कष्टं स मामाह महामनाः ।
वैकल्यं विप्रमुद्दिश्य तथाहायं निशाचरः॥७१.२॥
सोऽहं कथं करिष्यामि त्यक्ता पत्नी मया हि सा ।
अथवा ज्ञानदृष्टिं तं पृच्छामि मुनिसत्तमम्॥७१.३॥
सञ्चिन्त्येत्थं स भूपालः समारुह्य च तं रथम् ।
ययौ यत्र स धर्मात्मा त्रिकालज्ञो महामिनिः॥७१.४॥
अवरुह्य रथात् सोऽथ तं समेत्य प्रणम्य च ।
यथावृत्तं समाचख्यौ राक्षसेन समागमम्॥७१.५॥
ब्राह्मण्या दर्शनञ्चैव दौः शील्यापगमं तथा ।
प्रेषणं भर्तृगेहे च कार्यमागमने च यत्॥७१.६॥
ऋषिरुवाच
ज्ञातमेतन्मया पूर्वं यत् कृतन्ते नराधिप ।
कार्यमागमने चैव मत्समीपे तवाखिलम्॥७१.७॥
पृच्छ मामिह किं कार्यं मयेत्युद्विग्नमानसः ।
त्वय्यागते महीपाल ! शृणु कार्यञ्च यत्त्वया॥७१.८॥
पत्नी धर्मार्थकामानां कारणं प्रबलं नृणाम् ।
विशेषतश्च धर्मस्य सन्त्यक्तस्त्यजता हि ताम्॥७१.९॥
अपत्नीको नरो भूप ! न योग्यो निजकर्मणाम् ।
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽपि वा नृप॥७१.१०॥
त्यजता भवता पत्नीं न शोभनमनुष्ठितम् ।
अत्याज्यो हि यथा भर्ता स्त्रीणां भर्या तथा नृणाम्॥७१.११॥
राजोवाच
भगवन् ! किं करोम्येष विपाको मम कर्मणाम् ।
नानुकूलानुकूलस्य यस्मात्त्यक्ता ततो मया॥७१.१२॥
यद्यत्करोति तत् क्षान्तं दह्यमानेन चेतसा ।
भगवंस्तद्वियोगार्तिबिभीतेनान्तरात्मना॥७१.१३॥
साम्प्रतं तु वने त्यक्ता न वेद्मि क्व नु सा गता ।
भक्षिता वापि विपिने सिंहव्याघ्रनिशाचरैः॥७१.१४॥
ऋषीरुवाच
न भक्षिता सा भूपाल ! सिहव्याघ्रनिशाचरैः ।
सा त्वविप्लुतचारित्रा साम्प्रतन्तु रसातले॥७१.१५॥
राजोवाच
सा नीता केन पातालमास्ते सादूषिता कथम् ।
अत्यद्भुतमिदं ब्रह्मन् ! यथावद्वक्तुमर्हसि॥७१.१६॥
ऋषिरुवाच
पाताले नागराजोऽस्ति प्रख्यातश्च कपोतकः ।
तेन दृष्टा त्वया त्यक्ता भ्रममाणा महावने॥७१.१७॥
सा रूपशालिनी तेन सानुरागेण पार्थिव ।
वेदितार्थेन पातालं नीता सा युवती तदा॥७१.१८॥
ततस्तस्य सुता सुभ्रूर्नन्दा नाम महीपते ।
भार्या मनोरमा चास्य नागराजस्य धीमतः॥७१.१९॥
तया मातुः सपत्नीयं सा भवित्रीति शोभना ।
दृष्टा स्वगेहं सा नीता गुप्ता चान्तः पुरे शुभा॥७१.२०॥
यदा तु याचिता नन्दा न ददाति नृपोत्तरम् ।
मूका भविष्यसीत्याह तदा तां तनयां पिता॥७१.२१॥
एवं शप्ता सुता तेन सा चास्ते तत्र भूपते ।
नीता तेनोरगेन्द्रेण धृता तत्सुतया सती॥७१.२२॥
मार्कण्डेय उवाच
ततो राजा परं हर्षमवाप्य तमपृच्छत ।
द्विजवर्यं स्वदौर्भाग्यकारणं दयितां प्रति॥७१.२३॥
राजोवाच
भगवन् ! सर्वलोकस्य मयि प्रीतिरनुत्तमा ।
किन्नु तत्कारणं येन स्वपत्नी नातिवत्सला॥७१.२४॥
मम चासावतीवेष्टा प्राणेभ्योऽपि महामुने ।
सा च मां प्रति दुः शीला ब्रूहि यत्कारणं द्विज॥७१.२५॥
ऋषीरुवाच
पाणिग्रहणकाले त्वं सूर्यभौमशनैश्चरैः ।
शुक्रवाचस्पतिभ्याञ्च तव भार्यावलोकिता॥७१.२६॥
तन्मुहूर्तेऽभवच्चन्द्रस्तस्याः सोमसुतस्तथा ।
परस्परविपक्षौ तौ ततः पार्थिव ! ते भृशम्॥७१.२७॥
तद्गच्छ त्वं स्वधर्मेण परिपालय मेदिनीम् ।
पत्नीसहायः सर्वाश्च कुरु धर्मवतीः क्रियाः॥७१.२८॥
मार्कण्डेय उवाच
इत्युक्ते प्रणिपत्यैनमारुह्य स्यन्दनं ततः ।
उत्तमः पृथिवीपाल आजगाम निजं पुरम्॥७१.२९॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकसप्ततितमोऽध्यायः
द्विसप्ततितमोऽध्यायः- ७२
मार्कण्डेय उवाच
ततः स्वनगरं प्राप्य तं ददर्श द्विजं नृपः ।
समेतं भार्यया चैव शीलवत्या मुदान्वितम्॥७२.१॥
ब्राह्मण उवाच
राजवर्य ! कृतार्थोऽस्मि यतो धर्मो हि रक्षितः ।
धर्मज्ञनेह भवता भार्यामानयता मम॥७२.२॥
राजोवाच
कृतार्थस्त्वं द्विजश्रेष्ठ ! निजधर्मानुपालनात् ।
वयं सङ्कटिनो विप्र ! येषां पत्नी न वेश्मनि॥७२.३॥
ब्राह्मण उवाच
नरेन्द्र ! सा हि विपिने भक्षिता श्वनापदैर्यदि ।
अलन्तया किमन्यस्या न पाणिर्गृह्यते त्वया ।
क्रोधस्य वशमागम्य धर्मो न रक्षितस्त्वया॥७२.४॥
राजोवाच
न भक्षिता मे दयिता श्वापदैः सा हि जीवति ।
अविदूषितचारित्रा कथमेतत्करोम्यहम्॥७२.५॥
ब्राह्मण उवाच
यदि जीवति ते भार्या न चैव व्यभिचारिणी ।
तदपत्नीकताजन्म किं पापं क्रियते त्वया॥७२.६॥
राजोवाच
आनीतापि हि सा विप्र ! प्रतिकूला सदैव मे ।
दुः खाय न सुखायालं तस्या मैत्री न वै मयि ।
तथा त्वं कुरु यत्नं मे यथा सा वशगामिनी॥७२.७॥
ब्राह्मण उवाच
तव संप्रीतये तस्या वरेष्टिरुपकारिणी ।
क्रियते मित्रकामैर्या मित्रविन्दां करोमि ताम्॥७२.८॥
अप्रीतयोः प्रीतिकरो सा हि संजननी परम् ।
भार्यापत्योर्मनुष्येन्द्र ! तान्तवेष्टिं करोम्यहम्॥७२.९॥
यत्र तिष्ठति सा सुभ्रूस्तव भार्या महीपते ।
तस्मादानोयतां सा ते परां प्रीतिमुपैष्यति॥७२.१०॥
मार्कण्डेय उवाच
इत्युक्तः स तु सम्भारानशेषानवनीपतिः ।
आनिनाय चकारेष्टिं स च तां द्विजसत्तमः॥७२.११॥
सप्तकृत्वः स तु तदा चकारेष्टिं पुनः पुनः ।
तस्य राज्ञो द्विजश्रेष्ठो भार्यासम्पादनाय वै॥७२.१२॥
यदारोपितमैत्रीन्ताममन्यत महामुनिः ।
स्वभर्तरि तदा विप्रस्तमुवाच नराधिपम्॥७२.१३॥
आनीयतां नरश्रेष्ठ ! या तवेष्टात्मनोऽन्तिकम् ।
भुङ्क्ष्व भोगांस्तया सार्धं यज यज्ञांस्तथादृतः॥७२.१४॥
मार्कण्डेय उवाच
इत्युक्तस्तेन विप्रेण भूपालो विस्मितस्तदा ।
सस्मार तं महावीर्यं सत्यसन्धं निशाचरम्॥७२.१५॥
स्मृतस्तेन तदा सद्यः समुपेत्य नराधिपम् ।
किं करोमीति सोऽप्याह प्रणिपत्य महामुने॥७२.१६॥
ततस्तेन नरेन्द्रेण विस्तरेण निवेदिते ।
गत्वा पातालमादाय राजपत्नीमुपाययौ॥७२.१७॥
आनीता चातिहार्देन सा ददर्श तदा पतिम् ।
उवाच च प्रसीदेति भूयोभूयो मुदान्विता॥७२.१८॥
ततः स राजा रभसा परिष्वज्याह मानिनीम् ।
प्रिये ! प्रसन्न एवाहं भूयोऽप्येवं ब्रवीषि किम्॥७२.१९॥
पत्न्युवाच
यदि प्रिसादप्रवणं नरेन्द्र ! मयि ते मनः ।
तदेतदभियाचे त्वां तत् कुरुष्व ममार्हणम्॥७२.२०॥
राजोवाच
निः शङ्कं ब्रूहि मत्तो यद्भवात्या किञ्चिदीप्सितम् ।
तदलभ्यं न ते भीरु ! तवायत्तोऽस्मि नान्यथा॥७२.२१॥
पत्न्युवाच
मदर्थं तेन नागेन सुता शप्ता सखी मम ।
मूका भविष्यसीत्याह सा च मूकत्वमागता॥७२.२२॥
तस्याः प्रतिक्रियां प्रीत्या मम शक्नोति चेद्भवान् ।
वाग्विघातप्रशान्त्यर्थं ततः किं न कृतं मम॥७२.२३॥
मार्कण्डेय उवाच
ततः स राजा तं विप्रमाहास्मिन् कीदृशी क्रिया ।
तन्मूकतापनोदाय स च तं प्राह पार्थिवम्॥७२.२४॥
ब्राह्मण उवाच
भूप ! सारस्वतीमिष्टिं करोमि वचनात्तव ।
पत्नी तवेयमानृण्यं यातु तद्वाक्प्रवर्तनात्॥७२.२५॥
मार्कण्डेय उवाच
इष्टिं सारस्वतीं चक्रे तदर्थं स द्विजोत्तमः ।
सारस्वतानि सूक्तानि जजाप च समाहितः॥७२.२६॥
ततः प्रवृत्तवाक्यान्तां गर्गः प्राह रसातले ।
उपकारः सखीभर्त्रा कृतोऽयमतिदुष्करः॥७२.२७॥
इत्थं ज्ञानं समासाद्य नन्दा शीघ्रगतिः पुरम् ।
ततो राज्ञीं परिष्वज्य स्वसखीमुरगात्मजा॥७२.२८॥
तञ्च संस्तूय भूपालं कल्याणोक्त्या पुनः पुनः ।
उवाच मधुरं नागी कृतासनपरिग्रहा॥७२.२९॥
उपकारः कृतो वीर ! भवता यो ममाधुना ।
तेनास्म्याकृष्टहृदया यद्ब्रवीमि शृणुष्व तत्॥७२.३०॥
तव पुत्रो महावीर्यो भविष्यति नराधिप ।
तस्माप्रतिहतं चक्रमस्यां भुवि भविष्यति॥७२.३१॥
सर्वार्थशास्त्रतत्त्वज्ञो धर्मानुष्ठानतत्परः ।
मन्वन्तरेश्वरो धीमान् ! भविष्यति स वै मनुः॥७२.३२॥
मार्कण्डेय उवाच
इति दत्वा वरं तस्मै नागराजसुता ततः ।
सखीं तां संपरिष्वज्य पातालमगमन्मुने॥७२.३३॥
तत्र तस्य तया सार्धं रमतः पृथिवीपतेः ।
जगाम कालः सुमहान् प्रजाः पालयतस्तथा॥७२.३४॥
ततः स तस्यान्तनयो जज्ञे राज्ञो महात्मनः ।
पौर्णमास्यां यथा कान्तश्चन्द्रः संपूर्णमण्डलः॥७२.३५॥
तस्मिन् जाते मुदं प्रापुः प्रजाः सर्वा महात्मनि ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च॥७२.३६॥
तस्य दृष्ट्वा वपुः कान्तं भविष्यं शीलमेव च ।
औत्तमश्चेति मुनयो नाम चक्रुः समागताः॥७२.३७॥
जातोऽयमुत्तमे वंशे तत्र काले तथोत्तमे ।
उत्तमावयवस्तेन औत्तमोऽयं भविष्यति॥७२.३८॥
मार्कण्डेय उवाच
उत्तमस्य सुतः सोऽथ नाम्ना ख्यातस्तथौत्तमः ।
मनुरासीत्तत्प्रभावो भागुरे श्रूयतां मम॥७२.३९॥
उत्तमाख्यानमखिलं जन्म चैवोत्तमस्य च ।
नित्यं शृणोति विद्वेषं स कदाचिन्न गच्छति॥७२.४०॥
इष्टैर्दारैस्तथा पुत्रैर्बन्धुभिर्वा कदाचन ।
वियोगो नास्य भविता शृण्वतः पठतोऽपि वा॥७२.४१॥
तस्य मन्वन्तरं ब्रह्मन् ! वदतो मे निशामय ।
श्रूयतां तत्र यश्चेन्द्रो ये च देवास्तथर्षयः॥७२.४२॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे द्विसप्ततितमोऽध्यायः
त्रिसप्ततितमोऽध्यायः- ७३
मार्कण्डेय उवाच
मन्वन्तरे तृतीयेऽस्मिन् औत्तमस्य प्रजापतेः ।
देवानिन्द्रमृषीन् भूपान् निबोध गदतो मम॥७३.१॥
स्वधामानस्तथा देवा यथानामानुकारिणः ।
सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः॥७३.२॥
तृतीये तु गणे देवाः शिवाख्या मुनिसत्तम ।
शिवाः स्वरूपतस्ते तु श्रुताः पापप्रणाशनाः॥७३.३॥
प्रतर्दनाख्यश्च गणो देवानां मुनिसत्तम ।
चतुर्थस्तत्र कथित औत्तमस्यान्तरे मनोः॥७३.४॥
वशवर्तिनः पञ्चमेऽपि देवास्तत्र गणे द्विज ।
यथाख्यातस्वरूपास्तु सर्व एव महामुने॥७३.५॥
एते देवगणाः पञ्च स्मृता यज्ञभुजस्तथा ।
मन्वन्तरे मनुश्रेष्ठे सर्वे द्वादशका गणाः॥७३.६॥
तेषामिन्द्रो महाभागस्त्रैलोक्ये स गुरुर्भवेत् ।
शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः॥७३.७॥
यस्योपसर्गनाशाय नामाक्षरविभूषिता ।
अद्यापि मानवैर्गाथा गीयते तु महीतले॥७३.८॥
शुशान्तिर्देवराट् कान्तः शुशान्तिं स प्रयच्छति ।
सहितः शिवसत्याद्यैस्तथैव वशवर्तिभिः॥७३.९॥
अजः परशुचिर्दिव्यो महाबलपराक्रमः ।
पुत्रस्तस्य मनोरासन् विख्यातास्त्रिदशोपमाः॥७३.१०॥
तत्सूतिसम्भवैर्भूमिः पालिताभून्नरेश्वरैः ।
यावन्मन्वन्तर तस्य मनोरुत्तमतेजसः॥७३.११॥
चतुर्युगानां संख्याता साधिका ह्येकसप्ततिः ।
कृतत्रेतादिसंज्ञानां यान्युक्तानि युगे मया॥७३.१२॥
स्वतेजसा हि तपसो वरिष्ठस्य महात्मनः ।
तनयाश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन्॥७३.१३॥
तृतीयमेतत्कथितं तव मन्वन्तरं मया ।
तामसस्य चतुर्थन्तु मनोरन्तरमुच्यते॥७३.१४॥
वियोनिजन्मनो यस्य यशसा द्योतितं जगत् ।
जन्म तस्य मनोर्ब्रह्मन् ! श्रुयतां गदतो मम॥७३.१५॥
अतीन्द्रियमशेषाणां मनूनाञ्चरितन्तथा ।
तथा जन्मापि विज्ञेयं प्रभावश्च महात्मनाम्॥७३.१६॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे त्रिसप्ततितमोऽध्यायः
चतुः सप्ततितमोऽध्यायः- ७४
मार्कण्डेय उवाच
राजाभूद् विख्यातः स्वराष्ट्रो नाम वीर्यवान् ।
अनेकयज्ञकृत् प्राज्ञः संग्रामेष्वपराजितः॥७४.१॥
तस्यायुः सुमहत्प्रादात् मन्त्रिणाराधितो रविः ।
पत्नीनाञ्च शतन्तस्य धन्यानामभवद् द्विज॥७४.२॥
तस्य दीर्घायुषः पत्न्यो नातिदीर्घायुषो मुने ।
कालेन जग्मुर्निधनं भृत्यमन्त्रिजनास्तथा॥७४.३॥
स भार्याभिस्तथायुक्तो भृत्यैश्च सहजन्मभिः ।
उद्विग्नचेताः संप्राप वीर्यहानिमहर्निशम्॥७४.४॥
तं वीर्यहीनं निभृतैर्भृत्यैस्त्यक्तं सुदुः खितम् ।
अनन्तरो विमर्दाख्यो राज्याच्च्यावितवांस्तदा॥७४.५॥
राज्याच्च्युतः सोऽपि वनं गत्वा निर्विण्णमानसः ।
तपस्तेपे महाभागे वितस्तापुलिने स्थितः॥७४.६॥
ग्रीष्मे पञ्चतमा भूत्वा वर्षास्वभ्रंकषाशिकः ।
जलशायी च शिशिरे निराहारो यतव्रतः॥७४.७॥
ततस्तपस्यतस्तस्य प्रावृट्काले महाप्लवः ।
बभूवानुदिनं मेघैर्वर्षद्भिरनुसन्ततम्॥७४.८॥
न दिग्विज्ञायते पूर्वा दक्षिणा वा न पश्चिमा ।
नोत्तरा तमसा सर्वमनुलिप्तमिवाभवत्॥७४.९॥
ततोऽतिपूरेण नृपः स नद्याः प्रेरितस्तटम् ।
प्रार्थयन्नापि नावाप ह्रियमाणो महीपतिः॥७४.१०॥
अथ दूरे जलौघेन ह्रियमाणो महीपतिः ।
आससाद जले रौहीं स पुच्छे जगृहे च ताम्॥७४.११॥
तेन प्लवेन स ययावूह्यमानो महीतले ।
इतश्चेतश्चान्धकारे आससाद तटन्ततः॥७४.१२॥
विस्तारि पङ्कमत्यर्थं दुस्तरं स नृपस्तरन् ।
तथैव कृष्यमाणोऽन्यद्रम्यं वनमवाप सः॥७४.१३॥
तत्रान्धकारे सा रौही चकर्ष वसुधाधिपम् ।
पुच्छे लग्नं महाभागं कृशं धमनिसन्ततौ॥७४.१४॥
तस्याश्च स्पर्शसंभूतामवापमुदमुत्तमाम् ।
सोऽन्धकारे भ्रमन् भूयो मदनाकृष्टमानसः॥७४.१५॥
विज्ञाय सानुरागं तं पृष्ठस्पर्शनतत्परम् ।
नरेन्द्रं तद्वनस्यान्तः सा मृगी तमुवाच ह॥७४.१६॥
किं पृष्ठं वेपथुमता करेण स्पृशसे मम ।
अन्यथैवास्य कार्यस्य सञ्जाता नृपते गतिः॥७४.१७॥
नास्थाने वो मनो यातं नागम्याहं तवेश्वर ।
किन्तु त्वत्सङ्गमे विघ्नमेष लोलः करोति मे॥७४.१८॥
मार्कण्डेय उवाच
इति श्रुत्वा वचस्तस्या मृग्याश्च जगतीपतिः ।
जातकौतूहलो रौहीमिदं वचनमब्रवीत्॥७४.१९॥
का त्वं ब्रूहि मृगी वाक्यं कथं मानुषवद्वदेत् ।
कश्चैव लोलो यो विघ्नं त्वत्सङ्गे कुरुते मम॥७४.२०॥
मृग्युवाच
अहन्ते दयिता भूप ! प्रागासमुत्पलावती ।
भार्या शताग्रमहिषी दुहिता दृढधन्वनः॥७४.२१॥
राजोवाच
किन्तु यावत् कृतं कर्म येनेमां योनिमागता ।
पतिव्रता धर्मपरा सा चेत्थं कथमीदृशी॥७४.२२॥
मृग्युवाच
अहं पितृगृहे बाला सखीभिः सहिता वनम् ।
रन्तुं गता ददर्शैकं मृगं मृग्या समागतम्॥७४.२३॥
ततः समीपवर्तिन्या मया सा ताडिता मृगी ।
मया त्रस्ता गतान्यत्र क्रुद्धः प्राह ततो मृगः॥७४.२४॥
मूढे किमेवं मत्तासि धिक्ते दौःशील्यमीदृशम् ।
आधानकालो येनायं त्वया मे विफलीकृतः॥७४.२५॥
वाचं श्रुत्वा ततस्तस्य मानुषस्येव भाषतः ।
भीता तमब्रुवं कोऽसीत्येतां योनिमुपागतः॥७४.२६॥
ततः स प्राह पुत्रोऽहमृषेर्निर्वृतिचक्षुषः ।
सुतपा नाम मृग्यान्तु साभिलाषो मृगोऽभवम्॥७४.२७॥
इमाञ्चानुगतः प्रेम्णा वाञ्छितश्चानया वने ।
त्वया वियोजिता दुष्टे तस्माच्छापं ददामि ते॥७४.२८॥
मया चोक्तं तवाज्ञानादपराधः कृतो मुने ।
प्रसादं कुरु शापं मे न भवान् दातुमर्हति॥७४.२९॥
इत्युक्तः प्राह मां सोऽपि मुनिरित्थं महीपते ।
न प्रयच्छामि शापं ते यद्यात्मानं ददासि मे॥७४.३०॥
मया चोक्तं मृगी नाहं मृगरूपधरा वने ।
लप्स्यसेऽन्यां मृगीन्तावन्मयि भावो निवर्त्यताम्॥७४.३१॥
इत्युक्तः कोपरक्ताक्षः स प्राह स्फुरिताधरः ।
नाहं मृगी त्वयेत्युक्तं मृगी मूढे भविष्यसि॥७४.३२॥
ततो भृशं प्रव्यथिता प्रणम्य मुनिमब्रुवम् ।
स्वरूपस्थमतिक्रुद्धं प्रसीदेति पुनः पुनः॥७४.३३॥
बालानभिज्ञा वाक्यानां ततः प्रोक्तमिदं मया ।
पितर्यसति नारीभिर्व्रियते हि पतिः स्वयम्॥७४.३४॥
सति ताते कथञ्चाहं वृणोमि मुनिसत्तम ।
सापराधाथवा पादौ प्रसीदेश नमाम्यहम्॥७४.३५॥
प्रसीदेति प्रसीदेति प्रणताया महामते ।
इत्थं लालप्यमानायाः स प्राह मुनिपुङ्गवः॥७४.३६॥
न भवत्यन्यथा प्रोक्तं मम वाक्यं कदाचन ।
मृगी भविष्यसि मृता वनेऽस्मिन्नेव जन्मनि॥७४.३७॥
मृगत्वे च महाबाहुस्तव गर्भमुपैष्यति ।
लोलो नाम मुनेः पुत्रः सिद्धवीर्यस्य भामिनि॥७४.३८॥
जातिस्मरा भवित्री त्वं तस्मिन् गर्भमुपागते ।
स्मृतिं प्राप्य तथा वाचं मानुषीमीरयिष्यसि॥७४.३९॥
तस्मिन् जाते मृगीत्वात् त्वं विमुक्ता पतिनार्चिता ।
लोकानवाप्स्यसि प्राप्या ये न दुष्कृतकर्मभिः॥७४.४०॥
सोऽपि लोलो महावीर्यः पितृशत्रून् निपात्य वै ।
जित्वा वसुन्धरां कृत्स्त्रां भविष्यति ततो मनुः॥७४.४१॥
एवं शापमहं लब्ध्वा मृता तिर्यक्त्वमागता ।
त्वत्संस्पर्शाच्च गर्भोऽसौ संभूतो जठरे मम॥७४.४२॥
अतो ब्रवीमि नास्थाने तव यातं मनो मयि ।
न चाप्यगम्या गर्भस्थो लोलो विघ्नं करोत्यसौ॥७४.४३॥
मार्कण्डेय उवाच
एवमुक्तस्ततः सोऽपि राजा प्राप्य परां मुदम् ।
पुत्रो ममारीञ्जित्वेति पृथिव्यां भविता मनुः॥७४.४४॥
ततस्तं सुषुवे पुत्रं सा मृगी लक्षणान्वितम् ।
तस्मिन् जाते च भूतानि सर्वाणि प्रययुर्मुदम्॥७४.४५॥
विशेषतश्च राजासौ पुत्रे जाते महाबले ।
सा विमुक्ता मृगी शापात् प्राप लोकाननुत्तमान्॥७४.४६॥
ततस्तस्यर्षयः सर्वे समेत्य मुनिसत्तम ।
अवेक्ष्य भाविनीमृद्धिं नाम चक्रुर्महात्मनः॥७४.४७॥
तामसीं भजमानायां योनिं मातर्यजायत ।
तमसा चावृते लोके तामसोऽयं भविष्यति॥७४.४८॥
ततः स तामसस्तेन पित्रा संवर्धितो वने ।
जातबुद्धिरुवाचेदं पितरं मुनिसत्तम॥७४.४९॥
कस्त्वं तात कथं वाहं पुत्रो माता च का मम ।
किमर्थमागतश्च त्वमेतत् सत्यं ब्रवीहि मे॥७४.५०॥
मार्कण्डेय उवाच
ततः पिता यथावृत्तं स्वराज्यच्यावनादिकम् ।
तस्याचष्टे महाबहुः पुत्रस्य जगतीपतिः॥७४.५१॥
श्रुत्वा तत् सकलं सोऽपि समाराध्य च भास्करम् ।
अवाप दिव्यान्यस्त्राणि ससंहाराण्यशेषतः॥७४.५२॥
कृतास्त्रस्तानरीन् जित्वा पितुरानीय चान्तिकम् ।
अनुज्ञातान् मुनोचाथ तेन स्वं धर्ममास्थितः॥७४.५३॥
पितापि तस्य स्वान् लोकांस्तपोयज्ञसमार्जितान् ।
विसृष्टदेहः संप्राप्तो दृष्ट्वा पुत्रमुखं सुखम्॥७४.५४॥
जित्वा समस्तां पृथिवीं तामसाख्यः स पार्थिवः ।
तामसाख्यो मनुरभूत्तस्य मन्वन्तरं शृणु॥७४.५५॥
ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः ।
ये पुत्राश्च मनोस्तस्य पृथिवीपरिपालकाः॥७४.५६॥
सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा ।
एते देवगणास्तत्र सप्तविंशतिका मुने॥७४.५७॥
महाबलो महावीर्यः शतयज्ञोपलक्षितः ।
शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः॥७४.५८॥
ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा ।
पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन्॥७४.५९॥
नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा ।
पुत्रास्तु तामसस्यासन् राजानः सुमहाबलाः॥७४.६०॥
इत्येतत्तामसं विप्र मन्वन्तरमुदाहृतम् ।
यः पठेत् शृणुयाद्वापि तमसा सन बाध्यते॥७४.६१॥
इति श्रीमार्कण्डेयपुराणेठतामसमन्वन्तरेऽ चतुः सप्ततितमोऽध्यायः.
पञ्चसप्ततितमोऽध्यायः- ७५
मार्कण्डेय उवाच
पञ्चमोऽपि मनुर्ब्रह्मन् रैवतो नाम विश्रुतः ।
तस्योत्पत्तिं विस्तरशः शृणुष्व कथयामि ते॥७५.१॥
ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः ।
तस्यापुत्रस्य पुत्रोऽभूद्रेवत्यन्ते महात्मनः॥७५.२॥
स तस्य विधिवच्चक्रे जातकर्मादिकाः क्रियाः ।
तथोपनयनादींश्च स चाशीलोऽभवन्मुने॥७५.३॥
यतः प्रभृति जातोऽसौ ततः प्रभृति सोऽप्यृषिः ।
दीर्घरोगपरामर्शमवाप मुनिपुङ्गवः॥७५.४॥
माता तस्य परामार्ति कुष्ठरोगादिपीडिता ।
जगाम स पिता चास्य चिन्तयामास दुः खितः॥७५.५॥
किमेतदिति सोऽप्यस्य पुत्रोऽप्यत्यन्तदुर्मतिः ।
जग्राह भार्यामन्यस्य मुनिपुत्रस्य संमुखीम्॥७५.६॥
ततो विषण्णमनसा ऋतवागिदमुक्तवान् ।
अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता॥७५.७॥
कुपुत्रो हृदयायासं सर्वदा कुरुते पितुः ।
मातुश्च स्वर्गसंस्थांश्च स्वपितॄन् पातयत्यधः॥७५.८॥
सुहृदां नोपकाराय पितॄणाञ्च न तृप्तये ।
पित्रोर्दुः खाय धिग् जन्म तस्य दुष्कृतकर्मणः॥७५.९॥
धन्यास्ते तनया येषां सर्वलोकाभिसंमताः ।
परोपकारिणः शान्ताः साधुकर्मण्यनुव्रताः॥७५.१०॥
अनिर्वृतं तथा मन्दं परलोकपराङ्मुखम् ।
नरकाय न सद्गत्यै कुपुत्रालम्बि जन्मनः॥७५.११॥
करोति सुहृदां दैन्यमहितानां तथा मुदम् ।
अकाले च जरां पित्रोः कुपुत्रः कुरुते ध्रुवम्॥७५.१२॥
मार्कण्डेय उवाच
एवं सोऽत्यन्तदुष्टस्य पुत्रस्य चरितैर्मुनिः ।
दह्यमानमनोवृत्तिर्वृत्तं गर्गमपृच्छत॥७५.१३॥
ऋतवागुवाच
सुव्रतेन पुरा वेदा गृहीता विधिवन्मया ।
समप्य वेदान् विधिवत् कृतो दारपरिग्रहः॥७५.१४॥
सदारेण क्रियाः कार्याः श्रौताः स्मार्ता वषट्क्रियाः ।
न मे न्यूनाः कृताः काश्चिद्यावदद्य महामुने॥७५.१५॥
गर्भाधानविधानेन न काममनुरुध्यता ।
पुत्रार्थं जनितश्चायं पुन्नाम्नो बिभ्यता मुने॥७५.१६॥
सोऽयं किमात्मदोषेण मम दोषण वा मुने ।
अस्मद्दुः खवहो जातो दौः शील्याद् बन्धुशोकदः॥७५.१७॥
रेवत्यन्ते मुनिश्रेष्ठ ! जातोऽयं तनयस्तव ।
तेन दुः खाय ते दुष्टे काले यस्मादजायत॥७५.१८॥
न तेऽपचारो नैवास्य मातुर्नायं कुलस्य ते ।
तस्य दौः शील्यहेतुस्तु रेवत्यन्तमुपागतम्॥७५.१९॥
ऋतवागुवाच
यस्मान्ममैकपुत्रस्य रेवत्यन्तसमुद्भवम् ।
दौः शील्यमेतत् सा तस्मात् पततामाशु रेवती॥७५.२०॥
मार्कण्डेय उवाच
तेनैवं व्याहृते शापे रेवत्यृक्षं पपात ह ।
पश्यतः सर्वलोकस्य विस्मयाविष्टचेतसः॥७५.२१॥
रेवत्यृक्षञ्च पतितं कुमुदाद्रौ समन्ततः ।
भावयामास सहसा वनकन्दरनिर्झरम्॥७५.२२॥
कुमुदाद्रिश्च तत्पातात् ख्यातो रैवतकोऽभवत् ।
अतीव रम्यः सर्वस्यां पृथिव्यां पृथिवीधरः॥७५.२३॥
तस्यर्क्षस्य तु या कान्तिर्जाता पङ्कजिनी सरः ।
ततो जज्ञे तदा कन्या रूपेणातीव शोभना॥७५.२४॥
रेवतीकान्तिसम्भूतां तां दृष्ट्वा प्रमुचो मुनिः ।
तस्या नाम चकारेत्थं रेवती नाम भागुरे॥७५.२५॥
पोषयामास चैवैतां स्वाश्रमाभ्याससम्भवाम् ।
प्रमुचः स महाभागस्तस्मिन्नेव महाचले॥७५.२६॥
तान्तु यौवनिनीं दृष्ट्वा कान्यकां रूपशालिनीम् ।
स मुनिश्चिन्तमामास कोऽस्या भर्ता भवेदिति॥७५.२७॥
एवं चिन्तयतस्तस्य ययौ कालो महान् मुने ।
न चाससाद सदृशं वरं तस्या महामुनिः॥७५.२८॥
ततस्तस्या वरं प्रष्टुमग्निं स प्रमुचो मुनिः ।
विवेश वह्निशालां वै प्रष्टारं प्राह हव्यभुक्॥७५.२९॥
महाबलो महावीर्यः प्रियवाग् धर्मवत्सलः ।
दुर्गमो नाम भविता भर्ता ह्यस्य महीपतिः॥७५.३०॥
मार्कण्डेय उवाच
अनन्तरञ्च मृगयाप्रसङ्गेनागतो मुने ।
तस्याश्रमपदं धीमान् दुर्गमः स नराधिपः॥७५.३१॥
प्रियव्रतान्वयभवो महाबलपराक्रमः ।
पुत्रो विक्रमशीलस्य कालिन्दीजठरोद्भवः॥७५.३२॥
स प्रविश्याश्रमपदं तां तन्वीं जगतीपतिः ।
अपश्यमानस्तमृषिं प्रियेत्यामन्त्र्य पृष्टवान्॥७५.३३॥
राजोवाच
क्व गतो भगवानस्मादाश्रमान्मुनिपुङ्गवः ।
तं प्रणेतुमिहेच्छामि तत् त्वं प्रब्रूहि शोभने॥७५.३४॥
मार्कण्डेय उवाच
अग्निसालां गतो विप्रस्तच्छ्रुत्वा तस्य भाषितम् ।
प्रियेत्यामन्त्रणञ्चैव निश्चक्राम त्वरान्वितः॥७५.३५॥
स ददर्श महात्मानं राजानं दुर्गमं मुनिः ।
नरेन्द्रचिह्नसहितं प्रश्रयावनतं पुरः॥७५.३६॥
तस्मिन् दृष्टे ततः शिष्यमुवाच स तु गौतमम् ।
गौतमानीयतां शीघ्रमर्घोऽस्य जगतीपतेः॥७५.३७॥
एकस्तावदयं भूपश्चिरकालादुपागतः.
जामाता च विशेषेण योग्योर्ऽघस्य मतो मम॥७५.३८॥
मार्कण्डेय उवाच
ततः स चिन्तयामास राजा जामातृकारणम् ।
विवेद च न तन्मौनी जगृहेर्ऽघञ्च तं नृपः॥७५.३९॥
तमासनगतं विप्रो गृहीतार्घं महामुनिः ।
स्वागतं प्राह राजेन्द्रमपि ते कुशलं गृहे॥७५.४०॥
कोषे बलेऽथ मित्रेषु भृत्यामात्ये नरेश्वर ।
तथात्मनि महाबाहो यत्र सर्वं प्रतिष्ठितम्॥७५.४१॥
पत्नी च ते कुशलिनी यत एवानुतिष्ठति ।
पृच्छाम्यस्यास्ततो नाहं कुशलिन्योऽपरास्तव॥७५.४२॥
राजोवाच
त्वत्प्रसादादकुशलं न क्वचिन्मम सुव्रत ।
जातकौतूहलश्चास्मि मम भार्यात्र का मुने॥७५.४३॥
ऋषिरुवाच
रेवती सुमहाभागा त्रैलोक्यस्यापि सुन्दरी ।
तव भर्या वरारोहा तां त्वं राजन्न वेत्सि किम्॥७५.४४॥
राजोवाच
सुभद्रां शान्ततनयां कावेरीतनयां विभो ।
सुराष्ट्रजां सुजाताञ्च कदम्बाञ्च वरूथजाम्॥७५.४५॥
विपाठां नन्दिनीञ्चैव वेद्मि भार्यां गृहे द्विज ।
तिष्ठन्ति मे न भगवन् रेवतीं वेद्मि कान्वियम्॥७५.४६॥
ऋषिरुवाच
प्रियेति साम्प्रतं येयं त्वयोक्ता वरवर्णिनी ।
किं विस्मृतन्ते भूपाल ! श्लाघ्येयं गृहिणी तव॥७५.४७॥
राजोवाच
सत्यमुक्तं मया किन्तु भावो दुष्टो न मे मुने ।
नात्र कोपं भवान् कर्तुमर्हत्यस्मासु याचितः॥७५.४८॥
ऋषिरुवाच
तत्त्वं ब्रवीषि भूपाल ! न भावस्तव दूषितः ।
व्याजहार भवानेतद्वह्निना नृप चोदितः॥७५.४९॥
मया पृष्टो हुतवहः कोऽस्या भर्तेति पार्थिव ।
भविता तेन चाप्युक्तो भवानेवाद्य वै वरः॥७५.५०॥
तद्गृह्यतां मया दत्ता तुभ्यं कन्या नराधिप ।
प्रियेत्यामन्त्रिता चेयं विचारं कुरुषे कथम्॥७५.५१॥
मार्कण्डेय उवाच
ततोऽसावभवन्मौनी तेनोक्तः पृथिवीपतिः ।
ऋषिस्तथोद्यतः कर्तुं तस्या वैवाहिकं विधिम्॥७५.५२॥
तमुद्यतं सा पितरं विवाहाय महामुने ।
उवाच कन्या यत्किञ्चित् प्रश्रयावनतानना॥७५.५३॥
यदि मे प्रीतिमांस्तात प्रिसादं कर्तुमर्हसि ।
रेवत्यृक्षे विवाहं मे तत्करोतु प्रसादितः॥७५.५४॥
ऋषिरुवाच
रेवत्यृक्षं न वै भद्रे चन्द्रयोगि व्यवस्थितम् ।
अन्यानि सन्ति ऋक्षाणि सुभ्रु वैवाहिकानि ते॥७५.५५॥
कन्योवाच
तात तेन विना कालो विफलः प्रतिभाति मे ।
विवाहो विफले काले मद्विधायाः कथं भवेत्॥७५.५६॥
ऋषिरुवाच
ऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति ।
चकार कोपं क्रुद्धेन तेनर्क्षं विनिपातितम्॥७५.५७॥
मया चास्मै प्रतिज्ञाता भर्येति मदिरेक्षणा ।
न चेच्छसि विवाहं त्वं सङ्कटं नः समागतम्॥७५.५८॥
कन्योवाच
ऋतवाक् स मुनिस्तात किमेवं तप्तवांस्तपः ।
न त्वया मम तातेन ब्रह्मबन्धोः सुतास्मि किम्॥७५.५९॥
ऋषिरुवाच
ब्रह्मबन्धोः सुता न त्वं बाले नैव तपस्विनः ।
सुता त्वं मम यो देवान् कर्तुमन्यान् समुत्सहे॥७५.६०॥
कन्योवाच
तपस्वी यदि मे तातस्तत्किमृक्षमिदं दिवि ।
समारोप्य विवाहो मे तदृक्षे क्रियते न तु॥७५.६१॥
ऋषिरुवाच
एवं भवतु भद्रन्ते भद्रे प्रीतिमती भव ।
आरोपयामीन्दुमार्गे रेवत्यृक्षं कृते तव॥७५.६२॥
मार्कण्डेय उवाच
ततस्तपः प्रभावेण रेवत्यृक्षं महामुनिः ।
यथापूर्वन्तथा चक्रे सोमयोगि द्विजोत्तम॥७५.६३॥
विवाहञ्चैव दुहितुर्विधिवद् मन्त्रयोगिनम् ।
निष्पाद्य प्रीतिमान् भूयो जामातारमथाब्रवीत्॥७५.६४॥
औद्वाहिकन्ते भूपाल कथ्यतां किं ददाम्यहम् ।
दुर्लभ्यमपि दास्यामि ममाप्रतिहतन्तपः॥७५.६५॥
राजोवाच
मनोः स्वयम्भुवस्याहमुत्पन्नः सन्ततौ मुने ।
मन्वन्तराधिपं पुत्रं त्वत्प्रसादाद् वृणोम्यहम्॥७५.६६॥
ऋषिरुवाच
भविष्यत्येष ते कामो मनुस्त्वत्तनयो महीम् ।
सकलां भोक्ष्यते भूप धर्मविच्च भविष्यति॥७५.६७॥
मार्कण्डेय उवाच
तामादाय ततो भूपः स्वमेव नगरं ययौ ।
तस्मादजायत सुतो रेवत्या रैवतो मनुः॥७५.६८॥
समेतः सकलैर्धर्मैर्मानवैरपराजितः ।
विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित्॥७५.६९॥
तस्य मन्वन्तरे देवान् मुनिदेवेन्द्रपार्थिवान् ।
कथ्यमानान् मया ब्रह्मन् निबोध सुसमाहितः॥७५.७०॥
सुमेधसस्तत्र देवास्तथा भूपतयो द्विज ।
वैकुण्ठश्चामिताभश्च चतुर्दश चतुर्दश॥७५.७१॥
तेषां देवगणानान्तु चतुर्णामपि चेश्चरः ।
नाम्ना विभुरभूदिन्द्रः शतयज्ञोपलक्षकः॥७५.७२॥
हिरण्यलोमा वेदश्रीरूर्ध्वबाहुस्तथापरः ।
वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः॥७५.७३॥
वसिष्ठश्च महाभागो वेदवेदान्तपारगः ।
एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः॥७५.७४॥
बलबन्धुर्महावीर्यः सुयष्टव्यस्तथापरः ।
सत्यकाद्यास्तथैवासन् रैवतस्य मनोः सुताः॥७५.७५॥
रैवतान्तास्तु मनवः कथिता ये मया तव ।
स्वायम्भुवाश्रया ह्येते स्वारोचिषमृते मनुम्॥७५.७६॥
(य एषां शृणुयान्नित्यं पठेदाख्यानमुत्तमम् ।
विमुक्तः सर्वपापेभ्यो लोकं प्राप्नोत्यभीप्सितम्॥७५.७७॥
इति श्रीमार्कण्डेयपुराणे रैवतमन्वन्तरे पञ्चसप्ततितमोऽध्यायः
षट्सप्ततितमोऽध्यायः- ७६
मार्कण्डेय उवाच
इत्येतत् कथितं तुभ्यं पञ्च मन्वन्तरं तव ।
चाक्षुषस्य मनोः षष्ठं श्रूयतामिदमन्तरम्॥७६.१॥
अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।
चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज॥७६.२॥
जातं माता निजोत्सङ्गे स्थितमुल्लाप्य तं पुनः ।
परिष्वजति हार्देन पुनरुल्लापयत्यथ॥७६.३॥
जातिस्मरः स जातो वै मातुरुत्सङ्गमास्थितः ।
जहास तं तदा माता संक्रुद्धा वाक्यमब्रवीत्॥७६.४॥
भीतास्मि किमिदं वत्स ! हासो यद्वदने तव ।
अकालबोधः सञ्जातः कच्चित् पश्यसि शोभनम्॥७६.५॥
पुत्र उवाच
मामत्तुमिच्छति पुरो मार्जारी किम न पश्यसि ।
अन्तर्धानगता चेयं द्वितीया जातहारिणी॥७६.६॥
पुत्रप्रीत्या च भवती सहार्दा मामवेक्षती ।
उल्लाप्योल्लाप्य बहुशः परिष्वजति मां यतः॥७६.७॥
उद्भूतपुलका स्नेहसम्भवास्त्राविलेक्षणा ।
ततो ममागतो हासः शृणु चाप्यत्र कारणम्॥७६.८॥
स्वार्थे प्रसक्ता मार्जारी प्रसक्तं मामवेक्षते ।
तथान्तर्धानगा चैव द्वितीया जातहारिणी॥७६.९॥
स्वार्थाय स्निग्धहृदया यथैवैते ममोपरि ।
प्रवृत्ते स्वार्थमास्थाय तथैव प्रतिभासि मे॥७६.१०॥
किन्तु मदुपभोगाय मार्जारी जातहारिणी ।
त्वन्तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि॥७६.११॥
न मां जानासि कोऽप्येष न चैवापकृतं मया ।
सङ्गतं नातिकालीनं पञ्चसप्तदिनात्मकम्॥७६.१२॥
तथापि स्त्रिह्यसे सास्त्रा परिष्वजसि चाप्यति ।
तातेति वत्स ! भद्रेति निर्व्यलीकं ब्रवीषि माम्॥७६.१३॥
मातोवाच
न त्वाहमुपकारार्थं वत्स ! प्रीत्या परिष्वजे ।
न चेदेतद्भवत्प्रीत्यै परित्यक्तास्म्यहं त्वया॥७६.१४॥
स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति ।
इत्युक्त्वा सा तमुत्सृज्य निष्क्रान्ता सूतिकागृहात्॥७६.१५॥
जडाङ्गबाह्यकरणं शुद्धान्तः करणात्मकम् ।
जहार तं परित्यक्तं सा तदा जातहारिणी॥७६.१६॥
सा हृत्वा तं तदा बालं विक्रान्तस्य महीभृतः ।
प्रसूतपत्नीशयने न्यस्य तस्याददे सुतम्॥७६.१७॥
तमप्यन्यगृहे नीत्वा गृहीत्वा तस्य चात्मजम् ।
तृतीयं भक्षयामास सा क्रमाज्जातहारिणी॥७६.१८॥
हृत्वा हृत्वा तृतीयन्तु भक्षयत्यतिनिर्घृणा ।
करोत्यनुदिनं सा नु परिवर्तन्तथान्ययोः॥७६.१९॥
विक्रान्तोऽपि ततस्तस्य सुतस्यैव महीपतिः ।
कारयामास संस्कारान् राजन्यस्य भवन्ति ये॥७६.२०॥
आनन्देति च नामास्य पिता चक्रे विधानतः ।
मुदा परमया युक्तो विक्रान्तः स नराधिपः॥७६.२१॥
कृतोपनयनं तन्तु गुरुराह कुमारकम् ।
जनन्याः प्रागुपस्थानं क्रियताञ्चाभिवादनम्॥७६.२२॥
स गुरोस्तद्वचः श्रुत्वा विहस्यैवमथाब्रवीत् ।
वन्द्या मे कतमा माता जननी पालनी नु किम्॥७६.२३॥
गुरुरुवाच
न त्वियं ते महाभाग ! जनयित्री रुथात्मजा ।
विक्रान्तस्याग्रमहिषी हैमिनी नाम नामतः॥७६.२४॥
आनन्द उवाच
इयं जनित्री चैत्रस्य विशालग्रमवासिनः ।
विप्राग्र्यबोधपुत्रस्य योऽस्यां जातोऽन्यतो वचम्॥७६.२५॥
गुरुरुवाच
कुतस्त्वं कथयानन्द ! चैत्रः को वा त्वयोच्यते ।
सङ्कटं महदाभाति क्व जातोऽत्र ब्रवीषि किम्॥७६.२६॥
आनन्द उवाच
जातोऽहमवनीन्द्रस्य क्षत्रियस्य गृहे द्विज ।
तत्पत्न्यां गिरिभद्रायामाददे जातहारिणी॥७६.२७॥
तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा ।
बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः॥७६.२८॥
भक्षयामास च सुतं तस्य बोधद्विजन्मनः ।
स तत्र द्विजसंस्कारैः संस्कृतो हैमिनीसुतः॥७६.२९॥
वयमत्र महाभाग ! संस्कृता गुरुणा त्वया ।
मया तव वचः कार्यमुपैमि कतमां गुरो॥७६.३०॥
गुरुरुवाच
अतीव गहनं वत्स ! सङ्कटं महदागतम् ।
न वेद्मि किञ्चिन्मोहेन भ्रमन्तीव हि बुद्धयः॥७६.३१॥
आनन्द उवाच
मोहस्यावसरः कोऽत्र जगत्येवं व्यवस्थिते ।
कः कस्य पुत्रो विप्रर्षे ! को वा कस्य नु बान्धवः॥७६.३२॥
आरभ्य जन्मनो नॄणां सम्बन्धित्वमुपैति यः ।
अन्ये सम्बन्धिनो विप्र ! मृत्युना सन्निवर्तिताः॥७६.३३॥
अत्रापि जातस्य सतः सम्बन्धोयोऽस्य बान्धवैः ।
सोऽप्यस्तङ्गते देहे प्रयात्येषोऽखिलक्रमः॥७६.३४॥
अतो ब्रवीमि संसारे वसतः को न बान्धवः ।
को वापि सततं बन्धुः किं वो विभ्राम्यते मतिः॥७६.३५॥
पितृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि ।
मातृद्वयञ्च किञ्चित्रं यदन्यद् देहसम्भवे॥७६.३६॥
सोऽहं तपः करिष्यामि त्वया यो ह्यस्य भूपतेः ।
विशालग्रामतः पुत्रश्चैत्र आनीयतामिह॥७६.३७॥
मार्कण्डेय उवाच
ततः स विस्मितो राजा सभार्यः सह बन्धुभिः ।
तस्मान्निवर्त्य ममतामनुमेने वनाय तम्॥७६.३८॥
चैत्रमानीय तनयं राज्ययोग्यं चकार सः ।
संमान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः॥७६.३९॥
सोऽप्यानन्दस्तपस्तेपे बाल एव महावने ।
कर्मणां क्षुपणार्थाय विमुक्तेः परिपन्थिनाम्॥७६.४०॥
तपस्यन्तं ततस्तञ्च प्राह देवः प्रजापतिः ।
किमर्थं तप्यसे वत्स ! तपस्तीव्रं वदस्व तत्॥७६.४१॥
आनन्द उवाच
आत्मनः शुद्धिकामोऽहं करोमि भगवंस्तपः ।
बन्धाय मम कर्माणि यानि तत्क्षपणोन्मुखः॥७६.४२॥
ब्रह्मोवाच
क्षीणाधिकारो भवति मुक्तियोग्यो न कर्मवान् ।
सत्त्वाधिकारवान् मुक्तिमवाप्स्यति ततो भवान्॥७६.४३॥
भवता मनुना भाव्यं षष्ठेन व्रज तत् कुरु ।
अलन्ते तपसा तस्मिन् कृते मुक्तिमवाप्स्यसि॥७६.४४॥
मार्कण्डेय उवाच
इत्युक्तो ब्रह्मणा सोऽपि तथेत्युक्त्वा महामतिः ।
तत्कर्माभिमुखो यातस्तपसो विरराम ह॥७६.४५॥
चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् ।
पूर्वनाम्ना बभूवाथ प्रख्यातश्चाक्षुषो मनुः॥७६.४६॥
उपयेमे विदर्भां स सुतामुग्रस्य भूभृतः ।
तस्याञ्चोत्पादयामास पुत्रान् प्रख्यातविक्रमान्॥७६.४७॥
तस्य मन्वन्तरेशस्य येऽन्तरे त्रिदशा द्विज ।
ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु॥७६.४८॥
आप्या नाम सुरास्तत्र तेषामेकोऽष्टको गणः ।
प्रख्यातकर्मणां विप्र ! यज्ञे हव्यभुजामयम्॥७६.४९॥
प्रख्यातबलवीर्याणां प्रभामण्डलदुर्दृशाम् ।
द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः॥७६.५०॥
तथैवाष्टक एवान्यो भव्याख्यो देवतागणः ।
चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः॥७६.५१॥
लेखसंज्ञास्तथैवान्ये तत्र मन्वन्तरे द्विज ।
पञ्चमे च गणे देवास्तत्संज्ञा ह्यमृताशिनः॥७६.५२॥
शतं क्रतूनामाहृत्य यस्तेषामधिपोऽभवत् ।
मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक्॥७६.५३॥
सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः॥७६.५४॥
ऊरु-पुरु-शतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन्॥७६.५५॥
एतत्ते कथितं षष्ठं मया मन्वन्तरं द्विज ।
चाक्षुषस्य तथा जन्म चरितञ्च महात्मनः॥७६.५६॥
साम्प्रतं वर्तते योऽयं नाम्ना वैवस्वतो मनुः ।
सप्तमीयेऽन्तरे तस्य देवाद्यास्तान् शृणुष्व मे॥७६.५७॥
य इदं कीर्तयेद् धीमान् चाक्षुषस्यान्तरं भुवि ।
शृणुते च लभेत् पुत्रानारोग्यसुखसम्पदम्॥७६.५८॥
इति श्रीमार्कण्डेयपुराणे षष्ठं मन्वन्तरं समाप्तम्,अध्यायः षट्सप्ततितमः
सप्तसप्ततितमोऽध्यायः- ७७
मार्कण्डेय उवाच
मार्तण्ड रस्यवेर्भार्या तनया विश्वकर्मणः ।
संज्ञा नाम महाभाग तस्यां भानुरजीजनत्॥७७.१॥
मनुं प्रख्यातयशसमनेकज्ञानपारगम् ।
विवस्वतः सुतो यस्मात्तस्माद्वैवस्वतस्तु सः॥७७.२॥
संज्ञा च रविणा दृष्टा निमीलयति लोचने ।
यतस्ततः सरोषोर्ऽकः संज्ञां निष्ठुरमब्रवीत्॥७७.३॥
मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् ।
तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम्॥७७.४॥
मार्कण्डेय उवाच
ततः सा चपलां दृष्टिं देवी चक्रे भयाकुला ।
विलोलितदृशं दृष्ट्वा पुनराह च तां रविः॥७७.५॥
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वयाधुना ।
तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि॥७७.६॥
मार्कण्डेय उवाच
ततस्तस्यान्तु संजज्ञे भर्तृशापेन तेन वै ।
यमश्च यमुना चेयं प्रख्याता सुमहानदी॥७७.७॥
सापि संज्ञा रवेस्तेजः सेहे दुः खेन भामिनी ।
असहन्ती च सा तेजश्चिन्तयामास वै तदा॥७७.८॥
किङ्करोमि क्व गच्छामि क्व गतायाश्च निर्वृतिः ।
भवेन्मम कथं भर्ता कोपमर्कश्च नैष्यति॥७७.९॥
इति संचिन्त्य बहुधा प्रजापतिसुता तदा ।
बहु मेने महाभागा पितृसंश्रयमेव सा॥७७.१०॥
ततः पितृगृहे गन्तुं कृतबुद्धिर्यशस्विनी ।
छायामयीमात्मतनुं निर्ममे दयितां रवेः॥७७.११॥
ताञ्चोवाच त्वया वेश्मन्यत्र भानोर्यथा मया ।
तथा सम्यगपत्येषु वर्तितव्यं यथा रवौ॥७७.१२॥
पृष्टयापि न वाच्यन्ते तथैतद्गमनं मम ।
सैवास्मि नाम संज्ञेति वाच्यमेतत्सदा वचः॥७७.१३॥
छायसंज्ञोवाच
आकेशग्रहणाद् देवि ! आशापाच्च वचस्तव ।
करिष्ये कथयिष्यामि वृत्तन्तु शापकर्षणात्॥७७.१४॥
इत्युक्ता सा तदा देवी जगाम भवनं पितुः ।
ददर्श तत्र त्वष्टारं तपसा धूतकल्मषम्॥७७.१५॥
बहुमानाच्च तेनापि पूजिता विश्वकर्मणा ।
तस्थौ पितृगृहे सा तु कञ्चित्कालमनिन्दिता॥७७.१६॥
ततस्तां प्राह चार्वङ्गी पिता नातिचिरोषिताम् ।
स्तुत्वा च तनयां प्रेमबहुमानपुरः सरम्॥७७.१७॥
त्वान्तु मे पश्यतो वत्से दिनानि सुबहून्यपि ।
मुहूर्तार्धसमानि स्युः किन्तु धर्मो विलुप्यते॥७७.१८॥
बान्धवेषु चिरं वासो नारीणां न यशस्करः ।
मनोरथो बान्धवानां नार्या भर्तृगृहे स्थितिः॥७७.१९॥
सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण सङ्गता ।
पितृगेहे चिरं कालं वस्तुं नार्हसि पुत्रिके॥७७.२०॥
सा त्वं भर्तृगृहं गच्छ तुष्टोऽहं पूजितासि मे ।
पुनरागमनं कार्यं दर्शनाय शुभे मम॥७७.२१॥
मार्कण्डेय उवाच
इत्युक्ता सा तदा पित्रा तथेत्युक्त्वा च सा मुने ।
संपूजयित्वा पितरं जगामाथोत्तरान् कुरून्॥७७.२२॥
सूर्यतापमनिच्छन्ती तेजसस्तस्य बिभ्यती ।
तपश्चचार तत्रापि वडवारूपधारिणी॥७७.२३॥
संज्ञेयमिति मन्वानो द्वितीयायामहस्पतिः ।
जनयामास तनयौ कन्याञ्चैकां मनोरमाम्॥७७.२४॥
छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला ।
तथा न संज्ञाकन्यायां पुत्रयोश्चान्ववर्तत॥७७.२५॥
लालनाद्युपभोगेषु विशेषमनुवासरम् ।
मनुस्तत् क्षान्तवानस्य यमस्तस्या न चक्षमे॥७७.२६॥
ताडनाय च वै कोपात् पादस्तेन समुद्यतः ।
तस्याः पुनः क्षान्तिमता न तु देहे निपातितः॥७७.२७॥
ततः शशाप तं कोपाच्छायासंज्ञा यमं द्विज ।
किञ्चित् प्रस्फुरमाणौष्ठी विचलत्पाणिपल्लवा॥७७.२८॥
पितुः पत्नीममर्यादं यन्मां तर्जयसे पदा ।
भुवि तस्मादयं पदास्तवाद्यैव पतिष्यति॥७७.२९॥
मार्कण्डेय उवाच
इत्याकर्ण्य यमः शापं मात्रा दत्तं भयातुरः ।
अभ्येत्य पितरं प्राह प्रणिपातपुरः सरम्॥७७.३०॥
यम उवाच
तातैतन्महदाश्चर्यं न दृष्टमिति केनचित् ।
माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति॥७७.३१॥
यथा मनुर्ममाचष्टे नेयं मता तथा मम ।
विगुणेष्वपि पुत्रेषु न माता विगुणा भवेत्॥७७.३२॥
मार्कण्डेय उवाच
यमस्यैतद्वचः श्रुत्वा भगवांस्तिमिरापहः ।
छायासंज्ञां समाहूय पप्रच्छ क्व गतेति सा॥७७.३३॥
सा चाह तनया त्वष्टुरहं संज्ञा विभावसो ।
पत्नी तव त्वयापत्यान्येतानि जनितानि मे॥७७.३४॥
इत्थं विवस्वतः सा तु बहुशः पृच्छतो यदा ।
नाचचक्षे ततः क्रुद्धो भास्वांस्तां शप्तुमुद्यतः॥७७.३५॥
ततः सा कथयामास यथावृत्तं विवस्वतः ।
विदितार्थश्च भगवान् जगाम त्वष्टुरालयम्॥७७.३६॥
ततः स पूजयामास तदा त्रैलोक्यपूजितम् ।
भास्वन्तं परया भक्त्या निजगेहमुपागतम्॥७७.३७॥
संज्ञां पृष्टस्तदा तस्मै कथयामास विश्वकृत् ।
आगतैवेह मे वेश्म भवतः प्रेषितेति वै॥७७.३८॥
दिवाकरः समाधिस्थो वडवारूपधारिणीम् ।
तपश्चरन्तीं ददृशे उत्तरेषु कुरुष्वथ॥७७.३९॥
सौम्यमूर्तिः शुभाकारो मम भर्ता भवेदिति ।
अभिसन्धिञ्च तपसो बुबुधेऽस्या दिवाकरः॥७७.४०॥
शातनं तेजसो मेऽद्य क्रियतामिति भास्करः ।
तञ्चाह विश्वकर्माणं संज्ञायाः पितरं द्विज॥७७.४१॥
संवत्सरभ्रमेस्तस्य विश्वकर्मा करवेस्ततः ।
तेजसः शातनञ्चक्रे स्तूयमानश्च दैवतैः॥७७.४२॥
इति श्रीमार्कण्डेयपुराणे वैवस्वतमन्वन्तरे सप्तसप्ततितमोऽध्यायः
अष्टसप्ततितमोऽध्यायः- ७८
मार्कण्डेय उवाच
ततस्तं तुष्टुवुर्देवास्तथा देवर्षयो रविम् ।
वाग्भिरोड्यमशेषस्य त्रैलोक्यस्य समागताः॥७८.१॥
देवा ऊचुः
नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः ।
यजुः स्वरूपरूपाय साम्नान्धामवते नमः॥७८.२॥
ज्ञानैकधामभूताय निर्धूततमसे नमः ।
शुद्धज्योतिः स्वरूपाय विशुद्धायामलात्मने॥७८.३॥
वरिष्ठाय वरेण्याय परस्मै परमात्मने ।
नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये॥७८.४॥
इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः ।
शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि॥७८.५॥
न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् ।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम्॥७८.६॥
नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे ।
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः॥७८.७॥
शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः ।
त्वं सर्वमेतद् भगवन् जगदुद्भ्रमता त्वया॥७८.८॥
भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् ।
त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि॥७८.९॥
क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता ।
होमदानादिको धर्मो नोपकाराय जायते॥७८.१०॥
तावद्यावन्न संयोगि जगदेतत् त्वदंशुभिः ।
ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः॥७८.११॥
सकलानि च सामानि निपतन्ति त्वदड्गतः ।
ऋङ्मयस्त्वं जगन्नाथ ! त्वमेव च यजुर्मयः॥७८.१२॥
यतः साममयश्चैव ततो नाथ ! त्रयीमयः ।
त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च॥७८.१३॥
मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः ।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।
प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु॥७८.१४॥
मार्कण्डेय उवाच
एवं संस्तूयमानस्तु देवैर्देवर्षिभिस्तथा ।
मुमोच स्वं तदा तेजस्तेजसां राशिरव्ययः॥७८.१५॥
यत्तस्य ऋङ्मयं तेजो भविता तेन मेदिनी ।
यजुर्मयेनापि दिवं स्वर्गः साममयं रवेः॥७८.१६॥
शातितास्तेजसो भागा ये त्वष्ट्रा दश पञ्च च ।
त्वष्ट्रैव तेन शर्वस्य कृतं शूलं महात्मना॥७८.१७॥
चक्रं विष्णोर्वसूनाञ्च शङ्कवोऽथ सुदारुणाः ।
पावकस्य तथा शक्तिः शिबिका धनदस्य च॥७८.१८॥
अन्येषामसुरारीणामस्त्राण्युग्राणि यानि वै ।
यक्षविद्याधराणाञ्च तानि चक्रे स विश्वकृत्॥७८.१९॥
ततश्च षोडशं भागं बिभर्ति भगवान् विभुः ।
तत्तेजः पञ्चदशधा शातितं विश्वकर्मणा॥७८.२०॥
ततोऽश्वरूपधृग्भानुरुत्तरानगमत् कुरून् ।
तदृशे तत्र संज्ञाञ्च वडवारूपधारिणीम्॥७८.२१॥
सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।
जगाम संमुखं तस्य पृष्ठरक्षणतत्परा॥७८.२२॥
ततश्च नासिकायोगं तयोस्तत्र समेतयोः ।
नासत्यदस्त्रौ तनयावश्वीवक्त्रविनिर्गतौ॥७८.२३॥
रेतसोऽन्ते च रेवन्तः खड्गी चर्मो तनुत्रधृक् ।
अश्वारूढः समुद्भूतो बाणतूणसमन्वितः॥७८.२४॥
ततः स्वरूपमतुलं दर्शयामास भानुमान् ।
तस्यैषा च समालोक्य स्वरूपं मुदमाददे॥७८.२५॥
स्वरूपधारिणीञ्चैमामानिनाय निजाश्रयम् ।
संज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः॥७८.२६॥
ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ।
द्वितीयश्च यमः शापाद्धर्मदृष्टिरभूत् सुतः॥७८.२७॥
कृमयो मांसमादाय पादतोऽस्य महीतले ।
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम्॥७८.२८॥
धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते ।
ततो नियोगं तं याम्ये चकार तिमिरापहः॥७८.२९॥
यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी ।
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना॥७८.३०॥
गुह्यकाधिपतित्वे च रेवन्तोऽपि नियोजितः ।
च्छायासंज्ञासुतानाञ्च नियोगः श्रुयतां मम॥७८.३१॥
पूर्वजस्य मनोस्तुल्यश्छायासंज्ञासुतोऽग्रजः ।
ततः सावर्णिकीं संज्ञामवाप तनयो रवेः॥७८.३२॥
भविष्यति मनुः सोऽपि बलिरिन्द्रो यदा तदा ।
शनैश्चरो ग्रहाणाञ्च मध्ये पित्रा नियोजितः॥७८.३३॥
तयोस्तृतीया या कन्या तपती नाम सा कुरुम् ।
नृपात् संवरणात् पुत्रमवाप मनुजेश्वरम्॥७८.३४॥
तस्य वैवस्वतस्याहं मनोः सप्तममन्तरम् ।
कथयामि सुतान् भूपानृषीन् देवान् सुराधिपम्॥७८.३५॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतोत्पत्तिर्नामाष्टसप्ततितमोऽध्यायः
ऊनाशीतितमोऽध्यायः- ७९
मार्कण्डेय उवाच
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः॥७९.१॥
आदित्या वसवो रुद्रा विज्ञेयाः कश्यपात्मजाः ।
साध्याश्च मरुतो विश्वे धर्मपुत्रगणास्त्रयः॥७९.२॥
भृगोस्तु भृगवो देवाः पुत्रा ह्यङ्गिरसः सुताः ।
एष सर्गश्च मारीचो विज्ञेयः साम्प्रताधिपः॥७९.३॥
ऊर्जस्वी नाम चैवेन्द्रो महात्मा यज्ञभागभुक् ।
अतीतानागता ये च वर्तन्ते साम्प्रतञ्च ये॥७९.४॥
सर्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ।
सहस्राक्षाः कुलिशिनः सर्व एव पुरन्दराः॥७९.५॥
मघवन्तो वृषाः सर्वे शृङ्गिणो गजगामिनः ।
ते शतक्रतवः सर्वे भूताभिभवतेजसः॥७९.६॥
धर्माद्यैः कारणैः सुद्धैराधिपत्यगुणान्विताः ।
भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्विज॥७९.७॥
भूर्लोकोऽयं स्मृता भूमिरन्तरिक्षं दिवः स्मृतम् ।
दिव्याख्याश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते॥७९.८॥
अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानृषिः ।
गौतमश्च भरद्वाजौ विश्वामित्रोऽथ कौशिकः॥७९.९॥
तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
जमदग्निस्तु सप्तैते मुनयोऽत्र नथान्तरे॥७९.१०॥
इक्ष्वाकुर्नाभगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागारिष्ट एव च॥७९.११॥
करूषश्च पृषध्रश्च वसुमान् लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः प्रकीर्तिताः॥७९.१२॥
वैवस्वतमिदं ब्रह्मन् ! कथितन्ते मयान्तरम् ।
अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम ।
मुच्यते पातकैः सर्वैः पुण्यञ्च महदश्नते॥७९.१३॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतकीर्तनं नामैकोनाशीतितमोऽध्यायः
अशीतितमोऽध्यायः- ८०
क्रौष्टुकिरुवाच
स्वायम्भुवाद्याः कथिताः सप्तैते मनवो मम ।
तदन्तरेषु ये देवा राजानो मुनयस्तथा॥८०.१॥
अस्मिन् कल्पे सप्त येऽन्ये भविष्यन्ति महामुने ।
मनवस्तान् समाचक्ष्व ये च देवादयश्च ये॥८०.२॥
मार्कण्डेय उवाच
कथितस्तव सावर्णिश्छायासंज्ञासुतश्च यः ।
पूर्वजस्य मनोस्तुल्यः स मनुर्भविताष्टमः॥८०.३॥
रामो व्यासो गालवश्च दीप्तिमान् कृप एव च ।
ऋष्यशृङ्गस्तथा द्रोणस्तत्र सप्तर्षयोऽभवन्॥८०.४॥
सुतपाश्चामिताभाश्च मुख्याश्चैव त्रिधा सुराः ।
विंशकः कथिताश्चैषां त्रयाणां त्रिगुणो गणः॥८०.५॥
तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ।
प्रभासो दयितो धर्मस्तेजोरश्मिश्चिरक्रतुः॥८०.६॥
इत्यादिकस्तु सुतपा देवानां विंशको गणः ।
प्रभुर्विभुर्विभासाद्यस्तथान्यो विंशको गणः॥८०.७॥
सुराणाममिताभानां तृतीयमपि मे शृणु ।
दमो दान्तो ऋतः सोमो वित्ताद्याश्चैव विंशतिः॥८०.८॥
मुख्या ह्येते समाख्याता देवा मन्वन्तराधिपाः ।
मारीचस्यैव ते पुत्राः कश्यपस्य प्रजापतेः॥८०.९॥
भविष्याश्च भविष्यन्ति सावर्णस्यान्तरे मनोः ।
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने॥८०.१०॥
पाताल आस्ते योऽद्यापि दैत्यः समयबन्धनः ।
विरजाश्चार्ववीरश्च निर्मोहः सत्यवाक् कृतिः ।
विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः॥८०.११॥
इति श्रीमार्कण्डेयपुराणेऽशीतितमोऽध्यायः
एकाशीतितमोऽध्यायः- ८१।
<b>देवीमाहात्म्यम्</b>
मार्कण्डेय उवाच
सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ।
निशामय तदुत्पत्तिं विस्तराद् गदतो मम॥८१.१॥
महामायानुभावेन यथा मन्वन्तराधिपः ।
स बभूव महाभागः सावर्णिस्तनयो रवेः॥८१.२॥
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः ।
सुरथो नाम राजाभूत् समस्ते क्षितिमण्डले॥८१.३॥
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तथा॥८१.४॥
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः ।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः॥८१.५॥
ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः॥८१.६॥
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ।
कोषो बलञ्चापहृतं तत्रापि स्वपुरे ततः॥८१.७॥
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः ।
एकाकी हयमारुह्य जगाम गहनं वनम्॥८१.८॥
स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः ।
प्रशान्तश्वापदाकीर्णं मुनिश्ष्योपशोभितम्॥८१.९॥
तस्थौ कञ्चित् स कालञ्च मुनिना तेन सत्कृतः ।
इतश्चैतश्च विचरंस्तस्मिन् मुनिवराश्रमे॥८१.१०॥
सोऽचिन्तयत् तदा तत्र ममत्वाकृष्टचेतनः ।
मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ।
मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा॥८१.११॥
न जाने स प्रधानो मे शूरहस्ती सदामदः ।
मम वैरिवशं यातः कान् भोगानुपलप्स्यते॥८१.१२॥
ये ममानुगता नित्यं प्रसादधनभोजनैः ।
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम्॥८१.१३॥
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ।
संचितः सोऽतिदुः खेन क्षयं कोशो गमिष्यति॥८१.१४॥
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ।
तत्र विप्राश्रमाभ्यासे वैश्यमेकं ददर्श सः॥८१.१५॥
स पृष्टस्तेन कस्त्वं भोः हेतुश्चागमनेऽत्र कः ।
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे॥८१.१६॥
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ।
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्॥८१.१७॥
वैश्य उवाच
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ।
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः॥८१.१८॥
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ।
वनमभ्यागतो दुः खी निरस्तश्चाप्तबन्धुभैः॥८१.१९॥
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ।
प्रवृत्तिं स्वजनानाञ्च दाराणाञ्चात्र संस्थितः॥८१.२०॥
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ।
कथं ते किं नु सद्वृत्ताः दुर्वृत्ताः किं नु मे सुताः॥८१.२१॥
राजोवाच
यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः ।
तेषु किं भवतः स्नेहमनुबध्नाति मानसम्॥८१.२२॥
वैश्य उवाच
एवमेतद्यथा प्राह भवानस्मद्गतं वचः ।
किं करोमि न बध्नाति मम निष्ठुरतां मनः॥८१.२३॥
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ।
पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः॥८१.२४॥
किमेतन्नाभिजानामि जानन्नपि महामते ।
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु॥८१.२५॥
तेषां कृते मे निः श्वासो दौर्मनस्यं च जायते ।
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्॥८१.२६॥
मार्कण्डेय उवाच
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ।
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः॥८१.२७॥
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ।
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्य-पार्थिवौ॥८१.२८॥
राजौवाच
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ।
दुः खाय यन्मे मनसः स्वचित्तायत्ततां विना॥८१.२९॥
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ।
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम॥८१.३०॥
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ।
स्वजनेन च सन्त्यक्तस्तेषु हार्दे तथाप्यति॥८१.३१॥
एवमेष तथाहं च द्वावप्यत्यन्तदुः खितौ ।
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ॥८१.३२॥
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ।
ममास्य च भवत्येषा विवेकान्धस्य मूढता॥८१.३३॥
ऋषिरुवाच
ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ।
विषयश्च महाभाग याति चैवं पृथक् पृथक्॥८१.३४॥
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ।
केचिद् दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः॥८१.३५॥
ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम् ।
यतो हि ज्ञानिनः सर्वे पशु-पक्षि-मृगादयः॥८१.३६॥
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगृपक्षिणाम् ।
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः॥८१.३७॥
ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ।
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा॥८१.३८॥
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ।
लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्यसि॥८१.३९॥
तथापि ममतावर्ते मोहगर्ते निपातिताः ।
महामायाप्रभावेण संसारस्थितिकारिणा॥८१.४०॥
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ।
महामाया हरेश्चैतत्तथा संमोह्यते जगत्॥८१.४१॥
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति॥८१.४२॥
तया विसृज्यते विश्वं जगदेतच्चराचरम् ।
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये॥८१.४३॥
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ।
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी॥८१.४४॥
राजोवाच
भगवन् ! का हि सा देवी महामायेति यां भवान् ।
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज॥८१.४५॥
यत्स्वभावा च सा देवी यत्स्वरूपा यदुद्भवा ।
तत् सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर॥८१.४६॥
ऋषिरुवाच
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ।
तथापि तत्समुत्पत्तिर्बहुधा श्रुयतां मम॥८१.४७॥
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ।
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते॥८१.४८॥
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ।
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः॥८१.४९॥
< =" " =" _ -1"><a ="# _ -1">[१]</a></ >तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ।
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ॥८१.५०॥
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ।
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्॥८१.५१॥
तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः ।
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्॥८१.५२॥
ब्रह्मोवाच
विश्वेश्वरीं जगद्धात्रीं स्थिति-संहारकारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥८१.५३॥
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥८१.५४॥
अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा॥८१.५५॥
त्वयैव धार्यते सर्वं त्वयैतत्सृज्यते जगत् ।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥८१.५६॥
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये॥८१.५७॥
महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महेश्वरी॥८१.५८॥
प्रकृतिस्त्वञ्च सर्वस्य गुणत्रयविभाविनी ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा॥८१.५९॥
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च॥८१.६०॥
खडिगनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाण-भुशुण्डी परिघायुधा॥८१.६१॥
सौम्या सौम्यतराशेष-सौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्वरी॥८१.६२॥
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शिक्तिः सा त्वं किं स्तूयते तदा॥८१.६३॥
यया त्वया जगत्स्त्रष्टा जगत्पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः॥८१.६४॥
विष्णुः शरीरग्रहणमहामीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्॥८१.६५॥
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरो मधुकैटभौ॥८१.६६॥
प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ॥८१.६७॥
ऋषिरुवाच
एवं स्तुता तदा देवी तामसी तत्र वेधसा ।
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ॥८१.६८॥
नेत्रास्यनासिका-बाहु-हृदयेभ्यस्तथोरसः ।
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः॥८१.६९॥
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ।
एकार्णवेऽहिशयनात्ततः स ददृशे च तौ॥८१.७०॥
मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ।
क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ॥८१.७१॥
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ।
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः॥८१.७२॥
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ।
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्॥८१.७३॥
भगवानुवाच
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ।
किमन्येन वरेणात्र एतावद्धि वृतं मम॥८१.७४॥
ऋषिरुवाच
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ।
विलोक्यं ताभ्यां गदितो भगवान् कमलेक्षणः॥८१.७५॥
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ।
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः॥८१.७६॥
ऋषिरुवाच
तथेत्युक्त्वा भगवता शङ्ख-चक्र-गदाभृता ।
कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः॥८१.७७॥
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते॥८१.७८॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम एकाशीतितमोऽध्यायः
षडशीतितमोऽध्यायः- ८६
ऋषिरुवाच
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात्॥८६.१॥
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।
सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम्॥८६.२॥
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ।
तामानय बलाद् दुष्टां केशाकर्षणविह्वलाम्॥८६.३॥
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः ।
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा॥८६.४॥
ऋषिरुवाच
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ।
वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययो॥८६.५॥
स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।
जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः॥८६. ६॥
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ।
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम्॥८६.७॥
श्रीदेव्युवाच
दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः ।
बलान्नयसि मामेवं ततः किं ते करोम्यहम्॥८६.८॥
ऋषिरुवाच
इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ।
हुङ्कारेणैव तं भस्म सा चकाराम्बिका ततः॥८६.९॥
अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ।
ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः॥८६.१०॥
ततो धुतसटः कोपात् कृत्वा नादं सुभैरवम् ।
पपातासुरसेनायां सिंहो देव्याः स्ववाहनः॥८६.११॥
कांश्चित् करप्रहारेण दैत्यानास्येन चापरान् ।
आक्रम्य चाधरेणान्यान् स जघान महासुरान्॥८६.१२॥
केषाञ्चित् पाटयामास नखैः कोष्ठानि केसरी ।
तथा तलप्रिहारेण शिरांसि कृतवान् पृथक्॥८६.१३॥
विच्छिन्नबाहुशिरसः सृतास्तेन तथापरे ।
पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः॥८६.१४॥
क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना ।
तेन केसरिणा देव्या वाहनेनातिकोपिना॥८६.१५॥
श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।
बलं च क्षयितं कृत्स्त्रं देवीकेसरिणा ततः॥८६.१६॥
चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ।
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ॥८६.१७॥
हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ।
तत्र गच्छत गत्वा च सा समानीयतां लघु॥८६.१८॥
केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ।
तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम्॥८६.१९॥
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।
शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम्॥८६.२०॥
इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये धूम्रलोचनवधो नाम षडशीतितमोऽध्यायः
सप्तशीतितमाध्यायः- ८७
ऋषिरुवाच
आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः ।
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः॥८७.१॥
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।
सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने॥८७.२॥
ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः ।
आकृष्टचापासिधरास्तथान्ये सत्समीपगाः॥८७.३॥
ततः कोपं चकारोच्चैरम्बिका तानरीन् प्रति ।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा॥८७.४॥
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद् द्रुतम् ।
काली करालवदना विनिष्क्रान्तासिपाशिनी॥८७.५॥
विचित्रखट्वाङ्गधरा नरमालाविभूषणा ।
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा॥८७.६॥
अतिविस्तारवदना जिह्वाललनभीषणा ।
निमग्नारक्तनयना नादापूरितदिङ्मुखा॥८७.७॥
सा वेगेनाभिपतिता घातयन्ती महासुरान् ।
सैन्ये तत्र सुरारीणामभक्षयत तद्वलम्॥८७.८॥
पार्ष्णिग्राहाङ्कुशग्राहि योधघण्टासमन्वितान् ।
समादायैकहस्तेन मुखे चिक्षेप वारणान्॥८७.९॥
तथैव योधं तुरगै रथं सारथिना सह ।
निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम्॥८७.१०॥
एकं जग्राह केशेषु ग्रीवायामथ चापरम् ।
पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत्॥८७.११॥
तैर्मुक्तानि च शस्त्रणि महास्त्राणि तथासुरैः ।
मुखेन जग्राह रुषा दशनैर्मथितान्यपि॥८७.१२॥
बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् ।
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा॥८७.१३॥
असिना निहताः केचित्केचित्खट्वाङ्गताडिताः ।
जग्मुर्विनाशमसुरा दन्ताग्राभिहता रणे॥८७.१४॥
क्षणेन तन्महासैन्यमसुराणां निपातितम् ।
दृष्ट्वा चण्डोऽभिमैर्भोमाक्षीं तां महासुरः॥८७.१५॥
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः ।
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः॥८७.१६॥
तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ।
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम्॥८७.१७॥
ततो जहासातिरुषा भीमं भैरवनादिनी ।
काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला॥८७.१८॥
उत्थाय च महासिंहं देवी चण्डमधावत ।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत्॥८७.१९॥
छिन्ने शिरसि दैत्येन्द्रश्चक्रे नादं सुभैरवम् ।
तेन नादेन महता त्रासितं भुवनत्रयम्॥८७.२०॥
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् ।
तमप्यपातयद् भूमौ सा खड्गाभिहतं रुषा॥८७.२१॥
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् ।
मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम्॥८७.२२॥
शिरञ्चण्डस्य काली च गृहीत्वा मुण्डमेव च ।
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम्॥८७.२३॥
मया तवात्रोपहृतौ चण्डमुण्डौ महापशू ।
युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि॥८७.२४॥
ऋषिरुवाच
तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ ।
उवाच कालीं कल्याणी ललितं चण्डिका वचः॥८७.२५॥
श्रीदेव्युवाच
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ।
चामुण्डेति ततो लोके ख्याता देवि भविष्यसि॥८७.२६॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये चण्डमुण्डवधोनाम सप्ताशीतितमोऽध्यायः
अष्टाशीतितमोऽध्यायः- ८८
ऋषिरुवाच
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः॥८८.१॥
ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ।
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह॥८८.२॥
अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः ।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः॥८८.३॥
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया॥८८.४॥
कालका दौर्हृदा मौर्याः कालकेयास्तथासुराः ।
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम॥८८.५॥
इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः ।
निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः॥८८.६॥
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनैः पूरयामास धरणीगगनान्तरम्॥८८.७॥
स च सिंहो महानादमतीव कृतवान् नृप ।
घण्टास्वनेन तन्नादमम्बिका चाप्यबृंहयत्॥८८.८॥
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ।
निनादैर्भीषणैः काली जिग्ये विस्तारितानना॥८८.९॥
तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषैः परिवारिताः॥८८.१०॥
अथैकनवतितमोऽध्यायः  ।
रौच्यवर्णनम्
मार्कण्डेय उवाच
सावर्णिकमिदं सम्यक्प्रोक्तं मन्वन्तरं तव ।
तथैव देवीमाहात्म्ये महिषासुरघातनम् । । १
उत्पत्तयश्च या देव्या मातॄणां च महाहवे ।
तथैव सम्भवो देव्याश्चामुण्डाया यथा भवः । । २
शिवदूत्याश्च माहात्म्यं वधः शुम्भनिशुम्भयोः ।
रक्तबीजवधश्चैव सर्वमेतत्तवोदितम् । । ३
श्रूयतां मुनिशार्दूल सावर्णिकमथापरम् ।
दत्तपुत्रश्च सावर्णिर्भावी यो नवमो मनुः । । ४
कथयामि मनोस्तस्य ये देवा मुनयो नृपाः ।
पारा मरीचिभर्गाश्च सुधर्माणस्तथा सुराः । । ५
एते त्रिधा भविष्यन्ति सर्वे द्वादशका गणाः ।
तेषामिन्द्रो भविष्यस्तु सहस्राक्षो महाबलः । । ६
साम्प्रतं कार्तिकेयो यो वह्निपुत्रः षडाननः ।
अद्भुतो नाम शक्रोऽसौ भावी तस्यान्तरे मनोः । । ७
मेधातिथिर्वसुः सत्यो ज्योतिष्मान्द्युतिमांस्तथा ।
सप्तर्षयोऽन्यः सबलस्तथान्यो हव्यवाहनः । । ८
धृष्टकेतुर्बर्हकेतुः खड्गहस्तो निरामयः ।
पृथुश्रवास्तथार्चिष्मान्भूरिद्युम्नो बृहद्भयः । । ९
एते नृपसुतास्तस्य दत्तपुत्रस्य वै नृपाः ।
मनोस्तु दशमस्यान्यच्छृणु मन्वन्तरं द्विज । । 91.१०
मन्वन्तरे च दशमे ब्रह्मपुत्रस्य धीमतः ।
सुखासीना निरुद्धाश्च द्विप्रकाराः सुराः स्मृताः । । ११
शतसंख्या हि ते देवा भविष्या भाविनो मनोः ।
यत्पुत्राणां शतं भावि तद्देवानां तदा शतम् । । १२
शान्तिरिन्द्रस्तथा भावी सर्वैरिन्द्रगुणैर्युतः ।
सप्तर्षींस्तान्निबोध त्वं ये भविष्यन्ति वै तदा । । १३
आपोमूतिर्हविष्मांश्च सुकृती सत्य एव च ।
नाभागोऽप्रतिमश्चैव वासिष्ठश्चैव सप्तमः । । १४
सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणश्च वीर्यवान् ।
शतानीकोऽथ वृषभो ह्यनमित्रो जयद्रथः । । १५
भूरिद्युम्नः सुपर्वा च तस्यैते तनया मनोः ।
भविष्या धर्मपुत्रस्य सावर्णस्यान्तरं शृणु । । १६
विहङ्गमाः कामगाश्च निर्माणरतयस्तथा ।
त्रिःप्रकारा भविष्यन्ति एकैकस्त्रिंशको गणः । । १७
मासर्तुदिवसा ये तु निर्माणपतयस्तु ते ।
विहङ्गमा रात्रयोऽथ मौहूर्त्ताः कामगा गणाः । । १८
इन्द्रो वृषाख्यो भविता तेषां प्रख्यातविक्रमः ।
हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः । । १९
निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः ।
सप्तर्षयोऽन्तरे तस्मिन्नग्नितेजाश्च सप्तमः । । 91.२०
सर्वत्रगः सुशर्मा च देवानीकः पुरूद्वहः ।
हेमधन्वा दृढायुश्च भाविनस्तत्सुता नृपाः । । २१
द्वादशे रुद्रपुत्रस्य प्राप्ते मन्वन्तरे मनोः ।
सावर्णाख्याश्च ये देवा मुनयश्च शृणुष्व तान् । । २२
सुधर्माणः सुमनसो हरितो रोहितस्तथा ।
सुवर्णाश्च सुरास्तत्र पञ्चैते दशका गणाः । । २३
तेषामिन्द्रस्तु विज्ञेय ऋतधामा महाबलः ।
सर्वैरिन्द्रगुणैर्युक्ताः सप्तर्षीनपि मे शृणु । । २४
द्युतिस्तपस्वी सुतपास्तपोमूर्तिस्तपोनिधिः ।
तपोरतिस्तथैवान्यः सप्तमस्तु तपोधृतिः । । २५
देववानुपदेवश्च देवश्रेष्ठो विदूरथः ।
मित्रवान्मित्रविन्दश्च भाविनस्तत्सुता नृपाः । । २६
त्रयोदशस्य पर्याये रौच्याख्यस्य मनोः सुरान् ।
सप्तर्षींश्च नृपाञ्श्चैव गदतो मे निशामय । । २७
सुधर्माणः सुरास्तत्र सुकर्माणस्तथापरे ।
सुशर्माणः सुरा ह्येते समस्ता मुनिसत्तम । । २८
महाबलो महावीर्यस्तेषामिन्द्रो दिवस्पतिः ।
भविष्यानथ सप्तर्षीन्गदतो मे निशामय । । २९
धृतिमानव्ययश्चैव तत्त्वदर्शी निरुत्सुकः ।
निर्मोहः सुतपाश्चान्यो निष्प्रकम्पश्च सप्तमः । । 91.३०
चित्रसेनो विचित्रश्च नियतिर्निर्भयो दृढः ।
सुनेत्रः क्षत्रबुद्धिश्च सुव्रतश्चैव तत्सुताः । । ३१
इति श्रीमार्कण्डेयपुराणे रौच्यमन्वन्तर एकनवतितमोऽध्यायः । ९१ ।
अथ द्विनवतितमोऽध्यायः
रुच्युपाख्यानवर्णनम्
मार्कण्डेय उवाच
रुचिः प्रजापतिः पूर्वं निर्ममो निरहंकृतः ।
यत्रास्तमितशायी च चचार पृथिवीमिमाम् । । १
अनग्निमनिकेतं तमेकाहारमनाश्रमम् ।
विमुक्तसङ्गं तं दृष्ट्वा प्रोचुस्तत्पितरो मुनिम् । । २
पितर ऊचुः
वत्स कस्मात्त्वया पुण्यो न कृतो दारसंग्रहः ।
स्वर्गापवर्गहतुत्वाद्बन्धस्तेनानिशं विना । । ३
गृही समस्तदेवानां पितॄणां च तथार्हणाम् ।
ऋषीणामतिथीनां च कुर्वंल्लोकानुपाश्नुते । । ४
स्वाहोच्चारणतो देवान्स्वधोच्चारणतः पितॄन् ।
विभजत्यन्नदानेन भूताद्यानतिथीनपि । । ५
स त्वं दैवादृणाद्बन्धं बन्धमस्मदृणादपि ।
अवाप्नोषि मनुष्यर्षिभूतेभ्यश्च दिनेदिने । । ६
अनुत्पाद्य सुतान्देवानसन्तर्प्य पितॄंस्तथा ।
भूतादींश्च कथं मौढ्यात्सुगतिं गन्तुमिच्छसि । । ७
क्लेशमेवैहिकं पुत्र मन्यामोऽत्र भवेत्तव ।
मृतस्य नरकं तद्वत्क्लेशमेवान्यजन्मनि । । ८
रुचिरुवाच
परिग्रहोऽतिदुःखाय पापायाधोगतेस्तथा ।
भवत्यतो मया पूर्वं न कृतो दारसंग्रहः । । ९
आत्मनः संयमो योऽयं क्रियतेऽक्षनियन्त्रणात् ।
स मुक्तिहेतुर्न भवत्यासावपि परिग्रहात् । । 92.१०
प्रक्षाल्यतेऽनुदिवसं यदात्मा निष्परिग्रहैः ।
ममत्वपङ्कदिग्धोऽपि चित्ताम्भोभिर्वरं हि तत् । । ११
अनेकभवसंभूतकर्मपङ्कांकितो बुधैः ।
आत्मा सद्वासनातोयैः प्रक्षाल्यो नियतेन्द्रियैः । । १२
पितर ऊचुः
युक्तं प्रक्षालनं कर्तुमात्मनो नियतेन्द्रियैः ।
किन्तु लेपाय मार्गोऽयं यत्र त्वं पुत्र वर्तसे । । १३
पञ्चर्णदीनैरशुभं नुद्यतेऽनभिसन्धितैः ।
फलैस्तथोपभोगैश्च पूर्वकर्मशुभाशुभैः । । १४
एवं न बन्धो भवति कुर्वतः कारणात्मकः ।
न च बन्धाय तत्कर्म भवत्यनभिसन्धितम् । । १५
पूर्वकर्म कृतं भोगैः क्षीयतेऽहर्निशं तथा ।
सुखदुःखात्मकैर्वत्स पुण्यापुण्यात्मकैर्नृणाम् । । १६
एवं प्रक्षाल्यते प्राज्ञैरात्मा बन्धाच्च रक्ष्यते ।
न त्वेवमविवेकेन पापपङ्केन लिप्यते । । १७
रुचिरुवाच
अविद्या पठ्यते वेदः कर्ममार्गः पितामहाः ।
तत्कथं कर्मणो मार्गे भवन्तो योजयन्ति माम् । । १८
पितर ऊचुः
अविद्या सत्यमेवैतत्कर्म नैतन्मृषावचः ।
किन्तु विद्या परिप्राप्तौ हेतु कर्म न संशयः । । १९
विहिताकरणात्पुंभिरसद्भिः क्रियते तु यः ।
संयमो मुक्तये नासौ प्रत्युताऽधोगतिप्रदः । । 92.२०
प्रक्षालयामीति भवान्वत्सात्मानं तु मन्यते ।
विहिताकरणोद्भूतैः पापैस्त्वं तु विलिप्यसे । । २१
अविद्याप्युपकाराय विषवज्जायते नृणाम् ।
अनुष्ठिताभ्युपायेन बन्धायान्यायतो हि सा । । २२
तस्माद्वत्स कुरुष्व त्वं विधिवद्दारसंग्रहम् ।
मां जन्म विफलं तेऽस्तु असम्प्राप्य तु लौकिकम् । । २३
रुचिरुवाच
वृद्धोऽहं साम्प्रतं को मे पितरः सम्प्रदास्यति ।
भार्यां तथा दरिद्रस्य दुष्करो दारसंग्रहः । । २४
पितर ऊचुः
अस्माकं पतनं वत्स भवतश्चाप्यधोगतिः ।
नूनं भावि भवित्री च नाभिनन्दसि नो वचः । । २५
मार्कण्डेय उवाच
इत्युक्त्वा पितरस्तस्य पश्यतो मुनिसत्तम ।
बभूवुः सहसाऽदृश्या दीपा वाताहता इव । । २६
इति श्रीमार्कण्डेयपुराणे रुच्युपाख्याने द्विनवतितमोऽध्यायः । ९२ ।
अथ त्रिनवतितमोऽध्यायः
पितृस्तवनवर्णनम्
मार्कण्डेय उवाच
स तेन पितृवाक्येन भृशमुद्विग्नमानसः ।
कन्याभिलाषी विप्रर्षिः परिबभ्राम मेदिनीम् । । १
कन्यामलभमानोऽसौ पितृवाक्याग्निदीपितः ।
चिन्तामवाप महतीमतीवोद्विग्नमानसः । । २
किं करोमि क्व गच्छामि कथं मे दारसंग्रहः ।
क्षिप्रं भवेत्पितॄणां यो ममाभ्युदयकारकः । । ३
इति चिन्तयतस्तस्य मतिर्जाता महात्मनः ।
तपसाराधयाम्येनं ब्रह्माणं कमलोद्भवम् । । ४
ततो वर्षशतं दिव्यं तपस्तेपे स वेधसम् ।
दिदृक्षुः सुचिरं कालं परं नियममास्थितः । । ५
ततः स्वं दर्शयामास ब्रह्मा लोकपितामहः ।
उवाच तं प्रसन्नोऽस्मीत्युच्यतामभिवाञ्छितम् । । ६
ततोऽसौ प्रणिपत्याह ब्रह्माणं जगतो गतिम् ।
पितॄणां वचनात्तेन यत्कर्तुमभिवाञ्छितम् । ।
ब्रह्मा चाह रुचिं विप्रं श्रुत्वा तस्याभिवाच्छितम् । । ७
ब्रह्मोवाच
प्रजापतिस्त्वं भविता स्रष्टव्या भवता प्रजाः ।
सृष्ट्वा प्रजाः सुतान्विप्र समुत्पाद्य क्रियास्तथा । । ८
कृत्वा कृताधिकारस्त्वं ततः सिद्धिमवाप्स्यसि ।
स त्वं यथोक्तं पितृभिः कुरु दारपरिग्रहम् । । ९
कामं चेममभिध्याय क्रियतां पितृपूजनम् ।
त एव तुष्टाः पितरः प्रदास्यन्ति तवेप्सितान् । ।
पत्नीं सुतांश्च सन्तुष्टाः किं न दद्युः पितामहाः । । 93.१०
मार्कण्डेय उवाच
इत्यृषेर्वचनं श्रुत्या ब्रह्मणोऽव्यक्तजन्मनः ।
नद्या विविक्ते पुलिने चकार पितृतर्पणम् । । ११
तुष्टाव च पितॄन्विप्रः स्तवैरेभिस्तथादृतः ।
एकाग्रः प्रयतो भूत्वा भक्तिनम्रात्मकन्धरः । । १२
रुचिरुवाच
नमस्येऽहं पितॄञ्छ्राद्धे ये वसन्त्यधिदेवताः ।
देवैरपि हि तर्प्यन्ते ये च श्राद्धे स्वधोत्तरैः । । १३
नमस्येऽहं पितॄन्स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः । । १४
नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः । । १५
नमस्येऽहं पितॄन्भक्त्या येऽर्च्यन्ते गुह्यकैरपि ।
तन्मयत्वेन वाञ्छद्भिर्ऋद्धिमात्यन्तिकीं पराम् । । १६
नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकप्राप्तिप्रदायिनः । । १७
नमस्येऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टालाभाय प्राजापत्यप्रदायिनः । । १८
नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकिल्बिषैः । । १९
नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकव्रतचारिभिः ।
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः । । 93.२०
नमस्येऽहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकत्रयफलप्रदान् । । २१
नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः । । २२
नमस्येऽहं पितॄञ्छ्राद्धैर्ये शूद्रैरपि भक्तितः ।
सन्तर्प्यन्ते जगत्यत्र नाम्ना ख्याताः सुकालिनः । । २३
नमस्येऽहं पितॄञ्छ्राद्धैः पाताले या महासुरैः ।
सन्तर्प्यन्ते स्वधाहारास्त्यक्तदम्भमदैः सदा । । २४
नमस्येऽहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः । । २५
नमस्येऽहं पितॄ्ञ्छ्राद्धैः सर्पैः सन्तर्पितान्सदा ।
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः । । २६
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोके च तथान्तरिक्षे ।
महीतले ये च सुरादिपूज्यास्ते मे प्रतीच्छन्तु मयोपनीतम् । । २७
पितॄन्नमस्ये परमात्मभूता ये वै विमाने निवसन्ति मूर्ताः ।
यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून् । । २८
पितॄन्नमस्ये दिवि ये च मूर्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां विभुक्तिदा येऽनभिसंहितेषु । । २९
तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमतोऽधिकं वा सुतान्पशून्स्वानि बलं गृहाणि । । 93.३०
सोमस्य ये रश्मिषु येऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु । । ३१
येषां हतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्दानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः । । ३२
ये खड्गिमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्यमनोहरैश्च ।
कालेन शाकेन महर्षिवर्यैः सम्प्रीणितास्ते मुदमत्र यान्तु । । ३३
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषाममरार्चितानाम् ।
तेषां तु सान्निध्यमिहास्तु पुष्पगन्धान्नभोज्येषु मया कृतेषु । । ३४
दिने दिने ये प्रतिगृह्णतेऽर्च्चां मासांतपूज्यां भुवि येऽष्टकासु ।
ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तृप्तिम् । । ३५
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां च नवार्कवर्णाः ।
तथा विशां ये कनकावदाता नीलीनिभाः शूद्रजनस्य ये च । । ३६
तेऽस्मिन्समस्ता मम पुण्यगन्धधूपान्नतोयादिनिवेदनेन ।
तथाग्निहोमेन  च यान्तु तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः । । ३७
ये देवपूर्वाण्यतितृप्तिहेतोरञ्जन्ति कव्यानि शुभाहुतानि ।
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः । । ३८
रक्षांसि भूतान्यसुरांस्तथोग्रान्निर्नाशयन्तस्त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्या तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः । । ३९
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया । । 93.४०
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पान्तु याम्यां ये पितरः स्मृताः । । ४१
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ।
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः । । ४२
सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे ।
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः । । ४३
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ।
कल्याणः कल्यताकर्त्ता कल्यः कल्यतराश्रयः । । ४४
कल्यताहेतुरनघः षडिमे ते गणाः स्मृताः ।
वरो वरेण्यो वरदः पुष्टिदस्तुष्टिदस्तथा । । ४५
विश्वपाता तथा धाता सप्तैवैते तथा गणाः ।
महान्महात्मा महितो महिमावान्महाबलः । । ४६
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ।
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः । । ४७
पितॄणां कथ्यते चैतत्तथा गणचतुष्टयम् ।
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् । ।
ते मेऽनुतृप्तास्तुष्यन्तु यच्छन्तु च सदा हितम् । । ४८
इति श्रीमार्कण्डेयपुराणे रौच्यमन्वन्तरे रुच्युपाख्याने
पितृस्तवनं नाम त्रिनवतितमोऽध्यायः । ९३ ।
अथ चतुर्नवतितमोऽध्यायः
पितृवरप्रदानवर्णनम्
मार्कण्डेय उवाच
एवं तु स्तुवतस्तस्य तेजसो राशिरुच्छ्रितः ।
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः । । १
तद्दृष्ट्वा सुमहत्तेजः समासाद्य स्थितं जगत् ।
जानुभ्यामवनिं गत्वा रुचिः स्तोत्रमिदं जगौ । ।२
रुचिरुवाच
अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् । । ३
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् । । ४
मन्वादीनां मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान्पितरश्चार्णवेषु ये । । ५
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः । । ६
देवर्षीणां ग्रहाणां च सर्वलोकनमस्कृतान् ।
अक्षय्यस्य सदा दातॄन्नमस्येऽहं कृताञ्जलिः । । ७
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः । । ८
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयंभुवे नमस्यामि ब्रह्मणे योगचक्षुषे । । ९
सोमाधारान्पितृगणान्योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् । । 94.१०
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ।
अग्नीषोममयं विश्वं यत एतदशेषतः । । ११
ये तु तेजसि ये चैते सोमसूर्याग्निमूर्त्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः । । १२
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुजः । । १३
मार्कण्डेय उवाच
एव स्तुतास्ततस्तेन तेजसा मुनिसत्तम ।
निश्चक्रमुस्तेऽपि ततो भासयन्तो दिशो दश । । १४
निवेदितं च यत्तेन पुष्पगन्धानुलेपनम् ।
तद्भूषितानथ स तान्ददृशे पुरतः स्थितान् । । १५
प्रणिपत्य पुनर्भक्तया पुनरेव कृताञ्जलिः ।
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः । । १६
ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम् ।
वरं वृणीष्वेति स तानुवाचानतकन्धरः । । १७
रुचिरुवाच
साम्प्रतं सर्गकर्तृत्वमादिष्टं ब्रह्मणा मम ।
सोऽहं पुत्रीमभीप्सामि धन्यां दिव्यां प्रजावतीम् । । १८
पितर ऊचुः
अद्यैव सद्यः पत्नी ते भवत्वतिमनोरमा ।
तस्यां च पुत्रो भविता भवतो मनुरुत्तमः । । १९
मन्वन्तराधिपो धीमांस्त्वन्नाम्नैवोपलक्षितः ।
रुचे रौच्य इति ख्यातिं यो यास्यति जगत्त्रये । । 94.२०
तस्यापि बहवः पुत्रा महाबलपराक्रमाः ।
भविष्यन्ति महात्मानः पृथिवीपरिपालकाः । । २१
त्वं च प्रजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः ।
क्षीणाधिकारो धर्मज्ञ ततः सिद्धिमवाप्स्यसि । । २२
स्तोत्रेणानेन च नरो योऽस्मांस्तोष्यति भक्तितः ।
तस्य तुष्टा वयं भोगानात्मज्ञानं तथोत्तमम् । । २३
शरीरारोग्यमर्थं च पुत्रपौत्रादिकं तथा ।
प्रदास्यामो न सन्देहो यच्चान्यदभिवाच्छितम् । । २४
तस्मात्पुण्यफलं लोके वाञ्छद्भिः सततं नरैः ।
पितॄणां चाक्षया तृप्तिं स्तव्याः स्तोत्रेण मानवैः । । २५
वाञ्छद्भिः सततं स्तव्याः स्तोत्रेणानेन वै यतः ।
श्राद्धे च इमं भक्त्या अस्मत्प्रीतिकरं स्तवम् । । २६
पठिष्यन्ति द्विजाग्र्याणां भुञ्जतां पुरतः स्थितः ।
स्तोत्रश्रवणसम्प्रीत्या सन्निधाने परे कृते । । २७
अस्माकमक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ।
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् । । २८
अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा ।
अश्राद्धार्हैरुपहतैरुपहारैस्तथा कृतम् । । २९
अकालेऽप्यथवाऽदेशे विधिहीनमथापि वा ।
अश्रद्धया वा पुरुषैर्दम्भमाश्रित्य वा कृतम् । । 94.३०
अस्माकं तृप्तये श्राद्धं तथाप्येतदुदीरणात् ।
यत्रैतत्पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावहम् । । ३१
अस्माकं जायते तृप्तिस्तत्र द्वादशवार्षिकी ।
हेमन्ते द्वादशाब्दानि तृप्तिमेतत्प्रयच्छति । । ३२
शिशिरे द्विगुणाब्दांश्च तृप्तिं स्तोत्रमिदं शुभम् ।
वसन्ते षोडश समास्तृप्तये श्राद्धकर्मणि । । ३३
ग्रीष्मे षोडशैवैतत्पठितं तृप्तिकारकम् ।
विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते । । ३४
वर्षासु तृप्तिरस्माकमक्षया जायते रुचे ।
शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति । । ३५
अस्माकमेतत्पुरुषस्तृप्तिं पञ्चदशाब्दिकीम् ।
यस्मिन्गृहे च लिखितमेतत्तिष्ठति नित्यदा । । ३६
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ।
तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतः पुरः । । ३७
श्रवणीयं महाभाग अस्माकं पुष्टिहेतुकम् ।
इत्युक्त्वा पितरस्तस्य स्वर्गता मुनिसत्तम । । ३८
इति श्रीमार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृवरप्रदानं नाम चतुर्नवतितमोऽध्यायः । ९४ ।
अथ पञ्चनवतितमोऽध्यायः
मालिनीपरिणयवर्णनम्
मार्कण्डेय उवाच
ततस्तस्मान्नदीमध्यात्समुत्तस्थौ मनोरमा ।
प्रम्लोचा नाम तन्वङ्गी तत्समीपे वराप्सराः । । १
सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् ।
प्रश्रयावनता सुभूः प्रम्लोचा वै वराप्सराः । । २
अतीव रूपिणी कन्या मत्सुता तपतां वर ।
जाता वरुणपुत्रेण पुष्करेण महात्मना । । ३
तां गृहाण मया दत्तां भार्यार्थे वरवर्णिनीम् ।
मनुर्महामतिस्तस्यां समुत्पस्यति ते सुतः । । ४
मार्कण्डेय उवाच
तथेति तेन साऽप्युक्ता तस्मात्तोयाद्वपुष्मतीम् ।
उज्जहार ततः कन्यां मालिनी नाम नामतः । । ५
नद्याश्च पुलिने तस्मिन्स रुचिर्मुनिसत्तमः ।
जग्राह पाणिं विधिवत्समानाय्य महामुनीन् । । ६
तस्यां तस्य सुतो जज्ञे महावीर्यो महामतिः ।
रौच्योऽभवत्पितुर्नाम्ना ख्यातोऽत्र वसुधातले । । ७
तस्य मन्वन्तरे देवास्तथा सप्तर्षयश्च ये ।
तनयाश्च नृपाश्चैव ते सम्यक्कथितास्तव । । ८
धर्मवृद्धिस्तथारोग्यं धनधान्यसुतोद्भवः ।
नृणां भवत्यसन्दिग्धमस्मिन्मन्वन्तरे श्रुते । । ९
पितृस्तवं तथा श्रुत्वा पितॄणां च तथा गणान् ।
सर्वान्कामानवाप्नोति तत्प्रसादान्महामुने । । 95.१०
इति श्रीमार्कण्डेयपुराणे मालिनीपरिणयो नाम पञ्चनवतितमोऽध्यायः । ९५ ।
। ।
इति रौच्यमन्वन्तरं समाप्तम् । ।
अथ षण्णवतितमोऽध्यायः
अग्निस्तोत्रनामवर्णनम्
मार्कण्डेय उवाच
ततः परं तु भौत्यस्य समुत्पत्तिं निशामय ।
देवानृषींस्तथा पुत्रांस्तथैव वसुधाधिपान् । । १
बभूवाङ्गिरसः शिष्यो भूतिर्नाम्नातिकोपनः ।
चण्डशापप्रदोऽल्पेऽर्थे मुनिरागस्यसौम्यवाक् । । २
तस्याश्रमे मातरिश्वा न ववावतिनिष्ठुरम् ।
नातितापं रविश्चक्रे पर्जन्यो नातिकर्दमम् । । ३
नातिशीतं च शीतांशुः परिपूर्णोऽपि रश्मिभिः ।
चकार भीत्या वै तस्य कोपनस्यातितेजसः । । ४
ऋतवश्च क्रमं त्यक्त्वा वृक्षेष्वाश्रमजन्मसु ।
तस्य पुष्पफलं चक्रुराज्ञया सार्वकालिकम् । । ५
ऊहुरापश्च छन्देन तस्याश्रमसमीपगाः ।
कमण्डलुगताश्चैव तस्य भीता महात्मनः । । ६
नातिक्तेशसहो विप्रः सोऽभवत्कोपनो भृशम् ।
अपुत्रश्च महाभागः स तपस्यकरोन्मनः । । ७
पुत्रकामो यताहारः शीतवातानलाहतः ।
तपस्यामि विचिन्त्येति तपस्येव मनो दधे । । ८
तस्येन्दुर्नातिशीताय नातितापाय भास्करः ।
अभवन्मातरिश्वा च ववौ नाति महामुने । । ९
आपीड्यमानो द्वन्द्वैश्च स भूतिर्मुनिसत्तमः ।
अनवाप्याभिलाषं तं तपसः सन्यवर्त्तत । । 96.१०
तस्य भ्राता सुवर्च्चाऽभूद्यज्ञे तेनाभिमन्त्रितः ।
यियासुः शान्तिनामानं शिष्यमाह महामतिम् । । ११
प्रशान्तमक्षप्रतिमं विनीतं गुरुकर्मणि ।
सदोद्युक्तं शुभाचारमुदारं मुनिसत्तमम् । । १२
भूतिरुवाच
अहं यज्ञं गमिष्यामि भ्रातुः शान्ते सुवर्चसः ।
तेनाहूतस्त्वया चेह यत्कर्त्तव्यं शृणुष्व तत् । । १३
अतिजागरणं वह्नेस्त्वया कार्यं ममाश्रमे ।
तथा त्वया प्रयत्नेन यथाग्निर्न शमं व्रजेत् । । १४
मार्कण्डेय उवाच
इत्याज्ञाप्य तथेत्युक्तो गुरुः शिष्येण शान्तिना ।
जगाम यज्ञं तं भ्रातुराहूतः स यवीयसः । । १५
स च शान्तिर्वनाद्यावत्समित्पुष्पफलादिकम् ।
उपानयति भूत्यर्थं गुरोस्तस्य महात्मनः । । १६
अन्यच्च कुरुते कर्म गुरुभक्तिवशानुगः ।
प्रशान्तस्तावदनलो योऽसौ भूतिपरिग्रहः । । १७
तं दृष्ट्वा सोऽनलं शान्तं शान्तिरत्यन्तदुःखितः ।
भीतश्च भूतेर्बहुधा चिन्तामाप महामतिः । । १८
किं करोमि कथं वात्र भविता गमनं गुरोः ।
मयाद्य प्रतिपत्तव्यं किं कृते सुकृतं भवेत् । । १९
प्रशान्ताग्निमिमं धिष्ण्यं यदि पश्यति मे गुरुः ।
ततो मां विषमे ह्यद्य व्यसने सन्नियोक्ष्यति । । 96.२०
यद्यन्यमग्निमत्राहमग्निस्थाने करोमि तत् ।
सर्वप्रत्यक्षदृग्भस्म सोऽवश्यं मां करिष्यति । । २१
सोऽहं पापो गुरोस्तस्य निमित्तं कोपशापयोः ।
तथात्मानं न शोचामि यथा पापं कृतं गुरोः । । २२
दृष्ट्वा प्रशान्तमनलं नूनं शप्स्यति मां गुरुः ।
यथा वा पावकः क्रुद्धस्तथा वीर्यो हि स द्विजः । । २३
यस्य प्रभावाद्बिभ्यन्ते देवास्तिष्ठन्ति शासने ।
कृतागसं स मां युक्त्या कया नो धर्षयिष्यति । । २४
मार्कण्डेय उवाच
बहुधैवं विचिन्त्यासौ भीतस्तस्य सदा गुरोः ।
ययौ मतिमतां श्रेष्ठः शरणं जातवेदसम् । । २५
स चकार तदा स्तोत्रं सप्तर्च्चेर्यतमानसः ।
स चैकचित्तो मेदिन्यां न्यस्तजानुः कृताञ्जलिः । । २६
शान्तिरुवाच
ओं नमः सर्वभूतानां साधनाय महात्मने ।
एकद्विपञ्चधिष्ण्याय राजसूये षडात्मने । २७
नमः समस्तदेवानां वृत्तिदाय सुवर्चसे ।
शुक्ररूपाय जगतामशेषाणां स्थितिप्रदः । । २८
त्वं मुखं सर्वदेवानां त्वयात्तं भगवन्हविः ।
प्रीणयस्यखिलान्देवांस्त्वत्प्राणाः सर्वदेवताः । । २९
हुतं हविस्त्वय्यनल मेधत्वमुपगच्छति ।
ततश्च जलरूपेण परिणाममुपैति यत् । । 96.३०
तेनाखिलौषधीजन्म भवत्यनिलसारथे ।
औषधीभिरशेषाभिः सुखं जीवन्ति जन्तवः । । ३१
वितन्वते नरा यज्ञांस्त्वत्सृष्टास्वोषधीषु च ।
यज्ञैर्देवास्तथा  दैत्यास्तद्वद्रक्षांसि पावक । । ३२
आप्याय्यन्ते च ते यज्ञास्त्वदाधारा हुताशन ।
अतः सर्वस्य योनिस्त्वं वह्ने सर्वमयस्तथा । । ३३
देवता दानवा यक्षा दैत्या गन्धर्वराक्षसाः ।
मानुषाः पशवो वृक्षा मृगपक्षिसरीसृपाः । । ३४
आप्याय्यन्ते त्वया सर्वे संवर्ध्यन्ते च पावक ।
त्वत्त एवोद्भवं यान्ति त्वय्यन्ते च तथा लयम् । । ३५
अपः सृजसि देवत्वं त्वमत्सि पुनरेव ताः ।
पच्यमानास्त्वया ताश्च प्राणिनां पुष्टिकारणम् । । ३६
देवेषु तेजोरूपेण कान्त्या सिद्धेष्ववस्थितः ।
विषरूपेण नागेषु वायुरूपः पतत्त्रिषु । । ३७
मनुजेषु भवान्क्रोधो मोहः पक्षिमृगादिषु ।
अवष्टम्भोऽसि तरुषु काठिन्यं त्वं महीं प्रति । । ३८
जले द्रवस्त्वं भगवाञ्जवरूपी तथाऽनिले ।
व्यापित्वेन तथैवाग्ने नभसि त्वं व्यवस्थितः । । ३९
त्वमग्ने सर्वभूतानामन्तश्चरसि पालयन् ।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधः पुनः । । 96.४०
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ।
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः । । ४१
त्वामृते हि जगत्सर्वं सद्यो नश्येद्धुताशन ।
तुभ्यं कृत्वा द्विजः पूजां स्वकर्मविहितां गतिम् । । ४२
प्रयान्ति हव्यकव्याद्यैः स्वधास्वाहाभ्युदीरणात् ।
परिणामात्मवीर्याणि प्राणिनाममरार्चित । । ४३
दहन्ति सर्वभूतानि ततो निष्क्रम्य हेतयः ।
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते । । ४४
तवैव वैदिकं कर्म सर्वभूतात्मकं जगत् ।
नमस्तेऽनल पिङ्गाक्ष नमस्तेऽस्तु हुताशन । । ४५
पावकाद्य नमस्तेऽस्तु नमस्ते हव्यवाहन ।
त्वमेव सर्वभूतानां पावनाद्विश्वपावनः । ।
त्वमेव भुक्तपीतानां पाचनाद्विश्वपाचकः । । ४६
सस्यानां पाककर्त्ता त्वं पोष्टा त्वं जगतस्तथा ।
त्वमेव मेघस्त्वं वायुस्त्वं बीजं सस्यहेतुकम् । । ४७
पोषाय सर्वभूतानां भूतभव्यभवो ह्यसि ।
त्वं ज्योतिः सर्वभूतेषु त्वमादित्यो विभावसुः । । ४८
त्वमहस्त्वं तथा रात्रिरुभे सन्ध्ये तथा भवान् ।
हिरण्यरेतास्त्वं वह्ने हिरण्योद्भवकारणम् । । ४९
हिरण्यगर्भश्च भवान्हिरण्यसदृशप्रभः ।
त्वं मुहूर्त्तं क्षणश्च त्वं त्वं त्रुटिस्त्वं तथा लवः । । 96.५०
कलाकाष्ठानिमेषादिरूपेणासि जगत्प्रभो ।
त्वमेतदखिलं कालः परिणामात्मको भवान् । । ५१
या जिह्वा भवतः काली कालनिष्ठाकरी प्रभो ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५२
कराली नाम या जिह्वा महाप्रलयकारणम् ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५३
मनोजवा च या जिह्वा लघिमागुणलक्षणा ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५४
करोति कामं भूतेभ्यो या ते जिह्वा सुलोहिता ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५५
सुधूम्रवर्णा या जिह्वा प्राणिनां रोगदायिका ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५६
स्फुलिङ्गिनी च या जिह्वा यतः सकलपुद्गलाः ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५७
या ते विश्वसृजा जिह्वा प्राणिनां शर्मदायिनी ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५८
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्म हुताशन ।
त्राहि मां सर्वदोषेभ्यः संसारादुद्धरेह माम् । । ५९
प्रसीद वह्ने सप्तार्चिः कृशानो हव्यवाहन ।
अग्निपावकशुक्रादिनामाष्टाभिरुदीरितः । । 96.६०
अग्नेऽग्रे सर्वभूतानां समुत्पत्तिर्विभावसो ।
प्रसीद हव्यवाहाख्य अभिष्टुत मयाव्यय । । ६१
त्वमक्षयो वह्निरचिन्त्यरूपः समृद्धिमन्दुष्प्रसहोऽतितीव्रः ।
तवाव्ययं भीममशेषलोकसंवर्धकं हन्त्यथवातिवीर्यम् । । ६२
त्वमुत्तमं तत्त्वमशेषसत्त्वहृत्पुंडरीकस्थमनन्तमीड्यम् ।
त्वया ततं विश्वमिदं चराचरं हुताशनैको बहुधा त्वमत्र । । ६३
त्वमक्षयः सगिरिवना वसुन्धरा नभः ससोमार्कमहर्दिवाखिलम् ।
महोदधेर्जठरगतश्च वाडवो भवान्विभुः पिबति पयांसि पावक । । ६४
हुताशनस्त्वमिति सदाभिपूज्यसे महाक्रतौ नियमपरैर्महर्षिभिः ।
अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये । । ६५
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वथ सकलेषु गीयसे त्वम् ।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यधिगमयन्ति सर्वकाले । । ६६
त्वं ब्रह्मा यजनपरस्तथैव विष्णुर्भूतेशः सुरपतिरर्यमा जलेशः ।
सूर्येन्दू सकलसुरासुराश्च हव्यैः सन्तोष्याभिमतफलान्यथाप्नुवन्ति । । ६७
अर्चिभिः परममहोपघातदुष्टं संस्पृष्टं तव शुचि जायते समस्तम् ।
स्नानानां परममतीव भस्मना सत्सन्ध्यायां मुनिभिरतीव सेव्यसे तत् । । ६८
तत्कृत्वा त्रिदिवमवाप्नुवन्ति लोकाः ।
सद्भक्त्या सुखनियताः समूहगतिम् । । ६९
प्रसीद वह्ने शुचिनामधेय प्रसीद वायो विमलातिदीक्ते ।
प्रसीद मे पावक वैद्युताभ प्रसीद हव्याशन पाहि मां त्वम् । 96.७०
यत्ते वह्ने शिवं रूपं ये च ते सप्त हेतयः ।
तैः पाहि न स्तुतो देव पिता पुत्रमिवात्मजम् । । ७१
इति श्रीमार्कण्डेयपुराणे भौत्यमन्वन्तरेऽग्निस्तोत्रं नाम षण्णवतितमोऽध्यायः । ९६ ।
अथ सप्तनवतितमोऽध्यायः
सम्पातिवर्णनम्
मार्कण्डेय उवाच
एवं स्तुतस्ततस्तेन भगवान्हव्यवाहनः ।
ज्वालामालावृततनुस्तस्यासीदग्रतो मुने । । १
देवो विभावसुः प्रीतस्तोत्रेणानेन वै द्विज ।
तं शान्तिमाह प्रणतं मेघगम्भीरवागथ । । २
अग्निरुवाच
परितुष्टोऽस्मि ते विप्र भक्त्या या ते स्तुतिः कृता ।
वरं ददामि भवते प्रार्थ्यतां यत्तवेप्सितम् । । ३
शान्तिरुवाच
भगवन्कृतकृत्योऽस्मि यत्त्वा पश्यामि रूपिणम् ।
तथापि भक्तिनम्रस्य भवता श्रूयतां मम । । ४
भ्रातृयज्ञं गतो देव ममाचार्यो निजाश्रमान् ।
आगतश्चाश्रमं धिष्ण्यं त्वत्सनाथं स पश्यतु । । ५
ममापराधात्सन्त्यक्तं धिष्ण्यं यत्ते विभावसो ।
तत्त्वयाधिष्ठितं सोऽद्य पूर्ववत्पश्यतु द्विजः । । ६
तथान्यदपि मे देव प्रसादं कुरुषे यदि ।
पुत्रो विशिष्टो भवतु तदपुत्रस्य मे गुरोः । । ७
तथा च मैत्रीं तनये स करिष्यति मे गुरुः ।
तथा समस्तसत्त्वेषु भवत्वस्य मनो मृदु । । ८
यश्च त्वां स्तोष्यतेऽनेन प्रीतिं यातोऽसि मेऽव्यय ।
स्तोत्रेण तस्य वरदो भवेथा मत्प्रसादितः । । ९
मार्कण्डेय उवाच
एतच्छ्रुत्वा वचस्तस्य तमाह द्विजसत्तमम् ।
स्तोत्रेणाराधितस्तेन गुरुभक्त्या च पावकः । । 97.१०
अग्निरुवाच
गुरोरर्थे यतो ब्रह्मन्याचितं ते वरद्वयम् ।
नात्मार्थं तेन मे प्रीतिस्त्वय्यतीव महामुने । । ११
भविष्यत्येतदखिलं गुरोर्यत्प्रार्थितं त्वया ।
मैत्री समस्तभूतेषु पुत्रश्चास्य भविष्यति । । १२
मन्वन्तराधिपः पुत्रो भौत्यो नाम भविष्यति ।
महाबलो महावीर्यो महाप्राज्ञो गुरुस्तव । । १३
अनेन यश्च स्तोत्रेण स्तोष्यते मां समाहितः ।
तस्याभिलषितं सर्वं पुण्यं चास्य भविष्यति । । १४
यज्ञेषु पर्वकालेषु तीर्थेज्याहोमकर्मसु ।
धर्माय पठतामेतन्मम पुष्टिकरं परम् । । १५
अहोरात्रकृतं पापं श्रुतमेतत्सकृद्द्विज ।
नाशयिष्यत्यसन्दिग्धं मम तुष्टिकरं परम् । । १६
अहोमकालदोषादीनयोग्यैरपि तत्कृतः ।
ये दोषास्तानिदं सद्यः शमयिष्यति संश्रुतम् । । १७
पौर्णमास्याममावास्यां पर्वस्वन्येषु च स्तवः ।
ममैष संश्रुतो मर्त्यैर्भविता पापनाशनः । । १८
मार्कण्डेय उवाच
इत्युक्त्वा भगवानग्निः पश्यतस्तस्य वै मुने ।
बभूवादर्शनः सद्यो दीपस्थो निर्वृतो यथा । । १९
स च शान्तिर्गते वह्नौ परितुष्टेन चेतसा ।
हर्षरोमाञ्चिततनुः प्रविवेशाश्रमं गुरोः । । 97.२०
जाज्वल्यमानं तत्रासौ गुरुधिष्ण्ये हुताशनम् ।
ददर्श पूर्ववत्प्राप ततः स परमां मुदम् । । २१
एतस्मिन्नन्तरे सोऽपि गुरुस्तस्य महात्मनः ।
भ्रातुर्यवीयसो यज्ञादाजगाम स्वमाश्रमम् । । २२
तस्याग्रतश्च शिष्योऽसौ चक्रे पादाभिवन्दनम् ।
गृहीतासनपूजश्च तमाह स तदा गुरुः । । २३
वत्सातिहार्दं त्वयि मे तथान्येषु च जन्तुषु ।
न वेद्मि किमिदं त्वं चेद्वेत्स्ये तत्कथयाशु मे । । २४
ततः स शान्तिस्तत्सर्वमाचार्याय महामुने ।
अग्निनाशादिकं विप्रः समाचष्टे यथातथम् । । २५
तच्छ्रुत्वा स परिष्वज्ये स्नेहार्द्रनयनो गुरुः ।
शिष्याय प्रददौ वेदान्साङ्गोपाङ्गान्महामुने । । २६
भौत्यो नाम मनुस्तस्य पुत्रो भूतेरजायत ।
तस्य मन्वन्तरे देवानृषीन्भूपांश्च मे शृणु । । २७
भविष्यस्य भविष्यास्तु गदतो मम विस्तरात् ।
देवेन्द्रो यश्च भविता तस्य विख्यातकर्मणः । । २८
चाक्षुषाश्च कनिष्ठाश्च पवित्रा भ्राजिरास्तथा ।
धारावृकाश्चेत्येते वै पञ्च देवगणाः स्मृताः । । २९
शुचिरिन्द्रस्तदा तेषां त्रिदशानां भविष्यति ।
महाबलो महावीर्यः सर्वैरिन्द्रगुणैर्युतः । । 97.३०
आग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः ।
शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः । । ३१
गुरुर्गभीरो ब्रध्नश्च भरतोऽनुग्रहस्तथा ।
श्रीमानी च प्रतीरश्च विष्णुः संक्रन्दनस्तथा । । ३२
तेजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ।
चतुर्दशं मयैतत्ते मन्वन्तरमुदाहृतम् । । ३३
श्रुत्वा मन्वन्तराणीत्थं क्रमेण मुनिसत्तम ।
पुण्यमाप्नोति मनुजस्तथाऽक्षीणां च सन्ततिम् । । ३४
श्रुत्वा मन्वन्तरं पूर्वं धर्ममाप्नोति मानवः ।
स्वारोचिषस्य श्रवणात्सर्वकामानवाप्नुते । । ३५
औत्तमे धनमाप्नोति ज्ञानमाप्नोति तामसे ।
रैवते च श्रुते बुद्धिं सुरूपां विन्दते स्त्रियम् । । ३६
आरोग्यं चाक्षुषे पुंसां श्रुते वैवस्वते बलम् ।
गुणवत्पुत्रपौत्रांस्तु सूर्यसावर्णिके श्रुते । । ३७
माहात्म्यं ब्रह्मसावर्णेर्धर्मसावर्णिके शुभाम् ।
मतिमाप्नोति मनुजो रुद्रसावर्णिके जयम् । । ३८
ज्ञातिश्रेष्ठो गुणैर्युक्तो दक्षसावर्णिके श्रुते ।
निशातयत्यरिबलं रौच्यं श्रुत्वा नरोत्तम । । ३९
देवप्रसादमाप्नोति भौत्ये मन्वन्तरे श्रुते ।
तथाग्निहोत्रं पुत्रांश्च गुणयुक्तानवाप्नुते । । 97.४०
सर्वाण्यनुक्रमाद्यश्च शृणोति मुनिसत्तम ।
मन्वन्तराणि तस्यापि श्रूयतां फलमुत्तमम् । । ४१
तत्र देवानृषीनिन्द्रान्मनूंस्तत्तनयान्नृपान् ।
श्रुत्वा वंशांश्च सर्वेभ्यः पापेभ्यो विप्रमुच्यते । ४२
देवर्षीन्द्रनृपाश्चान्ये ये तन्मन्वन्तराधिपाः ।
ते प्रीयन्ते तथा प्रीता प्रयच्छन्ति शुभां मतिम् । । ४३
ततः शुभां मतिं प्राप्य कृत्वा कर्म तथा शुभम् ।
शुभां गतिमवाप्नोति यावदिन्द्राश्चतुर्दश । । ४४
सर्वे स्युर्ऋतवः क्षेम्याः सर्वे सौम्यास्तथा ग्रहाः ।
भवन्त्यसंशयं श्रुत्वा क्रमान्मन्वन्तरस्थितिम् । । ४५
इति श्रीमार्कण्डेयपुराणे चतुर्दशमन्वन्तरवर्णनसमाप्तिर्नाम सप्तनवतितमोऽध्यायः । ९७ ।
अथाष्टनवतितमोऽध्यायः
वंशानुकीर्तनवर्णनम्
क्रौष्टकिरुवाच
भगवन्कथिता सम्यक्त्वया मन्वन्तरस्थितिः ।
क्रमाद्विस्तरतस्त्वत्तो मया चैवावधारिता । । १
ब्रह्माद्यमखिलं वंशं भूभुजां द्विजसत्तम ।
श्रोतुं ममेच्छतः सम्यग्भगवन्प्रब्रवीहि मे । । २
मार्कण्डेय उवाच
शृणु वत्स नृपाणां त्वमशेषाणां समुद्भवम् ।
चरितं च जगन्मूलमादौ कृत्वा प्रजापतितम् । । ३
अयं हि वंशो भूपालैरनेकक्रतुकर्तृभिः ।
संग्रामजिद्भिर्धर्मज्ञैः शतसंख्यैरलंकृतः । । ४
श्रुत्वा चैषां नरेन्द्राणां चरितानि महात्मनाम् ।
उत्पत्तयश्च पुरुषः सर्वपापैः प्रमुच्यते । । ५
मनुर्यत्र तथेक्ष्वाकुरनरण्यो भगीरथः ।
अन्ये च शतशो भूपाः सम्यक्पालितभूमयः । । ६
धर्मज्ञा यज्विनः शूराः परमार्थार्थवेदिनः ।
श्रुते तस्मिन्पुमान्वंशे पापौघाद्विप्रमुच्यते। । ७
तदयं श्रूयतां वंशो यतो वंशाः सहस्रशः ।
भिद्यन्ते मनुजेन्द्राणामवरोहा यथा वटात् । । ८
ब्रह्मा प्रजापतिः पूर्वं सिसृक्षुर्विविधाः प्रजाः ।
अङ्गुष्ठाद्दक्षिणाद्दक्षमसृजद्द्विजसत्तम । । ९
वामाङ्गुष्ठाच्च तत्पत्नीं जगत्सूतिकरो विभुः ।
ससर्ज भगवान्ब्रह्मा जगतां कारणं परम् । । 98.१०
अदितिस्तस्य दक्षस्य कन्याजायत शोभना ।
तस्यां च कश्यपो देवं मार्तण्डं समजीजनत् । । ११
ब्रह्मा स्वरूपं जगतामशेषाणां वरप्रदम् ।
आदिमध्यान्तभूतं च सर्गस्थित्यन्तकर्मसु । । १२
यतोऽखिलमिदं यस्मिन्नशेषं च स्थितां द्विज ।
यत्स्वरूपं जगच्चेदं सदेवासुरमानुषम् । । १३
यः सर्वभूतः सर्वात्मा परमात्मा सनातनः ।
अदित्यामभवद्भास्वान्पूर्वमाराधितस्तया । । १४
क्रौष्टकिरुवाच
भगवञ्छ्रोतुमिच्छामि यत्स्वरूपं विवस्वतः ।
यत्कारणं चादिदेवः सोऽभवत्कश्यपात्मजः । । १५
यथा चाराधितो देव्या सोऽदित्या कश्यपेन च ।
आराधितेन चोक्तं यत्तेन देवेन भास्वता । । १६
प्रभावं चावतीर्णस्य यथावन्मुनिसत्तम ।
भवता कथितं सम्यक्छ्रोतुमिच्छाम्यशेषतः । । १७
मार्कण्डेय उवाच
विस्पष्टा परमा विद्या ज्योतिर्भा शाश्वती स्फुटा ।
कैवल्यं ज्ञानमाविर्भूः प्राकाम्यं संविदेव च । । १८
बोधश्चावगतिश्चैव स्मृतिर्विज्ञानमेव च ।
इत्येतानीह रूपाणि तस्यारूपस्य भास्वतः । । १९
श्रूयतां च महाभाग विस्तराद्वदतो मम ।
यत्सृष्टवानसि रवेराविर्भावो यथाभवत् । । 98.२०
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते ।
बृहदण्डमभूदेकमक्षरं कारणं परम् । । २१
तद्बिभेद तदन्तःस्थो भगवान्प्रपितामहः ।
पद्मयोनिः स्वयं ब्रह्मा यः स्रष्टा जगतां प्रभुः । । २२
तन्मुखादोमिति महानभूच्छब्दो महामुने ।
ततो भूस्तु भुवस्तस्मात्ततश्च स्वरनन्तरम् । । २३
एता व्याहृतयस्तिस्रः स्वरूपं तद्विवस्वतः ।
ओमित्यस्मात्स्वरूपात्तु सूक्ष्मरूपं रवेः परम् । । २४
ततो महरिति स्थूलं जनं स्थूलतरं ततः ।
ततस्तपस्ततः सत्यमिति मूर्त्तानि सप्तधा । । २५
स्थितानि तस्य रूपाणि भवन्ति न भवन्ति च ।
स्वभावभावयोर्भावं यतो गच्छन्ति संशयम् । । २६
आद्यन्तं यत्परं सूक्ष्ममरूपं परमं स्थितम् ।
ओमित्युक्तं मया विप्र तत्परब्रह्म तद्वपुः । । २७
इति श्रीमार्कण्डेयपुराणे वंशानुकीर्त्तनं नामाष्टनवतितमोऽध्यायः । ९८ ।
अथ नवनवतितमोऽध्यायः
मार्तण्डमाहात्म्यवर्णनम्
मार्कण्डेय उवाच
तस्मादण्डाद्विभिन्नात्तु ब्रह्मणोऽव्यक्तजन्मनः ।
ऋचो बभूवुः प्रथमं प्रथमाद्वदनान्मुने । । १
जपापुष्पनिभाः सद्यस्तेजोरूपा ह्यसंहताः ।
पृथक्पृथग्विभिन्नाश्च रजोरूपवहास्ततः । । २
यजूंषि दक्षिणाद्वक्त्रादनिरुद्धानि कानिचित् ।
यादृग्वर्णं तथा वर्णान्यसंहतिधराणि च । । ३
पश्चिमं यद्विभोर्वक्त्रं ब्रह्मणः परमेष्ठिनः ।
आविर्भूतानि सामानि तत्तच्छन्दांसि तान्यथ । । ४
अथर्वणामशेषं च भृङ्गाञ्जनचयप्रभम् ।
यावद्धोरस्वरूपं तदाभिचारिकशान्तिकम् । । ५
उत्तरात्प्रकटीभूतं वदनात्तस्य वेधसः ।
सुखसत्त्वतमःप्रायं सौम्यासौम्यस्वरूपवत् । । ६
ऋचो रजोगुणाः सत्त्वं यजुषां च गुणा मुने ।
तमोगुणानि सामानि तमःसत्त्वमथर्वसु । । ७
एतानि ज्वलमानानि तेजसाऽप्रतिमेन वै ।
पृथक्पृथगवस्थानभाञ्जि पूर्वमिवाभवन् । । ८
ततस्तदाद्यं यत्तेज ओमित्युक्त्वाभिशब्द्यते ।
तस्य स्वभावाद्यत्तेजस्तत्समावृत्य संस्थितम् । । ९
यथा यजुर्मयं तेजस्तद्वत्साम्नां महामुने ।
एकत्वमुपयातानि परे तेजस संश्रये । । 99.१०
शान्तिकं पौष्टिकं चैव तथा चैवाभिचारिकम् ।
ऋगादिषु लयं ब्रहमंस्त्रितयं त्रिष्वथागमत् । । ११
ततो विश्वमिदं सद्यस्तमोनाशात्सुनिर्मलम् ।
विभावनीयं विप्रर्षे तिर्यगूर्ध्वमधस्तथा । । १२
ततस्तन्मण्डलीभूतं छान्दसं तेज उत्तमम् ।
परेण तेजसा ब्रह्मन्नेकत्वमुपगम्य तत् । । १३
आदित्यसंज्ञामगमदादावेव यतोऽभवत् ।
विश्वस्यास्य महाभाग कारणं चाव्ययात्मकम् । । १४
प्रातर्मध्यन्दिने चैव तथा चैवापराह्णिके ।
त्रयी तपति सा काले ऋग्यजुःसामसंज्ञिता । । १५
ऋचस्तपन्ति पूर्वाह्णे मध्याह्ने च यजूंषि वै ।
सामानि चापराह्णे वै तपन्ति मुनिसत्तम । । १६
शान्तिकमृक्षु पूर्वाह्णे यजुःष्वेव च पौष्टिकम् ।
विन्यस्तं साम्नि सायाह्ने ह्याभिचारिकमन्ततः । । १७
मध्यन्दिनेऽपराह्णे च समे चैवाभिचारिकम् ।
अपराह्णे पितॄणां तु साम्ना कार्याणि तानि वै । । १८
विसृष्टौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः ।
रुद्रः साममयोऽन्ते च तस्मात्तस्याशुचिर्ध्वनिः । । १९
तदेवं भगवान्भास्वान्वेदात्मा वेदसंस्थितः ।
वेदविद्यात्मकश्चैव परः पुरुष उच्यते । । 99.२०
सर्गस्थित्यन्तहेतुश्च रजःसत्त्वादिकान्गुणान् ।
आश्रित्य ब्रह्मविष्ण्वादिसंज्ञामभ्येति शाश्वतः । । २१
देवैः सदेड्यः स तु वेदमूर्तिरमूर्तिराद्योऽखिलमर्त्यमूर्तिः ।
विश्वाश्रयं ज्योतिरवेद्यधर्मा वेदान्तगम्यः परमः परेशः । । २२
इति श्रीमार्कण्डेयपुराणे मार्त्तण्डमाहात्म्ये नवनवतितमोऽध्यायः । ९९ ।
अथ शततमोऽध्यायः
आदित्यस्तववर्णनम्
मार्कण्डेय उवाच
तस्य सन्ताप्यमाने तु तेजसोर्ध्वमधस्यथा ।
सिसृक्षुश्चिन्तयामास पद्मयोनिः पितामहः । । १
सृष्टिः कृतापि मे नाशं प्रयास्यत्यभितेजसा ।
भास्वतः सृष्टिसंहारस्थितिहेतोर्महात्मनः । । २
अप्राणाः प्राणिनः सर्व आपः शुष्यन्ति तेजसा ।
न चाम्भसा विना सृष्टिर्विश्वस्यास्य भविष्यति । । ३
इति सञ्चिन्त्य भगवान्स्तोत्रं भगवतो रवेः ।
चकार तन्मये भूत्वा ब्रह्मा लोकपितामहः । । ४
ब्रह्मोवाच
नमस्ये यन्मयं सर्वमेतत्सर्वमयश्च यः ।
विश्वमूर्तिः परं ज्योतिर्यत्तद्ध्यायन्ति योगिनः । । ५
य ऋङ्मयो यो यजुषां निधानं साम्नां च यो योनिरचिन्त्यशक्तिः ।
त्रयीमयः स्थूलतयार्धमात्रा परस्वरूपो गुणपारयोग्यः । । ६
त्वां सर्वहेतुं परमं च वेद्यमाद्यं परं ज्योतिरवेद्यरूपम् ।
स्थूलं च देवात्मतया नमस्ते भास्वन्तमाद्यं परमं परेभ्यः । । ७
सृष्टिं करोमि यदहं तव शक्तिराद्या तत्प्रेरितो जलमहीपवनाग्निरूपाम् ।
तद्देवतादिविषयां प्रणवाद्यशेषां नात्मेच्छया स्थितिलयावपि तद्वदेव । । ८
वह्निस्त्वमेव जलशोषणतः पृथिव्याः सृष्टिं करोषि जगतां च तथाद्य पाकम् ।
व्यापी त्वमेव भगवन्गगनस्वरूपं त्वं पञ्चधा जगदिदं परिपासि विश्वम् । । ९
यज्ञैर्यजन्ति परमात्मविदो भवन्तं विष्णुस्वरूपमखिलेष्टिमयं विवस्वन् ।
ध्यायन्ति चापि यतयो नियतात्मचित्ताः सर्वेश्वरं परममात्मविमुक्तिकामा । 100.१०
नमस्ते देवरूपाय यज्ञरूपाय ते नमः ।
परब्रह्मस्वरूपाय चिन्त्यमानाय योगिभिः । । ११
उपसंहर तेजो यत्तेजसः संहतिस्तव ।
सृष्टेर्विधाताय विभो सृष्टौ चाहं समुद्यतः । । १२
मार्कण्डेय उवाच
इत्येवं संस्तुतो भास्वान्ब्रह्मणा सर्गकर्तृणा ।
उपसंहृतवांस्तेजः परं स्वल्पमधारयत् । । १३
चकार च ततः सृष्टिं जगतः पद्मसम्भवः ।
तथा तेषु महाभागः पूर्वकल्पान्तरेषु वै । । १४
देवासुरादीन्मर्त्त्यांश्च पश्वादीन्वृक्षवीरुधः ।
ससर्ज पूर्ववद्ब्रह्मा नरकांश्च महामुने । । १५
इति श्रीमार्कण्डेयपुराणे आदित्यस्तवो नाम शततमोऽध्यायः । १०० ।
अथैकाधिकशततमोऽध्यायः
दिवाकरस्तुतिवर्णनम्
मार्कण्डेय उवाच
सृष्ट्वा जगदिदं ब्रह्मा प्रविभागमथाकरोत् ।
वर्णाश्रमसमुद्राद्रिद्वीपानां पूर्ववद्यथा । । १
देवदैत्योरगादीनां रूपस्थानानि पूर्ववत् ।
वेदेभ्य एव भगवानकरोत्कमलोद्भवः । । २
ब्रह्मणस्तनयो योऽभून्मरीचिरिति विश्रुतः ।
कश्यपस्तस्य पुत्रोऽभूत्काश्यपो नाम नामतः । । ३
दक्षस्य तनया ब्रह्मंस्तस्य भार्यास्त्रयोदश  ।
बहवस्तत्सुताश्चासन्देवदैत्योरगादयः । । ४
अदितिर्जनयामास दैवांस्त्रिभुवनेश्वरान् ।
दैत्यान्दितिर्दनुश्चोग्रान्दानवानुरुविक्रमान् । । ५
गरुडारुणौ च विनता यक्षरक्षांसि वै खसा ।
कद्रूः सुषाव नागांश्च गन्धर्वान्सुषुवे मुनिः । । ६
क्रोधाया जज्ञिरे कुल्या रिष्टायाश्चाप्सरोगणाः ।
ऐरावतादीन्मातङ्गानिरा च सुषुवे द्विज । । ७
ताम्रा च सुषुवे श्येनीप्रमुखाः कन्यका द्विज ।
यासां प्रसूताः खगमाः श्येनभासशुकादयः । । ८
इलायाः पादपा जाताः प्रधाया यादसां गणाः ।
अदित्यां या समुत्पन्ना कश्यपस्येति सन्ततिः । । ९
तस्याश्च पुत्रदौहित्रैः पौत्रदौहित्रिकादिभिः ।
व्याप्तमेतज्जगत्सूत्या तेषां तासां च वै मुने । । 101.१०
तेषां कश्यपपुत्राणां प्रधाना देवतागणाः ।
सात्त्विका राजसास्त्वेते तामसाश्च मुने गणाः । । ११
देवान्यज्ञभुजश्चक्रे तथा त्रिभुवनेश्वरान् ।
ब्रह्मा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः । । १२
तानबाधन्त सहिताः सपत्ना दैत्यदानवाः ।
राक्षसाश्च तथा युद्धं तेषामासीत्सुदारुणम् । । १३
दिव्यं वर्षसहस्रं तु पराजीयन्त देवताः ।
जयिनश्चाभवन्विप्र बलिनो दैत्यदानवाः । । १४
ततो निराकृतान्पुत्रान्दैतेयैर्दानवैस्तथा ।
हृतत्रिभुवनान्दृष्ट्वा ह्यदितिर्मुनिसत्तम । । १५
आच्छिन्नयज्ञभागांश्च शुचा संपीडिता भृशम् ।
आराधनाय सवितुः परं यत्नं प्रचक्रमे । । १६
एकाग्रा नियताहारा परं नियममास्थिता ।
तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् । । १७
अदितिरुवाच
नमस्तुभ्यं परां सूक्ष्मां सौवर्णीं बिभ्रते तनुम् ।
धाम धामवतामीश धाम्नामाधार शाश्वत । । १८
जगतामुपकाराय तथापस्तव गोपते ।
आददानस्य यद्रूपं तीव्रं तस्मै नमाम्यहम् । । १९
ग्रहीतुमष्टमासेन कालेनेन्दुमयं रसम् ।
बिभ्रतस्तव यद्रूपमतितीव्रं नतास्मि तत् । । 101.२०
तमेव मुञ्चतः सर्वं रसं वै वर्षणाय यत् ।
रूपमाप्यायकं भास्वंस्तस्मै मेधाय ते नमः । । २१
वार्युत्सर्गविनिष्पन्नमशेषं चौषधीगणम् ।
पाकाय तव यद्रूपं भास्करं तं नमाम्यहम् । । २२
यच्च रूपं तवातीतं हिमोत्सर्गादिशीतलम् ।
तत्कालसस्यपोषाय तरणे तस्य ते नमः । । २३
नातितीव्रं च यद्रूपं नातिशीतं च यत्तव ।
वसन्तर्त्तौ रवे सौम्यं तस्मै देव नमो नमः । । २४
आप्यायनमशेषाणां देवानां च तथापरम् ।
पितॄणां च नमस्तस्मै सस्यानां पाकहेतवे । । २५
यद्रूपं जीवनायैकं वीरुधाममृतात्मकम् ।
पीयते देवपितृभिस्तस्मै सोमात्मने नमः । । २६
आप्यायदाहरूपाभ्यां रूपं विश्वमयं तव ।
समेतमग्नीषोमाभ्यां नमस्तस्मै गुणात्मने । । २७
यद्रूपमृग्यजुःसाम्नामैक्येन तपते तव ।
विश्वमेतत्त्रयीसंज्ञं नमस्तस्मै विभावसो । । २८
मार्कण्डेय उवाच
यत्तु तस्मात्परं रूपमोमित्युक्त्वाभिशब्दितम् ।
अस्थूलानन्तममलं नमस्तस्मै सदात्मने । । २९
एवं स नियता देवी चक्रे स्तोत्रमहर्निशम् ।
निराहारा विवस्वन्तमारिराधयिषुर्मुने । । 101.३०
ततः कालेन महता भगवांस्तपनोऽम्बरे ।
प्रत्यक्षतामगादस्या दाक्षायण्या द्विजोत्तम । । ३१
सा ददर्श महाकूटं तेजसोऽम्बरसंश्रितम् ।
जगाद मे प्रसीदेति न त्वां पश्यामि गोपते । । ३२
यथा दृष्टवती पूर्वमम्बरस्थं सुदुर्दृशम् ।
निराहारा विवस्वन्तं तपन्तं तदनन्तरम् । । ३३
संघातं तेजसां तद्वदिह पश्यामि भूतले ।
प्रसादं कुरु पश्येयं यद्रूपं ते दिवाकर । ।
भक्तानुकम्पक विभो भक्ताहं पाहि मे सुतान् । । ३४
त्वं धाता विसृजसि विश्वमेतत्त्वं पासि स्थितिकरणाय सप्रवृत्तः ।
त्वय्यन्ते लयमखिलं प्रयाति तत्त्वं त्वत्तोऽन्या न हि गतिरस्ति सर्वलोके । । ३५
त्वं ब्रह्मा हरिरजसंज्ञितस्त्वमिन्द्रो वित्तेशः पितृपतिरप्पतिः समीरः ।
सोमोऽग्निर्गगनपतिर्महीधरोऽब्धिः किं स्तव्यं तव सकलात्मरूपधाम्नः । । ३६
यज्ञेश त्वामनुदिनमात्मकर्मसक्ताः स्तुन्वन्तो विविधपदैर्द्विजा यजन्ति ।
ध्यायन्तो विनियतचेतसो भवन्तं योगस्थाः परमपदं प्रयान्ति मर्त्याः । । ३७
तपसि पचसि विश्वं पासि भस्मीकरोषि प्रकटयसि मयूखैर्ह्रादयस्यम्बुगर्भैः ।
सृजसि कमलजन्मा पालयस्यच्युताख्यः क्षपयसि च युगान्ते रुद्ररूपस्त्वमेकः । । ३८
इति श्रीमार्कण्डेयपुराणे दिवाकरस्तुतिर्नामैकाधिकशततमोऽध्यायः । १०१ ।
अथ द्व्यधिकशततमोऽध्यायः
मार्तण्डोत्पत्तिवर्णनम्
मार्कण्डेय उवाच
ततः स्वतेजसस्तस्मादाविर्भूतो विभावसुः ।
अदृश्यत तदादित्यस्तप्तताम्रोपमप्रभः । । १
अथ तां प्रणतां देवीं तस्य संदर्शनान्मुने ।
प्राह भास्वन्वृणुष्वेष्टवरं मत्तो यमिच्छसि । । २
प्रणता शिरसा सा च जानुपीडितमेदिनी ।
प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् । । ३
देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम ।
यज्ञभागाश्च दैत्यैश्च दानवैश्च बलाधिकैः । । ४
तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते ।
अंशेन तेषां भ्रातृत्वं गत्वा नाशय तद्रिपून् । । ५
यथा मे तनया भूयो यज्ञभागभुजः प्रभो ।
भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर । । ६
तथानुकम्पां पुत्राणां सुप्रसन्नो रवे मम ।
कुरु प्रपन्नार्तिहर स्थितिकर्त्ता त्वमुच्यसे । । ७
मार्कण्डेय उवाच
ततस्तामाह भगवान्भास्करो वारितस्करः ।
प्रणतामदितिं विप्र प्रसादसुमुखो विभुः । । ८
सहस्रांशेन ते गर्भे सम्भूयाहमशेषतः ।
त्वत्पुत्रशत्रूनदिते नाशयाम्याशु निर्वृतः । । ९
इत्युक्त्वा भगवान्भास्वानन्तर्द्धानमुपागमत् ।
निवृत्ता सापि तपसः संतृप्ताखिलवाञ्छिता । । 102.१०
ततो रश्मिसहस्रात्तु सौषुम्नाख्यो रवेः करः ।
विप्रावतारं संचक्रे देवमातुरथोदरे । । ११
कृच्छ्रचान्द्रायणादीनि सा च चक्रे समाहिता ।
शुचिः संधारयामास दिव्यं गर्भमिति द्विज । । १२
ततस्तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् ।
किं मारयसि गर्भाण्डमिति नित्योपवासिनी । । १३
सा च तं प्राह गर्भाण्डमेतत्पश्येति कोपना ।
न मारितं विपक्षाणां मृत्यवे तद्भविष्यति । । १४
मार्कण्डेय उवाच
इत्युक्त्वा तं तदा गर्भमुत्ससर्ज्ज सुरारणिः ।
जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता । । १५
तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्च्चसम् ।
तुष्टाव प्रणतो भूत्वा ऋग्भिराद्याभिरादरात् । । १६
संस्तूयमानः स तदा गर्भाण्डात्प्रकटोऽभवत् ।
पद्मपत्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः । । १७
अथान्तरिक्षादाभाष्य कश्यपं मुनिसत्तमम् ।
सतोयमेघगम्भीरवागुवाचाशरीरिणी । । १८
मारितं ते यतः प्रोक्तमेतदण्डं त्वया मुने ।
तस्मान्मुने सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति । । १९
सूर्याधिकारं च विभुर्जगत्येष करिष्यति ।
हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन् । । 102.२०
देवा निशम्येति वचो गगनात्समुपागमन् ।
प्रहर्षमतुलं याता दानवाश्च हतौजसः । । २१
ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ।
सह देवैर्मुदा युक्तो दानवाश्च समभ्ययुः । । २२
तेषां युद्धमभूद्घोरं देवानामसुरैः सह ।
शस्त्रास्त्रदीप्तिसंदीप्तं समस्तभुवनान्तरम् । । २३
तस्मिन्युद्धे भगवता मार्त्तण्डेन निरीक्षिताः ।
तेजसा दह्यमानास्ते भस्मीभूता महासुराः । । २४
ततः प्रहर्षमतुलं प्राप्ताः सर्वे दिवौकसः ।
तुष्टुवुस्तेजसा योनिं मार्त्तण्डमदितिं तथा । । २५
स्वाधिकारांस्तथा प्राप्ता यज्ञभागांश्च पूर्ववत् ।
भगवानपि मार्तण्डः स्वाधिकारमथाकरोत् । । २६
कदम्बपुष्पवद्भास्वानधश्चोर्ध्वं च रश्मिभिः ।
वृत्ताग्निपिण्डसदृशो दध्रे नातिस्फुरद्वपुः । । २७
इति श्रीमार्कण्डेयपुराणे मार्तण्डोत्पत्तिर्नाम द्व्यधिकशततमोऽध्यायः । १०२ ।
अथ त्र्यधिकशततमोऽध्यायः
भानुतनुलेखनवर्णनम्
मार्कण्डेय उवाच
अथ तस्मै ददौ कन्यां संज्ञां नाम विवस्वते ।
प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः । । १
वैवस्वतस्तु सम्भूतो मनुस्तस्यां विवस्वतः ।
पूर्वमेव तथाख्यातं तत्स्वरूपं विशेषतः । । २
क्रौष्टुकिरुवाच
(भूयस्तच्छ्रोतुमिच्छामि मार्त्तण्डस्य महात्मनः ।
चरितं हन्ति यत्पापं कलौ संशृण्वतां नृणाम् । ।)
मार्कण्डेय उवाच
त्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः ।
द्वौ पुत्रौ सुमहाभागो कन्यां च यमुनां मुने । । ३
मनुर्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ।
ततो यमो यमी चैव यमलौ सम्बभूवतुः । । ४
यत्तेजोऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः ।
तेनातितापयामास त्रींल्लोकान्सचराचरान् । । ५
गोलाकारं तु तद्दृष्ट्वा संज्ञारूपं विवस्वतः ।
असहन्ती महत्तेजः स्वां छायां प्रेक्ष्य साऽब्रवीत् । । ६
संज्ञोवाच
अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ।
निर्विकारं त्वयाप्यत्र स्थेयं मच्छासनाच्छुभे । । ७
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ।
सम्भाव्यौ नैव चाख्येयमिदं भगवते त्वया । । ८
छायोवाच
आकेशग्रहणाद्देवि आशपन्नैव कर्हिचित् ।
आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम् । । ९
इत्युक्ता छायया संज्ञा जगाम पितृमन्दिरम् ।
तत्रावसत्पितुर्गेहे कञ्चित्कालं शुभेक्षणा । । 103.१०
भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः ।
अगच्छद्वडवा भूत्वा कुरून्विप्रोत्तरांस्ततः । । ११
तत्र तेपे तपः साध्वी निराहारा महामुने ।
पितुः समीपं यातायाः संज्ञाया वाक्यतत्परा । । १२
तद्रूपधारिणी छाया भास्करं समुपस्थिता ।
तस्यां च भगवान्सूर्यः संज्ञेयमिति चिन्तयन् । । १३
तथैव जनयामास द्वौ सुतौ कन्यकां तथा ।
पूर्वजस्य मनोस्तुल्यः सावर्णिस्तेन सोऽभवत् । । १४
यस्तयोः प्रथमं जातः पुत्रयोर्द्विजसत्तम ।
द्वितीयो योऽभवच्चान्यः स ग्रहोऽभूच्छनैश्चरः । । १५
कन्याभूत्तपती या तां वव्रे संवरणो नृपः ।
संज्ञा तु पार्थिवी तेषामात्मजानां यथाऽकरोत् । । १६
स्नेहान्न पूर्वजातानां तथा कृतवती सती ।
मनुस्तत्क्षान्तवांस्तस्या यमश्चास्या न चक्षमे । । १७
बहुशो याच्यमानस्तु पितुः पत्न्या सुदुःखितः ।
स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् । । १८
पदा सन्तर्जयामास छायासंज्ञां यमो मुने ।
ततः शशाप च यमं संज्ञा सामर्षिणी भृशम् । । १९
छायोवाच
पदा तर्जयसे यस्मात्पितृभार्यां गरीयसीम् ।
तस्मात्तवैव चरणः पतिष्यति न संशय ।।103.२०
यमस्तु तेन शापेन भृशं पीडितमानसः ।
मनुना सह धर्मात्मा सर्वं पित्रे न्यवेदयत् ।।२१
यम उवाच
स्नेहेन तुल्यमस्मासु माता देव न वर्तते ।
विसृज्य ज्यायसोऽप्यस्मान्कनीयांसौ बुभूर्षति ।।२२
तस्यां मयोद्यतः पादो न तु देहे निपातितः ।
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति ।।२३
शप्तोऽहं तात कोपेन जनन्या तनयो यतः ।
ततो न मन्ये जननीमिमां वै तपतां वर ।।२४
विगुणेष्वपि पुत्रेषु न माता विगुणा पितः ।
पादस्ते पततां पुत्र कथमेतत्प्रवक्ष्यति ।।२५
तव प्रसादाच्चरणो न पतेद्भगवन्यथा ।
मातृशापादयं मेऽद्य तथा चिन्तय गोपते ।।२६
रविरुवाच
असंशयमिदं पुत्र भविष्यत्यत्र कारणम् ।
येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ।।२७
सर्वेषामेव शापानां प्रतिघातो हि विद्यते ।
न तु मात्राभिशप्तानां क्वचिच्छापनिवर्तनम् ।।२८
न शक्यमेतन्मिथ्या तु कर्तुं मातुर्वचस्तव ।
किञ्चित्तव विधास्यामि पुत्रस्नेहादनुग्रहम् ।।२९
कृमयो मांसमादाय प्रयास्यन्ति महीतलम् ।
कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ।।103.३०
मार्कण्डेय उवाच
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ।
तुल्येष्वप्यधिकः स्नेह एकत्र क्रियते त्वया । । ३१
नूनं नैषां त्वं जननी संज्ञा कापि त्वमागता ।
विगुणेष्वप्यपत्येषु कथं माता शपेत्सुतम् । । ३२
मार्कण्डेय उवाच
सा तत्परिहरन्ती च नाचचक्षे विवस्वतः ।
स चात्मानं समाधाय युक्तस्तत्त्वमपश्यत । । ३३
तं शप्तुमुद्यतं दृष्ट्वा छायासंज्ञा दिवस्पतिम् ।
भयेन कंपिता ब्रह्मन्यथावृत्तं न्यवेदयत् । । ३४
विवस्वांस्तु ततः क्रुद्धः श्रुत्वा श्वशुरमभ्यगात् ।
स चापि तं तथान्यामर्चयित्वा दिवाकरम् । ।
निर्दग्धुकामं रोषेण सान्त्वयामास सुव्रतः । । ३५
विश्वकर्मोवाच
तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् ।
असहन्ती ततः संज्ञा वने चरति वै तपः । । ३६
द्रक्ष्यते तां भवानद्य स्वभार्यां शुभचारिणीम् ।
रूपार्थं भवतोऽरण्ये चरन्तीं समुहत्तपः । । ३७
स्मृतं मे ब्रह्मणो वाक्यं यदि ते देव रोचते ।
रूपं निवर्तयाम्येतत्तव कान्तं दिवस्पते । । ३८
मार्कण्डेय उवाच
यतो हि भास्वतो रूपं प्रागासीत्परिमण्डलम् ।
ततस्तथेति तं प्राह त्वष्टारं भगवान्रविः । । ३९
विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वतः ।
भ्रमिमारोप्य तत्तेजः शातनायोपचक्रमे । । 103.४०
भ्रमताऽशेषजगतां नाभिभूतेन भास्वता ।
समुद्राद्रिवनोपेता सा रुरोह मही नभः । । ४१
गगनं चाखिलं ब्रह्मन्सचन्द्रग्रहतारकम् ।
अधोगतं महाभाग बभूवाक्षिक्षमाकुलम् । । ४२
विक्षिप्तसलिलाः सर्वे बभूवुश्च तथाब्धितः ।
व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः । । ४३
ध्रुवाधाराण्यशेषाणि धिष्ण्यानि मुनिसत्तम ।
त्रुट्यद्रश्मिनिबन्धानि ह्यधो जग्मुः सहस्रशः । । ४४
वेगभ्रमणसंजात वायुक्षिप्ताः समन्ततः ।
व्यशीर्यन्त महामेघा घोररावविराविणः । । ४५
भास्वद्भ्रमणविभ्रान्तं भूम्याकाशरसातलम् ।
जगादाकुलमत्यर्थं तदासीन्मुनिसत्तम । । ४६
त्रैलोक्ये सकले विप्र भ्रममाणे सुरर्षयः ।
देवाश्च ब्रह्मणा सार्द्धं भास्वन्तमभितुष्टुवुः । । ४७
आदिदेवोऽसि देवानां ज्ञातमेतत्स्वरूपतः ।
स्वर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि । । ४८
स्वस्ति तेऽस्तु जगन्नाथ धर्मवर्षाहिमाकर ।
जुषस्व शान्तिं लोकानां देवदेव दिवाकर । । ४९
इन्द्रश्चागत्य तं देवं लिख्यमानं यथाऽस्तुवत् ।
जयदेव जगद्वयापिञ्जयाशेषजगत्पते । । 103.५०
ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ।
तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीति वादिनः । । ५१
वेदोक्ताभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ।
भास्वन्तमृग्भिराद्याभिर्लिख्यमानं मुदायुताः । । ५२
त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः ।
त्वं गतिः सर्वभूतानां कर्मकाण्डेऽपि वर्तताम् । । ५३
शं प्रजाभ्योऽस्तु देवेश शन्नोऽस्तु जगतांपते ।
शन्नोऽस्तु द्विपदे नित्यं शन्नश्चास्तु चतुष्पदे । । ५४
ततो विद्याधरगणा यक्षराक्षसपन्नगाः ।
कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् । । ५५
ऊचुरेवंविधा वाचो मनः श्रोत्रसुखावहः ।
सह्यं भवतु ते तेजो भूतानां भूतभावन । । ५६
ततो हाहा हुहूश्चैव नारदस्तुम्बुरुस्तथा ।
उपगायितुमारब्धा गान्धर्वं कुशला रविम् । । ५७
षड्जमध्यमगान्धारग्रामत्रयविशारदाः ।
मूर्च्छनाभिश्च तानैश्च सम्प्रयोगैः सुखप्रदम् । । ५८
विश्वाची च घृताची च उर्वश्यथ तिलोत्तमा ।
मेनका सहजन्या च रम्भा चाप्सरसां वरा । । ५९
ननृतुर्जगतामीशे लिख्यमाने विभावसौ ।
ज्ञानभावविलासाढ्यात्कुर्वन्तोऽभिनयान्बहून् । । 103.६०
प्रावाद्यन्त ततस्तत्र वेणुवीणादिझर्झराः ।
पणवाः पुष्कराश्चैव मृदङ्गा पटहानकाः । । ६१
देवदुन्दुभयः शङ्खाः शतशोऽथ सहस्रशः ।
गायद्भिश्चैव गान्धर्वं नृत्यद्भिश्चाप्सरोगणैः । । ६२
तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ।
ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः । । ६३
लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ।
ततः कोलाहले तस्मिन्सर्वदेवसमागमे । ।
तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः । । ६४
इति हिमजलघर्मकालहेतोर्हरकमलासनविष्णुसंस्तुतस्य ।
तनुपरिलिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोऽन्ते । । ६५
इति श्रीमार्कण्डेयपुराणे भानुतनुलेखने त्र्यधिकशततमोऽध्यायः । १०३ ।
अथ चतुरधिकशततमोऽध्यायः
सूर्यस्तवनवर्णनम्
मार्कण्डेय उवाच
लिख्यमाने ततो भानौ विश्वकर्मा प्रजापतिः ।
उद्भूतपुलकः स्तोत्रमिदं चक्रे विवस्वतः । । १
विवस्वते प्रणतहितानुकम्पिने महात्मने समजवसप्तसप्तये ।
सुतेजसे कमलकुलावबोधिने नमस्तमः पटलपटावपाटिने । । २
पावनातिशयपुण्यकर्मणे नैककामविषयप्रदायिने ।
भास्वरानलमयूखशायिने सर्वलोकहितकारिणे नमः । । ३
अजाय लोकत्रयकारणाय भूतात्मने गोपतये वृषाय ।
नमो महाकारुणिकोत्तमाय सूर्याय चक्षुःप्रभवालयाय । ।४
विवस्वते ज्ञानमृतेंऽतरात्मने जगत्प्रतिष्ठाय जगद्धितैषिणे ।
स्वयम्भुवे लोकसमस्तचक्षुषे सुरोत्तमायामिततेजसे नमः । ।५
क्षणमुदयाचलमौलिमणिः सुरगणमहित हितो जगतः ।
त्वमु मयूखसहस्रवपुर्जगति विभासि तमांसि नुदन् । । ६
भवतिमिरासवपानमदाद्भवति विलोहितविग्रहता ।
मिहिर विभासि यतः सुतरां त्रिभुवनभावनभानिकरैः । । ७
रथमधिरुह्य समावयवं चारुविकम्पितमुरुरुचिरम् ।
सततमखिन्नहयैर्भगवंश्चरसि जगद्धिताय विततम् । । ८
अमृतमयेन रसेन समं विबुधपितॄनपि तर्पयसे ।
अरिगणसूदन तेन तव प्रणतिमुपेत्य लिखामि वपुः । । ९
शुकसमवर्णह्यप्रथितं तव पदपांसुपवित्रतमम् ।
नतजनवत्सल मां प्रणतं त्रिभुवनपावन पाहि रवे । । 104.१०
इति सकलजगप्रसूतिभूतं त्रिभुवनभावनधामहेतुमेकम् ।
रविमखिलजगत्प्रदीपभूतं त्रिदशवर प्रणतोऽस्मि सर्वदा त्वाम् । । ११
इति श्रीमार्कण्डेयपुराणे सूर्यस्तवनं नाम चतुरधिकशततमोऽध्यायः । १०४ ।
अथ पञ्चाधिकशततमोऽध्यायः
रवेर्माहात्म्यवर्णनम्
मार्कण्डेय उवाच
एवं सूर्यस्तवं कुर्वन्विश्वकर्मा दिवस्पतेः ।
तेजसः षोडशं भागं मण्डलस्थमधारयत् । । १
शातितैस्तेजसो भागैर्दर्शभिः पञ्चभिस्तथा ।
अतीवकान्तिमच्चारु भानोरासीत्तदा वपुः । । २
शातितं चास्य यत्तेजस्तेन चक्रं विनिर्मितम् ।
विष्णोः शूलं च शर्वस्य शिबिका धनदस्य च । । ३
दण्डः प्रेतपतेः शक्तिर्देवसेनापतेस्तथा ।
अन्येषां चैव देवानामायुधानि स विश्वकृत् । । ४
चकार तेजसा भानोर्भासुराण्यरिशान्तये ।
इति शातिततेजाः स शुशुभे नातितेजसा । । ५
वपुर्दधार मार्त्तण्डः सर्वावयवशोभनम् ।
स ददर्श समाधिस्थः स्वां भार्यां वडवाकृतिम् । । ६
अधृष्यां सर्वभूतानां तपसा नियमेन च ।
उत्तरांश्च कुरून्गत्वा भूत्वाऽश्वो भानुरागमत् । । ७
सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।
जगाम सम्मुखे तस्य पृष्ठरक्षणतत्परा । । ८
ततश्च नासिकायोगं तयोस्तत्र समेतयोः ।
वडवायं च तत्तेजो नासिकाभ्यां विवस्वतः । । ९
देवौ तत्र समुत्पन्नावश्विनौ भिषजां वरौ ।
नासत्यदस्रौ तनयावश्विवक्त्राद्विनिर्गतौ । । 105.१०
मार्त्तण्डस्य सुतावेतावश्वरूपधरस्य हि ।
रेतसोऽन्ते च रेवन्तः खड्गी धन्वी तनुत्रधृक् । । ११
अश्वारूढः समुद्भूतो बाणतूणसमन्वितः ।
ततः स्वरूपममलं दर्शयामास भानुमान् । । १२
तस्य शान्तं समालोक्य सा रूपं मुदमाददे ।
स्वरूपधारिणीं चेमां स निनाय निजालयम् । । १३
संज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः ।
ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः । । १४
द्वितीयश्च यमः शापाद्धर्मदृष्टिरनुग्रहात् ।
यमस्तु तेन शापेन भृशं पीडितमानसः । । १५
धर्मोऽभिरोचते यस्माद्धर्मराजस्ततः स्मृतः ।
कृमयो मांसमादाय पादतस्ते महीतलम् । । १६
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ।
धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाऽहिते । । १७
ततो नियोगे तं याम्ये चकार तिमिरापहः ।
तस्मै ददौ पिता विप्र भगवांल्लोकपालताम् । । १८
पितॄणामाधिपत्यं च परितुष्टो दिवाकरः ।
यमुनां च नदीं चक्रे कलिंदान्तरवाहिनीम् । । १९
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना ।
गुह्यकाधिपतित्वे च रेवन्तो विनियोजितः । । 105.२०
एवमप्याह च ततो भगवांल्लोकभावितः ।
त्वमप्यशेषलोकस्य पूज्यो वत्स भविष्यसि । । २१
अरण्यादिमहादाववैरिदस्युभयेषु च ।
त्वां स्मरिष्यन्ति ये मर्त्या मोक्ष्यन्ते ते महापदः । । २२
क्षेमं बुद्धिं सुखं राज्यमारोग्यं कीर्तिमुन्नतिम् ।
नराणां परितुष्टस्त्वं पूजितः सम्प्रदास्यसि । । २३
छायासंज्ञासुतश्चापि सावर्णिः सुमहायशाः ।
भाव्यः सोऽनागते काले मनुः सावर्णिकोऽष्टमः । । २४
मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ।
भ्राता शनैश्चरस्तस्य ग्रहोऽभूच्छासनाद्रवेः । । २५
यवीयसी तु या कन्याऽऽदित्यस्याभूद्द्विजोत्तम ।
अभवत्सा सरिच्छ्रेष्ठा तपती लोकपावनी । । २६
यस्तु ज्येष्ठो महाभागः सर्गो यस्येह साम्प्रतम् ।
विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह । । २७
इदं यो जन्म देवानां शृणुयाद्धा पठेत वा ।
विवस्वतस्तनूजानां रवेर्माहात्म्यमेव च । । २८
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महायशः ।
अहोरात्रकृतं पापमेतच्छमयते श्रुतम् । ।
माहात्म्यमादिदेवस्य मार्तण्डस्य महात्मनः । । २९
इति श्रीमार्कण्डेयपुराणे रवेर्माहात्म्यवर्णनं नाम पञ्चाधिकशततमोऽध्यायः । १०५ ।
अथ षडधिकशततमोऽध्यायः
भानुस्तववर्णनम्
क्रौष्टुकिरुवाच
भगवन्कथितः सम्यग्भानोः सन्ततिसम्भवः ।
माहात्म्यमादिदेवस्य स्वरूपं चातिविस्तरात् । । १
भूयोऽपि भास्वतः सम्यङ्माहात्म्यं मुनिसत्तम ।
श्रोतुमिच्छाम्यहं तन्मे प्रसन्नो वक्तुमर्हसि । । २
मार्कण्डेय उवाच
श्रूयतामादिदेवस्य माहात्म्यं कथयामि ते ।
विवस्वतो यच्चकार पूर्वमाराधितो जनैः । । ३
दमस्य पुत्रो विख्यातो राजाभूद्राज्यवर्धनः ।
स सम्यक्पालनं चक्रे पृथिव्या पृथिवीपतिः । । ४
धर्मतः पाल्यमानं तु तेन राष्ट्रं महात्मना ।
ववृधेऽनुदिनं विप्र जनेन च धनेन च । । ५
हृष्टपुष्टमतीवासीत्तस्मिन्राजन्यशेषतः ।
निर्भयः सकलश्चोर्व्यां पौरजानपदो जनः । । ६
नोपसर्गो न च व्याधिर्न च व्यालोद्भवं भयम् ।
न चावृष्टिभयं तत्र दमपुत्रे महीपतौ । । ७
स ईजे च महायज्ञैर्ददौ दानानि चार्थिनाम् ।
सुधर्मस्याविरोधेन बुभुजे विषयानपि । । ८
तस्यैवं कुर्वतो राज्यं सम्यक्पालयतः प्रजाः ।
सप्त वर्षसहस्राणि जग्मुरेकमहर्यथा । । ९
विदूरथस्य तनया दाक्षिणात्यस्य भूभृतः ।
तस्य पत्नी बभूवाथ मानिनी नाम मानिनी । । 106.१०
कदाचित्तस्य सा सुभ्रुः शिरसोऽभ्यञ्जनादृता ।
पश्यतो राजलोकस्य मुमोचाश्रूणि मानिनी । । ११
तदश्रुबिन्दवो गात्रे यदा तस्य महीपतेः ।
तदा वीक्ष्याश्रुवदनां तामपृच्छत मानिनीम् । । १२
निःशब्दमश्रुमोक्षेण रुदन्तीं तां विलोक्य वै ।
किमेतदिति पप्रच्छ मानिनीं राज्यवर्धनः । । १३
पृष्टा सा तु ततस्तेन भर्त्रा प्राह मनस्विनी ।
न किञ्चिदिति तां भूयः पप्रच्छ स महीपतिः । । १४
बहुशः पृच्छतस्तस्य भूभृतः सा सुमध्यमा ।
(न किञ्चिदिति होवाच सा भूयो राज्यवर्धनम् । ।
किमेतदिति पप्रच्छ मानिनीं पार्थिवः पुनः ।
बहुशः प्रेरिता तेन सा भर्त्रा तत्र भामिनी । ।)
दर्शयामास पलितं केशभारान्तरोद्भवम् । । १५
एतत्पश्येति भूपाल किमन्यन्मन्युकारणम् ।
ममातिमन्दभाग्याया जहासाथ नृपस्ततः । । १६
स विहस्याह तां पत्नीं शृण्वतां सर्वभूभृताम् ।
पौराणां च महीपाला ये तत्रासन्समावृताः । । १७
शोकेनालं विशालाक्षि रोदितव्यं न ते शुभे ।
जन्मर्द्धिपरिणामाद्या विकाराः सर्वजन्तुषु । । १८
अधीताः सकला वेदा इष्टा यज्ञाः सहस्रशः ।
दत्तं द्विजानां पुत्राश्च समुत्पन्ना वरानने । । १९
भुक्ता भोगस्त्वया सार्द्धं ये मर्त्यैरतिदुर्लभाः ।
सभ्यञ्च पालिता पृथ्वी शौर्यं युद्धेष्वनुष्ठितम् । । 106.२०
मित्रैः सहेष्टैर्हसितं विहृतं च वनान्तरे ।
किमन्यत्र कृतं भद्रे पलितेभ्यो बिभेषि यत् । । २१
भवन्तु केशाः पलिता वलयः सन्तु मे शुभे ।
शैथिल्यमेतु मे कायः कृतकृत्योऽस्मि मानिनि । । २२
मूर्ध्नि यद्दर्शितं भद्रे भवत्या पलितं मम ।
चिकित्सामेव तस्याहं करोमि वनसंश्रयात् । । २३
बाल्ये बालक्रियापूर्वं तद्वत्कौमारके च या ।
यौवने चापि या योग्या वार्द्धके वनसंश्रया ।।२४
एवं मत्पूर्वजैर्भद्रे कृतं त्वत्पूर्वजैश्च यत् ।
अतो न तेऽश्रुपातस्य किञ्चित्पश्यामि कारणम् ।।२५
अलं ते मन्युना भद्रे नन्वभ्युदयकारि मे ।
दर्शनं पलितस्यास्य मा रोदीर्निष्प्रयोजनम् ।।२६
मार्कण्डेय उवाच
ततः प्रणम्य तं भूपाः पौराश्चैव समीपगाः ।
साम्ना प्रोचुर्महीपाला महर्षे राज्यवर्धनम् ।।२७
न रोदितव्यमनया तव पत्न्या नराधिप ।
रोदितव्यमिहास्माभिरथवा सर्वजन्तुभिः ।।२८
त्वं ब्रवीषि यथा नाथ वनवासाश्रितं वचः ।
पतन्ति तेन नः प्राणा लालितानां त्वया नृप ।।२९
सर्वे यास्यामहे भूप यदि याति भवान्वनम् ।
ततोऽशेषक्रियाहानिः सर्वपृथ्वीनिवासिनाम् ।।106.३०
भविष्यति न सन्देहस्त्वयि नाथ वनाश्रमे ।
सा च धर्मोपघाताय यदि तत्प्रविमुच्यताम् ।।३ १
सप्त वर्षसहस्राणि त्वयेयं पालिता मही ।
तत्समुत्थं महापुण्यमालोकय नराधिप ।।३२
वने वसन्महाराज त्वं करिष्यसि यत्तपः ।
तन्महीपालनस्यास्य कलां नार्हन्ति षोडशीम् ।।३ ३
राजोवाच
सप्त वर्षसहस्राणि मयेयं पालिता मही ।
इदानीं वनवासस्य मम कालोऽयमागतः ।। ३४
ममापत्यानि जातानि दृष्ट्वा मेऽपत्यसन्ततीः ।
स्वल्पैरेवमहोभिर्मे ह्यन्तको न सहिष्यति ।३५
यदेतत्पलितं मूर्ध्नि तद्विजानीत नागराः ।
दूतभूतमनार्यस्य मृत्योरत्युग्रकर्मणः । । ३६
सोऽहं राज्ये सुतं कृत्वा भोगांस्त्यक्त्वा वनाश्रयः ।
तपस्तप्स्ये समायान्ति न यावद्यमसैनिकाः । । ३७
मार्कण्डेय उवाच
ततो यियासुः स वनं दैवज्ञानवनीपतिः ।
पुत्रराज्याऽभिषेकाय दिनलग्नान्यपृच्छत । । ३८
श्रुत्वा च ते तु नृपतेर्वचो व्याकुलचेतसः ।
दिनं लग्नं च होराश्च न विदुः शास्त्रदृष्टयः । । ३९
ऊचुश्च तं महीपालं दैवज्ञा बाष्पगद्गदम् ।
ज्ञानानि नः प्रणष्टानि श्रुत्वैतत्ते वचो नृप । । 106.४०
ततोऽन्यनगरेभ्यश्च भृत्यै राष्ट्रेभ्य एव च ।
ततस्तस्माच्च नगरात्प्राचुर्येणाभ्युपागमन् । । ४१
समुत्पत्य महीपालं तं यियासुं मुने वनम् ।
प्रकम्पिशिरसो भूत्वा प्रोचुर्ब्राह्मणसत्तमाः । । ४२
प्रसीद पाहि नो राजन्पालिताः स्म यथा पुरा ।
सीदिष्यत्यखिलो लोकस्त्वयि भूप वनाश्रये । । ४३
त्वं कुरुष्व तथा राजन्यथा नो सीदते जगत् ।
यावज्जीवामहे वीर स्वल्पकालमिमे वयम् । ।
नेच्छामश्च भवच्छून्यं द्रष्टुं सिंहासनं विभो । । ४४
मार्कण्डेय उवाच
इत्येवं तैस्तथान्यैश्च द्विजैः पौरपुरःसरैः ।
भूपैर्भृत्यैरमात्यैश्च राजा प्रोक्तः पुनः पुनः । । ४५
वनवासविनिर्बन्धं नोपसंहरते यदा ।
क्षमिष्यत्यन्तको नेति ददौ स च तदोत्तरम् । । ४६
ततोऽमात्याश्च भूपाश्च पौरवृद्धास्तथा द्विजाः ।
समेत्य मन्त्रयामासुः किमत्र क्रियतामिति । । ४७
तेषां मन्त्रयतां विप्र निश्चयोऽयमजायत ।
अनुरागवतां तत्र महीपालेऽतिधार्मिके । । ४८
सम्यग्ध्यानपरा भूत्वा प्रार्थयामः समाहिताः ।
तपसाराध्य भास्वन्तमायुरस्य महीपतेः । । ४९
तत्रैकनिश्चयाः कार्ये केचिद्गेहे च भास्करम् ।
सम्यगर्घोपचाराद्यैरुपहारैरपूजयन् । । 106.५०
अपरे मौनिनो भूत्वा ऋग्जापेन तथापरे ।
यजुषामथ साम्नां च तोषयाञ्चक्रिरे रविम् । । ५१
अपरे च निराहारा नदीपुलिनशायिनः ।
तपांसि चक्रुरिच्छंतो भास्कराराधनं द्विजाः । । ५२
अग्निहोत्रपराश्चान्ये रविसूक्तान्यहर्निशम् ।
जेपुस्तत्रापरे तस्थुर्भास्करे न्यस्तदृष्टयः । । ५३
इत्येवमतिनिर्बन्धं भास्कराराधनं प्रति ।
बहुप्रकारं चक्रुस्ते तं तं विधिमुपाश्रिताः । । ५४
तथा तु यततां तेषां भास्कराराधनं प्रति ।
सुदामा नाम गन्धर्व उपगम्येदमब्रवीत् । । ५५
यद्याराधनमिष्टं वो भास्करस्य द्विजातयः ।
तदेतत्क्रियतां येन भानुः प्रीतिमुपैष्यति । । ५६
तस्माद्गुरुविशालाख्यं वनं सिद्धनिषेवितम् ।
कामरूपे महाशैले गम्यतां तत्र वै लघु । । ५७
तस्मिन्नाराधनं भानोः क्रियतां सुसमाहितैः ।
सिद्धक्षेत्रं हितं तत्र सर्वकामानवाप्स्यथ । । ५८
मार्कण्डेय उवाच
इति ते तद्वचः श्रुत्वा गत्वा तत्काननं द्विजाः ।
ददृशुर्भास्वतस्तत्र पुण्यमायतनं शुभम् । । ५९
तत्र ते नियताहारा वर्णा विप्रादयो द्विज ।
धूपपुष्पोपहाराढ्या पूजां चक्रुरतन्द्रिताः । । 106.६०
पुष्पानुलेपनाद्यैश्च धूपगन्धादिकैस्तथा ।
जपहोमान्नदानाद्यं पूजनं ते समाहिताः । ।
कुर्वन्तस्तुष्टुवुर्ब्रह्मन्विवस्वन्तं द्विजातयः । । ६१
ब्राह्मणा ऊचुः
देवदानवयक्षाणां ग्रहाणां ज्योतिषामपि ।
तेजसाभ्यधिकं देवं व्रजाम शरणं रविम् । । ६२
दिवि स्थितं च देवेशं द्योतयन्तं समन्ततः ।
वसुधामन्तरिक्षं च व्याप्नुवन्तं मरीचिभिः । । ६३
आदित्यं भास्करं भानुं सवितारं दिवाकरम् ।
पूषाणमर्यमाणं च स्वर्भानुं दीप्तदीधितिम् । । ६४
चतुर्युगान्तकालाग्निदुष्प्रेक्ष्यं प्रलयान्तगम् ।
योगीश्वरमनन्तं च रक्तं पीतं सितासितम् । । ६५
ऋषीणामग्निहोत्रेषु यज्ञदेवेष्ववस्थितम् ।
व्रजाम शरणं देवं तेजोराशिं तमच्युतम् । ।
अक्षरं परमं गुह्यं मोक्षद्वारमनुत्तमम् । । ६६
छन्दोभिरश्वरूपैश्च सकृद्युक्तैर्विहङ्गमम् ।
उदयास्तमने युक्तं सदा मेरोः प्रदक्षिणे । । ६७
अनृतं च ऋतं चैव पुण्यतीर्थं पृथग्विधम् ।
विश्वस्थितिचिन्त्यं च प्रपन्नाः स्म प्रभाकरम् । । ६८
यो ब्रह्मा यो महादेवो यो विष्णुर्यः प्रजापतिः ।
वायुराकाशमापश्च पृथिवीगिरिसागराः । । ६९
ग्रहनक्षत्रचन्द्राद्या वानस्पत्यं द्रुमौषधम् ।
व्यक्ताव्यक्तेषु भूतेषु धर्माधर्मप्रवर्त्तकः । । 106.७०
ब्राह्मी माहेश्वरी चैव वैष्णवी चैव ते तनुः ।
त्रिधा यस्य स्वरूपं तु भानोर्भास्वान्प्रसीदतु । । ७१
यस्य सर्वमयस्येदमङ्गभूतं जगत्प्रभोः ।
स नः प्रसीदतां भास्वाञ्जगतां यश्च जीवनम् । । ७२
यस्यैकमक्षरं रूपं प्रभामण्डलदुर्दृशम् ।
द्वितीयमैन्दवं सौम्यं स नो भास्वान्प्रसीदतु । । ७३
ताभ्यां च तस्य रूपाभ्यामिदं विश्वं विनिर्मितम् ।
अग्नीषोममयं भास्वान्स नो देवः प्रसीदतु । । ७४
मार्कण्डेय उवाच
इत्थं स्तुत्या तदा भक्त्या सम्यक्पूजाविधानतः ।
तुतोष भगवान्भास्वांस्त्रिभिर्मासैर्द्विजोत्तम । । ७५
ततः स मण्डलादुद्यन्निजबिम्बसमप्रभः ।
अवतीर्य ददौ तेभ्यो दुर्दृशो दर्शनं रविः । । ७६
ततस्ते स्पष्टरूपं तं सवितारमजं जनाः ।
पुलकोत्कम्पिनो विप्रा भक्तिनम्राः प्रणेमिरे । । ७७
नमो नमस्तेऽस्तु सहस्ररश्मे सर्वस्य हेतुस्त्वमशेषकेतुः ।
पाता त्वमीड्योऽखिलयज्ञधामध्येयस्तथा योगविदां प्रसीद । । ७८
इति श्रीमार्कण्डेयपुराणे भानुस्तवो नाम षडधिकशततमोऽध्यायः । १०६ ।
अथ सप्ताधिकशततमोऽध्यायः
भानोर्माहात्म्यवर्णनम्
मार्कण्डेय उवाच
ततः प्रसन्नो भगवान्भानुराहाखिलाञ्जनान् ।
व्रियतां यदभिप्रेतं मत्तः प्राप्तुं द्विजादयः । । १
मार्कण्डेय उवाच
ततस्ते प्रणिपत्योचुर्विप्रक्षत्रादयो जनाः ।
ससाध्वसमशीतांशुमवलोक्य पुरः स्थितम् । । २
प्रजा ऊचुः
भगवन्यदि नो भक्त्या प्रसन्नस्तिमिरापह । । ३
दश वर्षसहस्राणि ततो नो जीवतां नृपः ।
निरामयो जितारातिः सुकोशः स्थिरयौवनः । । ४
मार्कण्डेय उवाच
तथेत्युक्त्वा जनान्भास्वानदृश्योऽभून्महामुने ।
तेऽपि लब्धवरा हृष्टाः समाजग्मुर्जनेश्वरम् । । ५
यथा वृत्तं च ते तस्मै नरेन्द्राय न्यवेदयन् ।
वरं लब्ध्वा सहस्रांशो सकाशादखिलं द्विज । । ६
तच्छ्रुत्वा जहृषे तस्य सा पत्नी मानिनी द्विज ।
(प्रहर्षं परमं याता हर्षोद्गततनूरुहा) । ।
स च राजा चिरं दध्यौ नाह किञ्चिच्च तं जनम् । । ७
ततः सा मानिनी भूपं हर्षापूरितमानसा ।
दिष्ट्याऽऽयुषा महीपाल वर्द्धस्वेत्याह तं पतिम् । । ८
तथा तया मुदा भर्ता मानिन्याथ सभाजितः ।
नाहं किञ्चिन्महीपालश्चिन्ताजडमनाद्विज । । ९
सा पुनः प्राह भर्त्तारं चिन्तयानमधोमुखम् ।
कस्मान्न हर्षमभ्येषि परमाभ्युदये नृप । । 107.१०
दशवर्षसहस्राणि नीरुजः स्थिरयौवनः ।
भावी त्वमद्यप्रभृति किं तथापि न हृष्यसे । । ११
किन्तु तत्कारणं ब्रूहि यच्चिन्ताकृष्टमानसः ।
परमाभ्युदयेऽपि त्वं सम्प्राप्ते पृथिवीपते । । १२
राजोवाच
कथमभ्युदयो भद्रे किं सभाजयसे च माम् ।
प्राप्तो दुःखसहस्राणां किं सभाजनमिष्यते । । १३
दशवर्षसहस्राणि जीविष्याम्यहमेककः ।
न त्वं तव विपत्तौ मे किन्न दुःखं भविष्यति । । १४
पुत्रान्पौत्रान्प्रपौत्रांश्च तथान्यानिष्टबान्धवान् ।
पश्यतो मे मृतान्दुःखं किमल्पं हि भविष्यति । । १५
भृत्येषु चातिभक्तेषु मित्रवर्गे तथा मृते ।
भद्रे दुःखमपारं मे भविष्यति तु सन्ततम् । । १६
यैर्मदर्थं तपस्तप्तं कृशैर्धमनिसन्ततैः ।
ते मरिष्यन्त्यहं भोगी जीविष्यामीति धिक्करम् । । १७
सेयमापद्वरारोहे प्राप्ता नाभ्युदयो मम ।
कथं वा मन्यसे न त्वं यत्सभाजयसेऽद्य माम् । । १८
मानिन्युवाच
महाराज यथात्थ त्वं तथैतन्नात्र संशयः ।
मया पौरैश्च दोषोऽयं प्रीत्या नालोकितस्तव । । १९
एवं गतेऽत्र किं कार्यं नरनाथ विचिन्त्यताम् ।
नान्यथा भावि यत्प्राह प्रसन्नौ भगवान्रविः । । 107.२०
राजोवाच
उपकारः कृतः पौरैः प्रीत्या भृत्यैश्च यो मम ।
कथं भोक्ष्याम्यहं भोगान्गत्वा तेषामनिष्कृतिम् । । २१
सोऽहमद्यप्रभृत्यद्रिं गत्वा नियतमानसः ।
( पौरलोकहितार्थं च तोषयिष्यामि भास्करम् । ।
यथा पौरा मम कृते बान्धवाश्च समन्ततः ।
आराधनाय देवेशं तथाहमपि साम्प्रतम्) । ।
तपस्तप्स्ये निराहारो भानोराराधनोद्यतः । । २२
दशवर्षसहस्राणि यथाहं स्थिरयौवनः ।
तस्य प्रसादाद्देवस्य जीविष्यामि निरामयः । । २३
तथा यदि प्रजाः सर्वा भृत्यास्त्वं च सुताश्च मे ।
पुत्रा पौत्रा प्रपौत्राश्च सुहृदश्च वरानने । । २४
जीवन्त्येतं प्रसादं च करोति भगवान्रविः ।
ततोऽहं भविता राज्ये भोक्ष्ये भोगांस्तथा मुदा । । २५
न चेदेवं करोत्यर्कस्तदाद्रौ तत्र मानिनि ।
तपस्तप्स्ये निराहारो यावज्जीवितसंक्षयः । । २६
मार्कण्डेय उवाच
इत्युक्ता सा तदा तेन तथेत्याह नराधिपम् ।
जगाम तेन च समं साऽपि तं धरणीधरम् । । २७
स तदायतनं गत्वा भार्यया सह पार्थिवः ।
भानोराराधनं चक्रे शुश्रूषानिरतो द्विज । । २८
निराहारा कृशा सा च यथासौ पृथिवीपतिः ।
तेपे तपस्तथैवोग्रं शीतवातातपक्षमा । । २९
तस्य पूजयतो भानुं तप्यतश्च तपो महत् ।
साग्रे सम्वत्सरे याते ततः प्रीतो दिवाकरः । । 107.३०
समस्तभृत्यपौरादिपुत्राणां च कृते द्विज ।
ददौ यथाभिलषितं वरं द्विजवरोत्तम । । ३१
लब्ध्वा वरं स नृपतिः समभ्येत्यात्मनः पुरम् ।
चकार मुदितो राज्यं प्रजा धर्मेण पालयन् । । ३२
ईजे यज्ञान्स च बहून्ददौ दानान्यहर्निशम् ।
मानिन्या सहितो भोगान्बुभुजे च स धर्मवित् । । ३३
दश वर्षसहस्राणि पुत्रपौत्रादिभिः सह ।
भृत्यैः पौत्रैः प्रमुदितः सोऽभवत्स्थिरयौवनः । । ३४
तस्येति चरितं दृष्ट्वा प्रमतिर्नाम भार्गवः ।
विस्मयाकृष्टहृदयो गाथामेतामगायत । । ३५
भानुभक्तेरहो शक्तिर्यद्राजा राज्यवर्द्धनः ।
आयुषो वर्द्धने जातः स्वजनस्य तथात्मनः । । ३६
इति ते कथितं विप्र यत्पृष्टोऽहं त्वयोदितः ।
आदिदेवस्य माहात्म्यमादित्यस्य विवस्वतः । । ३७
विप्रैतदखिलं श्रुत्वा भानोर्माहात्म्यमुत्तमम् ।
पठंश्च मुच्यते पापैः सप्तरात्रकृतैर्नरः । । ३८
अरोगी धनवानाढ्यः कुले महति धीमताम् ।
जायते च महाप्राज्ञो यश्चैतद्धारयेद्बुधः । । ३९
( यजते च महायज्ञैः समाप्तवरदक्षिणः ।
श्रुत्वा चरितमेतद्धि समानं लभते फलम् । ।
मन्त्राश्च येऽत्राभिहिता भास्वतो मुनिसत्तम ।
जपः प्रत्येकमेतेषां त्रिसंध्यं पातकापहः । । 107.४०
समस्तमेतन्माहात्म्यं यत्र चायतने रवेः ।
पठ्यते तत्र भगवान्सान्निध्यं न विमुञ्चति । । ४१
तस्मादेतत्त्वया ब्रह्मन्भानोर्माहात्म्यमुत्तमम् ।
धार्यं मनसि जाप्यं च महत्पुण्यमभीप्सता । । ४२
सुवर्णशृङ्गीमतिशोभनाङ्गीं पयस्विनीं गां प्रददाति यो हि ।
शृणोति चैतत्त्र्यहमात्मवान्नरः समं तयोः पुण्यफलं द्विजाग्र्य । । ४३
इति श्रीमार्कण्डेयपुराणे भानोर्माहात्म्यवर्णनं नाम सप्ताधिकशततमोऽध्यायः । १०७ ।
अथाष्टाधिकशततमोऽध्यायः
वंशानुक्रमवर्णनम्
मार्कण्डेय उवाच
एवंप्रभावो भगवाननादिनिधनो रविः ।
यस्य त्वं क्रौष्टुके भक्त्या माहात्म्यं परिपृच्छसि । । १
परमात्मा स योगिनां युञ्जतां चेतसां लयम् ।
क्षेत्रज्ञः सांख्ययोगानां यज्ञेशो यज्विनामपि । । २
सूर्याधिकारं वहतो विष्णोरीशस्य वेधसः ।
मनुस्तस्याभवत्पुत्रश्छिन्नसर्वार्थसंशयः । । ३
मन्वन्तराधिपो विप्र यस्य सप्तममन्तरम् ।
इक्ष्वाकुर्नाभगो रिष्टो महाबलपराक्रमः । । ४
नरिष्यन्तोऽथ नाभागः पृषध्रो धृष्ट एव च ।
एते पुत्रा मनोस्तस्य पृथग्राज्यस्य पालकाः । । ५
विख्यातकीर्त्तयः सर्वे सर्वे शस्त्रास्त्रपारगाः ।
विशिष्टतरमन्विच्छन्मनुः पुत्रं तथा पुनः । । ६
मित्रावरुणयोरिष्टिं चकार कृतिनां वरः ।
यत्र चापहुते होतुरपचारान्महामुने । । ७
इला नाम समुत्पन्ना मनोः कन्या सुमध्यमा ।
तां दृष्ट्वा कन्यकां तत्र समुत्पन्नां ततो मनुः । । ८
तुष्टाव मित्रावरुणौ वाक्यं चेदमुवाच ह ।
भवत्प्रसादात्तनयो विशिष्टो मे भवेदिति । । ९
कृते मखे समुत्पन्ना तनया मम धीमतः ।
यदि प्रसन्नौ वरदौ तदियं तनया मम । । 108.१०
प्रसादाद्भवतो पुत्रो भवत्वतिगुणान्वितः ।
तथेति चाभ्यामुक्ते देवाभ्यां सैव कन्यका । । ११
इला समभवत्सद्यः  सुद्युम्न इति विश्रुतः ।
पुनश्चेश्वरकोपेन मृगयामटता वने । । १२
स्त्रीत्वमासादितं तेन मनुपुत्रेण धीमता ।
पुरूरवसनामानं चक्रवर्तिनमूर्जितम् । । १३
जनयामास तनयं यत्र सोमसुतो बुधः ।
जाते सुते पुनः कृत्वा सोऽश्वमेधं महाक्रतुम् । । १४
पुरुषत्वमनुप्राप्तः सुद्युम्नः पार्थिवोऽभवत् ।
सुद्युम्नस्य त्रयः पुत्रा उत्कलो विनयो गयः । । १५
पुरुषत्वे महावीर्या यज्विनः पृथुलौजसः ।
पुरुषत्वे तु ये जातास्तस्य राज्ञस्त्रयः सुताः । । १६
बुभुजुस्ते महीमेतां धर्मे नियतचेतसः ।
स्त्रीभूतस्य तु यो जातस्तस्य राज्ञः पुरूरवाः । । १७
न स लेभे महाभागं यतो बुधसुतो हि सः ।
ततो वसिष्ठवचनात्प्रतिष्ठानं पुरोत्तमम् । ।
तस्मै दत्तं स राजाभूत्तत्रातीव मनोहरे । । १८
इति श्रीमार्कण्डेयपुराणे वंशानुक्रमो नामाष्टाधिकशततमोऽध्यायः । १०८ ।
अथ नवाधिकशततमोऽध्यायः
पृषध्रोपाख्यानवर्णनम्
मार्कण्डेय उवाच
पृषध्राख्यो मनोः पुत्रो मृगयामगमद्वनम् ।
तत्र चंक्रममाणोऽसौ विपिने निर्जने वने । । १
नाससाद मृगं कञ्चिद्भानुदीधितितापितः ।
क्षुत्तृट्तापपरीताङ्गः इतश्चेतश्च चंक्रमन् । । २
स ददर्श तदा तत्र होमधेनुं मनोहराम् ।
लतान्तर्देहछिन्नार्धां ब्राह्मणस्याग्निहोत्रिणः । । ३
स मन्यमानो गवयमिषुणा तामताडयत् ।
पपात सापि तद्बाणविभिन्नहृदया भुवि । । ४
ततोऽग्निहोत्रिणः पुत्रो ब्रह्मचारी तपोरतिः ।
शप्तवान्स पितुर्दृष्ट्वा होमधेनुं निपातिताम् । । ५
गोपालः प्रेषितः पुत्रो बाभ्रव्यो नाम नामतः ।
कोपामर्षपराधीनचित्तवृत्तिस्ततो मुने । । ६
चुकोप विगलत्स्वेदजललोलाविलेक्षणः ।
तं क्रुद्धं प्रेक्ष्य स नृपः पृषध्रो मुनिदारकम् । । ७
प्रसीदेति जगौ कस्माच्छूद्रवत्कुरुषे रुषम् ।
न क्षत्रियो न वा वैश्य एवं क्रोधमुपैति वै । ।
यथा त्वं शूद्रवज्जातो विशिष्टे ब्रह्मणः कुले । । ८
मार्कण्डेय उवाच
इति निर्भत्सितस्तेन स राज्ञा मौलिनः सुतः ।
शशाप तं दुरात्मानं शूद्र एव भविष्यसि । । ९
प्रयास्यति क्षयं ब्रह्मन्यत्तेऽधीतं गुरोर्मुखात् ।
होमधेनुर्मम गुरोर्यदियं हिंसिता त्वया । । 109.१०
एवं शप्तो नृपः क्रुद्धस्तच्छापपरिपीडितः ।
प्रतिशापपरो विप्र तोयं जग्राह पाणिना । । ११
सोऽपि राज्ञो विनाशाय कोपं चक्रे द्विजोत्तमः ।
तमभ्येत्य त्वरायुक्तो वारयामास वै पिता । । १२
वत्सालमलमत्यर्थं कोपेनातीव वैरिणा ।
ऐहिकामुष्मिकहितः शम एव द्विजन्मनाम् । । १३
कोपस्तपो नाशयति क्रुद्धो भ्रश्यत्यथायुषः ।
क्रुद्धस्य गलते ज्ञानं क्रुद्धश्चार्थाच्च हीयते । । १४
न धर्मः क्रोधशीलस्य नार्थं चाप्नोति रोषणः ।
नालं सुखाय कामास्ति कोपेनाविष्टचेतसाम् । । १५
यदि राज्ञा हता धेनुरियं विज्ञानिना सता ।
युक्तमत्र दयां कर्तुमात्मनो हितबोधिना । । १६
अथवाऽजानता धेनुरियं व्यापादिता मम ।
तत्कथं शापयोग्योऽयं दुष्टं नास्य मनो यतः । । १७
आत्मनो हितमन्विच्छन्बाधते योऽपरं नरः ।
कर्तव्या मूढविज्ञाने दया तत्र दयालुभिः । । १८
अज्ञानतः कृते दण्डं पातयन्ति बुधा यदि ।
बुधेभ्यस्तमहं मन्ये वरमज्ञानिनो नराः । । १९
नाद्य शापस्त्वया देयः पार्थिवस्यास्य पुत्रक ।
स्वकर्मणैव पतिता गौरेषा दुःखमृत्युना । । 109.२०
मार्कण्डेय उवाच
पृषध्रोऽपि मुनेः पुत्रं प्रणम्यानम्रकन्धरः ।
प्रसीदेति जगादोच्चैरज्ञानाद्घातितेति च ।।२ १
मया गवयबुद्ध्या गौरवध्या घातिता मुने ।
अज्ञानाद्धोमधेनुस्ते प्रसीद त्वं च नो मुने ।।२२
ऋषिपुत्र उवाच
आजन्मनो महीपाल न मया व्याहतं मृषा ।
क्रोधश्चाद्य महाभाग नान्यथा मे कदाचन ।।२३
तन्नाहमेनं शक्नोमि शापं कर्तुं नृपान्न्यथा ।
यस्ते समुद्यतः शापो द्वितीयः स निवर्तितः ।।२४
इत्युक्तवन्तं तं बालमादाय स पिता ततः ।
जगाम स्वाश्रमं सोऽपि पृषध्रः शूद्रतामगात् ।।२५
इति श्रीमार्कण्डेयपुराणे वंशानुचरिते पृषध्रोपाख्याने नवाधिकशततमोऽध्यायः । १ ०९।
अथ दशाधिकशततमोऽध्यायः
नाभागाख्यानवर्णनम्
मार्कण्डेय उवाच
कारुषाः क्षत्रियाः शूराः करुषस्याभवन्सुताः ।
ते तु सप्तशतं वीरास्तेभ्यश्चान्ये सहस्रशः ।। १
दिष्टपुत्रस्तु नाभागः स्थितः प्रथमयौवने ।
ददर्श वैश्यतनयामतीव सुमनोहराम् ।।२
तस्यां संदृष्टमात्रायां मदनाक्षिप्तमानसः ।
बभूव भूपतनयो निःश्वासाक्षेपतत्परः ।।३
तस्याः स गत्वा जनकं वव्रे तां वैश्यकन्यकाम् ।
ततोऽनङ्गपराधीनमनोवृत्तिं नृपात्मजम् । । ४
तं चाह स पिता तस्या राजपुत्रं कृताञ्जलिः ।
बिभ्यत्तस्य पितुर्विप्र प्रश्रयावनतं वचः । । ५
भवन्तो भूभुजो भृत्या वयं वः करदायकाः ।
कथं सम्बन्धमसमैरस्माभिरभिवाच्छसि । । ६
राजपुत्र उवाच
साम्यं मानुषदेहस्य काममोहादिभिः कृतम् ।
तथापि काले तैरेव योज्यते मानुषं वपुः । । ७
तथैव चोपकाराय जायन्ते तस्य तान्यपि ।
अन्यानि चान्ये जीवन्ति भिन्नजातिमतां सताम् । । ८
तथान्यान्यप्ययोग्यानि योग्यतां यान्ति कालतः ।
योग्यान्ययोग्यतां यान्ति कालवश्या हि योग्यता । । ९
आप्याय्यते यच्छरीरमाहारादिभिरीप्सितैः ।
कालं ज्ञात्वा तथा भुक्तं तदेव परिशिष्यते । । 110.१०
इत्थं ममैषाभिमता तनया दीयतां त्वया ।
अन्यथा मच्छरीरस्य विपत्तिरुपलक्ष्यते । । ११
वैश्य उवाच
परतन्त्रा वयं त्वं च परतन्त्रो महीभुजः ।
पित्रा तेनाभ्यनुज्ञातस्त्वं गृहाण ददाम्यहम् । । १२
राजपुत्र उवाच
प्रष्टव्या सर्वकार्येषु गुरवो गुरुवर्तिभिः ।
न त्वीदृशेष्वकार्येषु गुरूणां वाक्यगोचरः । । १३
क्व मन्मथ कथालापो गुरूणां श्रवणं क्व च  ।
विरुद्धमेतदन्यत्र प्रष्टव्या गुरवो नृभिः । । १४
वैश्य उवाच
एवमेतत्स्मरालापस्तवायं पृच्छ मा गुरुम् ।
अहं पृच्छामि नालापो मम कामकथाश्रयः । । १५
मार्कण्डेय उवाच
इत्युक्तः सोऽभवन्मौनी राजपुत्रः स चापि तत् ।
तत्पित्रे सर्वमाचष्ट राजपुत्रस्य यन्मतम् । । १६
ततस्तस्य पिता विप्रानृचीकादीन्द्विजोत्तमान् ।
प्रवेश्य राजपुत्रं च यथाख्यानं न्यवेदयत् । । १७
निवेद्य च ततः प्राह मुनीनेवं व्यवस्थिते ।
यत्कर्तव्यं तदादेष्टुमर्हन्ति द्विजसत्तमाः । । १८
ऋषयः ऊचु
राजपुत्रानुरागस्ते यद्यस्यां वैश्यसन्ततौ ।
तदस्तु धर्म एवैष किं तु न्यायक्रमेण सः । । १९
मूर्धाभिषिक्ततनयापाणिग्राहोत्सवः पुरा ।
भवत्वनन्तरं चेयं तव भार्या भविष्यति । । 110.२०
एवं न दोषो भवति तथेमामुपभुञ्जतः ।
अन्यथाऽभ्येति ते जातिरुत्कृष्टा बालकानयात् । । २१
मार्कण्डेय उवाच
इत्युक्तस्तदपास्येव वचस्तेषां महात्मनाम् ।
विनिष्क्रम्य गृहीत्वा तामुद्यतासिरथाब्रवीत् । । २२
राक्षसेन विवाहेन मया वैश्यसुता हृता ।
यस्य सामर्थ्यमत्रास्ति स एतां मोचयत्विति । । २३
ततः स वैश्यस्तां दृष्ट्वा गृहीतां तनयां द्रुतम् ।
त्राहीति पितरं तस्य प्रययौ शरणं द्विज । । २४
ततस्तस्य पिता क्रुद्ध आदिदेश बलं महत् ।
हन्यतां हन्यतां दुष्टो नाभागो धर्मदूषकः । । २५
ततस्तद्युयुधे सैन्यं तेन भूभृत्सुतेन वै ।
कृतास्त्रेण तदास्त्रेण तत्प्राचुर्येण पातितम् । । २६
स श्रुत्वा निहतं सैन्यं राजपुत्रेण भूपतिः ।
स्वयमेव ययौ योद्धुं स्वसैन्यपरिवारितः । । २७
ततो युद्धमभूत्तस्य भूभुजः स्वसुतेन यत् ।
राजपुत्रेण शस्त्रास्त्रैस्तत्रातिशयितः पिता । । २८
ततोऽन्तरिक्षादागत्य परिव्राट् सहसा मुनिः ।
प्रत्युवाच महीपालं विरमस्वेति संयुगात् । । २९
त्वत्पुत्रस्य महाभाग विधर्मोऽयं महात्मनः ।
तवापि वैश्येन सह न युद्धं धर्मवन्नृप । । 110.३०
ब्राह्मण्या ब्राह्मणः पूर्वं कुर्वन्दारपरिग्रहम् ।
ब्राह्मण्यात्सर्ववर्णेषु न हानिमुपगच्छति । । ३१
तथैव क्षत्रियसुतां क्षत्रियः पूर्वमुद्वहन् ।
इतरे च ततो राजंश्च्यवते न स्वधर्मतः । । ३२
पूर्वं वैश्यस्तथा वैश्यां पश्चाच्छूद्रकुलोद्भवाम् ।
न हीयते वैश्यकुलादयं न्यायः क्रमोदितः । । ३३
ब्राह्मणः क्षत्रिया वैश्याः सवर्णापाणिसंग्रहम् ।
अकृत्वाऽन्यभवापाणेः पतन्ति नृप संग्रहात् । । ३४
यस्या यस्या हि हीनाया कुरुते पाणिसंग्रहम् ।
अकृत्वा वर्णसयोगं सोऽपि तद्वर्णभाग्भवेत् । । ३५
सोऽयं वैश्यत्वमापन्नस्तव पुत्रः सुमन्दधीः ।
नास्याधिकारो युद्धाय क्षत्रियेण त्वया सह । । ३६
वयमेतन्न जानीमः कारणं नृपनन्दन ।
यथा भविष्यतीदं च निवर्त्त रणकर्मतः । । ३७
इति श्रीमार्कण्डेयपुराणे वंशानुचरिते नाभागाख्यानं नाम दशाधिकशततमोऽध्यायः । ११० ।
अथैकादशाधिकशततमोऽध्यायः
नाभागचरितवर्णनम्
मार्कण्डेय उवाच
निवृत्तोऽसौ ततो भूपः संग्रामात्स्वसुतेन वै ।
उपयेमे च तां वैश्यतनयां सोऽपि तत्सुतः । । १
ततः स वैश्यतां प्राप्तः समुपेत्याह पार्थिवम् ।
भूपाल यन्मया कार्यं तत्ममादिश्यतां मम । । २
राजोवाच
धर्माधिकरणे युक्ता बाभ्रव्याद्यास्तपस्विनः ।
यदस्य कर्मधर्माय तद्वदन्तु तथाचर । । ३
मार्कण्डेय उवाच
ततस्ते मुनयस्तस्य पाशुपाल्यं तथा कृषिम् ।
वाणिज्यं च परं धर्ममाचचख्युः सभासदः । । ४
तथैव चक्रे स सुतस्तस्य राज्ञो यथोदितम् ।
तैर्धर्मवादिभिर्धर्मं च्युतस्य निजधर्मतः । । ५
तस्य पुत्रस्ततो जातो नाम्ना ख्यातो भलन्दनः ।
स मात्रा प्रहितो गच्छद्गोपालो भव पुत्रक । । ६
मात्रा तथा नियुक्तोऽथ प्रणिपत्य स्वमातरम् ।
राजर्षिमगमन्नीपं हिमवत्पर्वताश्रयम् । । ७
तं समेत्य च जग्राह तस्य पादौ यथाविधि ।
प्रणिपत्याह चैवैनं राजर्षिं स भलन्दनः । । ८
आदिष्टो भगवन्मात्रा गोपालस्त्वं भवेति वै ।
मया च पालनीया क्ष्मा तस्याः स्वीकरणं कथम् । । ९
मया हि गौः पालनीया सा यदा स्वीकृता भवेत् ।
आक्रान्ता बलवद्भिः सा दायादैः पृथिवी मम । । 111.१०
तां यथा प्राप्नुयां पृथ्वीं त्वत्प्रसादादहं विभो ।
तथादिश करिष्यामि तवाज्ञां प्रणतोऽस्मि ते । । ११
मार्कण्डेय उवाच
ततः स नीपो राजर्षिस्तस्मै निरवशेषतः ।
भलन्दाय ददौ ब्रह्मन्नस्त्रग्रामं महात्मने । । १२
प्राप्तास्त्रविद्यः स ययौ पितृव्यतनयान्द्विज ।
वसुरातादिकान्पुत्रानादिष्टः स महात्मना । । १३
अयाचत स राज्यार्धं पितृपैतामहोचितम् ।
ते चोचुर्वैश्यपुत्रस्त्वं कथं भोक्ष्यसि मेदिनीम् । । १४
ततस्तैर्युद्धमभवद्भलन्दस्यात्मवंशजैः ।
वसुरातादिभिः क्रुद्धैः कृतास्त्रस्यास्त्रवर्षिभिः । । १५
स जित्वा तानशेषांस्तु शस्त्रविक्षतसैनिकान् ।
जहार पृथिवी तेषां धर्मयुद्धेन धर्मवित् । । १६
स निर्जितारिः सकलां पृथ्वीं राज्यं तथा पितुः ।
निवेदयामास ततस्तत्पिता जगृहे न च । ।
प्रत्युवाच स तं पुत्रं भार्यायाः पुरतस्तदा । । १७
नाभाग उवाच
भलन्द राज्यमेतत्ते क्रियतां पूर्वजैः कृतम् । । १८
अहं न कृतवान्राज्यं नासामर्थ्ययुतः पुरा ।
वैश्यतां तु पुरस्कृत्य तथैवाज्ञाकरः पितुः । । १९
कृत्वाऽप्रीतिं पितुरहं वैश्यकन्यापरिग्रहात् ।
न पुण्यलोकभाग्राजा यावदाभूतसम्प्लवम् । । 111.२०
उल्लंघ्याज्ञां पुनस्तस्य पालयामि महीं यदि ।
नास्ति मोक्षस्ततो नूनं मम कल्पशतैरपि । । २१
न चापि युक्तं त्वद्बाहुनिर्जितं मम मानिनः ।
राज्यं भोक्तुमनीहस्य दुर्बलस्येव कस्यचित् । । २२
राज्यं कुरु स्वयं पुत्र दायादेभ्यो विमुञ्च वा ।
ममाज्ञापालनं शस्तं पितुर्न क्षितिपालनम् । । २३
मार्कण्डेय उवाच
ततः प्रहस्य तद्भार्या सुप्रभा नाम भामिनी ।
प्रत्युवाच पतिं भूप गृह्यतां राज्यमूर्जितम् । । २४
न त्वं वैश्यो न चैवाहं जाता वैश्यकुले नृप ।
क्षत्रियस्त्वं तथैवाहं क्षत्रियाणां कुलोद्भवा । । २५
पूर्वमासीन्महीपालः सुदेव इति विश्रुतः ।
तस्याभूच्च सखा राज्ञो धूम्राश्वस्य सुतो नलः । । २६
स तेन सख्या सहितो जगामाम्रवनं वनम् ।
पत्नीभिः स समं रन्तुं माधवे मासि पार्थिव । । २७
ततः पानान्यनेकानि भक्ष्याणि बुभुजे तदा ।
भार्याभिः सहितस्ताभिस्तेन सख्या समन्वितः । । २८
ततः पुष्करिणीतीरे ददर्शातिमनोरमाम् ।
पत्नीं च्यवनपुत्रस्य प्रमतेः पार्थिवात्मजाम् । । २९
सखा तस्य नलो मत्तो जगृहे तां च दुर्मतिः ।
पश्यतस्तस्य राज्ञश्च त्रातत्रातेति वादिनीम् । । 111.३०
आक्रन्दितं निशम्यैव स तस्याः प्रमतिः पतिः ।
आजगाम त्वरायुक्तः किमेतदिति वै वदन् । । ३१
ततो ददर्श राजानं सुदेवं तत्र संस्थितम् ।
गृहीतां च तथा पत्नीं नलेन सुदुरात्मना । । ३२
ततः सुदेवं प्रमतिः प्राहायं शास्यतामिति ।
त्वं च शास्ता भवद्राज्ये दुष्टश्चायं नलो नृप । । ३३
मार्कण्डेय उवाच
तस्यार्तस्य वचः श्रुत्वा सुदेवो नलगौरवात् ।
प्राह वैश्योऽस्मि गच्छान्यं क्षत्रियं त्राणकारणात् । । ३४
ततः स प्रमतिः क्रुद्धस्तेजसा निर्दहन्निव ।
प्रत्युवाचाथ राजानं वैश्योऽस्मीत्यभिभाषिणम् । । ३५
प्रमतिरुवाच
एवमस्तु भवान्वैश्यः क्षत्रियः क्षतरक्षणात् ।
क्षत्रियैर्धार्यते शस्त्रं नार्त्तशब्दो भवेदिति । ।
स त्वं न क्षत्रियो भावी वैश्य एव कुलाधमः । । ३६
इति श्रीमार्कण्डेयपुराणे नाभागचरिते एकादशाधिकशततमोऽध्यायः । १११ ।
अथ द्वादशाधिकशततमोऽध्यायः
मार्कण्डेय उवाच
तस्मै दत्त्वा ततः शापं नलं क्रुद्धोऽब्रवीद्द्विज ।
प्रमतिर्भार्गवः कोपात्त्रैलोक्यं निर्दहन्निव । । १
मदोन्मत्तो यतो भार्यां भवानत्र ममाश्रमे ।
बलाद्गृह्णाति भस्मत्वं तस्माद्व्रजतु मा चिरम् । । २
तेनोदाहृतमात्रे च वाक्ये तस्मिंस्तदा नलः ।
देहजेनाग्निना सद्यो भस्मपुञ्जस्तदाऽभवत् । । ३
दृष्ट्वा प्रभावं तं तस्य सुदेवो विमदस्ततः ।
प्रणामनम्रः प्राहेदं क्षम्यतां क्षम्यतामिति । । ४
यदुक्तवांस्त्वां भगवन्सुरापानमदाकुलम् ।
तत्क्षम्यतां प्रसीद त्वं शापोऽयं विनिवर्त्यताम् । । ५
एवं प्रसादितस्तेन प्रमतिः प्राह भार्गवः ।
गतकोपो नले दग्धे नावनीतेन चेतसा । । ६
नान्यथा भावि तद्वाक्यं यन्मया समुदीरितम् ।
तथापि ते करिष्यामि प्रसन्नोऽनुग्रहं परम् । । ७
भविता वैश्यजातीयो भवान्नास्त्यत्र संशयः ।
भविता क्षत्रियो वैश्यस्तस्मिन्नेवाशु जन्मनि । । ८
ग्रहीष्यति बलात्कन्यां यदा ते क्षत्रसम्भवः ।
तदा त्वं क्षत्रियो वैश्यः स्वगृहीतो भविष्यसि । । ९
एवं स वैश्यो भूपाल सुदेवोऽस्मत्पिताभवत् ।
अहं च या महाभाग तत्सर्वं श्रूयतां त्वया । । 112.१०
सुरतो नाम राजर्षिः प्रागासीद्गन्धमादने ।
तपस्वी नियताहारस्त्यक्तसङ्गो वनाश्रयः । । ११
ततः श्येनमुखभ्रष्टां दृष्ट्वैकां शारिकां भुवि ।
कृपाऽभूज्जनिता मूर्च्छा तथा तस्य महात्मनः । । १२
ततो मूर्च्छावसानेऽहं तस्योत्पन्ना शरीरतः ।
स मां दृष्ट्वा च जग्राह स्निह्यमानेन चेतसा । । १३
यस्मात्कृपाभिभूतस्य मम जातेयमात्मजा ।
तस्मात्कृपावती नाम्ना भविष्यत्याह स प्रभो । । १४
ततोऽहमाश्रमे तस्य वर्धमाना दिवानिशम् ।
सखीभिः सह तुल्याभिर्विचरामि वनानि च । । १५
ततो मुनेरगस्त्यस्य भ्रातागस्त्य इति श्रुतः ।
स चिन्वन्कानने वन्यं सखीभिः कोपितोऽशपत् । । १६
यस्मान्मां वैश्य इत्याह भवती तेन ते शपे ।
वैश्या भविष्यसीत्युक्ते प्रसाद्योक्तो मया मुनिः । ।
नापराधं कृतवती तवाहं द्विजसत्तम ।
अन्यासामपराधेन किमर्थं शप्तवानसि । । १७
ऋषिरुवाच
दुष्टतां दुष्टसंसर्गाददुष्टमपि गच्छति ।
सुराबिन्दुनिपातेन पञ्चगव्यघटो यथा । । १८
प्रणिपत्य ह्यनिष्टोऽपि यत्त्वयाहं प्रसादितः ।
तस्मादनुग्रहं बाले शृणुष्व च करोम्यहम् । । १९
वैश्ययोनौ यदा जाता त्वं पुत्रं बोधयिष्यसि ।
राज्याय जातिस्मरतां तदा त्वं समवाप्स्यसि । । 112.२०
ततो भूयः क्षत्रजातिं प्राप्ता त्वं पतिना सह ।
दिव्यानवाप्स्यसे भोगान्गच्छ भीतिरपैतु ते । । २१
एवं शप्तास्मि राजेन्द्र तेन पूर्वं महर्षिणा ।
पिता च मे पूर्वमेवं शप्तः प्रमतिनाऽभवत् । । २२
एवं वैश्यो न राजंस्त्वं न च वैश्यः पिता मम ।
न त्वं हि मय्यदुष्टायामदुष्टो दुष्यसे कथम् । । २३
इति श्रीमार्कण्डेयपुराणे द्वादशाधिकशततमोऽध्यायः । ११२ ।
अथ त्रयोदशाधिकशततमोऽध्यायः
भलन्दनवत्सप्रीचरितवर्णनम्
मार्कण्डेय उवाच
इति तस्या वचः श्रुत्वा पुत्रस्य स च पार्थिवः ।
पुनः प्रोवाच धर्मज्ञस्तां पत्नीं तनयं तथा । । १
यन्मया पितुरादेशात्त्यक्तं राज्यं न तत्पुनः ।
ग्रहीष्यामि वृथोक्तेन किमात्मा क्लिश्यते त्वया । । २
अहं ते सम्प्रदास्यामि करं वैश्यव्रते स्थितः ।
भुङ्क्ष्व राज्यमशेषं त्वमिच्छया वा परित्यज । । ३
इत्युक्तः स तदा पित्रा राजपुत्रो भलनन्दनः ।
चकार राज्यं धर्मेण तद्वद्दारपरिग्रहम् । । ४
अव्याहतं तस्य चक्रं पृथिव्यामभवद्द्विज ।
न चाधर्मे मनो भूपास्तस्य सर्वेऽभवन्वशे ।। ५
तेनेष्टो विधिवद्यज्ञः सम्यक्शास्ति वसुन्धराम् ।
स एवैकोऽभवद्भर्त्ता पृथिव्यामरिशासनः । । ६
अजायत सुतस्तस्य वत्सप्रीरिति नामतः ।
पितातिशयितो येन गुणौघेन महात्मना । । ७
तस्यापि भार्या सौनन्दा विदूरथसुताऽभवत् ।
पतिव्रता महाभागा सा प्राप्ता तेन शौर्यतः । ।
हत्वा पुरन्दररिपुं कुजंभं दितिजेश्वरम् । । ८
क्रौष्टुकिरुवाच
भगवंस्तेन सम्प्राप्ता कुजृंभनिधनात्कथम् ।
एतदाख्यानमाख्याहि प्रसन्नेनान्तरात्मना । । ९
मार्कण्डेय उवाच
विदूरथोनाम नृपः ख्यातकीर्तिरभूद्भुवि ।
तस्य पुत्रद्वयं जातं सुनीतिः सुमतिस्तथा । । 113.१०
एकदा तु वनं यातो मृगयां स विदूरथः ।
ददर्श गर्तं सुमहद्भूमेर्मुखमिवोद्गतम् । । ११
तं दृष्ट्वा चिन्तयामास किमेतदिति भैरवम् ।
पातालविवरं मन्ये नैतद्मूमेश्चिरन्तनम् । । १२
चिन्तयन्निति तत्रासौ ददर्श विजने वने ।
ब्राह्मणं सुव्रतं नाम तपस्विनमुपागतम् । । १३
स तं पप्रच्छ च नृपः किमेतदिति विस्मितः ।
अतिगम्भीरमवनेर्दर्शितान्तर्गतोदरम् । । १४
ऋषिरुवाच
किन्न वेत्सि महीपाल वागर्थस्त्वं हि मे मतः ।
ज्ञेयं सर्वं नरेन्द्रेण वर्तते यन्महीतले । । १५
दानवः सुमहावीर्यो वसत्युग्रो रसातले ।
स जृम्भयति यत्पृथ्वीं कुजृम्भः प्रोच्यते ततः । । १६
क्रियते तेन यत्किञ्चिद्रत्नभूतं महीतले ।
त्रिदिवे वा नरपते तं कथं वेत्ति नो भवान् । । १७
सुनन्दं नाम मुशलं त्वष्ट्रा यन्निर्मितं पुरा ।
तज्जहार स दुष्टात्मा तेन हन्ति रणे रिपून् । । १८
पातालान्तर्गतस्तेन भिनत्ति वसुधामिमाम् ।
ततोऽसुराणां सर्वेषां द्वाराणि कुरुतेऽसुरः । । १९
तेन भिन्नात्र वसुधा सुनन्दमुशलेन तु ।
भोक्ष्यते वसुधामेतां तमजित्वा कथं भवान् । । 113.२०
यज्ञान्विध्वंसयत्युग्रो देवानामुपरोधकः ।
आप्याययति दैतेयान्स बली मुशलायुधः । । २१
यद्यरिं घातयस्येनं पातालान्तरगोचरम् ।
ततः समस्तवसुधापतिस्त्वं परमेश्वरः । । २२
मुशलं तस्य बलिनः सौनन्दं प्रोच्यते जनैः ।
तथा बलाबलं चैव तं वदन्ति विचक्षणाः । । २३
तत्तु निर्वीर्यतां याति संस्पृष्टं योषिता नृप ।
तस्मिन्दिने द्वितीयेऽह्नि वीर्यवत्तदुदीर्यते । । २४
न स वेत्ति दुराचारः प्रभावं मुशलस्य तम् ।
योषित्कराग्रसंस्पर्शे दोषं वीर्यविशातनम् । । २५
एवं तस्य बलं भूप दानवस्य दुरात्मनः ।
मुशलस्य च ते प्रोक्तं यद्युक्तं तत्समाचर । । २६
आसन्नमेतद्भवतः पुरस्य पृथिवीपते ।
कृतं तेन महारन्ध्रं निश्चिन्तः किं भवान्वृथा । । २७
इत्युक्त्वा तु गते तस्मिन्पुरं गत्वा महीपतिः ।
मन्त्रयामास मन्त्रज्ञैः पुरमध्ये तु मन्त्रिभिः । । २८
यथाश्रुतमशेषं तत्कथयामास मन्त्रिणाम् ।
मुशलस्य प्रभावं च वीर्यशातनमेव च । । २९
तं मन्त्रं क्रियमाणं तु मन्त्रिभिस्तेन भूभृता ।
तत्पार्श्ववर्तिनी कन्या शुश्रावाथ मुदावती । । 113.३०
ततः कतिपयाहे तु तां कन्यां वयसान्विताम् ।
जहारोपवनाद्दैत्यः कुजृम्भः स सखीवृताम् । । ३१
तच्छ्रुत्वा स महीपालः क्रोधपर्याकुलेक्षणः ।
पुत्रावुवाच त्वरितं गच्छतं वनकोविदौ । । ३२
निर्विन्ध्यायास्तटे गर्तस्तेन गत्वा रसातलम् ।
स हन्यतां योऽपहर्ता मुदावत्याः सुदुर्मतिः । । ३३
मार्कण्डेय उवाच
ततस्तौ तत्सुतौ प्राप्य तं गर्त्तं तत्पदानुगौ ।
युयुधाते कुजृम्भेण स्वसैन्येनातिकोपितौ । । ३४
ततः परिघनिस्त्रिंशशक्तिशूलपरश्वधैः ।
बाणैश्चाविरतं युद्धं तेषामासीत्सुदारुणम् । । ३५
ततो मायाबलवता तेन दैत्येन तावुभौ ।
राजपुत्रौ रणे बद्धौ निहताशेषसैनिकौ । । ३६
तच्छ्रुत्वा स महीपालः प्राहेदं सर्वसैनिकान् ।
बद्धपुत्रः परामार्तिमुपेतो मुनिसत्तम । । ३७
यस्तं निहत्य दैतेयं मोचयिष्यति मे सुताम् ।
तस्याहं सम्प्रदास्यामि तामेवायतलोचनाम् । । ३८
इत्येवं घोषयांचक्रे स राजा स्वपुरे तदा ।
निराशः पुत्रतनयाबन्धमोक्षाय वै मुने । । ३९
ततः शुश्राव <a =" " =" हि तत् ।
आघोष्यमाणं बलवान्कृतास्त्रः शौर्यसंयुतः । । 113.४०
स चागम्याभिवाद्यैनं प्राह पार्थिवसत्तमम् ।
विनयावनतो भूत्वा पितुर्मित्रमनुत्तमम् । । ४१
आज्ञापयाशु मामेव तनयौ मोचयामि ते ।
तवैव तेजसा हत्वा तं दैत्यं तनयां च ते । । ४२
मार्कण्डेय उवाच
स तं मुदा परिष्वज्य प्रियसख्युरथात्मजम् ।
गम्यतामिति संसिद्ध्यै वत्सेत्याह स पार्थिवः । । ४३
स्थाने स्थास्यति मे वत्सो यद्येवं कुरुते विधिम् ।
वत्सैतत्क्रियतामाशु यद्युत्साहि मनस्तव । । ४४
मार्कण्डेय उवाच
ततः सखड्गः सधनुर्बद्धगोधाङ्गुलित्रवान् ।
जगाम वीर पातालं तेन गर्तेन सत्वरः । । ४५
ततो ज्यास्वनमत्युग्रं स चक्रे पार्थिवात्मजः ।
येन पातालमखिलमासीदापूरितान्तरम् । । ४६
ततो ज्यास्वनमाकर्ण्य कुजृम्भो दानवेश्वरः ।
आजगामातिकोपेन स्वसैन्यपरिवारितः । । ४७
ततो युद्धमभूत्तस्य तेन पार्थिवसूनुना ।
ससैन्यस्य ससैन्येन बलिनो बलशालिना । । ४८
दिनानि त्रीणि स यदा योधितस्तेन दानवः ।
ततः कोपपरीतात्मा मुसलायाभ्यधावत । । ४९
गन्धैर्माल्यैस्तथा धूपैः पूज्यमानः स तिष्ठति ।
अन्तःपुरे महाभाग प्रजापतिविनिर्मितः । । 113.५०
ततो विज्ञातमुशलप्रभावा सा मुदावती ।
पस्पर्श मुशलश्रेष्ठमतिनम्रशिरोधरा । । ५१
पुनर्यावत्स गृह्णाति मुशलं तं महासुरः ।
तावत्सा वन्दनव्याजात्पस्पर्शानेकशः शुभा । । ५२
ततः स गत्वा युयुधे मुसलेनासुरेश्वरः ।
व्यर्था मुशलपातास्ते संजग्मुस्तेषु शत्रुषु । । ५३
परमास्त्रे तु निर्वीर्ये सौनन्दे मुशले मुने ।
अस्त्रैः शस्त्रैश्च दैतेयः सोऽयुध्यत रणेऽरिणा । । ५४
शस्त्रास्त्रैर्नः समस्तस्य राजपुत्रस्य सोऽसुरः ।
मुशलेन बलं तस्य तच्च तन्व्या निराकृतम् । । ५५
ततः पराजित्य स भूपसूनुरस्त्राणि शस्त्राणि च दानवस्य ।
चकार सद्यो विरथं ततश्च सचर्मखड्गः पुनरप्यधावत् । । ५६
तमापतन्तं रभसाऽभ्युदीर्णं विस्पष्टकोपं त्रिदशेन्द्रशत्रुम् ।
शस्त्रेण वह्नेर्भुवि राजपुत्रौ जघान कालानलसप्रभेण । । ५७
स पावकास्त्रेण हृदि क्षतो भृशं तत्याज देहं त्रिदशारिरात्मनः ।
बभूव सद्यश्च महोरगाणां रसातलान्तेषु महानथोत्सवः । । ५८
ततोऽपतत्पुष्पवृष्टिर्महीपालसुतोपरि ।
जगुर्गन्धर्वपतयो देववाद्यानि सस्वनुः । । ५९
स चापि राजपुत्रस्तं हत्वा तौ नृपतेः सुतौ ।
मोचयामास तन्वङ्गी तां च कन्यां मुदावतीम् । । 113.६०
तच्चापि मुसलं तस्मिन्कुजृम्भे विनिपातिते ।
जग्राह नागाधिपतिरनन्तः शेषसंज्ञितः । । ६१
तस्याश्च परितुष्टोऽसौ शेषः सर्वोरगेश्वरः ।
मुदावत्या मुदाध्यातमनोवृत्तिस्तपोधनः । । ६२
सुनन्दमुसलस्पर्शं यच्चकार पुनः पुनः ।
योषित्करतलस्पर्शप्रभावज्ञातिशोभना । । ६३
मुदावत्यास्ततो नाम नागराजस्तदाकरोत् ।
सुनन्दामिति सानन्दं सौनन्दगुणजं द्विज । । ६४
स चापि राजपुत्रस्तां भ्रातृभ्यां सहितां पितुः ।
समीपमानिनायाशु प्रणिपत्याह चैव तम् । । ६५
आनीतौ तनयौ तात तथैवेयं मुदावती ।
तवाज्ञया मयान्यद्यत्कर्तव्यं तत्समादिश । । ६६
मार्कण्डेय उवाच
ततः प्रहर्षसम्पूर्णहृदयः स महीपतिः ।
साधुसाध्वित्यथाहोच्चैर्वत्स वत्सेति शोभनम् । । ६७
सभाजितोऽस्मि त्रिदशैर्वत्साहं कारणैस्त्रिभिः ।
त्वं जामाता च यत्प्राप्तो यच्चारिर्विनिपातितः । । ६८
आगतान्यक्षतान्यत्र यच्चापत्यानि मे पुनः ।
तद्गृहाणाद्य शस्तेऽह्नि पाणिमस्या मयोदितम् । । ६९
त्वं राजपुत्र चार्वङ्ग्याः कन्याया दुहितुर्मम ।
मुदावत्या मुदा युक्तः सत्यवाक्यं कुरुष्व माम् । । 113.७०
राजपुत्र उवाच
तातस्याज्ञा मया कार्या यद्ब्रवीषि करोमि तत् ।
त्वमेव तात जानीषे नैवात्राधिकृता वयम् । । ७१
मार्कण्डेय उवाच
ततस्तयोः स राजेन्द्रश्चक्रे वैवाहिकं क्रमम् ।
मुदावत्याश्च दुहितुर्भलन्दनसुतस्य वै । । ७२
ततः स तया रेमे वत्सप्रीर्नवयौवनः ।
रमणीयेषु देशेषु प्रासादशिखरेषु च । । ७३
कालेन गच्छता वृद्धः पिता तस्य भलन्दनः ।
वनं जगाम वत्सप्रीः स बभूव महीपतिः । । ७४
इयाज यज्ञान्सततं प्रजा धर्मेण पालयन् ।
पुत्रवत्पाल्यमानास्तु प्रजास्तेन महात्मना । । ७५
ववृधुर्विषये तस्य न चाभूद्वर्णसङ्करः ।
न दस्युव्यालदुर्वृत्तभयमासीच्च कस्यचित् । ।
नोपसर्गभयं चैव तस्मिञ्छासति भूपतौ । । ७६
इति श्रीमार्कण्डेयपुराणे भलन्दनवत्सप्रीचरितं नाम त्रयोदशाधिकशततमोऽध्यायः । ११३ ।
अथ चतुर्दशाधिकशततमोऽध्यायः
खनित्रचरित्रवर्णनम्
मार्कण्डेय उवाच
तस्य तस्यां सुनन्दायां पुत्रा द्वादश जज्ञिरे ।
प्रांशुः प्रवीरः शूरश्च सुचक्रो विक्रमः क्रमः । । १
बली बलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः ।
सुनयश्च महाभागाः सर्वे संग्रामजित्तमाः । । २
तेषां ज्येष्ठो महावीर्यः प्रांशुरासीन्नराधिपः ।
इतरे भृत्यवत्तस्य बभूवुर्वशवर्त्तिनः । । ३
तस्य यज्ञे द्विजत्यक्तैरनेकैर्द्रव्यराशिभिः ।
न्यूनवर्णविसृष्टैश्च सत्यनामा वसुन्धरा । । ४
सम्यक्पालयतस्तस्य प्रजाः पुत्रानिवौरसान् ।
योऽभूद्धनचयः कोशे तेन निष्पादितास्तु ये । । ५
क्रतवः शतं सहस्रास्ते तेषां संख्या न विद्यते ।
अयुताद्येन कोटीभिर्न च पद्मादिभिर्मुने । । ६
प्रजातिस्तस्य षुत्रोऽभूद्यस्य यज्ञे शतक्रतुः ।
अवाप्य तृप्तिमतुलां यज्ञभागैः सुरैः सह । । ७
दानवानां सुवीर्याणां जघान नवतीर्नव ।
बलं च बलिनां श्रेष्ठो जम्भं चासुरसत्तमम् । । ८
अन्यांश्च सुमहावीर्यानाजघानामरद्विषः ।
प्रजातेस्तनयाः पञ्च खनित्रप्रमुखा मुने । । ९
तेषां खनित्रो राजाभूत्प्रख्यातो निजविक्रमैः ।
स शान्तः सत्यवाक्छूरः सर्वप्राणिहिते रतः । । 114.१०
स्वधर्माभिरतो नित्यं वृद्धसेवी बहुश्रुतः ।
वाग्मी विनयसम्पन्नः कृतास्त्रोऽप्यविकत्थनः । । ११
सर्वलोकप्रियो नित्यमुवाचैतदहर्निशम् ।
नन्दन्तु सर्वभूतानि स्निह्यन्तु विजनेष्वपि । । १२
स्वस्त्यस्तु सर्वभूतेषु निरातङ्कानि सन्तु च ।
मा व्याधिरस्तु भूतानामाधयो न भवन्तु च । । १३
मैत्रीमशेषभूतानि पुष्यन्तु सकले जने ।
शिवमस्तु द्विजातीनां प्रीतिरस्तु परस्परम् । । १४
समृद्धिः सर्ववर्णानां सिद्धिरस्तु च कर्मणाम् ।
भो लोकाः सर्वभूतेषु शिवा वोऽस्तु सदा मतिः । । १५
यथात्मनि यथा पुत्रे हितमिच्छथ सर्वदा ।
तथा समस्तभूतेषु वर्त्तध्वं हितबुद्धयः । । १६
एतद्वो हितमत्यन्तं को वा कस्यापराध्यते ।
यत्करोत्यहितं किञ्चित्कस्यचिन्मूढमानसः । । १७
तं समभ्येति तन्न्यूनं कर्तृगामिफलं यतः ।
इति मत्वा समस्तेषु भो लोका हितबुद्धयः । । १८
सन्तु मा लौकिकं पापं लोकाः प्राप्स्यथ वै बुधाः ।
यो मेऽद्य स्निह्यते तस्य शिवमस्तु सदा भुवि । । १९
यश्च मां द्वेष्टि लोकेऽस्मिन्सोऽपि भद्राणि पश्यतु ।
एवं स्वरूपः पुत्रोऽभूत्खनित्रस्तस्य भूपते । । 114.२०
समस्तगुणसम्पन्नः श्रीमानब्जदलेक्षणः ।
तेन ते भ्रातरः प्रीत्या पृथग्राज्येषु योजिताः । । २१
स्वयं च पृथिवीमेतां बुभुजे सागराम्बराम् ।
प्राच्यां तेन कृतः शौरिर्दक्षिणस्यामुदावसुः । । २२
दिशि प्रतीच्यां मुनय उत्तरस्यां महारथाः ।
तेषां तस्य च भूपस्य पृथग्गोत्राः पुरोहिताः । । २३
बभूवुर्मुनयश्चैव मन्त्रिवंशक्रमागताः ।
शौरेरत्रिकुलोद्भूतः सुहोत्रो नाम वै द्विजः । । २४
उदावसोः कुशावर्त्तो गौतमान्वयजोऽभवत् ।
काश्यपः प्रमतिर्नाम सुनयस्य पुरोहितः । । २५
महारथस्य वासिष्ठः पुरोधाऽभून्महीभृतः ।
बुभुजुस्ते स्वराज्यानि चत्वारोऽपि नराधिपाः । । २६
खनित्रश्चाधिपस्तेषामशेषवसुधाधिपः ।
तेषु भ्रातृष्वशेषेषु खनित्रः स महीपतिः । । २७
प्रजासु च समस्तासु पुत्रेष्विव सदा हितः ।
एकदा मन्त्रिणा शौरिः स प्रोक्तो विश्ववेदिना । । २८
विविक्ते पृथिवीपाल किञ्चिद्वक्तव्यमस्ति नः ।
यस्येयं पृथिवी कृत्स्ना यस्य भूपा वशानुगाः । । २९
स राजा तस्य पुत्रश्च तत्पौत्राश्चान्वयस्ततः ।
इतरे भ्रातरस्तस्य प्राक्त्वल्पविषयाधिपाः । । 114.३०
तत्पुत्राश्चाल्पकास्तस्मात्तत्पौत्राश्चाल्पकाल्पकाः ।
कालेन ह्रासमासाद्य पुरुषात्पुरुषान्तरम् । । ३१
कृष्योपजीविनो भूप भवन्तीति तदन्वयाः ।
नोद्धारं कुरुते भ्राता भ्रातृस्नेहबलार्पणः । । ३२
स्नेहः कः पृथिवीपाल परयोर्भ्रातृपुत्रयोः ।
तत्पुत्रयोः परतरा मतिर्भवति पार्थिव । । ३३
तत्पुत्रः केन कार्येण प्रीतियुक्तो भविष्यति ।
अथवा येन तेनैव सन्तोषं कुरुते नृपः । । ३४
क्रियते तत्किमर्थं तु भूपैर्मन्त्रिपरिग्रहः ।
भुज्यते सकलं राज्यं मया ते मन्त्रिणा सता । । ३५
तत्किं मुधा धारयसे सन्तोषं कुरुते यदि ।
कार्यनिष्पादकं राज्यं करणं कर्तुरिष्यते । । ३६
राज्यलब्धुश्च ते कार्यं त्वं कर्त्ता करणं वयम् ।
सोऽस्माभिः करणै राज्यं पितृपैतामहं कुरु । ।
फलप्रदा भविष्यामः परलोकेन ते वयम् । । ३७
राजोवाच
ज्येष्ठो भ्राता महीपालो वयं तस्यानुजा यतः ।
ततः स भुङ्क्ते पृथिवीं वयं चाल्पवसुन्धराम् । । ३८
वयं तु भ्रातरः पञ्च पृथ्वी चैका महामते ।
अतोऽस्याः पृथगैश्वर्यं कथं कृत्स्नं भविष्यति । । ३९
विश्ववेद्युवाच
एवमेतद्भवत्वत्र यद्येका वसुधा नृप ।
तां त्वमेवाभिपद्यस्व ज्येष्ठः शास्तु यथा भवान् । । 114.४०
सर्वाधिपत्यः सर्वेभ्यो भव त्वमखिलेश्वरः ।
यतन्ते च यथाहं ते तेषामपि हि मन्त्रिणः । । ४१
राजोवाच
ज्येष्ठो राजा यथा प्रीत्या भजतेऽस्मान्सुतानिव ।
कथं तस्य करिष्यामि ममत्वं जगतीगतम् । । ४२
विश्ववेद्युवाच
राज्ये स्थितः पूजयेथा ज्येष्ठं भूपार्हणैर्धनैः ।
कनिष्ठज्येष्ठता केयं राज्यं प्रार्थयतां नृणाम् । । ४३
मार्कण्डेय उवाच
तथेति च प्रतिज्ञाते भूभुजा तेन सत्तम ।
विश्ववेदी ततो मन्त्री तद् भ्रातॄननयद्वशम् । । ४४
तेषां पुरोहितांश्चैव आत्मनः शान्तिकादिषु ।
नियोजयामास ततः खनित्रस्याभिचारके । । ४५
विभेद तस्य निभृतान्सामदानादिभिस्तथा ।
चक्रे च परमोद्योगं निजदण्डप्रभावने । । ४६
आभिचारिकमत्युग्रमहन्यहनि कुर्वताम् ।
पुरोधसां चतुर्णां च जज्ञे कृत्याचतुष्टयम् । । ४७
विकरालं महावक्त्रमतिभीषणदर्शनम् ।
समुद्यतमहाशूलं प्रभूतमतिदारुणम् । । ४८
ततस्तदागतं तत्र खनित्रो यत्र पार्थिवः ।
निरस्तं चाप्यदुष्टस्य तस्य पुण्यचयेन तत् । । ४९
कृत्याचतुष्टयं तेषु निपपात दुरात्मसु ।
पुरोहितेषु भूपानां तथा वै विश्ववेदिनि । । 114.५०
ततो निहन्त्या निर्दग्धाः कृत्यया ते पुरोहिताः ।
विश्ववेदी तथा मन्त्री स शौरेर्दुष्टमन्त्रदः । । ५१
इति श्रीमार्कण्डेयपुराणे खनित्रचरित्रे चतुर्दशाधिकशततमोऽध्यायः । ११४ ।
अथ पञ्चदशाधिकशततमोऽध्यायः
खनित्रचरित्रवर्णनम्
मार्कण्डेय उवाच
ततः समस्तलोकस्य विस्मयः सोऽभवन्महान् ।
यदेककालं नेशुस्ते पृथक्पुरनिवासिनः । । १
ततः शुश्राव निधनं यातान्भ्रातृपुरोहितान् ।
मन्त्रिणं च तथा भ्रातुर्दग्धं तं विश्ववेदिनम् । । २
किमेतदिति सोऽतीव विस्मितो मुनिसत्तम ।
खनित्रोऽभून्महाराजो नाजानात्तच्च कारणम् । । ३
ततो वसिष्ठं पप्रच्छ स राजा गृहमागतम् ।
यत्कारणं विनेशुस्ते भ्रातृमन्त्रिपुरोहिताः । । ४
तेन पृष्टस्तदा प्राह यथा वृत्तं महामुनिः ।
यच्छौरिमन्त्रिणा प्रोक्तं यच्च शौरिरुवाच तम् । । ५
यथा चानुष्ठितं तेन भ्रातॄणां भेदकारि वै ।
मन्त्रिणा तेन दुष्टेन यच्चक्रुश्च पुरोहिताः । । ६
यन्निमित्तं विनेशुस्ते अपापस्यापकारिणः ।
पुरोहितास्तस्य राज्ञः शत्रावपि दयावतः । । ७
स तच्छ्रुत्वा ततो राजा हा हतोऽस्मीति वै वदन् ।
निनिन्दात्मानमत्यर्थं वसिष्ठस्याग्रतो द्विज । । ८
राजोवाच
धिङ्मामपुण्यसंस्थानमल्पभाग्यमशोभनम् ।
दैवदोषकृतं पापं सर्वलोकविगर्हितम् । । ९
मन्निमित्तं विनष्टं तत्तद्ब्राह्मणचतुष्टयम् ।
मत्तः कोऽन्यः पापतरो भविष्यति पुमान्भुवि । । 115.१०
नाभविष्यं यदि पुमानहमत्र महीतले ।
ततस्ते न विनश्येयुर्मम भ्रातृपुरोहिताः । । ११
धिग्राज्यं धिक्च मे जन्म भूभुजां महतां कुले ।
कारणत्वं गतो योऽहं विनाशस्य द्विजन्मनाम् । । १२
कुर्वन्तः स्वामिनां तेऽथ भ्रातॄणां मम याजकाः ।
नाशं ययुर्न दुष्टास्ते दुष्टोऽहं नाशकारणे । । १३
किं करोमि क्व गच्छामि नान्यो मत्तो हि पापकृत् ।
पृथिव्यामस्ति हेतुत्वं द्विजनाशस्य योगतः । । १४
इत्थमुद्विग्नहृदयः खनित्रः पृथिवीपतिः ।
वनं यियासुः पुत्रस्य कृतवानभिषेचनम् । । १५
अभिषिच्य सुतं राज्ये क्षुपसंज्ञं महीपतिः ।
भार्याभिस्तिसृभिः सार्धं तपसे स वनं ययौ । । १६
तत्रागत्वा तपस्तेपे वानप्रस्थविधानवित् ।
शतानि त्रीणि वर्षाणां सार्द्धानि नृपसत्तमः । । १७
तपसा क्षीणदेहस्तु राजवर्यो द्विजोत्तम ।
निगृह्य सर्वस्रोतांसि तत्याजासून्वनेचरः । । १८
ततः पुण्यान्ययौ लोकान्सर्वकामदुहोऽक्षयान् ।
अश्वमेधादिभिर्यज्ञैरवाप्या ये नराधिपैः । । १९
भार्याश्च तस्य तास्तिस्रः समन्तेनैव तत्यजुः ।
प्राणानवापुः सालोक्यं तेनैव सुमहात्मना । । 115.२०
एतत्खनित्रचरितं श्रुतं कल्मषनाशनम् ।
पठतां च महाभाग क्षुपस्यातो निशामय । । २१
इति श्रीमार्कण्डेयपुराणे खनित्रचरितसमाप्तिर्नाम पञ्चदशाधिकशततमोऽध्यायः । ११५ ।
अथ षोडशाधिकशततमोऽध्यायः
विविंशचरितवर्णनम्
मार्कण्डेय उवाच
क्षुपः खनित्रपुत्रस्तु प्राप्य राज्यं यथा पिता ।
तथैव पालयामास प्रजाधर्मेण रञ्जयन् । । १
स दानशीलो यष्टा च यज्ञानामवनीपतिः ।
समः शत्रौ च मित्रे च व्यवहारादिवर्त्मनि । । २
एकदा स महीपालो निजस्थानगतो मुने ।
सूतैरुक्तो यथा पूर्वं क्षुपो राजा तथाऽभवत् । । ३
ब्रह्मणस्तनयः पूर्वं क्षुपोऽभूत्पृथिवीपतिः ।
यादृक्चरितमस्यासीत्तादृक्तस्यैव चेष्टितम् । । ४
राजोवाच
श्रोतुमिच्छामि चरितं क्षुपस्य सुमहात्मनः ।
यदि तादृङ्मया शक्यं चेष्टितुं तत्करोम्यहम् । । ५
सूता ऊचुः
स चकाराकरान्भूप राजा गोब्राह्मणान्पुरा ।
षष्ठांशेन कृता चोर्व्यामिष्टिस्तेन महात्मना । । ६
राजोवाच
तेषां महात्मनां राज्ञां कोऽनुयास्यति मद्विधः ।
तथाप्युत्कृष्टचेतानां चेष्टासूद्यमवान्भवेत् । । ७
तच्छ्रूयतां प्रतिज्ञा या साम्प्रतं क्रियते मया ।
क्षुपस्यानुकरिष्यामि महाराजस्य चेष्टितम् । । ८
त्रींस्त्रीन्यज्ञान्करिष्यामि सस्यापाते गतागते ।
पृथिव्यां चतुरन्तायां प्रतिज्ञेयं कृता मया । । ९
यच्च गोब्राह्मणाः पूर्वमददन्भूभृते करम् ।
तमेव प्रतिदास्यामि ब्राह्मणानां तथा गवाम् । । 116.१०
मार्कण्डेय उवाच
इति प्रतिज्ञाय वचः क्षुपस्तत्कृतवांस्तथा ।
सस्यापाते स यज्ञांस्त्रीनयजद्यजतांवरः । । ११
गोब्राह्मणाः पुरा राज्ञामददद्यं च वै करम् ।
तावत्संख्यमदाद्वित्तमन्यद्गोब्राह्मणाय सः । । १२
तस्य पुत्रोऽभवद्वीरः प्रमथायामनिन्दितः ।
यस्य प्रतापशौर्याभ्यां कृता वश्या महीभृतः । । १३
तस्यापि नन्दिनी नाम वैदर्भी दयिताऽभवत् ।
विविंशं तनयं तस्यां जनयामास स प्रभुः । । १४
विविंशे शासति महीं महीपाले महौजसि ।
महीतलमभूद्व्याप्तं निरन्तरतया नरैः । । १५
ववर्ष काले पर्जन्यो मही सस्यवती तथा ।
सुफलानि च सस्यानि रसवन्ति फलानि च । । १६
रसाः पुष्टिकराश्चासन्पुष्टिर्नोन्मादकारिणी ।
न वित्तनिचया नॄणां प्रभूतां मदहेतवः । । १७
तत्प्रतापेन रिपवो भयमापुर्महामुने ।
स्वास्थ्यं जनः सुहृद्वर्गो मुदमाप सुपूजितः । । १८
इष्ट्वा स यज्ञान्सुबहून्सम्यक्सम्पाल्य मेदिनीम् ।
सङ्ग्रामे निधनं प्राप्य शक्रलोकमितो गतः । । १९
इति श्रीमार्कण्डेयपुराणे विविंशचरितं नाम षोडशाधिकशततमोऽध्यायः । ११६ ।
अथ सप्तदशाधिकशततमोऽध्यायः
खनीनेत्रचरित्रवर्णनम्
मार्कण्डेय उवाच
तस्य पुत्रः खनीनेत्रो महाबलपराक्रमः ।
यस्य यज्ञेष्वगायन्त गन्धर्वा विस्मयान्विताः । । १
खनीनेत्रसमो नान्यो भुवि यज्वा भविष्यति ।
तेन यज्ञायुते पूर्णे दत्ता पृथ्वी ससागरा । । २
दत्त्वा च सकलां पृथ्वीं ब्राह्मणानां महात्मनाम् ।
तपसा द्रव्यमासाद्य मोदयन्साधितेन यः । । ३
यतश्च प्राप्य वित्तर्द्धिमतुलां दातृसत्तमात् ।
जगृहुर्ब्राह्मणा विप्र नान्यराज्ञः प्रतिग्रहम् । । ४
सप्तषष्टिसहस्राणि सप्तषष्टिशतानि च ।
सप्तषष्टिं च यो यज्ञानयजद् भूरिदक्षिणान् । । ५
अपुत्रः स महीपालो मृगयामुपचक्रमे ।
पुत्रार्थं पितृयज्ञाय मांसकामो महामुने । । ६
अश्वारूढो विना सैन्यमेक एव महावने ।
बद्धगोधाङ्गुलित्राणो बाणखड्गधनुर्धरः । । ७
तं वाहयन्तं तुरगमन्यतो गहनाद्वनात् ।
विनिष्क्रम्य मृगः प्राह मां हत्वाभिमतं कुरु । । ८
अन्ये मृगाः पलायन्ते महाभीत्या विलोक्य माम् ।
कथमात्मप्रदानं त्वं मृत्यवे कर्तुमिच्छसि । । ९
मृग उवाच
अपुत्रोऽहं महाराज वृथा जन्मप्रयोजनम् ।
विचारयन्न पश्यामि प्राणानामिह धारणम् । । 117.१०
मार्कण्डेय उवाच
अथाभ्येत्य मृगः प्राह तमन्यो वसुधाधिपम् ।
मृगस्य तस्य प्रत्यक्षमलमेतेन पार्थिव । । ११
घातयस्वेति मां मांसैर्मम कर्म समाचार ।
यथा कृतार्थता ते स्यान्मम चाप्युपकारि तत् । । १२
पुत्रार्थं त्वं महाराज स्वपितॄन्यष्टुमिच्छसि ।
अपुत्रस्यास्य मांसेन लप्स्यसे वाञ्छितं कथम् । । १३
यादृक्कर्म विनिष्पाद्यं तादृग्द्रव्यमुपाहरेत् ।
दुर्गन्धैर्न सुगन्धानां गन्धज्ञानविनिर्णयः । । १४
राजोवाच
वैराग्यकारणं प्रोक्तमनेनापुत्रता मम ।
कथ्यतां प्राणसंत्यागे यत्ते वैराग्यकारणम् । । १५
मृग उवाच
बहवो मे सुता भूप बह्व्यो दुहितरस्तथा ।
यच्चिन्तादुःखदावाग्निज्वालामध्ये वसाम्यहम् । । १६
सर्वसाध्या नरेन्द्रेयं मृगजातिः सुकातरा ।
तेष्वपत्येषु मे चातिममत्वं तेन दुःखितः । । १७
मनुष्यसिंहशार्दूलवृकादिभ्यो बिभेम्यहम् ।
विहीनात्सर्वसत्त्वेभ्यः श्वशृगालादपि प्रभो । । १८
सोऽहं निमित्तं बन्धूनामिमां शून्यां वसुन्धराम् ।
नृसिंहादिभयात्सर्वामिच्छामि सुनृशंसकृत् । । १९
तृणान्यन्येऽपि खादन्ति गोऽजावितुरगादिकाः ।
तांस्तेषां पोषणायाहमिच्छामि निधनं गतान् । । 117.२०
निष्क्रान्तेषु ततस्तेषु ममापत्येषु वै पृथक् ।
भवन्ति चिन्ताः शतशो ममत्वावृतचेतसः । । २१
किं कूटपाशं किं वज्रं वागुरां किं सुतो मम ।
प्राप्तश्चरन्वने किं वा नृसिंहादिवशं गतः । । २२
प्राप्तोऽयमेकः सम्प्राप्तास्तेऽवस्थां कीदृशीं मम ।
साम्प्रतं ते चिरायन्ते ये गताः सुमहावनम् । । २३
दृष्टवा प्राप्तान्ममाभ्याशमहं तानात्मजान्नृप ।
ईषदुछ्रवसितः क्षेममिच्छामि रजनीं पुनः । । २४
प्रभाते दिवसं क्षेममस्तगेऽर्के निशामपि ।
वाञ्छाम्यहं कदा क्षेमं सर्वकालं भविष्यति । । २५
एतत्ते कथितं भूप महोद्वेगस्य कारणम् ।
अतः प्रसादं कुरु मे बाणोऽयं पात्यतां मयि । । २६
इति दुःखशताविष्टः प्राणान्नाहं त्यजामि यत् ।
तत्कारणं निबोध त्वं ब्रुवतो मम पार्थिव । । २७
असूर्या नाम ते लोका यान्गच्छन्या् त्मघातकाः ।
यज्ञोपयुक्ताः पशवः सम्प्रयान्युवतच्छ्रितीः प्रभो । । २८
अग्निः पशुरभूत्पूर्वं पशुरासीज्जलाधिपः ।
भास्वानथोच्छ्रितीः प्राप्ता यज्ञे निष्ठामुपागताः । । २९
तन्ममैतां कृपां कृत्वा नय मामुच्छ्रितिं नृप ।
आत्मनश्चेप्सितं कामं पुत्रलाभादवाप्स्यसि । । 117.३०
पूर्वमृग उवाच
राजेन्द्र नैष हन्तव्यो धन्योऽयं सुकृती मृगः ।
बहवस्तनया ह्यस्य हन्तव्योऽहमसन्ततिः । । ३१
उत्तरमृग उवाच
एकदेहभयं यस्य दुःखं धन्यः स वै भवान् ।
बहूनि यस्य देहानि तस्य दुःखान्यनेकधा । । ३२
एको यदाहमासं तु प्राक्तदा देहजं मम ।
दुःखमासीन्ममत्वे तु भार्यायास्तदभूद्द्विधा । । ३३
यदाजातान्यपत्यानि तदा यावन्ति तानि वै ।
तावच्छरीरभूमीनि मम दुःखान्यथाभवन् । । ३४
न कृतार्थो भवाम्यस्य नातिदुःखाय सम्भवः ।
इह दुःखाय मत्सूतिःपरत्र च विरोधिनी । । ३५
यतो रक्षणपोषार्थमपत्यानां करोमि तत् ।
चिन्तयामि च सम्भूतिस्तेन मे नरके ध्रुवम् । । ३६
राजोवाच
न वेद्मि किं सन्ततिमान्धन्योऽपुत्रोऽत्र किं मृग ।
पुत्रार्थश्चायमारम्भो मम दोलायते मनः । । ३७
दुःखाय सन्ततिः सत्यमैहिकामुष्मिकाय तत् ।
तथाप्यतनयान्यान्ति ऋणानीति श्रुतं मया । । ३८
सोऽहं यतिष्ये पुत्रार्थमृते प्राणिवधं मृग ।
तपसैव प्रचण्डेन यथापूर्वं महीपतिः । । ३९
इति श्रीमार्कण्डेयपुराणे खनीनेत्रचरितवर्णनं नाम सप्तदशाधिकशततमोऽध्यायः । ११७ ।
अथाष्टादशाधिकशततमोऽध्यायः
करन्धमचरितवर्णनम्
मार्कण्डेय उवाच
ततः स नृपतिर्गत्वा गोमतीं पापनाशिनीम् ।
तत्र तुष्टाव नियतो भूत्वा देवं पुरन्दरम् । । १
तप्यमानस्तपश्चोग्रं यतवाक्कायमानसः ।
तुष्टाव प्रयतः शक्रमपत्यार्थं महीपतिः । । २
तस्य स्तोत्रेण तपसा भक्त्या चापि सुरेश्वरः ।
तुतोष भगवानिन्द्रः प्राह चैनं महामुने । । ३
अनेन तपसा भक्त्या स्तोत्रेणोच्चारितेन च ।
परितुष्टोऽस्मि ते भूप व्रियतां भवता वरः । । ४
राजोवाच
अपुत्रस्य सुतो मेऽस्तु सर्वशस्त्रभृतां वरः ।
सदा चाव्याहतैश्वर्यो धर्मकृद्धर्मवित्कृती । । ५
मार्कण्डेय उवाच
तथेति चोक्तः शक्रेण राजा प्राप्तमनोरथः ।
प्रजाः पालयितुं भूप आजगाम निजं पुरम् । । ६
तत्रास्य कुर्वतो यज्ञं सम्यक्पालयतः प्रजाः ।
अजायत सुतो विप्र तदा शक्रप्रसादतः । । ७
तस्य नाम पिता चक्रे बलाश्व इति भूपतिः ।
अस्त्रग्राममशेषं च ग्राहयामास तं सुतम् । । ८
पितर्युपरते विप्र सोऽधिराज्ये स्थितो नृपः ।
स बलाश्वो वशं निन्ये भुवि सर्वमहीक्षितः । । ९
करं च दापयामास सारग्रहणपूर्वकम् ।
स सर्वभूमिपान्राजा पालयामास च प्रजाः । । 118.१०
अथाखिलनरेन्द्रास्ते दायादास्तस्य दुर्मदाः ।
न चाभ्युत्थाय सततं त चास्मै प्रददुः करान् । । ११
व्युत्थिताः स्वेषु राष्ट्रेषु न सन्तोषपरास्ततः ।
भुवं तस्य नरेन्द्रस्य जगृहुस्ते नराधिपाः । । १२
स गृहीत्वा स्वकं राज्यं पृथिवीशो बलान्मुने ।
तस्थौ स्वनगरे भूपैर्विरोधो बहुभिः कृतः । । १३
समेत्य सुमहावीर्याः ससाधनधनास्ततः ।
रुरुधुस्तं महीपालं पुरे तत्र नरेश्वराः । । १४
पुररोधेन तेनाथ कुपितः स महीपतिः ।
स्वल्पकोशोऽल्पदण्डश्च वैक्लव्यं परमं गतः । । १५
अपश्यमानः शरणं सबलो द्विजसत्तम ।
करौ मुखाग्रतः कृत्वा निशश्वासार्तमानसः । । १६
ततोऽस्य हस्तविवरान्मुखानिलसमाहताः ।
निर्जग्मुः शतशो योधा रथनागतुरङ्गमाः । । १७
ततः क्षणेन तत्सर्वं नगरं तस्य भूपतेः ।
व्याप्तमासीद्बलौघेन सारेणातिबलान्मुने । । १८
अथ सोऽतिबलौघेन महता तेन संवृतः ।
निर्मथ्यनगरात्तस्मात्तान्विजिग्ये नराधिपः । । १९
जित्वा च वशमानीय चकार करदान्पुनः ।
यथापूर्वं महाभाग महाभाग्यो नरेश्वरः । । 118.२०
धुतयोः  करयोर्जज्ञे यतस्तस्यारिदाहदम् ।
बलं करन्धमस्तस्मात्स बलाश्वोऽभिधीयते । । २१
स धर्मात्मा महात्मा च स मैत्रः सर्वजन्तुषु ।
करन्धमोऽभवद्भूपस्त्रिषु लोकेषु विश्रुतः । । २२
सम्प्रास्तस्य परामार्त्तिं ददावरिविनाशनम् ।
बलं धर्मेण चाक्षिप्तमभ्युपेत्य स्वयं नृपम् । । २३
इति श्रीमार्कण्डेयपुराणे करन्धमचरितं नामाष्टादशाधिकशततमोऽध्यायः । ११८ ।
अथैकोनविंशत्यधिकशततमोऽध्यायः
अविक्षिच्चरित्रवर्णनम्
मार्कण्डेय उवाच
वीर्यचन्द्रसुता सुभूर्वीरा नाम शुभव्रता ।
स्वयंवरे सा जगृहे महाराजं करन्धमम् । । १
तस्यां पुत्रं स राजेन्द्रो जनयामास वीर्यवान् ।
अविक्षितमिति ख्यातिमुपेतं जगतीतले । । २
जाते तस्मिन्सुते राजा स दैवज्ञानपृच्छत ।
कच्चित्प्रशस्तनक्षत्रे शस्तलग्ने सुतो मम । । ३
कच्चिच्चालोकितं जन्म मम पुत्रस्य शोभनैः ।
ग्रहैः कच्चिन्न दुष्टानां ग्रहाणां दृक्पथं गतम् । । ४
इत्युक्तास्तेन दैवज्ञास्तमूचुर्नृपतिं ततः ।
शस्ते मुहूर्ते नक्षत्रे लग्ने चैव सुतस्तव । । ५
समुत्पन्नो महावीर्यो महाभागो महाबलः ।
भविष्यति महाराज महाराजस्तवात्मजः । । ६
अवैक्षतेमं देवानां गुरुः शुक्रश्च सप्तमः ।
सोमश्चतुर्थस्तनयं तवैनं समवैक्षत । । ७
उपान्तसंस्थितश्चैव सोमपुत्रोप्यवैक्षत ।
नावैक्षतेमं सविता न भौमो न शनैश्चरः । । ८
तव पुत्रं महाराज धन्योऽयं तनयस्तव ।
सर्वकल्याणसम्पत्ति समवेतो भविष्यति । । ९
मार्कण्डेय उवाच
इति दैवज्ञवचनं निशम्य वसुधाधिपः ।
हर्षपूर्णमनाः प्राह निजस्थानगतस्तदा । । 119.१०
अवैक्षतेमं देवानां गुरुः सोमः सितो बुधः ।
नावैक्षतैनमादित्यो नार्कसूनुर्न भूमिजः । । ११
अवैक्षतेति यत्प्रोक्तं भवद्भिर्बहुशो वचः ।
अविक्षितेति तेनास्य ख्यातं नाम भविष्यति । । १२
मार्कण्डेय उवाच
अविक्षितः सुतस्तस्य वेदवेदाङ्गपारगः ।
अस्त्रग्राममशेषं स कण्वपुत्रादथाग्रहीत् । । १३
स्वरूपेणातिभिषजौ देवानां पार्थिवात्मजः ।
बुद्ध्या वाचस्पतिं कान्त्या शशाङ्कं तेजसा रविम् । । १४
धैर्येणाब्धिं तयोर्वीं च सहिष्णुत्वेन वीर्यवान् ।
शौर्येण न समस्तस्य कश्चिदासीन्महात्मनः । । १५
स्वयंवरे तं जगृहे हेमधर्मात्मजा वरा ।
सुदेवतनया गौरी सुभद्रा बलिनः सुता । । १६
लीलावती वीरसुता वीरभद्रसुता निभा ।
भीमात्मजा मान्यवती दम्भपुत्री कुमुद्वती । । १७
याश्चैनं नाभिनन्दन्ति स्वयंवरकृतक्षणाः ।
ताश्चापि स बलाद्वीरो जग्राह नृपतेः सुतः । । १८
निराकृत्य नृपान्सर्वांस्तासां पितृकुलानि च ।
स्वयं हि वीर्यमाश्रित्य बलवान्न बलोद्धतः । । १९
एकदा तु विशालस्य विशालाधिपतेः सुताम् ।
वैशालिनीं स सुदतीं स्वयंवरकृतक्षणाम् । । 119.२०
परिभूयाखिलान्भूपान्स्वेच्छया न वृतस्तया ।
बलाज्जग्राह विप्रर्षे यथान्या बलगर्वितः । । २१
ततस्ते भूभृतः सर्वे बहुशस्तेन मानिना ।
निराकृताः सुनिर्विण्णाः प्रोचुरन्योन्यमाकुलाः । । २२
क्षमतां वञ्चनामेतामेकस्माद्बलशालिनाम् ।
बहूनामेकवर्णानां जन्म धिग्वो महीभृताम् । । २३
क्षत्रियो यः क्षतात्त्राणं वध्यमानस्य दुर्मदैः ।
करोति तस्य तन्नाम वृथैवान्ये हि बिभ्रति । । २४
आत्मनोऽपि क्षतत्राणं दुष्टादस्मादकुर्वताम् ।
भवतां क्षत्रियकुले जातानां कीदृशी मतिः । । २५
उच्चार्यते स्तुतिर्या वः सूतमागधबन्दिभिः ।
सा सत्या मा वृथा वीरा भवत्वरिविनाशनात् । । २६
चरतां सा तथैवैषा भूपाश्चारैर्दिगन्तरे ।
पौरुषाश्रयिणः सर्वे विशिष्टकुलसम्भवाः । । २७
बिभेति को न मरणात्को युद्धेन विनाऽमरः ।
विचिन्त्यैतन्न हातव्यं पौरुषं शस्त्रवृत्तिभिः । । २८
एतन्निशम्य ते भूपा विस्पष्टामर्षपूरिताः ।
ऊचुः परस्परं सर्वे समुत्तस्थुश्च सायुधाः । । २९
केचिद्रथानारुरुहुः केचिन्नागांस्तथा हयान् ।
अन्येऽमर्षपराधीनास्तमुपेताः पदातयः । । 119.३०
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नामैकोनविंशत्यधिकशततमोऽध्यायः । ११९ ।
अथ विंशत्यधिकशततमोऽध्यायः
अविक्षिच्चरितवर्णनम्
मार्कण्डेय उवाच
इति संग्रामसज्जास्ते भूपा भूपसुतस्तथा ।
निराकृताः सुबहुशस्तत्कालं चाप्यविक्षिता । । १
ततो बभूव संग्रामस्तस्य तैः सह दारुणः ।
एकस्य बहुभिर्भूपैर्भूपपुत्रवरैर्मुने । । २
तेऽसिशक्तिगदाबाणपाणयस्तं सुदुर्मदाः ।
अभिघ्नन्तो युयुधिरे तैः समस्तैरसावपि । । ३
स ताञ्छरशतैरुग्रैर्बिभेद नृपनन्दनः ।
कृतास्त्रो बलवान्बाणैस्ते च तं बिभिदुः शितैः । । ४
कस्यचिच्चिच्छिदे बाहुमन्यस्य च शिरोधराम् ।
हृदि विव्याध चैवान्यमन्यं वक्षस्यताडयत् । । ५
करं चिच्छेद करिणस्तुरगस्य तथा शिरः ।
रथस्येषां तथैवाश्वान्रथस्यान्यस्य सारथिम् । । ६
बाणानापततश्चक्रे द्विधा बाणैस्तथा द्विषाम् ।
चिच्छेदान्यस्य खड्गं च धनुरन्यस्य लाघवात् । । ७
तनुत्रेऽपहृते तेन ननाशान्यो नृपात्मजः ।
अविक्षिताहतश्चान्यः पदातिः प्रजहौ रणम् । । ८
इत्याकुलीकृते तस्मिन्समग्रे राजमण्डले ।
तस्थुः सप्तशतं वीरा मरणे कृतनिश्चयाः । । ९
आभिजात्यवयःशौर्यलज्जाभारसमन्विताः ।
निर्जिते सकले सैन्ये पलायनपरायणे । । 120.१०
तैः समेत्य महीपालैः स तु पुत्रो महीभृतः ।
युयुधे धर्मयुद्धेन तेन तं नातिकोपितः । । ११
विच्छिन्नयन्त्रकवचान्स तानपि महाबलः ।
कर्त्तुं व्यवस्थितस्ते च ततः क्रुद्धा महामुने । । १२
धर्ममुत्सृज्य युयुधुर्युध्यमानेन धर्मतः ।
नरेन्द्रपुत्राः प्रस्वेदजलक्लिन्नाननाः समम् । । १३
विव्याध कश्चिद्बाणौघैः कश्चिच्चिच्छेद कार्मुकम् ।
ध्वजमस्यापरो बाणैश्छित्त्वा भूमावपातयत् । । १४
जघ्नुरन्ये तथैवाश्वान्बभञ्जुश्चापरे रथम् ।
गदापातेनाथ चान्ये बाणैः पृष्ठमताडयन् । । १५
छिन्ने धनुषि सक्रोधः स तदा नृपतेः सुतः ।
जग्राहासिं तथा चर्म तदप्यन्योन्वपातयत् । । १६
च्छिन्नासिचर्मा जग्राह स गदां गदिनां वरः ।
तामप्यन्यः क्षुरप्रेण चिच्छेद कृतहस्तवत् । । १७
अन्ये शरसहस्रेण शतेनान्ये नराधिपाः ।
विव्यधुः कोष्ठकीकृत्य धर्मयुद्धपराङ्मुखाः । । १८
स विह्वलः पपातोर्व्यामेको बहुभिरर्दितः ।
राजपुत्रा महाभागा बबन्धुस्ते च तं ततः । । १९
तमधर्मेण ते सर्वे गृहीत्वा नृपतेः सुतम् ।
विशालेन समं राज्ञा वैदिशं विविशुः परम् । । 120.२०
हृष्टाः प्रमुदिता बद्धं समादाय नृपात्मजम् ।
स्वयंवरा च सा कन्या न्यस्ता तेन ततः पुरः । । २१
पुनः पुनश्च पित्रोक्ता तथापि च पुरोधसा ।
आलम्ब्यतामिति वरो यस्ते राजसु रोचते । । २२
यदा सा मानिनी कञ्चिन्न जग्राह वरं मुने ।
तदा पप्रच्छ दैवज्ञं विवाहार्थं नरेश्वरः । । २३
विशिष्टतरमेतस्या विवाहाय दिनं वद ।
अद्यैतदीदृक्सञ्जातं युद्धं विघ्नोपपादकम् । । २४
मार्कण्डेय उवाच
इति पृष्टो नरेन्द्रेण स दैवज्ञो विमृश्य तत् ।
दुर्मनाः प्राह विज्ञातपरमार्थो महीपतिम् । । २५
भविष्यन्त्यपराणीह दिनानि पृथिवीपते ।
प्रशस्तलग्नयुक्तानि शोभनान्यचिरेण वै । । २६
करिष्यसि विवाहं त्वं तेषु प्राप्तेषु मानद ।
अलमेतेन यत्रायं महाविघ्न उपस्थितः । । २७
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नाम विंशत्यधिकशततमोऽध्यायः । १२० ।
अथैकविंशत्यधिकशततमोऽध्यायः
अविक्षिच्चरितवर्णनम्
मार्कण्डेय उवाच
ततः शुश्राव तं बद्धं तनयं स करन्धमः ।
तस्य पत्नी तथा वीरा अन्ये चापि महीभृतः । । १
तमधर्मेण तनयं बद्धं श्रुत्वा महीपतिः ।
समन्तैः पृथिवीपालैश्चिरं दध्यौ महामुने । । २
केचिदूचुर्महीपाला वध्याः सर्वे महीभृतः ।
यैरेकः संयुगे बद्धः समस्तैस्तैरधर्मतः । । ३
युज्यतां वाहिनी शीघ्रमूचुरन्ये किमास्यते ।
विशालो बध्यतां दुष्टस्तत्र येऽन्ये समागताः । । ४
अन्ये तथोचुर्धर्मोऽत्र त्यक्तः पूर्वमहीक्षिता ।
अन्यायेन बलाद्येन गृहीता तमवाच्छती । । ५
स्वयंवरेष्वशेषेषु तेन राजसुतास्तदा ।
खिलीकृतास्ततः सर्वे समेत्य स वशीकृतः । । ६
तेषामेतद्वचः श्रुत्वा वीरा वीरप्रजावती ।
वीरगोत्रसमुद्भूता वीरपत्नी प्रहर्षिता । । ७
उवाच भर्त्तुः प्रत्यक्षमन्येषां च महीक्षिताम् ।
भद्रं कृतं भद्रभुजा मम पुत्रेण पार्थिवाः । । ८
गृहीता यद्बलात्कन्या जित्वा सर्वमहीक्षितः ।
तदर्थं युध्यमानोऽयं बद्ध एको न धर्मतः । । ९
तदप्यस्मत्सुतस्याजौ मन्ये नापचयप्रदम् ।
एतदेवहि पौरुष्यं यदमर्षवशान्नरः । । 121.१०
नीतिं न गणयत्येवं जिघांसुरिव केसरी ।
स्वयंवराय विन्यस्ता मम पुत्रेण कन्यका । । ११
बह्व्यो गृहीता भूपानां पश्यतामतिमानिनाम् ।
क्व क्षत्रियकुले जन्म क्व याञ्चा हीनसेविता । । १२
बलादेव समादत्ते क्षत्रियो बलिनां पुरः ।
लोहशृंखलबद्धा वा न वशं यान्ति कातराः । । १३
प्रसह्यकारिणो यान्ति राजानो धर्मशालिनः ।
तदलं दौर्मनस्येन श्लाघ्यमेवास्य बन्धनम् । । १४
युष्माकमपि ये पूर्वे कृत्वारीणां निपातनम् ।
हृत्वैव पृथिवीशानां पृथ्वीपुत्रादिकं वसु । । १५
भार्यावीर्यनिमित्तानि ततो यातातिगौरवम् ।
तत्त्वर्यतां रणायाशु स्यन्दनान्यधिरोहत । १६
सज्जीकुरुत नागाश्वमचिरेण ससारथिम् ।
मन्यध्वं किं महीपालैर्बहुभिः सह विग्रहम् । । १७
प्रभूता एव तोषाय शूरस्याल्परणे क्रियाः ।
कस्य नाल्पेषु सामर्थ्यं नरेन्द्रादिषु जायते । । १८
येभ्यो न विद्यते भीतिर्विक्रान्तस्यापि शत्रुषु ।
व्याप्य लोभान्समस्तान्यो ह्यभिभूय यतो नरः । ।
व्यरोचतेऽतिशूरः स तमांसीव दिवाकरः । । १९
मार्कण्डेय उवाच
इत्थमुद्धर्षितो राजाऽनया पत्न्या करन्धमः ।
चकार स बलोद्योगं हन्तुं पुत्राहितान्मुने । । 121.२०
ततस्तस्य समं भूपैर्विशालेन च सङ्गरः ।
बभूव बद्धपुत्रस्य तैरशेषैर्महामुने । । २१
दिनत्रयमभूद्युद्धं तेन राज्ञा समं तदा ।
करन्धमेन भूपानां विशालस्यानुकुर्वताम् । । २२
यदा पराजितप्रायं तत्सर्वं भूपमण्डलम् ।
तदा विशालोऽर्घ्यकरः करन्धममुपस्थितः ।।२३
करन्धमोऽपि सम्प्रीत्या तेन राज्ञाभिपूजितः ।
विमुक्ते तनये तत्र निशान्तां सुखमावसत् ।।२४
तां च कन्यामुपादाय विशालं समुपस्थितम् ।
अविक्षित्प्राह विप्रर्षे विवाहार्थं पितुः पुरः ।।२५
नाहमेतां ग्रहीष्यामि न चान्यां योषितं नृप ।
परैर्यस्या निरीक्षन्त्याः संग्रामेऽहं पराजितः ।।२६
अन्यस्मै सम्प्रयच्छेमामियं चान्यं वृणोतु तम् ।
अखण्डितयशो वीर्यो यः परैर्नापमानितः ।।२७
परैः पराजितोऽहं यत्कातरेयं यथाऽबला ।
किमत्र मानुषत्वं मे नैतस्या मम चान्तरम् ।।२८
स्वतन्त्रता मनुष्याणां परतन्त्रा सदाऽबला ।
नरोऽपि परतन्त्रो यस्तस्य कीदृङ्मनुष्यता ।।२९
सोऽहमस्या मुखं भूयो दृष्टं दर्शयिता कथम् ।
योऽहमस्याः पुरो भूमौ परैर्भूपैः खिलीकृतः ।। 121.३०
इत्युक्ते तेन तनयामुवाच जगतीपतिः ।
श्रुतं ते वचनं वत्से वदतोऽस्य महात्मनः ।।
वरयान्यं पतिं यत्र मनस्ते रमते शुभे ।।३१
वयं वा सम्प्रयच्छामो यस्मिंस्तस्मिंस्तवादृतिः ।
एतयोर्ह्येकमातिष्ठ मार्गयो रुचिरानने ।। ३२
कन्योवाच।।
पराजितोऽयं बहुभिर्न सम्यक्सम्यगाचरन् ।
संग्रामे तद्यशो वीर्यहानिकारि न पार्थिव ।।३३
एको बहूनां युद्धाय गजानामिव केसरी ।
यत्संस्थितः परं शौर्यं तेनास्य प्रकटीकृतम् ।।३४
न केवलमयं तस्थौ युद्धे तेप्यखिला जिताः ।
बहुशोऽनेन यत्नेन विक्रमोऽपि प्रकाशितः । । ३५
शौर्यविक्रमसंयुक्तमिमं सर्वमहीक्षितः ।
धर्मयुद्धमधर्मेण जितवन्तोऽत्र का त्रपा । । ३६
न चापि रूपमात्रेऽहं लोभमस्य गता पितः ।
शौर्यविक्रमधैर्याणि हरन्त्यस्य मनो मम । । ३७
तत्किमुक्तेन बहुना याच्यतां मत्कृते नृपः ।
त्वया महानुभावोऽयं नान्यो मे भविता पतिः । । ३८
विशाल उवाच
राजपुत्रसुता प्राह ममैतच्छोभनं वचः ।
एवं चैव त्वया तुल्यः कुमारो न महीतले । । ३९
अविसंवादिते शौर्यमतीव च पराक्रमः ।
पावयास्मत्कुलं वीर दुहितुर्मे परिग्रहात् । । 121.४०
राजपुत्र उवाच
नाहमेतां ग्रहाष्यामि न चान्यां योषितं नृप ।
आत्मन्येव हि मे बुद्धिः स्त्रीमयी मनुजेश्वर । । ४१
मार्कण्डेय उवाच
ततः करन्धमः प्राह पुत्रेयं गृह्यतां त्वया ।
विशालतनया सुभ्रूस्त्वयि हार्दवती दृढम् । । ४२
राजपुत्र उवाच
नाज्ञाभङ्गः कदाचित्ते कृतः पूर्वं मया प्रभो ।
तथाऽऽज्ञापय मां तात यथाज्ञां करवाणि ते । । ४३
मार्कण्डेय उवाच
अत्यन्तनिश्चितमतौ तस्मिन्राजसुते सुताम् ।
तामुवाच विशालोऽपि व्याकुलीकृतमानसः । । ४४
निवर्त्यतां मनः पुत्रि एतस्माच्च प्रयोजनात् ।
अन्यं वरय भर्त्तारं सन्त्यनेके नृपात्मजाः । । ४५
कन्योवाच
वरं वृणोम्यहं तात मामेष यदि नेच्छति ।
तपसाऽन्यो न मे भर्त्ता जन्मन्यस्मिन्भविष्यति । । ४६
मार्कण्डेय उवाच
ततः करन्धमो राजा विशालेन समं मुदा ।
स्थित्वा दिनत्रयं तत्र निजमभ्याययौ पुरम् । । ४७
अविक्षितोपि तेनैव पित्रान्यैश्च नराधिपैः ।
निदर्शनैः पुरावृत्तैः सान्त्वितोऽभ्यागमत्पुरम् । । ४८
सापि कन्या वनं गत्वा निसृष्टा निजबान्धवैः ।
तपस्तेपे निराहारा वैराग्यं परमास्थिता । । ४९
निराहारा यदा सा तु मासत्रयमवस्थिता ।
सम्प्राप परमामार्त्तिं कृशाधमनिसन्तता । । 121.५०
मन्दोत्साहातितन्वङ्गी मुमूर्षुरपि बालिका ।
देहत्यागाय सा चक्रे तदा बुद्धिं नृपात्मजा । । ५१
आत्मत्यागाय तां ज्ञात्वा कृतबुद्धिं सुरास्ततः ।
समेत्य प्रेषयामासुर्देवदूतं तदन्तिकम् । । ५२
समुपेत्य स तां प्राह दूतोऽहं पार्थिवात्मजे ।
प्रेषितस्त्रिदशैस्तुभ्यं यत्कार्यं तन्निशामय । । ५३
न भवत्या परित्याज्यं शरीरमतिदुर्लभम् ।
त्वं भविष्यसि कल्याणि जननी चक्रवर्तिनः । । ५४
पुत्रेण च महाभागे भोक्तव्यानि हतारिणा ।
अव्याहताज्ञेन चिरं सप्तद्वीपवती मही । । ५५
हन्तव्यस्तेन तरुजिद्देवानां पुरतो रिपुः ।
अयःशंकुस्तथा क्रूरो धर्मे स्थाप्यास्ततः प्रजाः । । ५६
परिपालनीयमखिलं चातुर्वर्ण्यं स्वधर्मतः ।
हन्तव्या दस्यवो म्लेच्छा ये चान्ये दुष्टचेष्टिताः । । ५७
यष्टव्यं विविधैर्यज्ञैः समाप्तवरदक्षिणैः ।
वाजिमेधादिभिर्भद्रे षट्सहस्रैश्च संख्यया । । ५८
मार्कण्डेय उवाच
तं दृष्ट्वा साऽन्तरिक्षस्थं दिव्यस्रगनुलेपनम् ।
देवदूतमुवाचेदं राजपुत्री ततो मृदु । । ५९
सत्यं त्वमागतः स्वर्गाद्देवदूतो न संशयः ।
किन्तु भर्त्रा विना पुत्रः स कथं मे भविष्यति । । 121.६०
अविक्षितमृते भर्त्ता मम नान्योऽत्र जन्मनि ।
भवितेति प्रतिज्ञातं मयैतत्सन्निधौ पितुः । । ६१
स च नेच्छति मां प्रोक्तो मत्पित्रा जनकेन च ।
करन्धमेनाथ सम्यग्याचितश्च मया तथा । । ६२
देवदूत उवाच
किमनेन महाभागे बहुनोक्तेन ते सुतः ।
समुत्पत्स्यति मा त्याक्षीस्त्वमात्मानमधर्मतः । । ६३
अत्रैव कानने तिष्ठ तनुं क्षीणां च पोषय ।
तपःप्रभावादेतत्ते सर्वं साधु भविष्यति । । ६४
मार्कण्डेय उवाच
इत्युक्त्वा देवदूतोऽसौ यथागतमगच्छत ।
चकारानुदिनं सुभ्रूः साप्यात्मतनुपोषणम् । । ६५
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नामैकविंशत्यधिकशततमोऽध्यायः । १२१ ।
अथ द्वाविंशत्यधिकशततमोऽध्यायः
अविक्षिच्चरितवर्णनम्
मार्कण्डेय उवाच
अथ साऽविक्षितो माता वीरा वीर प्रजावती ।
पुण्येऽहनि समाहूय प्राह पुत्रमविक्षितम् । । १
पुत्राहमभ्यनुज्ञाता तव पित्रा महात्मना ।
उपवासं करिष्यामि दुष्करोऽयं किमिच्छकः । । २
स चायत्तस्तव पितुस्त्वया साध्यो मयापि च ।
प्रतिज्ञाते त्वया पुत्र ततस्तत्र यताम्यहम् । । ३
द्रव्यस्यार्द्धं महाकोशात्तव दास्याम्यहं पितुः ।
धनं ते पितुरायत्तमनुज्ञाताऽस्मि तेन च । । ४
क्लेशसाध्यो मदायत्तः स हि श्रेयो भविष्यति ।
साध्यो भवेद्वा यदि ते कश्चिद्बलपराक्रमैः । । ५
स तेऽसाध्यो ह्यन्यथा वा दुःखसाध्यो भविष्यति ।
तत्त्वं प्रतिज्ञां कुरुषे यदि पुत्रात्र चैव ते । ।
तदैतदहमावाप्स्ये कथ्यतां यन्मतं तव । । ६
अविक्षिदुवाच
वित्तं मे पितुरायत्तं मत्स्वामित्वं न तत्र वै ।
यन्मच्छरीरनिष्पाद्यं तत्करिष्ये त्वयोदितम् । । ७
किमिच्छकं व्रतं मातर्निश्चिन्ता भव निर्व्यथा ।
राज्ञा पित्राऽभ्यनुज्ञातं यदि वित्तेश्वरेण मे । । ८
मार्कण्डेय उवाच
ततः सा राजमहिषी तद्व्रतं समुपोषिता ।
यथोक्तं साऽकरोत्पूजां राजराजस्य संयता । । ९
निधीनामप्यशेषाणां निधिपालगणस्य च ।
लक्ष्म्याश्च परया भक्त्या यतवाक्कायमानसा । । 122.१०
विविक्ते तु गृहस्थोऽयमथ राजा करन्धमः ।
आसीन उक्तः सचिवैर्नीतिशास्त्रविशारदैः । । ११
सचिवा ऊचुः
राजन्वयः परिणतं तवैतच्छासतो महीम् ।
एकस्ते तनयोऽविक्षित्त्यक्तदारपरिग्रहः । । १२
अपुत्रः स च ते निष्ठां यदा भूप गमिष्यति ।
तदारिपक्षं पृथिवी निश्चितं तव यास्यति । । १३
वंशक्षयस्ते भविता पितृपिण्डोदकक्षयः ।
एतन्महत्तेऽरिभयं क्रियाहान्या भविष्यति । । १४
तस्मात्कुरु तथा भूप यथा ते तनयः पुनः ।
करोति सततं बुद्धिं पितॄणामुपकारिणीम् । । १५
मार्कण्डेय उवाच
एतस्मिन्नन्तरे शब्दं शुश्राव जगतीपतिः ।
पुरोहितस्य वीराया गदतो ह्यर्थिनं प्रति । । १६
कः किमिच्छति दुःसाध्यं कस्य किं साध्यतामिति ।
करन्धमस्य महिषी किमिच्छिकमुपोषिता । । १७
राजपुत्रोऽप्यविक्षित्तु श्रुत्वा पौरोहितं वचः ।
प्रत्युवाचार्थिनः सर्वान्राजद्वारमुपागतान् । । १८
मया साध्यं शरीरेण यस्य किञ्जिद्ब्रवीतु सः ।
मम माता महाभागा किमिच्छिकमुपोषिता । । १९
शृण्वन्तु मेऽर्थिनः सर्वे प्रतिज्ञातं मया तदा ।
किमिच्छथ ददाम्येष क्रियमाणो किमिच्छिके । । 122.२०
मार्कण्डेय उवाच
ततो राजा निशम्यैतद्वाक्यं पुत्रमुखाच्छ्रुतम् ।
समुत्पत्याब्रवीत्पुत्रमहमर्थी प्रयच्छ मे । । २१
अविक्षिदुवाच
दातव्यं यन्मया तात भवते तद्ब्रवीहि माम् ।
कर्तव्यं दुष्करं वा ते साध्यं दुःसाध्यमेव वा । । २२
राजोवाच
यदि सत्यप्रतिज्ञस्त्वं ददासि च किमिच्छकम् ।
पौत्रस्य दर्शय मुखं ममोत्सङ्गगतस्य तत् । । २३
अविक्षिदुवाच
अहं तवैकस्तनयो ब्रह्मचर्यं च मे नृप ।
न मे पुत्रोऽस्ति पौत्रस्य दर्शयामि कथं मुखम् । । २४
राजोवाच
पापाय ब्रह्मचर्यं ते यदिदं धार्यते त्वया ।
तस्मात्त्वं मोचयात्मानं मम पौत्रं च दर्शय । । २५
अविक्षिदुवाच
विषमं स्यान्महाराज यदन्यत्तत्समादिश ।
वैराग्येण मया त्यक्तः स्त्रीसंभोगस्तथास्तु सः । । २६
राजोवाच
बहुभिर्युध्यमानानां दृष्टो वै वैरिणां जयः ।
तत्रापि यदि वैराग्यमुपैषि तदपण्डितः । । २७
किं वा नो बहुनोक्तेन ब्रह्मचर्यं परित्यज ।
मातुस्त्वमिच्छया वक्त्र पौत्रस्य मम दर्शय । । २८
मार्कण्डेय उवाच
यदा स बहुशस्तेन प्रोक्तः पुत्रेण पार्थिवः ।
नान्यत्प्रार्थयते किंचित्तदा पुत्रोऽब्रवीत्पुनः । । २९
दत्त्वा किमिच्छकं तुभ्यं प्राप्तोऽहं तात सङ्कटम् ।
तत्करिष्यामि निर्लज्जो भूयो दारपरिग्रहम् । । 122.३०
स्त्रियाः समक्षं विजितः पतितो धरणीतले ।
स्त्रीपतिर्भविता भूयस्तातैतदतिदुष्करम् । । ३१
तथापि किं करोम्येष सत्यपाशवशङ्गतः ।
करिष्यामि यथाऽऽत्थ त्वं भुज्यतां निजशासनम् । । ३२
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नाम द्वाविंशत्यधिकशततमोऽध्यायः । १२२ ।
अथ त्रयोविंशत्यधिकशततमोऽध्यायः
अविक्षिच्चरितवर्णनम्
मार्कण्डेय उवाच
कदाचिद्राजपुत्रोऽसौ मृगयामचरद्वने ।
मृगान्विध्यन्वराहांश्च शार्दूलादींश्च दंष्ट्रिणः । । १
शुश्राव सहसा शब्दं त्राहित्राहीति योषितः ।
विक्रोशन्त्याः सुबहुशो भयगद्गदमुच्चकैः । । २
माभैर्माभैरिति वदन्राजपुत्रः स वेगितः ।
चोदयामास तुरगं यतः शब्दः समागतः । । ३ .
ततश्च सापि चुक्रोश कन्यका विजने वने ।
गृहीता दनुपुत्रेण दृढकेशेन मानिनी । । ४
करन्धमसुतस्याहं भार्या चाहमविक्षितः ।
हरत्यनार्यो विपिने पृथिवीशस्य धीमतः । । ५
यस्य सर्वे महीपालास्तथा गन्धर्वगुह्यकाः ।
न समर्थाः पुरः स्थातुं तस्य भार्या हतास्म्यहम् । । ६
यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ।
करन्धमसुतस्यैषा तस्य भार्या हृतास्म्यहम् । । ७
मार्कण्डेय उवाच
इत्याकर्ण्य महीपालतनयः सशरासनी ।
चिन्तयामास किमिदं मम भार्यात्र कानने । । ८
मायेयं रक्षसां नूनं दुष्टानां काननौकसाम् ।
अथवा गत एवाहं सर्वं वेत्स्यामि कारणम् । । ९
मार्कण्डेय उवाच
त्वरितः स ततो गत्वा ददर्शातिमनोरमाम् ।
कानने कन्यकामेकां सर्वालङ्कारभूषिताम् । । 123.१०
गृहीतां दनुपुत्रेण दृढकेशेन दण्डिना ।
त्राहित्राहीति करुणं विक्रोशन्ती पुनः पुनः । । ११
मा भैरिति स तामाह हतोऽसीति च तं वदन् ।
शासतीमां महीं दुष्टः को दूयेत करन्धमे । । १२
यस्य प्रतापावनता भुवि सर्वे महीक्षितः ।
ततस्तमागतं दृष्ट्वा गृहीतवरकार्मुकम् । । १३
मां त्राहीत्याह तन्वङ्गी हृतास्म्येषेति चासकृत् ।
राज्ञः करन्धमस्याहं स्नुषा भार्याप्यविक्षितः । ।
हृतास्म्येतेन दुष्टेन सनाथाऽनाथवद्वने । । १४
मार्कण्डेय उवाच
ततो विममृशे वाक्यमविक्षित्स तथोदितम् ।
कथमेषा हि मे भार्या स्नुषा तातस्य वा कथम् । । १५
अथवा मोचयाम्येतां तन्वीं वेत्स्यामि तत्पुनः ।
क्षत्रियैर्धार्यते शस्त्रमार्तानां त्राणकारणात् । । १६
ततः कुद्धोऽब्रवीद्वीरो दानवं तं सुदुर्मतिम् ।
जीवन्गच्छ विमुच्यैनामन्यथा न भविष्यसि । । १७
ततः स तां विहायोच्चैर्दण्डमुत्क्षिप्य दानवः ।
तमप्यधावत्सोऽप्येनं शरवर्षैरवाकिरत् । । १८
स वार्यमाणो बाणौघैर्दानवोऽतिमदान्वितः ।
राजपुत्राय चिक्षेप दण्डं शंकुशतावृतम् । । १९
तमापतन्तं चिच्छेद शरैर्भूपसुतस्ततः ।
सोऽप्यासन्नं गृहीत्वोच्चैर्द्रुममाजौ व्यवस्थितः । । 123.२०
सृजतः शरवर्षाणि तं चिक्षेप ततो द्रुमम् ।
स च तं तिलशश्चैके भल्लैः कार्मुकमोचितैः । । २१
ततश्चिक्षेप च शिलां राजपुत्राय दानवः ।
सापि मोघा पपातोर्व्यामुज्झिता तेन लाघवात् । । २२
राजपुत्राय कुपितो यद्यच्चिक्षेप दानवः ।
तत्तच्चिच्छेद बाणौघैर्भूभृत्सूनुः सलीलया । । २३
ततो विच्छिन्नदण्डोऽसौ विच्छिन्नसकलायुधः ।
मुष्टिमुद्यम्य सक्रोधो राजपुत्रमधावत । । २४
तस्यापतत एवासौ करन्धमसुतः शिरः ।
छित्त्वा वेतसपत्रेण पातयामास वै भुवि । । २५
तस्मिन्विनिहते देवैर्दानवे दुष्टचेष्टिते ।
करन्धमसुतः सर्वैः साधुसाध्विति भाषितः । । २६
वरं वृणीष्वेति तदा देवैरुक्तो नृपात्मजः ।
वव्रे पुत्रं महावीर्यं पितुः प्रियचिकीर्षया । । २७
देवा ऊचुः
भविष्यति हि ते पुत्रश्चक्रवर्त्ती महाबलः ।
अस्यामेव हि कन्यायां मोक्षितायां त्वयानघ । । २८
राजपुत्र उवाच
पित्राहं सत्यपाशेन बद्ध इच्छाम्यहं सुतम् ।
राजभिनिर्जितेनाजौ त्यक्तो मे दारसंग्रहः । । २९
सा च मे यावता त्यक्ता विशालनृपतेः सुता ।
तया च मत्कृते त्यक्तो मामृते नरसङ्गमः । । 123.३०
तत्कथं तामपास्याद्य विशालतनयामहम् ।
नृशंसात्मा करिष्यामि अन्यनारीपरिग्रहम् । । ३१
देवा ऊचुः
इयमेव हि ते भार्या श्लाघ्यते या त्वया सदा ।
विशालस्य सुता सुभ्रूस्त्वत्कृते याऽऽश्रिता तपः । । ३२
अस्यामुत्पत्स्यते वीरः सप्तद्वीपप्रसाधकः ।
यष्टा यज्ञसहस्राणां चक्रवर्त्ती सुतस्तव । । ३३
मार्कण्डेय उवाच
इत्युच्चार्य ययुर्देवाः करन्धमसुतं द्विज ।
सोऽप्याह तां तदा पत्नी कथ्यतां भीरु किन्त्विदम् । । ३४
सा चास्मै कथयामास त्यक्ताहं भवता यदा ।
त्यक्तबन्धुजनाऽरण्यं निर्वेदात्समुपागता । । ३५
अत्राहं तपसा वीर क्षीणप्रायं कलेवरम् ।
त्यक्तुकामा समभ्येत्य देवदूतेन वारिता । । ३६
भविष्यति च पुत्रस्ते चक्रवर्त्ती महाबलः ।
प्रीणयिष्यति यो देवानसुरांश्च हनिष्यति । । ३७
इति देवाज्ञया तेन देवदूतेन वारिता ।
न सन्य्ेक्तवती देहं त्वत्सङ्गममनोरथा । । ३८
परश्वश्च महाभाग स्नातुं गङ्गाह्रदं गता ।
अवतीर्णा विकृष्टास्मि वृद्धनागेन केनचित् । । ३९
ततो रसातलं नीता तेन तत्र च मे पुरः ।
नागाः सहस्रशस्तस्थुर्नागपत्न्यः कुमारकाः । । 123.४०
तुष्टुवुर्मां समभ्येत्य मामन्येऽपूजयंस्तथा ।
ययाचिरे सविनयं नागा मामङ्गनास्तथा । । ४१
प्रसादं कुरु सर्वेषां त्वमस्माकं सुतस्त्वया ।
अपराधमुपेतानां संनिवार्यो वधोन्मुखः । । ४२
अपराधं करिष्यन्ति त्वत्पुत्रस्यानिलाशनाः ।
तन्निमित्तं निवार्योऽसौ प्रसादः क्रियतामिति । । ४३
तथेति च मया प्रोक्ते दिव्यैः पातालभूषणैः ।
भूषिताहं तथा पुष्पैर्गन्धवासोभिरुत्तमैः । । ४४
समानीता तथा लोकमिमं तेनानिलाशिना ।
पुरा यथा कान्तिमती पूर्ववद्रूपशालिनी । ४५
इति रूपवतीं दृष्ट्वा सर्वालङ्कारभूषिताम् ।
जग्राह दृढकेशोऽयं हर्तुकामः सुदुर्मतिः । । ४६
युष्मद्बाहुबलेनाहं राजपुत्र विमोक्षिता ।
तत्प्रसीद महाबाहो मा प्रतीच्छ त्वया समः । ।
भूलोके राजपुत्रोऽन्यो नास्ति सत्यं ब्रवीम्यहम् । । ४७
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नाम त्रयोविंशत्यधिकशततमोऽध्यायः । १२३ ।
अथ चतुर्विंशत्यधिकशततमोऽध्यायः
मरुत्तपुत्रोत्पत्तिवर्णनम्
मार्कण्डेय उवाच
इति तस्या वचः श्रुत्वा स्मृत्वा पितृवचः शुभम् ।
किमिच्छके प्रतिज्ञाते यदुक्तं तेन भूभृता । । १
प्रत्युवाच स तां कन्यामविक्षिन्नृपतेः सुतः ।
सानुरागमनाः कन्यां त्यक्तभोगां च तत्कृते । । २
यदाहं त्यक्तवांस्तन्वीं त्वामरातिपराजितः ।
विजित्य शत्रून्सम्प्राप्ता त्वं मयात्र करोमि किम् । । ३
कन्योवाच
मम पाणिं गृहाण त्वं रमणीयेऽत्र कानने ।
सकामायाः सकामेन सङ्गमो गुणवान्भवेत् । । ४
राजपुत्र उवाच
एवं भवतु भद्रं ते विधिरेवात्र कारणम् ।
अन्यथा कथमन्यत्र त्वामहं च समागतः । । ५
मार्कण्डेय उवाच
एतस्मिन्नन्तरे प्राप्तो गन्धर्वतनयो मुने ।
वराप्सरोभिः सहितो गन्धर्वैरपरैर्वृतः । । ६
गन्धर्व उवाच
राजपुत्र सुतेयं  मे भामिनी नाम मानिनी ।
अभिशापादगस्त्यस्य विशालतनयाऽभवत् । । ७
बालभावेन योऽगस्त्यः कोपितः क्रीडमानया ।
ततस्तेन तदा शप्ता मानुषी त्वं भविष्यसि । । ८
प्रसादितः स चास्माभिर्बालेयमविवेकिनी ।
तवापराद्धा विप्रर्षे प्रसादः क्रियतामिति । । ९
प्रसाद्यमानः सोऽस्माभिरिदमाह महामुनिः ।
बालेति मत्वा शापोऽल्पो दत्तोऽस्या नान्यथैव तत् । । 124.१०
इति शापादगस्त्यस्य विशालभवने शुभा ।
जातेयं मत्सुता सुभ्रूर्भामिनी नाम नामतः । । ११
तदस्याहं कृते प्राप्तो गृहाणेमां नृपात्मजाम् ।
ममात्मजा सुतस्तेऽत्र चक्रवर्ती भविष्यति । । १२
मार्कण्डेय उवाच
तथेत्युक्त्वेति तस्याश्च स पाणिं पार्थिवात्मजः ।
जग्राह विधिवद्धोमं चक्रे तत्र च तुम्बुरुः । । १३
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
पुष्पाणि ससृजुर्मेघा देववाद्यानि सस्वनुः । । १४
विवाहे राजपुत्रस्य तया तत्र समेयुषः ।
समस्तवसुधात्राणकर्तृकारणभूतया । । १५
ततो गन्धर्वलोकं ते सह तेन महात्मना ।
निःशेषेण ययुः सा च स राजसुतो मुने । । १६
भामिन्या मुमुदे सार्द्धमविक्षिन्नृपनन्दनः ।
सा च तेन समं तत्र भोगसम्पत्समन्विता । । १७
कदाचिदतिरम्येऽसौ नगरोपवने तया ।
विक्रीडति समं तन्व्या कदाचिदुपपर्वते । । १८
कदाचित्पुलिने नद्या हंससारसशोभिते ।
कदाचिद्भवनस्यान्ते प्रासादे चातिशोभने । । १९
विहारदेशेष्वन्येषु रमणीयेष्वहर्निशम् ।
स रेमे सहितस्तन्व्या सा च तेन महात्मना । । 124.२०
भक्ष्यानुलेपनं वस्त्रं स्रक्पानादिकमुत्तमम् ।
उपाजह्रुस्तयोस्तत्र मुनिगन्धर्वकिन्नराः । । २१
तया च रमतस्तस्य भामिन्या सह दुर्लभे ।
गन्धर्वलोके वीरस्य पुत्रं सा सुषुवे शुभा । । २२
तस्मिञ्जाते महावीर्ये गन्धर्वाणां महोत्सवः ।
बभूव मनुजव्याघ्रे तेन कार्यमवेक्षताम् । । २३
जगुः केचित्तथैवान्ये मृदङ्गपटहानकान् ।
अवादयन्त चैवान्ये वेणुवीणादिकांस्तथा । । २४
ननृतुश्च तथा तत्र बहवोऽप्सरसां गणाः ।
पुष्पवृष्टिमुचो मेघा जगर्जुर्मृदुनिस्वनाः । । २५
तथा कोलाहले तस्मिन्वर्तमानेऽथ तुम्बुरुः ।
प्रणयेन स्मृतोऽभ्येत्य जातकर्माकरोन्मुनिः । । २६
देवाः समाययुः सर्वे तथा देवर्षयोऽमलाः ।
पातालात्पन्नगेन्द्राश्च शेषवासुकितक्षकाः । । २७
तथा देवासुराणां च ये प्रधाना द्विजोत्तम ।
यक्षाणां गुह्यकानां च वायवश्च तथाऽखिलाः । । २८
तदाऽऽगतैरशेषर्षिदेवदानवपन्नगैः ।
मुनिभिश्चाकुलमभूद्गन्धर्वाणां महत्पुरम् । । २९
ततः स तुम्बुरुः कृत्वा जातकर्मादिकाः क्रियाः ।
चक्रे स्वस्त्ययनं तस्य बालस्य स्तुतिपूर्वकम् । । 124.३०
चक्रवर्ती महावीर्यो महाबाहुर्महाबलः ।
महान्तं कालमीशित्वमशेषायाः क्षितेः कुरु । । ३१
इमे शक्रादयः सर्वे लोकपालस्तथर्षयः ।
स्वस्ति कुर्वन्तु त वीर वीर्यं चारिविनाशनम् । । ३२
मरुत्तव शिवायास्तु वाति पूर्वेण योऽरजाः ।
मरुत्ते विमलोऽक्षीणोऽवैषम्यायास्तु दक्षिणः । । ३३
पश्चिमस्ते मरुद्वीर्यमुत्तमं ते प्रयच्छतु ।
बलं यच्छतु चोत्कृष्टं मरुत्ते च तथोत्तरः । । ३४
इति स्वस्त्ययनस्यान्ते वागुवाचाशरीरिणी ।
मरुत्तवेति बहुशो यदिदं गुरुरब्रवीत् । । ३५
मरुत्त इति तेनायं भुवि ख्यातो भविष्यति ।
भुवि चास्य महीपाला यास्यन्याब्ज्ञावशा यतः । । ३६
एष सर्वक्षितीशानां वीरः स्थास्यति मूर्द्धनि ।
चक्रवर्त्ती महावीर्यः सप्तद्वीपवतीं महीम् । । ३७
आक्रम्य पृथिवीपालानयं भोक्ष्यत्यवारितः ।
प्रधानः पृथिवीशानां भविष्यत्येष यज्विनाम् । ।
आधिक्यं शौर्यवीर्येण भविष्यत्यस्य राजसु । । ३८
मार्कण्डेय उवाच
इत्याकर्ण्य वचः सर्वे केनाप्युक्तं दिवौकसाम् ।
तुतुषुर्विप्रगन्धर्वाश्चास्य माता तथा पिता । । ३९
इति श्री मार्कण्डेयषुराणेऽविक्षिच्चरितेऽविक्षितो मरुत्तपुत्रोत्पत्तिवर्णनं नाम चतुर्विंशत्यधिकशततमोऽध्यायः । १२४ ।
अथ पञ्चविंशत्यधिकशततमोऽध्यायः
मरुत्तचरित्रवर्णनम्
मार्कण्डेय उवाच
ततः स राजपुत्रस्तमादाय दयितं सुतम् ।
पत्नीं चानुगतो विप्र गन्धर्वैराययौ पुरम्। । १
स पितुर्भवनं प्राप्य ववन्दे पितुरादरात् ।
चरणौ सा च तन्वङ्गी ह्रीमती नृपते सुता । । २
तथाह राजपुत्रोऽसौ गृहीत्वा बालकं सुतम् ।
धर्मासनगतं भूपं राज्ञां मध्ये करन्धमम् । । ३
मुखं पौत्रस्य पश्यैतदुत्सङ्गस्थस्य यन्मया ।
किमिच्छके प्रतिज्ञातं तुभ्यं मातुः कृते पुरा । । ४
इत्युक्त्वा पितुरुत्सङ्गे तं कृत्वा तनयं ततः ।
यथावृत्तमशेषं स कथयामास तस्य तत् । । ५
स परिष्वज्य तं पौत्रमानन्दास्राविलेक्षणः ।
स भाग्योऽस्मीत्यथात्मानं प्रशशंस पुनः पुनः । । ६
ततः सोऽर्घ्यादिना सम्यग्गन्धर्वान्समुपागतान् ।
सम्मानयामास मुदा विस्मृतान्यप्रयोजनः । । ७
ततः पुरे महानासीदानन्दः पौरवेश्मसु ।
अस्माकं सन्ततिर्जाता नाथस्येति महामुने । । ८
हृष्टपुष्टे पुरे तस्मिन्गीतवाद्यैर्वराङ्गनाः ।
विलासिन्योऽतिचार्वङ्ग्यो ननृतुर्लास्यमुत्तमम् । । ९
राजा च द्विजमुख्येभ्यो रत्नानि च वसूनि च ।
गावो वस्त्राण्यलङ्कारानददाद्धृष्टमानसः । । 125.१०
ततः स बालो ववृधे शुक्लपक्षे यथा शशी ।
पितॄणां प्रीतिजनको जनस्येष्टश्च सोऽभवत् । । ११
आचार्याणां सकाशात्स प्राग्वेदाञ्जगृहे मुने ।
ततः शास्त्राण्यशेषाणि धनुर्वेदं ततः परम् । । १२
कृतोद्योगो यदा सोऽभूत्खड्गकार्मुककर्मणि ।
अन्येषु च तथा वीरः शस्त्रेषु विजितश्रमः । । १३
ततोऽस्त्राणि स जग्राह भार्गवाद्भृगुसम्भवात् ।
विनयावनतो विप्र गुरोः प्रीतिपरायणः । । १४
गृहीतास्त्रः कृती वेदे धनुर्वेदस्य पारगः ।
निष्णातः सर्वविद्यासु न बभूव ततः परः । । १५
विशालोऽपि सुतावार्त्तामुपलभ्याखिलामिमाम् ।
हर्षनिर्भरचित्तोऽभूद्दौहित्रस्य च योग्यताम् । । १६
अथ राजा सुतसुतं दृष्ट्वा प्राप्तमनोरथः ।
यज्ञाननेकान्निष्याद्य दत्त्वा दानानि चार्थिनाम् । । १७
कृतशेषक्रियो युक्तः स वर्णेर्धर्मतो महीम् ।
परिपाल्यारिविजयी बलबुद्धिसमन्वितः । । १८
स यियासुर्वनं पुत्रमविक्षितमभाषत ।
पुत्र वृद्धोऽस्मि गच्छामि वनं राज्यं गृहाण मे । । १९
कृतकृत्योऽस्मि नास्त्यन्यत्किञ्चित्त्वदभिषेचनात् ।
सुनिष्पन्नमतो राज्यं त्वं गृहाण मयार्पितम् । । 125.२०
इत्युक्तः पितरं प्राह सोऽविक्षिन्नृपनन्दनः ।
प्रश्रयावनतो भूत्वा यियासुस्तपसे वनम् । । २१
नाहं तात करिष्यामि पृथिव्याः परिपालनम् ।
नापैति ह्रीर्मे मनसि राज्येऽयं त्वं नियोजय । । २२
तातेन मोक्षितो बद्धो न स्ववीर्यादहं यतः ।
ततः कियत्पौरुषं मे पुरुषैः पाल्यते मही । । २३
योऽहं न पालनायालमात्मनोऽपि वसुन्धराम् ।
स कथं पालयिष्यामि राज्यमन्यत्र विक्षिप । । २४
स स्त्रीसधर्मा पुरुषो यश्चान्येनावद्रुह्यते ।
आत्माऽमोहाय भवता बन्धनाद्येन मोक्षितः । । २५
सोऽहं कथं भविष्यामि स्त्रीसधर्मा महीपतिः ।
स्त्रियः पुमान्भवेद्भर्त्ता य शूरः स महीपतिः । । २६
पितोवाच
न भिन्न एव पुत्रस्य पिता पुत्रस्तथा पितुः ।
नान्येन मोक्षितो वीर यस्त्वं पित्रा विमोक्षितः । ।
पुत्र उवाच
हदयं नान्यथा नेतुं मया शक्यं नरेश्वर । । २७
हृदये ह्रीर्ममातीव यस्त्वहं मोक्षितस्त्वया । । २८
पित्रोपात्तां श्रियं भुङ्क्ते पित्रा कृच्छ्रात्समुद्धृतः ।
विज्ञायते च यः पित्रा मानवः सोऽस्तु नो कुले । । २९
स्वयमर्जितवित्तानां ख्यातिं स्वयमुपेयुषाम् ।
स्वयं निस्तीर्णकृच्छ्राणां या गतिः साऽस्तु मे गतिः । । 125.३०
मार्कण्डेय उवाच
इत्याह बहुशः पित्रा यदाप्युक्त्वाऽप्यसौ मुने ।
तदा तस्य सुतं राज्ये मरुत्तमकरोन्नृपः । । ३१
स पित्रा समनुज्ञातं राज्यं प्राप्य पितामहात् ।
चकार सम्यक्सुहृदामानन्दमुपपादयन् । । ३२
राजा करन्धमश्चापि वीरामादाय तां तथा ।
वनं जगाम तपसे यतवाक्कायमानसः । । ३३
तत्र वर्षसहस्रं स तपस्तप्त्वा सुदुश्चरम् ।
विहाय देहं नृपतिः शक्रस्याप सलोकताम् । । ३४
सास्य पत्नी तदा वीरा वर्षाणामपरं शतम् ।
तपश्चचार विप्रर्षे जटिलामलपङ्किनी । । ३५
सालोक्यमिच्छती भर्त्तुः स्वर्गतस्य महात्मनः ।
फलमूलकृताहारा भार्गवाश्रमसंश्रया । ।
द्विजातिपत्नीमध्यस्था द्विजशुश्रूषणादृता । । ३६
इति श्रीमार्कण्डेयपुराणे मरुत्तचरिते पञ्चविंशत्यधिकशततमोऽध्यायः । १२५ ।
अथ षड्विंशत्यधिकशततमोऽध्यायः
मरुत्तचरितवर्णनम्
क्रौष्टुकिरुवाच
भगवन्विस्तरात्सर्वं ममैतत्कथितं त्वया ।
करन्धमस्य चरितमविक्षिच्चरितं च यत् । । १
अविक्षितस्य नृपतेर्मरुत्तस्य महात्मनः ।
श्रोतुमिच्छामि चरितं श्रूयते सोऽतिचेष्टितः । । २
चक्रवर्त्ती महाभागः शूरः कान्तो महामतिः ।
धर्मविद्धर्मकृच्चैव सम्यक्पालयिता भुवः । । ३
मार्कण्डेय उवाच
स पित्रा समनुज्ञातं राज्यं प्राप्य पितामहात् ।
धर्मतः पालयामास पिता पुत्रानिवौरसान् । । ४
इयाज सुबहून्यज्ञान्यथावत्स्वाप्तदक्षिणान् ।
ऋत्विक्पुरोहितादेशादनिर्विण्णो महीपतिः । । ५
तस्याप्रतिहतं चक्रमासीद्द्वीपेषु सप्तसु ।
गतिश्चाप्यनवच्छिन्ना स्वःपातालजलादिषु । । ६
ततः प्राप्य धनं विप्र यथावत्स्वक्रियापरः ।
अयजत्स महायज्ञैर्देवानिन्द्रपुरोगमान् । । ७
इतरे च यथावर्णाः स्वे स्वे कर्मण्यतन्द्रिताः ।
तदुपात्तधनाश्चक्रुरिष्टापूर्त्तादिकाः क्रियाः । । ८
पाल्यमाना मही तेन मरुत्तेन महात्मना ।
योऽस्पर्द्धात्त्रिदशावासवासिभिर्द्विजसत्तम । । ९
तेनातिशयिताः सर्वे केवलं न महीक्षितः ।
यज्विना देवराजोऽपि शतयज्ञाभिसन्धिना । । 126.१०
ऋत्विक्तस्य तु संवर्त्तो बभूवाङ्गिरसः सुतः ।
भ्राता बृहस्पतेर्विप्र महात्मा तपसां निधिः । । ११
सौवर्णो मुञ्जवान्नाम पर्वतः सुरसेवितः ।
पातितं तेन तच्छृङ्गं कृते तस्य महीपतेः । । १२
तेन यस्याखिलं यज्ञे भूमिभागादिकं द्विज ।
प्रासादाश्च कृताः शुभ्रास्तपसा सर्वकाञ्चनाः । । १३
गाथाश्चाप्यत्र गायन्ति मरुत्तचरिताश्रयाः ।
सातत्येनर्षयः सर्वे कुर्वन्तोऽध्ययनं यथा । । १४
मरुत्तेन समो नाभूद्यजमानो महीतले ।
सदः समस्तं यद्यज्ञे प्रासादाश्चैव काञ्चनाः । । १५
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।
विप्राणां परिवेष्टारः शक्राद्यास्त्रिदशोत्तमाः । । १६
यथा यज्ञे मरुत्तस्य तृप्ताः सर्वे महीपतेः ।
सुवर्णमखिलं त्यक्तं रत्नपूर्णगृहे द्विजैः । । १७
प्रासादादिसमस्तं च सौवर्णं तस्य यत्क्रतौ ।
त्रयो वर्णाह्यलभ्यन्त तस्मात्केचित्तथा ददुः । । १८
( तेन त्यक्तेन शिष्टा ये जनाः पूर्णमनोरथाः ।
तेऽपि यज्ञान्यजन्ते स्म देशे देशे पृथक्पृथक् । ।)
तस्यैवं कुर्वतो राज्यं सम्यक्पालयतः प्रजाः ।
तपस्वी कश्चिदभ्येत्य तमाह मुनिसत्तम । । १९
पितुर्माता तवाहेदं दृष्ट्वा तापसमण्डलम् ।
विषाभिभूतमुरगैर्मदोन्मत्तैर्नरेश्वर । । 126.२०
पितामहस्ते स्वर्यातः सम्यक्संपाल्य मेदिनीम् ।
पिता तव तथा शक्तो हित्वा ग्रामं वनं गतः । ।
( तपश्चरणशक्ताऽहमिह चौर्वाश्रमे स्थिता) । । २१
साऽहं पश्यामि वैकल्यं तव राज्यं प्रशासतः ।
पितामहस्य तेनाभूद्यत्पूर्वेषां च ते नृप । । २२
नूनं प्रमत्तो भोगेषु सक्तो वाऽविजितेन्द्रियः ।
चारान्धता यतोऽस्तीयं दुष्टादुष्टं न वेत्सि यत् । । २३
पातालादभ्युपेतैस्तु भुजगैर्दशशालिभिः ।
दष्टा मुनिसुताः सप्त दूषिताश्च जलाशयः । । २४
स्वेदमूत्रपुरीषेण दूषितं सुशृतं हविः ।
अपराधं समुद्दिश्य दत्तो नागबलिश्चिरात् । । २५
एते समर्था मुनयो भस्मीकर्तुं भुजङ्गमान् ।
किन्त्वेषां नाधिकारोऽत्र त्वमेवाधिकारवान् । । २६
तावत्सुखं भूपतिजैर्भोगजं प्राप्यते नृप ।
अभिषेकजलं यावन्न मूर्ध्नि विनिपात्यते । । २७
कानि मित्राणि कः शत्रुर्मम शत्रोर्बलं कियत् ।
कोऽहं के मन्त्रिणः पक्षे के वा भूपतयो मम । । २८
( कियान्कोशो बलं किंवा कोऽनुरक्तो जनो मम) ।
विरक्तो वा परैर्भिन्नः परेषामपि कीदृशः । ।
कः सम्यगत्र नगरे विषये वा जनो मम । । २९
धर्मकर्माश्रयो मूढः कः सम्यगपि वर्त्तते ।
को दण्ड्यः परिपाल्यः कः के चोपेक्ष्या नरा मया । । 126.३०
सामभेदतया दम्या देशकालमवेक्षता ।
चारांश्च चारयेदन्यैरज्ञातान्भूपतिश्चरैः । । ३१
सचिवादिषु सर्वेषु चरान्दद्यान्महीपतिः ।
इत्यादौ भूपतिर्नित्यं कर्मण्यासक्तमानसः । । ३२
नयेद्दिनं तथा रात्रिं न तु भोगपरायणः ।
राज्ञां शरीरग्रहणं न भोगाय महीपते । । ३३
क्लेशाय महते पृथ्वी स्वधर्मपरिपालने ।
सम्यक्पालयतः पृथ्वीं स्वधर्मं च महीपते । । ३४
इह क्तेशो महान्स्वर्गे परमं सुखमक्षयम् ।
तदेतदवबुध्यस्व हित्वा भोगान्नरेश्वर । । ३५
पालनाय क्षितेः क्लेशमङ्गीकर्तुमिहार्हसि ।
इति वृत्तमृषीणां यद्व्यसनं त्वयि शासति । । ३६
भुजङ्गहेतुकं भूप चारान्धो नापि वेत्सि तत् ।
बहुनात्र किमुक्तेन दुष्टे दण्डो निपात्यताम् । । ३७
शिष्टान्पालय राजंस्त्वं धर्मषड्भागमाप्स्यसि ।
अरक्षन्पापमखिलं दुष्टैरविनयात्कृतम् । । ३८
समवाप्स्यस्यसन्दिग्धं यदिच्छसि कुरुष्व तत् ।
एतन्मयोक्तं सकलं यत्तवाहं पितामहः । ।
कुरुष्वैवं स्थिते यत्ते रोचते वसुधाधिप । । ३९
इति श्रीमार्कण्डेयपुराणे मरुत्तचरितवर्णनं नाम षड्विंशत्यधिकशततमोऽध्यायः । १२६ ।
अथ सप्तविंशत्यधिकशततमोऽध्यायः
मरुत्तचरितवर्णनम्
मार्कण्डेय उवाच
इति तापसवाक्यं स श्रुत्वा लज्जापरो नृपः ।
धिङ्मां चारान्धमित्युक्त्वा निःश्वस्य जगृहे धनुः । । १
ततः स त्वरितं गत्वा तमौर्वस्याश्रमं प्रति ।
ववन्दे शिरसा वीरां मातरं पितुरात्मनः । । २
तापसांश्च यथान्यायं तैश्चाशीर्भिरभिष्टुतः ।
दृष्ट्वा च तापसान्सप्त नागैर्दष्टान्मृतान्भुवि । । ३
निनिन्दात्मानमसकृत्पुरस्तेषां महीपतिः ।
उवाच चैतदद्याहं मद्वीर्यमवमन्यताम् । । ४
यत्करोमि भुजङ्गानां दुष्टानां ब्राह्मणद्विषाम् ।
तत्पश्यतु जगत्सर्वं सदेवासुरमानुषम् । । ५
मार्कण्डेय उवाच
इत्युक्त्वा जगृहे कोपादस्त्रं संवर्तकं नृपः ।
नाशायाशेषनागानां पातालोर्वीविचारिणाम् । । ६
ततो जज्वाल सहसा नागलोकः समन्ततः ।
महास्त्रतेजसा विप्र दह्यमानो निवारितः । । ७
हा हा तातेति हा मातर्हा हा वत्सेति संभ्रमे ।
तस्मिन्नस्त्रकृते वाचः पन्नगानामथाभवन् । । ८
केचिज्ज्वलद्भिः पुच्छाग्रैः फणैरन्ये भुजङ्गमाः ।
गृहीतपुत्रदाराश्च त्यक्ताभरणवाससः । । ९
पातालमुत्सृज्य ययुः शरणं भामिनीं तदा ।
मरुत्तमातरं पूर्वं यया दत्तं तदाभयम् । । 127.१०
तामुपेत्योरगाः सर्वे सप्रणामं भयातुराः ।
सगद्गदमिदं प्रोचुः स्मर्यतां नः पुरोदितम् । । ११
प्रणम्याभ्यर्थितं पूर्वं यदस्माभिः रसातले ।
तस्य कालोऽयमायातस्त्राहि वीरप्रजायिनि । । १२
पुत्रो निवार्यतां राज्ञि प्राणैः संयोज्यमस्तु नः ।
दह्यते सकलो लोको नागानामस्त्रवह्निना । । १३
एवं संदह्यमानानामस्माकं तनयेन ते ।
त्वामृते शरणं नान्यत्कृपां कुरु यशस्विनि । । १४
मार्कण्डेय उवाच
इति श्रुत्वा वचस्तेषां संस्मृत्यादौ च भाषितम् ।
भर्त्तारमाह सा साध्वी ससम्भ्रममिदं वचः । । १५
पूर्वमेव तवाख्यातं पाताले यद्भुजङ्गमैः ।
प्रोक्तमभ्यर्थनापूर्वं ममासीत्तनयं प्रति । । १६
त इमेऽभ्यागता भीता दह्यन्ते तस्य तेजसा ।
मामेते शरणं पूर्वं दत्तमेभ्यो मयाऽभयम् । । १७
ये मां शरणमापन्नास्ते त्वां शरणमागताः ।
अपृथग्धर्मचरणा याताहं शरणं तव । । १८
तन्निवारय पुत्रं त्वं मरुत्तं वचनात्तव ।
मया चाभ्यर्थितोऽवश्यं शममभ्युपयास्यति । । १९
राजोवाच
महापराधे नियतं मरुत्तः क्रोधमागतः ।
दुर्निर्वर्त्यमहं मन्ये तस्य क्रोधं सुतस्य ते । । 127.२०
नागा ऊचुः
शरणागतास्तव वयं प्रसादः क्रियतां नृप ।
क्षत्रस्यार्तपरित्राणनिमित्तं शस्त्रधारणम् । । २१
मार्कण्डेय उवाच
नागानां तद्वचः श्रुत्वा भूतानां शरणैषिणाम् ।
तया चाभ्यर्थितः पत्न्या प्राहावीक्षिन्महायशाः । । २२
गत्वा ब्रवीमि तं भद्रे तनयं त्वरया तव ।
परित्राणाय नागानां न त्याज्याः शरणागताः । । २३
नोपसंहरते सोऽस्त्रं यदि मद्वचनान्नृपः ।
तदास्त्रैर्वारयिष्यामि तस्यास्त्रं तनयस्य ते । । २४
मार्कण्डेय उवाच
ततो गृहीत्वा स धनुरविक्षित्क्षत्रियोत्तमः ।
भार्यया सहितः प्रायात्त्वरावान्भार्गवाश्रमम् । । २५
इति श्रीमार्कण्डेयपुराणे मरुत्तचरितवर्णनं नाम सप्तविंशत्यधिकशततमोऽध्यायः । १२७ ।
अथाष्टाविंशत्यधिकशततमोऽध्यायः
मरुत्तचरितवर्णनम्
मार्कण्डेय उवाच
स तु तत्र सुतं दृष्ट्वा गृहीतवरकार्मुकम् ।
धनुः शस्त्रं च तस्योग्रं ज्वालाव्याप्तदिगन्तरम् । । १
उद्गिरन्तं महावह्निं दीपिताखिलभूतलम् ।
पातालान्तर्गतं प्राप्तमसह्यं घोरभीषणम् । । २
स तं दृष्ट्वा महीपालं भृकुटीकुटिलाननम् ।
मा क्रुधस्त्वं मरुत्तास्त्रमुपसंह्रियतामिति । । ३
प्राहासकृच्चानुलुप्तवर्णक्रममुदारधीः ।
स निशम्य गुरोर्वाक्यं दृष्ट्वा तं च पुनः पुनः । । ४
गृहीतकार्मुकः पित्रोः प्रणिपत्य सगौरवम् ।
प्रत्युवाचापराद्धा मे सुभृशं पन्नगाः पितः । । ५
शासतीमां मयि महीं परिभूय बलं मम ।
सप्ताश्रममुपागम्य दष्टा मुनिकुमारकाः । । ६
ऋषीणामाश्रमस्थानाममीषामवनीपते ।
मयि शासति दुर्वृत्तैर्दूषितानि हवींषि च । । ७
जलाशयास्तथाप्येतैः सर्व एव हि दूषिताः ।
तदेत्कारणं किञ्चिन्न वक्तव्यं त्वया पितः । ।
न निवारयितव्योऽहं ब्रह्मघ्नान्प्रतिपन्नगान् । । ८
अविक्षिदुवाच
यद्येभिर्निहता विप्रा यास्यन्ति नरकं मृताः ।
ममैतत्कियतां वाक्यं विरमास्त्रप्रयोगतः । । ९
मरुत्त उवाच
नाहमेषां क्षमिष्यामि दुष्टानामपराधिनाम् ।
अहमेव गमिष्यामि नरकं यदि पापिनाम् । ।
न निग्रहे यताम्येषां मां निवारय मा पितः । । 128.१०
अविक्षिदुवाच
मामेते शरणं प्राप्ताः पन्नगा मम गौरवात् ।
उपसंह्रियतामस्त्रमलं कोपेन ते नृप । । ११
मरुत्त उवाच
नाहमेषां क्षमिष्यामि दुष्टानामपराधिनाम् ।
स्वधर्ममुल्लंघ्य कथं करिष्यामि वचस्तव । । १२
दण्ड्ये निपातयन्दण्डं भूपः शिष्टांश्च पालयन् ।
पुण्यलोकानवाप्नोति नरकांश्चाप्युपेक्षणात् । । १३
मार्कण्डेय उवाच
एवं स बहुशः पित्रा वार्यमाणोऽम्बया सह ।
नोपसंहरते सोऽस्त्रं ततोऽसौ पुनरब्रवीत् । । १४
हिंससे पन्नगान्भीतान्ममैताञ्छरणं गतान् ।
वार्यमाणोऽपि तस्मात्ते करिष्यामि प्रतिक्रियाम् । । १५
मयाप्यस्त्राण्यवाप्तानि न त्वमेकोऽस्त्रविद्भुवि ।
ममाग्रतः सुदुर्वृत्तपौरुषं च कियत्तव । । १६
ततः कार्मुकमारोप्य कोपताम्रविलोचनः ।
अविक्षिदस्त्रं जग्राह कालस्य मुनिपुङ्गव । । १७
ततो ज्वालापरीवारमरिसंघघ्नमुत्तमम् ।
कालास्त्रं तु महावीर्यं योजयामास कार्मुके । । १८
ततश्चुक्षोभ जगती संवर्त्तास्त्रप्रतापिता ।
साब्धिशैलाऽखिला विप्र कालस्यास्त्रे समुद्यते । । १९
मार्कण्डेय उवाच
कालास्त्रमुद्यतं पित्रा मरुत्तः सोऽपि वीक्ष्य तत् ।
प्राहोच्चैरस्त्रमेतन्मे दुष्टशास्तिसमुद्यतम् । । 128.२०
न त्वद्वधाय कालास्त्रं मयि मुञ्चति किं भवान् ।
स्वधर्मचारिणि सुते सदैवाज्ञाकरे तव । । २१
मया कार्यं महाभाग प्रजानां परिपालनम् ।
त्वयैवं क्रियते कस्मान्मद्वधायास्त्रमुद्यतम् । । २२
अविक्षिदुवाच
शरणागतसंत्राणं कर्तुं व्यवसिता वयम् ।
तस्य व्याघातकर्त्ता त्वं न मे जीवन्विमोक्ष्यसे । । २३
मां वा हत्वास्त्रवीर्येण जहि दुष्टानिहोरगान् ।
त्वां वा हत्वाऽहमस्त्रेण रक्षिष्यामि महोरगान् । । २४
धिक्तस्य जीवितं पुंसः शरणार्थिनमागतम् ।
योनार्तमनुगृह्णाति वैरिपक्षमपि ध्रुवम् । । २५
क्षत्रियोऽहमिमे भीताः शरणं मामुपागताः ।
अपकर्त्ता त्वमेवैषां कथं वध्यो न मे भवान् । । २६
मरुत्त उवाच
मित्रं वा बान्धवो वाऽपि पिता वा यदि वा गुरुः ।
प्रजापालनविघ्नाय यो हन्तव्यः स भूभृता । । २७
सोऽहं ते प्रहरिष्यामि न क्रोद्धव्यं त्वया पितः ।
स्वधर्मः परिपाल्यो मे न मे क्रोधस्तवोपरि । । २८
मार्कण्डेय उवाच
ततस्तौ निश्चितौ दृष्ट्वा परस्परवधं प्रति ।
समुत्पत्यान्तरे तस्थुर्मुनयो भार्गवादयः । । २९
ऊचुश्चैनं न मोक्तव्यं त्वयास्त्रं पितरं प्रति ।
त्वया च नायं हन्तव्यः पुत्रः प्रख्यातचेष्टितः । । 128.३०
मरुत्त उवाच
मया दुष्टा निहन्तव्याः सन्तो रक्ष्या महीक्षिता ।
इमे च दुष्टा भुजगाः कोऽपराधोऽत्र मे द्विजाः । । ३१
अविक्षिदुवाच
शरणागतसन्त्राणं मया कार्यमयं च मे ।
अपराध्यः सुतो विप्रा यो हन्ति शरणागतान् । । ३२
ऋषयः ऊचुः
इमे वदन्ति भुजगास्त्रासलोलविलोचनाः ।
संजीवयामस्तान्विप्रान्ये दष्टा दुष्टपन्नगैः । । ३३
तदलं विग्रहेणोभौ राजवर्यौ प्रसीदताम् ।
उभावपि विनिर्व्यूढप्रतिज्ञे धर्मकोविदौ । । ३४
मार्कण्डेय उवाच
सा तु वीरा समभ्येत्य पुत्रमेतदभाषत ।
मद्वाक्यादेष ते पुत्रो हन्तुं नागान्कृतोद्यमः । । ३५
तन्निष्पन्नं यदा विप्रास्ते जीवन्ति तथा मृताः ।
सञ्जीवन्तश्च मुच्यन्ते यद्युष्मच्छरणं गताः । । ३६
भामिन्युवाच
अहमभ्यर्थिता पूर्वमेभिः पातालसंश्रयैः ।
तन्निमित्तमयं भर्त्ता मयात्र विनियोजितः । । ३७
तदेतदार्ये निर्वृत्तमुभयोरपि शोभनम् ।
मम भर्तुश्च पुत्रस्य त्वत्पौत्रस्यात्मजस्य च । । ३८
मार्कण्डेय उवाच
ततः सञ्जीवयामासुस्तान्विप्रांस्ते भुजङ्गमाः ।
दिव्यैरोषधिजातैश्च विषसंहरणेन च । । ३९
पित्रोर्ननाम चरणौ स ततो जगतीपतिः ।
मरुत्तश्च स तं प्रीत्या परिष्वज्येदमब्रवीत् । । 128.४०
मानहा भव शत्रूणां चिरं पालय मेदिनीम् ।
पुत्रपौत्रैश्च मोदस्व मा च ते सन्तु विद्विषः । । ४१
ततो द्विजैरनुज्ञातौ वीरया च नरेश्वरौ ।
समारूढौ रथं सा च भामिनी स्वपुरं गता । । ४२
वीराऽपि कृत्वा सुमहत्तपो धर्मभृतां वरा ।
भर्तुः सलोकतां प्राप्ता महाभागा पतिव्रता । । ४३
मरुत्तोऽपि चकारोर्व्यां धर्मतः परिपालनम् ।
विनिर्जितारिषड्वर्गो भोगांश्च बुभुजे नृपः । । ४४
तस्य पत्नी महाभागा विदर्भतनया तथा ।
प्रभावती सुवीरस्य सौवीरी चाभवत्सुता । । ४५
सुकेशी केतुवीर्यस्य मागधस्यात्मजाऽभवत् ।
सुता च सिन्धुवीर्यस्य मद्रराजस्य केकयी । । ४६
केकयस्य च सैरन्ध्री सिन्धुभर्तुर्वपुष्मती ।
चेदिराजसुता चाभूद्भार्या तस्य सुशोभना । । ४७
तासां पुत्रास्तस्य चासन्भूभृतोऽष्टादश द्विज ।
तेषां प्रधानो ज्येष्ठश्च नरिष्यन्तः सुतोऽभवत् । । ४८
एवं वीर्यो मरुत्तोभून्महाराजो महाबलः ।
तस्याप्रतिहतं चक्रमासीद्द्वीपेषु सप्तसु । । ४९
यस्य तुल्योऽपरो राजा न भूतो न भविष्यति ।
सत्त्वविक्रमयुक्तस्य राजर्षेरमितौजसः । । 128.५०
तस्यैतच्चरितं श्रुत्वा मरुत्तस्य महात्मनः ।
जन्म चाग्र्यं द्विजश्रेठ मुच्यते सर्वकिल्बिषैः । । ५१
इति श्रीमार्कण्डेयपुराणे मरुत्तचरितेऽष्टाविंशत्यधिकशततमोऽध्यायः । १२८ ।
अथैकोनत्रिंशदधिकशततमोऽध्यायः
नरिष्यंतचरितवर्णनम्
क्रौष्टुकिरुवाच
मरुत्तचरितं कृत्स्नं भगवन्कथितं त्वया ।
तत्सन्ततिमशेषेण श्रोतुमिच्छा प्रवर्तते । । १
तत्सन्ततौ क्षितीशा ये राज्यार्हा वीर्यशालिनः ।
तानहं श्रोतुमिच्छामि त्वया ख्यातान्महामुने । । २
मार्कण्डेय उवाच
नरिष्यन्त इति ख्यातो मरुत्तस्याभवत्सुतः ।
अष्टादशानां पुत्राणां स ज्येष्ठः श्रेष्ठ एव च । । ३
वर्षाणां च सहस्राणि सप्ततिं दश पञ्च च ।
बुभुजै पृथिवीं कृत्स्नां मरुत्तः क्षत्रियर्षभः । । ४
कृत्वा राज्यं स्वधर्मेण इष्ट्वा यज्ञाननुत्तमान् ।
नरिष्यन्तसुतं ज्येष्ठमभिषिच्य ययौ वनम् । । ५
एकाग्रचित्तः स नृपस्तप्त्वा तत्र तपो महत् ।
आरुरोह दिवं विप्र यशसावृत्य रोदसी । । ६
नरिष्यन्तः सुतः सोऽस्य चिन्तयामास बुद्धिमान् ।
पितुर्वृत्तं समालोक्य तथान्येषां च भूभृताम् । । ७
अत्र वंशे महात्मानो राजानो मम पूर्वजाः ।
यज्विनो धर्मतः पृथ्वीं पालयामासुरूर्जिताः । । ८
दातारश्चापि वित्तानां संग्रामेष्वनिवर्तिनः ।
तेषां कश्चरितं शक्तस्त्वनुयातुं महात्मनाम् । । ९
किन्तु तैर्यत्कृतं कर्म धर्म्यमाहवनादिभिः ।
तदहं कर्तुमिच्छामि तच्च नास्ति करोमि किम् । । 129.१०
धर्मात्पालयतः पृथ्वीं को गणोऽत्र महीपतेः ।
असम्यक्पालनात्पापी नरेन्द्रो नरकं व्रजेत् । । ११
सति वित्ते महायज्ञाः कर्तव्या एव भूभृता ।
दातव्यं चात्र किं चित्रं सीदतामीश्वरो गतिः । । १२
आभिजात्यं तथा लज्जा कोपश्चारि जनाश्रयः ।
कारयन्ति स्वधर्मश्च सङ्ग्रामादपलायनम् । । १३
एतत्सर्वं यथा सम्यङ्मत्पूर्वैः पुरुषैः कृतम् ।
पित्रा च मे मरुत्तेन तथा तत्केन शक्यते । । १४
तदहं किं करिष्यामि यत्तु तैः पूर्वजैः कृतम् ।
ये यज्विनो वरा दान्ताः सङ्ग्रामाच्चानिवर्तिनः । । १५
महत्सङ्ग्रामसंमर्देष्वविसंवादिपौरुषाः ।
क्रमेणाहं यतिष्यामि कस्मै तानभिसन्धितुम् । । १६
अथवा तैः स्वयं यज्ञाः कृताः पूर्वजनेश्वरैः ।
अविश्रमद्भिर्नान्यैस्तु कारितास्तत्करोम्यहम् । । १७
मार्कण्डेय उवाच
इति सञ्चिंत्य यज्ञं स चकारैकं नरेश्वरः ।
यादृशं न चकारान्यो वित्तोत्सर्गोपशोभितम् । । १८
द्विजानां जीवनायालं दत्त्वा तु सुमहाधनम् ।
ततः शतगुणं तेषां यज्ञार्थमददान्नृपः । । १९
गावो वस्त्राण्यलङ्कारं धान्यागारादिकं तथा ।
प्रत्येकमददात्तेषां सर्वपृथ्वीनिवासिनाम् । । 129.२०
ततस्तेन यदा यज्ञः प्रारब्धो भूभुजा पुनः ।
प्रारब्धे स मखे यष्टुं ततो नालभत द्विजान् । । २१
यान्यान्वृणोति स नृपो विप्रानार्त्विज्यकर्मणि ।
ते ते तमूचुर्यज्ञाय वयमप्यत्र दीक्षिताः । । २२
अन्यं वरय यद्वित्तं त्वयास्माकं विसर्जितम् ।
तस्यान्तो नास्ति यज्ञेषु दद्यास्त्वं नृपते कथम् । । २३
मार्कण्डेय उवाच
न चाप ऋत्विजो विप्रांस्तदाशेषक्षितीश्वरः ।
बहिर्वेद्यां तदा दानं स दातुमुपचक्रमे । । २४
तथापि जगृहुर्नैव धनसम्पूर्णमन्दिराः ।
द्विजाय दातुं भूयोऽसौ निर्विण्ण इदमब्रवीत् । । २५
अहोऽतिशोभनं पृथ्व्यां यद्विप्रो नाधनः क्वचित् ।
अशोभनं च यत्कोशो विफलोयमयज्विनः । । २६
नार्त्विज्यं कुरुते कश्चिद्यजमानोऽखिलो जनः ।
द्विजानां न च नो दानं ददतां सम्प्रतीच्छते । । २७
मार्कण्डेय उवाच
ततः कांश्चिद्द्विजान्भक्त्या प्रणिपत्य पुनः पुनः ।
स्वयज्ञे ऋत्विजश्चक्रे ते प्रचक्रुर्महामखम् । । २८
अत्यद्भुतमिदं चासीद्यदा तस्य महीपतेः ।
स यज्ञोऽभूत्तदा पृथ्व्यां यजमानोऽखिलो जनः । । २९
द्विजन्मनामभून्नासीत्सदस्यस्तत्र कश्चन ।
यजमाना द्विजाः केचित्केचित्तेषां तु याजकाः । । 129.३०
नरिष्यन्तो नरपतिरियाज स यदा तदा ।
तत्प्रदातुर्धनैर्यागं कुर्युः पृथ्व्यामशेषतः । । ३१
प्राच्यां कोट्यस्तु यज्ञानामासन्नष्टादशाधिकाः ।
प्रतीच्यां सप्त वै कोट्यो दक्षिणस्यां चतुर्दश । । ३२
उत्तरस्यां च पञ्चाशदेककालं तदाभवन् ।
मुने ब्राह्मणयज्ञानां नरिष्यन्तो यदाऽयजत् । । ३३
एवं स राजा धर्मात्मा नरिष्यन्तोऽभवत्पुरा ।
मरुत्ततनयो विप्र विख्यातबलपौरुषः । । ३४
इति श्रीमार्कण्डेयपुराणे नरिष्यन्तचरितं नामैकोनत्रिंशदधिकशततमोऽध्यायः । १२९ ।
अथ त्रिंशदधिकशततमोऽध्यायः
दमचरितवर्णनम्
मार्कण्डेय उवाच
नरिष्यन्तस्य तनयो दुष्टारिदमनो दमः ।
शक्रस्येव बलं तस्य दयाशीलं मुनेरिव । । १
बाभ्रव्यामिन्द्रसेनायां जज्ञे तस्य भूभृतः।
नववर्षाणि जठरे स्थित्वा मार्तुर्महायशाः ।। २
यद्ग्राहयामास दम मातरं जठरे स्थितः ।
दमशीलश्च भविता यतश्चायं नृपात्मजः । । ३
ततस्त्रिकालविज्ञानः स हि तस्य पुरोहितः ।
दम इत्यकरोन्नाम नरिष्यन्तसुतस्य तु । । ४
स दत्तो राजपुत्रस्तु धनुर्वेदमशेषतः ।
जगृहे सुरराजस्य सकाशाद्वृषपर्वणः । । ५
दुन्दुभेर्दैत्यवर्यस्य तपोवननिवासिनः ।
सकाशाज्जगृहे कृत्स्नमस्त्रग्रामं च तत्त्वतः । । ६
शक्तेः सकाशाद्वेदाश्च वेदाङ्गान्यखिलानि च ।
तथार्ष्टिषेणाद्राजर्षेर्जगृहे योगमात्मवान् । । ७
तं सुरूपं महात्मानं गृहीतास्त्रं महाबलम् ।
स्वयंवरे कृता पित्रा जगृहे सुमना पतिम् । । ८
सुता दशार्णाधिपतेर्बलिनश्चारुवर्मणः ।
पश्यतां सर्वभूतानां ये तदर्थमुपागताः । । ९
तस्यां च सानुरागोऽभून्मद्रराजस्य वै सुतः ।
सुमनायां महानन्दो महाबलपराक्रमः । । 130.१०
तथा विदर्भाधिपतेः पुत्रः संक्रन्दनस्य च ।
वपुष्मान्राजपुत्रश्च महाधनुरुदारधीः । । ११
ते तदा तं वृतं दृष्ट्वा दुष्टारिदमनं दमम् ।
मन्त्रयामासुरन्योऽन्यं तत्रानङ्गविमोहिताः । । १२
एतामस्य बलात्कन्यां गृहीत्वा रूपशालिनीम् ।
गृहं प्रयामस्तस्येयमस्माकं यं ग्रहीष्यति । । १३
भर्तृबुद्ध्या वरारोहा स्वयंवरविधानतः ।
तस्येच्छया नो भवित्री भार्या धर्मोपपादिता । । १४
अथ नेच्छति सा कञ्चिदस्माकं मदिरेक्षणा ।
ततस्तस्य भवित्री सा यो दमं घातयिष्यति । । १५
मार्कण्डेय उवाच
इति ते निश्चयं कृत्वा त्रयः पार्थिवनन्दनाः ।
जगृहुस्तां सुचार्वङ्गीं दमपार्श्वानुवर्त्तिनीम् । । १६
ततः केचिन्नृपास्तेषां ये तत्पक्षा विचुक्रुशुः ।
चुक्रुशुश्चापरे भूपाः केचिन्मध्यस्थतां गताः । । १७
ततो दमस्तान्भूपालानवलोक्य समन्ततः ।
अनाकुलमना वाक्यमिदमाह महामुने । । १८
दम उवाच
भो भूपा धर्मकृत्येषु यद्वदन्ति स्वयंवरम् ।
दशार्णपतिना भूपाः कृते धर्म्ये स्वयंवरे । ।
अधर्मो वाऽथ वा धर्मो यदेभिर्गृह्यते बलात् । । १९
यद्यधर्मो न मे कार्यमन्यभार्या भविष्यति ।
धर्मो वा तदलं प्राणैर्ये रक्ष्यन्तेऽरिलङ्घने । । 130.२०
ततो दशार्णाधिपतिश्चारुवर्मा नराधिपः ।
निःशब्दं कारयित्वा तत्सदः प्राह महामुने । । २१
दमेन यदिदं प्रोक्तं धर्माधर्माश्रितं नृपाः ।
तद्वदध्वं यथा धर्मो ममास्य च न लुप्यते । । २२
मार्कण्डेय उवाच
ततः केचिन्महीपालास्तमूचुर्वसुधाधिपम् ।
परस्परानुरागेण गान्धर्वो विहितो विधिः । । २३
क्षत्रियाणां परमयं न विट्शूद्रद्विजन्मनाम् ।
दममाश्रित्य निष्पन्नः स चास्या दुहितुस्तव । । २४
इति धर्माद्दमस्यैषा दुहिता तव पार्थिव ।
योऽन्यथा वर्त्तते मोहात्कामात्मा सम्प्रवर्त्तते । । २५
तथाऽपरे तदा प्रोचुर्महात्मानो हि भूभृताम् ।
पक्षे ये भूभृतो विप्र दशार्णाधिपतिं वचः । । २६
मोहात्किमाहुर्धर्मोऽयं गान्धर्वं क्षत्रजन्मनः ।
न त्वेष शास्ता नान्यो हि राक्षसः शस्त्रजीविनाम् । । २७
बलादिमां यो हरति हत्वा तु परिपन्थिनः ।
तस्यैषा स्याद्राक्षसेन विवाहेनावनीश्वराः । । २८
प्रधानतर एषोऽत्र विवाहद्वितये मतः ।
क्षत्रियाणामतो धर्मा महानन्दादिभिः कृतः ।।२९
मार्कण्डेय उवाच
अथ प्रोचुः पुनर्भूपा यैः पूर्वमुदितो नृपः ।
परस्परानुरागेण जातिधर्माश्रितं वचः ।।130.३०
सत्यं शस्तो राक्षसोऽपि क्षत्रियाणां परो विधिः ।
किन्त्वसौ जनकस्वाम्ये कुमार्यानुमतो वरः ।।३ १
हत्वा तु पितृसम्बन्धं बलेन ह्रियते हि या ।
स राक्षसो विधिः प्रोक्तो नात्र भर्तृकरे स्थिता ।।३२
पश्यतां सर्वभूपानामनया यद्वृतो दमः ।
गान्धर्वस्येह निष्पत्तौ विवाहो राक्षसोऽत्र कः ।।३ ३
विवाहितायाः कन्यायाः कन्यात्वं नैव विद्यते ।
कन्यायाश्च विवाहेन सम्बन्धः पृथिवीश्वराः ।।३४
त इमे ये बलादेनां दमादादातुमुद्यताः ।
बलिनस्ते यदि ततः कुर्वन्तु न तु साधु तत् ।।३५
मार्कण्डेय उवाच
तच्छ्रुत्वाऽसौ दमः कोपकषायीकृतलोचनः ।
आरोपयामास धनुर्वचनं चेदमब्रवीत् ।।३६
ममापि भार्या बलिभिः पश्यतो ह्रियते यदि ।
तत्कुलेन भुजाभ्यां वा को गुणः क्लीबजन्मनः ।।३७
धिङ्ममास्त्राणि धिक्छौर्यं धिक्छरान्धिक्छरासनम् ।
धिग्व्यर्थं मे कुले जन्म मरुत्तस्य महात्मनः ।।३८
यदि भार्यामिमे मूढाः समादाय बलान्विताः ।
प्रयान्ति जीवतो धिक्तां मम व्यर्थमनुष्यताम् ।।३९
इत्युक्त्वा तान्महीपालान्महानन्दमुखान्बली ।
अथाब्रवीत्तदा सर्वान्महारिदमनो दमः ।।130.४०
एषातिशोभना बाला चार्वङ्गी मदिरेक्षणा ।
किं तस्य जन्मना भार्या न यस्येयं कुलोद्भवा । । ४१
इति सञ्चिन्त्य भूपालास्तथा यतत संयुगे ।
यथा निर्जित्य मामेतां पत्नीं कुरुत मानिनः । । ४२
इत्याभाष्य ततस्तत्र शरवर्षममुञ्चत ।
छादयन्पृथिवीपालांस्तमसेव महीरुहान् । । ४३
तेऽपि वीरा महीपालाः शरशक्त्यृष्टिमुद्गरान् ।
मुमुचुस्तत्प्रयुक्तांश्च दमश्चिच्छेद लीलया । । ४४
तेऽपि तत्प्रहितान्बाणांस्तेषां चासौ शरोत्करान् ।
चिच्छेद पृथिवीशानां नरिष्यन्तात्मजो मुने । । ४५
वर्त्तमाने तदा युद्धे दमस्य क्षितिपात्मजैः ।
प्रविवेश महानन्दः खड्गपाणिर्यतो दमः । । ४६
तमायान्तं दमो दृष्ट्वा खड्गपाणिं महामृधे ।
मुमोच शरवर्षाणि वर्षाणीव पुरन्दरः । । ४७
तदस्त्राणि ततस्तानि शरजालानि तत्क्षणात् ।
महानन्दः प्रचिच्छेद खड्गेनान्यानवञ्चयत् । । ४८
ततो रोषात्समारुह्य तं दमस्य तदा रथम् ।
महानन्दो महावीर्यो दमेन युयुधे सह । । ४९
बहुधा युध्यमानस्य महानन्दस्य लाघवात् ।
दमो मुमोच हदये शरं कालानलप्रभम् । । 130.५०
तं लग्नमात्मनोत्कृष्य विभिन्नेन ततो हृदा ।
दमं प्रति विचिक्षेप महानन्दोऽसिमुज्ज्वलम् । । ५१
पतन्तं चैनमुल्काभं शक्त्या चिक्षेप तं दमः ।
शिरो वेतसपत्रेण महानन्दस्य चाच्छिनत् । । ५२
तस्मिन्हते महानन्दे प्राचुर्येण पराङ्मुखाः ।
बभूवुः पार्थिवास्तस्थौ वपुष्मान्कुण्डिनाधिपः । । ५३
दमेन युयुधे चासौ बलगर्वमदान्वितः ।
दाक्षिणात्यमहीपालतनयो रणगोचरः । । ५४
युध्यमानस्य तस्योग्रं करवालं स वै लघु ।
चिच्छेद सारथेश्चैव शिरः संख्ये तथा ध्वजम् । । ५५
छिन्नखड्गो गदां सोऽथ जग्राह बहुकण्टकाम् ।
तामप्यस्य स चिच्छेद करस्थामेव सत्वरः । । ५६
यावदन्यत्समादत्त्ते स वपुष्मान्वरायुधम् ।
तावच्छरेण तं विद्ध्वा दमो भूमावपातयत् । । ५७
स पातितस्ततो भूमौ विह्वलाङ्गः सवेपथुः ।
विनिवृत्तमतिर्युद्धाद्बभूव क्षितिपात्मजः । । ५८
तमालोक्य तथा भूतमयुद्धमतिमात्मवान् ।
उत्सृज्यादाय सुमनां सुमनाः प्रययौ दमः । । ५९
ततो दशार्णाधिपतिः प्रीतिमानकरोत्तयोः ।
दमस्य सुमनायाश्च विवाहं विधिपूर्वकम् । । 130.६०
कृतदारो दमस्तत्र दशार्णाधिपतेः पुरे ।
स्थित्वाऽल्पकालं प्रययौ सभार्यो निजमन्दिरम् । । ६१
दशार्णाधिपतिश्चासौ दत्त्वा नागांस्तुरङ्गमान् ।
रथगोऽश्वखरोष्ट्रांश्च दासीदासांस्तथा बहून् । । ६२
वस्त्रालङ्कारचापादि वरोपस्करमासनम् ।
अन्यैस्तैश्च तथा भाण्डैः परिपूर्णं व्यसर्जयत् । । ६३
इति श्रीमार्कण्डेयपुराणे दमचरिते त्रिंशदधिकशततमोऽध्यायः । १३० ।
अथैकत्रिंशदधिकशततमोऽध्यायः
दमचरितवर्णनम्
मार्कण्डेय उवाच
स तां लब्ध्वा तथा पत्नीं सुमनां सुमहामुने ।
प्रणम्य स पितुः पादौ मातुश्च क्षितिपात्मजः । । १
सा च तौ श्वशुरौ सूभ्रूर्ननाम सुमना तदा ।
ताभ्यां तौ च तदा विप्र आशीर्भिरभिनन्दितौ । । २
महोत्सवश्च सञ्जज्ञे नरिष्यन्तस्य वै पुरे ।
कृतदारे च सम्प्राप्ते दशार्णाधिपतेः पुरात् । । ३
सम्बन्धिनं दशार्णेशं जितांश्च पृथिवीश्वरान् ।
श्रुत्या पुत्रेण मुमुदे नरिष्यन्तो महीपतिः । । ४
सोऽपि रेमे सुमनया महाराजसुतो दमः ।
वरोद्यानवनोद्देशे प्रसादगिरिसानुषु । । ५
अथ कालेन महता रममाणा दमेन सा ।
अवाप गर्भे सुमना दशार्णाधिपतेः सुता । । ६
सोऽपि राजा नरिष्यन्तो भुक्तभोगो महीपतिः ।
वयः परिणतिं प्राप्य दमं राज्येऽभिषिच्य च । । ७
वनं जगामेन्द्रसेना पत्नी चास्य तपस्विनी ।
वानप्रस्थविधानेन स तत्र समतिष्ठत । । ८
दाक्षिणात्यः सुदुर्वृत्तः संक्रन्दनसुतो वने ।
वपुष्मान्स मृगान्हन्तुं ययावल्पपदानुगः । । ९
स तं दृष्ट्वा नरिष्यन्तं तापसं मलपङ्किनम् ।
इन्द्रसेनां च तत्पत्नीं तपसातिसुदुर्बलाम् । । 131.१०
पप्रच्छ कस्त्वं भो विप्रः क्षत्रियो वा वनेचरः ।
वानप्रस्थमनुप्राप्तो वैश्यो वा मम कथ्यताम् । । ११
ततो मौनव्रती भूपो नहि तस्योत्तरं ददौ ।
इन्द्रसेना च तत्सर्वमाचष्टास्मै यथातथम् । । १२
मार्कण्डेय उवाच
ज्ञात्वा तं च नरिष्यन्तं वपुष्मान्पितरं रिपोः ।
प्राप्तोऽसीति वदन्कोपाज्जटासु परिगृह्य च । । १३
हाहेति चन्द्रसेनायां रुदन्त्यां बाष्पगद्गदम् ।
चकर्ष कोपात्सङ्गं च वाक्यं चेदमुवाच ह । । १४
निर्जितः समरे येन येन मे सुमना हृता ।
दमस्य तस्य पितरं हनिष्येऽवतु तं दमः । । १५
येनाखिलमहीपालपुत्राः कन्यार्थमागताः ।
अवधूता हनिष्येऽहं पितरं तस्य दुर्मतेः । । १६
यौवनास्त्रस्वरूपेषु मदे यस्य दुरात्मनः ।
स दमो वारयत्वेष हन्मि तस्या रिपोर्गुरुम् । । १७
मार्कण्डेय उवाच
इत्युक्त्वा स दुराचारो वपुष्मानवनीपतिः ।
क्रंदन्त्यामिन्द्रसेनायां शिरश्चिच्छेद तस्य च । । १८
ततो धिग्धिङ्मुनिजना अन्ये च वनवासिनः ।
तमूचुः स च तं हत्वा जगाम स्वपुरं वनात् । । १९
गते तस्मिन्विनिश्वस्य सेन्द्रसेना वपुष्मति ।
प्रेषयामास पुत्रस्य समीपं शूद्रतापसम् । । 131.२०
गच्छेथा आशु मे पुत्रं दमं ब्रूहि वचो मम ।
अभिज्ञो ह्यसि मद्भर्तृवृत्तान्तं प्रोच्यतेऽत्र किम् । । २१
तथापि वाच्यः पुत्रो मे यद्ब्रवीम्यतिदुःखिता ।
लंघनामीदृशीं प्राप्तां विलोक्यतां महीपतेः । । २२
मद्भर्त्राऽधिकृतो राजा चतुर्णां परिपालकः ।
त्वमाश्रमाणां किं युक्तं तापसान्यन्न रक्षसि । । २३
भर्ता मम नरिष्यन्तस्तापसस्तपसि स्थितः ।
विलपन्त्यास्तथा नाथो यथा नासि तथा त्वयि । । २४
आकृष्य केशेषु बलादपराधं विना ततः ।
हतो वपुष्मता ख्यातिमिति ते भूपतिर्गता । । २५
एवं स्थिते तत्क्रियतां यथा धर्मो न लुप्यते ।
तथा च नैव वस्तव्यं माताहं तापसी यतः । । २६
पिता वृद्धस्तपस्वी च नापराधेन दूषितः ।
निहतो येन यत्तस्य कर्तव्यं तद्विचिन्त्यताम् । । २७
सन्ति ते मन्त्रिणो वीराः सर्वशास्त्रार्थवेदिनः ।
तैः सहालोच्य यत्कार्यमेवंभूते कुरुष्व तत् । । २८
नास्माकमधिकारोऽत्र तापसानां नराधिप ।
कुरुष्वैतदितीत्थं त्वमेवं भूपतिभाषितम् । । २९
विदूरथस्य जनको यवनेन यथा हतः ।
तथायं तव पुत्रस्य कुलं तेन विनाशितम् । । 131.३०
जम्भस्यासुरराजस्य पिता दष्टो भुजङ्गमैः ।
तेनाप्यखिलपातालवासिनः पन्नगाः हताः । । ३१
पराशरेण पितरं शक्तिं तं रक्षसाऽऽहतम् ।
श्रुत्वाऽग्नौ पातितं कृत्स्नं रक्षसामभवत्कुलम् । । ३२
अन्यस्यापि स्ववंशस्य लंघना क्रियते हि या ।
तां नालं क्षत्रियः सोढुं कि पुनः पितृमारणम् । । ३३
नायं पिता ते निहतो नास्मिञ्छस्त्रं निपातितम् ।
त्वामत्र निहतं मन्ये त्वयि शस्त्रं निपातितम् । । ३४
बिभेत्यस्य हि कः शस्त्रं न्यस्तं येन वनौकसाम् ।
तव नृपस्य पुत्रस्य मा बिभेतु बिभेतु वा । । ३५
तवेयं लङ्घनायुक्ता यदस्मिंस्तत्समाचर ।
वपुष्मति महाराज सभृत्यज्ञातिबान्धवे । । ३६
मार्कण्डेय उवाच
इति संक्रान्तसन्देशमिन्द्रसेना विसृज्य तम् ।
पतिदेहमुपाश्लिष्य विवेशाग्निं मनस्विनी । । ३७
इति श्रीमार्कण्डेयपुराणे दमचरितवर्णनं नामैकत्रिंशदधिकशततमोऽध्यायः । १३१ ।
अथ द्वात्रिंशदधिकशततमोऽध्यायः
दमचरितवर्णनम्
मार्कण्डेय उवाच
इन्द्रसेनासमाज्ञप्तः स गत्वा शूद्रतापसः ।
समाचष्ट यथापूर्वं दमाय निधनं पितुः । । १
तापसेन समाख्याते दमस्तेन पितुर्वधे ।
क्रोधेनातीव जज्वाल हविषेवाग्निरुद्धतः । । २
स तु क्रोधाग्निना धीरे दह्यमानो महामुने ।
करं करेण निष्पिष्य वाक्यमेतदुवाच ह । । ३
अनाथ इव मे तातो मयि पुत्रे तु जीवति ।
घातितः सुनृशंसेन परिभूय कुलं मम । । ४
तापं करोम्यहं किंवाप्येष क्लैब्यात्क्षमाम्यहम् ।
दुर्वृत्तशान्तौ शिष्टानां पालनेऽधिकृता वयम् । । ५
पितरं चापि निहतं दृष्ट्वा जीवन्ति शत्रवः ।
तत्किमेतेन बहुना हा तातेति च किं पुनः । । ६
विलापेनात्र यत्कृत्यं तदेषोऽत्र करोम्यहम् ।
यद्यहं तस्य रक्तेन देहोत्थेन वपुष्मतः । ।
न करोमि गुरोस्तृप्तिं तत्प्रवेक्ष्ये हुताशनम् । । ७
तच्छोणितेनोदककर्म तस्य मांसेन सम्यग्द्विजभोजनं च ।
कुर्यां पितुस्तस्य च पिण्डदानं न चेत्प्रवेक्ष्यामि हुताशनं तत् । । ८
साहाय्यमस्यासुरदेवयक्षगन्धर्वविद्याधरसिद्धसंघाः ।
कुर्वन्ति चेत्तानपि चास्त्रपूगैर्भस्मीकरोम्येष रुषा समेतः । । ९
निःशूरमाधार्मिकमप्रशस्तं तं दाक्षिणात्यं समरे निहत्य ।
भोक्ष्ये ततोऽहं पृथिवीं च कृत्स्नां वह्निं प्रवेक्ष्याम्यनिहत्य तं वा । । 132.१०
सुदुर्मतिं तापसवृद्धघातिनं वनस्थगं साधुविधिं विदग्धगम् ।
हन्ताहमद्याखिलबन्धुमित्रपदातिहस्त्यश्वबलैः समेतम् । । ११
एषोऽहमादाय धनुःसखड्गो रथी तथैवारिबलं समेत्य ।
करोमि वै यत्कदनं समस्ताः पश्यन्तु मे देवगणा समेताः । । १२
यो यः सहायो भविताद्य तस्य मया समेतस्य रणाय भूयः ।
तस्यैव निःशेषकुलक्षयाय समुद्यतोऽहं निजबाहुसैन्यः । । १३
यदि कुलिशकरोऽस्मिन्सयुगे देवराजः पितृपतिरथ चोग्रं दण्डमुद्यस्य कोपात् ।
धनपतिवरुणार्का रक्षितुं तं यतन्ते निशितशरवरौघैर्घातियिष्ये तथापि । । १४
नियतमतिरदोषः काननाखण्डलोका निपतितफलभक्षः सर्वभूतेषु मैत्रः ।
प्रभवति मयि पुत्रे हिंसितो येन तातः पिशितरुधिरतृप्तास्तस्य सन्त्वद्य गृध्राः । । १५
इति श्रीमार्कण्डेयपुराणे दमचरिते द्वात्रिंशदधिकशततमोऽध्यायः । १३२ ।
अथ त्रयस्त्रिंशदधिकशततमोऽध्यायः
वपुष्मद्वधवर्णनम्
मार्कण्डेय उवाच
इति प्रतिज्ञाय तदा नरिष्यन्तसुतो दमः ।
कोपामर्षविवृत्ताक्षः श्भश्रुमावृत्य पाणिना । । १
हा हतोऽस्मीति पितरं ध्यात्वा देवं विनिंद्य च ।
प्रोवाच मंत्रिणः सर्वानानिनाय पुरोहितम् । । २
दम उवाच
यदत्र कृत्यं तद्ब्रूत ताते प्राप्ते सुरालयम् ।
श्रुतं भवद्भिर्यत्प्रोक्तं तेन शूद्रतपस्विना । । ३
वृद्धस्तपस्वी स नृपो वानप्रस्थव्रते स्थितः ।
मौनव्रतधरोऽशस्त्रो मन्मात्रा चेन्द्रसेनया । । ४
प्रोक्तं संसृष्टया स्वात्म्याद्याथातथ्यं वपुष्मते ।
तेनापि खड्गमाकृष्य जटां सव्येन पाणिना । । ५
धृत्वा जघान दुष्टात्मा लोकनाथमनाथवत् ।
माता च संदिश्य हि मां धिक्छब्दं ब्रुवती सती । । ६
मन्दभाग्यं च निःश्रीकं प्रविष्टा हव्यवाहनम् ।
तमालिंग्य नरिष्यन्तं प्रयाता त्रिदशालयम् । । ७
सोऽहमद्य करिष्यामि यन्मे मातुरुदीरितम् ।
हस्त्यश्वरथपादातं सैन्यं च परिकल्प्यताम् । । ८
अनिर्याप्य पितुर्वैरमहत्वा पितृघातकम् ।
अकृत्वा च वचो मातुर्जीवितुं किमिहोत्सहे । । ९
मार्कण्डेय उवाच
मन्त्रिणस्तद्वचः श्रुत्वा हाहेत्युक्त्वा तथा च तत् ।
कृतवन्तो विमनसः सभृत्यबलवाहनाः । । 133.१०
निर्ययुः सपरीवाराः पुरस्कृत्य दमं नृपम् ।
गृहीत्वा चाशिषो विप्रात्त्रिकालज्ञात्पुरोधसः । । ११
अहिराडिव निःश्वस्य दमः प्रायाद्वपुष्मतम् ।
सीमापालादिसामन्तान्निघ्नन्याम्यां दिश त्वरा । । १२
निरीक्ष्य तं समायान्तं वपुष्मान्मर्षपूरितः ।
संक्रन्दनसुतेनापि दमो ज्ञातो वपुष्मता । ।
आयातः सपरीवारः सामात्यः सपरिच्छदः । । १३
अकंपितेन मनसा ससैन्यानि दिदेश ह ।
दूतं च प्रेषयामास निर्गम्य नगराद्बहिः । । १४
त्वं शीघ्रतरमागच्छ नरिष्यन्तः प्रतीक्षते ।
सभार्यक्षत्रबन्धो त्वं समायाहि ममान्तिकम् । । १५
इमे मद्बाहुनिर्मुक्ताः शिता बाणाः पिपासिताः ।
भित्त्वा शरीरं सङ्ग्रामे पास्यन्ति रुधिरं तव । । १६
श्रुत्वा दमस्तु तत्सर्वं दूतप्रोक्तं ययौ त्वरन् ।
स्मृत्वा प्रतिज्ञां पूर्वोक्तां निःश्वसमुरगो यथा । । १७
आहूतसमरे चैव पुमान्सेनाविकत्थनः ।
ततो युद्धमतीवासीद्दमस्य च वपुष्मतः । । १८
रथी च रथिना नागी नागिना हयिना हयी ।
अयुध्यन्त च विप्रर्षे तद्युद्धं तुमुलं ह्यभूत् । । १९
पश्यतां सर्वदेवानां सिद्धगन्धर्वरक्षसाम् ।
चकम्पे वसुधा ब्रह्मन्युध्यमाने दमे युधि । । 133.२०
न गजो न रथी नाश्वस्तस्य बाणसहस्तु यः ।
ततो दमेन युयुधे सेनाध्यक्षो वपुष्मतः । । २१
हृदि विव्याध च दम इषुणागाद्यमान्तिकम् ।
तस्मिन्निपतिते सैन्यं पलायनपरं ह्यभूत् । । २२
स स्वामिनं ततः प्राह दमः शत्रुं दमस्तथा ।
क्व यासि दुष्ट पितरं घातयित्वा तपस्विनम् । । २३
अशस्त्रं च तपस्यन्तं क्षत्रियोऽसि निवर्तताम् ।
ततो निवृत्य स दमं योधयामास सानुजः ।।२४
स पुत्रः सह सम्बन्धिबान्धवैर्युयुधे रथी ।
ततः शरासनान्मुक्तबाणैर्व्याप्तास्ततो दिशः ।।२५
दमं च सरथं चाशु शरजालैरपूरयत् ।
ततः पितृवधोत्थेन कोपेन स दमस्तथा ।।२६
चिच्छेद ताञ्छरान्स्तेषां विव्याधान्यैश्च तानपि ।
एकेनैकेन बाणेन सप्त पुत्रान्स्तथा द्विज ।।२७
सम्बन्धिबान्धवान्मित्रान्निनाय यमसादनम् ।
वपुष्मान्स रथी क्रोधान्निहतात्मजबान्धवः ।।२८
युयुधे च स तेनाजौ शरैराशीविषोपमैः ।
चिच्छेद तस्य तान्बाणान्स दमश्च महामुने ।।२९
युयुधाते च संरब्धौ परस्परजयैषिणौ ।
परस्परशराघातविच्छिन्नधनुषौ त्वरा ।। 133.३०
गृहीतखड्गावुत्तीर्य चिक्रीडाते महाबलौ ।
दमः क्षणं नृपं ध्यात्वा पितरं निहतं वने ।। ३१
केशेष्वाकृष्य चाक्रम्य निपात्य धरणीतले ।
शिरोधरायां पादेन भुजमुद्यम्य चाब्रवीत् ।।३२
पश्यन्तु देवताः सर्वा मानुषाः पन्नगाः खगाः ।
पाट्यमानं च हृदयं क्षत्रबन्धोर्वपुष्मतः ।। ३३
एवमुक्त्वा च स दमो हदयं च व्यदारयत् ।
पातुकामश्च स सुरैः क्षतजेन निवारितः ।। ३४
ततश्चकार तातस्य रक्तेनैवोदकक्रियाम् ।
आनृण्यं प्राप्य स पितुः पुनः प्रायात्स्वमन्दिरम् ।। ३५
वपुष्मतश्च मांसेन पिण्डदानं चकार ह ।
ब्राह्मणान्भोजयामास रक्षः कुलसमुद्भवान् ।।३६
एवंविधा हि राजानो बभूवुः सूर्यवंशजाः ।
अन्येऽपि सुधियः शूरा यज्विनो धर्मकोविदाः । । ३७
वेदान्तपारगास्ताञ्च न संख्यातुमिहोत्सहे ।
एतेषां चरितं श्रुत्वा नरः पापैः प्रमुच्यते । । ३८
इति श्रीमार्कण्डेयपुराणे दमचरिते वपुष्मद्वधो नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः । १३३ ।
अथ चतुस्त्रिंशदधिकशततमोऽध्यायः
श्रवणपठनवर्णनम्
पक्षिण ऊचुः
एवमुक्त्वा जैमिनेयं मार्कण्डेयो महामुनिः ।
विसृज्य क्रौष्टुकिमुनिं चक्रे माध्याह्निकीं क्रियाम् । । १
अस्माभिश्च श्रुतं तस्माद्यत्ते प्रोक्तं महामुने ।
अनादिसिद्धमेतद्धि पुरा प्रोक्तं स्वयंभुवा । । २
मार्कण्डेयाय मुनये यत्तेऽस्माभिरुदाहृतम् ।
पुण्यं पवित्रमायुष्यं धर्मकामार्थसिद्धिदम् । । ३
पठतां शृण्वतां सद्यः सर्वपापप्रमोचनम् ।
आदावेव कृता ये च प्रश्नाश्चत्वार एव हि । । ४
पितुः पुत्रस्य संवादस्तथा सृष्टिः स्वयंभुवः ।
तथा मनूनां स्थितयो राज्ञां च चरितं मुने । ।५
अस्माभिरेतत्ते प्रोक्तं किमद्य श्रोतुमिच्छसि ।
एतान्सर्वान्नरः श्रुत्वा पठते वा सभासु च । । ६
विधूय सर्वपापानि ब्रह्मणोऽन्ते लयं व्रजेत् ।
अष्टादशपुराणानि यानि प्राह पितामहः । । ७
तेषां तु सप्तमं ज्ञेयं मार्कर्ण्डेयं सुविश्रुतम् ।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । । ८
तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् ।
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा । । ९
दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् ।
वाराहं द्वादशं प्रोक्तं स्कन्दमत्र त्रयोदशम् । । 134.१०
चतुर्दशं वामनं च कौर्मं पञ्चदशं तथा ।
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । । ११
अष्टादशपुराणानां नामधेयानि यः पठेत् ।
त्रिसन्ध्यं जपते नित्यं सोऽश्वमेधफलं लभेत् । । १२
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् । १३
चतुःप्रश्नसमोपेतं पुराणं ह्येतदुत्तमम् ।
श्रुत्वा पुनश्च ते पापं कल्पकोटिशतैः कृतम् । । १४
ब्रह्महत्यादिपापानि यान्यन्यान्यशुभानि च ।
तानि सर्वाणि नश्यन्ति तृणं वातहतं यथा । । १५
पुष्करे दानजं पुण्यं श्रवणादस्य जायते ।
सर्ववेदाधिकफलं समाप्त्या चाधिगच्छति । । १६
यः श्रावयेत्पूजयेत्तं यथा देवं पितामहम् ।
गन्धपुष्पैस्तथा वस्त्रैर्ब्राह्मणानां च तर्पणैः । । १७
यथाशक्त्या च दातव्यं नृपैर्ग्रामादिवाहनम् ।
एतत्पुराणमखिलं वेदार्थैरुपबृंहितम् । ।
धर्मशास्त्रैकनिलयं श्रुत्वा सर्वार्थमाप्नुयात् । । १८
श्रुत्वा पुराणमखिलं व्यासं सम्पूजयेद्बुधः ।
धर्मार्थकाममोक्षाणां यथोक्तफलहेतवे । । १९
दद्याद्गां गुरवे स्वर्णवस्त्रालङ्कारसंयुताम् ।
श्रवणस्य फलावाप्त्यै दानैः संतोषयेद्गुरुम् । । 134.२०
अपूज्य पाठकर्तारं श्लोकमेकं शृणोति यः ।
नासौ पुण्यमवाप्नोति शास्त्रचोरः स्मृतो हि सः । । २१
न तस्य देवाः प्रीणन्ति पितरो नैव पुत्रकान् ।
दत्तं श्राद्धं तथेच्छन्ति तीर्थस्नानफलं न च । । २२
लभेत शास्त्रचोरश्च निन्दां सज्जनसंसदि ।
अवज्ञया न श्रोतव्यं शास्त्रमेतद्विचक्षणैः । । २३
पठ्यमाने त्ववज्ञाते साधुभिः शास्त्र उत्तमे ।
मूको भवति जन्मानि सप्त मूर्खः प्रजायते । । २४
श्रुत्वा तत्पूजयेद्यस्तु पुराणं सप्तमं पुनः ।
सर्वपापविनिर्मुक्तः पुनात्येव निजं कुलम् । । २५
पूतो याति न सन्देहो विष्णुलोकं सनातनम् ।
च्युतस्ततः पुनर्नैव स भविष्यति मानवः । । २६
पुराणश्रवणादेव परमयोगमवाप्नुयात् ।
नास्तिकाय न दातव्यं वृषले वेदनिन्दके । । २७
गुरुद्विजातिनिन्दाय तथा भग्नव्रताय च ।
मातापित्रोर्निन्दकाय वेदशास्त्रादिनिन्दिने । । २८
भिन्नमर्यादिने चैव तथा वै ज्ञातिकोपिने ।
एतेषां नैव दातव्यं प्राणैः कण्ठगतैरपि । । २९
लोभाद्वा यदि वा मोहाद्भयाद्वापि विशेषतः ।
पठेद्वा पाठयेद्वापि स गच्छेन्नरकं ध्रुवम् । । 134.३०
मार्कण्डेय उवाच
एतत्सर्वमुपाख्यानं धर्म्यं स्वर्गापवर्गदम्।
यः शृणोति पठेद्वापि सिद्धं तस्य समीहितम् । । ३१
आधिव्याधिजदुःखेन कदाचिन्नाभियुज्यते ।
ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः । । ३२
सन्तः स्वजनमित्राणि भवन्ति हितबुद्धयः ।
नारयः सम्भविष्यन्ति दस्यवो वा कदाचन । । ३३
सदर्थो मिष्टभोगी च दुर्भिक्षैर्नावसीदति ।
परदारपरद्रव्यपरहिंसादिकिल्बिषैः । । ३४
मुच्यतेऽनेकदुःखेभ्यो नित्यं चैव द्विजोत्तम ।
ऋद्धिर्वृद्धिः स्मृतिः शान्तिः श्रीः पुष्टिस्तुष्टिरेव च । ।
नित्यं तस्य भवेद्विप्र यः शृणोति कथामिमाम् । । ३५
मार्कण्डेयपुराणमेतदखिलं शृण्वन्नशोच्यः
पुमान्यो वा सम्यगुदीयरयेद्रसमयं शोच्यो न सोऽपि द्विज ।
योगज्ञानविशुद्धसिद्धिसहितः स्वर्गादिलोकेऽप्यसौ
शक्राद्यैश्च सुरादिभिः परिवृतः स्वर्गे सदा पूज्यते । । ३६
पुराणमेतच्छ्रुत्वा च ज्ञानविज्ञानसंयुतम् ।
विमानवरमारुह्य स्वर्गलोके महीयते । । ३७
पुराणाक्षरसंख्या च प्रख्याता तत्त्वबुद्धिना ।
श्लोकानां षट्सहस्राणि तथा चाष्टशतानि च । । ३८
श्लोकास्तत्र नवाशीतिरेकादशसमाहिताः ।
कथिता मुनिना पूर्वं मार्कण्डेयेन धीमता । । ३९
जैमिनिरुवाच
भारतेनाभवद्यन्मे संशयस्फोटनं द्विजाः ।
तद्भवद्भिः कृतं यन्न कश्चिदद्य करिष्यति । ।134.४ ०
यूयं दीर्घायुषः स्यात प्रज्ञाबुद्धिविशारदाः ।
सांख्ययोगे तथा चास्तु बुद्धिरव्यभिचारिणी । ।४ १
पितृशापकृताद्दुःखाद्दौर्मनस्यं व्यपेतु वः ।
एतावदुक्त्वा वचनं जगाम स्वाश्रमं मुनिः । ।
चितयन्परमोदारं पक्षिणां वाक्यमीरितम् । ।४२
इति श्रीमार्कण्डेयमहापुराणे एतत्पुराणमाहात्म्यश्रवणपठनफलं
नाम चतुस्त्रिंशदधिकशततमोऽध्यायः । १३४ ।
सम्पूर्णमिदं मार्कण्डेयमहापुराणम् । ।
श्रीशः पायात्। ।

About this parayana — Durga

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

navratridurga-pujashaktasanskritparayanadevotionalpuranascripture