ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← Back to Shabda
ଓଡ଼ିଆ interface

ଵାଲ୍ମୀକି ରାମାଯଣ — ଆରଣ୍ଯ କାଣ୍ଡ

Valmiki Ramayana — Aranya Kanda

Valmiki Ramayana — Aranya Kanda

Text in देवनागरी script

Devotional text

🌐

ଓଡ଼ିଆ script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.

प्रविश्य तु महारण्यम् दण्डकारण्यम् आत्मवान् ।रामो ददर्श दुर्धर्ष तापस आश्रम मण्डलम् ॥३-१-१॥
कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ।यथा प्रदीप्तम् दुर्दर्शम् गगने सूर्य मण्डलम् ॥३-१-२॥
शरण्यम् सर्व भूतानाम् सु संमृष्ट अजिरम् सदा ।मृगैः बहुभिः आकीर्णम् पक्षि सन्घैः समावृतम् ॥३-१-३॥
पूजितम् च उपनृत्तम् च नित्यम् अप्सरसाम् गणैः ।विशालैः अग्नि शरणैः स्रुक् भाण्डैः अजिनैः कुशैः ॥३-१-४॥
समिद्भिः तोय कलशैः फल मूलैः च शोभितम् ।आरण्यैः च महा वृक्षैः पुण्यैः स्वादु फलैर् वृतम् ॥३-१-५॥
बलि होम अर्चितम् पुण्यम् ब्रह्म घोष निनादितम् ।पुष्पैः च अन्यैः परिक्षिप्तम् पद्मिन्या च स पद्मया ॥३-१-६॥
फलमूल अशनैः दान्तैः चीर कृष्णाजिन अम्बरैः ।सूर्य वैश्वानर आभैः च पुराणैः मुनिभिर् युतम् ॥३-१-७॥
पुण्यैः च नियत आहारैः शोभितम् परम ऋषिभिः ।तत् ब्रह्म भवन प्रख्यम् ब्रह्म घोष निनादितम् ॥३-१-८॥
ब्रह्म विद्भिः महा भागैः ब्राह्मणैः उपशोभितम् ।तत् दृष्ट्वा राघवः श्रीमान् तापस आश्रम मण्डलम् ॥३-१-९॥
अभ्यगच्छत् महातेजा विज्यम् कृत्वा महद् धनुः ।दिव्य ज्ञान उपपन्नाः ते रामम् दृष्ट्वा महर्षयः ॥३-१-१०॥
अभिजग्मुः तदा प्रीता वैदेहीम् च यशस्विनीम् ।ते तु सोमम् इव उद्यन्तम् दृष्ट्वा वै धर्मचारिणम् ॥३-१-११॥
लक्ष्मणम् च एव दृष्ट्वा तु वैदेहीम् च यशश्विनीम् ।मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णान् दृढ व्रताः ॥३-१-१२॥
रूप संहननम् लक्ष्मीम् सौकुमार्यम् सुवेषताम् ।ददृशुर् विस्मित आकारा रामस्य वन वासिनः ॥३-१-१३॥
वैदेहीम् लक्ष्मणम् रामम् नेत्रैर् अनिमिषैर् इव ।आश्चर्य भूतान् ददृशुः सर्वे ते वन वासिनः ॥३-१-१४॥
अत्र एनम् हि महाभागाः सर्व भूत हिते रताः ।अतिथिम् पर्णशालायाम् राघवम् संन्यवेशयन् ॥३-१-१५॥
ततो रामस्य सत्कृत्य विधिना पावक उपमाः ।आजह्रुः ते महाभागाः सलिलम् धर्मचारिणः ॥३-१-१६॥
मंगलानि प्रयुञ्जाना मुदा परमया युता ।मूलम् पुष्पम् फलम् सर्वम् आश्रमम् च महात्मनः ॥३-१-१७॥
निवेदयीत्वा धर्मज्ञाः ते तु प्रांजलयोऽब्रुवन् ।धर्मपालो जनस्य अस्य शरण्यः च महायशाः ॥३-१-१८॥
पूजनीयः च मान्यः च राजा दण्डधरो गुरुः ।इन्द्रस्य एव चतुर्भागः प्रजा रक्षति राघव ॥३-१-१९॥
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः ।ते वयम् भवता रक्ष्या भवद् विषय वासिनः ।नगरस्थो वनस्थो वा त्वम् नः राजा जनेश्वरः ॥३-१-२०॥
न्यस्त दण्डा वयम् राजन् जित क्रोधा जितेन्द्रियाः ।रक्षणीयाः त्वया शश्वद् गर्भ भूताः तपोधनाः ॥३-१-२१॥
एवम् उक्त्वा फलैर् मूलैः पुष्पैर् अन्यैः च राघवम् ।वन्यैः च विविध आहारैः स लक्ष्मणम् अपूजयन् ॥३-१-२२॥
तथाऽन्ये तापसाः सिद्धा रामम् वैश्वानर उपमाः ।न्याय वृत्ता यथा न्यायम् तर्पयामासुर् ईश्वरम् ॥३-१-२३॥
कृत आतिथ्योऽथ रामस्तु सूर्यस्य उदयनम् प्रति ।आमंत्र्य स मुनीम् तत् सर्वान् वनम् एव अन्वगाहत ॥३-२-१॥
नाना मृग गण आकीर्णम् ऋक्ष शार्दूल सेवितम् ।ध्वस्त वृक्ष लता गुल्मम् दुर्दर्श सलिलाशयम् ॥३-२-२॥
निष्कूजमाना शकुनि झिल्लिका गण नादितम् ।लक्ष्मण अनुचरोओ रामो वन मध्यम् ददर्श ह ॥३-२-३॥
सीताया सह काकुत्स्थः तस्मिन् घोर मृग आयुते ।ददर्श गिरि शृङ्ग आभम् पुरुषादम् महास्वनम् ॥३-२-४॥
गम्भीर अक्षम् महावक्त्रम् विकटम् विकटोदरम् ।बीभत्सम् विषमम् दीर्घम् विकृतम् घोर दर्शनम् ॥३-२-५॥
वसानम् चर्म  वैयाघ्रम् वस आर्द्रम् रुधिरोक्षितम् ।त्रासनम् सर्व भूतानाम् व्यादितास्यम् इव अन्तकम् ॥३-२-६॥
त्रीन् सिंहान् चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश ।सविषाणम् वसादिग्धम् गजस्य च शिरो महत् ॥३-२-७॥
अवसज्य आअयसे शूले विनदन्तम् महास्वनम् ।स रामम् लक्ष्मणम् चैव सीताम् दृष्ट्वा च मैथिलीम् ॥३-२-८॥
अभ्य धावत् सुसंक्रुद्धो प्रजाः काल इव अन्तकः ।स कृत्वा भैरवम् नादम् चालयन् इव मेदिनीम् ॥३-२-९॥
अङ्केन आदाय वैदेहीम् अपक्रम्य तदा अब्रवीत् ।युवाम् जटा चीर धरौ सभार्यौ क्षीण जीवितौ ॥३-२-१०॥
प्रविष्टौ दण्डकारण्यम् शर चाप असि पाणिनौ ।कथम् तापसयोः युवाम् च वासः प्रमदया सह ॥३-२-११॥
अधर्म चारिणौ पापौ कौ युवाम् मुनि दूषकौ ।अहम् वनम् इदम् दुर्गम् विराघो नाम राक्षसः ॥३-२-१२॥
चरामि सायुधो नित्यम् ऋषि मांसानि भक्षयन् ।इयम् नारी वरारोहा मम भार्या भविष्यति ॥३-२-१३॥
युवयोः पापयोः च अहम् पास्यामि रुधिरम् मृधे ।तस्य एवम् ब्रुवतो दुष्टम् विराधस्य दुरात्मनः ॥३-२-१४॥
श्रुत्वा सगर्वितम् वाक्यम् संभ्रान्ता जनकात्मजा ।सीता प्रावेपिता उद्वेगात् प्रवाते कदली यथा ॥३-२-१५॥
ताम् दृष्ट्वा राघवः सीताम् विराध अङ्कगताम् शुभाम् ।अब्रवीत् लक्ष्मणम् वाक्यम् मुखेन परिशुष्यता ॥३-२-१६॥
पश्य सौम्य नरेन्द्रस्य जनकस्य अत्म संभवाम् ।मम भार्याम् शुभाचाराम् विराधाङ्के प्रवेशिताम् ॥३-२-१७॥
अत्यन्त सुख संवृद्धाम् राजपुत्रीम् यशस्विनीम् ।यत् अभिप्रेतम् अस्मासु प्रियम् वर वृतम् च यत् ॥३-२-१८॥
कैकेय्यास्तु सुसंवृत्तम् क्षिप्रम् अद्य एव लक्ष्मण ।या न तुष्यति राज्येन पुत्रार्थे दीर्घ दर्शिनी ॥३-२-१९॥
ययाऽहम् सर्वभूतानाम् प्रियः प्रस्थापितो वनम् ।अद्य इदानीम् सकामा सा या माता मम मध्यमा ॥३-२-२०॥
पर स्पर्शात् तु वैदेह्या न दुःखतरम् अस्ति मे ।पितुर् विनाशात् सौमित्रे स्व राज्य हरणात् तथा ॥३-२-२१॥
इति ब्रुवति काकुत्स्थे बाष्प शोक परिप्लुतः ।अब्रवीत् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥३-२-२२॥
अनाथ इव भूतानाम् नाथः त्वम् वासवोपमः ।मया प्रेष्येण काकुत्स्थः किम् अर्थम् परितप्यसे ॥३-२-२३॥
शरेण निहतस्य अद्य मया क्रुद्धेन रक्षसः ।विराधस्य गत असोः हि मही पास्यति शोणितम् ॥३-२-२४॥
राज्य कामे मम क्रोधो भरते यो बभूव ह ।तम् विराधे विमोक्ष्यामि वज्री वज्रम् इव अचले ॥३-२-२५॥
मम भुज बल वेग वेगितःपततु शरोऽस्य महान् महोरसि ।व्यपनयतु तनोः च जीवितम्पततु ततः च महीम् विघूर्णितः ॥३-२-२६॥
अथ उवाच पुनर् वाक्यम् विराधः पूरयन् वनम् ।पृच्छतो मम हि ब्रूतम् कौ युवाम् क्व गमिष्यथः ॥३-३-१॥
तम् उवाच ततो रामो राक्षसम् ज्वलित आननम् ।पृच्छन्तम् सुमहातेजा इक्ष्वाकु कुलम् आत्मनः ॥३-३-२॥
क्षत्रियौ वृत्त संपन्नौ विद्धि नौ वनगोचरौ ।त्वाम् तु वेदितुम् इच्छावः कः त्वम् चरसि दण्डकान् ॥३-३-३॥
तम् उवाच विराधः तु रामम् सत्य पराक्रमम् ।हन्त वक्ष्यामि ते राजन् निबोध मम राघव ॥३-३-४॥
पुत्रः किल जवस्य अहम् माता मम  शतह्रदा ।विराध इति माम् आहुः पृथिव्याम् सर्व राक्षसाः ॥३-३-५॥
तपसा च अभि संप्राप्ता ब्रह्मणो हि प्रसादजा ।शस्त्रेण अवध्यता लोके अच्छेद्य अभेद्यत्वम् एव च ॥३-३-६॥
उत्सृज्य प्रमदाम् एनाम् अनपेक्षौ यथा आगतम् ।त्वरमाणौ पलायेथाम् न वाम् जीवितम् आददे ॥३-३-७॥
तम् रामः प्रति उवाच इदम् कोप संरक्त लोचनः ।राक्षसम् विकृत आकारम् विराधम् पाप चेतसम् ॥३-३-८॥
क्षुद्र धिक्त्वाम् तु हीनार्थम् मृत्युम् अन्वेषसे ध्रुवम् ।रणे प्राप्स्यसि संतिष्ठ न मे जीवन् विमोक्ष्यसे ॥३-३-९॥
ततः सज्यम् धनुः कृत्वा रामः सुनिशितान् शरान् ।सु शीघ्रम् अभिसंधाय राक्षसम् निजघान ह ॥३-३-१०॥
धनुषा ज्या गुणवता सप्त बाणान् मुमोच ह ।रुक्म पुंखान् महावेगान् सुपर्ण अनिल तुल्य गान् ॥३-३-११॥
ते शरीरम् विराधस्य भित्त्वा बर्हिण वाससः ।निपेतुः शोणिता दिग्धा धरण्याम् पावकोपमाः ॥३-३-१२॥
स विद्धो न्यस्य वैदेहीम् शूलम् उद्यम्य राक्षसः ।अभ्यद्रवत् सुसंक्रुद्धः तदा रामम् स लक्ष्मणम्  ॥३-३-१३॥
स विनद्य महानादम् शूलम् शक्र ध्वज उपमम् ।प्रगृह्य अशोभत तदा व्यात्तानन इव अंतकः ॥३-३-१४॥
अथ तौ भ्रातरौ दीप्तम् शर वर्षम् ववर्षतुः ।विराधे राक्षसे तस्मिन् कालांतक अयम् उपमे ॥३-३-१५॥
स प्रहस्य महा रौद्रः स्थित्वा अजृम्भत राक्षसः ।जृंभमाणस्य ते बाणाः कायात् निष्पेतुर् अशुगाः ॥३-३-१६॥
स्पर्शात् तु वर दानेन प्राणान् संरोध्य राक्षसः ।विराधः शूलम् उद्यम्य राघवौ अभ्यधावत  ॥३-३-१७॥
तत् शूलम् वज्र संकाशम् गगने ज्वलन उपमम् ।द्वाभ्याम् शराभ्याम् चिच्छेद रामः शस्त्रभृताम् वरः ॥३-३-१८॥
तत् राम विशिखैः छिन्नम् शूलम् तस्य आपतत् भुविः ।पपात अशनिना चिन्नम् मेरोर् इव शिला तलम्  ॥३-३-१९॥
तौ खड्गौ क्षिप्रम् उद्यम्य कृष्ण सर्पौ इव उद्यतौ ।तूर्णम् आपेततुः तस्य तदा प्रहारताम् बलात्  ॥३-३-२०॥
स वध्यमान सुभृशम् भुजाभ्याम् परिगृह्य तौ  ।अप्रकंप्यौ नरव्याघ्रौ रौद्रः प्रस्थातुम् ऐच्छत  ॥३-३-२१॥
तस्य अभिप्रायम् अज्ञाय रामो लक्ष्मणम् अब्रवीत्  ।वहतु अयम् अलम् तावत् पथानेन तु राक्षसः  ॥३-३-२२॥
यथा च इच्छति सोउमित्रे तथा वहतु राक्षसः  ।अयम् एव हि नः पन्था येन याति निशाचरः  ॥३-३-२३॥
स तु स्व बल वीर्येण समुत्क्षिप्य निशाचरः ।बालाः इव स्कन्ध गतौ चकार अति बलोद्धतः  ॥३-३-२४॥
तौ आरोप्य ततः स्कन्धम् राघवो  रजनी चरः  ।विराधो विनदन् घोरम् जगाम अभिमुखो वनम्  ॥३-३-२५॥
वनम् महा मेघ निभम् प्रविष्टोद्रुमैः महद्भिः विविधैः उपेतम् ।नाना विधैः पक्षि कुलैः विचित्रम्शिव आयुतम् व्याल मृगैः विकीर्णम्  ॥३-३-२६॥
ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ  ।उच्चैः स्वरेण चुक्रोश प्रगृह्य सु महाभुजौ  ॥३-४-१॥
एष दाशरथी रामः सत्यवान् शीलवान् शुचिः  ।रक्षसा रौद्र रूपेण ह्रियते सह लक्ष्मणः  ॥३-४-२॥
माम् ऋका भक्ष इष्यन्ति शार्दूल द्वीपिनः तथा ।माम् हरः उत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तमः ॥३-४-३॥
तस्याः तत् वचनम् श्रुत्वा वैदेह्याः राम लक्ष्मणौ ।वेगम् प्रचक्रतुर् वीरौ वधे तस्य दुरात्मनः ॥३-४-४॥
तस्य रौद्रस्य सोउमित्रिः सव्यम् बाहुम् बभञ्ज ह  ।रामः तु दक्षिणम् बाहुम् तरसा तस्य रक्षसः  ॥३-४-५॥
सः भग्न बहुः संविग्नः पपात आशु विमूर्छितः  ।धरण्याम् मेघ संकाशो वज्र भिन्न इव अचलः  ॥३-४-६॥
मुष्टिभिर् बाहुभिर् पद्भिः सूदयन्तौ तु राक्षसम् ।उद्यम्योद्यम्य च अपि एनम् स्थण्डिले निष्पिपेषतुः ॥३-४-७॥
स विद्धो बहुभिर् बाणैः खड्गाभ्याम् च परिक्षतः ।निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥३-४-८॥
तम् प्रेक्ष्य रामः सुभृशम् अवध्यम् अचल उपमम् ।भयेषु अभय दः श्रीमान् इदम् वचनम् अब्रवीत्  ॥३-४-९॥
तपसा पुरुषव्याघ्र राक्षसोऽयम् न शक्यते ।शस्त्रेण युधि निर्जेतुम् राक्षसम् निखनावहे ॥३-४-१०॥
कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! ।वने अस्मिन् सुमहद् श्वभ्रम् खन्यताम् रौद्रवर्चसः ॥३-४-११॥
इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति ।तस्थौ विराधम् आक्र्म्य कण्ठे पादेन वीर्यवान्  ॥३-४-१२॥
तत् श्रुत्वा राघवेण उक्तम् राक्षसः प्रश्रितम् वचः ।इदम् प्रोवाच काकुत्स्थम् विराधः पुरुषर्षभम् ॥३-४-१३॥
हतोऽहम् पुरुषव्याघ्रः शक्र तुल्य बलेन वै ।मया तु पूर्वम् त्वम् मोहान् न ज्ञातः पुरुषर्षभः ॥३-४-१४॥
कौसल्या सुप्रजातः तात रामः त्वम् विदितो मया  ।वैदेही च महाभागा लक्ष्मणः च महायशाः  ॥३-४-१५॥
अभि शापाद् अहम् घोरम् प्रविष्टो राक्ष्सीम् तनुम्  ।तुंबुरुः नाम गन्धर्वः शप्तो वैश्रवणेन हि  ॥३-४-१६॥
प्रसाद्यमानः च मया सोऽब्रवीत् माम् महायशाः  ।यदा दाशरथी रमः त्वाम् वधिष्यति संयुगे  ॥३-४-१७॥
तदा प्रकृतिम् आपन्नो भवान् स्वर्गम् गमिष्यति ।अनुपस्थीयमानो माम् स क्रुद्धो व्याजहार ह  ॥३-४-१८॥
इति वैश्रवणो राजा रंभ आसक्तम् उवाच ह ।तव प्रसादान् मुक्तो अहम् अभिशापात् सु दारुणात्  ॥३-४-१९॥
भुवनम् स्वम् गमिष्यामि स्वस्ति वोऽस्तु परंतप ।इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥३-४-२०॥
अध्यर्थ योजने तातः महर्षिः सूर्य संनिभः ।तम् क्षिप्रम् अभिगच्छ त्वम् स ते श्रेयो अभिधास्यति ॥३-४-२१॥
अवटे च अपि माम् राम निक्षिप्य कुशली व्रज ।रक्षसाम् गत सत्त्वानाम् एष धर्मः सनातनः  ॥३-४-२२॥
अवटे ये निधीयन्ते तेषाम् लोकाः सनातनाः ।एवम् उक्त्वा तु काकुत्स्थम् विराधः शर पीडितः ॥३-४-२३॥
बभूव स्वर्ग संप्राप्तो न्यस्त देहो महाबलः ।तत् श्रुत्वा राघवः वाक्यम् लक्ष्मणम् व्यादिदेश ह ॥३-४-२४॥
कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! ।वने अस्मिन् सुमहत् श्वभ्रम् खन्यताम् रौद्रकर्मणः॥३-४-२५॥
इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति ।तस्थौ विराधम् आक्रम्य कण्ठे पादेन वीर्यवान्  ॥३-४-२६॥
ततः खनित्रम् आदाय लक्ष्मणः श्वभ्रम् उत्तमम्  ।अखनत् पार्श्वतः तस्य विराधस्य महात्मनः ॥३-४-२७॥
तम् मुक्त कण्ठम्  उत्क्षिप्य शङ्कु कर्णम् महास्वनम् ।विराधम् प्राक्षिपत् श्वभ्रे नदन्तम् भैरव स्वनम् ॥३-४-२८॥
तम् आहवे दारुणम् आशु विक्रमौस्थिरौ उभौ संयति राम लक्ष्मणौ ।मुदान्वितौ चिक्षिपतुर् भयावहम्नदन्तम् उत्क्षिप्य बिलेन राक्ष्सम् ॥३-४-२९॥
अवध्यताम् प्रेक्ष्य महासुरस्य तौशितेन शस्त्रेण तदा नरर्षभौ ।समर्थ्य च अत्यर्थ विशारदौ उभौबिले विरधस्य वधम् प्रचक्रतुः ॥३-४-३०॥
स्वयम् विराधेन हि मृत्युम् आत्मनःप्रसह्य रामेण वधार्थम् ईप्सितः ।निवेदितः कानन चारिणा स्वयम्न मे वधः शस्त्र कृतो भवेत् इति ॥३-४-३१॥
तदेव रामेण निशम्य भाषितम्कृता मतिः तस्य बिल प्रवेशने ।बिलम् च तेन अति बलेन रक्षसाप्रवेश्यमानेन वनम् विनादितम् ॥३-४-३२॥
प्रहृष्ट रूपौ इव राम लक्ष्मणौविराधम् उर्व्याम् प्रदरे निपात्य तम् ।ननन्दतुः वीत भयौ महावनेशिलाभिः अन्तर् दधतुः च राक्षसम् ॥३-४-३३॥
ततः तु तौ कांचन चित्र कार्मुकौनिहत्य रक्षः परिगृह्य मैथिलीम् ।विजह्रतुः तौ मुदितौ महावनेदिवि स्थितौ चन्द्र दिवाकरौ इव ॥३-४-३४॥
हत्वा तु तम् भीम बलम् विराधम् राक्षसम् वने ।ततः सीताम् परिष्वज्य समाश्वास्य च वीर्यवान् ॥३-५-१॥
अब्रवीत् भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ।कष्टम् वनम् इदम् दुर्गम् न च स्मो वन गोचराः ॥३-५-२॥
अभिगच्छामहे शीघ्रम् शरभङ्गम् तपो धनम् ।आश्रमम् शरभन्गस्य राघवोऽभिजगाम ह ॥३-५-३॥
तस्य देव प्रभावस्य तपसा भावित आत्मनः ।समीपे शरभंगस्य ददर्श महत् अद्भुतम् ॥३-५-४॥
विभ्राजमानम् वपुषा सूर्य वैश्वानर प्रभम् ।रथ प्रवरम् आरूढम् आकाशे विबुध अनुगम् ॥३-५-५॥
असंस्पृशन्तम् वसुधाम् ददर्श विबुध ईश्वरम् ।संप्रभ आभरणम् देवम् विरजो अंबर धारिणम् ॥३-५-६॥
तत् विधैः एव बहुभिर् पूज्यमानम् महात्मभिः ।हरितैः वाजिभिर् युक्तम् अंतरिक्ष गतम् रथम् ॥३-५-७॥
ददर्श अदूरतः तस्य तरुण आदित्य संनिभम् ।पाण्डुर अभ्र घन प्रख्यम् चन्द्र मण्डल संनिभम् ॥३-५-८॥
अपश्यत् विमलम् छत्रम् चित्र माल्य उपशोभितम् ।चामर व्यजने च अग्र्ये रुक्म दण्डे महाधने ॥३-५-९॥
गृहीते वर नारीभ्याम् धूयमाने च मूर्धनि ।गन्धर्व अमर सिद्धाः च बहवः परम ऋषयः ॥३-५-१०॥
अन्तरिक्ष गतम् देवम् गीर्भिर् अग्र्याभिर् ऐडियन् ।सह संभाषमाणे तु शरभंगेन वासवे ॥३-५-११॥
दृष्ट्वा शत क्रतुम् तत्र रामो लक्ष्मणम् अब्रवीत् ।रामोऽथ रथम् उद्दिश्य भ्रातुर् दर्शयत अद्भुतम् ॥३-५-१२॥
अर्चिष्मन्तम् श्रिया जुष्टम् अद्भुतम् पश्य लक्ष्मण ।प्रतपन्तम् इव आदित्यम् अन्तरिक्ष गतम् रथम् ॥३-५-१३॥
ये हयाः पुरु हूतस्य पुरा शक्रस्य नः श्रुताः ।अन्तरिक्ष गता दिव्याः ते इमे हरयो ध्रुवम् ॥३-५-१४॥
इमे च पुरुष व्याघ्र ये तिष्ठन्ति अभितः दिशम् ।शतम् शतम् कुण्डलिनो युवानः खड्ग पाणयः ॥३-५-१५॥
विस्तीर्ण विपुल उरस्काः परिघायत बाहवः ।शोणांशु वसनाः सर्वे व्याघ्र इव दुरासदाः ॥३-५-१६॥
उरो देशेषु सर्वेषाम् हारा ज्वलन संनिभाः ।रूपम् बिभ्रति सौमित्रे पंच विंशति वार्षिकम् ॥३-५-१७॥
एतद्धि किल देवानाम् वयो भवति नित्यदा ।यथा इमे पुरुष व्याघ्रा दृश्यन्ते प्रिय दर्शनाः ॥३-५-१८॥
इह एव सह वैदेह्या मुहूर्तम् तिष्ठ लक्ष्मण ।यावत् जानामि अहम् व्यक्तम् क एष द्युतिमान् रथे ॥३-५-१९॥
तम् एवम् उक्त्वा सौमित्रिम् इह एव स्थीयताम् इति ।अभिचक्राम काकुत्स्थः शरभंग आश्रमम् प्रति ॥३-५-२०॥
ततः समभिगच्छन्तम् प्रेक्ष्य रामम् शची पतिः ।शरभंगम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत् ॥३-५-२१॥
इह उपयाति असौ रामो यावन् माम् न अभिभाषते ।निष्ठाम् नयत तावत् तु ततो मा द्रष्टुम् अर्हति ॥३-५-२२॥
जितवन्तम् कृतार्थम् हि तदा अहम् अचिराद् इमम् ।कर्म हि अनेन कर्तव्यम् महत् अन्यैः सुदुष्करम् ॥३-५-२३॥
अथ वज्री तम् आमंत्र्य मानयित्वा च तापसम् ।रथेन हय युक्तेन ययौ दिवम् अरिन्दमः ॥३-५-२४॥
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः ।अग्नि होत्रम् उपासीनम् शरभंगम् उपागमत् ॥३-५-२५॥
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः ।निषेदुः तद् अनुज्ञाता लब्ध वासा निमंत्रिताः ॥३-५-२६॥
ततः शक्र उपयानम् तु पर्यपृच्छत राघवः ।शरभंगः च तत् सर्वम् राघवाय न्यवेदयत् ॥३-५-२७॥
माम् एष वरदो राम ब्रह्म लोकम् निनीषति ।जितम् उग्रेण तपसा दुष्प्रापम् अकृत आत्मभिः ॥३-५-२८॥
अहम् ज्ञात्वा नर व्याघ्र वर्तमानम् अदूरतः ।ब्रह्म लोकम् न गच्छामि त्वाम् अदृष्ट्वा प्रिय अतिथिम् ॥३-५-२९॥
त्वया अहम् पुरुषव्याघ्र धार्मिकेण महत्मनाअ ।समागम्य गमिष्यामि त्रिदिवम् च अवरम् परम् ॥३-५-३०॥
अक्षया नर शार्दूल जितालोका मया शुभाः ।ब्राह्म्याः च नाक पृष्ठ्याः च प्रतिगृह्णीष्व मामकान् ॥३-५-३१॥
एवम् उक्तो नरव्याघ्रः सर्व शास्त्र विशारदः ।ऋषिणा शरभंगेन राघवो वाक्यम् अब्रवीत् ॥३-५-३२॥
अहम् एव आहरिष्यामि सर्वान् लोकान् महामुने ।आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने ॥३-५-३३॥
राघवेण एवम् उक्तः तु शक्र तुल्य बलेन वै ।शरभंगो महाप्राज्ञः पुनर् एव अब्रवीत् वचः ॥३-५-३४॥
इह राम महातेजाः सुतीक्ष्णो नम धार्मिकः ।वसति अरण्ये नियतः स ते श्रेयो विधास्यति ॥३-५-३५॥
सुतीक्ष्णम् अभिगच्छ त्वम् शुचौ देशे तपस्विनम् ।रमणीये वनोद्देशे स ते वासम् विधास्यति ॥३-५-३६॥
इमाम् मन्दाकिनीम् राम प्रतिस्रोतम् अनुव्रज ।नदीम् पुष्पोडुप वहाम् ततः तत्र गमिष्यसि ॥३-५-३७॥
एष पन्था नरव्याघ्र मुहूर्तम् पश्य तात माम् ।यावत् जहामि गात्राणि जीर्णाम् त्वचम् इव उरगः ॥३-५-३८॥
ततो अग्निम् सु समाधाय हुत्वा च आज्येन मंत्रवित् ।शरभंगो महातेजाः प्रविवेश हुताशनम् ॥३-५-३९॥
तस्य रोमाणि केशाम् च तदा वह्निः महात्मनः ।जीर्णम् त्वचम् तद् अस्थीनि यत् च मांसम् च शोणितम् ॥३-५-४०॥
स च पावक संकाशः कुमारः समपद्यत ।उत्थाय अग्निचयात् तस्मात् शरभंगो व्यरोचत ॥३-५-४१॥
स लोकान् आहिताग्नीनाम् ऋषीणाम् च महात्मनाम् ।देवानाम् च व्यतिक्रम्य ब्रह्म लोकम् व्यरोहत ॥३-५-४२॥
स पुण्य कर्मा भुवने द्विजर्षभःपितामहम् सानुचरम् ददर्श ह ।पितामहः च अपि समीक्ष्य तम् द्विजम्ननन्द सुस्वागतम् इति उवाच ह  ॥३-५-४३॥
शरभङ्गे दिवम् प्राप्ते मुनि संघाः समागताः ।अभ्यगच्छन्त काकुत्स्थम् रामम् ज्वलित तेजसम्  ॥३-६-१॥
वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः ।अश्म कुट्टाः च बहवः पत्र आहाराः च तापसाः ॥३-६-२॥
दन्त उलूखलिनः च एव तथा एव उन्मज्जकाः परे ।गात्र शय्या अशय्याः च तथा एव अनवकाशिकाः ॥३-६-३॥
मुनयः सलिल आहारा वायु भक्षाः तथा अपरे ।आकाश निलयाः च एव तथा स्थण्डिल शायिनः  ॥३-६-४॥
तथा ऊर्थ्व वासिनः दान्ताः तथा आर्द्र पट वाससः ।स जपाः च तपो नित्याः तथा पंच तपोऽन्विताः ॥३-६-५॥
सर्वे ब्राह्म्या श्रिया ज्युक्ता दृढ योग समाहिताः ।शरभंग आश्रमे रामम् अभिजग्मुः च तापसाः  ॥३-६-६॥
अभिगम्य च धर्मज्ञा रामम् धर्म भृताम् वरम् ।ऊचुः परम धर्मज्ञम् ऋषि संघाः समागताः ॥३-६-७॥
त्वम् इक्ष्वाकु कुलस्य अस्य पृथिव्याः च महारथः ।प्रधानः च अपि नाथः च देवानाम् मघवान् इव ॥३-६-८॥
विश्रुतः त्रिषु लोकेषु यशसा विक्रमेण च ।पितृ व्रतत्वम् सत्यम् च त्वयि धर्मः च पुष्कलः ॥३-६-९॥
त्वाम् आसाद्य महात्मानम् धर्मज्ञम् धर्म वत्सलम् ।अर्थित्वात् नाथ वक्ष्यामः तत् च नः क्षन्तुम् अर्हसि ॥३-६-१०॥
अधार्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः ।यो हरेत् बलि षड् भागम् न च रक्षति पुत्रवत् ॥३-६-११॥
युंजानः स्वान् इव प्राणान् प्राणैः इष्टान् सुतान् इव ।नित्य युक्तः सदा रक्षन् सर्वान् विषय वासिनः ॥३-६-१२॥
प्राप्नोति शाश्वतीम् राम कीर्तिम् स बहु वार्षिकीम् ।ब्रह्मणः स्थानम् आसाद्य तत्र च अपि महीयते ॥३-६-१३॥
यत् करोति परम् धर्मम् मुनिः मूल फल अशनः ।तत्र राज्ञः चतुर् भागः प्रजा धर्मेण रक्षतः ॥३-६-१४॥
सो अयम् ब्राह्मण भूयिष्ठो वानप्रस्थ गणो महान् ।त्वम् नाथो अनाथवत् राम राक्षसैः हन्यते भृशम् ॥३-६-१५॥
एहि पश्य शरीराणि मुनीनाम् भावित आत्मनाम् ।हतानाम् राक्षसैः घोरैः बहूनाम् बहुधा वने ॥३-६-१६॥
पंपा नदी निवासानाम् अनुमन्दाकिनीम् अपि ।चित्रकूट आलयानाम् च क्रियते कदनम् महत् ॥३-६-१७॥
एवम् वयम् न मृष्यामो विप्रकारम् तपस्विनाम् ।क्रियमाणम् वने घोरम् रक्षोभिः भीम कर्मभिः ॥३-६-१८॥
ततः त्वाम् शरणार्थम् च शरण्यम् समुपस्थिताः ।परिपालय नः राम वध्यमानान् निशाचरैः ॥३-६-१९॥
परा त्वत्तः गतिः वीर पृधिव्यम् न उपपद्यते ।परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मजः ॥३-६-२०॥
एतत् श्रुत्वा तु काकुत्स्थः तापसानाम् तपस्विनाम् ।इदम् प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः ॥३-६-२१॥
न एवम् अर्हथ माम् वक्तुम् आज्ञाप्यः अहम् तपस्विनाम् ।केवलेन स्व कार्येण प्रवेष्टव्यम् वनम् मया  ॥३-६-२२॥
विप्रकारम् अपाक्रष्टुम् राक्षसैः भवताम् इमम् ।पितुः तु निर्देशकरः  प्रविष्टो अहम् इदम् वनम् ॥३-६-२३॥
भवताम् अर्थ सिद्ध्यर्थम् आगतोऽहम् यदृच्छया ।तस्य मे अयम् वने वासो भविष्यति महाफलः  ॥३-६-२४॥
तपस्विनाम् रणे शत्रून् हन्तुम् इच्छामि राक्षसान् ।पश्यन्तु वीर्यम् ऋषयः सः ब्रातुर् मे तपोधनाः ॥३-६-२५॥
दत्त्वा अभयम् च अपि तपो धनानाम्धर्मे धृइत आत्मा सह लक्ष्मणेन ।तपो धनैः च अपि सह आर्य दत्तःसुतीक्ष्णम् एव अभिजगाम वीरः ॥३-६-२६॥
रामः तु सहितः भ्रात्रा सीतया च परंतपः ।सुतीक्ष्णस्य आश्रम पदम् जगाम सह तैः द्विजैः ॥३-७-१॥
रामः तु सहितः भ्रात्रा सीतया च परंतपः ।सुतीक्ष्णस्य आश्रम पदम् जगाम सह तैः द्विजैः ॥३-७-१॥
स गत्वा दीर्घम् अध्वानम् नदीः तीर्त्वा बहु उदकाः ।ददर्श विमलम् शैलम् महा मेरुम् इव उन्नतम् ॥३-७-२॥
ततः तद् इक्ष्वाकु वरौ सततम् विविधैः द्रुमैः ।काननम् तौ विविशतुः सीतया सह राघवौ ॥३-७-३॥
प्रविष्टः तु वनम् घोरम् बहु पुष्प फल द्रुमम् ।ददर्श आश्रमम् एकान्ते चीर माला परिष्कृतम् ॥३-७-४॥
तत्र तापसम् आसीनम् मल पङ्कज  धारिणम् ।रामः सुतीक्ष्णम् विधिवत् तपोधनम् अभाषत  ॥३-७-५॥
रामोऽहम् अस्मि भगवन् भवन्तम् द्रष्टुम् आगतः ।तत् मा अभिवद धर्मज्ञ महर्षे सत्य विक्रम ॥३-७-६॥
स निरीक्ष्य ततः धीरो रामम् धर्मभृताम् वरम् ।समाश्लिष्य च बाहुभ्याम् इदम् वचनम् अब्रवीत्  ॥३-७-७॥
स्वागतम् ते रघु श्रेष्ठ राम सत्यभृताम् वर ।आश्रमओ अयम् त्वया आक्रान्तः सनाथ इव सांप्रतम् ॥३-७-८॥
प्रतीक्षमाणः त्वाम् एव न आरोहे अहम् महायशः ।देव लोकम् इतो वीर देहम् त्यक्त्वा महीतले ॥३-७-९॥
चित्रकूटम् उपादाय राज्य भ्रष्टो असि मे  श्रुतः ।इह उपयातः काकुत्स्थः देवराजः शततक्रतुः  ॥३-७-१०॥
उपागम्य च मे देवो महादेवः सुर ईश्वरः ।सर्वान् लोकान् जितान् आह मम पुण्येन कर्मणा ॥३-७-११॥
तेषु देव ऋषि जुष्टेषु जितेशु तपसा मया  ।मत् प्रसादात् स भार्यः त्वम् विहरस्व स लक्ष्मणः ॥३-७-१२॥
तम् उग्र तपसम् दीप्तम् महर्षिम् सत्य वादिनम् ।प्रत्युवाच आत्मवान् रामो ब्रह्माणम् इव वासवः ॥३-७-१३॥
अहम् एव आहरिष्यामि स्वयम् लोकान् महामुने ।आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने ॥३-७-१४॥
भवान् सर्वत्र कुशलः सर्वभूत हिते रतः ।आख्यातः शरभंगेन गौतमेन महात्मना ॥३-७-१५॥
एवम् उक्तः तु रामेण महर्षिः लोक विश्रुतः ।अब्रवीत् मधुरम् वाक्यम् हर्षेण महता युतः ॥३-७-१६॥
अयम् एव आश्रमो राम गुणवान् रम्यताम् इति ।ऋषि संघ अनुचरितः सदा मूल फलैर् युतः ॥३-७-१७॥
इमम् आश्रमम् आगम्य मृग संघा महीयसः ।अहत्वा प्रतिगच्छन्ति लोभयित्वा अकुतोभयाः ॥३-७-१८॥
ना अन्यो दोषो भवेत् अत्र मृगेभ्यः अन्यत्र विद्धि वै ।तत्  श्रुत्वा वचनम् तस्य महर्षेः लक्ष्मणाग्रजः ॥३-७-१९॥
उवाच वचनम् धीरो विगृह्य स शरम् धनुः ।तान् अहम् सुमहाभाग मृगसंघान् समागतान् ॥३-७-२०॥
हन्याम् निशित धारेण  शरेण नत पर्वणा ।भवान् तत्र अभिषज्येत किम् स्यात् कृच्छ्र तरम् ततः ॥३-७-२१॥
एतस्मिन् आश्रमे वासम् चिरम् तु न समर्थये ।तम् एवम् उक्त्वा उपरमम् रामः संध्याम् उपागमत् ॥३-७-२२॥
अन्वास्य पश्चिमाम् संध्याम् तत्र वासम् अकल्पयत् ।सुतीक्ष्णस्य आश्रमे रम्ये सीतया लक्ष्मनेन च ॥३-७-२३॥
ततः  शुभम् तापस अन्नम्स्वयम् सुतीक्ष्णः पुरुषर्षभाभ्याम् ।ताभ्याम् सुसत्कृत्य ददौ महात्मासंध्या निवृत्तौ रजनीम् समीक्ष्य ॥३-७-२४॥
रामः तु सह सौमित्रिः सुतीक्ष्णेन अभिपूजितः ।परिणाम्य निशाम् तत्र प्रभाते प्रत्यबुध्यत ॥३-८-१॥
उत्थाय च यथा कालम् राघवः सह सीतया ।उपस्पृश्य सु शीतेन तोयेन उत्पल गंधिना ॥३-८-२॥
अथ ते अग्निम् सुराम् च एव वैदेही राम लक्ष्मणौ ।काल्यम् विधिवत् अभ्यर्च्य तपस्वि शरणे वने ॥३-८-३॥
उदयन्तम् दिनकरम् दृष्ट्वा विगत कल्मषाः ।सुतीक्ष्णम् अभिगम्य इदम् श्लक्ष्णम् वचनम् अब्रुवन् ॥३-८-४॥
सुखोषिताः स्म भगवन् त्वया पूज्येन पूजिताः ।आपृच्छामः प्रयास्यामो मुनयः त्वरयन्ति नः ॥३-८-५॥
त्वरामहे वयम् द्रष्टुम् कृत्स्नम् आश्रम मण्डलम् ।ऋषीणाम् पुण्य शीलानाम् दण्डकारण्य वासिनाम् ॥३-८-६॥
अभ्यनुज्ञातुम् इच्छामः सह एभिः मुनिपुङ्गवैः ।धर्म नित्यैः तपो दान्तैः विशिखैः इव पावकैः ॥३-८-७॥
अविषह्य आतपो यावत् सूर्यो न अति विराजते ।अमार्गेण आगताम् लक्ष्मीम् प्राप्य इव अन्वय वर्जितः ॥३-८-८॥
तावत् इच्छामहे गन्तुम् इति उक्त्वा चरणौ मुनेः ।ववन्दे सह सौमित्रिः सीतया सह राघवः ॥३-८-९॥
तौ सम् स्पृशंतौ चरणौ उत्थाप्य मुनिपुंगवः ।गाढम् आश्लिष्य सस्नेहम् इदम् वचनम् अब्रवीत् ॥३-८-१०॥
अरिष्टम् गच्छ पन्थानम् राम सौमित्रिणा सह ।सीतया च अनया सार्धम् छाय एव अनुवृत्तया ॥३-८-११॥
पश्य आश्रम पदम् रम्यम् दण्डकारण्य वासिनाम् ।एषाम् तपस्विनाम् वीर तपसा भावित आत्मनाम् ॥३-८-१२॥
सुप्राज्य फल मूलानि पुष्पितानि वनानि च ।प्रशस्त मृग यूथानि शान्त पक्षि गणानि च ॥३-८-१३॥
फुल्ल पंकज खण्डानि प्रसन्न सलिलानि च ।कारण्डव विकीर्णानि तटाकानि सरांसि च ॥३-८-१४॥
द्रक्ष्यसे दृष्टि रम्याणि गिरि प्रस्रवणानि च  ।रमणीयानि अरण्यानि मयूर अभिरुतानि च ॥३-८-१५॥
गम्यताम् वत्स सौमित्रे भवान् अपि च गच्छतु ।आगन्तव्यम् च ते दृष्ट्वा पुनः एव आश्रमम् प्रति ॥३-८-१६॥
एवम् उक्तः तथा इति उक्त्वा काकुत्स्थः सह लक्ष्मणः ।प्रदक्षिणम् मुनिम् कृत्वा प्रस्थातुम् उपचक्रमे ॥३-८-१७॥
ततः शुभतरे तूणी धनुषी च आयतेक्षणा ।ददौ सीता तयोः भ्रात्रोः खड्गौ च विमलौ ततः ॥३-८-१८॥
आबध्य च शुभे तूणी चापे च आदाय सस्वने ।निष्क्रान्तौ आश्रमात् गन्तुम् उभौ तौ राम लक्ष्मणौ ॥३-८-१९॥
शीघ्रम् तौ रूपसंपन्नौ अनुज्ञातौ महर्षिणा ।प्रस्थितौ धृत चापा असी सीतया सह राघवौ ॥३-८-२०॥
सुतीक्ष्णेन अभ्यनुज्ञातम् प्रस्थितम् रघु नन्दनम् ।हृद्यया स्निग्धया वाचा भर्तारम् इदम् अब्रवीत् ॥३-९-१॥
अधर्मम् तु सुसूक्ष्मेण विधिना प्राप्यते महान् ।निवृत्तेन च शक्यो अयम् व्यसनात् कामजाद् इह ॥३-९-२॥
त्रीणि एव व्यसनानि अत्र कामजानि भवन्ति उत ।मिथ्या वाक्यम् तु परमम् तस्मात् गुरुतरा उभौ ॥३-९-३॥
पर दार अभिगमनम् विना वैरम् च रौद्रता ।मिथ्या वाक्यम् न ते भूतम् न भविष्यति राघव ॥३-९-४॥
कुतो अभिलषणम् स्त्रीणाम् परेषाम् धर्म नाशनम् ।तव नास्ति मनुष्येन्द्र न च आभूत् ते कदाचन ॥३-९-५॥
मनस्यपि तथा राम न च एतत् विद्यते क्वचित् ।स्व दार निरतः  च एव नित्यम् एव नृपात्मज ॥३-९-६॥
धर्मिष्टः सत्य सन्धः च पितुः निर्देश कारकः ।त्वयि धर्मः च सत्यम् च त्वयि सर्वम् प्रतिष्टितम् ॥३-९-७॥
तच्च सर्वम् महाबाहो शक्यम् वोढुम् जितेइन्द्रियैः ।तव वश्य इन्द्रियत्वम् च जानामि शुभदर्शन ॥३-९-८॥
तृतीयम् यद् इदम् रौद्रम् पर प्राण अभिहिंसनम् ।निर्वैरम् क्रियते मोहात् तत् च ते समुपस्थितम् ॥३-९-९॥
प्रतिज्ञातः त्वया वीर दण्डकारण्य वासिनाम् ।ऋषीणाम् रक्षणार्थाय वधः संयति रक्षसाम् ॥३-९-१०॥
एतन् निमित्तम् च वनम् दण्डका इति विश्रुतम् ।प्रस्थितः त्वम् सह भ्रात्रा धृत बाण शराअसनः ॥३-९-११॥
ततः त्वाम् प्रस्थितम् दृष्ट्वा मम चिन्त आकुलम् मनः ।त्वत् वृत्तम् चिन्तयन्त्या वै भवेत् निःश्रेयसम् हितम् ॥३-९-१२॥
न हि मे रोचते वीरः गमनम् दण्डकान् प्रति ।कारणम् तत्र वक्ष्यामि वदन्त्याः श्रूयताम् मम ॥३-९-१३॥
त्वम् हि बाण धनुष्पाणिः भ्रात्रा सह वनम् गतः ।दृष्ट्वा वन चरान् सर्वान् कच्चित् कुर्याः शर व्ययम् ॥३-९-१४॥
क्षत्रियाणाम् इह धनुर् हुताशस्य इन्धनानि च ।समीपतः स्थितम् तेजो बलम् उच्छ्रयते भृशम् ॥३-९-१५॥
पुरा किल महाबाहो तपस्वी सत्य वाक् शुचिः ।कस्मिन् चित् अभवत् पुण्ये वने रत मृग द्विजे ॥३-९-१६॥
तस्य एव तपसो विघ्नम् कर्तुम् इन्द्रः शचीपतिः ।खड्ग पाणिः अथ आगच्छत् आश्रमम् भट रूप धृक् ॥३-९-१७॥
तस्मिन् तत् आश्रम पदे निहितः खड्ग उत्तमः ।स न्यास विधिना दत्तः पुण्ये तपसि तिष्ठतः ॥३-९-१८॥
स तत् शस्त्रम् अनुप्राप्य न्यास रक्षण तत्परः ।वने तु विचरति एव रक्षन् प्रत्ययम् आत्मनः ॥३-९-१९॥
यत्र गच्छति उपादातुम् मूलानि च फलानि च ।न विना याति तम् खड्गम् न्यास रक्षण तत्परः ॥३-९-२०॥
नित्यम् शस्त्रम् परिवहन् क्रमेण स तपोधनः ।चकार रौद्रीम् स्वाम् बुद्धिम् त्यक्त्वा तपसि निश्चयम् ॥३-९-२१॥
ततः स रौद्र अभिरतः प्रमत्तो अधर्म कर्षितः ।तस्य शस्त्रस्य संवासात् जगाम नरकम् मुनिः ॥३-९-२२॥
एवम् एतत् पुरा वृत्तम् शस्त्र संयोग कारणम् ।अग्नि संयोगवत् हेतुः शस्त्र संयोग उच्यते ॥३-९-२३॥
स्नेहात् च बहुमानात् च स्मारये त्वाम् न शिक्षये ।न कथंचन सा कार्या गृहीत धनुषा त्वया ॥३-९-२४॥
बुद्धिः वैरम् विना हन्तुम् राक्षसान् दण्डक आश्रितान् ।अपराधम् विना हन्तुम् लोको वीर न कामये ॥३-९-२५॥
क्षत्रियाणाम् तु वीराणाम् वनेषु नियतात्मनाम् ।धनुषा कार्यम् एतावत् आर्तानाम् अभिरक्षणम् ॥३-९-२६॥
क्व च शस्त्रम् क्व च वनम् क्व च क्षात्रम् तपः क्व च ।व्याविद्धम् इदम् अस्माभिः देश धर्मः तु पूज्यताम् ॥३-९-२७॥
तदार्य कलुषा बुद्धिः जायते शस्त्र सेवनात् ।पुनर् गत्वात् तत् अयोध्यायाम् क्षत्र धर्मम् चरिष्यसि ॥३-९-२८॥
अक्षया तु भवेत् प्रीतिः श्वश्रू श्वशुरयोः मम ।यदि राज्यम् हि संन्यस्य भवेत् त्वम् निरतो मुनिः ॥३-९-२९॥
धर्मात् अर्थः प्रभवति धर्मात् प्रभवते सुखम् ।धर्मेण लभते सर्वम् धर्म सारम् इदम् जगत् ॥३-९-३०॥
आत्मानम् नियमैः तैः तैः कर्षयित्वा प्रयत्नतः ।प्राप्यते निपुणैः धर्मो न सुखात् लभते सुखम् ॥३-९-३१॥
नित्यम् शुचि मतिः सौम्य चर धर्मम् तपो वने ।सर्वम् हि विदितम् तुभ्यम् त्रैलोक्यम् अपि तत्त्वतः ॥३-९-३२॥
स्त्री चापलात् एतत् उदाहृतम् मेधर्मम् च वक्तुम् तव कः समर्थः ।विचार्य बुद्ध्या तु सह अनुजेनयत् रोचते तत् कुरु म अचिरेण ॥३-९-३३॥
वाक्यम् एतत् तु वैदेह्या व्याहृतम् भर्तृ भक्त्या ।श्रुत्वा धर्मे स्थितो रामः प्रत्युवाच जानकीम् ॥३-१०-१॥
हितम् उक्तम् त्वया देवि स्निग्धया सदृशम् वचः ।कुलम् व्यपदिशन्त्या च धर्मज्ञे जनक आत्मजे ॥३-१०-२॥
किम् नु वक्ष्यामि अहम् देवि त्वया एव उक्तम् इदम् वचः ।क्षत्रियैः धार्यते चापो न आर्त शब्दो भवेद् इति ॥३-१०-३॥
ते च आर्ता दण्डकारण्ये मुनयः संशित व्रताः ।माम् सीते स्वयम् आगम्य  शरण्याः  शरणम् गताः ॥३-१०-४॥
वसन्तः काल कालेषु वने मूल फल अशनाः ।न लभन्ते सुखम् भीरु राक्षसैः क्रूर कर्मभिः ॥३-१०-५॥
भक्ष्यन्ते राक्षसैः भीमैः नर मांसोपजीविभिः ।ते भक्ष्यमाणा मुनयो दण्डकारण्य वासिनः ॥३-१०-६॥
अस्मान् अभ्यवपद्य इति माम् ऊचुर् द्विज सत्तमाः ।मया तु वचनम्  श्रुत्वा तेषाम् एवम् मुखात् च्युतम् ॥३-१०-७॥
कृत्वा वचन शुश्रुषाम् वाक्यम् एतत् उदाहृतम् ।प्रसीदन्तु भवन्तो मे ह्रीः एषा तु मम अतुला ॥३-१०-८॥
यद् ईदृशैः अहम् विप्रैः उपस्थेयैः उपस्थितः ।किम् करोमि इति च मया व्याहृतम् द्विज संनिधौ ॥३-१०-९॥
सर्वैः एव समागम्य वाक् इयम् समुदाहृता ।राक्षसैः दण्डकारण्ये बहुभिः काम रूपिभिः ॥३-१०-१०॥
अर्दिताः स्म भृशम् राम भवान् नः तत्र रक्षतु ।होम काले तु संप्राप्ते पर्व कालेषु च अनघ ॥३-१०-११॥
धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशित अशनाः ।राक्षसैः धर्षितानाम् च तापसानाम् तपस्विनाम् ॥३-१०-१२॥
गतिम् मृगयमाणानाम् भवान् नः परमा गतिः ।कामम् तपः प्रभावेण  शक्ता हन्तुम् निशाचरान् ॥३-१०-१३॥
चिरार्जितम् न च इच्छामः तपः खण्डयितुम् वयम् ।बहु विघ्नम् तपो नित्यम् दुःश्चरम् चैव राघव ॥३-१०-१४॥
तेन शापम् न मुंचामो भक्ष्यमाणाः च राक्षसैः ।तद् अर्द्यमानान् रक्षोभिः दण्डकारण्य वासिभिः ॥३-१०-१५॥
रक्ष नः त्वम् सह भ्रात्रा त्वम् नाथा हि वयम् वने ।मया च एतत् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ॥३-१०-१६॥
ऋषीणाम् दण्डकारण्ये संश्रुतम् जनकाअत्मजे ।संश्रुत्य न च शक्ष्यामि जीवमानः प्रतिश्रवम् ॥३-१०-१७॥
मुनीनाम् अन्यथा कर्तुम् सत्यम् इष्टम् हि मे सदा ।अपि अहम् जीवितम् जह्याम् त्वाम् वा सीते स लक्ष्मणाम् ॥३-१०-१८॥
न तु प्रतिज्ञाम् संश्रुत्य ब्राह्मणेभ्यो विशेषतः ।तत् अवश्यम् मया कार्यम् ऋषीणाम् परिपालनम् ॥३-१०-१९॥
अनुक्तेन अपि वैदेहि प्रतिज्ञाय कथम् पुनः ।मम स्नेहात् च सौहार्दात् इदम् उक्तम् त्वया वचः ॥३-१०-२०॥
परितुष्टो अस्मि अहम् सीते न हि अनिष्टो अनुशास्यते ।सदृशम् च अनुरूपम् च कुलस्य तव शोभने ।सधर्म चारिणी मे त्वम् प्राणेभ्यो अपि गरीयसी ॥३-१०-२१॥
इति एवम् उक्त्वा वचनम् महात्मासीताम् प्रियाम् मैथिल राज पुत्रीम् ।रामो धनुष्मान् सह लक्ष्मणेनजगाम रम्याणि तपो वनानि ॥३-१०-२२॥
अग्रतः प्रययौ रामः सीता मध्ये सुशोभना ।पृष्ठतः तु धनुष्पाणिः लक्ष्मणः अनुजगाम ह ॥३-११-१॥
तौ पश्यमानौ विविधान् शैल प्रस्थान् वनानि च ।नदीः च विविधा रम्या जग्मतुः सह सीतया ॥३-११-२॥
सारसान् चक्रवाकां च नदी पुलिन चारिणः ।सरांसि च सपद्मानि युतानि जलजैः खगैः ॥३-११-३॥
यूथ बद्धाम् च पृषतान् मद उन्मत्तान् विषाणिनः ।महिषाम् च वराहाम् च गजाम् च द्रुम वैरिणः ॥३-११-४॥
ते गत्वा दूरम् अध्वानम् लंबमाने दिवाकरे ।ददृशुः सहिता रंयम् तटाकम् योजन आयुतम् ॥३-११-५॥
पद्म पुष्कर संबाधम् गज यूथैः अलंकृतम् ।सारसैः हंस कादम्बैः संकुलम् जल जातिभिः ॥३-११-६॥
प्रसन्न सलिले रम्ये तस्मिन् सरसि शुश्रुवे ।गीत वादित्र निर्घोषो न तु कश्चन दृश्यते ॥३-११-७॥
ततः कौतूहलात् रामो लक्ष्मणः च महारथः ।मुनिम् धर्मभृतम् नाम प्रष्टुम् समुपचक्रमे ॥३-११-८॥
इदम् अत्यद्भुतम् श्रुत्वा सर्वेषाम् नो महामुने ।कौतूहलम् महत् जातम् किम् इदम् साधु कथ्यताम् ॥३-११-९॥
तेन एवम् उक्तो धर्मात्मा राघवेण मुनिः तदा ।प्रभावम् सरसः क्षिप्रम् आख्यातुम् उपचक्रमे ॥३-११-१०॥
इदम् पंच अप्सरो नाम तटाकम् सार्व कालिकम् ।निर्मितम् तपसा राम मुनिना माण्डकर्णिना ॥३-११-११॥
स हि तेपे तपः तीव्रम् माण्डकर्णिः महामुनिः ।दश वर्ष सहस्राणि वायु भक्षो जलाशये ॥३-११-१२॥
ततः प्रव्यथिताः सर्वे देवाः स अग्नि पुरोगमाः ।अब्रुवन् वचनम् सर्वे परस्पर समागताः ॥३-११-१३॥
अस्मकम् कस्यचित् स्थानम् एष प्रार्थयते मुनिः ।इति संविग्न मनसः सर्वे तत्र दिवौकसः ॥३-११-१४॥
ततः कर्तुम् तपो विघ्नम् सर्व देवैः नियोजिताः ।प्रधान अप्सरसः पंच विद्युत् चलित वर्चसः ॥३-११-१५॥
अप्सरोभिः ततः ताभिः मुनिः दृष्ट परावरः ।नीतो मदन वश्यत्वम् देवानाम् कार्य सिद्धये ॥३-११-१६॥
ताः चैव अप्सरसः पंच मुनेः पत्नीत्वम् आगताः ।तटाके निर्मितम् तासाम् तस्मिन् अन्तर्हितम् गृहम् ॥३-११-१७॥
तत्र एव अप्सरसः पंच निवसन्त्यो यथा सुखम् ।रमयन्ति तपोयोगात् मुनिम् यौवनम् आस्थितम् ॥३-११-१८॥
तासाम् संक्रीड मानानाम् एष वादित्र निःस्वनः ।श्रूयते भूषण उन्मिश्रः गीत शब्दः मनोहरः ॥३-११-१९॥
आश्चर्यम् इति तस्य एतद् वचनम् भावितात्मनः ।राघवः प्रतिजग्राह सह भ्रात्रा महा यशाः ॥३-११-२०॥
एवम् कथयमानः स ददर्श आश्रम मण्डलम् ।कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ॥३-११-२१॥
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ।तदा तस्मिन् स काकुत्स्थः श्रीमति आश्रम मण्डले ॥३-११-२२॥
उषित्वा स सुखम् तत्र पूर्ज्यमानो महर्षिभिः ।जगाम च आश्रमान् तेषाम् पर्यायेण तपस्विनाम् ॥३-११-२३॥
येषाम् उषितवान् पूर्वम् सकाशे स महास्त्रवित् ।क्वचित् परिदशान् मासान् एक संवत्सरम् क्वचित् ॥३-११-२४॥
क्वचित् च चतुरो मासान् पंच षट् च परान् क्वचित् ।अपरत्र अधिकान् मासान् अध्यर्धम् अधिकम् क्वचित् ॥३-११-२५॥
त्रीन् मासान् अष्ट मासान् च राघवो न्यवसत् सुखम् ।तत्र संवसतः तस्य मुनीनाम् आश्रमेषु वै ॥३-११-२६॥
रमतः च आनुकूल्येन ययुः संवत्सरा दश ।परिसृत्य च धर्मज्ञः राघवः सह सीतया ॥३-११-२७॥
सुतीक्ष्णस्य आश्रमम् श्रीमान् पुनर् एव आजगाम ह ।स तम् आश्रमम् आगम्य मुनिभिः परिपूजितः ॥३-११-२८॥
तत्र अपि न्यवसत् रामः कंचित् कालम् अरिन्दमः ।अथ आश्रमस्थो विनयात् कदाचित् तम् महामुनिम् ॥३-११-२९॥
उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् ।अस्मिन् अरण्ये भगवन् अगस्त्यो मुनिसत्तमः ॥३-११-३०॥
वसति इति मया नित्यम् कथाः कथयताम् श्रुतम् ।न तु जानामि तम् देशम् वनस्य अस्य महत्तया ॥३-११-३१॥
कुत्र आश्रम पदम् पुण्यम् महर्षेः तस्य धीमतः ।प्रसाद अर्थम् भगवतः सानुजः सह सीतया ॥३-११-३२॥
अगस्त्यम् अभिगच्छेयम् अभिवादयितुम् मुनिम् ।मनोरथो महान् एष हृदि परिवर्तते ॥३-११-३३॥
यदि अहम् तम् मुनिवरम् शुश्रूषेयम् अपि स्वयम् ।इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ॥३-११-३४॥
सुतीक्ष्णः प्रत्युवाच इदम् प्रीतो दशरथात्मजम् ।अहम् अपि एतद् एव त्वाम् वक्तु कामः स लक्ष्मणम् ॥३-११-३५॥
अगस्त्यम् अभिगच्छ इति सीतया सह राघव ।दिष्ट्या तु इदानीम् अर्थे अस्मिन् स्वयम् एव ब्रवीषि माम् ॥३-११-३६॥
अयम् आख्यामि ते राम यत्र अगस्त्यो महामुनिः ।योजनानि आश्रमात् तात याहि चत्वारि वै ततः ।दक्षिणेन महान् श्रीमान् अगस्त्य भ्रातुर् आश्रमः ॥३-११-३७॥
स्थली प्राय वनोद्देशे पिप्पली वन शोभिते ।बहु पुष्प फले रम्ये नाना विहग नादिते ॥३-११-३८॥
पद्मिन्यो विविधाः तत्र प्रसन्न सलिल आशयाः ।हंस कारण्डव आकीर्णाः चक्रवाक उपशोभिताः ॥३-११-३९॥
तत्र एकाम् रजनीम् व्युष्य प्रभाते राम गम्यताम् ।दक्षिणाम् दिशम् आस्थाय वन षण्डस्य पार्श्वतः ॥३-११-४०॥
तत्र अगस्त्य आश्रम पदम् गत्वा योजनम् अन्तरम् ।रमणीये वनोद्देशे बहु पादप शोभिते ॥३-११-४१॥
रंस्यते तत्र वैदेही लक्ष्मणः च त्वया सह ।स हि रम्यो वनोउद्देशो बहु पादप संयुतः ॥३-११-४२॥
यदि बुद्धिः कृता द्रष्टुम् अगस्त्यम् तम् महामुनिम् ।अद्य एव गमने बुद्धिम् रोचयस्व महामते ॥३-११-४३॥
इति रामो मुनेः श्रुत्वा सह भ्रात्रा अभिवाद्य च ।प्रतस्थे अगस्त्यम् उद्दिश्य सानुगः सह सीतया ॥३-११-४४॥
पश्यन् वनानि चित्राणि पर्वतां च अभ्र संनिभान् ।सरांसि सरितः चैव पथि मार्ग वश अनुगतान् ॥३-११-४५॥
सुतीक्ष्णेन उपदिष्टेन गत्वा तेन पथा सुखम् ।इदम् परम संहृष्टो वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-११-४६॥
एतद् एव आश्रम पदम् नूनम् तस्य महात्मनः ।अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्य कर्मणः ॥३-११-४७॥
यथा हि इमे वनस्य अस्य ज्ञाताः पथि सहस्रशः ।संनताः फल भरेण पुष्प भारेण च द्रुमाः ॥३-११-४८॥
पिप्पलीनाम् च पक्वानाम् वनाद् अस्माद् उपागतः ।गन्धो अयम् पवन उत्क्षिप्तः सहसा कटुकोदयः ॥३-११-४९॥
तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठ संचयाः ।लूनाः च परिदृश्यन्ते दर्भा वैदूर्य वर्चसः ॥३-११-५०॥
एतत् च वन मध्यस्थम् कृष्ण अभ्र शिखर उपमम् ।पावकस्य आश्रमस्थस्य धूमाग्रम् संप्रदृश्यते ॥३-११-५१॥
विविक्तेषु च तीर्थेषु कृत स्नाना द्विजातयः ।पुष्प उपहारम् कुर्वन्ति कुसुमैः स्वयम् आर्जितैः ॥३-११-५२॥
ततः सुतीक्ष्णस्य वचनम् यथा सौम्य मया श्रुतम् ।अगस्त्यस्य आश्रमो भ्रातुर् नूनम् एष भविष्यति ॥३-११-५३॥
निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया ।यस्य भ्रात्रा कृता इयम् दिक् शरण्या पुण्य कर्मणा ॥३-११-५४॥
इह एकदा किल क्रूरो वातापिः अपि च इल्वलः ।भ्रातरौ सहितौ आस्ताम् ब्राह्मणघ्नौ महा असुरौ ॥३-११-५५॥
धारयन् ब्राह्मणम् रूपम् इल्वलः संस्कृतम् वदन् ।आमंत्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः ॥३-११-५६॥
भ्रातरम् संस्कृतम् कृत्वा ततः तम् मेष रूपिणम् ।तान् द्विजान् भोजयामास श्राद्ध दृष्टेन कर्मणा ॥३-११-५७॥
ततो भुक्तवताम् तेषाम् विप्राणाम् इल्वलो अब्रवीत् ।वातापे निष्क्रमस्व इति स्वरेण महता वदन् ॥३-११-५८॥
ततो भ्रातुर् वचः श्रुत्वा वातापिः मेषवत् नदन् ।भित्त्वा भित्वा शरीराणि ब्राह्मणानाम् विनिष्पतत् ॥३-११-५९॥
ब्राह्मणानाम् सहस्राणि तैः एवम् काम रूपिभिः ।विनाशितानि संहत्य नित्यशः पिशित अशनैः ॥३-११-६०॥
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ।अनुभूय किल श्राद्धे भक्षितः स महा असुरः ॥३-११-६१॥
ततः संपन्नम् इति उक्त्वा दत्त्वा हस्ते अवनेजनम् ।भ्रातरम् निष्क्रमस्व इति च इल्वलः समभाषत ॥३-११-६२॥
स तदा भाषमाणम् तु भ्रातरम् विप्र घातिनम् ।अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनि सत्तमः ॥३-११-६३॥
कुतो निष्क्रमितुम् शक्तिर् मया जीर्णस्य रक्षसः ।भ्रातुः ते मेष रूपस्य गतस्य यम सादनम् ॥३-११-६४॥
अथ तस्य वचः श्रुत्वा भ्रातुर् निधन संश्रितम् ।प्रधर्षयितुम् आरेभे मुनिम् क्रोधात् निशा चरः ॥३-११-६५॥
सो अभ्यद्रवत् द्विजेंद्रम् तम् मुनिना दीप्त तेजसा ।चक्षुषा अनल कल्पेन निर्दग्धो निधनम् गतः ॥३-११-६६॥
तस्य अयम् आश्रमो भ्रातुः तटाक वन शोभितः ।विप्र अनुकम्पया येन कर्म इदम् दुष्करम् कृतम् ॥३-११-६७॥
एवम् कथयमानस्य तस्य सौमित्रिणा सह ।रामस्य अस्तम् गतः सूर्यः संध्या कालो अभ्यवर्तत ॥३-११-६८॥
उपास्य पश्चिमाम् संध्याम् सह भ्रात्रा यथा विधि ।प्रविवेश आश्रम पदम् तम् ऋषिम् च अभ्यवादयत् ॥३-११-६९॥
सम्यक् प्रतिगृहीतः तु मुनिना तेन राघवः ।न्यवसत् ताम् निशाम् एकाम् प्राश्य मूल फलानि च ॥३-११-७०॥
तस्याम् रात्र्याम् व्यतीतायाम् उदिते रवि मण्डले ।भ्रातरम् तम् अगस्त्यस्य आमंत्रयत राघवः ॥३-११-७१॥
अभिवादये त्वाम् भगवन् सुखम् स्म उष्यतो निशाम् ।आमंत्रये त्वाम् गच्छामि गुरुम् ते द्रष्टुम् अग्रजम् ॥३-११-७२॥
गम्यताम् इति तेन उक्तो जगाम रघु नन्दनः ।यथा उद्दिष्टेन मार्गेण वनम् तत् च अवलोकयन् ॥३-११-७३॥
नीवारान् पनसान् सालान् वन्जुलान् तिनिशान् तथा ।चिरि बिल्वान् मधूकान् च बिल्वान् अथ च तिन्दुकान् ॥३-११-७४॥
पुष्पितान् पुष्पित अग्राभिर् लताभिर् उपशोभितान् ।ददर्श रामः शतशः तत्र कान्तार पादपान् ॥३-११-७५॥
हस्ति हस्तैः विमृदितान् वानरैः उपशोभितान् ।मत्तैः शकुनि संघैः च शतशः प्रति नादितान् ॥३-११-७६॥
ततो अब्रवीत् समीपस्थम् रामो राजीव लोचनः ।पृष्ठतो अनुगतम् वीरम् लक्ष्मणम् लक्ष्मिवर्धनम् ॥३-११-७७॥
स्निग्ध पत्रा यथा वृक्षा यथा क्षान्ता मृग द्विजाः ।आश्रमो न अतिदूरस्थो महर्षेर् भावित आत्मनः ॥३-११-७८॥
अगस्त्य इति विख्यातो लोके स्वेन एव कर्मणा ।आश्रमो दृश्यते तस्य परिश्रान्त श्रम अपहः ॥३-११-७९॥
प्राज्य धूम आकुल वनः चीर माला परिष्कृतः ।प्रशान्त मृग यूथः च नाना शकुनि नादितः ॥३-११-८०॥
निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया ।दक्षिणा दिक् कृता येन शरण्या पुण्य कर्मणा ॥३-११-८१॥
तस्य इदम् आश्रम पदम् प्रभावाद् यस्य राक्षसैः ।दिक् इयम् दक्षिणा त्रासाद् दृश्यते न उपभुज्यते ॥३-११-८२॥
यदा प्रभृति च आक्रान्ता दिग् इयम् पुण्य कर्मणा ।तदा प्रभृति निर् वैराः प्रशान्ता रजनी चराः ॥३-११-८३॥
नाम्ना च इयम् भगवतो दक्षिणा दिक् प्रदक्षिणा ।प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूर कर्मभिः ॥३-११-८४॥
मार्गम् निरोद्धुम् सततम् भास्करस्य अचल उत्तमः ।संदेशम् पालयन् तस्य विंध्य शैलो न वर्धते ॥३-११-८५॥
अयम् दीर्घ आयुषः तस्य लोके विश्रुत कर्मणः ।अगस्त्यस्य आश्रमः श्रीमान् विनीत मृग सेवितः ॥३-११-८६॥
एष लोक अर्चितः साधुः हिते नित्यम् रतः सताम् ।अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति ॥३-११-८७॥
आराधयिष्यामि अत्र अहम् अगस्त्यम् तम् महामुनिम् ।शेषम् च वन वासस्य सौम्य वत्स्यामि अहम् प्रभो ॥३-११-८८॥
अत्र देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ।अगस्त्यम् नियत आहाराः सततम् पर्युपासते ॥३-११-८९॥
न अत्र जीवेत् मृषावादी क्रूरो वा यदि वा शठः ।नृशंसः पाप वृत्तो वा मुनिः एष तथा विधः ॥३-११-९०॥
अत्र देवाः च यक्षाः च नागाः च पतगैः सह ।वसन्ति नियत आहारा धर्मम् आराधयिष्णवः ॥३-११-९१॥
अत्र सिद्धा महात्मानो विमानैः सूर्य सन्निभैः ।त्यक्त्वा देहान् नवैर् देहैः स्वर् याताः परम ऋषयः ॥३-११-९२॥
यक्षत्वम् अमरत्वम् च राज्यानि विविधानि च ।अत्र देवाः प्रयच्छन्ति भूतैः आराधिताः शुभैः ॥३-११-९३॥
आगताः स्म आश्रम पदम् सौमित्रे प्रविश अग्रतः ।निवेदय इह माम् प्राप्तम् ऋषये सह सीतया ॥३-११-९४॥
स प्रविश्य आश्रम पदम् लक्ष्मणो राघव अनुजः ।अगस्त्य शिष्यम् आसाद्य वाक्यम् एतद् उवाच ह ॥३-१२-१॥
राजा दशरथो नाम ज्येष्ठः तस्य सुतो बली ।रामः प्राप्तो मुनिम् द्रष्टुम् भार्यया सह सीतया ॥३-१२-२॥
लक्ष्मणो नाम तस्य अहम् भ्राता तु अवरजो हितः ।अनुकूलः च भक्तः च यदि ते श्रोत्रम् आगतः ॥३-१२-३॥
ते वयम् वनम् अत्युग्रम् प्रविष्टाः पितृ शासनात् ।द्रष्टुम् इच्छामहे सर्वे भगवन्तम् निवेद्यताम् ॥३-१२-४॥
तस्य तद् वचनम् श्रुत्वा लक्ष्मणस्य तपोधनः ।तथा इति उक्त्वा अग्नि शरणम् प्रविवेश निवेदितुम् ॥३-१२-५॥
स प्रविश्य मुनिश्रेष्ठम् तपसा दुष्प्रधर्षणम् ।कृत अंजलिः उवाच इदम् राम आगमनम् अञ्जसा ॥३-१२-६॥
यथा उक्तम् लक्ष्मणेन एव शिष्यः तस्य अगस्तस्य संमतः ।पुत्रौ दशरथस्य इमौ रामो लक्ष्मण एव च ॥३-१२-७॥
प्रविष्टौ आश्रमपदम् सीतया सह भार्यया ।द्रष्टुम् भवन्तम् आयातौ शुश्रूषार्थम् अरिन्दमौ ॥३-१२-८॥
यद् अत्र अनंतरम् तत् त्वम् आज्ञापयितुम् अर्हसि ।ततः शिष्यात् उपश्रुत्य प्राप्तम् रामम् स लक्ष्मणम् ॥३-१२-९॥
वैदेहीम् च महाभागाम् इदम् वचनम् अब्रवीत् ।दिष्ट्या रामः चिरस्य अद्य द्रष्टुम् माम् समुपागतः ॥३-१२-१०॥
मनसा कांक्षितम् हि अस्य मया अपि आगमनम् प्रति ।गम्यताम् सत्कृतो रामः स भार्यः सह लक्ष्मणः ॥३-१२-११॥
प्रवेश्यताम् समीपम् मे किम् असौ न प्रवेशितः ।एवम् उक्तः तु मुनिना धर्मज्ञेन महात्मना ॥३-१२-१२॥
अभिवाद्य अब्रवीत् शिष्यः तथा इति नियत अंजलिः ।तदा निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणम् अब्रवीत् ॥३-१२-१३॥
क्व असौ रामो मुनिम् द्रष्टुम् एतु प्रविशतु स्वयम् ।ततो गत्वा आश्रम पदम् शिष्येण सह लक्ष्मणः ॥३-१२-१४॥
दर्शयामास काकुत्स्थम् सीताम् च जनकात्मजाम् ।तम् शिष्यः प्रश्रितम् वाक्यम् अगस्त्य वचनम् ब्रुवन् ॥३-१२-१५॥
प्रावेशयत् यथा न्यायम् सत्कार अर्ह सुसत्कृतम् ।प्रविवेश ततो रामः सीतया सह लक्ष्मणः ॥३-१२-१६॥
प्रशान्त हरिण आकीर्णम् आश्रमम् हि अवलोकयन् ।स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानम् तथैव च ॥३-१२-१७॥
विष्णोः स्थानम् महेन्द्रस्य स्थानम् चैव विवस्वतः ।सोम स्थानम् भग स्थानम् स्थानम् कौबेरम् एव च ॥३-१२-१८॥
धातुर् विधातुः स्थानम् च वायोः स्थानम् तथैव च ।स्थानम् च पाश हस्तस्य वारुणस्य महात्मनः ॥३-१२-१९॥
स्थानम् तथैव गायत्र्या वसूनाम् स्थानम् एव च ।स्थानम् च नागराजस्य गरुड स्थानम् एव च ॥३-१२-२०॥
कार्तिकेयस्य च स्थानम् धर्म स्थानम् च पश्यति ।ततः शिष्यैः परिवृतो मुनिर् अपि अभिनिष्पतत् ॥३-१२-२१॥
तम् ददर्श अग्रतो रामो मुनीनाम् दीप्त तेजसम् ।अब्रवीत् वचनम् वीरो लक्ष्मणम् लक्ष्मिवर्धनम् ॥३-१२-२२॥
बहिर् लक्ष्मण निष्क्रामति अगस्त्यो भगवान् ऋषिः ।औदार्येण अवगच्छामि निधानम् तपसाम् इमम् ॥३-१२-२३॥
एवम् उक्त्वा महाबाहुः अगस्त्यम् सूर्य वर्चसम् ।जग्राह आपतत् तस्य पादौ च रघुनन्दन ॥३-१२-२४॥
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृतांजलिः ।सीतया सह वैदेह्या तदा रामः स लक्ष्मणः ॥३-१२-२५॥
प्रतिगृह्य च काकुत्स्थम् अर्चयित्वा आसन उदकैः ।कुशल प्रश्नम् उक्त्वा च आस्यताम् इति सोऽब्रवीत् ॥३-१२-२६॥
अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथिन् प्रतिपूज्य च ।वानप्रस्थेन धर्मेण स तेषाम् भोजनम् ददौ ॥३-१२-२७॥
प्रथमम् च उपविश्य अथ धर्मज्ञो मुनिपुंगवः ।उवाच रामम् आसीनम् प्रांजलिम् धर्मकोविदम् ॥३-१२-२८॥
अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथिम् प्रतिपूजयेत् ।अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् ।दुःसाक्षी इव परे लोके स्वानि मांसानि भक्षयेत् ॥३-१२-२९॥
राजा सर्वस्य लोकस्य धर्मचारी महारथः ।पूजनीयः च मान्यः च भवान् प्राप्तः प्रिय अतिथिः ॥३-१२-३०॥
एवम् उक्त्वा फलैः मूलैः पुष्पैः च अन्यैः च राघवम् ।पूजयित्वा यथा कामम् ततो अगस्त्यः तम् अब्रवीत् ॥३-१२-३१॥
इदम् दिव्यम् महत् चापम् हेम वज्र विभूषितम् ।वैष्णवम् पुरुषव्याघ्र निर्मितम् विश्वकर्मणा ॥३-१२-३२॥
अमोघः सूर्य संकाशो ब्रह्मदत्तः शर उत्तमः ।दत्तो मम महेन्द्रेण तूणी च अक्षय सायकौ ॥३-१२-३३॥
संपूर्णौ निशितैः बाणैः ज्वलद्भिः इव पावकैः ।महा रजत कोशो अयम् असिः हेमविभूषितः ॥३-१२-३४॥
अनेन धनुषा राम हत्वा संख्ये महासुरान् ।आजहार श्रियम् दीप्ताम् पुरा विष्णुर् दिव ओकसाम् ॥३-१२-३५॥
तत् धनुः तौ च तूणि च शरम् खड्गम् च मानद ।जयाय प्रतिगृह्णीष्व वज्रम् वज्रधरो यथा ॥३-१२-३६॥
एवम् उक्त्वा महा तेजाः समस्तम् तत् वर आयुधम् ।दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत् ॥३-१२-३७॥
राम प्रीतो अस्मि भद्रम् ते परितुष्टो अस्मि लक्ष्मण ।अभिवादयितुम् यन् माम् प्राप्तौ स्थः सह सीतया ॥३-१३-१॥
अध्व श्रमेण वाम् खेदो बाधते प्रचुर श्रमः ।व्यक्तम् उत्कण्ठते वा अपि मैथिली जनक आत्मजा ॥३-१३-२॥
एषा च सुकुमारी च खेदैः च न विमानिता ।प्राअज्य दोषम् वनम् प्रप्ता भर्तृ स्नेह प्रचोदिता ॥३-१३-३॥
यथा एषा रमते राम इह सीता तथा कुरु ।दुष्करम् कृतवती एषा वने त्वाम् अभिगच्छती ॥३-१३-४॥
एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनंदन ।समस्थम् अनुरंजंते विषमस्थम् त्यजन्ति च ॥३-१३-५॥
शत ह्रदानाम् लोलत्वम् शस्त्राणाम् तीक्ष्णताम् तथा ।गरुड अनिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः ॥३-१३-६॥
इयम् तु भवतो भार्या दोषैर् एतैर् विवर्जिताः ।श्लाघ्या च व्यपदेश्या च यथा देवी हि अरुन्धती ॥३-१३-७॥
अलंकृतो अयम् देशः च यत्र सौमित्रिणा सह ।वैदेह्या च अनया राम वत्स्यसि त्वम् अरिंदम ॥३-१३-८॥
एवम् उक्तः तु मुनिना राघवः संयत अंजलिः ।उवाच प्रश्रितम् वाक्यम् ऋषिम् दीप्तम् इव अनलम् ॥३-१३-९॥
धन्योस्मि अनुगृहीतोस्मि यस्य मे मुनि पुंगवः ।गुणैः सभ्रातृ भार्यस्य गुरुः नः परितुष्यति ॥३-१३-१०॥
किन्तु व्यादिश मे देशम् स उदकम् बहु काननम् ।यत्र आश्रम पदम् कृत्वा वसेयम् निरतः सुखम् ॥३-१३-११॥
ततो अब्रवीत् मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् ।ध्यात्वा मुहूर्तम् धर्मात्मा धीरो धीरतरम् वचः ॥३-१३-१२॥
इतो द्वि योजने तात बहु मूल फल उदकः ।देशो बहु मृगः श्रीमान् पंचवटि अभिविश्रुतः ॥३-१३-१३॥
तत्र गत्वा आश्रम पदम् कृत्वा सौमित्रिणा सह ।रमस्व त्वम् पितुर् वाक्यम् यथा उक्तम् अनुपालयन् ॥३-१३-१४॥
विदितो हि एष वृत्तांतो मम सर्वः तव अनघ ।तपसः च प्रभावेण स्नेहाद् दशरथस्य च ॥३-१३-१५॥
हृदयस्थः च ते छन्दो विज्ञातः तपसा मया ।इह वासम् प्रतिज्ञाय मया सह तपो वने ॥३-१३-१६॥
अतः च त्वाम् अहम् ब्रूमि गच्छ पंचवटीम् इति ।स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ॥३-१३-१७॥
स देशः श्लाघनीयः च न अतिदूरे च राघव ।गोदावर्याः समीपे च मैथिली तत्र रंस्यते ॥३-१३-१८॥
प्राज्य मूल फलैः चैव नाना द्विज गणैर् युतः ।विविक्तः च महाबाहो पुण्यो रम्यः तथैव च ॥३-१३-१९॥
भवान् अपि सदाचारः च शक्तः च परिरक्षणे ।अपि च अत्र वसन् राम तापसान् पालयिष्यसि ॥३-१३-२०॥
एतत् आलक्ष्यते वीर मधूकानाम् महत् वनम् ।उत्तरेण अस्य गंतव्यम् न्यग्रोधम् अपि गच्छता ॥३-१३-२१॥
ततः स्थलम् उपारुह्य पर्वतस्य अविदूरतः ।ख्यातः पंचवटी इति एव नित्य पुष्पित काननः ॥३-१३-२२॥
अगस्त्येन एवम् उक्तः तु रामः सौमित्रिणा सह ।सत्कृत्य आमंत्रयामास तम् ऋषिम् सत्य वादिनम् ॥३-१३-२३॥
तौ तु तेन अभ्यनुज्ञातौ कृत पाद अभिवन्दनौ ।तम् आश्रमम् पंचवटीम् जग्मतुः सह सीतया ॥३-१३-२४॥
गृहीत चापौ तु नराधिप आत्मजौ< >विषक्त तूणी समरेषु अकातरौ ।यथा उपदिष्टेन पथा महर्षिणा ।प्रजग्मतुः पंचवटीम् समाहितौ ॥३-१३-२५॥
अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः ।आससाद महाकायम् गृध्रम् भीम पराक्रमम् ॥३-१४-१॥
तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ ।मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति ॥३-१४-२॥
स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव ।उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः ॥३-१४-३॥
स तम् पितृ सखम् मत्वा पूजयामास राघवः ।स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥३-१४-४॥
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च ।आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् ॥३-१४-५॥
पूर्वकाले महाबाहो ये प्रजापतयो अभवन् ।तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥३-१४-६॥
कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् ।शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान्  ॥३-१४-७॥
स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः ।पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा ॥३-१४-८॥
दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव ।कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः ॥३-१४-९॥
प्रजापतेः तु दक्षस्य बभूवुर् इति  विश्रुतम् ।षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥३-१४-१०॥
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः ।अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् ॥३-१४-११॥
ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि ।ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥३-१४-१२॥
पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् ।अदितिः तन् मना राम दितिः च दनुर् एव च ॥३-१४-१३॥
कालका च महाबाहो शेषाः तु अमनसो अभवन् ।अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम ॥३-१४-१४॥
आदित्या वसवो रुद्रा अश्विनौ च परंतप ।दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः ॥३-१४-१५॥
तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा ।दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥३-१४-१६॥
नरकम् कालकम् चैव कालका अपि व्यजायत ।क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् ॥३-१४-१७॥
ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः ।उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत ॥३-१४-१८॥
श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः ।धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः ॥३-१४-१९॥
चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी ।शुकी नताम् विजज्ञे तु नताया विनता सुता ॥३-१४-२०॥
दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः ।मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि ॥३-१४-२१॥
मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा ।सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि ॥३-१४-२२॥
अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम ।ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा ॥३-१४-२३॥
ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् ।तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः ॥३-१४-२४॥
हर्याः च हरयो अपत्यम् वानराः च तपस्विनः ।गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् ॥३-१४-२५॥
मातंग्याः तु अथ मातन्गाअपत्यम् मनुज ऋषभ ।दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥३-१४-२६॥
ततो दुहितरौ राम सुरभिर् द्वे वि अजायत ।रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥३-१४-२७॥
रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् ।सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् ॥३-१४-२८॥
मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः ।ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ ॥३-१४-२९॥
मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा ।ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः ॥३-१४-३०॥
सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत ।विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा ॥३-१४-३१॥
कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् ।द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च ॥३-१४-३२॥
तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः ।जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम ॥३-१४-३३॥
सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि ।इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३-१४-३४॥
जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् ।पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः ॥३-१४-३५॥
स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा ।जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः  ॥३-१४-३६॥
ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् ।उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-१५-१॥
आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् ।अयम् पंचवटी देशः सौम्य पुष्पित काननः ॥३-१५-२॥
सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि ।आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः ॥३-१५-३॥
रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण ।तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः ॥३-१५-४॥
वन रामण्यकम् यत्र जल रामण्यकम् तथा ।संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम् ॥३-१५-५॥
एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः ।सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥३-१५-६॥
परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते ।स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥३-१५-७॥
सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः ।विमृशन् रोचयामास देशम् सर्व गुण अन्वितम् ॥३-१५-८॥
स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि ।हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥३-१५-९॥
अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः ।इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥३-१५-१०॥
इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः ।अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता ॥३-१५-११॥
यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना ।इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता ॥३-१५-१२॥
हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता ।न अतिदूरे न च आसन्ने मृग यूथ निपीडिता ॥३-१५-१३॥
मयूर नादिता रम्याः प्रांशवो बहु कंदराः ।दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः ॥३-१५-१४॥
सौवर्णै राजतैः ताम्रैः देशे देशे च धातुभिः ।गवाक्षिता इव आभान्ति गजाः परम भक्तिभिः ॥३-१५-१५॥
सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः ।नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः ॥३-१५-१६॥
चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः  ।पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः ॥३-१५-१७॥
स्यन्दनैः चंदनैः  नीपैः पर्णासैः लकुचैः अपि ।धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः ॥३-१५-१८॥
इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् ।इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥३-१५-१९॥
एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा ।अचिरेण आश्रमम् भ्रातुः चकार सुमहाबलः ॥३-१५-२०॥
पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् ।सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम् ॥३-१५-२१॥
शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् ।कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा ॥३-१५-२२॥
समीकृत तलाम् रम्याम् चकार सुमहाबलः ।निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥३-१५-२३॥
स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा ।स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥३-१५-२४॥
ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि ।दर्शयामास रामाय तद् आश्रम पदम् कृतम् ॥३-१५-२५॥
स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया ।राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥३-१५-२६॥
सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा ।अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥३-१५-२७॥
प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो ।प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः ॥३-१५-२८॥
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ।त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥३-१५-२९॥
एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः ।तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी ॥३-१५-३०॥
वसतः तस्य तु सुखम् राघवस्य महात्मनः ।शरद् व्यपाये हेमंतऋतुर् इष्टः प्रवर्तत ॥३-१६-१॥
स कदाचित् प्रभातायाम् शर्वर्याम् रघुनंदनः ।प्रययाव अभिषेकार्थम् रम्यम् गोदावरीम् नदीम् ॥३-१६-२॥
प्रह्वः कलश हसतः तम् सीतया सह वीर्यवान् ।पृष्ठतो अनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत् ॥३-१६-३॥
अयम् स कालः संप्राप्तः प्रियो यः ते प्रियंवद ।अलंकृत इव आभाति येन संवत्सरः शुभः ॥३-१६-४॥
नीहार परुषो लोकः पृथिवी सस्य मालिनी ।जलानि अनुपभोग्यानि सुभगो हव्य वाहनः ॥३-१६-५॥
नव आग्रयण पूजाभिर् अभ्यर्च्य पितृ देवताः ।कृत आग्रयणकाः काले सन्तो विगत कल्मषाः ॥३-१६-६॥
प्राज्यकामा जनपदाः संपन्नतर गो रसाः ।विचरन्ति महीपाला यात्र अर्थम् विजिगीषवः ॥३-१६-७॥
सेवमाने दृढम् सूर्ये दिशम् अन्तक सेविताम् ।विहीन तिलका इव स्त्री न उत्तरा दिक् प्रकाशते ॥३-१६-८॥
प्रकृत्या हिम कोश आढ्यो दूर सूर्याः च सांप्रतम् ।यथार्थ नामा सुव्यक्तम् हिमवान् हिमवान् गिरिः ॥३-१६-९॥
अत्यन्त सुख संचारा मध्याह्ने स्पर्शतः सुखाः ।दिवसाः सुभग आदित्याअः छाया सलिल दुर्भगाः ॥३-१६-१०॥
मृदु सूर्याः सनीहाराः पटु शीताः समारुताः ।शून्य अरण्या हिम ध्वस्ता दिवसा भान्ति साम्प्रतम् ॥३-१६-११॥
निवृत्त आकाश शयनाः पुष्यनीता हिम अरुणाः ।शीता वृद्धतर आयामः त्रि यामा यान्ति सांप्रतम् ॥३-१६-१२॥
रवि संक्रान्त सौभाग्यः तुषार अरुण मण्डलः ।निःश्वास अन्ध इव आदर्शाः चंद्रमा न प्रकाशते ॥३-१६-१३॥
ज्योत्स्ना तुषार मलिना पौर्णमास्याम् न राजते ।सीता इव च आतप श्यामा लक्ष्यते न तु शोभते ॥३-१६-१४॥
प्रकृत्या शीतल स्पर्शो हिम विद्धाः च सांप्रतम् ।प्रवाति पश्चिमो वायुः काले द्वि गुण शीतलः ॥३-१६-१५॥
बाष्प च्छन्नानि अरण्यानि यव गोधूमवंति च ।शोभन्ते अभ्युदिते सूर्ये नदद्भिः क्रौन्च सारसैः ॥३-१६-१६॥
खर्जूर पुष्प आकृतिभिः शिरोभिः पूर्ण तण्डुलैः ।शोभन्ते किंचिद् आलंबाः शालयः कनक प्रभाः ॥३-१६-१७॥
मयूखैः उपसर्पद्भिः हिम नीहार संवृतैः ।दूरम् अभ्युदितः सूर्यः शशांक इव लक्ष्यते ॥३-१६-१८॥
अग्राह्य वीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः ।संरक्तः किंचिद् आपाण्डुः आतपः शोभते क्षितौ ॥३-१६-१९॥
अवश्याय निपातेन किंचित् प्रक्लिन्न शाद्वला ।वनानाम् शोभते भूमिर् निविष्ट तरुण आतपा ॥३-१६-२०॥
स्पृशन् तु सुविपुलम् शीतम् उदकम् द्विरदः सुखम् ।अत्यन्त तृषितो वन्यः प्रतिसंहरते करम् ॥३-१६-२१॥
एते हि समुपासीना विहगा जलचारिणः ।न अवगाहन्ति सलिलम् अप्रगल्भा इव आवहम् ॥३-१६-२२॥
अवश्याय तमो नद्धा नीहार तमसा आवृताः ।प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वन राजयः ॥३-१६-२३॥
बाष्प संचन्न सलिला रुत विज्ञेय सारसाः ।हिमाअर्द्र वालुकैः तीरैः सरितो भान्ति सांप्रतम् ॥३-१६-२४॥
तुषार पतनात् चैव मृदुत्वात् भास्करस्य च ।शैत्यात् अग अग्रस्थम् अपि प्रायेण रसवत् जलम् ॥३-१६-२५॥
जरा जर्जरितैः पत्रैः शीर्ण केसर कर्णिकैः ।नाल शेषा हिम ध्वस्ता न भान्ति कमलाकराः ॥३-१६-२६॥
अस्मिन् तु पुरुषव्याघ्र काले दुःख समन्वितः ।तपश्चरति धर्मात्मा त्वत् भक्त्या भरतः पुरे ॥३-१६-२७॥
त्यक्त्वा राज्यम् च मानम् च भोगांश्च विविधान् बहून् ।तपस्वी नियताहारः शेते शीते महीतले ॥३-१६-२८॥
सोऽपि वेलाम् इमाम् नूनम् अभिषेक अर्थम् उद्यतः ।वृतः प्रकृतिभिर् नित्यम् प्रयाति सरयूम् नदीम् ॥३-१६-२९॥
अत्यन्त सुख संवृद्धः सुकुमारो हिमार्दितः ।कथम् तु अपर रात्रेषु सरयूम् अवगाहते ॥३-१६-३०॥
पद्मपत्रेक्षणः श्यामः श्रीमान् निरुदरो महान् ।धर्मज्ञः सत्यवादी च ह्री निषेधो जितेन्द्रियः ॥३-१६-३१॥
प्रियाभिभाषी मधुरो दीर्घबाहुः अरिन्दमः ।संत्यज्य विविधान् भोगान् आर्यम् सर्वात्मना आश्रितः ॥३-१६-३२॥
जितः स्वर्गः तव भ्रात्रा भरतेन महात्मना ।वनस्थम् अपि तापस्ये यः त्वाम् अनुविधीयते ॥३-१६-३३॥
न पित्र्यम् अनुवर्न्तन्ते मातृकम् द्विपदा इति ।ख्यातो लोक प्रवादो अयम् भरतेन अन्यथा कृतः ॥३-१६-३४॥
भर्ता दशरथो यस्याः साधुः च भरतः सुतः ।कथम् नु सा अम्बा कैकेयी तादृशी क्रूरदर्शिनी ॥३-१६-३५॥
इति एवम् लक्ष्मणे वाक्यम् स्नेहात् वदति धर्मिके ।परिवादम् जनन्यः तम् असहन् राघवो अब्रवीत् ॥३-१६-३६॥
न ते अम्बा मध्यमा तात गर्हितव्या कथंचन ।ताम् एव इक्ष्वाकु नाथस्य भरतस्य कथाम् कुरु ॥३-१६-३७॥
निश्चिता एव हि मे बुद्धिः वन वासे दृढ व्रता ।भरत स्नेह संतप्ता बालिशी क्रियते पुनः ॥३-१६-३८॥
संस्मरामि अस्य वाक्यानि प्रियाणि मधुराणि च ।हृद्यानि अमृत कल्पानि मनः प्रह्लादानि च ॥३-१६-३९॥
कदा हि अहम् समेष्यामि भरतेन महात्मना ।शत्रुघ्नेन च वीरेण त्वया च रघुनंदन ॥३-१६-४०॥
इति एवम् विलपन् तत्र प्राप्य गोदावरीम् नदीम् ।चक्रे अभिषेकम् काकुत्स्थः सानुजः सह सीतया ॥३-१६-४१॥
तर्पयित्वा अथ सलिलैः तैः पितॄन् दैवतानि च ।स्तुवन्ति स्म उदितम् सूर्यम् देवताअः च तथा अनघाः॥३-१६-४२॥
कृताभिषेकः स रराज रामः सीता  द्वितीयः सह लक्ष्मणेन ।कृत अभिषेको तु अग राज पुत्र्या रुद्रः स नन्दिः भगवान् इव ईशः ॥३-१६-४३॥
कृत अभिषेको रामः तु सीता सौमित्रिर् एव च ।तस्मात् गोदावरी तीरात् ततो जग्मुः स्वम् आश्रमम् ॥३-१७-१॥
आश्रमम् तम् उपागम्य राघवः सह लक्ष्मणः ।कृत्वा पौर्वाह्णिकम् कर्म पर्णशालाम् उपागमत् ॥३-१७-२॥
उवास सुखितः तत्र पूज्यमानो महर्षभः।स रामः पर्ण शालायाम् आसीनः सह सीतया ॥३-१७-३॥
विरराज महा बाहुः चित्रया चन्द्रमा इव ।लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥३-१७-४॥
तदा आसीनस्य रामस्य कथा संसक्त चेतसः ।तम् देशम् राक्षसी काचिद् आजगाम यदृच्छया ॥३-१७-५॥
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः ।भगिनी रामम् आसाद्य ददर्श त्रिदश उपमम् ॥३-१७-६॥
दीप्तास्यम् च महाबाहुम् पद्म पत्रायत  ईक्षणम् ।गज विक्रांत गमनम् जटा मण्दल धारिणम् ॥३-१७-७॥
सुकुमारम् महा सत्त्वम् पार्थिव व्यंजन अन्वितम् ।रामम् इन्दीवर श्यामम् कन्दर्प सदृश प्रभम् ॥३-१७-८॥
बभूव इन्द्रोपमम् दृष्ट्वा राक्षसी काम मोहिता ।सुमुखम् दुर्मुखी रामम् वृत्त मध्यम् महोदरी ॥३-१७-९॥
विशालाक्षम् विरूपाक्षी सुकेशम् ताम्र मूर्धजा ।प्रियरूपम् विरूपा सा सुस्वरम् भैरव स्वना ॥३-१७-१०॥
तरुणम् दारुणा वृद्धा दक्षिणम् वाम भाषिणी ।न्याय वृत्तम् सुदुर्वृत्ता प्रियम् अप्रिय दर्शना ॥३-१७-११॥
शरीरज समाविष्टा राक्षसी रामम् अब्रवीत् ।जटी तापस रूपेण सभार्यः शर चाप धृक् ॥३-१७-१२॥
आगतः त्वम् इमम् देशम् कथम् राक्षस सेवितम् ।किम् आगमन कृत्यम् ते तत् त्वम् आख्यातुम् अर्हसि ॥३-१७-१३॥
एवम् उक्तः तु राक्षस्या शूर्पणख्या परंतपः ।ऋजु बुद्धितया सर्वम् आख्यातुम् उपचक्रमे ॥३-१७-१४॥
आसीत् दशरथो नाम राजा त्रिदश विक्रमः ।तस्य अहम् अग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥३-१७-१५॥
भ्राता अयम् लक्ष्मणो नाम यवीयान् माम् अनुव्रतः ।इयम् भार्या च वैदेही मम सीतेति विश्रुता ॥३-१७-१६॥
नियोगात् तु नरेन्द्रस्य पितुर् मातुः च यंत्रितः ।धर्मार्थम् धर्मकांक्षी च वनम् वस्तुम् इह आगतः ॥३-१७-१७॥
त्वाम् तु वेदितुम् इच्छामि कस्य त्वम् का असि कस्य वा ।त्वम् हि तावन्मनोज्ञांगी राक्षसी प्रतिभासि मे ॥३-१७-१८॥
इह वा किम् निमित्तम् त्वम् आगता ब्रूहि तत्त्वतः ।सा अब्रवीत् वचनम् श्रुत्वा राक्षसी मदन अर्दिता ॥३-१७-१९॥
श्रूयताम् राम वक्ष्यामि तत्त्वार्थम् वचनम् मम ।अहम् शूर्पणखा नाम राक्षसी कामरूपिणी ॥३-१७-२०॥
अरण्यम् विचरामि इदम् एका सर्व भयंकरा ।रावणो नाम मे भ्राता यदि ते श्रोत्रम् आगतः ॥३-१७-२१॥
वीरो विश्रवसः पुत्रो यदि ते श्रोत्रम् आगतः ।प्रवृद्ध निद्रः च सदा कुंभकर्णो महाबलः ॥३-१७-२२॥
विभीषणः तु धर्मात्मा न तु राक्षस चेष्टितः ।प्रख्यात वीर्यौ च रणे भ्रातरौ खर दूषणौ ॥३-१७-२३॥
तान् अहम् समतिक्रान्ता राम त्वा पूर्व दर्शनात् ।समुपेता अस्मि भावेन भर्तारम् पुरुषोत्तमम् ॥३-१७-२४॥
अहम् प्रभाव संपन्ना स्वच्छंद बल गामिनी ।चिराय भव भर्ता मे सीतया किम् करिष्यसि ॥३-१७-२५॥
विकृता च विरूपा च न सा इयम् सदृशी तव ।अहम् एव अनुरूपा ते भार्या रूपेण पश्य माम् ॥३-१७-२६॥
इमाम् विरूपाम् असतीम् करालाम् निर्णत उदरीम् ।अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् ॥३-१७-२७॥
ततः पर्वत शृंगाणि वनानि विविधानि च ।पश्यन्सहमयाकामीदण्डकान्विचरिष्यसि - यद्वा - पश्यन् सह मया कामी दण्डकान् विचरिष्यसि ॥३-१७-२८॥
इति एवम् उक्तः काकुत्स्थः प्रहस्य मदिर ईक्षणाम् ।इदम् वचनम् आरेभे वक्तुम् वाक्य विशारदः ॥३-१७-२९॥
ताम् तु शूर्पणखाम् रामः काम पाश अवपाशिताम् ।स्वच्छया श्लक्ष्णया वाचा स्मित पूर्वम् अथ अब्रवीत् ॥३-१८-१॥
कृत दारो अस्मि भवति भार्या इयम् दयिता मम ।त्वत् विधानाम् तु नारीणाम् सुदुःखा ससपत्नता ॥३-१८-२॥
अनुजः तु एष मे भ्राता शीलवान् प्रिय दर्शनः ।श्रीमान् अकृत दारः च लक्ष्मणो नाम वीर्यवान् ॥३-१८-३॥
अपूर्वी भार्यया च अर्थी तरुणः प्रिय दर्शनः ।अनुरूपः च ते भर्ता रूपस्य अस्य भविष्यति ॥३-१८-४॥
एनम् भज विशालाक्षि भर्तारम् भ्रातरम् मम ।असपत्ना वरारोहे मेरुम् अर्क प्रभा यथा ॥३-१८-५॥
इति रामेण सा प्रोक्ता राक्षसी काम मोहिता ।विसृज्य रामम् सहसा ततो लक्ष्मणम् अब्रवीत् ॥३-१८-६॥
अस्य रूपस्य ते युक्ता भार्या अहम् वरवर्णिनी ।मया सह सुखम् सर्वान् दण्डकान् विचरिष्यसि ॥३-१८-७॥
एवम् उक्तः तु सौमित्री राक्षस्या वाक्य कोविदः ।ततः शूर्पणखीम् स्मित्वा लक्ष्मणो युक्तम् अब्रवीत् ॥३-१८-८॥
कथम् दासस्य मे दासी भार्या भवितुम् इच्छसि ।सो अहम् आर्येण परवान् भ्रात्रा कमल वर्णिनी ॥३-१८-९॥
समृद्ध अर्थस्य सिद्धार्था मुदित अमल वर्णिनी ।आर्यस्य त्वम् विशालाक्षि भार्या भव यवीयसी ॥३-१८-१०॥
एनाम् विरूपाम् असतीम् करालाम् निर्णत उदरीम् ।भार्याम् वृद्धाम् परित्यज्य त्वाम् एव एष भजिष्यति ॥३-१८-११॥
को हि रूपम् इदम् श्रेष्ठम् संत्यज्य वरवर्णिनि ।मानुषेषु वरारोहे कुर्यात् भावम् विचक्षणः ॥३-१८-१२॥
इति सा लक्ष्मणेन उक्ता कराला निर्णतोदरी ।मन्यते तत् वचः सत्यम् परिहास अविचक्षणा ॥३-१८-१३॥
सा रामम् पर्णशालायाम् उपविष्टम् परंतपम् ।सीतया सह दुर्धर्षम् अब्रवीत् काम मोहिता ॥३-१८-१४॥
इमाम् विरूपाम् असतीम् करालाम् निर्णतोदरीम् ।वृद्धाम् भार्याम् अवष्टभ्य न माम् त्वम् बहु मन्यसे ॥३-१८-१५॥
अद्य इमाम् भक्षयिष्यामि पश्यतः तव मानुषीम् ।त्वया सह चरिष्यामि निःसपत्ना यथा सुखम् ॥३-१८-१६॥
इति उक्त्वा मृगशावाक्षीम् अलात सदृश ईक्षणा ।अभ्यधावत् सुसंक्रुद्धा महा उल्का रोहिणीम् इव ॥३-१८-१७॥
ताम् मृत्यु पाश प्रतिमाम् आपतंतीम् महाबलः ।विगृह्य रामः कुपितः ततो लक्ष्मणम् अब्रवीत् ॥३-१८-१८॥
क्रूरैः अनार्यैः सौमित्रे परिहासः कथंचन ।न कार्यः पश्य वैदेहीम् कथंचित् सौम्य जीवतीम् ॥३-१८-१९॥
इमाम् विरूपाम् असतीम् अतिमत्ताम् महोदरीम् ।राक्षसीम् पुरुषव्याघ्र विरूपयितुम् अर्हसि ॥३-१८-२०॥
इति उक्तो लक्ष्मणः तस्याः क्रुद्धो रामस्य पश्यतः ।उद्धृत्य खड्गम् चिच्छेद कर्ण नासम् महाबलः ॥३-१८-२१॥
निकृत्त कर्ण नासा तु विस्वरम् सा विनद्य च ।यथा आगतम् प्रदुद्राव घोरा शूर्पणखा वनम् ॥३-१८-२२॥
सा विरूपा महाघोरा राक्षसी शोणित उक्षिता ।ननाद विविधान् नादान् यथा प्रावृषि तोयदः ॥३-१८-२३॥
सा विक्षरंती रुधिरम् बहुधा घोर दर्शना ।प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥३-१८-२४॥
ततः तु सा राक्षस संघ सम्वृतम् खरम् जन स्थान गतम् विरूपिता ।उपेत्य तम् भ्रातरम् उग्र तेजसम् पपात भूमौ गगनाद् यथा अशनिः ॥३-१८-२५॥
ततः सभार्यम् भय मोह मूर्चिता सलक्ष्मणम् राघवम् आगतम् वनम् ।विरूपणम् च आत्मनि शोणित उक्षिता शशम्स सर्वम् भगिनी खरस्य सा ॥३-१८-२६॥
ताम् तथा पतिताम् दृष्ट्वा विरूपाम् शोणित उक्षिताम् ।भगिनीम् क्रोध संतप्तः खरः पप्रच्छ राक्षसः ॥३-१९-१॥
उत्तिष्ठ तावत् आख्याहि प्रमोहम् जहि संभ्रमम् ।व्यक्तम् आख्याहि केन त्वम् एवम् रूपा विरूपिता ॥३-१९-२॥
कः कृष्ण सर्पम् असीनम् आशी विषम नागसम् ।तुदति अभिसमापन्नम् अंगुलि अग्रेण लीलया ॥३-१९-३॥
काल पाशम् समासज्य कण्ठे मोहात् न जानते ।यः त्वाम् अद्य समासाद्य पीतवान् विषम् उत्तमम् ॥३-१९-४॥
बल विक्रम संपन्ना कामगा काम रूपिणी ।इमाम् अवस्थाम् नीता त्वम् केन अंतक समा गता ॥३-१९-५॥
देव गन्धर्व भूतानाम् ऋषीणाम् च महात्मनाम् ।को अयम् एवम् महावीर्यः त्वाम् विरूपाम् चकार ह ॥३-१९-६॥
न हि पश्यामि अहम् लोके यः कुर्यात् मम विप्रियम् ।अमरेषु सहस्राक्षम् महएन्द्रम् पाकशासनम् ॥३-१९-७॥
अद्य अहम् मार्गणैः प्राणान् आदास्ये जीवितांतगैः ।सलिले क्षीरम् आसक्तम् निष्पिबन् इव सारसः ॥३-१९-८॥
निहतस्य मया संख्ये शर संकृत्त मर्मणः ।सफेनम् रुधिरम् कस्य मेदिनी पातुम् इच्छसि ॥३-१९-९॥
कस्य पत्ररथाः कायात् मांसम् उत्कृत्य संगताः ।प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥३-१९-१०॥
तम् न देवा न गंधर्वा न पिशाचा न राक्षसाः ।मया अपकृष्टम् कृपणम् शक्ताः त्रातुम् इह आहवे ॥३-१९-११॥
उपलभ्य शनैः संज्ञाम् तम् मे शंसितुम् अर्हसि ।येन त्वम् दुर्विनीतेन वने विक्रम्य निर्जिता ॥३-१९-१२॥
इति भ्रातुर् वचः श्रुत्वा क्रुद्धस्य च विशेषतः ।ततः शूर्पणखा वाक्यम् सबाष्पम् इदम् अब्रवीत् ॥३-१९-१३॥
तरुणौ रूप संपन्नौ सुकूमारौ महाबलौ ।पुण्डरीक विशालाक्षौ चीर कृष्ण अजिन अंबरौ ॥३-१९-१४॥
फल मूल अशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।पुत्रौ दशरथस्य आस्ताम् भ्रातरौ राम लक्ष्मनौ ॥३-१९-१५॥
गन्धर्व राज प्रतिमौ पार्थिव व्यन्जन अन्वितौ ।देवौ वा दानवौ - मानुषौ - वा तौ न तर्कयितुम् उत्सहे ॥३-१९-१६॥
तरुणी रूपसंपन्ना सर्वाअभरण भूषिता ।दृष्टा तत्र मया नारी तयोर् मध्ये सुमध्यमा ॥३-१९-१७॥
ताभ्याम् उभाभ्याम् संभूय प्रमदाम् अधिकृत्य ताम् ।इमाम् अवस्थाम् नीता अहम् यथा अनाथा सती तथा ॥३-१९-१८॥
तस्याः च अनृजु वृत्तायाः तयोः च हतयोर् अहम् ।सफेनम् पातुम् इच्छामि रुधिरम् रण मूर्धनि ॥३-१९-१९॥
एष मे प्रथमः कामः कृतः तत्र त्वया भवेत् ।तस्याः तयोः च रुधिरम् पिबेयम् अहम् आहवे ॥३-१९-२०॥
इति तस्याम् ब्रुवाणायाम् चतुर् दश महाबलान् ।व्यादिदेश खरः क्रुद्धो राक्षसान् अंतकोपमान् ॥३-१९-२१॥
मानुषौ शस्त्र सम्पन्नौ चीर कृष्ण अजिन अंबरौ ।प्रविष्टौ दण्डकारण्यम् घोरम् प्रमदया सह ॥३-१९-२२॥
तौ हत्वा ताम् च दुर्वृत्ताम् उपावर्तितुम् अर्हथ ।इयम् च रुधिरम् तेषाम् भगिनी मम पास्यति ॥३-१९-२३॥
मनोरथो अयम् इष्टो अस्या भगिन्या मम राक्षसाः ।शीघ्रम् संपद्यताम् गत्वा तौ प्रमथ्य स्व तेजसा ॥३-१९-२४॥
युष्माबिः निर्हतो दृष्ट्वा तौ उभौ भ्रातौ रणे ।इयम् प्रहृष्टा मुदिता रुधिरम् युधि पास्यति ॥३-१९-२५॥
इति प्रतिसमादिष्टा राक्षसाः ते चतुर् दश ।तत्र जग्मुः तया सार्धम् घना वातेरिताः यथा ॥३-१९-२६॥
ततस्तु ते तम् समुदर्ग तेजसम्< >तथापि तीक्ष्ण प्रदरा निशाचरा ।न शेकुर् एनम् सहसा प्रमर्दितुम्< >वनद्विपा दीप्त्वम् इव अग्निम् उथितम् ॥३-१९-२७॥
ततः शूर्पणखा घोरा राघव आश्रमम् आगता ।रक्षसान् आचचक्षे तौ भ्रातरौ सह सीतया ॥३-२०-१॥
ते रामम् पर्ण शालायाम् उपविष्टम् महाबलम् ।ददृशुः सीतया सार्धम् लक्ष्मणेन अपि सेवितम् ॥३-२०-२॥
ताम् दृष्ट्वा राघवः श्रीमान् आगताम् ताम् च राक्षसीम् ।अब्रवीत् भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-२०-३॥
मुहूर्तम् भव सौमित्रे सीतायाः प्रत्यनंतरः ।इमान् अस्या वधिष्यामि पदवीम् आगतान् इह ॥३-२०-४॥
वाक्यम् एतत् ततः श्रुत्वा रामस्य विदित आत्मनः ।तथा इति लक्ष्मणो वाक्यम् रामस्य प्रत्यपूजयत् ॥३-२०-५॥
राघवो अपि महत् चापम् चामीकर विभूषितम् ।चकार सज्यम् धर्मात्मा तानि रक्षांसि च अब्रवीत् ॥३-२०-६॥
पुत्रौ दशरथस्य आवाम् भ्रातरौ राम लक्ष्मणौ ।प्रविष्टौ सीतया सार्धम् दुश्चरम् दण्डका वनम् ॥३-२०-७॥
फल मूल अशनौ दांतौ तापसौ धर्म चारिणौ ।वसन्तौ दण्डकारण्ये किम् अर्थम् उपहिंसथ ॥३-२०-८॥
युष्मान् पाप आत्मकान् हंतुम् विप्रकारान् महाहवे ।ऋषीणाम् तु नियोगेन प्राप्तो अहम् सशर आसनः ॥३-२०-९॥
तिष्ठत एव अत्र संतुष्टा न उपवरितितुम् अर्हथ ।यदि प्राणैः इह अर्थो वो निवर्तध्वम् निशा चराः ॥३-२०-१०॥
तस्य तद् वचनम् श्रुत्वा राक्षसाः ते चतुर्दश ।ऊचुर् वाचम् सुसंक्रुद्धा ब्रह्मघ्नः शूल पाणयः ॥३-२०-११॥
संरक्त नयना घोरा रामम् रक्तांत लोचनम् ।परुषा मधुर आभाषम् हृष्टाः अदृष्ट पराक्रमम् ॥३-२०-१२॥
क्रोधम् उत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।त्वम् एव हास्यसे प्राणान् अद्य अस्माभिर् हतो युधि ॥३-२०-१३॥
का हि ते शक्तिर् एकस्य बहूनाम् रण मूर्धनि ।अस्माकम् अग्रतः स्थातुम् किम् पुनर् योद्धुम् आहवे ॥३-२०-१४॥
एभिः बाहु प्रयुक्तैः नः परिघैः शूल पट्टिशैः ।प्राणाम् त्यक्ष्यसि वीर्यम् च धनुः च कर पीडितम् ॥३-२०-१५॥
इति एवम् उक्त्वा संरब्धा राक्षसाः ते चतुर्दश ।उद्यत आयुध निस्त्रिंशा रामम् एव अभिदुद्रुवुः ॥३-२०-१६॥
चिक्षिपुः तानि शूलानि राघवम् प्रति दुर्जयम् ।तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ॥३-२०-१७॥
तावद्भिः एव चिच्छेद शरैः कांचन भूषितैः ।ततः पश्चात् महातेजा नाराचान् सूर्य संनिभान् ॥३-२०-१८॥
जग्राह परम क्रुद्धः चतुर्दश शिल अशितान् ।गृहीत्वा धनुः आयम्य लक्ष्यान् उद्दिश्य राक्षसान् ॥३-२०-१९॥
मुमोच राघवो बाणान् वज्रान् इव शतक्रतुः ।ते भित्त्वा रक्षसाम् वेगात् वक्षांसि रुधिर आप्लुताः ॥३-२०-२०॥
विनिष्पेतुः तदा भूमौ वल्मीकात् इव पन्नगाः ।तैः भग्न हृदया बूमौ छिन्न मूला इव द्रुमाः ॥३-२०-२१॥
निपेतुः शोणित स्नाता विकृता विगत असवः ।तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोध मूर्च्छिता ॥३-२०-२२॥
उपगम्य खरम् सा तु किंचित् संशुष्क शोणिता ।पपात पुनः एव आर्ता सनिर्यासा इव वल्लरी ॥३-२०-२३॥
भ्रातुः समीपे शोक आर्ता ससर्ज निनदम् महत् ।सस्वरम् मुमोच बाष्पम् विवर्ण वदना तदा ॥३-२०-२४॥
निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनः ततः ।वधम् च तेषाम् निखिलेन रक्षसाम् शशंस सर्वम् भगिनी खरस्य सा ॥३-२०-२५॥
स पुनः पतिताम् दृष्ट्वा क्रोधात् शूर्पणखाम् खरः ।उवाच व्यक्तता वाचा ताम् अनर्थ अर्थम् आगताम् ॥३-२१-१॥
मया तु इदानीम् शूराः ते राक्षसा पिशित अशनाः ।त्वत् प्रियार्थम् विनिर्दिष्टाः किम् अर्थम् रुद्यते पुनः ॥३-२१-२॥
भक्ताः चैव अनुरक्ताः च हिताः च मम नित्यशः ।हन्यमाना अपि न हन्यन्ते न न कुर्युः वचो मम ॥३-२१-३॥
किम् एतत् श्रोतुम् इच्छामि कारणम् यत् कृते पुनः ।हा नाथ इति विनर्दन्ती सर्पवत् चेष्टसे क्षितौ ॥३-२१-४॥
अनाथ वत् विलपसि किम् नु नाथे मयि स्थिते ।उत्तिष्ठोत्तिष्ठ मा मैवम् वैक्लव्यम् त्यज्यताम् इति ॥३-२१-५॥
इति एवम् उक्ता दुर्धर्षा खरेण परिसान्त्विता ।विमृज्य नयने स अस्रे खरम् भ्रातरम् अब्रवीत् ॥३-२१-६॥
अस्मि इदानीम् अहम् प्रप्ता हत श्रवण नासिका ।शोणित ओघ परिक्लिन्ना त्वया च परिसमन्विता ॥३-२१-७॥
प्रेषिताः च त्वया शूरा राक्षसाः ते चतुर् दश ।निहन्तुम् राघवम् घोराम् मत् प्रियार्थम् स लक्ष्मणम् ॥३-२१-८॥
ते तु रामेण सामर्षाः शूल पट्टिस पाणयः ।समरे निहताः सर्वे सायकैः मर्म भेदिभिः ॥३-२१-९॥
तान् भूमौ पतितान् दृष्ट्वा क्षणेन एव महाजवान् ।रामस्य च महत् कर्म महान् त्रासो अभवन् मम ॥३-२१-१०॥
सा अस्मि भीता समुद्विग्ना विषण्णा च निशाचर ।शरणम् त्वाम् पुनः प्राप्ता सर्वतो भय दर्शिनी ॥३-२१-११॥
विषाद नक्र अध्युषिते परित्रास ऊर्मि मालिनि ।किम् माम् न त्रायसे मग्नाम् विपुले शोक सागरे ॥३-२१-१२॥
एते च निहता भूमौ रामेण निशितैः शरैः ।ये च मे पदवीम् प्राप्ता राक्षसाः पिशित अशनाः ॥३-२१-१३॥
मयि ते यदि अनुक्रोशो यदि रक्षःसु तेषु च ।रामेण यदि शक्तिः ते तेजो वा अस्ति निशा चर ॥३-२१-१४॥
दण्डकारण्य निलयम् जहि राक्षस कण्टकम् ।यदि रामम् अमित्रघ्नम् न त्वम् अद्य वधिष्यसि ॥३-२१-१५॥
तव चैव अग्रतः प्राणान् त्यक्ष्यामि निरपत्रपा ।बुद्ध्या अहम् अनुपश्यामि न त्वम् रामस्य संयुगे ॥३-२१-१६॥
स्थातुम् प्रति मुखे शक्तः स बलो अपि महा रणे ।शूरमानी न शूरः त्वम् मिथ्या आरोपित विक्रमः ॥३-२१-१७॥
अपयाहि जन स्थानात् त्वरितः सह बान्धवः ।जहि त्वम् समरे मूढान् यथा तु कुलपांसन ॥३-२१-१८॥
मानुषौ तौ न शक्नोषि हन्तुम् वै राम लक्ष्मणौ ।निःसत्त्वस्य अल्प वीर्यस्य वासः ते कीदृशः तु इह ॥३-२१-१९॥
राम तेजो अभिभूतो हि त्वम् क्षिप्रम् विनशिष्यसि ।स हि तेजः समायुक्तो रामो दशरथात्मजः ॥३-२१-२०॥
भ्राता च अस्य महा वीर्यो येन च अस्मि विरूपिता ।एवम् विलाप्य बहुशो राक्ष्सी प्रदरोदरी ॥३-२१-२१॥
भ्रातुः समीपे शोक आर्ता नष्ट संज्ञा बभूव ह ।कराभ्याम् उदरम् हत्वा रुरोद भृश दुःखिता ॥३-२१-२२॥
एवम् आधर्षितः शूरः शूर्पणख्या खरः ततः ।उवाच रक्षसाम् मध्ये खरः खरतरम् वचः ॥३-२२-१॥
तव अपमान प्रभवः क्रोधो अयम् अतुलो मम ।न शक्यते धारयितुम् लवण अंभ इव उल्बणम् ॥३-२२-२॥
न रामम् गणये वीर्यान् मानुषम् क्षीण जीवितम् ।आत्म दुश्चरितैः प्राणान् हतो यो अद्य विमोक्ष्यति ॥३-२२-३॥
बाष्पः सम्धार्यताम् एष संभ्रमः च विमुच्यताम् ।अहम् रामम् सह भ्रात्रा नयामि यम सादनम् ॥३-२२-४॥
परश्वध हतस्य अद्य मन्द प्राणस्य भू तले ।रामस्य रुधिरम् रक्तम् उष्णम् पास्यसि राक्षसि ॥३-२२-५॥
सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनात् च्युतम् ।प्रशशंस पुनर् मौर्ख्यात् भ्रातरम् रक्षसाम् वरम् ॥३-२२-६॥
तया परुषितः पूर्वम् पुनर् एव प्रशंसितः ।अब्रवीत् दूषणम् नाम खरः सेना पतिम् तदा ॥३-२२-७॥
चतुर्दश सहस्राणि मम चित्त अनुवर्तिनाम् ।रक्षसाम् भीम वेगानाम् समरेषु अनिवर्तिनाम् ॥३-२२-८॥
नील जीमूत वर्णानाम्  लोक हिंसा विहाराणाम् ।सर्व उद्योगम् उदीर्णानाम् रक्षसाम् सौम्य कारय  ॥३-२२-९॥
उपस्थापय मे क्षिप्रम् रथम् सौम्य धनूंषि च ।शरान् च चित्रान् खड्गां च शक्ती च विविधाः शिताः ॥३-२२-१०॥
अग्रे निर्यातुम् इच्छामि पौलस्त्यानाम् महात्मनाम् ।वधार्थम् दुर्विनीतस्य रामस्य रण कोविद ॥३-२२-११॥
इति तस्य ब्रुवाणस्य सूर्य वर्णम् महारथम् ।सत् अश्वैः शबलैः युक्तम् आचचक्षे अथ दूषणः ॥३-२२-१२॥
तम् मेरु शिखर आकारम् तप्त कांचन भूषणम् ।हेम चक्रम् असंबाधम् वैदूर्यमय कूबरम् ॥३-२२-१३॥
मत्स्यैः पुष्पैः द्रुमैः शैलैः चन्द्र सूर्यैः च कांचनैः ।मांगल्यैः पक्षि सम्घैः च ताराभिः च समावृतम् ॥३-२२-१४॥
ध्वज निस्त्रिंश संपन्नम् किंकिणी वर भूषितम् ।सत् अश्व युक्तम् सः अमर्षात् आरुरोह खरः तदा ॥३-२२-१५॥
खरः तु तान्  महत् सैन्याम् रथ चर्म आयुध ध्वजान् ।निर्यात इति अब्रवीत् प्रेक्ष्य दूषणः सर्व राक्षसान् ॥३-२२-१६॥
ततः तद् राक्षसम् सैन्यम् घोर चर्म आयुध ध्वजम् ।निर्जगाम जन स्थानात् महानादम् महाजवम् ॥३-२२-१७॥
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैः च परश्वधैः ।खड्गैः चक्रैः च हस्तस्थैः भ्राजमानैः स तोमरैः ॥३-२२-१८॥
शक्तिभिः परिघैः घोरैः अतिमात्रैः च कार्मुकैः ।गदा असि मुसलैः वज्रैः गृहीतैः भीम दर्शनैः ॥३-२२-१९॥
राक्षसानाम् सुघोराणाम् सहस्राणि चतुर्दश ।निर्यातानि जन स्थानात् खर चित्त अनुवर्तिनाम् ॥३-२२-२०॥
तान् तु निर्धावतो दृष्ट्वा राक्षसान् भीम दर्शनम् ।खरस्य अथ रथः किंचित् जगाम तत् अनन्तरम् ॥३-२२-२१॥
ततः तान् शबलान् अश्वान् तप्त कांचन भूषितान् ।खरस्य मतम् आज्ञाय सारथिः पर्यचोदयत् ॥३-२२-२२॥
संचोदितो रथः शीघ्रम् खरस्य रिपु घातिनः ।शब्देन आपूरयामास दिशः स प्रदिशः तथा ॥३-२२-२३॥
प्रवृद्ध मन्युः तु खरः खर स्वरेरिपोः वध अर्थम् त्वरितो यथा अंतकः ।अचूचुदत् सारथिम् उन्नदन् पुनर्महाबलो मेघ इव अश्म वर्षवान् ॥३-२२-२४॥
तत् प्रयातम् बलम् घोरम् अशिवम् शोणित उदकम् ।अभ्यवर्षत् महा मेघः तुमुलो गर्दभ अरुणः ॥३-२३-१॥
निपेतुः तुरगाः तस्य रथ युक्ता महाजवाः ।समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥३-२३-२॥
श्यामम् रुधिर पर्यन्तम् बभूव परिवेषणम् ।अलात चक्र प्रतिमम् प्रतिगृह्य दिवाकरम् ॥३-२३-३॥
ततो ध्वजम् उपागम्य हेम दण्डम् समुच्छ्रितम् ।समाक्रम्य महाकायः तस्थौ गृध्रः सुदारुणः ॥३-२३-४॥
जनस्थान समीपे च समाक्रम्य खर स्वनाः ।विस्वरान् विविधान् च चक्रुः मांस आदा मृग पक्षिणः ॥३-२३-५॥
व्याजह्रुः च पदीप्तायाम् दिशि वै भैरव स्वनम् ।अशिवा यातुधानानाम् शिवा घोरा महास्वनाः ॥३-२३-६॥
प्रभिन्नगजसंकाशतोयशोणितधारिणः ।यद्वा -प्रभिन्न गज संकाश तोय शोणित धारिणः ।आकाशम् तत् अनाकाशम् चक्रुः भीम अंबु वाहकाः॥३-२३-७॥
बभूव तिमिरम् घोरम् उद्धतम् रोम हर्षणम् ।दिशो वा प्रदिशो वा अपि सुव्यक्तम् न चकाशिरे ॥३-२३-८॥
क्षतज आर्द्र सवर्णाभा संध्या कालम् विना बभौ ।खरम् च अभिमुखम् नेदुः तदा घोरा मृगाः खगाः ॥३-२३-९॥
कंक गोमायु गृध्राः च चुक्रुशुः भय संशिनः ।नित्या अशिव करा युद्धे शिवा घोर निदर्शनाः ॥३-२३-१०॥
नेदुः बलस्य अभिमुखम् ज्वाल उद्गारिभिः आननैः ।कबन्धः परिघ आभासो दृश्यते भास्कर अंतिके ॥३-२३-११॥
जग्राह सूर्यम् स्वर्भानुः अपर्वणि महाग्रहः ।प्रवाति मारुतः शीघ्रम् निष्प्रभो अभूत् दिवाकरः ॥३-२३-१२॥
उत्पेतुः च विना रात्रिम् ताराः खद्योतन प्रभाः ।संलीन मीन विहगा नलिन्यः शुष्क पंकजाः ॥३-२३-१३॥
तस्मिन् क्षणे बभूवुः च विना पुष्प फलैः द्रुमाः ।उद्धूतः च विना वातम् रेणुः जलधर अरुणः ॥३-२३-१४॥
चीची कूचि इति वाश्यन्तो बभूवुः तत्र सारिकाः ।उल्काः च अपि स निर्घोषा निपेतुः घोर दर्शनाः ॥३-२३-१५॥
प्रचचाल मही च अपि स शैल वन कानना ।खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥३-२३-१६॥
प्राकम्पत भुजः सव्यः स्वरः च अस्य अवसज्जत ।स अस्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥३-२३-१७॥
ललाटे च रुजो जाता न च मोहात् न्यवर्तत ।तान् समीक्ष्य महोत्पातान् उत्थितान् रोम हर्षणान् ॥३-२३-१८॥
अब्रवीत् राक्षसान् सर्वान् प्रहसन् स खरः तदा ।महा उत्पातान् इमान् सर्वान् उत्थितान् घोर दर्शनान् ॥३-२३-१९॥
न चिंतयामि अहम् वीर्यात् बलवान् दुर्बलान् इव ।तारा अपि शरैः तीक्ष्णैः पातयेयम् नभः तलात् ॥३-२३-२०॥
मृत्युम् मरण धर्मेण संक्रुद्धो योजयामि अहम् ।राघवम् तम् बल उत्सिक्तम् भ्रातरम् च अस्य लक्ष्मणम् ॥३-२३-२१॥
अहत्वा सायकैः तीक्ष्णैः न उपावर्तितुम् उत्सहे ।यन् निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः ॥३-२३-२२॥
सकामा भगिनी मे अस्तु पीत्वा तु रुधिरम् तयोः ।न क्वचित् प्राप्त पूर्वो मे संयुगेषु पराजयः ॥३-२३-२३॥
युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयामि अहम् ।देव राजम् अपि क्रुद्धो मत्त ऐरावत गामिनम् ॥३-२३-२४॥
वज्र हस्तम् रणे हन्याम् किम् पुनः तौ च मानुषौ ।सा तस्य गर्जितम् श्रुत्वा राक्षसाअनाम् महा चमूः ॥३-२३-२५॥
प्रहर्षम् अतुलम् लेभे मृत्यु पाश अवपाशिता ।समेयुः च महात्मानो युद्ध दर्शन कांक्षिणः ॥३-२३-२६॥
ऋषयो देव गन्धर्वाः सिद्धाः च सह चारणैः ।समेत्य च ऊचुः सहिताः ते अन्यायम् पुण्यकर्मणः ॥३-२३-२७॥
स्वस्ति गो ब्राह्मणेभ्यो अस्तु लोकानाम् ये च सम्मताः ।जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२३-२८॥
चक्रहस्तो यथा विष्णुः सर्वान् असुर सत्तमान् ।एतत् च अन्यत् च बहुशो ब्रुवाणाः परम ऋषयः ॥३-२३-२९॥
जात कौतूहलात् तत्र विमानस्थाः च देवताः ।ददृशुर् वाहिनीम् तेषाम् राक्षसानाम् गत आयुषाम् ॥३-२३-३०॥
रथेन तु खरो वेगात् सैन्यस्य अग्रात् विनिःसृतः ।श्येनगामी पृथुग्रीवो यज्ञशत्रुः विहंगमः ॥३-२३-३१॥
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।हेममाली महामाली सर्पाअस्यो रुधिराशनः ॥३-२३-३२॥
द्वादश एते महावीर्याः प्रतस्थुः अभितः खरम् ।महाकपालः स्थूलाक्षः प्रमाथी त्रिशिराः तथा ।चत्वार एते सेना अग्रे दूषणम् पृष्ठतो अन्वयुः ॥३-२३-३३॥
सा भीम वेगा समर अभिकांक्षिणीसुदारुणा राक्षस वीर सेना ।तौ राज पुत्रौ सहसा अभ्युपेतामाला ग्रहाणाम् इव चन्द्र सूर्यौ ॥३-२३-३४॥
अवष्टब्ध धनुम् रामम् क्रुद्धम् च रिपु घातिनम् ।ददर्श आश्रमम् आगम्य खरः सह पुरःसरैः ॥३-२५-१॥
तम् दृष्ट्वा सगुणम् चापम् उद्यम्य खर निःस्वनम् ।रामस्य अभिमुखम् सूतम् चोद्यताम् इति अचोदयत् ॥३-२५-२॥
स खरस्य आज्ञया सूतः तुरगान् समचोदयत् ।यत्र रामो महाबाहुः एको धुन्वन् धनुः स्थितः ॥३-२५-३॥
तम् तु निष्पतितम् दृष्ट्वा सर्वे ते रजनी चराः ।मुंचमाना महानादम् सचिवाः पर्यवारयन् ॥३-२५-४॥
स तेषाम् यातुधानानाम् मध्ये रथः गतः खरः ।बभूव मध्ये ताराणाम् लोहितांग इव उदितः ॥३-२५-५॥
ततः शर सहस्रेन रामम् अप्रतिम ओजसम् ।अर्दयित्वाअ महानादम् ननाद समरे खरः ॥३-२५-६॥
ततः तम् भीम धन्वानम् क्रुद्धाः सर्वे निशाचराः ।रामम् नाना विधैः शस्त्रैः अभ्यवर्षन्त दुर्जयम् ॥३-२५-७॥
मुद्गरैः आयसैः शूलैः प्रासैः खड्गैः परश्वधैः ।राक्षसाः समरे रामम् निजघ्नू रोष तत्पराः ॥३-२५-८॥
ते वलाहक संकाशा महाकाया महाबलाः ।अभ्यधावन्त काकुत्स्थम् रथैः वाजिभिः एव च ॥३-२५-९॥
गजैः पर्वत कूट अभैः रामम् युद्धे जिंघासवः ।ते रामे शर वर्षाणि व्यसृजन् रक्षसाम् गणाः ॥३-२५-१०॥
शैलेन्द्रम् इव धाराभिर् वर्षमाणा महाधनाः ।सर्वैः परिवृतो रामो राक्षसैः कॄरदर्शिनैः ॥३-२५-११॥
तिथिषु इव महादेवो वृतः पारिषदाम् गणैः ।तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ॥३-२५-१२॥
प्रतिजग्राह विशिखैः नदि ओघान् इव सागरः ।स तैः प्रहरणैः घोरैः भिन्न गात्रो न विव्यथे ॥३-२५-१३॥
रामः प्रदीप्तैर् बहुभिर् वज्रैर् इव महा अचलः ।स विद्धः क्षतज दिग्धः सर्व गात्रेषु राघवः ॥३-२५-१४॥
बभूव रामः सन्ध्य अभ्रैः दिवाकर इव आवृतः ।विषेदुर् देव गन्धर्वाः सिद्धाः च परम ऋषयः ॥३-२५-१५॥
एकम् सहस्रैः बहुभिः तदा दृष्ट्वा समावृतम् ।ततो रामः तु सुसंक्रुद्धो मण्डली कृत कार्मुकः ॥३-२५-१६॥
ससर्ज निशितान् बाणान् शतशः अथ सहस्रशः ।दुरवारान् दुर्विषहान् कालपाश उपमान् रणे ॥३-२५-१७॥
मुमोच लीलया रामः कंकपत्रान् कांचन भूषणान् ।ते शराः शत्रु सैन्येषु मुक्ता रामेण लीलया ॥३-२५-१८॥
आददू रक्षसाम् प्राणान् पाशाः कालकृता इव ।भित्त्वा राक्षस देहान् ताम् ते शरा रुधिर आप्लुताः ॥३-२५-१९॥
अंतरिक्ष गता रेजुः दीप्त अग्नि सम तेजसः ।असंख्येयाः तु रामस्य सायकाः चाप मण्डलात् ॥३-२५-२०॥
विनिष्पेतुः अतीव उग्रा रक्षः प्राण अपहारिणः ।तैः धनूंषि ध्वज अग्राणि चर्माणि च शिरांसि च ॥३-२५-२१॥
बहून् स हस्त आभरणान् ऊरून् करि कर उपमान् ।चिछेद रामः समरे शतशः अथ सहस्रशः ॥३-२५-२२॥
हयान् कांचन सन्नाहान् रथ युक्तान् स सारथीन् ।गजाम् च स गज आरोहान् स हयान् सारधिनः तदा ॥३-२५-२३॥
चिछिदुः बिभिदुः च एव राम बाणा गुण च्युताः ।पदातीन् समरे हत्वा हि अनयत् यम सदनम् ॥३-२५-२४॥
ततो नालीक नाराचैः तीक्ष्ण अग्रैः विकर्णिभिः ।भीमम् आर्त स्वरम् चक्रुः छिद्यमाना निशाचराः ॥३-२५-२५॥
तत् सैन्यम् निशितैः बाणैः अर्दितम् मर्म भेदिभिः ।न रामेण  सुखम् लेभे शुष्कम् वनम् इव अग्निना ॥३-२५-२६॥
केचिद् भीम बलाः शूराः प्रासान् शूलान् परश्वधान् ।चिक्षिपुः परम क्रुद्धा रामाय रजनीचराः ॥३-२५-२७॥
तेषाम् बाणैः महाबाहुः शस्त्राणि आवार्य वीर्यवान् ।जहार समरे प्राणान् चिच्छेद च शिरो धरान् ॥३-२५-२८॥
ते छिन्न शिरसः पेतुः छिन्न चर्म शरासनाः ।सुपर्ण वात विक्षिप्ता जगत्याम् पादपा यथा ॥३-२५-२९॥
अवशिष्टाः च ये तत्र विषण्णाः ते निशाचराः ।खरम् एव अभ्यधावन्त शरणार्थम् शर आहताः ॥३-२५-३०॥
तान् सर्वान् धनुर् आदाय समाश्वास्य च दूषणः ।अभ्यधावत सुसंक्रुद्धः क्रुद्धः [रुद्रम्] क्रुद्ध इव अन्तकः ॥३-२५-३१॥
निवृत्ताः तु पुनः सर्वे दूषण आश्रय निर्भयाः ।रामम् एव अभ्यधावन्त साल ताल शिल आयुधाः ॥३-२५-३२॥
शूल मुद्गर हस्ताः च पाश हस्ता महाबलाः ।सृजन्तः शर वर्षाणि शस्त्र वर्षाणि संयुगे॥३-२५-३३॥
द्रुम वर्षाणि मुंचन्तः शिला वर्षाणि राक्षसाः ।तद् बभूव अद्भुतम् युद्धम् तुमुलम् रोम हर्षणम् ॥३-२५-३४॥
रामस्य अस्य महाघोरम् पुनः तेषाम् च रक्षसाम् ।ते समन्तात् अभिक्रुद्धा राघवम् पुनर् आर्दयन् ॥३-२५-३५॥
ततः सर्वा दिशो दृष्ट्वा प्रदिशाः च समावृताः ।राक्षसैः सर्वतः प्राप्तैः शर वर्षाभिः आवृतः ॥३-२५-३६॥
स कृत्वा भैरवम् नादम् अस्त्रम् परम भास्वरम् ।समयोजयत् गान्धर्वम् राक्षसेषु महाबलः ॥३-२५-३७॥
ततः शर सहस्राणि निर्ययुः चाप मण्डलात् ।सर्वा दश दिशो बानैः आपूर्यन्त समागतैः ॥३-२५-३८॥
न आददानाम् शरान् घोरान् विमुंचंतम् शर उत्तमान् ।विकर्षमाणम् पश्यन्ति राक्षसाः ते शर आर्दिताः ॥३-२५-३९॥
शर अन्धकारम् आकाशम् आवृणोत्  स दिवाकरम् ।बभूव अवस्थितो रामः प्रक्षिपन् इव तान् शरान् ॥३-२५-४०॥
युगपत् पतमानैः च युगपच्च हतैः भ्रिशम् ।युगपत् पतितैः चैव विकीर्णा वसुधा अभवत् ॥३-२५-४१॥
निहताः पतिताः क्षीणा च्छिन्न भिन्न विदारिताः ।तत्र तत्र स्म दृश्यन्ते राक्षसाः ते सहस्रशः ॥३-२५-४२॥
स उष्णीषैः उत्तम अन्गैः च स अंगदैः बाहुभिः तथा ।ऊरुभिः बाहुभिः च्छिन्नैः नाना रूपैः विभूषणैः ॥३-२५-४३॥
हयैः च द्विप मुख्यैः च रथैः भिन्नैः अनेकशः ।चामर व्यजनैः छत्रैः ध्वजैः नाना विधैः अपि ॥३-२५-४४॥
रामेण बाण अभिहतैः विच्छिन्नैः शूल पट्टिशैः ।खड्गैः खण्डीकृतैः प्रासैः विकीर्णैः च पश्वधैः ॥३-२५-४५॥
चूणिताभिः शिलाभिः च शरैः चित्रैः अनेकशः ।विच्छिन्नैः समरे भूमिः विस्तीर्णा आभूत् भयंकरा ॥३-२५-४६॥
तान् दृष्ट्वा निहतान् सर्वे रक्षसाः परम आतुराः ।न तत्र चलितुम् शक्ता रामम् पर पुरंजयम् ॥३-२५-४७॥
दूषणः तु स्वकम् सैन्यम् हन्यमानम् विलोक्य च ।संदिदेश महाबाहुः भीम वेगान् निशाचरान् ॥३-२६-१॥
राक्षसान् पंच साहस्रान् समरेषु अनिवर्तिनः ।ते शूलैः पट्टिशैः कदगैः शिला वरषैः द्रुमैः ॥३-२६-२॥
शर वर्षैः विच्छिन्नम् ववर्षुः तम् समन्ततः ।तत् द्रुमाणाम् शिलानाम् च वर्षम् प्राण हरम् महत् ॥३-२६-३॥
प्रतिजग्राह धर्मात्मा राघवः तीक्ष्ण सायकैः ।प्रतिगृह्य च तद् वर्षम् निमीलित इव ऋषभः ॥३-२६-४॥
रामः क्रोधम् परम् लेभे वध अर्थम् सर्व रक्षसाम् ।ततः क्रोध समाविष्टः प्रदीप्त इव तेजसा ॥३-२६-५॥
शरैः अभ्यकिरत् सैन्यम् सर्वतः सह दूषणम् ।ततः सेना पतिः क्रुद्धो दूषणः शत्रु दूषणः ॥३-२६-६॥
शरैः अशनि कल्पैः तम् राघवम् समवारयत् ।ततो रामः संक्रुद्धः क्षुरेण अस्य महत् धनुः ॥३-२६-७॥
चिच्छेद समरे वीरः चतुर्भिः चतुरो हयान् ।हत्वा च अश्वान् शरैः तीक्ष्णैः अर्थ चन्द्रेण सारथे ॥३-२६-८॥
शिरो जहार तद् रक्षः त्रिभिर् विव्याध वक्षसि ।स च्छिन्न धन्वा विरथो हत अश्वो हत सारथिः ॥३-२६-९॥
जग्राह गिरि शृंग आभम् परिघम् रोम हर्षणम् ।वेष्टितम् कांचनैः पट्टैः देव सैन्य अभिमर्दनम् ॥३-२६-१०॥
आयसैः शंकुभिः तीक्ष्णैः कीर्णम् पर वसा उक्षिताम् ।वज्र अशनि सम स्पर्शम् पर गोपुर दारणम् ॥३-२६-११॥
तम् महा उरग संकाशम् प्रगृह्य परिघम् रणे ।दूषणो अभ्यपतत् रामम् क्रूर कर्मा निशाचरः ॥३-२६-१२॥
तस्य अभिपतमानस्य दूषणस्य स राघवः ।द्वाभ्याम् शराभ्याम् चिच्छेद स हस्त आभरणौ भुजौ ॥३-२६-१३॥
भ्रष्टः तस्य महाकायः पपात रण मूर्धनि ।परिघः छिन्न हस्तस्य शक्र ध्वज इव अग्रतः ॥३-२६-१४॥
कराभ्याम् च विकीर्णाभ्याम् पपात भुवि दूषणः ।विषाणाभ्याम् विशीर्णाभ्याम् मनस्वी इव महागजः ॥३-२६-१५॥
दृष्ट्वा तम् पतितम् भूमौ दूषणम् निहतम् रणे ।साधु साधु इति काकुत्स्थम् सर्व भूतानि अपूजयन् ॥३-२६-१६॥
एतस्मिन् अन्तरे क्रुद्धाः त्रयः सेना अग्र यायिनः ।संहत्य अभ्यद्रवन् रामम् मृत्यु पाश अवपाशिताः ॥३-२६-१७॥
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ।महाकपालो विपुलम् शूलम् उद्यम्य राक्षसः ॥३-२६-१८॥
स्थूलाक्षः पट्टिशम् गृह्य प्रमाथी च परश्वधम् ।दृष्ट्वा एव आपततः ताम् तु राघवः सायकैः शितैः ॥३-२६-१९॥
तीक्ष्ण अग्रैः प्रतिजग्राह संप्राप्तान् अतिथीन् इव ।महाकपालस्य शिरः चिच्छेद रघुनंदनः ॥३-२६-२०॥
असंख्येयैः तु बाण ओघैः प्रममाथ प्रमाथिनम् ।स्थूलाक्षस्य अक्षिणी स्थूले पूरयामास सायकैः ॥३-२६-२१॥
स पपात हतो भूमौ विटपी इव महाद्रुमः ।दूषणस्य अनुगान् पंच सहस्रान् कुपितः क्षणात् ॥३-२६-२२॥
हत्वा तु पंच सहस्रान् अनयत् यम सदनम् ।दूषणम् निहतम् श्रुत्वा तस्य च एव पदानुगान् ॥३-२६-२३॥
व्यादिदेश खरः क्रुद्धो सेन अध्यक्षान् महाबलान् ।अयम् विनिहतः संख्ये दूषणः स पदानुगाः ॥३-२६-२४॥
महत्या सेनया सार्धम् युद्ध्वा रामम् कुमानुषम् ।शस्त्रैः नाना विध अकारैः हनध्वम् सर्व राक्षसाः ॥३-२६-२५॥
एवम् उक्त्वा खरः क्रुद्धो रामम् एव अभि दुद्रुवे ।श्येनगामी पृथुग्रीवो यज्ञशत्रुर् विहंगमः ॥३-२६-२६॥
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।हेममाली महामाली सर्पस्यो रुधिराशनः ॥३-२६-२७॥
द्वादश एते महावीर्या बल अध्यक्षाः ।स सैनिकाःरमम् एव अभ्यधावंत विसृजंतः शरोत्तमान् ॥३-२६-२८॥
ततः पावक संकाशैः हेम वज्र विभूषितैः ।जघन शेषम् तेजस्वी तस्य सैन्यस्य सायकैः ॥३-२६-२९॥
ते रुक्म पुंखा विशिखाः स धूमा इव पावकाः ।निजघ्नुः तानि रक्षांसि वज्रा इव महाद्रुमान् ॥३-२६-३०॥
रक्षसाम् तु शतम् रामः शतेन एकेन कर्णिना ।सहस्रम् तु सहस्रेण जघान रण मूर्धनि ॥३-२६-३१॥
तैः भिन्न वर्म आभरणाः छिन्न भिन्न शर आसनाः ।निपेतुः शोणित आदिग्धा धरण्याम् रजनीचराः ॥३-२६-३२॥
तैः मुक्त केशैः समरे पतितैः शोणित उक्षितैः ।विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैः इव ॥३-२६-३३॥
तत् क्षणे तु महा घोरम् वनम् निहत राक्षसम् ।बभूव निरय प्रख्यम् मांस शोणित कर्दमम् ॥३-२६-३४॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।हतानि एकेन रामेण मानुषेण पदातिना ॥३-२६-३५॥
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।राक्षसः त्रिशिराः चैव रामः च रिपुसूदनः ॥३-२६-३६॥
शेषा हता महावीर्या राक्षसा रण मूर्धनि ।घोरा दुर्विषहाः सर्वे लक्ष्मणस्य अग्रजेन ॥३-२६-३७॥
ततः तु तद् भीम बलम् महा आहवेसमीक्ष्य रामेण हतम् बलीयसा ।रथेन रामम् महता खरः ततःसमाससाद इन्द्र इव उद्यत अशनिः ॥३-२६-३८॥
खरम् तु राम अभिमुखम् प्रयांतम् वाहिनी पतिः ।राक्षसः त्रिशिरा नाम संनिपत्य इदम् अब्रवीत् ॥३-२७-१॥
माम् नियोजय विक्रांतम् त्वम् निवर्तस्व साहसात् ।पश्य रामम् महाबाहुम् संयुगे विनिपातितम् ॥३-२७-२॥
प्रतिजानामि ते सत्यम् आयुधम् च अहम् आलभे ।यथा रामम् वधिष्यामि वधार्हम् सर्व रक्षसाम् ॥३-२७-३॥
अहम् वा अस्य रणे मृत्युः एष वा समरे मम ।विनिवर्त्य रण उत्साहम् मुहूर्तम् प्राश्निको भव ॥३-२७-४॥
प्रहृष्टो वा हते रामे जनस्थानम् प्रयास्यसि ।मयि वा निहते रामम् संयुगाय प्रयास्यसि ॥३-२७-५॥
खरः त्रिशिरसा तेन मृत्यु लोभात् प्रसादितः ।गच्छ युध्य इति अनुज्ञातो राघव अभिमुखो ययौ ॥३-२७-६॥
त्रिशिराः तु रथेन एव वाजि युक्तेन भास्वता ।अभ्यद्रवत् रणे रामम् त्रि शृंग इव पर्वतः ॥३-२७-७॥
शर धारा समूहान् स महामेघ इव उत्सृजन् ।व्यसृजत् सदृशम् नादम् जल आर्द्रस्य इव दुन्दुभेः ॥३-२७-८॥
आगच्छंतम् त्रिशिरसम् राक्षसम् प्रेक्ष्य राघवः ।धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान् ॥३-२७-९॥
स संप्रहारः तुमुलो राम त्रिशिरसोः तदा ।संबभूव अतीव बलिनोः सिंह कुं~जरयोः इव ॥३-२७-१०॥
ततः त्रिशिरसा बाणैः ललाटे ताडितः त्रिभिः ।अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत् ॥३-२७-११॥
अहो विक्रम शूरस्य राक्षसस्य ईदृशम् बलम् ।पुष्पैः इव शरैः यस्य ललाटे अस्मि परिक्षतः ॥३-२७-१२॥
मम अपि प्रतिगृह्णीष्व शरान् चाप गुण च्युतान् ।एवम् उक्त्वा सुसंरब्धः शरान् आशीविष उपमान् ॥३-२७-१३॥
त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर् दश ।चतुर्भिः तुरगान् अस्य शरैः संनत पर्वाभिः ॥३-२७-१४॥
न्यपातयत तेजस्वी चतुरः तस्य वाजिनः ।अष्टभिः सायकैः सूतम् रथ उपस्थे न्यपातयत् ॥३-२७-१५॥
रामः चिच्छेद बाणेन ध्वजम् च अस्य समुच्छ्रितम् ।ततो हत रथात् तस्मात् उत्पतंतम् निशाचरम् ॥३-२७-१६॥
चिच्छेद रामः तम् बाणैः हृदये सो अभवत् जडः ।सायकैः च अप्रमेय आत्मा सामर्षः तस्य रक्षसः ॥३-२७-१७॥
शिरांसि अपातयत् त्रीणि वेगवद्भिः त्रिभिः शतैः ।स धूम शोणित उद्गारी राम बाण अभिपीडितः ॥३-२७-१८॥
न्यपतत् पतितैः पूर्वम् समरस्थो निशाचरः ।हत शेषाः ततो भग्ना राक्षसाः खर संश्रयाः ॥३-२७-१९॥
द्रवन्ति स्म न तिष्ठन्ति व्याघ्र त्रस्ता मृगा इव ।तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः त्वरन् ।रामम् एव अभिदुद्राव राहुः चन्द्रमसम् यथा ॥३-२७-२०॥
निहतम् दूषणम् दृष्ट्वा रणे त्रिशिरसा सह ।खरस्य अपि अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥३-२८-१॥
स दृष्ट्वा राक्षसम् सैन्यम् अविषह्यम् महाबलम् ।हतम् एकेन रामेण दूषणः त्रिशिरा अपि ॥३-२८-२॥
तद् बलम् हत भूयिष्ठम् विमनाः प्रेक्ष्य राक्षसः ।आससाद खरो रामम् नमुचिर् वासवम् यथा ॥३-२८-३॥
विकृष्य बलवत् चापम् नाराचान् रक्त भोजनान् ।खरः चिक्षेप रामाय क्रुद्धान् आशी विषान् इव ॥३-२८-४॥
ज्याम् विधुन्वन् सुबहुशः शिक्षया अस्त्राणि दर्शयन् ।चचार समरे मार्गान् शरै रथ गतः खरः ॥३-२८-५॥
स सर्वाः च दिशो बाणैः प्रदिशः च महारथः ।पूरयामास तम् दृष्ट्वा रामो अपि सुमहत् धनुः ॥३-२८-६॥
स सायकैः दुर्विषहैः स स्फुलिन्गैः इव अग्निभिः ।नभः चकार अविवरम् पर्जन्य इव वृष्टिभिः ॥३-२८-७॥
तद् बभूव शितैः बाणैः खर राम विसर्जितैः ।परि आकाशम् अनाकाशम् सर्वतः शर संकुलम् ॥३-२८-८॥
शर जाल आवृतः सूर्यो न तदा स्म प्रकाशते ।अन्योन्य वध संरम्भात् उभयोः संप्रयुध्यतोः ॥३-२८-९॥
ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः ।आजघान रणे रामम् तोत्रैर् इव महा द्विपम् ॥३-२८-१०॥
तम् रथस्थम् धनुष् पाणिम् राक्षसम् पर्यवस्थितम् ।ददृशुः सर्व भूतानि पाश हस्तम् इव अंतकम् ॥३-२८-११॥
हन्तारम् सर्व सैन्यस्य पौरुषे पर्यवस्थितम् ।परिश्रन्तम् महासत्त्वम् मेने रामम् खरः तदा ॥३-२८-१२॥
तम् सिंहम् इव विक्रान्तम् सिंह विक्रान्त गामिनम् ।दृष्ट्वा न उद्विजते रामः सिंहः क्षुद्र मृगम् यथा ॥३-२८-१३॥
ततः सूर्य निकाशेन रथेन महता खरः ।आससाद अथ तम् रामम् पतंग इव पावकम् ॥३-२८-१४॥
ततो अस्य सशरम् चापम् मुष्टि देशे महात्मनः ।खरः चिच्छेद रामस्य दर्शयन् हस्त लाघवम् ॥३-२८-१५॥
स पुनः तु अपरान् सप्त शरान् आदाय वर्मणि ।निजघान रणे क्रुद्धः शक्र अशनि सम प्रभान् ॥३-२८-१६॥
ततः शर सहस्रेण रामम् अप्रतिम ओजसम् ।अर्दयित्वा महानादम् ननाद समेरे खरः ॥३-२८-१७॥
ततः तत् प्रहतम् बाणैः खर मुक्तैः सुपर्वभिः ।पपात कवचम् भूमौ रामस्य आदित्य वर्चसः ॥३-२८-१८॥
स शरैः अर्पितः क्रुद्धः सर्व गात्रेषु राघवः ।रराज समरे रामो विधूमो अग्निर् इव ज्वलन् ॥३-२८-१९॥
ततो गंभीर निर्ह्रादम् रामः शत्रु निबर्हणः ।चकार अंताय स रिपोः सज्यम् अन्यन् महत् धनुः ॥३-२८-२०॥
सुमहत् वैष्णवम् यत् तत् अतिसृष्टम् महर्षिणा ।वरम् तत् धनुः उद्यम्य खरम् समभिधावत ॥३-२८-२१॥
ततः कनक पुंखैः तु शरैः संनत पर्वभिः ।चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥३-२८-२२॥
स दर्शनीयो बहुधा विच्छिन्नः कांचनो ध्वजः ।जगाम धरणीम् सूर्यो देवतानाम् इव आज्ञया ॥३-२८-२३॥
तम् चतुर्भिः खरः क्रुद्धो रामम् गात्रेषु मार्गणैः ।विव्याध हृदि मर्मज्ञो मातंगम् इव तोमरैः ॥३-२८-२४॥
स रामो बहुभिः बाणैः खर कार्मुक निःसृतैः ।विद्धो रुधिर सिक्तांगो बभूव रुषितो भृशम् ॥३-२८-२५॥
स धनुर् धन्विनाम् श्रेष्ठः प्रगृह्य परम आहवे ।मुमोच परम इष्वासः षट् शरान् अभिलक्षितान् ॥३-२८-२६॥
शिरसि एकेन बाणेन द्वाभ्याम् बाह्वोर् अथ आर्पयत् ।त्रिभिः चन्द्र अर्ध वक्त्रैः च वक्षसि अभिजघान ह ॥३-२८-२७॥
ततः पश्चात् महातेजा नाराचान् भास्कर उपमान् ।जघान राक्षसम् क्रुद्धः त्रयोदश शिला अशितान् ॥३-२८-२८॥
रथस्य युगम् एकेन चतुर्भिः शबलान् हयान् ।षष्ठेन च शिरः संख्ये चिच्छेद खर सारथेः ॥३-२८-२९॥
त्रिभिः त्रिवेणून् बलवान् द्वाभ्याम् अक्षम् महाबलः ।द्वादशेन तु बाणेन खरस्य स शरम् धनुः ॥३-२८-३०॥
छित्त्वा वज्र निकाशेन राघवः प्रहसन् इव ।त्रयोदशेन इन्द्र समो बिभेद समरे खरम् ॥३-२८-३१॥
प्रभग्न धन्वा विरथो हत अश्वो हत सारथिः ।गदा पाणिः अवप्लुत्य तस्थौ भूमौ खरः तदा ॥३-२८-३२॥
तत् कर्म रामस्य महारथस्यसमेत्य देवाः च महर्षयः च ।अपूजयन् प्रांजलयः प्रहृष्टाःतदा विमान अग्र गताः समेताः ॥३-२८-३३॥
खरम् तु विरथम् रामो गदा पाणिम् अवस्थितम् ।मृदु पूर्वम् महातेजाः परुषम् वाक्यम् अब्रवीत् ॥३-२९-१॥
गज अश्व रथ संबाधे बले महति तिष्ठता ।कृतम् सुदारुणम् कर्म सर्व लोक जुगुप्सितम् ॥३-२९-२॥
उद्वेजनीयो भूतानाम् नृशंसः पाप कर्मकृत् ।त्रयाणाम् अपि लोकानाम् ईश्वरो अपि न तिष्ठति ॥३-२९-३॥
कर्म लोक विरुद्धम् तु कुर्वाणम् क्षणदा चर ।तीक्ष्णम् सर्व जनो हन्ति सर्पम् दुष्टम् इव आगतम् ॥३-२९-४॥
लोभात् पापानि कुर्वाणः कामात् वा यो न बुध्यते ।हृष्टः पश्यति तस्य अन्तम् ब्राह्मणी करकात् इव ॥३-२९-५॥
वसतो दण्डकारण्ये तापसान् धर्म चारिणः ।किम् नु हत्वा महाभागान् फलम् प्राप्स्यसि राक्षस ॥३-२९-६॥
न चिरम् पाप कर्माणः क्रूरा लोक जुगुप्सिताः ।ऐश्वर्यम् प्राप्य तिष्ठन्ति शीर्ण मूला इव द्रुमाः ॥३-२९-७॥
अवश्यम् लभते कर्ता फलम् पापस्य कर्मणः ।घोरम् पर्यागते काले द्रुमः पुष्पम् इव आर्तवम् ॥३-२९-८॥
न चिरात् प्राप्यते लोके पापानाम् कर्मणाम् फलम् ।स विषाणाम् इव अन्नानाम् भुक्तानाम् क्षणदाचर ॥३-२९-९॥
पापम् आचरताम् घोरम् लोकस्य अप्रियम् इच्छताम् ।अहम् आसादितो राज्ञा प्राणान् हन्तुम् निशाचर ॥३-२९-१०॥
अद्य भित्वा मया मुक्ताः शराः कांचन भूषणाः ।विदार्य अतिपतिष्यन्ति वल्मीकम् इव पन्नगाः ॥३-२९-११॥
ये त्वया दण्डकारण्ये भक्षिता धर्म चारिणः ।तान् अद्य निहतः संख्ये स सैन्यो अनुगमिष्यसि ॥३-२९-१२॥
अद्य त्वाम् निहतम् बाणैः पश्यन्तु परमर्षयः ।निरयस्थम् विमानस्था ये त्वया निहता पुरा ॥३-२९-१३॥
प्रहरस्व यथा कामम् कुरु यत्नम् कुलाधम ।अद्य ते पातयिष्यामि शिरः ताल फलम् यथा ॥३-२९-१४॥
एवम् उक्तः तु रामेण क्रुद्धः संरक्त लोचनः ।प्रति उवाच ततो रामम् प्रहसन् क्रोध मूर्चितः ॥३-२९-१५॥
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथ आत्मज ।आत्मना कथम् आत्मानम् अप्रशस्यम् प्रशम्ससि ॥३-२९-१६॥
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ।कथयन्ति न ते किंचित् तेजसा स्वेन गर्विताः ॥३-२९-१७॥
प्राकृताः तु अकृत आत्मानो लोके क्षत्रिय पांसनाः ।निरर्थकम् विकत्थन्ते यथा राम विकत्थसे ॥३-२९-१८॥
कुलम् व्यपदिशन् वीरः समरे को अभिधास्यति ।मृत्यु काले हि संप्राप्ते स्वयम् अप्रस्तवे स्तवम् ॥३-२९-१९॥
सर्वथा तु लघुत्वम् ते कत्थनेन विदर्शितम् ।सुवर्ण प्रतिरूपेण तप्तेन इव कुश अग्निना ॥३-२९-२०॥
न तु माम् इह तिष्ठंतम् पश्यसि त्वम् गदा धरम् ।धराधरम् इव अकंप्यम् पर्वतम् धातुभिः चितम् ॥३-२९-२१॥
पर्याप्तो अहम् गदा पाणिर् हन्तुम् प्राणान् रणे तव ।त्रयाणाम् अपि लोकानाम् पाश हस्त इव अंतकः ॥३-२९-२२॥
कामम् बहु अपि वक्तव्यम् त्वयि वक्ष्यामि न तु अहम् ।अस्तम् प्राप्नोति सविता युद्ध विघ्नः ततो भवेत् ॥३-२९-२३॥
चतुर्दश सहस्राणि राक्षसानाम् हतानि ते ।त्वत् विनाशात् करोमि अद्य तेषाम् अश्रु प्रमार्जनम् ॥३-२९-२४॥
इति उक्त्वा परम क्रुद्धः ताम् गदाम् परम अन्गदाम् ।खरः चिक्षेप रामाय प्रदीप्ताम् अशनिम् यथा ॥३-२९-२५॥
खर बाहु प्रमुक्ता सा प्रदीप्ता महती गदा ।भस्म वृक्षाम् च गुल्माम् च कृत्वा अगात् तत् समीपतः ॥३-२९-२६॥
ताम् आपतन्तीम् महतीम् मृत्यु पाश उपमाम् गदाम् ।अंतरिक्ष गताम् रामः चिच्छेद बहुधा शरैः ॥३-२९-२७॥
सा विशीर्णा शरैः भिन्ना पपात धरणी तले ।गदा मंत्र औषधि बलैर् व्याली इव विनिपातिता ॥३-२९-२८॥
भित्त्वा तु ताम् गदाम् बाणैः राघवो धर्म वत्सलः ।स्मयमानः खरम् वाक्यम् संरब्धम् इदम् अब्रवीत् ॥३-३०-१॥
एतत् ते बल सर्वस्वम् दर्शितम् राक्षसाधम ।शक्ति हीनतरो मत्तो वृथा त्वम् उपगर्जसि ॥३-३०-२॥
एषा बाण विनिर्भिन्ना गदा भूमि तलम् गता ।अभिधान प्रगल्भस्य तव प्रत्यय घातिनी ॥३-३०-३॥
यत् त्वया उक्तम् विनष्टानाम् इदम् अश्रु प्रमार्जनम् ।राक्षसानाम् करोमि इति मिथ्या तत् अपि ते वचः ॥३-३०-४॥
नीचस्य क्षुद्र शीलस्य मिथ्या वृत्तस्य रक्षसः ।प्राणान् अपहरिष्यामि गरुत्मान् अमृतम् यथा ॥३-३०-५॥
अद्य ते भिन्न कण्ठस्य फेन बुद्बुद भूषितम् ।विदारितस्य मत् बाणैः मही पास्यति शोणितम् ॥३-३०-६॥
पांसु रूषित सर्वान्गः स्रस्त न्यस्त भुज द्वयः ।स्वप्स्यसे गाम् समाश्लिष्य दुर्लभाम् प्रमदाम् इव ॥३-३०-७॥
प्रवृद्ध निद्रे शयिते त्वयि राक्षस पांसने ।भविष्यन्ति अशरण्यानाम् शरण्या दण्डका इमे ॥३-३०-८॥
जनस्थाने हत स्थाने तव राक्षस मत् शरैः ।निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥३-३०-९॥
अद्य विप्रसरिष्यन्ति राक्षस्यो हत बान्धवाः ।बाष्प आर्द्र वदना दीना भयात् अन्य भयावहाः ॥३-३०-१०॥
अद्य शोक रसज्ञाः ताः भविष्यन्ति निरर्थकाः ।अनुरूप कुलाः पत्न्यो यासाम् त्वम् पतिः ईदृशः ॥३-३०-११॥
नृशंस शील क्षुद्र आत्मन् नित्यम् ब्राह्मण कण्टक ।त्वत् कृते शन्कितैः अग्नौ मुनिभिः पात्यते हविः ॥३-३०-१२॥
तम् एवम् अभिसंरब्धम् ब्रुवाणम् राघवम् रणे ।खरो निर्भर्त्सयामास रोषात् खरतर स्वरः ॥३-३०-१३॥
दृढम् खलु अवलिप्तो असि भयेषु अपि च निर्भयः ।वाच्य अवाच्यम् ततो हि त्वम् मृत्यु वश्यो न बुध्यसे ॥३-३०-१४॥
काल पाश परिक्षिप्ता भवंति पुरुषा हि ये ।कार्य अकार्यम् न जानन्ति ते निरस्त षड् इन्द्रियाः ॥३-३०-१५॥
एवम् उक्त्वा ततो रामम् संरुध्य भृकुटिम् ततः ।स ददर्श महा सालम् अविदूरे निशाचरः ॥३-३०-१६॥
रणे प्रहरणस्य अर्थे सर्वतो हि अवलोकयन् ।स तम् उत्पाटयामास संदष्ट दशन च्छदम् ॥३-३०-१७॥
तम् समुत्क्षिप्य बाहुभ्याम् विनर्दित्वा महाबलः ।रामम् उद्दिश्य चिक्षेप हतः त्वम् इति च अब्रवीत् ॥३-३०-१८॥
तम् आपतन्तम् बाण ओघैः च्छित्त्वा रामः प्रतापवान् ।रोषम् आहारयत् तीव्रम् निहंतुम् समरे खरम् ॥३-३०-१९॥
जात स्वेदः ततो रामो रोषात् रक्त अन्त लोचनः ।निर्बिभेद सहस्रेण बाणानाम् समरे खरम् ॥३-३०-२०॥
तस्य बाण अंतरात् रक्तम् बहु सुस्राव फेनिलम् ।गिरेः प्रस्रवणस्य इव धाराणाम् च परिस्रवः ॥३-३०-२१॥
विकल स कृतो बाणैः खरो रामेण संयुगे ।मत्तो रुधिर गन्धेन तम् एव अभ्यद्रवत् द्रुतम् ॥३-३०-२२॥
तम् आपतंतम् संरब्धम् कृत अस्त्रो रुधिर आप्लुतम् ।अपसर्पत् द्वि त्रि पदम् किंचित् त्वरित विक्रमः ॥३-३०-२३॥
ततः पावक संकाशम् वधाय समरे शरम् ।खरस्य रामो जग्राह ब्रह्म दण्डम् इव अपरम् ॥३-३०-२४॥
स तत् दत्तम् मघवता सुर राजेन धीमता ।संदधे च स धर्मात्मा मुमोच च खरम् प्रति ॥३-३०-२५॥
स विमुक्तो महाबाणो निर्घात सम निःस्वनः ।रामेण धनुरायम्य खरस्य उरसि च आपतत् ॥३-३०-२६॥
स पपात खरो भूमौ दह्यमानः शर अग्निना ।रुद्रेण एव विनिर्दग्धः श्वेत अरण्ये यथा अन्धकः ॥३-३०-२७॥
स वृत्र इव वज्रेण फेनेन नमुचिर् यथाअ ।बलो वा इन्द्र अशनि हतो निपपात हतः खरः ॥३-३०-२८॥
एतस्मिन् अंतरे देवाः चारणयोः सह संगताः ।दुन्दुभिः च अभिनिघ्नंतः पुष्प वर्ष समंततः ॥३-३०-२९॥
रामस्य उपरि संहृष्टा ववर्षुः विस्मिताः तदा ।अर्थ अधिक मुहूर्तेन रामेण निशितैः शरैः ॥३-३०-३०॥
चतुर् दश सहस्राणि रक्ष्साम् काम रूपिणाम् ।खर दूषण मुख्यानाम् निहतानि महामृधे ॥३-३०-३१॥
अहो बत महत् कर्म रामस्य विदित आत्मनः ।अहो वीर्यम् अहो दार्ढ्यम् विष्णोः इव हि दृश्यते ॥३-३०-३२॥
इति एवम् उक्त्वा ते सर्वे ययुः देवा यथा आगतम्।ततो राज ऋषयः सर्वे सम्गताः परम ऋषयः ॥३-३०-३३॥
सभाज्य मुदिता रामम् स अगस्त्या इदम् अब्रुवन् ।एतत् अर्थम् महातेजा महेन्द्रः पाक शासनः ॥३-३०-३४॥
शरभंग आश्रमम् पुण्यम् आजगाम पुरंदरः ।आनीतः त्वम् इमम् देशम् उपायेन महर्षिभिः ॥३-३०-३५॥
एषाम् वध अर्थम् शत्रूणाम् रक्षसाम् पाप कर्मणाम् ।तत् इदम् नः कृतम् कार्यम् त्वया दशरथ आत्मज ॥३-३०-३६॥
स्व धर्मम् प्रचरिष्यन्ति दण्डकेषु महर्षयः ।एतस्मिन् अनंतरे वीरो लक्ष्मणः सह सीतया ॥३-३०-३७॥
गिरि दुर्गात् विनिष्क्रम्य संविवेश आश्रमम् सुखी ।ततो रामः तु विजयी पूज्यमानो महर्षिभिः ॥३-३०-३८॥
प्रविवेश आश्रमम् वीरो लक्ष्मणेन अभिपूजितः ।तम् दृष्ट्वा शत्रु हंतारम् महर्षीणाम् सुख आवहम् ॥३-३०-३९॥
बभूव हृष्टा वैदेही भर्तारम् परिष्वजे ।मुदा परमया युक्ता दृष्ट्वा रक्षो गणान् हतान् ।रामम् च एव अव्ययम् दृष्टा तुतोष जनक आत्मजा ॥३-३०-४०॥
ततः तु तम् राक्षस संघ मर्दनम्स पूज्यमानम् मुदितैः महात्मभिः ।पुनः परिष्वज्य मुदा अन्वित आननाबभूव हृष्टा जनक आत्मजा तदा ॥३-३०-४१॥
त्वरमणः ततो गत्वा जनस्थानात् अकंपनः ।प्रविश्य लंकाम् वेगेन रावणम् वाक्यम् अब्रवीत् ॥३-३१-१॥
जनस्थान स्थिता राजन् रक्षसा बहवो हताः ।खरः च निहतः संख्ये क्थम्चित् अहम् आगतः ॥३-३१-२॥
एवम् उक्तो दशग्रीवः क्रुद्धः संरकत लोचनः ।अकंपनम् उवाच इदम् निर्दहन् इव तेजसा ॥३-३१-३॥
केन भीमम् जनस्थानम् हतम् मम परासुना ।को हि सर्वेषु लोकेषु गतिम् न अधिगमिष्यति ॥३-३१-४॥
न हि मे विप्रियम् कृता शक्यम् मघवता सुखम् ।प्रप्तुम् वैश्रवणेन अपि न यमेन च विष्णुना ॥३-३१-५॥
कालस्य च अपि अहम् कलो दहेयम् अपि पावकम् ।मृत्युम् मरण धर्मेण संयोजयितुम् उत्सहे ॥३-३१-६॥
वातस्य तरसा वेगम् निहन्तुम् अपि च उत्सहे ।दहेयम् अपि संक्रुद्धः तेजसा आदित्य पावकौ ॥३-३१-७॥
तथा क्रुद्धम् दशग्रीवम् कृतांजलिः अकंपनः ।भयात् संदिग्धया वचा रावणम् याचते अभयम् ॥३-३१-८॥
दशग्रीवो अभयम् तस्मै प्रददौ रक्षसाम् वरः ।स विस्रब्धो अब्रवीत् वाक्यम् असंदिग्धम् अकंपनः ॥३-३१-९॥
पुत्रो दशरथः ते सिंह संहननो युवा ।रामो नाम महास्कंधो वृत्त आयत महाभुजः ॥३-३१-१०॥
श्यामः पृथुयशाः श्रीमान् अतुल्य बल विक्रमः ।हतः तेन जनस्थाने खरः च सह दूषणः ॥३-३१-११॥
अकंपन वचः श्रुत्वा रावणो राक्षसाधिप ।नागेन्द्र इव निःश्वस्य इदम् वचनम् अब्रवीत् ॥३-३१-१२॥
स सुरेन्द्रेण संयुक्तो रामः सर्व अमरैः सह ।उपयातो जनस्थानम् ब्रूहि कच्चित् अकंपन ॥३-३१-१३॥
रावणस्य पुनर् वाक्यम् निशम्य तद् अकंपनः ।आचचक्षे बलम् तस्य विक्रमम् च महात्मनः ॥३-३१-१४॥
रामो नाम महातेजाः श्रेष्टः सर्व धनुष्मताम् ।दिव्य अस्त्र गुण संपन्नः परम्धर्म गतो युधि ॥३-३१-१५॥
तस्य अनुरूपो बलब्वान् रक्ताक्षो दुन्दुभि स्वनः ।कनीयान् लक्ष्मणो भ्राता राका शशि निभ आननः ॥३-३१-१६॥
स तेन सह संयुक्तः पावकेन अनिलो यथा ।श्रीमान् राज वरः तेन जनस्थानम् निपातितम् ॥३-३१-१७॥
न एव देवा महत्मनो न अत्र कार्या विचारणा ।शरा रामेण तु उत्सृष्टा रुक्मपुंखाः पतत्रिणः ॥३-३१-१८॥
सर्पाः पंचानना भूत्वा भक्षयन्ति स्म राक्षसान् ।येन येन च गच्छन्ति राक्षसा भय कर्शिताः ॥३-३१-१९॥
तेन तेन स्म पश्यन्ति रामम् एव अग्रतः स्थितम् ।इत्थम् विनाशितम् जनस्थानम् तेन तव अनघ ॥३-३१-२०॥
अकंपन अचः श्रुत्वा रावणो वाक्यम् अब्रवीत् ।गमिष्यामि जनस्थनम् रामम् हन्तुम् स लक्ष्मणम् ॥३-३१-२१॥
अथ एवम् उक्ते वचने प्रोवाच इदम् अकंपनः ।श्रुणु राजन् यथा वृत्तम् रामस्य बल पौरुषम् ॥३-३१-२२॥
असाध्यः कुपितो रामो विक्रमेण महायशाः ।आप गायाः तु पूर्णाया वेगम् परिहरेत् शरैः ॥३-३१-२३॥
स तारा ग्रह नक्षत्रम् नभः च अपि अवसादयेत् ।असौ रामः तु सीदन्तीम् श्रीमान् अभ्युद्धरेत् महीम् ॥३-३१-२४॥
भित्वा वेलाम् समुद्रस्य लोकान् आप्लावयेत् विभुः ।वेगम् वा अपि समुद्रस्य वाअयुम् वा विधमेत् शरैः ॥३-३१-२५॥
संहृत्य वा पुनर् लोकान् विक्रमेण महायशाः ।शकतः श्रेष्ठः स पुरुषः स्रष्टुम् पुनर् अपि प्रजाः ॥३-३१-२६॥
न हि रामो दशग्रीव शक्यो जेतुम् रणे त्वया ।रक्षसाम् वा अपि लोकेन स्वर्गः पाप जनैः इव ॥३-३१-२७॥
न तम् वध्यम् अहम् मन्ये सर्वैः देव असुरैः अपि ।अयम् अस्य वध उपाय तत् एकमनाः शृउणु ॥३-३१-२८॥
भार्या तस्य उत्तमा लोके सीता नाम सुमध्यमा ।श्यामा सम विभक्त अंगी स्त्री रत्नम् रत्न बूषिता ॥३-३१-२९॥
न एव देवी न गन्धर्वी न अप्सरा न च पन्नगी ।तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत् ॥३-३१-३०॥
तस्य अपहर भार्याम् त्वम् तम् प्रमथ्य महावने ।सीताया रहितो रामो न च एव हि भविष्यति ॥३-३१-३१॥
अरोचयत् तद् वाक्यम् रावणो राक्षस अधिपः ।चिंतयित्वा महाबाहुः अकंपनम् उवाच ॥३-३१-३२॥
बाढम् कल्यम् गमिष्यामि हि एकः सारथिना सह ।आनेष्यामि च वैदेहीम् इमाम् हृष्टो महा पुरीम् ॥३-३१-३३॥
तत् एवम् उक्त्वा प्रययौ खर युक्तेन रावणः ।रथेन आदित्य वर्णेन दिशः सर्वाः प्रकाशयन् ॥३-३१-३४॥
स रथो राक्षस इंद्रस्य नक्षत्र पथगो महान् ।चंचूर्यमानः शुशुभे जलदे चंद्रमा इव ॥३-३१-३५॥
स दूरे च आश्रमम् गत्वा ताटकेयम् उपागतम् ।मारीचेन अर्चितो राजा भक्ष्य भोज्यैः अमानुषैः ॥३-३१-३६॥
तम् स्वयम् पूजयित्वा तु आसनेन उदकेन च ।अर्थ उपहितया वाचा मारीचो वाक्यम् अब्रवीत् ॥३-३१-३७॥
कश्चित् सुकुशलम् राजन् लोकानाम् राक्षसाधिप ।आशंके न अथ जाने त्वम् यतः तूर्णम् उपागतम् ॥३-३१-३८॥
एवम् उक्तो महातेजा मारीचेन स रावण ।ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः ॥३-३१-३९॥
आरक्षो मे हतः तात रामेण अक्लिष्ट कारिणा ।जनस्थानम् अवध्यम् तत् सर्वम् युधि निपातितम् ॥३-३१-४०॥
तस्य मे कुरु साचिव्यम् तस्य भार्य अपहरणे ।राक्षसेन्द्र वचः श्रुत्वा मारीचो वाक्यम् अब्रवीत् ॥३-३१-४१॥
आख्याता केन वा सीता मित्र रूपेण शत्रुणा ।त्वया राक्षस शार्दूल को न नंदति नंदितः ॥३-३१-४२॥
सीताम् इह आनस्व इति को ब्रवीति ब्रवीहि मे ।रक्षो लोकस्य सर्वस्य कः शृंगम् च्छेत्तुम् इच्छति ॥३-३१-४३॥
प्रोत्साहयति यः च त्वम् स च शत्रुः असंशयम् ।आशी मुखात् दंष्ट्राम् उद्धर्तुम् च इच्छति त्वया ॥३-३१-४४॥
कर्मणा अनेन केन असि कापथम् प्रतिपादितः ।सुख सुप्तस्य ते राजन् प्रहृतम् केन मूर्धनि ॥३-३१-४५॥
विशुद्ध वंश अभिजना अग्र हस्तःतेजो मदः संस्थित दोर्??? विषाणः ।उदीक्षितुम् रावण न इह युक्तःस संयुगे राघव गन्धि हस्ती ॥३-३१-४६॥
असौ रण अन्तः स्थिति संधि वालःविदग्ध रक्षो मृग हा नृसिंहः ।सुप्तः त्वया बोधयितुम् न शक्यःशारांग पुर्णो निशित असि दंष्ट्Rअः ॥३-३१-४७॥
चापापहारे भुज वेग पंकेशर ऊर्मिमाले सु महा आहव ओघे ।न राम पाताल मुखे अति घोरेप्रस्कन्दितुम् राक्षस राज युक्तम् ॥३-३१-४८॥
प्रसीद लंकेश्वर राक्षसेन्द्रलंकाम् प्रसन्नो भव साधु गच्छ ।त्वम् स्वेषु दारेषु रमस्व नित्यम्रामः स भार्यो रमताम् वनेषु ॥३-३१-४९॥
एवम् उक्तो दशग्रीवो मारीचेन स रावणः ।न्यवर्तत पुरीम् लंकाम् विवेश च गृह उत्तमम् ॥३-३१-५०॥
ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश ।हतानि एकेन रामेण रक्षसाम् भीम कर्मणाम् ॥३-३२-१॥
दूषणम् च खरम् चैव हतम् त्रिशिरसम् रणे ।दृष्ट्वा पुनर् महानादम् ननाद जलद उपमा ॥३-३२-२॥
सा दृष्ट्वा कर्म रामस्य कृतम् अन्यैः सुदुष्करम् ।जगाम परम उद्विग्ना लंकाम् रावण पालिताम् ॥३-३२-३॥
सा ददर्श विमान अग्रे रावणम् दीप्त तेजसम् ।उपोपविष्टम् सचिवैः मरुद्भिः इव वासवम् ॥३-३२-४॥
आसीनम् सूर्य संकाशे कांचने परमासने ।रुक्म वेदि गतम् प्राज्यम् ज्वलंतम् इव पावकम् ॥३-३२-५॥
देव गन्धर्व भूतानाम् ऋषीणाम् च महात्मनाम् ।अजेयम् समरे घोरम् व्यात्त आननम् इव अन्तकम् ॥३-३२-६॥
देव असुर विमर्देषु वज्र अशनि कृत व्रणम् ।ऐरावत विषाण अग्रैः उत्कृष्ट किण वक्षसम् ॥३-३२-७॥
विंशत् भुजम् दश ग्रीवम् दर्शनीय परिच्छदम् ।विशाल वक्षसम् वीरम् राज लक्ष्मण लक्षितम् ॥३-३२-८॥
नद्ध वैदूर्य संकाशम् तप्त कान्चन कुण्डलम् ।सुभुजम् शुक्ल दशनम् महा आस्यम् पर्वतोपमम् ॥३-३२-९॥
विष्णु चक्र निपातैः च शतशो देव संयुगे ।अन्यैः शस्त्रैः प्रहारैः च महायुद्धेषु ताडितम् ॥३-३२-१०॥
आहत अंगम् समस्तैः च देव प्रहरणैः तथा ।अक्षोभ्याणाम् समुद्राणाम् क्षोभणम् क्षिप्र कारिणम् ॥३-३२-११॥
क्षेप्तारम् पर्वत अग्राणाम् सुराणाम् च प्रमर्दनम् ।उच्छेत्तारम् च धर्माणाम् पर दार अभिमर्शनम् ॥३-३२-१२॥
सर्व दिव्य अस्त्र योक्तारम् यज्ञ विघ्न करम् सदा ।पुरीम् भोगवतीम् गत्वा पराजित्य च वासुकिम् ॥३-३२-१३॥
तक्षकस्य प्रियाम् भार्याम् पराजित्य जहार यः ।कैलासम् पर्वतम् गत्वा विजित्य नर वाहनम् ॥३-३२-१४॥
विमानम् पुष्पकम् तस्य कामगम् वै जहार यः ।वनम् चैत्ररथम् दिव्यम् नलिनीम् नंदनम् वनम् ॥३-३२-१५॥
विनाशयति यः क्रोधात् देव उद्यानानि वीर्यवान् ।चन्द्र सूर्यौ महा भागौ उत्तिष्ठन्तौ परंतपौ ॥३-३२-१६॥
निवारयति बाहुभ्याम् यः शैल शिखरोपमः ।दश वर्ष सहस्राणि तपः तप्त्वा महावने ॥३-३२-१७॥
पुरा स्वयंभुवे धीरः शिरांसि उपजहार यः ।देव दानव गधर्व पिशाच पतग उरगैः ॥३-३२-१८॥
अभयम् यस्य संग्रामे मृत्युतो मानुषाद् ऋते ।मन्त्रैः अभितुष्टम् पुण्यम् अध्वरेषु द्विजातिभिः ॥३-३२-१९॥
हविर्धानेषु यः सोमम् उपहन्ति महाबलः ।प्राप्त यज्ञ हरम् दुष्टम् ब्रह्म घ्नम् क्रूर कारिणम् ॥३-३२-२०॥
कर्कशम् निरनुक्रोशम् प्रजानाम् अहिते रतम् ।रावणम् सर्व भूतानाम् सर्व लोक भयावहम् ॥३-३२-२१॥
राक्षसी भ्रातरम् क्रूरम् सा ददर्श महाबलम् ।तम् दिव्य वस्त्र आभरणम् दिव्य माल्य उपशोभितम् ॥३-३२-२२॥
आसने सूपविष्टम् तम् काले कालम् इव उद्यतम् ।राक्षसेन्द्रम् महाभागम् पौलस्त्य कुल नन्दनम् ॥३-३२-२३॥
उपगम्य अब्रवीत् वाक्यम् राक्षसी भय विह्वला ।रावणम् शत्रु हन्तारम् मंत्रिभिः परिवारितम् ॥३-३२-२४॥
तम् अब्रवीत् दीप्त विशाल लोचनम्प्रदर्शयित्वा भय लोभ मोहिता ।सुदारुणम् वाक्यम् अभीत चारिणीमहात्मना शूर्पणखा विरूपिता ॥३-३२-२५॥
ततः शूर्पणखा दीना रावणम् लोक रावणम् ।अमात्य मध्ये संक्रुद्धा परुषम् वाक्यम् अब्रवीत् ॥३-३३-१॥
प्रमत्तः काम भोगेषु स्वैर वृत्तो निरंकुशः ।समुत्पन्नम् भयम् घोरम् बोद्धव्यम् न अवबुध्यसे ॥३-३३-२॥
सक्तम् ग्राम्येषु भोगेषु काम वृत्तम् महीपतिम् ।लुब्धम् न बहु मन्यन्ते श्मशान अग्निम् इव प्रजाः ॥३-३३-३॥
स्वयम् कार्याणि यः काले न अनुतिष्ठति पार्थिवः ।स तु वै सह राज्येन तैः च कार्यैः विनश्यति ॥३-३३-४॥
अयुक्त चारम् दुर्दर्शम् अस्वाधीनम् नराधिपम् ।वर्जयन्ति नरा दूरात् नदी पंकम् इव द्विपाः ॥३-३३-५॥
ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः ।ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥३-३३-६॥
आत्मवद्भिः विगृह्य त्वम् देव गंधर्व दानवैः ।अयुक्त चारः चपलः कथम् राजा भविष्यसि ॥३-३३-७॥
त्वम् तु बाल स्वभावत् च बुद्धि हीनः च राक्षस ।ज्ञातव्यम् तु न जानीषि कथम् राजा भविष्यसि ॥३-३३-८॥
येषाम् चारः च कोशः च नयः च जयताम् वर ।अस्वाधीना नरेन्द्राणाम् प्राकृतैः ते जनैः समाः ॥३-३३-९॥
यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः ।चारेण तस्मात् उच्यन्ते राजानो दीर्घ चक्षुषः ॥३-३३-१०॥
अयुक्त चारम् मन्ये त्वाम् प्राकृतैः सचिवैः युतः ।स्व जनम् च जनस्थानम् निहतम् न अवबुध्यसे ॥३-३३-११॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।हतानि एकेन रामेण खरः च सह दूषणः ॥३-३३-१२॥
ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ।धर्षितम् च जनस्थानम् रामेण अक्लिष्ट कारिणा ॥३-३३-१३॥
त्वम् तु लुब्धः प्रमत्तः च पराधीनः च रावण ।विषये स्वे समुत्पन्नम् यो भयम् न अवबुध्यसे ॥३-३३-१४॥
तीक्ष्णम् अल्प प्रदातारम् प्रमत्तम् गर्वितम् शठम् ।व्यसने सर्व भूतानि न अभिधावन्ति पार्थिवम् ॥३-३३-१५॥
अतिमानिनम् अग्राह्यम् आत्म संभावितम् नरम् ।क्रोधिनम् व्यसने हन्ति स्व जनो अपि नराधिपम् ॥३-३३-१६॥
न अनुतिष्ठति कार्याणि भयेषु न बिभेति च ।क्षिप्रम् राज्यात् च्युतो दीनः तृणैः तुल्यो भवेत् इह ॥३-३३-१७॥
शुष्क काष्ठैः भवेत् कार्यम् लोष्टैः अपि च पांसुभिः ।न तु स्थानात् परिभ्रष्टैः कार्यम् स्यात् वसुधाधिपैः ॥३-३३-१८॥
उपभुक्तम् यथा वासः स्रजो वा मृदिता यथा ।एवम् राज्यात् परिभ्रष्टः समर्थो अपि निरर्थकः ॥३-३३-१९॥
अप्रमत्तः च यो राजा सर्वज्ञो विजितेन्द्रियः ।कृतज्ञो धर्म शीलः च स राजा तिष्ठते चिरम् ॥३-३३-२०॥
नयनाभ्याम् प्रसुप्तो वा जागर्ति नय चक्षुषा ।व्यक्त क्रोध प्रसादः च स राजा पूज्यते जनैः ॥३-३३-२१॥
त्वम् तु रावण दुर्बुद्धिः गुणैः एतैः विवर्जितः ।यस्य ते अविदितः चारैः रक्षसाम् सुमहान् वधः ॥३-३३-२२॥
पर अवमंता विषयेषु संगवान्न देश काल प्रविभाग तत्त्व वित् ।अयुक्त बुद्धिः गुण दोष निश्चयेविपन्न राज्यो न चिरात् विपत्स्यते ॥३-३३-२३॥
इति स्व दोषान् परिकीर्तिताम् तयासमीक्ष्य बुद्ध्या क्षणदा चरेश्वरः ।धनेन दर्पेण बलेन च अन्वितोविचिन्तयामास चिरम् स रावणः ॥३-३३-२४॥
आश्रमम् प्रति याते तु खरे खर पराक्रमे ।तान् एव औत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥३-२४-१॥
ततः शूर्पणखाम् दृष्ट्वा ब्रुवन्तीम् परुषम् वचः ।अमात्य मध्ये संकृउद्धः परिपप्रच्छ रावणः ॥३-३४-१॥
तान् उत्पातान् महाघोरान् रामो दृष्ट्वा अति अमर्षण ।प्रजानाम् अहितान् दृष्ट्वा वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-२४-२॥
कः च रामः कथम् वीर्यः किम् रूपः किम् पराक्रमः ।किम् अर्थम् दण्डकारण्यम् प्रविष्टः च सुदुस्तरम् ॥३-३४-२॥
इमान् पश्य महाबाहो सर्व भूत अपहारिणः ।समुत्थितान् महा उत्पातान् संहर्तुम् सर्व राक्षसान् ॥३-२४-३॥
आयुधम् किम् च रामस्य येन ते राक्षसाः हता ।खरः च निहतः संख्ये दूषणः त्रिशिराः तथा ॥३-३४-३॥
अमी रुधिर धाराः तु विसृजंतो खर स्वनाः ।व्योम्नि मेघा निवर्तन्ते परुषा गर्दभ अरुणाः ॥३-२४-४॥
तत् त्वम् ब्रूहि मनोज्ञान्गी केन त्वम् च विरूपिता ।इति उक्ता राक्षस इन्द्रेण राक्षसी क्रोध मूर्च्छिता ॥३-३४-४॥
स धूमाः च शराः सर्वे मम युद्ध अभिनन्दिताः ।रुक्म पृष्ठानि चापानि विचेष्टन्ते विचक्षण ॥३-२४-५॥
ततो रामम् यथा न्यायम् आख्यातुम् उपचक्रमे ।दीर्घबाहुः विशालाक्षः चीर कृष्ण अजिन अम्बरः ॥३-३४-५॥
यादृशा इह कूजन्ति पक्षिणो वन चारिणः ।अग्रतो नः भयम् प्राप्तम् संशयो जीवितस्य च ॥३-२४-६॥
कन्दर्प सम रूपः च रामो दशरथ आत्मजः ।शक्र चाप निभम् चापम् विकृष्य कनकांगदम् ॥३-३४-६॥
संप्रहारः तु सुमहान् भविष्यति न संशयः ।अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः ॥३-२४-७॥
दीप्तान् क्षिपति नाराचान् सर्पान् इव महा विषान् ।न आददानम् शरान् घोरान् न मुंचंतम् महाबलम् ॥३-३४-७॥
संनिकर्षे तु नः शूर जयम् शत्रोः पराजयम् ।सुप्रभम् च प्रसन्नम् च तव वक्त्रम् हि लक्ष्यते ॥३-२४-८॥
न कार्मुकम् विकर्षन्तम् रामम् पश्यामि संयुगे ।हन्यमानम् तु तत् सैन्यम् पश्यामि शर वृष्टिभिः ॥३-३४-८॥
उद्यतानाम् हि युद्धार्थम् येषाम् भवति लक्ष्मणः ।निष्प्रभम् वदनम् तेषाम् भवति आयुः परिक्षयः ॥३-२४-९॥
इन्द्रेण इव उत्तमम् सस्यम् आहतम् तु अश्म वृष्टिभिः ।रक्षसाम् भीम वीर्याणाम् सहस्राणि चतुर्दश ॥३-३४-९॥
रक्षसाम् नर्दताम् घोरः श्रूयते अयम् महाध्वनिः ।आहतानाम् च भेरीणाम् राक्षसैः क्रूर कर्मभिः ॥३-२४-१०॥
निहतानि शरैः तीक्ष्णैः तेन एकेन पदातिना ।अर्धाधिक मुहूर्तेन खरः च सह दूषणः ॥३-३४-१०॥
अनागत विधानम् तु कर्तव्यम् शुभम् इच्छता ।आपदम् शंकमानेन पुरुषेण विपश्चिता ॥३-२४-११॥
ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ॥३-३४-११॥
तस्मात् गृहीत्वा वैदेहीम् शर पाणिः धनुर् धरः ।गुहाम् आश्रय शैलस्य दुर्गाम् पादप संकुलाम् ॥३-२४-१२॥
एका कथंचित् मुक्ता अहम् परिभूय महात्मना ।स्त्री वधम् शंकमानेन रामेण विदितात्मना ॥३-३४-१२॥
प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदम् त्वया ।शापितो मम पादाभ्याम् गम्यताम् वत्स मा चिरम् ॥३-२४-१३॥
भ्राता च अस्य महातेजा गुणतः तुल्य विक्रमः ।अनुरक्तः च भक्तः च लक्ष्मणो नाम वीर्यवान् ॥३-३४-१३॥
त्वम् हि शूरः च बलवान् हन्या एतान् न संशयः ।स्वयम् निहन्तुम् इच्छमि सर्वान् एव निशाचरान् ॥३-२४-१४॥
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।रामस्य दक्षिणे बाहुः नित्यम् प्राणो बहिः चरः ॥३-३४-१४॥
एवम् उक्तः तु रामेण लक्ष्मणः सह सीतया ।शरान् आदाय चापम् च गुहाम् दुर्गाम् समाश्रयत् ॥३-२४-१५॥
रामस्य तु विशालाक्षी पूर्णेन्दु सदृश आनना ।धर्म पत्नी प्रिया नित्यम् भर्तृः प्रिय हिते रता ॥३-३४-१५॥
तस्मिन् प्रविष्टे तु गुहाम् लक्ष्मणे सह सीतया ।हन्त निर्युक्तम् इति उक्त्वा रामः कवचम् आविशत् ॥३-२४-१६॥
सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी ।देवत इव वनस्थ अस्यराजते श्रीर् इव अपरा ॥३-३४-१६॥
स तेन अग्नि निकाशेन कवचेन विभूषितः ।बभूव रामः तिमिरे महान् अग्निर् इव उत्थितः ॥३-२४-१७॥
तप्त कांचन वर्ण आभा रक्त तुंग नखी शुभा ।सीता नाम वरारोहा वैदेही तनु मध्यमा ॥३-३४-१७॥
स चापम् उद्यम्य महत् शरान् आदाय वीर्यवान् ।संबभूव अवस्थितः तत्र ज्या स्वनैः पूरयन् दिशः ॥३-२४-१८॥
न एव देवी न गंधर्वा न यक्षी न च किंनरी ।तथा रूपा मया नारी दृष्ट पूर्वा महीतले ॥३-३४-१८॥
ततो देवाः सगन्धर्वाः सिद्धाः च सह चारणैः ।समेयुः च महात्मनो युद्ध दर्शन कांक्षया ॥३-२४-१९॥
यस्य सीता भवेत् भार्या यम् च हृष्टा परिष्वजेत् ।अति जीवेत् स सर्वेषु लोकेषु अपि पुरंदरात् ॥३-३४-१९॥
ऋषयः च महात्मनो लोके ब्रह्मर्षि सत्तमाः ।समेत्य च ऊचुः सहिताः ते अन्योन्यम् पुण्य कर्मणः ॥३-२४-२०॥
सा सुशीला वपुः श्लाघ्या रूपेण अप्रतिमा भुवि ।तव अनुरूपा भार्या सा त्वम् च तस्याः पतिः वरः ॥३-३४-२०॥
स्वस्ति गो ब्राह्मणानाम् च लोकानाम् च इति संस्थिताः ।जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२४-२१॥
ताम् तु विस्तीर्ण जघनाम् पीन उत्तुंग पयो धराम् ।भार्या अर्थे तु तव आनेतुम् उद्यता अहम् वर आननाम् ॥३-३४-२१॥
चक्र हस्तो यथा युद्धे सर्वान् असुर पुंगवान् ।एवम् उक्त्वा पुनः प्र ऊचुः आलोक्य च परस्परम् ॥३-२४-२२॥
ताम् तु दृष्ट्वा अद्य वैदेहीम् पूर्ण चन्द्र निभ आननाम् ॥३-३४-२२॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।एकः च रामो धर्मात्मा कथम् युद्धम् भविष्यति ॥३-२४-२३॥
मन्मथस्य शराणाम् च त्वम् विधेयो भविष्यसि ।यदि तस्याम् अभिप्रायो भार्या अर्थे तव जायते ।शीघ्रम् उद् ध्रियताम् पादो जयार्थम् इह दक्षिणः ॥३-३४-२३॥
इति राजर्षयः सिद्धाः स गणाः च द्विजर्षभाः ।जात कौतूहलात् तस्थुर् विमानस्थाः च देवता ॥३-२४-२४॥
रोचते यदि ते वाक्यम् मम एतत् राक्षसेश्वर ।क्रियताम् निर्विशंकेन वचनम् मम रावण ॥३-३४-२४॥
आविष्टम् तेजसा रामम् संग्राम शिरसि स्थितम् ।दृष्ट्वा सर्वाणि भूतानि भयात् विव्यथिरे तदा ॥३-२४-२५॥
विज्ञाय इह आत्म शक्तिम् च क्रियताम् च महाबल ।सीता तव अनवद्यांगी भार्यत्वे राक्षसेश्वर ॥३-३४-२५॥
रूपम् अप्रतिमम् तस्य रामस्य अक्लिष्ट कर्मणः ।बभूव रूपम् क्रुद्धस्य रुद्रस्य इव महात्मनः ॥३-२४-२६॥
निशम्य रामेण शरैः अजिह्मगैःहतान् जनस्थान गतान् निशाचरान् ।खरम् च दृष्ट्वा निहतम् च दूषणम्त्वम् अद्य कृत्यम् प्रतिपत्तुम् अर्हसि ॥३-३४-२६॥
इति संभाष्यमाणो तु देव गंधर्व चारणैः ।ततो गंभीर निर्ह्रादम् घोर चर्म आयुध ध्वजम् ॥३-२४-२७॥
अनीकम् यातुधानानाम् समन्तात् प्रत्यदृश्यत ।वीर आलापान् विसृजताम् अन्योन्यम् अभिगच्छताम् ॥३-२४-२८॥
चापानि विस्फरयताम् जृंभताम् च अपि अभीक्ष्णशः ।विप्रघुष्ट स्वनानाम् च दुंदुभीम् च अपि निघ्नताम् ॥३-२४-२९॥
तेषाम् सुतुमुलः शब्दः पूरयामास तद् वनम् ।तेन शब्देन वित्रस्ताः श्वापदा वन चारिणः ॥३-२४-३०॥
दुद्रुवुः यत्र निःशब्दम् पृष्ठतो न अवलोकयन् ।तत् च अनीकम् महावेगम् रामम् समनुवर्तत ॥३-२४-३१॥
घृत नाना प्रहरणम् गंभीरम् सागरोपमम् ।रामो अपि चारयन् चक्षुः सर्वतो रण पण्डितः ॥३-२४-३२॥
ददर्श खर सैन्यम् तत् युद्ध अभिमुखो गतः ।वितत्य च धनुर् भीमम् तूण्याः च उद्धृत्य सायकान् ॥३-२४-३३॥
क्रोधम् आहारयत् तीव्रम् वधार्थम् सर्व रक्षसाम् ।दुष्प्रेक्ष्यश्चाभवत्क्रुद्धोयुगान्ताग्निरिवज्वलन् - यद्वा -दुष्प्रेक्ष्यः च अभवत् क्रुद्धो युगान्त अग्निः इव ज्वलन् ॥३-२४-३४॥
तम् दृष्ट्वा तेजसा आविष्टम् प्राव्यथन् वन देवताः ।तस्य रुष्ट्स्य रूपम् तु रामस्य ददृशे तदा ।दक्षस्य इव क्रतुम् हन्तुम् उद्यतस्य पिनाकिनी ॥३-२४-३५॥
तत् कार्मुकैः आभरणैः रथैः चतत् वर्माभिः च अग्नि समान वर्णैः ।बभूव सैन्यम् पिशित अशनिनाम्सूर्य उदये नीलम् इव अभ्र जालम् ॥३-२४-३६॥
ततः शूर्पणखा वाक्यम् तत् श्रुत्वा रोम हर्षणम् ।सचिवान् अभ्यनुज्ञाय कार्यम् बुद्ध्वा जगाम ह ॥३-३५-१॥
तत् कार्यम् अनुगम्यांतर् यथावत् उपलभ्य च ।दोषाणाम् च गुणानाम् च सम्प्रधार्य बल अबलम् ॥३-३५-२॥
इति कर्तव्यम् इति एव कृत्वा निश्चयम् आत्मनः ।स्थिर बुद्धिः ततो रम्याम् यान शालाम् जगाम ह ॥३-३५-३॥
यान शालाम् ततो गत्वा प्रच्छन्नम् राक्षस अधिपः ।सूतम् संचोदयामास रथः संयुज्यताम् इति ॥३-३५-४॥
एवम् उक्तः क्षणेन एव सारथिः लघु विक्रमः ।रथम् संयोजयामास तस्य अभिमतम् उत्तमम् ॥३-३५-५॥
कांचनम् रथम् आस्थाय कामगम् रत्न भूषितम् ।पिशाच वदनैः युक्तम् खरैः कनक भूषणैः ॥३-३५-६॥
मेघ प्रतिम नादेन स तेन धनद अनुजः ।राक्षसाधिपतिः श्रीमान् ययौ नद नदी पतिम् ॥३-३५-७॥
स श्वेत वाल व्यजनः श्वेतः छत्रो दशाननः ।स्निग्ध वैदूर्य संकाश तप्त कान्चन भूषणः ॥३-३५-८॥
दशग्रीवो विम्शति भुजो दर्शनीय परिच्छदः ।त्रिदश अरिः मुनीन्द्र घ्नो दश शीर्ष इव अद्रि राट् ॥३-३५-९॥
कामगम् रथम् आस्थाय शुशुभे राक्षसाधिपः ।विद्युन् मण्डलवान् मेघः स बलाक इव अंबरे ॥३-३५-१०॥
स शैलम् सागर अनूपम् वीर्यवान् अवलोकयन् ।नाना पुष्प फलैर् वृक्षैर् अनुकीर्णम् सहस्रशः ॥३-३५-११॥
शीत मंगल तोयाभिः पद्मिनीभिः समंततः ।विशालैः आश्रम पदैः वेदिमद्भिः अलंकृतम् ॥३-३५-१२॥
कदल्य अटवि संशोभम् नालिकेर उपशोभितम् ।सालैः तालैः तमालैः च तरुभिः च सुपुष्पितैः ॥३-३५-१३॥
अत्यन्त नियत आहारैः शोभितम् परम ऋषिभिः ।नागैः सुपर्णैः गंधर्वैः किंनरैः च सहस्रशः ॥३-३५-१४॥
जित कामैः च सिद्धैः च चारणैः च उपशोभितम् ।आजैः वैखानसैः माषैः वालखिल्यैः मरीचिपैः ॥३-३५-१५॥
दिव्य आभरण माल्याभिः दिव्य रूपाभिः आवृतम् ।क्रीडा रति विधिज्ञाभिः अप्सरोभिः सहस्रशः ॥३-३५-१६॥
सेवितम् देव पत्नीभिः श्रीमतीभिः उपासितम् ।देव दानव सन्घैः च चरितम् तु अमृत अशिभिः ॥३-३५-१७॥
हंस क्रौन्च प्लव आकीर्णम् सारसैः संप्रणादितम् ।वैदूर्य प्रस्तरम् स्निग्धम् सांद्रम् सागर तेजसा ॥३-३५-१८॥
पाण्डुराणि विशालानि दिव्य माल्य युतानि च ।तूर्य गीत अभिजुष्टानि विमानानि समंततः ॥३-३५-१९॥
तपसा जित लोकानाम् कामगान् अभिसंपतन् ।गन्धर्व अप्सरसः चैव ददर्श धनदानुजः ॥३-३५-२०॥
निर्यास रस मूलानाम् चंदनानाम् सहस्रशः ।वनानि पश्यन् सौम्यानि घ्राण तृप्ति कराणि च ॥३-३५-२१॥
अगुरूणाम् च मुख्यानाम् वनानि उपवनानि च ।तक्कोलानाम् च जात्यानाम् फलानाम् च सुगन्धिनाम् ॥३-३५-२२॥
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।मुक्तानाम् च समूहानि शुष्यमाणानि तीरतः ॥३-३५-२३॥
शैलानि प्रवरान् चैव प्रवाल निचयान् तथा ।कांचनानि च शृंगाणि राजतानि तथैव च ॥३-३५-२४॥
प्रस्रवाणि मनोज्ञानि प्रसन्नानि अद्भुतानि च ।धन धान्य उपपन्नानि स्त्री रत्नैः आवृतानि च ॥३-३५-२५॥
हस्ति अश्व रथ गाढानि नगराणि विलोकयन् ।तम् समम् सर्वतः स्निग्धम् मृदु संस्पर्श मारुतम् ॥३-३५-२६॥
अनूपे सिन्धु राजस्य ददर्श त्रिदिव उपमम् ।तत्र अपश्यत् स मेघ आभम् न्यग्रोधम् मुनिभिर् वृतम् ॥३-३५-२७॥
समंतात् यस्य ताः शाखाः शत योजनम् आयताः ।यस्य हस्तिनम् आदाय महा कायम् च कच्छपम् ॥३-३५-२८॥
भक्षार्थम् गरुडः शाखाम् आजगाम महाबलः ।तस्य ताम् सहसा शाखाम् भारेण पतगोत्तमः ॥३-३५-२९॥
सुपर्णः पर्ण बहुलाम् बभंज अथ महाबलः ।तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥३-३५-३०॥
अजा बभूवुः धूम्राः च संगताः परमर्षयः ।तेषाम् दयाअर्थम् गरुडः ताम् शाखाम् शत योजनाम् ॥३-३५-३१॥
भग्नम् आदाय वेगेन तौ च उभौ गज कच्छपौ ।एक पादेन धर्म आत्मा भक्षयित्वा तत् आमिषम् ॥३-३५-३२॥
निषाद विषयम् हत्वा शाखया पतगोत्तमः ।प्रहर्षम् अतुलम् लेभे मोक्षयित्वा महामुनीन् ॥३-३५-३३॥
स तेन तु प्रहर्षेण द्विगुणी कृत विक्रमः ।अमृत आनयनार्थम् वै चकार मतिमान् मतिम् ॥३-३५-३४॥
अयो जालानि निर्मथ्य भित्त्वा रत्न गृहम् वरम् ।महेन्द्र भवनात् गुप्तम् आजहार अमृतम् ततः ॥३-३५-३५॥
तम् महर्षि गणैः जुष्टम् सुपर्ण कृत लक्षणम् ।नाम्ना सुभद्रम् न्यग्रोधम् ददर्श धनद अनुजः ॥३-३५-३६॥
तम् तु गत्वा परम् पारम् समुद्रस्य नदी पतेः ।ददर्श आश्रमम् एकांते पुण्ये रम्ये वनांतरे ॥३-३५-३७॥
तत्र कृष्ण अजिन धरम् जटा वल्कल धारिणम् ।ददर्श नियत आहारम् मारीचम् नाम राक्षसम् ॥३-३५-३८॥
स रावणः समागम्य विधिवत् तेन रक्षसा ।मारीचेन अर्चितो राजा सर्व कामैः अमानुषैः ॥३-३५-३९॥
तम् स्वयम् पूजयित्वा च भोजनेन उदकेन च ।अर्थोपहितया वाचा मारीचो वाक्यम् अब्रवीत् ॥३-३५-४०॥
कच्चित् ते कुशलम् राजन् लंकायाम् राक्षसेश्वर ।केन अर्थेन् पुनः त्वम् वै तूर्णम् एव इह आगतः ॥३-३५-४१॥
एवम् उक्तो महातेजा मारीचेन स रावण ।ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः ॥३-३५-४२॥
मारीच श्रूयताम् तात वचनम् मम भाषतः ।आर्तो अस्मि मम च आर्तस्य भवान् हि परमा गतिः ॥३-३६-१॥
जानीषे त्वम् जनस्थाने भ्राता यत्र खरो मम ।दूषणः च महाबाहुः स्वसा शूर्पणखा च मे ॥३-३६-२॥
त्रिशिराः च महातेजा राक्षसः पिशित अशनः ।अन्ये च बहवः शूरा लब्ध लक्षा निशाचराः ॥३-३६-३॥
वसन्ति मत् नियोगेन अधिवासम् च राक्षसः ।बाधमाना महारण्ये मुनीन् ये धर्म चारिणः ॥३-३६-४॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।शूराणाम् लब्ध लक्षाणाम् खर चित्त अनुवर्तिनाम् ॥३-३६-५॥
ते तु इदानीम् जनस्थाने वसमाना महाबलाः ।संगताः परम आयत्ता रामेण सह संयुगे ॥३-३६-६॥
नाना शस्त्र प्रहरणाः खर प्रमुख राक्षसः ।तेन संजात रोषेण रामेण रण मूर्धनि ॥३-३६-७॥
अनुक्त्वा परुषम् किंचित् शरैर् व्यापारितम् धनुः ।चतुर्दश सहस्राणि रक्षसाम् उग्र तेजसाम् ॥३-३६-८॥
निहतानि शरैः दीप्तैः मानुषेण पदातिना ।खरः च निहतः संख्ये दूषणः च निपातितः ॥३-३६-९॥
हत्वा त्रिशिरसम् च अपि निर्भया दण्डकाः कृताः ।पित्रा निरस्तः क्रुद्धेन स भार्यः क्षीण जीवितः ॥३-३६-१०॥
स हन्ता तस्य सैन्यस्य रामः क्षत्रिय पांसनः ।अशीलः कर्कशः तीक्ष्णो मूर्खो लुब्धो अजित इन्द्रियः ॥३-३६-११॥
त्यक्त धर्मः तु अधर्म आत्मा भूतानाम् अहिते रतः ।येन वैरम् विना अरण्ये सत्त्वम् आश्रित्य केवलम् ॥३-३६-१२॥
कर्ण नास अपहारेण भगिनी मे विरूपिता ।तस्य भार्याम् जनस्थानात् सीताम् सुर सुत उपमाम् ॥३-३६-१३॥
आनयिष्यामि विक्रम्य सहायः तत्र मे भव ।त्वया हि अहम् सहायेन पार्श्वस्थेन महाबल ॥३-३६-१४॥
भ्रातृभिः च सुरान् युद्धे समग्रान् न अभिचिंतये ।तत् सहायो भव त्वम् मे समर्थो हि असि राक्षस ॥३-३६-१५॥
वीर्ये युद्धे च दर्पे च न हि अस्ति सदृशः तव ।उपायतो महान् शूरो महा माय विशारदः ॥३-३६-१६॥
एतत् अर्थम् अहम् प्राप्तः त्वत् समीपम् निशाचर ।शृणु तत् कर्म साहाय्ये यत् कार्यम् वचनात् मम ॥३-३६-१७॥
सौवर्णः त्वम् मृगो भूत्वा चित्रो रजत बिन्दुभिः ।आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥३-३६-१८॥
त्वाम् तु निःसंशयम् सीता दृष्ट्वा तु मृग रूपिणम् ।गृह्यताम् इति भर्तारम् लक्ष्मणम् च अभिधास्यति ॥३-३६-१९॥
ततः तयोः अपाये तु शून्ये सीताम् यथा सुखम् ।निराबाधो हरिष्यामि राहुः चन्द्र प्रभाम् इव ॥३-३६-२०॥
ततः पश्चात् सुखम् रामे भार्या आहरण कर्शिते ।विस्रब्धम् प्रहरिष्यामि कृत अर्थेन अन्तर् आत्मना ॥३-३६-२१॥
तस्य राम कथाम् श्रुत्वा मारीचस्य महात्मनः ।शुष्कम् समभवत् वक्त्रम् परित्रस्तो बभूव च ॥३-३६-२२॥
ओष्टौ परिलिहन् शुष्कौ नेत्रैः अनिमिषैः इव ।मृत भूत इव आर्तः तु रावणम् समुत् ईक्षतः ॥३-३६-२३॥
स रावणम् त्रस्त विषण्ण चेतामहावने राम पराक्रमज्ञः ।कृत अंजलिः तत्त्वम् उवाच वाक्यम्हितम् च तस्मै हितम् आत्मनः च ॥३-३६-२४॥
तत् श्रुत्वा राक्षसेन्द्रस्य वाक्यम् वाक्य विशारदः ।प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥३-३७-१॥
सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ।अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥३-३७-२॥
न नूनम् बुध्यसे रामम् महावीर्यम् गुण उन्नतम् ।अयुक्त चारः चपलो महेन्द्र वरुण उपमम् ॥३-३७-३॥
अपि स्वस्ति भवेत् तात सर्वेषाम् भुवि रक्षसाम् ।अपि रामो न संक्रुद्धः कुर्यात् लोकम् अराक्षसम् ॥३-३७-४॥
अपि ते जीवित अंताय न उत्पन्ना जनकात्मजा ।अपि सीता निमित्तम् च न भवेत् व्यसनम् महत् ॥३-३७-५॥
अपि त्वाम् ईश्वरम् प्राप्य काम वृत्तम् निरंकुशम् ।न विनश्येत् पुरी लंका त्वया सह स राक्षसा ॥३-३७-६॥
त्वत् विधः काम वृत्तो हि दुःशीलः पाप मंत्रितः ।आत्मानम् स्व जनम् राष्ट्रम् स राजा हन्ति दुर्मतिः ॥३-३७-७॥
न च पित्रा परित्यक्तो न अमर्यादः कथंचन ।न लुब्धो न च दुःशीलो न च क्षत्रिय पांसनः ॥३-३७-८॥
न च धर्म गुणैर् हीनैः कौसल्या आनंद वर्धनः ।न च तीक्ष्णो हि भूतानाम् सर्व भूत हिते रतः ॥३-३७-९॥
वंचितम् पितरम् दृष्ट्वा कैकेय्या सत्य वादिनम् ।करिष्यामि इति धर्मात्मा ततः प्रव्रजितो वनम् ॥३-३७-१०॥
कैकेय्याः प्रिय कामार्थम् पितुर् दशरथस्य च ।हित्वा राज्यम् च भोगान् च प्रविष्टो दण्डका वनम् ॥३-३७-११॥
न रामः कर्कशः तात न अविद्वान् न अजित इन्द्रियः ।अनृतम् न श्रुतम् चैव नैव त्वम् वक्तुम् अर्हसि ॥३-३७-१२॥
रामो विग्रहवान् धर्मः साधुः सत्य पराक्रमः ।राजा सर्वस्य लोकस्य देवानाम् इव वासवः ॥३-३७-१३॥
कथम् नु तस्य वैदेहीम् रक्षिताम् स्वेन तेजसा ।इच्छसे प्रसभम् हर्तुम् प्रभाम् इव विवस्वतः ॥३-३७-१४॥
शर अर्चिषम् अनाधृष्यम् चाप खड्ग इन्धनम् रणे ।राम अग्निम् सहसा दीप्तम् न प्रवेष्टुम् त्वम् अर्हसि ॥३-३७-१५॥
धनुर् व्यादित दीप्त आस्यम् शर अर्चिषम् अमर्षणम् ।चाप बाण धरम् तीक्ष्णम् शत्रु सेना अपहारिणम् ॥३-३७-१६॥
राज्यम् सुखम् च संत्यज्य जीवितम् च इष्टम् आत्मनः ।न अति आसादयितुम् तात राम अंतकम् इह अर्हसि ॥३-३७-१७॥
अप्रमेयम् हि तत् तेजो यस्य सा जनकात्मजा ।न त्वम् समर्थः ताम् हर्तुम् राम चाप आश्रयाम् वने ॥३-३७-१८॥
तस्य वै नर सिंहस्य सिंह उरस्कस्य भामिनी ।प्राणेभ्यो अपि प्रियतरा भार्या नित्यम् अनुव्रता ॥३-३७-१९॥
न सा धर्षयितुम् शक्या मैथिली ओजस्विनः प्रिया ।दीप्तस्य इव हुत आशस्य शिखा सीता सुमध्यमा ॥३-३७-२०॥
किम् उद्यमम् व्यर्थम् इमम् कृत्वा ते राक्षसाधिप ।दृष्टः चेत् त्वम् रणे तेन तत् अंतम् तव जीवितम् ॥३-३७-२१॥
जीवितम् च सुखम् चैव राज्यम् चैव सुदुर्लभम् ।यत् इच्छसि चिरम् भोक्तुम् मा कृथा राम विप्रियम् ॥३-३७-२२॥
स सर्वैः सचिवैः सार्धम् विभीषण पुरस्कृतैः ।मंत्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः ।दोषाणाम् च गुणानाम् च संप्रधार्य बल अबलम् ॥३-३७-२३॥
आत्मनः च बलम् ज्ञात्वा राघवस्य च तत्त्वतः ।हितम् हि तव निश्चित्य क्षमम् त्वम् कर्तुम् अर्हसि ॥३-३७-२४॥
अहम् तु मन्ये तव न क्षमम् रणेसमागमम् कोसल राज सूनुना ।इदम् हि भूयः शृणु वाक्यम् उत्तमम्क्षमम् च युक्तम् च निशाचर अधिप ॥३-३७-२५॥
कदाचित् अपि अहम् वीर्यात् पर्यटन् पृथिवीम् इमाम् ।बलम् नाग सहस्रस्य धारयन् पर्वतोपमः ॥३-३८-१॥
नील जीमूत संकाशः तप्त कांचन कुण्डलः ।भयम् लोकस्य जनयन् किरीटी परिघ आयुधः ॥३-३८-२॥
व्यचरम् दण्डक अरण्यम् ऋषि मांसानि भक्षयन् ।विश्वामित्रो अथ धर्मात्मा मत् वित्रस्तो महामुनिः ॥३-३८-३॥
स्वयम् गत्वा दशरथम् नरेन्द्रम् इदम् अब्रवीत् ।अयम् रक्षतु माम् रामः पर्व काले समाहितः ॥३-३८-४॥
मारीचात् मे भयम् घोरम् समुत्पन्नम् नरेश्वर ।इति एवम् उक्तो धर्मात्मा राजा दशरथः तदा ॥३-३८-५॥
प्रत्युवाच महाभागम् विश्वामित्रम् महामुनिम् ।ऊन द्वादश वर्षो अयम् अकृत अस्त्रः च राघवः ॥३-३८-६॥
कामम् तु मम यत् सैन्यम् मया सह गमिष्यति ।बलेन चतुरंगेण स्वयम् एत्य निशाचरम् ॥३-३८-७॥
वधिष्यामि मुनिश्रेष्ठ शत्रुम् तव यथा ईप्सितम् ।] एवम् उक्तः स तु मुनी राजानम् इदम् अब्रवीत् ॥३-३८-८॥
रामात् न अन्यत् बलम् लोके पर्याप्तम् तस्य रक्षसः ।देवतानाम् अपि भवान् समरेषु अभिपालकः ॥३-३८-९॥
आसीत् तव कृते कर्म त्रिलोक विदितम् नृप ।कामम् अस्ति महत् सैन्यम् तिष्टतु इह परंतप ॥३-३८-१०॥
बालो अपि एष महातेजाः समर्थः तस्य निग्रहे ।गमिष्ये रामम् आदाय स्वस्ति ते अस्तु परंतपः ॥३-३८-११॥
इति एवम् उक्त्वा स मुनिः तम् आदाय नृपात्मजम् ।जगाम परम प्रीतो विश्वामित्रः स्वम् आश्रमम् ॥३-३८-१२॥
तम् तदा दण्डकारण्ये यज्ञम् उद्दिश्य दीक्षितम् ।बभूव उपस्थितो रामः चित्रम् विस्फारयन् धनुः ॥३-३८-१३॥
अजात व्यंजनः श्रीमान् बालः श्यामः शुभेक्षणः ।एक वस्त्र धरो धन्वी शिखी कनक मालया ॥३-३८-१४॥
शोभयन् दण्डकारण्यम् दीप्तेन स्वेन तेजसा ।अदृश्यत तदा रामो बाल चन्द्र इव उदितः ॥३-३८-१५॥
ततो अहम् मेघ संकाशः तप्त कांचन कुण्डलः ।बली दत्त वरो दर्पात् आजगाम आश्रम अंतरम् ॥३-३८-१६॥
तेन दृष्टः प्रविष्टो अहम् सहसा एव उद्यत आयुधः ।माम् तु दृष्ट्वा धनुः सज्यम् असम्भ्रान्तः चकार ह ॥३-३८-१७॥
अवजानन् अहम् मोहात् बालो अयम् इति राघवम् ।विश्वामित्रस्य ताम् वेदिम् अभ्यधावम् कृत त्वरः ॥३-३८-१८॥
तेन मुक्तः ततो बाणः शितः शत्रु निबर्हणः ।तेन अहम् ताडितः क्षिप्तः समुद्रे शत योजने ॥३-३८-१९॥
न इच्छता तात माम् हन्तुम् तदा वीरेण रक्षितः ।रामस्य शर वेगेन निरस्तो भ्रान्त चेतनः ॥३-३८-२०॥
पातितो अहम् तदा तेन गंभीरे सागर अंभसि ।प्राप्य संज्ञाम् चिरात् तात लंकाम् प्रति गतः पुरीम् ॥३-३८-२१॥
एवम् अस्मि तदा मुक्तः सहायाः ते - शायास्तु - निपातिताः ।अकृत अस्त्रेण रामेण बालेन अक्लिष्ट कर्मणा ॥३-३८-२२॥
तत् मया वार्यमाणः त्वम् यदि रामेण विग्रहम् ।करिष्यसि आपदम् घोराम् क्षिप्रम् प्राप्य न शिष्यसि ॥३-३८-२३॥
क्रीडा रति विधिज्ञानाम् समाज उत्सव शालिनाम् ।रक्षसाम् चैव संतापम् अनर्थम् च आहरिष्यसि ॥३-३८-२४॥
हर्म्य प्रासाद संबाधाम् नाना रत्न विभूउषिताम् ।द्रक्ष्यसि त्वम् पुरीम् लंकाम् विनष्टाम् मैथिली कृते ॥३-३८-२५॥
अकुर्वन्तो अपि पापानि शुचयः पाप संश्रयात् ।पर पापैः विनश्यन्ति मत्स्या नाग ह्रदे यथा ॥३-३८-२६॥
दिव्यचंदनदिग्धांगान्दिव्याअभरणभूषितान् -यद्वा-दिव्य चंदन दिग्ध अंगान् दिव्य आभरण भूषितान् ।द्रक्ष्यसि अभिहतान् भूमौ तव दोषात् तु राक्षसान् ॥३-३८-२७॥
हृत दारान् स दारान् च दश विद्रवतो दिशः ।हत शेषान् अशरणान् द्रक्ष्यसि त्वम् निशाचरान् ॥३-३८-२८॥
शर जाल परिक्षिप्ताम् अग्नि ज्वाला समावृताम् ।प्रदग्ध भवनाम् लंकाम् द्रक्ष्यसि त्वम् असंशयम् ॥३-३८-२९॥
पर दार अभिमर्षात् तु न अनयत् पाप तरम् महत् ।प्रमदानाम् सहस्राणि तव राजन् परिग्रहे ॥३-३८-३०॥
भव स्व दार निरतः स्व कुलम् रक्ष राक्षस ।मानम् वृद्धिम् च राज्यम् च जीवितम् च इष्टम् आत्मनः ॥३-३८-३१॥
कलत्राणि च सौम्यानि मित्र वर्गम् तथैव च ।यदि इच्छसि चिरम् भोक्तुम् मा कृथा राम विप्रियम् ॥३-३८-३२॥
निवार्यमाणः सुहृदा मया भृशम्प्रसह्य सीताम् यदि धर्षयिष्यसि ।गमिष्यसि क्षीण बलः स बान्धवोयम क्षयम् राम शर आत्त जीवितः ॥३-३८-३३॥
एवम् अस्मि तदा मुक्तः कथंचित् तेन संयुगे ।इदानीम् अपि यत् वृत्तम् तत् शृउणुष्व यत् उत्तरम् ॥३-३९-१॥
राक्षाभ्याम् अहम् द्वाभ्याम् अनिर्विण्णः तथा कृतः ।सहितो मृग रूपाभ्याम् प्रविष्टो दंडका वने ॥३-३९-२॥
दीप्त जिह्वो महादंष्ट्रः तीक्ष्ण शृंगो महाबलः ।व्यचरन् दंडाकारण्यम् मांस भक्षो महामृगः ॥३-३९-३॥
अग्निहोत्रेषु तीर्थेषु चैत्य वृक्षेषु रावण ।अत्यन्त घोरो व्यचरन् तापसान् संप्रधर्षयन् ॥३-३९-४॥
निहत्य दंडकारण्ये तापसान् धर्मचरिणः ।रुधिराणि पिबन्तः तेषाम् तन् मांसानि च भक्षयन् ॥३-३९-५॥
ऋषि माअंस अशनः क्रूरः त्रासयन् वनगोचरान् ।तदा रुधिर मत्तो अहम् व्यचरन् दंडका वनम् ॥३-३९-६॥
तदा अहम् दंडकारण्ये विचरन् धर्म दूषकः ।आसादयम् तदा रामम् तापसम् धर्मम् आश्रितम् ॥३-३९-७॥
वैदेहि च महाभागाम् लक्ष्मणम् च महरथम् ।तापसम् नियत आहारम् सर्व बूत हिते रतम् ॥३-३९-८॥
सः अहम् वन गतम् रामम् परिभूय महाबलम् ।तापसो अयम् इति ज्ञात्वा पूर्व वैरम् अनुस्मरन् ॥३-३९-९॥
अभ्यधावम् सुसंक्रुद्धः तीक्ष्ण शृंगो मृग आकृतिः ।जिघांसुः अकृतप्रज्ञः तम् प्रहारम् अनुस्मरन् ॥३-३९-१०॥
तेन त्यक्ताः त्रयो बाणाः शिताः शत्रु निबर्हणाः ।विकृष्य सुमहत् चापम् सुपर्ण अनिल तुल्य गाः ॥३-३९-११॥
ते बाणा वज्र संकाशाः सुघोरा रक्त भोजनाः ।आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः ॥३-३९-१२॥
पराक्रमज्ञो रामस्य शठो दृष्ट भयः पुरा ।समुत्क्रांतः ततः मुक्तः तौ उभौ राक्षसौ हतौ ॥३-३९-१३॥
शरेण मुक्तो रामस्य कथंचित् प्राप्यजीवितम् ।इह प्रव्राजितो युक्तः तापसो अहम् समाहितः ॥३-३९-१४॥
वृक्षे वृक्षे हि पश्यामि चीर कृष्ण अजिन अंबरम् ।गृहीत धनुषम् रामम् पाश हस्तम् इव अंतकम् ॥३-३९-१५॥
अपि राम सहस्राणि भीतः पश्यामि रावण ।राम भूतम् इदम् सर्वम् अरण्यम् प्रतिभाति मे ॥३-३९-१६॥
रामम् एव हि पश्यामि रहिते राक्षसेश्वर ।दृष्ट्वा स्वप्न गतम् रामम् उद् भ्रमामि विचेतनः ॥३-३९-१७॥
र कार अदीनि नामानि राम त्रस्तस्य रवण ।रत्नानि च रथाः च एव वित्रासम् जनयन्ति मे ॥३-३९-१८॥
अहम् तस्य प्रभावज्ञो न युद्धम् तेन ते क्षमम् ।बलिम् वा नमुचिं वा अपि हन्यद्धि रघुनंअंदन ॥३-३९-१९॥
रणे रामेण युद्ध्स्व क्षमाम् वा कुरु रावण ।न ते राम कथा कार्या यदि माम् द्रष्टुम् इच्छसि ॥३-३९-२०॥
बहवः साधवो लोके युक्ता धर्मम् अनुष्टिताः ।परेषाम् अपराधेन विनष्टाः स परिच्छदाः ॥३-३९-२१॥
सः अहम् पर अपराधेन विनाशेयम् निशाचर ।कुरु यत् ते क्षमम् तत् त्वम् अहम् त्वाम् न अनुयामि वै ॥३-३९-२२॥
रामः च हि महातेजा महासत्त्वो महाबलः ।अपि राक्षस लोकस्य भवेत् अन्तकरो अपि हि ॥३-३९-२३॥
यदि शूर्पणखा हेतोः जनस्थान गत खरः ।अति वृत्तो हतः पूर्वम् रामेण अक्लिष्ट कर्मणा ।अत्र ब्रूहि यथावत् त्वम् को रामस्य व्यतिक्रमः ॥३-३९-२४॥
इदम् वचो बन्धु हित अर्थिना मयायथा उच्यमानम् यदि न अभिपत्स्यसे ।स बान्धवः त्यक्ष्यसि जीवितम् रणेहतो अद्य रामेण शरैः जिह्मगैः ॥३-३९-२५॥
मारीचस्य तु तत् वाक्यम् क्षमम् युक्तम् च रावणः ।उक्तो न प्रतिजग्राह मर्तु काम इव औषधम् ॥३-४०-१॥
तम् पथ्य हित वक्तारम् मारीचम् राक्षसाधिपः ।अब्रवीत् परुषम् वाक्यम् अयुक्तम् काल चोदितः ॥३-४०-२॥
यत् किल एतत् अयुक्तार्थम् मारीच मयि कथ्यते ।वाक्यम् निष्फलम् अत्यर्थम् बीजम् उप्तम् इव ऊषरे ॥३-४०-३॥
त्वत् वाक्यैः न तु माम् शक्यम् - भेतुम् - भेत्तुम् रामस्य संयुगे ।पाप शीलस्य मूर्खस्य मानुषस्य विशेषतः ॥३-४०-४॥
यः त्यक्त्वा सुहृदो राज्यम् मातरम् पितरम् तथा ।स्त्री वाक्यम् प्राकृतम् श्रुत्वा वनम् एक पदे गतः ॥३-४०-५॥
अवश्यम् तु मया तस्य संयुगे खर घातिनः ।प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ॥३-४०-६॥
एवम् मे निश्चिता बुद्धिः हृदि मारीच विद्यते ।न व्यावर्तयितुम् शक्या स इन्द्रैः अपि सुर असुरैः ॥३-४०-७॥
दोषम् गुणम् वा संपृष्टः त्वम् एवम् वक्तुम् अर्हसि ।अपायम् वा अपि उपायम् वा कार्यस्य अस्य विनिश्चये ॥३-४०-८॥
संपृष्टेन तु वक्तव्यम् सचिवेन विपश्चिता ।उद्यत अंजलिना राज्ञे य इच्छेत् भूतिम् आत्मनः ॥३-४०-९॥
वाक्यम् अप्रतिकूलम् तु मृदु पूर्वम् शुभम् हितम् ।उपचारेण युक्तम् च वक्तव्यो वसुधा अधिपः ॥३-४०-१०॥
स अवमर्दम् तु यत् वाक्यम् अथवा मारीच हितम् उच्यते ।न अभिनंदति तत् राजा मानार्थी मान वर्जितम् ॥३-४०-११॥
पंच रूपाणि राजानो धारयन्ति अमित ओजसः ।अग्नेः इन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥३-४०-१२॥
औष्ण्यम् तथा विक्रमम् च सौम्यम् दण्डम् प्रसन्नताम् ।धारयन्ति महाताम्नो राजानः क्षणदाचर ॥३-४०-१३॥
तस्मात् सर्वासु अवस्थासु मान्याः पूज्याः च पार्थिवाः ।त्वम् तु धर्मम् अविज्ञाय केवलम् मोहम् आश्रितः ॥३-४०-१४॥
अभ्यागतम् माम् दौरात्म्यात् परुषम् वदसि ईदृशम् ।गुण दोषौ न पृच्छामि क्षमम् च आत्मनि राक्षस ॥३-४०-१५॥
मया उक्तम् अपि च एतावत् त्वाम् प्रति अमितविक्रम ।अस्मिन् तु स भवान् कृत्ये साहाय्यम् कर्तुम् अर्हसि ॥३-४०-१६॥
श्रुणु तत् कर्म साहाय्ये यत् कार्यम् वचनात् मम ।सौवर्णः त्वम् मृगो भूत्वा चित्रो रजत बिन्दुभिः ॥३-४०-१७॥
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।प्रलोभयित्वा वैदेहीम् यथा इष्टम् गन्तुम् अर्हसि ॥३-४०-१८॥
त्वाम् हि माया मयम् दृष्ट्वा कांचनम् जात विस्मया ।आनय एनम् इति क्षिप्रम् रामम् वक्ष्यति मैथिली ॥३-४०-१९॥
अपक्रान्ते च काकुत्स्थे दूरम् च यात्वा अपि उदाहर ।हा सीते लक्ष्मणे इति एवम् राम वाक्य अनुरूपकम् ॥३-४०-२०॥
तत् श्रुत्वा राम पदवीम् सीताया च प्रचोदितः ।अनुगच्छति संभ्रांतम् सौमित्रिः अपि सौहृदात् ॥३-४०-२१॥
अपक्रान्ते च काकुत्स्थे लक्ष्मण च यथा सुखम् ।आहरिष्यामि वैदेहीम् सहस्राक्षः शचीम् इव ॥३-४०-२२॥
एवम् कृत्वा तु इदम् कार्यम् यथा इष्टम् गच्छ राक्षस ।राज्यस्य अर्धम् प्रदास्यामि मारीच तव सुव्रत ॥३-४०-२३॥
गच्छ सौम्य शिवम् मार्गम् कार्यस्य अस्य विवृद्धये ।अहम् तु अनुगमिष्यामि स रथो दण्डका वनम् ॥३-४०-२४॥
प्राप्य सीताम् अयुद्धेन वंचयित्वा तु राघवम् ।लंकाम् प्रति गमिष्यामि कृत कार्यः सह त्वया ॥३-४०-२५॥
नो चेत् करोषि मारीच हन्मि त्वाम् अहम् अद्य वै ।एतत् कार्यम् अवश्यम् मे बलाद् अपि करिष्यसि ।राज्ञो हि प्रतिकूलस्थो न जातु सुखम् एधते ॥३-४०-२६॥
आसाद्या तम् जीवित सम्शयः तेमृत्युर् ध्रुवो हि अद्य मया विरुध्यतः ।एतत् यथावत् परिगृह्य बुद्ध्यायत् अत्र पथ्यम् कुरु तत् तथा त्वम् ॥३-४०-२७॥
आज्ञप्तो रावणेन इत्थम् प्रतिकूलम् च राजवत् ।अब्रवीत् परुषम् वाक्यम् निःशन्को राक्षसाधिपम् ॥३-४१-१॥
केन अयम् उपदिष्टः ते विनाशः पाप कर्मणा ।स पुत्रस्य स राज्यस्य स अमात्यस्य निशाचर ॥३-४१-२॥
कः त्वया सुखिना राजन् न अभिनन्दति पापकृत् ।केन इदम् उपदिष्टम् ते मृत्यु द्वारम् उपायतः ॥३-४१-३॥
शत्रवः तव सुव्यक्तम् हीन वीर्या निशा चर ।इच्छन्ति त्वाम् विनश्यन्तम् उपरुद्धम् बलीयसा ॥३-४१-४॥
केन इदम् उपदिष्टम् ते क्षुद्रेण अहित बुद्धिना ।यः त्वाम् इच्छति नश्यन्तम् स्व कृतेन निशाचर ॥३-४१-५॥
वध्याः खलु न वध्यन्ते सचिवाः तव रावण ।ये त्वाम् उत्पथम् आरूढम् न निगृह्णन्ति सर्वशः ॥३-४१-६॥
अमात्यैः काम वृत्तो हि राजा कापथम् आश्रितः ।निग्राह्यः सर्वथा सद्भिः न निग्राह्यो निगृह्यसे ॥३-४१-७॥
धर्मम् अर्थम् च कामम् च यशः च जयताम् वर ।स्वामि प्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥३-४१-८॥
विपर्यये तु तत् सर्वम् व्यर्थम् भवति रावण ।व्यसनम् स्वामि वैगुण्यात् प्राप्नुवन्ति इतरे जनाः ॥३-४१-९॥
राज मूलो हि धर्मः च जयः च जयताम् वर ।तस्मात् सर्वासु अवस्थासु रक्षितव्यो नराधिपाः ॥३-४१-१०॥
राज्यम् पालयितुम् शक्यम् न तीक्ष्णेन निशाचर ।न च अपि प्रतिकूलेन न अविनीतेन राक्षस ॥३-४१-११॥
ये तीक्ष्ण मंत्राः सचिवा भज्यन्ते सह तेन वै ।विषमे तुरगाः शीघ्रा मन्द सारथयो यथा ॥३-४१-१२॥
बहवः साधवो लोके युक्त धर्मम् अनुष्ठिताः ।परेषाम् अपराधेन विनष्टाः स परिच्छदाः ॥३-४१-१३॥
स्वामिना प्रतिकूलेन प्रजाः तीक्ष्णेन रावण ।रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥३-४१-१४॥
अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४१-१५॥
तद् इदम् काक तालीयम् घोरम् आसादितम् मया ।अत्र त्वम् शोचनीयो असि स सैन्यो विनशिष्यसि ॥३-४१-१६॥
माम् निहत्य तु रामो असौ अचिरात् त्वाम् वधिष्यति ।अनेन कृत कृत्यो अस्मि म्रिये च अपि अरिणा हतः ॥३-४१-१७॥
दर्शनात् एव रामस्य हतम् माम् अवधारय ।आत्मानम् च हतम् विद्धि हृत्वा सीताम् स बान्धवम् ॥३-४१-१८॥
आनयिष्यसि चेत् सीताम् आश्रमात् सहितो मया ।न एव त्वम् असि न एव अहम् न एव लंका न राक्षसाः ॥३-४१-१९॥
निवार्यमाणः तु मया हित एषिणान मृष्यसे वाक्यम् इदम् निशाचर ।परेत कल्पा हि गत आयुषो नराहितम् न गृह्णन्ति सुहृद्भिः ईरितम् ॥३-४१-२०॥
एवम् उक्त्वा तु परुषम् मारीचो रावणम् ततः ।गच्छावः इति अब्रवीत् दीनो भयात् रात्रिम् चर प्रभोः ॥३-४२-१॥
दृष्टाः च अहम् पुनः तेन शर चाप असि धारिणा ।मद्वधो उद्यत शस्त्रेण विनष्टम् जीवितम् च मे ॥३-४२-२॥
न हि रामम् पराक्रम्य जीवन् प्रति निवर्तते ।वर्तते प्रति रूपो असौ यम दण्ड हतस्य ते ॥३-४२-३॥
किम् नु कर्तुम् मया शक्यम् एवम् त्वयि दुरात्मनि ।एष गच्छामि अहम् तात स्वस्ति ते अस्तु निशाचरः ॥३-४२-४॥
प्रहृष्टः तु अभवत् तेन वचनेन स राक्षसः ।परिष्वज्य सुसंश्लिष्टम् इदम् वचनम् अब्रवीत् ॥३-४२-५॥
एतत् शौण्डीर्य - चौत्तिर्य -न्युक्तम् ते मत् च्छंद वश वर्तिनः ।इदानीम् असि मारीचः पूर्वम् अन्यो निशाचरः ॥३-४२-६॥
आरुह्यताम् शीघ्रम् खगो रत्न विभूषितः ।मया सह रथो युक्तः पिशाच वदनैः खरैः ॥३-४२-७॥
प्रलोभयित्वा वैदेहीम् यथा इष्टम् गन्तुम् अर्हसि ।ताम् शून्ये प्रसभम् सीताम् आनयिष्यामि मैथिलीम् ॥३-४२-८॥
तथा इति उवाच एनम् रावणम् ताटका सुतः ।ततो रावण मारीचौ विमानम् इव तम् रथम् ॥३-४२-९॥
आरुह्य ययतुः शीघ्रम् तस्मात् आश्रम मण्डलात् ।तथैव तत्र पश्यन्तौ पत्तनानि वनानि च ॥३-४२-१०॥
गिरीम् च सरिताः सर्वा राष्ट्राणि नगराणि च ।समेत्य दण्डक अरण्यम् राघवस्य आश्रमम् ततः ॥३-४२-११॥
ददर्श सह मरीचो रावणो राक्षसाधिपः ।अवतीर्य रथात् तस्मात् ततः कांचन भूषणात् ॥३-४२-१२॥
हस्ते गृहीत्वा मारीचम् रावणो वाक्यम् अब्रवीत् ।एतत् राम आश्रम पदम् दृश्यते कदली वृतम् ॥३-४२-१३॥
क्रियताम् तत् सखे शीघ्रम् यत् अर्थम् वयम् आगताः ।स रावण वचः श्रुत्वा मारीचो राक्षसः तदा ॥३-४२-१४॥
मृगो भूत्वा आश्रम द्वारि रामस्य विचचार ह ।स तु रूपम् समास्थाय महत् अद्भुत दर्शनम् ॥३-४२-१५॥
मणिप्रवर शृंगाग्रः सित असित मुखाकृतिः ।रक्तपद्मोत्पल मुख इन्द्रनीलोत्पल श्रवाः ॥३-४२-१६॥
किम्चित् अभ्युन्नत ग्रीव इन्द्रनील निभ उदरः ।मधूक निभ पार्श्वः च कंज किंजल्क सम्निभः ॥३-४२-१७॥
वैदूर्य संकाश खुरः तनु जंघः सुसंहतः ।इन्द्र आयुध सवर्णेन पुच्छेन ऊर्ध्वम् विराजितः ॥३-४२-१८॥
मनोहर स्निग्ध वर्णो रत्नैः नाना विधैः वृतः ।क्षणेन राक्षसो जातो मृगः परम शोभनः ॥३-४२-१९॥
वनम् प्रज्वलयन् रम्यम् राम आश्रम पदम् च तत् ।मनोहरम् दर्शनीयम् रूपम् कृत्वा स राक्षसः ॥३-४२-२०॥
प्रलोभनार्थम् वैदेह्या नाना धातु विचित्रितम् ।विचरन् गच्छते सम्यक् शाद्वलानि समंततः ॥३-४२-२१॥
रोप्यैः बिन्दु शतैः चित्रो भूत्वा च प्रिय दर्शनः ।विटपीनाम् किसलयान् भक्षयन् विचचार ह ॥३-४२-२२॥
कदली गृहकम् गत्वा कर्णिकारानि ततः ततः ।समाश्रयन् मंदगतिः सीता संदर्शनम् ततः ॥३-४२-२३॥
राजीव चित्र पृष्ठः स विरराज महामृगः ।राम आश्रम पद अभ्याशे विचचार यथा सुखम् ॥३-४२-२४॥
पुनर् गत्वा निवृत्तः च विचचार मृगोत्तमः ।गत्वा मुहूर्तम् त्वरया पुनः प्रति निवर्तते ॥३-४२-२५॥
विक्रीडन् च पुनर् भूमौ पुनर् एव निषीदति ।आश्रम द्वारम् आगम्य मृग यूथानि गच्छति ॥३-४२-२६॥
मृग यूथैः अनुगतः पुनर् एव निवर्तते ।सीता दर्शनम् आकांक्षन् राक्षसो मृगताम् गतः ॥३-४२-२७॥
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ।समुद्वीक्ष्य च सर्वे तम् मृगा ये अन्ये वनेचराः ॥३-४२-२८॥
उपगम्य समाघ्राय विद्रवन्ति दिशो दश ।राक्षसः सो अपि तान् वन्यान् मृगान् मृगवधे रतः ॥३-४२-२९॥
प्रच्छादनार्थम् भावस्य न भक्षयति संस्पृशन् ।तस्मिन् एव ततः काले वैदेही शुभलोचना ॥३-४२-३०॥
कुसुम अपचये व्यग्रा पादपान् अभ्यवर्तत ।कर्णिकारान् अशोकान् च चूताम् च मदिरेक्षणा ॥३-४२-३१॥
कुसुमानि अपचिन्वन्ती चचार रुचिरानना ।अनर्हा अरण्य वासस्य सा तम् रत्नमयम् मृगम् ॥३-४२-३२॥
मुक्ता मणि विचित्र अंगम् ददर्श परम अंगना ।तम् वै रुचिर दंत ओष्ठम् रूप्य धातु तनू रुहम् ॥३-४२-३३॥
विस्मयात् उत्फुल्ल नयना स स्नेहम् समुदैक्षत ।स च ताम् राम दयिताम् पश्यन् मायामयो मृगः ॥३-४२-३४॥
विचचार ततः तत्र दीपयन् इव तत् वनम् ।अदृष्ट पूर्वम् दृष्ट्वा तम् नाना रत्नमयम् मृगम् ।विस्मयम् परमम् सीता जगाम जनक आत्मजा ॥३-४२-३५॥
सा तम् संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती ।हेम राजत वर्णाभ्याम् पार्श्वाभ्याम् उपशोभितम् ॥३-४३-१॥
प्रहृष्टा च अनवद्यान्गी मृष्ट हाटक वर्णिनी ।भर्तारम् अपि च आक्रन्द लक्ष्मणम् चैव सायुधम् ॥३-४३-२॥
आहूय आहूय च पुनः तम् मृगम् साधु वीक्षते ।आगच्छ आगच्छ शीघ्रम् वै आर्यपुत्र सह अनुज ॥३-४३-३॥
तया आहूतौ नरव्याघ्रौ वैदेह्या राम लक्ष्मणौ ।वीक्षमाणौ तु तम् देशम् तदा ददृशतुः मृगम् ॥३-४३-४॥
शंकमानः तु तम् दृष्ट्वा लक्ष्मणो रामम् अब्रवीत् ।तम् एव एनम् अहम् मन्ये मारीचम् राक्षसम् मृगम् ॥३-४३-५॥
चरन्तो मृगयाम् हृष्टाः पापेन उपाधिना वने ।अनेन निहता राम राजानः काम रूपिणा ॥३-४३-६॥
अस्य मायाविदो माया मृग रूपम् इदम् कृतम् ।भानुमत् पुरुषव्याघ्र गन्धर्व पुर संनिभम् ॥३-४३-७॥
मृगो हि एवम् विधो रत्न विचित्रो न अस्ति राघव ।जगत्याम् जगतीनाथ माया एषा हि न संशयः ॥३-४३-८॥
एवम् ब्रुवाणम् काकुत्स्थम् प्रतिवार्य शुचि स्मिता ।उवाच सीता संहृष्टा चद्मना हृत चेतना ॥३-४३-९॥
आर्यपुत्र अभिरामो असौ मृगो हरति मे मनः ।आनय एनम् महाबाहो क्रीडार्थम् नः भविष्यति ॥३-४३-१०॥
इह आश्रम पदे अस्माकम् बहवः पुण्य दर्शनाः ।मृगाः चरन्ति सहिताः चमराः सृमराः तथा ॥३-४३-११॥
ऋक्षाः पृषत संघाः च वानराः किनराः तथा ।विचरन्ति महाबाहो रूप श्रेष्ठा महाबलाः ॥३-४३-१२॥
न च अस्य सदृशो राजन् दृष्ट पूर्वो मृगः मया ।तेजसा क्षमया दीप्त्या यथा अयम् मृग सत्तमः ॥३-४३-१३॥
नाना वर्ण विचित्र अंगो रत्न भूतो मम अग्रतः ।द्योतयन् वनम् अव्यग्रम् शोभते शशि संनिभः ॥३-४३-१४॥
अहो रूपम् अहो लक्ष्मीः स्वर संपत् च शोभना ।मृगो अद्भुतो विचित्रांगो हृदयम् हरति इव मे ॥३-४३-१५॥
यदि ग्रहणम् अभ्येति जीवन् एव मृगः तव ।आश्चर्य भूतम् भवति विस्मयम् जनयिष्यति ॥३-४३-१६॥
समाप्त वन वासानाम् राज्य स्थानाम् च नः पुनः ।अंतःपुरे विभूषार्थो मृग एष भविष्यति ॥३-४३-१७॥
भरतस्य आर्यपुत्रस्य श्वश्रूणाम् मम च प्रभो ।मृग रूपम् इदम् दिव्यम् विस्मयम् जनयिष्यति ॥३-४३-१८॥
जीवन् न यदि ते अभ्येति ग्रहणम् मृग सत्तमः ।अजिनम् नरशार्दूल रुचिरम् तु भविष्यति ॥३-४३-१९॥
निहतस्य अस्य सत्त्वस्य जांबूनदमय त्वचि ।शष्प बृस्याम् विनीतायाम् इच्छामि अहम् उपासितुम् ॥३-४३-२०॥
कामवृत्तम् इदम् रौद्रम् स्त्रीणाम् असदृशम् मतम् ।वपुषा तु अस्य सत्त्वस्य विस्मयो जनितो मम ॥३-४३-२१॥
तेन कांचन रोम्णा तु मणि प्रवर शृंगिणा ।तरुण आदित्य वर्णेन नक्षत्र पथ वर्चसा ॥३-४३-२२॥
बभूव राघवस्य अपि मनो विस्मयम् आगतम् ।एवम् सीता वचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम् ॥३-४३-२३॥
लोबितः तेन रूपेण सीताया च प्रचोदितः ।उवाच राघवो हृष्टो भ्रातरम् लक्ष्मणम् वचः ॥३-४३-२४॥
पश्य लक्ष्मण वैदेह्याः स्पृहाम् उल्लसिताम् इमाम् ।रूप श्रेष्ठतया हि एष मृगो अद्य न भविष्यति ॥३-४३-२५॥
न वने नंदनोद्देशे न चैत्ररथ संश्रये ।कुतः पृथिव्याम् सौमित्रे यो अस्य कश्चित् समो मृगः ॥३-४३-२६॥
प्रतिलोम अनुलोमाः च रुचिरा रोम राजयः ।शोभन्ते मृगम् आश्रित्य चित्राः कनक बिन्दुभिः ॥३-४३-२७॥
पश्य अस्य जृंभमाणस्य दीप्ताम् अग्नि शिखोपमाम् ।जिह्वाम् मुखात् निःसरंतीम् मेघात् इव शत ह्रदाम् ॥३-४३-२८॥
मसार गल्वर्क मुखः शंख मुक्ता निभ उदरः ।कस्य नाम अनिरूप्यः असौ न मनो लोभयेत् मृगः ॥३-४३-२९॥
कस्य रूपम् इदम् दृष्ट्वा जांबूनदमय प्रभम् ।नाना रत्नमयम् दिव्यम् न मनो विस्मयम् व्रजेत् ॥३-४३-३०॥
मांस हेतोः अपि मृगान् विहारार्थम् च धन्विनः ।घ्नन्ति लक्ष्मण राजानो मृगयायाम् महावने ॥३-४३-३१॥
धनानि व्यवसायेन विचीयन्ते महावने ।धातवो विविधाः च अपि मणि रत्न सुवर्णिनः ॥३-४३-३२॥
तत् सारम् अखिलम् नॄणाम् धनम् निचय वर्धनम् ।मनसा चिन्तितम् सर्वम् यथा शुक्रस्य लक्ष्मण ॥३-४३-३३॥
अर्थी येन अर्थ कृत्येन संव्रजति अविचारयन् ।तम् अर्थम् अर्थ शास्त्रज्ञः प्राहुः अर्थ्याः च लक्ष्मण ॥३-४३-३४॥
एतस्य मृग रत्नस्य परार्ध्ये कांचन त्वचि ।उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥३-४३-३५॥
न कादली न प्रियकी न प्रवेणी न च अविकी ।भवेत् एतस्य सदृशी स्पर्शनेन इति मे मतिः ॥३-४३-३६॥
एष चैव मृगः श्रीमान् यः च दिव्यो नभः चरः ।उभौ एतौ मृगौ दिव्यौ तारामृग महीमृगौ ॥३-४३-३७॥
यदि वा अयम् तथा यत् माम् भवेत् वदसि लक्ष्मण ।माया एषा राक्षसस्य इति कर्तव्यो अस्य वधो मया ॥३-४३-३८॥
एतेन हि नृशंसेन मारीचेन अकृत आत्मना ।वने विचरता पूर्वम् हिंसिता मुनि पुंगवाः ॥३-४३-३९॥
उत्थाय बहवो अनेन मृगयायाम् जनाधिपाः ।निहताः परम इष्वासाः तस्मात् वध्यः तु अयम् मृगः ॥३-४३-४०॥
पुरस्तात् इह वातापिः परिभूय तपस्विनः ।उदरस्थो द्विजान् हन्ति स्व गर्भो अश्वतरीम् इव ॥३-४३-४१॥
स कदाचित् चिरात् लोभात् आससाद महामुनिम् ।अगस्त्यम् तेजसा युक्तम् भक्ष्यः तस्य बभूव ह ॥३-४३-४२॥
समुत्थाने च तत् रूपम् कर्तु कामम् समीक्ष्य तम् ।उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत् ॥३-४३-४३॥
त्वया अविगण्य वातापे परिभूताः च तेजसा ।जीव लोके द्विज श्रेष्ठाः तस्मात् असि जराम् गतः ॥३-४३-४४॥
तत् एतत् न भवेत् रक्षो वातापिः इव लक्ष्मण ।मत् विधम् यो अतिमन्येत धर्म नित्यम् जितेन्द्रियम् ॥३-४३-४५॥
भवेत् हतो अयम् वातापिः अगस्त्येन इव मा गतः ।इह त्वम् भव संनद्धो यंत्रितो रक्ष मैथिलीम् ॥३-४३-४६॥
अस्याम् आयत्तम् अस्माकम् यत् कृत्यम् रघुनंदन ।अहम् एनम् वधिष्यामि ग्रहीष्यामि अथवा मृगम् ॥३-४३-४७॥
यावत् गच्छामि सौमित्रे मृगम् आनयितुम् द्रुतम् ।पश्य लक्ष्मण वैदेहीम् मृग त्वचि गताम् स्पृहाम् ॥३-४३-४८॥
त्वचा प्रधानया हि एष मृगो अद्य न भविष्यति ।अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया ॥३-४३-४९॥
यावत् पृषतम् एकेन सायकेन निहन्मि अहम् ।हत्वा एतत् चर्म च आदाय शीघ्रम् एष्यामि लक्ष्मण ॥३-४३-५०॥
प्रदक्षिणेन अतिबलेन पक्षिणाजटायुषा बुद्धिमता च लक्ष्मण ।भव अप्रमत्तः प्रतिगृह्य मैथिलीम्प्रति क्षणम् सर्वत एव शन्कितः ॥३-४३-५१॥
तथा तु तम् समादिश्य भ्रातरम् रघुनंदनः ।बबन्ध असिम् महातेजा जांबूनदमयः त्सरुम् ॥३-४४-१॥
ततः त्रि विनतम् चापम् आदाय आत्म विभूषणम् ।आबध्य च कलापौ द्वौ जगाम उदग्र विक्रमः ॥३-४४-२॥
तम् वंचयानो राजेन्द्रम् आपतन्तम् निरीक्ष्य वै ।बभूव अंतर्हितः त्रासात् पुनः संदर्शने अभवत् ॥३-४४-३॥
बद्ध असिः धनुः आदाय प्रदुद्राव यतो मृगः ।तम् स्म पश्यति रूपेण द्योतमानम् इव अग्रतः ॥३-४४-४॥
अवेक्ष्य अवेक्ष्य धावन्तम् धनुष् पाणिः महावने ।अतिवृत्तम् इषोः पातात् लोभयानम् कदाचन ॥३-४४-५॥
शंकितम् तु समुद् भ्रान्तम् उत्पतन्तम् इव अंबरे ।दृअश्यमानम् अदृश्यम् च वन उद्देशेषु केषुचित् ॥३-४४-६॥
चिन्न अभ्रैः इव संवीतम् शारदम् चन्द्र मण्डलम् ।मुहूर्तात् एव ददृशे मुहुर् दूरात् प्रकाशते ॥३-४४-७॥
दर्शन अदर्शनेन एव सः अपाकर्षत राघवम् ।सुदूरम् आश्रमस्य अस्य मारिचो मृगताम् गतः ॥३-४४-८॥
आसीत् क्रुद्धः तु काकुत्स्थो विवशः तेन मोहितः ।अथ अवतस्थे सुश्रान्तः च्छायाम् आश्रित्य शाद्वले ॥३-४४-९॥
स तम् उन्मादयामास मृगरूपो निशाचर ।मृगैः परिवृतो अथ वन्यैः अदूरात् प्रत्यदृश्यत ॥३-४४-१०॥
ग्रहीतु कामम् दृष्ट्वा तम् पुनः एव अभ्यधावत ।तत् क्षणात् एव संत्रासात् पुनर् अंतर्हितो अभवत् ॥३-४४-११॥
पुनर् एव ततो दूरात् वृक्ष खण्डात् विनिःसृतः ।दृष्ट्वा रामो महातेजाः तम् हन्तुम् कृत निश्चयः ॥३-४४-१२॥
भूयः तु शरम् उद्धृत्य कुपितः तत्र राघवः ।सूर्य रश्मि प्रतीकाशम् ज्वलंतम् अरि मर्दनम् ॥३-४४-१३॥
संधाय सुदृढे चापे विकृष्य बलवत् बली ।तम् एव मृगम् उद्दिश्य श्वसंतम् इव पन्नगम् ॥३-४४-१४॥
मुमोच ज्वलितम् दीप्तम् अस्त्रम् ब्रह्म विनिर्मितम् ।शरीरम् मृग रूपस्य विनिर्भिद्य शरोत्तमः ॥३-४४-१५॥
मारीचस्य एव हृदयम् विभेद अशनि संनिभः ।ताल मात्रम् अथ उत्प्लुत्य न्यपतत् स भृश आतुरः ॥३-४४-१६॥
व्यनदत् भैरवम् नादम् धरण्याम् अल्प जीवितः ।म्रियमाणः तु मारीचो जहौ ताम् कृत्रिमाम् तनुम् ॥३-४४-१७॥
स्मृत्वा तत् वचनम् रक्षो दध्यौ केन तु लक्ष्मणम् ।इह प्रस्थापयेत् सीता ताम् शून्ये रावणे हरेत् ॥३-४४-१८॥
स प्राप्त कालम् अज्ञाय चकार च ततः स्वरम् ।सदृशम् राघवस्य एव हा सीते लक्ष्मण इति च ॥३-४४-१९॥
तेन मर्मणि निर्विद्धम् शरेण अनुपमेन हि ।मृग रूपम् तु तत् त्यक्त्वा राक्षसम् रूपम् आस्थितः ॥३-४४-२०॥
चक्रे स सुमहा कायम् मारीचो जीवितम् त्यजन् ।तम् दृष्ट्वा पतितम् भूमौ राक्षसम् भीम दर्शनम् ॥३-४४-२१॥
रामो रुधिर सिक्त अंगम् चेष्टमानम् महीतले ।जगाम मनसा सीताम् लक्ष्मणस्य वचः स्मरन् ॥३-४४-२२॥
मारीचस्य तु माय एषा पूर्व उक्तम् लक्ष्मणेन तु ।तत् तदा हि अभवत् च अद्य मारीचो अयम् मया हतः ॥३-४४-२३॥
हा सीते लक्ष्मण इति एवम् आक्रुश्य तु महा स्वनम् ।ममार राक्षसः सो अयम् श्रुत्वा सीता कथम् भवेत् ॥३-४४-२४॥
लक्ष्मणः च महाबाहुः काम् अवस्थाम् गमिष्यति ।इति संचिन्त्य धर्माअत्मा रामो हृष्ट तनू रुहः ॥३-४४-२५॥
तत्र रामम् भयम् तीव्रम् आविवेश विषादजम् ।राक्षसम् मृग रूपम् तम् हत्वा श्रुत्वा च तत् स्वनम् ॥३-४४-२६॥
निहत्य पृषतम् च अन्यम् मांसम् आदाय राघवः ।त्वरमाणो जनस्थानम् ससार अभिमुखः तदा ॥३-४४-२७॥
आर्तस्वरम् तु तम् भर्तुः विज्ञाय सदृशम् वने ।उवाच लक्ष्मणम् सीता गच्छ जानीहि राघवम् ॥३-४५-१॥
न हि मे जीवितम् स्थाने हृदयम् वा अवतिष्ठते ।क्रोशतः परम आर्तस्य श्रुतः शब्दो मया भृशम् ॥३-४५-२॥
आक्रन्दमानम् तु वने भ्रातरम् त्रातुम् अर्हसि ।तम् क्षिप्रम् अभिधाव त्वम् भ्रातरम् शरण एषिणम् ॥३-४५-३॥
रक्षसाम् वशम् आपन्नम् सिंहानाम् इव गोवृषम् ।न जगाम तथा उक्तः तु भ्रातुः आज्ञाय शासनम् ॥३-४५-४॥
तम् उवाच ततः तत्र क्षुभिता जनक आत्मजा ।सौमित्रे मित्र रूपेण भ्रातुः त्वम् असि शत्रुवत् ॥३-४५-५॥
यः त्वम् अस्याम् अवस्थायाम् भ्रातरम् न अभिपद्यसे ।इच्छसि त्वम् विनश्यन्तम् रामम् लक्ष्मण मत् कृते ॥३-४५-६॥
लोभात् तु मत् कृतम् नूनम् न अनुगच्छसि राघवम् ।व्यसनम् ते प्रियम् मन्ये स्नेहो भ्रातरि न अस्ति ते ॥३-४५-७॥
तेन तिष्ठसि विस्रब्धः तम् अपश्यन् महाद्युतिम् ।किम् हि संशयम् आपन्ने तस्मिन् इह मया भवेत् ॥३-४५-८॥
कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानः त्वम् आगतः ।एवम् ब्रुवाणम् वैदेहीम् बाष्प शोक समन्वितम् ॥३-४५-९॥
अब्रवीत् लक्ष्मणः त्रस्ताम् सीताम् मृग वधूम् इव ।पन्नग असुर गन्धर्व देव दानव राक्षसैः ॥३-४५-१०॥
अशक्यः तव वैदेही भर्ता जेतुम् न संशयः ।देवि देव मनुष्येषु गन्धर्वेषु पतत्रिषु ॥३-४५-११॥
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ।दानवेषु च घोरेषु न स विद्येत शोभने ॥३-४५-१२॥
यो रामम् प्रतियुध्येत समरे वासव उपमम् ।अवध्यः समरे रामो न एवम् त्वम् वक्तुम् अर्हसि ॥३-४५-१३॥
न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवम् विना ।अनिवार्यम् बलम् तस्य बलैः बलवताम् अपि ॥३-४५-१४॥
त्रिभिः लोकैः समुदितैः स ईश्वरैः स अमरैः अपि ।हृदयम् निर्वृतम् ते अस्तु संतापः त्यज्यताम् तव ॥३-४५-१५॥
आगमिष्यति ते भर्ता शीघ्रम् हत्वा मृगोत्तमम् ।न सस् तस्य स्वरो व्यक्तम् न कश्चित् अपि दैवतः ॥३-४५-१६॥
गन्धर्व नगर प्रख्या माया तस्य च रक्षसः ।न्यास भूता असि वैदेहि न्यस्ता मयि महात्मना ॥३-४५-१७॥
रामेण त्वम् वरारोहे न त्वाम् त्यक्तुम् इह उत्सहे ।कृत वैराः च कल्याणि वयम् एतैः निशाचरैः ॥३-४५-१८॥
खरस्य निधने देवि जनस्थान वधम् प्रति ।राक्षसा विविधा वाचो व्यवहरन्ति महावने ॥३-४५-१९॥
हिंसा विहारा वैदेहि न चिन्तयितुम् अर्हसि ।लक्ष्मणेन एवम् उक्ता तु क्रुद्धा संरक्त लोचना ॥३-४५-२०॥
अब्रवीत् परुषम् वाक्यम् लक्ष्मणम् सत्य वादिनम् ।अनार्य करुणारंभ नृशंस कुल पांसन ॥३-४५-२१॥
अहम् तव प्रियम् मन्ये रामस्य व्यसनम् महत् ।रामस्य व्यसन्म् दृष्ट्वा तेन एतानि प्रभाषसे ॥३-४५-२२॥
न एव चित्रम् सपत्नेषु पापम् लक्ष्मण यत् भवेत् ।त्वत् विधेषु नृशंसेषु नित्यम् प्रच्छन्न चारिषु ॥३-४५-२३॥
सुदुष्टः त्वम् वने रामम् एकम् एको अनुगच्छसि ।मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥३-४५-२४॥
तत् न सिद्ध्यति सौमित्रे तव अपि भरतस्य वा ।कथम् इंदीवर श्यामम् रामम् पद्म निभेक्षणम् ॥३-४५-२५॥
उपसंश्रित्य भर्तारम् कामयेयम् पृथक् जनम् ।समक्षम् तव सौमित्रे प्राणान् त्यक्ष्यामि असंशयम् ॥३-४५-२६॥
रामम् विना क्षणम् अपि न एव जीवामि भू तले ।इति उक्तः परुषम् वाक्यम् सीतया रोमहर्षणम् ॥३-४५-२७॥
अब्रवीत् लक्ष्मणः सीताम् प्रांजलिः विजितेन्द्रियः ।उत्तरम् न उत्सहे वक्तुम् दैवतम् भवती मम ॥३-४५-२८॥
वाक्यम् अप्रतिरूपम् तु न चित्रम् स्त्रीषु मैथिलि ।स्वभावः तु एष नारीणाम् एषु लोकेषु दृश्यते ॥३-४५-२९॥
विमुक्त धर्माः चपलाः तीक्ष्णा भेदकराः स्त्रियः ।न सहे हि ईदृशम् वाक्यम् वैदेही जनक आत्मजे ॥३-४५-३०॥
श्रोत्रयोः उभयोः मध्ये तप्त नाराच सन्निभम् ।उपशृण्वंतु मे सर्वे साक्षिनो हि वनेचराः ॥३-४५-३१॥
न्याय वादी यथा वाक्यम् उक्तो अहम् परुषम् त्वया ।धिक् त्वाम् अद्य प्रणश्यन्तीम् यन् माम् एवम् विशंकसे ॥३-४५-३२॥
स्त्रीत्वात् दुष्ट स्वभावेन गुरु वाक्ये व्यवस्थितम् ।गमिष्ये यत्र काकुत्स्थः स्वस्ति ते अस्तु वरानने ॥३-४५-३३॥
रक्षन्तु त्वाम् विशालाक्षि समग्रा वन देवताः ।निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।अपि त्वाम् सह रामेण पश्येयम् पुनरागतः ॥३-४५-३४॥
लक्ष्मणेन एवम् उक्ता तु रुदती जनकाअत्मजा ।प्रत्युवाच ततो वाक्यम् तीव्रम् बाष्प परिप्लुता ॥३-४५-३५॥
गोदावरीम् प्रवेक्ष्यामि हीना रामेण लक्ष्मण ।आबन्धिष्ये अथवा त्यक्ष्ये विषमे देहम् आत्मनः ॥३-४५-३६॥
पिबामि वा विषम् तीक्ष्णम् प्रवेक्ष्यामि हुताशनम् ।न तु अहम् राघवात् अन्यम् कदाअपि पुरुषम् स्पृशे ॥३-४५-३७॥
इति लक्ष्मणम् आश्रुत्य सीता दुह्ख समन्विता ।पाणिभ्याम् रुदती दुह्खाद् उदरम् प्रजघान ह ॥३-४५-३८॥
ताम् आर्त रूपाम् विमना रुदन्तीम्सौमित्रिः आलोक्य विशाल नेत्राम् ।आश्वासयामास न चैव भर्तुःतम् भ्रातरम् किंचित् उवाच सीता ॥३-४५-३९॥
ततः तु सीताम् अभिवाद्य लक्ष्मणःकृत अन्जलिः किम्चिद् अभिप्रणम्य ।अवेक्षमाणो बहुशः स मैथिलीम्जगाम रामस्य समीपम् आत्मवान् ॥३-४५-४०॥
तया परुषम् उक्तः तु कुपितो राघव अनुजः ।स विकांक्षन् भृशम् रामम् प्रतस्थे न चिरात् इव ॥३-४६-१॥
तदा आसाद्य दशग्रीवः क्षिप्रम् अंतरम् आस्थितः ।अभिचक्राम वैदेहीम् परिव्राजक रूप धृक् ॥३-४६-२॥
श्लक्ष्ण काषाय संवीतः शिखी चत्री उपानही ।वामे च अंसे अवसज्य अथ शुभे यष्टि कमण्डलू ॥३-४६-३॥
परिव्राजक रूपेण वैदेहीम् अन्ववर्तत ।ताम् आससाद अतिबलो भ्रातृभ्याम् रहिताम् वने ॥३-४६-४॥
रहिताम् सूर्य चन्द्राभ्याम् संध्याम् इव महत् तमः ।ताम् अपश्यत् ततो बालाम् राज पुत्रीम् यशस्विनीम् ॥३-४६-५॥
रोहिणीम् शशिना हीनाम् ग्रहवत् भृश दारुणः ।तम् उग्रम् पाप कर्माणम् जनस्थान गता द्रुमाः ॥३-४६-६॥
संदृश्य न प्रकंपन्ते न प्रवाति च मारुतः ।शीघ्र स्रोताः च तम् दृष्ट्वा वीक्षंतम् रक्त लोचनम् ॥३-४६-७॥
स्तिमितम् गंतुम् आरेभे भयात् गोदावरी नदी ।रामस्य तु अंतरम् प्रेप्सुः दशग्रीवः तत् अंतरे ॥३-४६-८॥
उपतस्थे च वैदेहीम् भिक्षु रूपेण रावणः ।अभव्यो भव्य रूपेण भर्तारम् अनुशोचतीम् ॥३-४६-९॥
अभ्यवर्तत वैदेहीम् चित्राम् इव शनैश्चरः ।सहसा भव्य रूपेण तृणैः कूप इव आवृतः ॥३-४६-१०॥
अतिष्ठत् प्रेक्ष्य वैदेहीम् राम पत्नीम् यशस्विनीम् ।तिष्टन् संप्रेक्ष्य च तदा पत्नीम् रामस्य रावण ॥३-४६-११॥
शुभाम् रुचिर दन्त ओष्ठीम् पूर्ण चन्द्र निभ आननाम् ।आसीनाम् पर्णशालायाम् बाष्प शोक अभिपीडिताम् ॥३-४६-१२॥
स ताम् पद्म पलाश अक्षीम् पीत कौशेय वासिनीम् ।अभ्यगच्छत वैदेहीम् हृष्ट चेता निशा चरः ॥३-४६-१३॥
दृष्ट्वा काम शर आविद्धो ब्रह्म घोषम् उदीरयन् ।अब्रवीत् प्रश्रितम् वाक्यम् रहिते राक्षस अधिपः ॥३-४६-१४॥
ताम् उत्तमाम् त्रिलोकानाम् पद्म हीनाम् इव श्रियम् ।विभ्राजमानाम् वपुषा रावणः प्रशशम्स ह ॥३-४६-१५॥
का त्वम् कांचन वर्ण आभे पीत कौशेय वासिनि ।कमलानाम् शुभाम् मालाम् पद्मिनी इव च बिभ्रती ॥३-४६-१६॥
ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीः अप्सरा वा शुभ आनने ।भूतिर् वा त्वम् वराअरोहे रतिर् वा स्वैर चारिणी ॥३-४६-१७॥
समाः शिखरिणः स्निग्धाः पाण्डुरा दशनाः तव ।विशाले विमले नेत्रे रक्तान्ते कृष्ण तारके ॥३-४६-१८॥
विशालम् जघनम् पीनम् ऊरू करि कर उपमौ ।एतौ उपचितौ वृत्तौ संहतौ संप्रगल्भितौ ॥३-४६-१९॥
पीन उन्नत मुखौ कान्तौ स्निग्ध ताल फल उपमौ ।मणि प्रवेक आभरणौ रुचिरौ ते पयो धरौ ॥३-४६-२०॥
चारु स्मिते चारु दति चारु नेत्रे विलासिनि ।मनो हरसि मे रामे नदी कूलम् इव अंभसा ॥३-४६-२१॥
करान्तमित मध्या असि सुकेशी संहत स्तनी ।न एव देवी न गन्धर्वी न यक्षी न च किंनरी ॥३-४६-२२॥
न एवम् रूपा मया नारी दृष्ट पूर्वा मही तले ।रूपम् अग्र्यम् च लोकेषु सौकुमार्यम् वयः च ते ॥३-४६-२३॥
इह वासः च कांतारे चित्तम् उन्मथयन्ति मे ।सा प्रतिक्राम भद्रम् ते न त्वम् वस्तुम् इह अर्हसि ॥३-४६-२४॥
राक्षसानाम् अयम् वासो घोराणाम् काम रूपिणाम् ।प्रासाद अग्राणि रम्याणि नगर उपवनानि च ॥३-४६-२५॥
संपन्नानि सुगन्धीनि युक्तानि आचरितुम् त्वया ।वरम् माल्यम् वरम् गंधम् वरम् वस्त्रम् च शोभने ॥३-४६-२६॥
भर्तारम् च वरम् मन्ये त्वत् युक्तम् असितेक्षणे ।का त्वम् भवसि रुद्राणाम् मरुताम् वा शुचिस्मिते ॥३-४६-२७॥
वसूनाम् वा वराअरोहे देवता प्रतिभासि मे ।न इह गच्छंति गंधर्वा न देवा न च किन्नराः ॥३-४६-२८॥
राक्षसानाम् अयम् वासः कथम् तु त्वम् इह आगता ।इह शाखामृगाः सिंहा द्वीपि व्याघ्र मृगाः तथा ॥३-४६-२९॥
ऋक्षाः तरक्षवः कंकाः कथम् तेभ्यो न बिभ्यसे ।मद अन्वितानाम् घोराणाम् कुंजराणाम् तरस्विनाम् ॥३-४६-३०॥
कथम् एका महारण्ये न बिभेषि वराअनने ।का असि कस्य कुतः च त्वम् किम् निमित्तम् च दण्डकान् ॥३-४६-३१॥
एका चरसि कल्याणि घोरान् राक्षस सेवितान् ।इति प्रशस्ता वैदेही रावणेन दुरात्मना - महात्मना- ॥३-४६-३२॥
द्विजाति वेषेण हि तम् दृष्ट्वा रावणम् आगतम् ।सर्वैः अतिथि सत्कारैः पूजयामास मैथिली ॥३-४६-३३॥
उपानीय आसनम् पूर्वम् पाद्येन अभिनिमंत्र्य च ।अब्रवीत् सिद्धम् इति एव तदा तम् सौम्य दर्शनम् ॥३-४६-३४॥
द्विजाति वेषेण समीक्ष्य मैथिलीतम् आगतम् पात्र कुसुंभ धारिणम् ।अशक्यम् उद्द्वेष्टुम् उपाय दर्शनान्न्यमंत्रयत् ब्राह्मणवत् यथा आगतम् ॥३-४६-३५॥
इयम् बृसी ब्राह्मण कामम् आस्यताम्इदम् च पाद्यम् प्रतिगृह्यताम् इति ।निमंत्र्यमाणः प्रतिपूर्ण भाषिणीम्नरेन्द्र पत्नीम् प्रसमीक्ष्य मैथिलीम् ।प्रसह्य तस्या हरणे धृढम् मनःसमर्पयामास आत्म वधाय रावणः ॥३-४६-३६॥
ततः सुवेषम् मृगया गतम् पतिम्प्रतीक्षमाणा सह लक्ष्मणम् तदा ।निरीक्षमाणा हरितम् ददर्श तत्महद् वनम् न एव तु राम लक्ष्मणौ ॥३-४६-३७॥
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा ।परिव्राजक रूपेण शशंस आत्मानम् आत्मना ॥३-४७-१॥
ब्राह्मणः च अतिथिः च एष अनुक्तो हि शपेत माम् ।इति ध्यात्वा मुहूर्तम् तु सीता वचनम् अब्रवीत् ॥३-४७-२॥
दुहिता जनकस्य अहम् मैथिलस्य महात्मनः ।सीता नाम्ना अस्मि भद्रम् ते रामस्य महिषी प्रिया ॥३-४७-३॥
उषित्वा द्वा दश समाः इक्ष्वाकूणाम् निवेशने ।भुंजाना मानुषान् भोगान् सर्व काम समृद्धिनी ॥३-४७-४॥
तत्र त्रयो दशे वर्षे राज अमंत्र्यत प्रभुः ।अभिषेचयितुम् रामम् समेतो राज मन्त्रिभिः ॥३-४७-५॥
तस्मिन् संभ्रियमाणे तु राघवस्य अभिषेचने ।कैकेयी नाम भर्तारम् मम आर्या याचते वरम् ॥३-४७-६॥
प्रतिगृह्य तु कैकेयी श्वशुरम् सुकृतेन मे ।मम प्रव्राजनम् भर्तुर् भरतस्य अभिषेचनम् ॥३-४७-७॥
द्वौ अयाचत भर्तारम् सत्यसंधम् नृपोत्तमम् ।न अद्य भोक्ष्ये न च स्वप्स्ये न पास्ये कदाचन ॥३-४७-८॥
एष मे जीवितस्य अन्तो रामो यदि अभिषिच्यते ।इति ब्रुवाणाम् कैकेयीम् श्वशुरो मे स पार्थिवः ॥३-४७-९॥
अयाचत अर्थैः अन्वर्थैः न च यांचाम् चकार सा ।मम भर्ता महातेजा वयसा पंच विंशकः ॥३-४७-१०॥
अष्टा दश हि वर्षाणि मम जन्मनि गण्यते ।राम इति प्रथितो लोके सत्यवान् शीलवान् शुचिः ॥३-४७-११॥
विशालाक्षो महाबाहुः सर्व भूत हिते रतः ।कामार्तः च महाराजः पिता दशरथः स्वयम् ॥३-४७-१२॥
कैकेय्याः प्रिय कामार्थम् तम् रामम् न अभिषेचयत् ।अभिषेकाय तु पितुः समीपम् रामम् आगतम् ॥३-४७-१३॥
कैकेयी मम भर्तारम् इति उवाच द्रुतम् वचः ।तव पित्रा समाज्ञप्तम् मम इदम् शृणु राघव ॥३-४७-१४॥
भरताय प्रदातव्यम् इदम् राज्यम् अकण्टकम् ।त्वया तु खलु वस्तव्यम् नव वर्षाणि पंच च ॥३-४७-१५॥
वने प्रव्रज काकुत्स्थ पितरम् मोचय अनृतात् ।तथा इति उवाच ताम् रामः कैकेयीम् अकुतो भयः ॥३-४७-१६॥
चकार तत् वचः तस्या मम भर्ता दृढ व्रतः ।दद्यात् न प्रतिगृह्णीयात् सत्यम् ब्रूयात् न च अनृतम् ॥३-४७-१७॥
एतत् ब्राह्मण रामस्य व्रतम् ध्रुवम् अनुत्तमम् ।तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥३-४७-१८॥
रामस्य पुरुषव्याघ्रः सहायः समरे अरिहा ।स भ्राता लक्ष्मणो नाम धर्म चारी दृढ व्रतः ॥३-४७-१९॥
अन्वगच्छत् धनुष् पाणिः प्रव्रजंतम् मया सह ।जटी तापस रूपेण मया सह सह अनुजः ॥३-४७-२०॥
प्रविष्टो दंडकारण्यम् धर्म नित्यो धृढ व्रतः ।ते वयम् प्रच्युता राज्यात् कैकेय्याः तु कृते त्रयः ॥३-४७-२१॥
विचराम द्विज श्रेष्ठ वनम् गंभीरम् ओजसा ।समाश्वस मुहूर्तम् तु शक्यम् वस्तुम् इह त्वया ॥३-४७-२२॥
आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् ।रुरून् गोधान् वराहान् च हत्वा आदाय अमिषान् बहु ॥३-४७-२३॥
सः त्वम् नाम च गोत्रम् च कुलम् आचक्ष्व तत्त्वतः ।एकः च दण्डकारण्ये किम् अर्थम् चरसि द्विज ॥३-४७-२४॥
एवम् ब्रुवत्याम् सीतायाम् राम पत्नीआम् महाबलः ।प्रत्युवाच उत्तरम् तीव्रम् रावणो राक्षसाधिपः ॥३-४७-२५॥
येन वित्रासिता लोकाः स देव असुर मानुषा ।अहम् सः रावणो नाम सीते रक्षो गण ईश्वरः ॥३-४७-२६॥
त्वाम् तु कांचन वर्ण आभाम् दृष्ट्वा कौशेय वासिनीम् ।रतिम् स्वकेषु दारेषु न अधिगच्छामि अनिन्दिते ॥३-४७-२७॥
बह्वीनाम् उत्तम स्त्रीणाम् आहृतानाम् इतः ततः ।सर्वासाम् एव भद्रम् ते मम अग्र महिषी भव ॥३-४७-२८॥
लंका नाम समुद्रस्य मध्ये मम महापुरी ।सागरेण परिक्षिप्ता निविष्टा गिरि मूर्धनि ॥३-४७-२९॥
तत्र सीते मया सार्धम् वनेषु विचरिष्यसि ।न च अस्य वन वासस्य स्पृहयिष्यसि भामिनि ॥३-४७-३०॥
पंच दास्यः सहस्राणि सर्व आभरण भूषिताः ।सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥३-४७-३१॥
रावणेन एवम् उक्ता तु कुपिता जनक आत्मजा ।प्रत्युवाच अनवद्यांगी तम् अनादृत्य राक्षसम् ॥३-४७-३२॥
महा गिरिम् इव अकंप्यम् महेन्द्र सदृशम् पतिम् ।महा उदधिम् इव अक्षोभ्यम् अहम् रामम् अनुव्रता ॥३-४७-३३॥
सर्व लक्षण संपन्नम् न्यग्रोध परि मण्डलम् ।सत्य संधम् महाभागम् रामम् अनुव्रता ॥३-४७-३४॥
महाबाहुम् महोरस्कम् सिंह विक्रांत गामिनम् ।नृसिंहम् सिंह संकाशम् अहम् रामम् अनुव्रता ॥३-४७-३५॥
पूर्ण चन्द्र आननम् वीरम् राज वत्सम् जितेन्द्रियम् ।पृथु कीर्तिम् महाबाहुम् अहम् रामम् अनुव्रता ॥३-४७-३६॥
त्वम् पुनः जंबुकः सिंहीम् माम् इह इच्छसि दुर्लभाम् ।न अहम् शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा ॥३-४७-३७॥
पादपान् कांचनान् नूनम् बहून् पश्यसि मंदभाक् ।राघवस्य प्रियाम् भार्याम् यः त्वम् इच्छसि राक्षस ॥३-४७-३८॥
क्षुधितस्य च सिंहस्य मृग शत्रोः तरस्विनः ।आशी विषस्य वदनात् दम्ष्ट्राम् आदातुम् इच्छसि ॥३-४७-३९॥
मंदरम् पर्वत श्रेष्ठम् पाणिना हर्तुम् इच्छसि ।काल कूटम् विषम् पीत्वा स्वस्तिमान् गंतुम् इच्छसि ॥३-४७-४०॥
अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् ।राघवस्य प्रियाम् भार्याम् अधिगंतुम् त्वम् इच्छसि ॥३-४७-४१॥
अवसज्य शिलाम् कण्ठे समुद्रम् तर्तुम् इच्छसि ।सूर्या चन्द्रमसौ च उभौ प्राणिभ्याम् हर्तुम् इच्छसि ॥३-४७-४२॥
यो रामस्य प्रियाम् भार्याम् प्रधर्षयितुम् इच्छसि ।अग्निम् प्रज्वलितम् दृष्ट्वा वस्त्रेण आहर्तुम् इच्छसि ॥३-४७-४३॥
कल्याण वृत्ताम् यो भार्याम् रामस्य हर्तुम् इच्छसि ।अयो मुखानाम् शूलानाम् अग्रे चरितुम् इच्छसि ।रामस्य सदृशीम् भार्याम् यो अधिगंतुम् त्वम् इच्छसि ॥३-४७-४४॥
यद् अंतरम् सिंह शृगालयोः वनेयद् अंतरम् स्यन्दनिका समुद्रयोः ।सुर अग्र्य सौवीरकयोः यद् अंतरम्तद् अंतरम् दाशरथेः तव एव च ॥३-४७-४५॥
यद् अंतरम् कांचन सीस लोहयोःयद् अंतरम् चन्दन वारि पंकयोः ।यद् अंतरम् हस्ति बिडालयोः वनेतद् अंतरम् दशरथेः तव एव च ॥३-४७-४६॥
यद् अंतरम् वायस वैनतेययोःयद् अंतरम् मद्गु मयूरयोः अपि ।यद् अंतरम् हंस गृध्रयोः वनेतद् अंतरम् दाशरथेः तव एव च ॥३-४७-४७॥
तस्मिन् सहस्राक्ष सम प्रभावेरामे स्थिते कार्मुक बाण पाणौ ।हृता अपि ते अहम् न जराम् गमिष्येवज्रम् यथा मक्षिकया अवगीर्णम् ॥३-४७-४८॥
इति इव तत् वाक्यम् अदुष्ट भावासुदुष्टम् उक्त्वा रजनी चरम् तम् ।गात्र प्रकंपात् व्यथिता बभूववात उद्धता सा कदली इव तन्वी ॥३-४७-४९॥
ताम् वेपमानाम् उपलक्ष्य सीताम्स रावणो मृत्यु सम प्रभावः ।कुलम् बलम् नाम च कर्म च आत्मनःसमाचचक्षे भय कारण अर्थम् ॥३-४७-५०॥
एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुष अक्षरम् ।ललाटे भ्रुकुटीम् कृत्वा रावणः प्रति उवाच ह ॥३-४८-१॥
भ्राता वैश्रवणस्य अहम् सापत्नो वरवर्णिनि ।रावणो नाम भद्रम् ते दशग्रीवः प्रतापवान् ॥३-४८-२॥
यस्य देवाः स गंधर्वाः पिशाच पतग उरगाः ।विद्रवन्ति भयात् भीता मृत्योः इव सदा प्रजाः ॥३-४८-३॥
येन वैश्रवणो भ्राता वैमात्रः कारणांतरे ।द्वन्द्वम् आसादितः क्रोधात् रणे विक्रम्य निर्जितः ॥३-४८-४॥
मत् भय आर्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् ।कैलासम् पर्वत श्रेष्ठम् अध्यास्ते नर वाहनः ॥३-४८-५॥
यस्य तत् पुष्पकम् नाम विमानम् कामगम् शुभम् ।वीर्याद् आवर्जितम् भद्रे येन यामि विहायसम् ॥३-४८-६॥
मम संजात रोषस्य मुखम् दृष्ट्वा एव मैथिलि ।विद्रवन्ति परित्रस्ताः सुराः शक्र पुरोगमाः ॥३-४८-७॥
यत्र तिष्ठामि अहम् तत्र मारुतो वाति शन्कितः ।तीव्र अंशुः शिशिर अंशुः च भयात् संपद्यते रविः ॥३-४८-८॥
निष्कंप पत्राः तरवो नद्यः च स्तिमित उदकाः ।भवन्ति यत्र तत्र अहम् तिष्ठामि च चरामि च ॥३-४८-९॥
मम पारे समुद्रस्य लंका नाम पुरी शुभा ।संपूर्णा राक्षसैः घोरैः यथा इन्द्रस्य अमरावती ॥३-४८-१०॥
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता ।हेम कक्ष्या पुरी रम्या वैदूर्यमय तोरणा ॥३-४८-११॥
हस्ति अश्व रथ संभाधा तूर्य नाद विनादिता ।सर्व काम फलैः वृक्षैः संकुल उद्यान भूषिता ॥३-४८-१२॥
तत्र त्वम् वस हे सीते राजपुत्रि मया सह ।न स्मरिष्यसि नारीणाम् मानुषीणाम् मनस्विनि ॥३-४८-१३॥
भुंजाना मानुषान् भोगान् दिव्यान् च वरवर्णिनि ।न स्मरिष्यसि रामस्य मानुषस्य गत आयुषः ॥३-४८-१४॥
स्थापयित्वा प्रियम् पुत्रम् राज्ञा दशरथेन यः ।मन्द वीर्यः सुतो ज्येष्ठः ततः प्रस्थापितो वनम् ॥३-४८-१५॥
तेन किम् भ्रष्ट राज्येन रामेण गत चेतसा ।करिष्यसि विशालाक्षि तापसेन तपस्विना ॥३-४८-१६॥
सर्व राक्षस भर्तारम् कामय - कामात् - स्वयम् आगतम् ।न मन्मथ शर आविष्टम् प्रति आख्यातुम् त्वम् अर्हसि ॥३-४८-१७॥
प्रति आख्याय हि माम् भीरु परितापम् गमिष्यसि ।चरणेन अभिहत्य इव पुरूरवसम् ऊर्वशी ॥३-४८-१८॥
अंगुल्या न समो रामो मम युद्धे स मानुषः ।तव भाग्येन् संप्राप्तम् भजस्व वरवर्णिनि ॥३-४८-१९॥
एवम् उक्ता तु वैदेही क्रुद्धा संरक्त लोचना ।अब्रवीत् परुषम् वाक्यम् रहिते राक्षस अधिपम् ॥३-४८-२०॥
कथम् वैश्रवणम् देवम् सर्व देव नमस्कृतम् ।भ्रातरम् व्यपदिश्य त्वम् अशुभम् कर्तुम् इच्छसि ॥३-४८-२१॥
अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४८-२२॥
अपहृत्य शचीम् भार्याम् शक्यम् इन्द्रस्य जीवितुम् ।न हि रामस्य भार्याम् माम् अपनीय अस्ति जीवितम् ॥३-४८-२३॥
जीवेत् चिरम् वज्र धरस्य हस्तात्शचीम् प्रधृष्य अप्रतिरूप रूपाम् ।न मा दृशीम् राक्षस धर्षयित्वापीत अमृतस्य अपि तव अस्ति मोक्षः ॥३-४८-२४॥
सीताया वचनम् श्रुत्वा दशग्रीवः प्रतापवान् ।हस्ते हस्तम् समाहत्य चकार सुमहत् वपुः ॥३-४९-१॥
स मैथिलीम् पुनः वाक्यम् बभाषे वाक्य कोविदः ।न उन्मत्तया श्रुतौ मन्ये मम वीर्य पराक्रमौ ॥३-४९-२॥
उद् वहेयम् भुजाभ्याम् तु मेदिनीम् अंबरे स्थितः ।आपिबेयम् समुद्रम् च मृत्युम् हन्याम् रणे स्थितः ॥३-४९-३॥
अर्कम् तुंद्याम् शरैः तीक्ष्णैर् विभिंद्याम् हि महीतलम् ।काम रूपिणम् उन्मत्ते पश्य माम् कामदम् पतिम् ॥३-४९-४॥
एवम् उक्तवतः तस्य रावणस्य शिखि प्रभे ।क्रुद्धस्य हरि पर्यन्ते रक्ते नेत्रे बभूवतुः ॥३-४९-५॥
सद्यः सौम्यम् परित्यज्य तीक्ष्ण रूपम् स रावणः ।स्वम् रूपम् काल रूप आभम् भेजे वैश्रवण अनुजः ॥३-४९-६॥
संरक्त नयनः श्रीमान् तप्त कांचन भूषणः ।क्रोधेन महता आविष्टो नील जीमूत सन्निभः ॥३-४९-७॥
दश आस्यो विंशति भुजो बभूव क्षणदा चरः ।स परिव्राजक च्छद्म महाकायो विहाय तत् ॥३-४९-८॥
प्रतिपेदे स्वकम् रूपम् रावणो राक्षस अधिपः ।रक्त अंबर धरः तस्थौ स्त्री रत्नम् प्रेक्ष्य मैथिलीम् ॥३-४९-९॥
स ताम् असित केश अन्ताम् भास्करस्य प्रभाम् इव ।वसन आभरण उपेताम् मैथिलीम् रावणो अब्रवीत् ॥३-४९-१०॥
त्रिषु लोकेषु विख्यातम् यदि भर्तारम् इच्छसि ।माम् आश्रय वरारोहे तव अहम् सदृशः पतिः ॥३-४९-११॥
माम् भजस्व चिराय त्वम् अहम् श्लाघ्यः पतिः तव ।न एव च अहम् क्वचित् भद्रे करिष्ये तव विप्रियम् ॥३-४९-१२॥
त्यज्यताम् मानुषो भावो मयि भावः प्रणीयताम् ।राज्यात् च्युतम् असिद्ध अर्थम् रामम् परिमित आयुषम् ॥३-४९-१३॥
कैः गुणैः अनुरक्ता असि मूढे पण्डित मानिनि ।यः स्त्रिया वचनात् राज्यम् विहाय ससुहृत् जनम् ॥३-४९-१४॥
अस्मिन् व्याल अनुचरिते वने वसति दुर्मतिः ।इति उक्त्वा मैथिलीम् वाक्यम् प्रिय अर्हाम् प्रिय वादिनीम् ॥३-४९-१५॥
अभिगम्य सुदुष्ट आत्मा राक्षसः काम मोहितः ।जग्राह रावणः सीताम् बुधः खे रोहिणीम् इव ॥३-४९-१६॥
वामेन सीताम् पद्माक्षीम् मूर्धजेषु करेण सः ।ऊर्वोः तु दक्षिणेन एव परिजग्राह पाणिना ॥३-४९-१७॥
तम् दृष्ट्वा गिरि शृंग आभम् तीक्ष्ण दंष्ट्रम् महा भुजम् ।प्राद्रवन् मृत्यु संकाशम् भय आर्ता वन देवताः ॥३-४९-१८॥
स च मायामयो दिव्यः खर युक्तः खर स्वनः ।प्रत्यदृश्यत हेमांगो रावणस्य महारथः ॥३-४९-१९॥
ततः ताम् परुषैः वाक्यैः अभितर्ज्य महास्वनः ।अंकेन आदाय वैदेहीम् रथम् आरोपयत् तदा ॥३-४९-२०॥
सा गृहीता अतिचुक्रोश रावणेन यशस्विनी ।रामा इति सीता दुःख आर्ता रामम् दूरम् गतम् वने ॥३-४९-२१॥
ताम् अकामाम् स काम आर्तः पन्नग इन्द्र वधूम् इव ।विवेष्टमानाम् आदाय उत्पपात अथ रावणः ॥३-४९-२२॥
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।भृशम् चुक्रोश मत्ता इव भ्रांत चित्ता यथा आतुरा ॥३-४९-२३॥
हा लक्ष्मण महाबाहो गुरु चित्त प्रसादक ।ह्रियमाणाम् न जानीषे रक्षसा काम रूपिणा ॥३-४९-२४॥
जीवितम् सुखम् अर्थाम् च धर्म हेतोः परित्यजन् ।ह्रियमाणाम् अधर्मेण माम् राघव न पश्यसि ॥३-४९-२५॥
ननु नाम अविनीतानाम् विनेता असि परंतप ।कथम् एवम् विधम् पापम् न त्वम् शास्सि हि रावणम् ॥३-४९-२६॥
ननु सद्यो अविनीतस्य दृश्यते कर्मणः फलम् ।कालो अपि अंगी भवति अत्र सस्यानाम् इव पक्तये ॥३-४९-२७॥
त्वम् कर्म कृतवान् एतत् काल उपहत चेतनः ।जीवित अंतकरम् घोरम् रामात् व्यसनम् आप्नुहि ॥३-४९-२८॥
हन्त इदानीम् सकामा तु कैकेयी बान्धवैः सह ।ह्रियेयम् धर्म कामस्य धर्म पत्नी यशस्विनः ॥३-४९-२९॥
आमंत्रये जनस्थानम् कर्णिकारान् च पुष्पितान् ।क्षिप्रम् रामाय शंसध्वम् सीताम् हरति रावणः ॥३-४९-३०॥
हंस सारस संघुष्टाम् वन्दे गोदावरीम् नदीम् ।क्षिप्रम् रामाय शंस त्वम् सीताम् हरति रावणः ॥३-४९-३१॥
दैवतानि च यान्ति अस्मिन् वने विविध पादपे ।नमस्करोमि अहम् तेभ्यो भर्तुः शंसत माम् हृताम् ॥३-४९-३२॥
यानि कानिचित् अपि अत्र सत्त्वानि निवसन्ति उत ।सर्वाणि शरणम् यामि मृग पक्षि गणान् अपि ॥३-४९-३३॥
ह्रियमाणाम् प्रियाम् भर्तुः प्राणेभ्यो अपि गरीयसीम् ।विवश अपहृता सीता रावणेन इति शंसत ॥३-४९-३४॥
विदित्वा माम् महाबाहुः अमुत्र अपि महाबलः ।आनेष्यति पराक्रम्य वैवस्वत हृताम् अपि ॥३-४९-३५॥
सा तदा करुणा वाचो विलपंती सुदुःखिता ।वनस्पति गतम् ग्रिध्रम् ददर्श आयत लोचना ॥३-४९-३६॥
सा तम् उद् वीक्ष्य सुश्रोणी रावणस्य वशम् गता ।समाक्रंदत् भयपरा दुःख उपहतया गिरा ॥३-४९-३७॥
जटायो पश्य मम आर्य ह्रियमाणम् अनाथ वत् ।अनेन राक्षसेद्रेण करुणम् पाप कर्मणा ॥३-४९-३८॥
न एष वारयितुम् शक्यः त्वया क्रूरो निशाचर ।सत्त्ववान् जितकाशी च स आयुधः चैव दुर्मतिः ॥३-४९-३९॥
रामाय तु यथा तत्त्वम् जटायो हरणम् मम ।लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः ॥३-४९-४०॥
तम् शब्दम् अवसुप्तस्य जटायुः अथ शुश्रुवे ।निरैक्षत् रावणम् क्षिप्रम् वैदेहीम् च ददर्श सः ॥३-५०-१॥
ततः पर्वत शृंग आभः तीक्ष्ण तुण्डः खग उत्तमः ।वनस्पति गतः श्रीमान् व्याजहार शुभाम् गिरम् ॥३-५०-२॥
दशग्रीव स्थितो धर्मे पुराणे सत्य संश्रयः ।भ्रातः सः त्वम् निन्दितम् कर्म कर्तुम् न अर्हसि संप्रताम् ॥३-५०-३॥
जटायुः नाम नाम्ना अहम् गृध्र राजो महाबलः ।राजा सर्वस्य लोकस्य महेन्द्र वरुण उपमः ॥३-५०-४॥
लोकानाम् च हिते युक्तो रामो दशरथ आत्मजः ।तस्य एषा लोक नाथस्य धर्म पत्नी यशस्विनी ॥३-५०-५॥
सीता नाम वरारोहा याम् त्वम् हर्तुम् इह इच्छसि ।कथम् राजा स्थितो धर्मे पर दारान् परामृशेत् ॥३-५०-६॥
रक्षणीया विशेषेण राज दारा महाबलः ।निवर्तय गतिम् नीचाम् पर दार अभिमर्शनात् ॥३-५०-७॥
न तत् समाचरेत् धीरो यत् परो अस्य विगर्हयेत् ।यथा आत्मनः तथा अन्येषाम् दारा रक्ष्या विमर्शनात् ॥३-५०-८॥
अर्थम् वा यदि वा कामम् शिष्टाः शास्त्रेषु अनागतम् ।व्यवस्यन्ति अनु राजानम् धर्मम् पौलस्त्य नंदन ॥३-५०-९॥
राजा धर्मः च कामः च द्रव्याणाम् च उत्तमो निधिः ।धर्मः शुभम् वा पापम् वा राज मूलम् प्रवर्तते ॥३-५०-१०॥
पाप स्वभावः चपलः कथम् त्वम् रक्षसाम् वर ।ऐश्वर्यम् अभिसंप्राप्तो विमानम् इव दुष्कृती ॥३-५०-११॥
काम स्वभावो यः सः असौ न शक्यः तम् प्रमार्जितुम् ।न हि दुष्ट आत्मनाम् आर्यम् आवसति आलये चिरम् ॥३-५०-१२॥
विषये वा पुरे वा ते यदा रामो महाबलः ।न अपराध्यति धर्मात्मा कथम् तस्य अपराध्यसि ॥३-५०-१३॥
यदि शूर्पणखा हेतोः जनस्थान गतः खरः ।अतिवृत्तो हतः पूर्वम् रामेण अक्लिष्ट कर्मणा ॥३-५०-१४॥
अत्र ब्रूहि यथा तत्त्वम् को रामस्य व्यतिक्रमः ।यस्य त्वम् लोक नाथस्य हृत्वा भार्याम् गमिष्यसि ॥३-५०-१५॥
क्षिप्रम् विसृज वैदेहीम् मा त्वा घोरेण चक्षुषा ।दहेत् दहनभूतेन वृत्रम् इन्द्र अशनिः यथा ॥३-५०-१६॥
सर्पम् आशीविषम् बद्ध्वा वस्त्र अन्ते न अवबुध्यसे ।ग्रीवायाम् प्रतिमुक्तम् च काल पाशम् न पश्यसि ॥३-५०-१७॥
स भारः सौम्य भर्तव्यो यो नरम् न अवसादयेत् ।तत् अन्नम् अपि भोक्तव्यम् जीर्यते यत् अनामयम् ॥३-५०-१८॥
यत् कृत्वा न भवेत् धर्मो न कीर्तिः न यशः ध्रुवम् ।शरीरस्य भवेत् खेदः कः तत् कर्म समाचरेत् ॥३-५०-१९॥
षष्टि वर्ष सहस्राणि जातस्य मम रावण ।पितृ पैतामहम् राज्यम् यथावत् अनुतिष्ठतः ॥३-५०-२०॥
वृद्धो अहम् त्वम् युवा धन्वी स रथः कवची शरी ।न च अपि आदाय कुशली वैदेहीम् न गमिष्यसि ॥३-५०-२१॥
न शक्तः त्वम् बलात् हर्तुम् वैदेहीम् मम पश्यतः ।हेतुभिः न्याय संयुक्तैः ध्रुवाम् वेद श्रुतीम् इव ॥३-५०-२२॥
युध्यस्व यदि शूरो असि मुहूर्तम् तिष्ठ रावण ।शयिष्यसे हतो भूमौ यथा पूर्वम् खरः तथा ॥३-५०-२३॥
असकृत् संयुगे येन निहता दैत्य दानवाः ।न चिरात् चीर वासाः त्वाम् रामो युधि वधिष्यति ॥३-५०-२४॥
किम् नु शक्यम् मया कर्तुम् गतौ दूरम् नृप आत्मजौ ।क्षिप्रम् त्वम् नश्यसे नीच तयोः भीतो न संशयः ॥३-५०-२५॥
न हि मे जीवमानस्य नयिष्यसि शुभाम् इमाम् ।सीताम् कमल पत्र अक्षीम् रामस्य महषीम् प्रियाम् ॥३-५०-२६॥
अवश्यम् तु मया कार्यम् प्रियम् तस्य महात्मनः ।जीवितेन अपि रामस्य तथा दशरथस्य च ॥३-५०-२७॥
तिष्ठ तिष्ठ दशग्रीव मुहूर्तम् पश्य रावण ।वृन्तात् इव फलम् त्वाम् तु पातयेयम् रथ उत्तमात् ।युद्ध आतिथ्यम् प्रदास्यामि यथा प्राणम् निशा चर ॥३-५०-२८॥
इति उक्तः क्रोध ताम्राक्षः तप्त कांचन कुण्डलः ।राक्षसेन्द्रो अभिदुद्राव पतगेन्द्रम् अमर्षणः ॥३-५१-१॥
स संप्रहारः तुमुलः तयोः तस्मिन् महा मृधे ।बभूव वात उद्धतयोः मेघयोः गगने यथा ॥३-५१-२॥
तत् बभूव अद्भुतम् युद्धम् गृध्र राक्षसयोः तदा ।सपक्षयोः माल्यवतोः महा पर्वतयोः इव ॥३-५१-३॥
ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः ।अभ्यवर्षत् महाघोरैः गृध्र राजम् महाबलः ॥३-५१-४॥
स तानि शर जालानि गृध्रः पत्ररथ ईश्वरः ।जटायुः प्रतिजग्राह रावण अस्त्राणि संयुगे ॥३-५१-५॥
तस्य तीक्ष्ण नखाभ्याम् तु चरणाभ्याम् महाबलः ।चकार बहुधा गात्रे व्रणान् पतग सत्तमः ॥३-५१-६॥
अथ क्रोधात् दशग्रीवः जग्राह दश मार्गणान् ।मृत्यु दण्ड निभान् घोरान् शत्रोर् निधन कान्क्षया ॥३-५१-७॥
स तैः बाणैः महावीर्यः पूर्ण मुक्तैः अजिह्म गैः ।बिभेद निशितैः तीक्ष्णैः गृध्रम् घोरैः शिली मुखैः ॥३-५१-८॥
स राक्षस रथे पश्यन् जानकीम् बाष्प लोचनाम् ।अचिंतयित्वा बाणाम् तान् राक्षसम् समभिद्रवत् ॥३-५१-९॥
ततो अस्य सशरम् चापम् मुक्ता मणि विभूषितम् ।चरणाभ्याम् महातेजा बभंज पतगोत्तमः ॥३-५१-१०॥
ततो अन्यत् धनुः आदाय रावणः क्रोध मूर्च्छितः ।ववर्ष शर वर्षाणि शतशो अथ सहस्रशः ॥३-५१-११॥
शरैः आवारितः तस्य संयुगे पतगेश्वरः ।कुलायम् अभिसंप्राप्तः पक्षिः इव बभौ तदा ॥३-५१-१२॥
स तानि शर जालानि पक्षाभ्याम् तु विधूय ह ।चरणाभ्याम् महातेजा बभंज अस्य महत् धनुः ॥३-५१-१३॥
तत् च अग्नि सदृशम् दीप्तम् रावणस्य शरावरम् ।पक्षाभ्याम् च महातेजा व्यधुनोत् पतगेश्वरः ॥३-५१-१४॥
कांचन उरः छदान् दिव्यान् पिशाच वदनान् खरान् ।तान् च अस्य जव संपन्नान् जघान समरे बली ॥३-५१-१५॥
अथ त्रिवेणु संपन्नम् कामगम् पावक अर्चिषम् ।मणि सोपान चित्र अंगम् बभंज च महारथम् ॥३-५१-१६॥
पूर्ण चन्द्र प्रतीकाशम् छत्रम् च व्यजनैः सह ।पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥३-५१-१७॥
सारथेः च अस्य वेगेन तुण्डेन च महत् शिरः ।पुनः व्यपाहरत् श्रीमान् पक्षिराजो महाबलः ॥३-५१-१८॥
स भग्न धन्वा विरथो हत अश्वो हत सारथिः ।अंकेन आदाय वैदेहीम् पपात भुवि रावणः ॥३-५१-१९॥
दृष्ट्वा निपतितम् भूमौ रावणम् भग्न वाहनम् ।साधु साधु इति भूतानि गृध्र राजम् अपूजयन् ॥३-५१-२०॥
परिश्रान्तम् तु तम् दृष्ट्वा जरया पक्षि यूथपम् ।उत्पपात पुनर् हृष्टो मैथिलीम् गृह्य रावणः ॥३-५१-२१॥
तम् प्रहृष्टम् निधाय अंके रावणम् जनक आत्मजाम् ।गच्छंतम् खड्ग शेषम् च प्रणष्ट हत साधनम् ॥३-५१-२२॥
गृध्र राजः समुत्पत्य रावणम् समभिद्रवत् ।समावार्यम् महातेजा जटायुः इदम् अब्रवीत् ॥३-५१-२३॥
वर्ज संस्पर्श बाणस्य भार्याम् रामस्य रावण ।अल्प बुद्धे हरसि एनाम् वधाय खलु रक्षसाम् ॥३-५१-२४॥
स मित्र बन्धुः स अमात्यः स बलः स परिच्छदः ।विष पानम् पिबसि एतत् पिपासित इव उदकम् ॥३-५१-२५॥
अनुबंधम् अजानंतः कर्मणाम् अविचक्षणाः ।शीघ्रम् एव विनश्यन्ति यथा त्वम् विनशिष्यसि ॥३-५१-२६॥
बद्धः त्वम् काल पाशेन क्व गतः तस्य मोक्ष्यसे ।वधाय बडिशम् गृह्य स अमिषम् जलजो यथा ॥३-५१-२७॥
न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण ।धर्षणम् च आश्रमस्य अस्य क्षमिष्येते तु राघवौ ॥३-५१-२८॥
यथा त्वया कृतम् कर्म भीरुणा लोक गर्हितम् ।तस्कर आचरितो मार्गो न एष वीर निषेवितः ॥३-५१-२९॥
युध्यस्व यदि शूरो असि मुहूर्तम् तिष्ठ रावण ।शयिष्यसे हतो भूमौ यथा भ्राता खरः तथा ॥३-५१-३०॥
परेत काले पुरुषो यत् कर्म प्रतिपद्यते ।विनाशाय आत्मनो अधर्म्यम् प्रतिपन्नो असि कर्म तत् ॥३-५१-३१॥
पाप अनुबंधो वै यस्य कर्मणः को नु तत् पुमान् ।कुर्वीत लोक अधिपतिः स्वयंभूः भगवान् अपि ॥३-५१-३२॥
एवम् उक्त्वा शुभम् वाक्यम् जटायुः तस्य रक्षसः ।निपपात भृशम् पृष्ठे दशग्रीवस्य वीर्यवान् ॥३-५१-३३॥
तम् गृहीत्वा नखैः तीक्ष्णैः विददार समंततः ।अधिरूढो गज आरोहो यथा स्यात् दुष्ट वारणम् ॥३-५१-३४॥
विददार नखैः अस्य तुण्डम् पृष्ठे समर्पयन् ।केशान् च उत्पाटयामास नख पक्ष मुख आयुधः ॥३-५१-३५॥
स तथा गृध्र राजेन क्लिश्यमानो मुहुर् मुहुः ।अमर्ष स्फुरित ओष्ठः सन् प्राकंपत स राक्षसः ॥३-५१-३६॥
संपरिष्वज्य वैदेहीम् वामेन अंकेन रावणः ।तलेन अभिजघान आर्तो जटायुम् क्रोध मूर्चितः ॥३-५१-३७॥
जटायुः तम् अतिक्रम्य तुण्डेन अस्य खग अधिपः ।वाम बाहून् दश तदा व्यपाहरत् अरिन्दमः ॥३-५१-३८॥
संच्छिन्न बाहोः सद्यो वै बाहवः सहसा अभवन् ।विष ज्वालावली युक्ता वल्मीकत् इव पन्नगाः ॥३-५१-३९॥
ततः क्रोद्धात् दशग्रीवः सीताम् उत्सृज्य वीर्यवान् ।मुष्टिभ्याम् चरणाभ्याम् च गृध्र राजम् अपोथयत् ॥३-५१-४०॥
ततो मुहूर्तम् संग्रामो बभूव अतुल वीर्ययोः ।राक्षसानाम् च मुख्यस्य पक्षिणाम् प्रवरस्य च ॥३-५१-४१॥
तस्य व्यायच्छमानस्य रामस्य अर्थे अथ रावणः ।पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सो अच्छिनत् ॥३-५१-४२॥
स छिन्न पक्षः सहसा रक्षसा रौद्र कर्मणा ।निपपात महा गृध्रो धरण्याम् अल्प जीवितः ॥३-५१-४३॥
तम् दृष्ट्वा पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् ।अभ्यधावत वैदेही स्व बंधुम् इव दुःखिता ॥३-५१-४४॥
तम् नील जीमूत निकाश कल्पम्सुपाण्डुर उरस्कम् उदार वीर्यम् ।ददर्श लंका अधिपतिः पृथिव्याम्जटायुषम् शान्तम् इव अग्नि दावम् ॥३-५१-४५॥
ततः तु तम् पत्ररथम् मही तलेनिपातितम् रावण वेग मर्दितम् ।पुनः च संगृह्य शशि प्रभ आननारुरोद सीता जनक आत्मजा तदा ॥३-५१-४६॥
सा तु तारा अधिप मुखी रावणेन निरीक्ष्य तम् ।गृध्र राजम् विनिहतम् विललाप सुदुःखिता ॥३-५२-१॥
निमित्तम् लक्षणम् स्वप्नम् शकुनि स्वर दर्शनम् ।अवश्यम् सुख दुःखेषु नराणाम् परिदृश्यते ॥३-५२-२॥
न नूनम् राम जानासि महत् व्यसनम् आत्मनः ।धावन्ति नूनम् काकुत्स्थ मत् अर्थम् मृग पक्षिणः ॥३-५२-३॥
अयम् हि कृपया राम माम् त्रातुम् इह संगतः ।शेते विनिहतो भूमौ मम अभाग्यात् विहंगमः ॥३-५२-४॥
त्राहि माम् अद्य काकुत्स्थ लक्ष्मण इति वरांगना ।सु संत्रस्ता समाक्रंदत् शृण्वताम् तु यथा अन्तिके ॥३-५२-५॥
ताम् क्लिष्ट माल्य आभरणाम् विलपन्तीम् अनाथवत् ।अभ्यधावत वैदेहीम् रावणो राक्षस अधिपः ॥३-५२-६॥
ताम् लताम् इव वेष्टन्तीम् आलिंगन्तीम् महाद्रुमान् ।मुंच मुंच इति बहुशः प्रवदन् राक्षस अधिपः ॥३-५२-७॥
क्रोशन्तीम् राम राम इति रामेण रहिताम् वने ।जीवित अन्ताय केशेषु जग्राह अन्तक संनिभः ॥३-५२-८॥
प्रधर्षितायाम् वैदेह्याम् बभूव स चरा अचरम् ।जगत् सर्वम् अमर्यादम् तमसा अन्धेन संवृतम् ॥३-५२-९॥
न वाति मारुतः तत्र निष् प्रभो अभूत् दिवाकरः ।दृष्ट्वा सीताम् परा मृष्टाम् देवो दिव्येन चक्षुषा ॥३-५२-१०॥
कृतम् कार्यम् इति श्रीमान् व्याजहार पितामहः ।प्रहृष्टा व्यथिताः च आसन् सर्वे ते परम ऋषयः ॥३-५२-११॥
दृष्ट्वा सीताम् परा मृष्टाम् दण्डकारण्य वासिनः ।रावणस्य विनाशम् च प्राप्तम् बुद्ध्वा यदृच्छया ॥३-५२-१२॥
स तु ताम् राम राम इति रुदन्तीम् लक्ष्मण इति च ।जगाम आदाय च आकाशम् रावणो राक्षसेश्वर ॥३-५२-१३॥
तप्त आभरण वर्ण अन्गी पीत कौशेय वासनी ।रराज राज पुत्री तु विद्युत् सौदामनी यथा ॥३-५२-१४॥
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः ।अधिकम् परिबभ्राज गिरिः दीप इव अग्निना ॥३-५२-१५॥
तस्याः परम कल्याण्याः ताम्राणि सुरभीणि च ।पद्म पत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् - यद्वा -- च्युतानि पद्म पत्राणि रावणम् समावाकिरन् - ॥३-५२-१६॥
तस्याः कौशेयम् उद्धूतम् आकाशे कनक प्रभम् ।बभौ च आदित्य रागेण ताम्रम् अभ्रम् इव आतपे ॥३-५२-१७॥
तस्याः तत् विमलम् - सु नसम् - वक्त्रम् आकाशे रावण अंक गम् ।न रराज विना रामम् विनालम् इव पंकजम् ॥३-५२-१८॥
बभूव जलदम् नीलम् भित्त्वा चन्द्र इव उदितः ।सु ललाटम् सु केश अंतम् पद्म गर्भ आभम् अव्रणम् ॥३-५२-१९॥
शुक्लैः सु विमलैर् दन्तैः प्रभावद्भिः अलंकृतम् ।तस्याः सु नयनम् वक्त्रम् आकाशे रावण अंक गम् ॥३-५२-२०॥
रुदितम् व्यपमृष्ट अस्रम् चन्द्रवत् प्रिय दर्शनम् ।सु नासम् चारु ताम्र ओष्ठम् आकाषे हाटक प्रभम् ॥३-५२-२१॥
राक्षसेन्द्र समाधूतम् तस्याः तत् वदनम् शुभम् ।शुशुभे न विना रामम् दिवा चन्द्र इव उदितः ॥३-५२-२२॥
सा हेम वर्णा नील अंगम् मैथिली राक्षस अधिपम् ।शुशुभे कांचनी कांची नीलम् मणिम् - गजम् - इव आश्रिता ॥३-५२-२३॥
सा पद्म पीता हेम आभा रावणम् जनक आत्मजा ।विद्युत् घनम् इव आविश्य शुशुभे तप्त भूषणा ॥३-५२-२४॥
तस्या भूषण घोषेण वैदेह्या राक्षस अधिपः ।बभूव विमलो नीलः सघोष इव तोयदः ॥३-५२-२५॥
उत्तम अंग च्युता तस्याः पुष्प वृष्टिः समन्ततः ।सीताया ह्रियमाणायाः पपात धरणी तले ॥३-५२-२६॥
सा तु रावण वेगेन पुष्प वृष्टिः समन्ततः ।समाधूता दशग्रीवम् पुनः एव अभ्यवर्तत ॥३-५२-२७॥
अभ्यवर्तत पुष्पाणाम् धारा वैश्रवण अनुजम् ।नक्षत्र माला विमला मेरुम् नगम् इव उन्नतम् ॥३-५२-२८॥
चरणात् नूपुरम् भ्रष्टम् वैदेह्या रत्न भूषितम् ।विद्युत् मण्डल संकाशम् पपात धरणी तले ॥३-५२-२९॥
तरु प्रवाल रक्ता सा नील अंगम् राक्षस ईश्वरम् ।प्राशोभयत वैदेही गजम् कक्ष्या इव कांचनी ॥३-५२-३०॥
ताम् महा उल्काम् इव आकाशे दीप्यमानाम् स्व तेजसा ।जहार आकाशम् आविश्य सीताम् वैश्रवण अनुजः ॥३-५२-३१॥
तस्याः तानि अग्नि वर्णानि भूषणानि मही तले ।स घोषाणि अवकीर्यन्त क्षीणाः तारा इव अंबरात् ॥३-५२-३२॥
तस्याः स्तन अन्तरात् भ्रष्टो हारः तारा अधिप द्युतिः ।वैदेह्या निपतन् भाति गंगा इव गगनात् च्युता ॥३-५२-३३॥
उत्पात वात अभिहता नाना द्विज गण आयुताः ।मा भैः इति विधूत अग्रा व्याजह्रुः इव पादपाः ॥३-५२-३४॥
नलिन्यो ध्वस्त कमलाः त्रस्त मीन जले चराः ।सखीम् इव गत उत्साहाम् शोचन्ति इव स्म मैथिलीम् ॥३-५२-३५॥
समंतात् अभिसंपत्य सिंह व्याघ्र मृग द्विजाः ।अन्वधावन् तदा रोषात् सीताम् छाया अनुगामिनः ॥३-५२-३६॥
जल प्रपात अस्र मुखाः शृन्गैः उच्छ्रित बाहवः ।सीतायाम् ह्रियमाणायाम् विक्रोशन्ति इव पर्वताः ॥३-५२-३७॥
ह्रियमाणाम् तु वैदेहीम् दृष्ट्वा दीनो दिवाकरः ।प्रविध्वस्त प्रभः श्रीमान् आसीत् पाण्डुर मण्डलः ॥३-५२-३८॥
न अस्ति धर्मः कुतः सत्यम् न आर्जवम् न अनृशम्सता ।यत्र रामस्य वैदेहीम् भार्याम् हरति रावणः ॥३-५२-३९॥
इति भूतानि सर्वाणि गणशः पर्यदेवयन् ।वित्रस्तका दीन मुखा रुरुदुः मृग पोतकाः ॥३-५२-४०॥
उद्वीक्ष्य उद्वीक्ष्य नयनैः अस्र पात आविल ईक्षणाः ।सुप्रवेपित गात्राः च बभूवुः वन देवताः ॥३-५२-४१॥
विक्रोशन्तीम् दृढम् सीताम् दृष्ट्वा दुःखम् तथा गताम् ।ताम् तु लक्ष्मण राम इति क्रोशन्तीम् मधुर स्वराम् ॥३-५२-४२॥
अवेक्षमाणाम् बहुशो वैदेहीम् धरणी तलम् ।स ताम् आकुल केशान्ताम् विप्रमृष्ट विशेषकाम् ।जहार आत्म विनाशाय दशग्रीवो मनस्विनाम् ॥३-५२-४३॥
ततः तु सा चारु दती शुचि स्मिताविना कृता बन्धु जनेन मैथिली ।अपश्यती राघव लक्ष्मणाउ उभौविवर्ण वक्त्रा भय भार पीडिता ॥३-५२-४४॥
खम् उत्पतन्तम् तम् दृष्ट्वा मैथिली जनक आत्मजा ।दुःखिता परम उद्विग्ना भये महति वर्तिनी ॥३-५३-१॥
रोष रोदन ताम्राक्षी भीमाक्षम् राक्षस अधिपम् ।रुदती करुणम् सीता ह्रियमाणा इदम् अब्रवीत् ॥३-५३-२॥
न व्यपत्रपसे नीच कर्मणा अनेन रावण ।ज्ञात्वा विरहिताम् यो माम् चोरयित्वा पलायसे ॥३-५३-३॥
त्वया एव नूनम् दुष्टात्मन् भीरुणा हर्तुम् इच्छता ।मम अपवाहितो भर्ता मृग रूपेण मायया ॥३-५३-४॥
यो हि माम् उद्यतः त्रातुम् सो अपि अयम् विनिपातितः ।गृध्र राजः पुराणो असौ श्वशुरस्य सखा मम ॥३-५३-५॥
परमम् खलु ते वीर्यम् दृश्यते राक्षसाधम ।विश्राव्य नामधेयम् हि युद्धे न अस्मि जिता त्वया ॥३-५३-६॥
ईदृशम् गर्हितम् कर्म कथम् कृत्वा न लज्जसे ।स्त्रियाः च हरणम् नीच रहिते च परस्य च ॥३-५३-७॥
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।सुनृशम्सम् अधर्मिष्ठम् तव शौण्डीर्य मानिनः ॥३-५३-८॥
धिक् ते शौर्यम् च सत्त्वम् च यत् त्वया कथितम् तदा ।कुल आक्रोशकरम् लोके धिक् ते चारित्रम् ईदृशम् ॥३-५३-९॥
किम् शक्यम् कर्तुम् एवम् हि यत् जवेन एव धावसि ।मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि ॥३-५३-१०॥
न हि चक्षुः पथम् प्राप्य तयोः पार्थिव पुत्रयोः ।स सैन्यो अपि समर्थः त्वम् मुहूर्तम् अपि जीवितुम् ॥३-५३-११॥
न त्वम् तयोः शर स्पर्शम् सोढुम् शक्तः कथंचन ।वने प्रज्वलितस्य इव स्पर्शम् अग्नेः विहंगमः ॥३-५३-१२॥
साधु कृत्वा आत्मनः पथ्यम् साधु माम् मुंच रावण ।मत् प्रधर्षण रुष्टो हि भ्रात्रा सह पतिः मम ॥३-५३-१३॥
विधास्यति विनाशाय त्वम् माम् यदि न मुंचसि ।येन त्वम् व्यवसायेन बलात् माम् हर्तुम् इच्छसि ॥३-५३-१४॥
व्यवसायः तु ते नीच भविष्यति निरर्थकः ।न हि अहम् तम् अपश्यन्ती भर्तारम् विबुध उपमम् ॥३-५३-१५॥
उत्सहे शत्रु वशगा प्राणान् धारयितुम् चिरम् ।न नूनम् च आत्मनः श्रेयः पथ्यम् वा समवेक्षसे ॥३-५३-१६॥
मृत्यु काले यथा मर्त्यो विपरीतानि सेवते ।मुमूर्षूणाम् तु सर्वेषाम् यत् पथ्यम् तत् न रोचते ॥३-५३-१७॥
पश्यामि इव हि कण्ठे त्वाम् काल पाश अवपाशितम् ।यथा च अस्मिन् भय स्थाने न बिभेषि दशानन ॥३-५३-१८॥
व्यक्तम् हिरण्मयान् हि त्वम् संपश्यसि मही रुहान् ।नदीम् वैतरणीम् घोराम् रुधिर ओघ विवाहिनीम् ॥३-५३-१९॥
खड्ग पत्र वनम् चैव भीमम् पश्यसि रावण ।तप्त कांचन पुष्पाम् च वैदूर्य प्रवर च्छदाम् ॥३-५३-२०॥
द्रक्ष्यसे शाल्मलीम् तीक्ष्णाम् आयसैः कण्टकैः चिताम् ।न हि त्वम् ईदृशम् कृत्वा तस्य अलीकम् महात्मनः ॥३-५३-२१॥
धारितुम् शक्स्यसि चिरम् विषम् पीत्वा इव निर्घृणः ।बद्धः त्वम् काल पाशेन दुर्निवारेण रावण ॥३-५३-२२॥
क्व गतो लप्स्यसे शर्म भर्तुः मम महात्मनः ।निमेष अन्तर मात्रेण विना भ्रातरम् आहवे ॥३-५३-२३॥
राक्षसा निहता येन सहस्राणि चतुर्दश ।कथम् स राघवो वीरः सर्व अस्त्र कुशलो बली ॥३-५३-२४॥
न त्वाम् हन्यात् शरैः तीक्ष्णैः इष्ट भार्या अपहारिणम् ।एतत् च अन्यत् च परुषम् वैदेही रावण अंक गा ।भय शोक समाविष्टा करुणम् विललाप ह ॥३-५३-२५॥
तथा भृश आर्ताम् बहु चैव भाषिणीम्विललाप पूर्वम् करुणम् च भामिनीम् ।जहार पापः तरुणीम् विवेष्टतीम्नृपात्मजाम् आगत गात्र वेपथुम् ॥३-५३-२६॥
ह्रियमाणा तु वैदेही कंचित् नाथम् अपश्यती ।ददर्श गिरि शृंगस्थान् पंच वानर पुंगवान् ॥३-५४-१॥
तेषाम् मध्ये विशालाक्षी कौशेयम् कनक प्रभम् ।उत्तरीयम् वरारोहा शुभानि आभरणानि च ॥३-५४-२॥
मुमोच यदि रामाय शंसेयुः इति भामिनी ।वस्त्रम् उत्सृज्य तन् मध्ये विनिक्षिप्तम् स भूषणम् ॥३-५४-३॥
संभ्रमात् तु दशग्रीवः तत् कर्म न च बुद्ध्वान् ।पिंगाक्षाः ताम् विशालाक्षीम् नेत्रैः अनिमिषैः इव ॥३-५४-४॥
विक्रोशन्तीम् तदा सीताम् ददृशुः वानर ऋषभाः ।स च पंपाम् अतिक्रम्य लंकाम् अभिमुखः पुरीम् ॥३-५४-५॥
जगाम रुदतीम् गृह्य मैथिलीम् राक्षस ईश्वरः ।ताम् जहार सुसंहृष्टो रावणो मृत्युम् आत्मनः ॥३-५४-६॥
उत्संगेन एव भुजगीम् तीक्ष्ण दंष्ट्राम् महाविषाम् ।वनानि सरितः शैलान् सराम्सि च विहायसा ॥३-५४-७॥
स क्षिप्रम् समतीयाय शरः चापात् इव च्युतः ।तिमि नक्र निकेतम् तु वरुण आलयम् अक्षयम् ॥३-५४-८॥
सरिताम् शरणम् गत्वा समतीयाय सागरम् ।संभ्रमात् परिवृत्त ऊर्मी रुद्ध मीन महोरगः ॥३-५४-९॥
वैदेह्याम् ह्रियमाणायाम् बभूव वरुण आलयः ।अन्तरिक्ष गता वाचः ससृजुः चारणाः तदा ॥३-५४-१०॥
एतत् अन्तो दशग्रीव इति सिद्धाः तदा अब्रुवन् ।स तु सीताम् विचेष्टन्तीम् अंकेन आदाय रावणः ॥३-५४-११॥
प्रविवेश पुरीम् लन्काम् रूपिणीम् मृत्युम् आत्मनः ।सः अभिगम्य पुरीम् लंकाम् सुविभक्त महापथाम् ॥३-५४-१२॥
संरूढ कक्ष्या बहुलम् स्वम् अंतः पुरम् आविशत् ।तत्र ताम् असित अपांगाम् शोक मोह परायणाम् ॥३-५४-१३॥
निदधे रावणः सीताम् मयो मायाम् इव आसुरीम् ।अब्रवीत् च दशग्रीवः पिशाचीः घोर दर्शनाः ॥३-५४-१४॥
यथा न एनाम् पुमान् स्त्री वा सीताम् पश्यति असम्मतः ।मुक्ता मणि सुवर्णानि वस्त्राणि आभरणानि च ॥३-५४-१५॥
यत् यत् इच्छेत् तत् एव अस्या देयम् मत् च्छंदतो यथा ।या च वक्ष्यति वैदेहीम् वचनम् किंचित् अप्रियम् ॥३-५४-१६॥
अज्ञानात् यदि वा ज्ञानान् न तस्या जीवितम् प्रियम् ।तथा उक्त्वा राक्षसीः ताः तु राक्षसेन्द्रः प्रतापवान् ॥३-५४-१७॥
निष्क्रम्य अन्तः पुरात् तस्मात् किम् कृत्यम् इति चिंतयन् ।ददर्श अष्टौ महावीर्यान् राक्षसान् पिशित अशनान् ॥३-५४-१८॥
स तान् दृष्ट्वा महावीर्यो वर दानेन मोहितः ।उवाच तान् इदम् वाक्यम् प्रशस्य बल वीर्यतः ॥३-५४-१९॥
नाना प्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः ।जनस्थानम् हत स्थानम् भूत पूर्वम् खर आलयम् ॥३-५४-२०॥
तत्र उष्यताम् जनस्थाने शून्ये निहत राक्षसे ।पौरुषम् बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः ॥३-५४-२१॥
बहु सैन्यम् महावीर्यम् जनस्थाने निवेशितम् ।स दूषण खरम् युद्धे निहतम् राम सायकैः ॥३-५४-२२॥
ततः क्रोधो मम अपूर्वो धैर्यस्य उपरि वर्धते ।वैरम् च सुमहत् जातम् रामम् प्रति सुदारुणम् ॥३-५४-२३॥
निर्यातयितुम् इच्छामि तत् च वैरम् अहम् रिपोः ।न हि लप्स्यामि अहम् निद्राम् अहत्वा संयुगे रिपुम् ॥३-५४-२४॥
तम् तु इदानीम् अहम् हत्वा खर दूषण घातिनम् ।रामम् शर्म उपलप्स्यामि धनम् लब्ध्वा इव निर्धनः ॥३-५४-२५॥
जनस्थाने वसद्भिः तु भवद्भिः रामम् आश्रिता ।प्रवृत्तिः उपनेतव्या किम् करोति इति तत्त्वतः ॥३-५४-२६॥
अप्रमादात् च गंतव्यम् सर्वैः एव निशाचरैः ।कर्तव्यः च सदा यत्नो राघवस्य वधम् प्रति ॥३-५४-२७॥
युष्माकम् तु बलम् ज्ञातम् बहुशो रण मूर्धनि ।अतः तु अस्मिन् जनस्थाने मया यूयम् नियोजिताः ॥३-५४-२८॥
ततः प्रियम् वाक्यम् उपेत्य राक्षसामहाअर्थम् अष्टौ अभिवाद्य रावणम् ।विहाय लंकाम् सहिताः प्रतस्थिरेयतो जनस्थानम् अलक्ष्य दर्शनाः ॥३-५४-२९॥
ततः तु सीताम् उपलभ्य रावणःसुसंप्रहृष्टः परिगृह्य मैथिलीम् ।प्रसज्य रामेण च वैरम् उत्तमम्बभूव मोहात् मुदितः स राक्षसः ॥३-५४-३०॥
संदिश्य राक्षसान् घोरान् रावणो अष्टौ महाबलान् ।आत्मानम् बुद्धि वैक्लव्यात् कृत कृत्यम् अमन्यत ॥३-५५-१॥
स चिंतयानो वैदेहीम् काम बाण संप्रपीडितः ।प्रविवेश गृहम् रम्यम् सीताम् द्रष्टुम् अभित्वरन् ॥३-५५-२॥
स प्रविश्य तु तत् वेश्म रावणो राक्षस अधिपः ।अपश्यत् राक्षसी मध्ये सीताम् दुःख परायणम् ॥३-५५-३॥
अश्रु पूर्ण मुखीम् दीनाम् शोक भार अवपीडिताम् ।वायु वेगैः इव आक्रांताम् मज्जन्तीम् नावम् अर्णवे ॥३-५५-४॥
मृग यूथ परिभ्रष्टाम् मृगीम् श्वभिः इव आवृताम् ।अधोगत मुखीम् सीताम् ताम् अभ्येत्य निशाचरः ॥३-५५-५॥
ताम् तु शोक वशात् दीनाम् अवशाम् राक्षस अधिपः ।स बलात् दर्शयामास गृहम् देव गृह उपमम् ॥३-५५-६॥
हर्म्य प्रासाद संबधम् स्त्री सहस्र निषेवितम् ।नाना पक्षि गणैः जुष्टम् नाना रत्न समन्वितम् ॥३-५५-७॥
दान्तकैः तापनीयैः च स्फाटिकै राजतैः तथा ।वज्र वैदूर्य चित्रैः च स्तम्भैः दृष्टि मनोरमैः ॥३-५५-८॥
दिव्य दुन्दुभि निर्घोषम् तप्त कांचन भूषणम् ।सोपानम् कांचनम् चित्रम् आरुरोह तया सह ॥३-५५-९॥
दान्तका राजताः चैव गवाक्षाः प्रिय दर्शनाः ।हेम जाला आवृताः च आसन् तत्र प्रासाद पंक्तयः ॥३-५५-१०॥
सुधा मणि विचित्राणि भूमि भागानि सर्वशः ।दशग्रीवः स्व भवने प्रादर्शयत मैथिलीम् ॥३-५५-११॥
दीर्घिकाः पुष्करिण्यः च नाना पुष्प समावृताः ।रावणो दर्शयामास सीताम् शोक परायणाम् ॥३-५५-१२॥
दर्शयित्वा तु वैदेहीम् कृत्स्नम् तत् भवन उत्तमम् ।उवाच वाक्यम् पापात्मा सीताम् लोभितुम् इच्छया ॥३-५५-१३॥
दश राक्षस कोट्यः च द्वाविंशतिः अथ अपराः ।वर्जयित्वा जरा वृद्धान् बालान् च रजनीचरान् ॥३-५५-१४॥
तेषाम् प्रभुः अहम् सीते सर्वेषाम् भीम कर्मणाम् ।सहस्रम् एकम् एकस्य मम कार्य पुरःसरम् ॥३-५५-१५॥
यत् इदम् राज्य तंत्रम् मे त्वयि सर्वम् प्रतिष्ठितम् ।जीवितम् च विशालाक्षि त्वम् मे प्राणैः गरीयसी ॥३-५५-१६॥
बह्वीनाम् उत्तम स्त्रीणाम् मम यो असौ परिग्रहः ।तासाम् त्वम् ईश्वरी सीते मम भार्या भव प्रिये ॥३-५५-१७॥
साधु किम् ते अन्यया बुद्ध्या रोचयस्व वचो मम ।भजस्व मा अभितप्तस्य प्रसादम् कर्तुम् अर्हसि ॥३-५५-१८॥
परिक्षिप्ता समुद्रेण लंका इयम् शत योजना ।न इयम् धर्षयितुम् शक्या स इन्द्रैः अपि सुर असुरैः ॥३-५५-१९॥
न देवेषु न यक्षेषु न गंधर्वेषु न ऋषिषु ।अहम् पश्यामि लोकेषु यो मे वीर्य समो भवेत् ॥३-५५-२०॥
राज्य भ्रष्टेन दीनेन तापसेन पदातिना ।किम् करिष्यसि रामेण मानुषेण अल्प तेजसा ॥३-५५-२१॥
भजस्व सीते माम् एव भर्ता अहम् सदृशः तव ।यौवनम् हि अध्रुवम् भीरु रमस्व इह मया सह ॥३-५५-२२॥
दर्शने मा कृथाः बुद्धिम् राघवस्य वरानने ।का अस्य शक्तिः इह आगंतुम् अपि सीते मनोरथैः ॥३-५५-२३॥
न शक्यो वायुः आकाशे पाशैः बद्धम् महाजवः ।दीप्यमानस्य वा अपि अग्नेः ग्रहीतुम् विमलाम् शिखाम् ॥३-५५-२४॥
त्रयाणाम् अपि लोकानाम् न तम् पश्यामि शोभने ।विक्रमेण नयेत् यः त्वाम् मत् बाहु परिपालिताम् ॥३-५५-२५॥
लंकायाम् सुमहत् राज्यम् इदम् त्वम् अनुपालय ।त्वत् प्रेष्या मत् विधा चैव देवाः च अपि चर अचरम् ॥३-५५-२६॥
अभिषेक उदक क्लिन्ना तुष्टा च रमयस्व माम् ।दुष्कृतम् यत् पुरा कर्म वन वासेन तद् गतम् ॥३-५५-२७॥
यत् च ते सुकृतो धर्मः तस्य इह फलम् आप्नुहि ।इह सर्वाणि माल्यानि दिव्य गंधानि मैथिलि ॥३-५५-२८॥
भूषणानि च मुख्यानि तानि सेव मया सह ।पुष्पकम् नाम सुश्रोणि भ्रातुः वैश्रवणस्य मे ॥३-५५-२९॥
विमानम् सूर्य संकाशम् तरसा निर्जितम् रणे ।विशालम् रमणीयम् च तत् विमानम् मनो जवम् ॥३-५५-३०॥
तत्र सीते मया सार्धम् विहरस्व यथा सुखम् ।वदनम् पद्म संकाशम् विमलम् चारु दर्शनम् ॥३-५५-३१॥
शोक आर्तम् तु वरारोहे न भ्राजति वर आनने ।एवम् वदति तस्मिन् सा वस्त्र अन्तेन वर अंगना ॥३-५५-३२॥
पिधाय इन्दु निभम् सीता मंदम् अश्रून् अवर्तयत् ।ध्यायन्तीम् ताम् इव अस्वस्थाम् सीताम् चिंता हत प्रभाम् ॥३-५५-३३॥
उवाच वचनम् वीरो रावणो रजनी चरः ।अलम् व्रीडेन वैदेहि धर्म लोप कृतेन ते ॥३-५५-३४॥
आर्षो अयम् देवि निष्यन्दो यः त्वाम् अभिगमिष्यति ।एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥३-५५-३५॥
प्रसादम् कुरु मे क्षिप्रम् वश्यो दासो अहम् अस्मि ते ।इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥३-५५-३६॥
न च अपि रावणः कांचित् मूर्ध्ना स्त्रीम् प्रणमेत ह ।एवम् उक्त्वा दशग्रीवो मैथिलीम् जनक आत्मजाम् ।कृत अन्त वशम् आपन्नो मम इयम् इति मन्यते ॥३-५५-३७॥
सा तथा उक्ता तु वैदेही निर्भया शोक कर्शिता ।तृणम् अन्तरतः कृत्वा रावणम् प्रति अभाषत ॥३-५६-१॥
राजा दशरथो नाम धर्म सेतुः इव अचलः ।सत्य सन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥३-५६-२॥
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ।दीर्घ बाहुः विशालाक्षो दैवतम् स पतिः मम ॥३-५६-३॥
इक्ष्वाकूणाम् कुले जातः सिंह स्कन्धो महाद्युतिः ।लक्ष्मणेन सह भ्रात्रा यः ते प्राणान् हरिष्यति ॥३-५६-४॥
प्रत्यक्षम् यदि अहम् तस्य त्वया स्याम् धर्षिता बलात् ।शयिता त्वम् हतः संख्ये जनस्थाने यथा खरः ॥३-५६-५॥
य एते राक्षसाः प्रोक्ता घोर रूपा महाबलाः ।राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥३-५६-६॥
तस्य ज्या विप्रमुक्ताः ते शराः कांचन भूषणाः ।शरीरम् विधमिष्यन्ति गंगा कूलम् इव ऊर्मयः ॥३-५६-७॥
असुरैः वा सुरैः वा त्वम् यदि अवध्यो असि रावण ।उत्पाद्य सुमहत् वैरम् जीवन् तस्य न मोक्ष्यसे ॥३-५६-८॥
स ते जीवित शेषस्य राघवो अन्त करो बली ।पशोः यूप गतस्य इव जीवितम् तव दुर्लभम् ॥३-५६-९॥
यदि पश्येत् स रामः त्वाम् रोष दीप्तेन चक्षुषा ।रक्षः त्वम् अद्य निर्दग्धो यथा रुद्रेण मन्मधः ॥३-५६-१०॥
यः चन्द्रम् नभसो भूमौ पातयेन् नाशयेत वा ।सागरम् शोषयेत् वा अपि स सीताम् मोचयेत् इह ॥३-५६-११॥
गत आयुः त्वम् गत श्रीकः गत सत्त्वो गत इन्द्रियः ।लंका वैधव्य संयुक्ता त्वत् कृतेन भविष्यति ॥३-५६-१२॥
न ते पापम् इदम् कर्म सुख उदर्कम् भविष्यति ।या अहम् नीता विना भावम् पति पार्श्वात् त्वया वनात् ॥३-५६-१३॥
स हि देवर - दैवत - संयुक्तो मम भर्ता महाद्युतिः ।निर्भयो वीर्यम् आश्रित्य शून्ये वसति दण्डके ॥३-५६-१४॥
स ते वीर्यम् दर्पम् बलम् उत्सेकम् च तथा विधम् ।अपनेष्यति गात्रेभ्यः शर वर्षेण संयुगे ॥३-५६-१५॥
यदा विनाशो भूतानाम् दृश्यते काल चोदितः ।तदा कार्ये प्रमाद्यन्ति नराः काल वशम् गताः ॥३-५६-१६॥
माम् प्रधृष्य स ते कालः प्राप्तो अयम् रक्षस अधम ।आत्मनो राक्षसानाम् च वधाय अन्तः पुरस्य च ॥३-५६-१७॥
न शक्या यज्ञ मध्यस्था वेदिः स्रुक् भाण्ड मण्डिता ।द्विजाति मंत्र संपूता चण्डालेन अवमर्दितुम् ॥३-५६-१८॥
तथा अहम् धर्म नित्यस्य धर्म पत्नी दृढ व्रता ।त्वया संप्रष्टुम् न शक्या अहम् राक्षसाधम पापिना ॥३-५६-१९॥
क्रीडन्ती राज हंसेन पद्म षंडेषु नित्यशः ।हंसी सा तृण षण्डस्थम् कथम् द्रक्षेत मद्गुकम् ॥३-५६-२०॥
इदम् शरीरम् निःसंज्ञम् बन्ध वा घातयस्व वा ।न इदम् शरीरम् रक्ष्यम् मे जीवितम् वा अपि राक्षस ॥३-५६-२१॥
न तु शक्यामि उपक्रोशम् पृथिव्याम् धातुम् आत्मनः ।एवम् उक्त्वा तु वैदेही क्रोद्धात् सु परुषम् वचः ॥३-५६-२२॥
रावणम् मैथिली तत्र पुनः न उवाच किंचन ।सीताया वचनम् श्रुत्वा परुषम् रोम हर्षणम् ॥३-५६-२३॥
प्रति उवाच ततः सीताम् भय संदर्शनम् वचः ।शृणु मैथिलि मत् वाक्यम् मासान् द्वादश भामिनि ॥३-५६-२४॥
कालेन अनेन न अभ्येषि यदि माम् चारु हासिनि ।ततः त्वाम् प्रातः आशा अर्थम् सूदाः छेत्स्यन्ति लेशशः ॥३-५६-२५॥
इति उक्त्वा परुषम् वाक्यम् रावणः शत्रु रावणः ।राक्षसीः च ततः क्रुद्ध इदम् वचनम् अब्रवीत् ॥३-५६-२६॥
शीघ्रम् एव हि राक्षस्यो विकृता घोर दर्शनाः ।दर्पम् अस्या अपनेष्यन्तु मांस शोणित भोजनाः ॥३-५६-२७॥
वचनात् एव ताः तस्य विकृता घोर दर्शनाः ।कृत प्रांजलयो भूत्वा मैथिलीम् पर्यवारयन् ॥३-५६-२८॥
स ताः प्रोवाच राजा तु रावणो घोर दर्शनाः ।प्रचाल्य चरण उत्कर्षैः दारयन् इव मेदिनीम् ॥३-५६-२९॥
अशोक वनिका मध्ये मैथिली नीयताम् इति ।तत्र इयम् रक्ष्यताम् गूढम् युष्माभिः परिवारिता ॥३-५६-३०॥
तत्र एनाम् तर्जनैः घोरैः पुनः सांत्वैः च मैथिलीम् ।आनयध्वम् वशम् सर्वा वन्याम् गज वधूम् इव ॥३-५६-३१॥
इति प्रति समादिष्टा राक्षस्यो रावणेन ताः ।अशोक वनिकाम् जग्मुः मैथिलीम् परिगृह्य तु ॥३-५६-३२॥
सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् - यद्वा -सर्व काम फलैः वृक्षैः नाना पुष्प फलैः वृताम् ।सर्व काल मदैः च अपि द्विजैः समुपसेविताम् ॥३-५६-३३॥
सा तु शोक परीत अंगी मैथिली जनकात्मजा ।राक्षसी वशम् आपन्ना व्याघ्रीणाम् हरिणी यथा ॥३-५६-३४॥
शोकेन महता ग्रस्ता मैथिली जनकात्मजा ।न शर्म लभते भीरुः पाश बद्धा मृगी यथा ॥३-५६-३५॥
न विन्दते तत्र तु शर्म मैथिलीविरूप नेत्राभिः अतीव तर्जिता ।पतिम् स्मरन्ती दयितम् च देवरम्विचेतना अभूत् भय शोक पीडिता ॥३-५६-३६॥
राक्षसम् मृग रूपेण चरन्तम् काम रूपिणम् ।निहत्य रामो मारीचम् तूर्णम् पथि न्यवर्तत ॥३-५७-१॥
तस्य संत्वरमाणस्य द्रष्टु कामस्य मैथिलीम् ।क्रूर स्वरो अथ गोमायुः विननाद अस्य पृष्ठतः ॥३-५७-२॥
स तस्य स्वरम् आज्ञाय दारुणम् रोम हर्षणम् ।चिंतयामास गोमायोः स्वरेण परिशन्कितः ॥३-५७-३॥
अशुभम् बत मन्ये अहम् गोमायुः वाश्यते यथा ।स्वस्ति स्यात् अपि वैदेह्या राक्षसैः भक्षणम् विना ॥३-५७-४॥
मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम् ।विक्रुष्टम् मृग रूपेण लक्ष्मणः शृणुयात् यदि ॥३-५७-५॥
स सौमित्रिः स्वरम् श्रुत्वा ताम् च हित्वा अथ मैथिलीम् ।तया एव प्रहितः क्षिप्रम् मत् सकाशम् इह एष्यति ॥३-५७-६॥
राक्षसैः सहितैर् नूनम् सीताया ईप्सितो वधः ।कांचनः च मृगो भूत्वा व्यपनीय आश्रमात् तु माम् ॥३-५७-७॥
दूरम् नीत्वा अथ मारीचो राक्षसो अभूत् शर आहतः ।हा लक्ष्मण हतो अस्मि इति यत् वाक्यम् व्यजहार ह ॥३-५७-८॥
अपि स्वस्ति भवेत् द्वाभ्याम् रहिताभ्याम् मया वने ।जनस्थान निमित्तम् हि कृत वैरो अस्मि राक्षसैः ॥३-५७-९॥
निमित्तानि च घोराणि दृश्यन्ते अद्य बहूनि च ।इति एवम् चिंतयन् रामः श्रुत्वा गोमायु निःस्वनम् ॥३-५७-१०॥
निवर्तमानः त्वरितो जगाम आश्रमम् आत्मवान् ।आत्मनः च अपनयनम् मृग रूपेण रक्षसा ॥३-५७-११॥
आजगाम जनस्थानम् राघवः परिशन्कितः ।तम् दीन मानसम् दीनम् आसेदुः मृग पक्षिणः ॥३-५७-१२॥
सव्यम् कृत्वा महात्मानम् घोराम् च ससृजुः स्वरान् ।तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ।न्यवर्तत अथ त्वरितो जवेन आश्रमम् आत्मनः ॥३-५७-१३॥
ततो लक्षणम् आयान्तम् ददर्श विगत प्रभम् ।ततो अविदूरे रामेण समीयाय स लक्ष्मणः ॥३-५७-१४॥
विषण्णः स विषण्णेन दुःखितो दुःख भागिना ।संजगर्हे अथ तम् भ्राता दृष्टा लक्ष्मणम् आगतम् ॥३-५७-१५॥
विहाय सीताम् विजने वने राक्षस सेविते ।गृहीत्वा च करम् सव्यम् लक्ष्मणम् रघुनंदनः ॥३-५७-१६॥
उवाच मधुर उदर्कम् इदम् परुषम् आर्तवत् ।अहो लक्ष्मण गर्ह्यम् ते कृतम् यः त्वम् विहाय ताम् ॥३-५७-१७॥
सीताम् इह आगतः सौम्य कच्चित् स्वस्ति भवेत् इति ।न मे अस्ति संशयो वीर सर्वथा जनकात्मजा ॥३-५७-१८॥
विनष्टा भक्षिता वा अप राक्षसैः वन चारिभिः ।अशुभानि एव भूयिष्ठम् यथा प्रादुर् भवन्ति मे ॥३-५७-१९॥
अपि लक्ष्मण सीतायाः सामग्र्यम् प्राप्नुयावहे ।जीवन्त्याः पुरुषव्याघ्र सुताया जनक्स्य वै ॥३-५७-२०॥
यथा वै मृग संघाःअ गोमायुः च भैरवम् ।वाश्यन्ते शकुनाः च अपि प्रदीप्ताम् अभितो दिशम् ।अपि स्वस्ति भवेत् तस्या राज पुत्र्या महाबल ॥३-५७-२१॥
इदम् हि रक्षो मृग संनिकाशम्प्रलोभ्य माम् दूरम् अनुप्रयातम् ।हतम् कथंचित् महता श्रमेणस राक्षसो अभूत् म्रियमाण एव ॥३-५७-२२॥
मनः च मे दीनम् इह अप्रहृष्टम्चक्षुः च सव्यम् कुरुते विकारम् ।असंशयम् लक्ष्मण न अस्ति सीताहृता मृता वा पथि वर्तते वा ॥३-५७-२३॥
स दृष्ट्वा लक्ष्मणम् दीनम् शून्यम् दशरथ आत्मजः ।पर्यपृच्छत धर्माअत्मा वैदेहीम् आगतम् विना ॥३-५८-१॥
प्रस्थितम् दण्डक अरण्यम् या माम् अनुजगाम ह ।क्व सा लक्ष्मण वैदेही याम् हित्वा त्वम् इह आगतः ॥३-५८-२॥
राज्य भ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।क्व सा दुःख सहाया मे वैदेही तनु मध्यमा ॥३-५८-३॥
याम् विना न उत्सहे वीर मुहूर्तम् अपि जीवितुम् ।क्व सा प्राण सहाया मे सीता सुर सुत उपमा ॥३-५८-४॥
पतित्वम् अमराणाम् वा पृथिव्याः च अपि लक्ष्मण ।विना ताम् तपनीय आभाम् न इच्छेयम् जनक आत्मजाम् ॥३-५८-५॥
कच्चित् जीवति वैदेही प्राणैः प्रियतरा मम ।कच्चित् प्रव्राजनम् वीर न मे मिथ्या भविष्यति ॥३-५८-६॥
सीता निमित्तम् सौमित्रे मृते मयि गते त्वयि ।कच्चित् स कामा सुखिता कैकेयी सा भविष्यति ॥३-५८-७॥
स पुत्र राज्याम् सिद्ध अर्थाम् मृत पुत्रा तपस्विनी ।उपस्थास्यति कौसल्या कच्चित् सौम्येन - सौम्य न - कैकयीम् ॥३-५८-८॥
यदि जीवति वैदेही गमिष्याम्य् आश्रमम् पुनः ।सुवृत्ता यदि वृत्ता सा प्राणान् त्यक्ष्यामि लक्ष्मण ॥३-५८-९॥
यदि माम् आश्रम गतम् वैदेही न अभिभाषते ।पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥३-५८-१०॥
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।त्वयि प्रमत्ते रक्षोभिः भक्षिता वा तपस्विनी ॥३-५८-११॥
सुकुमारी च बाला च नित्यम् च अदुःख दर्शिनी ।मत् वियोगेन वैदेही व्यक्तम् शोचति दुर्मनाः ॥३-५८-१२॥
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।वदता लक्ष्मण इति उच्Cऐः तव अपि जनितम् भयम् ॥३-५८-१३॥
श्रुतः च मन्ये वैदेह्या स स्वरः सदृशो मम ।त्रस्तया प्रेषितः त्वम् च द्रष्टुम् माम् शीघ्रम् आगतः ॥३-५८-१४॥
सर्वथा तु कृतम् कष्टम् सीताम् उत्सृजता वने ।प्रतिकर्तुम् नृशंसानाम् रक्षसाम् दत्तम् अन्तरम् ॥३-५८-१५॥
दुःखिताः खर घातेन राक्षसाः पिशित अशनाः ।तैः सीता निहता घोरैः भविष्यति न संशयः ॥३-५८-१६॥
अहो अस्मि व्यसने मग्नः सर्वथा रिपु नाशन ।किम् तु इदानीम् करिष्यामि शंके प्राप्तव्यम् ईदृशम् ॥३-५८-१७॥
इति सीताम् वरारोहाम् चिंतयन् एव राघवः ।आजगाम जन स्थानम् त्वरया सह लक्ष्मणः ॥३-५८-१८॥
विगर्हमाणो अनुजम् आर्त रूपम्क्षुधा श्रमेण एव पिपासया च ।विनिःश्वसन् शुष्क मुखो विषण्णःप्रतिश्रयम् प्राप्य समीक्ष्य शून्यम् ॥३-५८-१९॥
स्वम् आश्रमम् स प्रविगाह्य वीरोविहार देशान् अनुसृत्य कांश्चित् ।एतत् तत् इति एव निवास भूमौप्रहृष्ट रोमा व्यथितो बभूव ॥३-५८-२०॥
अथ आश्रमात् उपावृत्तम् अंतरा रघुनंदनः ।परिपप्रच्छ सौमित्रिम् रामो दुःख अर्दितः पुनः ॥३-५९-१॥
तम् उवाच किम् अर्थम् त्वम् आगतो अपास्य मैथिलीम् ।यदा सा तव विश्वासात् वने विहरिता मया ॥३-५९-२॥
दृष्ट्वा एव अभ्यागतम् त्वाम् मे मैथिलीम् त्यज्य लक्ष्मण ।शंकमानम् महत् पापम् यत् सत्यम् व्यथितम् मनः ॥३-५९-३॥
स्फुरते नयनम् सव्यम् बाहुः च हृदयम् च मे ।दृष्ट्वा लक्ष्मण दूरे त्वाम् सीता विरहितम् पथि ॥३-५९-४॥
एवम् उक्तः तु सौमित्रिः लक्ष्मणः शुभ लक्षणः ।भूयो दुःख संआविष्टो दुःखितम् रामम् अब्रवी॥३-५९-५॥
न स्वयम् काम कारेण ताम् त्यक्त्वा अहम् इह आगतः ।प्रचोदितस्तयैवोग्रैत्वत्सकाशमिहाअगतः - यद्वा -प्रचोदितः तया एव उग्रैः त्वत् सकाशम् इह आगतः ॥३-५९-६॥
आर्येण एव परिक्रुष्टम् - पराक्रुष्टम् - हा सीते लक्ष्मण इति च ।परित्राहि इति यत् वाक्यम् मैथिल्याः तत् श्रुतिम् गतम् ॥३-५९-७॥
सा तम् आर्त स्वरम् श्रुत्वा तव स्नेहेन मैथिली ।गच्छ गच्छ इति माम् आह रुदन्ती भय - विक्लवा - विह्वला ॥३-५९-८॥
प्रचोद्यमानेन मया गच्छ इति बहुशः तया ।प्रत्युक्ता मैथिली वाक्यम् इदम् तत् प्रत्यय अन्वितम् ॥३-५९-९॥
न तत् पश्यामि अहम् रक्षो यत् अस्य भयम् आवहेत् ।निर्वृता भव न अस्ति एतत् केन अपि एवम् उदाहृतम् ॥३-५९-१०॥
विगर्हितम् च नीचम् च कथम् आर्यो अभिधास्यति ।त्राहि इति वचनम् सीते यः त्रायेत् त्रिदशान् अपि ॥३-५९-११॥
किम् निमित्तम् तु केन अपि भ्रातुः आलंब्य मे स्वरम् ।विस्वरम् व्याहृतम् वाक्यम् लक्ष्मण त्राहि माम् इति ॥३-५९-१२॥
राक्षसेन ईरितम् वाक्यम् त्रसात् त्राहि इति शोभने ।न भवत्या व्यथा कार्या कुनारी जन सेविता ॥३-५९-१३॥
अलम् वैक्लवताम् गंतुम् स्वस्था भव निर् उत्सुका ।न च अस्ति त्रिषु लोकेषु पुमान् यो राघवम् रणे ॥३-५९-१४॥
जातो वा जायमानो वा संयुगे यः पराजयेत् ।अजेयो राघवो युद्धे देवैः शक्र पुरोगमैः ॥३-५९-१५॥
एवम् उक्ता तु वैदेही परिमोहित चेतना ।उवाच अश्रूणि मुंचन्ती दारुणम् माम् इदम् वचः ॥३-५९-१६॥
भावो मयि तव अत्यर्थम् पाप एव निवेशितः ।विनष्टे भ्रातरि प्राप्तुम् न च त्वम् माम् अवाप्स्यसि ॥३-५९-१७॥
संकेतात् भरतेन त्वम् रामम् समनुगच्छसि ।क्रोशन्तम् हि यथा अत्यर्थम् न एनम् अभ्यवपद्यसे ॥३-५९-१८॥
रिपुः प्रच्छन्न चारी त्वम् मत् अर्थम् अनुगच्छसि ।राघवस्य अन्तर प्रेप्सुः तथा एनम् न अभिपद्यसे ॥३-५९-१९॥
एवम् उक्तो हि वैदेह्या संरब्धो रक्त लोचनः ।क्रोधात् प्रस्फुरमाण ओष्ठ आश्रमात् अभिनिर्गतः ॥३-५९-२०॥
एवम् ब्रुवाणम् सौमित्रिम् रामः संताप मोहितः ।अब्रवीत् दुष्कृतम् सौम्य ताम् विना यत् त्वम् आगतः ॥३-५९-२१॥
जानन् अपि समर्थम् माम् रक्षसाम् अपवारणे ।अनेन क्रोध वाक्येन मैथिल्या निर्गतो भवान् ॥३-५९-२२॥
न हि ते परितुष्यामि त्यक्त्वा यत् यासि मैथिलीम् ।क्रुद्धायाः परुषम् श्रुत्वा स्त्रिया यत् त्वम् इह आगतः ॥३-५९-२३॥
सर्वथा तु अपनीतम् ते सीतया यत् प्रचोदितः ।क्रोधस्य वशम् आगम्य न अकरोः शासनम् मम ॥३-५९-२४॥
असौ हि राक्षसः शेते शरेण अभिहतो मया ।मृग रूपेण येन अहम् आश्रमात् अपवाहितः ॥३-५९-२५॥
विकृष्य चापम् परिधाय सायकम्स लील बाणेन च ताडितो मया ।मार्गीम् तनुम् त्यज्य च विक्लव स्वरोबभूव केयूर धरः स राक्षसः ॥३-५९-२६॥
शर आहतेन एव तदा आर्तया गिरास्वरम् मम आलंब्य सु दूर सु श्रवम् ।उदाहृतम् तत् वचनम् सु दारुणम्त्वम् आगतो येन विहाय मैथिलीम् ॥३-५९-२७॥
भृशम् आव्रजमानस्य तस्य अधो वाम लोचनम् ।प्रास्फुरत् च अस्खलत् रामो वेपथुः च अस्य जायते ॥३-६०-१॥
उपालक्ष्य निमित्तानि सो अशुभानि मुहुर् मुहुः ।अपि क्षेमम् तु सीताया इति वै व्याजहार ह ॥३-६०-२॥
त्वरमाणो जगाम अथ सीता दर्शन लालसः ।शून्यम् आवसथम् दृष्ट्वा बभूव उद्विग्न मानसः ॥३-६०-३॥
उद् भ्रमन् इव वेगेन विक्षिपन् रघु नन्दनः ।तत्र तत्र उटज स्थानम् अभिवीक्ष्य समंततः ॥३-६०-४॥
ददर्श पर्ण शालाम् च सीतया रहिताम् तदा ।श्रिया विरहिताम् ध्वस्ताम् हेमन्ते पद्मिनीम् इव ॥३-६०-५॥
रुदन्तम् इव वृक्षैः च ग्लान पुष्प मृग द्विजम् ।श्रिया विहीनम् विध्वस्तम् संत्यक्त वन दैवतैः ॥३-६०-६॥
विप्रकीर्ण अजिन कुशम् विप्रविद्ध बृसी कटम् ।दृष्ट्वा शून्य उटज स्थानम् विललाप पुनः पुनः ॥३-६०-७॥
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति ।निलीना अपि अथवा भीरुः अथवा वनम् आश्रिता ॥३-६०-८॥
गता विचेतुम् पुष्पाणि फलानि अपि च वा पुनः ।अथवा पद्मिनीम् याता जल अर्थम् वा नदीम् गता ॥३-६०-९॥
यत्नात् मृगयमाणः तु न आससाद वने प्रियाम् ।शोक रक्त ईक्षणः श्रीमान् उन्मत्त इव लक्ष्यते ॥३-६०-१०॥
वृक्षात् वृक्षम् प्रधावन् स गिरीम् च अपि नदी नदम् ।बभ्राम विलपन् रामः शोक पंक अर्णव प्लुतः ॥३-६०-११॥
अस्ति कच्चित् त्वया दृष्टा सा कदम्ब प्रिया प्रिया ।कदम्ब यदि जानीषे शंस सीताम् शुभ आननाम् ॥३-६०-१२॥
स्निग्ध पल्लव संकाशाम् पीत कौशेय वासिनीम् ।शंसस्व यदि सा दृष्टा बिल्व बिल्व उपम स्तनी ॥३-६०-१३॥
अथवा अर्जुन शंस त्वम् प्रियाम् ताम् अर्जुन प्रियाम् ।जनकस्य सुता तन्वी यदि जीवति वा न वा ॥३-६०-१४॥
ककुभः ककुभ ऊरुम् ताम् व्यक्तम् जानाति मैथिलीम् ।लता पल्लव पुष्प आढ्यो भाति हि एष वनस्पतिः ॥३-६०-१५॥
भ्रमरैर् उपगीतः च यथा द्रुम वरो हि असि ।एष व्यक्तम् विजानाति तिलकः तिलक प्रियाम् ॥३-६०-१६॥
अशोक शोक अपनुद शोक उपहत चेतनम् ।त्वन् नामानम् कुरु क्षिप्रम् प्रिया संदर्शनेन माम् ॥३-६०-१७॥
यदि ताल त्वया दृष्टा पक्व ताल फल स्तनी ।कथयस्व वरारोहाम् कारुण्यम् यदि ते मयि ॥३-६०-१८॥
यदि दृष्टा त्वया सीता जम्बो जांबूनद सम प्रभा ।प्रियाम् यदि विजानासि निःशंक कथयस्व मे ॥३-६०-१९॥
अहो त्वम् कर्णिकार अद्य पुष्पितः शोभसे भृशम् ।कर्णिकार प्रियाम् साध्वीम् शंस दृष्टा यदि प्रिया ॥३-६०-२०॥
चूत नीप महा सालान् पनसान् कुरवान् धवान् ।दाडिमान् अपि तान् गत्वा दृष्ट्वा रामो महायशाः ॥३-६०-२१॥
बकुलान् अथ पुन्नागान् च चंदनान्केतकान् तथा ।पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥३-६०-२२॥
अथवा मृग शाब अक्षीम् मृग जानासि मैथिलीम् ।मृग विप्रेक्षणी कांता मृगीभिः सहिता भवेत् ॥३-६०-२३॥
गज सा गज नासोरुः यदि दृष्टा त्वया भवेत् ।ताम् मन्ये विदिताम् तुभ्यम् आख्याहि वर वारण ॥३-६०-२४॥
शार्दूल यदि सा दृष्टा प्रिया चंद्र निभ आनना ।मैथिली मम विस्रब्धम् कथयस्व न ते भयम् ॥३-६०-२५॥
किम् धावसि प्रिये नूनम् दृष्टा असि कमल ईक्षणे ।वृक्षेण आच्चाद्य च आत्मानम् किम् माम् न प्रतिभाषसे ॥३-६०-२६॥
तिष्ठ तिष्ठ वरारोहे न ते अस्ति करुणा मयि ।न अत्यर्थम् हास्य शीला असि किम् अर्थम् माम् उपेक्षसे ॥३-६०-२७॥
पीत कौशेयकेन असि सूचिता वर वर्णिनि ।धावन्ति अपि मया दृष्टा तिष्ठ यदि अस्ति सौहृदम् ॥३-६०-२८॥
न एव सा नूनम् अथवा हिंसिता चारु हासिनी ।कृच्छ्रम् प्राप्तम् न माम् नूनम् यथा उपेक्षितुम् अर्हति ॥३-६०-२९॥
व्यक्तम् सा भक्षिता बाला राक्षसैः पिशित अशनैः ।विभज्य अंगानि सर्वाणि मया विरहिता प्रिया ॥३-६०-३०॥
नूनम् तत् शुभ दंत ओष्ठम् सुनासम् शुभ कुण्डलम् ।पूर्ण चंद्र निभम् ग्रस्तम् मुखम् निष्प्रभताम् गतम् ॥३-६०-३१॥
सा हि चंपक वर्ण आभा ग्रीवा ग्रैवेयक उचिता ।कोमला विलपन्त्याः तु कान्ताया भक्षिता शुभा ॥३-६०-३२॥
नूनम् विक्षिप्यमाणौ तौ बाहू पल्लव कोमलौ ।भक्षितौ वेपमान अग्रौ स हस्त आभरण अंगदौ ॥३-६०-३३॥
मया विरहिता बाला रक्षसाम् भक्षणाय वै ।सार्थेन इव परित्यक्ता भक्षिता बहु बांधवा ॥३-६०-३४॥
हा लक्ष्मण महाबाहो पश्यसे त्वम् प्रियाम् क्वचित् ।हा प्रिये क्व गता भद्रे हा सीते इति पुनः पुनः ॥३-६०-३५॥
इति एवम् विलपन् रामः परिधावन् वनात् वनम् ।क्वचित् उद् भ्रमते वेगात् क्वचित् विभ्रमते बलात् ॥३-६०-३६॥
क्वचित् मत्त इव आभाति कांता अन्वेषण तत्परः ।स वनानि नदीः शैलान् गिरि प्रस्रवणानि च ।काननानि च वेगेन भ्रमति अपरिसंस्थितः ॥३-६०-३७॥
तदा स गत्वा विपुलम् महत् वनम्परीत्य सर्वम् तु अथ मैथिलीम् प्रति ।अनिष्ठित आशः स चकार मार्गणेपुनः प्रियायाः परमम् परिश्रमम् ॥३-६०-३८॥
दृष्ट्वा आश्रम पदम् शून्यम् रामो दशरथ आत्मजः।रहिताम् पर्णशालाम् च प्रविद्धानि आसनानि च ॥३-६१-१॥
अदृष्ट्वा तत्र वैदेहीम् संनिरीक्ष्य च सर्वशः ।उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥३-६१-२॥
क्व नु लक्ष्मण वैदेही कम् वा देशम् इतो गता ।केन आहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥३-६१-३॥
वृक्षेण आवार्य यदि माम् सीते हसितुम् इच्छसि ।अलम् ते हसितेन अद्य माम् भजस्व सुदुःखितम् ॥३-६१-४॥
यैः सह क्रीडसे सीते विश्वस्तैः मृग पोतकैः ।एते हीनाः त्वया सौम्ये ध्यायन्ति अस्र आविल ईक्षणाः ॥३-६१-५॥
सीताया रहितो अहम् वै न हि जीवामि लक्ष्मण ।वृतम् शोकेन महता सीता हरणजेन माम् ॥३-६१-६॥
पर लोके महाराजो नूनम् द्रक्ष्यति मे पिता ।कथम् प्रतिज्ञाम् संश्रुत्य मया त्वम् अभियोजितः ॥३-६१-७॥
अपूरयित्वा तम् कालम् मत् सकाशम् इह आगतः ।काम वृत्तम् अनार्यम् माम् मृषा वादिनम् एव च ॥३-६१-८॥
धिक् त्वाम् इति परे लोके व्यक्तम् वक्ष्यति मे पिता ।विवशम् शोक संतप्तम् दीनम् भग्न मनोरथम् ॥३-६१-९॥
माम् इह उत्सृज्य करुणम् कीर्तिः नरम् इव अन्ऋजुम् ।क्व गच्चसि वरारोहे मा मोत्सृज्य - मा मा उत्सृज्य - सुमध्यमे ॥३-६१-१०॥
त्वया विरहितः च अहम् त्यक्ष्ये जीवितम् आत्मनः ।इति इव विलपन् रामः सीता दर्शन लालसः ॥३-६१-११॥
न ददर्श सुदुःख आर्तो राघवो जनक आत्मजाम् ।अनासादयमानम् तम् सीताम् शोकपरायणम् ॥३-६१-१२॥
पंकम् आसाद्य विपुलम् सीदन्तम् इव कुंजरम् ।लक्ष्मणो रामम् अत्यर्थम् उवाच हित काम्यया ॥३-६१-१३॥
मा विषादम् महाबुद्धे कुरु यत्नम् मया सह ।इदम् गिरि वरम् वीर बहु कन्दर शोभितम् ॥३-६१-१४॥
प्रिय कानन संचारा वन उन्मत्ता च मैथिली ।सा वनम् वा प्रविष्टा स्यात् नलिनीम् वा सुपुष्पिताम् ॥३-६१-१५॥
सरितम् वा अपि संप्राप्ता मीन वंजुल सेविताम् ।वित्रासयितु कामा वा लीना स्यात् कानने क्वचित् ॥३-६१-१६॥
जिज्ञासमाना वैदेही त्वाम् माम् च पुरुषर्षभ ।तस्या हि अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे ॥३-६१-१७॥
वनम् सर्वम् विचिनुवो यत्र सा जनक आत्मजा ।मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥३-६१-१८॥
एवम् उक्तः तु सौहार्दात् लक्ष्मणेन समाहितः ।सह सौमित्रिणा रामो विचेतुम् उपचक्रमे ॥३-६१-१९॥
तौ वनानि गिरीन् चैव सरितः च सरांसि च ।निखिलेन विचिन्वन्तौ सीताम् दशरथ आत्मजौ ॥३-६१-२०॥
तस्य शैलस्य सानूनि शिलाः च शिखराणि च ।निखिलेन विचिन्वन्तौ न एव ताम् अभिजग्मतुः ॥३-६१-२१॥
विचित्य सर्वतः शैलम् रामो लक्ष्मणम् अब्रवीत् ।न इह पश्यामि सौमित्रे वैदेहीम् पर्वते शुभाम् ॥३-६१-२२॥
ततो दुःख अभिसंतप्तो लक्ष्मणो वाक्यम् अब्रवीत् ।विचरन् दण्डक अरण्यम् भ्रातरम् दीप्त तेजसम् ॥३-६१-२३॥
प्राप्स्यसि त्वम् महाप्राज्ञ मैथिलीम् जनक आत्मजाम् ।यथा विष्णुः महाबाहुः बलिम् बद्ध्वा महीम् इमाम् ॥३-६१-२४॥
एवम् उक्तः तु वीरेण लक्ष्मणेन स राघवः ।उवाच दीनया वाचा दुःख अभिहत चेतनः ॥३-६१-२५॥
वनम् सुविचितम् सर्वम् पद्मिन्यः फुल्ल पंकजाः ।गिरिः च अयम् महाप्राज्ञ बहु कन्दर निर्झरः ।न हि पश्यामि वैदेहीम् प्राणेभ्यो अपि गरीयसीम् ॥३-६१-२६॥
एवम् स विलपन् रामः सीता हरण कर्शितः ।दीनः शोक समाविष्टो मुहूर्तम् विह्वलो अभवत् ॥३-६१-२७॥
स विह्वलित सर्व अंगो गत बुद्धिः विचेतनः ।निषसाद आतुरो दीनो निःश्वस्य अशीतम् आयतम् ॥३-६१-२८॥
बहुशः स तु निःश्वस्य रामो राजीव लोचनः ।हा प्रिये ति विचुक्रोश बहुशो बाष्प गद्गदः ॥३-६१-२९॥
तम् सान्त्वयामास ततो लक्ष्मणः प्रिय बान्धवम् ।बहु प्रकारम् शोक आर्तः प्रश्रितः प्रश्रित अंजलिः ॥३-६१-३०॥
अनादृत्य तु तत् वाक्यम् लक्ष्मण ओष्ठ पुट च्युतम् ।अपश्यन् ताम् प्रियाम् सीताम् प्राक्रोशत् स पुनः पुनः ॥३-६१-३१॥
सीताम् अपश्यन् धर्मात्मा शोक उपहत चेतनः ।विललाप महाबाहू रामः कमल लोचनः ॥३-६२-१॥
पश्यन् इव च ताम् सीताम् अपश्यन् मदन अर्दितः ।उवाच राघवो वाक्यम् विलाप आश्रय दुर्वचम् ॥३-६२-२॥
त्वम् अशोकस्य शाखाभिः पुष्प प्रिय तराअ प्रिये ।अवृणोषि शरीरम् ते मम शोक विवर्धिनी ॥३-६२-३॥
कदली काण्ड सदृशौ कदल्या संवृता उभौ ।ऊरू पश्यामि ते देवि न असि शक्ता निगूहितुम् ॥३-६२-४॥
कर्णिकार वनम् भद्रे हसंती देवि सेवसे ।अलम् ते परिहासेन मम बाधावहेन वै ॥३-६२-५॥
विशेषेण आश्रमस्थाने हासो अयम् न प्रशस्यते ।अवगच्छामि ते शीलम् परिहास प्रियम् प्रिये ॥३-६२-६॥
आगच्छ त्वम् विशालाक्षी शून्यो अयम् उटजः तव ।सु व्यक्तम् राक्षैः सीता भक्षिता वा हृता अपि वा ॥३-६२-७॥
न हि सा विलपंतम् माम् उपसम्प्रैति लक्ष्मण ।एतानि मृग यूधानि स अश्रु नेत्राणि लक्ष्मण ॥३-६२-८॥
शंशन्ति इव हि मे देवीम् भक्षिताम् रजनीचरैः ।हा मम आर्ये क्व याता असि हा साध्वि वर वर्णिनि ॥३-६२-९॥
हा स कामा अद्य कैकेयी देवि मे अद्य भविष्यति ।सीताया सह निर्यातो विना सीताम् उपागतः ॥३-६२-१०॥
कथम् नाम प्रवेक्ष्यामि शून्यम् अन्तः पुरम् मम ।निर्वीर्य इति लोको माम् निर्दयः च इति वक्ष्यति ॥३-६२-११॥
कातरत्वम् प्रकाशम् हि सीता अपनयनेन मे ।निवृत्त वन वासः च जनकम् मिथिल अधिपम् ॥३-६२-१२॥
कुशलम् परिपृच्छन्तम् कथम् शक्षे निरीक्षितुम् ।विदेह रजो नूनम् माम् दृष्ट्वा विरहितम् तया ॥३-६२-१३॥
सुता विनाश संतप्तो मोहस्य वशम् एष्यति ।अथवा न गमिष्यामि पुरीम् भरत पालितम् ॥३-६२-१४॥
स्वर्गो अपि हि तया हीनः शून्य एव मतो मम ।तत् माम् उत्सृज्य हि वने गच्छ अयोध्या पुरीम् शुभाम् ॥३-६२-१५॥
न तु अहम् ताम् विना सीताम् जीवेयम् हि कथंचन ।गाढम् आश्लिष्य भरतो वाच्यो मत् वचनात् त्वया ॥३-६२-१६॥
अनुज्ञातो असि रामेण पालय इति वसुंधराम् ।अंबा च मम कैकेयी सुमित्रा च त्वया विभो ॥३-६२-१७॥
कौसल्या च यथा न्यायम् अभिवाद्या मम अज्ञया ।रक्षणीया प्रयत्नेन भवता सा उक्त कारिणा ॥३-६२-१८॥
सीतायाः च विनाशो अयम् मम च अमित्र सूदन ।विस्तरेण जनन्या विनिवेद्य त्वया भवेत् ॥३-६२-१९॥
इति विलपति राघवो तु दीनोवनम् उपगम्य तया विना सु केश्या ।भय विकल मुखः तु लक्ष्मणो अपिव्यथित मना भृशम् आतुरो बभूव ॥३-६२-२०॥
स राज पुत्र प्रिया विहीनःशोकेन मोहेन च पीड्यमानः ।विषादयन् भ्रातरम् आर्त रूपोभूयो विषादम्प्रविवेश तीव्रम् ॥३-६३-१॥
स लक्ष्मणम् शोक वश अभिपन्नम्शोके निमग्नो विपुले तु रामः ।उवाच वाक्यम् व्यसनानुरूपम्उष्णम् विनिःश्वस्य रुदन् स शोकम् ॥३-६३-२॥
न मत् विधो दुष्कृत कर्म कारीमन्ये द्वितीयो अस्ति वसुंधरायाम् ।शोक अनुशोको हि परंपरायामाम् एति भिन्दन् हृदयम् मनः च ॥३-६३-३॥
पूर्वम् मया नूनम् अभीप्सितानिपापानि कर्माणि असत्कृत् कृतानि ।तत्र अयम् अद्य पतितो विपाकोदुःखेन दुःखम् यद् अहम् विशामि ॥३-६३-४॥
राज्य प्रणाशः स्व जनैः वियोगःपितुर् विनाशो जननी वियोगः ।सर्वानि मे लक्ष्मण शोक वेगम्आपूरयन्ति प्रविचिन्तितानि ॥३-६३-५॥
सर्वम् तु दुःखम् मम लक्ष्मण इदम्शान्तम् शरीरे वनम् एत्य क्लेशम् ।सीता वियोगात् पुनर् अपि उदीर्णम्काष्टैः इव अग्निः सहसा प्रदीप्तः ॥३-६३-६॥
सा नूनम् आर्या मम राक्षसेन हिअभ्याहृता खम् समुपेत्य भीरुः ।अपस्वरम् सु स्वर विप्रलापाभयेन विक्रन्दितवति अभीक्ष्णम् ॥३-६३-७॥
तौ लोहितस्य प्रिय दर्शनस्यसदा उचितौ उत्तम चंदनस्य ।वृत्तौ स्तनौ शोणित पंक दिग्धौनूनम् प्रियाया मम न अभिभात ॥३-६३-८॥
तत् श्लक्ष्ण सु व्यक्त मृदु प्रलापम्तस्या मुखम् कुंचित केश भारम् ।रक्षो वशम् नूनम् उपगतायान भ्राजते राहु मुखे यथा इंदुः ॥३-६३-९॥
ताम् हार पाशस्य सदा उचित अंतम्ग्रीवाम् प्रियाया मम सु व्रताया ।रक्षांसि नूनम् परिपीतवन्तिशून्ये हि भित्वा रुधिर अशनानि ॥३-६३-१०॥
मया विहीना विजने वने यारक्षोभिः आहृत्य विकृष्यमाणा ।नूनम् विनादम् कुररि इव दीनासा मुक्तवती आयत कान्त नेत्रा ॥३-६३-११॥
अस्मिन् मया सार्थम् उदार शीलाशिला तले पूर्वम् उपोपविष्टा ।कान्त स्मिता लक्ष्मण जात हासात्वाम् आह सीता बहु वाक्य जातम् ॥३-६३-१२॥
गोदावरी इयाम् सरिताम् वरिष्टाप्रिया प्रियाया मम नित्य कालम् ।अपि अत्र गच्छेत् इति चिंतयामिन एकाकिनी याति हि सा कदाचित् ॥३-६३-१३॥
पद्म आनना पद्म पलाश नेत्रापद्मानि वा आनेतुम् अभिप्रयाता ।तत् अपि अयुक्तम् न हि सा कद्दचित्मया विना गच्छति पंकजानि ॥३-६३-१४॥
कामम् तु इदम् पुष्पित वृक्ष सण्डम्नाना विधैः पक्षि गणैः उपेतम् ।वनम् प्रयाता नु तत् अपि अयुक्तम्एकाकिनी सा अति बिभेति भीरुः ॥३-६३-१५॥
आदित्य भो लोक क्रृत अकृत ज्ञःलोकस्य सत्य अनृत कर्म साक्षिन् ।मम प्रिया सा क्व गता हृता वाशंसव मे शोक हतस्य सर्वम् ॥३-६३-१६॥
लोकेषु सर्वेषु न नास्ति किंचित्यत् ते न नित्यम् विदितम् भवेत् तत् ।शंसस्व वयोः कुल शालिनीम् ताम्मृता हृता वा पथि वर्तते वा ॥३-६३-१७॥
इति इव तम् शोक विधेय देहम्रामम् विसंज्ञम् विलपंतम् एव ।उवाच सौमित्रिःअदीन सत्त्वःन्याये स्थितः काल युतम् च वाक्यम् ॥३-६३-१८॥
शोकम् विमुंच आर्य धृतिम् भजस्वसह उत्साहता च अस्तु विमार्गणे अस्याः ।उत्साहवन्तो हि नरा न लोकेसीदन्ति कर्मसु अति दुष्करेषु ॥३-६३-१९॥
इति इव सौमित्रिम् उदग्र पौरुषम्ब्रुवन्तम् आर्तो रघु वंश वर्धनः ।न चिंतयामास धृतिम् विमुक्तवान्पुनः च दुःखम् महत् अभ्युपागमत् ॥३-६३-२०॥
स दीनो दीनया वाचा लक्ष्मणम् वाक्यम् अब्रवीत् ।शीघ्रम् लक्ष्मण जानीहि गत्वा गोदावरीम् नदीम् ॥३-६४-१॥
अपि गोदावरीम् सीता पद्मानि आनयितुम् गता ।एवम् उक्तः तु रामेण लक्ष्मणः पुनः एव हि ॥३-६४-२॥
नदीम् गोदावरीम् रम्याम् जगाम लघु विक्रमः ।ताम् लक्ष्मणः तीर्थवतीम् विचित्वा रामम् अब्रवीत् ॥३-६४-३॥
नैनाम् पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ।कम् नु सा देशम् आपन्ना वैदेही क्लेश नाशिनी ॥३-६४-४॥
न हि तम् वेद्मि वै राम यत्र सा तनु मध्यमा ।लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः ॥३-६४-५॥
रामः समभिचक्राम स्वयम् गोदावरीम् नदीम् ।स ताम् उपस्थितो रामः क्व सीते इति एवम् अब्रवीत् ॥३-६४-६॥
भूतानि राक्षसेन्द्रेण वध अर्हेण हृताम् अपि ।न ताम् शशंसू रामाय तथा गोदावरी नदी ॥३-६४-७॥
ततः प्रचोदिता भूतैः शंस च अस्मै प्रियाम् इति ।न च सा हि अवदत् सीताम् पृष्टा रामेण शोचता ॥३-६४-८॥
रावणस्य च तत् रूपम् कर्माणि च दुरात्मनः ।ध्यात्वा भयात् तु वैदेहीम् सा नदी न शशंस ह ॥३-६४-९॥
निराशः तु तया नद्या सीताया दर्शने कृतः ।उवाच रामः सौमित्रिम् सीता दर्शन कर्शितः ॥३-६४-१०॥
एषा गोदावरी सौम्य किंचन् न प्रतिभाषते ।किम् नु लक्ष्मण वक्ष्यामि समेत्य जनकम् वचः ॥३-६४-११॥
मातरम् चैव वैदेह्या विना ताम् अहम् अप्रियम् ।या मे राज्य विहीनस्य वने वन्येन जीवतः ॥३-६४-१२॥
सर्वम् व्यपनयत् शोकम् वैदेही क्व नु सा गता ।ज्ञाति वर्ग विहीनस्य राज पुत्रीम् अपश्यतः ॥३-६४-१३॥
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ।मंदाकिनीम् जनस्थानम् इमम् प्रस्रवणम् गिरिम् ॥३-६४-१४॥
सर्वाणि अनुचरिष्यामि यदि सीता हि लभ्यते ।एते महा मृगा वीर माम् ईक्षन्ते पुनः पुनः ॥३-६४-१५॥
वक्तु कामा इह हि मे इंगितानि अनुपलक्षये ।तान् तु दृष्ट्वा नरव्याघ्र राघवः प्रत्युवाच ह ॥३-६४-१६॥
क्व सीत इति निरीक्षन् वै बाष्प संरुद्धया गिरा ।एवम् उक्ता नरेन्द्रेण ते मृगाः सहसा उत्थिता ॥३-६४-१७॥
दक्षिण अभिमुखाः सर्वे दर्शयन्तो नभः स्थलम् ।मैथिली ह्रियमाणा सा दिशम् याम् अभ्यपद्यत ॥३-६४-१८॥
तेन मार्गेण गच्छन्तो निरीक्षन्तो नराधिपम् ।येन मार्गम् च भूमिम् च निरीक्षन्ते स्म ते मृगाः ॥३-६४-१९॥
पुनः नदन्तो गच्छन्ति लक्ष्मणेन उपलक्षिताः ।तेषाम् वचन सर्वस्वम् लक्षयामास च इन्गितम् ॥३-६४-२०॥
उवाच लक्ष्मणो धीमान् ज्येष्ठम् भ्रातरम् आर्तवत् ।क्व सीत इति त्वया पृष्टा यथा इमे सहसा उथिताः ॥३-६४-२१॥
दर्शयन्ति क्षितिम् चैव दक्षिणाम् च दिशम् मृगाः ।सधु गच्छावहे देव दिशम् एताम् च नैर्ऋतीम् ॥३-६४-२२॥
यदि तस्य आगमः कश्चित् आर्या वा सा अथ लक्ष्यते ।बाढम् इति एव काकुत्स्थः प्रस्थितो दक्षिणाम् दिशम् ॥३-६४-२३॥
लक्ष्मण अनुगत श्रीमान् वीक्ष्यमाणो वसुन्धराम् ।एवम् संभाषमाणौ तौ अन्योन्यम् भ्रातरौ उभौ ॥३-६४-२४॥
वसुन्धरायाम् पतित पुष्प मार्गम् अपश्यताम् ।पुष्प वृष्टिम् निपतिताम् दृष्ट्वा रामो मही तले ॥३-६४-२५॥
उवाच लक्ष्मणम् वीरो दुःखितो दुःखितम् वचः ।अभिजानामि पुष्पाणि तानि इमानि इह लक्ष्मण ॥३-६४-२६॥
अपिनद्धानि वैदेह्या मया दत्तानि कानने ।मन्ये सूर्यः च वायुः च मेदिनी च यशशिविनि ॥३-६४-२७॥
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ।एवम् उक्त्वा महाबाहुः लक्ष्मणम् पुरुषर्षभम् ॥३-६४-२८॥
उवाच रामो धर्मात्मा गिरिम् प्रसवण आकुलम् ।कच्चित् क्षिति भृताम् नाथ दृष्टा सर्वांग सुंदरीम् ॥३-६४-२९॥
रामा रम्ये वनोद् देशे मया विरहिता त्वया ।क्रुद्धो अब्रवीत् गिरिम् तत्र सिंहः क्षुद्र मृगम् यथा ॥३-६४-३०॥
ताम् हेम वर्णाम् हेम अंगीम् सीताम् दर्शय पर्वत ।यावत् सानूनि सर्वाणि न ते विध्वंसयामि अहम् ॥३-६४-३१॥
एवम् उक्तः तु रामेण पर्वतो मैथिलीम् प्रति ।दर्शयन् इव ताम् सीताम् न दर्शयत राघवे ॥३-६४-३२॥
ततो दाशरथी राम उवाच शिलोच्चयम् ।मम बाण अग्नि निर्दग्धो भस्मी भूतो भविष्यसि ॥३-६४-३३॥
असेव्यः सततम् चैव निस्तृण द्रुम पल्लवः ।इमाम् वा सरितम् च अद्य शोषयिष्यामि लक्ष्मण ॥३-६४-३४॥
यदि न आख्याति मे सीताम् अद्य चन्द्र निभ आननाम् ।एवम् प्ररुषितो रामो दिधक्षन् इव चक्षुषा ॥३-६४-३५॥
ददर्श भूमौ निष्क्रांतम् राक्षसस्य पदम् महत् ।त्रस्तया राम काङ्क्षिण्याः प्रधावन्त्या इतः ततः ॥३-६४-३६॥
राक्षसेन अनुवृत्तया वैदेह्या च पादानि तु ।स समीक्ष्य परिक्रान्तम् सीताया राक्षसस्य च ॥३-६४-३७॥
भंगम् धनुः च तूणी च विकीर्णाम् बहुधा रथम् ।संभ्रांत हृदयो रामः शशंस भ्रातरम् प्रियम् ॥३-६४-३८॥
पश्य लक्ष्मण वैदेह्याः कीर्णाम् कनक बिन्दवः ।भूषणानाम् हि सौमित्रे माल्यानि विविधानि च ॥३-६४-३९॥
तप्त बिन्दु निकाशैः च चित्रैः क्षतज बिन्दुभिः ।आवृतम् पश्य सौमित्रे सर्वतो धरणी तलम् ॥३-६४-४०॥
मन्ये लक्ष्मण वैदेही राक्षसैः काम रूपिभिः ।भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥३-६४-४१॥
तस्या निमित्तम् वैदेह्या द्वयोः विवदमानयोः ।बभूव युद्धम् सौमित्रे घोरम् राक्षसयोः इह ॥३-६४-४२॥
मुक्ता मणि चितम् च इदम् तपनीय विभूषितम् ।धरण्याम् पतितम् सौम्य कस्य भग्नम् महत् धनुः ॥३-६४-४३॥
राक्षसानाम् इदम् वस्त सुराणाम् अधवा अपि ।तरुण आदित्य संकाशम् वैदूर्य गुलिका चितम् ॥३-६४-४४॥
विशीर्णम् पतितम् भूमौ कवचम् कस्य कांचनम् ।छत्रम् शत शलाकम् च दिव्य माल्य उपशोभितम् ॥३-६४-४५॥
भग्न दण्डम् इदम् कस्य भूमौ सौम्य निपातितम् ।कान्चन उरः छदाः च इमे पिशाच वदनाः खराः ॥३-६४-४६॥
भीम रूपा महाकायाः कस्य वा निहता रणे ।दीप्त पावक संकाशो द्युतिमान् समर ध्वजः ॥३-६४-४७॥
अपविद्धः च भग्नः च कस्य सांग्रामिको रथः ।रथ अक्ष मात्रा विशिखाः तपनीय विभूषणाः ॥३-६४-४८॥
कस्य इमे निहता बाणाः प्रकीर्णा घोर दर्शनः ।शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥३-६४-४९॥
प्रतोद अभीशु हस्तो अयम् कस्य वा सारथिः हतः ।पदवी पुरुषस्य एषा व्यक्तम् कस्य अपि राक्षसः ॥३-६४-५०॥
वैरम् शत गुणम् पश्य मम तैः जीवित अंतकम् ।सुघोर हृदयैः सौम्य राक्षसैः काम रूपिभिः ॥३-६४-५१॥
हृता मृता वा सीता हि भक्षिता वा तपस्विनी ।न धर्मः त्रायते सीताम् ह्रियमाणाम् महावने ॥३-६४-५२॥
भक्षितायाम् हि वैदेह्याम् हृतायाम् अपि लक्ष्मण ।के हि लोके प्रियम् कर्तुम् शक्ताः सौम्य मम ईश्वराः ॥३-६४-५३॥
कर्तारम् अपि लोकानाम् शूरम् करुण वेदिनम् ।अज्ञानात् अवमन्येरन् सर्व भूतानि लक्ष्मण ॥३-६४-५४॥
मृदुम् लोक हिते युक्तम् दांतम् करुण वेदिनम् ।निर्वीर्य इति मन्यन्ते नूनम् माम् त्रिदश ईश्वराः ॥३-६४-५५॥
माम् प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण ।अद्य एव सर्व भूतानाम् रक्षसाम् अभवाय च ॥३-६४-५६॥
संहृत्य एव शशि ज्योत्स्नाम् महान् सूर्य इव उदितः ।संहृत्य एव गुणान् सर्वान् मम तेजः प्रकाश्ते ॥३-६४-५७॥
न एव यक्षा न गंधर्वा न पिशाचा न राक्षसाः ।किन्नरा वा मनुष्या वा सुखम् प्राप्स्यन्ति लक्ष्मण ॥३-६४-५८॥
मम अस्त्र बाण संपूर्णम् आकाशम् पश्य लक्ष्मण ।असंपातम् करिष्यामि हि अद्य त्रैलोक्य चारिणाम् ॥३-६४-५९॥
संनिरुद्धग्रहगणमावारितनिशाकरम् ।विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्।यद्व -संनिरुद्ध ग्रह गणम् आवारित निशा करम् ।विप्रनष्ट अनल मरुत् भास्कर द्युति संवृतम् ॥३-६४-६०॥
विनिर्मथितशैलाग्रम्शुष्यमाणजलाअशयम् ।ध्वस्तद्रुमलतागुल्मम्विप्रणाशितसागरम्।यद्वा -विनिर्मथित शैल अग्रम् शुष्यमाण जल आशयम् ।ध्वस्त द्रुम लता गुल्मम् विप्रणाशित सागरम् ॥३-६४-६१॥
त्रै लोक्यम् तु करिष्यामि संयुक्तम् काल कर्मणा ।न ते कुशलिनीम् सीताम् प्रदास्यन्ति मम ईश्वराः ॥३-६४-६२॥
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ।न आकाशम् उत्पतिष्यन्ति सर्व भूतानि लक्ष्मण ॥३-६४-६३॥
मम चाप गुण उन्मुक्तैः बाण जालैः निरंतरम् ।मर्दितम् मम नाराचैः ध्वस्त भ्रांत मृग द्विजम् ॥३-६४-६४॥
समाकुलम् अमर्यादम् जगत् पश्य अद्य लक्ष्मण ।आकर्णपूर्णैरिषुभिर्जीवलोकंदुरावरैः।यद्वा -आकर्ण पूर्णैर् इषुभिर् जीव लोकम् दुरावरैः ॥३-६४-६५॥
करिष्ये मैथिली हेतोः अपिशाचम् अराक्षसम् ।मम रोष प्रयुक्तानाम् विशिखानाम् बलम् सुराः ॥३-६४-६६॥
द्रक्ष्यन्ति अद्य विमुक्तानाम् अमर्षात् दूर गामिनाम् ।न एव देवा न दैतेया न पिशाचा न राक्षसाः ॥३-६४-६७॥
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते ।देव दानव यक्षाणाम् लोका ये रक्षसाम् अपि ॥३-६४-६८॥
बहुधानिपतिष्यन्तिबाणोघैश्शकलीकृताः ।यद्वा -बहुधा नि पतिष्यन्ति बाण ओघैः शकली कृताः ।निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्यसायकैः।यद्वा -निर् मर्यादान् इमान् लोकान् करिष्यामि अद्य सायकैः ॥३-६४-६९॥
हृताम् मृताम् वा सौमित्रे न दास्यन्ति मम ईश्वराः ।तथा रूपम् हि वैदेहीम् न दास्यन्ति यदि प्रियाम् ॥३-६४-७०॥
नाशयामि जगत् सर्वम् त्रैलोक्यम् स चर अचरम् ।यावत् दर्शनम् अस्या वै तापयामि च सायकैः ॥३-६४-७१॥
इति उक्त्वा क्रोध ताम्र अक्षः स्फुरमाण ओष्ट संपुटः ।वल्कल अजिनम् आबद्ध्य जटा भारम् बन्धयत् ॥३-६४-७२॥
तस्य क्रुद्धस्य रामस्य तथा अभूतस्य धीमतः ।त्रि पुरम् जग्नुषः पूर्वम् रुद्रस्य इव बभौ तनुः ॥३-६४-७३॥
लक्ष्मणात् अथ च आदाय रामो निष्पीड्य कार्मुकम् ।शरम् आदाय संदीप्तम् घोरम् अशी विष उपमम् ॥३-६४-७४॥
संदधे धनुषि श्रीमान् रामः पर पुरंजयः ।युग अन्त अग्निः इव क्रुद्धः इदम् वचनम् अब्रवीत् ॥३-६४-७५॥
यथा जरा यथा मृत्युः यथा कालो यथा विधिः ।नित्यम् न प्रतिहन्यन्ते सर्व भूतेषु लक्ष्मण ।तथा अहम् क्रोध संयुक्तो न निवार्यो अस्मि असंशयम् ॥३-६४-७६॥
पुरा इव मे चारु दतीम् अनिन्दिताम्दिशन्ति सीताम् यदि न अद्य मैथिलीम् ।सदेव गन्धर्व मनुष्य पन्नगम्जगत् स शैलम् परिवर्तयामि अहम् ॥३-६४-७७॥
तप्यमानम् तथा रामम् सीता हरण कर्शितम् ।लोकानाम् अभवे युक्तम् सांवर्तकम् इव अनलम् ॥३-६५-१॥
वीक्षमाणम् धनुः सज्यम् निःश्वसंतम् पुनः पुनः ।दग्धु कामम् जगत् सर्वम् युग अन्ते च यथा हरम् ॥३-६५-२॥
अदृष्ट पूर्वम् संक्रुद्धम् दृष्ट्वा रामम् स लक्ष्मणः ।अब्रवीत् प्रांजलिः वाक्यम् मुखेन परिशुष्यता ॥३-६५-३॥
पुरा भूत्वा मृदुः दांतः सर्व भूत हिते रतः ।न क्रोध वशम् आपन्नः प्रकृतिम् हातुम् अर्हसि ॥३-६५-४॥
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिः वायौ भुवि क्षमा ।एतत् च नियतम् सर्वम् त्वयि च अनुत्तमम् यशः ॥३-६५-५॥
एकस्य न अपराधेन लोकान् हन्तुम् त्वम् अर्हसि ।न तु जानामि कस्य अयम् भग्नः सांग्रामिको रथः ॥३-६५-६॥
केन वा कस्य वा हेतोः स आयुधः स परिच्छदः ।खुर नेमि क्षतः च अयम् सिक्तो रुधिर बिन्दुभिः ॥३-६५-७॥
देशो निवृत्त संग्रामः सु घोरः पार्थिव आत्मज ।एकस्य तु विमर्दो अयम् न द्वयोः वदताम् वर ॥३-६५-८॥
न हि वृत्तम् हि पश्यामि बलस्य महतः पदम् ।न एकस्य तु कृते लोकान् विनाशयितुम् अर्हसि ॥३-६५-९॥
युक्त दण्डा हि मृदवः प्रशान्ता वसुधा अधिपाः ।सदा त्वम् सर्व भूतानाम् शरण्यः परमा गतिः ॥३-६५-१०॥
को नु दार प्रणाशम् ते साधु मन्येत राघव ।सरितः सागराः शैला देव गन्धर्व दानवाः ॥३-६५-११॥
न अलम् ते विप्रियम् कर्तुम् दीक्षितस्य इव साधवः ।येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि ॥३-६५-१२॥
मद् द्वितीयो धनुष् पाणिः सहायैः परम ऋषिभिः ।समुद्रम् च विचेष्यामः पर्वतान् च वनानि च ॥३-६५-१३॥
गुहाः च विविधा घोरा पद्मिन्यो विविधाः थथा ।देव गन्धर्व लोकान् च विचेष्यामः समाहिताः ॥३-६५-१४॥
यावत् न अधिगमिष्यामः तव भार्या अपहारिणम् ।न चेत् साम्ना प्रदास्यन्ति पत्नीम् ते त्रिदश ईश्वराः ।कोसल इन्द्र ततः पश्चात् प्राप्त कालम् करिष्यसि ॥३-६५-१५॥
शीलेन साम्ना विनयेन सीताम्नयेन न प्राप्स्यसि चेत् नरेन्द्र ।ततः समुत्सादय हेम पुंखैःमहेन्द्र वज्र प्रतिमैः शर ओघैः ॥३-६५-१६॥
तम् तथा शोक संतप्तम् विलपंतम् अनाथवत् ।मोहेन महता आविष्टम् परिद्यूनम् अचेतनम् ॥३-६६-१॥
ततः सौमित्रिः आश्वास्य मुहूर्तात् इव लक्ष्मणः ।रामम् संबोधयामास चरणौ च अभिपीडयन् ॥३-६६-२॥
महता तपसा राम महता च अपि कर्मणा ।राज्ञा दशरथेन असि लब्धो अमृतम् इव अमरैः ॥३-६६-३॥
तव चैव गुणैः बद्धः त्वत् वियोगात् महिपतिः ।राजा देवत्वम् आपन्नो भरतस्य यथा श्रुतम् ॥३-६६-४॥
यदि दुःखम् इदम् प्राप्तम् काकुत्स्थ न सहिष्यसे ।प्राकृतः च अल्प सत्त्वः च इतरः कः सहिष्यति ॥३-६६-५॥
आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य न आपद ।संस्पृशन्ति अग्निवत् राजन् क्षणेन व्यपयान्ति च ॥३-६६-६॥
दुःखितो हि भवान् लोकान् तेजसा यदि धक्ष्यते ।आर्ताः प्रजा नर व्याघ्र क्व नु यास्यन्ति निर्वृतिम् ॥३-६६-७॥
लोक स्वभाव एव एष ययातिः नहुष आत्मजः ।गतः शक्रेण सालोक्यम् अनयः तम् समस्पृशत् ॥३-६६-८॥
महाऋषि यः वसिष्ठः तु यः पितुः नः पुरोहितः ।अह्ना पुत्र शतम् जज्ञे तथैव अस्य पुनर् हतम् ॥३-६६-९॥
या च इयम् जगतो माता सर्व लोक नमस्कृता ।अस्याः च चलनम् भूमेः दृश्यते कोसलेश्वर ॥३-६६-१०॥
यौ धर्मौ जगताम् नेत्रे यत्र सर्वम् प्रतिष्ठितम् ।आदित्य चन्द्रौ ग्रहणम् अभ्युपेतौ महाबलौ ॥३-६६-११॥
सुमहान्ति अपि भूतानि देवाः च पुरुष ऋषभ ।न दैवस्य प्रमुंचन्ति सर्व भूतानि देहिनः ॥३-६६-१२॥
शक्र आदिषु अपि देवेषु वर्तमानौ नय अनयौ ।श्रूयेते नर शार्दूल न त्वम् व्यथितुम् अर्हसि ॥३-६६-१३॥
हृतायाम् अपि वैदेह्याम् नष्टायाम् अपि राघव ।शोचितुम् न अर्हसे वीर यथा अन्यः प्राकृतः तथा ॥३-६६-१४॥
त्वत् विधा नहि शोचन्ति सततम् सर्व दर्शिनः ।सुमहत्सु अपि कृच्छ्रेषु राम अनिर्विण्ण दर्शनाः ॥३-६६-१५॥
तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिंतय ।बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभ अशुभे ॥३-६६-१६॥
अदृष्ट गुण दोषाणाम् अधृवाणाम् च कर्मणाम् ।न अंतरेण क्रियाम् तेषाम् फलम् इष्टम् च वर्तते ॥३-६६-१७॥
माम् एवम् हि पुरा वीर त्वम् एव बहुशो उक्तवान् ।अनुशिष्यात् हि को नु त्वाम् अपि साक्षात् बृहस्पतिः ॥३-६६-१८॥
बुद्धिः च ते महाप्राज्ञ देवैः अपि दुर्अन्वया ।शोकेन अभिप्रसुप्तम् ते ज्ञानम् सम्बोधयामि अहम् ॥३-६६-१९॥
दिव्यम् च मानुषम् च एवम् आत्मनः च पराक्रमम् ।इक्ष्वाकु वृषभ अवेक्ष्य यतस्व द्विषताम् वधे ॥३-६६-२०॥
किम् ते सर्व विनाशेन कृतेन पुरुष ऋषभ ।तम् एव तु रिपुम् पापम् विज्ञाय उद्धर्तुम् अर्हसि ॥३-६६-२१॥
पूर्वजो अपि उक्त मात्रः तु लक्ष्मणेन सुभाषितम् ।सार ग्राही महासारम् प्रतिजग्राह राघवः ॥३-६७-१॥
स निगृह्य महाबाहुः प्रवृद्धम् रोषम् आत्मनः ।अवष्टभ्य धनुः चित्रम् रामो लक्ष्मणम् अब्रवीत् ॥३-६७-२॥
किम् करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ।केन उपायेन पश्येयम् सीताम् इह विचिन्तय ॥३-६७-३॥
तम् तथा परिताप आर्तम् लक्ष्मणो रामम् अब्रवीत् ।इदम् एव जनस्थानम् त्वम् अन्वेषितुम् अर्हसि ॥३-६७-४॥
राक्षसैः बहुभिः कीर्णम् नाना द्रुम लता आयुतम् ।सन्ति इह गिरि दुर्गाणि निर्दराः कंदराणि च ॥३-६७-५॥
गुहाः च विविधा घोरा नाना मृग गण आकुलाः ।आवासाः किन्नराणाम् च गन्धर्व भवनानि च ॥३-६७-६॥
तानि युक्तो मया सार्धम् समन्वेषितुम् अर्हसि ।त्वत् विधा बुद्धि संपन्ना माहात्मानो नरर्षभ ॥३-६७-७॥
आपत्सु न प्रकंपन्ते वायु वेगैः इव अचलाः ।इति उक्तः तत् वनम् सर्वम् विचचार स लक्ष्मणः ॥३-६७-८॥
क्रुद्धो रामः शरम् घोरम् संधाय धनुषि क्षुरम् ।ततः पर्वत कूट आभम् महा भागम् द्विज उत्तमम् ॥३-६७-९॥
ददर्श पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् ।तम् दृष्ट्वा गिरि शृंग आभम् रामो लक्ष्मणम् अब्रवीत् ॥३-६७-१०॥
अनेन सीता वैदेही भक्षिता न अत्र संशयः ।गृध्र रूपम् इदम् व्यक्तम् रक्षो भ्रमति काननम् ॥३-६७-११॥
भक्षयित्वा विशालाक्षीम् आस्ते सीताम् यथा सुखम् ।एनम् वधिष्ये दीप्त अग्रैः घोरैः बाणैः अजिह्मगैः ॥३-६७-१२॥
इति उक्त्वा अभ्यपतत् गृध्रम् सन्धाय धनुषि क्षुरम् ।क्रुद्धो रामः समुद्र अन्ताम् चालयन् इव मेदिनीम् ॥३-६७-१३॥
तम् दीन दीनया वाचा स फेनम् रुधिरम् वमन् ।अभ्यभाषत पक्षी तु रामम् दशरथ आत्मजम् ॥३-६७-१४॥
याम् ओषधिम् इव आयुष्मन् अन्वेषसि महा वने ।सा देवी मम च प्राणा रावणेन उभयम् हृतम् ॥३-६७-१५॥
त्वया विरहिता देवी लक्ष्मणेन च राघव ।ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥३-६७-१६॥
सीताम् अभ्यवपन्नो अहम् रावणः च रणे मया ।विध्वंसित रथः च अत्र पातितो धरणी तले ॥३-६७-१७॥
एतत् अस्य धनुः भग्नम् एतत् अस्य शरावरम् ।अयम् अस्य रणे राम भग्नः सांग्रामिको रथः ॥३-६७-१८॥
अयम् तु सारथिः तस्य मत् पक्ष निहतो भुविः ।परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः ॥३-६७-१९॥
सीताम् आदाय वैदेहीम् उत्पपात विहायसम् ।रक्षसा निहतम् पूर्वम् न माम् हन्तुम् त्वम् अर्हसि ॥३-६७-२०॥
रामः तस्य तु विज्ञाय सीता सक्ताम् प्रियाम् कथाम् ।गृध्र राजम् परिष्वज्य परित्यज्य महत् धनुः ॥३-६७-२१॥
निपपात अवशो भूमौ रुरोद सह लक्ष्मण ।द्विगुणीकृत ताप आर्तो रामो धीरतरो अपि सन् ॥३-६७-२२॥
एकम् एक अयने कृच्छ्रे निःश्वसन्तम् मुहुर् मुहुः ।समीक्ष्य दुःखितो रामः सौमित्रिम् इदम् अब्रवीत् ॥३-६७-२३॥
राज्यम् भ्रष्टम् वने वासः सीता नष्टा मृते द्विजः ।ईदृशी इयम् मम अलक्ष्मीः दहेत् अपि पावकम् ॥३-६७-२४॥
संपूर्णम् अपि चेत् अद्य प्रतरेयम् महोदधिम् ।सो अपि नूनम् मम अलक्ष्म्या विशुष्येत् सरिताम् पतिः ॥३-६७-२५॥
न अस्ति अभाग्यतरो लोके मत्तो अस्मिन् स चराचरे ।येन इयम् महती प्राप्ता मया व्यसन वागुरा ॥३-६७-२६॥
अयम् पितृ वयस्यो मे गृध्र राजो जरा अन्वितः ।शेते विनिहतो भूमौ मम भाग्य विपर्ययात् ॥३-६७-२७॥
इति एवम् उक्त्वा बहुशो राघवः सह लक्ष्मणः ।जटायुषम् च पस्पर्श पितृ स्नेहम् निदर्शयन् ॥३-६७-२८॥
निकृत्त पक्षम् रुधिर अवसिक्तम्तम् गृध्र राजम् परिरभ्य रामः ।क्व मैथिलि प्राण समा मम इतिविमुच्य वाचम् निपपात भूमौ ॥३-६७-२९॥
रामः प्रेक्ष्य तु तम् गृध्रम् भुवि रौद्रेण पातितम् ।सौमित्रिम् मित्र संपन्नम् इदम् वचनम् अब्रवीत् ॥३-६८-१॥
मम अयम् नूनम् अर्थेषु यतमानो विहंगमः ।राक्षसेन हतः संख्ये प्राणान् त्यजति मत् कृते ॥३-६८-२॥
अति खिन्नः शरीरे अस्मिन् प्राणो लक्ष्मण विद्यते ।तथा स्वर विहीनो अयम् विक्लवम् समुदीक्षते ॥३-६८-३॥
जटायो यदि शक्नोषि वाक्यम् व्याहरितुम् पुनः ।सीताम् आख्याहि भद्रम् ते वधम् आख्याहि च आत्मनः ॥३-६८-४॥
किम् निमित्तो जहार आर्याम् रावणः तस्य किम् मया ।अपराधम् तु यम् दृष्ट्वा रावणेन हृता प्रिया ॥३-६८-५॥
कथम् तत् चन्द्र संकाशम् मुखम् आसीत् मनोहरम् ।सीतया कानि च उक्तानि तस्मिन् काले द्विजोत्तम ॥३-६८-६॥
कथम् वीर्यः कथम् रूपः किम् कर्मा स च राक्षसः ।क्व च अस्य भवनम् तात ब्रूहि मे परिपृच्छतः ॥३-६८-७॥
तम् उद्वीक्ष्य सः धर्मात्मा विलपन्तम् अनाथवत् ।वाचा विक्लवया रामम् इदम् वचनम् अब्रवीत् ॥३-६८-८॥
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना ।मायाम् आस्थाय विपुलाम् वात दुर्दिन संकुलाम् ॥३-६८-९॥
परिक्लांतस्य मे तात पक्षौ चित्त्वा निशाचरः ।सीताम् आदाय वैदेहीम् प्रयातो दक्षिणा मुखः ॥३-६८-१०॥
उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव ।पश्यामि वृक्षान् सौवर्णान् उशीर कृत मूर्धजान् ॥३-६८-११॥
येन याति मुहूर्तेन सीताम् आदाय रावणः ।विप्रनष्टम् धनम् क्षिप्रम् तत् स्वामि प्रतिपद्यते ॥३-६८-१२॥
विन्दो नाम मुहूर्तो असौ स च काकुत्स्थ न अबुधत् ।त्वत् प्रियाम् जानकीम् हृत्वा रावणो राक्षसेश्वर ।झषवत् बडिशम् गृह्य क्षिप्रम् एव विनश्यति ॥३-६८-१३॥
न च त्वया व्यथा कार्या जनकस्य सुताम् प्रति ।वैदेह्या रंस्यसे क्षिप्रम् हत्वा तम् रणमूर्धनि ॥३-६८-१४॥
असंमूढस्य गृध्रस्य रामम् प्रति अनुभाषतः ।आस्यात् सुस्राव रुधिरम् म्रियमाणस्य स अमिषम् ॥३-६८-१५॥
पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।इति उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥३-६८-१६॥
ब्रूहि ब्रूहि इति रामस्य ब्रुवाणस्य कृतांजलेः ।त्यक्त्वा शरीरम् गृध्रस्य जग्मुः प्राणा विहायसम् ॥३-६८-१७॥
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ।विक्षिप्य च शरीरम् स्वम् पपात धरणी तले ॥३-६८-१८॥
तम् गृध्रम् प्रेक्ष्य ताम्र अक्षम् गत असुम् अचलोपमम् ।रामः सु बहुभिः दुह्खैः दीनः सौमित्रिम् अब्रवीत् ॥३-६८-१९॥
बहूनि रक्षसाम् वासे वर्षाणि वसता सुखम् ।अनेन दण्डकारण्ये विशीर्णम् इह पक्षिणा ॥३-६८-२०॥
अनेक वार्षिको यः तु चिर काल समुत्थितः ।सो अयम् अद्य हतः शेते कालो हि दुर्अतिक्रमः ॥३-६८-२१॥
पश्य लक्ष्मण गृध्रो अयम् उपकारी हतः च मे ।सीताम् अभ्यवपन्नो हि रावणेन बलीयसा ॥३-६८-२२॥
गृध्र राज्यम् परित्यज्य पितृ पैतामहम् महत् ।मम हेतोः अयम् प्राणान् मुमोच पतगेश्वरः ॥३-६८-२३॥
सर्वत्र खलु दृश्यन्ते साधवो धर्म चारिणः ।शूराः शरण्याः सौमित्रे तिर्यक् योनि गतेषु अपि ॥३-६८-२४॥
सीता हरणजं दुःखम् न मे सौम्य तथा गतम् ।यथा विनाशो गृध्रस्य मत् कृते च परंतप ॥३-६८-२५॥
राजा दशरथः श्रीमान् यथा मम मया यशाः ।पूजनीयः च मान्यः च तथा अयम् पतगेश्वरः ॥३-६८-२६॥
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ।गृध्र राजम् दिधक्षामि मत् कृते निधनम् गतम् ॥३-६८-२७॥
नाथम् पतग लोकस्य चिताम् आरोपयामि अहम् ।इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा ॥३-६८-२८॥
या गतिः यज्ञ शीलानाम् आहित अग्नेः च या गतिः ।अ पर आवर्तिनाम् या च या च भूमि प्रदायिनाम् ॥३-६८-२९॥
मया त्वम् समनुज्ञातो गच्छ लोकान् अनुत्तमान् ।गृध्र राज महा सत्त्व संस्कृतः च मया व्रज ॥३-६८-३०॥
एवम् उक्त्वा चिताम् दीप्ताम् आरोप्य पतगेश्वरम् ।ददाह रामो धर्मात्मा स्व बन्धुम् इव दुःखितः ॥३-६८-३१॥
रामो अथ सह सौमित्रिः वनम् यात्वा स वीर्यवान् ।स्थूलान् हत्वा महा रोहीन् अनु तस्तार तम् द्विजम् ॥३-६८-३२॥
रोहि मांसानि च उद्धृत्य पेशी कृत्वा महायशाः ।शकुनाय ददौ रामो रम्ये हरित शाद्वले ॥३-६८-३३॥
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।तत् स्वर्ग गमनम् पित्र्यम् क्षिप्रम् रामो जजाप ह ॥३-६८-३४॥
ततो गोदावरीम् गत्वा नदीम् नर वर आत्मजौ ।उदकम् चक्रतुः तस्मै गृध्र राजाय तौ उभौ ॥३-६८-३५॥
शास्त्र दृष्टेन विधिना जले गृधाय राघवौ ।स्नात्वा तौ गृध्र राजाय उदकम् चक्रुः तदा ॥३-६८-३६॥
स गृध्र राजः कृतवान् यशस्करम्सु दुष्करम् कर्म रणे निपातितः ।महर्षि कल्पेन च संस्कृतः तदाजगाम पुण्याम् गतिम् आत्मनः शुभाम् ॥३-६८-३७॥
कृतोदकौ तौ अपि पक्षि सत्तमेस्थिराम् च बुद्धिम् प्रणिधाय जग्मुतुः ।प्रवेश्य सीता अधिगमने ततो मनोवनम् सुरेन्द्रौ इव विष्णु वासवौ ॥३-६८-३८॥
कृत्वा एवम् उदकम् तस्मै प्रस्थितौ राघवौ तदा ।अवेक्षन्तौ वने सीताम् जग्मतुः पश्चिमाम् दिशम् ॥३-६९-१॥
ताम् दिशम् दक्षिणाम् गत्वा शर चाप असि धारिणौ ।अविप्रहतम् ऐक्ष्वाकौ पन्थानम् प्रतिपेदतुः ॥३-६९-२॥
गुल्मैः वृक्षैः च बहुभिः लताभिः च प्रवेष्टितम् ।आवृतम् सर्वतो दुर्गम् गहनम् घोर दर्शनम् ॥३-६९-३॥
व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणाम् दिशम् ।सु भीमम् तन् महाअरण्यम् व्यतियातौ महाबलौ ॥३-६९-४॥
ततः परम् जनस्थानात् त्रि क्रोशम् गम्य राघवौ ।क्रौंच अरण्यम् विविशतुः गहनम् तौ महौजसौ ॥३-६९-५॥
नाना मेघ घन प्रख्यम् प्रहृष्टम् इव सर्वतः ।नाना वर्णैः शुभैः पुष्पैः मृग पक्षि गणैः युतम् ॥३-६९-६॥
दिदृक्षमाणौ वैदेहीम् तत् वनम् तौ विचिक्यतुः ।तत्र तत्र अवतिष्ठन्तौ सीता हरण दुःखितौ ॥३-६९-७॥
ततः पूर्वेण तौ गत्वा त्रि क्रोसम् भ्रातरु तदा ।क्रौंचारण्यम् अतिक्रम्य मातंग आश्रम अंतरा ॥३-६९-८॥
दृष्टा तु तद् वनम् घोरम् बहु भीम मृग द्विजम् ।नाना वृक्ष समाकीर्णम् सर्वम् गहन पादपम् ॥३-६९-९॥
ददृशाः ते गिरौ तत्र दरीम् डशरथ आत्मजौ ।पाताल सम गम्भीराम् तमसा नित्य संवृताम् ॥३-६९-१०॥
आसाद्य च नरव्याघ्रौ दर्याः तस्या अविदूरतः ।ददर्श तु महारूपाम् रक्षसीम् विकृत आननाम् ॥३-६९-११॥
भयदाम् अल्प सत्त्वानाम् भीभत्साम् रौद्र दर्शनाम् ।लंबोदरीम् तीक्ष्ण दंष्ट्राम् करालीम् परुष त्वचम् ॥३-६९-१२॥
भक्षयन्तीम् मृगान् भीमान् विकटाम् मुक्त मूर्धजाम् ।अवैक्षताम् तु तौ तत्र भ्रातरौ राम लक्ष्मणौ ॥३-६९-१३॥
सा समासाद्य तौ वीरौ व्रजन्तम् भ्रातुः अग्रतः ।एहि रंस्यावहे इति उक्त्वा समालंबत लक्ष्मणम् ॥३-६९-१४॥
उवाच च एनम् वचनम् सौमित्रिम् उपगुह्य सा ।अहम् तु अयोमुखी नाम लाभः ते त्वम् असि प्रियः ॥३-६९-१५॥
नाथ पर्वत दुर्गेषु नदीनाम् पुलिनेषु च ।आयुः चिरम् इदम् वीर त्वम् मया सह रंस्यसे ॥३-६९-१६॥
एवम् उक्तः तु कुपितः खडगम् उद्धृत्य लक्ष्मणः ।कर्ण नास स्तनम् तस्या निचकर्ता अरिसूदनः ॥३-६९-१७॥
कर्ण नासे निकृत्ते तु विस्वरम् विननाद सा ।यथा आगतम् प्रदुद्राव राक्षसी घोर दर्शना ॥३-६९-१८॥
तस्याम् गतायाम् गहनम् व्रजन्तौ वनम् ओजसा ।आसेदतुः अरि मित्र घ्नौ भ्रातरौ राम लक्ष्मणौ ॥३-६९-१९॥
लक्ष्मणः तु महातेजाः सत्त्ववान् शीलवान् शुचिः ।अब्रवीत् प्रांजलिः वाक्यम् भ्रातरम् दीप्त तेजसम् ॥३-६९-२०॥
स्पंदन्ते मे दृढम् बाहुः उद्विग्नम् इव मे मनः ।प्रायशः च अपि अनिष्टानि निमित्तानि उपलक्षये ॥३-६९-२१॥
तस्मात् सज्जी भव आर्य त्वम् कुरुष्व वचनम् हितम् ।मम एव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् ॥३-६९-२२॥
एष वंजुलको नाम पक्षी परम दारुणः ।आवयोः विजयम् युद्धे शंसन् इव विनर्दति ॥३-६९-२३॥
तयोः अन्वेषतोः एवम् सर्वम् तत् वनम् ओजसा ।संजज्ञे विपुलः शब्दः प्रभंजन् इव तत् वनम् ॥३-६९-२४॥
संवेष्टितम् इव अत्यर्थम् गहनम् मातरिश्वना ।वनस्य तस्य शब्दो अभूत् दिवम् आपूरयन् इव ॥३-६९-२५॥
तम् शब्दम् कांक्षमाणः तु रामः खड्गी सह अनुजः ।ददर्श सु महा कायम् राक्षसम् विपुल उरसम् ॥३-६९-२६॥
आसेदतुः च तत् रक्षः तौ उभौ प्रमुखे स्थितम् ।विवृद्धम् अ-शिरो ग्रीवम् कबंधम् उदरे मुखम् ॥३-६९-२७॥
रोमभिर्निश्चितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् - यद्वा -रोमभिः निचितैः तीक्ष्णैः महागिरिम् इव उच्छ्रितम् ।नील मेघ निभम् रौद्रम् मेघ स्तनित निःस्वनम् ॥३-६९-२८॥
अग्नि ज्वाल निकाशेन ललाटस्थेन दीप्यता ।महापक्षेण पिंगेन विपुलेन आयतेन च ॥३-६९-२९॥
एकेन उरसि घोरेण नयनेन आशु दर्शिना ।महा दंष्ट्र उपपन्नम् तम् लेलिहानम् महा मुखम् ॥३-६९-३०॥
भक्षयंतम् महा घोरान् ऋक्ष सिम्ह मृग द्विपान् ।घोरौ भुजौ विकुर्वाणम् उभौ योजनम् आयतौ ॥३-६९-३१॥
कराभ्याम् विविधान् गृह्य ऋक्षान् पक्षि गणान् मृगान् ।आकर्षन्तम् विकर्षन्तम् अनेकान् मृग यूथपान् ॥३-६९-३२॥
स्थितम् आवृत्य पन्थानम् तयोः भ्रात्रोः प्रपन्नयोः ।अथ तम् समतिक्रम्य क्रोश मात्रम् ददर्शतुः ॥३-६९-३३॥
महान्तम् दारुणम् भीमम् कबंधम् भुज संवृतम् ।कबंधम् इव संस्थानत् अति घोर प्रदशनम् ॥३-६९-३४॥
स महा बाहुः अत्यर्थम् प्रसार्य विपुलौ भुजौ ।जग्राह सहितौ एव राघवौ पीडयन् बलात् ॥३-६९-३५॥
खड्गिनौ दृढ धन्वानौ तिग्म तेजौ महा भुजौ ।भ्रातरौ विवशम् प्राप्तौ कृष्यमाणौ महा बलौ ॥३-६९-३६॥
तत्र धैर्यात् च शूराः तु राघवो न एव विव्यधे ।बाल्यात् अनाश्रयत्वात् च एव लक्ष्मणः तु अतिविव्यधे ॥३-६९-३७॥
उवाच च विषण्णम् सन् राघवम् राघव अनुजः ।पश्य माम् विवशम् वीर राक्षसस्य वशम् गतम् ॥३-६९-३८॥
मया एकन तु निर्युक्तः परिमुच्यस्व राघव ।माम् हि भूत बलिम् दत्त्वा पलास्व यथा सुखम् ॥३-६९-३९॥
अधिगंता असि वैदेहीम् अचिरेण इति मे मतिः ।प्रति लभ्य च काकुत्स्थ पितॄ पैतामहम् महीम् ॥३-६९-४०॥
तत्र माम् राम राज्यस्थः स्मर्तुम् अर्हसि सर्वदा ।लक्ष्मणेन एवम् उक्तः तु रामः सौमित्रिम् अब्रवीत् ॥३-६९-४१॥
मा स्म त्रासम् वृथा वीर न हि त्वा दृक् विषीदति ।एतस्मिन् अन्तरे क्रूरो भ्रातरौ राम लक्ष्मणौ ॥३-६९-४२॥
तौ उवाच महाबाहुः कबन्धो दानव उत्तमः ।कौ युवाम् वृषभ स्कन्धौ महा खड्ग धनुर् धरौ ॥३-६९-४३॥
घोरम् देशम् इमम् प्राप्तौ दैवेन मम चाक्षुषौ ।वदतम् कार्यम् इह वाम् किम् अर्थम् च आगतौ युवाम् ॥३-६९-४४॥
इमम् देशम् अनुप्राप्तौ क्षुधा आर्तस्य इह तिष्ठतः ।स बाण चाप खड्गौ च तीक्ष्ण शृंगौ इव ऋषभौ ॥३-६९-४५॥
मम तूर्णम् उपसंप्राप्तौ दुर्लभम् जीवितम् वाम् ।तस्य तत् वचनम् श्रुत्वा कबंधस्य दुरात्मनः ॥३-६९-४६॥
उवाच लक्ष्मणम् रामो मुखेन परिशुष्यता ।कृच्छ्रात् कृच्छ्रतरम् प्राप्य दारुणम् सत्य विक्रम ॥३-६९-४७॥
व्यसनम् जीवित अन्ताय प्राप्तम् अप्राप्य ताम् प्रियाम् ।कालस्य सुमहत् वीर्यम् सर्व भूतेषु लक्ष्मण ॥३-६९-४८॥
त्वाम् च माम् च नरव्याघ्र व्यसनैः पश्य मोहितौ ।न हि भारो अस्ति दैवस्य सर्व भुतेषु लक्ष्मण ॥३-६९-४९॥
शूराः च बलवंतः च कृत अस्त्राः च रण आजिरे ।काल अभिपन्नाः सीदन्ति यथा वालुक सेतवः ॥३-६९-५०॥
इति ब्रुवाणो दृढ सत्य विक्रमोमहायशा दाशरथिः प्रतापवान् ।अवेक्ष्य सौमित्रिम् उदग्र विक्रमम्स्थिराम् तदा स्वाम् मतिम् आत्मना अकरोत् ॥३-६९-५१॥
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ राम लक्ष्मणौ ।बाहु पाश परिक्षिप्तौ कबन्धो वाक्यम् अब्रवीत् ॥३-७०-१॥
तिष्ठतः किम् नु माम् दृष्ट्वा क्षुधा आर्तम् क्षत्रिय ऋषभौ ।आहार अर्थम् तु सन्दिष्टौ दैवेन गत चेतसौ ॥३-७०-२॥
तत् श्रुत्वा लक्ष्मणो वाक्यम् प्राप्त कालम् हितम् तदा ।उवाच आर्तिम् समापन्नो विक्रमे कृत निश्चयः ॥३-७०-३॥
त्वाम् च माम् च पुरा तूर्णम् आदत्ते राक्षस अधमः ।तस्मात् असिभ्याम् अस्य आशु बाहू चिन्दावहे गुरू ॥३-७०-४॥
भिषणो अयम् महाकायो राक्षसो भुज विक्रमः ।लोकम् हि अति जितम् कृत्वा हि अवाम् हन्तुम् इह इच्छति ॥३-७०-५॥
निश्चेष्टानाम् वधो राजन् कुत्स्तितो जगती पतेः ।क्रतु मध्य उपनीतानाम् पशूनाम् इव राघव ॥३-७०-६॥
एतत् संजल्पितम् श्रुत्वा तयोः क्रुद्धः तु राक्षसः ।विदार्य आस्यम् ततो रौद्रम् तौ भक्षयितुम् आरभत् ॥३-७०-७॥
ततः तौ देश कालज्ञौ खड्गाभ्याम् एव राघवौ ।अच्छिन्दताम् सुसंहृष्टौ बाहू तस्य अंस देशतः ॥३-७०-८॥
दक्षिणो दक्षिणम् बाहुम् असक्तम् असिना ततः ।चिच्छेद रामो वेगेन सव्यम् वीरः तु लक्ष्मणः ॥३-७०-९॥
स पपात महाबाहुः चिन्न बाहुः महा स्वनः ।खम् च गाम् च दिशः चैव नादयन् जलदो यथा ॥३-७०-१०॥
स निकृत्तौ भुजौ दृष्ट्वा शोणित ओघ परिप्लुतः ।दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः ॥३-७०-११॥
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभ लक्षणः ।शशंस तस्य काकुत्स्थम् कबंधस्य महाबलः ॥३-७०-१२॥
अयम् इक्ष्वाकु दायादो रामो नाम जनैः श्रुतः ।तस्य एव अवरजम् विद्धि भ्रातरम् माम् च लक्ष्मणम् ॥३-७०-१३॥
मात्रा प्रतिहतो राज्ये रामः प्रवाजितो वनम् ।मया सह चरति एष भार्यया च महत् वनम् ॥३-७०-१४॥
अस्य देव प्रभावस्य वसतो विजने वने ।रक्षसा अपहृता भार्या याम् इच्छन्तौ इह आगतौ ॥३-७०-१५॥
त्वम् तु को वा किम् अर्थम् वा कबन्ध सदृशो वने ।आस्येन उरसि दीप्तेन भग्न जन्घो विचेष्टसे ॥३-७०-१६॥
एवम् उक्तः कबंधः तु लक्ष्मणेन उत्तरम् वचः ।उवाच परम प्रीतः तत् इन्द्र वचनम् स्मरन् ॥३-७०-१७॥
स्वागतम् वाम् नरव्याघ्रौ दिष्ट्या पश्यामि वाम् अहम् ।दिष्ट्या च इमौ निकृत्तौ मे युवाभ्याम् बाहु बन्धनौ ॥३-७०-१८॥
विरूपम् यत् च मे रूपम् प्राप्तम् हि अविनयात् यथा ।तत् मे शृणु नरव्याघ्र तत्त्वतः शंसतः तव ॥३-७०-१९॥
पुरा राम महाबाहो महाबल पराक्रम ।रूपम् आसीत् मम अचिंत्यम् त्रिषु लोकेषु विश्रुतम् ॥३-७१-१॥
यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः ।सो अहम् रूपम् इदम् कृत्वा लोक वित्रासनम् महत् ॥३-७१-२॥
ऋषीन् वन गतान् राम त्रासयामि ततः ततः ।ततः स्थूलशिरा नाम महर्षिः कोपितो मया ॥३-७१-३॥
संचिन्वन् विविधम् वन्यम् रूपेण अनेन धर्षितः ।तेन अहम् उक्तः प्रेक्ष्य एवम् घोर शाप अभिधायिना ॥३-७१-४॥
एतत् एव नृशंसम् ते रूपम् अस्तु विगर्हितम् ।स मया याचितः क्रुद्धः शापस्य अन्तो भवेत् इति ॥३-७१-५॥
अभिशाप कृतस्य इति तेन इदम् भाषितम् वचः ।यदा छित्त्वा भुजौ रामः त्वाम् दहेत् विजने वने ॥३-७१-६॥
तदा त्वम् प्राप्स्यसे रूपम् स्वम् एव विपुलम् शुभम् ।श्रिया विराजितम् पुत्रम् दनोः त्वम् विद्धि लक्ष्मण ॥३-७१-७॥
इन्द्र कोपात् इदम् रूपम् प्राप्तम् एवम् रण आजिरे ।अहम् हि तपसा उग्रेण पितामहम् अतोषयम् ॥३-७१-८॥
दीर्घम् आयुः स मे प्रादात् ततो माम् विभ्रमो अस्पृशत् ।दीर्घम् आयुः मया प्राप्तम् किम् मे शक्रः करिष्यति ॥३-७१-९॥
इति एवम् बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम् ।तस्य बाहु प्रमुक्तेन वज्रेण शत पर्वणा ॥३-७१-१०॥
सक्थिनी च शिरः चैव शरीरे संप्रवेशितम् ।स मया याच्यमानः सन् न आनयत् यम सादनम् ॥३-७१-११॥
पितामह वचः सत्यम् तत् अस्ति इति मम अब्रवीत् ।अनाहारः कथम् शक्तो भग्न सक्थि शिरो मुखः ॥३-७१-१२॥
वज्रेण अभिहतः कालम् सु दीर्घम् अपि जीवितुम् ।स एवम् उक्तः मे शक्रो बाहू योजनम् आयतौ ॥३-७१-१३॥
तदा च आस्यम् च मे कुक्षौ तीक्ष्ण दंष्ट्रम् अकल्पयत् ।सो अहम् भुजाभ्याम् दीर्घाभ्याम् संकृष्य अस्मिन् वने चरान् ॥३-७१-१४॥
सिंह द्विपि मृग व्याघ्रान् भक्षयामि समंततः ।स तु माम् अब्रवीत् इन्द्रो यदा रामः स लक्ष्मणः ॥३-७१-१५॥
छेत्स्यते समरे बाहू तदा स्वर्गम् गमिष्यसि ।अनेन वपुषा तात वने अस्मिन् राजसत्तम ॥३-७१-१६॥
यत् यत् पश्यामि सर्वस्य ग्रहणम् साधु रोचये ।अवश्यम् ग्रहणम् रामो मन्ये अहम् समुपैष्यति ॥३-७१-१७॥
इमाम् बुद्धिम् पुरस्कृत्य देह न्यास कृत श्रमः ।स त्वम् रामो असि भद्रम् ते न अहम् अन्येन राघव ॥३-७१-१८॥
शक्यो हन्तुम् यथा तत्त्वम् एवम् उक्तम् महर्षिणा ।अहम् हि मति साचिव्यम् करिष्यामि नर ऋषभ ॥३-७१-१९॥
मित्रम् चैव उपदेक्ष्यामि युवाभ्याम् संस्कृतो अग्निना ।एवम् उक्तः तु धर्मात्मा दनुना तेन राघवः ॥३-७१-२०॥
इदम् जगाद वचनम् लक्ष्मणस्य उपशृण्वतः ।रावणेन हृता सीता मम भार्या यशस्विनी ॥३-७१-२१॥
निष्क्रांतस्य जनस्थानात् सह भ्रात्रा यथा सुखम् ।नाम मात्रम् तु जानामि न रूपम् तस्य रक्षसः ॥३-७१-२२॥
निवासम् वा प्रभावम् वा वयम् तस्य न विद्महे ।शोक आर्तानाम् अनाथानाम् एवम् विपरिधावताम् ॥३-७१-२३॥
कारुण्यम् सदृशम् कर्तुम् उपकारे च वर्तताम् ।काष्ठानि आनीय भग्नानि काले शुष्काणि कुंजरैः ॥३-७१-२४॥
धक्ष्यामः त्वाम् वयम् वीर श्वभ्रे महति कल्पिते ।स त्वम् सीताम् समाचक्ष्व येन वा यत्र वा हृता ॥३-७१-२५॥
कुरु कल्याणम् अत्यर्थम् यदि जानासि तत्त्वतः ।एवम् उक्तः तु रामेण वाक्यम् दनुः अनुत्तमम् ॥३-७१-२६॥
प्रोवाच कुशलो वक्तुम् वक्तारम् अपि राघवम् ।दिव्यम् अस्ति न मे ज्ञानम् न अभिजानामि मैथिलीम् ॥३-७१-२७॥
यः ताम् ज्ञास्यति तम् वक्ष्ये दग्धः स्वम् रूपम् आस्थितः ।यो अभिजानाति तद् रक्षः तद् वक्ष्ये राम तत् परम् ॥३-७१-२८॥
अदग्धस्य हि विज्ञातुम् शक्तिः अस्ति न मे प्रभो ।राक्षसम् तम् महावीर्यम् सीता येन हृता तव ॥३-७१-२९॥
विज्ञानम् हि महत् भ्रष्टम् शाप दोषेण राघव ।स्वकृतेन मया प्राप्तम् रूपम् लोक विगर्हितम् ॥३-७१-३०॥
किम् तु यावत् न याति अस्तम् सविता श्रान्त वाहनः ।तावत् माम् अवटे क्षिप्त्वा दह राम यथा विधि ॥३-७१-३१॥
दग्धः त्वया अहम् अवटे न्यायेन रघुनंदन ।वक्ष्यामि तम् महावीर यः तम् वेत्स्यति राक्षसम् ॥३-७१-३२॥
तेन सख्यम् च कर्तव्यम् न्याय्य वृत्तेन राघव ।कल्पयिष्यति ते प्रीतः साहाय्यम् लघु विक्रमः ॥३-७१-३३॥
न हि तस्य अस्ति अविज्ञातम् त्रिषु लोकेषु राघव ।सर्वान् परिवृतो लोकान् पुरा वै कारण अन्तरे ॥३-७१-३४॥
एवम् उक्तौ तु तौ वीरौ कबन्धेन नर ईश्वरौ ।गिरि प्रदरम् आसाद्य पावकम् विससर्जतुः ॥३-७२-१॥
लक्ष्मणः तु महा उल्काभिः ज्वलिताभिः समन्ततः ।चिताम् आदीपयामास सा प्रजज्वाल सर्वतः ॥३-७२-२॥
तत् शरीरम् कबन्धस्य घृत पिण्ड उपमम् महत् ।मेदसा पच्यमानस्य मन्दम् दहति पावकः ॥३-७२-३॥
स विधूय चिताम् आशु विधूमो अग्निर् इव उत्थितः ।अरजे वाससी बिभ्रत् मालाम् दिव्याम् महाबलः ॥३-७२-४॥
ततः चिताया वेगेन भास्वरो विरज अंबरः ।उत्पपात आशु संहृष्टः सर्व प्रत्यंग भूषणः ॥३-७२-५॥
विमाने भास्वरे तिष्ठन् हंस युक्ते यशस् करे ।प्रभया च महातेजा दिशो दश विराजयन् ॥३-७२-६॥
सो अन्तरिक्ष गतो वाक्यम् कबन्धो रामम् अब्रवीत् ।शृणु राघव तत्त्वेन यथा सीमाम् अवाप्स्यसि ॥३-७२-७॥
राम षड् युक्तयो लोके याभिः सर्वम् विमृश्यते ।परिमृष्टो दश अन्तेन दश आभागेन सेव्यते ॥३-७२-८॥
दश आभाग गतो हीनः त्वम् राम सह लक्ष्मणः ।यत् कृते व्यसनम् प्राप्तम् त्वया दार प्रधर्षणम् ॥३-७२-९॥
तत् अवश्यम् त्वया कार्यः स सुहृत् सुहृदाम् वर ।अकृत्वा न हि ते सिद्धिम् अहम् पश्यामि चिन्तयन् ॥३-७२-१०॥
श्रूयताम् राम वक्ष्यामि सुग्रीवो नाम वानरः ।भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्र सूनुना ॥३-७२-११॥
ऋष्यमूके गिरि वरे पंपा पर्यन्त शोभिते ।निवसति आत्मवान् वीरः चतुर्भिः सह वानरैः ॥३-७२-१२॥
वानरेन्द्रो महावीर्यः तेजोवान् अमित प्रभः ।सत्य संधो विनीतः च धृतिमान् मतिमान् महान् ॥३-७२-१३॥
दक्षः प्रगल्भो द्युतिमान् महा बल पराक्रमः ।भ्राता विवासितो वीर राज्य हेतो महात्मना ॥३-७२-१४॥
स ते सहायो मित्रम् च सीतायाः परिमार्गणे ।भविष्यति हि ते राम मा च शोके मनः कृधाः ॥३-७२-१५॥
भवितव्यम् हि यत् च अपि न तत् शक्यम् इह अन्यथा ।कर्तुम् इक्ष्वाकु शार्दूल कालो हि दुर्रक्रमः ॥३-७२-१६॥
गच्छ शीघ्रम् इतो वीर सुग्रीवम् तम् महाबलम् ।वयस्यम् तम् कुरु क्षिप्रम् इतो गत्वा अद्य राघव ॥३-७२-१७॥
अद्रोहाय समागम्य दीप्यमाने विभावसौ ।न च ते सो अवमन्तव्यः सुग्रीवो वानर अधिपः ॥३-७२-१८॥
कृतज्ञः काम रूपी च सहाय अर्थी च वीर्यवान् ।शक्तौ हि अद्य युवाम् कर्तुम् कार्यम् तस्य चिकीर्षितम् ॥३-७२-१९॥
कृतार्थो वा अकृतार्थो वा तव कृत्यम् करिष्यति ।स ऋक्षरजसः पुत्रः पंपाम् अटति शन्कितः ॥३-७२-२०॥
भास्करस्य औरसः पुत्रो वालिना कृत किल्बिषः ।संनिधाय आयुधम् क्षिप्रम् ऋष्यमूक आलयम् कपिम् ॥३-७२-२१॥
कुरु राघव सत्येन वयस्यम् वन चारिणम् ।स हि स्थानानि सर्वाणि कार्त्स्न्येन कपि कुंजरः ॥३-७२-२२॥
नर मांस अशिनाम् लोके नैपुण्यात् अधिगच्छति ।न तस्य अविदितम् लोके किंचित् अस्ति हि राघव ॥३-७२-२३॥
यावत् सूर्यः प्रतपति सहस्रांशुः अरिन्दम ।स नदीः विपुलान् शैलान् गिरि दुर्गाणि कंदरान् ॥३-७२-२४॥
अन्विष्य वानरैः सार्धम् पत्नीम् ते अधिगमिष्यति ।वानरान् च महाकायान् प्रेषयिष्यति राघव ॥३-७२-२५॥
दिशो विचेतुम् ताम् सीताम् त्वत् वियोगेन शोचयतीम् ।अन्वेष्यति वरारोहाम् मैथिलीम् रावण आलये ॥३-७२-२६॥
स मेरु शृंग अग्र गताम् अनिंदिताम्प्रविश्य पाताल तले अपि वा आश्रिताम् ।प्लवंगमानाम् ऋषभः तव प्रियाम्निहत्य रक्षाम्सि पुनः प्रदास्यति ॥३-७२-२७॥
दर्शयित्वा रामाय सीतायाः प्रैमार्गने ।वाक्यम् अन्वर्थम् अर्थज्ञः कबंधः पुनः अब्रवीत् ॥३-७३-१॥
एष राम शिवः पंथा यत्र एते पुष्पिता द्रुमाः ।प्रतीचीम् दिशम् आश्रित्य प्रकाशन्ते मनो रमाः ॥३-७३-२॥
जंबू प्रियाल पनसाः प्लक्ष न्यग्रोध तिंदुकाः ।अश्वत्थाः कर्णिकाराः च चूताः च अन्ये च पादपाः ॥३-७३-३॥
धन्वना नाग वृक्षा तिलका नक्तमालकाः ।नील अशोक कदंबाः च करवीराः च पुष्पिताः ॥३-७३-४॥
अग्निमुखा अशोकाः च सुरक्ताः परिभद्रकाः ।तान् आरुह्य अथवा भूमौ पातयित्वा च तान् बलात् ॥३-७३-५॥
फलानि अमृत कल्पानि भक्षयित्वा गमिष्यथः ।तत् अतिक्रम्य काकुत्स्थ वनम् पुषित पादपम् ॥३-७३-६॥
नंदन प्रतिमम् तु अन्यत् कुरवः उत्तरा इव ।सर्व काल फला यत्र पादपा मधुर स्रवाः ॥३-७३-७॥
सर्वे च ऋतवः तत्र वने चैत्ररथे यथा ।फल भार नताः तत्र महा विटप धारिणः ॥३-७३-८॥
शोबन्ते सर्वतः तत्र मेघ पर्वत संनिभाः ।तान् आरुह्य अथवा भूमौ पातैत्वा यथा सुखम् ॥३-७३-९॥
फलानि अमृत कल्पानि लक्षमणः ते प्रदास्यति ।चङ्क्रमंतौ वरान् शैलान् शैलात् शैलम् वनात् वनम् ॥३-७३-१०॥
ततः पुष्करिणीम् वीरौ पंपाम् नाम गमिष्यथः ।अशर्कराम् अविभ्रंशाम् सम तीर्थम् अशैवलाम् ॥३-७३-११॥
राम संजात वालूकाम् कमल उत्पल शोभिताम् ।तत्र हंसाः प्लवाः क्रौङ्चाः कुरराः चैव राघव ॥३-७३-१२॥
वल्गु स्वरा निकूजन्ति पंपा सलिल गोचराः ।न उद्विजन्ते नरान् दृष्ट्वा वधस्य अकोविदाः शुभाः ॥३-७३-१३॥
घृत पिण्ड उपमान् स्थूलान् तान् द्विजान् भक्षयिष्यथः ।रोहितान् वक्र तुण्डान् च नल मीनान् च राघव ॥३-७३-१४॥
पंपायाम् इषुभिः मत्स्यान् तत्र राम वरान् हतान् ।निस्त्वक्पक्षानयसतप्तानकृशान्नैककण्टकान् - यद्वा -निः त्वक् पक्षान् अयस तप्तान् अकृशान् न अनेक कण्टकान् ॥३-७३-१५॥
तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति ।भृशम् तान् खादतो मत्स्यान् पंपायाः पुष्प संचये ॥३-७३-१६॥
पद्म गन्धि शिवम् वारि सुख शीतम् अनामयम् ।उद्धृत्य स तदा अक्लिष्टम् रूप्य स्फटिक सन्निभम् ॥३-७३-१७॥
अथ पुष्कर पर्णेन लक्ष्मणः पाययिष्यति ।स्थूलान् गिरि गुहा शय्यान् वानरान् वन चारिणः ॥३-७३-१८॥
साय आह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः ।अपाम् लोभात उपावृत्तान् वृषभान् इव नर्दतः ॥३-७३-१९॥
रूप अन्वितान् च पंपायाम् द्रक्ष्यसि त्वम् नरोत्तम ।साय अह्ने विचरन् राम विटपीन् माल्य धारिणः ॥३-७३-२०॥
शिव उदकम् च पंपायाम् दृष्ट्वा शोकम् विहास्यसि ।सु मनोभिः चितान् तत्र तिलकान् नक्त मालकान् ॥३-७३-२१॥
उत्पलानि च फुल्लानि पंकजानि च राघव ।न तानि कश्चित् माल्यानि तत्र आरोपयिता नरः ॥३-७३-२२॥
न च वै म्लानताम् यान्ति न च शीर्यन्ति राघव ।मतंग शिष्याः तत्र आसन् ऋषयः सुसमाहितः ॥३-७३-२३॥
तेषाम् भार अभितप्तानाम् वन्यम् आहरताम् गुरोः ।ये प्रपेतुः महीम् तूर्णम् शरीरात् स्वेद बिन्दवः ॥३-७३-२४॥
तानि माल्यानि जातानि मुनीनाम् तपसा तदा ।स्वेद बिन्दु समुत्थानि न विनश्यन्ति राघव ॥३-७३-२५॥
तेषाम् गतानाम् अद्य अपि दृश्यते परिचारिणी ।श्रमणी शबरी नाम काकुत्स्थ चिर जीविनी ॥३-७३-२६॥
त्वाम् तु धर्मे स्थिता नित्यम् सर्व भूत नमस्कृतम् ।दृष्ट्वा देव उपमम् राम स्वर्ग लोकम् गमिष्यति ॥३-७३-२७॥
ततः तत् राम पंपायाः तीरम् आश्रित्य पश्चिमम् ।आश्रम स्थानम् अतुलम् गुह्यम् काकुत्स्थ पश्यसि ॥३-७३-२८॥
न तत्र आक्रमितुम् नागाः शक्नुवन्ति तद् आश्रमे ।ऋषेः तस्य मतंगस्य विधानात् तत् च काननम् ॥३-७३-२९॥
मातंग वनम् इति एव विश्रुतम् रघुनंदन ।तस्मिन् नंदन संकाशे देव अरण्य उपमे वने ॥३-७३-३०॥
नाना विहग संकीर्णे रंस्यसे राम निर्वृतः ।ऋष्यमूकः तु पंपायाः पुरस्तात् पुष्पित द्रुमः ॥३-७३-३१॥
सु दुःख आरोहणः च एव शिशु नाग अभिरक्षितः ।उदारो ब्रह्मणा चैव पूर्व काले विनिर्मितः ॥३-७३-३२॥
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ।यत् स्वप्ने लभते वित्तम् तत् प्रबुद्धो अधिगच्छति ॥३-७३-३३॥
यः तु एनम् विषम आचारः पाप कर्मा अधिरोहति ।तत्र एव प्रहरन्ति एनम् सुप्तम् आदाय राक्षसाः ॥३-७३-३४॥
तत्र अपि शिशु नागानाम् आक्रंदः श्रूयते महान् ।क्रीडताम् राम पंपायाम् मतंग आश्रम वासिनाम् ॥३-७३-३५॥
सिक्ता रुधिर धाराभिः संहत्य परम द्विपाः ।प्रचरन्ति पृथक् कीर्णा मेघ वर्णाः तरस्विनः ॥३-७३-३६॥
ते तत्र पीत्वा पानीयम् विमलम् चारु शोभनम् ।अत्यन्त सुख संस्पर्शम् सर्व गन्ध समन्वितम् ॥३-७३-३७॥
निवृत्ताः सम्विगाहन्ते वनानि वन गोचराः ।ऋक्षाम् च द्विपिनः चैव नील कोमलक प्रभान् ॥३-७३-३८॥
रुरून् अपेता अपजयान् दृष्ट्वा शोकम् प्रहास्यसि ।राम तस्य तु शैलस्य महती शोभते गुहा ॥३-७३-३९॥
शिला पिधाना काकुत्स्थ दुःखम् च अस्याः प्रवेशनम् ।तस्या गुहायाः प्राक् द्वारे महान् शीत उदको ह्रदः ॥३-७३-४०॥
बहु मूल फलो रम्यो नाना नग समाकुलः ।तस्याम् वसति सुग्रीवः चतुर्भिः सह वानरैः ॥३-७३-४१॥
कदाचित् शिखरे तस्य पर्वतस्य अपि तिष्ठते ।कबंधः तु अनुशास्य एवम् तौ उभौ राम लक्ष्मणौ ॥३-७३-४२॥
स्रग्वी भास्कर वर्ण आभः खे व्यरोचत वीर्यवान् ।तम् तु ख स्थम् महाभागम् कबंधम् राम लक्ष्मणौ ॥३-७३-४३॥
प्रस्थितौ त्वम् व्रजस्व इति वाक्यम् ऊचतुः अन्तिके ।गम्यताम् कार्य सिद्धि अर्थम् इति तौ अब्रवीत् च सः ॥३-७३-४४॥
सुप्रीतौ तौ अनुज्ञाप्य कबंधः प्रस्थितः तदा ॥३-७३-४५॥
स तत् कबंधः प्रतिपद्य रूपम्वृतः श्रिया भास्कर सर्व देहः ।निदर्शयन् रामम् अवेक्ष्य ख स्थःसख्यम् कुरुष्व इति तदा अभ्युवाच ॥३-७३-४६॥
तौ कबन्धेन तम् मार्गम् पम्पाया दर्शितम् वने ।आतस्थतुः दिशम् गृह्य प्रतीचीम् नृ वर आत्मजौ ॥३-७४-१॥
तौ शैलेषु आचित अनेकान् क्षौद्र कल्प फल द्रुमान् ।वीक्षन्तौ जग्मतुः द्रष्टुम् सुग्रीवम् राम लक्ष्मणौ ॥३-७४-२॥
कृत्वा च शैल पृष्ठे तु तौ वासम् रघु नन्दनौ ।पंपायाः पश्चिमम् तीरम् राघवौ उपतस्थतुः ॥३-७४-३॥
तौ पुष्करिण्याः पंपायाः तीरम् आसाद्य पश्चिमम् ।अपश्यताम् ततः तत्र शबर्या रम्यम् आश्रमम् ॥३-७४-४॥
तौ तम् आश्रमम् आसाद्य द्रुमैः बहुभिः आवृतम् ।सु रम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः ॥३-७४-५॥
तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृतांजलिः ।पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ॥३-७४-६॥
पाद्यम् आचमनीयम् च सर्वम् प्रददात् यथा विधि ।ताम् उवाच ततो रामः श्रमणीम् धर्म संस्थिताम् ॥३-७४-७॥
कच्चित् ते निर्जिता विघ्नाः कच्चित् ते वर्धते तपः ।कच्चित् ते नियतः कोप आहारः च तपोधने ॥३-७४-८॥
कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम् ।कच्चित् ते गुरु शुश्रूषा सफला चारु भाषिणि ॥३-७४-९॥
रामेण तापसी पृष्ठा सा सिद्धा सिद्ध सम्मता ।शशंस शबरी वृद्धा रामाय प्रति अवस्थिता ॥३-७४-१०॥
अद्य प्राप्ता तपः सिद्धिः तव संदर्शनात् मया ।अद्य मे सफलम् जन्म गुरवः च सुपूजिताः ॥३-७४-११॥
अद्य मे सफलम् तप्तम् स्वर्गः चैव भविष्यति ।त्वयि देव वरे राम पूजिते पुरुषर्षभ ॥३-७४-१२॥
तव अहम् चक्षुषा सौम्य पूता सौम्येन मानद ।गमिष्याम्यक्षयांलोकांस्वत्प्रसादादरिन्दम - यद्वा -गमिष्यामि अक्षयान् लोकान् त्वत् प्रसादात् अरिंदम ॥३-७४-१३॥
चित्रकूटम् त्वयि प्राप्ते विमानैः अतुल प्रभैः ।इतः ते दिवम् आरूढा यान् अहम् पर्यचारिषम् ॥३-७४-१४॥
तैः च अहम् उक्ता धर्म ज्ञैः महाभागैः महर्षिभिः ।आगमिष्यति ते रामः सु पुण्यम् इमम् आश्रमम् ॥३-७४-१५॥
स ते प्रतिग्रहीतव्यः सौमित्रि सहितो अतिथिः ।तम् च दृष्ट्वा वरान् लोकान् अक्षयान् त्वम् गमिष्यसि ॥३-७४-१६॥
एवम् उक्ता महाभागैः तदा अहम् पुरुषर्षभ ।मया तु विविधम् वन्यम् संचितम् पुरुषर्षभ ॥३-७४-१७॥
तव अर्थे पुरुषव्याघ्र पम्पायाः तीर संभवम् ।एवम् उक्तः स धर्मात्मा शबर्या शबरीम् इदम् ॥३-७४-१८॥
राघवः प्राह विज्ञाने ताम् नित्यम् अबहिष्कृताम् ।दनोः सकाशात् तत्त्वेन प्रभावम् ते महात्मनः ॥३-७४-१९॥
श्रुतम् प्रत्यक्षम् इच्छामि संद्रष्टुम् यदि मन्यसे ।एतत् तु वचनम् श्रुत्वा राम वक्त्रात् विनिःसृतम् ॥३-७४-२०॥
शबरी दर्शयामास तौ उभौ तत् वनम् महत् ।पश्य मेघ घन प्रख्यम् मृग पक्षि समाकुलम् ॥३-७४-२१॥
मतंग वनम् इति एव विश्रुतम् रघुनंदन ।इह ते भावित आत्मानो गुरवो मे महाद्युते ।जुहवान् चक्रिरे नीडम् मंत्रवत् मंत्र पूजितम् ॥३-७४-२२॥
इयम् प्रत्यक् स्थली वेदी यत्र ते मे सुसत्कृताः ।पुष्प उपहारम् कुर्वन्ति श्रमात् उद् वेपिभिः करैः ॥३-७४-२३॥
तेषाम् तपः प्रभावेन पश्य अद्य अपि रघूत्तम ।द्योतयन्ति दिशः सर्वाः श्रिया वेद्यः अतुल प्रभाः ॥३-७४-२४॥
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः - यद्वा -अशक्नुवद्भिः तैः गन्तुम् उपवास श्रम आलसैः ।चिन्तिते अभ्यागतान् पश्य समेतान् सप्त सागरान् ॥३-७४-२५॥
कृत अभिषेकैः तैः न्यस्ता वल्कलाः पादपेषु इह ।अद्य अपि न विशुष्यन्ति प्रदेशे रघुनंदन ॥३-७४-२६॥
देव कार्याणि कुर्वद्भिः यानि इमानि कृतानि वै ।पुष्पैः कुवलयैः सार्थम् म्लानत्वम् न तु यान्ति वै ॥३-७४-२७॥
कृत्स्नम् वनम् इदम् दृष्टम् श्रोतव्यम् च श्रुतम् त्वया ।तत् इच्छामि अभ्यनुज्ञाता त्यक्ष्यामि एतत् कलेवरम् ॥३-७४-२८॥
तेषाम् इच्छामि अहम् गन्तुम् समीपम् भावित आत्मनाम् ।मुनीनाम् आश्रमो येषाम् अहम् च परिचारिणी ॥३-७४-२९॥
धर्मिष्ठम् तु वचः श्रुत्वा राघवः सह लक्ष्मणः ।प्रहर्सम् अतुलम् लेभे आश्चर्यम् इदम् च अब्रवीत् ॥३-७४-३०॥
ताम् उवाच ततो रामः शबरी संश्रित व्रताम् ।अर्चितो अहम् त्वया भद्रे गच्छ कामम् यथा सुखम् ॥३-७४-३१॥
इति एवम् उक्ता जटिला चीर कृष्ण अजिन अंबरा ।अनुज्ञाता तु रामेण हुत्वा आत्मानम् हुत अशने ॥३-७४-३२॥
ज्वलत् पावक संकाशा स्वर्गम् एव जगाम सा ।दिव्यम् आभरण संयुक्ता दिव्य माल्य अनुलेपना ॥३-७४-३३॥
दिव्य अंबर धरा तत्र बभूव प्रिय दर्शन ।विराजयन्ती तम् देशम् विद्युत् सौदामिनी यथा ॥३-७४-३४॥
यत्र ते सुकृत आत्मानो विहरन्ति महर्षयः ।तत् पुण्यम् शबरी स्थानम् जगाम आत्म समाधिना ॥३-७४-३५॥
दिवम् तु तस्याम् यातायाम् शबर्याम् स्वेन तेजसा ।लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥३-७५-१॥
चिंतयित्वा तु धर्मात्मा प्रभावम् तम् महात्मनाम् ।हित कारिणम् एक अग्रम् लक्ष्मणम् राघवो अब्रवीत् ॥३-७५-२॥
दृष्टो मया आश्रमः सौम्य बहु आश्चर्यः कृतआत्मनाम् ।विश्वस्त मृग शार्दूलो नाना विहग सेवितः ॥३-७५-३॥
सप्तानाम् च समुद्राणाम् तेषाम् तीर्थेषु लक्ष्मण ।उपस्पृष्टम् च विधिवत् पितरः च अपि तर्पिताः ॥३-७५-४॥
प्रणष्टम् अशुभम् यत् नः कल्याणम् समुपस्थितम् ।तेन तु एतत् प्रहृष्टम् मे मनो लक्ष्मण संप्रति ॥३-७५-५॥
हृदये हि नर व्याघ्र शुभम् आविर्भविष्यति ।तत् आगच्छ गमिष्यावः पंपाम् ताम् प्रिय दर्शनाम् ॥३-७५-६॥
ऋष्यमूको गिरिः यत्र न अति दूरे प्रकाशते ।यस्मिन् वसति धर्मात्मा सुग्रीवो अंशुमतः सुतः ॥३-७५-७॥
नित्यम् वालि भयात् त्रस्तः चतुर्भिः सह वानरैः ।अहम् त्वरे च तम् द्रष्टुम् सुग्रीवम् वानरर्षभम् ॥३-७५-८॥
तत् अधीनम् हि मे कार्यम् सीतायाः परिमार्गणम् ।इति ब्रुवाणम् तम् वीरम् सौमित्रिः इदम् अब्रवीत् ॥३-७५-९॥
गच्छावः त्वरितम् तत्र मम अपि त्वरते मनः ।आश्रमात् तु ततः तस्मात् निष्क्रम्य स विशाम् पतिः ॥३-७५-१०॥
आजगाम ततः पंपाम् लक्ष्मणेन सहप्रभुः ।समीक्षमाणः पुष्प आढ्यम् सर्वतो विपुल द्रुमम् ॥३-७५-११॥
कोयष्टिभिः च अर्जुनकैः शत पत्रैः च कीरकैः ।एतैः च अन्यैः च बहुभिः नादितम् तत् वनम् महत् ॥३-७५-१२॥
स रामो विविधान् वृक्षान् सरांसि विविधानि च ।पश्यन् काम अभिसंतप्तो जगाम परमम् ह्रदम् ॥३-७५-१३॥
स ताम् आसाद्य वै रामो दूरात् पानीय वाहिनीम् ।मतंग सरसम् नाम ह्रदम् समवगाहत ॥३-७५-१४॥
तत्र जग्मतुः अव्यग्रौ राघवौ हि समाहितौ ।स तु शोक समाविष्टो रामो दशरथात्मजः ॥३-७५-१५॥
विवेश नलिनीम् रम्याम् पंकजैः च समावृताम् ।तिलकाशोकपुंनागबकुलोद्दालकाशिनीम् - यद्वा -तिलक अशोक पुन्नाग बकुल उद्दाल काशिनीम् ॥३-७५-१६॥
रम्य उपवन संबाधाम् पद्म संपीडित उदकाम् ।स्फटिक उपम तोय आढ्याम् श्लक्ष्ण वालुक संतताम् ॥३-७५-१७॥
मत्स्य कच्छप संबाधाम् तीरस्थ द्रुम शोभिताम् ।सखीभिः इव संयुक्ताम् लताभिः अनुवेष्टिताम् ॥३-७५-१८॥
किंनरोरगगन्धर्वयक्षराक्षससेविताम् -यद्वा - ।किन्नर उरग गन्धर्व यक्ष राक्षस सेविताम् ।नाना द्रुम लता आकीर्णाम् शीत वारि निधिम् शुभाम् ॥३-७५-१९॥
पद्म सौगन्धिकैः ताम्राम् शुक्लाम् कुमुद मण्डलैः ।नीलाम् कुवलय उद् घाटैः बहु वर्णाम् कुथाम् इव ॥३-७५-२०॥
अरविन्द उत्पलवतीम् पद्म सौगन्धिक आयुताम् ।पुष्पित आम्र वणोपेताम् बर्हिण उद् घुष्ट नादिताम् ॥३-७५-२१॥
स ताम् दृष्ट्वा ततः पंपाम् रामः सौमित्रिणा सह ।विललाप च तेजस्वी कामात् दशरथात्मजः ॥३-७५-२२॥
तिलकैः बीज पूरैः च वटैः शुक्ल द्रुमैः तथा ।पुष्पितैः करवीरैः च पुन्नागैः च सु पुष्पितैः ॥३-७५-२३॥
मालती कुंद गुल्मैः च भण्डीरैः निचुलैः तथा ।अशोकैः सप्त पर्णैः च केतकैः अतिमुक्तकैः ॥३-७५-२४॥
अन्यैः च विविधैः वृक्षैः प्रमदा इव उपशोभिताम् ।अस्याः तीरे तु पूर्व उक्तः पर्वतो धातु मण्डितः ॥३-७५-२५॥
ऋश्यमूक इति ख्यातः चित्र पुष्पित पादपः ।हरेः ऋक्षरजो नाम्नः पुत्रः तस्य महात्मनः ॥३-७५-२६॥
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः ।सुग्रीवम् अभिगच्छ त्वम् वानरेन्द्रम् नरर्षभ ॥३-७५-२७॥
इति उवाच पुनः वाक्यम् लक्ष्मणम् सत्य विक्रमम् ।कथम् मया विना सीताम् शक्यम् लक्ष्मण जीवितुम् ॥३-७५-२८॥
इति एवम् उक्त्वा मदन अभिपीडितःस लक्ष्मणम् वाक्यम् अनन्य चेतनः ।विवेश पंपाम् नलिनी मनो रमाम्तम् उत्तमम् शोकम् उदीरयाणः ॥३-७५-२९॥
क्रमेण गत्वा प्रविलोकयन् वनम्ददर्श पंपाम् शुभ दर्श काननाम् ।अनेक नाना विध पक्षि संकुलाम्विवेश रामः सह लक्ष्मणेन ॥३-७५-३०॥

About this parayana — Rama

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

ram-navamidaily-pujavaishnavasanskritparayanadevotionalramayanavalmikiscriptureepicitihasa