ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← Back to Shabda
ଓଡ଼ିଆ interface

ଵାଲ୍ମୀକି ରାମାଯଣ — ଯୁଦ୍ଧ କାଣ୍ଡ

Valmiki Ramayana — Yuddha Kanda

Valmiki Ramayana — Yuddha Kanda

Text in देवनागरी script

Devotional text

🌐

ଓଡ଼ିଆ script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.

श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् ।रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥।।
कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् ।मनसापि यदन्येन न शक्यम् धरणीतले ॥६-१-२॥।।
न हि तम् परिपश्यामि यस्तरेत महोदधिम् ।अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥६-१-३॥।।
देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् ।अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥६-१-४॥।।
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् ।को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥६-१-५॥।।
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥६-१-६॥।।
एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च ।यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥६-१-७॥।।
कुर्यात्तदुनुरागेण तमहुः पुरुषोत्तमम् ।यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥६-१-८॥।।
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् ।नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥६-१-९॥।।
भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् ।तन्नियोगे नियुक्तेन कृतम् हनूमता ॥६-१-१०॥।।
न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः ।अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥६-१-११॥।।
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥६-१-१२॥।।
यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् ।एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥६-१-१३॥।।
मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः ।इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥६-१-१४॥।।
हनुमन्तम् कृतात्मानम् क्R६इतवाक्यमुपागतम् ।ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥६-१-१५॥।।
हरीनामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ।सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥६-१-१६॥।।
सागरम् तु समासाद्य पुनर्नष्टम् मनो मम ।कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥६-१-१७॥।।
हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् ।यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥६-१-१८॥।।
समुद्रपारगमने हरीणाम् किमिहोत्तरम् ।इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥
तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् ।उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥६-२-१॥।।
किम् त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।मैवम् भूस्त्यज सतापम् कृतघ्न इव सौहृदम् ॥६-२-२॥।।
सम्तापस्य च ते स्थानम् न हि पश्यामि राघव ।प्रवृत्तामुपलब्धायाम् ज्ञाते च निलये रिपोः ॥६-२-३॥।।
मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।त्यजेमाम् प्राकृताम् उद्धिं कृतात्मेवार्थदूषणीम् ॥६-२-४॥।।
सम्द्रम् लङ्घयित्वा तु महानक्रसमाकुलम् ।लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥६-२-५॥।।
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।सर्वार्था व्यवसीदन्ति व्यसनम् चाधिगच्छति ॥६-२-६॥।।
इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥६-२-७॥।।
एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम ।विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् ॥६-२-८॥।।
रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि ।सेतुरत्र यथा बद्ध्येथा पश्येम ताम् पुरीम् ॥६-२-९॥।।
तस्य राक्षसराजस्य तथा त्वम् कुरु राघव ।दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ॥६-२-१०॥।।
हतम् च रावणम् उद्धे दर्शनादवधारय ।अबद्ध्वा सागरे सेतुम् घोरे च वरुणालये ॥६-२-११॥।।
लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः ।सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥६-२-१२॥।।
सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय ।इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१३॥।।
तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् ।पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१४॥।।
यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् ।तदलम्करणायैव कर्तुर्भवति सत्वरम् ॥६-२-१५॥।।
अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा ।शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥६-२-१६॥।।
विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः ।तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥६-२-१७॥।।
मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि ।न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥६-२-१८॥।।
गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे ।वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥६-२-१९॥।।
अचिराद्द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् ।तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥६-२-२०॥।।
निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति ।लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥६-२-२१॥।।
सहास्माभिरिहोओपेतह् सूक्ष्मबुद्धिर्विचारय ।लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥६-२-२२॥।।
सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् ।इमे हि हरयः शूराः समरे कामरूपिणः ॥६-२-२३॥।।
तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥६-२-२४॥।।
हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण ।किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥६-२-२५॥
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम अर्थवित् ।प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथ अब्रवीत् ॥६-३-१॥।।
तरसा सेतु बन्धेन सागर उच्चोषणेन वा ।सर्वथा सुसमर्थो अस्मि सागरस्य अस्य लन्घने ॥६-३-२॥।।
कति दुर्गाणि दुर्गाया लंकायास् तद् ब्रवीहि मे ।ज्ञातुम् इच्चामि तत् सर्वम् दर्शनाद् इव वानर ॥६-३-३॥।।
बलस्य परिमाणम् च द्वार दुर्ग क्रियाम् अपि ।गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥६-३-४॥।।
यथा सुखम् यथावच् च लंकायाम् असि दृष्टवान् ।सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो हि असि ॥६-३-५॥।।
श्रुत्वा रामस्य वचनम् हनूमान् मारुत आत्मजः ।वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनर् अथ अब्रवीत् ॥६-३-६॥।।
श्रूयताम् सर्वम् आख्यास्ये दुर्ग कर्म विधानतः ।गुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥६-३-७॥।।
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।पराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥६-३-८॥।।
विभागम् च बल ओघस्य निर्देशम् वाहनस्य च ।एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्ववित् ॥६-३-९॥।।
प्रहृष्टा मुदिता लंका मत्त द्विप समाकुला ।महती रथ सम्पूर्णा रक्षो गण समाकुला ॥६-३-१०॥।।
दृढ बद्ध कवाटानि महापरिघवन्ति च ।चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति ॥६-३-११॥।।
तत्रेषूपयन्त्राणि बलवन्ति महान्ति च ।आगतम् पर सैन्यम् तैस् तत्र प्रतिनिवार्यते ॥६-३-१२॥।।
द्वारेषु सम्स्कृता भीमाः काल आयस मयाः शिताः ।शतशो रोचिता वीरैः शतघ्न्यो रक्षसाम् गणैः ॥६-३-१३॥।।
सौवर्णः च महाम्स् तस्याः प्राकारो दुष्प्रधर्षणः ।मणि विद्रुम वैदूर्य मुक्ता विचरित अन्तरः ॥६-३-१४॥।।
सर्वतः च महाभीमाः शीत तोया महाशुभाः ।अगाधा ग्राहवत्यः च परिखा मीन सेविताः ॥६-३-१५॥।।
द्वारेषु तासाम् चत्वारः सम्क्रमाः परम आयताः ।यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढ सम्धिभिः ॥६-३-१६॥।।
त्रायन्ते सम्क्रमास् तत्र पर सैन्य आगमे सति ।यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः ॥६-३-१७॥।।
एकस् त्व् अकम्प्यो बलवान् सम्क्रमः सुमहादृढः ।काञ्चनैर् बहुभिः स्तम्भैर् वेदिकाभिः च शोभितः ॥६-३-१८॥।।
स्वयम् प्रकृति सम्पन्नो युयुत्सू राम रावणः ।उत्थितः च अप्रमत्तः च बलानाम् अनुदर्शने ॥६-३-१९॥।।
लंका पुरी निरालम्बा देव दुर्गा भय आवहा ।न अदेयम् पार्वतम् वन्यम् कृत्रिमम् च चतुर् विधम् ॥६-३-२०॥।।
स्थिता पारे समुद्रस्य दूर पारस्य राघव ।नौ पथः च अपि न अस्ति अत्र निरादेशः च सर्वतः ॥६-३-२१॥।।
शैल अग्रे रचिता दुर्गा सा पूर् देव पुर उपमा ।वाजि वारण सम्पूर्णा लंका परम दुर्जया ॥६-३-२२॥।।
परिघाः च शतघ्न्यः च यन्त्राणि विविधानि च ।शोभयन्ति पुरीम् लंकाम् रावणस्य दुरात्मनः ॥६-३-२३॥।।
अयुतम् रक्षसाम् अत्र पश्चिम द्वारम् आश्रितम् ।शूल हस्ता दुराधर्षाः सर्वे खड्ग अग्र योधिनः ॥६-३-२४॥।।
नियुतम् रक्षसाम् अत्र दक्षिण द्वारम् आश्रितम् ।चतुर् अन्गेण सैन्येन योधास् तत्र अपि अनुत्तमाः ॥६-३-२५॥।।
प्रयुतम् रक्षसाम् अत्र पूर्व द्वारम् समाश्रितम् ।चर्म खड्ग धराः सर्वे तथा सर्व अस्त्र कोविदाः ॥६-३-२६॥।।
न्यर्बुदम् रक्षसाम् अत्र उत्तर द्वारम् आश्रितम् ।रथिनः च अश्व वाहाः च कुल पुत्राः सुपूजिताः ॥६-३-२७॥।।
शतम् शत सहस्राणाम् मध्यमम् गुल्मम् आश्रितम् ।यातु धाना दुराधर्षाः साग्र कोटिः च रक्षसाम् ॥६-३-२८॥।।
ते मया सम्क्रमा भग्नाः परिखाः च अवपूरिताः ।दग्धा च नगरी लंका प्राकाराः च अवसादिताः ॥६-३-२९॥।।
बलैकदेशः क्षपितो राक्षसानाम् महात्मनाम् ।येन केन तु मार्गेण तराम वरुण आलयम् ॥६-३-३०॥।।
हता इति नगरी लंकाम् वानरैर् अवधार्यताम् ।अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ॥६-३-३१॥।।
नीलः सेना पतिः चैव बल शेषेण किम् तव ।प्लवमाना हि गत्वा ताम् रावणस्य महापुरीम् ॥६-३-३२॥।।
सप्रकाराम् सभवनाम् आनयिष्यन्ति मैथिलीम् ।सप्राकाराम् सभवनामानयुष्यन्ति राघव ॥६-३-३३॥।।
एवम् आज्ञापय क्षिप्रम् बलानाम् सर्व सम्ग्रहम् ।मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥६-३-३४॥
सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता ।सागरस्य उत्तरे तीरे साधु सेना विनिएशिता ॥६-५-१॥।।
मैन्दः च द्विविधः च उभौ तत्र वानर पुम्गवौ ।विचेरतुः च ताम् सेनाम् रक्षा अर्थम् सर्वतो दिशम् ॥६-५-२॥।।
निविष्टायाम् तु सेनायाम् तीरे नद नदी पतेः ।पार्श्वस्थम् लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत् ॥६-५-३॥।।
शोकः च किल कालेन गच्चता हि अपगच्चति ।मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते ॥६-५-४॥।।
न मे दुह्खम् प्रिया दूरे न मे दुह्खम् हृता इति च ।तद् एव अनुशोचामि वयो अस्या हि अतिवर्तते ॥६-५-५॥।।
वाहि वात यतः कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश ।त्वयि मे गात्र सम्स्पर्शः चन्द्रे दृष्टि समागमः ॥६-५-६॥।।
तन् मे दहति गात्राणि विषम् पीतम् इव आशये ।हा नाथ इति प्रिया सा माम् ह्रियमाणा यद् अब्रवीत् ॥६-५-७॥।।
तद् वियोग इन्धनवता तच् चिन्ता विपुल अर्चिषा ।रात्रिम् दिवम् शरीरम् मे दह्यते मदन अग्निना ॥६-५-८॥।।
अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना ।कथम्चित् प्रज्वलन् कामः समासुप्तम् जले दहेत् ॥६-५-९॥।।
बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् ।यद् अहम् सा च वाम ऊरुर् एकाम् धरणिम् आश्रितौ ॥६-५-१०॥।।
केदारस्य इव केदारः स उदकस्य निरूदकः ।उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम् ॥६-५-११॥।।
कदा तु खलु सुस्शोणीम् शत पत्र आयत ईक्षणाम् ।विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम् ॥६-५-१२॥।।
कदा नु चारु बिम्ब ओष्ठम् तस्याः पद्मम् इव आननम् ।ईषद् उन्नम्य पास्यामि रसायनम् इव आतुरः ॥६-५-१३॥।।
तौ तस्याः सम्हतौ पीनौ स्तनौ ताल फल उपमौ ।कदा नु खलु स उत्कम्पौ हसन्त्या माम् भजिष्यतः ॥६-५-१४॥।।
सा नूनम् असित अपान्गी रक्षो मध्य गता सती ।मन् नाथा नाथ हीना इव त्रातारम् न अधिगच्चति ॥६-५-१५॥।।
कदा विक्षोभ्य रक्षाम्सि सा विधूय उत्पतिष्यति ।राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥६-५-१६॥।।
अविक्षोभ्याणि रक्षाम्सि सा विधूयोत्पतिष्यति ।विधूय जलदान् नीलान् शशि लेखा शरत्स्व् इव ॥६-५-१७॥।।
स्वभाव तनुका नूनम् शोकेन अनशनेन च ।भूयस् तनुतरा सीता देश काल विपर्ययात् ॥६-५-१८॥।।
कदा नु राक्षस इन्द्रस्य निधाय उरसि सायकान् ।सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम् ॥६-५-१९॥।।
कदा नु खलु माम् साध्वी सीता अमर सुता उपमा ।स उत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यति आनन्दजम् जलम् ॥६-५-२०॥।।
कदा शोकम् इमम् घोरम् मैथिली विप्रयोगजम् ।सहसा विप्रमोक्ष्यामि वासः शुक्ल इतरम् यथा ॥६-५-२१॥।।
एवम् विलपतस् तस्य तत्र रामस्य धीमतः ।दिन क्षयान् मन्द वपुर् भास्करो अस्तम् उपागमत् ॥६-५-२२॥।।
आश्वासितो लक्ष्मणेन रामः सम्ध्याम् उपासत ।स्मरन् कमल पत्र अक्षीम् सीताम् शोक आकुली कृतः ॥६-५-२३॥
लंकायाम् तु कृतम् कर्म घोरम् दृष्ट्वा भव आवहम् ।राक्षस इन्द्रो हनुमता शक्रेण इव महात्मना ॥६-६-१॥।।
अब्रवीद् राक्षसान् सर्वान् ह्रिया किम्चिद् अवान् मुखः ।धर्षिता च प्रविष्टा च लंका दुष्प्रसहा पुरी ॥६-६-२॥।।
तेन वानर मात्रेण दृष्टा सीता च जानकी ।प्रसादो धर्षितः चैत्यः प्रवरा राक्षसा हताः ॥६-६-३॥।।
आविला च पुरी लंका सर्वा हनुमता कृता ।किम् करिष्यामि भद्रम् वः किम् वा युक्तम् अनन्तरम् ॥६-६-४॥।।
उच्यताम् नः समर्थम् यत् कृतम् च सुकृतम् भवेत् ।मन्त्र मूलम् हि विजयम् प्राहुर् आर्या मनस्विनः ॥६-६-५॥।।
तस्माद् वै रोचये मन्त्रम् रामम् प्रति महाबलाः ।त्रिविधाः पुरुषा लोके उत्तम अधम मध्यमाः ॥६-६-६॥।।
तेषाम् तु समवेतानाम् गुण दोषम् वदामि अहम् ।मन्त्रिभिर् हित सम्युक्तैः समर्थैर् मन्त्र निर्णये ॥६-६-७॥।।
मित्रैर् वा अपि समान अर्थैर् बान्धवैर् अपि वा हितैः ।सहितो मन्त्रयित्वा यः कर्म आरम्भान् प्रवर्तयेत् ॥६-६-८॥।।
दैवे च कुरुते यत्नम् तम् आहुः पुरुष उत्तमम् ।एको अर्थम् विम्Rशेद् एको धर्मे प्रकुरुते मनः ॥६-६-९॥।।
एकः कार्याणि कुरुते तम् आहुर् मध्यमम् नरम् ।गुण दोषाव् अनिश्चित्य त्यक्त्वा दैव व्यपाश्रयम् ॥६-६-१०॥।।
करिष्यामि इति यः कार्यम् उपेक्षेत् स नर अधमः ।यथा इमे पुरुषा नित्यम् उत्तम अधम मध्यमाः ॥६-६-११॥।।
एवम् मन्त्रो अपि विज्ञेय उत्तम अधम मध्यमः ।ऐकमत्यम् उपागम्य शास्त्र दृष्टेन चक्षुषा ॥६-६-१२॥।।
मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम् ।बह्व्यो अपि मतयो गत्वा मन्त्रिणो हि अर्थ निर्णये ॥६-६-१३॥।।
पुनर् यत्र एकताम् प्राप्तः स मन्त्रो मध्यमः स्मृतः ।अन्योन्य मतिम् आस्थाय यत्र सम्प्रतिभाष्यते ॥६-६-१४॥।।
न च ऐकमत्ये श्रेयो अस्ति मन्त्रः सो अधम उच्यते ।तस्मात् सुमन्त्रितम् साधु भवन्तो मन्त्रि सत्तमाः ॥६-६-१५॥।।
कार्यम् सम्प्रतिपद्यन्ताम् एतत् कृत्यतमम् मम ।वानराणाम् हि वीराणाम् सहस्रैः परिवारितः ॥६-६-१६॥।।
रामो अभ्येति पुरीम् लंकाम् अस्माकम् उपरोधकः ।तरिष्यति च सुव्यक्तम् राघवः सागरम् सुखम् ॥६-६-१७॥।।
तरसा युक्त रूपेण सानुजः सबल अनुगः ।समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा॥६-६-१८॥।।
तस्मिन्न् एवम् गते कार्ये विरुद्धे वानरैः सह ।हितम् पुरे च सैन्ये च सर्वम् सम्मन्त्र्यताम् मम ॥६-६-१९॥
इति उक्ता राक्षस इन्द्रेण राक्षसास्ते महाबलाः ।ऊचुः प्रान्जलयः सर्वे रावणम् राक्षस ईश्वरम् ॥६-७-१॥।।
द्विष्त्पक्ष्ह्मविज्ञाय नीतिबाह्यास्त्वबुद्धयः ।राजन् परिघ शक्ति ऋष्टि शूल पट्टस सम्कुलम् ॥६-७-२॥।।
सुमहन् नो बलम् कस्माद् विषादम् भजते भवान् ।त्वया भोगवतीम् गत्वा निर्जताः पन्नगा युधि ॥६-७-३॥।।
कैलास शिखर आवासी यक्षैर् बहुभिर् आवृतः ।सुमहत् कदनम् कृत्वा वश्यस् ते धनदः कृतः ॥६-७-४॥।।
स महाईश्वर सख्येन श्लाघमानस् त्वया विभो ।निर्जितः समरे रोषाल् लोक पालो महाबलः ॥६-७-५॥।।
विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ।त्वया कैलास शिखराद् विमानम् इदम् आहृतम् ॥६-७-६॥।।
मयेन दानव इन्द्रेण त्वद् भयात् सख्यम् इच्चता ।दुहिता तव भार्या अर्थे दत्ता राक्षस पुम्गव ॥६-७-७॥।।
दानव इन्द्रो मधुर् नाम वीर्य उत्सिक्तो दुरासदः ।विगृह्य वशम् आनीतः कुम्भीनस्याः सुख आवहः ॥६-७-८॥।।
निर्जितास् ते महाबाहो नागा गत्वा रसा तलम् ।वासुकिस् तक्षकः शन्खो जटी च वशम् आहृताः ॥६-७-९॥।।
अक्षया बलवन्तः च शूरा लब्ध वराः पुनः ।त्वया सम्वत्सरम् युद्ध्वा समरे दानवा विभो ॥६-७-१०॥।।
स्व बलम् समुपाश्रित्य नीता वशम् अरिम् दम ।मायाः च अधिगतास् तत्र बहवो राक्षस अधिप ॥६-७-११॥।।
शूराः च बलवन्तः च वरुणस्य सुता रणे ।निर्जितास् ते महाबाग चतुर् विध बल अनुगाः ॥६-७-१२॥।।
मृत्यु दण्ड महाग्राहम् शाल्मलि द्वीप मण्डितम् ।कालपाशमहाईचिम् यमकिम्करपन्नगम् ॥६-७-१३॥।।
महाज्वरेण दुर्धर्षम् यमलोकमहार्णवम् ।अवगाह्य त्वया राजन् यमस्य बल सागरम् ॥६-७-१४॥।।
जयः च विप्लुलः प्राप्तो मृत्युः च प्रतिषेधितः ।सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः ॥६-७-१५॥।।
क्षत्रियैर् बहुभिर् वीरैः शक्र तुल्य पराक्रमैः ।आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः ॥६-७-१६॥।।
तेषाम् वीर्य गुण उत्साहैर् न समो राघवो रणे ।प्रसह्य ते त्वया राजन् हताः परम दुर्जयाः ॥६-७-१७॥।।
तिष्ठ वा किम् महाराज श्रमेण तव वानरान् ।अयमेको महारज इन्द्रजित् क्षपयिष्यति ॥६-७-१८॥।।
अनेन हि महाराज महेश्वरमनुत्तमम् ।इष्ट्वा यज्ञम् वरो लब्धो लोके परमदुर्लभः ॥६-७-१९॥।।
शक्तितोमरमीनम् च विनिकीर्णान्त्रशैवलम् ।गजकच्चपसम्बाधम्श्वमण्डूकसम्कुलम् ॥६-७-२०॥।।
रुद्रादित्यमहाग्राहम् मरुद्वसुमहोरगम् ।रथश्वगजतोयौघम् पदातिपुलिनम् महत् ॥६-७-२१॥।।
अनेन हि समासाद्य देवानाम् बलसागम् ।गृहीतो दैवतपतिर्लङ्काम् चापि प्रवेशितः ॥६-७-२२॥।।
पीतामहनियोगाच्च मुक्तः शम्बरवृत्रहा ।गतस्त्रिविष्टपम् राजन् सर्वदेवनमस्कृतः ॥६-७-२३॥।।
तमेव त्वम् महाराज विसृजेन्द्रजितम् सुतम् ।यावद्वानरसेनाम् ताम् परामाम् नयति क्ष्हयम् ॥६-७-२४॥।।
राजन् न आपद् अयुक्ता इयम् आगता प्राकृताज् जनात् ।हृदि न एव त्वया कार्या त्वम् वधिष्यसि राघवम् ॥६-७-२५॥
ततो नील अम्बुद निभः प्रहस्तो नाम राक्षसः ।अब्रवीत् प्राञ्जलिर् वाक्यम् शूरः सेना पतिस्तदा ॥६-८-१॥।।
देव दानव गन्धर्वाः पिशाचपतगौरगाः ।न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानरा रणे ॥६-८-२॥।।
सर्वे प्रमत्ता विश्वस्ता वन्चिताः स्म हनूमता ।न हि मे जीवतो गच्चेज् जीवन् स वन गोचरः ॥६-८-३॥।।
सर्वाम् सागर पर्यन्ताम् सशैल वन काननाम् ।करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥६-८-४॥।।
रक्षाम् चैव विधास्यामि वानराद् रजनी चर ।न आगमिष्यति ते दुह्खम् किम्चिद् आत्म अपराधजम् ॥६-८-५॥।।
अब्रवीत्तम् सुसम्क्रुद्धो दुर्मुखो नाम राक्षसः ।इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् ॥६-८-६॥।।
अयम् परिभवो भूयः पुरस्य अन्तः पुरस्य च ।श्रीमतो राक्षस इन्द्रस्य वानर इन्द्र प्रधर्षणम् ॥६-८-७॥।।
अस्मिन् मुहूर्ते हत्वा एको निवर्तिष्यामि वानरान् ।प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसा तलम् ॥६-८-८॥।।
ततो अब्रवीत् सुसम्क्रुद्धो वज्र दम्ष्ट्रो महाबलः ।प्रगृह्य परिघम् घोरम् माम्स शोणित रूपितम् ॥६-८-९॥।।
किम् नो हनुमता कार्यम् कृपणेन तपस्विना ।रामे तिष्ठति दुर्धर्षे सुग्रीवे सह लक्ष्मणे ॥६-८-१०॥।।
अद्य रामम् ससुग्रीवम् परिघेण सलक्ष्मणम् ।आगमिष्यामि हत्वा एको विक्षोभ्य हरि वाहिनीम् ॥६-८-११॥।।
इदम् ममापरम् वाक्यम् शृणु राजन्यदीच्चसि ।उपायकुशलो ह्येव जयेच्चत्रुनतन्द्रितः ॥६-८-१२॥।।
कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥६-८-१३॥।।
काकुत्थ्समुपसम्गम्य बिभ्रतो मानुषम् वपुः ।सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥६-८-१४॥।।
प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा ।स हि सेनाम् समुत्थाप्य क्षिप्रमेवोपयास्यति ॥६-८-१५॥।।
ततो वयमितस्तुर्णम् शूलशक्तिगदाधराः ।चापबाणासिहस्तश्च त्वरितास्तत्र यामहे ॥६-८-१६॥।।
आकाशे गणशः स्थित्वा हत्वा ताम् हरिवाहिनीम् ।अश्मशस्त्रमहावृष्ट्वा प्रापयाम् यमक्षयम् ॥६-८-१७॥।।
एवम् चेदुपसर्पेतामनयम् रामलक्ष्मणौ ।अवश्यमपनीतेन जहतामेव जीवितम् ॥६-८-१८॥।।
कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् ।अब्रवीत् परम कुर्द्धो रावणम् लोक रावणम् ॥६-८-१९॥।।
सर्वे भवन्तस् तिष्ठन्तु महाराजेन सम्गताः ।अहम् एको हनिष्यामि राघवम् सह लक्ष्मणम् ॥६-८-२०॥।।
सुग्रीवम् सहनूमन्तम् सर्वाम्श्चैवात्र वानरान् ।ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥६-८-२१॥।।
क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् ।स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत ज्वराः ॥६-८-२२॥।।
एको अहम् भक्षयिष्यामि तान् सर्वान् हरि यूथपान् ।स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥६-८-२३॥।।
अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् ।स अन्गदम् च हनूमन्तम् रामम् च रण कुन्जरम् ॥६-८-२४॥
ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः ।सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥।।
अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः ।इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥।।
प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः ।धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥।।
परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् ।चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥।।
प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः ।अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥।।
अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् ।कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥।।
तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः ।अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥।।
अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते ।तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥।।
प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च ।विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥।।
अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् ।जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥।।
समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् ।कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥।।
बलानि अपरिमेयानि वीर्याणि च निशा चराः ।परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥।।
किम् च राक्षस राजस्य रामेण अपकृतम् पुरा ।आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥।।
खरो यदि अतिवृत्तस् तु रामेण निहतो रणे ।अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥।।
एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् ।आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥।।
न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना ।वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥।।
यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् ।पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥।।
यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी ।न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥।।
विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः ।रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥।।
प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम ।हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥।।
पुरा शरत् सूर्य मरीच्चि सम्निभान् ।नव अग्र पुन्खान् सुदृढान् नृप आत्मजः ।।।
सृजति अमोघान् विशिखान् वधाय ते ।प्रदीयताम् दाशरथाय मैथिली ॥६-९-२१॥।।
त्यजस्व कोपम् सुख धर्म नाशनम् ।भजस्व धर्मम् रति कीर्ति वर्धनम् ।।।
प्रसीद जीवेम सपुत्र बान्धवाः ।प्रदीयताम् दाशरथाय मैथिली ॥६-९-२२॥।।
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२३॥
ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः ।राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥६-१०-१॥।।
शैलाग्रचयसम्काशम् शैलशृज्~गमिवोन्नतम् ।सुविभक्तमहाकक्षम् महाजनपरिग्रहम् ॥६-१०-२॥।।
मतिमद्भिर्महामात्रैरनुरकैरधिष्ठितम् ।राक्षसैराप्तपर्याप्तैह् सर्वतः परिरक्षितम् ॥६-१०-३॥।।
मत्तमातज्~गनिःश्वासैर्व्याकुलीकृतमारुतम् ।शज्~खघोषमहाघोषम् तूर्यसम्बाधनादितम् ॥६-१०-४॥।।
प्रमदाजनसम्बाधम् प्रजल्पितमहापथम् ।तप्तकाञ्चननिर्यूहम् भूषणोत्तमभूषितम् ॥६-१०-५॥।।
गन्धर्वाणामिवावासमालयम् मरुतामिव ।रत्नसम्चयसम्बाधम् भवनम् भोगिनामिव ॥६-१०-६॥।।
तम् महाभ्रमिवादित्य स्तेजोविस्तृतरश्मिमान् ।अग्रजस्यालयम् वीरः प्रविवेश महाद्युतिः ॥६-१०-७॥।।
पुण्यान् पुण्याहघोषाम्श्च वेदिविद्भिरुदाहृतान् ।शुश्राव सुमहातेजा भ्रातुर्विजयसम्श्रितान् ॥६-१०-८॥।।
पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः ।मन्त्रवेदविदो विप्रान् ददर्श स महाबलः ॥६-१०-९॥।।
स पूज्यमानो रक्षोभिद्दीप्यमानम् स्वतेजसा ।असवस्थम् महाबाहुर्ववन्दे धनदानुजम् ॥६-१०-१०॥।।
स राजदृष्टिसम्पन्नमासनम् हेमभूषितम् ।जगाम समुदाचारम् प्रयुज्याचारकोविदः ॥६-१०-११॥।।
स रावणम् महात्मानम् विजने मन्त्रिसम्निधौ ।उवाच हितमत्यर्थम् वचनम् हेतुनिश्चितम् ॥६-१०-१२॥।।
प्रसाद्य भ्रातरम् ज्येष्ठम् सान्त्वेनोपस्थितक्रमः ।देशकालार्थसम्वादि दृष्टलोकपरावः ॥६-१०-१३॥।।
यदा प्रभृति वैदेही सम्प्राप्तेह परतप ।तदा प्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥६-१०-१४॥।।
सस्फुलिज्~गः सधूमार्चिह् सधूमकलुषोदयः ।मन्त्रसम्घहुतोऽप्यग्निर्न सम्यगभिवर्धते ॥६-१०-१५॥।।
अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च ।परीपृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥६-१०-१६॥।।
गवाम् पयाम्सि स्कन्नानि विमदा वरकुञ्जराः ।दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥६-१०-१७॥।।
खरोष्ट्राश्वतरा राजन्भिन्न्रोमाः स्रवन्ति च ।न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तताः ॥६-१०-१८॥।।
वायसाः सघशः क्रूरा व्याहरन्ति समन्ततः ।समवेताश्च दृश्यन्ते विमानाग्रेषु सम्घशः ॥६-१०-१९॥।।
गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः ।उपपन्नाश्च सम्ध्ये द्वे व्याहरन्त्यशिवम् शिवाः ॥६-१०-२०॥।।
क्रव्यादानाम् मृगाणाम् च पुरीद्वारेषु सज्~घशः ।श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः ॥६-१०-२१॥।।
तदेवम् प्रस्तुते कार्ते प्रायश्चित्तमिदम् क्षमम् ।रोचये वीर वैदेही राघवाय प्रदीयताम् ॥६-१०-२२॥।।
इदम् च यदि वामोहाल्लोभाद्वा व्याहृतम् मया ।तत्राप् च महाराज न दोषम् कर्तुमर्हसि ॥६-१०-२३॥।।
अयम् हि दोषः सर्वस्य जनस्याप्योपलक्ष्यते ।रक्षसाम् राक्षसीनाम् च पुरस्यान्तः पुरस्य च ॥६-१०-२४॥।।
प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः ।अवश्यम् च मया वाच्यम् यद्दृष्टमथवा श्रुतम् ॥६-१०-२५॥।।
सम्विधाय यथान्यायम् तद्भवान् कर्तुमर्हति ।इति स्वमन्त्रिणाम् मध्ये भ्राता भ्रातरमूचिवान् ॥६-१०-२६॥।।
रावणम् रक्षसाम् श्रेष्ठम् पथ्यमेतद्विभीषणः ।।।
हितम् महार्थम् मऋदु हेतुसम्हितम् ।व्यतीतकालायतिसम्प्रतिक्षमम् ।।।
निशम्य तद्वाक्यमुपस्थितज्वरः ।प्रसज्~गवानुत्तरमेत दब्रवीत् ॥६-१०-२७॥।।
भयम् न पश्यामि कुतश्चिदप्यहम् ।न राघवः प्राप्स्यति जातु मैथिलीम् ।।।
सुरैः सहेन्द्रैरपि सम्गरे कथम् ।ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥६-१०-२८॥।।
इत्येवमुक्र्वा सुरसैन्यनाशनो ।महाबलः सम्यति चण्डविक्रमः ।।।
दशाननो भ्रातरमाप्तवादिनम् ।विसर्जयामास तदा विभीषणम् ॥६-१०-२९॥
स बभुव कृशो राजा मैथिलीकाममोहितः ।असन्मानाच्च सुहृदाम् पापः पापेन कर्मणाः ॥६-११-१॥।।
अतीतसमये काले तस्मिन्वे युधि रावणः ।अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥६-११-२॥।।
स हेमजालविततम् मणिविद्रुमभूषितम् ।उपगम्य विनीताश्वमारुरोह महार्थम् ॥६-११-३॥।।
तमास्थाय रथश्रेष्ठो महामेघसमस्वनम् ।प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभाम् प्रति ॥६-११-४॥।।
असिचर्मधरा योधाः सर्वायुधधरास्ततः ।राक्षसा राक्षसेन्द्रस्य पुरस्तात्सम्प्रतस्थिरे ॥६-११-५॥।।
नानाविकृतवेषाश्च नानाभूषणभूषिताः ।पार्श्वतः पृष्ठतश्चैनम् परिवार्य ययुस्तदा ॥६-११-६॥।।
रथैश्चातिरथा शीघ्रम् मतैश्च वरवारणैः ।अमात्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥६-११-७॥।।
गदापरिघहस्ताश्च शक्तितोमरपाणयः ।परश्वथधराश्चान्ये तथान्ये शूलपाणयः ॥६-११-८॥।।
ततस्तूर्यसहस्राणाम् सम्जज्ञे निःस्वनो महान् ।तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥६-११-९॥।।
स नेमिघोषेण महान्सहसाभिनिनादयन् ।राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥६-११-१०॥।।
विमलम् चातपत्रम् च पगृहीतमशोभत ।पाण्डुरम् राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥६-११-११॥।।
हेमञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ।चामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥६-११-१२॥।।
ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः ।राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥६-११-१३॥।।
राक्षनैः स्तूयमानः सन् जयाशीर्भिररिम्दमः ।अससाद महातेजाः सभाम् विरचिताम् तदा ॥६-११-१४॥।।
सुवर्णरजतास्तीर्णाम् विशुद्धस्फटिकान्तराम् ।विराजमानो वपुषा रुक्मपट्टोत्तरच्चदाम् ॥६-११-१५॥।।
ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाप्रभाम् ।प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥६-११-१६॥।।
तस्याम् स वैदूर्यमयम् प्रियाकाजिनसम्वृतम् ।महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥६-११-१७॥।।
ततः शशासेश्वरवद्दूतान् लघुपराक्रमान् ।समानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥६-११-१८॥।।
कृत्यमस्ति महाज्जाने कर्तव्यमिति शत्रुभिः ।राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ॥६-११-१९॥।।
अनुगेहमवस्थय विहारशयनेषु च ।उद्यानेषु च रक्क्षम्सि चोदयन्तो ह्यभीतवत् ॥६-११-२०॥।।
ते रथान् रुचिरानेके दृप्तानेके दृढान् हयान् ।नागनेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥६-११-२१॥।।
सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।सम्पतद्भिर्विरुरुचे गरुत्मद्चिरिवामबरम् ॥६-११-२२॥।।
ते वाहनान्यवस्थाप्य यानानि विविधानि च ।सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥६-११-२३॥।।
राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥६-११-२४॥।।
ते समेत्य सभायाम् वै राक्षसा राजशासनात् ।यथार्हमुपतस्थुस्ते रावणम् राक्षसाधिपम् ॥६-११-२५॥।।
मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः ।अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥६-११-२६॥।।
समीयुस्तत्र शतशः शूराश्च बहवस्तथा ।सभायाम् हेमवर्णायाम् सर्वार्थस्य सुखाय वै ॥६-११-२७॥।।
ततो महात्मा विपुलम् सुयुग्यम् ।रथम् वरम् हेमविचित्रिताङ्गम् ।शुभम् समास्थाय ययौ यशस्वी ।विभीषणः सम्सदमग्रजस्य ॥६-११-२८॥।।
स पूर्वजायावरजः शशम्स ।ना माथ पश्चाच्चरणौ ववन्दे ।शुकः प्रहस्तश्च तथैव तेभ्यो ।ददौ यथार्हम् प्R^थगासनानि ॥६-११-२९॥।।
सुवर्णनानामणिभुषणानाम् ।सुवाससाम् सम्सदि राक्षसानाम् ।तेषाम् परार्थ्यगुरुचन्दनानाम् ।स्रजाम् च गन्धाः प्रववुः समन्तात् ॥६-११-३०॥।।
न चुक्रुशुर्नानृतमाह कश्चि ।त्सभासदो नापि जजल्पुरुच्चैः ।सम्सिद्धार्थः सर्व एवोग्रवीर्या ।भर्तुः सर्वे ददृशुश्चाननम् ते ॥६-११-३१॥।।
स रावणः शस्त्रभृताम् मनस्विनाम् ।महाबलानाम् समितौ मनस्वी ।तप्याम् सभायाम् प्रभया चकाशे ।मध्ये वसूनामिव वज्रहस्तः ॥६-११-३२॥
स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः ।प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥६-१२-१॥।।
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥६-१२-२॥।।
स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् ।विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥६-१२-३॥।।
ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये ।प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥।।
विहितम् बहिरन्तश्च बलम् बलवतस्तव ।कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥६-१२-५॥।।
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः ।सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६-१२-६॥।।
प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते ।धर्मकामार्थकृच्च्रेषु यूयमार्हथ वेदितुम् ॥६-१२-७॥।।
सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा ।मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥।।
ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः ।भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥६-१२-९॥।।
अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः ।कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥६-१२-१०॥।।
अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः ।सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥६-१२-११॥।।
इयम् च दण्डकारण्Yआद्रामस्य महिषी प्रिया ।रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥६-१२-१२॥।।
सा मे न शय्यामारोढुमिच्चत्यलसगामिनी ।त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥६-१२-१३॥।।
तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना ।हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥६-१२-१४॥।।
सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ ।दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥।।
हुताग्निरर्चिःसम्काशामेनाम् सौरीमिव प्रभाम् ।उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥६-१२-१६॥।।
पश्यम्स्तदवशस्तस्याः कामस्य वशमेयिवान् ।क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥६-१२-१७॥।।
शोकसम्तापनित्येन कामेन कलुषीकृतः ।सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥६-१२-१८॥।।
प्रतीक्षमाणा भर्तारम् राममायतलोचना ।तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥६-१२-१९॥।।
श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि ।कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥६-१२-२०॥।।
बहुसत्त्वसमाकीर्णम् तौ वा दशरथात्मजौ ।अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥६-१२-२१॥।।
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ।मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥।।
तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् ।ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥।।
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥।।
अदेया च यथा सीता वध्यौ दशरथात्मजौ ।भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥६-१२-२५॥।।
न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् ।सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥६-१२-२६॥।।
तस्य कामपरीतस्य निशम्य परिदेवितम् ।कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥६-१२-२७॥।।
यदा तु रामस्य सलक्ष्मणस्य ।प्रसह्य सीता खलु पा इहाऽहृता ।सकृत्समीक्षैव सुनिश्चितम् तदा ।भजेत चित्तम् यमुनेव यामुनम् ॥६-१२-२८॥।।
सर्वमेतन्महाराज कृतमप्रतिमम् तव ।विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥६-१२-२९॥।।
न्यायेन राजकार्याणि यः करोति दशानन ।न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥६-१२-३०॥।।
अनुपायेन कर्माणि विपरीतानि यानि च ।क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विन ॥६-१२-३१॥।।
यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥६-१२-३२॥।।
चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् ।चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥।।
त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् ।दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥६-१२-३४॥।।
तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः ।अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥६-१२-३५॥।।
अहमुत्सादयिष्यामि शत्रूम्स्तव निशाचर ।यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥६-१२-३६॥।।
तावहम् योधयिष्यामि कुबेरवरुणावपि ।गिरिमात्रशरीरस्य महापरिघयोधिनः ॥६-१२-३७॥।।
नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरन्दरः ।पुनर्माम् सद्वितीयेन शरेण निहनिष्यति ॥६-१२-३८॥।।
ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस ।वधेव वै दाशरथेह् सुखावहम् ।जयम् तवाहर्तुमहम् तयिष्ये ।हत्वा च रामम् सह लक्ष्मणेन ।खादामि सर्वान् हरियूथमुख्यान् ॥६-१२-३९॥।।
रमस्व कामम् पिब चाग्र्यवारुणीम् ।कुरुष्व कार्वाणि हितानि विज्वरः ।मया तु रामे गमिते यमक्षयम् ।चिराय सीता वशगा भविष्यति ॥६-१२-४०॥
रावणम् क्रुद्धमाज्ञाय महापार्श्वो महाबलः ।मुहूर्त मनुसम्चिन्त्य प्राञ्जलिर्वाक्य मब्रवीत् ॥६-१३-१॥।।
यः खल्वपि वनम् प्राप्य मृगव्यालनिषेवितम् ।न पिबेन्मधु सम्प्राप्य स नरो बालिशो ध्रुवम् ॥६-१३-२॥।।
ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण ।रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥६-१३-३॥।।
बलात्कुक्कुटवृत्तेन प्रवर्तस्व महाबल ।अक्रम्याक्रम्य सीताम् वै ताम् भुङिक्स्व च रमस्व च ॥६-१३-४॥।।
लब्धकामस्य ते पश्चादागमिष्यति किम् भयम् ।प्राप्तमप्राप्तकालम् वा सर्वम् प्रतिविधास्यते ॥६-१३-५॥।।
कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः ।प्रतिषेधयितुम् शक्तौ सवज्रमपि वज्रिणम् ॥६-१३-६॥।।
उपप्रदानम् सान्त्वम् वा भेदम् वा कुशलैः कृतम् ।समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥६-१३-७॥।।
इह प्राप्तान्वयम् सर्वान् शत्रूम्स्तव महाबल ।वशे शस्त्रप्रतापेन करिष्यामो न सम्शयः ॥६-१३-८॥।।
एवमुक्तस्तदा राजा महापार्श्वएन रावणः ।तस्य सम्पूजयन्वाक्यमिदम् वचनमब्रवीत् ॥६-१३-९॥।।
महापार्श्व निबोध त्वम् रहस्यम् किम्चिदात्मनः ।चिरवृत्तम् तदाख्यास्ये यदवाप्तम् पुरा मया ॥६-१३-१०॥।।
पितामहस्य भवनम् गच्चन्तीम् पुञ्जिकस्थलाम् ।चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥६-१३-११॥।।
सा प्रसह्य मया भुक्ता कृता विवसना ततः ।स्वयम्भूभवनम् प्राप्ता लोलिता नलिनी यथा ॥६-१३-१२॥।।
तच्च तस्य तदा मन्ये ज्ञातमासीन्महात्मनः ।अथ सम्कुपितो वेधा मामिदम् वाक्यमब्रवी ॥६-१३-१३॥।।
अद्यप्रभृति यामन्याम् बलान्नारीम् गमिष्यसि ।तदा ते शतधा मुर्धा फलिष्यति न सम्शयः ॥६-१३-१४॥।।
इत्यहम् तस्य शापस्य भीतः प्रसभमेव ताम् ।नारोहये बलात्सीताम् वैदेहीम् शय्ने शुभे ॥६-१३-१५॥।।
सागरस्येव मे वेगो मारुतस्येव मे गतिः ।नैतद्दाशरथिर्वेद ह्यापादयति तेन माम् ॥६-१३-१६॥।।
को हि सिम्हमिवासीनम् सुप्तम् गिरिगुहाशये ।क्रुद्धम् मृत्युमिवाऽसीनम् सम्बोधयितुमिच्चति ॥६-१३-१७॥।।
न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्न्गानिव ।रामः पश्यति सम्ग्रामे तेन मामभिगच्चति ॥६-१३-१८॥।।
क्षिप्रम् वज्रसमैर्बाणैः शतधा कार्मुकचुतैः ।राममादीपयिष्यामि उल्कभिरिव कुञ्जरम् ॥६-१३-१९॥।।
तच्चास्य बलमादास्ये बलेन महता वृतः ।उदितः सविता काले नक्षत्राणाम् प्रभामिव ॥६-१३-२०॥।।
न वासवेनापि सहस्रचक्षुषा ।युधास्मि शक्यो वरुणेन वा पुनः ।मया त्वियम् बाहुबलेन निर्जिता ।पुरा पुरी वैश्रवणेन पालिता ॥६-१३-२१॥
निशाचरेन्द्रस्य निशम्य वाक्यम् ।स कुम्भकर्णस्य च गर्जितानि ।विभीषणो राक्षसराजमुख्य ।मुवाच वाक्यम् हितम्र्थयुक्तम् ॥६-१४-१॥।।
वृतो हि बाह्वन्तरभोगराशि ।श्चिन्ताविषः सुस्मिततीक्षणदम्ष्ट्रः ।पञ्चाङ्गुलीपञ्चशिरोऽतिकायः ।सीतामहाहिस्तव केन राजन् ॥६-१४-२॥।।
यावन्न लङ्का समभिद्रवन्ति ।वलीमुखाः पर्वतकूटमात्राः ।दम्ष्ट्रयुधाश्चैव नखायुधाश्च ।प्रदीयताम् दाशरथाय मैथिली ॥६-१४-३॥।।
यावन्न गृह्णन्ति शिराम्सि बाणा ।रामेरिता राक्षसपुङ्गवानाम् ।वज्रोपमा वायुसमानवेगाः ।प्रदीयताम् दाशरथाय मैथिली ॥६-१४-४॥।।
न कुम्भकर्णेन्द्रजितौ च राजम् ।स्तथा महापार्श्वमहोदरौ वा ।निकुम्भकुम्भौ च तथातिकायः ।स्थातुम् समर्था युधि राघवस्य ॥६-१४-५॥।।
जीवम्स्तु रामस्य न मोक्स्यसे त्वम् ।गुप्तः सवित्राप्यथवा मरुद्भिः ।न वासवस्याङ्कगतो न मृत्यो ।र्नभो न पातालमनुप्रविष्टः ॥६-१४-६॥।।
निशम्य वाक्यम् तु विभीषणस्य ।ततः प्रहस्तो वचनम् बभाषे ।न नो भयम् विद्म न दैवतेभ्यो ।न दानवेभ्योऽप्यथवा कदाचित् ॥६-१४-७॥।।
न यक्षगन्धर्वमहोरगेभ्यो ।भयम् न सम्ख्ये पतगोरगेभ्यः ।कथम् नु रामाद्भविता भयम् नो ।नरेन्द्रपुत्रात्समरे कदाचित् ॥६-१४-८॥।।
प्रहस्तवाक्यम् त्वहितम् निशम्य ।विभीषणो राजहितानुकाङिक्षी ।ततो महार्थम् वचनम् बभाषे ।धर्मार्थकामेषु निविष्टबुद्धिः ॥६-१४-९॥।।
प्रहस्त राजा च महोदरश्च ।त्वम् कुम्भकर्णश्च यथार्थजातम् ।ब्रवीत रामम् प्रति तन्न शक्यम् ।यथा गतिः स्वर्गमधर्मबुद्धेः ॥६-१४-१०॥।।
वधस्तु रामस्य मया त्वया च ।प्रहस्त सर्वैरपि राक्षसैर्वा ।कथम् भवेदर्थविशारदस्य ।महार्णवम् तर्तु मिवाप्लवस्य ॥६-१४-११॥।।
धर्मप्रधानस्य महारथस्य ।इक्स्वाकुवम्शप्रभवस्य राज्ञः ।पुरोऽस्य देवाश्च तथाविधस्य ।कृत्येषु शक्तस्य भवन्ति मूढाः ॥६-१४-१२॥।।
तीक्षणा न तावत्तव कङ्कपत्रा ।दुरापदा राघवविप्रमुक्ताः ।भित्त्वाशरीरम् प्रविशन्ति बाणाः ।प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१३॥।।
भित्त्वा न तावत्प्रविशन्ति कायम् ।प्राणान्तकास्तेऽशनितुल्य्वेगाः ।शिताः शरा राघवविप्रमुक्ताः ।प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१४॥।।
न रावणो नाइबलस्त्रीशीर्षो ।न कुम्भकर्णस्य सुतो निकुभः ।न चेन्द्रजिद्दाशरथिम् प्रसोढुम् ।त्वम् वा रणे शक्रसमम् समर्थः ॥६-१४-१५॥।।
देवान्तको वापि नरान्तको वा ।तथातिकायोऽतिरथो महात्मा ।अकम्पननश्चाद्रिसमानसारः ।स्थातुम् न शक्ता युधि राघवस्य ॥६-१४-१६॥।।
अयम् च राजा न्यसनाभिभूतो ।मित्रैरमित्रप्रतिमैर्भवद्भिः ।अन्वास्यते राक्षसनाशनार्थे ।तीक्षणः प्रकृत्या ह्यसमीक्ष्यकारी ॥६-१४-१७॥।।
अनन्तभोगेन सहस्रमूर्ध्ना ।वागेन भीमेन महाबलेन ।बलात्परिक्षिप्तमिमम् भवन्तो ।राजानमुत्क्षिप्य विमोचयन्तु ॥६-१४-१८॥।।
यावद्धि केशग्रहणात्सुहृद्भिः ।समेत्य सर्वैः परिपूर्णकामैः ।निगृह्य राजा परिरक्षितव्यो ।भूतैर्यथा भीमबलैर्गृहीअः ॥६-१४-१९॥।।
सुवारिणा राघवसागरेण ।प्रच्चाद्यमानस्तरसा भवद्भिः ।प्रच्चाद्यमानस्तरसा भवद्भिः ।युक्तस्त्वयम् तारयितुम् समेत्य ।काकुत्थ्सपातालमुखे पतन्सः ॥६-१४-२०॥।।
इदम् पुरस्यास्य सराक्षसस्य ।राज्ञश्च पथ्यम् ससुहृज्जनस्य ।सम्यग्घि वाक्यम् स्वमतम् ब्रवीमि ।नरेन्द्रपुत्राय ददातु मैथिलीम् ॥६-१४-२१॥।।
परस्य वीर्यम् स्वबलम् च बुद्ध्वा ।स्थानम् क्षयम् चैव तथैव वृद्धिम् ।तथा स्वपक्षे प्यनुमृश्य बुद्ध्या ।वद्त् क्षमम् स्वामिहितम् स मन्त्री ॥६-१४-२२॥
बृहस्पतेस्तुल्यमतेर्वचस्त ।न्निशम्य यत्नेन विभीषणस्य ।ततो महात्मा वचनम् बभाषे ।तत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥६-१५-१॥।।
किम् नाम ते तात कनिष्ठ वाक्य ।मन्र्थकम् वै बहुभीतवच्च ।अस्मिन् कुले योऽपि  भवेन्न जातः ।सोऽपीदृशम् नैव वदेन्न कुर्यात् ॥६-१५-२॥।।
सत्त्वेन वीर्येण पराक्रमेणधैर्येण शौर्येण च तेजसा च ।एकः कुलेऽस्मिन् पुरुषो विमुक्तो ।विभीषणस्तातकनिष्ठ एषः ॥६-१५-३॥।।
किम् नाम तौ मानुषराजपुत्रा ।वस्माकमेकेन हि राक्षसेन ।सुप्राकृतेनापि निहन्तुमेतौ ।शक्यौ कुतो भीषयसे स्म भीरो ॥६-१५-४॥।।
त्रिलोकनाथो नम देवराजः ।शक्तो मया भूमितले विविष्टः ।भयार्मिताश्चापि दिशः प्रपन्नाः ।सर्वे तदा देवगणाः समग्राः ॥६-१५-५॥।।
ऐरावतो विस्वरमुन्नदन् स ।निपातितो भूमितले मया तु ।विकृष्य दन्तौ तु मया प्रपह्य ।वित्रासिता देवगणाः समग्राः ॥६-१५-६॥।।
सोऽहम् सुराणामपि दर्पहन्ता ।दैत्योत्तमानामपि शोककर्ता ।कथम् नरेन्द्रत्मजयोर्न शक्तो ।ममष्ययोः प्राकृतयोः सुवीर्यः ॥६-१५-७॥।।
अथेन्द्रकल्पस्य दुरासदस्य ।महाजसस्तद्वचनम् निशम्य ।ततो महार्थम् वचनम् बभाषे ।विभीषणः शस्त्रभृताम् वरिष्ठः ॥६-१५-८॥।।
न तात मन्त्रे तव निश्चयोऽस्ति ।बालस्त्वमद्याप्यविपक्वबुद्धिः ।तस्मात्त्वयाप्यात्मविनाशनाय ।वचोऽर्थ्हीनम् बहु विप्रलप्तम् ॥६-१५-९॥।।
पुत्रप्रवादेन तु रावणस्य ।त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः ।यस्येदृशम् राघवतो विनाशम् ।विशम्य मोहादनुवन्यसे त्वम् ॥६-१५-१०॥।।
त्वमेव वध्यश्च सुदुर्मतिश्च ।स चापि वध्यो य ऐहानयत्त्वाम् ।बालम् दृढम् साहासिकम् च योऽद्य ।प्रावेशयन्मन्त्रक्R^ताम् समीपम् ॥६-१५-११॥।।
मूढोऽप्रगल्भोऽविनयोपपन्न ।स्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा ।मूर्खस्त्वमत्यन्तसुदुर्मतिश्च ।त्वमिन्द्रजिद्बालतया ब्रवीषि ॥६-१५-१२॥।।
को ब्रह्मदण्डप्रतिमप्रकाशा ।नर्चिष्मतः कालनिकाशरूपान् ।सहेत बाणान्यमदण्डकल्पा ।न्समक्षमुक्तान्युधि राघवेण ॥६-१५-१३॥।।
धनानि रत्नानि सुभूषणानि ।वापाम्पि दिव्यानि मणीम्श्च चित्रान् ।सीताम् च रामाय निवेद्य देवीम् ।वसेम राजन्निह वीतशोकाः ॥६-१५-१४॥
सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥६-१६-१॥।।
वसेत् सह सपत्नेन क्रुद्धेन आशी विषेण च ।न तु मित्र प्रवादेन सम्वस्च्चत्रुणा सह ॥६-१६-२॥।।
जानामि शीलम् ज्ञातीनाम् सर्व लोकेषु राक्षस ।हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयः सदा ॥६-१६-३॥।।
प्रधानम् साधकम् वैद्यम् धर्म शीलम् च राक्षस ।ज्ञातयो ह्यनमन्यन्ते शूरम् परिभवन्ति च ॥६-१६-४॥।।
नित्यम् अन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।प्रच्चन्न हृदया घोरा ज्ञातयस् तु भय आवहाः ॥६-१६-५॥।।
श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्म वने पुरा ।पाश हस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम ॥६-१६-६॥।।
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः  ॥६-१६-७॥।।
उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।कृत्स्नाद् भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥६-१६-८॥।।
विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् ।विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥६-१६-९॥।।
ततो नेष्टम् इदम् सौम्य यदहम् लोक सत्कृतः ।ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥६-१६-१०॥।।
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।न श्लेषमभिगच्चन्ति तथानार्येषु सौहृदम् ॥६-१६-११॥।।
यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।न भवत्यमुबसम्क्लेदस्तथानार्येषु सौहृदम् ॥६-१६-१२॥।।
यथा मधुकरस्तर्षाद्रासम् विन्दन्न तिष्ठति ।तथा त्वमपि तत्रैव तथानार्येषु सौहृदम् ॥६-१६-१३॥।।
यथा मधुकर्स्तराषात्काशपुष्पम् पिबन्नपि ।रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥६-१६-१४॥।।
यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।दूषयत्यात्मनो देहम् तथानार्येषु सौहृदम् ॥६-१६-१५॥।।
योऽन्यस्त्वेवम्विधम् ब्रूयाद् वाक्यमेतन्निशाचर ।अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुलपाम्सनम् ॥६-१६-१६॥।।
इतिउक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥६-१६-१७॥।।
अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।अन्तरिक्षगतः श्रीमान् भ्रातरम् राक्षस अधिपम् ॥६-१६-१८॥।।
स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यद् यद् इच्चसि ।ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥६-१६-१९॥।।
इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ।सुनीतम् हित कामेन वाक्यम् उक्तम् दश आनन ॥६-१६-२०॥।।
न गृह्णन्ति अकृत आत्मानः कालस्य वशमागताः ।सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ॥६-१६-२१॥।।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।बद्धम् कालस्य पाशेन सर्व भूत अपहारिणा ॥६-१६-२२॥।।
न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा ।दीप्त पावक सम्काशैः शितैः कान्चन भूषणैः ॥६-१६-२३॥।।
न त्वाम् इच्चामि अहम् द्रष्टुम् रामेण निहतम् शरैः ।शूराः च बलवन्तः च कृत अस्त्राः च नर आजिरे ॥६-१६-२४॥।।
काल अभिपन्ना सीदन्ति यथा वालुक सेतवः ।तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्चता ॥६-१६-२५॥।।
आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् ।स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥६-१६-२६॥।।
निवार्यमाणस्य मया हित एषिणा ।न रोचते ते वचनम् निशा चर ।परीत काला हि गत आयुषो नरा ।हितम् न गृह्णन्ति सुहृद्भिर् ईरितम् ॥६-१६-२७॥
इति उक्त्वा परुषम् वाक्यम् रावणम् रावण अनुजः ।आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥६-१७-१॥।।
तम् मेरु शिखर आकारम् दीप्ताम् इव शत ह्रदाम् ।गगनस्थम् महीस्थास् ते ददृशुर् वानर अधिपाः ॥६-१७-२॥।।
ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः ।तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः ॥६-१७-३॥।।
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः ।वरायुधधरो वीरो दिव्याभरणभूषितः ॥६-१७-४॥।।
तम् आत्म पन्चमम् दृष्ट्वा सुग्रीवो वानर अधिपः ।वानरैः सह दुर्धर्षः चिन्तयाम् आस बुद्धिमान् ॥६-१७-५॥।।
चिन्तयित्वा मुहूर्तम् तु वानराम्स् तान् उवाच ह ।हनूमत् प्रमुखान् सर्वान् इदम् वचनम् उत्तमम् ॥६-१७-६॥।।
एष सर्व आयुध उपेतः चतुर्भिः सह राक्षसैः ।राक्षसो अभ्येति पश्यध्वम् अस्मान् हन्तुम् न सम्शयः ॥६-१७-७॥।।
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर उत्तमाः ।सालान् उद्यम्य शैलामः च इदम् वचनम् अब्रुवन् ॥६-१७-८॥।।
शीघ्रम् व्यादिश नो राजन् वधाय एषाम् दुरात्मनाम् ।निपतन्तु हताः च एते धरण्याम् अल्प जीविताः ॥६-१७-९॥।।
तेषाम् सम्भाषमाणानाम् अन्योन्यम् स विभीषणः ।उत्तरम् तीरम् आसाद्य खस्थ एव व्यतिष्ठत ॥६-१७-१०॥।।
स उवाच च महाप्राज्ञः स्वरेण महता महान् ।सुग्रीवम् तामः च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥६-१७-११॥।।
रावणो नाम दुर्वृत्तो राक्षसो राक्षस ईश्वरः ।तस्य अहम् अनुजो भ्राता विभीषण इति श्रुतः ॥६-१७-१२॥।।
तेन सीता जन स्थानाद्द् हृता हत्वा जटायुषम् ।रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥६-१७-१३॥।।
तम् अहम् हेतुभिर् वाक्यैर् विविधैः च न्यदर्शयम् ।साधु निर्यात्यताम् सीता रामाय इति पुनः पुनः ॥६-१७-१४॥।।
स च न प्रतिजग्राह रावणः काल चोदितः ।उच्यमानो हितम् वाक्यम् विपरीत इव औषधम् ॥६-१७-१५॥।।
सो अहम् परुषितस् तेन दासवच् च अवमानितः ।त्यक्त्वा पुत्रामः च दारामः च राघवम् शरणम् गतः ॥६-१७-१६॥।।
निवेदेअयत माम् क्षिप्रम् राघवाय महात्मने ।सर्व लोक शरण्याय विभीषणम् उपस्थितम् ॥६-१७-१७॥।।
एतत्तु वचनम् श्रुत्वा सुग्रीवो लघु विक्रमः ।लक्ष्मणस्य अग्रतो रामम् सम्रब्धम् इदम् अब्रवीत् ॥६-१७-१८॥।।
प्रविष्टः शत्रु सैन्यम् हि प्राप्तः शत्रुरतर्कितः ।निहन्यादन्न्तरम् लब्ध्वा उलूको वायसानिव ॥६-१७-१९॥।।
मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि ।वानराणाम् च भद्रम् ते परेषाम् च परम्तप ॥६-१७-२०॥।।
अन्तर्धनगताह्येते राक्षसाः कामरूपिणः ।शूराश्च निकृतिज्ञाश्च तेषाम् जातु न विश्वसेत् ॥६-१७-२१॥।।
प्रणीधी राक्षसेन्द्रस्य रावणस्य भवेदयम् ।अनुप्रविश्य सोऽ स्मासु भेदम् कुर्यान्न सम्शयः ॥६-१७-२२॥।।
अथवा स्वयमेवैष चिद्रमासाद्य बुद्धिमान् ।अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ॥६-१७-२३॥।।
मित्राटवीबलम् चैव मौलभृत्यबलम् तथा ।सर्वमेतद्बलम् ग्राह्यम् वर्जयित्वा द्विषद्बलम् ॥६-१७-२४॥।।
प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो ।आगतश्च रिपोः साक्षात्कथमस्मिम्श्च विश्वसेत् ॥६-१७-२५॥।।
रावणस्य अनुजो भ्राता विभीषण इति श्रुतः ।चतुर्भिः सह रक्षोभिर् भवन्तम् शरणम् गतः ॥६-१७-२६॥।।
रावणेन प्रणिहितम् तम् अवेहि विभीषणम् ।तस्य अहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर ॥६-१७-२७॥।।
राक्षसो जिह्मया बुद्ध्या सम्दिष्टो अयम् उपस्थितः ।प्रहर्तुम् मायया चन्नो विश्वस्ते त्वयि राघव ॥६-१७-२८॥।।
बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह ।रावणस्य नृशम्सस्य भ्राता हि एष विभीषणः ॥६-१७-२९॥।।
एवम् उक्त्वा तु तम् रामम् सम्रब्धो वाहिनी पतिः ।वाक्यज्ञो वाक्य कुशलम् ततो मौनम् उपागमत् ॥६-१७-३०॥।।
सुग्रीवस्य तु तद् वाक्यम् श्रुत्वा रामो महाबलः ।समीपस्थान् उवाच इदम् हनूमत् प्रमुखान् हरीन् ॥६-१७-३१॥।।
यद् उक्तम् कपि राजेन रावण अवरजम् प्रति ।वाक्यम् हेतुमद् अत्यर्थम् भवद्भिर् अपि तत् श्रुतम् ॥६-१७-३२॥।।
सुहृदा हि अर्थ कृच्चेषु युक्तम् बुद्धिमता सता ।समर्थेन अपि सम्देष्टुम् शाश्वतीम् भूतिम् इच्चता ॥६-१७-३३॥।।
इति एवम् परिपृष्टास् ते स्वम् स्वम् मतम् अतन्द्रिताः ।स उपचारम् तदा रामम् ऊचुर् हित चिकीर्षवः ॥६-१७-३४॥।।
अज्ञातम् न अस्ति ते किम्चित् त्रिषु लोकेषु राघव ।आत्मानम् पूजयन् राम पृच्चसि अस्मान् सुहृत्तया ॥६-१७-३५॥।।
त्वम् हि सत्य व्रतः शूरो धार्मिको दृढ विक्रमः ।परीक्ष्य कारा स्मृतिमान् निसृष्ट आत्मा सुहृत्सु च ॥६-१७-३६॥।।
तस्माद् एक एकशस् तावद् ब्रुवन्तु सचिवास् तव ।हेतुतो मति सम्पन्नाः समर्थाः च पुनः पुनः ॥६-१७-३७॥।।
इति उक्ते राघवाय अथ मतिमान् अन्गदो अग्रतः ।विभीषण परीक्षा अर्थम् उवाच वचनम् हरिः ॥६-१७-३८॥।।
शत्रोः सकाशात् सम्प्राप्तः सर्वथा शन्क्य एव हि ।विश्वास योग्यः सहसा न कर्तव्यो विभीषणः ॥६-१७-३९॥।।
चादयित्वा आत्म भावम् हि चरन्ति शठ बुद्धयः ।प्रहरन्ति च रन्ध्रेषु सो अनर्थः सुमहान् भवेत् ॥६-१७-४०॥।।
अर्थ अनर्थौ विनिश्चित्य व्यवसायम् भजेत ह ।गुणतः सम्ग्रहम् कुर्याद् दोषतस् तु विसर्जयेत् ॥६-१७-४१॥।।
यदि दोषो महाम्स् तस्मिम्स् त्यज्यताम् अविशन्कितम् ।गुणान् वा अपि बहून् ज्ञात्वा सम्ग्रहः क्रियताम् नृप ॥६-१७-४२॥।।
शरभस् त्व् अथ निश्चित्य सार्थम् वचनम् अब्रवीत् ।क्षिप्रम् अस्मिन् नर व्याघ्र चारः प्रतिविधीयताम् ॥६-१७-४३॥।।
प्रणिधाय हि चारेण यथावत् सूक्ष्म बुद्धिना ।परीक्ष्य च ततः कार्यो यथा न्यायम् परिग्रहः ॥६-१७-४४॥।।
जाम्बवाम्स् त्व् अथ सम्प्रेक्ष्य शास्त्र बुद्ध्या विचक्षणः ।वाक्यम् विज्ञापयाम् आस गुणवद् दोष वर्जितम् ॥६-१७-४५॥।।
बद्ध वैराच् च पापाच् च राक्षस इन्द्राद् विभीषणः ।अदेश काले सम्प्राप्तः सर्वथा शन्क्यताम् अयम् ॥६-१७-४६॥।।
ततो मैन्दस् तु सम्प्रेक्ष्य नय अपनय कोविदः ।वाक्यम् वचन सम्पन्नो बभाषे हेतुमत्तरम् ॥६-१७-४७॥।।
अनुहो नाम तस्य एष रावणस्य विभीषणः ।पृच्च्यताम् मधुरेण अयम् शनैर् नर वर ईश्वर ॥६-१७-४८॥।।
भावम् अस्य तु विज्ञाय ततस् तत्त्वम् करिष्यसि ।यदि दृष्टो न दुष्टो वा बुद्धि पूर्वम् नरषभ ॥६-१७-४९॥।।
अथ सम्स्कार सम्पन्नो हनूमान् सचिव उत्तमः ।उवाच वचनम् श्लक्ष्णम् अर्थवन् मधुरम् लघु ॥६-१७-५०॥।।
न भवन्तम् मति श्रेष्ठम् समर्थम् वदताम् वरम् ।अतिशाययितुम् शक्तो बृहस्पतिर् अपि ब्रुवन् ॥६-१७-५१॥।।
न वादान् न अपि सम्घर्षान् न आधिक्यान् न च कामतः ।वक्ष्यामि वचनम् राजन् यथा अर्थम् राम गौरवात् ॥६-१७-५२॥।।
अर्थ अनर्थ निमित्तम् हि यद् उक्तम् सचिवैस् तव ।तत्र दोषम् प्रपश्यामि क्रिया न हि उपपद्यते ॥६-१७-५३॥।।
ऋते नियोगात् सामर्थ्यम् अवबोद्धुम् न शक्यते ।सहसा विनियोगो हि दोषवान् प्रतिभाति मे ॥६-१७-५४॥।।
चार प्रणिहितम् युक्तम् यद् उक्तम् सचिवैस् तव ।अर्थस्य असम्भवात् तत्र कारणम् न उपपद्यते ॥६-१७-५५॥।।
अदेश काले सम्प्राप्त इति अयम् यद् विभीषणः ।विवक्षा च अत्र मे अस्ति इयम् ताम् निबोध यथा मति ॥६-१७-५६॥।।
स एष देशः कालः च भवति इह यथा तथा ।पुरुषात् पुरुषम् प्राप्य तथा दोष गुणाव् अपि ॥६-१७-५७॥।।
दौरात्म्यम् रावणे दृष्ट्वा विक्रमम् च तथा त्वयि ।युक्तम् आगमनम् तस्य सदृशम् तस्य बुद्धितः ॥६-१७-५८॥।।
अज्ञात रूपैः पुरुषैः स राजन् पृच्च्यताम् इति ।यद् उक्तम् अत्र मे प्रेक्षा काचिद् अस्ति समीक्षिता ॥६-१७-५९॥।।
पृच्च्यमानो विशन्केत सहसा बुद्धिमान् वचः ।तत्र मित्रम् प्रदुष्येत मिथ्य पृष्टम् सुख आगतम् ॥६-१७-६०॥।।
अशक्यः सहसा राजन् भावो वेत्तुम् परस्य वै ।अन्तः स्वभावैर् गीतैस् तैर् नैपुण्यम् पश्यता भृशम् ॥६-१७-६१॥।।
न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्ट भावता ।प्रसन्नम् वदनम् च अपि तस्मान् मे न अस्ति सम्शयः ॥६-१७-६२॥।।
अशन्कित मतिः स्वस्थो न शठः परिसर्पति ।न च अस्य दुष्टा वागस्ति तस्मान् न अस्ति इह सम्शयः ॥६-१७-६३॥।।
आकारः चाद्यमानो अपि न शक्यो विनिगूहितुम् ।बलाद्द् हि विवृणोति एव भावम् अन्तर् गतम् नृणाम् ॥६-१७-६४॥।।
देश काल उपपन्नम् च कार्यम् कार्यविदाम् वर ।सफलम् कुरुते क्षिप्रम् प्रयोगेण अभिसम्हितम् ॥६-१७-६५॥।।
उद्योगम् तव सम्प्रेक्ष्य मिथ्या वृत्तम् च रावणम् ।वालिनः च वधम् श्रुत्वा सुग्रीवम् च अभिषेचितम् ॥६-१७-६६॥।।
राज्यम् प्रार्थयमानः च बुद्धि पूर्वम् इह आगतः ।एतावत् तु पुरस् कृत्य युज्यते त्व् अस्य सम्ग्रहः ॥६-१७-६७॥।।
यथा शक्ति मया उक्तम् तु राक्षसस्य आर्जवम् प्रति ।प्रमाणम् तु शेषस्य श्रुत्वा बुद्धिमताम् वर ॥६-१७-६८॥
राघवेन अभये दत्ते सम्नतो रावण अनुजः ।विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥।।
खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह ।स तु रामस्य धर्म आत्मा निपपात विभीषणः ॥६-१९-२॥।।
पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः ।अब्रवीच् च तदा रामम् वाक्यम् तत्र विभीषणः ॥६-१९-३॥।।
धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् ।अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥।।
भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः ।परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥।।
भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च ।तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥।।
वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव ।आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥।।
एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा ।रावणस्य बलम् सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥।।
अवध्यः सर्वभूतानाम् गन्धर्वोरगपक्षिणाम् ।राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥६-१९-९॥।।
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥।।
राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥।।
बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि ।धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥।।
सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् ।अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥।।
महोदरमहापार्स्वौ राक्षसश्चाप्यकम्पनः ।अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥।।
दशकोटिसहस्राणि रक्षसाम् कामरूपिणाम् ।माम्सशोणितभक्ष्याणाम् लङ्कापुरनिवासिनाम् ॥६-१९-१५॥।।
स तैस्तु सहितो राजा लोकपालानयोधयत् ।सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥।।
विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः ।अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥।।
यानि कर्मापदानानि रावणस्य विभीषण ।अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥।।
अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् ।राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥।।
रसातलम् वा प्रविशेत्पातालम् वापि रावणः ।पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥।।
अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् ।अयोध्याम् न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः शपेः ॥६-१९-२१॥।।
श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः ।शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥।।
राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे ।करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥।।
इति ब्रुवाणम् रामस् तु परिष्वज्य विभीषणम् ।अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥।।
तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् ।राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥।।
एवम् उक्तस् तु सौमित्रिर् अभ्यषिन्चद् विभीषणम् ।मध्ये वानर मुख्यानाम् राजानम् राम शासनात् ॥६-१९-२६॥।।
तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः ।प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥।।
अब्रवीच् च हनूमामः च सुग्रीवः च विभीषणम् ।कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥।।
सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् ।उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥।।
तराम तरसा सर्वे ससैन्या वरुण आलयम् ।एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥।।
समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति ।खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥।।
कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः ।एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥।।
आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः ।ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥६-१९-३३॥।।
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥।।
स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् ।सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥।।
विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते ।सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥।।
उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् ।एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥।।
समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः ।किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥।।
विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् ।अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥।।
लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः ।विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥।।
अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् ।यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥।।
एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः ।सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१९-४२॥
राघवेणाभये दत्ते सन्नता रावणानुजः ।विभीषणो महापाज्ञो भूमिं समवलोकयन् ।खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह ।। ६.१९.१ ।।।।
स तु रामस्य धर्मात्मा निपपात विभीषणः ।पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ।। ६.१९.२ ।।।।
अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ।धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् ।। ६.१९.३ ।।।।
अनुजो रावणस्याहं तेन चाप्यवमानितः ।भवन्तं सर्वभूतानां शरण्यं शरणागतः ।। ६.१९.४ ।।४ ।।।।
परित्यक्ता मया लङ्का मित्राणि च धनानि वै ।भवद्गतं मे राज्यं च जीवितं च सुखानि च ।। ६.१९.५ ।।।।
तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् ।वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ।। ६.१९.६ ।।।।
आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ।। ६.१९.७ ।।।।
एवमुक्तस्तदा रक्षो रामेणाक्लिष्टकर्मणा ।रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ।। ६.१९.८ ।।।।
अवध्यः सर्वभूतानां गन्धर्वासुररक्षसाम् ।राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः ।। ६.१९.९ ।।।।
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ।। ६.१९.१० ।।।।
राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः ।कैलासे येन सङ्ग्रामे मणिभद्रः पराजितः ।। ६.१९.११ ।।।।
बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि ।धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ।। ६.१९.१२ ।।।।
सङ्ग्रामसमयव्यूहे तर्पयित्वा हुताशनम् ।अन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव ।। ६.१९.१३ ।।।।
महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः ।अनीकस्थास्तु तस्यैते लोकपालसमा युधि ।। ६.१९.१४ ।।।।
दशकोटिसहस्राणि राक्षसां कामरूपिणाम् ।मांसशोणितभक्षाणां लङ्कापुरनिवासिनाम् ।। ६.१९.१५ ।।।।
स तैस्तु सहितो राजा लोकपालानयोधयत् ।। ६.१९.१६ ।।।।
सह देवैस्तु ते भग्ना रावणेन महात्मना ।। ६.१९.१७ ।।।।
विभीषणवचः श्रुत्वा रामो दृढपराक्रमः ।अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ।। ६.१९.१८ ।।।।
यानि कर्मापदानानि रावणस्य विभीषण ।आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ।। ६.१९.१९ ।।।।
अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम् ।राजानं त्वां करिष्यामि सत्यमेतद् ब्रवीमि ते ।। ६.१९.२० ।।।।
रसातलं वा प्रविशेत् पातालं वापि रावणः ।पितामहसकाशं वा न मे जीवन् विमोक्ष्यते ।। ६.१९.२१ ।।।।
अहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम् ।अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ।। ६.१९.२२ ।।।।
श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः ।शिरसा ऽ ऽवन्द्य धर्मात्मा वक्तुमेवोपचक्रमे ।। ६.१९.२३ ।।।।
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणम् ।करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ।। ६.१९.२४ ।।।।
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ।अब्रवील्लक्ष्णणं प्रीतः समुद्राज्जलमानय ।। ६.१९.२५ ।।।।
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् ।राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ।। ६.१९.२६ ।।।।
एवमुक्तस्तु सौमित्रिरभ्याषिञ्चद्विभीषणम् ।मध्येवानरमुख्यानां राजानं राजशासनात् ।। ६.१९.२७ ।।।।
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः ।प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् ।। ६.१९.२८ ।।।।
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ।। ६.१९.२९ ।।।।
कथं सागरमक्षोभ्यं तराम वरुणालयम् ।सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ।। ६.१९.३० ।।।।
उपायं नाधिगच्छामो यथा नदनदीपतिम् ।तराम तरसा सर्वे ससैन्या वरुणालयम् ।एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ।। ६.१९.३१ ।।।।
समुद्रं राघवो राजा शरणं गन्तुमर्हति ।। ६.१९.३२ ।।
र्वे ससैन्या वरुणालयम् ।खानितः सगरेणायमप्रमेयो महोदधिः ।कर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः ।। ६.१९.३३ ।।।।
एवं विभीषणेनोक्तो राक्षसेन विपश्चिता ।आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ।। ६.१९.३४ ।।।।
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ।सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।। ६.१९.३५ ।।।।
प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ।। ६.१९.३६ ।।।।
स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ।सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ।। ६.१९.३७ ।।।।
विभीषणस्य मन्त्रो ऽयं मम लक्ष्मण रोचते ।ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ।। ६.१९.३८ ।।।।
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः ।उभाभ्यां सम्प्रधार्यार्थं रोचते यत्तदुच्यताम् ।। ६.१९.३९ ।।।।
एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ ।समुदाचारसंयुक्तमिदं वचनमूचतुः ।। ६.१९.४० ।।।।
किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव ।विभीषणेन यच्चोक्तमस्मिन् काले सुखावहम् ।। ६.१९.४१ ।।।।
अबद्ध्वा सागरे सेतुं घोरे ऽस्मिन् वरुणालये ।लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ।। ६.१९.४२ ।।।।
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः ।अलं कालात्ययं कृत्वा समुद्रो ऽयं नियुज्यताम् ।यथा सैन्येन गच्छामः पुरीं रावणपालिताम् ।। ६.१९.४३ ।।।।
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः ।संविवेश तदा रामो वेद्यामिव हुताशनः ।। ६.१९.४४ ।।
ततो निविष्टाम् ध्वजिनीम् सुग्रीवेणाभिपालिताम् ।ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥६-२०-१॥।।
चारो राक्षसराजस्य रावणस्य दुरात्मनः ।ताम् दृष्ट्वा सर्वतोऽव्यग्रम् प्रतिगम्य स राक्षसः ॥६-२०-२॥।।
आविश्य लङ्काम् वेगेन राजानमिदमब्रवीत् ।एष वै वानरर्क्षघो लङ्काम् समभिवर्तते ॥६-२०-३॥।।
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ।पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥६-२०-४॥।।
उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ ।एतौ सागरमासाद्य सम्निविष्टौ महाद्युती ॥६-२०-५॥।।
बलम् चाकाशमावृत्य सर्वतो दशयोजनम् ।तत्त्वभूतम् महारज क्षिप्रम् वेदितुमर्हसि ॥६-२०-६॥।।
तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् ।उपप्रदानम् सान्त्वम् वा भेदो वात्र प्रयुज्यताम् ॥६-२०-७॥।।
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ।उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ॥६-२०-८॥।।
शुकम् नाम तदा रक्षो वाक्यमर्थविदाम् वरम् ।सुग्रीवम् ब्रूहि गत्वाशु राजानम् वचनान्मनु ॥६-२०-९॥।।
यथासम्देशमक्लीबम् शल्क्स्णया परया गिरा ।त्वम् वै महारज कुलप्रसूतो ।महाबलश्चर्क्षरजःसुतश्च ।न कश्चनार्थस्तव वास्त्यनर्थ ।स्तथापि मे भ्रातृसमो हरीश ॥६-२०-१०॥।।
अहम् यद्यहरम् भार्याम् राजपुत्रस्य धीमतः ।किम् तत्र तव सुग्रीव किश्किन्धाम् प्रति गम्यताम् ॥६-२०-११॥।।
न हीयम् हरिभिर्लङ्का प्राप्तुम् शक्या कथम् चन ।देवैरपि सगन्धर्वैः किम् पुनर्नरवानरैः ॥६-२०-१२॥।।
स तदा राक्षसेन्द्रेण सम्दिष्टो रजनीचरः ।शुको विहम्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥६-२०-१३॥।।
स गत्वा दूरमध्वानमुपर्युपरि सागरम् ।सम्स्थितो ह्यम्बरे वाक्यम् सुग्रीव मदिमब्रवीत् ॥६-२०-१४॥।।
सर्वमुक्तम् यथादिष्टम् रावणेन दुरात्मना ।तत्प्रपयन्तम् वचनम् तूर्णमाप्लुत्य वानराः ॥६-२०-१५॥।।
प्रापद्यन्त तदा क्षिप्रम् लोप्तुम् हन्तुम् च मुष्टिभिः ।सर्वैः प्लवण्गैः प्रसभम् निगृहीतो निशाचरह् ॥६-२०-१६॥।।
गगनाद्भूतले चाशु प्रतिगृह्यावतारितः ।वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥६-२०-१७॥।।
न दूतान् घ्नन्ति काकुत्थ्स वार्यन्ताम् साधु वानराः ।यस्तु हित्वा मतम् भर्तुः स्वमतम् सम्प्रभाषते ॥६-२०-१८॥।।
अनुक्तवादी दूतः सन्न् स दूतो वधमर्हति ।शुकस्य वचनम् रामः श्रुत्वा तु परिदेवितम् ॥६-२०-१९॥।।
उवाच मा वधिस्टेति घ्नतः शाखामृगर्षभान् ।स च पत्रलघुद्भूत्वा हरिभिर्दर्शितेऽभये ॥६-२०-२०॥।।
अन्तरिक्षे स्थितो भूत्वा पुनर्वचन मब्रवीत् ।सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम ॥६-२०-२१॥।।
किम् मया खलु नक्तव्यो रावणो लोकरावणः ।स एवमुक्तः प्लवगाधिपस्तदा ।प्लवङ्गमानामृषभो महाबलः ।उवाच वाक्यम् रजनीचरस्य ।चारम् शुकम् शुद्ध मदीनसत्त्वः ॥६-२०-२२॥।।
स मेऽसि मित्रम् व तथानुकम्प्यो ।न चोपकर्तासि न मे प्रियोऽपि ।अरिश्च रामस्य सहानुबन्ध ।स्ततोऽसि वालीव वधार्ह वध्यः ॥६-२०-२३॥।।
निहन्म्यहम् त्वाम् ससुतम् सबन्धुम् ।सज्ञातिवर्गम् रजनीचरेश ।लङ्काम् च सर्वाम् महता बलेन ।सर्वैः करिष्यामि समेत्य भस्म ॥६-२०-२४॥।।
न मोक्ष्यसे रावण राघवस्य ।सर्वैः सहेन्द्रैदपि मूढ गुप्तः ।अन्तर्हतः सूर्यपथम् गतोऽपि।तथैव पातालमनुप्रविष्टः ॥६-२०-२५॥।।
गिरीशपादम्बुजसम्गतो वा ।हतोऽसि रामेण शानुजस्त्वम् ॥६-२०-२६॥।।
तस्य ते त्रिषु लोकेषु न पिशाचम् न राक्षसम् ।त्रातारमनुपश्यामि न गन्धर्वम् न चासुरम् ॥६-२०-२७॥।।
अवधीस्त्वम् जरावृद्धम् गृध्राराजम् जटायुषम् ।किम् मते रामसाम्निध्ये सकाशे लक्ष्मणस्य च ॥६-२०-२८॥।।
हृता सीता विशालाक्षि याम् त्वम् गृह्य न बुध्यसे ।महाबलम् महात्मानम् दुराधर्षम् सुरैरपि ॥६-२०-२९॥।।
न बुध्यसे रघुश्रेष्ठम् यस्ते प्राणान् हरिष्यति ।ततोऽब्रवीद्वालिसुतोऽप्यङ्गदो हरिसत्तमः ॥६-२०-३०॥।।
वायम् दूतो महाप्राज्ञ चारकः प्रतिभाति मे ।तुलितम् हि बलम् सर्वमनेन तव तिष्ठता ॥६-२०-३१॥।।
गृह्यताम् मागमल्लङ्का मेतद्धि मम रोचते ।ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः ॥६-२०-३२॥।।
जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ।शुकस्तु वानरैश्च ण्डैस्तत्र तैः सम्प्रपीडितः ॥६-२०-३३॥।।
व्याचुक्रोश महात्मानम् रामम् दशरथात्मजम् ।लुप्येते मे बलात्पक्षौ भिद्येते मे तथाक्षिणी ॥६-२०-३४॥।।
याम् च रात्रिम् मरिष्यामि जाये रात्रिम् च यामहम् ।एतस्मिन्नन्त्रे काले मन्मया चाशुभम् कृतम् ॥६-२०-३५॥।।
सर्वम् तदुपपद्येथा जह्यम् चेद्यदि जीवितम् ।नाघातयत्तदा रामः श्रुत्वा तत्परिदेवितम् ॥६-२०-३६॥
ततः सागरवेलायाम् दर्भानास्तीर्य राघवः ।अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥६-२१-१॥।।
बाहुम् भुजङ्गभोगाभमुपधायारिसूदनः ।मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः  ॥६-२१-२॥।।
भुजैः परमनारीणामभिमृष्टमनेकधा ॥६-२१-३॥।।
चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम् ॥६-२१-४॥।।
बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् ।शयने चोत्तमाङ्गेन सीतायाः शोभितम् पुरा ॥६-२१-५॥।।
तक्षकस्येव सम्भोगम् गङ्गाजलनिषेवितम् ।सम्गे युगसम्काशम् शत्रूणाम् शोकवर्धनम् ॥६-२१-६॥।।
सुह्R^दाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् ।अस्यता च पुनः सव्यम् ज्याघातविगतत्वचम् ।दक्षिणो कक्षिणम् बहुम् महापरिघसम्निभम् ॥६-२१-७॥।।
गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् ।अद्य मे मरणम् वाथ तरणम् सागरस्य वा ॥६-२१-८॥।।
इति रामो धृतिम् कृत्वा महाबाहुर्महोदधिम् ।अधिशिश्ये च विधिवत्प्रयतोऽत्र स्थितो मुनिः ॥६-२१-९॥।।
तस्य रामस्य सुप्तस्य कुश आस्तीर्णे मही तले ।नियमाद् अप्रमत्तस्य निशास् तिस्रो अतिचक्रमुः ॥६-२१-१०॥।।
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।उपासत तदा रामः सागरम् सरिताम् पतिम् ॥६-२१-११॥।।
न च दर्शयते मन्दस् तदा रामस्य सागरः ।प्रयतेन अपि रामेण यथा अर्हम् अभिपूजितः ॥६-२१-१२॥।।
समुद्रस्य ततः क्रुद्धो रामो रक्त अन्त लोचनः ।समीपस्थम् उवाच इदम् लक्ष्मणम् शुभ लक्ष्मणम् ॥६-२१-१३॥।।
अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् ।प्रशमः च क्षमा चैव आर्जवम् प्रिय वादिता ॥६-२१-१४॥।।
असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः ।आत्म प्रशम्सिनम् दुष्टम् धृष्टम् विपरिधावकम् ॥६-२१-१५॥।।
सर्वत्र उत्सृष्ट दण्डम् च लोकः सत् कुरुते नरम् ।न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः ॥६-२१-१६॥।।
प्राप्तुम् लक्ष्मण लोके अस्मिन् जयो वा रण मूधनि ।अद्य मद् बाण निर्भिन्नैर् मकरैर् मकर आलयम् ।निरुद्ध तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः ॥६-२१-१७॥।।
भोगामः च पश्य नागानाम् मया भिन्नानि लक्ष्मण ॥६-२१-१८॥।।
महाभोगानि मत्स्यानाम् करिणाम् च करान् इह ।सशन्ख शुक्तिका जालम् समीन मकरम् शरैः ॥६-२१-१९॥।।
अद्य युद्धेन महता समुद्रम् परिशोषये ।क्षमया हि समायुक्तम् माम् अयम् मकर आलयः ॥६-२१-२०॥।।
असमर्थम् विजानाति धिक् क्षमाम् ईदृशे जने ।स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६-२१-२१॥।।
चापम् आनय सौमित्रे शरामः च आशी विष उपमान् ।समुद्रम् शोषयिष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः ॥६-२१-२२॥।।
अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् ।वेलासु कृत मर्यादम् सहसा ऊर्मि समाकुलम् ॥६-२१-२३॥।।
निर्मर्यादम् करिष्यामि सायकैर् वरुण आलयम् ।महार्णवम् क्षोBहयिष्ये महादानवसम्कुलम् ॥६-२१-२४॥।।
एवम् उक्त्वा धनुष् पाणिः क्रोध विस्फारित ईक्षणः ।बभूव रामो दुर्धर्षो युग अन्त अग्निर् इव ज्वलन् ॥६-२१-२५॥।।
सम्पीड्य च धनुर् घोरम् कम्पयित्वा शरैर् जगत् ।मुमोच विशिखान् उग्रान् वज्राणि इव शत क्रतुः ॥६-२१-२६॥।।
ते ज्वलन्तो महावेगास् तेजसा सायक उत्तमाः ।प्रविशन्ति समुद्रस्य सलिलम् त्रस्त पन्नगम् ॥६-२१-२७॥।।
ततो वेगः समुद्रस्य सनक्र मकरो महान् ।स बभूव महाघोरः समारुत रवस् तदा ॥६-२१-२८॥।।
महाऊर्मि माला विततः शन्ख शुक्ति समाकुलः ।सधूम परिवृत्त ऊर्मिः सहसा अभून् महाउदधिः ॥६-२१-२९॥।।
व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।दानवाः च महावीर्याः पाताल तल वासिनः ॥६-२१-३०॥।।
ऊर्मयः सिन्धु राजस्य सनक्र मकरास् तदा ।विन्ध्य मन्दर सम्काशाः समुत्पेतुः सहस्रशः ॥६-२१-३१॥।।
आघूर्णित तरन्ग ओघः सम्ब्भ्रान्त उरग राक्षसः ।उद्वर्तित महाग्राहः सम्वृत्तः सलिल आशयः ॥६-२१-३२॥।।
ततस्तु तम् राघव मुग्रवेगम् ।प्रकर्षमाणम् ध्मरप्रमेयम् ।सौमित्रिरुत्पत्य विनिःश्वसन्तम् ।मामेति चोक्त्वा धनुराललम्बे ॥६-२१-३३॥।।
एतद्विनापि ह्युदधेस्तवार्य ।सम्पत्स्यते वीरतमस्य कार्यम् ।भवद्विधाः क्रोधवशम् न यान्ति ।दीर्घम् भवान्पश्यतु साधुवृत्तम् ॥६-२१-३४॥।।
अन्तर्हितैश्चापि तथान्तरिक्षे ।ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।शब्दः कृतः कष्टमिति ब्रुवद्भि ।र्मा मेति चोक्त्वा महता स्वरेण ॥६-२१-३५॥
अथोवाच रघुश्रेष्ठः सागरम् दारुणम् वचः ।अद्य त्वाम् शोषयिष्यामि सपातालम् महार्णव ॥६-२२-१॥।।
शरनिर्दग्धतोयस्य परिशुष्कस्य सागर ।मया निहतसत्त्वस्य पाम्सुरुत्पद्यते महान् ॥६-२२-२॥।।
मत्कार्मुकनिसृष्टेन शरवर्षेण सागर ।परम् तीरम् गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥६-२२-३॥।।
विचिन्वन्नाभिजानासि पौरुषम् वापि विक्रमम् ।दाव्नवालय सम्तापम् मत्तो नाम गमिष्यसि ॥६-२२-४॥।।
ब्राह्मेणास्त्रेण सम्योज्य ब्रह्मदण्डनिभम् शरम् ।सम्योज्य धनुषि श्रे ष्ठे विचकर्ष महाबलः ॥६-२२-५॥।।
तस्मिन्विकृष्टे सहसा राघवेण शरासने ।रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६-२२-६॥।।
तमश्च लोकमावव्रे दिशश्च न चकाशिरे ।प्रतिचुक्षुभिरे चाशु सराम्सि सरितस्तदा ॥६-२२-७॥।।
तिर्यक् च सह नक्षत्रैः सम्गतौ चन्द्रभास्करौ ।भास्कराम्शुभिरादीप्तम् तमसा च समावृतम् ॥६-२२-८॥।।
प्रचकाशे तदाकाशमुल्काशतविदीपितम् ।अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥६-२२-९॥।।
वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्त्यः ।बभञ्ज च तदा वृक्षान् जलदानुद्वहन् मुहुः ॥६-२२-१०॥।।
आरुजम्श्चैव शैलाग्रान् शिखराणि बभञ्ज च ।दिवि च स्म महावेगाः सम्हताः समहास्वनाः ॥६-२२-११॥।।
मुमुचुर्वैद्युतानग्नीम्स्ते महाशनयस्तदा ।यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥६-२२-१२॥।।
अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् ।शिश्यरे चाभिभूतानि सम्त्रस्ताम्यद्विजन्ति च ॥६-२२-१३॥।।
सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ।सहभूतैः सतोयोर्मिः सनागः सहराक्षसः ॥६-२२-१४॥।।
सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः ।योजनम् व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥६-२२-१५॥।।
तम् तथा समतिक्रान्तम् नातिचक्राम राघवः ।समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥६-२२-१६॥।।
ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः ।उदयन् हि महाशैलान् मेरोर् इव दिवा करः ॥६-२२-१७॥।।
पन्नगैः सह दीप्त आस्यैः समुद्रः प्रत्यदृश्यत ।स्निग्ध वैदूर्य सम्काशो जाम्बू नद विभूषितः ॥६-२२-१८॥।।
रत्न माल्य अम्बर धरः पद्म पत्र निभ ईक्षणः ।सर्वपुष्पमयीम् दिव्याम् शिरसा धारयन् स्रजम् ॥६-२२-१९॥।।
जातरूपमयैश्चैव तपनीयविभूषितो भूषणोत्तमैः ।आत्मजानाम् च रत्नानाम् भूषितो भूषणोत्तमैः ॥६-२२-२०॥।।
धातुभिर्मण्डितः शैलो विविधैर्हमवानिव ।एकावलीमध्यगतम् तरलम् पाण्डरप्रभम् ॥६-२२-२१॥।।
विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ।आघूर्णिततरङ्गौघःकालिकानिलसम्कुलः ॥६-२२-२२॥।।
गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः ।देवतानाम् सरूपाभिर्नानारूपाभिरीश्वरः ॥६-२२-२३॥।।
सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् ।अब्रवीत् प्रान्जलिर् वाक्यम् राघवम् शर पाणिनम् ॥६-२२-२४॥।।
पृथिवी वायुर् आकाशम् आपो ज्योतिः च राघवः ।स्वभावे सौम्य तिष्ठन्ति शाश्वतम् मार्गम् आश्रिताः ॥६-२२-२५॥।।
तत् स्वभावो मम अपि एष यद् अगाधो अहम् अप्लवः ।विकारस् तु भवेद् राध एतत् ते प्रवदामि अहम् ॥६-२२-२६॥।।
न कामान् न च लोभाद् वा न भयात् पार्थिव आत्मज ।रागान्नक्राकुलजलम् स्तम्भयेयम् कथम्चन ॥६-२२-२७॥।।
विधास्ये येन गन्तासि विषहिष्ये ह्यहम् तथा ।न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति ॥६-२२-२८॥।।
हरीणाम् तरणे राम करिष्यामि यथास्थलम् ।तमब्रवीत्तदा रामः शृणु मे वरुणालय ॥६-२२-२९॥।।
अमोघोऽयम् महाबाणः कस्मिन् देशे निपात्यताम् ।रामस्य वचनम् श्रुत्वा तम् च दृष्ट्वा महाशरम् ॥६-२२-३०॥।।
महोदधिर्महातेजा राघवम् वाक्यमब्रवीत् ।उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम ॥६-२२-३१॥।।
द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ।उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः ॥६-२२-३२॥।।
आभीरप्रमुखाः पापाः पिबन्ति सलिलम् मम ।तैर्न तत्स्पर्शनम् पापम् सहेयम् पापकर्मभिः ॥६-२२-३३॥।।
अमोघः क्रियताम् राम तत्र तेषु शरोत्तमः ।तस्य तद्वचनम् श्रुत्वा सागरस्य महात्मनः ॥६-२२-३४॥।।
मुमोच तम् शरम् दीप्तम् परम् सागरदर्शनात् ।तेन तन्मरुकान्तारम् प्^इथिव्याम् किल विश्रुतम् ॥६-२२-३५॥।।
विपातितः शरो यत्र वज्राशनिसमप्रभः ।ननाद च तदा तत्र वसुधा शल्यपीडिता ॥६-२२-३६॥।।
तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् ।स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥६-२२-३७॥।।
सततम् चोत्थितम् तोयम् समुद्रस्येव दृश्यते ।अवदारणशब्दश्च दारुणः समपद्यत ॥६-२२-३८॥।।
तस्मात्तद्बाणपातेन अपः कुक्षिष्वशोषयत् ।विख्यातम् त्रिषु लोकेषु मधुकान्तारमेव च ॥६-२२-३९॥।।
शोषयित्वा तु तम् कुक्षिम् रामो दशरथात्मजः ।वरम् तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ॥६-२२-४०॥।।
पशव्यश्चाल्परोगश्च फलमूलरसायुतः ।बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः ॥६-२२-४१॥।।
एवमेतैर्गुणैर्युक्तो बहिभिः सम्युतो मरुः ।रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥६-२२-४२॥।।
तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरिताम् पतिः ।राघवम् सर्वशास्त्रज्ञमिदम् वचनम्ब्रवीत् ॥६-२२-४३॥।।
अयम् सौम्य नलो नाम तनुजो विश्व कर्मणः ।पित्रा दत्त वरः श्रीमान् प्रतिमो विश्व कर्मणः ॥६-२२-४४॥।।
एष सेतुम् महाउत्साहः करोतु मयि वानरः ।तम् अहम् धारयिष्यामि तथा हि एष यथा पिता ॥६-२२-४५॥।।
एवम् उक्त्वा उदधिर् नष्टः समुत्थाय नलस् ततः ।अब्रवीद् वानर श्रेष्ठो वाक्यम् रामम् महाबलः ॥६-२२-४६॥।।
अहम् सेतुम् करिष्यामि विस्तीर्णे वरुण आलये ।पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महाउदधिः ॥६-२२-४७॥।।
असौ तु सागरो भीमः सेतुकर्मदिदृक्षया ।ददौ दण्डभयाद्गाधम् राघवाय महोदधिः ॥६-२२-४८॥।।
मम मातुर् वरो दत्तो मन्दरे विश्व कर्मणा ।औरसस् तस्य पुत्रो अहम् सदृशो विश्व कर्मणा ॥६-२२-४९॥।।
औरसस्तस्य पुत्रोऽहम् सदृशो विश्वकर्मणा।स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः ॥६-२२-५०॥।।
न च अपि अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् ।समर्थ्श्चाप्यहम् सेतुम् कर्तुम् वै वरुणालये ॥६-२२-५१॥।।
तस्मादद्यैव बध्नन्तु सेतुम् वानरपुङ्गवाः ।ततो निसृष्ट रामेण सर्वतो हरि यूथपाः ॥६-२२-५२॥।।
अभिपेतुर् महाअरण्यम् हृष्टाः शत सहस्रशः ।ते नगान् नग सम्काशाः शाखा मृग गण ऋषभाः ॥६-२२-५३॥।।
बभन्जुर् वानरास् तत्र प्रचकर्षुः च सागरम् ।ते सालैः च अश्व कर्णैः च धवैर् वम्शैः च वानराः ॥६-२२-५४॥।।
कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि ।बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ॥६-२२-५५॥।।
चूतैः च अशोक वृक्षैः च सागरम् समपूरयन् ।समूलामः च विमूलामः च पादपान् हरि सत्तमाः ॥६-२२-५६॥।।
इन्द्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् ।तालान् दाडिमगुल्माम्श्च नारिकेलविभीतकान् ॥६-२२-५७॥।।
करीरान् बकुलान्निम्बान् समाजह्रुरितस्ततः ।हस्तिमात्रान् महाकायाः पाषाणाम्श्च महाबलाः ॥६-२२-५८॥।।
पर्वताम्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च ।प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् ॥६-२२-५९॥।।
समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः ।समुद्रम् क्षोभयामासुर्निपतन्तः समन्ततः ॥६-२२-६०॥।।
सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् ।नलः चक्रे महासेतुम् मध्ये नद नदी पतेः ॥६-२२-६१॥।।
स तदा क्रियते सेतुर्वानरै र्घोरकर्मभिः ।दण्डनन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ॥६-२२-६२॥।।
वानरैः शतशस्तत्र रामस्यज्ञापुरःसरैः ।मेघाभैः पर्वताभश्च तृणैः काष्ठैर्बबन्धरे ॥६-२२-६३॥।।
पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वानराः ।पाषाणाम्श्च गिरिप्रख्यान् गिरीणाम् शिखराणि च ॥६-२२-६४॥।।
दृश्यन्ते परिधावन्तो गृह्य दानवसम्निभाः ।शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् ॥६-२२-६५॥।।
बभूव तुमुलः शब्दस् तदा तस्मिन् महाउदधौ ।कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥६-२२-६६॥।।
प्रहृष्टैजसम्काशैस्त्वरमाणैः प्लवङ्गमैः ।द्वितीयेन तथैवाह्ना योजनानि तु विशतिः ॥६-२२-६७॥।।
कृतानि प्लवगैस्तूर्णम् भीमकायैर्महाबलैः ।अह्ना तृतीयेन तथा योजनानि तु सागरे ॥६-२२-६८॥।।
त्वरमाणैर्महाकयैरेकविम्शतिरेव च ।चतुर्थेन तथा चाह्ना द्वाविम्शतिरथापि वा ॥६-२२-६९॥।।
योजनानि महावेगैः कृतानि त्वरितैस्ततः ।पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ॥६-२२-७०॥।।
योजनानि त्रयोविम्शत्सुवेलमधिकृत्य वै ।स वानरवरः श्रीमान् विश्वकर्मात्मजो बली ॥६-२२-७१॥।।
बबन्ध सागरे सेतुम् यथा चास्य तथा पिता ।स नलेन कृतः सेतुः सागरे मकर आलये ॥६-२२-७२॥।।
शुशुभे सुभगः श्रीमान् स्वाती पथ इव अम्बरे ।ततो देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ॥६-२२-७३॥।।
आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ।दशयोजनविस्तीर्णम् शतयोजन मायतम् ॥६-२२-७४॥।।
ददृशुर्देवगन्धर्वा नलसेतुम् सुदुष्करम् ।आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-२२-७५॥।।
तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम हर्षणम् ।ददृशुः सर्व भूतानि सागरे सेतु बन्धनम् ॥६-२२-७६॥।।
तानि कोटि सहस्राणि वानराणाम् महाओजसाम् ।बध्नन्तः सागरे सेतुम् जग्मुः पारम् महाउदधेः ॥६-२२-७७॥।।
विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ।अशोभत महासेतुः सीमन्त इव सागरे ॥६-२२-७८॥।।
ततः परे समुद्रस्य गदा पाणिर् विभीषणः ।परेषाम् अभिघत अर्थम् अतिष्ठत् सचिवैः सह ॥६-२२-७९॥।।
सुग्रीवस्तु ततः प्राह रामम् सत्यपराक्रमम् ।हनुमन्तम् त्वमारोह अङ्गदम् त्वथ लक्ष्मणः ॥६-२२-८०॥।।
अयम् हि विपुलो वीर सागरो मकरालयः ।वैहायसौ युवामेतौ वानरौ धारयिष्यतः ॥६-२२-८१॥।।
अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ।जगाम धन्वी धर्म आत्मा सुग्रीवेण समन्वितः ॥६-२२-८२॥।।
अन्ये मध्येन गच्चन्ति पार्श्वतो अन्ये प्लवम् गमाः ।सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे ॥६-२२-८३॥।।
केचिद् वैहायस गताः सुपर्णा इव पुप्लुवुः ।घोषेण महता घोषम् सागरस्य समुच्च्रितम् ॥६-२२-८४॥।।
भीमम् अन्तर् दधे भीमा तरन्ती हरि वाहिनी ।वानराणाम् हि सा तीर्णा वाहिनी नल सेतुना ॥६-२२-८५॥।।
तीरे निविविशे राज्ञा बहु मूल फल उदके ।तद् अद्भुतम् राघव कर्म दुष्करम् ।समीक्ष्य देवाः सह सिद्ध चारणैः ।उपेत्य रामम् सहिता महर्षिभिः ।समभ्यषिन्चन् सुशुभिअर् जलैः पृथक् ॥६-२२-८६॥।।
जयस्व शत्रून् नर देव मेदिनीम् ।ससागराम् पालय शाश्वतीः समाः ।इति इव रामम् नर देव सत्कृतम् ।शुभैर् वचोभिर् विविधैर् अपूजयन् ॥६-२२-८७॥
निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥६-२३-१॥।।
परिगृह्योदकम् शीतम् वनानि फलवन्ति च ।बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥।।
लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् ।प्रबर्हणम् प्रवीराणामृक्षवानररक्षसाम् ॥६-२३-३॥।।
वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ।पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥६-२३-४॥।।
मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः ।क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥६-२३-५॥।।
रक्तचन्दनसम्काशा सम्ध्या परमदारुणा ।ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६-२३-६॥।।
दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः ।प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥।।
रजन्यामप्रकाशस्तु सम्तापयति चन्द्रमाः ।कृष्णरक्ताम्शुपर्यन्तो लोकक्षय इवोदितः ॥६-२३-८॥।।
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः ।आदित्ये विमले वीलम् लक्ष्म लक्ष्मण दृश्यते ॥६-२३-९॥।।
रजसा महता चापि नक्षत्राणि हतानि च ।युगान्तमिव लोकानाम् पश्य शसन्ति लक्ष्मण ॥६-२३-१०॥।।
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च ।शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ॥६-२३-११॥।।
शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः ।भविष्यत्यावृता भूमिर्माम्सशोणितकर्दमा ॥६-२३-१२॥।।
क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् ।अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥६-२३-१३॥।।
इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः ।प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥।।
सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः ।प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥६-२३-१५॥।।
राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् ।हरीणाम् कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥६-२३-१६॥
सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥६-२४-१॥।।
प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।पीड्यमाना बलौ घेन तेन सागरवर्चसा ॥६-२४-२॥।।
ततः शुश्रुपुराक्रुष्टम् लङ्कायाः काननौकसः ।भेरीमृदङ्गसम्घुष्टम् तुमुलम् रोमहर्षणम् ॥६-२४-३॥।।
बभूवुस्तेन घोषेण सम्हृष्टा हरियूथपाः ।अमृष्यमाणास्तम् घोषम् विनेदुर्घोषवत्तरम् ॥६-२४-४॥।।
राक्षसास्तम् प्लवङ्गानाम् शुश्रुवुस्तेऽपि गर्जितम् ।वर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥६-२४-५॥।।
दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनिम्म् ।जगाम मनसा सीताम् दूयमानेन चेतसा ॥६-२४-६॥।।
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥।।
दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।उवाच वचनम् वीरस्तत्कालहितमात्मनः ॥६-२४-८॥।।
आलिखन्तीमिवाकाशमुत्थिताम् पश्य लक्ष्मण ।मन्सेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा ॥६-२४-९॥।।
विमानैर्बहुभिर्लङ्क सम्कीर्णा रचिता पुरा ।विष्णोः पदमिवाकाशम् चादितम् पाण्डुभिर्घनैः ॥६-२४-१०॥।।
पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः ।नानापतगसम्घुष्टफलपुष्पोपगैः शुभैः ॥६-२४-११॥।।
पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च ।कोकिलाकुलखण्डानि दोधवीति शिवोऽविलः ॥६-२४-१२॥।।
इति दाशरथीरमो लक्ष्मणम् समभाषत ।बलम् च तत्र विभजच्चास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥।।
शशास कपिसेमाम् ताम् बलादादाय वीर्यवान् ।अङ्गदः सह नीलेन तिष्ठे दुरपि दुर्जयः ॥६-२४-१४॥।।
तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।आशिर्तो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥।।
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।तिष्ठेद्वानरवाहिन्याः सव्यम् पक्षमधिष्ठतः ॥६-२४-१६॥।।
मूर्ध्नि स्थास्याम्यहम् यत्तो लक्ष्मणेन समन्वितः ।जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥।।
ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ।जघनम् कपिसेनायाः कपिराजोऽभिरक्षतु ॥६-२४-१८॥।।
पश्चार्धमिव लोकस्य प्रचेतास्तेजपा वृतः ।सुविभक्तमहाव्यूहा महावानररक्षिता ॥६-२४-१९॥।।
अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा ।प्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥।।
आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ।शिखरैर्विकिरामैनाम् लङ्काम् मुष्टिभिरेव वा ॥६-२४-२१॥।।
इति स्म दधिरे सर्वे मानाम्सि हरिपुङ्गवाः ।ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥।।
सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥।।
मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ।मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥।।
शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् ।रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥।।
किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे ।कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥।।
ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः ।वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् ॥६-२४-२७॥।।
सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा ।यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥।।
क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रः प्लवङ्गमैः ।गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥६-२४-२९॥।।
न ते सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते ।प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥६-२४-३०॥।।
स च हन्ता विराधस्य कबन्धस्य खरस्य च ।सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३१॥।।
स कृत्वा सागरे सेतुम् तीर्त्वा च लवणोदधिम् ।एष रक्षासि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३२॥।।
ऋक्षवानरसम्घानामनीकानि सहस्रशः ।गिरिमेघनिकाशानाम् चादयन्ति वसुन्धराम् ॥६-२४-३३॥।।
राक्षसानाम् बलौघस्य वानरेन्द्रबलस्य च ।नैतयोर्विद्यते सम्धिर्देवदानवयोरिव ॥६-२४-३४॥।।
पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु ।सीताम् वास्मै प्रयच्चाशु युद्धम् वापि प्रदीयताम् ॥६-२४-३५॥।।
शुकस्य वचनम् श्रुत्वा रावणो वाक्य मब्रवीत् ।रोषसम्रक्तनयनो निर्दहन्निव चक्षुषा ॥६-२४-३६॥।।
यदि माम् प्रतियुध्येरन् देवगन्धर्वदानवाः ।नैव सीताम् प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३७॥।।
कदा समभिधानन्ति मामका राघवम् शराः ।वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥६-२४-३८॥।।
कदा शोणितदिग्धाङ्गम् दीपैः कार्मुकविच्युतैः ।शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-२४-३९॥।।
तच्चास्य बलमादास्ये बलेन महता वृतः ।ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥६-२४-४०॥।।
सागरस्येव मे वेगो मारुतस्येव मे बलम् ।न च दाशरथिर्वेद तेन माम् योद्धुमिच्चति ॥६-२४-४१॥।।
न मे तूणीशयान् बाणान् सनिषानिव पन्नगान् ।रामः पश्यति सम्ग्रामे तेन माम् योद्धुमिच्चति ॥६-२४-४२॥।।
न जानाति पुरा वीर्यम् मम युद्धे स राघवः ।मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥।।
ज्याशबदतुमुलाम् घोरामार्तगीतमहास्वनाम् ।नाराचतलसम्नादाम् ताम् ममाहितवाहिनीम् ॥६-२४-४४॥।।
अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे ।न वासवेनापि स हस्रचक्षुषा ।युद्धेऽस्मि शक्यो वरुणेन वास्वयम् ।यमेव वा धर्षयितुम् शराग्निना ।महाहवे वैश्रवणेन वा स्वयम् ॥६-२४-४५॥
सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥६-२४-१॥।।
प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।पीड्यमाना बलौ घेन तेन सागरवर्चसा ॥६-२४-२॥।।
ततः शुश्रुपुराक्रुष्टम् लङ्कायाः काननौकसः ।भेरीमृदङ्गसम्घुष्टम् तुमुलम् रोमहर्षणम् ॥६-२४-३॥।।
बभूवुस्तेन घोषेण सम्हृष्टा हरियूथपाः ।अमृष्यमाणास्तम् घोषम् विनेदुर्घोषवत्तरम् ॥६-२४-४॥।।
राक्षसास्तम् प्लवङ्गानाम् शुश्रुवुस्तेऽपि गर्जितम् ।वर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥६-२४-५॥।।
दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनिम्म् ।जगाम मनसा सीताम् दूयमानेन चेतसा ॥६-२४-६॥।।
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥।।
दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।उवाच वचनम् वीरस्तत्कालहितमात्मनः ॥६-२४-८॥।।
आलिखन्तीमिवाकाशमुत्थिताम् पश्य लक्ष्मण ।मन्सेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा ॥६-२४-९॥।।
विमानैर्बहुभिर्लङ्क सम्कीर्णा रचिता पुरा ।विष्णोः पदमिवाकाशम् चादितम् पाण्डुभिर्घनैः ॥६-२४-१०॥।।
पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः ।नानापतगसम्घुष्टफलपुष्पोपगैः शुभैः ॥६-२४-११॥।।
पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च ।कोकिलाकुलखण्डानि दोधवीति शिवोऽविलः ॥६-२४-१२॥।।
इति दाशरथीरमो लक्ष्मणम् समभाषत ।बलम् च तत्र विभजच्चास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥।।
शशास कपिसेमाम् ताम् बलादादाय वीर्यवान् ।अङ्गदः सह नीलेन तिष्ठे दुरपि दुर्जयः ॥६-२४-१४॥।।
तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।आशिर्तो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥।।
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।तिष्ठेद्वानरवाहिन्याः सव्यम् पक्षमधिष्ठतः ॥६-२४-१६॥।।
मूर्ध्नि स्थास्याम्यहम् यत्तो लक्ष्मणेन समन्वितः ।जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥।।
ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ।जघनम् कपिसेनायाः कपिराजोऽभिरक्षतु ॥६-२४-१८॥।।
पश्चार्धमिव लोकस्य प्रचेतास्तेजपा वृतः ।सुविभक्तमहाव्यूहा महावानररक्षिता ॥६-२४-१९॥।।
अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा ।प्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥।।
आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ।शिखरैर्विकिरामैनाम् लङ्काम् मुष्टिभिरेव वा ॥६-२४-२१॥।।
इति स्म दधिरे सर्वे मानाम्सि हरिपुङ्गवाः ।ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥।।
सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥।।
मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ।मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥।।
शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् ।रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥।।
किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे ।कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥।।
ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः ।वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् ॥६-२४-२७॥।।
सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा ।यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥।।
क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रः प्लवङ्गमैः ।गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥६-२४-२९॥।।
न ते सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते ।प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥६-२४-३०॥।।
स च हन्ता विराधस्य कबन्धस्य खरस्य च ।सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३१॥।।
स कृत्वा सागरे सेतुम् तीर्त्वा च लवणोदधिम् ।एष रक्षासि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३२॥।।
ऋक्षवानरसम्घानामनीकानि सहस्रशः ।गिरिमेघनिकाशानाम् चादयन्ति वसुन्धराम् ॥६-२४-३३॥।।
राक्षसानाम् बलौघस्य वानरेन्द्रबलस्य च ।नैतयोर्विद्यते सम्धिर्देवदानवयोरिव ॥६-२४-३४॥।।
पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु ।सीताम् वास्मै प्रयच्चाशु युद्धम् वापि प्रदीयताम् ॥६-२४-३५॥।।
शुकस्य वचनम् श्रुत्वा रावणो वाक्य मब्रवीत् ।रोषसम्रक्तनयनो निर्दहन्निव चक्षुषा ॥६-२४-३६॥।।
यदि माम् प्रतियुध्येरन् देवगन्धर्वदानवाः ।नैव सीताम् प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३७॥।।
कदा समभिधानन्ति मामका राघवम् शराः ।वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥६-२४-३८॥।।
कदा शोणितदिग्धाङ्गम् दीपैः कार्मुकविच्युतैः ।शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-२४-३९॥।।
तच्चास्य बलमादास्ये बलेन महता वृतः ।ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥६-२४-४०॥।।
सागरस्येव मे वेगो मारुतस्येव मे बलम् ।न च दाशरथिर्वेद तेन माम् योद्धुमिच्चति ॥६-२४-४१॥।।
न मे तूणीशयान् बाणान् सनिषानिव पन्नगान् ।रामः पश्यति सम्ग्रामे तेन माम् योद्धुमिच्चति ॥६-२४-४२॥।।
न जानाति पुरा वीर्यम् मम युद्धे स राघवः ।मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥।।
ज्याशबदतुमुलाम् घोरामार्तगीतमहास्वनाम् ।नाराचतलसम्नादाम् ताम् ममाहितवाहिनीम् ॥६-२४-४४॥।।
अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे ।न वासवेनापि स हस्रचक्षुषा ।युद्धेऽस्मि शक्यो वरुणेन वास्वयम् ।यमेव वा धर्षयितुम् शराग्निना ।महाहवे वैश्रवणेन वा स्वयम् ॥६-२४-४५॥
तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् ।निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥।।
यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः ।न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥।।
त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् ।प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥।।
को हि नाम सपत्नो माम् समरे जेतुम् अर्हति ।इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥।।
आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् ।बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥।।
ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः ।पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥।।
ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः ।तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥।।
आलोक्य रावणो राजा परिपप्रच्च सारणम् ।एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥।।
के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः ।केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥।।
सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः ।सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥।।
आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः ।एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥।।
यूथपानाम् सहस्राणाम् शतेन परिवारितः ।यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥।।
लंका प्रवेपते सर्वा सशैल वन कानना ।सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥।।
बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः ।बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥।।
लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते ।गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥।।
स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः ।यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥।।
एष वानर राजेन सुर्ग्रीवेण अभिषेचितः ।यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥।।
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥।।
एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा ।हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥।।
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥।।
अनुवालिसुतस्यापि बलेन महता वृतः ।वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥।।
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥।।
एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः ।अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥।।
य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः ।एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥।।
श्वेतो रजत सम्काशः सबलो भीम विक्रमः ।बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥।।
तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः ।विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥।।
यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् ।नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥।।
तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः ।यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥।।
यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः ।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥।।
अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति ।एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥।।
यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः ।निभृतः प्रेक्षते लंकाम् दिधक्षन्न् इव चक्षुषा ॥६-२६-३१॥।।
विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् ।राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥।।
शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः ।यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥।।
परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा ।यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥।।
न च सम्विजते मृत्योर् न च यूथाद् विधावति ।प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥।।
पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः ।महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥।।
राजन् सततम् अध्यास्ते शरभो नाम यूथपः ।एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥।।
राजन् शत सहस्राणि चत्वारिम्शत् तथैव च ।यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥।।
मध्ये वानर वीराणाम् सुराणाम् इव वासवः ।भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥।।
घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् ।एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥।।
युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः ।एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥।।
यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः ।यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥।।
स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः ।एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥।।
पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् ।षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥।।
त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः ।विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥।।
यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः ।अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥।।
गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते ।एनम् शत सहस्राणि सप्ततिः पर्युपासते ।एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥।।
एते दुष्प्रसहा घोरा बलिनः काम रूपिणः ।यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥
ताम्स्तु ते सम्प्रक्ष्यामि प्रेक्षमाणस्य यूथपान् ।राघव अर्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥६-२७-१॥।।
स्निग्धा यस्य बहु श्यामा बाला लान्गूलम् आश्रिताः ।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२७-२॥।।
प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः ।पृथिव्याम् च अनुकृष्यन्ते हरो नाम एष यूथपः ॥६-२७-३॥।।
यम् पृष्ठतो अनुगच्चन्ति शतशो अथ सहस्रशः ।वृक्षानुद्यम्य सहसा लङ्का रोहणतत्पराः ॥६-२७-४॥।।
यूथपा हरिराजस्य किम्कराः समुपस्थिताः ।नीलान् इव महामेघाम्स् तिष्ठतो याम्स् तु पश्यसि ॥६-२७-५॥।।
असितान् जन सम्काशान् युद्धे सत्य पराक्रमान् ।असम्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥६-२७-६॥।।
पर्वतेषु च ये केचिद् विषमेषु नदीषु च ।एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः ॥६-२७-७॥।।
एषाम् मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥।।
ऋक्षवन्तम् गिरि श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् ।सर्व ऋक्षाणाम् अधिपतिर् धूम्रो नाम एष यूथपः ॥६-२७-९॥।।
यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत उपमम्भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे ॥६-२७-१०॥।।
स एष जाम्बवान् नाम महायूथप यूथपः ।प्रशान्तो गुरु वर्ती च सम्प्रहारेष्व् अमर्षणः ॥६-२७-११॥।।
एतेन साह्यम् सुमहत् कृतम् शक्रस्य धीमता ।देव असुरे जाम्बवता लब्धाः च बहवो वराः ॥६-२७-१२॥।।
आरुह्य पर्वत अग्रेभ्यो महाअभ्र विपुलाः शिलाः ।मुन्चन्ति विपुल आकारा न मृत्योर् उद्विजन्ति च ॥६-२७-१३॥।।
राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः ।एतस्य सैन्ये बहवो विचरन्ति अग्नि तेजसः ॥६-२७-१४॥।।
यम् त्व् एनम् अभिसम्रब्धम् प्लवमानम् इव स्थितम् ।प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप यूथपम् ॥६-२७-१५॥।।
एष राजन् सहस्र अक्षम् पर्युपास्ते हरि ईश्वरः ।बलेन बल सम्पन्नो रम्भो नाम एष यूथपः ॥६-२७-१६॥।।
यः स्थितम् योजने शैलम् गच्चन् पार्श्वेन सेवते ।ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥।।
यस्मान् न परमम् रूपम् चतुष्पादेषु विद्यते ।श्रुतः सम्नादनो नाम वानराणाम् पितामहः ॥६-२७-१८॥।।
येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता ।पराजयः च न प्राप्तः सो अयम् यूथप यूथपः ॥६-२७-१९॥।।
यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः ।एष गन्धर्व कन्यायाम् उत्पन्नः कृष्ण वर्त्मना ॥६-२७-२०॥।।
तत्र देवासुरे युद्धे साह्यार्थम् त्रिदिवौकसाम् ।यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥।।
यो राजा पर्वत इन्द्राणाम् बहु किम्नर सेविनाम् ।विहार सुखदो नित्यम् भ्रातुस् ते राक्षस अधिप ॥६-२७-२२॥।।
तत्र एष वसति श्रीमान् बलवान् वानर ऋषभः ।युद्धेष्व् अकत्थनो नित्यम् क्रथनो नाम यूथपः ॥६-२७-२३॥।।
वृतः कोटि सहस्रेण हरीणाम् समवस्थितः ।एषैवाशम्सते लङ्काम् स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥।।
यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् ।हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥।।
एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः ।गजान् रोधयते वन्यानारुजम्श्च महीरुहान् ॥६-२७-२६॥।।
हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीम् अनु ।उशीर बीजम् आश्रित्य पर्वतम् मन्दर उपमम् ॥६-२७-२७॥।।
रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।एनम् शत सहस्राणाम् सहस्रम् अभिवर्तते ॥६-२७-२८॥।।
वीर्यविक्रमदृप्तानाम् नर्दताम् बाहुशालिनाम् ।स एष नेता न्हैतेषाम् वानराणाम् महात्मनम् ॥६-२७-२९॥।।
स एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः ।वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥६-२७-३०॥।।
अनीकमपि सम्रब्धम् वानराणाम् तरस्विनाम् ।उद्धूतमरुणाभासम् पवनेन समन्ततः ॥६-२७-३१॥।।
विवर्तमानम् बहुशो यत्र एतद् बहुलम् रजः ।एते असित मुखा घोरा गो लान्गूला महाबलाः ॥६-२७-३२॥।।
शतम् शत सहस्राणि दृष्ट्वा वै सेतु बन्धनम् ।गो लान्गूलम् महावेगम् गव अक्षम् नाम यूथपम् ॥६-२७-३३॥।।
परिवार्य अभिवर्तन्ते लंकाम् मर्दितुम् ओजसा ।भ्रमर आचरिता यत्र सर्व काम फल द्रुमाः ॥६-२७-३४॥।।
यम् सूर्य तुल्य वर्ण आभम् अनुपर्येति पर्वतम् ।यस्य भासा सदा भान्ति तद् वर्णा मृग पक्षिणः ॥६-२७-३५॥।।
यस्य प्रस्थम् महात्मानो न त्यजन्ति महर्षयः ।सर्वकामफला वृक्षाः सर्वे फलसमन्विताः ॥६-२७-३६॥।।
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे ।तत्र एष रमते राजन् रम्ये कान्चन पर्वते ॥६-२७-३७॥।।
मुख्यो वानर मुख्यानाम् केसरी नाम यूथपः ।षष्टिर् गिरि सहस्राणाम् रम्याः कान्चन पर्वताः ॥६-२७-३८॥।।
तेषाम् मध्ये गिरि वरस् त्वम् इव अनघ रक्षसाम् ।तत्र एते कपिलाः श्वेतास् ताम्र आस्या मधु पिन्गलाः ॥६-२७-३९॥।।
निवसन्ति उत्तम गिरौ तीक्ष्ण दम्ष्ट्रा नख आयुधाः ।सिम्ह इव चतुर् दम्ष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥।।
सर्वे वैश्वनर समा ज्वलित आशी विष उपमाः ।सुदीर्घ अन्चित लान्गूला मत्त मातम्ग सम्निभाः ॥६-२७-४१॥।।
महापर्वत सम्काशा महाजीमूत निस्वनाः ।वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥६-२७-४२॥।।
मर्दयन्तीव ते सर्वे तस्थुर्लङ्काम् समीक्ष्य ते ।एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥।।
जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।नाम्ना पृथिव्याम् विख्यातो राजन् शत बली इति यः ॥६-२७-४४॥।।
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ।विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥।।
रामप्रियार्थम् प्राणानाम् दयाम् न कुरुते हरिः ।गजो गव अक्षो गवयो नलो नीलः च वानरः ।एक एक एव यूथानाम् कोटिभिर् दशभिर् वृतः ॥६-२७-४६॥।।
तथा अन्ये वानर श्रेष्ठा विन्ध्य पर्वत वासिनः ।न शक्यन्ते बहुत्वात् तु सम्ख्यातुम् लघु विक्रमाः ॥६-२७-४७॥।।
सर्वे महाराज महाप्रभावाः ।सर्वे महाशैल निकाश कायाः ।सर्वे समर्थाः पृथिवीम् क्षणेन ।कर्तुम् प्रविध्वस्त विकीर्ण शैलाम् ॥६-२७-४८॥
सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् ।बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् ॥६-२८-१॥।।
स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् ।न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव ॥६-२८-२॥।।
एते दुष्प्रसहा राजन् बलिनः काम रूपिणः ।दैत्य दानव सम्काशा युद्धे देव पराक्रमाः ॥६-२८-३॥।।
एषाम् कोटि सहस्राणि नव पन्च च सप्त च ।तथा शन्ख सहस्राणि तथा वृन्द शतानि च ॥६-२८-४॥।।
एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा ।हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः ॥६-२८-५॥।।
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ ।मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि ॥६-२८-६॥।।
ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ ।आशम्सेते युधा लंकाम् एतौ मर्दितुम् ओजसा ॥६-२८-७॥।।
यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् ।यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥६-२८-८॥।।
एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो ।एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥६-२८-९॥।।
ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः ।हनूमान् इति विख्यातो लन्घितो येन सागरः ॥६-२८-१०॥।।
काम रूपी हरि श्रेष्ठो बल रूप समन्वितः ।अनिवार्य गतिः चैव यथा सततगः प्रभुः ॥६-२८-११॥।।
उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः ।त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि ॥६-२८-१२॥।।
आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति ।इति सम्चिन्त्य मनसा पुरा एष बल दर्पितः ॥६-२८-१३॥।।
अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः ।अनासाद्य एव पतितो भास्कर उदयने गिरौ ॥६-२८-१४॥।।
पतितस्य कपेर् अस्य हनुर् एका शिला तले ।किम्चिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै ॥६-२८-१५॥।।
सत्यम् आगम योगेन मम एष विदितो हरिः ।न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् ॥६-२८-१६॥।।
एष आशम्सते लंकाम् एको मर्दितुम् ओजसा ।येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ॥६-२८-१७॥।।
लंकायाम् निहितश्चापि कथम् विस्मरसे कसिम् ।यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः ॥६-२८-१८॥।।
इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः ।यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते ॥६-२८-१९॥।।
यो ब्राह्मम् अस्त्रम् वेदामः च वेद वेदविदाम् वरः ।यो भिन्द्याद् गगनम् बाणैः पर्वतामः च अपि दारयेत् ॥६-२८-२०॥।।
यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः ।यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया ॥६-२८-२१॥।।
स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते ।यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः ॥६-२८-२२॥।।
विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः ।एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः ॥६-२८-२३॥।।
नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः ।अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥६-२८-२४॥।।
रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः ।न हि एष राघवस्य अर्थे जीवितम् परिरक्षति ॥६-२८-२५॥।।
एष एव आशम्सते युद्धे निहन्तुम् सर्व राक्षसान् ।यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति ॥६-२८-२६॥।।
रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः ।श्रीमता राज राजेन लंकायाम् अभिषेचितः ॥६-२८-२७॥।।
त्वाम् एव प्रतिसम्रब्धो युद्धाय एषो अभिवर्तते ।यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् ॥६-२८-२८॥।।
सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् ।तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च ॥६-२८-२९॥।।
यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् ।किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् ॥६-२८-३०॥।।
दुर्गाम् पर्वत दुर्गस्थाम् प्रधानैः सह यूथपैः ।यस्य एषा कान्चनी माला शोभते शत पुष्करा ॥६-२८-३१॥।।
कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता ।एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् ॥६-२८-३२॥।।
सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः ।शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः ॥६-२८-३३॥।।
शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते ।शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ॥६-२८-३४॥।।
महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते ।शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ॥६-२८-३५॥।।
महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते ।शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ॥६-२८-३६॥।।
महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते ।शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ॥६-२८-३७॥।।
महाखर्वसहस्राणाम् समुद्रमभिधीयते ।शतम् समुद्रसाहस्रमोघ इत्यभिधीयते ॥६-२८-३८॥।।
शतमोघसहस्राणाम् महौघ इति विश्रुतः ।एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च ॥६-२८-३९॥।।
महाशङ्कुसहस्रेण तथा वृन्दशतेन च ।महावृन्दसहस्रेण तथा पद्मशतेन च ॥६-२८-४०॥।।
महापद्मसहस्रेण तथा खर्वशतेन च ।समुद्रेण च तेनैव महुघेन तथैव च ॥६-२८-४१॥।।
एष कोटिमहौघेन समुद्रसदृशेन च ।विभीषणेन वीरेण सचिवैः परिवारितः ॥६-२८-४२॥।।
सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते ।महाबलवृतो नित्यम् महाबलपराक्रमः ॥६-२८-४३॥।।
इमाम् महाराज समीक्ष्य वाहिनीम् ।उपस्थिताम् प्रज्वलित ग्रह उपमाम् ।ततः प्रयत्नः परमो विधीयताम् ।यथा जयः स्यान् न परैः पराजयः ॥६-२८-४४॥
शुकेन तु समाख्याताम्स् तान् दृष्ट्वा हरि यूथपान् ।लक्ष्मणम् च महावीर्यम् भुजम् रामस्य दक्षिणम् ॥६-२९-१॥।।
समीपस्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् ।सर्व वानर राजम् च सुग्रीवम् भीम विक्रमम् ॥६-२९-२॥।।
अङ्गदम् चापि बलिनम् वज्रहस्तात्मजात्मजम् ।हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् ॥६-२९-३॥।।
सुषेणम् कुमुदम् नीलम् नलम् च प्लवगर्षभम् ।गजम् गवाक्षम् शरभम् वैन्दम् च द्विविदम् तथा ॥६-२९-४॥।।
किम्चिद् आविग्न हृदयो जात क्रोधः च रावणः ।भर्त्सयाम् आस तौ वीरौ कथा अन्ते शुक सारणौ ॥६-२९-५॥।।
अधो मुखौ तौ प्रणताव् अब्रवीत् शुक सारणौ ।रोष गद्गदया वाचा सम्रब्धः परुषम् वचः ॥६-२९-६॥।।
न तावत् सदृशम् नाम सचिवैर् उपजीविभिः ।विप्रियम् नृपतेर् वक्तुम् निग्रह प्रग्रहे विभोः ॥६-२९-७॥।।
रिपूणाम् प्रतिकूलानाम् युद्ध अर्थम् अभिवर्तताम् ।उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम् ॥६-२९-८॥।।
आचार्या गुरवो वृद्धा वृथा वाम् पर्युपासिताः ।सारम् यद् राज शास्त्राणाम् अनुजीव्यम् न गृह्यते ॥६-२९-९॥।।
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वा उच्यते ।ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धरामि अहम् ॥६-२९-१०॥।।
किम् नु मृत्योर् भयम् न अस्ति माम् वक्तुम् परुषम् वचः ।यस्य मे शासतो जिह्वा प्रयच्चति शुभ अशुभम् ॥६-२९-११॥।।
अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।राज दोष परामृष्टास् तिष्ठन्ते न अपराधिनः ॥६-२९-१२॥।।
हन्याम् अहम् इमौ पापौ शत्रु पक्ष प्रशम्सकौ ।यदि पूर्व उपकारैर् मे न क्रोधो मृदुताम् व्रजेत् ॥६-२९-१३॥।।
अपध्वम्सत गच्चध्वम् सम्निकर्षाद् इतो मम ।न हि वाम् हन्तुम् इच्चामि स्मरन्न् उपकृतानि वाम् ॥६-२९-१४॥।।
हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ ।एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥६-२९-१५॥।।
रावणम् जय शब्देन प्रतिनन्द्य अभिनिह्सृतौ ।अब्रवीत् स दशग्रीवः समीपस्थम् महाउदरम् ॥६-२९-१६॥।।
उपस्थापय शीघ्रम् मे चारान् नीति विशारदान् ।महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥६-२९-१७॥।।
ततश्चाराः सम्त्वरिताः प्राप्ताः पार्थिवशासनात् ।उपस्थिथाः प्राञ्जलयो वर्धयित्वा जयाशिषः ॥६-२९-१८॥।।
तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस अधिपः ॥६-२९-१९॥।।
चारान् प्रत्ययिकान् शूरान् भक्तान् विगत साध्वसान् ।इतो गच्चत रामस्य व्यवसायम् परीक्षथ ॥६-२९-२०॥।।
मन्त्रेष्व् अभ्यन्तरा ये अस्य प्रीत्या तेन समागताः ।कथम् स्वपिति जागर्ति किम् अन्यच् च करिष्यति ॥६-२९-२१॥।।
विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः ।चारेण विदितः शत्रुः पण्डितैर् वसुधा अधिपैः ॥६-२९-२२॥।।
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ।चारास् तु ते तथा इति उक्त्वा प्रहृष्टा राक्षस ईश्वरम् ॥६-२९-२३॥।।
शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।ततस्तम् तु महात्मानम् चारा राक्षससत्तमम् ॥६-२९-२४॥।।
कृत्वा प्रदक्षिणम् जग्मुर् यत्र रामः सलक्ष्मणः ।ते सुवेलस्य शैलस्य समीपे राम लक्ष्मणौ ॥६-२९-२५॥।।
प्रच्चन्ना ददृशुर् गत्वा ससुग्रीव विभीषणौ ।प्रेक्षमाणाश्चमूम् ताम् च बभूवुर्भयविह्वलाः ॥६-२९-२६॥।।
ते तु धर्म आत्मना दृष्टा राक्षस इन्द्रेण राक्षसाः ।विभीषणेन तत्रस्था निगृहीता यदृच्चया ॥६-२९-२७॥।।
शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ।मोक्षितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः ॥६-२९-२८॥।।
अनृशम्सेन रामेण मोक्षिता राक्षसाः सरे ।वानरैर् अर्दितास् ते तु विक्रान्तैर् लघु विक्रमैः ॥६-२९-२९॥।।
पुनर् लंकाम् अनुप्राप्ताः श्वसन्तो नष्ट चेतसः ।ततो दशग्रीवम् उपस्थितास् ते ।चारा बहिर् नित्य चरा निशा चराः ।गिरेः सुवेलस्य समीप वासिनम् ।न्यवेदयन् भीम बलम् महाबलाः ॥६-२९-३०॥
ततस्तमक्षोभ्य बलम् लंका अधिपतये चराः ।सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥६-३०-१॥।।
चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।जात उद्वेगो अभवत् किम्चित् शार्दूलम् वाक्यम् अब्रवीत् ॥६-३०-२॥।।
अयथावच् च ते वर्णो दीनः च असि निशा चर ।न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥६-३०-३॥।।
इति तेन अनुशिष्टस् तु वाचम् मन्दम् उदीरयत् ।तदा राक्षस शार्दूलम् शार्दूलो भय विह्वलः ॥६-३०-४॥।।
न ते चारयितुम् शक्या राजन् वानर पुम्गवाः ।विक्रान्ता बलवन्तः च राघवेण च रक्षिताः ॥६-३०-५॥।।
न अपि सम्भाषितुम् शक्याः सम्प्रश्नो अत्र न लभ्यते ।सर्वतो रक्ष्यते पन्था वानरैः पर्वत उपमैः ॥६-३०-६॥।।
प्रविष्ट मात्रे ज्ञातो अहम् बले तस्मिन्न् अचारिते ।बलाद् गृहीतो बहुभिर् बहुधा अस्मि विदारितः ॥६-३०-७॥।।
जानुभिर् मुष्टिभिर् दन्तैस् तलैः च अभिहतो भृशम् ।परिणीतो अस्मि हरिभिर् बलवद्भिर् अमर्षणैः ॥६-३०-८॥।।
परिणीय च सर्वत्र नीतो अहम् राम सम्सदम् ।रुधिर आदिग्ध सर्व अन्गो विह्वलः चलित इन्द्रियः ॥६-३०-९॥।।
हरिभिर् वध्यमानः च याचमानः कृत अन्जलिः ।राघवेण परित्रातो जीवामि ह यदृच्चया ॥६-३०-१०॥।।
एष शैलैः शिलाभिः च पूरयित्वा महाअर्णवम् ।द्वारम् आश्रित्य लंकाया रामस् तिष्ठति सायुधः ॥६-३०-११॥।।
गरुड व्यूहम् आस्थाय सर्वतो हरिभिर् वृतः ।माम् विसृज्य महातेजा लंकाम् एव अभिवर्तते ॥६-३०-१२॥।।
पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु ।सीताम् च अस्मै प्रयच्च आशु सुयुद्धम् वा प्रदीयताम् ॥६-३०-१३॥।।
मनसा सम्तताप अथ तत् श्रुत्वा राक्षस अधिपः ।शार्दूलस्य महद् वाक्यम् अथ उवाच स रावणः ॥६-३०-१४॥।।
यदि माम् प्रतियुध्येरन् देव गन्धर्व दानवाः ।न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-३०-१५॥।।
एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् ।चारिता भवता सेना के अत्र शूराः प्लवम् गमाः ॥६-३०-१६॥।।
कीदृशाः किम् प्रभावाः च वानरा ये दुरासदाः ।कस्य पुत्राः च पौत्राः च तत्त्वम् आख्याहि राक्षस ॥६-३०-१७॥।।
तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बल अबलम् ।अवश्यम् बल सम्ख्यानम् कर्तव्यम् युद्धम् इच्चता ॥६-३०-१८॥।।
अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः ।इदम् वचनम् आरेभे वक्तुम् रावण सम्निधौ ॥६-३०-१९॥।।
अथ ऋक्ष रजसः पुत्रो युधि राजन् सुदुर्जयः ।गद्गदस्य अथ पुत्रो अत्र जाम्बवान् इति विश्रुतः ॥६-३०-२०॥।।
गद्गदस्य एव पुत्रो अन्यो गुरु पुत्रः शत क्रतोः ।कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥६-३०-२१॥।।
सुषेणः च अपि धर्म आत्मा पुत्रो धर्मस्य वीर्यवान् ।सौम्यः सोम आत्मजः च अत्र राजन् दधि मुखः कपिः ॥६-३०-२२॥।।
सुमुखो दुर्मुखः च अत्र वेग दर्शी च वानरः ।मृत्युर् वानर रूपेण नूनम् सृष्टः स्वयम्भुवा ॥६-३०-२३॥।।
पुत्रो हुत वहस्य अथ नीलः सेना पतिः स्वयम् ।अनिलस्य च पुत्रो अत्र हनूमान् इति विश्रुतः ॥६-३०-२४॥।।
नप्ता शक्रस्य दुर्धर्षो बलवान् अन्गदो युवा ।मैन्दः च द्विविदः च उभौ बलिनाव् अश्वि सम्भवौ ॥६-३०-२५॥।।
पुत्रा वैवस्वतस्य अत्र पन्च काल अन्तक उपमाः ।गजो गव अक्षो गवयः शरभो गन्ध मादनः ॥६-३०-२६॥।।
दश वानरकोट्यश्च शूराणाम् युद्धकाङ्ग्क्षिणाम् ।श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे ॥६-३०-२७॥।।
पुत्रो दशरथस्येष सिम्हसम्हननो युवा ।दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥।।
नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥।।
वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ ।जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥।।
लक्ष्मणश्चात्र धर्मात्मा मातङ्गवामिवर्षभः ।यस्य बाणपथम् प्राप्य व जीवेदपि वासवः ॥६-३०-३१॥।।
श्वेतो ज्योतिर् मुखः च अत्र भास्करस्य आत्म सम्भवौ ।वरुणस्य च पुत्रो अथ हेम कूटः प्लवम् गमः ॥६-३०-३२॥।।
विश्व कर्म सुतो वीरो नलः प्लवग सत्तमः ।विक्रान्तो वेगवान् अत्र वसु पुत्रः सुदुर्धरः ॥६-३०-३३॥।।
राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः ।परिगृह्य पुरीम् लंकाम् राघवस्य हिते रतः॥६-३०-३४॥।।
इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् ।सुवेले अधिष्ठितम् शैले शेष कार्ये भवान् गतिः ॥६-३०-३५॥
ततस्तमक्षोभ्य बलम् लंका अधिपतये चराः ।सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥६-३०-१॥।।
चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।जात उद्वेगो अभवत् किम्चित् शार्दूलम् वाक्यम् अब्रवीत् ॥६-३०-२॥।।
अयथावच् च ते वर्णो दीनः च असि निशा चर ।न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥६-३०-३॥।।
इति तेन अनुशिष्टस् तु वाचम् मन्दम् उदीरयत् ।तदा राक्षस शार्दूलम् शार्दूलो भय विह्वलः ॥६-३०-४॥।।
न ते चारयितुम् शक्या राजन् वानर पुम्गवाः ।विक्रान्ता बलवन्तः च राघवेण च रक्षिताः ॥६-३०-५॥।।
न अपि सम्भाषितुम् शक्याः सम्प्रश्नो अत्र न लभ्यते ।सर्वतो रक्ष्यते पन्था वानरैः पर्वत उपमैः ॥६-३०-६॥।।
प्रविष्ट मात्रे ज्ञातो अहम् बले तस्मिन्न् अचारिते ।बलाद् गृहीतो बहुभिर् बहुधा अस्मि विदारितः ॥६-३०-७॥।।
जानुभिर् मुष्टिभिर् दन्तैस् तलैः च अभिहतो भृशम् ।परिणीतो अस्मि हरिभिर् बलवद्भिर् अमर्षणैः ॥६-३०-८॥।।
परिणीय च सर्वत्र नीतो अहम् राम सम्सदम् ।रुधिर आदिग्ध सर्व अन्गो विह्वलः चलित इन्द्रियः ॥६-३०-९॥।।
हरिभिर् वध्यमानः च याचमानः कृत अन्जलिः ।राघवेण परित्रातो जीवामि ह यदृच्चया ॥६-३०-१०॥।।
एष शैलैः शिलाभिः च पूरयित्वा महाअर्णवम् ।द्वारम् आश्रित्य लंकाया रामस् तिष्ठति सायुधः ॥६-३०-११॥।।
गरुड व्यूहम् आस्थाय सर्वतो हरिभिर् वृतः ।माम् विसृज्य महातेजा लंकाम् एव अभिवर्तते ॥६-३०-१२॥।।
पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु ।सीताम् च अस्मै प्रयच्च आशु सुयुद्धम् वा प्रदीयताम् ॥६-३०-१३॥।।
मनसा सम्तताप अथ तत् श्रुत्वा राक्षस अधिपः ।शार्दूलस्य महद् वाक्यम् अथ उवाच स रावणः ॥६-३०-१४॥।।
यदि माम् प्रतियुध्येरन् देव गन्धर्व दानवाः ।न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-३०-१५॥।।
एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् ।चारिता भवता सेना के अत्र शूराः प्लवम् गमाः ॥६-३०-१६॥।।
कीदृशाः किम् प्रभावाः च वानरा ये दुरासदाः ।कस्य पुत्राः च पौत्राः च तत्त्वम् आख्याहि राक्षस ॥६-३०-१७॥।।
तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बल अबलम् ।अवश्यम् बल सम्ख्यानम् कर्तव्यम् युद्धम् इच्चता ॥६-३०-१८॥।।
अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः ।इदम् वचनम् आरेभे वक्तुम् रावण सम्निधौ ॥६-३०-१९॥।।
अथ ऋक्ष रजसः पुत्रो युधि राजन् सुदुर्जयः ।गद्गदस्य अथ पुत्रो अत्र जाम्बवान् इति विश्रुतः ॥६-३०-२०॥।।
गद्गदस्य एव पुत्रो अन्यो गुरु पुत्रः शत क्रतोः ।कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥६-३०-२१॥।।
सुषेणः च अपि धर्म आत्मा पुत्रो धर्मस्य वीर्यवान् ।सौम्यः सोम आत्मजः च अत्र राजन् दधि मुखः कपिः ॥६-३०-२२॥।।
सुमुखो दुर्मुखः च अत्र वेग दर्शी च वानरः ।मृत्युर् वानर रूपेण नूनम् सृष्टः स्वयम्भुवा ॥६-३०-२३॥।।
पुत्रो हुत वहस्य अथ नीलः सेना पतिः स्वयम् ।अनिलस्य च पुत्रो अत्र हनूमान् इति विश्रुतः ॥६-३०-२४॥।।
नप्ता शक्रस्य दुर्धर्षो बलवान् अन्गदो युवा ।मैन्दः च द्विविदः च उभौ बलिनाव् अश्वि सम्भवौ ॥६-३०-२५॥।।
पुत्रा वैवस्वतस्य अत्र पन्च काल अन्तक उपमाः ।गजो गव अक्षो गवयः शरभो गन्ध मादनः ॥६-३०-२६॥।।
दश वानरकोट्यश्च शूराणाम् युद्धकाङ्ग्क्षिणाम् ।श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे ॥६-३०-२७॥।।
पुत्रो दशरथस्येष सिम्हसम्हननो युवा ।दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥।।
नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥।।
वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ ।जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥।।
लक्ष्मणश्चात्र धर्मात्मा मातङ्गवामिवर्षभः ।यस्य बाणपथम् प्राप्य व जीवेदपि वासवः ॥६-३०-३१॥।।
श्वेतो ज्योतिर् मुखः च अत्र भास्करस्य आत्म सम्भवौ ।वरुणस्य च पुत्रो अथ हेम कूटः प्लवम् गमः ॥६-३०-३२॥।।
विश्व कर्म सुतो वीरो नलः प्लवग सत्तमः ।विक्रान्तो वेगवान् अत्र वसु पुत्रः सुदुर्धरः ॥६-३०-३३॥।।
राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः ।परिगृह्य पुरीम् लंकाम् राघवस्य हिते रतः॥६-३०-३४॥।।
इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् ।सुवेले अधिष्ठितम् शैले शेष कार्ये भवान् गतिः ॥६-३०-३५॥
सा सीता तच्चिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् । ।सुग्रीव प्रतिसंसर्गम् आख्यातम् च हनूमता ।। ६-३२-१
नयने मुख वर्णम् च भर्तुस् तत् सदृशम् मुखम् ।केशान् केश अन्त देशम् च तम् च चूडा मणिम् शुभम् ।। ६-३२-२
एतैह् सर्वैर् अभिज्नानैर् अभिज्नाय सुदुह्खिता ।विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा ।। ६-३२-३।।
सकामा भव कैकेयि हतो अयम् कुल नन्दनः ।कुलम् उत्सादितम् सर्वम् त्वया कलह शीलया ।। ६-३२-४।।
आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् ।यन्मया चीर वसनस् तया प्रस्थापितो वनम् ।। ६-३२-५।।
एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी ।जगाम जगतीम् बाला चिन्ना तु कदली यथा ।। ६-३२-६।।
सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् ।तत् शिरह् समुपाघ्राय विललाप आयत ईक्षणा ।। ६-३२-७।।
हा हता अस्मि महा बाहो वीर व्रतम् अनुव्रता ।इमाम् ते पश्चिम अवस्थाम् गता अस्मि विधवा कृता ।। ६-३२-८।।
प्रथमम् मरणम् नार्या भर्तुर् वैगुण्यम् उच्यते ।सुवृत्तः साधु वृत्तायाः सम्वृत्तस् त्वम् मम अग्रतः ।। ६-३२-९।।
दुह्खाद् दुह्कःअम् प्रपन्नाया मग्नायाः शोक सागरे ।यो हि माम् उद्यतस् त्रातुम् सो अपि त्वम् विनिपातितः ।। ६-३२-१०।।
सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव ।वत्सेन इव यथा धेनुर् विवत्सा वत्सला कृता ।। ६-३२-११।।
उदिष्टम् दीर्घम् आयुस् ते यैर् अचिन्त्य पराक्रम ।अनृतम् वचनम् तेषाम् अल्प आयुर् असि राघव ।। ६-३२-१२।।
अथ वा नश्यति प्रज्ना प्राज्नस्य अपि सतस् तव ।पचत्य् एनम् तथा कालो भूतानाम् प्रभवो ह्ययम् ।। ६-३२-१३।।
अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय शास्त्रवित् ।व्यसनानाम् उपायज्नः कुशलो ह्यसि वर्जने ।। ६-३२-१४।।
तथा त्वम् सम्परिष्वज्य रौद्रया अतिनृशंसया ।काल रात्र्या मया आच्चिद्य हृतः कमल लोचन ।। ६-३२-१५।।
उपशेषे महा बाहो माम् विहाय तपस्विनीम् ।प्रियाम् इव शुभाम् नारीम् पृथिवीम् पुरुष ऋषभ ।। ६-३२-१६।।
अर्चितम् सततम् यत्नाद् गन्ध माल्यैर् मया तव ।इदम् ते मत् प्रियम् वीर धनुः कान्चन भूषितम् ।। ६-३२-१७।।
पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ ।पूर्वैसः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः ।। ६-३२-१८।।
दिवि नक्षत्र भूतस् त्वम् महत् कर्म कृतम् प्रियम् ।पुण्यम् राज ऋषि वंशम् त्वम् आत्मनः समुपेक्षसे ।। ६-३२-१९।।
किम् मान् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे ।बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सह चारिणीम् ।। ६-३२-२०।।
संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया ।स्मर तन् मम काकुत्स्थ नय माम् अपि दुह्खिताम् ।। ६-३२-२१।।
कस्मान् माम् अपहाय त्वम् गतो गतिमताम् वर ।अस्माल् लोकाद् अमुम् लोकम् त्यक्त्वा माम् इह दुह्खिताम् ।। ६-३२-२२।।
कल्याणैर् उचितम् यत् तत् परिष्वक्तम् मया एव तु ।क्रव्य अदैस् तत् शरीरम् ते नूनम् विपरिकृष्यते ।। ६-३२-२३।।
अग्निष्तोम आदिभिर् यज्नैर् इष्टवान् आप्त दक्षिणैः ।अग्नि होत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे ।। ६-३२-२४।।
प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् ।परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक लालसा ।। ६-३२-२५।।
स तस्याः परिपृच्चन्त्या वधम् मित्र बलस्य ते ।तव च आख्यास्यते नूनम् निशायाम् राक्षसैर् वधम् ।। ६-३२-२६।।
सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षो गृहम् गताम् ।हृदयेन विदीर्णेन न भविष्यति राघव ।। ६-३२-२७।।
मम हेतोरनार्याया अवघः पार्थिवात्मजः ।रामः सागमुत्तीर्य वीर्यवान् गोष्पदे हतः ।। ६-३२-२८।।
अहम् दाशरथेनोढा मोहात्स्वकुपांसनी ।आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ।। ६-३२-२९।।
मानमाव्याम् मया जातिम् वारितम् दानमुत्तमम् ।याहमद्येह शोचामि भार्या सर्वातिथेरपि ।। ६-३२-३०।।
साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः ।समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् ।। ६-३२-३१।।
शिरसा मे शिरसः च अस्य कायम् कायेन योजय ।रावण अनुगमिष्यामि गतिम् भर्तुर् महात्मनः ।। ६-३२-३२।।
इति सा दुह्ख सम्तप्ता विललाप आयत ईक्षणा ।भर्तुः शिरो धनुस् तत्र समीक्ष्य जनक आत्मजा ।। ६-३२-३३।।
एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः ।अभिचक्राम भर्तारम् अनीकस्थः क्ऱ्त अन्जलिः ।। ६-३२-३४।।
विजयस्व आर्य पुत्र इति सो अभिवाद्य प्रसाद्य च ।न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनी पतिम् ।। ६-३२-३५।।
अमात्यैः स हितः सर्वैः प्रहस्तस्त्वामुपस्थितः ।तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो ।। ६-३२-३६।।
मानमस्ति महारा ज राजभावात् क्षमान्वित ।किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु ।। ६-३२-३७।।
एतत् श्रुत्वा दशग्रीवो राक्षस प्रतिवेदितम् ।अशोक वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ ।। ६-३२-३८।।
स तु सर्वम् समर्थ्य एव मन्त्रिभिः क्ऱ्त्यम् आत्मनः ।सभाम् प्रविश्य विदधे विदित्वा राम विक्रमम् ।। ६-३२-३९।।
अन्तर्धानम् तु तत् शीर्षम् तच् च कार्मुकम् उत्तमम् ।जगाम रावणस्य एव निर्याण समनन्तरम् ।। ६-३२-४०।।
राक्षस इन्द्रस् तु तैः सार्धम् मन्त्रिभिर् भीम विक्रमैः ।समर्थयाम् आस तदा राम कार्य विनिश्चयम् ।। ६-३२-४१।।
अविदूर स्थितान् सर्वान् बल अध्यक्षान् हित एषिणः ।अब्रवीत् काल सद्ऱ्शो रावणो राक्षस अधिपः ।। ६-३२-४२।।
शीघ्रम् भेरी निनादेन स्फुट कोण आहतेन मे ।समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् ।। ६-३२-४३।।
ततस् तथा इति प्रतिगृह्य तद् वचो ।स्तदैव दूताः सहसा महाद्बलम् ।समानयंसः चैव समागतम् च ते ।न्यवेदयन् भर्तरि युद्ध कान्क्षिणि ।। ६-३२-४४
सीताम् तु मोहिताम् दृष्ट्वा सरमा नाम राक्षसी ।आससाद आशु वैदेहीम् प्रियाम् प्रणयिनी सखी ।। ६-३३-१।।
मोहिताम् राक्षसेन्द्रेण सीताम् परमदुःखिताम् ।आश्वासयामास तदा सरमा मृदुभाषिणी ।। ६-३३-२।।
सा हि तत्र कृता मित्रम् सीतया रक्ष्यमाणया ।रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढ व्रता ।। ६-३३-३।।
सा ददर्श सखीम् सीताम् सरमा नष्ट चेतनाम् ।उपावृत्य उत्थिताम् ध्वस्ताम् वडवाम् इव पांसुषु ।। ६-३३-४।।
ताम् समाश्वासयाम् आस सखी स्नेहेन सुव्रता ।उक्ता यद् रावणेन त्वम् प्रत्युक्तम् च स्वयम् त्वया ।। ६-३३-५।।
उक्ता यद्रावणेन त्वम् प्रत्युक्तश्च स्वयम् त्वया ।सखी स्नेहेन तद् भीरु मया सर्वम् प्रतिश्रुतम् ।। ६-३३-६
लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात् ।तव हेतोर् विशाल अक्षि न हि मे जीवितम् प्रियम् ।। ६-३३-७।।
स सम्भ्रान्तश च निष्क्रान्तो यत् कृते राक्षस अधिपः ।तच् च मे विदितम् सर्वम् अभिनिष्क्रम्य मैथिलि ।। ६-३३-८।।
न शक्यम् सौप्तिकम् कर्तुम् रामस्य विदित आत्मनः ।वधश्च पुरुष व्याघ्रे तस्मिन्न् एव उपपद्यते ।। ६-३३-९।।
न च एव वानरा हन्तुम् शक्याः पादप योधिनः ।सुरा देव ऋषभेण इव रामेण हि सुरक्षिताः ।। ६-३३-१०।।
दीर्घ वृत्त भुजह् श्रीमान् महा उरस्कह् प्रतापवान् ।धन्वी सम्हनन उपेतो धर्म आत्मा भुवि विश्रुतः ।। ६-३३-११
विक्रान्तो रक्षिता नित्यम् आत्मनश्च परस्य च ।लक्ष्मणेन सह भ्रात्रा कुशली नय शास्त्रवित् ।। ६-३३-१२
हन्ता पर बल ओघानाम् अचिन्त्य बल पौरुषः ।न हतो राघवः श्रीमान् सीते शत्रु निबर्हणः ।। १३।।
अयुक्त बुद्धि कृत्येन सर्व भूत विरोधिना ।इयम् प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ।। ६-३३-१४।।
शोकस् ते विगतः सर्वः कल्याणम् त्वाम् उपस्थितम् ।ध्रुवम् त्वाम् भजते लक्ष्मीः प्रियम् प्रीति करम् शृणु ।। ६-३३-१५।।
उत्तीर्य सागरम् रामः सह वानर सेनया ।सम्निविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् ।। ६-३३-१६।।
दृष्टो मे परिपूर्ण अर्थः काकुत्स्थः सह लक्ष्मणः ।सहितैः सागर अन्तस्थैर् बलैस् तिष्ठति रक्षितः ।। ६-३३-१७।।
अनेन प्रेषिता ये च राक्षसा लघु विक्रमः ।राघवस् तीर्णैत्य् एवम् प्रवृत्तिस् तैर् इह आहृता ।। ६-३३-१८।।
स ताम् श्रुत्वा विशाल अक्षि प्रवृत्तिम् राक्षस अधिपः ।एष मन्त्रयते सर्वैः सचिवैः सह रावणः ।। ६-३३-१९।।
इति ब्रुवाणा सरमा राक्षसी सीतया सह ।सर्व उद्योगेन सैन्यानाम् शब्दम् शुश्राव भैरवम् ।। ६-३३-२०।।
दण्ड निर्घात वादिन्याः श्रुत्वा भेर्या महा स्वनम् ।उवाच सरमा सीताम् इदम् मधुर भाषिणी ।। ६-३३-२१।।
सम्नाह जननी ह्य् एषा भैरवा भीरु भेरिका ।भेरी नादम् च गम्भीरम् शृणु तोयद निस्वनम् ।। ६-३३-२२।।
कल्प्यन्ते मत्त मातम्गा युज्यन्ते रथ वाजिनः ।तत्र तत्र च सम्नद्धाः सम्पतन्ति पदातयः ।। ६-३३-२३।।
तत्र तत्र च सन्नद्धाः सम्पतन्ति सहस्रशः ।आपूर्यन्ते राज मार्गाः सैन्यैर् अद्भुत दर्शनैः ।। ६-३३-२४।
वेगवद्भिर् नदद्भिश्च तोय ओघैर् इव सागरः ।शास्त्राणाम् च प्रसन्नानाम् चर्मणाम् वर्मणाम् तथा ।। ६-३३-२५
रथ वाजि गजानाम् च भूषितानाम् च रक्षसाम् ।सम्भ्रमो रक्षसामेष हृषितानाम् तरस्विनाम् ।। ६-३३-२६
प्रभाम् विसृजताम् पश्य नाना वर्णाम् समुत्थिताम् ।वनम् निर्दहतो धर्मे यथा रूपम् विभावसोः ।। ६-३३-२७।।
घण्टानाम् शृणु निर्घोषम् रथानाम् शृणु निस्वनम् ।हयानाम् हेषमाणानाम् शृणु तूर्य ध्वनिम् यथा ।। ६-३३-२८
उद्यत आयुध हस्तानाम् राक्षस इन्द्र अनुयायिनाम् ।सम्भ्रमो रक्षसाम् एष तुमुलो लोम हर्षणः ।। ६-३३-२९।।
श्रीस् त्वाम् भजति शोकघ्नी रक्षसाम् भयम् आगतम् ।रामात् कमल पत्र अक्षि दैत्यानाम् इव वासवात् ।। ६-३३-३०
अवजित्य जित क्रोधस् तम् अचिन्त्य पराक्रमः ।रावणम् समरे हत्वा भर्ता त्वा अधिगमिष्यति ।। ६-३३-३१।।
विक्रमिष्यति रक्षह्सु भर्ता ते सह लक्ष्मणः ।यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ।। ६-३३-३२।।
आगतस्य हि रामस्य क्षिप्रम् अन्क गताम् सतीम् ।अहम् द्रक्ष्यामि सिद्ध अर्थाम् त्वाम् शत्रौ विनिपातिते ।। ६-३३-३३।।
अश्रूण्य् आनन्दजानि त्वम् वर्तयिष्यसि शोभने ।समागम्य परिष्वक्ता तस्य उरसि महा उरसः ।। ६-३३-३४।।
अचिरान् मोक्ष्यते सीते देवि ते जघनम् गताम् ।धृताम् एताम् बहून् मासान् वेणीम् रामो महा बलः ।। ६-३३-३५।।
तस्य दृष्ट्वा मुखम् देवि पूर्ण चन्द्रम् इव उदितम् ।मोक्ष्यसे शोकजम् वारि निर्मोकम् इव पन्नगी ।। ६-३३-३६।।
रावणम् समरे हत्वा नचिराद् एव मैथिलि ।त्वया समग्रम् प्रियया सुख अर्हो लप्स्यते सुखम् ।। ६-३३-३७।।
समागता त्वम् रामेण मोदिष्यसि महात्मना ।सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ।। ६-३३-३८।।
गिरि वरम् अभितो अनुवर्तमानो ।हय इव मण्डलम् आशु यः करोति ।तम् इह शरणम् अभ्युपेहि देविदिवस करम् प्रभवो ह्ययम् प्रजानाम् ६-३३-३९
अथ ताम् जात सम्तापाम् तेन वाक्येन मोदिताम् ।सरमा ह्लादयाम् आस महीं दग्धामिवाम्भसा ॥६-३४-१॥।।
ततस् तस्या हितम् सख्याश् चिकीर्षन्ती सखी वचः ।उवाच काले कालज्ना स्मित पूर्व अभिभाषिणी ॥६-३४-२॥।।
उत्सहेयम् अहम् गत्वा त्वद् वाक्यम् असित ईक्षणे ।निवेद्य कुशलम् रामे प्रतिच्चन्ना निवर्तितुम् ॥६-३४-३॥।।
न हि मे क्रममाणाया निरालम्बे विहायसि ।समर्थो गतिम् अन्वेतुम् पवनो गरुडो अपि वा ॥६-३४-४॥।।
एवम् ब्रुवाणाम् ताम् सीता सरमाम् पुनर् अब्रवीत् ।मधुरम् श्लक्ष्णया वाचा पूर्व शोक अभिपन्नया ॥६-३४-५॥।।
समर्था गगनम् गन्तुम् अपि वा त्वम् रसा तलम् ।अवगच्चाम्य् अकर्तव्यम् कर्तव्यम् ते मद् अन्तरे ॥६-३४-६॥।।
मत् प्रियम् यदि कर्तव्यम् यदि बुद्धिः स्थिरा तव ।ज्नातुम् इच्चामि तम् गत्वा किम् करोति इति रावणः ॥६-३४-७॥।।
स हि माया बलः क्रूरो रावणः शत्रु रावणः ।माम् मोहयति दुष्ट आत्मा पीत मात्रा इव वारुणी ॥६-३४-८॥।।
तर्जापयति माम् नित्यम् भर्त्सापयति च असक्र्त् ।राक्षसीभिः सुघोराभिर् या माम् रक्षन्ति नित्यशः ॥६-३४-९॥।।
उद्विग्ना शन्किता च अस्मि न च स्वस्थम् मनो मम ।तद् भयाच् च अहम् उद्विग्ना;अशोक वनिकाम् गताः ॥६-३४-१०॥।।
यदि नाम कथा तस्य निश्चितम् वा अपि यद् भवेत् ।निवेदयेथाः सर्वम् तत् परो मे स्याद् अनुग्रहः ॥६-३४-११॥।।
साप्येवम् ब्रुवतीम् सीताम् सरमा वल्गु भाषिणी ।उवाच वचनम् तस्याः स्पृशन्ती बाष्प विक्लवम् ॥६-३४-१२॥।।
एष ते यद्य् अभिप्रायस् तस्माद् गच्चामि जानकि ।गृह्य शत्रोर् अभिप्रायम् उपाव्र्त्ताम् च पश्य माम् ॥६-३४-१३॥।।
एवम् उक्त्वा ततो गत्वा समीपम् तस्य रक्षसः ।शुश्राव कथितम् तस्य रावणस्य समन्त्रिणः ॥६-३४-१४॥।।
सा श्रुत्वा निश्चयम् तस्य निश्चयज्ना दुरात्मनः ।पुनर् एव अगमत् क्षिप्रम् अशोक वनिकाम् तदा ॥६-३४-१५॥।।
सा प्रविष्टा पुनस् तत्र ददर्श जनक आत्मजाम् ।प्रतीक्षमाणाम् स्वाम् एव भ्रष्ट पद्माम् इव श्रियम् ॥६-३४-१६॥।।
ताम् तु सीता पुनः प्राप्ताम् सरमाम् वल्गु भाषिणीम् ।परिष्वज्य च सुस्निग्धम् ददौ च स्वयम् आसनम् ॥६-३४-१७॥।।
इह आसीना सुखम् सर्वम् आख्याहि मम तत्त्वतः ।क्रूरस्य निश्चयम् तस्य रावणस्य दुरात्मनः ॥६-३४-१८॥।।
एवम् उक्ता तु सरमा सीतया वेपमानया ।कथितम् सर्वम् आचष्त रावणस्य समन्त्रिणः ॥६-३४-१९॥।।
जनन्या राक्षस इन्द्रो वै त्वन् मोक्ष अर्थम् बृहद् वचः ।अविद्धेन च वैदेहि मन्त्रि वृद्धेन बोधितः ॥६-३४-२०॥।।
दीयताम् अभिसत्क्र्त्य मनुज इन्द्राय मैथिली ।निदर्शनम् ते पर्याप्तम् जन स्थाने यद् अद्भुतम् ॥६-३४-२१॥।।
लन्घनम् च समुद्रस्य दर्शनम् च हनूमतः ।वधम् च रक्षसाम् युद्धे कः कुर्यान् मानुषो भुवि ॥६-३४-२२॥।।
एवम् स मन्त्रि वृद्धैश्च मात्रा च बहु भाषितः ।न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थ परो यथा ॥६-३४-२३॥।।
न उत्सहत्य् अम्र्तो मोक्तुम् युद्धे त्वाम् इति मैथिलि ।सामात्यस्य नृशम्सस्य निश्चयो ह्य् एष वर्तते ॥६-३४-२४॥।।
तद् एषा सुस्थिरा बुद्धिर्मृत्यु लोभाद् उपस्थिता ।भयान् न शक्तस् त्वाम् मोक्तुम् अनिरस्तस् तु सम्युगे ॥६-३४-२५॥।।
राक्षसानाम् च सर्वेषाम् आत्मनश् च वधेन हि ।निहत्य रावणम् सम्ख्ये सर्वथा निशितैः शरैः ॥६-३४-२६॥।।
प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असित ईक्षणे ।एतस्मिन्न् अन्तरे शब्दो भेरी शन्ख समाकुलः ॥६-३४-२७॥।।
श्रुतो वै सर्व सैन्यानाम् कम्पयन् धरणी तलम् ।श्रुत्वा तु तम् वानर सैन्य शब्दम् ।लन्का गता राक्षस राज भ्र्त्याः ।नष्ट ओजसो दैन्य परीत चेष्टाः ।श्रेयो न पश्यन्ति न्र्पस्य दोषैः ॥६-३४-२८॥
तेन शन्ख विमिश्रेण भेरी शब्देन राघवः ।उपयतो महा बाहू रामह् पर पुरम् जयः ॥६-३५-१॥।।
तम् निनादम् निशम्य अथ रावणो राक्षस ईश्वरः ।मुहूर्तम् ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत ॥६-३५-२॥।।
अथ तान् सचिवाम्स् तत्र सर्वान् आभाष्य रावणः ।सभाम् सम्नादयन् सर्वाम् इत्य् उवाच महा बलः ॥६-३५-३॥।।
जगत्पम्तापनः क्रूरोगर्हयन् राक्षसेश्वरः ।तरणम् सागरस्य अपि विक्रमम् बल सम्चयम् ॥६-३५-४॥।।
यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम् ।भवतश्चाप्यहम् वेद्मि युद्धे सत्यपराक्रमान् ॥६-३५-५॥।।
तूष्णीकानीक्षतोन्योन्यम् विदित्वाम् रामविक्रमम् ।ततस् तु सुमहा प्राज्नो माल्यवान् नाम राक्षसः ॥६-३५-६॥।।
रावणस्य वचः श्रुत्वा मातुः पैतामहो अब्रवीत् ।विद्यास्वभिविनीतो यो राजा राजन् नय अनुगः ॥६-३५-७॥।।
स शास्ति चिरम् ऐश्वर्यम् अरीम्श्च कुरुते वशे ।सम्दधानो हि कालेन विगृह्णम्सः चारिभिः सह ॥६-३५-८॥।।
स्व पक्ष वर्धनम् कुर्वन् महद् ऐश्वर्यम् अश्नुते ॥हीयमानेन कर्तव्यो राज्ना सम्धिः समेन च ॥६-३५-९॥।।
न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् ।तन्मह्यम् रोचते सम्धिः सह रामेण रावण ॥६-३५-१०॥।।
यद् अर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् ।तस्य देव ऋषयः सर्वे गन्धर्वासः च जय एषिणः ॥६-३५-११॥।।
विरोधम् मा गमस् तेन सम्धिस् ते तेन रोचताम् ।असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः ॥६-३५-१२॥।।
सुराणाम् असुराणाम् च धर्म अधर्मौ तद् आश्रयौ ।धर्मो हि श्रूयते पक्षः सुराणाम् च महात्मनाम् ॥६-३५-१३॥।।
अधर्मो रक्षसाम् पक्षोह्य असुराणाम् च रावण ।धर्मो वै ग्रसते अधर्मम् ततः कृतम् अभूद् युगम् ॥६-३५-१४॥।।
अधर्मो ग्रसते धर्मम् ततस् तिष्यः प्रवर्तते ।तत् त्वया चरता लोकान् धर्मो विनिहतो महान् ॥६-३५-१५॥।।
अधर्मः प्रगृहीतसः च तेन अस्मद् बलिनः परे ।स प्रमादाद् विवृद्धस् ते अधर्मो अहिर् ग्रसते हि नः ॥६-३५-१६॥।।
विवर्धयति पक्षम् च सुराणाम् सुर भावनः ।विषयेषु प्रसक्तेन यत् किम्चित् कारिणा त्वया ॥६-३५-१७॥।।
Rषीणाम् अग्नि कल्पानाम् उद्वेगो जनितो महान् ।तेषाम् प्रभावो दुर्धर्षः प्रदीप्त;इव पावकः ॥६-३५-१८॥।।
तपसा भावित आत्मानो धर्मस्य अनुग्रहे रताः ।मुख्यैर् यज्नैर् यजन्त्य् एते नित्यम् तैस् तैर् द्विजातयः ॥६-३५-१९॥।।
जुह्वत्य् अग्नीम्सः च विधिवद् वेदाम्सः च उच्चैर् अधीयते ।अभिभूय च रक्षाम्सि ब्रह्म घोषान् उदैरयन् ॥६-३५-२०॥।।
दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इव उष्णगे ।ऋषीणाम् अग्नि कल्पानाम् अग्नि होत्र समुत्थितः ॥६-३५-२१॥।।
आदत्ते रक्षसाम् तेजो धूमो व्याप्य दिशो दश ।तेषु तेषु च देशेषु पुण्येषु च दृढ व्रतैः ॥६-३५-२२॥।।
चर्यमाणम् तपस् तीव्रम् सम्तापयति राक्षसान् ।देवदानवयक्षेभो गृहीतश्च वरस्त्वया ॥६-३५-२३॥।।
मनुष्या वानरा  ऋक्षा गोलाङ्गूला महाबलाः ।बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥६-३५-२४॥।।
उत्पातान् विविधान् दृष्ट्वा घोरान् बहु विधाम्स् तथा ।विनाशम् अनुपश्यामि सर्वेषाम् रक्षसाम् अहम् ॥६-३५-२५॥।।
खराभिस् तनिता घोरा मेघाह् प्रतिभयम् करः ।शोणितेन अभिवर्षन्ति लन्काम् उष्णेन सर्वतः ॥६-३५-२६॥।।
रुदताम् वाहनानाम् च प्रपतन्त्य् अस्र बिन्दवः ।ध्वजा ध्वस्ता विवर्णासः च न प्रभान्ति यथा पुरम् ॥६-३५-२७॥।।
व्याला गोमायवो ग्R^ इध्रा वाशन्ति च सुभैरवम् ।प्रविश्य लन्काम् अनिशम् समवायाम्सः च कुर्वते ॥६-३५-२८॥।।
कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः ।स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥६-३५-२९॥।।
गृहाणाम् बलि कर्माणि श्वानः पर्युपभुन्जते ।खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥६-३५-३०॥।।
मार्जारा द्वीपिभिः सार्धम् सूकराः शुनकैः सह ।किम्नरा राक्षसैसः च अपि समेयुर् मानुषैः सह ॥६-३५-३१॥।।
पाण्डुरा रक्त पादासः च विहगाः काल चोदिताः ।राक्षसानाम् विनाशाय कपोता विचरन्ति च ॥६-३५-३२॥।।
वीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः ।पतन्ति ग्रथितासः च अपि निर्जिताः कलह एषिणः ॥६-३५-३३॥।।
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यम् रुदन्ति ते ।करालो विकटो मुण्डः पुरुषः कृष्ण पिन्गलः ॥६-३५-३४॥।।
कालो गृहाणि सर्वेषाम् काले काले अन्ववेक्षते ।एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च ॥६-३५-३५॥।।
विष्णुम् मन्यामहे रामम् मानुषम् देहम् आस्थितम् ।न हि मानुष मात्रो असौ राघवो दृढ विक्रमः ॥६-३५-३६॥।।
येन बद्धः समुद्रस्य स सेतुः परम अद्भुतः ।कुरुष्व नर राजेन सम्धिम् रामेण रावण ॥६-३५-३७॥।।
ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् ।इदम् वचस् तत्र निगद्य माल्यवन् ।परीक्ष्य रक्षो अधिपतेर् मनः पुनः ।अनुत्तमेषु उत्तम पौरुषो बली ।बभूव तूष्णीम् समवेक्ष्य रावणम् ॥६-३५-३८॥
तत्तु माल्यवतो वाक्यम् हितम् उक्तम् दzअ आननः ।न मर्षयति दुष्ट अत्मा कालस्य वzअम् आगतः ॥६-३६-१॥।।
स बद्ध्वा भ्रु कुटिम् वक्त्रे क्रोधस्य वzअम् आगतः ।अमर्षात् परिवृत्त अक्षो माल्यवन्तम् अथ अब्रवीत् ॥६-३६-२॥।।
हित बुद्ध्या यद् अहितम् वचह् परुषम् उच्यते ।पर पक्षम् प्रविzय एव न एतत् zरोत्र गतम् मम ॥६-३६-३॥।।
मानुषम् कृपणम् रामम् एकम् zआखा मृग आzरयम् ।समर्थम् मन्यसे केन त्यक्तम् पित्रा वन आलयम् ॥६-३६-४॥।।
रक्षसाम् ईzवरम् माम् च देवतानाम् भयम् करम् ।हीनम् माम् मन्यसे केन;अहीनम् सर्व विक्रमैः ॥६-३६-५॥।।
वीर द्वेषेण वा zअन्के पक्ष पातेन वा रिपोः ।त्वया अहम् परुषाण्य् उक्तः पर प्रोत्साहनेन वा ॥६-३६-६॥।।
प्रभवन्तम् पदस्थम् हि परुषम् को अह्बिधास्यति ।पण्डितह् zआस्त्र तत्त्वज्नो विना प्रोत्साहनाद् रिपोः ॥६-३६-७॥।।
आनीय च वनात् सीताम् पद्म हीनाम् इव zरियम् ।किम् अर्थम् प्रतिदास्यामि राघवस्य भयाद् अहम् ॥६-३६-८॥।।
वृतम् वानर कोटीभिः ससुग्रीवम् सलक्ष्मणम् ।पzय कैzचिद् अहोभिस् त्वम् राघवम् निहतम् मया ॥६-३६-९॥।।
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि सम्युगे ।स कस्माद् रावणो युद्धे भयम् आहारयिष्यति ॥६-३६-१०॥।।
द्विधा भज्येयम् अप्य् एवम् न नमेयम् तु कस्यचित् ।एष मे सहजो दोषह् स्वभावो दुरतिक्रमः ॥६-३६-११॥।।
यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्चया ।रामेण विस्मयः को अत्र येन ते भयम् आगतम् ॥६-३६-१२॥।।
स तु तीर्त्वा अर्णवम् रामः सह वानर सेनया ।प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति ॥६-३६-१३॥।।
एवम् ब्रुवाणम् सम्रब्धम् रुष्टम् विज्नाय रावणम् ।व्रीडितो माल्यवान् वाक्यम् न उत्तरम् प्रत्यपद्यत ॥६-३६-१४॥।।
जय आzइषा च राजानम् वर्धयित्वा यथा उचितम् ।माल्यवान् अभ्यनुज्नातो जगाम स्वम् निवेzअनम् ॥६-३६-१५॥।।
रावणस् तु सह अमात्यो मन्त्रयित्वा विमृzय च ।लन्कायाम् अतुलाम् गुप्तिम् कारयाम् आस राक्षसः ॥६-३६-१६॥।।
व्यादिदेzअ च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् ।दक्षिणस्याम् महा वीर्यौ महा पार्zव महा उदरौ ॥६-३६-१७॥।।
पzचिमायाम् अथो द्वारि पुत्रम् इन्द्रजितम् तथा ।व्यादिदेzअ महा मायम् राक्षसैर् बहुभिर् वृतम् ॥६-३६-१८॥।।
उत्तरस्याम् पुर द्वारि व्यादिzय zउक सारणौ ।स्वयम् च अत्र भविष्यामि मन्त्रिणस् तान् उवाच ह ॥६-३६-१९॥।।
राक्षसम् तु विरूप अक्षम् महा वीर्य पराक्रमम् ।मध्यमे अस्थापयद् गुल्मे बहुभिह् सह राक्षसैः ॥६-३६-२०॥।।
एवम् विधानम् लन्कायाम् कृत्वा राक्षस पुम्गवः ।मेने कृत अर्थम् आत्मानम् कृत अन्त वzअम् आगतः ॥६-३६-२१॥।।
विसर्जयाम् आस ततह् स मन्त्रिणो ।विधानम् आज्नाप्य पुरस्य पुष्कलम् ।जय आzइषा मन्त्र गणेन पूजितो ।विवेzअ सो अन्तह् पुरम् ऋद्धिमन् महत् ॥६-३६-२२॥
नर वानर राजौ तौ स च वायु सुतः कपिः ।जाम्बवान् ऋक्ष राजसः च राक्षससः च विभीषणः ॥६-३७-१॥।।
अन्गदो वालि पुत्रसः च सौमित्रिः शरभः कपिः ।सुषेणः सह दायादो मैन्दो द्विविद;एव च ॥६-३७-२॥।।
गजो गव अक्षो कुमुदो नलो अथ पनसस् तथा ।अमित्र विषयम् प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥।।
इयम् सा लक्ष्यते लन्का पुरी रावण पालिता ।सासुर उरग गन्धर्वैर् अमरैर् अपि दुर्जया ॥६-३७-४॥।।
कार्य सिद्धिम् पुरस् क्Rत्य मन्त्रयध्वम् विनिर्णये ।नित्यम् सम्निहितो ह्य् अत्र रावणो राक्षस अधिपः ॥६-३७-५॥।।
तथा तेषु ब्रुवाणेषु रावण अवरजो अब्रवीत् ।वाक्यम् अग्राम्य पदवत् पुष्कल अर्थम् विभीषणः ॥६-३७-६॥।।
अनलः शरभसः चैव सम्पातिः प्रघसस् तथा ।गत्वा लन्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥६-३७-७॥।।
भूत्वा शकुनयः सर्वे प्रविष्टासः च रिपोर् बलम् ।विधानम् विहितम् यच् च तद् द्Rष्ट्वा समुपस्थिताः ॥६-३७-८॥।।
सम्विधानम् यथा आहुस् ते रावणस्य दुरात्मनः ।राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥६-३७-९॥।।
पूर्वम् प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति ।दक्षिणम् च महा वीर्यौ महा पार्श्व महा उदरौ ॥६-३७-१०॥।।
इन्द्रजित् पश्चिम द्वारम् राक्षसैर् बहुभिर् वृतः ।पट्टस असि धनुष्मद्भिः शूल मुद्गर पाणिभिः ॥६-३७-११॥।।
नाना प्रहरणैः शूरैर् आवृतो रावण आत्मजः ।राक्षसानाम् सहस्रैस् तु बहुभिः शस्त्र पाणिभिः ॥६-३७-१२॥।।
युक्तः परम सम्विग्नो राक्षसैर् बहुभिर् व्Rतः ।उत्तरम् नगर द्वारम् रावणः स्वयम् आस्थितः ॥६-३७-१३॥।।
विरूप अक्षस् तु महता शूल खड्ग धनुष्मता ।बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥६-३७-१४॥।।
एतान् एवम् विधान् गुल्माम्ल् लन्कायाम् समुदीक्ष्य ते ।मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥६-३७-१५॥।।
गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे ।हयानाम् अयुते द्वे च साग्र कोटी च रक्षसाम् ॥६-३७-१६॥।।
विक्रान्ता बलवन्तसः च सम्युगेष्व् आततायिनः ।इष्टा राक्षस राजस्य नित्यम् एते निशा चराः ॥६-३७-१७॥।।
एक एकस्य अत्र युद्ध अर्थे राक्षसस्य विशाम् पते ।परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥६-३७-१८॥।।
एताम् प्रवृत्तिम् लन्कायाम् मन्त्रि प्रोक्तम् विभीषणः ।रामम् कमल पत्र अक्षम् इदम् उत्तरम् अब्रवीत् ॥६-३७-१९॥।।
लङ्कायाम् सचिवैः रामाय प्रत्यवेदयत् ।रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥६-३७-२०॥।।
रावणावरजः श्रीमान् रामप्रियचिकीर्षया ।कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥६-३७-२१॥।।
षष्टिः शत सहस्राणि तदा निर्यान्ति राक्षसाः ।पराक्रमेण वीर्येण तेजसा सत्त्व गौरवात् ॥६-३७-२२॥।।
सदृशा यो अत्र दर्पेण रावणस्य दुरात्मनः ।अत्र मन्युर् न कर्तव्यो रोषये त्वाम् न भीषये ॥६-३७-२३॥।।
समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे ।तद् भवाम्सः चतुर् अन्गेण बलेन महता वृतः ॥६-३७-२४॥।।
व्यूह्य इदम् वानर अनीकम् निर्मथिष्यसि रावणम् ।रावण अवरजे वाक्यम् एवम् ब्रुवति राघवः ॥६-३७-२५॥।।
शत्रूणाम् प्रतिघात अर्थम् इदम् वचनम् अब्रवीत् ।पूर्व द्वारे तु लन्काया नीलो वानर पुम्गवः ॥६-३७-२६॥।।
प्रहस्तम् प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः ।अन्गदो वालि पुत्रस् तु बलेन महता वृतः ॥६-३७-२७॥।।
दक्षिणे बाधताम् द्वारे महा पार्श्व महा उदरौ ।हनूमान् पश्चिम द्वारम् निपीड्य पवन आत्मजः ॥६-३७-२८॥।।
प्रविशत्व् अप्रमेय आत्मा बहुभिः कपिभिर् वृतः ।दैत्य दानव सम्घानाम् ऋषीणाम् च महात्मनाम् ॥६-३७-२९॥।।
विप्रकार प्रियः क्षुद्रो वर दान बल अन्वितः ।परिक्रामति यः सर्वाम्ल् लोकान् सम्तापयन् प्रजाः ॥६-३७-३०॥।।
तस्य अहम् राक्षस इन्द्रस्य स्वयम् एव वधे धृतः ।उत्तरम् नगर द्वारम् अहम् सौमित्रिणा सह ॥६-३७-३१॥।।
निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः ।वानर इन्द्रसः च बलवान् ऋक्ष राजसः च जाम्बवान् ॥६-३७-३२॥।।
राक्षस इन्द्र अनुजसः चैव गुल्मे भवतु मध्यमे ।न च एव मानुषम् रूपम् कार्यम् हरिभिर् आहवे ॥६-३७-३३॥।।
एषा भवतु नः सम्ज्ना युद्धे अस्मिन् वानरे बले ।वानरा;एव निश्चिह्नम् स्व जने अस्मिन् भविष्यति ॥६-३७-३४॥।।
वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् ।अहम् एव सह भ्रात्रा लक्ष्मणेन महा ओजसा ॥६-३७-३५॥।।
आत्मना पन्चमसः च अयम् सखा मम विभीषणः ।स रामः कार्य सिद्ध्य् अर्थम् एवम् उक्त्वा विभीषणम् ॥६-३७-३६॥।।
सुवेल आरोहणे बुद्धिम् चकार मतिमान् मतिम् ।रमणीयतरम् दृष्ट्वा सुवेलस्य गिरेस्तट्म् ॥६-३७-३७॥।।
ततस् तु रामो महता बलेन ।प्रच्चाद्य सर्वाम् पृथिवीम् महात्मा ।प्रहृष्ट रूपो अभिजगाम लन्काम् ।कृत्वा मतिम् सो अरि वधे महात्मा ॥६-३७-३८॥
स तु कृत्वा सुवेलस्य मतिम् आरोहणम् प्रति ।लक्ष्मण अनुगतो रामह् सुग्रीवम् इदम् अब्रवीत् ।। ६-३८-१।।
विभीषणम् च धर्मज्नम् अनुरक्तम् निज़ा चरम् ।मन्त्रज्नम् च विधिज्नम् च ज़्लक्ष्णया परया गिरा ।। ६-३८-२।।
सुवेलम् साधु ज़ैल इन्द्रम् इमम् धातु ज़तैज़् चितम् ।अध्यारोहामहे सर्वे वत्स्यामो अत्र निज़ाम् इमाम् ।। ६-३८-३।।
लन्काम् च आलोकयिष्यामो निलयम् तस्य रक्षसह् ।येन मे मरण अन्ताय हृता भार्या दुरात्मना ।। ६-३८-४।।
येन धर्मो न विज्नातो न वृत्तम् न कुलम् तथा ।राक्षस्या नीचया बुद्ध्या येन तद् गर्हितम् कृतम् ।। ६-३८-५।।
यस्मिन् मे वर्धते रोषह् कीर्तिते राक्षस अधमे ।यस्य अपराधान् नीचस्य वधम् द्रक्ष्यामि रक्षसाम् ।। ६-३८-६।।
एको हि कुरुते पापम् काल पाज़ वज़म् गतः ।नीचेन आत्म अपचारेण कुलम् तेन विनज़्यति ।। ६-३८-७।।
एवम् सम्मन्त्रयन्न् एव सक्रोधो रावणम् प्रति ।रामह् सुवेलम् वासाय चित्र सानुम् उपारुहत् ।। ६-३८-८।।
पृष्ठतो लक्ष्मण च एनम् अन्वगच्चत् समाहितः ।सज़रम् चापम् उद्यम्य सुमहद् विक्रमे रतः ।। ६-३८-९।।
तम् अन्वरोहत् सुग्रीवह् सामात्यह् सविभीषणह् ।हनूमान् अन्गदो नीलो मैन्दो द्विविद;एव च ।। ६-३८-१०।।
गजो गव अक्षो गवयह् ज़रभो गन्ध मादनह् ।पनसह् कुमुदज़् चैव हरो रम्भज़् च यूथपह् ।। ६-३८-११।।
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ।दुर्मुखश्च महातेजास्तथा शतबलिः कपिः ।। ६-३८-१२।।
एते च अन्ये च बहवो वानराह् ज़ीघ्र गामिनह् ।ते वायु वेग प्रवणास् तम् गिरिम् गिरि चारिणह् ।। ६-३८-१३।।
अध्यारोहन्त ज़तज़ह् सुवेलम् यत्र राघवह् ।ते त्व् अदीर्घेण कालेन गिरिम् आरुह्य सर्वतह् ।। ६-३८-१४।।
ददृज़ुह् ज़िखरे तस्य विषक्ताम् इव खे पुरीम् ।ताम् ज़ुभाम् प्रवत द्वाराम् प्राकार वर ज़ोभिताम् ।। ६-३८-१५।।
लन्काम् राक्षस सम्पूर्णाम् ददृज़ुर् हरि यूथपाह् ।प्राकार चय संस्थैज़् च तथा नीलैर् निज़ा चरैह् ।। ६-३८-१६।।
ददृज़ुस् ते हरि ज़्रेष्ठाह् प्राकारम् अपरम् कृतम् ।ते दृष्ट्वा वानराह् सर्वे राक्षसान् युद्ध कान्क्षिणह् ।। ६-३८-१७।।
मुमुचुर् विपुलान् नादांस् तत्र रामस्य पज़्यतह् ।ततो अस्तम् अगमत् सूर्यह् संध्यया प्रतिरन्जितह् ।। ६-३८-१८।।
पूर्ण चन्द्र प्रदीपा च क्षपा समभिवर्तते ।ततः स रामो हरि वाहिनी पतिर् ।विभीषणेन प्रतिनन्द्य सत्कृतः ।सलक्ष्मणो यूथप यूथ सम्वृतः ।सुवेल पृष्ठे न्यवसद् यथा सुखम् ।। ६-३८-१९
ताम् रात्रिम् उषितास् तत्र सुवेले हरि पुम्गवाः ।लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च ।। ६-३९-१।।
सम सौम्यानि रम्याणि विशालान्य् आयतानि च ।दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः ।। ६-३९-२।।
चम्पक अशोक पुम्नाग साल ताल समाकुला ।तमाल वन संचन्ना नाग माला समावृता ।। ६-३९-३।।
हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः ।तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः ।। ६-३९-४।।
शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः ।लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती ।। ६-३९-५।।
विचित्र कुसुम उपेतै रक्त कोमल पल्लवैः ।शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः ।। ६-३९-६।।
गन्ध आढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च ।धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः ।। ६-३९-७।।
तच् चैत्र रथ सम्काशम् मनोज्नम् नन्दन उपमम् ।वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् ।। ६-३९-८।।
नत्यूह कोयष्टि भकैर् नृत्यमानैश् च बर्हिभिः ।रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे ।। ६-३९-९।।
नित्य मत्त विहम्गानि भ्रमर आचरितानि च ।कोकिल आकुल षण्डानि विहग अभिरुतानि च ।। ६-३९-१०।।
भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च ।कोणालक विघुष्टानि सारस अभिरुतानि च ।। ६-३९-११।।
विविशुस् ते ततस् तानि वनान्य् उपवनानि च ।हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः ।। ६-३९-१२।।
तेषाम् प्रविशताम् तत्र वानराणाम् महा ओजसाम् ।पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः ।। ६-३९-१३।।
अन्ये तु हरि वीराणाम् यूथान् निष्क्रम्य यूथपाः ।सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् ।। ६-३९-१४।।
वित्रासयन्तो विहगांस् त्रासयन्तो मृग द्विपान् ।कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः ।। ६-३९-१५।।
कुर्वन्तस् ते महा वेगा महीम् चारण पीडिताम् ।अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् ।। ६-३९-१६।।
ऋक्षाः सिम्हा वराहाश् च महिषा वारणा मृगाः ।तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश ।। ६-३९-१७।।
शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिवि स्पृशम् ।समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् ।। ६-३९-१८।।
शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् ।श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि ।। ६-३९-१९।।
मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः ।निविष्टा तत्र शिखरे लन्का रावण पालिता ।। ६-३९-२०।।
दशयोजनविस्तीर्णा विंशद्योजनमायता ।सा पुरी गोपुरैर् उच्चैः पाण्डुर अम्बुद सम्निभैः ।कान्चनेन च सालेन राजतेन च शोभिता ।। ६-३९-२१।।
प्रासादैश् च विमानैश् च लन्का परम भूषिता ।घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् ।। ६-३९-२२।।
तस्याम् स्तम्भ सहस्रेण प्रासादः समलम्कृतः ।कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् ।। ६-३९-२३।।
चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् ।शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते ।। ६-३९-२४।।
मनोज्ञाम् काञ्चनवतीम् सर्वतैरुपशोभिताम् ।नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ।। ६-३९-२५।।
नानाविहगसम्घष्टाम् नानामृगनिषेविताम् ।नानाकुसुमसंपन्नाम् नानाराक्षससेविताम् ।। ६-३९-२६।।
ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः ।रावणस्य पुरीम् रामो ददर्श सह वानरैः ।। ६-३९-२७।।
ताम् महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः ।नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ६-३९-२८।।
ताम् रत्न पूर्णाम् बहु सम्विधानाम् ।प्रासाद मालाभिर् अलम्कृताम् च ।पुरीम् महा यन्त्र कवाट मुख्याम् ।ददर्श रामो महता बलेन ।। ६-३९-२९
ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् ।उपारोहत्ससुग्रीवो हरियूथैः समन्वितः ।। ६-४०-१।।
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् ।त्रिख़ूटशिखरे रम्ये निर्मितां विश्वकर्मणा ।। ६-४०-२।।
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ।तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ।। ६-४०-३।।
श्वेतचामरपर्यन्तं विजयच्चत्रशोभितम् ।रक्तचन्दनसंलिप्तं रक्ताभरणभूषितम् ।। ६-४०-४।।
वीलजीमूतसंकाशं हेमसंचादिताम्बरम् ।ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ।। ६-४०-५।।
शशलोहितरागेण सम्वीतं रक्तवाससा ।संध्यातपेन संचन्नं मेघराशिमिवाम्बरे ।। ६-४०-६।।
पश्यतां वानरेन्द्राणाम् राघवस्यापि पश्यतः ।दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ।। ६-४०-७।।
क्रोधवेगेन सं युक्तः सत्त्वेन च बलेन च ।अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ।। ६-४०-८।।
स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना ।तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः ।। ६-४०-९।।
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस ।न मया मोक्यसे.द्य त्वं पार्थिवेन्द्रस्य तेजसा ।। ६-४०-१०।।
इत्युक्त्वा सहसोत्पत्य प्लुप्लुवे तस्य चोपरि ।आकृष्य मुकुटं चित्रं पातयामास तद्भुवि ।। ६-४०-११।।
समीक्स्य तूर्णमायान्तं बभाषे तं निशाचरः ।सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि ।। ६-४०-१२।।
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले ।कन्दुवत्स समुत्थाय बाहुभ्यामाक्षिपद्धरिः ।। ६-४०-१३।।
परस्परं स्वेदविदिग्धगात्रौ ।परस्परम् शोणितरक्तदेहौ ।परस्परं श्लिष्टनिरुद्धचेष्टौ ।परस्परं शाल्मलिकिंशुकाविव ।। ६-४०-१४।।
मुष्टिप्रहारैश्च तलप्रहारै ।ररत्निघातैश्च कराग्रघातैः ।तौ चक्रतुर्युद्धमसह्यरूपं ।महाबलौ राक्षसवानरेन्द्रौ ।। ६-४०-१५।।
कृत्वा नियुद्धं भृशमुग्रवेगौ ।कालं चिरं गोपुरवेदिमध्ये ।उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ ।पादक्रमाद्गोपुरवेदिलग्नौ ।। ६-४०-१६।।
अन्योन्यमापीड्य विलग्नदेहौ ।तौ पेतुतुः पालनिखातमध्ये ।उत्पेततुर्भूमितलम् स्पृशन्तौ ।स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ।। ६-४०-१७।।
आलिङ्ग्य चालिङ्ग़्य च बाहुयोक्त्रैः ।संयोजयामासतुराहवे तौ ।सम्रम्भशिक्षाबलसम्प्रयुक्तौ ।सुचेरतुः सम्प्रति युद्धमार्गे ।। ६-४०-१८।।
शार्दूलसिंहविव जातदंष्ट्रौ ।गजेन्द्रपोताविव संप्रयुक्तौ ।संहत्य संवेद्य च तौ कराभ्यां ।तऊ पेतुतुर्वै युगपद्धरायाम् ।। ६-४०-१९।।
उद्यम्य चान्योन्यमधिक्षिपन्तौ ।संचक्रमाते बहु युद्धमार्गे ।व्यायामशिक्षाबलसंप्रयुक्तौ ।क्लमं न तौ जग्मतुराशु वीरौ ।। ६-४०-२०।।
बाहुत्तमैर्वारणवारणाभै ।र्निवारयन्तौ परवारणाभौ।चिरेण कालेन भृशं प्रयुद्धौ ।संचेरतुर्मण्डलमार्गमाशु ।। ६-४०-२१।।
तौ परस्पर मासाद्य यत्तावन्योन्यसूदने ।मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्मुहुः ।। ६-४०-२२।।
मण्डलानि विचित्राणि स्थानानि विविधानि च ।गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च ।। ६-४०-२३।।
तीर्शीनगतान्येव तथा वक्रगतानि च ।परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ।। ६-४०-२४।।
अभिद्रवणमाप्लावमवस्थानं सविग्रहम् ।परावृत्तमपावृत्तमपद्रुतमवप्लुतम् ।। ६-४०-२५।।
उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ ।तौ विचेरतुर्न्योन्यं वानरेन्द्रश्च रावणः ।। ६-४०-२६।।
एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः ।आरब्दुमुपसम् पेदे ज्ञात्वा तम् वानराधिपः ।। ६-४०-२७।।
उत्पपात तदाकाशं जितकाशी जितक्लमः ।रावणः स्थित एवात्र हरिराजेन वञ्चितः ।। ६-४०-२८।।
अथ हरिवरनाथः प्राप्तसंग्रामकीर्ति ।र्निशिचरपतिमाजौ योजयित्वा श्रमेण ।गगनमतिविशालं लङ्घयित्वार्कसूम ।र्हरिगणबलमध्ये रामपार्श्वं जगाम् ।। ६-४०-२९।।
स इति सवितृसूनुस्तत्र तत्कर्म कृत्वा ।पवनगतिरनीकं प्राविशत्संप्रहृष्टः ।रघुवरनृपसूनोद्वर्धयन् युद्धहर्षं ।तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ।। ६-४०-३०
अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः ।सुग्रीवं सम्परिष्वज्य तदा वचनमब्रवीत् ।। ६.४१.१ ।।।।
असम्मन्त्र्य मया सार्द्धं तदिदं साहसं कृतम् ।एवं साहसकर्माणि न कुर्वन्ति जनेश्वराः ।। ६.४१.२ ।।।।
संशये स्थाप्य मां चेदं बलं च सविभीषणम् ।कष्टं कृतमिदं वीर साहसं साहसप्रिय ।। ६.४१.३ ।।।।
इदानीं मा कृथा वीर एवंविधमचिन्तितम् ।त्वयि किञ्चित् समापन्ने किं कार्यं सीतया मम ।। ६.४१.४ ।।।।
भरतेन महाबाहो लक्ष्मणेन यवीयसा ।शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः ।। ६.४१.५ ।।पुनःपुनः ।।।।
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः ।जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम ।। ६.४१.६ ।।।।
हत्वा ऽहं रावणं युद्धे सपुत्रबलवाहनम् ।अभिषिच्य च लङ्कायां विभीषणमथापि च ।भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल ।। ६.४१.७ ।।।।
तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत ।। ६.४१.८ ।।।।
तव भार्यापहर्तारं दृष्ट्वा राघव रावणम् ।मर्षयामि कथं वीर जानन् पौरुषमात्मनः ।। ६.४१.९ ।।।।
इत्येवं वादिनं वीरमभिनन्द्य स राघवः ।लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् ।। ६.४१.१० ।।।।
परिगृह्योदकं शीतं वनानि फलवन्ति च ।बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ।। ६.४१.११ ।।।।
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् ।निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ।। ६.४१.१२ ।।।।
वाताश्च परुषा वान्ति कम्पते च वसुन्धरा ।पर्वताग्राणि वेपन्ते पतन्ति धरणीरुहाः ।। ६.४१.१३ ।।।।
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः ।क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ।। ६.४१.१४ ।।।।
रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा ।ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ।। ६.४१.१५ ।।।।
आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम् ।दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ।। ६.४१.१६ ।।।।
रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः ।कृष्णरक्तान्तपर्यन्तो यथा लोकस्य सङ्क्षये ।। ६.४१.१७ ।।।।
ह्रस्वो रूक्षो ऽप्रशस्तश्च परिवेषः सुलोहितः ।। ६.४१.१८ ।।।।
आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ।दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते ।युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ।। ६.४१.१९ ।।।।
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च ।शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ।। ६.४१.२० ।।।।
क्षिप्रमद्य दुराधर्षां लङ्कां रावणपालिताम् ।अभियाम जवेनैव सर्वतो हरिभिर्वृताः ।। ६.४१.२१ ।।।।
इत्येवं संवदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः ।तस्मादवातरच्छीव्रं पर्वताग्रान्महाबलः ।। ६.४१.२२ ।।।।
अवतीर्यं च धर्मात्मा तस्माच्छैलात् स राघवः ।परैः परमदुर्धर्षं ददर्श बलमात्मनः ।। ६.४१.२३ ।।।।
सन्नह्य तु ससुग्रीवः कपिराजबलं महत् ।कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ।। ६.४१.२४ ।।।।
ततः काले महाबाहुर्बलेन महतावृतः ।प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ।। ६.४१.२५ ।।।।
तं विभीषणसुग्रीवौ हनुमान् जाम्बवान्नलः ।ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा ।। ६.४१.२६ ।।।।
ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम् ।प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ।। ६.४१.२७ ।।।।
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ।जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ।। ६.४१.२८ ।।।।
तौ तु दीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ ।रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ।। ६.४१.२९ ।।।।
पताकमालिनीं रम्यामुद्यानवनशोभिताम् ।चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम् ।। ६.४१.३० ।।।।
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः ।यथानिवेशं सम्पीड्य न्यविशन्त वनौकसः ।। ६.४१.३१ ।।।।
लङ्कायास्तूत्तरद्वारं शलशृङ्गमिवोन्नतम् ।रामः सहानुजो धन्वी जुगोप च रुरोध च ।। ६.४१.३२ ।।।।
लङ्कामुपनिविष्टश्च रामो दशरथात्मजः ।लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ।उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ।। ६.४१.३३ ।।।।
नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् ।रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ।। ६.४१.३४ ।।।।
सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः ।लघूनां त्रासजननं पातालमिव दानवैः ।। ६.४१.३५ ।।।।
विन्यस्तानि च योधानां बहूनि विविधानि च ।ददर्शायुधजालानि तत्रैव कवचानि च ।। ६.४१.३६ ।।।।
पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ।अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान् ।। ६.४१.३७ ।।।।
अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ।ऋषभेण गवाक्षेण गजेन गवयेन च ।। ६.४१.३८ ।।।।
हनुमान् पश्चिमद्वारं ररक्ष बलवान् कपिः ।प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः ।। ६.४१.३९ ।।।।
मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ।सह सर्वैहरिश्रेष्ठैः सुपर्णश्वसनोपमैः ।। ६.४१.४० ।।।।
वानाराणां तु षट्त्रिंशत् कोट्यः प्रख्यातयूथपाः ।निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः ।। ६.४१.४१ ।।।।
शासनेन तु रामस्य लक्ष्मणः सविभीषणः ।द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् ।। ६.४१.४२ ।।।।
पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान् ।अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः ।। ६.४१.४३ ।।।।
ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः ।गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे ।। ६.४१.४४ ।।।।
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः ।सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ।। ६.४१.४५ ।।।।
दशनागबलाः केचित् केचिद्दशगुणोत्तराः ।केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। ६.४१.४६ ।।।।
सन्ति चौघबलाः केचित् केचिच्छतगुणोत्तराः ।अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ।। ६.४१.४७ ।।।।
अद्भुतश्च विचित्रश्च तेषामासीत् समागमः ।तत्र वानरसैन्यानां शलभानामिवोद्यमः ।। ६.४१.४८ ।।।।
परिपूर्णमिवाकाशं सञ्छन्नेव च मेदिनी ।लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ।। ६.४१.४९ ।।।।
शतं शतसहस्राणां पृथगृक्षवनौकसाम् ।लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ।। ६.४१.५० ।।।।
आवृतः स गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः ।। ६.४१.५१ ।।।।
अयुतानां सहस्रं च पुरीं तामभ्यवर्तत ।। ६.४१.५२ ।।।।
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः ।संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना ।। ६.४१.५३ ।।।।
राक्षसा विस्मयं जग्मुः सहसा ऽभिनिपीडिताः ।वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः ।। ६.४१.५४ ।।।।
महान् शब्दो ऽभवत्तत्र बलौघस्याभिवर्ततः ।सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः ।। ६.४१.५५ ।।।।
तेन शब्देन महता सप्राकारा सतोरणा ।लङ्का प्रचलिता सर्वा सशैलवनकानना ।। ६.४१.५६ ।।।।
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ।बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ।। ६.४१.५७ ।।।।
राघवः सन्निवेश्यैव सैन्यं स्वं रक्षसां वधे ।सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनःपुनः ।आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ।। ६.४१.५८ ।।।।
विभीषणस्यानुमते राजधर्मनुस्मरन् ।अङ्गदं वालितनयं समाहूयेदमब्रवीत् ।। ६.४१.५९ ।।
त्य च पुनःपुनः ।गत्वा सोम्य दशग्रीवं ब्रुहि मद्वचनात् कपे ।लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः ।। ६.४१.६० ।।।।
भ्रष्टश्रीकगतैश्वर्य मुमूर्षो नष्टचेतन ।ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा ।। ६.४१.६१ ।।।।
नागानामथ यक्षाणां राज्ञां च रजनीचर ।यच्च पापं कृतं मोहादवलिप्तेन राक्षस ।। ६.४१.६२ ।।।।
नूनमद्य गतो दर्पः स्वयम्भूवरदानजः ।यस्य दण्डधरस्ते ऽहं दाराहरणकर्शितः ।दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः ।। ६.४१.६३ ।।।।
पदवीं देवतानां च महर्षीणां च राक्षस ।राजर्षीणां च सर्वेषां गमिष्यसि मया हतः ।। ६.४१.६४ ।।।।
बलेन येन वै सीतां मायया राक्षसाधम ।मामतिक्रामयित्वा त्वं हृतवांस्तन्निदर्शय ।। ६.४१.६५ ।।।।
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ।न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ।। ६.४१.६६ ।।।।
धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तो ऽयं विभीषणः ।लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ।। ६.४१.६७ ।।।।
न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया ।शक्यं मूर्खसहायेन पापेनाविदितात्मना ।। ६.४१.६८ ।।।।
युद्ध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस ।मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ।। ६.४१.६९ ।।।।
यद्वा विशसि लोकांस्त्रीन् पक्षिभूतो मनोजवः ।मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि ।। ६.४१.७० ।।।।
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदैहिकम् ।सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ।। ६.४१.७१ ।।।।
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ।जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ।। ६.४१.७२ ।।।।
सो ऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् ।ददर्शासीनमव्यग्रं रावणं सचिवैः सह ।। ६.४१.७३ ।।।।
ततस्तस्याविदूरे स निपत्य हरिपुङ्गवः ।दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ।। ६.४१.७४ ।।।।
तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् ।सामात्यं श्रावयामास निवेद्यात्मानमात्मना ।। ६.४१.७५ ।।।।
दूतो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।वालिपुत्रो ऽङ्गदो नाम यदि ते श्रोत्रमागतः ।। ६.४१.७६ ।।।।
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः ।निष्पत्य प्रतियुद्ध्यस्व नृशंस पुरुषो भव ।। ६.४१.७७ ।।।।
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् ।निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ।। ६.४१.७८ ।।।।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ।। ६.४१.७९ ।।।।
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि ।न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ।। ६.४१.८० ।।।।
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे ।अमर्षवशमापन्नो निशाचरगणेश्वरः ।। ६.४१.८१ ।।।।
ततः स रोषताम्राक्षः शशास सचिवांस्तदा ।गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ।। ६.४१.८२ ।।।।
रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः ।जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ।। ६.४१.८३ ।।।।
ग्राहयामास तारेयः स्वयमात्मानमात्मवान् ।बलं दर्शयितुं वीरो यातुधानगणे तदा ।। ६.४१.८४ ।।।।
स तान् बाहुद्वये सक्तानादाय पतगानिव ।प्रासादं शैलसङ्कासमुत्पपाताङ्गदस्तदा ।। ६.४१.८५ ।।।।
ते ऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः ।भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ।। ६.४१.८६ ।।।।
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् ।ददर्श राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ।। ६.४१.८७ ।।।।
तत्पफाल पदाक्रान्तं दशग्रीवस्य पश्यतः ।पुरा हिमवतः शृङ्गं वज्रिणेव विदारितम् ।। ६.४१.८८ ।।।।
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः ।विनद्य सुमहानादमुत्पपात विहायसम् ।। ६.४१.८९ ।।।।
व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् ।स वानराणां मध्ये तु रामपार्श्वमुपागतः ।। ६.४१.९० ।।।।
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् ।विनाशं चात्मनः पश्यन्निश्वासपरमो ऽभवत् ।। ६.४१.९१ ।।।।
रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः ।वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ।। ६.४१.९२ ।।।।
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः ।बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ।। ६.४१.९३ ।।।।
चतुर्द्वाराणि सर्वाणि सुग्रीववचनात् कपिः ।पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ।। ६.४१.९४ ।।।।
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् ।लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् ।। ६.४१.९५ ।।।।
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथा ऽपरे ।अपरे समरोद्धर्षाद्धर्षमेव प्रपेदिरे ।। ६.४१.९६ ।।।।
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् ।ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् ।। ६.४१.९७ ।।।।
हाहाकारं प्रकुर्वन्ति राक्षसा भयमोहिताः ।। ६.४१.९८ ।।।।
तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् ।प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः ।। ६.४१.९९ ।।
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः ।। ६.४२.१ ।।।।
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।विधानं द्विगुणं कृत्वा प्रासादं सो ऽध्यरोहत ।। ६.४२.२ ।।।।
स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ।। ६.४२.३ ।।।।
स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् ।कथं क्षपयितव्याः स्युरिति चिन्तापरो ऽभवत् ।। ६.४२.४ ।।।।
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।राघवं हरियूथांश्च ददर्शायतलोचनः ।। ६.४२.५ ।।।।
राघवः सह सैन्येन मुदितो नाम पुप्लुवे ।लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ।। ६.४२.६ ।।।।
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।जगाम सहसा सीतां दूयमानेन चेतसा ।। ६.४२.७ ।।।।
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा ।पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ।। ६.४२.८ ।।।।
पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् ।क्षिप्रमाज्ञापयामास वानरान् द्विषतां वधे ।। ६.४२.९ ।।।।
एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा ।सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् ।। ६.४२.१० ।।।।
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा ।इति स्म दधिरे सर्वे मनांसि हरियूथपाः ।। ६.४२.११ ।।।।
उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च ।तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ।। ६.४२.१२ ।।।।
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ।। ६.४२.१३ ।।।।
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।लङ्कामेवाभ्यवर्तन्त सालतालशिलायुधाः ।। ६.४२.१४ ।।।।
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः ।प्राकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ।। ६.४२.१५ ।।।।
परिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः ।पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ।। ६.४२.१६ ।।।।
ततः सहस्रयूथाश्च कोटीयूथाश्च वानराः ।कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ।। ६.४२.१७ ।।।।
काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः ।कैलासशिखराभाणि गोपुराणि प्रमथ्य च ।। ६.४२.१८ ।।।।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।लङ्कां तामभिधावन्ति महावारणसन्निभाः ।। ६.४२.१९ ।।।।
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ६.४२.२० ।।।।
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ।। ६.४२.२१ ।।।।
वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ।निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ।एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ।। ६.४२.२२ ।।।।
पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः ।आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ।। ६.४२.२३ ।।।।
साहाय्यार्थं तु तस्यैव निविष्टः प्रघसो हरिः ।पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ।। ६.४२.२४ ।।।।
दक्षिणं द्वारमागम्य वीरः शतवलिः कपिः ।आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ।। ६.४२.२५ ।।।।
सुषेणः पश्चिमद्वारं गतस्तारापिता हरिः ।आवृत्य बलवांस्तस्थौ षष्टिकोटिभिरावृतः ।। ६.४२.२६ ।।।।
उत्तरं द्वारमासाद्य रामः सौमित्रिणा सह ।आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ।। ६.४२.२७ ।।।।
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः ।वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ।। ६.४२.२८ ।।।।
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।वृतः कोट्या महावीर्यस्तस्थो रामस्य पार्श्वतः ।। ६.४२.२९ ।।।।
सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः ।वृतो यत्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ।। ६.४२.३० ।।।।
गजो गवाक्षो गवयः शरभो गन्धमादनः ।समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम् ।। ६.४२.३१ ।।।।
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ।। ६.४२.३२ ।।।।
एतच्छुत्वा ततो वाक्यं रावणस्य मुखोद्गतम् ।सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ।। ६.४२.३३ ।।।।
ततः प्रचोदिता भेर्यश्चन्द्रपाण्डरपुष्कराः ।हेमकोणाहता भीमा राक्षसानां समन्ततः ।। ६.४२.३४ ।।।।
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः ।राक्षसानां सुघोराणां मुखमारुतपूरिताः ।। ६.४२.३५ ।।।।
ते बभुः शुभनीलाङ्गाः सशङ्का रजनीचराः ।विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ।। ६.४२.३६ ।।।।
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ।समये पूर्यमाणस्य वेगा इव महोदधेः ।। ६.४२.३७ ।।।।
ततो वानरसैन्येन मुक्तो नादः समन्ततः ।मलयः पूरितो येन स सानुप्रस्थकन्दरः ।। ६.४२.३८ ।।।।
शङ्खदुन्दुभिसङ्घुष्टः सिंहनादस्तरस्विनाम् ।पृथिवीं चान्तरिक्षं च सागरं चैव नादयन् ।। ६.४२.३९ ।।।।
गजानां बृंहितैः सार्धं हयानां हेषितैरपि ।रथानां नेमिघोषैश्च रक्षसां वदनस्वनः ।। ६.४२.४० ।।।।
एतस्मिन्नन्तरे घोरः सङ्ग्रामः समवर्तत ।रक्षसां वानराणां च यथा देवासुरे पुरा ।। ६.४२.४१ ।।।।
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ।निजघ्नुर्वानरान् घोराः कथयन्तः स्वविक्रमान् ।। ६.४२.४२ ।।।।
राजा जयति सुग्रीव इति शब्दो महानभूत् ।। ६.४२.४३ ।।।।
राजन् जय जयेत्युक्त्वा स्वस्वनामकथान्ततः ।तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ।निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ।। ६.४२.४४ ।।।।
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् ।भिन्दिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् ।। ६.४२.४५ ।।।।
वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान् महीगताः ।राक्षसान् पातयामासुः समाप्लुत्य प्लवङ्गमाः ।। ६.४२.४६ ।।।।
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः ।रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ।। ६.४२.४७ ।।
युद्ध्यातां तु ततस्तेषां वानराणां महात्मनाम् ।रक्षसां सम्बभूवाथ बलकोपः सुदारुणः ।। ६.४३.१ ।।।।
ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः ।रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ।। ६.४३.२ ।।।।
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश ।राक्षसा भीमकर्माणो रावणस्य जयैषिणः ।। ६.४३.३ ।।।।
वानराणामपि चमूर्बृहती जयमिच्छताम् ।अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ।। ६.४३.४ ।।।।
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् ।रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ।। ६.४३.५ ।।।।
अङ्गदेनेन्द्रजित् सार्धं वालिपुत्रेण राक्षसः ।अयुध्यत महातेजास्त्र्यम्बकेण यथा ऽन्तकः ।। ६.४३.६ ।।।।
प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे ।जम्बुमालिनमारब्धो हनुमानपि वानरः ।। ६.४३.७ ।।।।
सङ्गतः सुमहाक्रोधो राक्षसो रावणानुजः ।समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ।। ६.४३.८ ।।।।
तपनेन गजः सार्धं राक्षसेन महाबलः ।निकुम्भेन महातेजा नीलो ऽपि समयुद्ध्यत ।। ६.४३.९ ।।।।
वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः ।सङ्गतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः ।। ६.४३.१० ।।।।
आग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।सुप्तघ्नो यज्ञकोपश्च रामेण सह सङ्गताः ।। ६.४३.११ ।।।।
वज्रमुष्टिस्तु मैन्देन द्विविदानशनिप्रभः ।राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ।। ६.४३.१२ ।।।।
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ।समरे तीक्ष्णवेगेन नलेन समयुद्ध्यत ।। ६.४३.१३ ।।।।
धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः ।स विद्युन्मालिना सार्धमयुध्यत महाकपिः ।। ६.४३.१४ ।।।।
वानराश्चापरे भीमा राक्षसैरपरैः सह ।द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ।। ६.४३.१५ ।।।।
तत्रासीत् सुमहद्युद्धं तुमुलं रोमहर्षणम् ।रक्षसां वानराणां च वीराणां जयमिच्छताम् ।। ६.४३.१६ ।।।।
हरिराक्षसदेहेभ्यः प्रभृताः केशशाद्वलाः ।शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः ।। ६.४३.१७ ।।।।
आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः ।अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ।। ६.४३.१८ ।।।।
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।जघान समरे श्रीमानङ्गदो वेगवान् कपिः ।। ६.४३.१९ ।।।।
सम्पातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः ।निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ।। ६.४३.२० ।।।।
जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः ।बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ।। ६.४३.२१ ।।।।
तस्य तं रथमास्थाय हनूमान् मारुतत्मजः ।प्रममाथ तलेनाशु सह तेनैव रक्षसा ।। ६.४३.२२ ।।।।
नदन् प्रतपनो घोरो नलं सो ऽप्यन्वधावत ।। ६.४३.२३ ।।।।
नलः प्रतपनस्याशु पातयामास चक्षुषी ।भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ।। ६.४३.२४ ।।।।
ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ।सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ।। ६.४३.२५ ।।।।
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ।। ६.४३.२६ ।।।।
तेषां चतुर्णां रामस्तु शिरांसि निशितैः शरै ।क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ।। ६.४३.२७ ।।।।
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ।पपात सरथः साश्वः पुराट्ट इव भूतले ।। ६.४३.२८ ।।।।
निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ।निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ।। ६.४३.२९ ।।।।
पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः ।बिभेद समरे नीलं निकुम्भः प्रजहास च ।। ६.४३.३० ।।।।
तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे ।शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ।। ६.४३.३१ ।।।।
वज्राशनिसमस्पर्शो द्विविदो ऽप्यशनिप्रभम् ।जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ।। ६.४३.३२ ।।।।
द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे ।शरैरशनि सङ्काशैः स विव्याधाशनिप्रभः ।। ६.४३.३३ ।।।।
स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्च्छितः ।सालेन सरथं साश्वं निजघानाशनिप्रभम् ।। ६.४३.३४ ।।।।
विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः ।सुषेणं ताडयामास ननाद च मुहुर्मुहुः ।। ६.४३.३५ ।।।।
तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः ।गिरिशृङ्गेण महता रथमाशु न्यपातयत् ।। ६.४३.३६ ।।।।
लाघवेन तु संयुक्तो विद्युन्माली निशाचरः ।अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ।। ६.४३.३७ ।।।।
ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः ।शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ।। ६.४३.३८ ।।।।
तमापतन्तं गदया विद्युन्माली निशाचरः ।वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् ।। ६.४३.३९ ।।।।
गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः ।तां शिलां पातयामास तस्योरसि महामृधे ।। ६.४३.४० ।।।।
शिलाप्रहाराभिहतो विद्युन्माली निशाचरः ।निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ।। ६.४३.४१ ।।।।
एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः ।द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ।। ६.४३.४२ ।।।।
निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः ।चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ।बभूवायोधनं घोरं गोमायुगणसङ्कुलम् ।। ६.४३.४३ ।।।।
कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ।विमर्दे तुमुले तस्मिन् देवासुररणोपमे ।। ६.४३.४४ ।।।।
विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः ।पुनः सुयुद्धं तरसा समास्थिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ।। ६.४३.४५ ।।
युद्ध्यतामेव तेषां तु तदा वानररक्षसाम् ।रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ।। ६.४४.१ ।।।।
अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् ।सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ।। ६.४४.२ ।।।।
राक्षसो ऽसीति हरयो हरिश्चासीति राक्षसाः ।अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ।। ६.४४.३ ।।।।
जहि दारय चैहीति कथं विद्रवसीति च ।एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ।। ६.४४.४ ।।।।
कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः ।सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ।। ६.४४.५ ।।।।
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्च्छिताः ।परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ।। ६.४४.६ ।।।।
ते हयान् काञ्चनापीडान् ध्वजांश्चाग्निशिखोपमान् ।आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ।। ६.४४.७ ।।।।
वानरा बलिनो युद्धे ऽक्षोभयन् राक्षसीं चमूम् ।कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो स्थान् ।चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्च्छिताः ।। ६.४४.८ ।।।।
लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः ।दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ।। ६.४४.९ ।।।।
तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् ।रुरोध कर्णनेत्राणि युद्ध्यतां धरणीरजः ।। ६.४४.१० ।।।।
वर्तमाने महाघोरे सङ्ग्रामे रोमहर्षणे ।रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः ।। ६.४४.११ ।।।।
ततो भेरीमृदङ्गानां पणवानां च निस्वनः ।शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ।। ६.४४.१२ ।।।।
हतानां स्तनमानानां राक्षसानां च निस्वनः ।शस्तानां वानराणां च सम्बभूवातिदारुणः ।। ६.४४.१३ ।।।।
हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः ।निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः ।। ६.४४.१४ ।।।।
शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी ।दुर्ज्ञेया दुर्निवेशा च शोणितास्रावकर्दमा ।। ६.४४.१५ ।।।।
सा बभूव निशा घोरा हरिराक्षसहारिणी ।कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ।। ६.४४.१६ ।।।।
ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ।राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः ।। ६.४४.१७ ।।।।
तेषामापततां शब्दः क्रुद्धानामपि गर्जताम् ।उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे ।। ६.४४.१८ ।।।।
तेषां रामः शरैष्षङ्भिष्षड् जघान निशाचरान् ।निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ।। ६.४४.१९ ।।।।
यमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ।वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ।। ६.४४.२० ।।।।
ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः ।युद्धादपसृतास्तत्र सावशेषायुषो ऽभवन् ।। ६.४४.२१ ।।।।
तत्र काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः ।दिशश्चकार विमलाः प्रदिशश्च महाबलः ।। ६.४४.२२ ।।।।
ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः ।ते ऽपि नष्टाः समासाद्य पतङ्ग इव पावकम् ।। ६.४४.२३ ।।।।
सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः ।बभूव रजनी चित्रा खद्योतैरिव शारदी ।। ६.४४.२४ ।।।।
राक्षसानां च निनदैर्हरीणां चापि निस्वनैः ।सा बभूव निशा घोरा भूयो घोरतरा तदा ।। ६.४४.२५ ।।।।
तेन शब्देन महता प्रवृद्धेन समन्ततः ।त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ।। ६.४४.२६ ।।।।
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ।सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् ।। ६.४४.२७ ।।।।
अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ।रावणिं निजघानाशु सारथिं च हयानपि ।। ६.४४.२८ ।।।।
वर्तमाने तदा घोरे सङ्ग्रामे भृशदारुणे ।इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ।अङ्गदेन महाकायस्तत्रैवान्तरधीयत ।। ६.४४.२९ ।।।।
तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः ।तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ।। ६.४४.३० ।।।।
प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ।तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम् ।। ६.४४.३१ ।।।।
ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ।साधु साध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम् ।। ६.४४.३२ ।।।।
इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा ।संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ।। ६.४४.३३ ।।।।
एतस्मिन्नन्तरे रामो वानरान् वाक्यमब्रवीत् ।। ६.४४.३४ ।।।।
सर्वे भवन्तस्तिष्ठन्तु कपिराजेन सङ्गताः ।। ६.४४.३५ ।।।।
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ।भवतामर्थसिद्ध्यर्थं कालेन स समागतः ।अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः ।। ६.४४.३६ ।।।।
सो ऽन्तर्धानगतः पापो रावणी रणकर्कशः ।अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः ।। ६.४४.३७ ।।।।
स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः ।बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ।। ६.४४.३८ ।।।।
मायया संवृतस्तत्र मोहयन् राघवौ युधि ।अदृश्यः सर्वभूतानां कूटयोधी निशाचरः ।बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ।। ६.४४.३९ ।।।।
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः ।सहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः ।। ६.४४.४० ।।।।
प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः ।मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा ।। ६.४४.४१ ।।
स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान् ।दिदेशातिबलो रामो दश वानरयूथपान् ।। ६.४५.१ ।।।।
द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् ।अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ।। ६.४५.२ ।।।।
विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् ।ऋषभं चर्षभस्कन्धमादिदेश परन्तपः ।। ६.४५.३ ।।।।
ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् ।आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ।। ६.४५.४ ।।।।
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः ।अस्त्रवित् परमास्त्रैस्तु वारयामास रावणिः ।। ६.४५.५ ।।।।
तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः ।अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ।। ६.४५.६ ।।।।
रामलक्ष्मणयोरेव सर्वदेहभिदः शरान् ।भृशमावेशयामास रावणिः समितिञ्जयः ।। ६.४५.७ ।।।।
निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्णौ ।क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ।। ६.४५.८ ।।।।
तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु ।तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ।। ६.४५.९ ।।।।
ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः ।रावणिर्भ्रातरौ वाक्यमन्तर्धानगतो ऽब्रवीत् ।। ६.४५.१० ।।।।
युद्ध्यमानमनालक्ष्यं शक्रो ऽपि त्रिदशेश्वरः ।द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ।। ६.४५.११ ।।।।
प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा ।एष रोषपरीतात्मा नयामि यमसादनम् ।। ६.४५.१२ ।।।।
एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ।निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ।। ६.४५.१३ ।।।।
भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः ।भूयो भूयः शरान् घोरान् विससर्ज महामृधे ।। ६.४५.१४ ।।।।
ततो मर्मसु मर्मज्ञो मज्जयन्निशितान् शरान् ।रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ।। ६.४५.१५ ।।।।
बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि ।निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ।। ६.४५.१६ ।।।।
ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ ।ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ।। ६.४५.१७ ।।।।
तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ ।निपेततुर्महेष्वासौ जगत्यां जगतीपती ।। ६.४५.१८ ।।।।
तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ ।शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ।। ६.४५.१९ ।।।।
न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम् ।नानिर्भिन्नं न चास्तब्धमाकराग्रादजिह्मगैः ।। ६.४५.२० ।।।।
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ।असृक् सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ।। ६.४५.२१ ।।।।
पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः ।क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ।। ६.४५.२२ ।।।।
रुक्मपुङ्खैः प्रसन्नाग्रैरधोगतिभिराशुगैः ।नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि ।विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ।। ६.४५.२३ ।।।।
स वीरशयने शिश्ये विज्यमादाय कार्मुकम् ।भिन्नमुष्टिपरीणाहं त्रिनतं रत्नभूषितम् ।। ६.४५.२४ ।।।।
बाणपातान्तरे रामं पतितं पुरुषर्षभम् ।स तत्र लक्ष्मणो दृष्ट्वा निराशो जीविते ऽभवत् ।। ६.४५.२५ ।।।।
रामं कमलपत्राक्षं शरबन्धपरिक्षतम् ।शुशोच भ्रातरं दृष्ट्वा पतितं घरणीतले ।। ६.४५.२६ ।।।।
हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः ।। ६.४५.२७ ।।।।
बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः सम्परिवार्य तस्थुः ।समागता वायुसुतप्रमुख्या विषादमार्ताः परमं च जग्मुः ।। ६.४५.२८ ।।
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ।ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ।। ६.४६.१ ।।।।
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे ।आजगामाथ तं देशं ससुग्रीवो विभीषणः ।। ६.४६.२ ।।।।
नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः ।तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ।। ६.४६.३ ।।।।
अचेष्टौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ ।शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ।। ६.४६.४ ।।।।
निश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ ।रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ।। ६.४६.५ ।।।।
तौ वीरशयने वीरौ शयनौ मन्दचेष्टितौ ।यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ।। ६.४६.६ ।।।।
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ ।बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ।। ६.४६.७ ।।।।
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः ।न चैनं मायया च्छन्नं ददृशू रावणिं रणे ।। ६.४६.८ ।।।।
त तु मायाप्रतिच्छन्नं माययैव विभीषणः ।वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ।। ६.४६.९ ।।।।
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ।। ६.४६.१० ।।।।
तेजसा यशसा चैव विक्रमेण च संयुतम् ।। ६.४६.११ ।।।।
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।उवाच परमप्रीतो हर्षयन् सर्वनैर्ऋतान् ।। ६.४६.१२ ।।।।
दूषणस्य च हन्तारौ खरस्य च महाबलौ ।सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्णौ ।। ६.४६.१३ ।।।।
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ।सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ।। ६.४६.१४ ।।।।
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ।अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ।। ६.४६.१५ ।।।।
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ।सो ऽयं मूलहरो ऽनर्थः सर्वेषां निहतो मया ।। ६.४६.१६ ।।।।
रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम् ।विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ।। ६.४६.१७ ।।।।
एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वतः ।यूथपानपि तान् सर्वांस्ताडयामास रावणिः ।। ६.४६.१८ ।।।।
नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ।त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः ।। ६.४६.१९ ।।।।
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि ।हनूमतो वेगवतो विससर्ज शरान् दश ।। ६.४६.२० ।।।।
गवाक्षं शरभं चैव द्वावप्यमिततेजसौ ।द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ।। ६.४६.२१ ।।।।
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् ।विव्याध बहुभिर्बाणैस्त्वरमाणो ऽथ रावणिः ।। ६.४६.२२ ।।।।
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः ।ननाद बलवांस्तत्र महासत्त्वः स रावणिः ।। ६.४६.२३ ।।।।
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् ।प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ।। ६.४६.२४ ।।।।
शरबन्धेन घोरेण मया बद्धौ चमूमुखे ।सहितौ भ्रातरावेतौ निशामयत राक्षसाः ।। ६.४६.२५ ।।।।
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ।परं विस्मयमाजग्मुः कर्मणा तेन हर्षिताः ।। ६.४६.२६ ।।।।
विनेदुश्च महानादान् सर्वतो जलदोपमाः ।हतो राम इति ज्ञात्वा रावणिं समपूजयन् ।। ६.४६.२७ ।।।।
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ ।वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ।। ६.४६.२८ ।।।।
हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः ।प्रविवेश पुरीं लङ्कां हर्षयन् सर्वराक्षसान् ।। ६.४६.२९ ।।।।
रामलक्ष्मणयोर्द्दष्ट्वा शरीरे सायकैश्चिते ।सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ।। ६.४६.३० ।।।।
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ।सबाष्पवदनं दीनं शोकव्याकुललोचनम् ।। ६.४६.३१ ।।।।
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् ।एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ।। ६.४६.३२ ।।।।
सशेषभाग्यता ऽस्माकं यदि वीर भविष्यति ।मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ।। ६.४६.३३ ।।।।
पर्यवस्थापयात्मानमनाथं मां च वानर ।सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ।। ६.४६.३४ ।।।।
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना ।सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभिषणः ।। ६.४६.३५ ।।।।
ततः सलिलमादाय विद्यया परिजप्य च ।सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः ।। ६.४६.३६ ।।।।
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ।अब्रवीत् कालसम्प्राप्तमसम्भ्रममिदं वचः ।। ६.४६.३७ ।।।।
न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् ।अतिस्नेहो ऽप्यकाले ऽस्मिन् मरणायोपकल्पते ।। ६.४६.३८ ।।।।
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् ।हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ।। ६.४६.३९ ।।।।
अथवा रक्ष्यतां रामो यावत् सञ्ज्ञाविपर्ययः ।लब्धसञ्ज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः ।। ६.४६.४० ।।।।
नैतत् किञ्चन रामस्य न च रामो मुमूर्षति ।न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ।। ६.४६.४१ ।।।।
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् ।यावत् कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ।। ६.४६.४२ ।।।।
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः ।कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ।। ६.४६.४३ ।।।।
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् ।त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ।। ६.४६.४४ ।।।।
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ।विद्रुतं वानरानीकं तत्समाश्वासयत् पुनः ।। ६.४६.४५ ।।।।
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः ।विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ।। ६.४६.४६ ।।।।
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ।आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ।। ६.४६.४७ ।।।।
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे ।रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ।उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ।। ६.४६.४८ ।।।।
पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ।यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ।। ६.४६.४९ ।।।।
स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य ।जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचा ऽभिननन्द पुत्रम् ।। ६.४६.५० ।।
प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे ।राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ।। ६.४७.१ ।।।।
हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः ।गजो गवाक्षो गवयः शरभो गन्धमादनः ।जाम्बवानृषभः स्कन्धो रम्भः शतवलिः पृथुः ।। ६.४७.२ ।।।।
व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ।वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः ।तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ।। ६.४७.३ ।।।।
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् ।आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा ।। ६.४७.४ ।।।।
राक्षस्यस्त्रिजटा चैव शासनात् समुपस्थिताः ।। ६.४७.५ ।।।।
ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ।। ६.४७.६ ।।।।
हताविन्द्रजिता ऽ ऽख्यात वैदेह्या रामलक्ष्मणौ ।पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ।। ६.४७.७ ।।।।
यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति ।सो ऽस्या भर्त्ता सह भ्रात्रा निरस्तो रणमूर्धनि ।। ६.४७.८ ।।।।
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली ।मामुपस्थास्यते सीता सर्वाभरणभूषिता ।। ६.४७.९ ।।।।
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् ।अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती ।निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् ।। ६.४७.१० ।।।।
तस्य तद्वचनं च श्रुत्वा रावणस्य दुरात्मनः ।राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम् ।। ६.४७.११ ।।।।
ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया ।अशोकवनिकास्थां तां मैथिलीं समुपानयन् ।। ६.४७.१२ ।।।।
तामादाय तु राक्षस्यो भर्तृशोकपराजिताम् ।सीतामारोपयामासुर्विमानं पुष्पकं तदा ।। ६.४७.१३ ।।।।
ततः पुष्पकमारोप्य सीतां त्रिजटया सह ।जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ ।। ६.४७.१४ ।।।।
रावणो ऽकारयल्लङ्कां पताकाध्वजमालिनीम् ।प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः ।राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ।। ६.४७.१५ ।।।।
विमानेनापि सीता तु गत्वा त्रिजटया सह ।ददर्श वानराणां तु सर्वं सैन्यं निपातितम् ।। ६.४७.१६ ।।।।
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् ।वानरांश्चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः ।। ६.४७.१७ ।।।।
ततः सीता ददर्शोभौ शयानौ शरतल्पयोः ।लक्ष्मणं चापि रामं च विसञ्ज्ञौ शरपीडितौ ।। ६.४७.१८ ।।।।
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ ।सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ।। ६.४७.१९ ।।।।
तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ ।शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ।। ६.४७.२० ।।।।
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ ।दुःखार्ता सुभृशं सीता सुचिरं विललाप ह ।। ६.४७.२१ ।।।।
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा ।प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा ।। ६.४७.२२ ।।।।
सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ ।वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ।। ६.४७.२३ ।।
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महावलम् ।विललाप भृशं सीता करुणं शोककर्शिता ।। ६.४८.१ ।।।।
ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.२ ।।।।
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.३ ।।।।
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.४ ।।।।
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.५ ।।।।
इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः ।आधिराज्ये ऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ।। ६.४८.६ ।।।।
वैधव्यं यान्ति यैर्नार्यो लक्षणैर्भाग्यदुर्लभाः ।नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ।। ६.४८.७ ।।।।
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः ।तान्यद्य निहते रामे वितथानि भवन्ति मे ।। ६.४८.८ ।।।।
केशाः सूक्ष्माः समा नीला भ्रुवौ चासङ्गते मम ।वृत्ते चारोमशे जङ्घे दन्ताश्चाविरला मम ।। ६.४८.९ ।।।।
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ ।अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम ।। ६.४८.१० ।।।।
स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ ।मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्काश्च मे चिताः ।। ६.४८.११ ।।।।
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च ।प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् ।। ६.४८.१२ ।।।।
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् ।मन्दस्मितेत्येव च मां कन्यालक्षणिनो द्विजाः ।। ६.४८.१३ ।।।।
आधिराज्ये ऽभिषेको मे ब्राह्मणैः पतिना सह ।कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ।। ६.४८.१४ ।।।।
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च ।तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ।। ६.४८.१५ ।।।।
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च ।अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् ।। ६.४८.१६ ।।।।
अदृश्यमानेन रणे मायया वासवोपमौ ।मम नाथावनाथाया निहतौ रामलक्ष्मणौ ।। ६.४८.१७ ।।।।
न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ।जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ।। ६.४८.१८ ।।।।
न कालस्यातिभारो ऽस्ति कृतान्तश्च सुदुर्जयः ।यत्र रामः सह भ्रात्रा शेते युधि निपातितः ।। ६.४८.१९ ।।।।
न शोचामि तथा रामं लक्ष्मणं च महाबलम् ।नात्मानं जननीं वापि यथा श्वश्रूं तपस्विनीम् ।। ६.४८.२० ।।।।
सा ऽनुचिन्तयते नित्यं समाप्तव्रतमागतम् ।कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ।। ६.४८.२१ ।।।।
परिदेवयमानां तां राक्षसी त्रिजटा ऽब्रवीत् ।। ६.४८.२२ ।।।।
मा विषादं कृथा देवि भर्ता ऽयं तव जीवति ।। ६.४८.२३ ।।।।
कारणानि च वक्ष्यामि महान्ति सदृशानि च ।यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ।। ६.४८.२४ ।।।।
नहि कोपपरीतानि हर्षपर्युत्सुकानि च ।भवन्ति युधि योधानां मुखानि निहते पतौ ।। ६.४८.२५ ।।।।
इदं विमानं वैदेहि पुष्पकं नाम नामतः ।दिव्यं त्वां धारयेन्नैवं यद्येतौ गतजीवितौ ।। ६.४८.२६ ।।।।
हतवीरप्रधानां हि हतौत्साहा निरुद्यमा ।सेना भ्रमति सङ्ख्येषु हतकर्णेव नौर्जले ।। ६.४८.२७ ।।।।
इयं पुनरसम्भ्रान्ता निरुद्विग्ना तरस्विनी ।सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ।। ६.४८.२८ ।।।।
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः ।अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते ।। ६.४८.२९ ।।।।
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।चारित्रसुखशीलत्वात् प्रविष्टा ऽसि मनो मम ।। ६.४८.३० ।।।।
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः ।तादृशं दर्शनं दृष्ट्वा मया चावेदितं तव ।इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि ।। ६.४८.३१ ।।।।
निस्सञ्ज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते ।प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् ।दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ।। ६.४८.३२ ।।।।
त्यज शोकं च मोहं च दुःखं च जनकात्मजे ।रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ।। ६.४८.३३ ।।।।
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा ।कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ।। ६.४८.३४ ।।।।
विमानं पुष्पकं तत्तु सन्निवर्त्य मनोजवम् ।दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ।। ६.४८.३५ ।।।।
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा ।अशोकवनिकामेव राक्षसीभिः प्रवेशिता ।। ६.४८.३६ ।।।।
प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् ।सम्प्रेक्ष्य सञ्चिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ।। ६.४८.३७ ।।
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ ।निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ।। ६.४९.१ ।।।।
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः ।परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ।। ६.४९.२ ।।।।
एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् ।स्थिरत्वात् सत्त्वयोगाच्च शरैः सन्दानितो ऽपि सन् ।। ६.४९.३ ।।।।
ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् ।भ्रातरं दीनवदनं पर्यदेवयदातुरः ।। ६.४९.४ ।।।।
किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा ।शयानं यो ऽद्य पश्यामि भ्रातरं युधि निर्जितम् ।। ६.४९.५ ।।।।
शक्या सीतासमा नारी मर्त्यलोके विचिन्वता ।न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ।। ६.४९.६ ।।।।
परित्यक्ष्याम्यहं प्राणं वानराणां तु पश्यताम् ।यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ।। ६.४९.७ ।।।।
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् ।कथमम्भां सुमित्रां च पुत्रदर्शनलालसाम् ।। ६.४९.८ ।।।।
विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव ।कथमाश्वासयिष्यामि यदा यास्यामि तं विना ।। ६.४९.९ ।।।।
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ।। ६.४९.१० ।।।।
मया सह वनं यातो विना तेन गतः पुनः ।उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया ।। ६.४९.११ ।।।।
इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ।। ६.४९.१२ ।।।।
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ ।लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ।। ६.४९.१३ ।।।।
त्वं नित्यं स विषण्णं मामाश्वासयसि लक्ष्मण ।गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ।। ६.४९.१४ ।।।।
येनाद्य निहता युद्धे राक्षसा विनिपातिताः ।तस्यमेव क्षितौ वीरः स शेते निहतः परैः ।। ६.४९.१५ ।।।।
शयानः शरतल्पे ऽस्मिन् स्वशोणितपरिप्लुतः ।शरजालैश्चितो भाति भास्करो ऽस्तमिव व्रजन् ।। ६.४९.१६ ।।।।
बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् ।रुजा चाब्रुवतो ऽप्यस्य दृष्टिरागेण सूच्यते ।। ६.४९.१७ ।।।।
यथैव मां वनं यान्तमनुयातो महाद्युतिः ।अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ।। ६.४९.१८ ।।।।
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ।इमामद्य गतो ऽवस्थां ममानार्यस्य दुर्नयैः ।। ६.४९.१९ ।।।।
सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे ।परुषं विप्रियं वापि श्रावितं तु कदाचन ।। ६.४९.२० ।।।।
विससर्जैकवेगेन पञ्चबाणशतानि यः ।इष्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच्च लक्ष्मणः ।। ६.४९.२१ ।।।।
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ।सो ऽयमुर्व्यां हतः शेते महार्हशयनोचितः ।। ६.४९.२२ ।।।।
यन्मया न कृतो राजा राक्षसानां विभीषणः ।तच्च मिथ्याप्रलप्तं मां प्रधक्ष्यति न संशयः ।। ६.४९.२३ ।।।।
अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितो ऽर्हसि ।मत्वा हीनं मया राजन् रावणो ऽभिद्रवेद्बली ।। ६.४९.२४ ।।।।
अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः ।सागरं तर सुग्रीव नीलेन च नलेन च ।। ६.४९.२५ ।।।।
कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे ।ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ।। ६.४९.२६ ।।।।
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च ।युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् ।। ६.४९.२७ ।।।।
गवयेन गवाक्षेण शरभेण गजेन च ।अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः ।न चातिक्रमितुं शक्यं दैवं सुग्रीवमानुषैः ।। ६.४९.२८ ।।।।
यत्तु शक्यं वयस्येन सुहृदा च परन्तप ।कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ।। ६.४९.२९ ।।।।
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ।। ६.४९.३० ।।।।
शुश्रुवस्तस्य ते सर्वे वानराः परिदेवनम् ।वर्तयाञ्चकुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ।। ६.४९.३१ ।।।।
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः ।आजगाम गदापाणिस्त्वरितो यत्र राघवः ।। ६.४९.३२ ।।।।
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् ।वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् * ।। ६.४९.३३ ।।
अथोवाच महातेजा हरिराजो महाबलः ।किमियं व्यथिता सेना मूढवातेव नौर्जले ।। ६.५०.१ ।।।।
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत् ।। ६.५०.२ ।।।।
न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ।शरजालाचितौ वीरावुभौ दशरथात्मजौ ।शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ।। ६.५०.३ ।।।।
अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् ।नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ।। ६.५०.४ ।।।।
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः ।प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ।। ६.५०.५ ।।।।
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः ।विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ।। ६.५०.६ ।।।।
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः ।सुग्रीवं वर्धयामास राघवं च निरैक्षत ।। ६.५०.७ ।।।।
विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् ।ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ।। ६.५०.८ ।।।।
विभीषणो ऽयं सम्प्रप्तो यं दृष्ट्वा वानरर्षभाः ।विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ।। ६.५०.९ ।।।।
शीघ्रमेतान् सुसन्त्रस्तान् बहुधा विप्रधावितान् ।प्रर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ।। ६.५०.१० ।।।।
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः ।वानरान् सान्त्वयामास सन्निरुध्य प्रधावतः ।। ६.५०.११ ।।।।
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः ।ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ।। ६.५०.१२ ।।।।
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् ।लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः ।। ६.५०.१३ ।।।।
जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च ।शोकसम्पीडितमना रुरोद विललाप च ।। ६.५०.१४ ।।।।
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ ।इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः ।। ६.५०.१५ ।।।।
भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना ।राक्षस्या जिह्मया बुद्ध्या चालितावृजुविक्रमौ ।। ६.५०.१६ ।।।।
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ ।वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ।। ६.५०.१७ ।।।।
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया ।तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ।। ६.५०.१८ ।।।।
जीवन्नद्य विपन्नो ऽस्मि नष्टराज्यमनोरथः ।प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ।। ६.५०.१९ ।।।।
एवं विलपमानं तं परिष्वज्य विभीषणम् ।सुग्रीवः सत्त्वसम्पन्नो हरिराजो ऽब्रवीदिदम् ।। ६.५०.२० ।।।।
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः ।रावणः सह पुत्रेण सकामं नेह लप्स्यते ।। ६.५०.२१ ।।।।
न रुजा पीडितावेतावुभौ राघवलक्ष्मणौ ।त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ।। ६.५०.२२ ।।।।
तमेनं सान्त्वयित्वा तु समाश्वास्य च राक्षसम् ।सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ।। ६.५०.२३ ।।।।
सह शूरैर्हरिगणैर्लब्धसञ्ज्ञावरिन्दमौ ।गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ।। ६.५०.२४ ।।।।
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् ।मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ।श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् ।। ६.५०.२५ ।।।।
दैवासुरं महद्युद्धमनुभूतं सुदारुणम् ।तदा स्म दानवा देवान् शरसंस्पर्शकोविदाः ।। ६.५०.२६ ।।।।
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ।। ६.५०.२७ ।।।।
तानार्तान्नष्टसञ्ज्ञांश्च परासूंश्च बृहस्पतिः ।विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ।। ६.५०.२८ ।।।।
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् ।जवेन वानराः शीघ्रं सम्पातिपनसादयः ।हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः ।। ६.५०.२९ ।।।।
सञ्जीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ।। ६.५०.३० ।।.५०.२ ।। सम्पातिपनसादयः ।चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे ।अमृतं यत्र मथितं तत्र ते परमौषधी ।। ६.५०.३१ ।।।।
अयं वायुसुतो राजन् हनुमांस्तत्र गच्छतु ।। ६.५०.३२ ।।।।
एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः ।पर्यस्यन् सागरे तोयं कम्पयन्निव मेदिनीम् ।। ६.५०.३३ ।।।।
महता पक्षवातेन सर्वद्वीपमहाद्रुमाः ।निपेतुर्भिन्नविटपाः समूला लवणाम्भसि ।। ६.५०.३४ ।।।।
अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः ।शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ।। ६.५०.३५ ।।।।
ततो मुहूर्ताद्गरुडं वैनतेयं महाबलम् ।।।।
वानरा ददृशुः सर्वेज्वलन्तमिव पावकम् ।। ६.५०.३६ ।।।।
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः ।यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ।। ६.५०.३७ ।।।।
ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दितः ।विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ।। ६.५०.३८ ।।।।
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः ।सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ।। ६.५०.३९ ।।।।
तेजो वीर्यं बलं चौज उत्साहश्च महागुणः ।प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ।। ६.५०.४० ।।।।
तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ ।उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ।। ६.५०.४१ ।।।।
भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् ।आवामिह व्यतिक्रान्तौ पूर्ववद्बलिनौ कृतौ ।। ६.५०.४२ ।।।।
यथा तातं दशरथं यथा ऽजं च पितामहम् ।तथा भवन्तमासाद्य हृदयं मे प्रसीदति ।। ६.५०.४३ ।।।।
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः ।वसानो विरजे वस्त्रे दिव्याभरणभूषितः ।। ६.५०.४४ ।।।।
तमुवाच महातेजा वैनतेयो महाबलः ।पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ।। ६.५०.४५ ।।।।
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः ।गरुत्मानिह सम्प्राप्तो युवाभ्यां साह्यकारणात् ।। ६.५०.४६ ।।।।
असुरा वा महावीर्या दानवा वा महाबलाः ।सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ।। ६.५०.४७ ।।।।
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् ।मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ।। ६.५०.४८ ।।।।
एते नागाः काद्रवेया स्तीक्ष्णदंष्ट्रा विषोल्बणाः ।रक्षोमायाप्रभावेन शरा भूत्वा त्वदाश्रिताः ।। ६.५०.४९ ।।।।
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम ।लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ।। ६.५०.५० ।।।।
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणो ऽहमागतः ।सहसा युवयोः स्नेहात् सखित्वमनुपालयन् ।। ६.५०.५१ ।।।।
मोक्षितौ च महाघोरादस्मात् सायकबन्धनात् ।अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ।। ६.५०.५२ ।।।।
प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः ।शूराणां शुद्धभावानां भवतामार्जवं बलम् ।। ६.५०.५३ ।।।।
तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे ।एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः ।। ६.५०.५४ ।।।।
एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः ।परिष्वज्य सुहृत् स्निग्धमाप्रष्टुमुपचक्रमे ।। ६.५०.५५ ।।।।
सखे राघव धर्मज्ञ रिपूणामपि वत्सल ।अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् ।। ६.५०.५६ ।।।।
न च कौतूहलं कार्यं सखित्वं प्रति राघव ।कृतकर्मा रणे वीरः सखित्वमनुवेत्स्यसि ।। ६.५०.५७ ।।।।
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ।रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ।। ६.५०.५८ ।।।।
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ।रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ।। ६.५०.५९ ।।।।
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् ।जगामाकाशमाविश्य सुपर्णः पवनो यथा ।। ६.५०.६० ।।।।
विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ।सिंहनादांस्तदा नेदुर्लाङ्गूलान् दुधुवुस्तदा ।। ६.५०.६१ ।।।।
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यनादयन् ।दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ।। ६.५०.६२ ।।।।
आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः ।द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ।। ६.५०.६३ ।।।।
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् ।लङ्काद्वारण्युपाजग्मुर्योद्धुकामाः प्लवङ्गमाः ।। ६.५०.६४ ।।।।
ततस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् ।क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ।। ६.५०.६५ ।।
तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् ।नदतां राक्षसैः सार्धं तदा शुश्राव रावणः ।। ६.५१.१ ।।।।
स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् ।सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ।। ६.५१.२ ।।।।
यथा ऽसौ सम्प्रहृष्टानां वानराणां समुत्थितः ।बहूनां सुमहानादो मेघानामिव गर्जताम् ।व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ।। ६.५१.३ ।।।।
तथा हि विपुलैर्नादश्चुक्षुभे वरुणालयः ।। ६.५१.४ ।।ूनां सुमहानादो मेघानामिव गर्जताम् ।तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ ।अयं च सुमहान्नादः शङ्कां जनयतीव मे ।। ६.५१.५ ।।।।
एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ।उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः ।। ६.५१.६ ।।।।
ज्ञायतां तूर्णमेतेषां सर्वेषां वनचारिणाम् ।शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ।। ६.५१.७ ।।।।
तथोक्तास्तेन सम्भ्रान्ताः प्राकारमधिरुह्य ते ।ददृशुः पालितां सेनां सुग्रीवेण महात्मना ।। ६.५१.८ ।।।।
तो च मुक्तौ सुघोरेण शरबन्धेन राघवौ ।समुत्थितौ महावेगौ विषेदुः प्रेक्ष्य राक्षसाः ।। ६.५१.९ ।।।।
सन्त्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते ।विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः ।। ६.५१.१० ।।।।
तदप्रियं दीनमुखा रावणस्य निशाचराः ।कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ।। ६.५१.११ ।।।।
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ ।निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ।। ६.५१.१२ ।।।।
विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे ।पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ ।। ६.५१.१३ ।।।।
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ।चिन्ताशोकसमाक्रान्तो विषण्णवदनो ऽब्रवीत् ।। ६.५१.१४ ।।।।
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः ।अमोघैः सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि ।। ६.५१.१५ ।।।।
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ।संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ।। ६.५१.१६ ।।।।
निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः ।आदत्तं यैः सुसङ्ग्रामे रिपूणां मम जीवितम् ।। ६.५१.१७ ।।।।
एवमुक्त्वा तु सङ्क्रुद्धो निःश्वसन्नुरगो यथा ।अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ।। ६.५१.१८ ।।।।
बलेन महता युक्तो रक्षसां भीमविक्रम ।त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ।। ६.५१.१९ ।।।।
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ।कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् ।। ६.५१.२० ।।।।
अभिनिष्कम्य तद्द्वारं बलाध्यक्षमुवाच ह ।त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः ।। ६.५१.२१ ।।।।
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः ।बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ।। ६.५१.२२ ।।।।
ते बद्धघण्टाबलिनो घोररूपा निशाचराः ।विगर्जमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ।विविधायुधहस्ताश्च शूलमुद्गरपाणयः ।। ६.५१.२३ ।।।।
गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैर्भृशम् ।। ६.५१.२४ ।।
ृष्टा धूम्राक्षं पर्यवारयन् ।परिघैर्बिन्दिपालैश्च भल्लैः प्रासैः परश्वधैः ।निर्ययू राक्षसा दिग्भ्योनर्दन्तो जलदा यथा ।। ६.५१.२५ ।।।।
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः ।सुवर्णजालविहितैः खरैश्च विविधाननैः ।। ६.५१.२६ ।।।।
हयैः परमशीघ्रैश्च गजैन्द्रैश्च मदोत्कटैः ।निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ।। ६.५१.२७ ।।।।
वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ।आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ।। ६.५१.२८ ।।।।
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः ।प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः ।रथप्रवरमास्थाय खरयुक्तं खरस्वनम् ।। ६.५१.२९ ।।।।
प्रयान्तं तु महाघोरं राक्षसं भीमविक्रमम् ।अन्तरिक्षगता घोराः शकुनाः प्रत्यवारयन् ।। ६.५१.३० ।।।।
रथशीर्षे महान् भीमो गृध्रश्च निपपात ह ।ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ।। ६.५१.३१ ।।।।
रुधिरार्द्रो महान् श्वेतः कबन्धः पतितो भुवि ।विस्वरं चोत्सृजन्नादं धूम्नाक्षस्य समीपतः ।। ६.५१.३२ ।।।।
ववर्ष रुधिरं देवः सञ्चचाल च मेदिनी ।प्रतिलोभं ववौ वायुर्निर्घातसमनिस्वनः ।। ६.५१.३३ ।।।।
तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ।। ६.५१.३४ ।।।।
स तूत्पातांस्तदा दृष्ट्वा राक्षसानां भयावहान् ।प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितो ऽभवत् ।। ६.५१.३५ ।।।।
मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरस्सराः ।। ६.५१.३६ ।।।।
ततः सुभीमो बहुभिर्निशाचरैर्वृतो ऽभिनिष्क्रम्य रणोत्सुको बली ।ददर्श तां राघवबाहुपालितां महौघकल्पां बहुवानरीं चमूम् ।। ६.५१.३७ ।।
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् ।विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ।। ६.५२.१ ।।।।
तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् ।अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ।। ६.५२.२ ।।।।
घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः ।राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ।। ६.५२.३ ।।।।
वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ।राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ।विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ।। ६.५२.४ ।।।।
ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः ।। ६.५२.५ ।।श्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ।।।
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ।अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ।। ६.५२.६ ।।।।
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ।जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ।। ६.५२.७ ।।।।
ते भीमवेगा हरयो नर्दमानास्ततस्ततः ।ममन्थू राक्षसान् भीमान्नामानि च बभाषिरे ।। ६.५२.८ ।।।।
तद्वभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ।शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः ।। ६.५२.९ ।।।।
राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ।ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः ।। ६.५२.१० ।।।।
पार्श्वेषु दारिताः केचित् केचिद्राशीकृता द्रुमैः ।शिलाभिश्चूर्णिताः केचित् केचिद्दन्तैर्विदारिताः ।। ६.५२.११ ।।।।
ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ।रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ।। ६.५२.१२ ।।।।
गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् ।मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ।। ६.५२.१३ ।।।।
वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ।राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ।। ६.५२.१४ ।।।।
विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ।मूढाः शोणितगन्धेन निपेतुर्धरणीतले ।। ६.५२.१५ ।।।।
अन्ये परमसङ्क्रुद्धा राक्षसा भीमनिस्वनाः ।तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ।। ६.५२.१६ ।।।।
वानरैरापतन्तस्ते वेगिता वेगवत्तरैः ।मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ।वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः ।। ६.५२.१७ ।।।।
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः ।क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ।। ६.५२.१८ ।।।।
प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः ।मुद्गरैराहताः केचित् पतिता धरणीतले ।। ६.५२.१९ ।।।।
परिघैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः ।पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ।। ६.५२.२० ।।।।
केचिद्विनिहताः शूलै रुधिरार्द्रा वनौकसः ।केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि ।। ६.५२.२१ ।।।।
विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः ।विदारिता स्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः ।। ६.५२.२२ ।।।।
तत्सुभीमं महायुद्धं हरिराक्षससङ्कुलम् ।प्रबभौ शब्दबहुलं शिलापादपसङ्कुलम् ।। ६.५२.२३ ।।।।
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।मन्दस्तनितसङ्गीतं युद्धगान्धर्वमाबभौ ।। ६.५२.२४ ।।।।
धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि ।हसन् विद्रावयामास दिशस्तु शरवृष्टिभिः ।। ६.५२.२५ ।।।।
धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः ।अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ।। ६.५२.२६ ।।।।
क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः ।शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ।। ६.५२.२७ ।।।।
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् ।रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ।। ६.५२.२८ ।।।।
सा प्रमथ्य रथं तस्य निपपात शिला भुवि ।सचक्रकूबरं साश्वं सध्वजं सशरासनम् ।। ६.५२.२९ ।।।।
स भङ्क्त्वा तु रथं तस्य हनुमान् मारुतात्मजः ।रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ।। ६.५२.३० ।।।।
विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ।द्रुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ।। ६.५२.३१ ।।।।
विद्राव्य रासक्षं सैन्यं हनुमान् मारुतात्मजः ।गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ।। ६.५२.३२ ।।।।
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ।विनर्दमानः सहसा हनुमन्तमभिद्रवत् ।। ६.५२.३३ ।।।।
ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ।पातयामास धूम्राक्षो मस्तके तु हनूमतः ।। ६.५२.३४ ।।।।
ताडितः स तया तत्र गदया भीमरूपया ।। ६.५२.३५ ।।।।
स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् ।। ६.५२.३६ ।।।।
स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।पपात सहसा भूमौ विकीर्ण इव पर्वतः ।। ६.५२.३७ ।।।।
धूम्राक्षं निहतं दृष्टवा हतशेषा निशाचराः ।त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ।। ६.५२.३८ ।।।।
स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च सन्निकीर्य ।रिपुवधजनितश्रमो महात्मा मुदमगमत् कपिभिश्च पूज्यमानः ।। ६.५२.३९ ।।
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः ।क्रोधेन महता ऽ ऽविष्टो निश्वसन्नुरगो यथा ।। ६.५३.१ ।।।।
दीर्घमुष्णं विनिश्वस्य क्रोधेन कलुषीकृतः ।अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं महाबलम् ।। ६.५३.२ ।।।।
गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः ।जहि दाशरथिं रामं सुग्रीवं वानरैः सह ।। ६.५३.३ ।।।।
तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः ।निर्जगाम बलै सार्धं बहुभिः परिवारितः ।। ६.५३.४ ।।।।
नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसामाहितः ।पताकाध्वजचित्रैश्च रथैश्च समलङ्कृतः ।। ६.५३.५ ।।।।
ततो विचित्रकेयूरमुकुटैश्च विभूषितः ।तनुत्राणि च संरुद्ध्य सधनुर्निर्ययौ द्रुतम् ।। ६.५३.६ ।।।।
पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषणम् ।रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ।। ६.५३.७ ।।।।
यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि ।भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्टिशैरपि ।। ६.५३.८ ।।।।
खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः ।पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ।विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः ।। ६.५३.९ ।।।।
गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः ।ते युद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः ।। ६.५३.१० ।।।।
अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः ।। ६.५३.११ ।।।।
तद्राक्षसबलं घोरं विप्रस्थितमशोभत ।प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ।। ६.५३.१२ ।।।।
निस्सृता दक्षिणद्वारादङ्गदो यत्र यूथपः ।तेषां निष्क्रममाणानामशुभं समजायत ।। ६.५३.१३ ।।।।
आकाशाद्विघनात्तीव्रा उल्काश्चाभ्यपतंस्तदा ।वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ।। ६.५३.१४ ।।।।
व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा ।समापतन्तो योधास्तु प्रास्खलन् भयमोहिताः ।। ६.५३.१५ ।।।।
एतानौत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः ।धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ।। ६.५३.१६ ।।।।
तांस्तु निष्क्रमतो दृष्ट्वा वानरा जितकाशिनः ।प्रणेदुः सुमहानादान् पूरयंश्च दिशो दश ।। ६.५३.१७ ।।।।
ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह ।घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ।। ६.५३.१८ ।।।।
निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः ।रुधिरोक्षितसर्वाङ्गा न्यपतन् जगतीतले ।। ६.५३.१९ ।।।।
केचिदन्योन्यमासाद्य शूराः परिघपाणयः ।चिक्षिपुर्विविधं शस्त्रं समरेष्वनिवर्तिनः ।। ६.५३.२० ।।।।
द्रुमाणां च शिलानां च शस्त्राणां चापि निस्वनः ।श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ।। ६.५३.२१ ।।।।
रथनेमिस्वनस्तत्र धनुषश्चापि निस्वनः ।शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ।। ६.५३.२२ ।।।।
केचिदस्त्राणि संसृज्य बाहुयुद्धमकुर्वत ।। ६.५३.२३ ।।।।
तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ।जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः ।शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ।। ६.५३.२४ ।।।।
वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन् हरीन् ।चचार लोकसंहारे पाशहस्त इवान्तकः ।। ६.५३.२५ ।।।।
बलवन्तो ऽस्त्रविदुषो नानाप्रहरणा रणे ।जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्च्छिताः ।। ६.५३.२६ ।।।।
निघ्नुतो राक्षसान् दृष्ट्वा सर्वान् वालिसुतो रणे ।क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ।। ६.५३.२७ ।।।।
तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान् ।अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव ।चकार कदनं घोरं शक्रतुल्यपराक्रमः ।। ६.५३.२८ ।।।।
अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ।विभिन्नशिरसः पेतुर्विकृत्ता इव पादपाः ।। ६.५३.२९ ।।िव ।।।
रथैरश्वैर्ध्वजैश्चित्रैः शरीरैर्हरिरक्षसाम् ।रुधिरेण च सञ्छन्ना भूमिर्भयकरी तदा ।। ६.५३.३० ।।।।
हारकेयूरवस्त्रैश्च शस्त्रैश्च समलङ्कृता ।भूमिर्भाति रणे तत्र शारदीव यथा निशा ।। ६.५३.३१ ।।।।
अङ्गदस्य च वेगेन तद्राक्षसबलं महत् ।प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ।। ६.५३.३२ ।।
बलस्य च निघातेन अङ्गदस्य जयेन च ।राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ।। ६.५४.१ ।।।।
स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् ।वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ।। ६.५४.२ ।।।।
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः ।नानाप्रहरणाः शूराः प्रायुद्ध्यन्त तदा रणे ।। ६.५४.३ ।।।।
वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः ।आयुद्ध्यन्त शिलाहस्ताः समवेताः समन्ततः ।। ६.५४.४ ।।।।
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् ।राक्षसाः कपिमुख्येषु पातयाञ्चक्रिरे तदा ।। ६.५४.५ ।।।।
वानराश्चापि रक्षस्सु गिरीन् वृक्षान् महाशिलाः ।प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ।। ६.५४.६ ।।।।
शूराणां युद्ध्यमानानां समरेष्वनिवर्तिनाम् ।तद्राक्षसगणानां च सुयुद्धं समवर्तत ।। ६.५४.७ ।।।।
प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः ।शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ।। ६.५४.८ ।।।।
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः ।कङ्कगृध्रवलैराढ्या गोमायुगणसङ्कुलाः ।। ६.५४.९ ।।।।
कबन्धानि समुत्पेतुर्भीरुणां भीषणानि वै ।। ६.५४.१० ।।।।
भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ।वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ।। ६.५४.११ ।।।।
ततो वानरसैन्येन हन्यमानं निशाचरम् ।प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः ।। ६.५४.१२ ।।।।
राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः ।दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१३ ।।।।
प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम् ।शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ।। ६.५४.१४ ।।।।
बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ।विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१५ ।।।।
त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तकन्धराः ।अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ।। ६.५४.१६ ।।।।
ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा ।क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ।। ६.५४.१७ ।।।।
वज्रदंष्ट्रो ऽङ्गदश्चोभौ सङ्गतौ हरिराक्षसौ ।चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ।। ६.५४.१८ ।।।।
ततः शरसहस्रेण वालिपुत्रं महाबलः ।जघान मर्मदेशेषु मातङ्गमिव तोमरैः ।। ६.५४.१९ ।।।।
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः ।चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ।। ६.५४.२० ।।।।
दृष्ट्वा ऽ ऽपतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः ।चिच्छेद बहुधा सो ऽपि निकृत्तः पतितो भुवि ।। ६.५४.२१ ।।।।
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ।प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ।। ६.५४.२२ ।।।।
समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ।गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ।। ६.५४.२३ ।।।।
सा ऽङ्गदेन गदा ऽ ऽक्षिप्ता गत्वा तु रणमूर्धनि ।। ६.५४.२४ ।।।।
सचक्रकूबरं साश्वं प्रममाथ रथं तदा ।। ६.५४.२५ ।।।।
ततो ऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ।वज्रदंष्ट्रस्य शिरसि पातयामास सो ऽङ्गदः ।। ६.५४.२६ ।।।।
अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्च्छितः ।मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् ।। ६.५४.२७ ।।।।
स लब्धसञ्ज्ञो गदया वालिपुत्रमवस्थितम् ।जघान परमक्रुद्धो वक्षोदेशे निशाचरः ।गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत ।। ६.५४.२८ ।।।।
अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ।रुधिरोद्गारिणो तौ तु प्रहरैर्जनितश्रमौ ।बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ।। ६.५४.२९ ।।।।
ततः परमतेजस्वी अङ्गदः कपिकुञ्जरः ।उत्पाट्य वृक्षं स्थितवान् बहुपुष्पफलाञ्चितम् ।। ६.५४.३० ।।।।
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ।किङ्किणीजालसञ्छन्नं चर्मणा च परिष्कृतम् ।। ६.५४.३१ ।।।।
विचित्रांश्चेरतुर्मार्गान् रुषितौ कपिराक्षसौ ।जघ्नतुश्च तदा ऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ।। ६.५४.३२ ।।।।
व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ ।युद्ध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ।। ६.५४.३३ ।।।।
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः ।उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ।। ६.५४.३४ ।।।।
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ।जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ।। ६.५४.३५ ।।।।
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा ।सरोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ।। ६.५४.३६ ।।।।
वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः ।त्रस्ताः प्रत्यपतन् लङ्कां वध्यमानाः प्लवङ्गमै ।विषण्णवदना दीना ह्रिया किञ्चिदवाङ्मुखाः ।। ६.५४.३७ ।।।।
निहत्य तं वज्रधरप्रभावः स वालिसूनुः कपिसैन्यमध्ये ।जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ।। ६.५४.३८ ।।
वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः ।बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ।। ६.५५.१ ।।।।
शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः ।अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ।। ६.५५.२ ।।।।
एष शास्ता च गोप्ता च नेता च युधि सम्मतः ।भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ।। ६.५५.३ ।।।।
एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ।वानरांश्चापरान् घोरान् हनिष्यति परन्तपः ।। ६.५५.४ ।।।।
परिगृह्य स तामाज्ञां रावणस्य महाबलः ।बलं सन्त्वरयामास तदा लघुपराक्रमः ।। ६.५५.५ ।।।।
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ।निष्पेतू रक्षसां मुख्या बलाध्यक्षप्रचोदिताः ।। ६.५५.६ ।।।।
रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः ।मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ।राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः ।। ६.५५.७ ।।।।
न हि कम्पयितुं शक्यः सुरैरपि महामृधे ।अकम्पनस्ततस्तेषामादित्य इव तेजसा ।। ६.५५.८ ।।।।
तस्य निर्धावमानस्य संरब्धस्य युयत्सया ।अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् ।। ६.५५.९ ।।।।
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ।विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः ।। ६.५५.१० ।।।।
अभवत् सुदिने चापि दुर्दिनं रूक्षमारुतम् ।ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः ।। ६.५५.११ ।।।।
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ।तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ।। ६.५५.१२ ।।।।
तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ।बभूव सुमहान्नादः क्षोभयन्निव सागरम् ।। ६.५५.१३ ।।।।
तेन शब्देन वित्रस्ता वानराणां महाचमूः ।द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ।। ६.५५.१४ ।।।।
तेषां युद्धं महारौद्रं सञ्जज्ञे हरिरक्षसाम् ।रामरावणयोरर्थे समभित्यक्तजीविनाम् ।। ६.५५.१५ ।।।।
सर्वे ह्यति बलाः शूराः सर्वे पर्वतसन्निभाः ।हरयो राक्षसाश्चैव परस्परजिघांसवः ।। ६.५५.१६ ।।।।
तेषां विनर्दतां शब्दः संयुगे ऽतितरस्विनाम् ।सुश्रुवे सुमहान् क्रोधादन्योन्यमभिगर्जताम् ।। ६.५५.१७ ।।।।
रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ।उद्भूतं हरिरक्षोभिः संरुरोध दिशो दश ।। ६.५५.१८ ।।।।
अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ।संवृतानि च भूतानि ददृशुर्न रणाजिरे ।। ६.५५.१९ ।।।।
न ध्वजा न पताका वा चर्म वा तुरगो ऽपि वा ।आयुधं स्यन्दनं वा ऽपि ददृशे तेन रेणुना ।। ६.५५.२० ।।।।
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ।श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ।। ६.५५.२१ ।।।।
हरीनेव सुसङ्क्रुद्धा हरयो जघ्नुराहवे ।राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा ।। ६.५५.२२ ।।।।
परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ।रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम् ।। ६.५५.२३ ।।।।
ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ।शरीरशवसङ्कीर्णा बभूव च वसुन्धरा ।। ६.५५.२४ ।।।।
द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ।हरयो राक्षसाश्चैव जघ्नुरन्योन्यमोजसा ।। ६.५५.२५ ।।।।
बाहुभिः परिघाकारैर्युद्ध्यन्तः पर्वतोपमाः ।हरयो भीमकर्माणो राक्षसान् जघ्नुराहवे ।। ६.५५.२६ ।।।।
राक्षसास्त्वपि सङ्क्रुद्धाः प्रासतोमरपाणयः ।कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः ।। ६.५५.२७ ।।।।
अकम्पनः सुसङ्क्रुद्धो राक्षसानां चमूपतिः ।संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् ।। ६.५५.२८ ।।।।
हरयस्त्वपि सक्षांसि महाद्रुममहाश्मभिः ।विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ।। ६.५५.२९ ।।।।
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ।मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ।। ६.५५.३० ।।।।
ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ।कदनं सुमहच्चक्रुर्लीलया हरियूथपाः ।ममन्थू राक्षसान् सर्वे वानरा गणशो भृशम् ।। ६.५५.३१ ।।
तद्दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः ।क्रोधमाहारयामास युधि तीव्रमकम्पनः ।। ६.५६.१ ।।।।
क्रोधमूर्च्छितरूपस्तु धून्वन् परमकार्मुकम् ।दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ।। ६.५६.२ ।।।।
तत्रैव तावत्त्वरितं रथं प्रापय सारथे ।यत्रैते बहवो घ्नन्ति सुबहून् राक्षसान् रणे ।। ६.५६.३ ।।।।
एते ऽत्र बलवन्तो हि भीमकायाश्च वानराः ।द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ।। ६.५६.४ ।।।।
एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ।। ६.५६.५ ।।।।
ततः प्रजवनाश्वेन रथेन रथिनां वरः ।हरीनभ्यहनत् क्रोधाच्छरजालैरकम्पनः ।। ६.५६.६ ।।।।
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ।। ६.५६.७ ।।।।
तान् मृत्युवशमापन्नानकम्पनवशं गतान् ।समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ।। ६.५६.८ ।।।।
तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः ।समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ।। ६.५६.९ ।।।।
अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः ।बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ।। ६.५६.१० ।।।।
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ।महेन्द्र इव धाराभिः शरैरभिववर्ष ह ।। ६.५६.११ ।।।।
अचिन्तयित्वा बाणौघान् शरीरे पतितान् शितान् ।अकम्पनवधार्थाय मनो दध्रे महाबलः ।। ६.५६.१२ ।।।।
स प्रसह्य महातेजा हनूमान् मारुतात्मजः ।अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ।। ६.५६.१३ ।।।।
तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ।बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ।। ६.५६.१४ ।।।।
आत्मानमप्रहरणं ज्ञात्वा क्रोधसमन्वितः ।शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ।। ६.५६.१५ ।।।।
तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः ।स विनद्य महानादं भ्रामयामास वीर्यवान् ।। ६.५६.१६ ।।।।
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ।पुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ।। ६.५६.१७ ।।।।
अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् ।दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ।। ६.५६.१८ ।।।।
तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् ।विशीर्णं पतितं दृष्ट्वा हनुमान् क्रोधमूर्च्छितः ।। ६.५६.१९ ।।।।
सो ऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ।तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ।। ६.५६.२० ।।।।
तं गृहीत्वा महास्कन्धं सो ऽश्वकर्णं महाद्युतिः ।प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ।। ६.५६.२१ ।।।।
प्रधावन्नूरुवेगेन प्रभञ्जंस्तरसा द्रुमान् ।हनुमान् परमक्रुद्धश्चरणैर्दारयत् क्षितिम् ।। ६.५६.२२ ।।।।
गजांश्च सगजारोहान् सरथान् रथिनस्तथा ।जघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ।। ६.५६.२३ ।।।।
तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् ।हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ।। ६.५६.२४ ।।।।
तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् ।ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ।। ६.५६.२५ ।।।।
स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः ।निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ।। ६.५६.२६ ।।।।
स तदा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः ।हनुमान् ददृशे वीरः प्ररूढ इव सानुमान् ।। ६.५६.२७ ।।।।
विरराज महाकायो महावीर्यो महामनाः ।पुष्पिताशोकसङ्काशो विधूम इव पावकः ।। ६.५६.२८ ।।।।
ततो ऽन्यं वृक्षमुत्पाट्य कत्वा वेगमनुत्तमम् ।शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ।। ६.५६.२९ ।।।।
स वृक्षेण हतस्तेन सक्रोधेन महात्मना ।राक्षशो वानरेन्द्रेण पपात च ममार च ।। ६.५६.३० ।।।।
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ।व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ।। ६.५६.३१ ।।।।
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ।लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ।। ६.५६.३२ ।।।।
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः ।स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ।। ६.५६.३३ ।।।।
अन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात् ।पृष्ठतस्ते सुसम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ।। ६.५६.३४ ।।।।
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ।समेत्य हरयः सर्वे हनुमन्तमपूजयन् ।। ६.५६.३५ ।।।।
सो ऽपि प्रहृष्टस्तान् सर्वान् हरीन् प्रत्यभ्यपूजयत् ।हनुमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ।। ६.५६.३६ ।।।।
विनेदुश्च यथाप्राणं हरयो जितकाशिनः ।चकर्षुश्च पुनस्तत्र सप्राणानपि राक्षसान् ।। ६.५६.३७ ।।।।
स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः ।महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ।। ६.५६.३८ ।।।।
अपूजयन् देवगणास्तदा कपिं स्वयं च रामो ऽतिबलश्च लक्ष्मणः ।तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ।। ६.५६.३९ ।।
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः ।किञ्चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ।। ६.५७.१ ।।।।
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च ।ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः ।पुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम् ।। ६.५७.२ ।।।।
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् ।ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ।। ६.५७.३ ।।।।
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः ।उवाचामर्षतः काले प्रहस्तं युद्धकोविदम् ।। ६.५७.४ ।।।।
पुरस्योपनिविष्टस्य सहसा पीडितस्य वा ।नान्यं युद्धात् प्रपश्यामि मोक्षं युद्धविशारद ।। ६.५७.५ ।।।।
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ।इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ।। ६.५७.६ ।।।।
स त्वं बलमतः शीघ्रमादाय परिगृह्य च ।विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ।। ६.५७.७ ।।।।
निर्याणादेव ते नूनं चपला हरिवाहिनी ।नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ।। ६.५७.८ ।।।।
चपला ह्यविनीताश्च चलचित्ताश्च वानराः ।न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ।। ६.५७.९ ।।।।
विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह ।अवशस्ते निरालम्बः प्रहस्त वशमेष्यति ।। ६.५७.१० ।।।।
आपत् संशयिता श्रेयो न तु निस्संशयीकृता ।प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ।। ६.५७.११ ।।।।
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ।राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ।। ६.५७.१२ ।।।।
राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः ।विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ।। ६.५७.१३ ।।।।
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ।अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ।। ६.५७.१४ ।।।।
सो ऽहं दानैश्च मानैश्च सततं पूजितस्त्वया ।सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ।। ६.५७.१५ ।।।।
न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा ।त्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि ।। ६.५७.१६ ।।।।
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ।उवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान् ।। ६.५७.१७ ।।।।
समानयत मे शीघ्रं राक्षसानां महद्बलम् ।। ६.५७.१८ ।।।।
मद्बाणशतवेगेन हतानां च रणाजिरे ।अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् ।। ६.५७.१९ ।।।।
इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः ।बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे ।। ६.५७.२० ।।।।
सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ।लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ।। ६.५७.२१ ।।।।
हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ।आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ।। ६.५७.२२ ।।।।
स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ।सङ्ग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा ।। ६.५७.२३ ।।।।
सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ।रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ।। ६.५७.२४ ।।।।
अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ।आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ।। ६.५७.२५ ।।।।
हयैर्महाजवैर्युक्तं सम्यक् सूतसुसंयतम् ।महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ।। ६.५७.२६ ।।।।
उरगध्वजदुर्द्धर्षं सुवरूथं स्वपस्करम् ।सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ।। ६.५७.२७ ।।।।
ततस्तं रथमास्थाय रावणार्पितशासनः ।लङ्काया निर्ययौ तूर्णं बलेन महता वृतः ।। ६.५७.२८ ।।।।
ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः ।वादित्राणां च निनदः पूरयन्निव सागरम् ।शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ।। ६.५७.२९ ।।।।
निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः ।भीमरूपा महाकायाः प्रहस्तस्य पुरस्सराः ।। ६.५७.३० ।।।।
नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ।। ६.५७.३१ ।।।।
व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ ।गजयूथनिकाशेन बलेन महता वृतः ।। ६.५७.३२ ।।।।
सागरप्रतिमौघेन वृतस्तेन बलेन सः ।प्रहस्तो निर्ययौ तूर्णं कालान्तकयमोपमः ।। ६.५७.३३ ।।।।
तस्य निर्याणघोषेण राक्षसानां च नर्दताम् ।लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ।। ६.५७.३४ ।।।।
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः ।मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ।। ६.५७.३५ ।।।।
वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ।अन्तरिक्षात् पपातोल्का वायुश्च परुषो ववौ ।। ६.५७.३६ ।।।।
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ।। ६.५७.३७ ।।।।
मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ।ववृषू रुधिरं चास्य सिषिचुश्च पुरस्सरान् ।। ६.५७.३८ ।।।।
केतुमूर्धनि गृध्रो ऽस्य निलीनो दक्षिणामुखः ।तुदन्नुभयतः पार्श्वं समग्रामहरत् प्रभाम् ।। ६.५७.३९ ।।।।
सारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः ।प्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः ।। ६.५७.४० ।।।।
निर्याणश्रीश्च या ऽस्यासीद्भास्वरा वसुदुर्लभा ।सा ननाश मुहूर्तेन समे च स्खलिता हयाः ।। ६.५७.४१ ।।।।
प्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम् ।युधि नानाप्रहरणा कपिसेना ऽभ्यवर्तत ।। ६.५७.४२ ।।।।
अथ घोषः सुतुमुलो हरीणां समजायत ।वृक्षानारुजतां चैव गुर्वीरागृह्णतां शिलाः ।। ६.५७.४३ ।।।।
नदतां राक्षसानां च वानराणां च गर्जताम् ।उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ।। ६.५७.४४ ।।।।
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् ।परस्परं चाह्वयतां निनादः श्रूयते महान् ।। ६.५७.४५ ।।।।
ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः ।विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ।। ६.५७.४६ ।।
ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् ।उवाच सस्मितं रामो विभीषणमरिन्दमः ।। ६.५८.१ ।।।।
क एष सुमहाकायो बलेन महता वृतः ।आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ।। ६.५८.२ ।।।।
राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ।। ६.५८.३ ।।।।
एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ।लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः ।वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे ।। ६.५८.४ ।।।।
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् ।गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ।। ६.५८.५ ।।।।
ददर्श महती सेना वानराणां बलीयसाम् ।अतिसञ्जातरोषाणां प्रहस्तमभिगर्जताम् ।। ६.५८.६ ।।।।
खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च ।गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ।। ६.५८.७ ।।।।
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् ।प्रगृहीतान्यशोभन्त वानरानभिधावताम् ।। ६.५८.८ ।।।।
जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः ।शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ।। ६.५८.९ ।।।।
तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् ।बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ।। ६.५८.१० ।।।।
बहवो राक्षसा युद्धे बहून् वानरयूथपान् ।वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ।। ६.५८.११ ।।।।
शूलैः प्रमथिताः केचित् केचिच्च परमायुधैः ।परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः ।। ६.५८.१२ ।।।।
निरुच्छ्वासाः कृताः केचित् पतिता धरणीतले ।विभिन्नहृदयाः केचिदिषुसन्धानसन्दिताः ।। ६.५८.१३ ।।।।
केचिद्द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि ।वानरा राक्षसैः शूलैः पार्श्वतश्चावदारिताः ।। ६.५८.१४ ।।।।
वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः ।पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले ।। ६.५८.१५ ।।।।
वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।वैमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ।। ६.५८.१६ ।।।।
आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम् ।बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ।। ६.५८.१७ ।।।।
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ।विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ।। ६.५८.१८ ।।।।
नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ।। ६.५८.१९ ।।।।
तेषामापततां शीघ्रं निघ्नतां चापि वानरान् ।द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ।। ६.५८.२० ।।।।
दुर्मुखः पुनरुत्थाय कपिः स विपुलद्रुमम् ।राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ।। ६.५८.२१ ।।।।
जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् ।पातयामास तेजस्वी महानादस्य वक्षसि ।। ६.५८.२२ ।।।।
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् ।वृक्षेणाभिहतो मूर्ध्नि प्राणान् सन्त्याजयद्रणे ।। ६.५८.२३ ।।।।
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ।चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ।। ६.५८.२४ ।।।।
आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा ।क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ।। ६.५८.२५ ।।।।
महता हि शरौघेण प्रहस्तो युद्धकोविदः ।अर्दयामास सङ्क्रुद्धो वानरान् परमाहवे ।। ६.५८.२६ ।।।।
वानराणां शरीरैश्च राक्षसानां च मेदिनी ।बभूव निचिता घोरा पतितैरिव पर्वतैः ।। ६.५८.२७ ।।।।
सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते ।सञ्छन्ना माधवे मासि पलाशैरिव पुष्पितैः ।। ६.५८.२८ ।।।।
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् ।शोणितौघमहातोयां यमसागरगमिनीम् ।। ६.५८.२९ ।।।।
यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् ।भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ।। ६.५८.३० ।।।।
गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् ।मेदःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् ।तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ।। ६.५८.३१ ।।।।
नदीमिव घनापाये हंससारससेविताम् ।राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ।। ६.५८.३२ ।।।।
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ।। ६.५८.३३ ।।।।
ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम् ।ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ।। ६.५८.३४ ।।।।
उद्धूत इव वायुः खे महदभ्रबलं बलात् ।समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ।रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ।। ६.५८.३५ ।।।।
स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ।नीलाय व्यसृजद्बाणान् प्रहस्तो वाहिनीपतिः ।। ६.५८.३६ ।।।।
ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ।महीं जग्मुर्महावेगा रुषिता इव पन्नगाः ।। ६.५८.३७ ।।।।
नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ।स तं परमदुर्धर्षमापतन्तं महाकपिः ।। ६.५८.३८ ।।।।
प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ।। ६.५८.३९ ।।।।
स तेनाभिहतः क्रुद्धो नदन् राक्षसपुङ्गवः ।ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ।। ६.५८.४० ।।।।
तस्य बाणगणान् घोरान् राक्षसस्य महाबलः ।अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः ।। ६.५८.४१ ।।।।
यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ।एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ।निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ।। ६.५८.४२ ।।।।
रोषितः शरवर्षेण सालेन महता महान् ।प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ।। ६.५८.४३ ।।।।
ततः स चापमुद्गृह्य प्रहस्तस्य महाबलः ।बभञ्ज तरसा नीलो ननाद च पुनःपुनः ।। ६.५८.४४ ।।।।
विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ।प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ।। ६.५८.४५ ।।।।
तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ ।स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ।। ६.५८.४६ ।।।।
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ।सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ।। ६.५८.४७ ।।।।
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ ।काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ।। ६.५८.४८ ।।।।
आजघान तदा नीलं ललाटे मुसलेन सः ।प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ।। ६.५८.४९ ।।।।
ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ।प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ।। ६.५८.५० ।।।।
तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत् ।अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् ।। ६.५८.५१ ।।।।
तमुग्रवेगं संरब्धमापतन्तं महाकपिः ।ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ।। ६.५८.५२ ।।।।
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ।प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ।। ६.५८.५३ ।।।।
सा तेन कपिमुख्येन विमुक्ता महती शिला ।बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ।। ६.५८.५४ ।।।।
स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ।पपात सहसा भूमौ छिन्नमूल इव द्रुमः ।। ६.५८.५५ ।।।।
प्रभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् ।शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ।। ६.५८.५६ ।।।।
हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् ।रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ।। ६.५८.५७ ।।।।
न शेकुः समरे स्थातुं निहते वाहिनीपतौ ।सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा ।। ६.५८.५८ ।।।।
हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः ।रक्षःपतिगृहं गत्वा ध्यानमूकत्वमास्थिताः ।प्राप्ताः शोकार्णवं तीव्रं निस्सञ्ज्ञा इव ते ऽभवन् ।। ६.५८.५९ ।।।।
ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा ।समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ।। ६.५८.६० ।।
तस्मिन् हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे ।भीमायुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ।। ६.५९.१ ।।।।
गत्वा ऽथ रक्षोधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् ।तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ।। ६.५९.२ ।।।।
सङ्ख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः ।उवाच तान्नैर्ऋतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान् ।। ६.५९.३ ।।।।
नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ।सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ।। ६.५९.४ ।।।।
सो ऽहं रिपुविनाशाय विजयायाविचारयन् ।स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ।। ६.५९.५ ।।।।
अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् ।निर्दहिष्यामि वाणौघैर्वनं दीप्तैरिवाग्निभिः ।। ६.५९.६ ।।।।
स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम् ।प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ।। ६.५९.७ ।।।।
स शङ्खभैरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः ।पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ।। ६.५९.८ ।।।।
स शैलजीमूतनिकाशरूपैर्मांसादनैः पावकदीप्तनेत्रेः ।बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवासुरेशः ।। ६.५९.९ ।।।।
ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।महार्णवाभ्रस्तनितं ददर्शं समुद्यतं पादपशैलहस्तम् ।। ६.५९.१० ।।।।
तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः ।विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ।। ६.५९.११ ।।।।
नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम् ।सैन्यं गजेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ।। ६.५९.१२ ।।।।
ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः ।शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ।। ६.५९.१३ ।।।।
यो ऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः ।प्रकम्पयन्नागशिरो ऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ।। ६.५९.१४ ।।।।
यो ऽसौ रथस्थो मृगराजकेतुर्धून्वन् धनुः शक्रधनुःप्रकाशम् ।करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ।। ६.५९.१५ ।।।।
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थो ऽतिरथो ऽतिवीरः ।विस्फारयंश्चापमतुल्यमानं नाम्ना ऽतिकायो ऽतिविवृद्धकायः ।। ६.५९.१६ ।।।।
यो ऽसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ।गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ।। ६.५९.१७ ।।।।
यो ऽसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् ।प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषो ऽशनितुल्यवेगः ।। ६.५९.१८ ।।।।
यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किङ्करवज्रवेगम् ।वृषेन्द्रमास्थाय गिरिप्रकाशमायाति यो ऽसौ त्रिशिरा यशस्वी ।। ६.५९.१९ ।।।।
असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः ।समाहितः पन्नगराजकेतुर्विस्फारयन् भाति धनुर्विधून्वन् ।। ६.५९.२० ।।।।
यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य ।आयाति रक्षोबलकेतुभूतस्त्वसौ निकुम्भो ऽद्भुतघोरकर्मा ।। ६.५९.२१ ।।।।
यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् ।रथं समास्थाय विभात्युदग्रो नरान्तको ऽसौ नगशृङ्गयोधी ।। ६.५९.२२ ।।।।
यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः ।भूतैर्वृतो भाति विवृत्तनेत्रैः सो ऽसौ सुराणामपि दर्पहन्ता ।। ६.५९.२३ ।।।।
यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं सूक्ष्मशलाकमग्र्यम् ।अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ।। ६.५९.२४ ।।।।
असौ किरीटी चलुकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः ।महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ।। ६.५९.२५ ।।।।
प्रत्युवाच ततो रामो विभीषणमरिन्दमम् ।अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ।। ६.५९.२६ ।।।।
आदित्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः ।सुव्यक्तं लक्षये ह्यस्य रूपं तेजस्समावृतम् ।। ६.५९.२७ ।।।।
देवदानववीराणां वपुर्नैवंविधं भवेत् ।यादृशं राक्षसेन्द्रस्य वपुरेतत् प्रकाशते ।। ६.५९.२८ ।।।।
सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः ।सर्वे दीप्तायुधधरा योधाश्चास्य महौजसः ।। ६.५९.२९ ।।।।
भाति राक्षसराजो ऽसौ प्रदीप्तैर्भीमविक्रमैः ।भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ।। ६.५९.३० ।।।।
दिष्ट्या ऽयमद्य पापात्मा मम दृष्टिपथं गतः ।अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ।। ६.५९.३१ ।।।।
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ।लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ।। ६.५९.३२ ।।।।
ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि ।द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ।। ६.५९.३३ ।।।।
इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा ।शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः ।। ६.५९.३४ ।।।।
विसर्जयित्वा सहितांस्ततस्तान् गतेषु रक्षस्सु यथानियोगम् ।व्यदारयद्वानरसागरौघं महाझषः पूर्णमिवार्णवौघम् ।। ६.५९.३५ ।।।।
तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् ।महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः ।। ६.५९.३६ ।।।।
तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय ।तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ।। ६.५९.३७ ।।।।
तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विकीर्णे पतिते पृथिव्याम् ।महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः ।। ६.५९.३८ ।।।।
स तं गृहीत्वा ऽनिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् ।बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ।। ६.५९.३९ ।।।।
स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः ।सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौञ्चमिवोग्रशक्तिः ।। ६.५९.४० ।।।।
स सायकार्तो विपरीतचेताः कूजन् पृथिव्यां निपपात वीरः ।तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ।। ६.५९.४१ ।।।।
ततो गवाक्षो गवयः सुदंष्ट्रस्तथर्षभो ज्योतिमुखो नभश्च ।शैलान् समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ।। ६.५९.४२ ।।।।
तेषां प्रहारान् स चकार मोघान् रक्षोधिपो बाणगणैः शिताग्रैः ।तान् वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ।। ६.५९.४३ ।।।।
ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना विपेतुर्भुवि भीमकायाः ।ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ।। ६.५९.४४ ।।।।
ते वध्यमानाः पतिताः प्रवीरा नानद्यमाना भयशल्यविद्धाः ।शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ।। ६.५९.४५ ।।।।
ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम ।तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ।। ६.५९.४६ ।।।।
काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः ।विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ।। ६.५९.४७ ।।।।
तमब्रवीन्महतेजा रामः सत्यपराक्रमः ।। ६.५९.४८ ।।।।
गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ।रावणो हि महावीर्यो रणे ऽद्भुतपराक्रमः ।त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः ।। ६.५९.४९ ।।।।
तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय ।चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः ।। ६.५९.५० ।।।।
राघवस्य वचः श्रुत्वा परिष्वज्याभिपूज्य च ।अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ।। ६.५९.५१ ।।।।
स रावणं वारणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् ।प्रच्छादयन्तं शरवृष्टिजालैस्तान् वानरान् भिन्नविकीर्णदेहान् ।। ६.५९.५२ ।।।।
तमालोक्य महातेजा हनुमान् मारुतात्मजः ।निवार्य शरजालानि प्रदुर्द्राव स रावणम् ।। ६.५९.५३ ।।।।
रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् ।त्रासयन् रावणं धीमान् हनुमान् वाक्यमब्रवीत् ।। ६.५९.५४ ।।।।
देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः ।अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ।। ६.५९.५५ ।।।।
एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ।विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ।। ६.५९.५६ ।।।।
श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः ।संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ।। ६.५९.५७ ।।।।
क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि ।ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ।। ६.५९.५८ ।।।।
रावणस्य वचः श्रुत्वा वायुसूनुर्वचो ऽब्रवीत् ।प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ।। ६.५९.५९ ।।।।
एवमुक्तो महातेजा रावणो राक्षसेश्वरः ।आजघानानिलसुतं तलेनोरसि वीर्यवान् ।। ६.५९.६० ।।।।
स तलाभिहतस्तेन चचाल च मुहुर्मुहुः ।स्थित्वा मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ।आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ।। ६.५९.६१ ।।।।
ततस्तलेनाभिहतो वानरेण महात्मना ।दशग्रीवः समाधूतो यथा भूमिचले ऽचलः ।। ६.५९.६२ ।।तिः ।।।
सङ्ग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ।ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः ।। ६.५९.६३ ।।।।
अथाश्वास्य महातेजा रावणो वाक्यमब्रवीत् ।। ६.५९.६४ ।।।।
साधु वानर वीर्येण श्लाघनीयो ऽसि मे रिपुः ।रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ।। ६.५९.६५ ।।।।
धिगस्तु मम वीर्येण यस्त्वं जीवसि रावण ।सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ।ततस्त्वां मामिका मुष्टिर्नयिष्यति यमक्षयम् ।। ६.५९.६६ ।।।।
ततो मारुतिवाक्येन क्रोदस्तस्य तदा ऽज्वलत् ।। ६.५९.६७ ।।दानीं दुर्बुद्धे किं विकत्थसे ।संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् ।पातयामास वेगेन वानरोरसि वीर्यवान् ।। ६.५९.६८ ।।।।
हनुमान् वक्षसि व्यूढे सञ्चचाल पुनःपुनः ।। ६.५९.६९ ।।।।
विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् ।रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ।। ६.५९.७० ।।।।
राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् ।पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः ।शरैरादीपयामास नीलं हरिचमूपतिम् ।। ६.५९.७१ ।।।।
स शरौघसमायस्तो नीलः कपिचमूपतिः ।करेणैकेन शेलाग्रं रक्षोधिपतये ऽसृजत् ।। ६.५९.७२ ।।।।
हनुमानपि तेजस्वी समाश्वस्तो महामनाः ।विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ।। ६.५९.७३ ।।।।
नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् ।अन्येन युद्ध्यमानस्य न युक्तमभिधावनम् ।। ६.५९.७४ ।।।।
रावणो ऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः ।आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ।। ६.५९.७५ ।।।।
तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः ।कालाग्निरिव जज्वाल क्रोधोन परवीरहा ।। ६.५९.७६ ।।।।
सो ऽश्वकर्णान् धवान् सालांश्चूतांश्चापि सुपुष्पितान् ।अन्यांश्च विविधान् वृक्षान्नीलश्चिक्षेप संयुगे ।। ६.५९.७७ ।।।।
स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः ।अभ्यवर्षत् सुघोरेण शरवर्षेण पावकिम् ।। ६.५९.७८ ।।।।
अभिवृष्टः शरौघेण मेघेनेव महाचलः ।ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ।। ६.५९.७९ ।।।।
पावकात्मजमालोक्य ध्वजाग्रे समुपस्थितम् ।जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ।। ६.५९.८० ।।।।
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् ।लक्ष्मणो ऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ।। ६.५९.८१ ।।।।
रावणो ऽपि महातेजाः कपिलाघवविस्मितः ।अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ।। ६.५९.८२ ।।।।
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवङ्गमाः ।नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ।। ६.५९.८३ ।।।।
वानराणां च नादेन संरब्धो रावणस्तदा ।सम्भ्रमाविष्टहृदयो न किञ्चित् प्रत्यपद्यत ।। ६.५९.८४ ।।।।
आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ।ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ।ततो ऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ।। ६.५९.८५ ।।।।
कपे लाघवयुक्तो ऽसि मायया परया ऽनया ।जीवितं खलु रक्षस्व यदि शक्तो ऽसि वानर ।। ६.५९.८६ ।।।।
तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः ।। ६.५९.८७ ।।।।
तथापि त्वां मया युक्तः सायको ऽस्त्रप्रयोजितः ।जीवतं परिरक्षन्तं जीविताद् भ्रंशयिष्यति ।। ६.५९.८८ ।।।।
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः ।सन्धाय बाणमस्त्रेण चमूपतिमताडयत् ।। ६.५९.८९ ।।।।
सो ऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः ।निर्दह्यमानः सहसा निपपात महीतले ।। ६.५९.९० ।।।।
पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा ।जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ।। ६.५९.९१ ।।।।
विसञ्ज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः ।रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ।। ६.५९.९२ ।।।।
आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन् ।धनुर्विस्फारयामास कम्पयन्निव मेदिनीम् ।। ६.५९.९३ ।।।।
तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् ।अभ्येहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हः ।। ६.५९.९४ ।।।।
स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा ।आसाद्य सौमित्रिमवस्थितं तं कोपान्वितो वाक्यमुवाच रक्षः ।। ६.५९.९५ ।।।।
दिष्ट्या ऽसि मे राघव दृष्टिमार्गं प्राप्तो ऽन्तगामी विपरीतबुद्धिः ।अस्मिन् क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ।। ६.५९.९६ ।।।।
तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् ।राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ।। ६.५९.९७ ।।।।
जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च ।अवस्थितो ऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ।। ६.५९.९८ ।।।।
स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान् सुपुङ्खान् ।तान् लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः ।। ६.५९.९९ ।।।।
तान् प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान् ।लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान् पृषत्कान् ।। ६.५९.१०० ।।।।
स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम् ।क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ।। ६.५९.१०१ ।।।।
स बाणजालान्यथ तानि तानि मोघानि पश्यं स्त्रिदशारिराजः ।विसिष्मिये लक्ष्मणलाघवेन पुनश्च बाणान्निशितान् मुमोच ।। ६.५९.१०२ ।।।।
स लक्ष्मणश्चाशु शरान् शिताग्रान् महेन्द्रवज्राशनितुल्यवेगान् ।सन्धाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोधिपतेर्वधाय ।। ६.५९.१०३ ।।।।
स तान् प्रचिच्छेद हि राक्षसेन्द्रश्छित्त्वा च ताँल्लक्ष्मणमाजघान ।शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ।। ६.५९.१०४ ।।।।
स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य ।पुनश्च सञ्ज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ।। ६.५९.१०५ ।।।।
निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रः ।स सायकार्तो विचचाल राजा कृच्छ्राच्च सञ्ज्ञां पुनराससाद ।। ६.५९.१०६ ।।।।
स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः ।जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ।। ६.५९.१०७ ।।।।
स तां विधूमानलसन्निकाशां वित्रासिनीं वानरवाहिनीनाम् ।चिक्षेप शक्तिं तरसाज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ।। ६.५९.१०८ ।।।।
तामापतन्तीं भरतानुजोग्रैर्जघान बाणैश्च हुताग्निकल्पैः ।तथापि सा तस्य विवेश शक्तिर्बाह्वन्तरं दाशरथेर्विशालम् ।। ६.५९.१०९ ।।।।
स शक्तिमान् शक्तिसमाहतः सन् मुहुः प्रजज्वाल रघुप्रवीरः ।तं विह्वलन्तं सहसा ऽभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ।। ६.५९.११० ।।।।
हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ।शक्यं भुजाभ्यामुद्धर्तु न सङ्ख्ये भरतानुजः ।। ६.५९.१११ ।।।।
शक्त्या ब्राह्म्या ऽपि सौमित्रिस्ताडितस्तु स्तनान्तरे ।विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् ।। ६.५९.११२ ।।।।
ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः ।तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घने ऽभवत् ।अथैवं वैष्णवं भागं मानुषं देहमास्थितम् ।। ६.५९.११३ ।।।।
अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् ।आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ।। ६.५९.११४ ।।।।
तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ।जानुभ्यामपतद्भूमौ चचाल च पपात च ।। ६.५९.११५ ।।।।
आस्यैः सनेत्रश्रवणैर्ववाम रुधिरं बहु ।। ६.५९.११६ ।।।।
विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ।विसञ्ज्ञो मूर्च्छितश्चासीन्न च स्थानं समालभत् ।। ६.५९.११७ ।।।।
विसञ्ज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ।ऋषयो वानराः सर्वे नेदुर्देवाः सवासवाः ।। ६.५९.११८ ।।।।
हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ।अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ।। ६.५९.११९ ।।।।
वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।शत्रूणामप्रकम्प्यो ऽपि लघुत्वमगमत् कपेः ।। ६.५९.१२० ।।।।
तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।रावणस्य रथे तस्मिन् स्थानं पुनरुपागता ।। ६.५९.१२१ ।।।।
आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ।। ६.५९.१२२ ।।।।
रावणो ऽपि महातेजाः प्राप्य सञ्ज्ञां महाहवे ।आददे निशितान् बाणान् जग्राह च महद्धनुः ।। ६.५९.१२३ ।।।।
निपातितमहावीरां द्रवन्तीं वानरीं चमूम् ।राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ।। ६.५९.१२४ ।।।।
अथैनमुपसङ्गम्य हनुमान् वाक्यमब्रवीत् ।मम पृष्टं समारुह्य राक्षसं शास्तुमर्हसि ।। ६.५९.१२५ ।।।।
विष्णुर्यथा गरुत्मन्तं बलवन्तं समाहितः ।तच्छुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ।आरुरोह महाशूरो बलवन्तं महाकपिम् ।। ६.५९.१२६ ।।।।
रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः ।। ६.५९.१२७ ।।।।
ा राघवो वाक्यं वायुपुत्रेण भाषितम् ।तमालोक्य माहतेजाः प्रदुद्राव स राघवः ।वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ।। ६.५९.१२८ ।।।।
ज्याशब्दमकरोत्तीवं वज्रनिष्पेषनिस्वनम् ।। ६.५९.१२९ ।।।।
गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ।। ६.५९.१३० ।। ।।।
तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीद्दशम् ।क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ।। ६.५९.१३१ ।।।।
यदीन्द्रवैवस्वतभास्करान् वा स्वयम्भुवैश्वानरशङ्करान् वा ।गमिष्यसि त्वं दश वा दिशो ऽथवा तथापि मे नाद्य गतो विमोक्ष्यसे ।। ६.५९.१३२ ।।।।
यश्चैव शक्त्या ऽभिहतस्त्वया ऽद्य इच्छन् विषादं सहसा ऽभ्युपेतः ।स एव रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्ययुद्धे ।। ६.५९.१३३ ।।।।
एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि ।चतुर्दशान्यात्तवरायुधानि रक्षस्सहस्राणि निषूदितानि ।। ६.५९.१३४ ।।।।
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् ।वायुपुत्रं महावीर्यं वहन्तं राघवं रणे ।आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ।। ६.५९.१३५ ।।।।
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ।स्वभावतेजोयुक्तस्य भूयस्तेजो ऽभ्यवर्धत ।। ६.५९.१३६ ।।।।
ततो रामो महातेजा रावणेन कृतव्रणम् ।दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ।। ६.५९.१३७ ।।।।
तस्याभिचङ्क्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् ।ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ।। ६.५९.१३८ ।।।।
अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसन्निभेन ।भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ।। ६.५९.१३९ ।।।।
यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा ।स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ।। ६.५९.१४० ।।।।
तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् ।तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा ।। ६.५९.१४१ ।।।।
तं निर्विषाशीविषसन्निकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् ।गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ।। ६.५९.१४२ ।।।।
कृतं त्वया कर्म महत् सुभीमं हतप्रवीरश्च कृतस्त्वया ऽहम् ।तस्मात् परिश्रान्त इव व्यवस्य न त्वां शरैर्मृत्युवशं नयामि ।। ६.५९.१४३ ।।।।
गच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् ।आश्वास्य निर्याहि रथी च धन्वी तदा बलं द्रक्ष्यसि मे रथस्थः ।। ६.५९.१४४ ।।।।
स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः ।शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स राजा ।। ६.५९.१४५ ।।।।
तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ ।हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परमाहवाग्रे ।। ६.५९.१४६ ।।।।
तस्मिन् प्रभिन्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च ।ससागराः सर्षिमहोरागाश्च तथैव भूम्यम्बुचराश्च हृष्टाः ।। ६.५९.१४७ ।।
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः ।भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ।। ६.६०.१ ।।।।
मातङ्ग इव सिंहेन गरुडेनेव पन्नगः ।अभिभूतो ऽभवद्राजा राघवेण महात्मना ।। ६.६०.२ ।।।।
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् ।स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः ।। ६.६०.३ ।।।।
स काञ्चनमयं दिव्यमाश्रित्य परमासनम् ।विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ।। ६.६०.४ ।।।।
सर्वं तत् खलु मे मोघं यत्तप्तं परमं तपः ।यत् समानो महेन्द्रेण मानुषेणास्मि निर्जितः ।। ६.६०.५ ।।।।
इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् ।मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ।। ६.६०.६ ।।।।
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ।। ६.६०.७ ।।।।
विदितं मानुषं मन्ये रामं दशरथात्मजम् ।इक्ष्वाकुकुलनाथेन अनरण्येन यत्पुरा ।। ६.६०.८ ।।।।
उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम ।यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ।निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते ।। ६.६०.९ ।।।।
शप्तो ऽहं वेदवत्या च यदा सा धर्षिता पुरा ।सेयं सीता महाभागा जाता जनकनन्दिनी ।। ६.६०.१० ।।।।
उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ।यथोक्तास्तपसा प्राप्तं न मिथ्या ऋषिभाषितम् ।। ६.६०.११ ।।।।
एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ ।राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्द्धसु ।। ६.६०.१२ ।।।।
स चाप्रतिमगाम्भीरो देवदानवदर्पहा ।ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ।। ६.६०.१३ ।।।।
स पराजितमात्मानं प्रहस्तं च निषूदितम् ।ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ।। ६.६०.१४ ।।।।
द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम् ।निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ।। ६.६०.१५ ।।।।
सुखं स्वपिति निश्चिन्तः कालोपहतचेतनः ।नव षट् सप्त चाष्टौ च मासान् स्वपिति राक्षसः ।। ६.६०.१६ ।।।।
मन्त्रयित्वा प्रसुप्तो ऽयमितस्तु नवमे ऽहनि ।तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् ।। ६.६०.१७ ।।।।
स तु सङ्ख्ये महाबाहुः ककुदः सर्वरक्षसाम् ।वानरान् राजपुत्रौ च क्षिप्रमेव वधिष्यति ।। ६.६०.१८ ।।।।
एष केतुः परः सङ्ख्ये मुख्यो वै सर्वरक्षसाम् ।कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ।। ६.६०.१९ ।।।।
रामेण हि निरस्तस्य सङ्ग्रामे ऽस्मिन् सुदारुणे ।भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ।। ६.६०.२० ।।।।
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ।ईद्दशे व्यसने प्राप्ते यो न साह्याय कल्पते ।। ६.६०.२१ ।।।।
ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ।जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ।। ६.६०.२२ ।।।।
ते रावणसमादिष्टा मांसशोणितभोजनाः ।गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः ।। ६.६०.२३ ।।।।
तां प्रविश्य महाद्वारां सर्वतो योजनायताम् ।कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् ।। ६.६०.२४ ।।।।
कुम्भकर्णस्य निश्वासादवधूता महाबलाः ।प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम् ।। ६.६०.२५ ।।।।
तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् ।ददृशुर्नैर्ऋतव्याघ्रं शयानं भीमदर्शनम् ।। ६.६०.२६ ।।।।
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ।कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् ।। ६.६०.२७ ।।।।
ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् ।त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ।। ६.६०.२८ ।।।।
भीमनासापुटं तं तु पातालविपुलाननम् ।शय्यायां न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ।। ६.६०.२९ ।।।।
काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम् ।ददृशुर्नैर्ऋतव्याघ्रं कुम्भकर्णं महाबलम् ।। ६.६०.३० ।।।।
ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा ।मांसानां मेरुसङ्काशं राशिं परमतर्पणम् ।। ६.६०.३१ ।।।।
मृगाणां महिषाणां च वराहाणां च सञ्चयान् ।चकुर्नैर्ऋतशार्दूला राशिमन्नस्य चाद्भुतम् ।। ६.६०.३२ ।।।।
ततः शोणितकुम्भांश्च मद्यानि विविधानि च ।। ६.६०.३३ ।।।।
पुरस्तात् कुम्भकर्णस्य चकुस्त्रिदशशत्रवः ।लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् ।। ६.६०.३४ ।।।।
दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः ।धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् ।। ६.६०.३५ ।।।।
जलदा इव चोन्नेदुर्यातुधानास्ततस्ततः ।शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् ।तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ।। ६.६०.३६ ।।।।
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः ।कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ।। ६.६०.३७ ।।।।
सशङ्खभेरीपणवप्रणादमास्फोटितक्ष्वेलितसिंहनादम् ।दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः ।। ६.६०.३८ ।।।।
यदा भृशार्तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः ।ततो मुसुण्ठीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ।। ६.६०.३९ ।।।।
तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च ।सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ।। ६.६०.४० ।।।।
तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः ।राक्षसा बलवन्तो ऽपि स्थातुं नाशक्नुवन् पुरः ।। ६.६०.४१ ।।।।
ततः परिहिता गाढं राक्षसा भीमविक्रमाः ।। ६.६०.४२ ।।।।
मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तदा ।दशराक्षससाहस्रा युगपत् पर्यवादयन् ।। ६.६०.४३ ।।।।
नीलाञ्जनचयाकारास्ते तु तं प्रत्यबोधयन् ।अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः ।। ६.६०.४४ ।।।।
यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ।ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् ।। ६.६०.४५ ।।।।
अश्वानुष्ट्रान् खरान्नागान् जघ्नुर्दण्डकशाङ्कुशैः ।भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ।। ६.६०.४६ ।।।।
निजघ्नुश्चास्य गात्राणि महाकाष्ठकटङ्करैः ।मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः ।। ६.६०.४७ ।।।।
तेन शब्देन महता लङ्का समभिपूरिता ।सपर्वतवना सर्वा सो ऽपि नैव प्रबुध्यते ।। ६.६०.४८ ।।।।
ततः सहस्रं भेरीणां युगपत् समहन्यत ।मृष्टकाञ्चनकोणानामासक्तानां समन्ततः ।। ६.६०.४९ ।।।।
एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते ।शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ।महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ।। ६.६०.५० ।।।।
तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ।। ६.६०.५१ ।।।।
स्ततः क्रुद्धा निशाचराः ।अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् ।केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ।। ६.६०.५२ ।।।।
उदकुम्भशतान्यन्ये समसिञ्चन्त कर्णयोः ।न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ।। ६.६०.५३ ।।।।
अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ।मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् ।। ६.६०.५४ ।।।।
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः ।वध्यमानो महाकायो न प्राबुध्यत राक्षसः ।। ६.६०.५५ ।।।।
वारणानां सहस्रं तु शरीरे ऽस्य प्रधावितम् ।कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ।। ६.६०.५६ ।।।।
स पात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान् विपुलान् प्रहारान् ।निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ।। ६.६०.५७ ।।।।
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ ।विवृत्य वक्त्रं वडवामुखाभं निशाचरो ऽसौ विकृतं जजृम्भे ।। ६.६०.५८ ।।।।
तस्य जाजृम्भमाणस्य वक्त्रं पातालसन्निभम् ।ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ।। ६.६०.५९ ।।।।
स जृम्भमाणो ऽतिबलः प्रतिबुद्धो निशाचरः ।निःश्वासश्चास्य सञ्जज्ञे पर्वतादिव मारुतः ।। ६.६०.६० ।।।।
रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ ।तपान्ते सबलाकस्य मेघस्येव विवर्षतः ।। ६.६०.६१ ।।।।
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ।ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ।। ६.६०.६२ ।।।।
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् ।वराहान् महिषांश्चैव स बभक्ष महाबलः ।। ६.६०.६३ ।।।।
अदन् बुभुक्षितो मांसं शोणितं तृषितः पिबन् ।मेदःकुम्भांश्च मद्यं च पपौ शक्ररिपुस्तदा ।। ६.६०.६४ ।।।।
ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः ।शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ।। ६.६०.६५ ।।।।
निद्राविश ऽदनेत्रस्तु कलुषीकृतलोचनः ।चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान् ।। ६.६०.६६ ।।।।
स सर्वान् सान्त्वयामास नैर्ऋतान्नैर्ऋतर्षभः ।बोधनाद् विस्मितश्चापि राक्षसानिदमब्रवीत् ।। ६.६०.६७ ।।।।
किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः ।कच्चित् सुकुशलं राज्ञो भयवानेष वा न किम् ।। ६.६०.६८ ।।।।
अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् ।यदर्थमेवं त्वरितैर्भवद्भिः प्रतिबोधितः ।। ६.६०.६९ ।।।।
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् ।पातयिष्ये महेन्द्रं वा शातयिष्ये तथा ऽनलम् ।। ६.६०.७० ।।।।
न ह्यल्पकारणे सुप्तं बोधयिष्यति मां गुरुः ।तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ।। ६.६०.७१ ।।।।
एवं ब्रुवाणं संरब्धं कुम्भकर्णं महाबलम् ।यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह ।। ६.६०.७२ ।।।।
न नो दैवकृतं किञ्चिद्भयमस्ति कदाचन ।मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते ।। ६.६०.७३ ।।।।
न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् ।यादृशं मानुषं राजन् भयमस्मानुपस्थितम् ।। ६.६०.७४ ।।।।
वानरैः पर्वताकारैर्लङ्केयं परिवारिता ।सीताहरणसन्तप्ताद्रामान्नस्तुमुलं भयम् ।। ६.६०.७५ ।।।।
एकेन वानरेणेयं पूर्वं दग्धा महापुरी ।कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ।। ६.६०.७६ ।।।।
स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः ।मृतेति संयुगे मुक्तो रामेणादित्यतेजसा ।। ६.६०.७७ ।।।।
यन्न दैवैः कृतो राजा नापि दैत्यैर्न दानवैः ।कृतः स इह रामेण विमुक्तः प्राणसंशयात् ।। ६.६०.७८ ।।।।
स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् ।कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ।। ६.६०.७९ ।।।।
सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् ।राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् ।। ६.६०.८० ।।।।
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः ।रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ।। ६.६०.८१ ।।।।
तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् ।महोदरो नैर्ऋतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ।। ६.६०.८२ ।।।।
रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च ।पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि ।। ६.६०.८३ ।।।।
महोदरवचः श्रुत्वा राक्षसैः परिवारितः ।कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ।। ६.६०.८४ ।।।।
तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् ।राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ।। ६.६०.८५ ।।।।
ततो गत्वा दशग्रीवमासीनं परमासने ।ऊचुर्बद्धाञ्जलिपुटाः सर्वे एव निशाचराः ।। ६.६०.८६ ।।।।
प्रबुद्धः कुम्भकर्णो ऽयं भ्राता ते राक्षसर्षभ ।कथं तत्रैव निर्यातु द्रक्ष्यस्येनमिहागतम् ।। ६.६०.८७ ।।।।
रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् ।द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ।। ६.६०.८८ ।।।।
तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः ।कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ।। ६.६०.८९ ।।।।
द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः ।गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय ।। ६.६०.९० ।।।।
कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् ।तथेत्युक्त्वा महाबाहुः शयनादुत्पपात ह ।। ६.६०.९१ ।।।।
प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः ।पिपासुस्त्वरयामास पानं बलसमीरणम् ।। ६.६०.९२ ।।।।
ततस्ते त्वरितास्तस्य राक्षसा रावणाज्ञया ।मद्यकुम्भांश्च विविधान् क्षिप्रमेवोपहारयन् ।। ६.६०.९३ ।।।।
पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे ।ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः ।कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ।। ६.६०.९४ ।।।।
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितः ।कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।। ६.६०.९५ ।।।।
स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः ।जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः ।। ६.६०.९६ ।।।।
तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिः स्थिताः ।दृष्ट्वा ऽप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते हरियूथपालाः ।। ६.६०.९७ ।।।।
केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्व्यथिताः पतन्ति ।केचिद्दिशः स्म व्यथिताः प्रयान्ति केचिद्भयार्ता भुवि शेरते स्म ।। ६.६०.९८ ।।।।
तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा ।वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे ततस्ततः ।। ६.६०.९९ ।।
ततो रामो भहातेजा धनुरादाय वीर्यवान् ।किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ।। ६.६१.१ ॥
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ।सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् ।। ६.६१.२ ॥
दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ।। ६.६१.३ ॥
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् ।सविस्मयमिदं रामो विभीषणमुवाच ह ।। ६.६१.४ ॥
को ऽसौ पर्वतसङ्काशः किरीटी हरिलोचनः ।लङ्कायां दृश्यते वीर सविद्युदिव तोयदः ।। ६.६१.५ ॥
पृथिव्याः केतुभूतो ऽसौ महानेको ऽत्र दृश्यते ।यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ।। ६.६१.६ ॥
आचक्ष्व मे महान् को ऽसौ रक्षो वा यदि वा ऽसुरः ।न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ।। ६.६१.७ ॥
स पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा ।विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ।। ६.६१.८ ॥
येन वैवस्वतो युद्धे वासवश्च पराजितः ।सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ।अस्य प्रमाणात् सदृशो राक्षसो ऽन्यो न विद्यते ।। ६.६१.९ ॥
एतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिताशनाश्च ।गन्धर्वविद्याधरकिन्नराश्च सहस्रशो राघव सम्प्रभग्राः ।। ६.६१.१० ॥
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।हन्तुं न शेकुस्त्रिदशाः कालो ऽयमिति मोहिताः ।। ६.६१.११ ॥
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ।। ६.६१.१२ ॥
एतेन जातमात्रेण क्षुधार्तेन महात्मना ।भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ।। ६.६१.१३ ॥
तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः ।यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ।। ६.६१.१४ ॥
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री ।स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ।। ६.६१.१५ ॥
तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः ।श्रुत्वा ऽतिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ।। ६.६१.१६ ॥
तत्र कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः ।विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ।। ६.६१.१७ ॥
कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः ।ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ।। ६.६१.१८ ॥
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः ।कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ।। ६.६१.१९ ॥
प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ।आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ।। ६.६१.२० ॥
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।अचिरेणैव कालेन शून्यो लोको भविष्यति ।। ६.६१.२१ ॥
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ।। ६.६१.२२ ॥
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।दृष्ट्वा विश्वास्य चैवेदं स्वयम्भूरिदमब्रवीत् ।। ६.६१.२३ ॥
ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः ।तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ।। ६.६१.२४ ॥
ब्रह्मशापाभिभूतो ऽथ निपपाताग्रतः प्रभोः ।ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ।। ६.६१.२५ ॥
विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ।न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ।। ६.६१.२६ ॥
न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ।कालस्तु क्रियतामस्य शयने जागरे तथा ।। ६.६१.२७ ॥
रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ।। ६.६१.२८ ॥
शयति ह्येष षण्मासानेकाहं जागरिष्यति ।एकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः ।व्यात्तास्यो भक्षयेल्लोकान् सक्रुद्ध इव पावकः ।। ६.६१.२९ ॥
सो ऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् ।त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ।। ६.६१.३० ॥
स एष निर्गतो वीरः शिबिराद्भीमविक्रमः ।वानरान् भृशसङ्क्रुद्धो भक्षयन् परिधावति ।। ६.६१.३१ ॥
कुम्भकर्णं समीक्ष्यैव हरयो ऽद्य प्रविद्रुताः ।कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ।। ६.६१.३२ ॥
उच्यन्तां वानराः सर्वे यन्त्रमेतत् समुच्छ्रितम् ।इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ।। ६.६१.३३ ॥
विभीषणवचः श्रुत्वा हेतुमत् सुमुखेरितम् ।उवाच राघवो वाक्यं नीलं सेनापतिं तदा ।। ६.६१.३४ ॥
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् ।। ६.६१.३५ ॥
शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहर ।तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ।। ६.६१.३६ ॥
राघवेण समादिष्टो नीलो हरिचमूपतिः ।शशास वानरानीकं यथावत् कपिकुञ्जरः ।। ६.६१.३७ ॥
ततो गवाक्षः शरभो हनुमानङ्गदस्तथा ।शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ।। ६.६१.३८ ॥
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः ।पादपैरर्दयन् वीरा वानराः परवाहिनीम् ।। ६.६१.३९ ॥
ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतदीप्तहस्तम् ।गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ।। ६.६१.४० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकषष्टितमः सर्गः ।। ६१ ।।
स तु राक्षसशार्दूलो निद्रामदसमाकुलः ।राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ।। ६.६२.१ ।।
राक्षसानां सहस्रैश्च वृतः परमदुर्जयः ।गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ।। ६.६२.२ ।।
स हेमजालिविततं भानुभास्वरदर्शनम् ।ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ।। ६.६२.३ ।।
स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेर्निवेशम् ।ददर्श दूरे ऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ।। ६.६२.४ ।।
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितम् ।कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।। ६.६२.५ ।।
सो ऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ।ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ।। ६.६२.६ ।।
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् ।तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ।। ६.६२.७ ।।
अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः ।भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ।। ६.६२.८ ।।
उत्पत्य चैनं मुदितो रावणः परिषस्वजे ।स भ्रात्रा सम्परिष्वक्तो यथावच्छाभिनन्दितः ।। ६.६२.९ ।।
कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ।स तदासनमाश्रित्य कुम्भकर्णो महाबलः ।संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ।। ६.६२.१० ।।
किमर्थमहमादृत्य त्वया राजन् विबोधितः ।शंस कस्माद्भयं ते ऽस्ति को ऽद्य प्रेतो भविष्यति ।। ६.६२.११ ।।
भ्रातरं रावणः कुद्धं कुम्भकर्णमवस्थितम् ।ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ।। ६.६२.१२ ।।
अद्य ते सुमहान् कालः शयानस्य महाबल ।सुखितस्त्वं न जानीषे मम रामकृतं भयम् ।। ६.६२.१३ ।।
एष दाशरथी रामः सुग्रीवसहितो बली ।समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ।। ६.६२.१४ ।।
हन्त पश्यस्व लङ्कायां वनान्युपवनानि च ।सेतुना सुखमागम्य वानरैकार्णवीकृतम् ।। ६.६२.१५ ।।
ये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि ।वानराणां क्षयं युद्धे न पश्यामि कदाचन ।। ६.६२.१६ ।।
न चापि वानरा युद्धे जितपूर्वाः कदाचन ।। ६.६२.१७ ।।
तदेतद्भयमुत्पन्नं त्रायस्वेमां महाबल ।नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ।। ६.६२.१८ ।।
सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् ।त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ।। ६.६२.१९ ।।
भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ।मयैवं नोक्तपूर्वो हि कच्चिद् भ्रातः परन्तप ।। ६.६२.२० ।।
त्वय्यस्ति तु मम स्नेहः परा सम्भावना च मे ।दैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ ।त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ।। ६.६२.२१ ।।
तदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम ।न हि ते सर्वभूतेषु दृश्यते सदृशो बली ।। ६.६२.२२ ।।
कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरणबान्धवप्रिय ।स्वतेजसा विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ।। ६.६२.२३ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विषष्टितमः सर्गः ।। ६२ ।।
तस्य राक्षसराजस्य निशम्य परिदेवितम् ।कुम्भकर्णो बभाषेदं वचनं प्रजहास च ।। ६.६३.१ ।।
दृष्टो दोषो हि यो ऽस्माभिः पुरा मन्त्रविनिर्णये ।हितेष्वनभिरक्तेन सो ऽयमासादितस्त्वया ।। ६.६३.२ ।।
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ।। ६.६३.३ ।।
प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ।केवलं वीर्यदर्पेण नानुबन्धो विचारितः ।। ६.६३.४ ।।
यः पश्चात् पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।पूर्वं चापरकार्याणि न स वेद नयानयौ ।। ६.६३.५ ।।
देशकालविहीनानि कर्माणि विपरीतवत् ।क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।। ६.६३.६ ।।
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति ।सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ।। ६.६३.७ ।।
यथागमं च यो राजा समयं विचिकीर्षति ।बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति ।। ६.६३.८ ।।
धर्ममर्थं च कामं च सर्वान् वा रक्षसां पते ।भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ।। ६.६३.९ ।।
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ।। ६.६३.१० ।।
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ।। ६.६३.११ ।।
काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह ।निषेवेतात्मवान् लोके न स व्यसनमाप्नुयात् ।। ६.६३.१२ ।।
हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः ।राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीवति ।। ६.६३.१३ ।।
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ।। ६.६३.१४ ।।
अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ।। ६.६३.१५ ।।
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ।। ६.६३.१६ ।।
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ।विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ।। ६.६३.१७ ।।
तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये ।व्यवहारेण जानीयात् सचिवानुपसंहितान् ।। ६.६३.१८ ।।
चपलस्येह कृत्यानि सहसानुप्रधावतः ।छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य स्वमिव द्विजाः ।। ६.६३.१९ ।।
यो हि शत्रुमविज्ञाय नात्मानमभिरक्षति ।अवाप्नोति हि सो ऽनर्थान् स्थानाच्च व्यवरोप्यते ।। ६.६३.२० ।।
यदुक्तमिह ते पूर्वं क्रियतामनुजेन च ।तदेव नो हितं कार्यं यदिच्छसि च तत् कुरु ।। ६.६३.२१ ।।
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमभाषत ।। ६.६३.२२ ।।
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि ।किमेवं वाक्छ्रमं कृत्वा युक्तं विधीयताम् ।। ६.६३.२३ ।।
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ।नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कथाः ।। ६.६३.२४ ।।
अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम् ।गतं तु नानुशोचन्ति गतं तु गतमेव हि ।। ६.६३.२५ ।।
ममापनयजं दोषं विक्रमेण समीकुरु ।यदि खल्वस्ति मे स्नेहो विक्रमं वा ऽवगच्छसि ।यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ।। ६.६३.२६ ।।
स सुहृद् यो विपन्नार्थं दीनमभ्यवपद्यते ।स बन्धुर्यो ऽपनीतेषु साहाय्यायोपकल्पते ।। ६.६३.२७ ।।
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ।रुष्टो ऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ।। ६.६३.२८ ।।
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ।कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ।। ६.६३.२९ ।।
अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते ।रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ।। ६.६३.३० ।।
नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव ।तमहं नाशयिष्यामि यत्कृते परितप्यसे ।। ६.६३.३१ ।।
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ।। ६.६३.३२ ।।
सदृशं यत्तु काले ऽस्मिन् कर्तुं स्निग्धेन बन्धुना ।शत्रूणां कदनं पश्य क्रियमाणं मया रणे ।। ६.६३.३३ ।।
अद्य पश्य महाबाहो मया समरमूर्धनि ।हते रामे सह भ्रात्रा द्रवन्तीं परवाहिनीम् ।। ६.६३.३४ ।।
अद्य रामस्य तद् दृष्ट्वा मया ऽ ऽनीतं रणाच्छिरः ।सुखी भव महाबाहो सीता भवतु दुःखिता ।। ६.६३.३५ ।।
अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम् ।लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ।। ६.६३.३६ ।।
अद्य शोकपरीतानां स्वबन्धुवधकारणात् ।शत्रोर्युधि विनाशेन करोम्यास्रप्रमार्जनम् ।। ६.६३.३७ ।।
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् ।विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ।। ६.६३.३८ ।।
कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः ।जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ।। ६.६३.३९ ।।
अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः ।नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ।। ६.६३.४० ।।
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप ।न परः प्रेषणीयस्ते युद्धायातुलविक्रम ।। ६.६३.४१ ।।
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ।। ६.६३.४२ ।।
यदि शक्रो यदि यमो यदि पावकमारुतौ ।तानहं योधयिष्यामि कुबेरवरुणावपि ।। ६.६३.४३ ।।
गिरिमात्रशरीरस्य शितशूलधरस्य मे ।नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ।। ६.६३.४४ ।।
अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ।न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ।। ६.६३.४५ ।।
नैव शक्त्या न गदया नासिना निशितैः शरैः ।हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ।। ६.६३.४६ ।।
यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यते ।ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ।। ६.६३.४७ ।।
चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति ।सो ऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ।। ६.६३.४८ ।।
मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे ।राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ।। ६.६३.४९ ।।
हरींश्चापि हनिष्यामि संयुगे समवस्थितान् ।असाधारणमिच्छामि तव दातुं महद्यशः ।। ६.६३.५० ।।
यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः ।। ६.६३.५१ ।।
अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ।आदित्यं पातयिष्यामि सनक्षत्रं महीतले ।। ६.६३.५२ ।।
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ।पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ।। ६.६३.५३ ।।
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ।अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ।। ६.६३.५४ ।।
नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ।। ६.६३.५५ ।।
वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि ।निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ।। ६.६३.५६ ।।
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।मया ऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ।। ६.६३.५७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिषष्टितमः सर्गः ।। ६३ ।।
तदुक्तमतिकायस्य बलिनो बाहुशालिनः।कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ।। ६.६४.१ ।।
कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः।अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ।। ६.६४.२ ।।
न हि राजा न जानीते कुम्भकर्ण नयानयौ।त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ।। ६.६४.३ ।।
स्थानं वृद्धिं च हानिं च देशकालविभागवित्।आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ।। ६.६४.४ ।।
यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना।अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ।। ६.६४.५ ।।
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्।अनुबोद्धुं स्वभावे तान्नहि लक्षणमस्ति ते ।। ६.६४.६ ।।
कर्म चैव हि सर्वेषां कारणानां प्रयोजकम्।श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ।। ६.६४.७ ।।
निश्श्रेयसफलावेव धर्मार्थावितरावपि।अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ।। ६.६४.८ ।।
एहलौकिकपारत्रं कर्म पुम्भिर्निषेव्यते।कर्माण्यपि तु कल्याणि लभते काममास्थितः ।। ६.६४.९ ।।
तत्र क्लृप्तमिदं राज्ञा हृदि कार्यं मतं च नः।शत्रौ हि साहसं यत् स्यात् किमिवात्रापनीयताम् ।। ६.६४.१० ।।
एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया।तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ।। ६.६४.११ ।।
येन पूर्वं जनस्थाने बहवो ऽतिबला हताः।राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ।। ६.६४.१२ ।।
ये पुरा निर्जितास्तेन जनस्थाने महौजसः।राक्षसांस्तान् पुरे सर्वान् भीतानद्यापि पश्यसि ।। ६.६४.१३ ।।
तं सिंहमिव सङ्क्रुद्धं रामं दशरथात्मजम्।सर्पं सुप्तमिवाबुध्य प्रबोधयितुमिच्छसि ।। ६.६४.१४ ।।
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्।कस्तं मृत्युमिवासह्यमासादयितुमर्हति ।। ६.६४.१५ ।।
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने।एकस्य गमनं तत्र नहि मे रोचते भृशम् ।। ६.६४.१६ ।।
हीनार्थः सुसमृद्धार्थं को रिपुं प्राकृतं यथा।निश्चित्य जीवितत्यागे वशमानेतुमिच्छति ।। ६.६४.१७ ।।
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम।कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ।। ६.६४.१८ ।।
एवमुक्त्वा तु संरब्धः कुम्भकर्णं महोदरः।उवाच रक्षसां मध्ये रावणं लोकरावणम् ।। ६.६४.१९ ।।
लब्ध्वा पुनस्त्वं वैदेहीं किमर्थं सम्प्रजल्पसि।यदीच्छसि तदा सीता वशगा ते भविष्यति ।। ६.६४.२० ।।
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः।रुचिरश्चेत् स्वया बुद्ध्या राक्षसेश्वर तं शृणु ।। ६.६४.२१ ।।
अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः।पञ्च रामवधायैते निर्यान्तीत्यवघोषय ।। ६.६४.२२ ।।
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः।जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ।। ६.६४.२३ ।।
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः।ततस्तदभिपत्स्यामो मनसा यत् समीक्षितम् ।। ६.६४.२४ ।।
वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः।विदार्यं स्वतनुं बाणै रामनामाङ्कितैः शितैः ।। ६.६४.२५ ।।
भक्षितो राघवो ऽस्माभिर्लक्ष्मणश्चेति वादिनः।तव पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय ।। ६.६४.२६ ।।
ततो ऽवघोषय पुरे गजस्कन्धेन पार्थिव।हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ।। ६.६४.२७ ।।
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिन्दम।भोगांश्च परिवारांश्च कामांश्च वसु दापय ।। ६.६४.२८ ।।
ततो माल्यानि वासांसि वीराणामनुलेपनम्।पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ।। ६.६४.२९ ।।
ततो ऽस्मिन् बहुलीभूते कौलीने सर्वतो गते।भक्षितः ससुहृद्रामो राक्षसैरिति विश्रुते ।। ६.६४.३० ।।
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय।धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ।। ६.६४.३१ ।।
अनयोपधया राजन् भयशोकानुबन्धया।अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ।। ६.६४.३२ ।।
रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा।नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ।। ६.६४.३३ ।।
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता।त्वय्यधीनं सुखं ज्ञात्वा सर्वथोपगमिष्यति ।। ६.६४.३४ ।।
एतत् सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः।इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ।। ६.६४.३५ ।।
अदृष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयन् नराधिपः।यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ।। ६.६४.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुष्षष्ठितमः सर्गः ।। ६४ ।।
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् ।विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ।। ६.६३.३८ ।।
कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः ।जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ।। ६.६३.३९ ।।
अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः ।नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ।। ६.६३.४० ।।
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप ।न परः प्रेषणीयस्ते युद्धायातुलविक्रम ।। ६.६३.४१ ।।
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ।। ६.६३.४२ ।।
यदि शक्रो यदि यमो यदि पावकमारुतौ ।तानहं योधयिष्यामि कुबेरवरुणावपि ।। ६.६३.४३ ।।
गिरिमात्रशरीरस्य शितशूलधरस्य मे ।नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ।। ६.६३.४४ ।।
अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ।न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ।। ६.६३.४५ ।।
नैव शक्त्या न गदया नासिना निशितैः शरैः ।हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ।। ६.६३.४६ ।।
यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यते ।ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ।। ६.६३.४७ ।।
चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति ।सो ऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ।। ६.६३.४८ ।।
मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे ।राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ।। ६.६३.४९ ।।
हरींश्चापि हनिष्यामि संयुगे समवस्थितान् ।असाधारणमिच्छामि तव दातुं महद्यशः ।। ६.६३.५० ।।
यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः ।। ६.६३.५१ ।।
अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ।आदित्यं पातयिष्यामि सनक्षत्रं महीतले ।। ६.६३.५२ ।।
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ।पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ।। ६.६३.५३ ।।
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ।अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ।। ६.६३.५४ ।।
नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ।। ६.६३.५५ ।।
वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि ।निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ।। ६.६३.५६ ।।
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।मया ऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ।। ६.६३.५७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिषष्टितमः सर्गः ।। ६३ ।।
स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्।अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ।। ६.६५.१ ।।
सो ऽहं तव भयं घोरं वधात्तस्य दुरात्मनः।रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ।। ६.६५.२ ।।
गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः।पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा ।। ६.६५.३ ।।
न मर्षयति चात्मानं सम्भावयति नात्मना।अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ।। ६.६५.४ ।।
विक्लवानामबुद्धीनां राज्ञा पण्डितमानिनाम्।शृण्वता सादितमिदं त्वद्विधानां महोदर ।। ६.६५.५ ।।
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः।राजानमनुगच्छद्भिः कृत्यमेतद्धि सादितम् ।। ६.६५.६ ।।
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्।राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ।। ६.६५.७ ।।
एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये।दुर्नयं भवतामद्य समीकर्तुमिहाहवे ।। ६.६५.८ ।।
एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः।प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः ।। ६.६५.९ ।।
महोदरो ऽयं रामात्तु परित्रस्तो न संशयः।न हि रोचयते तात युद्धं युद्धविशारद ।। ६.६५.१० ।।
कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च।गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ।। ६.६५.११ ।।
तस्मात्तु भयनाशार्थं भवान् सम्बोधितो मया।अयं हि कालः सुहृदां राक्षसानामरिन्दम ।। ६.६५.१२ ।।
तद्गच्छ शूलमादाय पाशहस्त इवान्तकः।वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ।। ६.६५.१३ ।।
समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः।रामलक्ष्मणोश्चापि हृदये प्रस्फुटिष्यतः ।। ६.६५.१४ ।।
एवमुक्त्वा महाराजः कुम्भकर्णं महाबलम्।पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ।। ६.६५.१५ ।।
कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम्।बभूव मुदितो राजा शशाङ्क इव निर्मलः ।। ६.६५.१६ ।।
इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः ।। ६.६५.१७ ।।
राज्ञस्तु वचनं श्रुत्वा कुम्भकर्णः समुद्यतः।आददे निशितं शूलं वेगाच्छत्रुनिबर्हणम् ।। ६.६५.१८ ।।
सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम्।इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् ।। ६.६५.१९ ।।
देवदानवगन्धर्वयक्षकिन्नरसूदनम्।रक्तमाल्यं महाधामस्वतश्चोद्गतपावकम् ।। ६.६५.२० ।।
आदाय निशितं शूलं शत्रुशोणितरञ्जितम्।कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् ।। ६.६५.२१ ।।
गमिष्याम्यहमेकाकी तिष्ठत्विह बलं मम।अद्य तान् क्षुभितान् क्रुद्धो भक्षयिष्यामि वानरान्।कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।। ६.६५.२२ ।।
सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः।वानरा हि महात्मानः शीघ्राः सुव्यवसायिनः ।। ६.६५.२३ ।।
एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम्।तस्मात् परमदुर्धर्षैः सैन्यैः परिवृतो व्रज।रक्षसामहितं सर्वं शत्रुपक्षं निषूदय ।। ६.६५.२४ ।।
अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम्।आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ।। ६.६५.२५ ।।
अङ्गदान्यङ्गुलीवेष्टान् वराण्याभरणानि च।हारं च शशिसङ्काशमाबबन्ध महात्मनः ।। ६.६५.२६ ।।
दिव्यानि च सुगन्धीनि माल्यदामानि रावणः।श्रोत्रे चासञ्जयामास श्रीमती चास्य कुण्डले ।। ६.६५.२७ ।।
काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः।कुम्भकर्णो बृहत्कर्णः सुहुतो ऽग्निरिवाबभौ ।। ६.६५.२८ ।।
श्रोणीसूत्रेण महता मेचकेन व्यराजत।अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः ।। ६.६५.२९ ।।
स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा।आभध्यमानः कवचं रराज सन्ध्याभ्रसंवीत इवाद्रिराजः ।। ६.६५.३० ।।
सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः।त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ।। ६.६५.३१ ।।
भ्रातरं सम्परिष्वज्य कृत्वा चाभिप्रदक्षिणम्।प्रणम्य शिरसा तस्मै सम्प्रतस्थे महाबलः ।। ६.६५.३२ ।।
निष्पतन्तं महाकायं महानादं महाबलम्।तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ।। ६.६५.३३ ।।
शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः।तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः ।। ६.६५.३४ ।।
अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ।। ६.६५.३५ ।।
सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः।अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ।। ६.६५.३६ ।।
स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः।मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ।। ६.६५.३७ ।।
पदातयश्च बहवो महानादा महाबलाः।अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ।। ६.६५.३८ ।।
रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः।शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ।। ६.६५.३९ ।।
बहुव्यामांश्च परिघान् गदाश्च मुसलानि च।तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ।। ६.६५.४० ।।
अथान्यद्वपुरादाय दारुणं रोमहर्षणम्।निष्पपात महातेजाः कुम्भकर्णो महाबलः ।। ६.६५.४१ ।।
धनुश्शतपरीणाहः स षट्छतसमुच्छ्रितः।रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ।। ६.६५.४२ ।।
सन्निपत्य च रक्षांसि दग्धशैलोपमो महान्।कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ।। ६.६५.४३ ।।
अद्य वानरमुख्यानां तानि यूथानि भागशः।निर्दहिष्यामि सङ्क्रुद्धः शलभानिव पावकः ।। ६.६५.४४ ।।
नापराध्यन्ति मे कामं वानरा वनचारिणः।जातिरस्माद्विधानां सा पुरोद्यानविभूषणम् ।। ६.६५.४५ ।।
पुररोधस्य मूलं तु राघवः सहलक्ष्मणः।हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ।। ६.६५.४६ ।।
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः।नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ।। ६.६५.४७ ।।
तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः।बभूवुर्घोररूपाणि निमित्तानि समन्ततः ।। ६.६५.४८ ।।
उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः।ससागरवना चैव वसुधा समकम्पत ।। ६.६५.४९ ।।
घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः।मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ।। ६.६५.५० ।।
निष्पपात च मालेव गृध्रो ऽस्य पथि गच्छतः।प्रास्फुरन्नयनं चास्य सव्यो बाहुश्च कम्पते ।। ६.६५.५१ ।।
निपपात तदा चोल्का ज्वलन्ती भीमनिस्वना।आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखो ऽनिलः ।। ६.६५.५२ ।।
अचिन्तयन् महोत्पातानुत्थितान् रोमहर्षणान्।निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ।। ६.६५.५३ ।।
स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसन्निभः।ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ।। ६.६५.५४ ।।
ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्।वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ।। ६.६५.५५ ।।
तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम्।स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद् घनाभः ।। ६.६५.५६ ।।
ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य।पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव सालवृक्षाः ।। ६.६५.५७ ।।
विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनिस्सृतो महात्मा।कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्डवान् युगान्ते ।। ६.६५.५८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चषष्टितमः सर्गः ।। ६५ ।।
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान्।निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ।। ६.६६.१ ।।
स ननाद महानादं समुद्रमभिनादयन्।जनयन्निव निर्घातान् विधमन्निव पर्वतान् ।। ६.६६.२ ।।
तमवध्यं मधवता यमेन वरुणेन वा।प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ।। ६.६६.३ ।।
तांस्तु विप्रद्रुतान् दृष्ट्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत्।नलं नीलं गवाक्षं च कुमुदं च महाबलम् ।। ६.६६.४ ।।
आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च।क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ।। ६.६६.५ ।।
साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ।नालं युद्धाय वै रक्षो महतीयं बिभीषिका ।। ६.६६.६ ।।
महतीमुत्थितामेनां राक्षसानां बिभीषिकाम्।विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ।। ६.६६.७ ।।
कृच्छ्रेण तु समाश्वस्य सङ्गम्य च ततस्ततः।वृक्षाद्रिहस्ता हरयः सम्प्रतस्थू रणाजिरम् ।। ६.६६.८ ।।
ते निवृत्य तु सङ्क्रुद्धाः कुम्भकर्णं वनौकसः।निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ।। ६.६६.९ ।।
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः।पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ।। ६.६६.१० ।।
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः।पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ।। ६.६६.११ ।।
सो ऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम्।ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ।। ६.६६.१२ ।।
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः।निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ।। ६.६६.१३ ।।
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ।। ६.६६.१४ ।।
केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः।वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ।। ६.६६.१५ ।।
सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ।। ६.६६.१६ ।।
ते स्थलानि तथा निम्नं विषण्णवदना भयात्।ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः ।। ६.६६.१७ ।।
ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः।निषेदुः प्लवगाः केचित् केचिन्नैवावतस्थिरे।तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत् ।। ६.६६.१८ ।।
अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः।भग्नानां वो न पश्यामि परिगम्य महीमिमाम्।स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ ।। ६.६६.१९ ।।
निरायुधानां द्रवतामसङ्गगतिपौरुषाः।दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविनाम् ।। ६.६६.२० ।।
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च।क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ।। ६.६६.२१ ।।
अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ।। ६.६६.२२ ।।
विकत्थनानि वो यानि तदा वै जनसंसदि।तानि वः क्व नु यातानि सोदग्राणि महान्ति च ।। ६.६६.२३ ।।
भीरुप्रवादाः श्रूयन्ते यस्तु जीविति धिक्कृतः।मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ।। ६.६६.२४ ।।
शयामहे ऽथ निहताः पृथिव्यामल्पजीविताः।दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ।। ६.६६.२५ ।।
सम्प्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे।जीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ।। ६.६६.२६ ।।
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति।दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ।। ६.६६.२७ ।।
पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्।एकेन बहवो भग्ना यशो नाशं गमिष्यति ।। ६.६६.२८ ।।
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्।द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ।। ६.६६.२९ ।।
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा।न स्थानकालो गच्छामो दयितं जीवितं हि नः ।। ६.६६.३० ।।
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः।भीमं मीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ।। ६.६६.३१ ।।
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः।सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ।। ६.६६.३२ ।।
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता।आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ।। ६.६६.३३ ।।
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः।द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ।। ६.६६.३४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्षष्टितमः सर्गः ।। ६६ ।।
सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः।अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ।। ६.६५.३६ ।।
स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः।मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ।। ६.६५.३७ ।।
पदातयश्च बहवो महानादा महाबलाः।अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ।। ६.६५.३८ ।।
रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः।शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ।। ६.६५.३९ ।।
बहुव्यामांश्च परिघान् गदाश्च मुसलानि च।तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ।। ६.६५.४० ।।
अथान्यद्वपुरादाय दारुणं रोमहर्षणम्।निष्पपात महातेजाः कुम्भकर्णो महाबलः ।। ६.६५.४१ ।।
धनुश्शतपरीणाहः स षट्छतसमुच्छ्रितः।रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ।। ६.६५.४२ ।।
सन्निपत्य च रक्षांसि दग्धशैलोपमो महान्।कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ।। ६.६५.४३ ।।
अद्य वानरमुख्यानां तानि यूथानि भागशः।निर्दहिष्यामि सङ्क्रुद्धः शलभानिव पावकः ।। ६.६५.४४ ।।
नापराध्यन्ति मे कामं वानरा वनचारिणः।जातिरस्माद्विधानां सा पुरोद्यानविभूषणम् ।। ६.६५.४५ ।।
पुररोधस्य मूलं तु राघवः सहलक्ष्मणः।हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ।। ६.६५.४६ ।।
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः।नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ।। ६.६५.४७ ।।
तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः।बभूवुर्घोररूपाणि निमित्तानि समन्ततः ।। ६.६५.४८ ।।
उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः।ससागरवना चैव वसुधा समकम्पत ।। ६.६५.४९ ।।
घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः।मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ।। ६.६५.५० ।।
निष्पपात च मालेव गृध्रो ऽस्य पथि गच्छतः।प्रास्फुरन्नयनं चास्य सव्यो बाहुश्च कम्पते ।। ६.६५.५१ ।।
निपपात तदा चोल्का ज्वलन्ती भीमनिस्वना।आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखो ऽनिलः ।। ६.६५.५२ ।।
अचिन्तयन् महोत्पातानुत्थितान् रोमहर्षणान्।निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ।। ६.६५.५३ ।।
स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसन्निभः।ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ।। ६.६५.५४ ।।
ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्।वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ।। ६.६५.५५ ।।
तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम्।स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद् घनाभः ।। ६.६५.५६ ।।
ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य।पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव सालवृक्षाः ।। ६.६५.५७ ।।
विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनिस्सृतो महात्मा।कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्डवान् युगान्ते ।। ६.६५.५८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चषष्टितमः सर्गः ।। ६५ ।।
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना।राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।। ६.६८.१ ।।
राजन् स कालसङ्काशः संयुक्तः कालकर्मणा।विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ।। ६.६८.२ ।।
प्रतपित्वा मुहूर्तं च प्रशान्तो राम तेजसा।कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ।। ६.६८.३ ।।
निकृत्तकण्ठोरुभुजो विक्षरन् रुधिरं बहु।रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ।। ६.६८.४ ।।
कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः।लगण्डभूतो विकृतो दावदग्ध इव द्रुमः ।। ६.६८.५ ।।
तं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम्।रावणः शोकसन्तप्तो मुमोह च पपात च ।। ६.६८.६ ।।
पितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ।त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ।। ६.६८.७ ।।
भ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ।। ६.६८.८ ।।
ततः कृच्छ्रात् समासाद्य सञ्ज्ञां राक्षसपुङ्गवः।कुम्भकर्णवधाद्दीनो विललाप स रावणः ।। ६.६८.९ ।।
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल।त्वं मां विहाय वै दैवाद्यातो ऽसि यमसादनम् ।। ६.६८.१० ।।
मम शल्यमनुद्धत्य बान्धवानां महाबल।शत्रुसैन्यं प्रताप्यैकस्त्वं मां सन्त्यज्य गच्छसि ।। ६.६८.११ ।।
इदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः।पतितो यं समाश्रित्य न बिभेमि सुरासुरात् ।। ६.६८.१२ ।।
कथमेवंविधो वीरो देवदानवदर्पहा।कालाग्निरुद्रप्रतिमो रणे रामेण वै हतः ।। ६.६८.१३ ।।
यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा।स कथं रामबाणार्तः प्रसुप्तो ऽसि महीतले ।। ६.६८.१४ ।।
एते देवगणाः सार्धमृष्टिभिर्गगने स्थिताः।निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ।। ६.६८.१५ ।।
ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः।आरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः ।। ६.६८.१६ ।।
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया।कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ।। ६.६८.१७ ।।
यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्।ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ।। ६.६८.१८ ।।
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम।नहि भ्रातऽन् समुत्सृज्य क्षणं जीवितुमुत्सहे ।। ६.६८.१९ ।।
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्।कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ।। ६.६८.२० ।।
तदिदं मामनुप्राप्तं विभीषणवचः शुभम्।यदज्ञानान्मया तस्य न गृहीतं महात्मनः ।। ६.६८.२१ ।।
विभीषणवचो यावत् कुम्भकर्णप्रहस्तयोः।विनाशो ऽयं समुत्पन्नो मां व्रीडयति दारुणः ।। ६.६८.२२ ।।
तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः।यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ।। ६.६८.२३ ।।
इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम्।न्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ।। ६.६८.२४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टषष्टितमः सर्गः ।। ६८ ।।
एवं विलपमानस्य रावणस्य दुरात्मनः।श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ।। ६.६९.१ ।।
एवमेव महावीर्यो हतो नस्तातमध्यमः।न तु सत्पुरुषा राजन् विलपन्ति यथा भवान् ।। ६.६९.२ ।।
नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो।स कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम् ।। ६.६९.३ ।।
ब्रह्मदत्ता ऽस्ति ते शक्तिः कवचः सायको धनुः।सहस्रखरसंयुक्तो रथो मेघस्वनो महान् ।। ६.६९.४ ।।
त्वया ऽसकृद्विशस्त्रेण विशस्ता देवदानवाः।स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ।। ६.६९.५ ।।
कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम्।उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ।। ६.६९.६ ।।
शम्बरो देवराजेन नरको विष्णुना यथा।तथा ऽद्य शयिता रामो मया युधि निपातितः ।। ६.६९.७ ।।
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः।पुनर्जातमिवात्मानं मन्यते कालचोदितः ।। ६.६९.८ ।।
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ।अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ।। ६.६९.९ ।।
ततो ऽहमहमित्येव गर्जन्तो नैर्ऋतर्षभाः।रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ।। ६.६९.१० ।।
अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः।सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्जयाः ।। ६.६९.११ ।।
सर्वे सुबलसम्पन्नाः सर्वे विकीर्णकीर्तयः।सर्वे समरमासाद्य न श्रूयन्ते पराजिताः।देवैरपि सगन्धर्वैः सकिन्नरमहोरगैः ।। ६.६९.१२ ।।
सर्वे च विदुषो वीराः सर्वे युद्धविशारदाः।सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ।। ६.६९.१३ ।।
स तैस्तदा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलप्रमर्दनैः।रराज राजा मघवान् यथा ऽमरैर्वृतो महादानवदर्पनाशनैः ।। ६.६९.१४ ।।
स पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः।आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ।। ६.६९.१५ ।।
युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः।रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ।। ६.६९.१६ ।।
ते ऽभिवाद्य महात्मानं रावणं रिपुरावणम्।कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ।। ६.६९.१७ ।।
सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः।निर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ।। ६.६९.१८ ।।
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ।महोदरमहापार्श्वो निर्जग्मुः कालचोदिताः ।। ६.६९.१९ ।।
ततः सुदर्शनं नाम नीलजीमूतसन्निभम्।ऐरावतकुले जातमारुरोह महोदरः ।। ६.६९.२० ।।
सर्वायुधसमायुक्तं तूणीभिश्च स्वलङ्कृतम्।रराज गजमास्थाय सवितेवास्तमूर्धनि ।। ६.६९.२१ ।।
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्।आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ।। ६.६९.२२ ।।
त्रिशिरा रथमास्थाय विरराज धनुर्धरः।सविद्युदुल्कः शैलाग्रे सेन्द्रचाप इवाम्बुदः ।। ६.६९.२३ ।।
त्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे।हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ।। ६.६९.२४ ।।
अतिकायो ऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा।आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ।। ६.६९.२५ ।।
सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम्।तूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम् ।। ६.६९.२६ ।।
स काञ्चनविचित्रेण मुकुटेन विराजता।भूषणैश्च बभौ मेरुः किरणैरिव भासयन् ।। ६.६९.२७ ।।
स रराज रथे तस्मिन् राजसूनुर्महाबलः।वृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः ।। ६.६९.२८ ।।
हयमुच्चैश्श्रवप्रख्यं श्वेतं कनकभूषणम्।मनोजवं महाकायमारुरोह नरान्तकः ।। ६.६९.२९ ।।
गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः।शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ।। ६.६९.३० ।।
देवान्तकः समादाय परिघं वज्रभूषणम्।परिगृह्य गिरीं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ।। ६.६९.३१ ।।
महापार्श्वो महाकायो गदामादाय वीर्यवान्।विरराज गदापाणिः कुबेर इव संयुगे ।। ६.६९.३२ ।।
प्रतस्थिरे महात्मानो बलैरप्रतिमैर्वृताः।सुरा इवामरावत्या बलैरप्रतिमैर्वृताः ।। ६.६९.३३ ।।
तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः।अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ।। ६.६९.३४ ।।
ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः।किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ।। ६.६९.३५ ।।
प्रगृहीता बभौ तेषां शस्त्राणामावलिः सिता।शारदाभ्रप्रतीकाशा हंसावलिरिवाम्बरे ।। ६.६९.३६ ।।
मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ।। ६.६९.३७ ।।
इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ।। ६.६९.३८ ।।
जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान्।जगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः ।। ६.६९.३९ ।।
क्ष्वेलितास्फोटनिनदैश्चचाल च वसुन्धरा।रक्षसां सिंहनादैश्च पुस्फोटेव तदा ऽम्बरम् ।। ६.६९.४० ।।
ते ऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः।ददृशुर्वानरानीकं समुद्यतशिलानगम् ।। ६.६९.४१ ।।
हरयो ऽपि महात्मानो ददृशुर्नैर्ऋतं बलम्।हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् ।। ६.६९.४२ ।।
नीलजीमूतसङ्काशं समुद्यतमहायुधम्।दीप्तानलपविप्रख्यैः सर्वतो नैर्ऋतैर्वृतम् ।। ६.६९.४३ ।।
तद् दृष्ट्वा बलमायान्तं लब्धलक्षाः प्लवङ्गमाः।समुद्यतमहाशैलाः सम्प्रणेदुर्महाबलाः।अमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः ।। ६.६९.४४ ।।
ततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम्।अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ।। ६.६९.४५ ।।
ते राक्षसबलं घोरं प्रविश्य हरियूथपाः।विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ।। ६.६९.४६ ।।
केचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः।रक्षस्सैन्येषु सङ्क्रुद्धाश्चेरुर्द्रुमशिलायुधाः ।। ६.६९.४७ ।।
द्रुमांश्च विपुलस्कन्धान् गृह्य वानरपुङ्गवाः।तद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ।। ६.६९.४८ ।।
ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम्।बाणौघैर्वायमाणाश्च हरयो भीमविक्रमाः ।। ६.६९.४९ ।।
सिंहनादान् विनेदुश्च रणे वानरराक्षसाः।शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ।। ६.६९.५० ।।
निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्।केचिद्रथगतान् वीरान् गजवाजिगतानपि ।। ६.६९.५१ ।।
निजघ्नुः सहसा ऽ ऽप्लुत्य यातुधानान् प्लवङ्गमाः।शैलशृङ्गाचिताङ्गाश्च मुष्टिभिर्वान्तलोचनाः ।। ६.६९.५२ ।।
चेरुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः।राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ।। ६.६९.५३ ।।
शूलमुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः।अन्योन्यं पातयामासुः परस्परजयैषिणः ।। ६.६९.५४ ।।
रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः।ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ।। ६.६९.५५ ।।
मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता।विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः।आसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः ।। ६.६९.५६ ।।
आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः।पुनरङ्गैस्तथा चक्रुरासन्ना युद्धमद्भुतम् ।। ६.६९.५७ ।।
वानरान् वानरैरेव जघ्नुस्ते रजनीचराः।राक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि ।। ६.६९.५८ ।।
आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन्।तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ।। ६.६९.५९ ।।
निजघ्नुः शैलशूलास्त्रैर्बिभिदुश्च परस्परम्।सिंहनादान् विनेदुश्च रणे वानरराक्षसाः ।। ६.६९.६० ।।
छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः।रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ।। ६.६९.६१ ।।
रथेन च रथं चापि वारणेनैव वारणम् ।। ६.६९.६२ ।।
हयेन च हयं केचिन्निजघ्नुर्वानरा रणे।प्रहृष्टमनसः सर्वे प्रगृहीतमनःशिलाः ।। ६.६९.६३ ।।
हरयो राक्षसान् जघ्नुर्द्रुमैश्च बहुशाखिभिः।तद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ।। ६.६९.६४ ।।
क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः।राक्षसा वानरेन्द्राणां चिच्छिदुः पादपान् शिलाः ।। ६.६९.६५ ।।
विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे।हतैश्च कपिरक्षोबिर्दुर्गमा वसुधा ऽभवत् ।। ६.६९.६६ ।।
ते वानरा गर्वितहृष्टचेष्टाः सङ्ग्राममासाद्य भयं विमुच्य।युद्धं तु सर्वे सह राक्षसैस्तैर्नानायुधाश्चक्रुरदीनसत्त्वाः ।। ६.६९.६७ ।।
तस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु।निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ।। ६.६९.६८ ।।
ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य।नरान्तको वानरराजसैन्यं महार्णवं मीन इवाविवेश ।। ६.६९.६९ ।।
स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद।एकक्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ।। ६.६९.७० ।।
ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम्।चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ।। ६.६९.७१ ।।
स तस्य ददृशो मार्गो मांसशोणितकर्दमः।पतितैः पर्वताकारैर्वानरैरभिसंवृतः ।। ६.६९.७२ ।।
यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः।तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ।। ६.६९.७३ ।।
ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः।ददाह हरिसैन्यानि वनानीव विभावसुः ।। ६.६९.७४ ।।
यावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः।तावत् प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ।। ६.६९.७५ ।।
दिक्षु सर्वासु बलवान् विचचार नरान्तकः।प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथा ऽनिलः ।। ६.६९.७६ ।।
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात्।उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् ।। ६.६९.७७ ।।
एकेनान्तककल्पेन प्रासेनादित्यतेजसा।भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ।। ६.६९.७८ ।।
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्।न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ।। ६.६९.७९ ।।
पततां हरिवीराणां रूपाणि प्रचकाशिरे।वज्रभिन्नाग्रकूटानां शैलानां पततामिव ।। ६.६९.८० ।।
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः।ते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ।। ६.६९.८१ ।।
विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम्।नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ।। ६.६९.८२ ।।
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्।गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ।। ६.६९.८३ ।।
अथोवाच महातेजाः सुग्रीवो वानराधिपः।कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ।। ६.६९.८४ ।।
गच्छ त्वं राक्षसं वीरो यो ऽसौ तुरगमास्थितः।क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ।। ६.६९.८५ ।।
स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्ततः।अनीकान्मेघसङ्काशान्मेघानीकादिवांशुमान् ।। ६.६९.८६ ।।
शैलसङ्घातसङ्काशो हरीणामुत्तमो ऽङ्गदः।रराजाङ्गदसन्नद्धः सधातुरिव पर्वतः ।। ६.६९.८७ ।।
निरायुधो महातेजाः केवलं नखदंष्ट्रवान्।नरान्तकमभिक्रम्य वालिपुत्रो ऽब्रवीद्वचः ।। ६.६९.८८ ।।
तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि।अस्मिन् वज्रसमस्पर्शं प्रासङ्क्षिप ममोरसि ।। ६.६९.८९ ।।
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः।सन्दश्य दशनैरोष्ठं विनिश्वस्य भुजङ्गवत् ।। ६.६९.९० ।।
अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ।। ६.६९.९१ ।।
प्रासं समाविध्य तदा ऽङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज।स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ।। ६.६९.९२ ।।
तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम्।तलं समुद्यम्य स वालिपुत्रस्तुरङ्गमं तस्य जघान मूर्ध्नि ।। ६.६९.९३ ।।
निमग्नतालुः स्फुटिताक्षितारो निष्क्रान्तजिह्वो ऽचलसन्निकाशः।स तस्य वाजी निपपात भूमौ तलप्रहारेण विशीर्णमूर्धा ।। ६.६९.९४ ।।
नरान्तकः क्रोधवशं जगाम हतं तुरङ्गं पतितं निरीक्ष्य।स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ।। ६.६९.९५ ।।
अथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम्।मुहुर्विजज्वाल मुमोह चापि सञ्ज्ञां समासाद्य विसिष्मिये च ।। ६.६९.९६ ।।
अथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम्।निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ।। ६.६९.९७ ।।
स मुष्टिनिष्पष्टविभिन्नवक्षा ज्वालावमच्छोणितदिग्धगात्रः।नरान्तको भूमितले पपात यथा ऽचलो वज्रनिपातभग्नः ।। ६.६९.९८ ।।
अथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः।बभूव तस्मिन्निहते ऽग्र्यवीरे नरान्तके वालिसुतेन सङ्ख्ये ।। ६.६९.९९ ।।
अथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तत् कृतवान् हि विक्रमम्।विसिष्मिये सो ऽप्यतिवीर्यविक्रमः पुनश्च युद्धे स बभूव हर्षितः ।। ६.६९.१०० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनसप्ततितमः सर्गः ।। ६९ ।।
नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः।देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ।। ६.७०.१ ।।
आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः।वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ।। ६.७०.२ ।।
भ्रातृव्यसनसन्तप्तस्तथा देवान्तको बली।आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ।। ६.७०.३ ।।
रथमादित्यसङ्काशं युक्तं परमवाजिभिः।आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ।। ६.७०.४ ।।
स त्रिभिर्देवदर्पघ्नैर्नैर्ऋतेन्द्रैरभिद्रुतः।वृक्षमुत्पाटयामास महाविटपमङ्गदः ।। ६.७०.५ ।।
देवान्तकाय तं वीरश्चिक्षेप सहसा ऽङ्गदः।महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ।। ६.७०.६ ।।
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः।स वृक्षं कृत्तमालोक्य उत्पपात तदा ऽङ्गदः ।। ६.७०.७ ।।
स ववर्ष ततो वृक्षान् शैलांश्च कपिकुञ्जरः।तान् प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः ।। ६.७०.८ ।।
परिघाग्रेण तान् वृक्षान् बभञ्ज च सुरान्तकः।त्रिशिराश्चाङ्गदं वीरमबिदुद्राव सायकैः ।। ६.७०.९ ।।
गजेन समभिद्रुत्य वालिपुत्रं महोदरः।जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसन्निभैः ।। ६.७०.१० ।।
देवान्तकश्च सङ्क्रुद्धः परिघेण तदा ऽङ्गदम्।उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ।। ६.७०.११ ।।
स त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत् समभिद्रुतः।न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ।। ६.७०.१२ ।।
स वेगवान् महावेगं कृत्वा परमदुर्जयः।तलेन भृशमुत्पत्य जघानास्य महागजम् ।। ६.७०.१३ ।।
तस्य तेन प्रहारेण नागराजस्य संयुगे।पेततुर्लोचने तस्य विननाद स वारणः ।। ६.७०.१४ ।।
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः।देवान्तकमभिप्लुत्य ताडयामास संयुगे ।। ६.७०.१५ ।।
स विह्वलितसर्वाङ्गो वातोद्धूत इव द्रुमः।लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् ।। ६.७०.१६ ।।
अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली।आविध्य परिघं घोरमाजघान तदा ऽङ्गदम् ।। ६.७०.१७ ।।
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा।जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ।। ६.७०.१८ ।।
तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः।घोरैर्हरिपतेः पुत्रं ललाटे ऽभिजघान ह ।। ६.७०.१९ ।।
ततो ऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः।हनुमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ।। ६.७०.२० ।।
ततश्चिक्षेप शेलाग्रं नीलस्त्रिशिरसे तदा।तद्रावणसुतो धीमान् बिभेद निशितैः शरैः ।। ६.७०.२१ ।।
तद्बाणशतनिर्भिन्नं विदारितशिलातलम्।सविस्फुलिङ्गं सज्वालं निपपात गिरः शिरः ।। ६.७०.२२ ।।
ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा।परिघेणाभिदुद्राव मारुतात्मजमाहवे ।। ६.७०.२३ ।।
तमापतन्तमुत्प्लुत्य हनुमान् मारुतात्मजः।आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ।। ६.७०.२४ ।।
शिरसि प्रहरन् वीरस्तदा वायुसुतो बली।नादेनाकम्पयच्चैव राक्षसान् स महाकपिः ।। ६.७०.२५ ।।
स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः।देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ।। ६.७०.२६ ।।
तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ।क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ।। ६.७०.२७ ।।
महोदरस्तु सङ्क्रुद्धः कुञ्जरं पर्वतोपमम्।भूयः समधिरुह्याशु मन्दरं रश्मिमानिव ।। ६.७०.२८ ।।
ततो बाणमयं वर्षं नीलस्योरस्यपातयत्।गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ।। ६.७०.२९ ।।
ततः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः।नीलो बभूवाथ निसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ।। ६.७०.३० ।।
ततस्तु नीलः प्रतिलभ्य सञ्ज्ञां शैलं समुत्पाट्य सवृक्षषण्डम्।ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि ।। ६.७०.३१ ।।
ततः स शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन।विपोथितो भूमितले गतासुः पपात वज्राभिहतो यथा ऽद्रिः ।। ६.७०.३२ ।।
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे।हनुमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः ।। ६.७०.३३ ।।
स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः।त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ।। ६.७०.३४ ।।
तद्व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं महाकपिः।विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति ।। ६.७०.३५ ।।
तमापन्तमाकाशे द्रुमवर्षं प्रतापवान्।त्रिशिरा निसितैर्बाणैश्चिच्छेद च ननाद च ।। ६.७०.३६ ।।
ततो हनूमानुत्प्लुत्य हयांत्रिशिरसस्तदा।विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ।। ६.७०.३७ ।।
अथ शक्तिं समादाय कालरात्रिमिवान्तकः।चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ।। ६.७०.३८ ।।
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम्।गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ।। ६.७०.३९ ।।
तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता।प्रहृष्टा वानरगणा विनेदुर्जलदा इव ।। ६.७०.४० ।।
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः।निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ।। ६.७०.४१ ।।
खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः।आजघान त्रिशिरसं तलेनोरसि वीर्यवान् ।। ६.७०.४२ ।।
स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि।निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ।। ६.७०.४३ ।।
स तस्य पततः खड्गं समाच्छिद्य महाकपिः।ननाद गिरिसङ्काशस्त्रासयन् सर्वनैर्ऋतान् ।। ६.७०.४४ ।।
अमृष्यमाणस्तं घोषमुत्पपात निशाचरः।उत्पत्य च हमूमन्तं ताडयामास मुष्टिना ।। ६.७०.४५ ।।
तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः।कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ।। ६.७०.४६ ।।
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि।क्रुद्धः प्रचिच्छेद सुतो ऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ।। ६.७०.४७ ।।
तान्यायताक्षाण्यगसन्निभानि प्रदीप्तवैश्वानरलोचनानि।पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथा ऽर्कमार्गात् ।। ६.७०.४८ ।।
तस्मिन् हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण।नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ।। ६.७०.४९ ।।
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम्।हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ।। ६.७०.५० ।।
चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः।जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम् ।। ६.७०.५१ ।।
हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम्।विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ।। ६.७०.५२ ।।
तेजसा सम्प्रदीप्ताग्रां रक्तमाल्याविभूषिताम्।ऐरावतमहापद्मसार्वभौमभयावहाम् ।। ६.७०.५३ ।।
गदामादाय सङ्क्रुद्धो मत्तो राक्षसपुङ्गवः।हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन् ।। ६.७०.५४ ।।
अथर्षभः समुत्पत्य वानरो रावणानुजम्।मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ।। ६.७०.५५ ।।
तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम्।आजघानोरसि क्रुद्धो गदया वज्रकल्पया ।। ६.७०.५६ ।।
स तया ऽभिहतस्तेन गदया वानरर्षभः।भिन्नवक्षाः समाधूतः सुस्त्राव रुधिरं बहु ।। ६.७०.५७ ।।
स सम्प्राप्य चिरात् सञ्ज्ञामृषभो वानरर्षभः।अबिदुद्राव वेगेन गदां तस्य महात्मनः ।। ६.७०.५८ ।।
गृहीत्वा तां गदां भीमामाविध्य च पुनःपुनः।मत्तानीकं महात्मानं जघान रणमूर्धनि ।। ६.७०.५९ ।।
स स्वया गदया भग्नो विशीर्णदशनेक्षणः।निपपात ततो मत्तो वज्राहत इवाचलः ।। ६.७०.६० ।।
विशीर्णनयने भूमौ गतसत्त्वे गतायुषि।पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम् ।। ६.७०.६१ ।।
तस्मिन् हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम्।त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसन्निकाशम् ।। ६.७०.६२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्ततितमः सर्गः ।। ७० ।।
स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम्।भ्रातऽंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान् ।। ६.७१.१ ।।
पितृव्यौ चापि सन्दृश्य समरे सन्निषूदितौ।युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ ।। ६.७१.२ ।।
चुकोप च महातेजा ब्रह्मदत्तवरो युधि।अतिकायो ऽद्रिसङ्काशो देवदानवदर्पहा ।। ६.७१.३ ।।
स भास्करसहस्रस्य सङ्घातमिव भास्वरम्।रथमास्थाय शक्रारिरभिदुद्राव वानरान् ।। ६.७१.४ ।।
स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः।नाम विश्रावयामास ननाद च महास्वनम् ।। ६.७१.५ ।।
तेन सिंहप्रणादेन नामविश्रावणेन च।ज्याशब्देन च भीमेन त्रासयामास वानरान् ।। ६.७१.६ ।।
ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णो ऽयमुत्थितः।भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ।। ६.७१.७ ।।
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे।भयाद्वानरयूथास्ते विद्रवन्ति ततस्ततः ।। ६.७१.८ ।।
ते ऽतिकायं समासाद्य वानरा मूढचेतसः।शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ।। ६.७१.९ ।।
ततो ऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्।ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् ।। ६.७१.१० ।।
स तं दृष्ट्वा महात्मानं राघवस्तु विसिष्मिये।वानरान् सान्त्वयित्वा ऽथ विभीषणमुवाच ह ।। ६.७१.११ ।।
को ऽसौ पर्वतसङ्काशो धनुष्मान् हरिलोचनः।युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ।। ६.७१.१२ ।।
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः।अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ।। ६.७१.१३ ।।
कालजिह्वाप्रकाशाभिर्य एषो ऽतिविराजते।आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ।। ६.७१.१४ ।।
धनूंषि चास्य सज्यानि हेमपृष्ठानि सर्वशः।शोभयन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम् ।। ६.७१.१५ ।।
क एष रक्षश्शार्दूलो रणभूमिं विराजयन्।अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ।। ६.७१.१६ ।।
ध्वजशृङ्गप्रतिष्ठेन राहुणा ऽभिविराजते।सूर्यरश्मिनिभैर्बाणैर्दिशो दश विराजयन् ।। ६.७१.१७ ।।
त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम्।शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ।। ६.७१.१८ ।।
सध्वजः सपताकश्च सानुकर्षो महारथः।चतुस्सादिसमायुक्तो मेघस्तनितनिस्वनः ।। ६.७१.१९ ।।
विंशतिर्दश चाष्टौ च तूण्यो ऽस्य रथमास्थिताः।कार्मुकानि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ।। ६.७१.२० ।।
द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभितौ।चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ ।। ६.७१.२१ ।।
रक्तकण्ठगुणो धीरो महापर्वतसन्निभः।कालः कालमहावक्त्रो मेघस्थ इव भास्करः ।। ६.७१.२२ ।।
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते।शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः ।। ६.७१.२३ ।।
कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम्।पुनर्वस्वन्तरगतं पूर्णं बिम्बमिवैन्दवम् ।। ६.७१.२४ ।।
आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्।यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ।। ६.७१.२५ ।।
स पृष्टो राजपुत्रेण रामेणामिततेजसा।आचचक्षे महातेजा राघवाय विभीषणः ।। ६.७१.२६ ।।
दशग्रीवो महातेजा राजा वैश्रवणानुजः।भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ।। ६.७१.२७ ।।
तस्यासीद्वीर्यवान् पुत्रो रावणप्रतिमो रणे।वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ।। ६.७१.२८ ।।
अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे।भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः ।। ६.७१.२९ ।।
यस्य बाहू समाश्रित्य लङ्का वसति निर्भया।तनयं धान्यमालिन्या अतिकायमिमं विदुः ।। ६.७१.३० ।।
एतेनाराधितो ब्रह्मा तपसा भावितात्मना।अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ।। ६.७१.३१ ।।
सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा।एतच्च कवचं दिव्यं रथश्चैषो ऽर्कभास्वरः ।। ६.७१.३२ ।।
एतेन शतशो देवा दानवाश्च पराजिताः।रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः ।। ६.७१.३३ ।।
वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः।पाशः सलिलराजस्य रणे प्रतिहतस्तथा ।। ६.७१.३४ ।।
एषो ऽतिकायो बलवान् राक्षसानामथर्षभः।रावणस्य सुतो धीमान् देवदानवदर्पहा ।। ६.७१.३५ ।।
तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव।पुरा वानरसैन्यानि क्षयं नयति सायकैः ।। ६.७१.३६ ।।
ततो ऽतिकायो बलवान् प्रविश्य हरिवाहिनीम्।विस्फारयामास धनुर्ननाद च पुनःपुनः ।। ६.७१.३७ ।।
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्।अभिपेतुर्महात्मानो ये प्रधाना वनौकसः ।। ६.७१.३८ ।।
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च।पादपैर्गिरिशृङ्गैश्च युगपत् समभिद्रवन् ।। ६.७१.३९ ।।
तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः।अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ।। ६.७१.४० ।।
तांश्चैव सर्वान् स हरीन् शरैः सर्वायसैर्बली।विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ।। ६.७१.४१ ।।
ते ऽर्दिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः।न शेकुरतिकायस्य प्रतिकर्तुं महारणे ।। ६.७१.४२ ।।
तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः।मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ।। ६.७१.४३ ।।
स राक्षसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कञ्चित्।उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे ।। ६.७१.४४ ।।
रथे स्थितो ऽहं शरचापपाणिर्न प्राकृतं कञ्चन योधयामि।यश्चास्ति कश्चिद्व्यवसाययुक्तो ददातु मे क्षिप्रमिहाद्य युद्धम् ।। ६.७१.४५ ।।
तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता।अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ।। ६.७१.४६ ।।
क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्।पुरस्तादतिकायस्य विचकर्ष महद्धनुः ।। ६.७१.४७ ।।
पूरयन् स महीं शैलानाकाशं सागरं दिशः।ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ।। ६.७१.४८ ।।
सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा।विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ।। ६.७१.४९ ।।
अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्।आदाय निशितं बाणमिदं वचनमब्रवीत् ।। ६.७१.५० ।।
बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः।गच्छ किं कालसदृशं मां योधयितुमिच्छसि ।। ६.७१.५१ ।।
नहि मद्बाहुसृष्टानामस्त्राणां हिमवानपि।सोढुमुत्सहते वेगमन्तरिक्षमथो मही ।। ६.७१.५२ ।।
सुखप्रसुप्तं कालाग्निं निबोधयितुमिच्छसि।न्यस्यचापं निवर्तस्व मा प्राणान् जहि मद्गतः ।। ६.७१.५३ ।।
अथवा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि।तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् ।। ६.७१.५४ ।।
पश्य मे निशितान् बाणानरिदर्पनिषूदनान्।ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ।। ६.७१.५५ ।।
एष ते सर्पसङ्काशो बाणः पास्यति शोणितम्।मृगराज इव क्रुद्धो नागराजस्य शोणितम्।इत्येवमुक्त्वा सङ्क्रुद्धः शरं धनुषि सन्दधे ।। ६.७१.५६ ।।
श्रुत्वा ऽतिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः।स सञ्चुकोपातिबलो बृहच्छ्रीरुवाच वाक्यं च ततो महार्थम् ।। ६.७१.५७ ।।
न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति।मयि स्थिते धन्विनि बाणपाणौ निदर्शय स्वात्मबलं दुरात्मन् ।। ६.७१.५८ ।।
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि।पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ।। ६.७१.५९ ।।
सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः।शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ।। ६.७१.६० ।।
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः।मारुतः कालसम्पक्वं वृन्तात्तालफलं यथा ।। ६.७१.६१ ।।
अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः।पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ।। ६.७१.६२ ।।
अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा।उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ।। ६.७२.१ ।।
धूभ्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः।अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ।। ६.७२.२ ।।
एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः।जेतारः परसैन्यानां परैर्नित्यापराजिताः ।। ६.७२.३ ।।
निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा।राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः।अन्ये च बहवः शूरा महात्मानो निपातिताः ।। ६.७२.४ ।।
प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम।यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः ।। ६.७२.५ ।।
यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः।मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः ।। ६.७२.६ ।।
तन्न जाने प्रभावैर्वा मायया मोहनेन वा।शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ ।। ६.७२.७ ।।
ये योधा निर्गताः शूरा राक्षसा मम शासनात्।ते सर्वे निहता युद्धे वानरैः सुमहाबलैः ।। ६.७२.८ ।।
तं न पश्याम्यहं युद्धे यो ऽद्य रामं सलक्ष्मणम्।शासयेत् सबलं वीरं ससुग्रीवविभीषणम् ।। ६.७२.९ ।।
अहो नु बलवान् रामो महदस्त्रबलं च वै।यस्य विक्रममासाद्य राक्षसा निधनं गताः ।। ६.७२.१० ।।
तं मन्ये राघवं वीरं नारायणमनामयम्।तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा ।। ६.७२.११ ।।
अप्रमत्तैश्च सर्वत्र गुप्तै रक्ष्या पुरी त्वियम् ।। ६.७२.१२ ।।
अशोकवनिकायां च यत्र सीता ऽभिरक्ष्यते।निष्क्रामो वा प्रवेशो वा ज्ञातव्यः सर्वथैव नः ।। ६.७२.१३ ।।
यत्र यत्र भवेद् गुल्मस्तत्रतत्र पुनःपुनः।सर्वतश्चापि तिष्ठध्वं स्वैःस्वैः परिवृता बलैः ।। ६.७२.१४ ।।
द्रष्टव्यं च पदं तेषां वानराणां निशाचराः।प्रदोषे वा ऽर्धरात्रे वा प्रत्यूषे वापि सर्वतः ।। ६.७२.१५ ।।
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन।द्विषतां बलमुद्युक्तमापतत् किं स्थितं सदा ।। ६.७२.१६ ।।
ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत्।वचनं सर्वमातिष्ठन् यथावत्तु महाबलाः ।। ६.७२.१७ ।।
स तान् सर्वान् समादिश्य रावणो राक्षसाधिपः।मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ।। ६.७२.१८ ।।
ततः स सन्दीपितकोपवह्निर्निशाचराणामधिपो महाबलः।तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा व्यनिश्वसत् ।। ६.७२.१९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विसप्ततितमः सर्गः ।। ७२ ।।
ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान्।रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ।। ६.७३.१ ।।
ततो हतांस्तान् सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः।पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ।। ६.७३.२ ।।
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम्।रथर्षभो राक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदं बभाषे ।। ६.७३.३ ।।
न तात मोहं प्रतिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति राक्षसेन्द्र।नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान् समर्थः समरे ऽभिपातुम् ।। ६.७३.४ ।।
पश्याद्य रामं सह लक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम्।गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम् ।। ६.७३.५ ।।
इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम्।अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ।। ६.७३.६ ।।
अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्विवैश्वानरचन्द्रसूर्याः।द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ।। ६.७३.७ ।।
स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः।समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ।। ६.७३.८ ।।
तमास्थाय महातेजा रथं हरिरथोपमम्।जगाम सहसा तत्र यत्र युद्धमरिन्दमः ।। ६.७३.९ ।।
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः।संहर्षमाणा बहवो धनुःप्रवरपाणयः ।। ६.७३.१० ।।
गजस्कन्धगताः केचित् केचित् प्रवरवाजिभिः।प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधराः ।। ६.७३.११ ।।
स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निस्वनैः।जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ।। ६.७३.१२ ।।
स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः।रराज प्रतिपूर्णेन नभश्चान्द्रमसा यथा ।। ६.७३.१३ ।।
अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः।चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ।। ६.७३.१४ ।।
ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा।रराजा प्रतिवीरेण द्यौरिवार्केण भास्वता ।। ६.७३.१५ ।।
स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः।स्थापयामास रक्षांसि रथं प्रति समन्ततः ।। ६.७३.१६ ।।
ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः।जुहाव राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा ।। ६.७३.१७ ।।
स हविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतैः।जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ।। ६.७३.१८ ।।
शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकाः।लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ।। ६.७३.१९ ।।
स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः।छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ।। ६.७३.२० ।।
सकृदेव समिद्धस्य विधूमस्य महार्चिषः।बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ।। ६.७३.२१ ।।
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः।हविस्तत् प्रतिजग्राह पावकः स्वयमास्थितः ।। ६.७३.२२ ।।
सो ऽस्त्रमाहारयामास ब्राह्ममिन्द्ररिपुस्तदा।धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ।। ६.७३.२३ ।।
तस्मिन्नाहूयमाने ऽस्त्रे हूयमाने च पावके।सार्धं ग्रहेन्दुनक्षत्रैर्वितत्रास नभःस्थलम् ।। ६.७३.२४ ।।
स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः।सचापबाणासिरथाश्वसूतः खे ऽन्तर्दधेत्मानमचिन्त्यरूपः ।। ६.७३.२५ ।।
ततो हयरथाकीर्णं पताकाध्वजशोभितम्।निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ।। ६.७३.२६ ।।
ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः।तोमरैरङ्कुशैश्चापि वानरान् जघ्नुराहवे ।। ६.७३.२७ ।।
रावणिस्तु ततः क्रुद्धस्तान्निरीक्ष्य निशाचरान्।हृष्टा भवन्तो युद्ध्यन्तु वानराणां जिघांसया ।। ६.७३.२८ ।।
ततस्ते राक्षसाः सर्वे नर्दन्तो जयकाङ्क्षिणः।अभ्यवर्षंस्ततो घोरान् वानरान् शरवृष्टिभिः ।। ६.७३.२९ ।।
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि।रक्षोभिः संवृतः सङ्ख्ये वानरान् विचकर्त ह ।। ६.७३.३० ।।
ते वध्यमानाः समरे वानराः पादपायुधाः।अभ्यद्रवन्त सहिता रावणिं रणकर्कशम् ।। ६.७३.३१ ।।
इन्द्रजित्तु ततः क्रुद्धो महातेजा महाबलः।वानराणां शरीराणि व्यधमद्रावणात्मजः ।। ६.७३.३२ ।।
शरेणैकेन च हरीन् नव पञ्च च सप्त च।चिच्छेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन् ।। ६.७३.३३ ।।
स शरैः सूर्यसङ्काशैः शातकुम्भविभूषितैः।वानरान् समरे वीरः प्रममाथ सुदुर्जयः ।। ६.७३.३४ ।।
ते भिन्नगात्राः समरे वानराः शपपीडिताः।पेतुर्मथितसङ्कल्पाः सुरैरिव महासुराः ।। ६.७३.३५ ।।
तं तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः।अभ्यधावन्त सङ्क्रुद्धाः संयुगे वानरर्षभाः ।। ६.७३.३६ ।।
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः।व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ।। ६.७३.३७ ।।
रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः।नर्दन्तस्ते ऽभिवृत्तास्तु समरे सशिलायुधाः ।। ६.७३.३८ ।।
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवङ्गमाः।अभ्यवर्षन्त समरे रावणिं पर्यवस्थिताः ।। ६.७३.३९ ।।
तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत्।व्यपोहत महातेजा रावणिः समितिञ्जयः ।। ६.७३.४० ।।
ततः पावकसङ्काशैः शरैराशीविषोपमैः।वानराणामनीकानि बिभेद समरे प्रभुः ।। ६.७३.४१ ।।
अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम्।विव्याध नवभिश्चैव नलं दूरादवस्थितम् ।। ६.७३.४२ ।।
सप्तभिस्तु महा वीर्यो मैन्दं मर्मविदारणैः।पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे ।। ६.७३.४३ ।।
जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च।सुग्रीवमृषभं चैव सो ऽङ्गदं द्विविदं तथा।घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ।। ६.७३.४४ ।।
अन्यानपि तदा मुख्यान् वानरान् बहुभिः शरैः।अर्दयामास सङ्क्रुद्धः कालाग्निरिव मूर्च्छितः ।। ६.७३.४५ ।।
स शरैः सूर्यसङ्काशैः सुमुक्तैः शीघ्रगामिभिः।वानराणामनीकानि निर्ममन्थ महारणे ।। ६.७३.४६ ।।
आकुलां वानरीं सेनां शरजालेन मोहिताम्।हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम् ।। ६.७३.४७ ।।
पुनरेव महातेजा राक्षसेन्द्रात्मजो बली।संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम्।ममर्द वानरानीकमिन्द्रजित्त्वरितो बली ।। ६.७३.४८ ।।
स्वसैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु।अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथा ऽम्बु ।। ६.७३.४९ ।।
ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः।रणे निपेतुर्हरयो ऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ।। ६.७३.५० ।।
ते केवलं सन्ददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु।मायानिगूढं तु सुरेन्द्रशत्रुं न चावृतं राक्षसमभ्यपश्यन् ।। ६.७३.५१ ।।
ततः स रक्षोधिपतिर्महात्मा सर्वे दिशो बाणगणैः शिताग्रैः।प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान् ।। ६.७३.५२ ।।
स शूलनिस्त्रिंशपरश्वधानि व्याविध्य दीप्तानलसन्निभानि।सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीर्व्रं प्लवगेन्द्रसैन्ये ।। ६.७३.५३ ।।
ततो ज्वलनसङ्काशैः शरैर्वानरयूथपाः।ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ।। ६.७३.५४ ।।
ते ऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम्।राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ।। ६.७३.५५ ।।
उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः।शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ।। ६.७३.५६ ।।
हनुमन्तं च सुग्रीवमङ्गदं गन्धमादनम्।जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ।। ६.७३.५७ ।।
मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ।केसरिं हरिलोमानं विद्युदृंष्ट्रं च वानरम् ।। ६.७३.५८ ।।
सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्।पावकाक्षं नलं चैव कुमुदं चैव वानरम् ।। ६.७३.५९ ।।
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः।विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः ।। ६.७३.६० ।।
स वै गदाभिर्हरियूथमुख्यान् निर्भिद्य बाणैस्तपनीयपुङ्खैः।ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ।। ६.७३.६१ ।।
स बाणवर्षैरभिवर्ष्यमाणो धारानिपातानिव तानचिन्त्य।समीक्षमाणः परमाद्भुतश्री रामस्तदा लक्ष्मणमित्युवाच ।। ६.७३.६२ ।।
असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः।निपातयित्वा हरिसैन्यमुग्रमस्मान् शरैरर्दयति प्रसक्तः ।। ६.७३.६३ ।।
स्वयम्भुवा दत्तवरो महात्मा खमास्थितो ऽन्तर्हितभीमकायः।कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ।। ६.७३.६४ ।।
मन्ये स्वयम्भूर्भगवानचिन्त्यो यस्यैतदस्त्रं प्रभवश्च यो ऽस्य।बाणावपातांस्त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व ।। ६.७३.६५ ।।
प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः।एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम् ।। ६.७३.६६ ।।
आवां तु दृष्ट्वा पतितौ विसञ्ज्ञौ निवृत्तयुद्धौ गतरोषहर्षो।ध्रुवं प्रवेक्ष्यत्यमरारिवासमसौ समादाय रणाग्रलक्ष्मीम् ।। ६.७३.६७ ।।
ततस्तु ताविन्द्रजिदस्त्रजालैर्बभूवतुस्तत्र तथा विशस्तौ।स चापि तौ तत्र विदर्शयित्वा ननाद हर्षाद्युधि राक्षसेन्द्रः ।। ६.७३.६८ ।।
स तत्तदा वानरसैन्यमेवं रामं च सङ्ख्ये सह लक्ष्मणेन।विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम् ।। ६.७३.६९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिसप्ततितमः सर्गः ।। ७३ ।।
तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम्।सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किञ्चित् प्रतिपेदिरे ते ।। ६.७४.१ ।।
ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः।उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ।। ६.७४.२ ।।
मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ।स्वयम्भुवो वाक्यमथोद्वहन्तौ यत् सादिताविन्द्रजिदस्त्रजालैः ।। ६.७४.३ ।।
तस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवेगम्।तन्मानयन्तौ युधि राजपुत्रौ निपातितौ को ऽत्र विषादकालः ।। ६.७४.४ ।।
ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः।विभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ।। ६.७४.५ ।।
एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम्।यो यो धारयते प्राणांस्तन्तमाश्वासयावहै ।। ६.७४.६ ।।
तावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ।उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ।। ६.७४.७ ।।
भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः।स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ।। ६.७४.८ ।।
पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम्।शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ।। ६.७४.९ ।।
सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्।गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ।। ६.७४.१० ।।
मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा।एतांश्चान्यांस्ततो वीरौ ददृशाते हतान् रणे ।। ६.७४.११ ।।
सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्।अह्नः पञ्चमशेषेणः वल्लभेन स्वयम्भुवः ।। ६.७४.१२ ।।
सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्।मार्गते जाम्बवन्तं स हनुमान् सविभीषणः ।। ६.७४.१३ ।।
स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्।प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ।। ६.७४.१४ ।।
दृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत्।कच्चिदार्य शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ।। ६.७४.१५ ।।
विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः।कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ।। ६.७४.१६ ।।
नैर्ऋतेन्द्र महावीर्य स्वरेण त्वा ऽभिलक्षये।पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ।। ६.७४.१७ ।।
अञ्जना सुप्रजा येन मातरिश्वा च नैर्ऽत।हनुमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ।। ६.७४.१८ ।।
श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः।आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् ।। ६.७४.१९ ।।
नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे।आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ।। ६.७४.२० ।।
विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत्।शृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम् ।। ६.७४.२१ ।।
तस्मिन् जीवति वीरे तु हतमप्यहतं बलम्।हनुमत्युज्झितप्राणे जीवन्तो ऽपि वयं हताः ।। ६.७४.२२ ।।
धरते मारुतिस्तात मारुतप्रतिमो यदि।वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ।। ६.७४.२३ ।।
ततो वृद्धमुपागम्य नियमेनाभ्यवादयत्।गृह्य जाम्बवतः पादौ हनुमान् मारुतात्मजः ।। ६.७४.२४ ।।
श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः।पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ।। ६.७४.२५ ।।
ततो ऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् ।। ६.७४.२६ ।।
आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि।नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ।। ६.७४.२७ ।।
त्वत्पराक्रमकालो ऽयं नान्यं पश्यामि कञ्चन।ऋक्षवानरवीराणामनीकानि प्रहर्षय।विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ।। ६.७४.२८ ।।
गत्वा परममध्वानमुपर्युपरि सागरम्।हिमवन्तं नगश्रेष्ठं हनुमन् गन्तुमर्हसि ।। ६.७४.२९ ।।
ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम्।कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ।। ६.७४.३० ।।
तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्।सर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ।। ६.७४.३१ ।।
तस्य वानरशार्दूल चतस्रो मूर्ध्निसम्भवाः।द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ।। ६.७४.३२ ।।
मृतसञ्जीवनीं चैव विशल्यकरणीमपि।सावर्ण्यकरणीं चैव सन्धानकरणीं तथा ।। ६.७४.३३ ।।
ताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि।आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ।। ६.७४.३४ ।।
श्रुत्वा जाम्बवतो वाक्यं हनुमान् हरिपुङ्गवः।आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ।। ६.७४.३५ ।।
स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम्।हनुमान् दृश्यते वीरो द्वितीय इव पर्वतः ।। ६.७४.३६ ।।
हरिपादविनिर्भग्नो निषसाद स पर्वतः।न शशाक तदा ऽ ऽत्मानं सोढुं भृशनिपीडितः ।। ६.७४.३७ ।।
तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः।शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ।। ६.७४.३८ ।।
तस्मिन् सम्पीड्यमाने तु भग्नद्रुमाशिलातले।न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ।। ६.७४.३९ ।।
सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा।लङ्का त्रासाकुला रात्रौ प्रवृत्तेवाभवत्तदा ।। ६.७४.४० ।।
पृथिवीधरसङ्काशो विपीड्य धरणीधरम्।पृथिवीं क्षोभयामास सार्णवां मारुतत्मजः ।। ६.७४.४१ ।।
आरुरोह तदा तस्माद्धरिर्मलयपर्वतम्।मेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ।। ६.७४.४२ ।।
नानाद्रुमलताकीर्णं विकासिकमलोत्पलम्।सेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ।। ६.७४.४३ ।।
विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम्।नानामृगगणाकीर्णं बहुकन्दरशोभितम् ।। ६.७४.४४ ।।
सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान्।हनुमान् मेघसङ्काशो ववृधे मारुतात्मजः ।। ६.७४.४५ ।।
पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम्।विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ।। ६.७४.४६ ।।
तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम्।लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ।। ६.७४.४७ ।।
नमस्कृत्वा ऽथ रामाय मारुतिर्भीमविक्रमः।राघवार्थे परं कर्म समीहतपरन्तपः ।। ६.७४.४८ ।।
स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्ज्य।विवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ।। ६.७४.४९ ।।
स वृक्षषण्डांस्तरसा जहार शैलान् शिलाः प्राकृतवानरांश्च।बाहूरुवेगोद्धतसम्प्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ।। ६.७४.५० ।।
स
तौ प्रसार्योरगभोगकल्पौ भूजौ भुजङ्गारिनिकाशवीर्यः।जगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ।। ६.७४.५१ ।।
स सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम्।समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ।। ६.७४.५२ ।।
स पर्वतान् वृक्षगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि।स्फीतान् जनान्तानपि सम्प्रवीक्ष्य जगाम वेगात् पितृतुल्यवेगः ।। ६.७४.५३ ।।
आदित्यपथमाश्रित्य जगाम स गतक्लमः।हनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ।। ६.७४.५४ ।।
जवेन महता युक्तो मारुतिर्मारुतो यथा।जगाम हरिशार्दूलो दिशः शब्देन पूरयन् ।। ६.७४.५५ ।।
स्मरन् जाम्बवतो वाक्यं मारुतिर्वातरंहसा।ददर्श सहसा चापि हिमवन्तं महाकपिः ।। ६.७४.५६ ।।
नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम्।श्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः।शोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ।। ६.७४.५७ ।।
स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम्।ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ।। ६.७४.५८ ।।
स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम्।हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ।। ६.७४.५९ ।।
वज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च।ब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ।। ६.७४.६० ।।
कैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम्।सन्दीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ।। ६.७४.६१ ।।
स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः।आवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयञ्चकार ।। ६.७४.६२ ।।
स योजनसहस्राणि समतीत्य महाकपिः।दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ।। ६.७४.६३ ।।
महौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे।विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ।। ६.७४.६४ ।।
स ता महात्मा हनुमानपश्यन् चुकोप कोपाच्च भृशं ननाद।अमृष्यमाणो ऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ।। ६.७४.६५ ।।
किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः।पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ।। ६.७४.६६ ।।
स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम्।विकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ।। ६.७४.६७ ।।
स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान्।संस्तूयमानः खचरैरनेकैर्जगाम वैगाद् गरुडोग्रवेगः ।। ६.७४.६८ ।।
स भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य।बभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ।। ६.७४.६९ ।।
स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु।सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ।। ६.७४.७० ।।
तं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद।तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ।। ६.७४.७१ ।।
ततो महात्मा निपपात तस्मिन् शैलोत्तमे वानरसैन्यमध्ये।हर्युत्तमेभ्यः शिरसा ऽभिवाद्य विभीषणं तत्र स सस्वजे च ।। ६.७४.७२ ।।
तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम्।बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ।। ६.७४.७३ ।।
सर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः।गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ।। ६.७४.७४ ।।
यदाप्रभृति लङ्कायां युद्ध्यन्ते कपिराक्षसाः।तदाप्रभृति मानार्थमाज्ञया रावणस्य च ।। ६.७४.७५ ।।
ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः।हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ।। ६.७४.७६ ।।
ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः।निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ।। ६.७४.७७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुस्सप्ततितमः सर्गः ।। ७४ ।।
ततो ऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः।अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ।। ६.७५.१ ।।
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः।नेदानीमुपनिर्हारं रावणो दातुमर्हति ।। ६.७५.२ ।।
ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः।लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ।। ६.७५.३ ।।
ततो ऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे।लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ।। ६.७५.४ ।।
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः।आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ।। ६.७५.५ ।।
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च।प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम्।तेषां गृहसस्राणि ददाह हुतभुक् तदा ।। ६.७५.६ ।।
प्रासादाः पर्वताकाराः पतन्ति धरणीतले।अगरुर्दह्यते तत्र वर च हरिचन्दनम् ।। ६.७५.७ ।।
मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम्।क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् ।। ६.७५.८ ।।
आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम्।नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ ।। ६.७५.९ ।।
गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः।तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च ।। ६.७५.१० ।।
खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः।रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु ।। ६.७५.११ ।।
मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः।विविधानस्त्रसंयोगानग्निर्दहति तत्र वै ।। ६.७५.१२ ।।
नानाविधान् गृहच्छन्दान् ददाह हुतभूक् तदा।आवासान् राक्षसानां च सर्वेषां गृहगर्धिनाम् ।। ६.७५.१३ ।।
हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम्।शीधुपानचलाक्षाणां मदविह्वलगामिनाम् ।। ६.७५.१४ ।।
कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम्।गदाशूलासिहस्तानां खादतां पिबतामपि ।। ६.७५.१५ ।।
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह।त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ।। ६.७५.१६ ।।
तेषां शतसहस्राणि तदा लङ्कानिवासिनाम्।अदहत् पावकस्तत्र जज्वाल च पुनःपुनः ।। ६.७५.१७ ।।
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च।हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ।। ६.७५.१८ ।।
रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः।मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् ।। ६.७५.१९ ।।
क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः।नादितान्यचला भानि वेश्मान्यग्निर्ददाह सः ।। ६.७५.२० ।।
ज्वलनेन परीतानि तोरणानि चकाशिरे।विद्युद्भिरिव नद्धानि मेघजालानि धर्मगे ।। ६.७५.२१ ।।
ज्वलनेन परीतानि निपेतुर्भवनान्यथ।वज्रिवज्रहतानीव शिखराणि महागिरेः ।। ६.७५.२२ ।।
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः।त्यक्ताभरणसर्वाङ्गा हा हेत्युच्चैर्विचुक्रुशुः ।। ६.७५.२३ ।।
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे।हिमवच्छिखराणीव दीप्तौषधिवनानि च ।। ६.७५.२४ ।।
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि।रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ।। ६.७५.२५ ।।
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि।बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ।। ६.७५.२६ ।।
अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्भीतो ऽपसर्पति।भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ।। ६.७५.२७ ।।
लङ्कायां दह्यमानायां शुशुभे स महार्णवः।छायासंसक्तसलिलो लोहितोद इवार्णवः ।। ६.७५.२८ ।।
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी।लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ।। ६.७५.२९ ।।
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः।स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ।। ६.७५.३० ।।
प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः।सहसा ऽभ्युत्पतन्ति स्म हरयो ऽथ युयुत्सवः ।। ६.७५.३१ ।।
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः।दिशो दश समुद्रं च पृथिवीं चान्वनादयत् ।। ६.७५.३२ ।।
विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ।असम्भ्रान्तौ जगृहतुस्तदोभे धनुषी वरे ।। ६.७५.३३ ।।
ततो विष्फारयानस्य रामस्य धनुरुत्तमम्।बभूव तुमुलः शब्दो राक्षसानां भयावहः ।। ६.७५.३४ ।।
अशोभत तदा रामो धनुर्विष्फारयन् महत्।भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः ।। ६.७५.३५ ।।
उद्घुष्टं वानराणां च राक्षसानां च निस्वनम्।ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे ।। ६.७५.३६ ।।
वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः।ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ।। ६.७५.३७ ।।
तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम्।कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ।। ६.७५.३८ ।।
ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च।सन्नाहो राक्षसेन्द्राणां तुमुलः समपद्यत ।। ६.७५.३९ ।।
तेषां सन्नह्यमानानां सिंहनादं च कुर्वताम्।शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ।। ६.७५.४० ।।
आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना।आसन्नद्वारमासाद्य युध्यध्वं प्लवगर्षभाः ।। ६.७५.४१ ।।
यश्च वो वितथं कुर्यात्तत्र तत्र ह्युपस्थितः।स हन्तव्यो हि सम्प्लुत्य राजशासनदूषकः ।। ६.७५.४२ ।।
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु।स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ।। ६.७५.४३ ।।
तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश।रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ।। ६.७५.४४ ।।
स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ।प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह ।। ६.७५.४५ ।।
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा।निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ।। ६.७५.४६ ।।
शशास चैव तान् सर्वान् राक्षसान् सुमहाबलान्।नादयन् गच्छतात्रैव जयध्वं शीघ्रमेव च ।। ६.७५.४७ ।।
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः।लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनःपुनः ।। ६.७५.४८ ।।
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः।चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ।। ६.७५.४९ ।।
तत्र ताराधिपस्याभा ताराणां च तथैव च।तयोराभरणस्था च बलयोर्द्यामभासयन् ।। ६.७५.५० ।।
चन्द्राभा भूषणाभा च गृहाणां ज्वलतां च भा।हरिराक्षससैन्यानि भ्राजयामास सर्वतः ।। ६.७५.५१ ।।
तत्र चोर्ध्वं प्रदीप्तानां गृहाणां सागरः पुनः।भाभिः संसक्तपातालश्चलोर्मिः शुशुबे ऽधिकम् ।। ६.७५.५२ ।।
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम्।भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ।। ६.७५.५३ ।।
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्।तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ।। ६.७५.५४ ।।
ददृशो ज्वलितप्रासं किङ्किणीशतनादितम्।हेमजालाचितभुजं व्यामिश्रितपरश्वधम् ।। ६.७५.५५ ।।
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्।गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ।। ६.७५.५६ ।।
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् ।। ६.७५.५७ ।।
तद्दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम्।सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च ।। ६.७५.५८ ।।
जवेनाप्लुत्य च पुनस्तद्बलं रक्षसां महत्।अभ्ययात् प्रत्यरिबलं पतङ्गा इव पावकम् ।। ६.७५.५९ ।।
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि।राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ।। ६.७५.६० ।।
तत्रोन्मत्ता इवोत्पेतुर्हरयो ऽथ युयुत्सवः।तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् ।। ६.७५.६१ ।।
तथैवापततां तेषां कपीनामसिभिः शितैः।शिरांसि सहसा जह्नू राक्षसा भीमदर्शनाः ।। ६.७५.६२ ।।
दशनैर्हृतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः।शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ।। ६.७५.६३ ।।
तथैवाप्यपरे तेषां कपीनामभिलक्षिताः।प्रवीरानभितो जघ्नू राक्षसानां तरस्विनाम् ।। ६.७५.६४ ।।
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः।हरिवीरान्निजघ्नुश्च घोररूपा निशाचराः ।। ६.७५.६५ ।।
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत्।गर्हमाणं जगर्हे ऽन्यो दशन्तमपरो ऽदशत् ।। ६.७५.६६ ।।
देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः।किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ।। ६.७५.६७ ।।
विप्रलम्बितवस्त्रं च विमुक्तकवचायुधम्।समुद्यतमहाप्रासं यष्टिशूलासिसङ्कुलम्।प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ।। ६.७५.६८ ।।
वानरान् दश सप्तेति राक्षसा जघ्नुराहवे।राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन् ।। ६.७५.६९ ।।
विस्रस्तकेशवसनं विध्वस्तकवचध्वजम्।बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ।। ६.७५.७० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चसप्ततितमः सर्गः ।। ७५ ।।
प्रवृत्ते सङ्कुले तस्मिन् घोरे वीरजनक्षये।अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ।। ६.७६.१ ।।
आहूय सो ऽङ्गदं कोपात् ताडयामास वेगितः।गदया कम्पनः पूर्वं स चचाल भृशाहतः ।। ६.७६.२ ।।
स सञ्ज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः।अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ।। ६.७६.३ ।।
ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे।रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ।। ६.७६.४ ।।
सो ऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः।शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ।। ६.७६.५ ।।
क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैः शिलीमुखैः।कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः ।। ६.७६.६ ।।
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान्।धनुरग्र्यं रथं बाणान् ममर्द तरसा बली ।। ६.७६.७ ।।
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे।उत्पपात दिवं क्रुद्धो वेगवानविचारयन् ।। ६.७६.८ ।।
तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली।करेण तस्य तं खड्गं समाच्छिद्य ननाद च ।। ६.७६.९ ।।
तस्यांसफलके खड्गं निजघान ततो ऽङ्गदः।यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ।। ६.७६.१० ।।
तं प्रगृह्य महाखड्गं विनद्य च पुनःपुनः।वालिपुत्रो ऽभिदुद्राव रणशीर्षे परानरीन् ।। ६.७६.११ ।।
आयसीं तु गदां वीरः प्रगृह्य कनकाङ्गदः।शोणिताक्षः समाविध्य तमेवानुपपात ह ।। ६.७६.१२ ।।
प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली।रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ।। ६.७६.१३ ।।
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः।विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ।। ६.७६.१४ ।।
अङ्गदं परिरक्षान्तौ मैन्दो द्विविद एव च।तस्य तस्थातुरभ्याशे परस्परदिदृक्षया ।। ६.७६.१५ ।।
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः।राक्षसा वानरान् रोषादसिचर्मगदाधराः ।। ६.७६.१६ ।।
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः।संसक्तानां महद्युद्धमभवद्रोमहर्षणम् ।। ६.७६.१७ ।।
ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे।खड्गेन प्रतिचिच्छेद तान् प्रजङ्घो महाबलः ।। ६.७६.१८ ।।
रथानश्वान् द्रुमैः शैलैस्ते प्रचिक्षिपुराहवे।शरौधैः प्रतिचिच्छेद तान् यूपाक्षो निशाचरः ।। ६.७६.१९ ।।
सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान्।बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ।। ६.७६.२० ।।
उद्यम्य विपुलं खड्गं परमर्मनिकृन्तनम्।प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः ।। ६.७६.२१ ।।
तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः।आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ।। ६.७६.२२ ।।
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना।वालिपुत्रस्य घातेन स पपात क्षितावसिः ।। ६.७६.२३ ।।
तं दृष्ट्वा पतितं भूमौ खड्गमुत्पलसन्निभम्।मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ।। ६.७६.२४ ।।
ललाटे स महावीर्यमङ्गदं वानरर्षभम्।आजघान महातेजाः स मुहूर्तं चचाल ह ।। ६.७६.२५ ।।
स सञ्ज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान्।प्रजङ्घस्य शिरः कायात् खड्गेनापातयत् क्षितौ ।। ६.७६.२६ ।।
स यूपाक्षो ऽश्रुपूर्णाक्षः पितृव्ये निहते रणे।अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्गमाददे ।। ६.७६.२७ ।।
तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन्।आजघानोरसि क्रुद्धो जाग्राह च बलाद्बली ।। ६.७६.२८ ।।
गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः।आजघान गदाग्रेण वक्षसि द्विविदं ततः ।। ६.७६.२९ ।।
स गदाभिहतस्तेन चचाल च महाबलः।उद्यतां च पुनस्तस्य जहार द्विविदो गदाम् ।। ६.७६.३० ।।
एतस्मिन्नन्तरे वीरो मैन्दो वानरयूथपः।यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ।। ६.७६.३१ ।।
तौ शोणिताक्षयूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ।चक्रुतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ।। ६.७६.३२ ।।
द्विविदः शोणिताक्षं तु विददार नखैर्मुखे।निष्पिपेष च वगेन क्षितावाविध्य वीर्यवान् ।। ६.७६.३३ ।।
यूपाक्षमपि सङ्क्रुद्धो मैन्दो वानरयूथपः।पीडयामास बाहुभ्यां स पपात हतः क्षितौ ।। ६.७६.३४ ।।
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा।जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ।। ६.७६.३५ ।।
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ।। ६.७६.३६ ।।
अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवङ्गमैः।निपातितमहावीरां दृष्ट्वा रक्षश्चमूं ततः।कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ।। ६.७६.३७ ।।
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः।मुमोचाशीविषप्रख्यान् शरान् देहविदारणान् ।। ६.७६.३८ ।।
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम्।विद्युदैरावतार्चिष्माद्द्वितीयेन्द्रधनुर्यथा ।। ६.७६.३९ ।।
आकर्णाकृष्टमुक्तेन जघान द्विविदं तदा।तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ।। ६.७६.४० ।।
सहसा ऽभिहतस्तेन विप्रमुक्तपदः स्फुरन्।निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ।। ६.७६.४१ ।।
मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे।अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ।। ६.७६.४२ ।।
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः।बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ।। ६.७६.४३ ।।
सन्धाय चान्यं सुमुखं शरमासीविषोपमम्।आजघान महातेजा वक्षसि द्विविदाग्रजम् ।। ६.७६.४४ ।।
स तु तेन प्रहारेण मैन्दो वानरयूथपः।मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः ।। ६.७६.४५ ।।
अङ्गदो मातुलौ दृष्ट्वा पतितौ तु महाबलौ।अभिदुद्राव वेगेन कुम्भमद्युतकार्मुकम् ।। ६.७६.४६ ।।
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः।त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः ।। ६.७६.४७ ।।
सो ऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान्।अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ।। ६.७६.४८ ।।
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते।शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ।। ६.७६.४९ ।।
स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः।कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान् ।। ६.७६.५० ।।
आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम्।भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम्।तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ।। ६.७६.५१ ।।
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते।सालमासन्नमेकेन परिजग्राह पाणिना ।। ६.७६.५२ ।।्।सम्पीड्य चोरसि स्कन्धं करेणाभिनिवेश्य च।किञ्चिदभ्यवनम्यैनमुन्ममाथ यथा गजः ।। ६.७६.५३ ।।।
तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसन्निभम्।समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ।। ६.७६.५४ ।।
स बिभेद शितैर्बाणैः सप्तभिः कायभेदनैः ।। ६.७६.५५ ।।
अङ्गदो विव्यथे ऽभीक्ष्णं ससाद च मुमोह च ।। ६.७६.५६ ।।
अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे।दुरासदं हरिश्रेष्ठं रामायन्ये न्यवेदयन् ।। ६.७६.५७ ।।
रामस्तु व्यथितं श्रुत्वा वालिपुत्रं रणाजिरे।व्यादिदेश हरिश्रेष्ठान् जाम्बवत्प्रमुखांस्ततः ।। ६.७६.५८ ।।
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम्।अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् ।। ६.७६.५९ ।।
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः।रिरक्षिषन्तो ऽभ्यपतन्नङ्गदं वानरर्षभाः ।। ६.७६.६० ।।
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः।कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ।। ६.७६.६१ ।।
समीक्ष्यापततस्तांस्तु वानरेन्द्रान् महाबलान्।आववार शरौघेण नगेनेव जलाशयम् ।। ६.७६.६२ ।।
तस्य बाणपथं प्राप्य न शोकुरतिवर्तितुम्।वानरेन्द्रा महात्मानो वेलामिव महोदधिः ।। ६.७६.६३ ।।
तांस्तु दृष्ट्वा हरिगणान् शरवृष्टिबिरर्दितान्।अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ।। ६.७६.६४ ।।
अबिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे।शैलसानुचरं नागं वेगवानिव केसरी ।। ६.७६.६५ ।।
उत्पाट्य च महाशैलानश्वकर्णान् धवान् बहून्।अन्यांश्च विविधान् वृक्षांश्चिक्षेप च महाबलः ।। ६.७६.६६ ।।
तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम्।कुम्भकर्णात्मजः शीघ्रं चिच्छेद निशितैः शरैः ।। ६.७६.६७ ।।
अभिलक्षेण तीव्रेण कुम्भेन निशितैः शरैः।आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः ।। ६.७६.६८ ।।
द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान्।वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे ।। ६.७६.६९ ।।
निर्भिद्यमानः सहसा सहमानश्च तान् शरान्।कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुष्प्रभम् ।। ६.७६.७० ।।
अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम्।अब्रवीत् कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् ।। ६.७६.७१ ।।
निकुम्भाग्रज वीर्यं ते बाणवेगवदद्भुतम्।सन्नतिश्च प्रभावश्च तव वा रावणस्य वा ।। ६.७६.७२ ।।
प्रह्लादबलिवृत्रघ्नकुबेवरुणोपम।एकस्त्वमनुजातो ऽसि पितरं बलवृत्ततः ।। ६.७६.७३ ।।
त्वामेवैकं महाबाहुं चापहस्त मरिन्दमम्।त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः ।। ६.७६.७४ ।।
विक्रमस्व महाबुद्धे कर्माणि मम पश्यतः ।। ६.७६.७५ ।।
वरदानात् पितृव्यस्ते सहते देवदानवान्।कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ।। ६.७६.७६ ।।
धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च।त्वमद्य रक्षसां लोके श्रेष्ठो ऽसि बलवीर्यतः ।। ६.७६.७७ ।।
महाविमर्दं समरे मया सह तवाद्भुतम्।अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ।। ६.७६.७८ ।।
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम्।पातिता हरिवीराश्च त्वया वै भीमविक्रमाः ।। ६.७६.७९ ।।
उपालम्भभयाच्चापि नासि वीर मया हतः।कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ।। ६.७६.८० ।।
तेन सुग्रीववाक्येन सावमानेन मानितः।अग्नेराज्याहुतस्येव तेजस्तस्याभ्यवर्धत।ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा ।। ६.७६.८१ ।।
गजाविवाहितमदौ निश्वसन्तौ मुहुर्मुहुः।अन्योन्यगात्रग्रथितौ कर्षन्तावितरेतरम्।सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ।। ६.७६.८२ ।।
तयोः पादाभिघाताच्च निमग्ना चाभवन्मही।व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ।। ६.७६.८३ ।।
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि।पातयामास वेगेन दर्शयन्नुदधेस्तलम् ।। ६.७६.८४ ।।
ततः कुम्भनिपातेन जलराशिः समुत्थितः।विन्ध्यमन्दरसङ्काशो विससर्प समन्ततः ।। ६.७६.८५ ।।
ततः कुम्भः समुत्पत्य सुग्रीवमभिपत्य च।आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ।। ६.७६.८६ ।।
तस्य चर्म च पुस्फोट बहु सुस्राव शोणितम्।स च मुष्टिर्महावेगः प्रतिजघ्ने ऽस्थिमण्डले ।। ६.७६.८७ ।।
तदा वेगेन तत्रासीत्तेजः प्रज्वलितं मुहुः।वज्रनिष्पेषसञ्जाता ज्वाला मेरौ यथा गिरौ ।। ६.७६.८८ ।।
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः।मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ।। ६.७६.८९ ।।
अर्चिस्सहस्रविकचं रविमण्डलसप्रभम्।स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ।। ६.७६.९० ।।
स तु तेन प्रहारेण विह्वलो भृशताडितः।निपपात तदा कुम्भो गतार्चिरिव पावकः ।। ६.७६.९१ ।।
मुष्टिना ऽभिहतस्तेन निपपाताशु राक्षसः।लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ।। ६.७६.९२ ।।
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना।बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः ।। ६.७६.९३ ।।
तस्मिन् हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे।मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ।। ६.७६.९४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्सप्ततितमः सर्गः ।। ७६ ।।
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्।प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ।। ६.७७.१ ।।
ततः स्रग्दामसन्नद्धं दत्तपञ्चाङ्गुलं शुभम्।आददे परिघं वीरो नगेन्द्रशिखरोपमम् ।। ६.७७.२ ।।
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्।यमदण्डोपमं भीमं रक्षसां भयनाशनम् ।। ६.७७.३ ।।
तमाविध्य महातेजाः शक्रध्वजसमं तदा।विननाद विवृत्तास्यो निकुम्भो भीम विक्रमः ।। ६.७७.४ ।।
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि।कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ।। ६.७७.५ ।।
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च।यथेन्द्रधनुषा मेघः सविद्युत् स्तनयित्नुमान् ।। ६.७७.६ ।।
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः।प्रजज्वाल सघोषश्च विधूम इव पावकः ।। ६.७७.७ ।।
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः।सह चैवामरावत्या सर्वैश्च भवनैः सह ।। ६.७७.८ ।।
सतारग्रहनक्षत्रं सचन्द्रं समहाग्रहम्।निकुम्भपरिघाघूर्णं भ्रमतीव नभस्स्थलम् ।। ६.७७.९ ।।
दुरासदश्च सञ्जज्ञे परिघाभरणप्रभः।कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ।। ६.७७.१० ।।
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्।हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ।। ६.७७.११ ।।
परिघोपमबाहुस्तु परिघं भास्करप्रभम्।बली बलवतस्तस्य पातयामास वक्षसि ।। ६.७७.१२ ।।
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः।विशीर्यमाणः सहसा उल्काशतमिवाम्बरे ।। ६.७७.१३ ।।
स तु तेन प्रहारेण विचचाल महाकपिः।परिघेण समाधूतो यथाभूमिचले ऽचलः ।। ६.७७.१४ ।।
स तदा ऽभिहतस्तेन हनुमान् प्लवगोत्तमः।मुष्टिं संवर्तयामास बलेनातिमहाबलः ।। ६.७७.१५ ।।
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्।अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः ।। ६.७७.१६ ।।
ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम्।मुष्टिना तेन सञ्जज्ञे ज्वाला विद्युदिवोत्थिता ।। ६.७७.१७ ।।
स तु तेन प्रहारेण निकुम्भो विचचाल ह।स्वस्थश्चापि निजग्राह हनुमन्तं महाबलम् ।। ६.७७.१८ ।।
विचुक्रुशुस्तदा सङ्ख्ये भीमं लङ्कानिवासिनः।निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम् ।। ६.७७.१९ ।।
स तदा ह्रियमाणो ऽपि कुम्भकर्णात्मजेन ह।आजघानानिलसुतो वज्रकल्पेन मुष्टिना ।। ६.७७.२० ।।
आत्मानं मोचयित्वा ऽथ क्षितावभ्यवपद्यत।हनुमानुन्ममाथाशु निकुम्भं मारुतात्मजः ।। ६.७७.२१ ।।
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष ह।उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् ।। ६.७७.२२ ।।
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्।उत्पाटयामास शिरो भैरवं नदतो महत् ।। ६.७७.२३ ।।
अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम्।दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोः सुभीमम् ।। ६.७७.२४ ।।
व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवङ्गा दिशः सस्वनुश्च।चचालेव चोर्वी पफालेव च द्यौर्भयं राक्षसानां बलं चाविवेश ।। ६.७७.२५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तसप्ततितमः सर्गः ।। ७७ ।।
निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम्।रावणः परमामर्षी प्रजज्वालानलो यथा ।। ६.७८.१ ।।
नैर्ऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्च्छितः।खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ।। ६.७८.२ ।।
गच्छ पुत्र मया ऽ ऽज्ञप्तो बलेनाभिसमन्वितः।राघवं लक्ष्मणं चैव जहि तांश्च वनौकसः ।। ६.७८.३ ।।
रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः।बाढमित्यब्रवीद्धृष्टो मकाराक्षो निशाचरः ।। ६.७८.४ ।।
सो ऽबिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम्।निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ।। ६.७८.५ ।।
समीपस्थं बलाध्यक्षं खरपुत्रो ऽब्रवीदिदम्।रथश्चानीयतां शीघ्रं सैन्यं चाहूयतां त्वरात् ।। ६.७८.६ ।।
तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः।स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ।। ६.७८.७ ।।
प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः।सूतं सञ्चोदयामास शीघ्रं मे रथमावह ।। ६.७८.८ ।।
अथ तान् राक्षसान् सर्वान् मकराक्षो ऽब्रवीदिदम्।यूयं सर्वे प्रयुद्ध्यध्वं पुरस्तान्मम राक्षसाः ।। ६.७८.९ ।।
अहं राक्षसराजेन रावणेन महात्मना।आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ।। ६.७८.१० ।।
अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः।शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ।। ६.७८.११ ।।
अद्य शूलनिपातैश्च वानराणां महाचमूम्।प्रदहिष्यामि सम्प्राप्तः शुष्केन्धनमिवानलः ।। ६.७८.१२ ।।
मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः।सर्वे नानायुधोपेता बलवन्तः समागताः ।। ६.७८.१३ ।।
ते कामरूपिणः सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः।मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः ।। ६.७८.१४ ।।
परिवार्य महाकाया महाकायं खरात्मजम्।अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम् ।। ६.७८.१५ ।।
शङ्खभेरीसहस्राणामाहतानां समन्ततः।क्ष्वेलितास्फोटितानां च ततः शब्दो महानभूत् ।। ६.७८.१६ ।।
प्रभ्रष्टो ऽथ करात्तस्य प्रतोदः सारथेस्तदा।पपात सहसा चैव ध्वजस्तस्य च रक्षसः ।। ६.७८.१७ ।।
तस्य ते रथयुक्ताश्च हया विक्रमवर्जिताः।चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ।। ६.७८.१८ ।।
प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः।निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ।। ६.७८.१९ ।।
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः।अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ।। ६.७८.२० ।।
घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः।अहमहमिति युद्धकौशलास्ते रजनिचराः परितः समुन्नदन्तः ।। ६.७८.२१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टसप्ततितमः सर्गः ।। ७८ ।।
निर्गतं मकाराक्षं ते दृष्ट्वा वानरयूथपाः।आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ।। ६.७९.१ ।।
ततः प्रवृत्तं सुमहत् तद्युद्धं रोमहर्षणम्।निशाचरैः प्लवङ्गानां देवानां दानवैरिव ।। ६.७९.२ ।।
वृक्षशूलनिपातैश्च शिलापरिघपातनैः।अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ।। ६.७९.३ ।।
शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः।पट्टिशैर्भिन्दिपालैश्च निर्घातैश्च समन्ततः ।। ६.७९.४ ।।
पाशमुद्गरदण्डैश्च निखातैश्चापरे तदा।कदनं कपिवीराणां चक्रुस्ते रजनीचराः ।। ६.७९.५ ।।
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः।सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ।। ६.७९.६ ।।
तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वलीमुखान्।नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ।। ६.७९.७ ।।
विद्रवत्सु तदा तेषु वानरेषु समन्ततः।रामस्तान् वारयामास शरवर्षेण राक्षसान् ।। ६.७९.८ ।।
वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः।क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् ।। ६.७९.९ ।।
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते।त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः ।। ६.७९.१० ।।
यत्तदा दण्डकारण्ये पितरं हतवान् मम।मदग्रतः स्वकर्मस्थं दृष्ट्वा रोषो ऽभिवर्धते ।। ६.७९.११ ।।
दह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव।यन्मया ऽसि न दृष्टस्त्वं तस्मिन् काले महावने ।। ६.७९.१२ ।।
दिष्ट्या ऽसि दर्शनं राम मम त्वं प्राप्तवानिह।काङ्क्षितो ऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ।। ६.७९.१३ ।।
अद्य मद्बाणवेगेन प्रेतराङ्विषयं गतः।ये त्वया निहता वीराः सह तैश्च समेष्यसि ।। ६.७९.१४ ।।
बहुना ऽत्र किमुक्तेन शृणु राम वचो मम।पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ।। ६.७९.१५ ।।
अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे।अभ्यस्तं येन वा राम तेनैव युधि वर्तताम् ।। ६.७९.१६ ।।
मकराक्षवचः क्षुत्वा रामो दशरथात्मजः।अब्रवीत् प्रहसन् वाक्यमुत्तरोत्तरवादिनम् ।। ६.७९.१७ ।।
कत्थसे किं वृथा रक्षो बहून्यसदृशानि तु।न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ।। ६.७९.१८ ।।
चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः।त्रिशिरा दूषणश्चैव दण्डके निहता मया ।। ६.७९.१९ ।।
स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः।भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुराः ।। ६.७९.२० ।।
राघवेणैवमुक्तस्तु खरपुत्रो निशाचरः।बाणौघानमुचत्तस्मै राघवाय रणाजिरे ।। ६.७९.२१ ।।
तान् शरान् शरवर्षेण रामश्चिच्छेद नैकधा।निपेतुर्भुवि ते च्छिन्ना रुक्मपुङ्खाः सहस्रशः ।। ६.७९.२२ ।।
तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा।रक्षसः खरपुत्रस्य सूनोर्दशरथस्य च ।। ६.७९.२३ ।।
जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा।धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे ।। ६.७९.२४ ।।
देवदानवगन्धर्वाः किन्नराश्च महोरगाः।अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ।। ६.७९.२५ ।।
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते परम्।कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे ।। ६.७९.२६ ।।
राममुक्तांस्तु बाणौघान् राक्षसस्त्वच्छिनद्रणे।रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ।। ६.७९.२७ ।।
बाणौघैर्वितताः सर्वा दिशश्च प्रदिशस्तथा।सञ्छन्ना वसुधा चैव समन्तान्न प्रकाशते ।। ६.७९.२८ ।।
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः।अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ।। ६.७९.२९ ।।
भित्त्वा शरै रथं रामो रथाश्वान् समपातयत्।विरथो वसुधां तिष्ठन् मकराक्षो निशाचरः ।। ६.७९.३० ।।
तत्तिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना।त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ।। ६.७९.३१ ।।
विभ्राम्य तु महच्छूलं प्रज्वलत्तन्निशाचरः।स क्रोधात् प्राहिणोत्तस्मै राघवाय महाहवे ।। ६.७९.३२ ।।
तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम्।बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः ।। ६.७९.३३ ।।
स च्छिन्नो नैकाधा शूलो दिव्यहाटकमण्डितः।व्यशीर्यत महोल्केव रामबाणार्दितो भुवि ।। ६.७९.३४ ।।
तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।साधु साध्विति भूतानि व्याहरन्ति नभोगता ।। ६.७९.३५ ।।
तं दृष्ट्वा निहतं शूलं मकाराक्षो निशाचरः।मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ।। ६.७९.३६ ।।
स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः।पावकास्त्रं ततो रामः सन्दधे तु शरासने ।। ६.७९.३७ ।।
तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे।सञ्छिन्नहृदयं तत्र पपात च ममार च ।। ६.७९.३८ ।।
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम्।लङ्कामेवाभ्यधावन्त रामबाणार्दितास्तदा ।। ६.७९.३९ ।।
दशरथनृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम्।ददृशुरथ सुरा भृशं प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम् ।। ६.७९.४० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनाशीतितमः सर्गः ।। ७९ ।।
मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः।क्रोधेन महता ऽ ऽविष्टो दन्तान् कटकटापयन् ।। ६.८०.१ ।।
कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन्।आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ।। ६.८०.२ ।।
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ।अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ।। ६.८०.३ ।।
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे।किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ।। ६.८०.४ ।।
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः।यज्ञभूमौ स विधिवत् पावकं जुहवेन्द्रजित् ।। ६.८०.५ ।।
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः।आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ।। ६.८०.६ ।।
शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकाः।लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ।। ६.८०.७ ।।
सर्वतो ऽग्निं समास्तीर्य शरपत्रैः सतोमरैः।छागस्य कृष्णवर्णस्य गलं जग्राह जीवितः ।। ६.८०.८ ।।
सकृदेव समिद्धस्य विधूमस्य महार्चिषः।बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ।। ६.८०.९ ।।
प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः।हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः ।। ६.८०.१० ।।
हुत्वा ऽग्निं तर्पयित्वा च देवदानवराक्षसान्।आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ।। ६.८०.११ ।।
स वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः।आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ।। ६.८०.१२ ।।
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः।मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलङ्कृतः ।। ६.८०.१३ ।।
जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः।बभूवेन्द्रजितः केतुर्वैडूर्यसमलङ्कृतः ।। ६.८०.१४ ।।
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः।स बभूव दुराधर्षो रावणिः सुमहाबलः ।। ६.८०.१५ ।।
सो ऽभिनिर्याय नगरादिन्द्रजित् समितिञ्जयः।हुत्वा ऽग्निं राक्षसैर्मन्त्रैरन्तर्धानगतो ऽब्रवीत् ।। ६.८०.१६ ।।
अद्य हत्वा रणे यौ तौ मिथ्या प्रव्राजितौ वने।जयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ।। ६.८०.१७ ।।
अद्य निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम्।करिष्ये परमप्रीतिमित्युक्त्वा ऽन्तरधीयत ।। ६.८०.१८ ।।
आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः।तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ।। ६.८०.१९ ।।
स ददर्श महावीर्यो नागौ त्रिशिरसाविव।सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ।। ६.८०.२० ।।
इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम्।सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ।। ६.८०.२१ ।।
स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ।अचक्षुर्विषये तिष्ठन् विव्याध निशितैः सऱैः ।। ६.८०.२२ ।।
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ।धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ।। ६.८०.२३ ।।
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ।तमस्त्रैः सूर्यसङ्काशैर्नैव पस्पृशतुः शरैः ।। ६.८०.२४ ।।
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः।दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृताः ।। ६.८०.२५ ।।
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः।शश्रुवे चरतस्तस्य न च रूपं प्रकाशते ।। ६.८०.२६ ।।
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम्।स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ।। ६.८०.२७ ।।
स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम्।विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ।। ६.८०.२८ ।।
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ।हेमपुङ्खान्नरव्याघ्रौ तिग्मान् मुमुचतुः शरान् ।। ६.८०.२९ ।।
अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः।निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ।। ६.८०.३० ।।
अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ।तानिषून् पततो भल्लेरनेकैर्निचकृन्ततुः ।। ६.८०.३१ ।।
यतो हि ददृशाते तौ शरान्निपततः शितान्।ततस्तु तौ दाशरथी ससृजाते ऽस्त्रमुत्तमम् ।। ६.८०.३२ ।।
रावणिस्तु दिशः सर्वा रथेनातिरथः पतन्।विव्याध तौ दाशरथी लध्वस्त्रो निशितैः शरैः ।। ६.८०.३३ ।।
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः।बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ।। ६.८०.३४ ।।
नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान्।न चान्यद्विदितं किञ्चित् सूर्यस्येवाभ्रसम्प्लवे ।। ६.८०.३५ ।।
तेन विद्धाश्च हरयो निहताश्च गतासवः।बभूवुः शतशस्तत्र पतिता धरणीतले ।। ६.८०.३६ ।।
लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत्।ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ।। ६.८०.३७ ।।
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ।। ६.८०.३८ ।।
नैकस्य हेतो रक्षांसि पृथिव्यां हन्तु मर्हसि।अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्।पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ।। ६.८०.३९ ।।
अस्यैव तु वधे यत्नं करिष्यावो महाबल।आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ।। ६.८०.४० ।।
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात्।राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ।। ६.८०.४१ ।।
यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्स्थलं वा।एवं निगूढो ऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ।। ६.८०.४२ ।।
इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः।वधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ।। ६.८०.४३ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अशीतितमः सर्गः ।। ८० ।।
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः।सन्निवृत्याहवात्तस्मात् संविवेश पुरं ततः ।। ६.८१.१ ।।
सो ऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्।क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ।। ६.८१.२ ।।
स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः।इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ।। ६.८१.३ ।।
इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ।। ६.८१.४ ।।
इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः।बलेन महता ऽ ऽवृत्य तस्या वधमरोचयत् ।। ६.८१.५ ।।
मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः।हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ।। ६.८१.६ ।।
तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः।उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः ।। ६.८१.७ ।।
हनुमान् पुरतस्तेषां जगाम कपिकुञ्जरः।प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ।। ६.८१.८ ।।
स ददर्श हतानन्दां सीतामिन्द्रजितो रथे।एकवेणीधरां दीनामुपवासकृशाननाम् ।। ६.८१.९ ।।
परिक्लिष्टैकवसनाममृजां राघवप्रियाम्।रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ।। ६.८१.१० ।।
तां निरीक्ष्य मुहूर्तं तु मैथिलीत्यध्यवस्य तु।बभूवाचिरदृष्टा हि तेन सा जनकात्मजा ।। ६.८१.११ ।।
तां दीनां मलदिग्धाङ्गीं रथस्थां दृश्य मैथिलीम्।बाष्पपर्याकुलमुखो हनुमान् व्यथितो ऽभवत् ।। ६.८१.१२ ।।
अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनीम्।सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम्।किं समर्थितमस्येति चिन्तयन् स महाकपिः ।। ६.८१.१३ ।।
सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ।। ६.८१.१४ ।।
तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः।कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ।। ६.८१.१५ ।।
तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः।क्रोशन्तीं राम रामेति मायया योजितां रथे ।। ६.८१.१६ ।।
गृहीतमूर्धजां दृष्ट्वा हनुमान् दैन्यमागतः।शोकजं वारि नैत्राभ्यामसृजन्मारुतात्मजः ।। ६.८१.१७ ।।
तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम्।अब्रवीत् परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम् ।। ६.८१.१८ ।।
दुरात्मन्नात्मनाशाय केशपक्षे परामृशः।ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ।। ६.८१.१९ ।।
धिक् त्वां पापसमाचारं यस्य ते मतिरीदृशी ।। ६.८१.२० ।।
नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम।अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ।। ६.८१.२१ ।।
च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली।किं तवैषा ऽपराद्धा हि यदेनां हन्तुमिच्छसि ।। ६.८१.२२ ।।
सीतां च हत्वा न चिरं जीविष्यसि कथञ्चन।वधार्ह कर्मणा ऽनेन मम हस्तगतो ह्यसि ।। ६.८१.२३ ।।
ये च स्त्रीघातिनां लोका लोकवध्येषु कुत्सिताः।इह जिवितमुत्सृज्य प्रेत्य तान् प्रतिपत्स्यसे ।। ६.८१.२४ ।।
इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः।अभ्यधावत सङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति ।। ६.८१.२५ ।।
आपतन्तं महावीर्यं तदनीकं वनौकसाम्।रक्षसां भीमवेगानामनीकं तु न्यवारयत् ।। ६.८१.२६ ।।
स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्।हरिश्रेष्ठं हनूमन्तमिन्द्रजित् प्रत्युवाच ह ।। ६.८१.२७ ।।
सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः।तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः ।। ६.८१.२८ ।।
इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर।सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ।। ६.८१.२९ ।।
न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम।पीडाकरममित्राणां यत् स्यात् कर्तव्यमेव तत् ।। ६.८१.३० ।।
तमेवमुक्त्वा रुदतीं सीतां मायामयीं तदा।शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् ।। ६.८१.३१ ।।
यज्ञोपवीतमार्गेण भिन्ना तेन तपस्विनी।सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना।तामिन्द्रजित्स्वयं हत्वा हनुमन्तमुवाच ह ।। ६.८१.३२ ।।
मया रामस्य पश्येमां कोपेन च निषूदिताम्।एषा विशस्ता वैदेही विफलो वः परिश्रमः ।। ६.८१.३३ ।।
ततः खड्गेन महता हत्वा तामिन्द्रिजित् स्वयम्।हृष्टः स रथमास्थाय विननाद महास्वनम् ।। ६.८१.३४ ।।
वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः।व्यादितास्यस्य नदतस्तहुर्गं संश्रितस्य च ।। ६.८१.३५ ।।
तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः।तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः सहसा प्रदुद्रुवुः ।। ६.८१.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकाशीतितमः सर्गः ।। ८१ ।।
श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम्।वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ।। ६.८२.१ ।।
तानुवाच ततःसर्वान् हनुमान् मारुतात्मजः।विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक् ।। ६.८२.२ ।।
कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः।त्यक्तयुद्धसमुत्साहाः शूरत्वं क्वनु वो गतम् ।। ६.८२.३ ।।
पृष्ठतो ऽनुव्रजध्वं मामग्रतो यान्तमाहवे।शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ।। ६.८२.४ ।।
एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः।शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः ।। ६.८२.५ ।।
अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः।परिवार्य हनूमन्तमन्वयुश्च महाहवे ।। ६.८२.६ ।।
स तैर्वानरमुख्यैश्च हनुमान् सर्वतो वृतः।हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ।। ६.८२.७ ।।
स राक्षसानां कदनं चकार सुमहाकपिः।वृतो वानरसैन्येन कालान्तकयमोपमः ।। ६.८२.८ ।।
स तु कोपेन चाविष्टः शोकेन च महाकपिः।हनुमान् रावणिरथे ऽपातयन्महतीं शिलाम् ।। ६.८२.९ ।।
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा।विधेयाश्वसमायुक्तः सुदूरमपवाहितः ।। ६.८२.१० ।।
तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम्।विवेशधरणीं भित्त्वा सा शिला व्यर्थमुद्यता ।। ६.८२.११ ।।
पातितायां शिलायां तु रक्षसां व्यथिता चमूः।निपतन्त्या च शिलया राक्षसा मथिता भृशम् ।। ६.८२.१२ ।।
तमभ्यधावञ्छतशो नदन्तः काननौकसः ।। ६.८२.१३ ।।
ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः।क्षिपन्तीन्द्रजितः सङ्ख्ये वानरा भीमविक्रमाः ।। ६.८२.१४ ।।
वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः।शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः ।। ६.८२.१५ ।।
वानरैस्तैर्महावीर्यैर्घोररूपा निशाचराः।वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणाजिरे ।। ६.८२.१६ ।।
स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्।प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ।। ६.८२.१७ ।।
स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः।जघान कपिशार्दूलान् स बहून् दृष्टविक्रमः ।। ६.८२.१८ ।।
शूलैरशनिभिः खड्गैः पट्टिशैः कूटमुद्गरैः।ते चाप्यनुचरास्तस्य वानरान् जघ्नुरोजसा ।। ६.८२.१९ ।।
सस्कन्धविटपैः सालैः शिलाभिश्च महाबलः।हनुमान् कदनं चक्रे रक्षसां भीमकर्मणाम् ।। ६.८२.२० ।।
स निवार्य परानीकमब्रवीत्तान् वनौकसः।हनुमान् सन्निवर्तध्वं न नः साध्यमिदं बलम् ।। ६.८२.२१ ।।
त्यक्त्वा प्राणान् विवेष्टन्तो रामिप्रियचिकीर्षवः।यन्निमित्तं हि युद्ध्यामो हता सा जनकात्मजा ।। ६.८२.२२ ।।
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च।तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् ।। ६.८२.२३ ।।
इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान्।शनैः शनैरसंत्रस्तः सबलः सन्न्यवर्तत ।। ६.८२.२४ ।।
ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः।स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम् ।। ६.८२.२५ ।।
निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित् ।। ६.८२.२६ ।।
यज्ञभूम्यां तु विधिवत् पावकस्तेन रक्षसा।हूयमानः प्रजज्वाल मांसशोणितभुक् तदा ।। ६.८२.२७ ।।
सो ऽर्चिःपिनद्धो ददृशे होमशोणिततर्पितः।सन्ध्यागत इवादित्यः सुतीव्रो ऽग्निः समुत्थितः ।। ६.८२.२८ ।।
अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित्।दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ।। ६.८२.२९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्व्यशीततमः सर्गः ।। ८२ ।।
राघवश्चापि विपुलं तं राक्षसवनौकसाम्।श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ।। ६.८३.१ ।।
सौम्य नूनं हनुमता क्रियते कर्म दुष्करम्।श्रूयते हि यथा भीमः सुमहानायुधस्वनः ।। ६.८३.२ ।।
तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः।क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ।। ६.८३.३ ।।
ऋक्षाराजस्तथोक्तस्तु स्वेनानीकेन संवृतः।आगच्छत् पश्चिमं द्वारं हनुमान् यत्र वानरः ।। ६.८३.४ ।।
अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि।वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ।। ६.८३.५ ।।
दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम्।नीलमेघनिभं भीमं सन्निवार्य न्यवर्तत ।। ६.८३.६ ।।
स तेन हरिसैन्येन सन्निकर्षं महायशाः।शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ।। ६.८३.७ ।।
समरे युद्ध्यमानानामस्माकं प्रेक्षतां पुरः।जघान रुदतीं सीतामिन्द्रिजिद्रावणात्मजः ।। ६.८३.८ ।।
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णो ऽहमरिन्दम।तदहं भवतो वृत्तं विज्ञापयितुमागतः ।। ६.८३.९ ।।
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः।निपपात तदा भूमौ छिन्नमूल इव द्रुमः ।। ६.८३.१० ।।
तं भूमौ देवसङ्काशं पतितं प्रेक्ष्य राघवम्।अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ।। ६.८३.११ ।।
असिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः।प्रदहन्तमनासाद्यं सहसा ऽग्निमिवोच्छिखम् ।। ६.८३.१२ ।।
तं लक्ष्मणो ऽथ बाहुभ्यां परिष्वज्य सुदुःखितः।उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ।। ६.८३.१३ ।।
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम्।अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ।। ६.८३.१४ ।।
भूतानां स्थावराणां च जङ्गमानां च दर्शनम्।यथा ऽस्ति न तथा धर्मस्तेन नास्तीति मे मतिः ।। ६.८३.१५ ।।
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्।नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ।। ६.८३.१६ ।।
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत्।भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ।। ६.८३.१७ ।।
तस्य च व्यसनाभावाद् व्यसनं च गते त्वयि।धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ।। ६.८३.१८ ।।
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः।यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ।। ६.८३.१९ ।।
यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः।धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ।। ६.८३.२० ।।
यस्मादर्था विवर्धन्ते येष्वधर्मः पतिष्ठितः।क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ।। ६.८३.२१ ।।
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव।वधकर्म हतो ऽधर्मः स हतः कं वधिष्यति ।। ६.८३.२२ ।।
अथवा विहितेनायं हन्यते हन्ति वा परम्।विधिरालिप्यते तेन न स पापेन कर्मणा ।। ६.८३.२३ ।।
अदृष्टप्रतिकारेण त्वव्यक्तेनासता सता।कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ।। ६.८३.२४ ।।
यदि सत् स्यात् सतां मुख्य नासत् स्यात्तव किञ्चन।त्वया यदीदृशं प्राप्तं तस्मात् सन्नोपपद्यते ।। ६.८३.२५ ।।
अथवा दुर्बलः क्लीबो बलं धर्मो ऽनुवर्तते।दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ।। ६.८३.२६ ।।
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे।धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ।। ६.८३.२७ ।।
अथ चेत् सत्यवचनं धर्मः किल परन्तप।अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ।। ६.८३.२८ ।।
यदि धर्मो भवेद्भूतो अधर्मो वा परन्तप।न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ।। ६.८३.२९ ।।
अधर्मसंश्रितो धर्मो विनाशयति राघव।सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ।। ६.८३.३० ।।
मम चेदं मतं तात धर्मो ऽयमिति राघव।धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ।। ६.८३.३१ ।।
अर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः।क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ।। ६.८३.३२ ।।
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः।व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ।। ६.८३.३३ ।।
सो ऽयमर्थं परित्यज्य सुखकामः सुखैधितः।पापमारभते कर्तुं ततो दोषः प्रवर्तते ।। ६.८३.३४ ।।
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ।। ६.८३.३५ ।।
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान्।यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ।। ६.८३.३६ ।।
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया।राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ।। ६.८३.३७ ।।
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम्।अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ।। ६.८३.३८ ।।
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः।अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ।। ६.८३.३९ ।।
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्।ते ऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ।। ६.८३.४० ।।
त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते।रक्षसा ऽपहृता भार्या प्राणैः प्रियतरा तव ।। ६.८३.४१ ।।
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्।कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ।। ६.८३.४२ ।।
उत्तिष्ठ नरशार्दूल दीर्घवाहो दृढव्रत।किमात्मानं महात्मानमात्मानं नावबुध्यसे ।। ६.८३.४३ ।।
अयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः।सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ।। ६.८३.४४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्र्यशीतितमः सर्गः ।। ८३ ।।
राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले।निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद्विभीषणः ।। ६.८४.१ ।।
नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः।नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः ।। ६.८४.२ ।।
सो ऽभिगम्य महात्मानं राघवं शोकलालसम्।वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ।। ६.८४.३ ।।
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्।ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ।। ६.८४.४ ।।
व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः।अन्तर्दुःखेन दीनात्मा किमेतदिति सो ऽब्रवीत् ।। ६.८४.५ ।।
विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्।लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ।। ६.८४.६ ।।
हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः।हनुमद्वचनात् सौम्य ततो मोहमुपागतः ।। ६.८४.७ ।।
कथयन्तं तु सौमित्रिं सन्निवार्य विभीषणः ।। ६.८४.८ ।।
मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता।तदयुक्तमहं मन्ये सागरस्येव शोषणम् ।। ६.८४.९ ।।
अभिप्रायं तु जानामि रावणस्य दुरात्मनः।सीतां प्रति महाबाहो न च घातं करिष्यति ।। ६.८४.१० ।।
याच्यमानस्तु बहुशो मया हितचिकीर्षुणा।वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः ।। ६.८४.११ ।।
नैव साम्ना न दानेन न भेदेन कुतो युधा।सा द्रुष्टुमपि शक्येत नैव चान्येन केनचित् ।। ६.८४.१२ ।।
वानरान् मोहयित्वा तु प्रतियातः स राक्षसः।चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति ।। ६.८४.१३ ।।
हुतवानुपयातो हि देवैरपि सवासवैः।दुराधर्षो भवत्येव सङ्ग्रामे रावणात्मजः ।। ६.८४.१४ ।।
तेन मोहयता नूनमेषा माया प्रयोजिता।विघ्नमन्विच्छता तत्र वानराणां पराक्रमे ।। ६.८४.१५ ।।
ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते।त्यजेमं नरशार्दूल मिथ्यासन्तापमागतम्।सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ।। ६.८४.१६ ।।
इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः।लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ।। ६.८४.१७ ।।
एष तं नरशार्दूलो रावणिं निशितैः शरैः।त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति ।। ६.८४.१८ ।।
तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः।पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ।। ६.८४.१९ ।।
तं सन्दिश महावाहो लक्ष्मणं शुभलक्षणम्।राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ।। ६.८४.२० ।।
मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत् क्षमो ऽद्य कर्तुम्।त्वमति सृज रिपोर्वधाय वाणीममररिपोर्मथने यथा महेन्द्रः ।। ६.८४.२१ ।।
समाप्तकर्मा हि स राक्षसाधिपो भवत्यदृस्यः समरे सुरासुरैः।युयुत्सता तेन समाप्तकर्मणा भवेत् सुराणामपि संशयो महान् ।। ६.८४.२२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुरशीतितमः सर्गः ।। ८४ ।।
तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः।नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ।। ६.८५.१ ।।
ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः।विभीषणमुपासीनमुवाच कपिसन्निधौ ।। ६.८५.२ ।।
नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण।भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ।। ६.८५.३ ।।
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः।यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ।। ६.८५.४ ।।
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्।तत्तथा ऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ।। ६.८५.५ ।।
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः।विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ।। ६.८५.६ ।।
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः ।। ६.८५.७ ।।
त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम्।त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् ।। ६.८५.८ ।।
तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी।उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ।। ६.८५.९ ।।
प्राप्तव्या वदि ते सीता हन्तव्याश्च निशाचराः।रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ।। ६.८५.१० ।।
साध्वयं यातु सौमित्रिर्बलेन महता वृतः।निकुम्भिलायां सम्प्राप्य हन्तुं रावणिमाहवे ।। ६.८५.११ ।।
धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः।शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः ।। ६.८५.१२ ।।
तेन वीर्येण तपसा वरदानात् स्वयम्भुवः।अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ।। ६.८५.१३ ।।
स एष सह सैन्येन प्राप्तः किल निकुम्भिलाम्।यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः ।। ६.८५.१४ ।।
निकुम्भिलामसम्प्राप्तमहुताग्निं च यो रिपुः।त्वामाततायिनं हन्यादिन्द्रशत्रोः स ते वधः।वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ।। ६.८५.१५ ।।
इत्येवं विहितो राजन् वधस्तस्यैष धीमतः।वधायेन्द्रजितो राम सन्दिशस्व महाबल।हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम् ।। ६.८५.१६ ।।
विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ।। ६.८५.१७ ।।
जानामि तस्य रौद्रस्य मायां सत्यपराक्रम।स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः।करोत्यसञ्ज्ञान् सङ्ग्रामे देवान् सवरुणानपि ।। ६.८५.१८ ।।
तस्यान्तरिक्षे चरतो रथस्थस्य महायशः।न गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसम्प्लवे ।। ६.८५.१९ ।।
राघवस्तु रिपोर्ज्ञात्वामायावीर्यं दुरात्मनः।लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ।। ६.८५.२० ।।
यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः।हनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ।। ६.८५.२१ ।।
जाम्बवेनर्क्षपतिना सहसैन्येन संवृतः।जहि तं राक्षससुतं मायाबलविशारदम् ।। ६.८५.२२ ।।
अयं त्वां सचिवैः सार्द्धं महात्मा रजनीचरः।अभिज्ञस्तस्य देशस्य पृष्ठतो ऽनुगमिष्यति ।। ६.८५.२३ ।।
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः।जाग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ।। ६.८५.२४ ।।
सन्नद्धः कवची खड्गी सशरो हेमचापधृत्।रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ।। ६.८५.२५ ।।
अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम्।लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ।। ६.८५.२६ ।।
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः।विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ।। ६.८५.२७ ।।
स एवमुक्त्वा द्युतिमान् वचनं भ्रातुरग्रतः।स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ।। ६.८५.२८ ।।
सो ऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्।निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ।। ६.८५.२९ ।।
विभीषणेन सहितो राजपुत्रः प्रतापवान्।कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ।। ६.८५.३० ।।
वानराणां सहस्रैस्तु हनुमान् बहुभिर्वृतः।विभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात् ।। ६.८५.३१ ।।
महता हरिसैन्येन सवेगमभिसंवृतः।ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ।। ६.८५.३२ ।।
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः।राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमास्थितम् ।। ६.८५.३३ ।।
स तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः।तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ।। ६.८५.३४ ।।
विभीषणेन सहितो राजपुत्रः प्रतापवान्।अङ्गदेन च वीरेण तथा ऽनिलसुतेन च ।। ६.८५.३५ ।।
विविधममलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश्च।प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ।। ६.८५.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चाशीतितमः सर्गः ।। ८५ ।।
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः।परेषामहितं वाक्यमर्थसाधकमब्रवीत् ।। ६.८६.१ ।।
यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते।एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ।। ६.८६.२ ।।
अस्यानीकस्य महतो भेदने यत लक्ष्मण।राक्षसेन्द्रसुतो ऽप्यत्र भिन्ने दृश्यो भविष्यति ।। ६.८६.३ ।।
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान्।अभिद्रवाशु यावद्वै नैतत् कर्म समाप्यते ।। ६.८६.४ ।।
जहि वीर दुरात्मानं मायापरमधार्मिकम्।रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ।। ६.८६.५ ।।
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः।ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ।। ६.८६.६ ।।
ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः।अभ्यधावन्त सहितास्तदनीकमवस्थितम् ।। ६.८६.७ ।।
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः।उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ।। ६.८६.८ ।।
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम्।शब्देन महता लङ्कां नादयन् वै समन्ततः ।। ६.८६.९ ।।
शस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः।उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ।। ६.८६.१० ।।
ते राक्षसा वानरेषु विकृताननबाहवः।निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ।। ६.८६.११ ।।
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः।अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ।। ६.८६.१२ ।।
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः।रक्षसां वध्यमानानां महद्भयमजायत ।। ६.८६.१३ ।।
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरार्दितम्।उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ।। ६.८६.१४ ।।
वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः।आरुरोह रथं सज्जं पूर्वयुक्तं सराक्षसः ।। ६.८६.१५ ।।
स भीमकार्मुकधरः कालमेघसमप्रभः।रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ।। ६.८६.१६ ।।
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम्।रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ।। ६.८६.१७ ।।
तस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम्।धरणीधरसङ्काशो महावृक्षमरिन्दमः ।। ६.८६.१८ ।।
स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन्।चकार बहुभिर्वृक्षैर्निस्सञ्ज्ञं युधि वानरः ।। ६.८६.१९ ।।
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्।राक्षसानां सहस्राणि हनुमन्तमवाकिरन् ।। ६.८६.२० ।।
शितशूलधराः शूलैरसिभिश्चासिपाणयः।शक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ।। ६.८६.२१ ।।
परिधैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः।शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ।। ६.८६.२२ ।।
घौरैः परश्वधैश्चैव भिन्दिपालैश्च राक्षसाः।मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः।अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् ।। ६.८६.२३ ।।
तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ।। ६.८६.२४ ।।टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः।स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्।सूदयन्तमभित्रघ्नममित्रान् पवनात्मजम् ।। ६.८६.२५ ।।
स सारथिमुवाचेदं याहि यत्रैष वानरः।क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ।। ६.८६.२६ ।।
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः।वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ।। ६.८६.२७ ।।
सो ऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान्।अभ्यवर्षत दुर्द्धर्षः कपिमूर्ध्नि स राक्षसः ।। ६.८६.२८ ।।
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः।रोषेण महता ऽ ऽविष्टो वाक्यं चेदमुवाच ह ।। ६.८६.२९ ।।
युद्ध्यस्व यदि शूरो ऽसि रावणात्मज दुर्मते।वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ।। ६.८६.३० ।।
बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे।वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ।। ६.८६.३१ ।।
हनुमन्तं जिघांसन्तं समुद्यतशरासनम्।रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ।। ६.८६.३२ ।।
यः स वासवनिर्जेता रावणस्यात्मसम्भवः।स एष रथमास्थाय हनुमन्तं जिघांसति ।। ६.८६.३३ ।।
तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः।जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ।। ६.८६.३४ ।।
इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन।ददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ।। ६.८६.३५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षडशीतितमः सर्गः ।। ८६ ।।
एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः।धनुष्पाणिनमादाय त्वरमाणो जगाम ह ।। ६.८७.१ ।।
अविदूरं ततो गत्वा प्रविश्य च महद्वनम्।दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ।। ६.८७.२ ।।
नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम्।तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ।। ६.८७.३ ।।
इहोपहारं भूतानां बलवान् रावणात्मजः।उपहृत्य ततः पश्चात् सङ्ग्राममभिवर्तते ।। ६.८७.४ ।।
अदृश्यः सर्वभूतानां ततो भवति राक्षसः।निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः ।। ६.८७.५ ।।
तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम्।विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ।। ६.८७.६ ।।
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः।बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः ।। ६.८७.७ ।।
स रथेनाग्निवर्णेन बलवान् रावणात्मजः।इन्द्रजित् कवची धन्वी सध्वजः प्रत्यदृश्यत ।। ६.८७.८ ।।
तमुवाच महातेजाः पौलस्त्यमपराजितम्।समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ।। ६.८७.९ ।।
एवमुक्तो महातेजा मनस्वी रावणात्मजः।अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ।। ६.८७.१० ।।
इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम।कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ।। ६.८७.११ ।।
न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते।प्रमाणं न च सौदर्यं न धर्मो धर्मदूषण ।। ६.८७.१२ ।।
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः।यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ।। ६.८७.१३ ।।
नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम्।क्वच स्वजनसंवासः क्वच नीचपराश्रयः ।। ६.८७.१४ ।।
गुणवान् वा परजनः स्वजनो निर्गुणो ऽपि वा।निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ।। ६.८७.१५ ।।
यः स्वपक्षं परित्यज्य परपक्षं निषेवते।स स्वपक्षे क्षयं प्राप्ते पश्चात्तैरेव हन्यते ।। ६.८७.१६ ।।
निरनुक्रोशता चेयं यादृशी ते निशाचर।स्वजनेन त्वया शक्यं परुषं रावणानुज ।। ६.८७.१७ ।।
इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ।। ६.८७.१८ ।।
अजानन्निव मच्छीलं किं राक्षस विकत्थसे।राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ।। ६.८७.१९ ।।
कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्।गुणो ऽयं प्रथमो नृणां तन्मे शीलमराक्षसम् ।। ६.८७.२० ।।
न रमे दारुणेनाहं न चाधर्मेण वै रमे।भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ।। ६.८७.२१ ।।
धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम्।त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ।। ६.८७.२२ ।।
हिंसापरस्वहरणे परदाराभिमर्शनम्।त्याज्यमाहुर्दुराचारं वेश्म प्रज्वलितं यथा ।। ६.८७.२३ ।।
परस्वानां च हरणं परदाराभिमर्शनम्।सुहृदामतिशङ्का च त्रयो दोषाः क्षयाबहाः ।। ६.८७.२४ ।।
महर्षिणां वधो घोरः सर्वदेवैश्च विग्रहः।अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ।। ६.८७.२५ ।।
एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः।गुणान् प्रच्छादयामासुः पर्वतानिव तोयदाः।दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ।। ६.८७.२६ ।।
नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ।। ६.८७.२७ ।।्छादयामासुः पर्वतानिव तोयदाः।अतिमानी च बालश्च दुर्विनीतश्च राक्षस।बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ।। ६.८७.२८ ।।
अद्य ते व्यसनं प्राप्तं किं मां त्वमिह वक्ष्यसि।प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ।। ६.८७.२९ ।।
धर्षयित्वा च काकुत्स्थौ न शक्यं जीवितुं त्वया।युद्ध्यस्व नरदेवेन लक्ष्मणेन रणे सह।हतस्त्वं देवताकार्यं करिष्यसि यमक्षये ।। ६.८७.३० ।।
निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम्।न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन् सबलो गमिष्यसि ।। ६.८७.३१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्ताशतीतितमः सर्गः ।। ८७ ।।
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः।अब्रवीत् परुषं वाक्यं वेगेनाभ्युत्पपात ह ।। ६.८८.१ ।।
उद्यतायुधनिस्त्रिंशो रथे सुसमलङ्कृते।कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ।। ६.८८.२ ।।
महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम्।धनुर्भीमं परामृश्य शरांश्चामित्रशातनान् ।। ६.८८.३ ।।
तं ददर्श महेष्वासो रथे सुसमलङ्कृतः।अलङ्कृतममित्रघ्नं राघवस्यानुजं बली।हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् ।। ६.८८.४ ।।
उवाचैनं समारब्धः सौमित्रिं सविभीषणम्।तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम् ।। ६.८८.५ ।।
अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्।मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे ।। ६.८८.६ ।।
अद्य वो मामका बाणा महाकार्मुकनिस्सृताः।विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ।। ६.८८.७ ।।
तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यष्टितोमरैः।अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ।। ६.८८.८ ।।
क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि।जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ।। ६.८८.९ ।।
रात्रियुद्धे मया पूर्वं वज्राशनिसमैः शरैः।शायितौ स्थो मया भूमौ विसञ्ज्ञौ सपुरस्सरौ ।। ६.८८.१० ।।
स्मृतिर्न ते ऽस्ति वा मन्ये व्यक्तं वा यमसादनम्।आशीविषमिव क्रुद्धं यन्मां योद्धुं व्यवस्थितः ।। ६.८८.११ ।।
तच्छुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्णस्तदा।अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ।। ६.८८.१२ ।।
उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया।कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ।। ६.८८.१३ ।।
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्।वचो व्याहृत्य जानीषे कृतार्थो ऽस्मीति दुर्मते ।। ६.८८.१४ ।।
अन्तर्धानगतेनाजौ यस्त्वया ऽ ऽचरितस्तदा।तस्कराचरितो मार्गो नैष वीरनिषेवितः ।। ६.८८.१५ ।।
यथा बाणपथं प्राप्य स्थितो ऽहं तव राक्षस।दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ।। ६.८८.१६ ।।
एवमुक्तो धनुर्भीमं परामृश्य महाबलः।ससर्ज निशितान् बाणानिन्द्रजित् समितिञ्जयः ।। ६.८८.१७ ।।
ते निसृष्टा महावेगाः शराः सर्पविषोपमाः।सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ।। ६.८८.१८ ।।
शरैरतिमहावेगैर्वेगवान् रावणात्मजः।सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् ।। ६.८८.१९ ।।
स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः।शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः ।। ६.८८.२० ।।
इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च।विनद्य सुमहानादमिदं वचनमब्रवीत् ।। ६.८८.२१ ।।
पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः।आदास्यन्ते ऽद्य सौमित्रे जिवितं जिवितान्तगाः ।। ६.८८.२२ ।।
अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण।गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ।। ६.८८.२३ ।।
क्षत्रबन्धुं सदानार्यं रामः परमादुर्मतिः।भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम् ।। ६.८८.२४ ।।
विशस्तकवचं भूमौ व्यपविद्धशरासनम्।हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ।। ६.८८.२५ ।।
इति ब्रुवाणं संरब्धं परुषं रावणात्मजम्।हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह ।। ६.८८.२६ ।।
वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मा ऽसि राक्षस।अथ कस्माद्वदस्येतत् सम्पादय सुकर्मणा ।। ६.८८.२७ ।।
अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस।कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् ।। ६.८८.२८ ।।
अनुक्त्वा परुषं वाक्यं किञ्चिदप्यनवाक्षिपन्।अविकत्थन् वधिष्यामि त्वां पश्य पुरुषाधम ।। ६.८८.२९ ।।
इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शितान्।निजघान महावेगान् लक्ष्मणो राक्षसोरसि ।। ६.८८.३० ।।
सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः।नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा ।। ६.८८.३१ ।।
स शरैराहतस्तेन सरोषो रावणात्मजः।सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ।। ६.८८.३२ ।।
स बभूव तदा भीमो नरराक्षससिंहयोः।विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः ।। ६.८८.३३ ।।
उभौ हि बलसम्पन्नावुभौ विक्रमशालिनौ ।। ६.८८.३४ ।।
उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ।उभौ परमदुर्जेयावतुल्यबलतेजसौ ।। ६.८८.३५ ।।
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ ।। ६.८८.३६ ।।
बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ।युयुधाते महात्मानौ तदा केसरिणाविव ।। ६.८८.३७ ।।
बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ।नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ।। ६.८८.३८ ।।
सुसम्प्रहृष्टौ नरराक्षसोत्तमौ जयैषिणौ मार्गणचापधारिणौ।परस्परं तौ प्रववर्षतुर्भृशं शरौघवर्षेण बलाहकाविव ।। ६.८८.३९ ।।
अभिप्रवृद्धौ युधि युद्धकोविदौ शरासिचण्डौ शितशस्त्रधारिणौ।अभीक्ष्णमाविव्यधतुर्महाबलौ महाहवे शम्बरवासवाविव ।। ६.८८.४० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टाशीतितमः सर्गः ।। ८८ ।।
ततः शरं दाशरथिः सन्धायामित्रकर्शनः।ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ।। ६.८९.१ ।।
तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः।विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ।। ६.८९.२ ।।
तं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम्।सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः ।। ६.८९.३ ।।
निमित्तान्यनुपश्यामि यान्यस्मिन् रावणात्मजे।त्वर तेन महाबोहो भग्न एष न संशयः ।। ६.८९.४ ।।
ततः सन्धाय सौमित्रिर्बाणानग्निशिखोपमान्।मुमोच निशितांस्तस्मिन् सर्पानिव महाविषान् ।। ६.८९.५ ।।
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः।मुहूर्तमभवन्मूढः सर्वसङ्क्षुभितेन्द्रियः ।। ६.८९.६ ।।
उपलभ्य मुहूर्तेन सञ्ज्ञां प्रत्यागतेन्द्रियः।ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ।। ६.८९.७ ।।
सो ऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः।अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ।। ६.८९.८ ।।
किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम्।निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्टसे ।। ६.८९.९ ।।
युवां खलु महायुद्धे शक्राशनिसमैः शरैः।शायितौ प्रथमं भूमौ विसञ्ज्ञौ सपुरस्सरौ ।। ६.८९.१० ।।
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्।गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि ।। ६.८९.११ ।।
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः।अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ।। ६.८९.१२ ।।
इत्युक्त्वा सप्तभिबाणैरभिविव्याध लक्ष्मणम्।दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ।। ६.८९.१३ ।।
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्।क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् ।। ६.८९.१४ ।।
तद्दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा।अचिन्तयित्वा प्रहसन् नैतत् किञ्चिदिति ब्रुवन्।मुमोच स शरान् घोरान् सङ्गृह्य नरपुङ्गवः ।। ६.८९.१५ ।।
अभीतवदनः क्रुद्धो रावणिं लक्ष्मणौ युधि।नैवं रणगताः शूराः प्रहरन्ते निशाचर ।। ६.८९.१६ ।।न्।लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव।नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः ।। ६.८९.१७ ।।
इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् ।। ६.८९.१८ ।।
तस्य बाणैः सुविध्वस्तं कवचं हेमभूषितम्।व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ।। ६.८९.१९ ।।
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः।इन्द्रजित् समरे वीरः प्ररूढ इव सानुमान् ।। ६.८९.२० ।।
ततः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः।बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः ।। ६.८९.२१ ।।
व्यशीर्यत महादिव्यं कवचं लक्ष्मणस्य च।कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ।। ६.८९.२२ ।।
अभीक्ष्णं निश्वसन्तौ तौ युद्ध्येतां तुमुलं युधि।शरसङ्कृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ।। ६.८९.२३ ।।
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः।ततक्षतुर्महात्मानौ रणकर्मविशारदौ ।। ६.८९.२४ ।।
बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ।तौ शरौघैस्तदा कीर्णौ निकृत्तकवचध्वजौ।स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ।। ६.८९.२५ ।।
शरवर्षं ततो घोरं मुञ्चतोर्भीमनिस्वनम्।सासारयोरिवाकाशे नीलयोः कालमेघयोः ।। ६.८९.२६ ।।
तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः।न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ।। ६.८९.२७ ।।
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनःपुनः।शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ।। ६.८९.२८ ।।
व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च।उभौ तौ तुमुलं घोरं चक्रतुर्नरराक्षसौ ।। ६.८९.२९ ।।
तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनः।प्रकम्पयन् जनं घोरो निर्घात इव दारुणः ।। ६.८९.३० ।।
स तयोर्भ्राजते शब्दस्तदा समरसक्तयोः।सुघोरयोर्निष्टनतोर्गगने मेगयोर्यथा ।। ६.८९.३१ ।।
सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ।प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ।। ६.८९.३२ ।।
ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि।असृङ्नद्धा विनिष्पत्य विविशुर्धरणीतलम् ।। ६.८९.३३ ।।
अन्ये सुनिशितैः शस्त्रैराकाशे सञ्जघट्टिरे।बभञ्जुश्चिच्छिदुश्चान्ये तयोर्बाणाः सहस्रशः ।। ६.८९.३४ ।।
स बभूव रणो घोरस्तयोर्बाणमयश्चयः।अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ।। ६.८९.३५ ।।
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः।सपुष्पाविव निष्पत्रौ वने शाल्मलिकिंशुकौ ।। ६.८९.३६ ।।
चक्रुतुस्तुमुलं घोरं सन्निपातं मुहुर्मुहुः।इन्द्रजिल्लक्ष्मणश्चैव परस्परवधैषिणौ ।। ६.८९.३७ ।।
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्।अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ।। ६.८९.३८ ।।
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ।शुशुभाते महावीर्यो प्ररूढाविव पर्वतौ ।। ६.८९.३९ ।।
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्।बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ।। ६.८९.४० ।।
तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः।न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ।। ६.८९.४१ ।।
अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य।प्रियहितमुपपादयन् महौजाः समरमुपेत्य विभीषणो ऽवतस्थे ।। ६.८९.४२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोननवतितमः सर्गः ।। ८९ ।।
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नराक्षसौ।प्रभिन्नाविव मातङ्गौ परस्परवधैषिणौ ।। ६.९०.१ ।।
तौ द्रष्टुकामः सङ्ग्रामे परस्परगतौ बली।शूरः स रावणभ्राता तस्थौ सङ्ग्राममूर्धनि ।। ६.९०.२ ।।
ततो विस्फारयामास महद्धनुरवस्थितः।उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् ।। ६.९०.३ ।।
ते शराः शिखिसङ्काशा निपतन्तः समाहिताः।राक्षसान् दारयामासुर्वज्राणीव महागिरीन् ।। ६.९०.४ ।।
विभीषणस्यानुचरास्ते ऽपि शूलासिपट्टिशैः।चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः ।। ६.९०.५ ।।
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः।बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ।। ६.९०.६ ।।
ततः सञ्चोदयानो वै हरीन् रक्षो रणप्रियान्।उवाच वचनं काले कालज्ञो रक्षसां वरः ।। ६.९०.७ ।।
एको ऽयं राक्षसेन्द्रस्य परायणमिव स्थितः।एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ।। ६.९०.८ ।।
अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि।रावणं वर्जयित्वा तु शेषमस्य हतं बलम् ।। ६.९०.९ ।।
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः।कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ।। ६.९०.१० ।।
जम्बुमाली महामाली तीक्ष्णवेगो ऽशनिप्रभः।सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः ।। ६.९०.११ ।।
संह्रादी विकटो निघ्नस्तपनो दम एव च।प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च ।। ६.९०.१२ ।।
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान्।विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः ।। ६.९०.१३ ।।
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः।कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ ।। ६.९०.१४ ।।
एतान्निहत्यातिबलान् बहून् राक्षससत्तमान्।बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ।। ६.९०.१५ ।।
एतावदेव शेषं वो जेतव्यमिह वानराः।हताः सर्वे समागम्य राक्षसा बलदर्पिताः ।। ६.९०.१६ ।।
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम।घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ।। ६.९०.१७ ।।
हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुद्ध्यति।तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति।वानरा घ्नत सम्भूय भृत्यानस्य समीपगान् ।। ६.९०.१८ ।।
इति तेनातियशसा राक्षसेनाभिचोदिताः।वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः ।। ६.९०.१९ ।।
ततस्ते कपिशार्दूलाः क्ष्वेलन्तश्च मुहुर्मुहुः।मुमुचुर्विविधान्नादान् मेघान् दृष्ट्वेव बर्हिणः ।। ६.९०.२० ।।
जाम्बवानपि तैः सर्वैः स्वयूथैरपि संवृतः।अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ।। ६.९०.२१ ।।
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः।परिवव्रुभयं त्यक्त्वा तमनेकविधायुधाः ।। ६.९०.२२ ।।
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः।जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ।। ६.९०.२३ ।।
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम्।देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ।। ६.९०.२४ ।।
हनुमानपि सङ्क्रुद्धः सालमुत्पाट्य वीर्यवान्।रक्षसां कदनं चक्रे समासाद्य सहस्रशः ।। ६.९०.२५ ।।
स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि।लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत ।। ६.९०.२६ ।।
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ।शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ।। ६.९०.२७ ।।
अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ।चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ।। ६.९०.२८ ।।
न ह्यादानं न सन्धानं धनुषो वा परिग्रहः।न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ।। ६.९०.२९ ।।
न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम्।अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ।। ६.९०.३० ।।
चापवेगविनिर्मुक्तबाणजालैः समन्ततः।अन्तरिक्षे हि सञ्छन्ने न रूपाणि चकाशिरे ।। ६.९०.३१ ।।
लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम्।अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे ।। ६.९०.३२ ।।
ताभ्यामुभाभ्यां तरसा विसृष्टैर्विशिखैः शितैः।निरन्तरमिवाकाशं बभूव तमसावृतम् ।। ६.९०.३३ ।।
तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः।दिशश्च प्रदिशश्चैव बभूवुः शरसङ्कुलाः ।। ६.९०.३४ ।।
तमसा संवृतं सर्वमासीद्भीमतरं महत्।अस्तं गते सहस्रांशौ संवृतं तमसेव हि ।। ६.९०.३५ ।।
रुधिरौघमहानद्यः प्रावर्तन्त सहस्रशः।क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिस्वनम् ।। ६.९०.३६ ।।
न तदानीं ववौ वायुर्न च जज्वाल पावकः।स्वस्त्यस्तु लोकेभ्य इति जजल्पुश्च महर्षयः ।। ६.९०.३७ ।।
सम्पेतुश्चात्र सम्प्राप्ता गन्धर्वाः सह चारणैः ।। ६.९०.३८ ।।
अथ राक्षससिंहस्य कृष्णान् कनकभूषणान्।शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ।। ६.९०.३९ ।।
ततो ऽपरेण भल्लेन शितेन निशितेन च।सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा ।। ६.९०.४० ।।
महेन्द्राशनिकल्पेन सुतस्य विचरिष्यतः।स तेन बाणाशनिना तलशब्दानुनादिना ।। ६.९०.४१ ।।
लाघवाद्राघवः श्रीमान् शिरः कायादपाहरत् ।। ६.९०.४२ ।।
स यन्तरि महातेजा हते मन्दोदरीसुतः ।। ६.९०.४३ ।।
स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत्।तदद्भुतमभूत्तत्र सामर्थ्यं पश्यतां युधि ।। ६.९०.४४ ।।
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः।धनुष्यथ पुनर्व्यग्रे हयेषु मुमुचे शरान् ।। ६.९०.४५ ।।
छिद्रेषु तेषु बाणेषु सौमित्रिः शीघ्रविक्रमः।अर्दयामास बाणौघैर्विचरन्तमभीतवत् ।। ६.९०.४६ ।।
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः।प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ।। ६.९०.४७ ।।
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः।ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् ।। ६.९०.४८ ।।
ततः प्रमाथी शरभो रभसो गन्धमादनः।अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ।। ६.९०.४९ ।।
ते चास्य हयमुख्येषु तूर्णमुत्प्लुत्य वानराः।चतुर्षु समहावीर्या निपेतुर्भीमविक्रमाः ।। ६.९०.५० ।।
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः।मुखेभ्यो रुधिरं रक्तं हयानां समवर्तत ।। ६.९०.५१ ।।
ते हया मथिता भग्ना व्यसवो धरणीं गताः।ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् ।। ६.९०.५२ ।।
पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः।स हताश्वादवप्लुत्य रथान्मथितसारथेः।शरवर्षेण सौमित्रिमभ्यधावत रावणिः ।। ६.९०.५३ ।।
ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः।सृजन्तमाजौ निशितान् शरोत्तमान् भृशं तदा बाणगणैर्न्यवारयत् ।। ६.९०.५४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवतितमः सर्गः ।। ९० ।।
स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः।इन्द्रजित् परमक्रुद्धः सम्प्रजज्वाल तेजसा ।। ६.९१.१ ।।
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्।विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ।। ६.९१.२ ।।
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः।भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः ।। ६.९१.३ ।।
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः।स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत् ।। ६.९१.४ ।।
तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः।नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः ।। ६.९१.५ ।।
धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै।अहं तु रथमास्थाय आगमिष्यामि संयुगम् ।। ६.९१.६ ।।
तथा भवन्तः कुर्वन्तु यथेमे काननौकसः।न युद्ध्येयुर्दुरात्मानः प्रविष्टे नगरं मयि ।। ६.९१.७ ।।
इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः।प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा ।। ६.९१.८ ।।
स रथं भूषयित्वा तु रुचिरं हेमभूषितम्।प्रासासिशतसम्पूर्णं युक्तं परमवाजिभिः ।। ६.९१.९ ।।
अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना।आरुरोह महातेजा रावणिः समितिञ्जयः ।। ६.९१.१० ।।
स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः।निर्ययौ नगरात्तूर्णं कृतान्तबलचोदितः ।। ६.९१.११ ।।
सो ऽभिनिष्क्रम्य नगरादिन्द्रजित् परवीरहा।आभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम् ।। ६.९१.१२ ।।
ततो रथस्तमालोक्य सौमित्री रावणात्मजम्।वानराश्च महावीर्या राक्षसश्च विभीषणः।विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः ।। ६.९१.१३ ।।
रावणिश्चापि सङ्क्रुद्धो रणे वानरयूथपान्।पातयामास बाणौघैः शतशो ऽथ सहस्रशः ।। ६.९१.१४ ।।
स मण्डलीकृतधनू रावणिः समितिञ्जयः।हरीनभ्यहनत् क्रुद्धः परं लाघवमास्थितः ।। ६.९१.१५ ।।
ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः।सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः ।। ६.९१.१६ ।।
ततः समरकोपेन ज्वलितो रघुनन्दनः।चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम् ।। ६.९१.१७ ।।
सो ऽन्यत् कार्मुकमादय सज्यं चक्रे त्वरन्निव।तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत ।। ६.९१.१८ ।।
अथैनं छिन्नधन्वानमाशीविषविषोपमैः।विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः ।। ६.९१.१९ ।।
ते तस्य कायं निर्भिद्य महाकार्मुकनिस्सृताः।निपेतुर्धरणीं बाणा रक्ता इव महोरगाः ।। ६.९१.२० ।।
स भिन्नवर्मा रुधिरं वमन् वक्त्रेण रावणिः।जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम् ।। ६.९१.२१ ।।
स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः।ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः ।। ६.९१.२२ ।।
मुक्तमिन्द्रजिता तत्तु शरवर्षमरिन्दमः।अवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम् ।। ६.९१.२३ ।।
दर्शयामास च तदा रावणिं रघुनन्दनः।असम्भ्रान्तो महातेजास्तदद्भुतमिवाभवत् ।। ६.९१.२४ ।।
ततस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे ।। ६.९१.२५ ।।
अविध्यत् परमक्रुद्धः शीघ्रास्त्रं सम्प्रदर्शयन्।राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत् ।। ६.९१.२६ ।।
सो ऽतिविद्धो बलवता शत्रुणा शत्रुघातिना।असक्तं प्रेषयामास लक्ष्मणाय बहून् शरान् ।। ६.९१.२७ ।।
तानप्राप्तान् शितैर्बाणैश्चिच्छेद रघुनन्दनः।सारथेरस्य च रणे रथिनो रथसत्तमः।शिरो जहार धर्मात्मा भल्लेनानतपर्वणा ।। ६.९१.२८ ।।
असूतास्ते हयास्तत्र रथमूहुरविक्लवाः।मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत् ।। ६.९१.२९ ।।
अमर्षवशमापन्नः सौमित्रिर्द्दढविक्रमः।प्रत्यविद्ध्यद्धयांस्तस्य शरैर्वित्रासयन् रणे ।। ६.९१.३० ।।
अमृष्यमाणस्तत्कर्म रावणस्य सुतो बली।विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम् ।। ६.९१.३१ ।।
ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः।विलयं जग्मुराहत्य कवचं काञ्चनप्रभम् ।। ६.९१.३२ ।।
अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः।ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित्।अविध्यत् परमक्रुद्धः शीघ्रास्त्रं च प्रदर्शयन् ।। ६.९१.३३ ।।
तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः।रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः ।। ६.९१.३४ ।।
स तथा ह्यर्दितो बाणै राक्षसेन महामृधे।तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः।विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले ।। ६.९१.३५ ।।
लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ।अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ ।। ६.९१.३६ ।।
ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ।रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ ।। ६.९१.३७ ।।
तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ।घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ।। ६.९१.३८ ।।
ततः समरकोपेन संयुक्तो रावणात्मजः।विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे ।। ६.९१.३९ ।।
अयोमुखैस्त्रिर्भिर्विद्ध्वा राक्षसेन्द्रं विभीषणम्।एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान् ।। ६.९१.४० ।।
तस्मै दृढतरं क्रुद्धो जघान गदया हयान्।विभीषणो महातेजा रावणेः स दुरात्मनः ।। ६.९१.४१ ।।
स हताश्वादवप्लुत्य रथान्निहतसारथेः।रथशक्तिं महातेजाः पितृव्याय मुमोच ह ।। ६.९१.४२ ।।
तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः।चिच्छेद निशितैर्बाणैर्दशधा सा ऽपतद्भुवि ।। ६.९१.४३ ।।
तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः।वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान् ।। ६.९१.४४ ।।
ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः।बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः ।। ६.९१.४५ ।।
स पितृव्याय सङ्क्रुद्ध इन्द्रजिच्छरमाददे।उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ।। ६.९१.४६ ।।
तं समीक्ष्य महातेजा महेषुं तेन संहितम्।लक्ष्मणो ऽप्याददे बाणमन्यं भीमपराक्रमः ।। ६.९१.४७ ।।
कुबेरेण स्वयं स्वप्ने स्वस्मै दत्तं महात्मना।दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः ।। ६.९१.४८ ।।
तयोस्ते धनुषी श्रेष्ठे बाहुभिः परिघोपमैः।विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः ।। ६.९१.४९ ।।
ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ।विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ।। ६.९१.५० ।।
तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ।मुखेन मुखमाहत्य सन्निपेततुरोजसा ।। ६.९१.५१ ।।
सन्निपातस्तयोरासीच्छरयोर्घोररूपयोः।सधूमविस्फुलिङ्गश्च तज्जो ऽग्निर्दारुणो ऽभवत् ।। ६.९१.५२ ।।
तौ महाग्रहसङ्काशावन्योन्यं सन्निपत्य च।सङ्ग्रामे शतधा यान्तौ मेदिन्यां विनिपेततुः ।। ६.९१.५३ ।।
शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि।व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा ।। ६.९१.५४ ।।
सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ।। ६.९१.५५ ।।
रौद्रं महेन्द्रजिद्युद्धे व्यसृजद्युधि निष्ठितः।तेन तद्विहतं त्वस्त्रं वारुणं परमाद्भुतम् ।। ६.९१.५६ ।।
ततः क्रुद्धो महातेजा इन्द्रजित् समितिञ्जयः।आग्नेयं सन्दधे दीप्तं स लोकं सङ्क्षिपन्निव ।। ६.९१.५७ ।।
सौरेणास्त्रेण तद्वीरो लक्ष्मणः प्रत्यवारयत् ।। ६.९१.५८ ।।
अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्च्छितः।आसुरं शत्रुनाशाय घोरमस्त्रं समाददे ।। ६.९१.५९ ।।
तस्माच्चापाद्विनिष्पेतुर्भास्वराः कूटमुद्गराः।शूलानि च भुशुण्ड्यश्च गदाः खड्गाः परश्वधाः ।। ६.९१.६० ।।
तद्दृष्ट्वा लक्ष्मणः सङ्ख्ये घोरमस्त्रमथासुरम्।अवार्यं सर्वभूतानां सर्वशत्रुविनाशनम्।माहेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत् ।। ६.९१.६१ ।।
तयोः सुतुमुलं युद्धं सम्बभूवाद्भुतोपमम्।गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ।। ६.९१.६२ ।।
भैरवाभिरुते भीमे युद्धे वानररक्षसाम्।भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ।। ६.९१.६३ ।।
ऋषयः पितरो देवा गन्धर्वा गरुडोरगाः।शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ।। ६.९१.६४ ।।
अथान्यं मार्गणश्रेष्ठं सन्दधे राघवानुजः।हुताशनसमस्पर्शं रावणात्मजदारणम् ।। ६.९१.६५ ।।
सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्।सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ।। ६.९१.६६ ।।
दुरावारं दुर्विषह्यं राक्षसानां भयावहम्।आशीविषविषप्रख्यं देवसङ्घैः समर्चितम् ।। ६.९१.६७ ।।
येन शक्रो महातेजा दानवानजयत् प्रभुः।पुरा दैवासुरे युद्धे वीर्यवान् हरिवाहनः ।। ६.९१.६८ ।।
तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्।शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठो ऽभिसन्दधे ।। ६.९१.६९ ।।
सन्धायामित्रदलनं विचकर्ष शरासनम्।सज्यमायम्य दुर्धर्षं कालो लोकक्षये यथा ।। ६.९१.७० ।।
सन्धाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत्।लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः ।। ६.९१.७१ ।।
धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि।पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम् ।। ६.९१.७२ ।।
इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्।लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति।ऐन्द्रास्त्रेण समायोज्य लक्ष्मणः परवीरहा ।। ६.९१.७३ ।।
स शिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्।प्रमथ्येन्द्रजितः कायात् पातयामास भूतले ।। ६.९१.७४ ।।
तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत्।तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ।। ६.९१.७५ ।।
हतस्तु निपपाताशु धरण्यां रावणात्मजः।कवची सशिरस्त्राणो विध्वस्तः सशरासनः ।। ६.९१.७६ ।।
चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः।हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा ।। ६.९१.७७ ।।
अथान्तरिक्षे देवानामृषीणां च महात्मनाम्।अभिजज्ञे च सन्नादो गन्धर्वाप्सरसामपि ।। ६.९१.७८ ।।
पतितं तमभिज्ञाय राक्षसी सा महाचमूः।वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ।। ६.९१.७९ ।।
वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः।लङ्कामभिमुखाः सस्त्रुर्नष्टसञ्ज्ञाः प्रधाविताः ।। ६.९१.८० ।।
दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः।त्यक्त्वा प्रहरणान् सर्वे पट्टिशासिपरश्वधान् ।। ६.९१.८१ ।।
केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः।समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः ।। ६.९१.८२ ।।
हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ।राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत ।। ६.९१.८३ ।।
यथा ऽस्तं गत आदित्ये नावतिष्ठन्ति रश्मयः।तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ।। ६.९१.८४ ।।
शान्तरश्मिरिवादित्यो निर्वाण इव पावकः।स बभूव महातेजा व्यपास्तगतजीवितः ।। ६.९१.८५ ।।
प्रशान्तपीडाबहुलो नष्टारिष्टः प्रतापवान्।बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ।। ६.९१.८६ ।।
हर्षं च शक्रो भगवान् सह सर्वैः सुरर्षभैः।जगाम निहते तस्मिन् राक्षसे पापकर्मणि ।। ६.९१.८७ ।।
आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः ।। ६.९१.८८ ।।
नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः ।। ६.९१.८९ ।।
ववृषुः पुष्पवर्षाणि तदद्भुतमभूत्तदा।प्रशशंसुर्हते तस्मिन् राक्षसे क्रूरकर्मणि ।। ६.९१.९० ।।
शुद्धा आपो दिशश्चैव जहृषुर्दैत्यदानवाः ।। ६.९१.९१ ।।
आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे।ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः।विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ।। ६.९१.९२ ।।
ततो ऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः।तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुङ्गवम् ।। ६.९१.९३ ।।
विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः।विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ।। ६.९१.९४ ।।
क्ष्वेलन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः।लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ।। ६.९१.९५ ।।
लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः।लक्ष्मणो जयतीत्येवं वाक्यं विश्रावयंस्तदा ।। ६.९१.९६ ।।
अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः।चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः ।। ६.९१.९७ ।।
तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म।परममुपलभन् मनः प्रहर्षं विनिहतमिन्द्ररिपुं निशम्य देवाः ।। ६.९१.९८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकनवतितमः सर्गः ।। ९१ ।।
रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः।बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ।। ६.९२.१ ।।
ततः स जाम्बवन्तं च हनुमन्तं च वीर्यवान्।सन्निहत्य महातेजास्तांश्च सर्वान् वनौकसः ।। ६.९२.२ ।।
आजगाम ततस्तीव्रं यत्र सुग्रीवराघवौ।विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ।। ६.९२.३ ।।
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च।तस्थौ भ्रातृसमीपस्थ इन्द्रस्येव बृहस्पतिः ।। ६.९२.४ ।।
निष्टनन्निव चागम्य राघवाय महात्मने।आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ।। ६.९२.५ ।।
रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना।न्यवेदयत रामाय तदा हृष्टो विभीषणः ।। ६.९२.६ ।।
श्रुत्वैतत्तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम्।प्रहर्षमतुलं लेभे रामो वाक्यमुवाच ह ।। ६.९२.७ ।।
साधु लक्ष्मण तुष्टो ऽस्मि कर्मणा सुकृतं कृतम्।रावणेर्हि विनाशेन जितमित्युपधारय ।। ६.९२.८ ।।
स तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मिवर्धनम्।लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान् ।। ६.९२.९ ।।
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्।भ्रातरं लक्ष्मणं स्निग्धं पुनःपुनरुदैक्षत ।। ६.९२.१० ।।
शल्यसम्पीडितं शस्तं निश्वसन्तं तु लक्ष्मणम्।रामस्तु दुःखसन्तप्तस्तदा निश्वसितो भृशम् ।। ६.९२.११ ।।
मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्।उवाच लक्ष्मणं वाक्यमाश्वस्य पुरुषर्षभः ।। ६.९२.१२ ।।
कृतं परमकल्याणं कर्म दुष्करकर्मणा।अद्य मन्ये हते पुत्रे रावणं निहतं युधि।अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि ।। ६.९२.१३ ।।
रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे।छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यापश्रयः ।। ६.९२.१४ ।।
विभीषणहनूमद्भयां कृतं कर्म महद्रणे।अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः ।। ६.९२.१५ ।।
निरमित्रः कृतो ऽस्म्यद्य निर्यास्यति हि रावणः।बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ।। ६.९२.१६ ।।
तं पुत्रवधसन्तप्तं निर्यान्तं राक्षसाधिपम्।बलेनावृत्य महता निहनिष्यामि दुर्जयम् ।। ६.९२.१७ ।।
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे।न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे ।। ६.९२.१८ ।।
स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः।रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ।। ६.९२.१९ ।।
सशल्यो ऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः।यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ।। ६.९२.२० ।।
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः।ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् ।। ६.९२.२१ ।।
ये चाप्यन्ये ऽत्र युध्यन्ति सशल्या व्रणिनस्तथा।ते ऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया ।। ६.९२.२२ ।।
एवमुक्तस्तु रामेण महात्मा हरियूथपः।लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधिम् ।। ६.९२.२३ ।।
स तस्या गन्धमाघ्राय विशल्यः समपद्यत।तथा निर्वेदनश्चैव संरूढव्रण एव च ।। ६.९२.२४ ।।
विभीषणमुखानां च सुहृदां राघवाज्ञया।सर्ववानरमुख्यानां चिकित्सां स तदा ऽकरोत् ।। ६.९२.२५ ।।
ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः।सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ।। ६.९२.२६ ।।
तथैव रामः प्लवगाधिपस्तदा विभीषणश्चर्क्षपतिश्च जाम्बवान्।अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे ।। ६.९२.२७ ।।
अपूजयत् कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा।हृष्टा बभूवुर्युधि यूथपेन्द्रा निपातितं शक्रजितं निशम्य ।। ६.९२.२८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विनवतितमः सर्गः ।। ९२ ।।
ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम्।आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ।। ६.९३.१ ।।
युद्धे हतो महाराज लक्ष्मणेन तवात्मजः।विभीषणसहायेन मिषतां नो महाद्युतिः ।। ६.९३.२ ।।
शूरः शूरेण सङ्गम्य संयुगेष्वपरजितः।लक्ष्मणेन हतः शूरः पुत्रस्तु विबुधेन्द्रजित्।गतः स परमान् लोकान् शरैः सन्ताप्य लक्ष्मणम् ।। ६.९३.३ ।।
स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्।घोरमिन्द्रजितः सङ्ख्ये कश्मलं चाविशन्महत् ।। ६.९३.४ ।।
उपलभ्य चिरात् सञ्ज्ञां राजा राक्षसपुङ्गवः।पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ।। ६.९३.५ ।।
हा राक्षसचमूमुख्य मम वत्स महारथ।जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ।। ६.९३.६ ।।
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि।मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि ।। ६.९३.७ ।।
अद्य वैवस्वतो राजा भूयो बहुमतो मम।येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा ।। ६.९३.८ ।।
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ।। ६.९३.९ ।।
यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति।अद्य देवगणाः सर्वे लोकपालास्तथर्षयः।हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः ।। ६.९३.१० ।।
अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना।एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ।। ६.९३.११ ।।
अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम्।करेणुसङ्घस्य यथा निनादं गिरिगह्वरे ।। ६.९३.१२ ।।
यौवराज्यं च लङ्कां च रक्षांसि च परन्तप।मातरं मां च भार्यां च क्व गतो ऽसि विहाय नः ।। ६.९३.१३ ।।
मम नाम त्वया वीर गतस्य यमसादनम्।प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ।। ६.९३.१४ ।।
स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे।मम शल्यमनुद्धृत्य क्व गतो ऽसि विहाय नः ।। ६.९३.१५ ।।
एवमादिविलापार्तं रावणं राक्षसाधिपम्।आविवेश महान् कोपः पुत्रव्यसनसम्भवः ।। ६.९३.१६ ।।
प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः।दीप्तं सन्दीपयामासुर्घर्मे ऽर्कमिव रश्मयः ।। ६.९३.१७ ।।
ललाटे भ्रुकुटीभिश्च सङ्गताभिर्व्यारोचत।युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः ।। ६.९३.१८ ।।
कोपाद्विजृम्भमाणस्य वक्त्राद् व्यक्तमभिज्वलन्।उत्पपात स भूयो ऽग्निर्वृत्रस्य वदनादिव ।। ६.९३.१९ ।।
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः।समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद्वधम् ।। ६.९३.२० ।।
तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निना ऽपि च।रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ।। ६.९३.२१ ।।
घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्च्छितम्।बभूव रूपं क्रुद्धस्य रुद्धस्येव दुरासदम् ।। ६.९३.२२ ।।
तस्य क्रुद्धस्य नेत्राभ्यां प्राप्ततन्नस्रबिन्दवः।दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ।। ६.९३.२३ ।।
दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः।यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव ।। ६.९३.२४ ।।
कालाग्निरिव सङ्क्रुद्धो यां यां दिशमवैक्षत।तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे ।। ६.९३.२५ ।।
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्।वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ।। ६.९३.२६ ।।
ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः।अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे ।। ६.९३.२७ ।।
मया वर्षसहस्राणि चरित्वा दुश्चरं तपः।तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः ।। ६.९३.२८ ।।
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः।नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ।। ६.९३.२९ ।।
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्।देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ।। ६.९३.३० ।।
तेन मामद्य संयुक्तं रथस्थमिह संयुगे।प्रतीयात् को ऽद्य मामाजौ साक्षादपि पुरन्दरः ।। ६.९३.३१ ।।
यत्तदा ऽभिप्रसन्नेन सशरं कार्मुकं महत्।देवासुरविमर्देषु मम दत्तं स्वयम्भुवा ।। ६.९३.३२ ।।
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम।रामलक्ष्मणयोरेव वधाय परमाहवे ।। ६.९३.३३ ।।
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः।समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ।। ६.९३.३४ ।।
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः।दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान् ।। ६.९३.३५ ।।
मायया मम वत्सेन वञ्चनार्थं वनौकसाम्।किञ्चिदेव हतं तत्र सीतेयमिति दर्शितम् ।। ६.९३.३६ ।।
तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः।वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ।। ६.९३.३७ ।।
इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत् ।। ६.९३.३८ ।।
उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम्।निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ।। ६.९३.३९ ।।
रावणः पुत्रशोकेन भृशमाकुलचेतनः।सङ्क्रुद्धः खड्गमादाय सहसा यत्र मैथिली ।। ६.९३.४० ।।
व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः।ऊचुश्चान्योन्यमाश्लिष्य सङ्क्रुद्धं प्रेक्ष्य राक्षसाः ।। ६.९३.४१ ।।
अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः।लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ।। ६.९३.४२ ।।
बहवः शत्रवश्चापि संयुगेषु निपातिताः।त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः ।। ६.९३.४३ ।।
विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ।। ६.९३.४४ ।।
तेषां सञ्जल्पमानानामशोकवनिकां गताम्।अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः ।। ६.९३.४५ ।।
वार्यमाणः सुसङ्क्रुद्धः सुहृद्भिर्हितबुद्धिभिः।अभ्यधावत सङ्क्रुद्धः खे ग्रहो रोहिणीमिव ।। ६.९३.४६ ।।
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता।ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ।। ६.९३.४७ ।।
तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा।निवार्यमाणं बहुशः सुहृद्भिरनुवर्तिनम्।सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ।। ६.९३.४८ ।।
यथा ऽयं मामभिक्रुद्धः समभिद्रवति स्वयम्।वधिष्यति सनाथां मामनाथामिव दुर्मतिः ।। ६.९३.४९ ।।
बहुशश्चोदयामास भर्तारं मामनुव्रताम्।भार्या भव रमस्वेति प्रत्याख्यातो ध्रुवं मया ।। ६.९३.५० ।।
सो ऽयं ममानुपस्थाने व्यक्तं नैराश्यमागतः।क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ।। ६.९३.५१ ।।
अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ।मन्निमित्तमनार्येण समरे ऽद्य निपातितौ।अहो धिङ्मन्निमित्तो ऽयं विनाशो राजपुत्रयोः ।। ६.९३.५२ ।।
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ।विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ।। ६.९३.५३ ।।
हनूमतो ऽपि यद्वाक्यं न कृतं क्षुद्रया मया ।। ६.९३.५४ ।।
यद्यहं तस्य पृष्ठेन तदा यायामनिन्दिता।नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ।। ६.९३.५५ ।।
मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति।एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ।। ६.९३.५६ ।।
सा हि जन्म च बाल्यं च यौवनं च महात्मनः।धर्मकार्यानुरूपं च रुदन्ती संस्मरिष्यति ।। ६.९३.५७ ।।
निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना।अग्निमारोक्ष्यते नूनमपो वा ऽपि प्रवेक्ष्यति ।। ६.९३.५८ ।।
धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्।यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ।। ६.९३.५९ ।।
इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्।रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ।। ६.९३.६० ।।
एतस्मिन्नन्तरे तस्य अमात्यो बुद्धिमान् शुचिः।सुपार्श्वो नाम मेधावी राक्षसो राक्षसेश्वरम्।निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ।। ६.९३.६१ ।।
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज।हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि ।। ६.९३.६२ ।।
वेदविद्याव्रतस्नातः स्वकर्मनिरतः सदा।स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ।। ६.९३.६३ ।।
मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव।त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ।। ६.९३.६४ ।।
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम्।कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ।। ६.९३.६५ ।।
शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः।हत्वा दशरथिं रामं भवान् प्राप्स्यति मैथिलीम् ।। ६.९३.६६ ।।
स तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः।गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां च प्रययौ सुहृद्वृतः ।। ६.९३.६७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिनवतितमः सर्गः ।। ९३ ।।
स प्रविश्य सभां राजा दीनः परमदुःखितः।निषसादासने सिंहः क्रुद्ध इव श्वसन् ।। ६.९४.१ ।।
अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः।रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः ।। ६.९४.२ ।।
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः।निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः ।। ६.९४.३ ।।
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ।वर्षन्तः शरवर्षेण प्रावृट्काल इवाम्बुदाः ।। ६.९४.४ ।।
अथवा ऽहं शरैस्तीक्ष्णैर्भिन्नगात्रं महारणे।भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ।। ६.९४.५ ।।
इत्येतद्राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः।निर्ययुस्ते रथैः शीघ्रैर्नानानीकैः सुसंवृताः ।। ६.९४.६ ।।
परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान्।शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति ।। ६.९४.७ ।।
वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः ।। ६.९४.८ ।।
स सङ्ग्रामो महान् भीमः सूर्यस्योदयनं प्रति।रक्षसां वानराणां च तुमुलः समपद्यत ।। ६.९४.९ ।।
ते गदाभिर्विचित्राभिः प्राशैः खड्गैः परश्वधैः।अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः ।। ६.९४.१० ।।
एवं प्रवृत्ते सङ्ग्रामे ह्युद्भूतं सुमहद्रजः।रक्षसां वानराणां च शान्तं शोणितविस्रवैः ।। ६.९४.११ ।।
मातङ्गरथकूलाश्च वाजिमत्स्या ध्वजद्रुमाः।शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः ।। ६.९४.१२ ।।
ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः।ध्वजवर्मरथानश्वान्नानाप्रहरणानि च।आप्लुत्याप्लुत्य समरे राक्षसानां बभञ्जिरे ।। ६.९४.१३ ।।
केशान् कर्णललाटांश्च नासिकाश्च प्लवङ्गमाः।रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि न्यकर्तयन् ।। ६.९४.१४ ।।
एकैकं राक्षसं सङ्ख्ये शतं वानरपुङ्गवाः।अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ।। ६.९४.१५ ।।
तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः।निजघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः ।। ६.९४.१६ ।।
राक्षसैर्युद्ध्यामानानां वानराणां महाचमूः।शरण्यं शरणं याता रामं दशरथात्मजम् ।। ६.९४.१७ ।।
ततो रामो महातेजा धनुरादाय वीर्यवान्।प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह ।। ६.९४.१८ ।।
प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे।नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना ।। ६.९४.१९ ।।
कृतान्येव सुघोराणि रामेण रजनीचराः।रणे रामस्य ददृशुः कर्माण्यसुकराणि च ।। ६.९४.२० ।।
चालयन्तं महानीकं विधमन्तं महारथान्।ददृशुस्ते न वै रामं वातं वनगतं यथा ।। ६.९४.२१ ।।
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्।बलं रामेण ददृशुर्न रामं शीघ्रकारिणम् ।। ६.९४.२२ ।।
प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्।इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ।। ६.९४.२३ ।।
एष हन्ति गजानीकमेष हन्ति महारथान्।एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह ।। ६.९४.२४ ।।
इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे।अन्योन्यं कुपिता जघ्नुः सादृश्याद्राघवस्य ते ।। ६.९४.२५ ।।
न ते ददृशिरे रामं दहन्तमरिवाहिनीम्।मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ।। ६.९४.२६ ।।
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः।पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ।। ६.९४.२७ ।।
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः।अलातचक्रप्रतिमां ददृशुस्ते न राघवम् ।। ६.९४.२८ ।।
शरीरनाभिसत्त्वार्चिः शरीरं नेमिकार्मुकम्।ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् ।। ६.९४.२९ ।।
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्।ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः ।। ६.९४.३० ।।
अनीकं दशसाहस्रं रथानां वातरंहसाम्।अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम् ।। ६.९४.३१ ।।
चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्।पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् ।। ६.९४.३२ ।।
दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः।हतान्येकेन रामेण रक्षसां कामरूपिणाम् ।। ६.९४.३३ ।।
ते हताश्वा हतरथाः शान्ता विमथितध्वजाः।अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ।। ६.९४.३४ ।।
हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम्।आक्रीडमिव रुद्रस्य क्रुद्धस्य सुमहात्मनः ।। ६.९४.३५ ।।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।साधु साध्विति रामस्य तत् कर्म समपूजयन् ।। ६.९४.३६ ।।
अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्।विभीषणं च धर्मात्मा हनूमन्तं च वानरम् ।। ६.९४.३७ ।।
जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च।एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा ।। ६.९४.३८ ।।
निहत्य तां राक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा।अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः ।। ६.९४.३९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्नवतितमः सर्गः ।। ९४ ।।
तानि तानि सहस्राणि सारोहाणां च वाजिनाम्।रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ।। ६.९५.१ ।।
राक्षसानां सहस्राणि गदापरिघयोधिनाम्।काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ।। ६.९५.२ ।।
निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः।रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ।। ६.९५.३ ।।
दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः।राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः ।। ६.९५.४ ।।
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः।राक्षस्यः सह सङ्गम्य दुःखार्ताः पर्यदेवयन् ।। ६.९५.५ ।।
कथं शूर्पणखा वृद्धा कराला निर्णतोदरी।आससाद वने रामं कन्दर्पमिव रूपिणम्।सुकुमारं महासत्त्वं सर्वभूतहिते रतम् ।। ६.९५.६ ।।
तं दृष्ट्वा लोकनिन्द्या सा हीनरूपा प्रकामिता ।। ६.९५.७ ।।न्दर्पमिव रूपिणम्।कथं सर्वगुणैर्हीना गुणवन्तं महौजसम्।सुमुखं दुर्मुखी रामं कामयामास राक्षसी ।। ६.९५.८ ।।
जनस्यास्याल्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा।अकार्यमपहास्यं च सर्वलोकविगर्हितम् ।। ६.९५.९ ।।
राक्षसानां विनाशाय दूषणस्य खरस्य च।चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ।। ६.९५.१० ।।
तन्निमित्तमिदं वैरं रावणेन कृतं महत्।वधाय सीता सा ऽ ऽनीता दशग्रीवेण रक्षसा ।। ६.९५.११ ।।
न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्।बद्धं बलवता वैरमक्षयं राघवेण च ।। ६.९५.१२ ।।
वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम्।हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ।। ६.९५.१३ ।।
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।निहतानि जनस्थाने शरैरग्निशिखोपमैः ।। ६.९५.१४ ।।
खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा।शरैरादित्यसङ्काशैः पर्याप्तं तन्निदर्शनम् ।। ६.९५.१५ ।।
हतो योजनबाहुश्च कबन्धो रुधिराशनः।क्रोधान्नादं नदन् सो ऽथ पर्याप्तं तन्निदर्शनम् ।। ६.९५.१६ ।।
जघान बलिनं रामः सहस्रनयनात्मजम्।वालिनं मेरुसङ्काशं पर्याप्तं तन्निदर्शनम् ।। ६.९५.१७ ।।
ऋष्यमूके वसन् शैले दीनो भग्नमनोरथः।सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् ।। ६.९५.१८ ।।
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्।युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ।। ६.९५.१९ ।।
विभीषणवचः कुर्याद्यदि स्म धनदानुजः।श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् ।। ६.९५.२० ।।
कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्।अतिकायं च दुर्धर्षं लक्ष्मणेन हतं पुनः।प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ।। ६.९५.२१ ।।
मम पुत्रो मम भ्राता मम भर्ता रणे हतः।इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले ।। ६.९५.२२ ।।
रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः।रणे रामेण शूरेण राक्षसाश्च पदातयः ।। ६.९५.२३ ।।
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः।हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ।। ६.९५.२४ ।।
हतप्रवीरा रामेण निराशा जीविते वयम्।अपश्यन्तो भयस्यान्तमनाथा विलपामहे ।। ६.९५.२५ ।।
रामहस्ताद्दशग्रीवः शूरो दत्तमहावरः।इदं भयं महाघोरमुत्पन्नं नावबुध्यते ।। ६.९५.२६ ।।
न देवा न च गन्धर्वा न पिशाचा न राक्षसाः।उपसृष्टं परित्रातुं शक्ता रामेण संयुगे ।। ६.९५.२७ ।।
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे।कथयिष्यन्ति रामेण रावणस्य निबर्हणम् ।। ६.९५.२८ ।।
पितामहेन प्रीतेन देवदानवराक्षसैः।रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् ।। ६.९५.२९ ।।
तदिदं मानुषं मन्ये प्राप्तं निस्संशयं भयम्।जीवितान्तकरं घोरं रक्षसां रावणस्य च ।। ६.९५.३० ।।
पीड्यमानास्तु बलिना वरदानेन रक्षसा।दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ।। ६.९५.३१ ।।
देवतानां हितार्थाय महात्मा वै पितामहः।उवाच देवताः सर्वा इदं तुष्टो महद्वचः ।। ६.९५.३२ ।।
अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः।भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् ।। ६.९५.३३ ।।
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः।वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः ।। ६.९५.३४ ।।
प्रसन्नस्तु महादेवो देवानेतद्वचो ऽब्रवीत्।उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा ।। ६.९५.३५ ।।
एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान् पुरा।भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् ।। ६.९५.३६ ।।
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः।अयं निष्ठानको घोरः शोकेन समभिप्लुतः ।। ६.९५.३७ ।।
तं न पश्यामहे लोके यो नः शरणदो भवेत्।राघवेणोपसृष्टानां कालेनेव युगक्षये ।। ६.९५.३८ ।।
नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम्।दवाग्निवेष्टितानां हि करेणूनां यथा वने ।। ६.९५.३९ ।।
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना।यत एव भयं दृष्टं तमेव शरणं गतः ।। ६.९५.४० ।।
इतीव सर्वा रजनीचरस्त्रियः परस्परं सम्परिरभ्य बाहुभिः।विषेदुरार्ता भयभारपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् ।। ६.९५.४१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चनवतितमः सर्गः ।। ९५ ।।
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले।रावणः करुणं शब्दं शुश्राव परिदेवितम् ।। ६.९६.१ ।।
स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः।बभूव परमक्रुद्धो रावणो भीमदर्शनः ।। ६.९६.२ ।।
सन्दश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः।राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्च्छितः ।। ६.९६.३ ।।
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः।भयाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ।। ६.९६.४ ।।
महोदरमाहपार्श्वौ विरूपाक्षं च राक्षसम्।शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ।। ६.९६.५ ।।
तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः।चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया ।। ६.९६.६ ।।
ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः।कृतस्वस्त्ययनाः सर्वे रणायाभिमुखा ययुः ।। ६.९६.७ ।।
प्रतिपूज्य यथान्यायं रावणं ते निशाचराः।तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ।। ६.९६.८ ।।
अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः।महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् ।। ६.९६.९ ।।
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः।राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ।। ६.९६.१० ।।
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा।करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ।। ६.९६.११ ।।
नैवान्तरिक्षं न दिशो न नद्यो नापि सागराः।प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ।। ६.९६.१२ ।।
अद्य वानरमुख्यानां तानि यूथानि भागशः।धनुषा शरजालेन विधमिष्यामि पत्रिणा ।। ६.९६.१३ ।।
अद्य वानरसैन्यानि रथेन पवनौजसा।धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ।। ६.९६.१४ ।।
आकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम्।अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् ।। ६.९६.१५ ।।
सशरैरद्य वदनैः सङ्ख्ये वानरयूथपाः।मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ।। ६.९६.१६ ।।
अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम्।मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ।। ६.९६.१७ ।।
हतो भर्ता हतो भ्राता यासां च तनया हताः।वधेनाद्य रिपोस्तासां करोम्यस्रप्रमार्जनम् ।। ६.९६.१८ ।।
अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः।करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ।। ६.९६.१९ ।।
अद्य गोमायवो गृध्रा ये च मांसाशिनो ऽपरे।सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्पितैः ।। ६.९६.२० ।।
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः।अनुप्रयान्तु मां सर्वे ये ऽवशिष्टा निशाचराः ।। ६.९६.२१ ।।
तस्य तद्वचनं श्रुत्वा महापार्श्वो ऽब्रवीद्वचः।बलाध्यक्षान् स्थितांस्तत्र बलं सन्त्वर्यतामिति ।। ६.९६.२२ ।।
बलाध्यक्षास्तु संरब्धा राक्षसांस्तान् गृहाद्गृहात्।चोदयन्तः परिययुर्लङ्कायां तु महाबलाः ।। ६.९६.२३ ।।
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः।नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः ।। ६.९६.२४ ।।
असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हुलैः।शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ।। ६.९६.२५ ।।
यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः।भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ।। ६.९६.२६ ।।
अथानयद्बलाध्यक्षः सत्वरो रावणाज्ञया।द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ।। ६.९६.२७ ।।
आरुरोह रथं भीमो दीप्यमानं स्वतेजसा ।। ६.९६.२८ ।।
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः।रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् ।। ६.९६.२९ ।।
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ।विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ।। ६.९६.३० ।।
ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम्।नादं घोरं विमुञ्जन्तो निर्ययुर्जयकांक्षिणः ।। ६.९६.३१ ।।
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः।निर्ययावुद्यतधनुः कालान्तकयमोपमः ।। ६.९६.३२ ।।
ततः प्रजवनाश्वेन रथेन स महारथः।द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ।। ६.९६.३३ ।।
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ।। ६.९६.३४ ।।
द्विजाश्च नेदुर्घोराश्च सञ्चचालेव मेदिनी।ववर्ष रुधिरं देवश्चस्खलुस्तुरगाः पथि ।। ६.९६.३५ ।।
ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः।नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत ।। ६.९६.३६ ।।
विवर्णं वदनं चासीत् किञ्चिदभ्रश्यत स्वरः ।। ६.९६.३७ ।।
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः।रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ।। ६.९६.३८ ।।
अन्तरिक्षात् पपातोल्का निर्घातसमनिस्वना।विनेदुरशिवा गृध्रा वायसैरनुनादिताः ।। ६.९६.३९ ।।
एतानचिन्तयन् घोरानुत्पातान् समुपस्थितान्।निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः ।। ६.९६.४० ।।
तेषां तु रथघोषेण राक्षसानां महात्मनाम्।वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ।। ६.९६.४१ ।।
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्।अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ।। ६.९६.४२ ।।
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः।वानराणामनीकेषु चकार कदनं महत् ।। ६.९६.४३ ।।
निकृत्तशिरसः केचिद्रावणेन वलीमुखाः।केचिद्विच्छिन्न हृदयाः केचिच्छ्रोत्रविवर्जिताः।निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः ।। ६.९६.४४ ।।
केचिद्विभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः ।। ६.९६.४५ ।।
दशाननः क्रोधविवृत्तनेत्रो यतो यतो ऽभ्येति रथेन सङ्ख्ये।ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरिपुङ्गवास्ते ।। ६.९६.४६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षण्णवतितमः सर्गः ।। ९६ ।।
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः।बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ।। ६.९७.१ ।।
रावणस्याप्रसह्यं तं शरसम्पातमेकतः।न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।।
ते ऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः।पावकार्चिस्समाविष्टा दह्यमाना यथा गजाः ।। ६.९७.३ ।।
प्लवङ्गानामनीकानि महाभ्राणीव मारुतः।स ययौ समरे तस्मिन् विधमन् रावणः शरैः ।। ६.९७.४ ।।
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्।आससाद ततो युद्धे राघवं त्वरितस्तदा ।। ६.९७.५ ।।
सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे।गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे ऽद्भुतं मनः ।। ६.९७.६ ।।
आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम्।सुग्रीवो ऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ।। ६.९७.७ ।।
पार्श्वतः पृष्टतश्चास्य सर्वे यूथपाधिपाः स्वयम्।अनुजह्रुर्महाशैलान् विविधांश्च महाद्रुमान् ।। ६.९७.८ ।।
स नर्दन् युधि सुग्रीवः स्वरेण महता महान्।पातयन् विविधांश्चान्यान् जगामोत्तमराक्षसान् ।। ६.९७.९ ।।
ममन्थ च महाकायो राक्षसान् वानरेश्वरः।युगान्तसमये वायुः प्रवृद्धानगमानिव ।। ६.९७.१० ।।
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह।अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ।। ६.९७.११ ।।
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः।विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ।। ६.९७.१२ ।।
अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः।सुग्रीवेण प्रभग्नेषु पतत्सु निनदत्सु च ।। ६.९७.१३ ।।
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः।रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ।। ६.९७.१४ ।।
स तं द्विरदमारुह्य विरूपाक्षो महारथः।विनदन् भीमनिर्ह्रादं वानरानभ्यधावत ।। ६.९७.१५ ।।
सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे।स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन् ।। ६.९७.१६ ।।
स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा।चक्रोध स महाक्रोधो वधे चास्य मनो दधे ।। ६.९७.१७ ।।
ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः।अभिपत्य जघानास्य प्रमुखे तु महागजम् ।। ६.९७.१८ ।।
स तु प्रहाराभिहतः सुग्रीवेण महागजः।अपासर्पद्धनुर्मात्रं निषसाद ननाद च ।। ६.९७.१९ ।।
गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान्।राक्षसो ऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ।। ६.९७.२० ।।
आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः।भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ।। ६.९७.२१ ।।
स हि तस्याभिसङ्क्रुद्धः प्रगृह्य विपुलां शिलाम्।विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ।। ६.९७.२२ ।।
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः।अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ।। ६.९७.२३ ।।
तेन खड्गप्रहारेण रक्षसा बलिना हतः।मुहूर्तमभवद्वीरो विसञ्ज्ञ इव वानरः ।। ६.९७.२४ ।।
स तदा सहसोत्पत्य राक्षसस्य महाहवे।मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ।। ६.९७.२५ ।।
मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः।तेन खड्गेन सङ्क्रुद्धः सुग्रीवस्य चमूमुखे।कवचं पातयामास पद्भ्यामभिहतो ऽपतत् ।। ६.९७.२६ ।।
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्।तलप्रहारमशनेः समानं भीमनिस्वनम् ।। ६.९७.२७ ।।
तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम्।नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ।। ६.९७.२८ ।।
ततस्तु सङ्क्रुद्धतरः सुग्रीवो वानरेश्वरः।मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा।स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ।। ६.९७.२९ ।।
ततो न्यपातयत् क्रोधाच्छङ्खदेशे महत्तलम् ।। ६.९७.३० ।।दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।।
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ।। ६.९७.३१ ।।।।दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।।
पपात रुधिरक्लिन्नः शोणितं च समुद्वमन्।स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ।। ६.९७.३२ ।।
विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम्।ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ।। ६.९७.३३ ।।
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्।करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ।। ६.९७.३४ ।।
तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानरराक्षसानाम्।बलार्णवौ सस्वनतुः सुभीमं महार्णवौ द्वाविव भिन्नवेलौ ।। ६.९७.३५ ।।
विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन।बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ।। ६.९७.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तनवतितमः सर्गः ।। ९७ ।।
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे।सरसीव महाघर्मे सोपक्षीणे बभूवतुः ।। ६.९८.१ ।।
स्वबलस्य विघातेन विरूपाक्षवधेन च।बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ।। ६.९८.२ ।।
प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः।बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम्।उवाच च समीपस्थं महोदरमरिन्दमम् ।। ६.९८.३ ।।
अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता।जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।। ६.९८.४ ।।
भर्तृपिण्डस्य कालो ऽयं निर्देष्टुं साधु युध्यताम् ।। ६.९८.५ ।।
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः।प्रविवेशारिसेनां तां पतङ्ग इव पावकम् ।। ६.९८.६ ।।
ततः स कदनं चक्रे वानराणां महाबलः।भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ।। ६.९८.७ ।।
वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः।प्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ।। ६.९८.८ ।।
महोदरस्तु सङ्क्रुद्धः शरैः काञ्चनभूषणैः।चिच्छेद पाणिपादोरून् वानराणां महाहवे ।। ६.९८.९ ।।
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम्।दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः ।। ६.९८.१० ।।
प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम्।अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ।। ६.९८.११ ।।
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्।चिक्षेप च महातेजास्तद्वधाय हरीस्वरः ।। ६.९८.१२ ।।
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः।असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ।। ६.९८.१३ ।।
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा।निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ।। ६.९८.१४ ।।
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः।सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ।। ६.९८.१५ ।।
शरैश्च विददारैनं शूरः परपुरञ्जयः ।। ६.९८.१६ ।।्च्छितः।स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ।। ६.९८.१७ ।।तः।आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्।परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ।। ६.९८.१८ ।।
तस्माद्धतहयाद्वीरः सो ऽवप्लुत्य महारथात्।गदां जग्राह सङ्क्रुद्धो राक्षसो ऽथ महोदरः ।। ६.९८.१९ ।।
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः।नर्दन्तौ गौवृषप्रख्यौ घनाविव सविद्युतौ ।। ६.९८.२० ।।
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः।ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ।। ६.९८.२१ ।।
गदां तां सुमहाघोरामापतन्तीं महाबलः।सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे।आजघान गदां तस्य परिघेण हरीश्वरः ।। ६.९८.२२ ।।
पपात स गदोद्भिन्नः परिघस्तस्य भूतले ।। ६.९८.२३ ।।ोषताम्राक्षः समुद्यम्य महाहवे।ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्।आयसं मुसलं घोरं सर्वतो हेमभूषितम् ।। ६.९८.२४ ।।
स तमुद्यम्य चिक्षेप सो ऽप्यन्यां व्याक्षिपद्गदाम्।भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ।। ६.९८.२५ ।।
ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः।तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ।। ६.९८.२६ ।।
जघ्नतुस्तौ तदा ऽन्योन्यं नेदतुश्च पुनःपुनः।तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ।। ६.९८.२७ ।।
उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम्।भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ।जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परन्तपौ ।। ६.९८.२८ ।।
आजहार ततः खड्गमदूरपरिवर्तिनम्।राक्षसश्चर्मणा सार्धं महावेगो महोदरः ।। ६.९८.२९ ।।
तथैव च महाखड्गं चर्मणा पतितं सह।जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ।। ६.९८.३० ।।
तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम्।उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ।। ६.९८.३१ ।।
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः।अन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहितावुभौ ।। ६.९८.३२ ।।
स तु शूरो महावेगो वीर्यश्लाघी महोदरः।महाचर्मणि तं खड्गं पातयामास दुर्मतिः ।। ६.९८.३३ ।।
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः।जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ।। ६.९८.३४ ।।
निकृत्तशिरसस्तस्य पतितस्य महीतले।तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ।। ६.९८.३५ ।।
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः।चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ।। ६.९८.३६ ।।
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः।विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ।। ६.९८.३७ ।।
महोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम्।सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः ।। ६.९८.३८ ।।
अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसङ्घैः।अवनितलगतैश्च भूतसङ्घैर्हरुषसमाकुलितैः स्तुतो महात्मा ।। ६.९८.३९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टनवतितमः सर्गः ।। ९८ ।।
महोदरे तु निहते महापार्श्वो महाबलः।सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः।अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ।। ६.९९.१ ।।
स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः।पातयामास कायेभ्यः फलं वृन्तादिवानिलः ।। ६.९९.२ ।।
केषाञ्चिदिषुभिर्बाहून् स्कन्धांश्चिच्छेद राक्षसः।वानराणां सुसङ्क्रुद्धः पार्श्वं केषां व्यदारयत् ।। ६.९९.३ ।।
ते ऽर्दिता बाणवर्षेण महापार्श्वेन वानराः।विषादविमुखाः सर्वे बभूवुर्गतचेतसः ।। ६.९९.४ ।।
निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्।वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ।। ६.९९.५ ।।
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्।समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ।। ६.९९.६ ।।
स तु तेन प्रहारेण महापार्श्वो विचेतनः।ससूतः स्यन्दनात्तस्माद्विसञ्ज्ञः प्रापतद्भुवि ।। ६.९९.७ ।।
सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः।निष्पत्य सुमहावीर्यः स्वाद्व्यूहान्मेघसन्निभात् ।। ६.९९.८ ।।
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः सुविपुलां शिलाम्।अश्वान् जघान तरसा स्यन्दनं च बभञ्ज तम् ।। ६.९९.९ ।।
मुहूर्ताल्लब्धसञ्ज्ञस्तु महापार्श्वो महाबलः।अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ।। ६.९९.१० ।।
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे।ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ।। ६.९९.११ ।।
जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ।जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः ।। ६.९९.१२ ।।
तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम्।दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ।। ६.९९.१३ ।।
द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान्।महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः ।। ६.९९.१४ ।।
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः।धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ।। ६.९९.१५ ।।
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्।तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले ।। ६.९९.१६ ।।
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः।करेणैकेन जग्राह सुमहान्तं परश्वधम् ।। ६.९९.१७ ।।
तं तैलधौतं विमलं शैलसारमयं दृढम्।राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ।। ६.९९.१८ ।।
तेन वामांसफलके भृशं प्रत्यवपादितम्।अङ्गदो मोक्षयामास सरोषः स परश्वधम् ।। ६.९९.१९ ।।
स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः।संवर्तयत् सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः ।। ६.९९.२० ।।
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति।इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ।। ६.९९.२१ ।।
तेन तस्य निपातेन राक्षसस्य महामृधे।पफाल हृदयं चाशु स पपात हतो भुवि ।। ६.९९.२२ ।।
तस्मिन्निपतिते भूमौ तत् सैन्यं सम्प्रचुक्षुभे।अभवच्च महान् क्रोधः समरे रावणस्य तु ।। ६.९९.२३ ।।
वानराणां च हृष्टानां सिंहनादश्च पुष्कलः।स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् ।। ६.९९.२४ ।।
महेन्द्रेणेव देवानां नादः समभवन्महान् ।। ६.९९.२५ ।।
अथेन्द्रशत्रुस्त्रिदिवालयानां वनौकसां चैव महाप्रणादम्।श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखो ऽवतस्थे ।। ६.९९.२६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनशततमः सर्गः ।। ९९ ।।
महोदरमहापार्शो हतौ दृष्ट्वा तु राक्षसौ।तस्मिंश्च निहते वीरे विरूपाक्षे महाबले।आविवेश महान् क्रोधो रावणं तं महामृधे ।। ६.१००.१ ।।
सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ।। ६.१००.२ ।।
निहतानाममात्यानां रुद्धस्य नगरस्य च।दुःखमेषो ऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ।। ६.१००.३ ।।
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्।प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः ।। ६.१००.४ ।।
मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः।हमूमांश्च सुषेणश्च सर्वे च हरियूथपाः ।। ६.१००.५ ।।
स दिशो दश धोषेण रथस्यातिरथो महान्।नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत ।। ६.१००.६ ।।
पूरिता तेन शब्देन सनदीगिरिकानना।सञ्चचाल मही सर्वा सवराहमृगद्विपा ।। ६.१००.७ ।।
तामसं स महाघोरं चकारास्त्रं सुदारुणम्।निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः ।। ६.१००.८ ।।
उत्पपात रजो घोरं तैर्भग्नैः सम्प्रधावितैः।न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ।। ६.१००.९ ।।
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः।दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ।। ६.१००.१० ।।
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्।स ददर्श ततो रामं तिष्ठन्तमपारजितम् ।। ६.१००.११ ।।
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा।आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः।पद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम् ।। ६.१००.१२ ।।
ततो रामो महातेजाः सौमित्रिसहितो बली।वानरांश्च रणे भग्नानापतन्तं च रावणम् ।। ६.१००.१३ ।।
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ।। ६.१००.१४ ।।
विस्फारयितुमारेभे ततः स धनुरुत्तमम्।महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ।। ६.१००.१५ ।।
रावणस्य च बाणौघैरामविस्फारितेन च।शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ।। ६.१००.१६ ।।
तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः।स बभौ च यथा राहुः समीपे शशिसूर्ययोः ।। ६.१००.१७ ।।
तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः।मुमोच धनुरायम्य शरानग्निशिखोपमान् ।। ६.१००.१८ ।।
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता।बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ।। ६.१००.१९ ।।
एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश।लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ।। ६.१००.२० ।।
अभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः।आससाद ततो रामं स्थितं शैलमिवाचलम् ।। ६.१००.२१ ।।
स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः।व्यसृजच्छरवर्षाणि रावणो राघवोपरि ।। ६.१००.२२ ।।
शरधारास्ततो रामो रावणस्य धनुश्च्युताः।दृष्ट्वैवापततः शीघ्रं भल्लान् जग्राह सत्वरम् ।। ६.१००.२३ ।।
तान् शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः।दीप्यमानान् महाघोरान् क्रुद्धानाशीविषानिव ।। ६.१००.२४ ।।
राघवो रावणं तूर्णं रावणो राघवं तदा।अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ।। ६.१००.२५ ।।
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्।बाणवेगान् समुत्क्षिप्तावन्योन्यमपारजितौ ।। ६.१००.२६ ।।
तयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः।रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ।। ६.१००.२७ ।।
सन्ततं विविधैर्बाणैर्बभूव गगनं तदा।घनैरिवातपापाये विद्युन्मालासमाकुलैः ।। ६.१००.२८ ।।
गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ।। ६.१००.२९ ।।
महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः।शरान्धकारं तौ भीमं चक्रुतुः समरं तदा।गते ऽस्तं तपने चापि महामेघाविवोत्थितौ ।। ६.१००.३० ।।
बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः।अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ।। ६.१००.३१ ।।
उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ।उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ।। ६.१००.३२ ।।
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः।ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ।। ६.१००.३३ ।।
ततः संसक्तहस्तस्तु रावणो लोकरावणः।नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ।। ६.१००.३४ ।।
रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्।शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत ।। ६.१००.३५ ।।
अथ मन्त्रानभिजपन् रौद्रमस्त्रमुदीरयन्।शरान् भूयः समादाय रामः क्रोधसमन्वितः।मुमोच च महातेजाश्चापमायम्य वीर्यवान् ।। ६.१००.३६ ।।
ते महामेघसङ्काशे कवचे पतिताः शराः।अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ।। ६.१००.३७ ।।
पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्।ललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ।। ६.१००.३८ ।।
ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः।श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ।। ६.१००.३९ ।।
निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः।आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह ।। ६.१००.४० ।।
सिंहव्याघ्रमुखाश्चान्यान् कङ्ककाकमुखानपि।गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा ।। ६.१००.४१ ।।
ईहामृगमुखांश्चान्यान् व्यादितास्यान् भयानकान्।पञ्चास्यान् लेलिहानांश्च ससर्ज निशितान् शरान् ।। ६.१००.४२ ।।
शरान् खरमुखांश्चान्यान् वराहमुखसंस्थितान्।श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ।। ६.१००.४३ ।।
एतानन्यांश्च मायावी ससर्ज निशितान् शरान्।रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ।। ६.१००.४४ ।।
आसुरेण समाविष्टः सो ऽस्त्रेण रघुनन्दनः।ससर्जास्त्रं महोत्साहः पावकं पावकोपमः ।। ६.१००.४५ ।।
अग्निदीप्तमुखान् बाणान् तथा सूर्यमुखानपि।चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ।। ६.१००.४६ ।।
ग्रहनक्षत्रवक्त्रांश्च महोल्कामुखसंस्थितान्।विद्युज्जिह्वोपमांश्चान्यान् ससर्ज निशितान् शरान् ।। ६.१००.४७ ।।
ते रावणशरा घोरा राघवास्त्रसमाहताः ।। ६.१००.४८ ।।
विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ।। ६.१००.४९ ।।
तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः।सुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ।। ६.१००.५० ।।
ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्सृतम्।मुदा ऽन्वितो दाशरथिर्महाहवे विनेदुरुच्चैर्मुदिताः कपीश्वराः ।। ६.१००.५१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे शततमः सर्गः ।। १०० ।।
तस्मिन् प्रतिहते ऽस्त्रे तु रावणो राक्षसाधिपः ।क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ।। ६.१०१.१ ।।
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ।। ६.१०१.२ ।।
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ।। ६.१०१.३ ।।
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा ।निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ।। ६.१०१.४ ।।
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ।जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ।। ६.१०१.५ ।।
तस्मिन् प्रतिहते ऽस्त्रे तु राघवेण महात्मना ।रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ।। ६.१०१.६ ।।
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ।। ६.१०१.७ ।।
तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः ।पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ।। ६.१०१.८ ।।
तानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः ।आयुधानि च चित्राणि रावणस्य चमूमुखे ।। ६.१०१.९ ।।
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ।। ६.१०१.१० ।।
स विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः ।रावणेन महातेजा न प्राकम्पत राघवः ।। ६.१०१.११ ।।
ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः ।राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ।। ६.१०१.१२ ।।
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ।लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ।। ६.१०१.१३ ।।
तैः सायकैर्महावेगै रावणस्य महाद्युतिः ।ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ।। ६.१०१.१४ ।।
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ।। ६.१०१.१५ ।।
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ।। ६.१०१.१६ ।।
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् ।जघानाप्लुत्य गदया रावणस्य विभीषणः ।। ६.१०१.१७ ।।
हताश्वाद्वेगवान् वेगादवप्लुत्य महारथात् ।क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ।। ६.१०१.१८ ।।
ततः शक्तिं महाशक्तिर्दीप्तां दींप्ताशनीमिव ।विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ।। ६.१०१.१९ ।।
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ।अथोदतिष्ठत् सन्नादो वानराणां तदा रणे ।। ६.१०१.२० ।।
सा पपात त्रिधा च्छिन्ना शक्तिः काञ्चनमालिनी ।सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ।। ६.१०१.२१ ।।
ततः सम्भाविततरां कालेनापि दुरासदाम् ।जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ।। ६.१०१.२२ ।।
सा वेगिता बलवता रावणेन दुरासदा ।जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ।। ६.१०१.२३ ।।
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् ।प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ।। ६.१०१.२४ ।।
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ।। ६.१०१.२५ ।।
कीर्यमाणः शरौघेण विसृष्टेन महात्मना ।स प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ।। ६.१०१.२६ ।।
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ।। ६.१०१.२७ ।।
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः ।विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ।। ६.१०१.२८ ।।
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ।। ६.१०१.२९ ।।
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ।मयेन मायाविहिताममोघां शत्रुघातिनीम् ।। ६.१०१.३० ।।
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ।रावणः परमक्रुद्धश्चिक्षेप च ननाद च ।। ६.१०१.३१ ।।
सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना ।शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ।। ६.१०१.३२ ।।
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ।। ६.१०१.३३ ।।
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा ।मुक्ता ऽ ऽशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ।। ६.१०१.३४ ।।
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि ।जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ।। ६.१०१.३५ ।।
ततो रावणवेगेन सुदूरमवगाढया ।शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ।। ६.१०१.३६ ।।
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।भ्रातृस्नेहान्महातेजा विषण्णहृदयो ऽभवत् ।। ६.१०१.३७ ।।
स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः ।बभूव संरब्धतरो युगान्त इव पावकः ।। ६.१०१.३८ ।।
न विषादस्य कालो ऽयमिति सञ्चिन्त्य राघवः ।चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ।सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ।। ६.१०१.३९ ।।
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ।लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ।। ६.१०१.४० ।।
तामपि प्रहितां शक्तिं रावणेन बलीयसा ।यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ।। ६.१०१.४१ ।।
अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ।। ६.१०१.४२ ।।
सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ।। ६.१०१.४३ ।।
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ।बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ।। ६.१०१.४४ ।।
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ।। ६.१०१.४५ ।।
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्णमम् ।अब्रवीच्छ हनूमन्तं सुग्रीवं चैव राघवः ।। ६.१०१.४६ ।।
लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ।। ६.१०१.४७ ।।
पराक्रमस्य कालो ऽयं सम्प्राप्तो मे चिरेप्सितः ।पापात्मा ऽयं दशग्रीवो वध्यतां पापनिश्चयः ।काङ्क्षतः स्तोककस्येव घर्मान्ते मेघदर्शनम् ।। ६.१०१.४८ ।।
अस्मिन् मुहूर्ते न चिरात् सत्यं प्रतिशृणोमि वः ।अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ।। ६.१०१.४९ ।।
राज्यनाशं वने वासं दण्डके परिधावनम् ।वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ।। ६.१०१.५० ।।
प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् ।अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ।। ६.१०१.५१ ।।
यदर्थं वानरं सैन्यं समानीतमिदं मया ।सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ।। ६.१०१.५२ ।।
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ।सो ऽयमद्य रणे पापश्चक्षुर्विषयमागतः ।। ६.१०१.५३ ।।
चक्षुर्विषयमागम्य नायं जीवितुमर्हति ।दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ।। ६.१०१.५४ ।।
स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः ।आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ।। ६.१०१.५५ ।।
अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे ।त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ।। ६.१०१.५६ ।।
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ।समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ।। ६.१०१.५७ ।।
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ।आजघान दशग्रीवं रणे रामः समाहितः ।। ६.१०१.५८ ।।
अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ।। ६.१०१.५९ ।।
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।शराणां च शराणां च बभूव तुमुलः स्वनः ।। ६.१०१.६० ।।
ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ।। ६.१०१.६१ ।।
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ।त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ।। ६.१०१.६२ ।।
स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मता ऽर्दितः ।भयात् प्रदुद्राव समेत्य रावणो यथा ऽनिलेनाभिहतो बलाहकः ।। ६.१०१.६३ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोत्तरशततमः सर्गः ।। १०१ ।।
शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा ।लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ।। ६.१०२.१ ।।
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः ।विसृजन्नेव बाणौघान् सुषेणं वाक्यमब्रवीत् ।। ६.१०२.२ ।।
एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ ।सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ।। ६.१०२.३ ।।
शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम ।पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ।। ६.१०२.४ ।।
अयं स समरश्लाघी भ्राता मे शुभलक्षणः ।यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ।। ६.१०२.५ ।।
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः ।सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ।अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव ।। ६.१०२.६ ।।
चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ।। ६.१०२.७ ।।सीदन्ति दृष्टिर्बाष्पवशं गता ।भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ।। ६.१०२.८ ।।।सीदन्ति दृष्टिर्बाष्पवशं गता ।विनिष्टनन्तं दुःखार्थं मर्मण्यभिहतं भृशम् ।राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् ।दुःखेन महता ऽ ऽविष्टो ध्यानशोकपरायणः ।। ६.१०२.९ ।।
परं विषादमापन्नो विललापाकुलेन्द्रियः ।। ६.१०२.१० ।।
न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ।भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ।। ६.१०२.११ ।।
किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ।यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ।। ६.१०२.१२ ।।
देशे देशे कलत्राणि देशे देशे च बान्धवाः ।तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ।। ६.१०२.१३ ।।
इत्यवं विलपन्तं तं शोकविह्वलितेन्द्रियम् ।विवेष्टमानं करुणमुच्छ्वसन्तं पुनःपुनः ।राममाश्वासयन् वीरः सुषेणो वाक्यमब्रवीत् ।। ६.१०२.१४ ।।
न मृतो ऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः ।न चास्य विकृतं वक्त्रं नापि श्यावं न निष्प्रभम् ।। ६.१०२.१५ ।।
सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ।पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ।। ६.१०२.१६ ।।
एवं न विद्यते रूपं गतासूनां विशाम्पते ।दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीद्दशम् ।। ६.१०२.१७ ।।
नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ।मा विषादं कृथा वीर सप्राणो ऽयमरिन्दमः ।। ६.१०२.१८ ।।
आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ।सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ।। ६.१०२.१९ ।।
एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ।हनुमन्तमुवाचेदं हनुमन्तमभित्वरन् ।। ६.१०२.२० ।।
सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।पूर्वं ते कथितो यो ऽसौ वीर जाम्बवता शुभः ।। ६.१०२.२१ ।।
दक्षिणे शिखरे तस्य जातमोषधिमानय ।विशल्यकरणीं नाम विशल्यकरणीं शुभाम् ।। ६.१०२.२२ ।।
सवर्णकरणीं चापि तथा सञ्जीवनीमपि ।सन्धानकरणीं चापि गत्वा शीघ्रमिहानय ।। ६.१०२.२३ ।।
सञ्जीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ।इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम् ।चिन्तामभ्यगमच्छ्रीमानजानंस्तां महौषधिम् ।। ६.१०२.२४ ।।
अस्मिन् हि शिखरे जातामोषधीं तां सुखावहाम् ।प्रतर्केणावगच्छामि सुषेणो ऽप्येवमब्रवीत् ।। ६.१०२.२६ ।।
अगृह्य यदि गच्छामि विशल्यकरणीमहम् ।कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् ।। ६.१०२.२७ ।।
इति सञ्चिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः ।आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः ।। ६.१०२.२८ ।।
फुल्लनानातरुगणं समुत्पाट्य महाबलः ।गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ।। ६.१०२.२९ ।।
स नीलमिव जीमूतं तोयपूर्णं नभस्थलात् ।आपपात गृहीत्वा तु हनुमान् शिखरं गिरेः ।। ६.१०२.३० ।।
समागम्य महावेगः सन्न्यस्य शिखरं गिरेः ।विश्रम्य किञ्चिद्धनुमान् सुषेणमिदमब्रवीत् ।। ६.१०२.३१ ।।
ओषधिं नावगच्छामि तामहं हरिपुङ्गव ।तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ।। ६.१०२.३२ ।।
एवं कथयमानं तं प्रशस्य पवनात्मजम् ।सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ।। ६.१०२.३३ ।।
विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः ।दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम् ।। ६.१०२.३४ ।।
ततः सङ्क्षोदयित्वा तामोषधीं वानरोत्तमः ।लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः ।। ६.१०२.३५ ।।
सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा ।विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ।। ६.१०२.३६ ।।
तमुत्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम् ।साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ।। ६.१०२.३७ ।।
एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा ।सस्वजे स्नेहगाढं च बाष्पपार्याकुलेक्षणः ।। ६.१०२.३८ ।।
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ।दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम् ।। ६.१०२.३९ ।।
न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण ।को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते ।। ६.१०२.४० ।।
इत्येवं वदतस्तस्य राघवस्य महात्मनः ।खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ।। ६.१०२.४१ ।।
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ।लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ।। ६.१०२.४२ ।।
न हि प्रतिज्ञां कुर्वन्ति वितथां साधवो ऽनघ ।लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ।। ६.१०२.४३ ।।
नैराश्यमुपगन्तुं ते तदलं मत्कृते ऽनघ ।वधेन रावणस्याद्य प्रतिज्ञामनुपालय ।। ६.१०२.४४ ।।
न जीवन् यास्यते शत्रुस्तव बाणपथं गतः ।नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ।। ६.१०२.४५ ।।
अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ।यावदस्तं न यात्येष कृतकर्मा दिवाकरः ।। ६.१०२.४६ ।।
यदि वधमिच्छसि रावणस्य सङ्ख्ये यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम् ।यदि तव राजवरात्मजाभिलाषः कुरु च वचो मम शीघ्रमद्यवीर ।। ६.१०२.४७ ।।
लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ।सन्दधे परवीरघ्नो धनुरादाय वीर्यवान् ।रावणाय शरान् घोरान् विससर्ज चमूमुखे ।। ६.१०३.१ ।।
अथान्यं रथमारुह्य रावणो राक्षसाधिपः ।अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् ।। ६.१०३.२ ।।
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ।आजघान महाघोरैर्धाराभिरिव तोयदः ।। ६.१०३.३ ।।
दीप्तपावक सङ्काशैः शरैः काञ्चनभूषणैः ।निर्बिभेद रणे रामो दशग्रीवं समाहितम् ।। ६.१०३.४ ।।
भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः ।न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ।। ६.१०३.५ ।।
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ।तरुणादित्यसङ्काशो वैडूर्यमयकूबरः ।। ६.१०३.६ ।।
सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ।हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः ।। ६.१०३.७ ।।
रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः ।देवराजेन सन्दिष्टो रथमारुह्य मातलिः ।। ६.१०३.८ ।।
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ।। ६.१०३.९ ।।
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ।। ६.१०३.१० ।।
सहस्राक्षेण काकुत्स्थ रथो ऽयं विजयाय ते ।दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हण ।। ६.१०३.११ ।।
इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम् ।शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिता ।। ६.१०३.१२ ।।
आरुह्येमं रथं वीर राक्षसं जहि रावणम् ।मया सारथिना राजन् महेन्द्र इव दानवान् ।। ६.१०३.१३ ।।
इत्युक्तः सम्परिक्रम्य रथं समभिवाद्य च ।आरुरोह तदा रामो लोकान् लक्ष्म्या विराजयन् ।। ६.१०३.१४ ।।
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।रामस्य च महाबाहो रावणस्य च रक्षसः ।। ६.१०३.१५ ।।
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ।अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ।। ६.१०३.१६ ।।
अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः ।ससर्ज परमक्रुद्धः पुनरेव निशाचरः ।। ६.१०३.१७ ।।
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः ।अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ।। ६.१०३.१८ ।।
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ।राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ।। ६.१०३.१९ ।।
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः ।। ६.१०३.२० ।।
तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे ।अस्त्रं गारुत्मतं घोरं प्रादुश्चके भयावहम् ।। ६.१०३.२१ ।।
ते राघवशरा मुक्ता रुक्मपुङ्खाः शिखिप्रभाः ।सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ।। ६.१०३.२२ ।।
ते तान् सर्वान् शरान् जघ्नुः सर्परूपान् महाजवान् ।सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ।। ६.१०३.२३ ।।
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ।अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ।। ६.१०३.२४ ।।
ततः शरसहस्रेण राममक्लिष्टकारिणम् ।अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ।। ६.१०३.२५ ।।
चिच्छेद केतुमुद्धिश्य शरेणैकेन रावणः ।पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम् ।ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः ।। ६.१०३.२६ ।।
तं दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः ।विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ।। ६.१०३.२७ ।।
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ।व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ।। ६.१०३.२८ ।।
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ।प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ।। ६.१०३.२९ ।।
समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ।। ६.१०३.३० ।।
सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ।उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ।। ६.१०३.३१ ।।
शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ।अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना ।। ६.१०३.३२ ।।
कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ।आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ।। ६.१०३.३३ ।।
दशास्यो विंशतिभुजः प्रगृहीतशरासनः ।अदृश्यत दशग्रीवो मैनाक इव पर्वतः ।। ६.१०३.३४ ।।
निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ।नाशक्नोदभिसन्धातुं सायकान् रणमूर्धनि ।। ६.१०३.३५ ।।
स कृत्वा भ्रुकुटिं क्रुद्धः किञ्चित् संरक्तलोचनः ।जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ।। ६.१०३.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्र्युत्तरशततमः सर्गः ।। १०३ ।।
तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ।सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ।। ६.१०४.१ ।।
सिंहशार्दूलवान् शैलः सञ्चचाल चलद्रुमः ।बभूव चातिक्षुभितः समुद्रः सरितां पतिः ।। ६.१०४.२ ।।
खगाश्च खरनिर्घोषा गगने परुषा घनाः ।औत्पातिकानि नर्दन्तः समन्तात् परिचक्रमुः ।। ६.१०४.३ ।।
रामं दृष्ट्वा सुसङ्क्रुद्धमुत्पातांश्च सुदारुणान् ।वित्रेसुः सर्वभूतानि रावणस्याभवद्भयेम् ।। ६.१०४.४ ।।
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः ।ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ।। ६.१०४.५ ।।
ददृशुस्ते महायुद्धं लोकसंवर्तसंस्थितम् ।नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुद्ध्यतोः ।। ६.१०४.६ ।।
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः ।प्रेक्षमाणा महद्युद्धं वाक्यं भक्त्या प्रहृष्टवत् ।। ६.१०४.७ ।।
दशग्रीवं जयेत्याहुरसुराः समवस्थिताः ।देवा राममथोचुस्ते त्वं जयेति पुनःपुनः ।। ६.१०४.८ ।।
एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः ।प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् ।। ६.१०४.९ ।।
वज्रसारं महानादं सर्वशत्रुनिबर्हणम् ।शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ।। ६.१०४.१० ।।
सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् ।अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ।। ६.१०४.११ ।।
त्रासनं सर्वभूतानां दारणं भेदनं तदा ।प्रदीप्तमिव रोषेण शूलं जग्राह रावणः ।। ६.१०४.१२ ।।
तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् ।अनेकैः समरे शूरै राक्षसैः परिवारितः ।। ६.१०४.१३ ।।
समुद्यम्य महाकायो ननाद युधि भैरवम् ।संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन् ।। ६.१०४.१४ ।।
पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा ।प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ।। ६.१०४.१५ ।।
अतिनादस्य नादेन तेन तस्य दुरात्मनः ।सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे ।। ६.१०४.१६ ।।
स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् ।विनद्य सुमहानादं रामं परुषमब्रवीत् ।। ६.१०४.१७ ।।
शूलो ऽयं वज्रसारस्ते राम रोषान्मयोद्यतः ।तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति ।। ६.१०४.१८ ।।
रक्षसामद्य शूराणां निहतानां चमूमुखे ।त्वां निहत्य रणश्लाघिन् करोमि तरसा समम् ।तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव ।। ६.१०४.१९ ।।
एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ।। ६.१०४.२० ।।
तद्रावणकरान्मुक्तं विद्युज्ज्वालासमाकुलम् ।अष्टघण्टं महानादं वियद्गतमशोभत ।। ६.१०४.२१ ।।
तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम् ।ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान् ।। ६.१०४.२२ ।।
आपतन्तं शरौघेण वारयामास राघवः ।उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ।। ६.१०४.२३ ।।
निर्ददाह स तान् बाणान् रामकार्मुकनिस्सृतान् ।रावणस्य महाशूलः पतङ्गानिव पावकः ।। ६.१०४.२४ ।।
तान् दृष्ट्वा भस्मसाद्भूतान् शूल संस्पर्शचूर्णितान् ।सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत् ।। ६.१०४.२५ ।।
स तां मातलिना ऽ ऽनीतां शक्तिं वासवनिर्मिताम् ।जग्राह परमक्रुद्धो राघवो रघुनन्दनः ।। ६.१०४.२६ ।।
सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना ।नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ।। ६.१०४.२७ ।।
सा क्षिप्ता राक्षसेन्द्रस्य तस्मिन् शूले पपात ह ।भिन्नः शक्त्या महान् शूलो निपपात हतद्युतिः ।। ६.१०४.२८ ।।
निर्बिभेद ततो बाणैर्हयानस्य महाजवान् ।रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः ।। ६.१०४.२९ ।।
निर्बिभेदोरसि ततो रावणं निशितैः शरैः ।राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ।। ६.१०४.३० ।।
स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः ।राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ।। ६.१०४.३१ ।।
स रामबाणैरभिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः ।जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ।। ६.१०४.३२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुरुत्तरशततमः सर्गः ।। १०४ ।।
स तेन तु तथा क्रोधात् काकुत्स्थेनार्दितो रणे ।रावणः समरश्लाघी महाक्रोधमुपागमत् ।। ६.१०५.१ ।।
स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् ।अभ्यर्दयत् सुसङ्क्रुद्धो राघवं परमाहवे ।। ६.१०५.२ ।।
बाणधारासहस्रैस्तैः स तोयद इवाम्बरात् ।राघवं रावणो बाणैस्तटाकमिव पूरयत् ।। ६.१०५.३ ।।
पूरितः शरजालेन धनुर्मुक्तेन संयुगे ।महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ।। ६.१०५.४ ।।
स शरैः शरजालानि वारयन् समरे स्थितः ।गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ।। ६.१०५.५ ।।
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ।निजघानोरसि क्रुद्धो राघवस्य महात्मनः ।। ६.१०५.६ ।।
स शोणित समादिग्धः समरे लक्ष्मणाग्रजः ।दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः ।। ६.१०५.७ ।।
शराभिघातसंरब्धः सो ऽपि जग्राह सायकान् ।काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः ।। ६.१०५.८ ।।
ततो ऽयोन्यं सुसंरब्धावुभौ तौ रामरावणौ ।शरान्धकारे समरे नोपालक्षयतां तदा ।। ६.१०५.९ ।।
ततः क्रोधसमाविष्टो रामो दशरथात्मजः ।उवाच रावणं वीरः प्रहस्य परुषं वचः ।। ६.१०५.१० ।।
मम भार्या जनस्थानादज्ञानाद्राक्षसाधम ।हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ।। ६.१०५.११ ।।
मया विरहितां दीनां वर्तमानां महावने ।वैदेहीं प्रसभं हृत्वा शूरो ऽहमिति मन्यसे ।। ६.१०५.१२ ।।
स्त्रीषु शूर विनाथासु परदाराभिमर्शक ।कृत्वा कापुरुषं कर्म शूरो ऽहमिति मन्यसे ।। ६.१०५.१३ ।।
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित ।दर्पान्मृत्युमुपादाय शूरो ऽहमिति मन्यसे ।। ६.१०५.१४ ।।
शूरेण धनदभ्रात्रा बलैः समुदितेन च ।श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया ।। ६.१०५.१५ ।।
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ।कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम् ।। ६.१०५.१६ ।।
शूरो ऽहमिति चात्मानमवगच्छसि दुर्मते ।नैव लज्जा ऽस्ति ते सीतां चोरवद् व्यपकर्षतः ।। ६.१०५.१७ ।।
यदि मत्सन्निधौ सीता धर्षिता स्यात्त्वया बलात् ।भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ।। ६.१०५.१८ ।।
दिष्ट्या ऽसि मम दुष्टात्मंश्चक्षुर्विषयमागतः ।अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ।। ६.१०५.१९ ।।
अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् ।क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ।। ६.१०५.२० ।।
निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण ।पिबन्तु रुधिरं तर्षाच्छरशल्यान्तरोत्थितम् ।। ६.१०५.२१ ।।
अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते ।कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ।। ६.१०५.२२ ।।
इत्येवं संवदन् वीरो रामः शत्रुनिबर्हणः ।राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ।। ६.१०५.२३ ।।
बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ।रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः ।। ६.१०५.२४ ।।
प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः ।प्रहर्षाच्च महातेजाः शीघ्रहस्ततरो ऽभवत् ।। ६.१०५.२५ ।।
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः ।भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ।। ६.१०५.२६ ।।
हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ।हन्यमानो दशग्रीवो विघूर्णहृदयो ऽभवत् ।। ६.१०५.२७ ।।
यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् ।नास्य प्रत्यकरोद्वीर्यं विक्लेवेनान्तरात्मना ।। ६.१०५.२८ ।।
क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च ।न रणार्थाय वर्तन्ते मृत्युकाले ऽभिवर्ततः ।। ६.१०५.२९ ।।
सूतस्तु रथनेता ऽस्य तदवस्थं समीक्ष्य तम् ।शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत् ।। ६.१०५.३० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चोत्तरशततमः सर्गः ।। १०५ ।।
स तु मोहात् सुसङ्क्रुद्धः कृतान्तबलचोदितः ।क्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ।। ६.१०६.१ ।।
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् ।भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ।। ६.१०६.२ ।।
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् ।मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ।। ६.१०६.३ ।।
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ।त्वया शत्रोः समक्षं मे रथो ऽयमपवाहितः ।। ६.१०६.४ ।।
त्वया ऽद्य हि ममानार्य चिरकालसमार्जितम् ।यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ।। ६.१०६.५ ।।
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः ।पश्यतो युद्धलुब्धो ऽहं कृतः कापुरुषस्त्वया ।। ६.१०६.६ ।।
यस्त्वं रथमिमं मोहात् न चोद्वहसि दुर्मते ।सत्यो ऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ।। ६.१०६.७ ।।
न हि तद्विद्यते कर्म सुहृदो हितकाङ्क्षिणः ।रिपूणां सदृशं चैतन्न त्वयैतत् स्वनुष्ठितम् ।। ६.१०६.८ ।।
निवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः ।यदि वा ऽध्युषितो वा ऽसि स्मर्यन्ते यदि वा गुणाः ।। ६.१०६.९ ।।
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना ।अब्रवीद्रावणं सूतो हितं सानुनयं वचः ।। ६.१०६.१० ।।
न भीतो ऽस्मि न मूढो ऽस्मि नोपजप्तो ऽस्मि शत्रुभिः ।न प्रमत्तो न निस्नेहो विस्मृता न च सत्क्रिया ।। ६.१०६.११ ।।
मया तु हितकामेन यशश्च परिरक्षता ।स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ।। ६.१०६.१२ ।।
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् ।कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ।। ६.१०६.१३ ।।
श्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः ।नदीवेग इवाभोगे संयुगे विनिवर्तितः ।। ६.१०६.१४ ।।
क्षमं तवावगच्छामि महता रणकर्मणा ।न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये ।। ६.१०६.१५ ।।
रथोद्वहनखिन्नाश्च त इमे रथवाजिनः ।दीना धर्मपरिश्रान्ता गावो वर्षहता इव ।। ६.१०६.१६ ।।
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः ।तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ।। ६.१०६.१७ ।।
देशकालौ च विज्ञेयौ लक्षणानीङ्गीतानि च ।दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ।। ६.१०६.१८ ।।
स्थलनिम्नानि भूमेश्च समानि विषमाणि च ।युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ।। ६.१०६.१९ ।।
उपयानापयाने च स्थानं प्रत्यपसर्पणम् ।सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ।। ६.१०६.२० ।।
तव विश्रमहेतोश्च तथैषां रथवाजिनाम् ।रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ।। ६.१०६.२१ ।।
न मया स्वेच्छया वीर रथो ऽयमपवाहितः ।। ६.१०६.२२ ।।
भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ।। ६.१०६.२३ ।।
आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन ।तत्करिष्याम्यहं वीर गतानृण्येन चेतसा ।। ६.१०६.२४ ।।
सन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ।प्रशस्यैनं बहुविधं युद्धलुब्धो ऽब्रवीदिदम् ।। ६.१०६.२५ ।।
रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु ।नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः ।। ६.१०६.२६ ।।
एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः ।ददौ तस्मै शुभं ह्येकं हस्ताभरणमुत्तमम् ।। ६.१०६.२७ ।।
श्रुत्वा रावणवाक्यं तु सारथिः सन्न्यवर्तत ।। ६.१०६.२८ ।।
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः ।स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतो ऽभवत् ।। ६.१०६.२९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षडुत्तरशततमः सर्गः ।। १०६ ।।
।। आदित्यहृदयप्रारम्भः ।।ततो युद्धपरिश्रन्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ।। ६.१०७.१ ।।
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ।। ६.१०७.२ ।।
राम राम महाबाहो शृणु गुह्यं सनातनम् ।येन सर्वानरीन् वत्स समरे विजयिष्यसि ।। ६.१०७.३ ।।
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् ।। ६.१०७.४ ।।
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् ।चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ।। ६.१०७.५ ।।
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।। ६.१०७.६ ।।
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।एष देवासुरगणान् लोकान् पाति गभिस्तिभिः ।। ६.१०७.७ ।।
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ।। ६.१०७.८ ।।
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।वायुर्वह्निः प्रजापाण ऋतुकर्ता प्रभाकरः ।। ६.१०७.९ ।।
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ।। ६.१०७.१० ।।
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड अंशुमान् ।। ६.१०७.११ ।।
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।अग्निगर्भो ऽदितेः पुत्रः शङ्खः शिशिरनाशनः ।। ६.१०७.१२ ।।
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः ।घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ।। ६.१०७.१३ ।।
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ।। ६.१०७.१४ ।।
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।तेजसामपि तेजस्वी द्वादशात्मन्नमो ऽस्तु ते ।। ६.१०७.१५ ।।
नमः पूर्वाय गिरये पश्चिमे गिरये नमः ।ज्योतिर्गणानां पतये दिनाधिपतये नमः ।। ६.१०७.१६ ।।
जयाय जयभद्राय हर्यश्वाय नमो नमः ।नमो नमः सहस्रांशो आदित्याय नमो नमः ।। ६.१०७.१७ ।।
नम उग्राय वीराय सारङ्गाय नमो नमः ।नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ।। ६.१०७.१८ ।।
ब्रह्मोशानाच्युतेशाय सूर्यायादित्यवर्चसे ।भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।। ६.१०७.१९ ।।
तमोघ्नाय हिमध्नाय शत्रुघ्नायामितात्मने ।कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ।। ६.१०७.२० ।।
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ।। ६.१०७.२१ ।।
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ।। ६.१०७.२२ ।।
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ।। ६.१०७.२३ ।।
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ।। ६.१०७.२४ ।।
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ।। ६.१०७.२५ ।।
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।एतत्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ।। ६.१०७.२६ ।।
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।एवमुक्त्वा तदा ऽगस्त्यो जगाम च यथागतम् ।। ६.१०७.२७ ।।
एतच्छुत्वा महातेजा नष्टशोको ऽभवत्तदा ।धारयामास सुप्रीतो राघवः प्रयतात्मवान् ।। ६.१०७.२८ ।।
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ।। ६.१०७.२९ ।।
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।सर्वयत्नेन महता वधे तस्य धृतो ऽभवत् ।। ६.१०७.३० ।।
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।निशिचरपतिसङ्क्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ।। ६.१०७.३१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तोत्तरशततमः सर्गः ।। १०७ ।।
स रथं सारथिर्हृष्टः परसैन्यप्रधर्षणम् ।गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ।। ६.१०८.१ ।।
युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः ।युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ।। ६.१०८.२ ।।
ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् ।प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् ।रावणस्य रथं क्षिप्रं चोदयामास सारथिः ।। ६.१०८.३ ।।
तमापतन्तं सहसा स्वनवन्तं महास्वनम् ।रथं राक्षसराजस्य नरराजो ददर्श ह ।। ६.१०८.४ ।। ।कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ।तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ।। ६.१०८.५ ।।
शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ।तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः ।। ६.१०८.६ ।।
गिरैर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ।विस्फारयन् वै वेगेन बालचन्द्रनतं धनुः ।। ६.१०८.७ ।।
उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ।। ६.१०८.८ ।।
मातले पश्य संरब्धमापतन्तं रथं रिपोः ।। ६.१०८.९ ।।
यथा ऽ ऽपसव्यं पतता वेगेन महता पुनः ।समरे हन्तुमात्मानं तथा तेन कृता मतिः ।। ६.१०८.१० ।।
तदप्रमादमातिष्ठन् प्रत्युद्गच्छ रथं रिपोः ।विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ।। ६.१०८.११ ।।
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम् ।रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम् ।। ६.१०८.१२ ।।
कामं न त्वं समाधेयः पुरन्दररथोचितः ।युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ।। ६.१०८.१३ ।।
परितुष्टः स रामस्य तेन वाक्येन मातलिः ।प्रचोदयामास रथं सुरसारथिसत्तमः ।। ६.१०८.१४ ।।
अपसव्यं ततः कुर्वन् रावणस्य महारथम् ।चक्रोत्क्षिप्तेन रजसा रावणं व्यवधानयत् ।। ६.१०८.१५ ।।
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ।रथप्रतिमुखं रामं सायकैरवधूनयत् ।। ६.१०८.१६ ।।
धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन् ।जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ।शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ।। ६.१०८.१७ ।।
तदोपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ।परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ।। ६.१०८.१८ ।।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।समेयुर्द्वैरथं दृष्टुं रावणक्षयकाङ्क्षिणः ।। ६.१०८.१९ ।।
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः ।रावणस्य विनाशाय राघवस्य जयाय च ।। ६.१०८.२० ।।
ववर्ष रुधिरं देवो रावणस्य रथोपरि ।वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः ।। ६.१०८.२१ ।।
महद् गृध्रकुलं चास्य भ्रममाणं नभस्स्थले ।येन येन रथो याति तेन तेन प्रधावति ।। ६.१०८.२२ ।।
सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया ।दृश्यते सम्प्रदीप्तेव दिवसे ऽपि वसुन्धरा ।। ६.१०८.२३ ।।
सनिर्घाता महोल्काश्च सम्प्रचेरुर्महास्वनाः ।विषादयंस्ते रक्षांसि रावणस्य तदा ऽहिताः ।। ६.१०८.२४ ।।
रावणश्च यतस्तत्र सञ्चचाल वसुन्धरा ।रक्षसां च प्रहरतां गृहीता इव बाहवः ।। ६.१०८.२५ ।।
ताम्राः पीताः सिताश्वेताः पतिताः सूर्यरश्मयः ।दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ।। ६.१०८.२६ ।।
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ।प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ।। ६.१०८.२७ ।।
प्रतिकूलं ववौ वायू रणे पांसून् समाकिरन् ।तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् ।। ६.१०८.२८ ।।
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ।दुर्विषह्यस्वना घोरा विना जलधरस्वनम् ।। ६.१०८.२९ ।।
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ।पांसुवर्षेण महता दुर्दर्शं च नभो ऽभवत् ।। ६.१०८.३० ।।
कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति ।निपेतुः शतशस्तत्र दारुणं दारुणारुताः ।। ६.१०८.३१ ।।
जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्यो ऽश्रूणि सन्ततम् ।मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ।। ६.१०८.३२ ।।
एवम्प्रकारा बहवः समुत्पाता भयावहाः ।रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे ।। ६.१०८.३३ ।।
रामस्यापि निमित्तानि सौम्यानि च शुभानि च ।बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ।। ६.१०८.३४ ।।
निमित्तानि च सौम्यानि राघवः स्वजयाय च ।दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ।। ६.१०८.३५ ।।
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः ।जगाम हर्षं च परां च निर्वृत्तिं चकार युद्धे ह्यधिकं च विक्रमम् ।। ६.१०८.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टोत्तरशततमः सर्गः ।। १०८ ।।
ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा ।सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् ।। ६.१०९.१ ।।
ततो राक्षससैन्यं च हरीणां च महद्बलम् ।प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ।। ६.१०९.२ ।।
सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ ।व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ।। ६.१०९.३ ।।
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ।सर्पन्तं प्रेक्ष्य सङ्ग्रामं नाभिजग्मुः परस्परम् ।। ६.१०९.४ ।।
रक्षसां रावणं चापि वानराणां च राघवम् ।पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ।। ६.१०९.५ ।।
तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ ।कृतबुद्धी स्थिरामर्षौ युयुधाते ब्यभीतवत् ।। ६.१०९.६ ।।
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः ।धृतौ स्ववीर्यसर्वस्वं युद्धे ऽदर्शयतां तदा ।। ६.१०९.७ ।।
ततः क्रोधाद्दशग्रीवः शरान् सन्धाय वीर्यवान् ।मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ।। ६.१०९.८ ।।
ते शरास्तमनासाद्य पुरन्दररथध्वजम् ।रथशक्तिं परामृश्य निपेतुर्धरणीतले ।। ६.१०९.९ ।।
ततो रामो ऽभिसङ्क्रुद्धश्चापमायम्य वीर्यवान् ।कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ।। ६.१०९.१० ।।
रावणध्वजमुद्दिश्य मुमोच निशितं शरम् ।महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ।। ६.१०९.११ ।।
जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः ।स निकृत्तो ऽपतद्भूमौ रावणस्य रथध्वजः ।। ६.१०९.१२ ।।
ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ।सम्प्रदीप्तो ऽभवत् क्रोधादमर्षात् प्रदहन्निव ।। ६.१०९.१३ ।।
स रोषवशमापन्नः शरवर्षं महद्वमन् ।रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः ।। ६.१०९.१४ ।।
ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः ।बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ।। ६.१०९.१५ ।।
तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा ।भूय एव सुसङ्क्रुद्धः शरवर्षं मुमोच ह ।। ६.१०९.१६ ।।
गदाश्च परिघाश्चैव चक्राणि मुसलानि च ।गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ।। ६.१०९.१७ ।।
मायाविहितमेतत्तु शस्त्रवर्षमपातयत् ।तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ।। ६.१०९.१८ ।।
तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत् ।विमुच्य राघवरथं समान्ताद्वानरे बले ।। ६.१०९.१९ ।।
सायकैरन्तरिक्षं च चकाराशु निरन्तरम् ।सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः ।मुमोच च दशग्रीवो निस्सङ्गेना ऽन्तरात्मना ।। ६.१०९.२० ।।
व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ।प्रहसन्निव काकुत्स्थः सन्दधे सायकान् शितान् ।। ६.१०९.२१ ।।
स मुमोच ततो बाणान् रणे शतसहस्रशः ।तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ।। ६.१०९.२२ ।।
ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता ।शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ।। ६.१०९.२३ ।।
नानिमित्तो ऽभवद्बाणो नातिभेत्ता न निष्फलः ।। ६.१०९.२४ ।।
अन्योन्यमभिसंहत्य निपेतुर्धरणीतले ।तथा विसृजतोर्बाणान् रामरावणयोर्मृधे ।। ६.१०९.२५ ।।
प्रायुद्ध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ।चक्रतुश्च शरौघैस्तौ निरुच्छ्वासमिवाम्बरम् ।। ६.१०९.२६ ।।
रावणस्य हयान् रामो हयान् रामस्य रावणः ।जघ्नतुस्तौ तथा ऽन्योन्यं कृतानुकृतकारिणौ ।। ६.१०९.२७ ।।
एवं तौ तु सुसङ्क्रुद्धौ चक्रतुर्युद्धमद्भुतम् ।मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् ।। ६.१०९.२८ ।।
प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ ।ध्वजावपातेन स राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे ।। ६.१०९.२९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवोत्तरशततमः सर्गः ।। १०९ ।।
तौ तदा युद्ध्यमानौ तु समरे रामरावणौ ।ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ।। ६.११०.१ ।।
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ।परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ।। ६.११०.२ ।।
परस्परवधे युक्तौ घोररूपौ बभूवतुः ।मण्डलानि च वीथीश्च गतप्रत्यागतानि च ।दर्शयन्तौ बहुविधां सूतसारथ्यजां गतिम् ।। ६.११०.३ ।।
अर्दयन् रावणं रामो राघवं चापि रावणः ।गतिवेगं समापन्नौ प्रवर्तननिवर्तने ।। ६.११०.४ ।।
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ।चेरतुः संयुगमहीं सासारौ जलदौ यथा ।। ६.११०.५ ।।
दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे ।परस्परस्याभिमुखौ पुनरेवावतस्थतुः ।। ६.११०.६ ।।
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ।पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ।। ६.११०.७ ।।
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ।चतुर्भिश्चतुरो दीप्तैर्हयान् प्रत्यपसर्पयत् ।। ६.११०.८ ।।
स क्रोधवशमापन्नो हयानामपसर्पणे ।मुमोच निशितान् बाणान् राघवाय निशाचरः ।। ६.११०.९ ।।
सो ऽतिविद्धो बलवता दशग्रीवेण राघवः ।जगाम न विकारं च न चापि व्यथितो ऽभवत् ।। ६.११०.१० ।।
चिक्षेप च पुनर्बाणान् वज्रपातसमस्वनान् ।साराथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ।। ६.११०.११ ।।
मातलेस्तु महावेगाः शरीरे पतिताः शराः ।न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि ।। ६.११०.१२ ।।
तया धर्षणया क्रुद्धो मातलेर्न तथा ऽ ऽत्मनः ।चकार शरजालेन राघवो विमुखं रिपुम् ।। ६.११०.१३ ।।
विंशतं त्रिंशतं षष्टिं शतशो ऽथ सहस्रशः ।मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः ।। ६.११०.१४ ।।
रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ।। ६.११०.१५ ।।
तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।। ६.११०.१६ ।।
गदानां मुसलानां च परिघाणां च निस्वनैः ।शराणां पुङ्खपातैश्च क्षुभिताः सप्त सागराः ।। ६.११०.१७ ।।
क्षुब्धानां सागराणां च पातालतलवासिनः ।व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ।। ६.११०.१८ ।।
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ।भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ।। ६.११०.१९ ।।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः ।। ६.११०.२० ।।
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः ।जयतां राघवः सङ्ख्ये रावणं राक्षसेश्वरम् ।। ६.११०.२१ ।।
एवं जपन्तो ऽपश्यंस्ते देवाः सर्षिगणास्तदा ।रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ।। ६.११०.२२ ।।
गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् ।। ६.११०.२३ ।।
गगनं गगनाकारं सागरः सागरोपमः ।रामरावणयोर्युद्धं रामरावणयोरिव ।एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम् ।। ६.११०.२४ ।।
ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ।सन्धाय धनुषा रामः क्षुरमाशीविषोपमम् ।। ६.११०.२५ ।।
रावणस्य शिरो ऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ।तच्छिरः पतितं भूमौ दृष्ट्वं लोकैस्त्रिभिस्तदा ।। ६.११०.२६ ।।
तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ।तत् क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ।। ६.११०.२७ ।।
द्वितीयं रावणशिरश्छिन्नं संयति सायकैः ।छिन्नमात्रं तु तच्छीर्षं पुनरन्यत् स्म दृश्यते ।। ६.११०.२८ ।।
तदप्यशनिसङ्काशैश्छिन्नं रामेण सायकैः ।एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम् ।। ६.११०.२९ ।।
न चैव रावणस्यान्तो दृश्यते जीवितक्षये ।। ६.११०.३० ।।
ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः ।मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ।। ६.११०.३१ ।।
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः ।क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने ।। ६.११०.३२ ।।
यैः साला गिरयो भग्ना वाली च क्षुभितो ऽम्बुधिः ।त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम ।किं नु तत्कारणं येन रावणे मन्दतेजसः ।। ६.११०.३३ ।।
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे ।ववर्ष शरवर्षाणि राघवो रावणोरसि ।। ६.११०.३४ ।।ा मम ।रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ।। ६.११०.३५ ।।
तत् प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ।। ६.११०.३६ ।।
देवदानवयक्षाणां पिशाचोरगरक्षसाम् ।पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत ।। ६.११०.३७ ।।
नैव रात्रं न दिवसं न मुहूर्तं न च क्षणम् ।रामरावणयोर्युद्धं विराममुपगच्छति ।। ६.११०.३८ ।।
दशरथसुतराक्षसेन्द्रयोर्जयमनवेक्ष्य रणे स राघवस्य ।सुरवररथसारथिर्महान् रणगतमेनमुवाच वाक्यमाशु ।। ६.११०.३९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे दशोत्तरशततमः सर्गः ।। ११० ।।
अथ संस्मारयामास राघवं मातलिस्तदा ।अजानन्निव किं वीर त्वमेनमनुवर्तसे ।। ६.१११.१ ।।
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ।विनाशकालः कथितो यः सुरैः सो ऽद्य वर्तत ।। ६.१११.२ ।।
ततः संस्मारितो रामस्तेन वाक्येन मातलेः ।जग्राह सशरं दीप्तं निश्वसन्तमिवोरगम् ।। ६.१११.३ ।।
यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः ।ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् ।। ६.१११.४ ।।
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा ।दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ।। ६.१११.५ ।।
यस्य वाजेषु पवनः फले पावकभास्करौ ।शरीरमाकाशमयं गौरवे मेरुमन्दरौ ।। ६.१११.६ ।।
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् ।तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ।। ६.१११.७ ।।
सधूममिव कालाग्निं दीप्तमाशीविषं यथा ।परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ।। ६.१११.८ ।।
द्वाराणां परिघाणां च गिरीणामपि भेदनम् ।नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ।। ६.१११.९ ।।
वज्रसारं महानादं नानासमितिदारणम् ।सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ।। ६.१११.१० ।।
कङ्कगृध्रवलानां च गोमायुगणरक्षसाम् ।नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम् ।। ६.१११.११ ।।
नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ।वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ।। ६.१११.१२ ।।
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् ।द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ।। ६.१११.१३ ।।
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः ।वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली ।। ६.१११.१४ ।।
तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे ।सर्वभूतानि वित्रेसुश्चचाल च वसुन्धरा ।। ६.१११.१५ ।।स रावणाय सङ्क्रुद्धो भृशमायम्य कार्मुकम् ।चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ।। ६.१११.१६ ।।
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः ।कृतान्त इव चावार्यो न्यपतद्रावणोरसि ।। ६.१११.१७ ।।
स विसृष्टो महावेगः शरीरान्तकरः शरः ।बिभेद हृदयं तस्य रावणस्य दुरात्मनः ।। ६.१११.१८ ।।
रुधिराक्तः स वेगेन जीवितान्तकरः शरः ।रावणस्य हरन् प्राणान् विवेश धरणीतलम् ।। ६.१११.१९ ।।
स शरो रावणं हत्वा रुधिरार्दीकृतच्छविः ।कृतकर्मा निभृतवत् स्वतूणीं पुनरागमत् ।। ६.१११.२० ।।
तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम् ।निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ।। ६.१११.२१ ।।
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः ।पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ।। ६.१११.२२ ।।
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः ।हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः ।। ६.१११.२३ ।।
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः ।। ६.१११.२४ ।।
दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ।अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात् ।गताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः ।। ६.१११.२५ ।।
ततो विनेदुः संहृष्टा वानरा जितकाशिनः ।वदन्तो राघवजयं रावणस्य च तद्वधम् ।। ६.१११.२६ ।।
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः ।दिव्यगन्धवहस्तत्र मारुतः ससुखो ववौ ।। ६.१११.२७ ।।
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ।किरन्ती राघवरथं दुरवापा मनोरमा ।। ६.१११.२८ ।।
राघवस्तवसंयुक्ता गगने ऽपि च शुश्रुवे ।साधु साध्विति वागग्र्या दैवतानां महात्मनाम् ।। ६.१११.२९ ।।
आविवेश महाहर्षो देवानां चारणैः सह ।रावणे निहते रौद्रे सर्वलोकभयङ्करे ।। ६.१११.३० ।।
ततः सकामं सुग्रीवमङ्गदं च महाबलम् ।चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम् ।। ६.१११.३१ ।।
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभो ऽबवत् ।मही चकम्पे न हि मारुतो ववौ स्थिरप्रभश्चाप्यभवद्दिवाकरः ।। ६.१११.३२ ।।
ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा ।समेत्य हृष्टा विजयेन राघवं रणे ऽभिरामं विधिना ह्यपूजयन् ।। ६.१११.३३ ।।
स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज ।रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो यथेन्द्रः ।। ६.१११.३४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकादशोत्तरशततमः सर्गः ।। १११ ।।
भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् ।शोकवेगपरीतात्मा विललाप विभीषणः ।। ६.११२.१ ।।
वीर विक्रान्त विख्यात विनीत नयकोविद ।महार्हशयनोपेत किं शेषे ऽद्य हतो भुवि ।। ६.११२.२ ।।
विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ ।मुकुटेनापवृत्तेन भास्कराकारवर्चसा ।। ६.११२.३ ।।
तदिदं वीर सम्प्राप्तं मया पूर्वं समीरितम् ।काममोहपरीतस्य यत्ते न रुचितं वचः ।। ६.११२.४ ।।
यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः ।न कुम्भकर्णो ऽतिरथो नातिकायो नरान्तकः ।न स्वयं त्वममन्येथास्तस्योदर्को ऽयमागतः ।। ६.११२.५ ।।
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः ।गतः सत्त्वस्य सङ्क्षेपः प्रस्तावानां गतिर्गता ।। ६.११२.६ ।।
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ।। ६.११२.७ ।।
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः ।अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतां वरे ।। ६.११२.८ ।।
किं शेषमिव लोकस्य हतवीरस्य साम्प्रतम् ।रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ।। ६.११२.९ ।।
धृतिप्रवालः प्रसहाग्र्यपुष्पस्तपोबलः शौर्यनिबद्धमूलः ।रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन ।। ६.११२.१० ।।
तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः ।इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती ।। ६.११२.११ ।।
पराक्रमोत्साहविजृम्भितार्चिर्निश्वासधूमः स्वबलप्रतापः ।प्रतापवान् संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण ।। ६.११२.१२ ।।
सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धहस्ती ।रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतो ऽवसन्नः ।। ६.११२.१३ ।।
वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम् ।रामः शोकसमाविष्टमित्युवाच विभीषणम् ।। ६.११२.१४ ।।
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः ।अत्युन्नतमहोत्साहः पतितो ऽयमशङ्कितः ।। ६.११२.१५ ।।
नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ।। ६.११२.१६ ।।
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता ।तस्मिन् कालसमायुक्ते न कालः परिशोचितुम् ।। ६.११२.१७ ।।
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ।परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ।। ६.११२.१८ ।।
इयं हि पूर्वैः सन्दिष्टा गतिः क्षत्रियसम्मता ।क्षत्रियो निहतः सङ्ख्ये न शोच्य इति निश्चय ।। ६.११२.१९ ।।
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ।। ६.११२.२० ।।
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः ।उवाच शोकसन्तप्तो भ्रातुर्हितमनन्तरम् ।। ६.११२.२१ ।।
यो ऽयं विमर्देषु न भग्नपूर्वः सुरैः समेतैः सह वासवेन ।भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः ।। ६.११२.२२ ।।
अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः ।धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यापितानि ।। ६.११२.२३ ।।
एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यवीर्यः ।एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात् ।। ६.११२.२४ ।।
स तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन ।आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः ।। ६.११२.२५ ।।
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।क्रियतामस्य संस्कारो ममाप्येष यथा तव ।। ६.११२.२६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्वादशोत्तरशततमः सर्गः ।। ११२ ।।
रावणं निहतं श्रुत्वा राघवेण महात्मना ।अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ।। ६.११३.१ ।।
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु ।विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव ।। ६.११३.२ ।।
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः ।प्रविश्यायो धनं घोरं विचिन्वन्त्यो हतं पतिम् ।। ६.११३.३ ।।
राजपुत्रेति वादिन्यो हा नाथेति च सर्वशः ।परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ।। ६.११३.४ ।।
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः ।करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ।। ६.११३.५ ।।
ददृशुस्तं महावीर्यं महाकायं महाद्युतिम् ।रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ।। ६.११३.६ ।।
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु ।निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ।। ६.११३.७ ।।
बहुमानात् परिष्वज्य काचिदेनं रुरोद ह ।चरणौ काचिदालिङ्ग्य काचित् कण्ठे ऽवलम्ब्य च ।। ६.११३.८ ।।
उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते ।हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ।। ६.११३.९ ।।
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती ।स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ।। ६.११३.१० ।।
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि ।चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ।। ६.११३.११ ।।
येन वित्रासितः शक्रो येन वित्रासितो यमः ।येन वैश्रवणो राजा पुष्पकेण वियोजितः ।। ६.११३.१२ ।।
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् ।भयं येन महद्दत्तं सो ऽयं शेते रणे हतः ।। ६.११३.१३ ।।
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्यो ऽपि वा तथा ।न भयं यो विजानाति तस्येदं मानुषाद्भयम् ।। ६.११३.१४ ।।
अवध्यो देवतानां यस्तथा दानवरक्षसाम् ।हतः सो ऽयं रणे शेते मानुषेण पदातिना ।। ६.११३.१५ ।।
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा ।सो ऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ।। ६.११३.१६ ।।
एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः ।भूय एव च दुःखार्ता विलेपुश्च पुनःपुनः ।। ६.११३.१७ ।।
अशृण्वता च सुहृदां सततं हितवादिनाम् ।मरणायाहृता सीता घातिताश्च निशाचराः ।। ६.११३.१८ ।।
एताः सममिदानीं ते वयमात्मा च पातिताः ।ब्रुवाणो ऽपि हितं वाक्यमिष्टो भ्राता विबीषणः ।धृष्टं परुषितो मोहात्त्वया ऽ ऽत्मवधकाङ्क्षिणा ।। ६.११३.१९ ।।
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली ।न नः स्याद् व्यसनं घोरमिदं मूलहरं महत् ।। ६.११३.२० ।।
वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् ।वयं चाविधवाः सर्वाः सकामा न च शत्रवः ।। ६.११३.२१ ।।
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् ।राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् ।। ६.११३.२२ ।।
न कामकारः कामं वा तव राक्षसपुङ्गव ।दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ।। ६.११३.२३ ।।
वानराणां विनाशो ऽयं रक्षसां च महाहवे ।तव चैव महाबाहो दैवयोगादुपागतः ।। ६.११३.२४ ।।
नैवार्थेन न कामेन विक्रमेण न चाज्ञया ।शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ।। ६.११३.२५ ।।
विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः ।कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ।। ६.११३.२६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः ।। ११३ ।।
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।जग्मुः स्वैस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ।। ६.११५.१ ।।
रावणस्य वधं घोरं राघवस्य पराक्रमम् ।सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ।। ६.११५.२ ।।
अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च ।कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ।। ६.११५.३ ।।
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ।अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ।। ६.११५.४ ।।
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ।दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ।। ६.११५.५ ।।
तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे ।राघवः परमप्रीतः सुग्रीवं परिषस्वजे ।। ६.११५.६ ।।
परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः ।पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् ।। ६.११५.७ ।।
अब्रवीच्च तदा रामः समीपपरिवर्तिनम् ।सौमित्रिं सत्यसम्पन्नं लक्ष्मणं दीप्ततेजसम् ।। ६.११५.८ ।।
विभीषणमिमं सौम्य लङ्कायामभिषेचय ।अनुरक्तं च भक्तं च मम चैवोपकारिणम् ।। ६.११५.९ ।।
एष मे परमः कामो यदीमं रावणानुजम् ।लङ्कायां सौम्य पश्येयमभिषिक्तं विबीषणम् ।। ६.११५.१० ।।
एवमुक्तस्तु सौमित्री राघवेण महात्मना ।तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे ।। ६.११५.११ ।।
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् ।आदिदेश महासत्त्वान् समुद्रसलिलानये ।। ६.११५.१२ ।।
इति शीघ्रं ततो गत्वा वानरास्ते महाबलाः ।आगतास्तज्जलं गृह्य समुद्राद्वानरोत्तमाः ।। ६.११५.१३ ।।
ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ।घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ।। ६.११५.१४ ।।
लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ।विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् ।अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम् ।। ६.११५.१५ ।।
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ।दृष्ट्वा ऽभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ।। ६.११५.१६ ।।
स तद्राज्यं महत् प्राप्य रामदत्तं विभीषणः ।प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् ।। ६.११५.१७ ।।
अक्षतान् मोदकान् लाजान् दिव्याः सुमनसस्तदा ।आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ।। ६.११५.१८ ।।
स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ।मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ।। ६.११५.१९ ।।
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ।प्रतिजग्राह तत् सर्वं तस्यैव प्रियकाम्यया ।। ६.११५.२० ।।
ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम् ।अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् ।। ६.११५.२१ ।।
अनुमान्यं महाराजमिमं सौम्य विभीषणम् ।। ६.११५.२२ ।।
गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि ।प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ।। ६.११५.२३ ।।
वैदेह्यै मां कुशलिनं ससुग्रीवं सलक्ष्मणम् ।आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम् ।। ६.११५.२४ ।।
प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ।प्रतिगृह्य च सन्देशमुपावर्तितुमर्हसि ।। ६.११५.२५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः ।। ११५ ।।
इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः ।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।। ६.११६.१ ।।
प्रविश्य च महातेजा रावणस्य निवेशनम् ।ददर्श मृजया हीनां सातङ्कामिव रोहिणीम् ।वृक्षमूले निरानन्दां राक्षसीभिः समावृताम् ।। ६.११६.२ ।।
निभृतः प्रणतः प्रह्वः सो ऽभिगम्याभिवाद्य च ।। ६.११६.३ ।।
दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम् ।तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिता ऽभवत् ।। ६.११६.४ ।।
सौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः ।रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ।। ६.११६.५ ।।
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः ।विभीषणसहायश्च हरीणां सहितो बलैः ।। ६.११६.६ ।।
कुशलं चाहु सिद्धार्थो हतशत्रुररिन्दमः ।। ६.११६.७ ।।
विभीषणसहायेन रामेण हरिभिः सह ।निहतो रावणो देवि लक्ष्मणस्य नयेन च ।। ६.११६.८ ।।
पृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः ।अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना ।। ६.११६.९ ।।
प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये ।दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ।। ६.११६.१० ।।
लब्धो नो विजयः सीते स्वस्था भव गतव्यथा ।रावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता ।। ६.११६.११ ।।
मया ह्यलब्धनिद्रेण दृढेन तव निर्जये ।प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ।। ६.११६.१२ ।।
सम्भ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये ।विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ।। ६.११६.१३ ।।
तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे ।अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ।। ६.११६.१४ ।।
एवमुक्ता समुत्पत्य सीता शशिनिभानना ।प्रहर्षेणावरुद्धा सा व्याजहार न किञ्चन ।। ६.११६.१५ ।।
अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् ।किं नु चिन्तयसे देवि किं नु मां नाभिभाषसे ।। ६.११६.१६ ।।
एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता ।अब्रवीत् परमप्रीता हर्षगद्गदया गिरा ।। ६.११६.१७ ।।
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् ।प्रहर्षवशमापन्ना निर्वाक्या ऽस्मि क्षणान्तरम् ।। ६.११६.१८ ।।
न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम ।मत्प्रियाख्यानाकस्येह तव प्रत्यभिनन्दनम् ।। ६.११६.१९ ।।
न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर ।सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम् ।। ६.११६.२० ।।
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ।राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ।। ६.११६.२१ ।।
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ।गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ।। ६.११६.२२ ।।
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि ।स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ।। ६.११६.२३ ।।
तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च ।रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ।। ६.११६.२४ ।।
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ।हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ।। ६.११६.२५ ।।
तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा ।ततः शुभतरं वाक्यमुवाच पवनात्मजम् ।। ६.११६.२६ ।।
अतिलक्षणसम्पन्नं माधुर्यगुणभूषितम् ।बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ।। ६.११६.२७ ।।
श्लाघनीयो ऽनिलस्य त्वं पुत्रः परमधार्मिकः ।बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् ।। ६.११६.२८ ।।
तेजः क्षमाधृतिर्धैर्यं विनीतत्वं न संशयः ।एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ।। ६.११६.२९ ।।
अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् ।प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ।। ६.११६.३० ।।
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ।। ६.११६.३१ ।।
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ।। ६.११६.३२ ।।
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ।राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे ।। ६.११६.३३ ।।मुष्टिभिः पाणिभिः सर्वाश्चरणैश्चैव शोभने ।इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ।। ६.११६.३४ ।।
घातैर्जानुप्रहारैश्च दशनानां च पातनैः ।भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ।। ६.११६.३५ ।।
नखैः शुष्कमुखीभिश्च दारणैर्लङ्घनैर्हतैः ।निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ।। ६.११६.३६ ।।
एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि ।हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ।। ६.११६.३७ ।।
एवमुक्ता हनुमता वैदेही जनकात्मजा ।उवाच धर्मसहितं हनुमन्तं यशस्विनी ।। ६.११६.३८ ।।
राजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया ।विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ।। ६.११६.३९ ।।
भाग्यवैषम्ययोगेन पुरादुश्चरितेन च ।मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ।। ६.११६.४० ।।
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् ।दासीनां रावणस्याहं मर्षयामीह दुर्बला ।। ६.११६.४१ ।।
आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् ।हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ।। ६.११६.४२ ।।
अयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः ।ऋक्षेण गीतः श्लोको मे तन्निबोध प्लवङ्गम ।। ६.११६.४३ ।।
न परः पापमादत्ते परेषां पापकर्मणाम् ।समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ।। ६.११६.४४ ।।
पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम ।कार्यं करुणमार्येण न कश्चिन्नापराध्यति ।। ६.११६.४५ ।।
लोकहिंसाविहाराणां रक्षसां कामरूपिणाम् ।कुर्वतामपि पापानि नैव कार्यमशोभनम् ।। ६.११६.४६ ।।
एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः ।प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ।। ६.११६.४७ ।।
युक्ता रामस्य भवती धर्मपत्नी यशस्विनी ।प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः ।। ६.११६.४८ ।।
एवमुक्ता हनुमता वैदेही जनकात्मजा ।अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम ।। ६.११६.४९ ।।
तस्यास्तद्वनं श्रुत्वा हनुमान् मारुतात्मजः ।हर्षयन् मैथिलीं वाक्यमुवाचेदं महाद्युतिः ।। ६.११६.५० ।।
पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् ।स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ।। ६.११६.५१ ।।
तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् ।आजगाम महावेगो हनुमान् यत्र राघवः ।। ६.११६.५२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षोडशोत्तरशततमः सर्गः ।। ११६ ।।
स उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः ।रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ।। ६.११७.१ ।।
यन्निमित्तो ऽयमारम्भः कर्मणां च फलोदयः ।तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि ।। ६.११७.२ ।।
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा ।मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ।। ६.११७.३ ।।
पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया ।भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ।। ६.११७.४ ।।
एवमुक्तो हनुमता रामो धर्मभृतां वरः ।अगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः ।। ६.११७.५ ।।
दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन् ।उवाच मेघसङ्काशं विभीषणमुपस्थितम् ।। ६.११७.६ ।।
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् ।इह सीतां शिरस्स्नातामुपस्थापय मा चिरम् ।। ६.११७.७ ।।
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः ।प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ।। ६.११७.८ ।।
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ।। ६.११७.९ ।।
एवमुक्ता तु वेदेही प्रत्युवाच विभीषणम् ।अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ।। ६.११७.१० ।।
तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः ।यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ।। ६.११७.११ ।।
तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता ।भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ।। ६.११७.१२ ।।
ततः सीतां शिरस्स्नातां युवतीभिरलङ्कृताम् ।महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ।। ६.११७.१३ ।।
आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् ।रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ।। ६.११७.१४ ।।
सो ऽभिगम्य महात्मानं ज्ञात्वा ऽपि ध्यानमास्थितम् ।प्रणतश्च प्रहृष्टश्च प्राप्तं सीतां न्यवेदयत् ।। ६.११७.१५ ।।
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् ।हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ।। ६.११७.१६ ।।
ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् ।विभीषणमिदं वाक्यमहृष्टं राघवो ऽब्रवीत् ।। ६.११७.१७ ।।
राक्षसाधिपते सौम्य नित्यं मद्विजये रत ।वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु ।। ६.११७.१८ ।।
स तद्वचनमाज्ञाय राघवस्य विभीषणः ।तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ।। ६.११७.१९ ।।
कञ्चुकोष्णीषिणस्तत्र वेत्रजर्जरपाणयः ।उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः ।। ६.११७.२० ।।
ऋक्षाणां वानराणां च राक्षसानां च सर्वशः ।वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्तदा ।। ६.११७.२१ ।।
तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः ।वायुनोद्वर्तमानस्य सागरस्येव निस्वनः ।। ६.११७.२२ ।।
उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान् ।दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ।। ६.११७.२३ ।।
संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव ।विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ।। ६.११७.२४ ।।
किमर्थं मामनादृत्य क्लिश्यते ऽयं त्वया जनः ।निवर्तयैनमुद्योगं जनो ऽयं स्वजनो मम ।। ६.११७.२५ ।।
न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः ।नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ।। ६.११७.२६ ।।
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे ।न क्रुतौ न विवाहे च दर्शनं दुष्यति स्त्रियाः ।। ६.११७.२७ ।।
सैषा युद्धगता चैव कृच्छ्रे च महति स्थिता ।दर्शने ऽस्या न दोषः स्यान्मत्समीपे विशेषतः ।। ६.११७.२८ ।।
तदानय समीपं मे शीघ्रमेनां विभीषण ।सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ।। ६.११७.२९ ।।
एवमुक्तस्तु रामेण सविमर्शो विभीषणः ।रामस्योपानयत् सीतां सन्निकर्षं विनीतवत् ।। ६.११७.३० ।।
ततो लक्ष्मणसुग्रीवौ हनुमांश्च प्लवङ्गमः ।निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ।। ६.११७.३१ ।।
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः ।अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ।। ६.११७.३२ ।।
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली ।विभीषणेनानुगता भर्तारं सा ऽभ्यवर्तत ।। ६.११७.३३ ।।
सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ।रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ।। ६.११७.३४ ।।
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता ।उदैक्षत मुखं भर्तुः सौम्यं सोम्यतरानना ।। ६.११७.३५ ।।
अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ।वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदानीम् ।। ६.११७.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तदशोत्तरशततमः सर्गः ।। ११७ ।।
तां तु पार्श्वस्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम् ।हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ।। ६.११८.१ ।।
एषा ऽसि निर्जिता भद्रे शत्रुं जित्वा मया रणे ।पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ।। ६.११८.२ ।।
गतो ऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता ।अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ।। ६.११८.३ ।।
अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः ।अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः ।। ६.११८.४ ।।
या त्वं विरहिता नीता चलचित्तेन रक्षसा ।दैवसम्पादितो दोषो मानुषेण मया जितः ।। ६.११८.५ ।।
सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति ।कस्तस्य पुरुषार्थो ऽस्ति पुरुषस्याल्पतेजसः ।। ६.११८.६ ।।
लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् ।सफलं तस्य तच्छ्लाध्यं महत् कर्म हनूमतः ।। ६.११८.७ ।।
युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे ।सुग्रीवस्य ससैन्यस्य सफलो ऽद्य परिश्रमः ।। ६.११८.८ ।।
निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः ।विभीषणस्य भक्तस्य सफलो ऽद्य परिश्रमः ।। ६.११८.९ ।।
इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः ।मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ।। ६.११८.१० ।।
पश्यतस्तां तु रामस्य भूयः क्रोधो व्यवर्धत ।प्रभूताज्यावसिक्त्स्य पावकस्येव दीप्यतः ।। ६.११८.११ ।।
स बद्ध्वा भ्रुकुटीं वक्त्रे तिर्यक्प्रेक्षितलोचनः ।अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम् ।। ६.११८.१२ ।।
यत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता ।तत् कृतं सकलं सीते शत्रुहस्तादमर्षणात् ।। ६.११८.१३ ।।
निर्जिता जीवलोकस्य तपसा भावितात्मना ।अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ।। ६.११८.१४ ।।
विदितश्चास्तु ते भद्रे यो ऽयं रणपरिश्रमः ।स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ।। ६.११८.१५ ।।
रक्षता तु मया वृत्तमपावदं च सर्वशः ।प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिरक्षता ।। ६.११८.१६ ।।
प्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता ।दीपो नेत्रातुरस्येव प्रतिकूला ऽसि मे दृढम् ।। ६.११८.१७ ।।
तद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे ।एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ।। ६.११८.१८ ।।
कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम् ।तेजस्वी पुनरादद्यात् सुहृल्लेख्येन चेतसा ।। ६.११८.१९ ।।
रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा ।कथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत् ।। ६.११८.२० ।।
तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया ।नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ।। ६.११८.२१ ।।
इति प्रव्याहृतं भद्रे मयैतत् कृतबुद्धिना ।लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ।। ६.११८.२२ ।।
सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे ।निवेशय मनः सीते यथा वा सुखमात्मनः ।। ६.११८.२३ ।।
न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् ।मर्षयेत चिरं सीते स्वगृहे परिवर्तिनीम् ।। ६.११८.२४ ।।
ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली ।मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव सल्लकी ।। ६.११८.२५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टादशोत्तरशततमः सर्गः ।। ११८ ।।
एवमुक्ता तु वैदेही परुषं रोमहर्षणम् ।राघवेण सरोषेण भृशं प्रव्यथिता ऽभवत् ।। ६.११९.१ ।।
सा तदश्रुतपूर्वं हि जने महति मैथिली ।श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिता ऽभवत् ।। ६.११९.२ ।।
प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ।वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ।। ६.११९.३ ।।
ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् ।शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ।। ६.११९.४ ।।
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ।रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ।। ६.११९.५ ।।
न तथा ऽस्मि महाबाहो यथा त्वमवगच्छसि ।प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ।। ६.११९.६ ।।
पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे ।परित्यजेमां शङ्कां तु यदि ते ऽहं परीक्षिता ।। ६.११९.७ ।।
यद्यहं गात्रसंस्पर्शं गता ऽस्मि विवशा प्रभो ।कामकारो न मे तत्र दैवं तत्रापराध्यति ।। ६.११९.८ ।।
मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते ।पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ।। ६.११९.९ ।।
सहसंवृद्धभावाच्च संसर्गेण च मानद ।यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ।। ६.११९.१० ।।
प्रेषितस्ते यदा वीरो हनुमानवलोककः ।लङ्कास्था ऽहं त्वया वीर किं तदा न विसर्जिता ।। ६.११९.११ ।।
प्रत्यक्षं वानरेन्द्रस्य तद्वाक्यसमनन्तरम् ।त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया ।। ६.११९.१२ ।।
न वृथा ते श्रमो ऽयं स्यात् संशये न्यस्य जीवितम् ।सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ।। ६.११९.१३ ।।
त्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ।। ६.११९.१४ ।।
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् ।मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ।। ६.११९.१५ ।।
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ।। ६.११९.१६ ।।
एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी ।अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ।। ६.११९.१७ ।।
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् ।मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ।। ६.११९.१८ ।।
अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि ।या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ।। ६.११९.१९ ।।
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा ।अमर्षवशमापन्नो राघवाननमैक्षत ।। ६.११९.२० ।।
स विज्ञाय ततश्छन्दं रामस्याकारसूचितम् ।चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ।। ६.११९.२१ ।।
अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् ।उपासर्पत वैदेही दीप्यमानं हुताशनम् ।। ६.११९.२२ ।।
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ।। ६.११९.२३ ।।
यथा मे हृदयं नित्यं नापसर्पति राघवात् ।तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ।। ६.११९.२४ ।।
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः ।तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ।। ६.११९.२५ ।।
कर्मणा मनसा वाचा यथा नातिचराम्यहम् ।राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ।। ६.११९.२६ ।।
आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च ।अहश्चापि तथा सन्ध्ये रात्रिश्च पृथिवी तथा ।यथान्ये ऽपि विजानन्ति तथा चारित्रसंयुताम् ।। ६.११९.२७ ।।
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् ।विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना ।। ६.११९.२८ ।।
जनः स सुमहांस्त्रस्तो बालवृद्धसमाकुलः ।ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ।। ६.११९.२९ ।।
सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा ।पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ ।। ६.११९.३० ।।
ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम् ।सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव ।। ६.११९.३१ ।।
प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने ।पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे ।। ६.११९.३२ ।।
ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः ।शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव ।। ६.११९.३३ ।।
तस्यामग्निं विशन्त्यां तु हाहेति विपुलस्वनः ।रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ।। ६.११९.३४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ।। ११९ ।।
ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः ।दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ।। ६.१२०.१ ।।
ततो वैश्रवणो राजा यमश्चामित्रकर्शनः ।सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः ।। ६.१२०.२ ।।
षडर्धनयनः श्रीमान् महादेवो वृषध्वजः ।कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ।। ६.१२०.३ ।।
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः ।आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ।। ६.१२०.४ ।।
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् ।अब्रुवंस्त्रिदशश्रैष्ठाः प्राञ्जलिं राघवं स्थितम् ।। ६.१२०.५ ।।
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः ।उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ।। ६.१२०.६ ।।
कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ।। ६.१२०.७ ।।
ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः ।त्रयाणां त्वं हि लोकानामादिकर्ता स्वयम्प्रभुः ।रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः ।। ६.१२०.८ ।।
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ।अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ।। ६.१२०.९ ।।
उपेक्षसे च वैदेहीं मानुषः पाकृतो यथा ।। ६.१२०.१० ।।
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ।अब्रवीत्रिदशश्रेष्ठान् रामो धर्मभृतां वरः ।। ६.१२०.११ ।।
आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।यो ऽहं यस्य यतश्चाहं भगवांस्तद् ब्रवीतु मे ।। ६.१२०.१२ ।।
इति ब्रुवन्तं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः ।अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ।। ६.१२०.१३ ।।
भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः ।एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ।। ६.१२०.१४ ।।
अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव ।लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ।। ६.१२०.१५ ।।
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः ।। ६.१२०.१६ ।।
सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः ।प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ।। ६.१२०.१७ ।।
इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ।शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ।। ६.१२०.१८ ।।
सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ।। ६.१२०.१९ ।।
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः ।सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ।। ६.१२०.२० ।।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः ।प्रभवं निधनं वा ते न विदुः को भवानिति ।। ६.१२०.२१ ।।
दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ।दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ।। ६.१२०.२२ ।।
सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् ।त्वं धारयसि भूतानि वसुधां च सपर्वताम् ।। ६.१२०.२३ ।।
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ।त्रील्लोँकान् धारयन् राम देवगन्धर्वदानवान् ।। ६.१२०.२४ ।।
अहं ते हृदयं राम जिह्वा देवी सरस्वती ।देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो ।। ६.१२०.२५ ।।
निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवेद्दिवा ।संस्कारास्ते ऽभवन् वेदा न तदस्ति त्वया विना ।। ६.१२०.२६ ।।
जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ।। ६.१२०.२७ ।।
त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः ।महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ।। ६.१२०.२८ ।।
सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः ।वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ।। ६.१२०.२९ ।।
तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ।निहतो रावणो राम प्रहृष्टो दिवमाक्रम ।। ६.१२०.३० ।।
अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः ।अमोघं दर्शनं राम न च मोघः स्तवस्तव ।। ६.१२०.३१ ।।
अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ।। ६.१२०.३२ ।।
ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ।प्राप्नुवन्ति सदा कामानिह लोके परत्र च ।। ६.१२०.३३ ।।
इममार्षं स्तवं नित्यमितिहासं पुरातनम् ।ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ।। ६.१२०.३४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे विंशत्युत्तरशततमः सर्गः ।। १२० ।।
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् ।अङ्केनादाय वैदेहीमुत्पपात विभावसुः ।। ६.१२१.१ ।।
स विधूय चितां तां तु वैदेहीं हव्यवाहनः ।उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ।। ६.१२१.२ ।।
तरुणादित्यसङ्काशां तप्तकाञ्चनभूषणाम् ।रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ।। ६.१२१.३ ।।
अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम् ।ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ।। ६.१२१.४ ।।
अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः ।। ६.१२१.५ ।।
एषा ते राम वैदेही पापमस्यां न विद्यते ।। ६.१२१.६ ।।
नैव वाचा न मनसा नानुध्यानान्न चक्षुषा ।सुवृत्ता वृत्तशौण्डीर न त्वामतिचचार ह ।। ६.१२१.७ ।।
रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा ।त्वया विरहिता दीना विवशा निर्जनाद्वनात् ।। ६.१२१.८ ।।
रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा ।रक्षिता राक्षसीसङ्घैर्विकृतैर्घोरदर्शनैः ।। ६.१२१.९ ।।
प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली ।नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना ।। ६.१२१.१० ।।
विशुद्धभावां निष्पापां पतिगृह्णीष्व राघव ।न किञ्चिदभिधातव्यमहमाज्ञापयामि ते ।। ६.१२१.११ ।।
ततः प्रीतमना रामः श्रुत्वैतद्वदतां वरः ।दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ।। ६.१२१.१२ ।।
एवमुक्तो महातेजा द्युतिमान् दृढविक्रमः ।अब्रवीत् त्रिदशश्रेष्ठं रामो धर्मभृतां वरः ।। ६.१२१.१३ ।।
अवश्यं त्रिषु लोकेषु न सीता पापमर्हति ।दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा ।। ६.१२१.१४ ।।
बालिशः खलु कामात्मा रामो दशरथात्मजः ।इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि ।। ६.१२१.१५ ।।
अनन्यहृदयां भक्तां मच्चित्तपरिवर्तिनीम् ।अहमप्यवगच्छामि मैथिलीं जनकात्मजाम् ।। ६.१२१.१६ ।।
प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः ।उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् ।। ६.१२१.१७ ।।
इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा ।रावणो नातिवर्तेत वेलामिव महोदधिः ।। ६.१२१.१८ ।।
न हि शक्तः स दुष्टात्मा मनसा ऽपि हि मैथिलीम् ।प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव ।। ६.१२१.१९ ।।
नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा ।अनन्या हि मया सीता भास्करेण प्रभा यथा ।। ६.१२१.२० ।।
विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा ।न हि हातुमियं शक्या कीर्तिरात्मवता यथा ।। ६.१२१.२१ ।।
अवश्यं तु मया कार्यं सर्वेषां वो वचः शुभम् ।स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम् ।। ६.१२१.२२ ।।
इतीदमुक्त्वा विदितं महाबलैः प्रशस्यमानः स्वकृतेन कर्मणा ।समेत्य रामः प्रियया महाबलः सुखं सुखार्हो ऽनुबभूव राघवः ।। ६.१२१.२३ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकविंशत्युत्तरशततमः सर्गः ।। १२१ ।।
एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् ।इदं शुभतरं वाक्यं व्याजहार महेश्वरः ।। ६.१२२.१ ।।
पुष्कराक्ष महाबाहो महावक्षः परन्तप ।दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर ।। ६.१२२.२ ।।
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः ।अपावृत्तं त्वया सङ्ख्ये राम रावणजं भयम् ।। ६.१२२.३ ।।
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् ।कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ।। ६.१२२.४ ।।
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् ।इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ।। ६.१२२.५ ।।
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः ।ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ।। ६.१२२.६ ।।
एष राजा विमानस्थः पिता दशरथस्तव ।काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ।। ६.१२२.७ ।।
इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः ।लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ।। ६.१२२.८ ।।
महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः ।विमानशिखरस्थस्य प्रणाममकरोत् पितुः ।। ६.१२२.९ ।।
दीप्यमानं स्वया लक्ष्म्या विरजोम्बरधारिणम् ।लक्ष्मणेन सह भ्रात्रा ददर्श पितरं विभुः ।। ६.१२२.१० ।।
हर्षेण महता ऽ ऽविष्टो विमानस्थो महीपतिः ।प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ।। ६.१२२.११ ।।
आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः ।बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे ।। ६.१२२.१२ ।।
न मे स्वर्गो बहुमतः सम्मानश्च सुरर्षिभिः ।त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ।। ६.१२२.१३ ।।
अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम् ।निस्तीर्णवनवासं च प्रीतिरासीत् परा मम ।। ६.१२२.१४ ।।
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर ।तव प्रवाजनार्थानि स्थितानि हृदये मम ।। ६.१२२.१५ ।।
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् ।अद्य दुःखाद्विमुक्तो ऽस्मि नीहारादिव भास्करः ।। ६.१२२.१६ ।।
तारितो ऽहं त्वया पुत्र सुपुत्रेण महात्मना ।अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ।। ६.१२२.१७ ।।
इदानीं तु विजानामि यथा सौम्य सुरेश्वरैः ।वधार्थं रावणस्येदं विहितं पुरुषोत्तम ।। ६.१२२.१८ ।।
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् ।वनान्निवृत्तं संहृष्टा द्रक्ष्यत्यरिनिषूदन ।। ६.१२२.१९ ।।
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् ।जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् ।। ६.१२२.२० ।।
अनुरक्तेन बलिना शुचिना धर्मचारिणा ।इच्छामि त्वामहं द्रष्टुं भरतेन समागतम् ।। ६.१२२.२१ ।।
चतुर्दश समाः सौम्य वने निर्यापितास्त्वया ।वसता सीतया सार्धं लक्ष्मणेन च धीमता ।। ६.१२२.२२ ।।
निवृत्तवनवासो ऽसि प्रतिज्ञा सफला कृता ।रावणं च रणे हत्वा देवास्ते परितोषिताः ।। ६.१२२.२३ ।।
कृतं कर्म यशः श्लाध्यं प्राप्तं ते शत्रुसूदन ।भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ।इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ।। ६.१२२.२४ ।।
कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ।सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया ।। ६.१२२.२५ ।।
स शापः केकयीं घोरः सपुत्रां न स्पृशेत् प्रभो ।। ६.१२२.२६ ।।
स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् ।लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ।। ६.१२२.२७ ।।
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ।। ६.१२२.२८ ।।
धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि ।रामे प्रसन्ने स्वर्गं च महिमानं तथैव च ।। ६.१२२.२९ ।।
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन ।रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ।। ६.१२२.३० ।।
एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः ।अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् ।। ६.१२२.३१ ।।
एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम् ।देवानां हृदयं सौम्य गुह्यं रामः परन्तपः ।। ६.१२२.३२ ।।
अवाप्तं धर्मचरणं यशश्च विपुलं त्वया ।रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।। ६.१२२.३३ ।।
स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् ।उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् ।। ६.१२२.३४ ।।
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति ।रामेम त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा ।। ६.१२२.३५ ।।
न त्वं सुभ्रु समाधेया पतिशुश्रूषणं प्रति ।अवश्यं तु मया वाच्यमेष ते दैवतं परम् ।। ६.१२२.३६ ।।
इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् ।इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ।। ६.१२२.३७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्वाविंशत्युत्तरशततमः सर्गः ।। १२२ ।।
प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः ।अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम् ।। ६.१२३.१ ।।
अमोघं दर्शनं राम तवास्माकं परन्तप ।प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ।। ६.१२३.२ ।।
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः ।लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ।। ६.१२३.३ ।।
यदि प्रीतिः समुत्पन्नामयि सर्वसुरेश्वर ।वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ।। ६.१२३.४ ।।
मम हेतोः पराक्रान्ता ये गता यमसादनम् ।ते सर्वे जिवितं प्राप्य समुत्तिष्ठन्तु वानराः ।। ६.१२३.५ ।।
मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः ।मत्प्रियेष्वभियुक्ताश्च न मृत्युं गणयन्ति च ।। ६.१२३.६ ।।
त्वत्प्रसादात् समेयुस्ते वरमेतदहं वृणे ।। ६.१२३.७ ।।
नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान् ।गोलाङ्गूलांस्तथैवर्क्षान् द्रष्टुमिच्छामि मानद ।। ६.१२३.८ ।।
अकाले चापि मुख्यानि मूलानि च फलानि च ।नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ।। ६.१२३.९ ।।
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ।महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ।। ६.१२३.१० ।।
महानयं वरस्तात त्वयोक्तो रघुनन्दन ।द्विर्मया नोक्तपूर्वं हि तस्मादेतद्भविष्यति ।। ६.१२३.११ ।।
समुत्थास्यन्ति हरयो ये हता युधि राक्षसैः ।ऋक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः ।नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः ।। ६.१२३.१२ ।।
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ।सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि ।सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ।। ६.१२३.१३ ।।
अकाले पुष्पशबलाः फलवन्तश्च पादपाः ।भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ।। ६.१२३.१४ ।।
सव्रणैः प्रथमं गात्रैः संवृत्तैर्निर्व्रणैः पुनः ।। ६.१२३.१५ ।।्च सलिलायुताः ।। ६.१२३.१४ ।।
ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः ।बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः ।। ६.१२३.१६ ।।
ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन् ।। ६.१२३.१७ ।।
काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ।ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् ।। ६.१२३.१८ ।।
गच्छायोध्यामितो वीर विसर्जय च वानरान् ।। ६.१२३.१९ ।।
मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम् ।शत्रुघ्नं च महात्मानं मातऽः सर्वाः परन्तप ।। ६.१२३.२० ।।
भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतधारिणम् ।अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय ।। ६.१२३.२१ ।।
एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह ।विमानैः सूर्यसङ्काशैर्हृष्टा जग्मुः सुरा दिवम् ।। ६.१२३.२२ ।।
अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ।लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा ।। ६.१२३.२३ ।।
ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी ।श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना ।। ६.१२३.२४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रयोविंशत्युत्तरशततमः सर्गः ।। १२३ ।।
तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् ।अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ।। ६.१२४.१ ।।
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।चन्दनानि च दिव्यानि माल्यानि विविधानि च ।। ६.१२४.२ ।।
अलङ्कारविदश्चेमा नार्यः पद्मनिभेक्षणाः ।उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ।प्रतिगृह्णीष्व तत् सर्वं मदनुग्रहकाम्यया ।। ६.१२४.३ ।।
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषमम् ।। ६.१२४.४ ।।ां विधिवत् स्नापयिष्यन्ति राघव ।हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ।। ६.१२४.५ ।।िधिवत् स्नापयिष्यन्ति राघव ।स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ।सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ।। ६.१२४.६ ।।
तं विना केकयीपुत्रं भरतं धर्मचारिणम् ।न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ।। ६.१२४.७ ।।
इत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् ।अयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ।। ६.१२४.८ ।।
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।। ६.१२४.९ ।।
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ।पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ।। ६.१२४.१० ।।
मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ।हृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ।। ६.१२४.११ ।।
त्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम ।तदिदं मेघसङ्काशं विमानमिह तिष्ठति ।। ६.१२४.१२ ।।
तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ।। ६.१२४.१३ ।।
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ।। ६.१२४.१४ ।।
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदभ् ।लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।। ६.१२४.१५ ।।
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ।प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ।। ६.१२४.१६ ।।
सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् ।प्रणयाद्वहुमानाच्च सौहृदेन च राघव ।प्रसादयामि प्रेष्यो ऽहं न खल्वाज्ञापयामि ते ।। ६.१२४.१७ ।।
एवमुक्तस्ततो रामः प्रत्युवाच विभिषणम् ।रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ।। ६.१२४.१८ ।।
पूजितो ऽहं त्वया सौम्य साचिव्येन परन्तप ।सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ।। ६.१२४.१९ ।।
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।मां निवर्तयितुं यो ऽसौ चित्रकूटमुपागतः ।। ६.१२४.२० ।।
शिरसा याचतो यस्य वचनं न कृतं मया ।। ६.१२४.२१ ।।तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ।। ६.१२४.२२ ।।
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ।। ६.१२४.२३ ।।
अनुजानीहि मां सौम्य पूजितो ऽस्मि विभीषण ।मन्युर्न खलु कर्तव्यस्त्वरितं त्वा ऽनुमानये ।। ६.१२४.२४ ।।
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः ।तं विमानं समादाय तूर्णं प्रतिनिवर्तत ।। ६.१२४.२५ ।।
ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम् ।कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ।। ६.१२४.२६ ।।
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् ।शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ।। ६.१२४.२७ ।।
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ।घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ।। ६.१२४.२८ ।।
यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ।बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसन्निभैः ।। ६.१२४.२९ ।।
तलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः ।महार्हास्तरणो पेतैरुपपन्नं महाधनैः ।। ६.१२४.३० ।।उपस्थितमनाधृष्यं तद्विमानं मनोजवम् ।निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ।। ६.१२४.३१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्विंशत्युत्तरशततमः सर्गः ।। १२४ ।।
उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।अविदूरस्थितो रामं प्रत्युवाच विभीषणः ।। ६.१२५.१ ।।
स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ।अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ।। ६.१२५.२ ।।
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ।। ६.१२५.३ ।।
कृतप्रयत्नकर्माणो विभीषण वनौकसः ।रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय ।। ६.१२५.४ ।।
सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर ।हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः ।। ६.१२५.५ ।।
त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः ।। ६.१२५.६ ।।
धनरत्नप्रदानेन कर्मैषां सफलं कुरु ।। ६.१२५.७ ।।
एव सम्मानिताश्चैते मानार्हा मानद त्वया ।भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ।। ६.१२५.८ ।।
त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् ।सर्वे त्वामवगच्छन्ति ततः सम्बोधयाम्यहम् ।। ६.१२५.९ ।।
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे ।त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ।। ६.१२५.१० ।।
एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः ।रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ।। ६.१२५.११ ।।
ततस्तान् पूजितान् दृष्ट्वा रत्नैरर्थैश्च यूथपान् ।आरुरोह ततो रामस्तद्विमानमनुत्तमम् ।। ६.१२५.१२ ।।
अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ।लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ।। ६.१२५.१३ ।।
अब्रवीच्च विमानस्थः पूजयन् सर्ववानरान् ।सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ।। ६.१२५.१४ ।।
मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः ।अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ।। ६.१२५.१५ ।।
यत्तु कार्यं वयस्येन सुहृदा वा परन्तप ।कृतं सुग्रीव तत् सर्वं भवता ऽधर्म भीरुणा ।। ६.१२५.१६ ।।
विष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ।। ६.१२५.१७ ।।
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ।न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ।। ६.१२५.१८ ।।
अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ।अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः ।। ६.१२५.१९ ।।
एवमुक्तास्तु रामेण वानरास्ते महाबलाः ।ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः ।। ६.१२५.२० ।।
अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ।उद्युक्ता विचरिष्यामो वनानि नगराणि च ।। ६.१२५.२१ ।।
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।अचिरेणागमिष्यामः स्वान् गृहान् नृपतेः सुत ।। ६.१२५.२२ ।।
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ।अब्रवीद्राघवः श्रीमान् ससुग्रीवविभीषणान् ।। ६.१२५.२३ ।।
प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः ।सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ।। ६.१२५.२४ ।।
क्षिप्रमारोह सुग्रीव विमानं वानरै सह ।त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ।। ६.१२५.२५ ।।
ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया ।अध्यारोहत्त्वरन् शीघ्रं सामात्यश्च विभीषणः ।। ६.१२५.२६ ।।
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ।। ६.१२५.२७ ।।
ययौ तेन विमानेन हंसयुक्तेन भास्वता ।प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ।। ६.१२५.२८ ।।
ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः ।यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् ।। ६.१२५.२९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः ।। १२५ ।।
अनुज्ञातंस्तु रामेण तद्विमानमनुत्तमम् ।उत्पपात महामेघः श्वसनेनोद्धतो यथा ।। ६.१२६.१ ।।
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ।। ६.१२६.२ ।।
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ।लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ।। ६.१२६.३ ।।
एतदायोधनं पश्य मांसशोणितकर्दमम् ।हरीणां राक्षसानां च सीते विशसनं महत् ।। ६.१२६.४ ।।
अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः ।तव हेतोर्विशालाक्षि रावणो निहतो मया ।। ६.१२६.५ ।।कुम्भकर्णो ऽत्र निहतः प्रहस्तश्च निशाचरः ।धूम्राक्षश्चात्र निहतो वानरेण हनूमता ।। ६.१२६.६ ।।
विद्युन्माली हतश्चात्र सुषेणेन महात्मना ।। ६.१२६.७ ।।
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ।अङ्गदेनात्र निहतो विकटो नाम राक्षसः ।। ६.१२६.८ ।।
विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ ।अकम्पनश्च निहतो बलिनो ऽन्ये च राक्षसाः ।। ६.१२६.९ ।।
अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत् ।सपत्नीनां सहस्रेण सास्रेण परिवारिता ।। ६.१२६.१० ।।
एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ।। ६.१२६.११ ।।
एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ।। ६.१२६.१२ ।।
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ।। ६.१२६.१३ ।।
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ।विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ।। ६.१२६.१४ ।।
एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ।। ६.१२६.१५ ।।
एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः ।सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् ।एतत् पवित्रं परमं महापातकनाशनम् ।। ६.१२६.१६ ।।
अत्र पूर्वं महादेवः प्रसादमकरोत् प्रभुः ।। ६.१२६.१७ ।।ि ख्यातं त्रैलोक्येनाभिपूजितम् ।अत्र राक्षसराजो ऽयमाजगाम विभीषणः ।। ६.१२६.१८ ।।१७ ।।ि ख्यातं त्रैलोक्येनाभिपूजितम् ।एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ।। ६.१२६.१९ ।।
अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ।अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ।। ६.१२६.२० ।।
सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप ।अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् ।गन्तुमिच्छे सहायोध्यां राजधानीं त्वया ऽनघ ।। ६.१२६.२१ ।।
एवमुक्तो ऽथ वैदेह्या राघवः प्रत्युवाच ताम् ।एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ।विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ।। ६.१२६.२२ ।।
ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान् ।स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ।। ६.१२६.२३ ।।
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ।अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ।। ६.१२६.२४ ।।
एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ।वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः ।। ६.१२६.२५ ।।
प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ।। ६.१२६.२६ ।।
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् ।राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ।। ६.१२६.२७ ।।
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः ।अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ।। ६.१२६.२८ ।।
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना ।आहूय चाब्रवीत् सर्वा वानराणां तु योषितः ।। ६.१२६.२९ ।।
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ।।
मम चापि प्रियं कार्यमयोध्यादर्शनेन च ।। ६.१२६.३० ।।
प्रवेशं चापि रामस्य पौरजानपदैः सह ।विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ।। ६.१२६.३१ ।।
तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः ।नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् ।अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया ।। ६.१२६.३२ ।।
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ।ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ।। ६.१२६.३३ ।।
दृश्यते ऽसौ महान् सीते सविद्युदिव तोयदः ।ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ।। ६.१२६.३४ ।।
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।समयश्च कृतः सीते वधार्थं वालिनो मया ।। ६.१२६.३५ ।।
एषा सा दृश्यते पम्पा नलिनी चित्रकानना ।त्वया विहीनो यत्राहं विललाप सुदुःखितः ।अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ।। ६.१२६.३६ ।।
अत्र योजनबाहुश्च कबन्धो निहतो मया ।। ६.१२६.३७ ।।विहीनो यत्राहं विललाप सुदुःखितः ।दृश्यते च जनस्थाने सीते श्रीमान् वनस्पतिः ।यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि ।रावणस्य नृशंसस्य जटायोश्च महात्मनः ।। ६.१२६.३८ ।।
खरश्च निहतो यत्र दूषणश्च निपातितः ।त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ।एतत्तदाश्रमपदमस्माकं वरवर्णिनि ।। ६.१२६.३९ ।।
पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ।यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ।। ६.१२६.४० ।।
एषा गोदावरी रम्या प्रसन्नसलिला शिवा ।अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ।। ६.१२६.४१ ।।
दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ।। ६.१२६.४२ ।।
वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ।उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ।। ६.१२६.४३ ।।
अस्मिन् देशे महाकायो विराधो निहतो मया ।। ६.१२६.४४ ।।
एते हि तापसावासा दृश्यन्ते तनुमध्यमे ।अत्रिः कुलपतिर्यत्र सूर्यवैश्वानप्रभः ।अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ।। ६.१२६.४५ ।।
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते ।यत्र मां केकयीपुत्रः प्रसादयितुमागतः ।। ६.१२६.४६ ।।
एषा सा यमुना दूराद्दृश्यते चित्रकानना ।। ६.१२६.४७ ।।
भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ।। ६.१२६.४८ ।।
एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।नानाद्विजगणाकीर्णा सम्प्रयुष्पितकानना ।। ६.१२६.४९ ।।
शृङ्गिवेरपुरं चैतद् गुहो यत्र समागतः ।। ६.१२६.५० ।।
एषा सा दृश्यते सीते सरयूर्यूपमालिनी ।नानातरुशताकीर्णा सम्प्रपुष्पितकानना ।। ६.१२६.५१ ।।
एषा सा दृश्यते ऽयोध्या राजधानी पितुर्मम् ।अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ।। ६.१२६.५२ ।।
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ।। ६.१२६.५३ ।।
ततस्तु तां पाम्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसङ्कुलाम् ।पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथा ऽमरावतीम् ।। ६.१२६.५४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षड्विंशत्युत्तरशततमः सर्गः ।। १२६ ।।
पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः ।भरद्वाजश्रमं प्राप्य ववन्दे नियतो मुनिम् ।। ६.१२७.१ ।।
सो ऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् ।शृणोषि कच्चिद्भगवन् सुभिक्षानामयं पुरे ।कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः ।। ६.१२७.२ ।।
एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ।प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ।। ६.१२७.३ ।।
पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ।पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ।। ६.१२७.४ ।।
त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ।स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् ।पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् ।। ६.१२७.५ ।।
सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् ।दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिञ्जय ।। ६.१२७.६ ।।
कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ।। ६.१२७.७ ।।
साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् ।समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ।। ६.१२७.८ ।।
सर्वं च सुखदुःखं ते विदितं मम राघव ।। ६.१२७.९ ।।
यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् ।ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ।। ६.१२७.१० ।।
रावणेन हृता भार्या बभूवेयमनिन्दिता ।मारीचदर्शनं चैव सीतोन्मथनमेव च ।। ६.१२७.११ ।।
कबन्धदर्शनं चैव पम्पाभिगमनं तथा ।सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ।। ६.१२७.१२ ।।
मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च ।विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ।। ६.१२७.१३ ।।
यथा वा दीपिता लङ्का प्रहृष्टैर्हरियूथपैः ।सपुत्रबान्धवामात्यः सबलः सहवाहनः ।। ६.१२७.१४ ।।
यथा विनिहतः सङ्ख्ये रावणो देवकम्टकः ।समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ।सर्वं ममैतद्विदितं तपसा धर्मवत्सल ।। ६.१२७.१५ ।।
अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ।अर्ध्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि ।। ६.१२७.१६ ।।
तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ।बाढमित्येव संहृष्टो धीमान् वरमयाचत ।अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः ।। ६.१२७.१७ ।।
फलान्यमृतकल्पानि बहूनि विविधानि च ।भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ।। ६.१२७.१८ ।।
तथेति च प्रतिज्ञाते वचनात् समनन्तरम् ।अभवन् पादपास्तत्र स्वर्गपादपसन्निभाः ।। ६.१२७.१९ ।।
निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः ।शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः ।। ६.१२७.२० ।।
सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा ।। ६.१२७.२१ ।।
ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव ।कामादुपाश्नन्ति सहस्रशस्ते मुदा ऽन्विताः स्वर्गजितो यथैव ।। ६.१२७.२२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तविंशत्युत्तरशततमः सर्गः ।। १२७ ।।
अयोध्यां तु समालोक्य चिन्तयामास राघवः ।चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ।। ६.१२८.१ ।।
जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे ।। ६.१२८.२ ।।
शृङ्गिबेरपुरं प्राप्य गुहं गहनगोचरम् ।निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ।। ६.१२८.३ ।।
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ।भविष्यति गुहः प्रीतः स ममात्मसमः सखा ।। ६.१२८.४ ।।
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ।निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ।। ६.१२८.५ ।।
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ।सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ।। ६.१२८.६ ।।
हरणं चापि वैदेह्या रावणेन बलीयसा ।। ६.१२८.७ ।।
सुग्रीवेण च संसर्गं वालिनश्च वधं रणे ।मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ।। ६.१२८.८ ।।
लङ्घयित्वा महातोयमापगापतिमव्ययम् ।उपयानं समुद्रस्य सागरस्य च दर्शनम् ।। ६.१२८.९ ।।
यथा च कारितः सेतू रावणश्च यथा हतः ।वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ।। ६.१२८.१० ।।
महादेवप्रसादाच्च पित्रा मम समागमम् ।उपयातं च मां सौम्य भरतस्य निवेदय ।। ६.१२८.११ ।।
सह राक्षसराजेन हरीणां प्रवरेण च ।। ६.१२८.१२ ।।
एतच्छुत्वा यमाकारं भजते भरतस्तदा ।स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति ।। ६.१२८.१३ ।।
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः ।उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ।। ६.१२८.१४ ।।
ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि च ।तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ।। ६.१२८.१५ ।।
सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम् ।पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ।। ६.१२८.१६ ।।
सङ्गत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयं भवेत् ।प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः ।। ६.१२८.१७ ।।
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ।यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ।। ६.१२८.१८ ।।
इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः ।मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ ।। ६.१२८.१९ ।।
अथोत्पपात वेगेन हनुमान् मारुतात्मजः ।गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् ।। ६.१२८.२० ।।
लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ।गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च ।शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ।। ६.१२८.२१ ।।
स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् ।। ६.१२८.२२ ।।ुनयोर्मध्यं सन्निपातमतीत्य च ।सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः ।सहसीतः ससौमित्रिः स त्वां कुशलमब्रवीत् ।। ६.१२८.२३ ।।
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ।भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ।। ६.१२८.२४ ।।
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः ।उत्पपात महावेगो वेगवानविचारयन् ।। ६.१२८.२५ ।।
सो ऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा ।गोमतीं तां च सो ऽपश्यद्भीमं सालवनं तथा ।प्रजाश्च बहुसाहस्राः स्फीतान् जनपदानपि ।। ६.१२८.२६ ।।
स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ।आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान् ।। ६.१२८.२७ ।।
स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरलङ्कृतान् ।सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् ।। ६.१२८.२८ ।।
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ।ददर्श भरतं दीनं कृशमाश्रमवासिनम् ।। ६.१२८.२९ ।।
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ।फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ।। ६.१२८.३० ।।
समुन्नतजटाभारं वल्कलाजिनवाससम् ।नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् ।। ६.१२८.३१ ।।
पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् ।चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ।। ६.१२८.३२ ।।
उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ।बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ।। ६.१२८.३३ ।।
न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ।परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम् ।। ६.१२८.३४ ।।
तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम् ।उवाच प्राञ्जलिर्वाक्यं हनुमान् मरुतात्मजः ।। ६.१२८.३५ ।।
वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ।अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ।। ६.१२८.३६ ।।
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् ।अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ।। ६.१२८.३७ ।।
निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ।उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ।। ६.१२८.३८ ।।
लक्ष्मणश्च महातेजा वैदेही च यशस्विनी ।सीता समग्रा रामेण महेन्द्रेण यथा शची ।। ६.१२८.३९ ।।
एवमुक्तो हनुमता भरतो भ्रातृवत्सलः ।पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ।। ६.१२८.४० ।।
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ।हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ।। ६.१२८.४१ ।।
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात् ।सिषेच भरतः श्रीमान् विपुलैरस्त्रबिन्दुभिः ।। ६.१२८.४२ ।।
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ।प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ।। ६.१२८.४३ ।।
गवां शतसहस्रं च ग्रामाणां च शतं परम् ।सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ।। ६.१२८.४४ ।।
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ।सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः ।। ६.१२८.४५ ।।
निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदद्भुतोपमम् ।प्रहर्षितो रामदिदृक्षया ऽभवत् पुनश्च हर्षादिदमब्रवीद्वचः ।। ६.१२८.४६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः ।। १२८ ।।

About this parayana — Rama

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

ram-navamidaily-pujavaishnavasanskritparayanadevotionalramayanavalmikiscriptureepicitihasa