ॐ
Sankalpa Guru
संकल्पो मूलं सर्वस्य
🔮
Unlock Your Free Kundali
Discover your cosmic blueprint — personalized Kundali with detailed dosha analysis, planetary positions & powerful remedies.
✦ Birth Chart✦ Doshas
Get Free
Sign In
ॐ
Sankalpa Guru
← ← శబ్దకు తిరిగి
తెలుగు interface

మత్స్య పురాణ

Matsya Purana

Matsya Purana

Text in देवनागरी script

Devotional text

🌐

తెలుగు script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.

श्री गणेशाय नमः।।
ॐ नमो भगवते वासुदेवाय।।
प्रचण्डताण्डवाटोपे प्रक्षिप्ता येन दिग्गजाः।
भवन्तु विघ्नभङ्गाय भवस्य चराणाम्बुजा।। १.१ ।।
पातालादुत्पतिष्णोर्मकरवसतयो यस्य पुच्छाभिघाता-
दूर्ध्वं ब्रह्माण्डमव्यतिकरविहितव्यत्यनेनापतन्ति।।
विष्णोर्म्मत्स्यावतारै सकलवसुमतीमण्डलं व्यंशुमानं,
तस्यास्योदीरितानां ध्वनिरपहरतादश्रियम्बः श्रुतीनाम्।। १.२ ।।
यदा यदाहि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।।"
"धर्म संस्थापनार्थाय सम्भवामि युगे युगे।।"
नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।। १.३ ।।
अजोऽपि यः क्रियायोगान्नारायण इति स्मृतः।
त्रिगुणाय त्रिवेदाय नमस्तस्मै स्वयम्भुवे।। १.४ ।।
सूतमेकान्तमासीनं नैमिषारण्यवासिनः।
मुनयो दीर्घसत्रान्ते पप्रच्छु र्दीर्घसंहिताम्।। १.५ ।।
प्रवृत्तासु पुराणीषु धर्म्यासु ललितासु च।
कथासु शौनकाद्यास्तु अभिनन्द्य मुहुर्मुहुः।। १.६ ।।
कतितानि पुराणानि यान्यस्माकं त्वयानघ
तान्येवामृतकल्पानि श्रोतुमिच्छामहे पुनः।। १.७ ।।
कथं ससर्ज भगवान् लोकनाथश्चराचरम्।
कस्माच्च भगवान् विष्णुर्मत्स्यरूपत्वमाश्रितः।।१.८ ।।
भैरवत्वं भवस्यापि पुरारित्वञ्च गद्यते।
कस्य हेतोः कपालित्वं जगाम वृषभध्वजः।। १.९ ।।
सर्वमेतत्समाचक्ष्व सूत! विस्तरशः क्रमात्।
त्वद्वाक्येनामृतस्येव न तृप्तिरिहजायते।। १.१० ।।
सूत उवाच।
पुण्यं पवित्रमायुष्यमिदानीं श्रुणुत द्विजाः।
मात्स्यं पुराणमखिलं यज्जगाद गदाधरः।। १.११ ।।
पुरा राजा मनुर्नाम चीर्णवान् विपुलन्तपः।
पुत्रे राज्यं समारोप्य क्षमावान् रविनन्दनः।। १.१२ ।।
मलयस्यैकदेशे तु सर्वात्मगुणसंयुतः।
समदुःखसुखोवीरः प्राप्तवान् योगमुत्तमम्।। १.१३ ।।
बभूव वरदश्चास्य वर्षायुतशते गते।
वरम्वृणीष्व प्रोवाच प्रीतः स कमलासनः।। १.१४ ।।
एवमुक्तोऽब्रवीद्राजा प्रणम्य स पितामहम्।
एकमेवाहमिच्छामि त्वत्तो वरमनुत्तमम्।। १.१५ ।।
भूतग्रामस्य सर्वस्य स्थावरस्य चरस्य च।
भवेयं रक्षणायालं प्रलये समुपस्थिते।। १.१६ ।।
एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत।
पुष्पवृष्टिः सुमहती खात्पपात सुरार्पिता।। १.१७ ।।
कदाचिदाश्रमे तस्य कुर्वतः पितृतर्पणम्।
पपात पाण्योरुपरि शफरी जलसंयुता।। १.१८ ।।
दृष्ट्वा तच्छफरीरूपं स दयालुर्महीपतिः।
रक्षणायाकरोद्यत्नं स तस्मिन् करकोदरे।। १.१९ ।।
अहो रात्रेण चैकेन षोडशाङ्गुलविस्तृतः।
सोऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत्।। १.२० ।।
स तमादाय मणिके प्राक्षिपज्जलचारिणम्।
तत्रापि चैकरात्रेण हस्तत्रयमवर्धत।। १.२१ ।।
पुनः प्राहार्तनादेन सहस्रकिरणात्मजम्।
समत्स्यः पाहि पाहीति त्वामहं शरणङ्गतः।। १.२२ ।।
ततः स कूपे तं मत्स्यं प्राहिणोद्रविनन्दनः।
यदा न माति तत्रापि कूपे मत्स्यः सरोवरे।। १.२३ ।।
क्षिप्तोऽसौ पृथुतामागात् पुनर्योजनसम्मिताम्।
तत्राप्याह पुनर्दीनः पाहि पाहि नृपोत्तम।। १.२४ ।।
ततः स मनुना क्षिप्तो गङ्गायामप्यवर्धत।
यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः।। १.२५ ।।
यदा समुद्रमखिलं व्याप्यासौ समुपस्थितः।
तदा प्राह मनुर्भीतः कोऽपि त्वमसुरेतरः।। १.२६।।
अथवा वासुदेवस्त्वमन्य ईदृक्कथं भवेत्।
योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः।। १.२७ ।।
ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव!
हृषीकेश! जगन्नाथ! जगद्धाम! नमोऽस्तुते।। १.२८ ।।
एवमुक्तः स भगवान् मत्स्यरूपी जनार्दनः।
साधु साध्विति प्रोवाच सम्यग् ज्ञातस्त्वयाऽनघ।। १.२९ ।।
अचिरेणैव कालेन मेदिनी मेदिनीपते ।
भविष्यति जले मग्ना सशैलवनकानना।। १.३० ।।
नौरियं सर्वदेवानां निकायेन विनिर्मिता।
महाजीवनिकायस्य रक्षणार्थं महीपते!।। १.३१ ।।
स्वेदाण्डाजोद्भिजो ये वै ये च जीवाजरायुजाः।
अस्यां निधाय सर्वांस्ताननाथान् पाहि सुव्रत।। १.३२ ।।
युगान्तवाताभिहता यदा भवति नौर्नृप!।
श्रृङ्गेऽस्मिन्मम राजेन्द्र! तदेमां संयमिष्यसि।। १.३३ ।।
ततो लयान्ते सर्वस्य स्थावरस्य चरस्य च।
प्रजापतिस्त्वं भविता जगतः पृथिवीपते!।। १.३४ ।।
एवं कृतयुगस्यादौ सर्वज्ञो धृतिमान्नृपः।
मन्वन्तराधिपश्चापि देवपूज्यो भविष्यसि।। १.३५ ।।
इति श्रीमत्स्यपुराणे मत्स्यावतारवर्णनं नाम प्रथमोऽध्यायः॥
मत्स्य-मनुसंवादवर्णनम्।
सूत उवाच।
एवमुक्तो मनुस्तेन पप्रच्छ मधुसूदनम्।
भगवन्! कियद्भिर्वर्षैर्भविष्यत्यन्तरक्षयः।। २.१ ।।
सत्वानि च कथं नाथ! रक्षिष्ये मधुसूदन!।
त्वया सह पुनर्योगः कथं वा भविता मम।। २.२ ।।
मत्स्य उवाच।
अद्य प्रभृत्यनावृष्टिर्भविष्यति महीतले।
यावद्वर्षशतं साग्रं दुर्भिक्षमशुभावहम्।। २.३ ।।
ततोऽल्पसत्वक्षयदा रश्मयः सप्तदारुणाः।
सतसतेर्भविष्यन्ति प्रतप्ताङ्गारवर्णिनः।। २.४ ।।
(१) सुषुम्ण, (२) हरिकेश, (३) विश्वकर्मा, (४) विश्वव्यचा, (५) सम्यग्वसु, (६) उदग्वलुः (७) सुराहः
और्वानलोऽपि विकृतिङ्गमिष्यति युगक्षये।
विषाग्निश्चापि पातालात् सङ्कर्षणमुखच्युतः।।
भवस्यापि ललाटोत्थ तृतीयनयनानलः।। २.५ ।।
त्रिजगन्निर्दहन् क्षोभं समेष्यति महामुने!।
एवं दग्धा मही सर्वा यदास्याद् भस्मसन्निभा।। २.६ ।।
आकाशमूष्मणा तप्तं भविष्यति परन्तप!।
ततः सदेवनक्षत्रं जगद्यास्यति संक्षयम्‌।। २.७ ।।
संवर्तो भीमनादश्च द्रोणश्चण्डो बलाहकः।
विद्युत्पताकः शोणस्तु सप्तैते लयवारिदाः।। २.८ ।।
अग्निप्रस्वेदसम्भूतां प्लावयिष्यन्ति मेदिनीम्।
समुद्राः क्षोभमागत्य चैकत्वेन व्यवस्थिताः।। २.९ ।।
एतदेकार्णवं सर्वं करिष्यन्ति जगत्त्रयम्।
वेदनावमिमां गृह्य सत्वबीजानि सर्वशः।। २.१० ।।
आरोप्य रज्जुयोगेन मत्‌प्रदत्तेन सुव्रत।
संयम्य नावं मच्छृङ्गे मत्प्रभावाभिरक्षितः।। २.११ ।।
एकः स्थास्यसि देवेषु दग्धेष्वपि परन्तप!।
सोमसूर्यावहं ब्रह्मा चतुर्लोक समन्वितः।। २.१२ ।।
नर्मदा च नदीपुण्या मार्कण्डेयो महान् ऋषिः।
भवो वेदाः पुराणाश्च विद्याभिः सर्वतोवृतम्।। २.१३ ।।
त्वया सार्द्धमिदं विश्वं स्थास्यत्यन्तरसंक्षये।
एवमेकार्णवे जाते चाक्षुषान्तरसंक्षये।। २.१४ ।।
वेदान् प्रवर्तयिष्यामि त्वत्सर्गादौ महीपते।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत।। २.१५ ।।
मनुरप्यास्थितो योगं वासुदेवप्रसादजम्।
अभ्यसन् यावदाभूत संप्लवं पूर्वसूचितम्।। २.१६ ।।
काले यथोक्ते संजाते वासुदेवमुखोद्गते।
श्रृङ्गी प्रादुर्बबूवाथ मत्स्यरूपी जनार्दनः।। २.१७ ।।
भुजङ्गोरज्जुरूपेण मनोः पार्श्वमुपागमत्।
भूतान्‌ सर्वान्‌ समाकृष्य योगेनारोप्य धर्म्मवित्।। २.१८ ।।
भुजङ्गरज्वा मत्स्यस्य श्रृङ्गे नावमयोजयत्।
उपर्य्युपस्थितस्तस्याः प्रणिपत्य जनार्दनम्।। २.१९ ।।
आभूतसंप्लवे तस्मिन्नतीते योगशायिना।
पृष्टेन मनुना प्रोक्तं पुराणं मत्स्यरूपिणा।। २.२० ।।
तदिदानीं प्रवक्ष्यामि श्रृणुध्वमृषिसत्तमाः।।
यद्भवद्भिः पुरा पृष्टः सृष्ट्यादिकमहँ द्विजाः।। २.२१ ।।
मनुरुवाच।
उत्पत्ति प्रलयञ्चैव वंशान्मन्वन्तराणि च।
वंश्यानुचरितञ्चैव भुवनस्य च विस्तरम्।। २.२२ ।।
दानधर्म्मविधिञ्चैव श्राद्धकल्पञ्च शाश्वतम्।
वर्णाश्रमविभागञ्च तथेष्टापूर्त्तसंज्ञितम्।। २.२३ ।।
देवतानां प्रतिष्ठादि यच्चान्यद्विद्यते भुवि।
तत्सर्वं विस्तरेण त्वं धर्म्मव्याख्यातुमर्हसि।। २.२४ ।।
महाप्रलयकालान्त एतदासीत्तमोमयम्।
प्रसुप्तमिव चातर्क्यमप्रज्ञातमलक्षणम्।। २.२५।।
अविज्ञेयमविज्ञातं जगत् स्थास्नु चरिष्णु च।
ततः स्वयम्भूरव्यक्तः प्रभवः पुण्यकर्म्मणाम्।। २.२६ ।।
यः शरीरादभिध्याय सिसृक्षुर्विविधं जगत्।
नारायण इति ख्यातः स एकः स्वयमुद्‌बभौ।। २.२७ ।।
अथ एव ससर्जादौ तासु बीजमवासृजत्।। २.२८ ।।
तदेवाण्डं् समभवद् हेमरूप्यमयं महत्।
संवत्सरसहस्रेण सूर्य्यायुतसमप्रभम्।। २.२९ ।।
प्रविश्यान्तर्महातेजाः स्वयमेवात्मसम्भवः।
प्रभावादपि तद्‌व्याप्त्या विष्णुत्वमगमत्पुनः।। २.३० ।।
तदन्तर्भगवानेष सूर्य्यः समभवत् पुरा।
आदित्यश्चादिभूतत्वात् ब्रह्माब्रह्मपठन्नभूत्।। २.३१ ।।
दिवं भूमिं समकरोत्तदण्डशकलद्वयम्।
सचाकरोद्दिशः सर्व्वा मध्ये व्योम च शाश्वतम्।। २.३२ ।।
जरायुर्मेरुमुख्याश्च शैलास्तस्याभवंस्तदा।
यदुल्बं तदभून्मेघस्तडित्‌सङ्घातमण्डलम्।। २.३३ ।।
नद्योऽण्डनाम्नः सम्भूताः पितरो मनवस्तथा।
सप्त येऽमी समुद्राश्च तेऽपि चान्तर्जलोद्भवाः।। २.३४ ।।
लवणेक्षुसुराद्याश्च नानारत्नसमन्विताः।। ३५ ।।
स सिसृक्षुरभूद्देवः प्रजापतिररिन्दम।
तत्तेजसश्च तत्रैष मार्तण्डःि समजायत।। २.३६ ।।
मृतेऽण्डेच जायते यस्मान्मार्तण्डस्तेन संस्मृतः।
रजोगुणमयं यत्तद्रूपं तस्य महात्मनः।। २.३७ ।।
चतुर्मुखः स भगवानभूल्लोकपितामहः।। ३८ ।।
येन सृष्टं जगत्सर्वं सदेवासुरमानुषम्।
तमवेहि रजोरूपं महत्‌ सत्वमुदाहृतम्।। २.३९ ।।
इति श्रीमत्स्यपुराणे मत्स्यमनु संवादवर्णनं नाम द्वितीयोऽध्यायः।।
सृष्टिप्रकरणम्।
मनुरुवाच।
चतुर्मुखत्वमगमत् कस्माल्लोकपितामहः।
कथं तु लोकानसृजत् ब्रह्मा ब्रह्मविदाम्वरः।। ३.१ ।।
तपश्चचार प्रथमममराणां पितामहः।
आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः।। ३.२ ।।
पुराणं सर्वशास्त्राणं प्रथमं ब्रह्मणा स्मृतम्।
नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम्।। ३.३ ।।
अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः।
मीमांसान्यायविद्याश्च प्रमाणाष्टक संयुताः।। ३.४ ।।
वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः।
मनसः पूर्वसृष्टा वै जातायत्तेन मानसाः।। ३.५ ।।
मरीचिरभवत्‌ पूर्व ततोऽत्रिर्भगवान् ऋषिः।
अङिगराश्चाभवत्पश्चात् पुलस्त्यस्तदनन्तरम्।। ३.६ ।।
ततः पुलहनामा वै ततः क्रतुरजायत।
प्रचेताश्च ततः पुत्रो वशिष्ठश्चाभवत् पुनः।। ३.७ ।।
पुत्रो भृगुरभूत्तद्वन्नारदोऽप्यचिरादभूत्।
दशेमान्‌ मानसान्‌ ब्रह्मा मुनीन् पुत्रानजीजनत्।। ३.८ ।।
शारीरानथ वक्ष्यामि मातृहीनान् प्रजापतेः।
अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायतः।। ३.९ ।।
धर्मस्तनान्तादभवत् हृदयात्‌ कुसुमायुधः।
भ्रूमध्यादभवत्‌ क्रोधो लोभश्चाधरसम्भवः।। ३.१० ।।
बुद्धे र्मोहः समभवदहङ्कारादभून्मदः।
प्रमोदश्चाभवत्कण्ठान्‌ मृत्युर्लोचनतो नृप।। ३.११ ।।
भरतः करमध्यात्तु ब्रह्मसूनुरभूत्ततः।
एते नव! सुताः राजन्! कन्या च दशमी पुनः।।
अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता।। ३.१२ ।।
मनुरुवाच।
बुद्धेर्मोहः समभवदिति यत्परिकीर्त्तितम्।
अहङ्कारः स्मृतः क्रोधो बुद्धिर्नाम किमुच्यते।। ३.१३ ।।
मत्स्य उवाच।
सत्वं रजस्तमश्चैव गुणत्रयमुदाहृतम्।
साम्यावस्थितिरेतेषां प्रकृतिः परिकीर्तिता।। ३.१४ ।।
केचित् प्रधानमित्याहुरव्यक्तमपरै जगुः।
एतदेव प्रजासृष्टिं करोति विकरोति च।। ३.१५ ।।
गुणेभ्यः क्षोभमाणेभ्य स्त्रयो देवा विजज्ञिरे।
एकामूर्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः।। ३.१६ ।।
स विकारात् प्रधानात्तु महत्तत्त्वं प्रजायते।
महानिति यतः ख्यातिर्लोकानां जायते सदा।। ३.१७ ।।
अहङ्कारश्च महतो जायते मानवर्धनः।
इन्द्रियाणि ततः पञ्च वक्ष्ये बुद्धिवशानि तु।।
प्रादुर्भवन्ति चान्यानि तथा कर्म्मवशानि तु।। ३.१८ ।।
श्रोत्रं त्वक्‌ चक्षुषी जिह्वा नासिका च यथाक्रमम्।
पायूपस्थं हस्तपादं वाक्‌चेतीन्द्रियसंग्रहः।। ३.१९ ।।
शब्दः स्पर्शश्च रूपञ्च रसोगन्धश्च पञ्चमः।
उत्सर्गानन्दनादान गत्यालापाश्च तत्क्रियाः।। ३.२० ।।
मन एकादशं तेषां कर्म्मबुद्धिगुणान्वितम्।
इन्द्रियावयवाः सूक्ष्मास्तस्य मूर्तिमनीषिणः।। ३.२१ ।।
श्रयन्ति यस्मात्तन्मात्राः शरीरं तेन संस्मृतम्।
शरीरयोगाज्जीवोऽपि शरीरीगद्यतेबुधैः।। ३.२२ ।।
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया।
आकाशं शब्दतन्मात्रादभूच्छव्दगुणात्मकम्।। ३.२३ ।।
आकाशविकृतेर्वायुः शब्दस्पर्शगुणोऽभवत्।
वायोश्च स्पर्शतन्मात्रात्तेजश्चाविरभूत्ततः।। ३.२४ ।।
त्रिगुणं तद्विकारेण तच्छब्दस्पर्शरूपवत्।
तेजोविकारादभवद्वारि राजं श्चतुर्गुणम्।। ३.२५ ।।
रसतन्मात्रसम्भूतं प्रायो रसगुणात्मकम्।
भूमिस्तु गन्धतन्मात्रादभूत्पञ्चगुणान्विता।। ३.२६ ।।
प्रायो गन्धगुणा सा तु बुद्धिरेषा गरीयसी।
एभिः सम्पादितं भुङ्क्ते पुरुषः पञ्चविंशकः।। ३.२७ ।।
ईश्वरेच्छावशः सोऽपि जीवात्मा कथ्यते बुधैः।
एवं षड्‌विंशकं प्रोक्तं शरीर इह मानवे।। ३.२८ ।।
सांख्यं संख्यात्मकत्वाच्च कपिलादिभिरुच्यते।
एतत्तत्त्वात्मकं कृत्वा जगद्वेधा अजीजनत्।। ३.२९ ।।
सावित्रीं लोकसृष्ट्यर्थं हृदि कृत्वा समास्थितः।
ततः सञ्जपतस्तस्य भित्वा देहमकल्मषम्।। ३.३० ।।
स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरुपवत्।
शतरूपा च सा ख्याता सावित्री च निगद्यते।। ३.३१ ।।
सरस्वत्यथ गायत्री ब्रह्माणी च परन्तप!।
ततः स्वदेहसम्भूतामात्मजामित्यकल्पयत्।। ३.३२ ।।
दृष्ट्वा तां व्यथितस्तावत्कामबाणार्दितो विभुः।
अहो रूपमहोरूपमितिचाह प्रजापतिः।। ३.३३ ।।
ततो वशिष्ठप्रमुखाः भगिनीमिति चुक्रुशुः।
ब्रह्मा न किञ्चिद्ददृशे तन्मुखालोकनादृते।। ३.३४ ।।
अहो रूपमहोरूपमिति प्राह पुनः पुनः।
ततः प्रणामनम्रान्तां पुनरेवाभ्यलोकयत्।। ३.३५ ।।
अथ प्रदक्षिणं चक्रे सा पितुर्वरवर्णिनी।
पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया।। ३.३६ ।।
आविर्भूतं ततो वक्त्रं दक्षिणं पाण्डुगण्डवत्।
विस्मयस्फुरदोष्ठञ्च पाश्चात्यमुदगात्ततः।। ३.३७।।
चतुर्थमभवत्पश्चाद्वामं कामशरातुरम्।
ततोऽन्यदभवत्तस्य कामातुर तया तथा।। ३.३८ ।।
उत्पतन्त्यास्तदाकारा आलोकन कुतूहलात्।
सृष्ट्यर्थं यत् कृतं तेन तपः परमदारुणम्।। ३.३९ ।।
तत्‌ सर्वं नाशमगमत् स्वसुतोपगमेच्छया।
तेनोर्ध्वं वक्त्रमभवत् पञ्चमं तस्य धीमतः।।
आविर्भवज्जटाभिश्च तद्वक्त्रंञ्चावृणोत्प्रभुः।। ३.४०।।
ततस्तानब्रवीत् ब्रह्मा पुत्रानात्मसमुद्भवान्।
प्रजाः सृजध्वमभितः सदेवासुरमानुषी।। ३.४१ ।।
एवमुक्तास्ततः सर्वे ससृजुर्विविधाः प्रजाः।
गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम्।। ३.४२ ।।
उपयेमे स विश्वात्मा शतरूपामनिन्दिताम्।
सम्बभूव तया सार्द्धमतिकामातुरो विभुः।।
सलज्जाञ्चकमे देवः कमलोदरमन्दिरे।। ३.४३ ।।
यावदब्दशतं दिव्यं यथान्यः प्राकृतो जनः।
ततः कालेन महता तस्याः पुत्रोऽभवन्मनुः।।३.४४
स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम्।
तद्रूपगुणसामान्यादधिपूरुष उच्यते।। ३.४५ ।।
वैराजा यत्र ते जाता बहवः शंसितव्रताः।
स्वायम्भुवा महाभागाः सप्त सप्त तथापरे।। ३.४६ ।।
स्वारोचिषाद्याः सर्वे ते ब्रह्मतुल्यस्वरूपिणः।
औत्तमिप्रमुखास्तद्वद्येषान्त्वं सप्तमोऽधुना।। ३.४९ ।।
सृष्टिप्रकरणम्।
मनुरुवाच।
अहो कष्टतरञ्चैतदङ्गजागमनं विभो!।
कथं न दोषमगमत् कर्मणानेन पद्मभूः।। ४.१ ।।
परस्परञ्च सम्बन्धः सगोत्राणामभूत्कथम्।
वैवाहिकस्तत्सुतानाच्छिन्धि मे संशयं विभो।। ४.२ ।।
दिव्येयमादिसृष्टिस्तु रजोगुणसमुद्भवा।
अतीन्द्रियेन्द्रिया तद्वदतीन्द्रिय शरीरिका।४.३
दिव्यतेजोमयी भूप! दिव्यज्ञानसमुद्भवा।
न मर्त्यैरभितः शक्त्या वक्तुं वै मांसचक्षुभिः।। ४.४ ।।
यथा भुजङ्गाः सर्पाणामाकाशं विश्वपक्षिणाम्।
विदन्ति मार्गं दिव्यानां दिव्या एव न मानवाः।। ४.६ ।।
कार्य्याकार्ये न देवानां शुभाशुभफलप्रदे।
यस्मात्तस्मान्न राजेन्द्र! तद्विचारो नृणां शुभः।। ४.६ ।।
अन्यच्च सर्ववेदानामधिष्ठाता चतुर्मुखः।
गायत्री ब्रह्मणस्तद्वदङ्गभूता निगद्यते।। ४.७ ।।
अमूर्तं मूर्तिमद्वापि मिथुनं तत्प्रचक्षते।
विरिञ्चिर्यत्र भगवांस्तत्र देवी सरस्वती।।
भारती यत्र यत्रैव तत्र तत्र प्रजापतिः।। ४.८ ।।
यथा तपो न रहितश्छायया दृश्यते क्वचित्।
गायत्री ब्रह्मणः पार्श्वं तथैव न विमुञ्चति।। ४.९ ।।
वेदराशिः स्मृतो ब्रह्मा सावित्री तदधिष्ठिता।
तस्मान्नकश्चिद्दोषः स्यात् सावित्री गमने विभो।। ४.१० ।।
तथापि लज्जावनतः प्रजापतिरभूत् पुरा।
स्वसुतोपगमात् ब्रह्मा शशाप कुसुमायुधम्।। ४.११ ।।
यस्मान्ममापि भवता मनः संक्षोभितं शरैः।
तस्मात्वद्देहमचिराद्रुद्रो भस्मीकरिष्यति।। ४.१२ ।।
ततः प्रसादयामास कामदेवश्चतुर्मुखम्।
न मामकारणे शप्तुं त्वमिहार्हसि मानद!।। ४.१३ ।।
अहमेवंविधः सृष्टस्त्वयैव चतुरानन!।
इन्द्रियक्षोभजनकः सर्वेषामेव देहिनाम्।। ४.१४ ।।
स्त्रीपुंसोरविचारेण मया सर्वत्र सर्वदा।
क्षोभ्यं मनः प्रयत्नेन त्वयैवोक्तं पुरा विभो।। ४.१६ ।।
तस्मादनपराधेन त्वयाशप्तस्तथा विभो!।
कुरु प्रसादं भगवन्! स्वशरीराप्तये पुनः।। ४.१६ ।।
ब्रह्मोवाच।
वैवस्वतेऽन्तरे प्राप्ते यादवान्वयसम्भवः।
रामो नाम यदा मर्त्यो मत्सत्वबलमाश्रितः।। ४.१७ ।।
अवतीर्य्यासुरध्वंसी द्वारकामधिवत्स्यति।
तद्‌ भ्रातुस्तत्समस्य त्वन्तदा पुत्रत्वमेष्यसि।। ४.१८ ।।
एवं शरीरमासाद्य भुक्त्वा भोगानशेषतः।
ततो भरतवंशान्ते भूत्वा वत्स नृपात्मजः।। ४.१९ ।।
विद्याधराधिपत्वं च यावदाभूतसंप्लवम्।
सुखानि धर्म्मतः प्राप्य मत्समीपङ्गमिष्यसि।। ४.२० ।।
एवं शापप्रसादाभ्यामुपेतः कुसुमायुधः।
शोकप्रमोदाभियुतो जगाम स यथागतम्।। ४.२१ ।।
मनुरुवाच।
कोऽसौ यदुरिति प्रोक्तो यद्वंशे कामसम्भवः।
कथञ्च दग्धो रुद्रेण किमर्थं कुसुमायुधः।। ४.२२ ।।
भरतस्यान्वये कस्य का च सृष्टिः पुराभवत्।
एतत्सर्वं समाचक्ष्व मूलतः संशयो हि मे।। ४.२३ ।।
मत्स्य उवाच।
या सा देहार्घसम्भूता गायत्री ब्रह्मवादिनी।
जननी या मनोर्देवी शतरूपा शतेन्द्रिया।। ४.२४ ।।
रतिर्मनस्तपो बुद्धि महदादि समुद्भवः।
ततः स शतरूपायां सप्तापत्यान्यजीजनत्।। ४.२६ ।।
ये मरीच्यादयः पुत्रा मानसास्तस्य धीमतः।
तेषामयमभूल्लोकः सर्वज्ञानात्मकः पुरा।। ४.२६ ।।
ततोऽसृजद्वामदेवं त्रिशूलवरधारिणम्!।
सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम्।। ४.२७ ।।
वामदेवस्तु भगवानसृजन् मुखतो द्विजान्।
राजन्यानसृजद्‌ बाह्वोर्विट्‌शूद्रानूरुपादयोः।। ४.२८ ।।
विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि च।
छन्दांसि च ससर्जादौ पर्जन्यं च ततः परम्।। ४.२९ ।।
ततः साध्यगणानीशस्त्रिनेत्रानसृजत् पुनः।
कोटयश्चतुराशीतिर्जरामरणवर्जिताः।। ४.३० ।।
वामोऽसृजन्नमर्त्यांस्तान् ब्रह्मणाविनिवारितः।
नैवंविधाभवेत् सृष्टिर्जरामरणवर्जिता।। ४.३१ ।।
शुभाशुभात्मिका यातु सैव सृष्टिः प्रशस्यते।
एवं स्थितः स तेनादौ सृष्टौ स्थाणुरतोऽभवत्।। ४.३२ ।।
स्वायम्भुवो मनुर्धीमांस्तपस्तप्त्वा सुदुश्चरम्।
पत्नीमेवापरूपाढ्यामनन्तीं नाम नामतः।। ४.३३ ।।
प्रियव्रतोत्तानपादौ मनुस्तस्यामजीजनत्।
धर्मस्य कन्या चतुरा सूनृता नाम भामिनी।। ४.३४ ।।
उत्तानपादात्तनयान् प्राप मन्थरगामिनी।
अपस्यतिमपस्यन्तं कीर्तिमन्तं ध्रुवं तथा।।४.३६
उत्तानपादोऽजनयत् सूनृतायां प्रजापतिः।
ध्रुवो वर्षसहस्राणि त्रीणि कृत्वातपः पुरा।। ४.३६ ।।
दिव्यमाप ततः स्थानमचलं ब्रह्मणो वरात्।
मतेव पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः।। ४.३७ ।।
धन्या नाम मनोः कन्या ध्रुवाच्छिष्टमजीजनत्।
अग्निकन्या तु सुच्छाया शिष्टात्मा सुषुवे सुतान्।। ४.३८ ।।
कृपं रिपुं जयं वृत्तं वृकं च वृकतेजसम्।
चक्षुषं ब्रह्मदौहित्र्यां वीरिण्यां स रिपुञ्जयः।। ४.३९ ।।
वीरणस्यात्मजायान्तु चक्षुर्मनुमजीजनत्।
मनु र्वैराजकन्यायां नड्‌वलायां स चाक्षुषः।। ४.४० ।।
जनयामास तनयान्दश शूरानकल्मषान्।
ऊरुः पूरुः शतद्युग्न स्तपस्वी सत्यवाक्‌ हविः।। ४.४१ ।।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चापराजितः।
अभिमन्युस्तु दशमो ऩड्वलायामजायत।। ४.४२ ।।
ऊरोरजनयत् पुत्रान् षडाग्नेयी तु सुप्रभान्।
अग्निं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम्।। ४.४३ ।।
पितृकन्या सुनीथा तु वेनमङ्गादजीजनत्।
वेनमन्यायितं विप्रा ममन्थुस्तत्करादभूत्।।
पृथुर्नाम महातेजाः स पुत्रौ द्वावजीजनत्।। ४.४४ ।।
अन्तर्धानस्तु मारीचं शिखण्डिन्यामजीजनत्।
हविर्धानात् ष़डाग्नेयी धिषणाऽजनयत् सुतान्।।
प्राचीनबर्हिषं साङ्गं यमं शुक्रं बलं शुभम्।। ४.४६ ।।
प्राचीनबर्हिर्भगवान् महानासीत्प्रजापतिः।
हविर्धानाः प्रजास्तेन बहवः सम्प्रवर्त्तिताः।। ४.४६ ।।
सवर्णायान्तु सामुद्र्यान्दशाधत्त सुतान्‌ प्रभुः।
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः।। ४.४७ ।।
तत्तपो रक्षिता वृक्षा बभुर्लोके समन्ततः।
देवादेशाश्च तानग्निरदहद्रविनन्दन!।। ४.४८ ।।
सोमकन्याऽभवत्पत्नी मारिषा नाम विश्रुता।
तेभ्यस्तु दक्षमेकं सा पुत्र मग्र्‌यमजीजनत्।। ४.४९ ।।
दक्षादनन्तरं वृक्षानौषधानि च सर्वशः।
अजीजनत्सोमकन्या नन्दीं चन्द्रवतीं तथा।। ४.६० ।।
सोमांशस्य च तस्यापि दक्षस्याशीतिकोटयः।
तासां तु विस्तरं वक्ष्ये लोके यः सुप्रतिष्ठितः।। ४.६१ ।।
द्विपदश्चाभवन् केचित् केचिद्‌ बहुपदा नराः।
बलीमुखाः शङ्कुकर्णाः कर्णप्रावरणास्तथा।। ४.६२ ।।
अश्वऋक्षमुखाः केचित् केचित् सिंहाननास्तथा।
श्वशूकरमुखाः केचित् केचिदुष्ट्रमुखास्तथा।। ४.६३ ।।
जनयामास धर्मात्मा म्लेच्छान् सर्व्वाननेकशः।
ससृष्ट्वा मनसा दक्षः स्त्रियः पश्चादजीजनत्।। ४.६४ ।।
ददौ स दश दर्माय कश्यपाय त्रयोदश।
सप्तविंशतिः सोमाय ददौ नक्षत्रसंज्ञिताः।।
देवासुरमनुष्यादि ताभ्यः सर्वमभूज्जगत्।। ४.६६ ।।
दक्षादूर्ध्वं मैथुनतः सृष्टिः।
ऋषय ऊचुः।
देवानां दानवानाञ्च गन्धर्वोरगरक्षसाम्।
उत्पत्तिविस्तरेणैव सूत ब्रूहि यथातथम्।। ५.१ ।।
सूत उवाच।
सङ्कल्पाद्दर्शनात् स्पर्शात् पूर्वेषां सृष्टिरुच्यते।
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा।। ५.२ ।।
प्रजासृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा।
यथा ससर्ज चैवादौ तथैव श्रृणुत द्विजाः!।। ५.३ ।।
यदा तु सृजतस्तस्य देवर्षिगणपन्नगात्।। ५.४ ।।
तांस्तु दृष्ट्वा महाभागः सिसृक्षुर्विविधाः प्रजाः।
नारदः प्राह हर्यश्वान्‌ दक्षपुत्रान्‌ समागतान्।। ५.५ ।।
भुवः प्रमाणं सर्वत्र ज्ञात्वोर्ध्वमध एव च।
ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः।। ५.६ ।।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशं।
अद्यापि न निवर्त्तन्ते समुद्रादिव सिन्धवः।। ५.७ ।।
हर्यश्वेषु प्रणष्टेषु पुनर्दक्षः प्रजापतिः।
वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः।। ५.८ ।।
शबला नाम ते विप्राः समेताः सृष्टिहेतवः।
नारदोऽनुगतान्‌ प्राह पुनस्तान्‌ पूर्ववत्सतान्
भुवः प्रमाणं सर्वत्र ज्ञात्वा भ्रातॄनथो पुनः।। ५.९ ।।
आगत्य चाथ सृष्टिञ्च करिष्यथ विशेषतः।
तेऽपि तेनैव मार्गेण जग्मुर्भ्रातॄन् यथा पुरा।। ५.१० ।।
ततः प्रभृति न भ्रातुः कनीयान्‌ मार्गमिच्छति।
अन्विषन्दुःखमाप्नोति तेन तत्परिवर्जयेत्।। ५.११ ।।
ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः।
वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा।। ५.१२ ।।
प्रादात्स दश धर्माय कश्यपाय त्रयोदश।
सप्तविंशति सोमाय चतस्त्रोऽरिष्टनेमये (मिने)।। ५.१३ ।।
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते।
द्वे चैवाङ्गिरसे तद्वत्तासान्नामानि विस्तरात्।। ५.१४ ।।
श्रृणुध्वं देवमातॄणां प्रजाविस्तरमादितः।
मरुत्वती वसूर्यामी लम्बा भानुररुन्धती।। ५.१५ ।।
सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च भामिनी।
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोधत।। ५.१६ ।।
विश्वेदेवांस्तु विश्वायाः साध्या साध्यानजीजनत्।
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा।। ५.१७ ।।
भानोस्तु भानवस्तद्वन् मुहूर्त्तायां मुहूर्तकाः।
लम्बायां घोषनामानो नागवीथी तु यामिजा।। ५.१८ ।।
पृथिवीतलसम्भूतमरुन्धत्यामजायत ।
सङ्कल्पायास्तु सङ्कल्पो वसुसृष्टिन्निबोधत।। ५.१९ ।।
ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतोदिशम्।
वसवस्ते समाख्यातास्तेषां सर्गन्निबोधत।। ५.२० ।।
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः।। ५.२१ ।।
आपस्य पुत्राश्चत्वारः शान्तो वैदण्ड एव च।
शाम्वोऽथमणिवक्त्रश्च यज्ञरक्षाधिकारिणा।। ५.२२ ।।
ध्रुबस्य कालपुत्रस्तु वर्चाः सोमादजायत।
द्रविणो हव्यवाहश्च धरपुत्रावुभौ स्मृतौ।। ५.२३ ।।
कल्याणिन्यां ततः प्राणो रमणः शिशिरोऽपि च।
मनोहराधरात्पुत्रानवापाथ हरेः सुता।। ५.२४ ।।
शिवा मनोजवं पुत्रमविज्ञातगतिं तथा!
अवापाचानलात् पुत्रावग्निप्रायगुणौ पुनः।। ५.२५ ।।
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः।। ५.२६ ।।
अपत्यं कृत्तिकानां तु कार्तिकेयस्ततः स्मृतः।
प्रत्यूष स ऋषेः पुत्रो विभुर्नाम्नाथ देवलः।
विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः।। ५.२७ ।।
प्रासादभवनोद्यानप्रतिमाभूषणादिषु।
तडागारामकूपेषु स्मृतः सोमरवर्धकिः।। ५.२८ ।।
अजैकपादहिर्बुध्न्य विरूपाक्षोऽथ रैवतः।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः।। ५.२९ ।।
सावित्रश्च जयन्तश्च पिनाकी चापराजितः।
एते रुद्राः समाख्याता एकादश गणेश्वराः।। ५.३० ।।
एतेषां मानसानान्तु त्रिशूलवरधारिणाम्।
कोटयश्चतुराशीतिस्तत्पुत्राश्चाक्षया मताः।। ५.३१ ।।
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः।
पुत्रपौत्रसुताश्चैते सूरभी गर्भसम्भवाः।। ५.३२ ।।
कश्यपान्वयवर्णनम्।
सूत उवाच।
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्र पौत्रकान्।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा।। ६.१ ।।
सुरभिर्विनता तद्वत्ताम्रा क्रोधवशा इरा।
कद्रूर्विश्वा मुनिस्तद्वत्तासां पुत्रान्निबोधत।। ६.२ ।।
तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः।
वैवस्वतेऽन्तरे चैते आदित्या द्वादशस्मृताः।। ६.३ ।।
इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणो यमः।
विवस्वान्‌ सवितापूषा अंशुमान्‌ विष्णुरेव च ।। ६.४ ।।
एते सहस्रकिरणा आदित्या द्वादश स्मृताः।
मारीचात् कश्यपादाप पुत्रानदितिरुत्तमान्।। ६.५ ।।
भृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः।
एते देवगणा विप्राः प्रतिमन्वन्तरेषु च।। ६.६ ।।
उत्पद्यन्ते प्रलीयन्ते कल्पेकल्पे तथैव च।
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्।। ६.७ ।।
हिरण्यकशिपुञ्चैव हिरण्याक्षं तथैव च।
हिरण्यकशिपोस्तद्वज्जातां पुत्रचतुष्टयम्।। ६.८ ।।
प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च।
प्रह्लादपुत्र आयुष्मान् शिविर्वाष्कल एव च।। ६.९ ।।
विरोचनश्चतुर्थश्च स बलिं पुत्रमाप्तवान्।
बलेः पुत्रशतं त्वासीद् बाणज्येष्ठं ततो द्विजाः।। ६.१० ।।
धृतराष्ट्रस्तथा सूर्यश्चन्द्रश्चन्द्रांशुतापनः।
निकुम्भनाभो गुर्वक्षः कुक्षिभीमो विभीषणः।। ६.११ ।।
एवमाद्यास्तु बहवो बाणज्येष्ठा गुणाधिकाः।
बाणः सहस्रबाहुश्च सर्वास्त्रगणसंयुतः।। ६.१२ ।।
तपसा तोषितो यस्य पुरे वसति शूलभृत्।
महाकालत्वमगमत्साम्यं यश्च पिनाकिनः।। ६.१३ ।।
हिरण्याक्षस्य पुत्रोऽभूदुलूकः शकुनिस्तथा।
भूतसन्तापनश्चैव महानाभस्तथैव च।। ६.१४ ।।
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः।
महाबला महाकाया नानारूपा महौजसः।। ६.१५ ।।
दनुः पुत्रशतं लेभे कश्यपाद्‌ बलदर्पितम्।
विप्रचित्तिः प्रधानोऽभूद्येषां मध्ये महाबलः।। ६.१६ ।।
द्विमूर्द्धा शकुनिश्चैव तथा शङ्कुशिरोधरः।
अयोमुखः शम्वरश्च कपिशो नामतस्तथा।। ६.१७ ।।
मारीचिर्मेघवांश्चैव इरा गर्भशिरास्तथा।
विद्रावणश्च केतुश्च केतुवीर्यः शतह्लदः।। ६.१८ ।।
इन्द्रजित् सप्तजिच्चैव वज्रनाभस्तथैव च।
एकचक्रो महाबाहुर्वज्राक्षस्तारकस्तथा।। ६.१९ ।।
असिलोमा पुलोमा च विन्दुर्वाणो महासुरः।
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोः सुताः।। ६.२० ।।
स्वर्भानोस्तु प्रभा कन्या शची चैव पुलोमजा।
उपदानवी मयस्यासीत्तथा मन्दोदरी कुहूः।। ६.२१ ।।
शर्मिष्ठा सुन्दरी चैव चन्द्रा च वृषपर्वणः।
पुलोमा कालका चैव वैश्वानरसुते हि ते।। ६.२२ ।।
बह्वपत्ये महासत्वे मारीचस्य परिग्रहे।
तयोः षष्टिसहस्रापि दानवानामभूत्पुरा।। ६.२३ ।।
पौलोमन् कालकेयांश्च मारीचोऽजनयत्पुरा।
अवध्या येऽमराणां वै हिरण्यपुरवासिनः।। ६.२४ ।।
चतुर्मुखाल्लब्धवरास्ते हता विजयेन तु।
विप्रचित्तिः सैहिकेयान् सिंहिकायामजीजनत्।। ६.२५ ।।
हिरण्यकशिपोर्ये वै भागिनेयास्त्रयोदश।
व्यंसः कल्पश्च राजेन्द्र! नलो वातापिरेव च।। ६.२६ ।।
इल्वलो नमुचिश्चैव श्वसृपश्चाजनस्तथा।
नरकः कालनाभश्च सरमाणस्तथैव च।। ६.२७ ।।
कालवीर्यश्च विख्यातो दनुवंशविवर्धनाः।
संह्लादयस्य तु दैत्यस्य निवातकवचाः स्मृताः।। ६.२८ ।।
अबध्याः सर्वदेवानां गन्धर्वोरगरक्षसाम्।
ये हता भर्गमाश्रित्य त्वर्जुनेन रणाजिरे।। ६.२९ ।।
षट्‌कन्या जनयामास ताम्रा मारीचबीजतः।
शुकी श्येनी च भासी च सुग्रीवी गृध्रिका शुचिः।। ६.३० ।।
शुकी शुकानुलूकांश्च जनयामास धर्मतः।
श्येनी श्येनांस्तथा भासी कुररानप्यजीजनत्।। ६.३१ ।।
गृध्री गृध्रान् कपोतांश्च पारावतविहङ्गमान्।
हंससारसक्रौञ्चांश्च प्लवान् शुचिरजीजनत्।। ६.३२ ।।
अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत्।
एषताम्रान्वयः प्रोक्तो विनतायां निबोधत।। ६.३३ ।।
गरुडः पततां नाथो अरुणश्च पतत्त्रिणाम्।
सौदामिनी तथा कन्या येयं नभसि विश्रुता।। ६.३४ ।।
सम्पातिश्च जटायुश्च अरुणस्य तु तावुभौ।
सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चापि विश्रुतः।। ६.३५ ।।
जटायुषः कर्णिकारः शतगामी च विश्रुतौ।
सारसो रज्जुबालश्च भेरुण्डश्चापि तत्सुताः।। ६.३६ ।।
तेषामनन्तमभवत् पक्षिणां पुत्र पौत्रकम्।
सुरसायाः सहस्रन्तु सर्पाणामभवत्पुरा।। ६.३७ ।।
सहस्रशिरसाङ्कद्रूः सहस्रञ्चापि सुव्रत!।
प्रधानास्तेषु विख्याताः ष़ड्‌विंशतिररिन्दम।। ६.३८ ।।
शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः।
धनञ्चयमहानील पद्माश्वतरतक्षकाः।। ६.३९ ।।
एलापत्रमहापद्मधृतराष्ट्रबलाहकाः।
शङ्खपाल---महाशङ्ख--पुष्पदंष्ट्र--शुभाननाः।। ६.४० ।।
शङ्करोमा च बहुलो वामनः पाणिनस्तथा।
कपिलोदुर्मुखश्चापि पतञ्जलिरितिस्मृताः।। ६.४१ ।।
एषामनन्तमभवत् सर्वेषां पुत्र पौत्रकम्।
प्रायशो यत् पुरा दग्धं जनमेजयमन्दिरे।। ६.४२ ।।
रक्षोगणं क्रोधवशा स्वनामानमजीजनत्।
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्‌ क्षयम्।। ६.४३ ।।
रुद्राणाञ्च गणं तद्वद्‌ गोमहिष्यो वराङ्गनाः।
सुरभिर्जनयामास कश्यपात् संयतव्रता।। ६.४४ ।।
मुनिर्मुनीनाञ्च गणं गणमप्सरसां तथा।
तथा किन्नरगन्धर्व्वानरिष्टाऽजनयदत् बहून्।। ६.४५ ।।
तृण वृक्ष लता गुल्ममिरा सर्वमजीजनत्!।
विश्वा तु यक्ष रक्षांसि जनयामास कोटिशः।। ६.४६ ।।
तत एकोनपञ्चाशन्मरुतः कश्यपाद्दितिः।
जनयामास धर्म्मज्ञान् सर्वानमरवल्लभान्।। ६.४७ ।।
मरुद्‌गणोत्पत्तिकथने मदनद्वादशीव्रतकथनम्।
ऋषय ऊचुः।
दितेः पुत्राः कथं जाता मरुतो देववल्लभाः।
देवैर्जग्मुश्च सापत्नैः कस्मात्ते सख्यमुत्तमम्।। ७.१ ।।
सूत उवाच।
पुरा देवासुरे युद्धे हतेषु हरिणासुरैः।
पुत्रा पौत्रेषु शोकार्त्ता गत्वा भूलोकमुत्तमम्।। ७.२ ।।
स्यमन्तपञ्चके क्षेत्रे सरस्वत्यास्तटे शुभे।
भर्तुराराधनपरा तप उग्रं चचार ह।। ७.३ ।।
तदादितिर्दैत्यमाता ऋषिरूपेण सुव्रत!।
फलाहारा तपस्तेपे कृच्छ्रं चान्द्रायणादिकम्।। ७.४ ।।
यावद्वर्षशतं साग्रं जाता शोकसमाकुला।
ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत।। ७.५ ।।
कथयन्तु भवन्तो मे पुत्रशोकविनाशनम्।
व्रतं सौभाग्यफलदमिह लोके परत्र च।। ७.६ ।।
ऊचु र्वसिष्ठप्रमुखा मदनद्वादशीव्रतम्।
यस्याः प्रभावादभवत् सुतशोक विवर्जिताः।। ७.७ ।।
श्रोतुमिच्छामहे सूत! मदनद्वादशी व्रतम्।
सुतानेकोनपञ्चाशद्येन लेभे दितिः पुनः।। ७.८ ।।
यद्वसिष्ठादिभिः पूर्वन्दितेः कथितमुत्तमम्।
विस्तरेण तदेवेदं मत्सकाशान्निबोधत।। ७.९ ।।
चैत्रमासि सिते पक्षे द्वादश्यां नियतव्रतः।
स्थापयेदव्रणं कुम्भं सित तण्डुल पूरितम्।। ७.१० ।।
नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम्।
सितवस्त्रयुगच्छन्नं सितचन्दन चर्चितम्।। ७.११ ।।
नानाभक्ष्यसमोपेतं सहिरण्यन्तु शक्तितः।
ताम्रपात्रं गुड़ोपेतं तस्योपरि निवेशयेत्।। ७.१२
तस्मादुपरि कामन्तु कदलीदलसंस्थितम्।
कुर्य्याद् भार्याद्वयोपेतं रतिं तस्य च वामतः।। ७.१३ ।।
गन्धं धूपं ततो दद्याद् गीतं वाद्यञ्च कारयेत्।
तदभावे कथां कुर्य्यात् कामकेशवयोर्नरः।। ७.१४ ।।
कामनाम्नो हरेरर्चां स्नापयेद्‌ गन्धवारिणा।
शुक्लपुष्पाक्षततिलैरर्चयेन्‌ मधुसूदनम्।। ७.१५ ।।
कामाय पादौ संपूज्य जङ्घे सौभाग्यदाय च।
ऊरुस्मरायेति पुनर्मन्मथायेति वै कटिम्।। ७.१६ ।।
स्वच्छोदरायेत्युदरमनङ्गायेत्त्युरो हरेः।
मुखं पद्ममुखायेति बाहू पञ्चशराय वै।। ७.१७ ।।
नमः सर्व्वात्मने मौलिमर्चयेदिति केशवम्।
ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत्।। ७.१८ ।।
ब्राह्मणान् भोजयेद् भक्त्या स्वयञ्चलवणादृते।
भुक्त्वा तु दक्षिणां दद्यादिमं मन्त्रमुदीरयेत्।। ७.२० ।।
अनेन विधिना सर्वं मासि मासि व्रतं चरेत्।
उपवासी त्रयोदश्यामर्चयेद्विष्णुमव्ययम्।। ७.२१ ।।
फलमेकञ्च संप्राश्य द्वादश्यां भूतले स्वपेत्।
ततस्त्रयोदशे मासि घृत धेनु समन्विताम्।। ७.२२ ।।
शय्यां दद्यादनङ्गाय सर्वापस्करसंयुताम्।
काञ्चनं कामदेवञ्च शुक्लां गाञ्च पयस्विनीम्।। ७.२३ ।।
घासोभिर्द्विजदाम्पत्यं पूज्यं शक्त्या विभूषणैः।
शय्या गन्धादिकं दद्यात्‌ प्रीयतामित्युदीरयेत्।। ७.२४ ।।
होमः शुक्लतिलैः कार्य्यः कामनामानि कीर्त्तयेत्।
गव्येन हविषा तद्वत् पायसेन च धर्म्मवित्।। ७.२५ ।।
विप्रेभ्यो भोजनं दद्याद्वित्तशाठ्यं विवर्जयेत्।
इक्षुदण्डानथो दद्यात् पुष्पमालाश्च शक्तितः।। ७.२६ ।।
यः कुर्याद्विधिनानेन मदनद्वादशीमिमाम्।
स सर्वपापनिर्मुक्तः प्राप्नोति हरिसाम्यताम्।। ७.२७ ।।
इह लोके वरान् पुत्रान् सौभाग्यफलमश्नुते।
यः स्मरः संस्मृतो विष्णुरानन्दात्मा महेश्वरः।। ७.२८ ।।
सुखार्थी कामरूपेण स्मरेदङ्गजमीश्वरम्।
एतच्छ्रुत्वा चकारासौ दितिः सर्वमशेषतः।। ७.२९ ।।
कश्यपो व्रतमाहात्म्यादगत्य परया मुदा।
चकार कर्कशां भूयो रूपयौवनशालिनीम्।। ७.३० ।।
वरैराच्छन्दयामास सातु वव्रे ततो वरम्।
पुत्रं शक्रवधार्थाय समर्थममितौजसम्।। ७.३१ ।।
वरयामि महात्मानं सर्वामरनिषूदनम्।
उवाच कश्यपो वाक्यमिन्द्रहन्तारमूर्जितम्।। ७.३२ ।।
प्रदास्याम्यहमेवेह किं त्वेतत्‌ क्रियतां शुभे।
आपस्तम्बः करोत्विष्टिं पुत्रीयामद्य सुव्रते।। ७.३३ ।।
विधास्यामि ततो गर्भमिन्द्रशत्रुनिषूदनम्।
आपस्तम्बस्ततश्चक्र पुत्रेष्टिन्द्रविणाधिकाम्।। ७.३४ ।।
इन्द्रशत्रुर्भवस्वेति जुहाव च सविस्तरम्।
देवा मुमुदिरे दैत्या विमुखा स्युश्च दानवाः।। ७.३५ ।।
दित्यां गर्भमथाधत्त कश्यपः प्राहतां पुनः।
त्वया यत्नो विधातव्यो ह्यस्मिन्‌ गर्भे वरानने।। ७.३६ ।।
सम्वत्सरशतं त्वेकमस्मिन्नेव तपोवने।
सन्ध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि!।। ७.३७ ।।
न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा।
नोपस्करेषूपविशेन्मुसलोलूखलादिषु।। ७.३८ ।।
जले च नावगाहेत शून्यागारञ्च वर्जयेत्।
वल्मीकायां न तिष्ठेत नचोद्विग्नमना भवेत्।। ७.३९ ।।
विलिखेन्न नखैर्भूमिन्नाङ्गारेण न भस्मना।
न शयालुः सदा तिष्ठेद् व्यायामञ्च विवर्जयेत्।। ७.४० ।।
न तुषांगारभस्मास्थिकपालिषु समाविशेत्।
वर्जयेत्कलहं लोकैर्गात्रभंगं तथैव च।। ७.४१ ।।
न मुक्तकेशा तिष्ठेत नारुचिः स्यात् कदाचन।
न सयीतोत्तरशिरा नचापरशिराः क्वचित्।। ७.४२ ।।
न वस्त्रहीना नोद्विग्ना नचार्द्रावरणा सती।
नामंगल्यां वदेद्वाचं न च हास्याधिका भवेत्।। ७.४३ ।।
कुर्य्यात्तु गुरुशुश्रूषां नित्यं मांगल्य तत्परा।
सर्व्यौषधीभिः कोणेन वारिणा स्नानमाचरेत्।। ७.४४ ।।
कृतरक्षा सुभूषा च वास्तु पूजन तत्परा।
तिष्ठेत् प्रसन्नवदना भर्तुः प्रियहिते रता।। ७.४५ ।।
दानशीला तृतीयायां पार्वण्यं नक्तमाचरेत्।
इति वृत्ताभवेन्नारी विशेषेणतु गर्भिणी।। ७.४६ ।।
यस्तुतस्या भवेत् पुत्रः शीलायुर्वृद्धिसंयुतः।
अन्यथा गर्भपतनमवाप्नोति न संशयः।। ७.४७ ।।
तस्मात्‌ त्वमनयावृत्त्या गर्भेऽस्मिन्‌ यत्नमाचर।
स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया पुनः।। ७.४८ ।।
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत।
ततः सा कश्यपोक्तेन विधिना समतिष्ठत।। ७.४९ ।।
अथ भीतस्तथेन्द्रोऽपि दितेः पार्श्वमुपागमत्।
विहायदेवसदनं तच्छुश्रूषुरवस्थितः।। ७.५० ।।
दितेश्छिद्रान्तरप्रेप्सुरभवत् पाकशासनः।
विनीतोऽभवदव्यग्रः प्रशान्तवदनो बहिः।। ७.५१ ।।
अजानन् किल तत्‌ कार्य्यमात्मनः शुभमाचरन्।
ततो वर्षशतान्ते सा न्यूनेतु दिवसैस्त्रिभिः।। ७.५२ ।।
मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा।
अकृत्वा पादयोः शौचं प्रसुप्ता मुक्तमूर्धजा।। ७.५३ ।।
निद्राभरसमाक्रान्ता दिवापरशिराः क्वचित्।
ततस्तदन्तरं लब्ध्वा प्रविष्टस्तु शचीपतिः।। ७.५४ ।।
वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः।
ततः सप्तैव ते जाताः कुमाराः सूर्य्यवर्चसः।। ७.५५ ।।
रुदन्तः सप्तवेताला निषिद्धा गिरिदारिणा।
भूयोऽपि रुदतश्चैतानेकैकं सप्तधा हरिः।। ७.५६ ।।
चिच्छेद वृत्रहन्ता वै पुनस्तदुदरे स्थितः।
एवमेकोनपञ्चाशद् भूत्वा ते रुरुदुर्भृशम्।।७.५७
इन्द्रो निवारयामास मा रोदीष्ट पुनः पुनः।
ततः सचिन्तयामास किमेतदितिवृत्रहा। ७.५८
धर्म्मस्य कस्य माहात्म्यात् पुनः सञ्जीवितास्त्वमी।
विदित्वा ध्यानयोगेन मदन द्वादशी फलम्।। ७.५९ ।।
नूनमेतत् परिणतमधुना कृष्णपूजनात्।
वज्रेणापि हताः सन्तो न विनाशमवाप्नुयुः।। ७.६० ।।
एकोऽप्यनेकतामाप यस्मादुदरगोप्यलम्।
अवध्या नूनमेते वै तस्माद्देवा भवन्त्विति।। ७.६१ ।।
यस्मान्मारुदतेत्युक्ता रुदन्तो गर्भसंस्थिताः।
मरुतो नाम ते नाम्ना भवन्तु मखभागिनः।। ७.६२ ।।
ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः।
अर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम्।। ७.६३ ।।
कृत्वा मरुद्गणं देवैः समानममराधिपः।
दितिं विमानमारोप्य ससुतामनयद्दिवम्।। ७.६४ ।।
यज्ञभागभुजो जाता मरुतस्ते ततो द्विजाः।
न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः।। ७.६५ ।।
आधिपत्याभिषेचनम्।
ऋषय ऊचुः।
आदिसर्गश्च यः सूत! कथितो विस्तरेण तु।
प्रतिसर्गञ्च ये येषामधिपास्तान् वदस्व नः।। ८.१ ।।
सूत उवाच।
यदाभिषिक्तः सकलाधिराज्ये पृथुर्धरित्र्यामधिपो बभूव।
तदौषधीनामधिपं चकार यज्ञव्रतानां तपसाञ्च चन्द्रम्।। ८.३ ।।
नक्षत्रताराद्विजवृक्षगुल्म लतावितानस्य च रुक्मगर्भः।
अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणञ्च तद्वत्।। ८.३ ।।
विष्णुं रवीणामधिपं वसूनामग्निञ्च लोकाधिपतिश्चकार।
प्रजापतीनामधिपं च दक्षञ्चकार शक्रं मरुतामधीशम्।। ८.४ ।।
दैत्याधिपानामथ दानवानां प्रह्लादमीशञ्च यमं पितॄणाम्।
पिशाचरक्षःपशुभूतयक्षवेतालराजन्त्वथ शूलपाणिम्।। ८.५ ।।
प्रालेय शैलञ्च पतिं गिरीणामीशं समुद्रं ससरिन्नदानाम्।
गन्धर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार।। ८.६ ।।
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश।
दिशाङ्गजानामधिपञ्चकार गजेन्द्रमैरावतनामधेयम्।। ८.७ ।।
सुपर्णमीशम्पततामथाश्व राजानमुच्चैःश्रवसञ्चकार।
सिंहं मृगाणां वृषभं गवाञ्च वृक्षं पुनः सर्ववनस्पतीनाम्।। ८.८ ।।
पितामहः पूर्वमथाभ्यषिञ्चच्चैतान् पुनः सर्वदिशाधिनाथान्।
पूर्वेण दिक्‌पालमथाभ्यषिञ्चन्नाम्ना सुधर्माणमरातिकेतुम्।। ८.९ ।।
ततोऽधिपं दक्षिणतश्चकार सर्वेश्वरं शङ्खपदाभिधानम्।
सकेतुमन्तञ्च दिगीशमीशश्चकार पश्चाद् भुवनाण्डागर्भः।। ८.१० ।।
हिरण्यरोमाणमुदग्दिगीशं प्रजापतिर्देवसुतञ्चकार।
अद्यापि कुर्वन्ति दिशामधीशाः शत्रून् दहन्तस्तु भुवोभिरक्षाम्।। ८.११ ।।
चतुर्भिरेभिः पृथुनामधेयो नृपोऽभिषिक्तः प्रथमं पृथिव्याम्।
गतेऽन्तरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते
प्रजापतिः सोऽस्य चराचरस्य बभूव सूर्यान्वयवंशचिह्नः।। ८.१३ ।।
मत्स्य उवाच।
एवं श्रुत्वा पुनः प्राह पुनरेव जनार्दनम्।
पूर्वेषां चरितं ब्रूहि मनूनां मधुसूदन ।।
मन्वन्तराणि सर्वाणि मनूनां चरितञ्च यत्।
प्रमाणञ्चैव कालस्य तच्छृणुष्व समाहितः।। ९.१ ।।
एकचित्तः प्रशान्तात्मा श्रृणु मार्तण्डनन्दन।
यामा नाम पुरा देवा आसन् स्वायम्भुवान्तरे।। ९.२ ।।
सप्तैव ऋषयः पूर्वे ये मरीच्यादयः स्मृताः।
आग्नीध्रश्चाग्निबाहुश्च सहः सवन एव च।। ९.३ ।।
ज्योतिष्मान्‌ द्युतिमान्‌ हव्यो मेधा मेधातिथिर्वसुः।
स्वायम्भुवस्यास्य मनोर्दशैते वंशवर्द्धनाः।। ९.४ ।।
प्रतिसर्गमिमे कृत्वा जग्मुर्यत्परमम्पदम्।
एतत्‌ स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम्।। ९.५ ।।
स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः।
नभो नभस्य प्रसृति भानवः कीर्तिवर्द्धनाः।। ९.६ ।।
दत्तो निश्च्यवनस्तम्बः प्राणः कश्यप एव च।
और्वो बृहस्पतिश्चैव सप्तैते ऋषयः स्मृताः।। ९.७ ।।
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे।
हवीन्द्रः सुकृतो मूर्तिरापोज्योतिरयस्मयः।। ९.८ ।।
वसिष्ठस्य सुताः सप्त ये प्रजापतयः स्मृताः।
द्वितीयमेतत्कथितं मन्वन्तरमतः परम्।। ९.९ ।।
औत्तमीयं प्रवक्ष्यामि तथा मन्वन्तरं शुभम्।
मनुर्नामौत्तमिर्यत्र दशपुत्रानजीजनत्।। ९.११ ।।
ईष ऊर्जश्च तर्जश्च शुचिः शुक्रस्तथैव च।
मधुश्च माधवश्चैव नभस्योऽथ नभास्तथा।। ९.१२ ।।
सहः कनीयानेतेषामुदारः कीर्त्तिवर्द्धनः।
भावनास्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः।। ९.१३ ।।
कौकुरुण्डिश्च दाल्भ्यश्च शङ्खः प्रवहणः शिवः।
सितश्च सस्मितश्चैव सप्तैते योगवर्द्वनाः।। ९.१४ ।।
मन्वन्तरं चतुर्थं तु तामसं नाम विश्रुतम्।
कविः पृथुस्तथैवाग्निरकपिः कपिरेव च।। ९.१५ ।।
तथैव जल्पधीमानौ मुनयः सप्तनामतः।
साध्या देवगणा यत्र कथितास्तामसेऽन्तरे।। ९.१६ ।।
अकल्मषस्तथा धन्वी तपोमूलस्तपोधनः।
तपोरति तपस्यश्च तपोद्युति परन्तपौ।। ९.१७ ।।
तपोभागी तपोयोगी धर्माचाररताः सदा।
तामसस्य सुताः सर्वे दश वंश विवर्द्धनाः।। ९.१८ ।।
पञ्चमस्य मनोस्तद्वद्रैवतस्यान्तरं श्रृणु।
ऐन्द्रबाहुः सुबाहुश्च पर्जन्यः सोमपो मुनिः।। ९.१९ ।।
हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः।
देवाश्चाभूतरजसस्तथा प्रकृतयः शुभाः।। ९.२० ।।
अरुणस्तत्वदर्शी च धृतिमान्‌ हव्यवान्‌ कविः।
युक्तो निरुत्सुकः सत्वो निर्मोहोऽथ प्रकाशकः।। ९.२१ ।।
धर्मवीर्यबलोपेता दशैते रैवतात्मजाः।
भृगुः सुधामा विरजाः सहिष्णुर्नाद एव च।। ९.२२ ।।
विवस्वानतिनामा च षष्ठे सप्तर्षयोऽपरे।
चाक्षुषस्यान्तरे देवा लेखा नाम परिश्रुताः।। ९.२३ ।।
ऋभवोऽथ ऋभाद्याश्च वारिमूलादिवाकसः।
चाक्षुषस्यान्तरे प्रोक्ता देवानां पञ्चयोनयः।। ९.२४ ।।
रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश।
प्रोक्ताः स्वायम्भुवे वंशे ये मया पूर्वमेव तु।। ९.२५ ।।
अन्तरं चाक्षुषं चैतन्मया ते परिकीर्त्तितम्।
सप्तमं तत्‌ प्रवक्ष्यामि यद्वैवस्वतमुच्यते।। ९.२६ ।।
अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा।
भरद्वाजस्तथायोगी विश्वामित्रः प्रतापवान्।। ९.२७ ।।
जमदग्निश्च सप्तैते साम्प्रतं ये महर्षयः।
कृत्वा धर्म्मव्यवस्थानं प्रयान्ति परमम्पदम्।। ९.२८ ।।
साध्या विश्वे च रुद्राश्च मरुतो वसवोऽश्विनौ।
आदित्याश्च सुरास्तद्वत्‌ सप्तदेवगणाः स्मृताः।। ९.२९ ।।
इक्ष्वाकुप्रमुखाश्चास्य दशपुत्राः स्मृता भुवि।
मन्वन्तरेषु सर्वेषु सप्त सप्त महर्षयः।। ९.३० ।।
कृत्वा धर्म्मव्यवस्थानं प्रयान्तिपरमम्पदम्।
सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथान्तरम्।। ९.३१ ।।
अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा।
शतानन्दः काश्यपश्च रामश्च ऋषयः स्मृताः।। ९.३२ ।।
धृतिर्वरीयान् यवसः सुवर्णो वृष्टिरेव च।
चरिष्णुरीड्यः सुमतिर्वसुः शुक्रश्च वीर्यवान्।। ९.३३ ।।
भविष्या दशसावर्णेर्मनोः पुत्राः प्रकीर्त्तिताः।
रौच्यादयस्तथान्येऽपि मनवः सम्प्रकीर्तिताः।। ९.३४ ।।
रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति।
मनुर्भूतिसुतस्तद्वद् भौत्यो नाम भविष्यति।। ९.३५ ।।
ततस्तु मेरुसावर्णिर्ब्रह्मसूनुर्मनुः स्मृतः।
ऋतश्च ऋतधामा च विष्वक्सेनो मनुस्तथा।। ९.३६ ।।
अतीतानागताश्चैते मनवः परिकीर्तिताः।
षडूनं युगसाहस्रमेभिर्व्याप्तं नराधिप।। ९.३७ ।।
स्वेस्वेऽन्तरे सर्वमिदमुत्पाद्य सचराचरम्।
कल्पक्षये विनिर्वृत्ते मुच्यन्ते ब्रह्मणा सह।। ९.३८ ।।
एते युगसहस्रान्ते विनश्यन्ति पुनः पुनः।
ब्रह्माद्या विष्णुसायुज्यं याता यास्यन्ति वै द्विजाः।। ९.३९ ।।
पृथ्वीदोहनम्।
ऋषय ऊचुः।
बहुभिर्धरणी भुक्ता भूपालैः श्रूयते पुरा।
पार्थिवाः पृथिवीयोगात्‌ पृथिवी कस्य योगतः।। १०.१ ।।
किमर्थञ्च कृता संज्ञा भूमेः किं पारिभाषिणी।
गौरितीयञ्च विख्याता सूत! कस्माद् ब्रवीहि नः।। १०.२ ।।
सूत उवाच।
वंशे स्वायम्भुवस्यासीदङ्गो नाम प्रजापतिः।
मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा।। १०.३ ।।
सुनीथा नाम तस्यास्तु वेनो नामसुतः पुरा।
अधर्म्मनिरतश्चासीद्‌ बलवान्वसुधाधिपः।। १०.४ ।।
लोकेऽप्यधर्म्मकृज्जातः परभार्यापहारकः।
धर्माचारस्य सिद्ध्यर्थं जगतोऽथमहर्षिभिः।। १०.५ ।।
अनुनीतोऽपि न ददावनुज्ञां स यदा ततः।
शापेन मारयित्वैनमराजक भयार्दिताः।। १०.६ ।।
ममन्थु र्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः।
तत्कायान्मथ्यमानात्तु निपेतुर्म्लेच्छजातयः।। १०.७ ।।
शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः।
पितुरंशस्य चांशेन धार्मिको धर्म्मचारिणः।। १०.८ ।।
उत्पन्नो दक्षिणाद्धस्तात्स धनुः सशरो गदी।
दिव्यतेजोमयवपुः सरत्नकवचाङ्गदः।। १०.९ ।।
पृथोरेवाभवद्यत्नात् ततः पृथुरजायत।
स विप्रैरभिषिक्तोऽपि तपः कृत्वा सुदारुणम्।। १०.१० ।।
विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्पुनः।
निः स्वाध्यायवषट्‌कारं निर्धर्मं वीक्ष्य भूतलम्।। १०.११ ।।
दग्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः।
ततो गोरूपमास्थाय भूः पलायितुमुद्यता।। १०.१२ ।।
पृष्ठतोऽनुगतस्तस्याः पृथुर्दीप्तशरासनः।
ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत्।। १०.१३ ।।
पृथुरत्यवदद्वाक्यमीप्सितं देहि सुव्रते।
सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च।। १०.१४ ।।
तथैव सा ब्रवीद्‌भूमिर्दुदोह स नराधिपः।
स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम्।। १०.१५ ।।
तदन्नमभवच्छुद्धं प्रजा जीवन्ति येन वै।
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत्।। १०.१६ ।।
दोग्धा बृहस्पतिरभूत्पात्रं वेदस्तपो रसः।
वेदैश्च वसुधा दुग्धा दोग्धामित्रस्तदा भवत्।। १०.१७ ।।
इन्द्रोवत्सः समभवत् क्षीरमूर्जस्करं बलम्।
देवानां काञ्चनं पात्रं पितृणां राजतं तथा।। १०.१८ ।।
अन्तकश्चाभवद्दोग्धा यमो वत्सः स्वधारसः।
अलावुपात्रं नागानां तक्षको वत्सकोऽभवत्।। १०.१९ ।।
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोऽभवत्पुनः।
असुरैरपि दुग्धेयमायसे शक्रपीडिनीम्।। १०.२० ।।
पात्रे मायामभूद्वत्सः प्राह्लादिस्तु विरोचनः।
दोग्धाद्विमूर्धा तत्रासीन्माया येन प्रवर्त्तिता।। १०.२१ ।।
यक्षैश्च वसुधा दुग्धा पुरान्तर्द्धानमीप्सुभिः।
कृत्वा वैश्रवणं वत्समामपात्रे महीपते।। १०.२२ ।।
प्रेतरक्षोगणैर्दुग्धा धारा रुधिरमुल्बणम्।
रौप्यनाभोऽभवद्‌ दोग्धा सुमाली वत्स एव च।। १०.२३ ।।
गन्धर्वैश्च पुरा दुग्धा वसुधा साप्सरोगणैः।
वत्सं चैत्ररथं कृत्वा गन्धान् पद्म दले तथा।। १०.२४ ।।
दोग्धा वररुचिर्नाम नाट्यवेदस्य पारगः।
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च।। १०.२५ ।।
औषधानिच दिव्यानि दोग्धा मेरुर्महाचलः।
वत्सोऽभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः।। १०.२६ ।।
वृक्षैश्चवसुधा दुग्धा क्षीरं छिन्नप्ररोहणम्।
पालाशपात्रं दोग्धातु शालः पुष्पलताकुलः।। १०.२७ ।।
प्लक्षोऽभवत्ततो वत्सः सर्ववृक्षोधनाधिपः।
एवमन्यैश्च वसुधा तदा दुग्धा यथेप्सितम्।। १०.२८ ।।
आयुर्धनानि सौख्यञ्च पृथौ राज्यं प्रशासति।
न दरिद्रस्तदा कश्चिन्नरोगी न च पापकृत्।। १०.२९ ।।
नोपसर्गभयं किञ्चित् पृथौ राजनिशासति।
नित्यं प्रमुदितालोका दुःखशोकविवर्जिताः।। १०.३० ।।
धनुष्कोट्या च शैनेन्द्रानुत्सार्य्यसमहाबलः।
भुवस्तलं समं चक्रे लोकानां हितकाम्यया।। १०.३१ ।।
न पुरग्रामदुर्गाणि नचायुधधरा नराः।
क्षयातिशयदुःखञ्च नार्थशास्त्रस्य चादरः।। १०.३२ ।।
धर्मैकवासनालोकाः पृथो राज्यं प्रशासति।
कथितानि च पात्राणि यत्क्षीरञ्च मया तव।। १०.३३ ।।
येषां यत्र रुचिस्तत्तद्देयं तेभ्यो विजानता।
यज्ञ श्राद्धेषु सर्वेषु मया तुभ्यं निवेदितम्।। १०.३४ ।।
दुहितृत्वङ्गता यस्मात् पृथौर्धर्म्मवतो मही।
तदानुरागयोगाच्च पृथिवी विश्रुता बुधैः।। १०.३५ ।।
आदित्याख्यानम्।
आदित्यवंशमखिलं वद सूत! यथाक्रमम्।
सोमवंशञ्च तत्वज्ञ! यथावद्वक्तुमर्हसि।। ११.१ ।।
विवस्वान् कश्यपात् पूर्वमदित्यामभवत्सुतः।।
तस्य पत्नीत्रयं तद्वत् संज्ञा राज्ञी प्रभा तथा।
रैवतस्य सुता राज्ञी रेवतं सुषुवे तनुम्।
प्रभा प्रभातं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम्।। ११.२ ।।
यमश्च यमुना चैव यमलौ तु बभूवतुः।
ततस्तेजोमयं रूपमसहन्ती विवस्वतः।। ११.३ ।।
नारीमुत्पादयामास स्वशरीरादनिन्दिताम्।
त्वाष्ट्री स्वरूपेण नाम्ना छायेतिभामिनी तदा।। ११.४ ।।
किङ्करोमीति पुरतः स्थितां तामभ्यभाषत।
छाये! त्वं भज भर्तारमस्मदीयं वरानने!।। ११ .५ ।।
अपत्यानि मदीयानि मातृस्नेहेन पालय।
तथेत्युक्ता तु सा देवमगमत् क्वापि सुव्रता।। ११.६ ।।
कामयामास देवोऽपि संज्ञेयमिति चादरात्।
जनयामास तस्यां तु पुत्रञ्च मनुरूपिणम्।। ११.७ ।।
सवर्णत्वाच्च सावर्णिम् मनोर्वैवस्वतस्य च।
ततः शनिञ्च तपतीं विष्टिं चैव क्रमेण तु।। ११.८ ।।
छायायां जनयामास संज्ञेयमिति भास्करः।
छाया स्वपुत्रेऽभ्यधिकं स्नेहं चक्रे मनौ तथा।। ११.९ ।।
पूर्वो मनुस्तु चक्षाम न यमः क्रोधमूर्च्छितः।
सन्तर्जयामास तदा पादमुद्यम्य दक्षिणम्।। ११.१० ।।
शशाप च यमं छाया सक्षतः कृमिसंयुतः।
पादोऽयमेको भविता पूय शोणित विस्रवः।। ११.११ ।।
निवेदयामास पितुर्धर्म्मः शापादमर्षितः।
निष्कारणमहं शप्तो मात्रा देव! सकोपया।। ११.१२ ।।
बालभावान् मया किञ्चिदुद्यतश्चरणः सकृत्।
मनुना वार्यमाणापि मम शापमदाद्विभो।। ११.१३ ।।
प्रायेण माता सास्माकं शापेनाहं यतो हतः।
देवोऽप्याह यमं भूयः किङ्करोमि महामते।। ११.१४ ।।
मौर्ख्यात् कस्य न दुःखं स्यादथवा कर्म्म सन्ततेः।
अनिवार्याभवस्यापि का कथान्येषु जन्तुषु।। ११.१५ ।।
कृकवाकुर्म्मया दत्तो यः कृमीन् भक्षयिष्यति।
क्लेदञ्च रुधिरञ्चैव वत्सायमपनेष्यति।। ११.१६ ।।
एवमुक्तस्तपस्तेपे यमस्तीव्रं महायशाः।
गोकर्णतीर्थे वैराग्यात् फलपत्रानिलाशनः।। ११.१७ ।।
आराधयन् महादेवं यावद्वर्षायुतायुतम्।
वरं प्रादान् महादेवः सन्तुष्टः शूलभृत्तदा।। ११.१८ ।।
वव्रे सलोकपालत्वं पितृलोके नृपालयम्।
धर्म्माधर्म्मात्मकस्यापि जगतस्तु परीक्षणम्।। ११.१९ ।।
एवं स लोकपालत्वमगमच्छूलपाणिनः।
पितॄणाञ्चाधिपत्यञ्च धर्म्माधर्म्मस्य चानघ।। ११.२० ।।
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्म्मचेष्टितम्।
त्वष्टुः समीपमगमदाचचक्षे च रोषवान्।। ११.२१ ।।
तमुवाच ततस्त्वष्टा सान्त्वपूर्वं द्विजोत्तामाः।
तवासहन्ती भगवन्!महस्तीव्रं तमोनुदम्।। ११.२२ ।।
व़डवारूपमास्थाय मत्सकाशमिहागता।
निवारिता मया सातु त्वया चैव दिवाकर!।। ११.२३ ।।
यस्मादविज्ञाततया मत्सकाशमिहागता।
तस्मान्मदीयं भवनं प्रवेष्टुं न त्वमर्हसि।। ११.२४ ।।
एवमुक्ता जगामाथ मरुदेशमनिन्दिता।
व़डवा रूपमास्थाय भूतले सम्प्रतिष्ठिता।। ११.२५ ।।
तस्मात्प्रसादं कुरु मे यद्यनुग्रह भागहम्।
अपनेष्यामि ते तेजो यन्त्रे कृत्वा दिवाकर!।। ११.२६ ।।
रूपं तव करिष्यामि लोकानन्दकरं प्रभो!।
तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम्।। ११.२७ ।।
पृथक् चकार तत्तेजश्चक्रं विष्णोरकल्पयत्।
त्रिशूलञ्चापि रुद्रस्य वज्रमिन्द्रस्य चाधिकम्।।११.२८।।
दैत्यदानवसंहर्तुः सहस्र किरणात्मकम्।
रूपञ्चाप्रतिमञ्चक्रे त्वष्टा पद्भ्यामृते महत्।। ११.२९ ।।
न  शशाकाथ तद् द्रष्टुं पादरूपं रवेः पुनः।
अर्चास्वपि ततः पादौ न कश्चित् कारयेत् क्वचित्।। ११.३० ।।
यः करोति स पापिष्ठां गतिमाप्नोति निन्दिताम्।
कुष्ठरोगमवाप्नोति लोकेऽस्मिन् दुःखसंयुतः।। ११.३१ ।।
तस्माच्च धर्म्मकामार्थी चित्रेष्वायतनेषु च।
न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः।। ११.३२ ।।
ततः स भगवान्! गत्वा भूर्लोकममराधिपः।
कामयामास कामार्तो मुख एव दिवाकरः।। ११.३३ ।।
अश्वरूपेण महता तेजसा च समावृतः।
संज्ञा च मनसा क्षोभमगमद्भयविह्वला।। ११.३५ ।।
नासा पुटाभ्यामुत्सृष्टं परोऽयमितिशङ्कया।
तद्रेतसस्ततो जातावश्विनावितिनिश्चितम्।। ११.३६ ।।
दस्रौ सुतत्वात् सञ्जातौ नासत्यौ नासिकाग्रतः।
ज्ञात्वाचिराच्च तं देवं सन्तोषमगमत्परम्।।
विमानेनागमत् स्वर्गं पत्या सह मुदान्विता।। ११.३७ ।।
सावर्णोऽपि मनुर्मेरावद्याप्यास्ते तपोधनः।
शनिस्तपोबलादाप ग्रहसाम्यं ततः पुनः।। ११.३८ ।।
यमुना तपती चैवपुनर्नद्यौ बभूवतुः।
विष्टिर्घोरात्मिका तद्वत् कालत्वेन व्यवस्थिता।। ११.३९ ।।
मनोर्वैवस्वतस्यासन् दशपुत्रा महाबलाः।
इलस्तु प्रथमस्तेषां पुत्रेष्ट्यां समजायत।। ११.४० ।।
इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ण एव च।
नरिष्यतः करूपश्च शर्य्यातिश्च महाबलः।।
पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः।। ११.४१ ।।
अभिषिच्य मनुः पुत्रमिलं ज्येष्ठं स धार्मिकः।
जगाम तपसे भूयः स महेन्द्रवनालयम्।। ११.४२ ।।
अथ दिग्जयसिध्यर्थमिलः प्रायान् महीमिमाम्।
भ्रमन् द्वीपानि सर्वाणि क्ष्माभृतः संप्रधर्षयन्।। ११.४३ ।।
जगामोपवनं शम्भोरश्वाकृष्टः प्रतापवान्।
कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत्।। १०.४४ ।।
रमते यत्र देवेशः शम्भुः सोमार्द्धशेखरः।
उमया समयस्तत्र पुरा शरवणे कृतः।। ११.४५ ।।
पुन्नामसत्त्वं यत् किञ्चिदागमिष्यति ते वने।
स्त्रीत्वमेष्यति तत्सर्वं दश योजन मण्डले।। ११.४६ ।।
अज्ञातसमयो राजा इलः शरवणे पुरा।
स्त्रीत्वमाप विशन्नेव व़डवात्त्वं हयस्तदा।। ११.४७ ।।
पुरुषत्वं हृतं सर्वं स्त्रीरूपे विस्मितो नृप।
इलेति साभवन्नारी पीनोन्नत घनस्तनी।। ११.४८ ।।
उन्नतश्रोणिजघना पद्म पत्रायतेक्षणा।
पूर्णेन्दुवदना तन्वी विलासोल्लासितेक्षणा।। ११.४९ ।।
मूलोन्नतायतभुजा नीलकुञ्चितमूर्धजा।
तनुलोमा सुदशना मृदुगम्भीरभाषिणी।। ११.५० ।।
श्यामगौरेण वर्णेन हंसवारणगामिनी।
कार्मुक भ्रू युगोपेता तनु ताम्र नखाङ्करा।। ११.५१ ।।
भ्रमन्ती च वने तस्मिन् चिन्तयामास भामिनी।
को मे पिताऽथवा भ्राता का मे माता भवेदिह।। ११.५२ ।।
कस्य भर्तुरहं दत्ता कियद्वत्स्यामि भूतले।
इति चिन्तयती दृष्टा सोमपुत्रेण साङ्गना।। ११.५३ ।।
इलारूपसमाक्षिप्त मनसा वरवर्णिनीम्।
बुधस्तदाप्तये यत्नमकरोत् कामपीड़ितः।। ११.५४ ।।
विशिष्टाकारवान् दण्डी सकमण्डलु पुस्तकः।
वेणुदण्डकृतानेक पवित्रक गणित्रकः।। ११.५५ ।।
द्विजरूपः शिखी ब्रह्मनिगदन् कर्णकुण्डलः।
वटुभिश्चान्वितोयुक्तैः समित्पुष्पकुशोदकैः।। ११.५६ ।।
किलान्विषन्वने तस्मिन्नाजुहाव स तामिलाम्।
बहिर्वनस्यान्तरितः किल पादप मण्डले।। ११.५७ ।।
ससम्भ्रममकस्मात्तां सोपालम्भमिवावदत्।
त्यक्त्वाग्नि होत्रशुश्रूषां क्व गता मन्दिरान्मम।। ११.५८ ।।
इयं विहारवेला ते ह्यतिक्रामति साम्प्रतम्।
एह्येहि पृथुसुश्रोणि! सम्भ्रान्ता केन हेतुना ।। ११.५९ ।।
इयं सायन्तनीवेला विहारस्येह वर्तते।
कृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम।। ११.६० ।।
सात्त्वब्रवीद्विस्मृताहं सर्वमेतत्तपोधन!।
आत्मानं त्वाञ्च भर्तारं कुलञ्च वद मेऽनघ।। ११.६१ ।।
बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनि!।
अहञ्च कामुको नाम बहुविद्योबुधः स्मृतः।। ११.६२ ।।
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः।
इति सा तस्य वचनात् प्रविष्टा बुधमन्दिरम्।। ११.६३ ।।
रत्नस्तम्भसमायुक्तं दिव्यमाया विनिर्मितम्।
इला कृतार्थमात्मानं मेने तद्भवनस्थिता।। ११.६४ ।।
अहोवृत्तमहोरूपमहोधनमहोकुलम्।
मम चास्य च मे भर्तुरहोलावण्यमुत्तमम्।। ११.६५ ।।
रेमे च सा तेन सममतिकालमिला ततः।
सर्वभोगमये गेहे यथेन्द्रभवने तथा।। ११.६६ ।।
सूर्यवंशवर्णनम्।।
सूत उवाच।
अथान्विषन्तो राजानं भ्रातरस्तस्य मानवाः।
इक्ष्वाकु प्रमुखा जग्मु स्तदाशरवणान्तिकम्।। १२.१ ।।
ततस्ते दद्रृशुः सर्वे वडवामग्रतः स्थिताम्।
रत्नपर्याणकिरणदीप्तकायामनुत्तमाम्।। १२.२ ।।
पर्याणप्रत्यभिज्ञानात् सर्वे विस्मयमागताः।
अयं चन्द्रप्रभो नाम वाजीतस्य महात्मनः।। १२.१३ ।।
अगमद्वडवा रूपमुत्तमं केन हेतुना।
ततस्तु मैत्रावरुणिं पप्रच्छुस्ते पुरोधसम्।। १२.४ ।।
किमित्येतदभूच्चित्रं वद योग विदाम्वर!।
वशिष्ठश्चाब्रवीत् सर्वं द्रृष्ट्वा तद्ध्यानचक्षुषा।। १२.५ ।।
समयः शम्भुदयिता कृतः शरवणे पुरा।
यः पुमान् प्रविशेदत्र स नारीत्वमवाप्स्यति।। १२.६ ।।
अयमश्वोऽपि नारीत्वमगाद्राज्ञा सहैवतु।
पुनः पुरुषतामेति यथासौ धनदोपमः।। १२.७ ।।
तथैव यत्नः कर्तव्य चाराध्यैव पिनाकिनम्।
ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः।। १२.८ ।।
तुष्टुवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ।
तावूचतुरलङ्घ्योऽयं समयः किन्तु साम्प्रतम्।। १२.९ ।।
इक्ष्वाकोरश्वमेधेन यत्‌ फलं स्यात्तदावयोः।
दत्त्वा किम्पुरुषो वीरः स भविष्यत्यसंशयम्।। १२.१० ।।
तथेत्युक्तास्ततस्तेस्तु जग्मुर्वैवस्वतात्मजाः।
इक्ष्वाकोश्चाश्वमेधेन चेलः किम्पुरुषोऽभवत्।। १२.११ ।।
मासमेकम्पुमान्वीरः स्त्री च मासमभूत् पुनः।
बुधस्य भवने तिष्ठन्निलो गर्भधरोऽभवत्।। १२.१२ ।।
अजीजनत् पुत्रमेकमनेक गुणसंयुतम्।
बुधश्चोत्पाद्य तं पुत्रं स्वर्लोकमगमत्ततः।। १२.१३ ।।
इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा।
सोमार्कवंशयोरादाविलोऽभून्मनुनन्दनः।। १२.१४ ।।
एवं पुरूरवाः पुंसोरभवद्वंशवर्द्धनः।
इक्ष्वाकुरर्कवंशस्य तथैवोक्तस्तपोधनाः।। १२.११५ ।।
इलः किम्पुरुषत्वे च सुद्युम्न इति चोच्यते।
पुनः पुत्रत्रयमभूत् सुद्युम्नस्यापराजितम्।। १२.१६ ।।
उत्कलो वै गयस्तद्वद्धरिताश्वश्च वीर्य्यवान्।
उत्कलस्योत्कला नाम गयस्यतु गयामता।। १२.१७ ।।
हरिताश्वस्य दिक्‌पूर्वो विश्रुता कुरुभिः सह।
प्रतिष्ठानेऽभिषिच्याथ स पुरूपवसं सुतम्।। १२.१८ ।।
जगामेलावृतं भोक्तुं वर्षं दिव्यफलाशनम्।
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान्।। १२.१९ ।।
नरिष्यन्तस्य पुत्रोऽभूच्छुचो नाम महाबलः।
नाभागस्याम्बरीषस्तु धृष्टस्य च सुतत्रयम्।। १२.२० ।।
धृतकेतुश्चित्रनाथो रणधृष्टश्च वीर्य्यवान्।
आनर्तो नाम शर्यातेः सुकन्याचैव दारिका ।। १२.२१ ।।
आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान्।
आनर्तो नाम देशोऽभून्नगरीच कुशस्थली।। १२.२२ ।।
रोचमानस्य पुत्रोऽभूदेवो रैवत एव च।
ककुद्मीचापरान्नाम ज्येष्ठः पुत्रशतस्य च।। १२.२३ ।।
रेवती तस्य सा कन्या भार्या रामस्य विश्रुता।
करूषस्य तु कारूषा बहवः प्रथिता भुवि।। १२.२४ ।।
पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत।
इक्ष्वाकुवंशं वक्ष्यामि श्रृणुध्वमृषिसत्तमाः!।। १२.२५ ।।
इक्ष्वाकोः पुत्रतामाप विकुक्षिर्नाम देवराट्।
ज्येष्ठः पुत्रशतस्यासीद्दश पञ्च च तत्सुताः।। १२.२६ ।।
मेरोरुत्तरतस्तेतु जाताः पार्थिवसत्तमाः।
चतुर्दशोत्तरञ्चान्यच्छ्रुतमस्य तथाभवत्।। १२.२७ ।।
मेरोर्दक्षिणतो ये वै राजानः सम्प्रकीर्त्तिताः।
ज्येष्ठः ककुत्स्थो नाम्नाऽभूत्तत्सुतस्तु सुयोधनः।। १२.२८ ।।
तस्य पुत्रः पृथुर्नाम विश्वगश्च पृथोः सुतः।
इन्दुस्तस्य च पुत्रोऽभूद्युवनाश्वस्ततोऽभवत्।। १२.२९ ।।
श्रावस्तश्चमहातेजा वत्सकस्तत्सुतोऽभवत्।
निर्मिता येन श्रावस्ती गौड देशे द्विजोत्तमाः।। १२.३० ।।
श्रावस्ताद् बृहदश्वोऽभूत् कुवलाश्वस्ततोऽभवत्।
धुन्धुमारत्वमगमद् धुन्धुं नाम्ना हतः पुरा।। १२.३१ ।।
तस्य पुत्रास्त्रयो जाता दृढाश्वो दण्डप एव च।
कपिलाश्वश्च विख्यातो धौन्धुमारिः प्रतापवान्।। १२.३२ ।।
द्रुढाश्वस्य प्रमोदश्च हर्यश्वस्तस्य चात्मजः।
हर्यश्वस्य निकुम्भोऽभूत्संहताश्वस्ततोऽभवत्।। १२.३३ ।।
अकृताश्वोरणाश्वश्च संहताश्व सुतावुभौ।
युवनाश्वोरणाश्वस्य मान्धाता च ततोऽभवत्।। १२.३४ ।।
मान्धातुः पुरुकुत्सो धर्म्मसेनश्च पार्थिवः।
मुचुकुन्दश्च विख्यातः शत्रुजिच्च प्रतापवान्।। १२.३५ ।।
पुरुकुत्सस्य पुत्रोऽभूद्वसूदो नर्म्मदापतिः।
सम्भूतिस्तस्यपुत्रोऽभूत्त्रिधन्वा च ततोऽभवत्।। १२.३६ ।।
त्रिधन्वनः सुतोजातस्त्रय्यारुण इति स्मृतः।
तस्मात्सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः।। १२.३७ ।।
तस्य पुत्रो हरिश्चन्द्रो हरिश्चन्द्राच्च रोहितः।
रोहिताच्च वृको जातो वृकाद् बाहुरजायत।। १२.३८ ।।
सगरस्तस्य पुत्रोऽभूद्राजा परमधार्मिकः।
द्वे भार्य्ये सगरस्यापि प्रभा भानुमती तथा।। १२.३९ ।।
ताभ्यामाराधितः पूर्वमौर्वोऽग्निः पुत्रकाम्यया।
और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम्।। १२.४० ।।
एका षष्टिसहस्राणि सुतमेकं तथापरा।
गृह्णातु वंशकर्तारं प्रभाऽगृह्णाद्‌ बहूंस्तदा।। १२.४१ ।।
एकं भानुमती पुत्रमगृह्णादसमञ्जसम्।
ततः षष्ठिसहस्राणि सुषुवे यादवी प्रभा।। १२.४२ ।।
खनन्तः पृथिवीं दग्धा विष्णुना येऽश्वमार्गणे।
असमञ्जसस्तु तनयो योंऽशुमान्नाम विश्रुतः।। १२.४३ ।।
तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः।
येन भागीरथी गङ्गा तपः कृत्वावतारिता।। १२.४४ ।।
भगीरथस्य तनयो नाभाग इति विश्रुतः।
नाभागस्यांबरीषोऽभूत्सिन्धुद्वीपस्ततोऽभवत्।। १२.४५ ।।
तस्यायुतायुः पुत्रोऽभूद्रृतुपर्णस्ततोऽभवत्।
तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः ।।१२.४६ ।।
तस्यानरण्यः पुत्रोऽभूत् निघ्नस्तस्य सुतोऽभवत्।
निघ्नपुत्रावुभौ जातौ अनमित्ररघू नृपौ।।१२.४७।।
अनिमित्रो वनमगाद्भविता स कृते नृपः।
रघोरभूद् दिलीपस्तु दिलीपादजकस्तथा।। १२.४८ ।।
दीर्घबाहुरजाज्जातश्चाजपालस्ततो नृपः।
तस्माद्दशरथो जातस्तस्य पुत्र चतुष्टयम्।। १२.४९ ।।
नारायणात्मकाः सर्वे रामस्तेष्वग्रजोऽभवत्।
रावणान्तकरस्तद्वद्रघूणां वंशवर्धनः।। १२.५०।।
वाल्मीकिस्तस्य चरितं चक्रे भार्गवसत्तमः।
तस्य पुत्रौ कुशलवाविक्ष्वाकुकुलवर्धनौ।। १२.५० ।।
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः।
नलस्तु नैषधस्तस्मान्नभस्तस्मादजायत।। १२.५१ ।।
नभसः पुण्डरीकोऽभूत् क्षेमधन्वा ततः स्मृतः।
तस्य पुत्रोऽभवद्वीरो देवानीकः प्रतापवान्।। १२.५२ ।।
अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः।
ततश्चन्द्रावलोकस्तु तारापीडस्ततोऽभवत्।। १२.५३ ।।
तस्यात्मजश्चन्द्रगिरिः भानुश्चन्द्रस्ततोऽभवत्।
श्रुतायुरभवत्तस्माद् भारते यो निपातितः।। १२.५४ ।।
नलौद्वावेवविख्यातौ वंशे कश्यपसम्भवे।
वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः।। १२.५५ ।।
एते वैवस्वते वंशे राजानो भूरिदक्षिणाः।
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्त्तिताः।। १२.५६ ।।
मनुरुवाच।
भगवन्! श्रोतुमिच्छामि पितॄणां वंशमुत्तमम्।
रवेश्च श्राद्धदेवत्वं सोमस्य च विशेषतः॥ १३.१ ॥
हन्त ते कथयिष्यामि पितॄणां वंशमुत्तमम्।
स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्त्तयः॥ १३.२ ॥
मूर्तिमन्तोऽथ चत्वारः सर्वेषाममितौजसः।
अमूर्तयः पितृगणा वैराजस्य प्रजापतेः॥ १३.३ ॥
यजन्ति यान् देवगणा वैराजा इति विश्रुताः॥
दिवि ते योगविभ्रष्टाः प्राप्य लोकान् सनातनान्॥ १३.४ ॥
पुनर्ब्रह्मविदान्ते तु जायन्ते ब्रह्मवादिनः।
संप्राप्यतां स्मृतिं भूयो योगं साङ्ख्यमनुत्तमम्॥ १३.५ ॥
सिद्धिं प्रयान्ति योगेन पुनरावृत्तिदुर्लभाम्।
योगिनामेव देयानि तस्माच्छ्राद्धानि दातृभिः॥ १३.६ ॥
एतेषां मानसीकन्या पत्नी हिमवतो मता।
मैनाकस्तस्य दायादः क्रौञ्चस्तस्याग्रजोऽभवत्॥ १३.७ ॥
क्रौञ्चद्वीपः स्मृतो येन चतुर्थो घृतसंवृतः।
मेना च सुषुवे तिस्रः कन्या योगवतीस्ततः॥ १३.८ ॥
उमैकपर्णा पर्णा च तीव्र व्रतपरायणाः।
रुद्रस्यैका सितस्यैका जैगीषव्यस्य चापरा॥ १३.९ ॥
ऋषय ऊचुः।
दत्ता हिमवता बालाः सर्वा लोके तपोऽधिकाः।
कस्माद्दाक्षायणी पूर्वं ददाहात्मानमात्मना॥ १३.१० ॥
हिमवद्दुहिता तद्वत् कथं जाता महीतले।
संहरन्ती किमुक्तासौ सुता वा ब्रह्मसूनुना॥ १३.११ ॥
दक्षेण लोकजननी सूत! विस्तरतो वद।
सूत उवाच।
दक्षस्य यज्ञे वितते प्रभूतवरदक्षिणे॥ १३.१२ ॥
समाहूतेषु देवेषु प्रोवाच पितरं सती।
किमर्थं तात! भर्ता मे यज्ञेऽस्मिन्नाभिमन्त्रितः॥ १३.१३ ॥
अयोग्य इति तामाह दक्षो यज्ञेषु शूलभृत्।
उपसंहारकृद्रुद्रस्तेनामंगलभागयम्॥ १३.१४ ॥
चुकोपाथ सती देहं त्यक्षामीति त्वदुद्भवम्।
दशानान्त्वञ्च भविता पितॄणामेक पुत्रकः॥ १३.१५ ॥
क्षत्रियत्वेऽश्वमेधे च रुद्रा त्वं नाशमेष्यसि।
इत्युक्त्वा योगमास्थाय स्वदेहोद्भव तेजसा॥ १३.१६ ॥
निर्दहन्ती तदात्मानं सदेवासुरकिन्नरैः।
किं किमेतदिति प्रोक्ता गन्धर्व गण गुह्यकैः॥ १३.१७ ॥
उपगम्याब्रवीद्दक्षः प्रणिपत्याथ दुःखितः।
त्वमस्य जगतो माता जगत्सौभाग्य देवता॥
दुहितृत्वङ्गता देवि ममानुग्रह काम्यया।
न त्वया रहितं किञ्चित् ब्रह्माण्डे सचराचरम्॥ १३.१८ ॥
प्रसादं कुरु धर्मज्ञे न मां त्यक्तुमिहार्हसि।
प्राह देवी यदारब्धं तत्‌ कार्य्यं मे न संशयः॥ १३.१९ ॥
किं त्ववश्यं त्वया मर्त्ये हतयज्ञेन शूलिना।
प्रसादे लोकसृष्ट्यर्थं तपः कार्थं ममान्तिके॥ १३.२० ॥
प्रजापतिस्त्वं भविता दशानामङ्गजोप्यलम्।
मदंशेनाङ्गना षष्टिर्भविष्यन्त्यङ्गजास्तव॥ १३.२१ ॥
मत्‌सन्निधौ तपः कुर्वन् प्राप्स्यसे योगमुत्तमम्।
एवमुक्तोऽब्रवीद्दक्षः केषु केषु मयाऽनघे॥ १३.२२ ॥
तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः॥ १२.२३ ॥
देव्युवाच।
सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि॥ १३.२४ ॥
सर्वलोकेषु यत्‌ किञ्चिद्रहितं न मया विना।
तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः॥ १३.२५ ॥
स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्वतः।
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी॥ १३.२६ ॥
प्रयागे ललिता देवी कामाक्षी गन्धमादने।
मानसे कुमुदा नाम विश्वकाया तथाम्बरे॥ १३.२७ ॥
गोमन्ते गोमती नाम मन्दरे कामचारिणी।
मदोत्कटा चैत्ररथे जयन्ती हस्तिना पुरे॥ १३.२८॥
कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते।
एकाम्भके कीर्तिमती विश्वां विश्वेश्वरे विदुः॥ १३.२९ ॥
पुष्करे पुरुहूतेति केदारे मार्गदायिनी।
नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका॥ १३.३० ॥
स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्रिका।
श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा॥ १३.३१ ॥
जया वराहशैले तु कामला कमलालये।
रुद्रकोट्याञ्च रुद्राणी काली कालञ्जरे गिरौ॥ १३.३२ ॥
महालिंगे तु कपिला मर्कोटे मुकुटेश्वरी।
शालिग्रामे महादेवी शिवलिंगे जलप्रिया॥ १३.३३ ॥
मायापुर्यां कुमारी तु सन्ताने ललिता तथा।
उत्पलाक्षीसहस्राक्षे कमलाक्षे महोत्पला॥ १३.३४ ॥
गंगायां मंगला नाम विमला पुरुषोत्तमे।
विपाशायाममोघाक्षी पाटला पुण्ड्रवर्द्धने॥ १३.३५ ॥
नारायणी सुपार्श्वे तु विकूटे भद्रसुन्दरी।
विपुले विपुला नाम कल्याणी मलयाचले॥ १३.३६ ॥
कोटवी कोटितीर्थे तु सुगन्धा माधवे वने।
कुब्जाग्रके त्रिसन्ध्या तु गंगाद्वारे रतिप्रिया॥ १३.३७ ॥
शिवकुण्डे सुनन्दा तु नन्दिनी देविका तटे।
रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥ १३.३८ ॥
देवकी मथुरायान्तु पाताले परमेश्वरी।
चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी॥ १३.३९ ॥
सह्याद्रावेकवीरा तु हर्मचन्द्रेति चन्द्रिका।
रमणा रामतीर्थे तु यमुनायां मृगावती॥ १३.४० ॥
करवीरे महालक्ष्मी रुमादेवी विनायके।
अरोगा वैद्यनाथे तु महाकाले महेश्वरी॥ १३.४१ ॥
अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे।
माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे पुरे॥ १३.४२ ॥
छागलण्डे प्रचण्डातु चण्डिका मकरन्दके।
सोमेश्वरे वरारोहा प्रभासे पुष्करावती॥ १३.४३ ॥
देवमाता सरस्वत्यां पारा पारातटे मता।
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी॥ १३.४४ ॥
सिंहिका कृतशौचे तु कार्त्तिकेये यशस्करी।
उत्पलावर्त्तके लोला सुभद्रा शोणसङ्गमे॥ १३.४५ ॥
माता सिद्धपुरे लक्ष्मीरङ्गना भरताश्रमे।
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते॥ १३.४६॥
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले।
भीमा देवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा॥ १३.४७ ॥
कपालमोचने शुद्धिर्माता कायावरोहणे।
शङ्कोद्धारे धरा नाम धृतिः पिण्डारके तथा॥ १३.४८ ॥
कालातु चन्द्रभागाया मच्छोदे शिवकारिणी।
वेणायाममृता नाम बदर्यामुर्वशी तथा॥ १३.४९ ॥
औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका।
मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी॥ १३.५० ॥
अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये।
गायत्री वेदवदने पार्वती शिवसन्निधौ॥ १३.५१ ॥
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती।
सूर्य्यबिम्बे प्रभा नाम मातॄणां वैष्णवीमता॥ १३.५२ ॥
अरुन्धती सतीनान्तु रामासु च तिलोत्तमा।
चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम्॥ १३.५३ ॥
एतदुपदेशतः प्रोक्तं नामाष्टशतमुत्तमम्।
अष्टोत्तरञ्च तीर्थानां शतमेतदुदाहृतम्॥ १३.५४ ॥
यः स्मरेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते।
एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मां नरः॥ १३.५५ ॥
सर्व पापविनिर्मुक्तः कल्पं शिवपुरे वसेत्।
यस्तु मत्परमं कालं करोत्येतेषु मानव॥ १३.५६ ॥
स भित्त्वा ब्रह्मसदनं पदमभ्येति शाङ्करम्।
नाम्नामष्टशतं यस्तु श्रावयेच्छिवसन्निधौ॥ १३.५७ ॥
तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः।
गोदाने श्राद्धदाने वा अहन्यहनि वा बुधः॥ १३.५८ ॥
देवार्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति।
एवं वदन्ती सा तत्र ददाहात्मानमात्मना॥ १३.५९ ॥
स्वायभ्भुवोऽपि कालेन दक्षः प्राचेतसोऽभवत्।
पार्वती साभवद्देवी शिवदेहार्द्धधारिणी॥ १३.६० ॥
मेना गर्भ समुत्पन्ना भिक्ति मुक्ति फलप्रदा।
अरुन्धती जपन्त्येतत् प्राप योगमनुत्तमम्॥ १३.६१ ॥
पुरूरवाश्च राजर्षिर्लोके व्यजयतामगात्।
ययातिः पुत्रलाभञ्च धनलाभञ्च भार्गवः॥ १३.६२ ॥
तथान्ये देव दैत्याश्च ब्राह्मणाः क्षत्रियास्तथा।
वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम्॥ १३.६३ ॥
यत्रैतल्लिखितं तिष्ठेत् पूज्यते देवसन्निधौ।
न तत्र शोको दौर्गत्यं कदाचिदपि जायते॥ १३.६४ ॥
इति श्रीमत्स्यपुराणे पितृवंशान्वये गौरीनामाष्टोत्तरशतकथनं नाम त्रयोदशोऽध्यायः॥ १३.६३ ॥
पितृवंशानुकीर्त्तनम्।
सूत उवाच।
लोकाः सोमपथा नाम यत्र मारीचनन्दनाः।
वर्त्तन्ते देवपितरो देवा यान् भावयन्त्यलम्।। १४.१ ।
अग्निष्वात्ता इति ख्याता यज्वानो यत्रसंस्थिताः।
अच्छोदा नाम तेषान्तु मानसी कन्यकानदी।। १४.२ ।।
अच्छोदन्नाम च सरः पितृभिर्निर्मितं पुरा।
अच्छोदा तु तपश्चक्रे दिव्यं वर्ष सहस्रकम्।। १४.३ ।।
आजग्मुः पितरस्तुष्टाः किलदातुञ्च तां वरम्।
दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः।। १४.४ ।।
सर्वे युवानो बलिनः कुसुमायुधसन्निभाः।
तन्मध्येऽमावसुं नाम पितरं वीक्ष्य सांऽगना।। १४.५ ।।
वव्रे वरार्थिनी संगं कुसुमायुधपीडिता।
योगाद्‌भ्रष्टा तु सा तेन व्यभिचारेण भामिनी।। १४.६ ।।
धरान्तु नास्पृशत् पूर्वं पपाताथ भुवस्तले।
तिथावमावसूर्यस्यामिच्छां चक्रे न तां प्रति।। १४.७ ।।
धैर्येण तस्य सा लोकैरमावास्येति विश्रुता।
पितॄणां वल्लभा तस्य तस्यामक्षयकारकम्।।१४.८।।
अच्छोदाऽधोमुखीदीना लज्जिता तपसः क्षयात्।
सा पितॄन्‌ प्रार्थयामास पुरे चात्मप्रसिद्धये।। १४.९ ।।
विलप्यमाना पितृभिरिदमुक्ता तपस्विनी।
भविष्यमर्थमालोक्य देवकार्यञ्च ते तदा।। १४.१० ।।
इदमूचुर्म्महाभागाः प्रसाद शुभयागिरा।
दिवि दिव्यशरीरेण यत्‌ किञ्चित् क्रियते बुधैः।। १४.१० ।।
तेनैव तत्कर्म्मफलं भुज्यते वरवर्णिनि।
सद्यं फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे।। १४.११ ।।
तस्मात्त्वं पुत्रि! तपसः प्राप्स्यसे प्रेत्य तत्फलम्।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्य योनिजा।। १४.१२ ।।
व्यतिक्रमात्‌ पितॄणां त्वं कष्टं कुलमवाप्स्यसि।
तस्माद्राज्ञोवसोः कन्या त्वमवश्यं भविष्यसि ।। १४.१३ ।।
कन्या भूत्वा च लोकान् स्वान् पुनराप्स्यसि दुर्लभान्।
पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि।। १४.१४ ।।
द्वीपे तु बदरीप्राये बादरायणमच्युतम्।
स वेदमेकं बहुधा विभजिष्यति ते सुतः।। १४.१५ ।।
पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शन्तनोः।
विचित्रवीर्य्यस्तनयस्तथा चित्राङ्गदो नृपः।। १४.१६ ।।
इमावुत्पाद्य तनयौ क्षेत्रजावस्य धीमतः।
प्रौष्ठपद्यष्टकारूपा पितृलोके भविष्यसि।। १४.१७ ।।
नाम्ना सत्यवती लोके पितृलोके तथाष्टका।
आयुरारोग्यदा नित्यं सर्वकाम फलप्रदा।। १४.१८ ।।
भविष्यसि परे काले नदीत्वञ्च गमिष्यसि।
पुण्यतोयासरिच्छ्रेष्ठा लोकेह्यच्छोद नामिका।। १४.१९ ।।
इत्युक्त्वा सगणस्तेषां तत्रैवान्तरधीयत।
साप्यवाप च तत्सर्वं फलं तदुदितं पुरा।। १४.२० ।।
पितृवंशानुकीर्त्तनम्।
सूत उवाच।
विभ्राजा नाम चान्येतु दिवि सन्ति सुवर्चसः।
लोका बर्हिषदो यत्र पितरः सन्ति सुव्रताः।। १५.१ ।।
यत्र बर्हिण युक्तानि विमानानि सहस्रशः।
सङ्कल्प्य बर्हिषो यत्र तिष्ठन्ति फलदायिनः।। १५.२ ।।
यत्राभ्युदय शालासु मोदन्ते श्राद्धदायिनः।
यांश्च देवासुरगणा गन्धर्वाप्सरसां गणाः।। १५.३ ।।
यक्षरक्षोगणाश्चैव यजन्ति दिवि देवताः।
पुलस्त्यपुत्राः शतशस्तपोयोगसमन्विताः।। १५.४ ।।
महात्मानो महाभागा भक्तानामभयप्रदाः।
एतेषां पीवरी कन्या मानसी दिविविश्रुता।। १५.५ ।।
योगिनी योगमाता च तपश्चक्रे सुदारुणम्।
प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा हरेः।। १५.६ ।।
योगवन्तं सुरूपंच भर्तारं विजितेन्द्रियम्।
देहि देव! प्रसन्नस्त्वं पतिं मे वदताम्वरम्।। १५.७ ।।
उवाच देवो भविता व्यासपुत्रो यदा शुकः।
भविता तस्य भार्यात्वं योगाचार्यस्य सुव्रते।। १५.८ ।।
भविष्यति च ते कन्या कृत्वी नाम च योगिनी।
पाञ्चालाधिपतेर्देया मानुष्यस्य त्वया तदा।। १५.९ ।।
जननी ब्रह्मदत्तस्य योगसिद्धा च गौस्मृता।
कृष्णोगौरः प्रभुः शम्भुर्भविष्यन्ति च ते सुताः।। १५.१० ।।
महात्मानो महाभागा गमिष्यन्ति परम्पदम्।
तानुत्पाद्यपुनर्योगात्सवरा मोक्षमेष्यसि।। १५.११ ।।
सुमूर्त्तिमन्तः पितरो वशिष्ठस्य सुता स्मृताः।
नाम्ना तु मानसाः सर्वे सर्वे ते धर्म्ममूर्त्तयः।। १५.१३ ।।
ज्योतिर्भासिषु लोकेषु ये वसन्ति दिवः परम्।
विराजमानाः क्रीडन्ति यत्र ते श्राद्धदायिनः।। १५.१४ ।।
सर्वकाम समृद्वेषु विमानेष्वपिपादजाः।
किं पुनः श्राद्धदा विप्र भक्तिमन्तः क्रियान्विताः।। १५.१५ ।।
गौर्नाम कन्या येषान्तु मानसी दिवि राजते।
शुकस्य दयिता पत्नी साध्यानां कीर्त्तिवर्द्धिनी।। १५.१६ ।।
मरीचिगर्भा नाम्ना तु लोका मार्तण्डमण्डले।
पितरो यत्र तिष्ठन्ति हविष्मन्तोऽङ्गिरः सुताः।। १५.१७ ।।
तीर्थश्राद्धप्रदा यान्ति ये च क्षत्रियसत्तमाः।
राज्ञान्तु पितरस्ते वै स्वर्ग मोक्ष फलप्रदाः।। १५.१८ ।।
एतेषां मानसी कन्या यशोदा लोकविश्रुता।
पत्नी ह्यंशुमतः श्रेष्ठा स्नुषा पंचजनस्य च।। १५.१९ ।।
जनन्यथ दिलीपस्य भगीरथपितामही।
लोकाः कामदुघा नाम कामभोगफलप्रदाः।। १५.२० ।।
सुस्वधा नाम पितरो यत्र तिष्ठन्ति सुव्रताः।
आज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः।। १५.२१ ।।
पुलहाङ्गज दायादा वैश्यास्तान् भावयन्ति च।
यत्र श्राद्धकृताः सर्वे पश्यन्ति युगपद् गताः।। १५.२२ ।।
मातृ भ्रातृ पितृष्वसृ सखि सम्बन्धि बान्धवान्।
अपि जन्मायुतैर्द्रृष्टाननुभूतान्सहस्रशः।। १५.२३ ।।
एतेषां मानसी कन्या विरजा नाम विश्रुता।
या पत्नी नहुषस्यासीद्ययातेर्जननी तथा।। १५.२४ ।।
एकाष्टकाऽभवत् पश्चाद् ब्रह्मलोके गता सती।
त्रय एते गणाः प्रोक्ताश्चतुर्थन्तु वदाम्यतः।। १५.२५ ।।
लोकास्तु मानसा नाम ब्रह्माण्डोपरि संस्थिताः।
येषान्नु मानसी कन्या नर्मदा नाम विश्रुता।। १५.२६ ।।
सोमपा नाम पितरो यत्र तिष्ठन्ति शाश्वताः।
कृत्वा सृष्ट्यादिकं सर्वं मानसे साम्प्रतं स्थिताः।। १५.२७ ।।
नर्मदा नाम तेषान्तु कन्या तोयवहासरित्।
भूतानि या पावयति दक्षिणापथगामिनी।। १५.२८ ।।
तेभ्यः सर्वे तु मनवः प्रजाः सर्गेषु निर्मिताः।
ज्ञात्वा श्राद्धानि कुर्वन्ति धर्माभावेऽपि सर्वदा।। १५.२९ ।।
तेभ्य एव पुनः प्राप्तुं प्रसादाद्योगसन्ततिम्।
पितॄणामादिसर्गे तु श्राद्धमेवविनिर्मितम्।। १५.३० ।।
सर्वेषां राजतं पात्रमथवा रजतान्वितम्।
दत्तं स्वधा पुरोधाय पितॄन् प्रीणाति सर्वदा।। १५.३१ ।।
अग्नीषोमयमानान्तु कार्य्यमाप्यायनं बुधैः।
अग्न्यभावेऽपि विप्रस्य पाणावापि जलेऽथवा।। १५.३२ ।।
अजाकर्णेऽश्वकर्णे वा गोष्ठे वा सलिलान्तिके।
पितॄणामम्बरं स्थानं दक्षिणा दिक् प्रशस्यते।। १५.३३ ।।
प्राचीनावीतमुदकं तिलाः सव्याङ्गमेव च।
दर्भा मांसं च पाठीनं गोक्षीरं मधुरा रसाः।। १५.३४ ।।
खड्‌ग लोहामिषमधु कुशश्यामाकशालयः।
यवनीवारमुद्गेक्षु शुक्लपुष्पघृतानि च।। १५.३५ ।।
वल्लभानि प्रशस्तानि पितॄणामिहसर्वदा।
द्वेष्याणि सम्प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि तु।। १५.३६ ।।
मसूरशणनिष्पावराजमाषकुसुम्भिकाः।
पद्मबिल्वार्कधत्तूर पारिभद्राट्टरूषकाः।। १५.३७ ।।
न देयाः पितृकार्येषु पयश्चाजाविकं तथा।
कोद्रवोदारचणकाः कपित्थं मधुकातसी।। १५.३८ ।।
एतान्यपि न देयानि पितृभ्यः प्रियमिच्छता।
पितॄन् प्रीणाति यो भक्त्या ते पुनः प्रीणयन्ति तम्।। १५.३९ ।।
यच्छन्ति पितरः पुष्टिं स्वर्गारोग्यं प्रजाफलम्।
देवकार्यादपि पुनः पितृकार्य्यं विशिष्यते।। १५.४० ।।
देवानाञ्चपितरः पूर्वमाप्यायनं स्मृतम्।
शीघ्रप्रसादास्त्वक्रोधा निःशस्त्राः स्थिरसौहृदाः।। १५.४१ ।।
शान्तात्मानः शौचपराः सततं प्रियवादिनः।
भक्तानुरक्ताः सुखदाः पितरः पूर्वदेवताः।। १५.४२ ।।
हविष्मतामाधिपत्ये श्राद्धदेवः स्मृतो रविः।
एतद्वः सर्वमाख्यातं पितृवंशानुकीर्त्तनम्।।
पुण्यं पवित्रमायुष्यं कीर्त्तनीयं सदा नृभिः।। १५.४३ ।।
श्राद्धप्रकरणम्।
सूत उवाच।
श्रुत्वैतत्सर्वमखिलं मनुः पप्रच्छ केशवम्।
श्राद्धकालञ्च विविधं श्राद्धभेदं तथैव च।। १६.१ ।।
श्राद्धेषु भोजनीया ये ये च वर्ज्या द्विजातयः।
कस्मिन्वासरभागेवा पितृभ्यः श्राद्धमाचरेत्।। १६.२ ।।
कस्मिन्दत्तं कथं याति श्राद्धन्तु मधुसूदन।
विधिना केन कर्त्तव्यं कथं प्रीणाति तत्पितॄन्।। १६.३ ।।
मत्स्य उवाच।
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा।
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन्।। १६.४ ।।
नित्यन्नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते।
नित्यं तावत्प्रवक्ष्यामि अर्घ्यावाहनवर्जितम्।। १६.५ ।।
अदैवं तद्विजानीयात् पार्वणं पर्वसु स्मृतम्।
पार्वणं त्रिविधं प्रोक्तं श्रृणु तावन्महीपते!।। १६.६ ।।
पार्वणे ये नियोज्यास्तु ताञ्छृणुष्व नराधिप!।।
पञ्चाग्निः स्नातकश्चैव त्रिसुपर्णः षडङ्गवित्।
श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः।। १६.७ ।।
सर्वज्ञो वेदविन्मन्त्री ज्ञातवंशः कुलान्वितः।
पुराणवेत्ता धर्म्मज्ञः स्वाध्यायजपतत्परः।। १६.८ ।।
शिवभक्तः पितृपरः सूर्य्यभक्तोऽथ वैष्णवः।। १६.९ ।।
ब्रह्मण्यो योगविच्छान्तो विजितात्मा च शीलवान्।
भोजयेच्चापि दौहित्रं यत्नतः स्वसुहृद्‌गुरून्।। १६.१० ।।
विद्यतिं मातुलं बन्धुमृत्विगाचार्यसोमपान्।
यश्च व्याकुरुते वाक्यं यश्च मीमांसतेऽध्वरम्।। १६.११ ।।
सामस्वरविधिज्ञश्च पङ्क्तिपावनपावनः।
सामगोब्रह्मचारी च वेदयुक्तोऽथ ब्रह्मवित्।। १६.१२ ।।
यत्रैते भुञ्जते श्राद्धे तदेव परमार्थवित्।
एते भोज्याः प्रयत्नेन वर्जनीयान्निबोध मे।। १६.१३ ।।
पतितोऽभिशस्तः क्लीबश्च पिशुनव्यङ्गरोगिणः।
कुनखीश्यावदन्तश्च कुण्डगोलाश्वपालकाः।। १६.१४ ।।
परिवित्तिर्नियुक्तात्मा प्रमत्तोन्मत्तदारुणाः।
वैडाली वकवृत्तिश्च दम्भो देवलकादयः।। १६.१५ ।।
कृतध्नान्नास्तिकांस्तद्वन्म्लेच्छदेशनिवासिनः।
त्रिशङ्कर्वर्वरद्राववीतद्रविडकोकणान्।। १६.१६ ।।
वर्जयेल्लिङ्गिनः सर्वान् श्राद्धकाले विशेषतः।
पूर्वेद्युरपरेद्युर्वा विनीतात्मा निमन्त्रयेत्।। १६.१७ ।।
निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान्।
वायुभूतानुगच्छन्ति तथासीनानुपासते।। १६.१८ ।।
दक्षिणं जानुमालभ्य त्वं मया तु निमन्त्रितः।
एवं निमन्त्र्य नियमं श्रावयेत्पितृबान्धवान्।.१६.१९ ।।
अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः।
भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा।। १६.२० ।।
पितृयज्ञं विनिर्वर्त्य तर्पणाख्यन्तु योऽग्निमान्।
पिण्डान्वाहार्यकं कुर्य्याच्छ्राद्धमिन्दुक्षये मुदा।। १६.२१ ।।
गोमयेनोपलिप्ते तु दक्षिणप्रवणे स्थले।
श्राद्धं समाचरेद् भक्त्या गोष्ठे वा जलसन्निधौ।। १६.२२ ।।
अग्निमान्निर्वपेत्पित्र्यं चरुञ्चसाममुष्टिभिः।
पितृभ्यो निर्वपामीति सर्वंदक्षिणतो न्यसेत्।। १६.२३ ।।
अभिधार्यं ततः कुर्य्यान्निर्वापत्रयमग्रतः।
तेपि तस्यायताः कार्य्याश्चतुरङ्गुलविस्तृताः।। १६.२४ ।।
दर्व्वीत्रयन्तु कुर्व्वीत खादिरं रजतान्वितम्।
रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम्।। १६.२५ ।।
उदपात्रञ्च कांस्यञ्च मेक्षणञ्चसमित्कुशान्।
तिलाः पात्राणिसद्वासो गन्ध धूपानुलेपनम्।। १६.२६ ।।
आहरेदपसव्यन्तु सर्वं दक्षिणतः शनैः।
एवमासाद्य तत्सर्वं भवनस्याग्रतो भुवि।। १६.२७ ।।
गोमयेनोपलिप्तायां गोमूत्रेण तु मण्डलम्।
अक्षताभिः सपुष्पाभिस्तदभ्यर्च्यापसव्यवत्।। १६.२८ ।।
विप्राणां क्षालयेत्पादावभिनन्द्य पुनः पुनः।
आसनेषूपक्लृप्तेषु दर्भवत्सु विधानवत्।। १६.२९ ।।
उपस्पृष्टोदकान्विप्रानुपवेश्यानुमन्त्रयेत्।
द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र च।। १६.३० ।।
भोजयेदीश्वरोऽपीह न कुर्य्याद्विस्तरं बुधः।
दैवपूर्वं नियोज्याथ विप्रानर्घ्यादिना बुधः।। १६.३१ ।।
अग्नौ कुर्यादनुज्ञातो विप्रे विप्रो यथाविधि।
स्वगृह्योक्तविधानेन कांस्ये कृत्वा चरुं ततः।। १६.३२ ।।
अग्नीषोमयमाभ्यान्तु कुर्यादाप्यायनं बुधः।
दक्षिनाग्नौ प्रतीते वा य एकाग्निर्द्विजोत्तमः।। १६.३३ ।।
यज्ञोपवीती निर्वर्त्य ततः पर्युक्षणादिकम्।
प्राचीनावीतिना कार्यमतः सर्वं विजानता।। १६.३४ ।।
षट्‌चतस्माद्धविः शेषात्‌ पिण्डा न्‌ कृत्वा ततोदकम्।
दद्यादुदकपात्रैस्तु सतिलं सव्यपाणिना।। १६.३५ ।।
जान्वाच्य सव्यं यत्नेन दर्भयुक्तो विमत्सरः।
विधाय लेखा यत्नेन निर्वापेष्ववनेजनम्।। १६.३६ ।।
दक्षिणाभिमुखः कुर्य्यात्करे दर्वीं निधाय वै।
निधाय पिण्डमेकैकं सर्वदर्भेष्वनुक्रमात्।। १६.३७ ।।
निनयेदथ दर्भेषु नामगोत्रानुकीर्तनैः।
तेषु दर्भेषु तं हस्तं निमृज्याल्लोपभागिनाम्।। १६.३८ ।।
तथैव च ततः कुर्यात् पुनः प्रत्यवनेजनम्।
षडप्येतान्नमस्कृत्य गन्ध धूपार्हणादिभिः।। १६.३९ ।।
एवमावाह्य तत्‌ सर्वं वेदमन्त्रैर्यथोदितैः।
एकाग्नेरेक एव स्यान्निर्वापोदर्विका तथा।। १६.४० ।।
ततः कृत्वान्तरे दद्यात्‌ पत्नीभ्योऽन्नं कुशेषु सः।
तद्वत्‌ पिण्डादिके कुर्यादावाहन विसर्जनम्।। १६.४१ ।।
ततो गृहीत्वा पिण्डेभ्यो मात्राः सर्वाः क्रमेण तु।
तानेव विप्रान्‌ प्रथमं प्राशयेद्यत्नतो नरः।। १६.४२ ।।
यस्मादन्नात् धृता मात्रा भक्षयन्ति द्विजातयः।
अन्वाहार्यकमित्युक्तं तस्मात् तच्चन्द्रसंक्षये।। १६.४३ ।।
पूर्वं दत्त्वातु तद्धस्ते सपवित्रं तिलोदकम्।
तत्‌ पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन्।। १६.४४ ।।
वर्णयन् भोजयेदन्नं मिष्टं पूतञ्च सर्वदा।
वर्जयेत् क्रोधपरतां स्मरन्नारायणं हरिम्।। १६.४५ ।।
तृप्तान् ज्ञात्वा ततः कुर्याद्विकिरन् सार्ववर्णिकम्।
सोदकं चान्नमुद्वृत्य सलिलं प्रक्षिपेद् भुवि।। १६.४६ ।।
आचान्तेषु पुनर्दद्याज्जलपुष्पाक्षतोदकम्।
स्वस्तिवाचनकं सर्वं पिण्डोपरि समाहरेत्।। १६.४७ ।।
देवायत्तं प्रकुर्वीत श्राद्धनाशोऽन्यथा भवेत्।
विसृज्य ब्राह्मणांस्तद्वत् तेषां कृत्वा प्रदक्षिणम्।। १६.४८ ।।
दक्षिणां दिशमाकाङ्क्षन् पितॄन् याचेत मानवः।
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च।। १६.४९ ।।
श्रद्धा च नो माव्यगमत्‌ बहुदेयञ्च नोऽस्त्विति।
अन्नञ्च नो बहुभवेदतिथींश्च लभामहे।। १६.५० ।।
याचितारश्च नः सन्तु मा च याचिष्म कञ्चन।
एतदस्त्विति तत्‌ प्रोक्तमन्वाहार्यन्तु पार्वणम्।। १६.५१ ।।
यथेन्दुसंक्षये तद्वदन्यत्रापि निगद्यते।
पिण्डांस्तुगोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा।। १६.५२ ।।
विप्राग्रतो वा विकिरेद्वयोभिरभिवाशयेत्।
पत्नी तु मध्यमं पिण्डं प्राशयेद्विनयान्विता।। १६.५३ ।।
आधत्त पितरो गर्भमत्र सन्तानवर्धनम्।
तावदुच्छेषणं तिष्ठेद्यावद्विप्रा विसर्जिताः।। १६.५४ ।।
वैश्वदेवं ततः कुर्यान्निवृत्ते पितृकर्मणि।
इष्टैः सह ततः शान्तो भुञ्जीत पितृसेवितम्।। १६.५५ ।।
पुनर्भोजनमध्वानं यानमायासमैथुनम्।
श्राद्धकृच्छ्रादभुक् चैव सर्वमेतद्विवर्जयेत्।। १६.५६ ।।
स्वाध्यायं कलहं चैव दिवा स्वप्नञ्च सर्वदा।
अनेन विधिना श्राद्धं निरद्वस्येह निर्वपेत्।। १६.५६ ।।
कन्याकुम्भवृषस्थेऽर्के कृष्णपक्षेषु सर्वदा।
यत्र यत्र प्रदातव्यं सपिण्डीकरणात्परम्।
तत्रानेन विधानेन देयमग्निमता सदा ।। १६.५७ ।।
साधारणाभ्युदयकीर्त्तनम्।
सूत उवाच।
अतः परं प्रवक्ष्यामि विष्णुना यदुदीरितम्।
श्राद्धं साधारणं नाम भुक्ति मुक्ति फलप्रदम्।। १७.१ ।।
अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे।
अमावास्याष्टकाकृष्णपक्षे पञ्चदशीषु च।। १७.२ ।।
आर्द्रा मघा रोहिणीषु द्रव्यब्राह्मण सङ्गमे।
गजच्छायाव्यतीपाते विष्टि वैधृतिवासरे।। १७.३ ।।
वैशाखस्य तृतीयायां नवमी कार्तिकस्य च।
पञ्चदशी च माघस्य नभस्ये च त्रयोदशी।। १७.४ ।।
युगादयः स्मृता ह्येता दत्तस्याक्षय्यकारिकाः।
तथा मन्वन्तरादौ च देयं श्राद्धं विजानता।। १७.५ ।।
अश्वयुक् शुक्लनवमी द्वादशी कार्तिके तथा।
तृतीया चैत्र मासस्य तथा भाद्रपदस्य च।। १७.६ ।।
फाल्गुनस्य ह्यमावास्या पौषस्यैकादशी तथा।
आषाढस्याऽपि दशमी माघमासस्य सप्तमी।। १७.७ ।।
श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्येष्ठपञ्च दशीसिता।।
मन्वन्तरादयश्चैता दत्तस्याक्षयकारिकाः।। १७.८ ।।
यस्यां मन्वन्तरस्यादौ रथमास्ते दिवाकरः।
माघमासस्य सप्तम्यां सा तु स्याद्रथसप्तमी।। १७.९ ।।
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः।
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्‌ पितरो वदन्ति।।१७.१० ।।
वैशाख्यामुपरागेषु तथोत्सव महालये।
तीर्थायतनगोष्ठेषु द्वीपोद्यानगृहेषु च।। १७.११ ।।
विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता।
विप्रान् पूर्वे परेचाह्नि विनीतात्मा निमन्त्रयेत्।। १७.१२ ।।
शीलवृत्तगुणोपेतान् वयोरूपसमन्वितान्।
द्वौ देवे वींस्तथा पैत्र्ये एकैकमुभयत्र वा।।१७.१३ ।।
भोजयेत्‌ सुसमृद्धोऽपि प्रसज्जेत सुविस्तरे।
विश्वान्‌ देवान्‌ यवैः पुष्पैरभ्यर्च्यासनपूर्वकम्।। १७.१४ ।।
पूरयेत्पात्रयुग्मन्तु स्थाप्य दर्भ पवित्रकम्।
शन्नोदेवीत्यपः कुर्य्याद्यवोऽसीति यवानपि।।१७.१५ ।।
गन्धपुष्पैश्च संपूज्य वैश्वदेवं प्रतिन्यसेत्।
विश्वेदेवास इत्याभ्यामावाह्य विकिरेद्यवान्।। १७.१६ ।।
गुन्धपुप्षैरलङ्‌कृत्य या दिव्येत्यप उत्सृजेत्।
अभ्यर्च्यताभ्यामुत्‌सृष्टं पितृकार्य्यं समारभेत्।। १७.१७ ।।
दर्भासनन्तु तत्त्वादौ त्रीणि पात्राणि पूरयेत्।
सपवित्राणि कृत्वादौ शन्नोदेवीत्यपः क्षिपेत्।। १७.१८ ।।
तिलोऽसीति तिलान् कुर्य्याद्गन्धपुष्पादिकं पुनः।
पात्रं वनस्पतिमयं तथा पर्णमयं पुनः।। १७.१९ ।।
जलजं वाथ कुर्व्वीत तथा सागरसम्भवम्।
सौवर्णं राजतं वापि पितॄणां पात्रमुच्यते।। १७.२० ।।
रजतस्य कथा वापि दर्शनं दानमेव वा।
राजतैर्भाजनैरेषामथवा रजतान्वितैः।। १७.२१ ।।
वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते।
तथार्घ्यपिण्डभौज्यादौ पितॄणां राजतं मतम्।। १७.२२ ।।
शिवनेत्रोद्भवं यस्मात् तस्मात् तत्‌ पितृवल्लभम्।
अमङ्गलं तद्यत्नेन देवकार्येषु वर्जयेत्।। १७.२३ ।।
एवं पात्राणि संङ्कल्प्य यथालाभं विमत्सरः।
या दिव्येति पितुर्नाम गोत्रैर्दर्भकरो न्यसेत्।।१७.२४ ।।
पितॄनावाहयिष्यामि कुर्वित्युक्तस्तु तै पुनः।
उशन्तस्त्वा तथायन्तु ऋग्‌भ्यामावाहयेत् पितॄन्।।१७.२५ ।।
यादिव्येत्यर्घ्यमुत्‌सृज्य दद्याद् गन्धादिकांस्ततः।
हस्तात्तदुदकं पूर्वं दत्त्वा संश्रवमादितः।। १७.२६ ।।
पितृपात्रे निधायाथन्युब्जमुत्तरतो न्यसेत्।
पितृभ्यः स्थानमसीति निधाय परिषेचयेत्।। १७.२७ ।।
तत्रापि पूर्ववत् कुर्यादग्निकार्यं विमत्सरः।
उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत्।। १७.२८ ।।
प्रशान्तचित्तः सततं दर्भपाणिरशेषतः।
गुणाढ्यैः सूपशाकैस्तु नानाभक्ष्यैर्विशेषतः।। १७.२९ ।।
अन्नन्तु सदधिक्षीरं गोघृतं शर्करान्वितम्।
मासं  प्रीणाति वै सर्वान्‌ पितॄनित्याह केशवः।। १७.३० ।।
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्‌ हारिणेन तु।
औरभ्रमेणाथ चतुरः शाकुनेनाथ पञ्च वै।। १७.३१ ।।
षण्मासंच्छागमांसेन तृप्यन्ति पितरस्तथा।
सप्त पार्षतमांसेन तथाष्टा वेणजेन तु।। १७.३२ ।।
दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः।
शशकूर्मज मांसेन मासानेकादशैव तु।। १७.३३ ।।
संवत्सरन्तु गव्येन पयसा पायसेन च।
रौरवेण च तृप्यन्ति मासान् पञ्चदशैव तु।। १७.३४ ।।
व्याघ्र्याः सिंहस्य मांसेन तृप्तिर्द्वादशवार्षिकी।
कालशाकेन चानन्ता खड्‌गमांसेन चैव हि।। १७.३५ ।।
यत्किञ्चिन्मधु संमिश्रं गोक्षीरं घृतपायसम्।
दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः।। १७.३६ ।।
स्वाध्यायं श्रावयेत् पित्र्यं पुराणान्यखिलानि च।
ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च।। १७.३७ ।।
इन्द्राग्निसोमसूक्तानि पावनानि स्वशक्तितः।
बृहद्रथन्तरं तद्वज्ज्येष्ठसामसरौहिणम्।। १७.३८ ।।
तथैव शान्तिकाध्यायं मधु ब्राह्मणमेव च।
मण्डलं ब्राह्मणं तद्वत्‌ प्रीतिकारि तु यत्‌ पुनः।। १७.३९ ।।
विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत्।
भुक्तवत्सु ततस्तेषु भोजनोपान्तिके नृप!।। १७.४० ।।
सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा।
समुत्सृजेद् भुक्तवतामग्रतो विकिरेद् भुवि।। १७.४१ ।।
अग्निदग्धास्तु ये जीवा येऽप्यदग्धाकुले मम।
भूमौ दत्तेन तृप्यन्तु प्रयान्तु परमाङ्गतिम्।। १७.४२ ।।
येषां न माता न पिता न बन्धुर्न गोत्रशुद्धिर्न तथान्नमस्ति।
तत्तृप्तयेऽन्नं भुवि दत्तमेतत् प्रयातु लोकेषु सुखाय तद्वत्।। १७.४३ ।।
असंस्कृतप्रमीतानान्त्यक्तानां कुलयोषिताम्।
उच्छिष्टभागधेयः स्याद्दर्भे विकिरयोश्च यः।। १७.४४ ।।
तृप्ता ज्ञात्वोदकं दद्यात् सकृद्विप्रकरे तथा।
उपलिप्ते महीपृष्ठे गोशकृन्मूत्रवारिणा।। १७.४५ ।।
निधाय दर्भान् विधिवद्दक्षिणाग्रान्‌ प्रयन्ततः।
सर्ववर्णेन चान्नेन पिण्डांस्तु पितृयज्ञवत्।। १७.४६ ।।
अवनेजनपूर्वन्तु नामगोत्रेण मानवः।
गन्ध धूपादिकं दद्यात् कृत्वा प्रत्यवने जनम्।। १७.४७ ।।
जान्वाच्यसव्यं सव्येन पाणिनाथ प्रदक्षिणम्।
पित्र्यमानीय तत्कार्यं विधिवद्दर्भपाणिना।। १७.४८ ।।
दीपप्रज्वालनं तद्वत् कुर्यात्पुष्पार्चनं बुधः।
अथाचान्तेषु चाचम्य वारि दद्यात्‌ सकृत्‌ सकृत्।। १७.४९ ।।
अथ पुष्पाक्षतान् पश्चादक्षय्योदकमेव च।
सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम्।। १७.५० ।।
गो भू हिरण्यवासंसि भव्यानि शयनानि च।
दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च।। १७.५१ ।।
वित्त शठ्येन रहितः पितृभ्यः प्रीतिमावहन्।
ततः स्वधा वाचनकं विश्वेदेवेषु चोदकम्।। १७.५२ ।।
दत्त्वाशीः प्रतिगृह्णीयाद्विश्वेभ्यः प्राङ्मुखो बुधः।
अघोराः पितरः सन्तु सन्त्वित्युक्तः पुनर्द्विजैः।। १७.५२ ।।
गोत्रं तथा वर्द्धन्तान्नस्तथेत्युक्तश्च तै पुनः।
दातारो नोऽभिवर्द्धन्तामिति चैवमुदीरयेत्।। १७.५३ ।।
एताः सत्याशिषः सन्तु सन्त्वित्युक्तश्च तैः पुनः।
स्वस्तिवाचनकं कुर्यात् पिण्डानुद्‌धृत्य भक्तितः।। १७.५४ ।।
उच्छेषणन्तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः।
ततो ग्रहबलिं कुर्यादिति धर्म्मव्यवस्थितिः ।। १७.५५ ।।
उच्छेषणं भूमिगतमजिह्मस्यास्ति कस्य च।
दासवर्गस्य तत्पित्र्यं भागधेयं प्रचक्षते।। १७.५६ ।।
पितृभिर्निर्मितं पूर्वमेतदाप्यायनं सदा।
अपुत्राणां सपुत्राणां स्त्रीणामपि नराधिप!।। १७.५७ ।।
ततस्तानग्रतः स्थित्वा परिगृह्योदपात्रकम्।
वाजेवाज इति जपन् कुशाग्रेण विसर्जयेत्।।१७.५८ ।।
बहिः प्रदक्षिणान्कुर्यात् पदान्यष्टावनुव्रजन्।
बन्धुवर्गेण सहितः पुत्रभार्या समन्वितः।। १७.५९ ।।
निवृत्य प्राणपत्याथ पर्युक्ष्याग्निं समन्त्रवत्।
वैश्वदेवं प्रकुर्वीत नैत्यकं बलिमेव च।। १७.६० ।।
ततस्तु वैश्वदेवान्ते सभृत्य सुत बान्धवः।
भुञ्जीता तिथिसंयुक्तः सर्वं पितृनिषेवितम्।। १७.६१ ।।
एतच्चानुपनीतोऽपि कुर्यात् सर्वेषु पर्वसु।
श्राद्धं साधारणं नाम सर्वकामफलप्रदम्।। १७.६२ ।।
भार्याविरहितोऽप्येतत् प्रवासस्थोऽपि भक्तिमान्।
शूद्रोऽप्यमन्त्रवत् कुर्यादनेन विधिना बुधः।। १७.६३ ।।
तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते।
उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्ले।। १७.६४ ।।
मातरः प्रथमं पूज्याः पितरस्तदनन्तरम्।
ततो मातामहा राजन् विश्वेदेवास्तथैव च।। १७.६५ ।।
प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः।
प्राङ्मुखो निर्वपेत्‌ पिण्डा न् दूर्वया च कुशैर्युतान्।। १७.६६ ।।
सम्पन्नमित्यभ्युदये दद्यादर्घ्यं द्वयोर्द्वयोः।
युग्मा द्विजातयः पूज्या वस्त्रकार्तस्वरादिभिः।। १७.६७ ।।
तिलार्थस्तु यवैः कार्यो नान्दिशब्दानुपूर्वकः।
माङ्गल्यानि च सर्वाणि वाचयेद्‌ द्विजपुङ्गवैः।। १७.६८ ।।
एवं शूद्रोऽपि सामान्य वृद्धिश्राद्धेऽपि सर्वदा।
नमस्कारेण मन्त्रेण कुर्यादामान्नतः सदा।। १७.६९ ।।
दानप्रधानः शूद्रः स्यादित्याह भगवान्‌ प्रभुः।
दानेन सर्वकामाप्तिरस्य सञ्जायते यतः।। १७.७० ।।
एकोद्दिष्टश्राद्धप्रकरणम्।
सूत उवाच।
एकोद्दिष्टमतो वक्ष्ये यदुक्तं चक्रपाणिना।
मृते पुत्रैर्यथाकार्यमाशौचञ्च पितर्यपि।। १८.१ ।।
दशाहं शावमाशौचं ब्राह्मणेषु विधीयते।
क्षत्रियेषु दश द्वेच पक्षं वैश्येषु चैवहि।। १८.२ ।।
शूद्रेषु मासमाशौचं सपिण्डेषु विधीयते।
नैशम्वाऽकृतचूडस्य त्रिरात्रम्परतः स्मृतम्।।१८.३ ।।
जननेऽप्येवमेव स्यात् सर्ववर्णेषु सर्वदा।
तथास्थिसञ्चयादूर्ध्वमङ्गस्पर्शो विधीयते।। १८.४ ।।
प्रेताय पिण्डददानन्तु द्वादशाहं समाचरेत्।
पाथेयं तस्य तत् प्रोक्तं यतः प्रीतिकरं महत्।। १८.५ ।।
तस्मात् प्रेतपुरं प्रेतो द्वादशाहं न नीयते।
गृहं पुत्रं कलत्रञ्च द्वादशाहं प्रपश्यति।। १८.६ ।।
तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा।
सर्वदाहोपशान्त्यर्थमध्वश्रमविनाशनम्।।१८.७ ।।
तत एकादशाहे तु द्विजानेकादशैव तु।
क्षत्रादिः सूतकान्ते तु भोजयेदयुतो द्विजान्।। १८.८ ।।
द्वितीयेऽह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत्।
आवाहनाग्नौकरणं दैवहीनं विधानतः।। १८.९ ।।
एकं पवित्रमेकोर्घ एकः पिण्डो विधीयते।
उपतिष्ठतमित्येतद्देयं पश्चात्तिलोदकम्।।१८.१० ।।
स्वादितं विकिरेद्‌ ब्रूयाद्विसर्गे चाभिरम्यताम्।
शेषं पूर्ववदत्रापि कार्यं वेदविदा पितुः।। १८.११ ।।
अनेन विधिना सर्वमनुमासं समाचरेत्।
सूतकान्ताद्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम्।। १८.१२ ।।
काञ्चनं पुरुषं तद्वत् फलवस्त्रसमन्विताम्।
संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः।। १८.१३ ।।
वृषोत्सर्गं प्रकुर्वीत देया च कपिला शुभा।
उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः।। १८.१४ ।।
यावदब्दं नरश्रेष्ठ!। सतिलोदकपूर्वकम्।
ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत्।। १८.१५ ।।
सपिण्डीकरणादूर्ध्वं प्रेतः पार्वणभाग् भवेत्।
वृद्धिपूर्वेषु योग्यश्च गृहस्थश्च भवेत्ततः।। १८.१६ ।।
सपिण्डीकरणे श्राद्धे देवपूर्वं नियोजयेत्।
पितॄनेवासयेत्तत्र पृथक् प्रेतं विनिर्दिशेत्।। १८.१७ ।।
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्।
अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्।। १८.१८ ।।
तद्वत्‌संकल्प्य चतुरः पिण्डान् पिण्डप्रदस्तदा।
ये समाना इति द्वाभ्यामन्त्यन्तु विभजेत्त्रिधा।। १८.१९ ।।
चतुर्थस्य पुनः कार्यं न कदाचिदतो भवेत्।
ततः पितृत्वमापन्नः सर्वतस्तुष्टिमागतः।। १८.२० ।।
अग्निष्वात्तादिमध्यत्त्वं प्राप्नोत्यमृतमुत्तमम्।
सपिण्डीकरणादूर्ध्वं तस्मै तस्मान्नदीयते।। १८.२१ ।।
पितृष्वेव तु दातव्यं तत् पिण्डो येषु संस्थितः।
ततः प्रभृति संक्रान्तावुपरागादि पर्वसु।। १८.२२ ।।
त्रिपिण्डमाचरेच्छ्राद्धमेकोद्दिष्टं मृताहनि।
एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत्।। १८.२३ ।।
सदैव पितृहा स स्यान्मातृभ्रातृविनाशकः।
मृताहे पार्वणं कुर्वन्नधोऽधो याति मानवः।। १८.२४ ।।
संपृक्तेष्वाकुली भावः प्रेतेषु तु यतो भवेत्।
प्रतिसंवत्सरं तस्मादेकोद्दिष्टं समाचरेत्।। १८.२५ ।।
यावदब्दन्तु यो दद्यादुदकुम्भं विमत्सरः।
प्रेतायान्नसमायुक्तं सोऽश्वमेधफलं लभेत्।। १८.२६ ।।
आमश्राद्धं यथा कुर्याद्विधिज्ञः श्राद्धदस्तदा।
तेनाग्नौ करणं कुर्यात्‌ पिण्डांस्तेनैव निर्वपेत्।। १८.२७ ।।
त्रिभिः सपिण्डिकरणे अशेषत्रितये पिता।
यदा प्राप्स्यति कालेन तदा मुच्येत बन्धनात्।। १८.२८ ।।
मुक्तोऽपि लेपभागित्वं प्राप्नोति कुशमार्जनात्।
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः।।
पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्।। १८.२९ ।।
श्राद्धप्रकरणम्।
ऋषय ऊचुः।
कथं कव्यानि देयानि हव्यानि च जनैरिह।
गच्छन्ति पितृलोकस्थान्‌ प्रापकः कोऽत्र गद्यते।। १९.१ ।।
यदि मर्त्यो द्विजो भुङ्क्ते हूयते यदिवानले।
शुभाशुभात्मकैः प्रेतै र्दत्तं तद्‌भुज्यते कथम्।।१९.२ ।।
सूत उवाच।
वसून्‌ वदन्ति च पितॄन्‌ रुद्रांश्चैव पितामहान्।
प्रपितामहांस्तथादित्यानित्येवं वैदिकी श्रुतिः।। १९.३ ।।
नामगोत्रं पितॄणान्तु प्रापकं हव्य कव्ययोः।
श्राद्धस्य मन्त्राः श्रद्धा च उपयोज्यातिभक्तितः।। १९.४ ।।
अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः।
नाम गोत्र काल देशा भवान्तरगतानपि।। १९.५ ।।
प्राणिनः प्रीणयन्त्येते तदाहारत्वमागतान्।
देवो यदि पिता जातः शुभकर्म्मानुयोगतः।। १९.६ ।।
तस्यान्नममृतं भूत्वा दिव्यत्वेऽप्यनुगच्छति।
दैत्यत्त्वे भोगरूपेण पशुत्त्वे च तृणं भवेत्।। १९.७ ।।
श्राद्धान्नं वायुरूपेण सर्पत्त्वेप्युपतिष्ठति।
पानं भवति यक्षत्वे गृध्रत्वेऽपि तथामिषम्।। १९.८ ।।
दनुजत्वे तथा माया प्रेतत्त्वे रुधिरोदकम्।
मनुष्यत्त्वेऽन्नपानानि नानाभोगरसं भवेत्।। १९.९ ।।
रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजन शक्तिता।
दानशक्तिः सविभवा रूपसारोग्यमेव च।। १९.१० ।।
श्रद्धा पुष्पमिदं प्रोक्तं फलं बह्मसमागमः।
आयुः पत्रान्धनं विद्यां स्वर्गं मोक्षं सुखानि च।। १९.११ ।।
राज्यं चैव प्रयच्छन्ति प्रीताः पितृगणा नृणाम्।
श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः।।
पञ्चभिर्जन्मसम्बन्धै र्गता विष्णोः परं पदम्।। १९.१२ ।।
इति श्रीमत्स्यपुराणे श्राद्धकल्पे फलानुगमनो नाम एकोनविंशोऽध्यायः।।
श्राद्धमाहात्म्ये कौशिकसूनुकथानकम्।
ऋषय ऊचुः।
कथं कौशिकदायादाः प्राप्तास्ते योगमुत्तमम्।
पञ्चभिर्जन्मसम्बन्धैः कथं कर्म्मक्षयोऽभवत्।। २०.१ ।।
कौशिको नाम धर्म्मात्मा कुरुक्षेत्रे महान्‌ ऋषिः।
नामतः कर्म्मतस्तस्य सूतान्‌ सप्त निबोधत।। २०.२ ।।
स्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च।
वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन्।। २०.३ ।।
पितर्य्युपरते तेषामभूद्‌ दुर्भिक्षमुल्बणम्।
अनावृष्टिश्च महती सर्वलोकभयङ्करी।। २०.४ ।।
गर्गादेशाद्वने दोग्‌ध्रीं रक्षन्तस्ते तपोधनाः।
खादामः कपिलामेता वयं क्षुत्‌पीड़िता भृशम्। २०.५ ।।
इति चिन्तयतां पापं लघुः प्राह तदानुजः।
यद्यवश्यमियं बध्या श्राद्धरूपेण योज्यताम्।। २०.६ ।।
श्राद्धे नियोज्यमानेयं पापात् त्रास्यति नोध्रुवम्।
एवं कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः।। २०.७ ।।
चक्रे समाहितः श्राद्धमुपयुज्य च तां पुनः।
द्वौ देवे भ्रातरौ कृत्वा पित्रे त्रीनप्यनुक्रमात्।। २०.८ ।।
तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु।
चकार मन्त्रवच्छ्राद्धं स्मरन् पितृपरायणः।। २०.९ ।।
विना गवा वत्सकोऽपि गुरवे विनिवेदितः।
व्याघ्रेण निहता धेनुर्वत्सोऽयं प्रतिगृह्यताम्।। २०.१० ।।
एवं साभक्षिताधेनुः सप्तभिस्तैस्तपोधनैः।
वैदिकं बलमाश्रित्य क्रूरे कर्म्मणि निर्भयाः।। २०.११ ।।
ततः कालावकृष्टास्ते व्याधा दासपुरेऽभवन्।
जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः।। २०.१२ ।।
यत् कृतं क्रूरकर्म्मापि श्राद्धरूपेण तैस्तदा।
तेन ते भवने जाता व्याधानां क्रूरकर्मिणाम्।। २०.१३ ।।
पितॄणाञ्चैव माहात्म्याज्जाता जातिस्मरास्तु ते।
ते तु वैराग्ययोगेन आस्थायानशनं पुनः।। २०.१४ ।।
जातिस्मराः सप्तजाता मृगाः कालञ्जरे गिरौ।
नीलकण्ठस्य पुरतः पितृभावानुभाविताः।। २०.१५ ।।
तत्रापि ज्ञानवैराग्यात् प्राणानुत्सृज्य धर्म्मतः।
लोकैरवेक्ष्यमाणास्ते तीर्थान्तेऽनशनेन तु।। २०.१६ ।।
मानसे चक्रवाकास्ते सञ्जाताः सप्तयोगिनः।
नामतः कर्मतः सर्व्वान् श्रृणुध्वं द्विजसत्तमाः।। २०.१७ ।।
सुमनाः कुमुदः शुद्धश्छिद्रदर्शी सुनेत्रकः।
सुनेत्रश्चांशुमांश्चैव सप्तैते योगपारगाः।। २०.१८ ।।
योगभ्रष्टास्त्रय स्तेषां वभ्रमुश्चाल्पचेतनाः।
द्रृष्ट्वा विभ्राजमानं तमुद्याने स्त्रीभिरन्वितम्।। २०.१९ ।।
क्रीड़न्तं विविधैर्भावै र्महाबलपराक्रमम्।
पाञ्चालान्वयसम्भूतं प्रभूतबलवाहनम्।। २०.२० ।।
राज्यकामोभवच्चैकस्तेषां मध्ये जलौकसाम्।
पितृवर्ती च यो विप्रः श्राद्धकृत्‌ पितृवत्सलः।। २०.२१ ।।
अपरौ मन्त्रिणौ द्रृष्ट्वा प्रभूतबलवाहनौ।
मन्त्रित्वे च क्रतुश्चेच्छामस्मिन्मर्त्ये द्विजोत्तमाः।। २०.२२ ।।
तन्मध्ये ये तु निष्कामास्ते बभूवुर्द्विजोत्तमाः।
विभ्राजमानस्त्वेकोऽभूत् ब्रह्मदत्त इति स्मृतः।। १०.२३ ।।
मन्त्रिपुत्रौ तथा चोभौ कण्डरीकसुबालकौ।
ब्रह्मदत्तोऽभिषिक्तः सन् पुरोहितविपश्चिता।। २०.२४ ।।
पाञ्चालराजो विक्रान्तः सर्वशास्त्रविशारदः।
योगवित् सर्वजन्तूनां रुतवेत्ताऽभवत्तदा।। २०.२५ ।।
तस्य राज्ञोऽभवद् भार्य्या देवलस्यात्मजा शुभा।
सन्नतिर्नामविख्याता कपिलायाभवत्‌ पुरा।। २०.२६ ।।
पितृकार्यो नियुक्तत्वादभवद्‌ ब्रह्मवादिनी।
तया चकार सहितः सराज्यं राजनन्दनः।। २०.२७ ।।
कदाचिदुद्यानगः तया सह स पार्थिवः।
ददर्श कीटमिथुनमनङ्ग कलहाकुलम्।। २०.२८ ।।
पिपीलकामनुनयन् परितः कीटकामुकः।
पञ्चबाणाभितप्ताङ्गः स गद्गदमुवाच ह।। २०.२९ ।।
न त्वयासद्रृशी लोके कामिनी विद्यते क्वचित्।
मध्यक्षामातिजघना बृहद्वक्षोऽभिगामिनी।। २०.३०।।
सुवर्णवर्णा सुश्रोणी मञ्जूक्ता चारुहासिनी।
सुलक्षनेत्ररसना गुड़शर्करवत्सला।। २०.३१ ।।
भोक्ष्यसे मयि भुंक्ते त्वं स्नासि स्नाते तथा मयि।
प्रोषिते सति दीनत्वं क्रुद्धेऽपि भयचञ्चला।। २०.३२ ।।
किमर्थं वद कल्याणि! सरोषवदनास्थिता।
सा तमाह सकोपा तु किमालपसि मां शठ।। ३०.३३ ।।
त्वया मोदकचूर्णन्तु मां विहाय विनेष्यता।
प्रदत्तं समतिक्रान्ते दिनेऽन्यस्याः समन्मथ!।। २०.३४ ।।
त्वत्साद्रृशान् मया दत्तमन्यस्यै वरवर्णिनि!।
तदेकमपराधं मे क्षन्तुमर्हसि भामिनि!।। ३०.३५ ।।
नैतदेवं करिष्यामि पुनः क्वापीह सुव्रते!।
स्पृशामि पादौ सत्येन प्रसीद प्रणतस्य मे।। २०.३६ ।।
सूत उवाच।
इति तद्वचनं श्रुत्वा सा प्रसन्नाऽभवत्ततः।
आत्मानमर्पयामास मोहनाय पिपीलिका।। २०.३७ ।।
ब्रह्मदत्तोऽप्यशेषन्तं ज्ञात्वा विस्मयमागमत्।
सर्वसत्वरुतज्ञत्वात् प्रसादाच्चक्रपाणिनः।। २०.३८ ।।
श्राद्धमाहात्म्ये पिपीलिकावहासवर्णनम् |
ऋषय ऊचुः।
कथं सत्वरुतज्ञोऽभूद् ब्रह्मदत्तो धरातले।
तच्चाभवत् कस्य कुले चक्रवाक चतुष्टयम्।। २१.१ ।।
तस्मिन्नेवपुरे जातास्ते च चक्राह्वयास्तदा।
वृद्धद्विजस्य दायादा विप्रा जातिस्मराः पुरा।। २१.२ ।।
धृतिमांस्तत्त्वदर्शी च विद्या चण्डस्तपोत्सुकः।
नामतः कर्म्मतश्चैते सुदरिद्रस्य ते सुताः।। २१.३ ।।
तपसे बुद्धिरभवत्तदा तेषां द्विजन्मनाम्।
यास्यामः परमां सिद्धिमित्यूचुस्ते द्विजोत्तमाः।। २१.४ ।।
ततस्तद्वचनं श्रुत्वा सुदरिद्रो महातपाः।
उवाच दीनया वाचा किमेतदिति पुत्रकाः।। २१.५ ।।
अधर्म्म एष इति वः पिता तानभ्यवारयत्।
वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनः।। २१.६ ।।
कोनुधर्मोऽत्रभवितामत्त्यगाद्‌ गतिरेव वा।
ऊचुस्ते कल्पिता वृत्तिस्तवतात! वदस्व तत्।। २१.७ ।।
वित्तमेतत् पुरो राज्ञः स ते दास्यति पुष्कलम्।
धनं ग्रामसहस्रापि प्रभाते पठतस्तव।। २१.८ ।।
ये विप्रमुख्याः कुरुजाङ्गलेषु दासास्तथा दासपुरे मृगाश्च।
कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः।। २१.९ ।।
इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः।
वृद्धोऽपि राजभवनं जगामात्मार्थ सिद्धये।। २१.१० ।।
अनघो नाम वैभ्राजः पाञ्चालाधिपतिः पुरा।
पुत्रार्थी देवदेवेशं हरिं नारायणं प्रभुम्।। २१.११ ।।
आराधयामास विभुं तीव्र व्रतपरायणः।
ततः कालेन महता तुष्टस्तस्य जनार्दनः।। २१.१२ ।।
वरं वृणीष्व भद्रं ते हृदयेनेप्सितं नृप!
एवमुक्तस्त देवेन वव्रे स वरमुत्तमम्।। २१.१३ ।।
पुत्रं मे देहि देवेश! महाबलपराक्रमम्।
पारगं सर्वशास्त्राणां धार्मिकं योगिनां परम्।। २१.१४ ।।
सर्वसत्वरुतज्ञं मे देहि योगिनमात्मजम्।
एवमस्त्विति विश्वात्मा तमाह परमेश्वरः।। २१.१५ ।।
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत।
ततः स तस्य पुत्रोऽभूत् ब्रह्मदत्तः प्रतापवान्।। २१.१६ ।।
सर्वसत्वानुकम्पी च सर्वसत्व बलाधिकः।
सर्वसत्त्वरुतज्ञश्च सर्वसत्वेश्वरेश्वरः।। २१.१७ ।।
अहसत्तेन योगात्मा स पिपीलिकरागतः।
यत्र तत् कीटमिथुनं रममाणमवस्थितम्।। २१.१८ ।।
ततः सा सन्नतिर्द्रृष्ट्वा तं हसन्तं सुविस्मिता।
किमप्याशङ्क्य मनसा तमपृच्छन्नरेश्वरम्।। २१.१९ ।।
अकस्मात्‌ इतिहासस्ते किमर्थमभवन्नृप!।
हास्यहेतुं न जानामि यदकाले कृतं त्वया।। २१.२० ।।
सूत उवाच।
अवदद्राजपुत्रोऽपि स पिपीलिकभाषितम्।
रागवाग्भिः समुत्पन्नमेतद्धास्यं वरानने!।। २१.२१ ।।
न चान्यत्‌ कारणं किञ्चिद्धास्यहेतौ शुचिस्मिते।
न सामन्यत्तदा देवी प्राहालीकमिदं वचः।। २१.२२ ।।
अहमेवाद्यहसिता न जीविष्ये त्वयाऽधुना।
कथं पिपीलिकालापं मर्त्यो वेत्ति विना सुरान्।। २१.२३ ।।
तस्मात्त्वयाहमेवेह हसिता किमतः परम्।
ततो निरुत्तरो राजा जिज्ञासुस्तत्‌ पुरो हरेः।। २१.२४ ।।
आस्थाय नियमन्तस्थौ सप्तरात्रमकल्मषः।
स्वप्ने प्राह हृषीकेशः प्रभाते पर्यटन् पुरम्।। २१.२५ ।।
वृद्धद्विजोयस्तद्वाक्यात्‌ सर्वं ज्ञास्यस्यशेषतः।
इत्युक्त्वान्तर्दधो विष्णुः प्रभातेऽथ नृपः पुरात्।। २१.२६ ।।
निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः।
गदन्तं विप्रमायान्तं तं वृद्धं सन्ददर्श ह।। २१.२७ ।।
ये विप्रमुख्याः कुरुजाङ्गलेषु दासास्तथा दासपुरे मृगाश्च।
कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमन्त्र सिद्धाः।। २१.२८ ।।
सूत उवाच।
इत्याकर्ण्य वचस्ताभ्यां स पपात शुचा ततः।
जातिस्मरत्वमगमत्तौ च मन्त्रिवरावुभौ।। २१.२९ ।।
कामशास्त्रप्रणेता च वाभ्रव्यस्तु सुबालकः।
पाञ्चाल इति लोकेषु विश्रुतः सर्वशास्त्रवित्।। २१.३० ।।
कण्डरीकोऽपि धर्मात्मा वेदशास्त्रप्रवर्तकः।
भूत्वा जातिस्मरौ शोकात् पतितावग्रतस्तदा।। २१.३१ ।।
हा वयं योगविभ्रष्टाः कामतः कर्मबन्धनाः।
एवं विलप्य बहुशस्त्रयस्ते योगपारगाः।। २१.३२ ।।
विस्मयाच्छ्राद्धमाहात्म्यमभिनंद्य पुनः पुनः।
ततस्तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम्।। २१.३३ ।।
विसृज्य ब्राह्मणन्तञ्च वृद्धं धन मुदान्वितम्।
आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम्।। २१.३४ ।।
विष्वक् सेनाभिधानन्तु राजा राज्येऽभ्यषेचयत्।
मानसे मिलिताः सर्वे ततस्ते योगिनो वराः।। २१.३५ ।।
ब्रह्मदत्तादयस्तस्मिन् पितृसक्ता विमत्सराः।
सन्नतिश्चाभवद्‌ भ्रष्टा मयैतत् किल कारितम्।। २१.३६ ।।
राज्यत्यागफलं सर्वं यदेतदभिलष्यते।
तथेति प्राह राजा तु पुनस्तामभिनन्दयन्।। २१.३७ ।।
त्वत् प्रसादादिदं सर्वं मयैतत् प्राप्यते फलम्।
ततस्ते योगमास्थाय सर्व एव वनौकसः।। २१.३८ ।।
ब्रह्मरन्ध्रेण परमं पदमापुस्तपोधनाः।
एवमायुर्धनं विद्यां स्वर्गं मोक्षं सुखानि च।। २१.३९ ।।
प्रयच्छन्ति सुतान् राज्यं नृणां प्रीताः पितामहाः।
य इदं पितृमाहात्म्यं ब्रह्मदत्तस्य च द्विजाः।। २१.४० ।।
द्विजेभ्यः श्रावयेद्यो वा श्रृणोत्यथ पठेत वा।
कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते।। २१.४१ ।।
ऋषय ऊचुः।
कस्मिन्‌ काले च तच्छ्राद्धमनन्तफलदं भवेत्।
कस्मिन् वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत् ।। २२.१ ।।
तीर्थेषु केषु च कृतं श्राद्धं बहुफलं भवेत्।
सूत उवाच।
अपराह्णे तु संप्राप्ते अभिजिद्रौहिणोदये।। २२.२ ।।
यत्किञ्चिद्दीयते तत्र तदक्षयमुदाहृतम्।
तीर्थानि कानि शस्तानि पितृणां वल्लभानि च।। २२.३ ।।
नामतस्तानि वक्ष्यामि संक्षेपेण द्विजोत्तमाः!।
पितृतीर्थं गया नाम सर्वतीर्थवरं शुभम्।। २२.४ ।।
यत्रास्ते देवदेवेशः स्वयमेव पितामहः।
तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः।। २२.५ ।।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्।। २२.६ ।।
तथावाराणसी पुण्या पितॄणां वल्लभा सदा।
यत्राविमुक्तसान्निध्यं भुक्ति मुक्ति फलप्रदम्।। २२.७ ।।
पितॄणां वल्लभं तद्वत् पुण्यञ्च विमलेश्वरम्।
पितृतीर्थं प्रयागन्तु सर्वकाम फलप्रदम्।। २२.८ ।।
वटेश्वरस्तु भगवान् माधवेन समन्वितः।
योगनिद्राशयस्तद्वत् सदा वसति केशवः।। २२.९ ।।
दशाश्वमेधिकं पुण्यं गङ्गा द्वारं तथैव च।
नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा।। २२.१० ।।
तथा मित्रपदं नाम ततः केदारमुत्तमम्।
गङ्गा सागरमित्याहुः सर्वतीर्थमयं शुभम्।। २२.११ ।।
तीर्थं ब्रह्मसरस्तद्वच्छतद्रु सलिले ह्रदे।
तीर्थन्तु नैमिषं नाम सर्वतीर्थफलप्रदम्।। २२.१२ ।।
गङ्गोद्भेदस्तु गोमत्यां यत्रोद्‌भूतः सनातनः।
तथा यज्ञवराहस्तु देवदेवश्च शूलभृत्।। २२.१३ ।।
यत्र तत्काञ्चनं द्वारमष्टादशभुजो हरः।
नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा।। २२.१४ ।।
तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम्।
देवदेवस्य तत्रापि वाराहस्य तु दर्शनम्।। २२.१५ ।।
यः प्रयाति स पूतात्मा नारायणपदं व्रजेत्।
कृतशौचं महापुण्यं सर्वपापनिषूदनम्।। २२.१६ ।।
यत्रास्ते नारसिंहस्तु स्वयमेव जनार्दनः।
तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा।। २२.१७ ।।
सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा।
कुरुक्षेत्रं महापुण्यं सर्वतीर्थ समन्वितम्।। २२.१८ ।।
तथा च सरयूः पुण्या सर्वदेवनमस्कृता।
इरावती नदी तद्वत् पितृतीर्थाधिवासिनी।। २२.१९ ।।
यमुना देविका काली चन्द्रभागा दृषद्वती।
नदी वेणुमती पुण्या परा वेत्रवती तथा।। २२.२० ।।
पितॄणां वल्लभा ह्येताः श्राद्धे कोटिगुणा मताः।
जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते।। २२.२१ ।।
अद्यापि पितृतीर्थं तत् सर्वकामफलप्रदम्।
नीलकुण्डमितिख्यातं पितृतीर्थं द्विजोत्तमाः!।। २२.२२ ।।
तथा रुद्रसरः पुण्यं सरोमानसमेव च।
मन्दाकिनी तथाच्छोदा विपाशाथ सरस्वती।। २२.२३ ।।
पूर्वे मित्रपदन्तद्वत् वैद्यनाथं महाफलम्।
क्षिप्रा नदी महाकालस्तथा कालञ्जरं शुभम्।। २२.२४ ।।
वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम्।
भद्रेश्वरं विष्णुपदं नर्मदा द्वारमेव च।। २२. २५ ।।
गयापिण्डप्रदानेन समान्याहुर्महर्षयः।
एतानि पितृतीर्थानि सर्वपापहराणि च।। २२.२६ ।।
स्मरणादपि लोकानां किमु श्राद्धकृतां नृणाम्।
ओङ्कारं पितृतीर्थञ्च कावेरी कपिलोदकम्।। २२.२७ ।।
सम्भेदश्चण्डवेगायास्तथैवामर कण्टकम्।
कुरुक्षेत्राच्छतगुणं तस्मिन् स्नानादिकं भवेत्।। २२.२८ ।।
शुक्रतीर्थञ्च विख्यातं तीर्थं सोमेश्वरं परम्।
सर्वव्याधिहरं पुण्यं शतकोटि फलाधिकम्।। २२.२९ ।।
श्राद्धे दाने तथा होमे स्वाध्याये जलसन्निधौ।
कायावरोहणं नाम तथा चर्मण्वतीनदी।। २२.३० ।।
गोमती वरुणा तद्वत्तीर्थमौशनसम्परम्।
भैरवं भृगुतुङ्गञ्च गौरीतीर्थमनुत्तमम्।। २२.३१ ।।
तीर्थं वैनायकं नाम भद्रेश्वरमतः परम्।
तथा पापहरं नाम पुण्याथ तपती नदी।। २२.३२ ।।
मूलतापीपयोष्णी च पयोष्णीसङ्गमस्तथा।
महावोधिः पाटला च नागतीर्थमवन्तिका।। २२.३३ ।।
तथा वेणा नदी पुण्या महाशालं तथैव च।
महारुद्रं महालिङ्गं दशार्णा च नदी शुभा।। २२.३४ ।।
शतरुद्रा शताह्वा च तथा विश्वपदं परम्।
अङ्गारवाहिका तद्वन्नदौ तौ शोणघर्घरौ।। २२.३५ ।।
कालिका च नदी पुण्या वितस्ता च नदी तथा।
एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः।। २२.३६ ।।
श्राद्धमेतेषु यद्दत्तन्तदनन्तफलं स्मृतम्।
द्रोणी वाटनदी धारा सरित् क्षीरनदी तथा।। २२.३७ ।।
गोकर्णं गजकर्णञ्च तथा च पुरुषोत्तमः।
द्वारका कृष्णतीर्थञ्च तथार्बुदसरस्वती।। २२.३८ ।।
नदी मणिमती नाम तथा च गिरिकर्णिका।
धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा।। २२.३९ ।।
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते।
तीर्थं मेघकरं< =" " =" _ -1"><a ="# _ -1">[१]</a></ > नाम स्वयमेव जनार्दनः।। २२.४० ।।
यत्र शार्ङ्गधरो विष्णुर्मेखला< =" " =" _ -2"><a ="# _ -2">[२]</a></ >यामवस्थितः।
तथा मन्दोदरी तीर्थं तीर्थं चम्पा नदी शुभा।। २२.४१ ।।
तथा सा मलनाथश्च महाशाल नदी तथा।
चक्रवाकं चर्म्मकोटं तथा जन्मेश्वरं महत्।। २२.४२ ।।
अर्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम्।
श्रीशैलं शाङ्करं तीर्थं नारसिंहमतः परम्।। २२ .४३ ।।
महेन्द्रञ्च तथा पुण्यमथ श्रीरङ्गसंज्ञितम्।
एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम्।। २२.४४ ।।
दर्शनादपि चैतानि सद्यः पापहराणि वै।
तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित्।। २२.४५ ।।
भीमेश्वरं कृष्णवेणा कावेरी कुड्‌मलानदी।
नदी गोदावरी नाम त्रिसन्ध्या तीर्थमुत्तमम्।। २२.४६ ।।
तीर्थं त्रैयम्बकं नाम सर्वतीर्थ नमस्कृतम्।
यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः।। २२.४७ ।।
श्राद्धमेतेषु सर्वेषु कोटिकोटिगुणं भवेत्।
स्मरणादपि पापानि नश्यन्ति शतधा द्विजः।। २२.४८ ।।
श्रीपर्णी ताम्रपर्णी च जया तीर्थमनुत्तमम्।
तथा मत्स्यनदी पुण्या शिवधारं तथैव च।। २२.४९ ।।
भद्रतीर्थञ्च विख्यातं पम्पातीर्थञ्च शाश्वतम्।
पुण्यं रामेश्वरं तद्वदेलापुरमलं पुरम्।। २२.५० ।।
अङ्गभूतञ्च विख्यातमानन्दकमलं बुधम्।
आम्रातकेश्वरं तद्वदेकाम्भकमतः परम्। २२.५१ ।।
गोवर्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम्।
सहस्राक्षं हिरण्याक्षं तथा च कदली नदी।। २२. ५२ ।।
रामाधिवासस्तत्रापि तथा सौमित्रिसङ्गमः।
इन्द्रकीलं महानादन्तथा च प्रियमेलकम्।। २२.५३ ।।
एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु।
एतेषु सर्वदेवानां सान्निध्यं द्रृश्यते यतः।। २२.५४ ।।
दानमेतेषु सर्वेषु दत्तं कोटिशताधिकम्।
बाहुदा च नदी पुण्या तथा सिद्धवनं शुभम्।। २२.५५ ।।
तीर्थं पाशुपतं नाम नदी पार्वतिका शुभा।
श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्।। २२.५६ ।।
तथैव पितृतीर्थन्तु यत्र गोदावरी नदी।
युतालिङ्गसहस्रेण सर्वान्तरजलावहा।। २२.५७ ।।
जामदग्न्यस्य तत्तीर्थं क्रमादायातमुत्तमम्।
प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी।। २२.५८ ।।
तत्तीर्थं हव्यकव्यानामप्सरो युगसंज्ञितम्।
श्राद्धाग्निकार्यदानेषु तथा कोटि शताधिकम्।। २२.५९ ।।
तथा सहस्रलिङ्गञ्च राघवेश्वरमुत्तमम्।
सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा।। २२.६० ।।
निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान्।
तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत्।। २२.६१ ।।
तीर्थन्तु पुष्करं नाम शालग्रामं तथैव च।
सोमपानञ्च विख्यातं यत्र वैश्वानरालयम्।। २२.६२ ।।
तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च।
मलन्दरा नदीपुण्या कोशिकी चन्द्रिका तथा।। २२.६३ ।।
वैदर्भावाथ वैरा च पयोष्णी प्राङ्मुखापरा।
कावेरी चोत्तरापुण्या तथाजालन्धरो गिरिः।। २२.६४ ।।
एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते।
लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च।। २२.६५ ।।
विन्ध्ययोगश्च गङ्गायास्तथा नदीतटं शुभम्।
कुब्जाम्रन्तु तथा तीर्थं उर्वशी पुलिनं तथा।। २२.६६ ।।
संसारमोचनं तीर्थं तथैव ऋणमोचनम्।
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते।। २२.६७ ।।
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च।
तथा वशिष्ठं तीर्थन्तु हारितं तु ततः परम्।। २२. ६८ ।।
ब्रह्मावर्तं कुशावर्तं हयतीर्थं तथैव च।
पिण्डाारकञ्च विख्यातं शङ्खोद्धारं तथैव च।। २२.६९ ।।
घण्टेाश्वरं बिल्वकञ्च नीलपर्वतमेव च।
तथा च धरणी तीर्थं रामतीर्थं तथैव च।। २२. ७० ।।
अश्वतीर्थञ्च विख्यातमनन्तं श्राद्धदानयोः।
तीर्थं वेदशिरो नाम तथैवौघवती नदी।। २२.७१ ।।
तीर्थं वसुप्रदं नाम च्छागलाण्डं तथैव च।
एतेषु श्राद्धदातारः प्रयान्ति परमं पदम्।। २२.७२ ।।
तथा च बदरी तीर्थं गणतीर्थं तथैव च।
जयन्तं विजयञ्चैव शुक्रतीर्थं तथैव च।। २२.७३ ।।
श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा।
तथैव शारदा तीर्थं भद्रकालेश्वरं तथा।। २२.७४ ।।
वैकुण्ठतीर्थञ्च परं भीमेश्वरमथापि वा।
एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम्।। २२.७५ ।।
तीर्थं मातृगृहं नाम करवीरपुरं तथा।
कुशेशरञ्च विख्यातं गौरी शिखरमेव च।। २२. ७६ ।।
नकुलेशस्य तीर्थञ्च कर्दमालं तथैव च।
दिण्डिपुण्यकरं तद्वत् पुण्डरीकपुरं तथा।। २२.७७ ।।
सप्त गोदावरी तीर्थं सर्वतीर्थेश्वरेश्वरम्।
तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः।। २२.७८ ।।
एषतूद्देशतः प्रोक्तस्तीर्थानां संग्रहो मया।
वागीशोऽपि न शक्नोति विस्तरान् किमु मानुषः।। २२.७९ ।।
सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः।
वर्णाश्रमाणां गेहेऽपि तीर्थन्तु समुदाहृतम्।। २२. ८० ।।
एतत्तीर्थेषु यच्छ्राद्धं तत्कोटि गुणमिष्यते।
यस्मात्तस्मात् प्रयत्नेन तीर्थे श्राद्धं समाचरेत्।। २२ .८१ ।।
प्रातः कालो मुहूर्तांस्त्रीन् सङ्गवस्तावदेव तु।
मध्याह्न स्त्रिमुहूर्तस्यादपराह्णस्ततः परम्।। २२.८२ ।।
सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत्।
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु।। २२.८३ ।।
अह्नो मुहूर्तो विख्याता दश पञ्च च सर्वदा।
तत्राष्टमो मुहूर्तो यः सकालः कुतपः स्मृतः।। २२.८४ ।।
मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः।
तस्मादनन्तफलद स्तदारम्भो भविष्यति।। २२.८५ ।।
मध्याह्नखड्ग पात्रञ्च तथा नेपालकम्बलः।
रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः।। २२.८६ ।।
पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः।
अष्टावेतेयतस्तस्मात् कुतपा इति विश्रुता।। २२.८७ ।।
ऊर्ध्वं मुहूर्तात् कुतपाद्यन्‌मुहूर्तचतुष्टयम्।
मुहूर्तपञ्चकञ्चैतत्‌ स्वधाभवनमिष्यते।। २२.८८ ।।
विष्णोर्देहसमुद्‌भूताः कुशाः कृष्णास्तिलास्तथा।
श्राद्धस्य रक्षणायालमेतत् प्राहुर्दिवौकसः।। २२.८९ ।।
तिलोदकाञ्जलिर्देय जलस्थैस्तीर्थवासिभिः।
सदर्भहस्तेनैकेन श्राद्धमेवं विशिष्यते।। २२.९० ।।
श्राद्धसाधनकाले तु पाणिनैकेन दीयते।
तर्पणन्तू भयेनैव विधिरेष सदा स्मृतः।। २२.९१ ।।
पुण्यं पवित्रामायुष्यं सर्वपापविनाशनम्।
पुरा मत्स्येन कथितन्तीर्थश्राद्धानुकीर्तनम्।।
श्रृणोति यः पठेद्वापि श्रीमान् सञ्जायते नरः।। २२.९२ ।।
श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः।
सर्वपापोपशान्त्यर्थमलक्ष्मीनाशनं परम्।। २२.९३ ।।
इदं पवित्रं यशयो निधानमिदं महापापहरञ्च पुंसाम्।
ब्रह्मार्करुद्रैरपि पूजितञ्च श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः।। २२.९४ ।।
सोमवंशाख्यानम्।
ऋषय ऊचुः।
सोमः पितॄणामधिपः कथं शास्त्रविशारदः।
तद्वंश्या ये च राजानो बभूवुः कीर्तिवर्धनाः।। २३.१ ।।
सूत उवाच।
आदिष्टो ब्रह्मणा पूर्वमत्रिः सर्गविधौ पुरा।
अनुत्तमं नाम तपः सृष्ट्यर्थं तप्तवान् प्रभुः।। २३.२ ।।
यदानन्दकरं ब्रह्म जगत् क्लेशविनाशनम्।
ब्रह्मविष्ण्वर्करुद्राणामभ्यन्तरमतीन्द्रियम्।। २३.३ ।।
शान्तिकृच्छान्तमनसस्तदन्तर्नयने स्थितम्।
माहात्म्यात्तपसा विप्राः परमानन्दकारकम्।। २३.४ ।।
यस्मादुमापतिः सार्द्धमुमया तमधिष्ठितः।
तं द्रृष्ट्वा चाष्टमांशेन तस्मात् सोमोऽभविच्छिशुः।। २३.५ ।।
अधः सुस्राव नेत्राभ्यां धामतच्चाम्बु सम्भवम्।
दीपयद्विश्वमखिलं ज्योत्स्नया स चराचरम्।। २३.६ ।।
तद्दिशो जगृहुर्धाम स्त्रीरूपेण सुतेच्छया।
गर्भोभूत्वोदरे तासामास्थितोऽब्द शतत्रयम्।। २३.७ ।।
आशास्तं मुमुचुर्गर्भमशक्ता धारणे ततः।
समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः।। २३.८ ।।
युवानमकरोद् ब्रह्मा सर्वायुधधरं नरम्।
स्यन्दनेऽथ सहस्राश्वे वेदशक्तिमये प्रभुः।। २३.९ ।।
आरोप्य लोकमनयदात्मीयं सपितामहः।
तत्र ब्रह्मर्षिभिः प्रोक्तमस्मत्‌ स्वामी भवत्वयम्।। २३.१0 ।।
पितृभिर्देवगन्धर्वैरोषधीभिस्तथैव च।
तुष्टुवुः सोमदेवत्यैर्ब्रह्माणं मन्त्रसंग्रहैः।। २३.११ ।।
स्तूयमानस्य तस्याभूदधिको धामसम्भवः।
तेजो वितानादभवद् भुवि दिव्यौषधीगणः।। २३ .१२ ।।
तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा।
तेनौषधीशः सोमोऽभूद्‌ द्विजेशश्चापि गद्यते।। २३.१३ ।।
वेदधामरसञ्चापि यदिदं चन्द्रमण्डलम्।
क्षीयते वर्द्धते चैव शुक्ले कृष्णे च सर्वदा।। २३.१४ ।।
विंशतिञ्च तथा सप्तदक्षः प्राचेतसो ददौ।
रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः।। २३.१५ ।।
ततः पाद्मसहस्राणां सहस्राणि दशैव तु।
तपश्चचार शीतांशु विष्णुध्यानैकतत्परः।। २३.१६ ।।
ततस्तुष्टस्तु भगवांस्तस्मै नारायणो हरिः।
वरं वृणीष्व प्रोवाच परमात्मा जनार्दनः।। २३.१७ ।।
ततो वव्रे वरान् सोमः शक्रलोकं जयाम्यहम्।
प्रत्यक्षमेव भोक्तारो भवन्तु मम मन्दिरे।। २३.१८ ।।
राजसूये सुरगणा ब्रह्माद्याः सन्तु मे द्विजाः।
रक्षः पालः शिवोऽस्माकमास्तां शूलधरो हरः।। २३.१९ ।।
तथेत्युक्तः स आजह्ने राजसूयन्तु विष्णुना।
होतात्रिर्भृगुरध्वर्युरुद्गाताभूच्चतुर्मुखः।। २३.२0 ।।
ब्रह्मत्त्वमगमत्तस्य उपद्रष्टा हरिः स्वयम्।
सदस्याः सनकाद्यास्तु राजसूय विधौ स्मृता।। २३.२१ ।।
चमसाध्वर्यवस्तत्र विश्वेदेवा दशैव तु।
त्रैलोक्यं दक्षिणा तेन ऋत्विग्‌भ्यः प्रतिपादितम्।। २३.२२ ।।
ततः समाप्तेऽवभृथे तद्रूपालोकनेच्छवः।
कामबाणाभि तप्ताङ्ग्यो नवदेव्यः सिषेविरे।। २३.२३ ।।
लक्ष्मीनारायणं त्यक्त्वा सिनीवाली च कर्दमम्।
द्युतिर्विभावसुं तद्वत्तुष्टिर्धातारमव्ययम्।। २३.२४ ।।
प्रभाप्रभाकरं त्यक्त्वा हविष्मन्तं कुहूः स्वयम्।
कीर्तिर्जयन्तं भर्तारं वसुर्मारीचकश्यपम्।। २३.२५ ।।
धृतिस्त्यक्त्वा पतिं नन्दिं सोममेवाभजंस्तदा।
स्वकीया इव सोमोऽपि कामयामास तास्तदा।। २३.२६ ।।
एवं कृतापचारस्य तासाम्भर्तृगणस्तदा।
न शशाङ्कापचाराय शापैः शस्त्रादिभिः पुनः।। २३.२७ ।।
तथाप्यराजत विधुर्दशधा भावयन्‌ दिशः।
सोमः प्राप्याथ दुष्प्राप्यमैश्वर्यमृषिसंस्कृतम्।।
सप्तलोकैकनाथत्वमवाप तपसा तदा ।। २३.२८ ।।
कदाचिदुद्यानगतामपश्यदनेकपुष्पाभरणैश्च शोभितम्।
बृहन्नितम्बस्तनभारखेदात् पुष्पस्य भङ्गेऽप्यतिदुर्बलाङ्गीम्।। २३.२९ ।।
भार्याञ्च तां देवगुरोरनङ्ग बाणाभिरामायतचारुनेत्राम्।
तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ।। २३.३0 ।।
सापि स्मरार्ता सह तेन रेमे तद्रूपकान्त्या हृतमानसेन।
चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोऽपि।। २३.३१ ।।
न तृप्तिरासीच्च गृहेऽपि तस्य तारानुरक्तस्य सुखागमेषु।
बृहस्पतिस्तद्विरहाग्निदग्धस्तद्‌ध्यान निष्ठैकमना बभूव।। २३.३२ ।।
शशाक शापन्न च दातुमस्मै न मन्त्रशस्त्राग्नि विषैरशेषैः।
तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागदीशः।।। २३.३३ ।।
स याचयामास ततस्तु दैन्यात् सोमं स्वभार्यार्थमनङ्ग तप्तः।
स याच्यमानोऽपि ददौ न तारां बृहस्पतेस्तत्सुखपाशबद्धः।। २३.३४ ।।
महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः।।
ददौ यदा तान्न कथञ्चिदिन्दुस्तदा शिवः क्रोधपरो बभूव।। २३.३५ ।।
यो वामदेवः प्रथितः पृथिव्यामनेक रुद्रार्चित पादपद्मः।
ततः सशिष्यो गिरिशः पिनाकी बृहस्पतिस्नेहवशानुबद्धः।। २३.३६ ।।
धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः।
युद्धाय सोमेन विशेषदीप्त तृतीय नेत्रानल भीमवक्त्राः।। २३.३७ ।।
सहैव जग्मुश्च गणेशकाद्या विंशच्चतुः षष्टिगणास्त्रयुक्ताः।
यक्षेश्वरः कोटिशतैरनेकैर्युतोऽन्वगात्स्यन्दन संस्थितानाम्।। २३.३८ ।।
वेतालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदेन।
लक्षैस्त्रिभिर्द्वादशभीरथानां सोमोऽप्यगात्तत्र विवृद्धमन्युः।। २३.३९ ।।
नक्षत्रदैत्यासुरसैन्ययुक्तः शनैश्चराङ्गारकवृद्धतेजाः।
जग्मुर्भयं सप्त तथैव लोकाश्चचालभूर्द्वीपसमुद्रगर्भा।। २३.४0 ।।
स सोममेवाभ्यगमत्पिनाकी गृहीत दीप्तास्त्र विशालवह्नि।
अथाभवद् भीषणभीमसेन सैन्यद्वयस्यापि महाहवोऽसौ।। २३.४१ ।।
अशेषसत्वक्षयकृत्प्रवृद्धस्तीक्ष्णायुधास्त्रज्ज्वलनैकरूपः।
शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगाम क्षयमुग्रतीक्ष्णैः ।। २३.४२ ।।
पतन्ति शस्त्राणि तथोज्वलानि स्वर्भूमि पातालमथादहन्ति।
रुद्रः कोपाद् ब्रह्मशीर्षं मुमोच सोमोऽपि सोमास्त्रममोघवीर्यम्।। २३.४३ ।।
तयोर्निपातेन समुद्र भूम्योरथान्तरिक्षस्य च भीतिरासीत्।
तदस्त्रयुग्मं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोऽपि।। २३.४४ ।।
अन्तः प्रविश्याथ कथं कथञ्चिन्निवारयामास सुरैः सहैव।
अकारणं किं क्षयकृज्जनानां सोम! त्वयापीत्थमकारिकार्यम्।। २३.४५ ।।
यस्मात् परस्त्री हरणाय सोम!त्वया कृतं युद्धमतीव भीमम्।
पापग्रहस्त्वं भविता जनेषु शान्तोऽप्यलं नूनमथासितान्ते।। २३.४६ ।।
भार्यामिमामर्पय वाक्‌ पतेस्त्वं न चावमानोऽस्ति परस्वहारे।
सूत उवाच।
तथेति चोवाच हिमांशुमाली युद्धादपाक्रामदतः प्रशान्तः।। २३.४७ ।।
बृहस्पतिः स्वामपगृह्य तारां हृष्टो जगाम स्वगृहं स रुद्रः।
बुधोत्पत्तिवर्णनम्।
सूत उवाच।
ततः संवत्सरस्यान्ते द्वादशादित्यसन्निभः।
दिव्यपीताम्बरधरो दिव्याभरणभूषितः।। २४.१ ।।
तारोदराद्विनिष्क्रान्तः कुमारश्चन्द्रसन्निभः।
सर्वार्थशास्त्रविद् धीमान् हस्तिशास्त्रप्रवर्तकः।। २४.२ ।।
नामयद्राजपुत्रीयं विश्रुतं गजवैद्यकम्।
राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधः स्मृतः।। २४.३ ।।
जातमात्रः स तेजांसि सर्वाण्येवाजयद् बली।
ब्रह्माद्यास्तत्र चाजग्मु र्देवा देवर्षिभिः सह २४.४ ।।
बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा।
अपृच्छंस्ते सुरास्तारां केन जातः कुमारकः।। २४.५ ।।
ततः सा लज्जिता तेषां न किञ्चिदवदत्तदा।
पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना।। २४.६ ।।
सोमस्येति चिरादाह ततोऽगृह्णाद्विधुः सुतम्।
बुध इत्यकरोन्नाम्ना प्रादाद्राज्यञ्च भूतले।। २४.७ ।।
अभिषेकं ततः कृत्वा युवानमकरोद् विभुः।
ग्रहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षि संयुतः।। २४.८ ।।
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत।
इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत्।। २४.९ ।।
अश्वमेधशतं साग्रमकरोद्यः स्वतेजसा।
पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः।। २४.१० ।।
हिमवच्छिखरे रम्ये समाराध्य जनार्दनम्।
लोकैश्वर्यमगाद्राजा सप्तद्वीप पतिस्तदा।। २४.११ ।।
केशिप्रभृतयो दैत्याः कोटिशो येन दारिताः।
उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता।। २४.१२ ।।
सप्तद्वीपा वसुमती सशैलवनकानना।
धर्मेण पालिता तेन सर्वलौक हितैषिणा।। २४.१३ ।।
चामर ग्राहिणीकीर्तिः सदाचैवाङ्गवाहिका।
विष्णोः प्रसादाद्देवेन्द्रो ददावर्धासनन्तदा।। २४.१४ ।।
धर्मार्थकामान्‌ धर्मेण सममेवाभ्यपालयत्।
धर्मार्थकामाः सन्द्रष्टुमाजग्मुः कौतुकात्पुरा।। २४.१५ ।।
जिज्ञासवस्तच्चरितं कथं पश्यति नः समम्।
भक्त्या चक्रे ततस्तेषामर्घ्यं पाद्यादिकं नृपः।। २४.१६ ।।
आसनत्रयमानीय दिव्यं कनकभूषितम्।
निवेश्याथाकरोत् पूजामीषद्धर्मेऽदिकां पुनः।। २४.१७ ।।
जग्मतुस्तेन कामार्थवतिकोपं नृपं प्रति।
अर्थ शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि।। २४.१८ ।।
कामोऽप्याह तवोन्मादो भविता गन्दमादने।
कुमारवनमाश्रित्य वियोगादुर्वशीभवात्।। २४.१९ ।।
धर्मोऽप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि।
सन्ततिस्तव राजेन्द्र यावच्चन्द्रार्क तारकम्।। २४.२० ।।
शतशो वृद्धिमायातु न नाशम्भुवि यास्यति।
इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदन्वभूत्।। २४.२१ ।।
अहन्यहनि देवेन्द्रं द्रष्टुं याति सराजराट्।
कदाचिदारुह्य रथं दक्षिणाम्बरचारिणम्।। २४.२२ ।।
सार्द्धमर्केण सोऽपश्यन्नीयमानामथाम्बरे।
केशिना दानवेन्द्रेण चित्रलेखामथोर्वशीम्।। २४.२३ ।।
तं विनिर्जित्य समरे विविधायुधपाणिना।
बुधपुत्रेण वायव्यमस्त्रं मुक्त्वा यशोऽर्थिना।। २४.२४ ।।
तथा शक्रोऽपि समरे येन चैवं विनिर्जितः।
मित्रत्वमगमद्देवैर्ददाविन्द्राय चोर्वशीम्।। २४.२५ ।।
ततः प्रभृति मित्रत्वमगमत् पाकशासनः।
सर्वलोकातिशायित्वं बलमूर्जो यशः श्रियम्।। २४.२६ ।।
प्रादाद्वज्रीतु सन्तुष्टो गेयतां भरतेन च।
सा पुरूरवसः प्रीत्या गायन्तीं चरितं महत्।। २४.२७ ।।
लक्ष्मी स्वयं वरं नाम भरतेन प्रवर्त्तितम्।
मेनकामुर्वशीं रम्भां नृत्यतेति तदा दिशत्।। २४.२८ ।।
ननर्त्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी।
सा पुरूरवसं द्रृष्ट्वा नृत्यन्ती कामपीडिता।। २४.२९ ।।
विस्मृताभिनयं सर्वं यत्पुरा भरतोदितम्।
शशाप भरतः क्रोधाद्वियोगादस्य भूतले।। २४.३० ।।
पञ्चपञ्चाशदब्दानि लता सूक्ष्मा भविष्यसि।
पुरूरवाः पिशाचत्वं तत्रैवानु भविष्यसि।। २४.३१ ।।
ततस्तमुर्वीशी गत्वा भर्तारमकरोच्चिरम्।
शापान्ते भरतस्याथ उर्वशी बुधसूनुतः।। २४.३२ ।।
अजीजनत् सुतानष्टौ नामतस्तान्निबोधत।
आयुर्द्रृढायुरश्वायु धनायुर्धृतिमान्वसुः।। २४.३३ ।।
शुचिविद्यः शतायुश्च सर्वे दिव्यबलौजसः।
आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च।। २४.३४ ।।
रजिर्दम्भो विपाप्मा च वीराः पञ्च महारथाः।
रजेः पुत्रशतं जज्ञे राजेयमिति विश्रुतम्।। २४.३५ ।।
रजिराराधयामास नारायणमकल्मषम्।
तपसा तोषितो विष्णुर्वरान् प्रादान्महीपतेः।। २४.३६ ।।
देवासुरमनुष्याणामभूत् स विजयी तदा।
अथ देवासुरं युद्धमभूद्वर्षशतत्रयम्।। २४.३७ ।।
प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः।
ततो देवासुरैः पृष्टः प्राह देवश्चतुर्मुखः।। २४.३८ ।।
अनयोर्विजयी कः स्यात्‌ रजिर्यत्रेति सोऽब्रवीत्।
जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः।। २४.३९ ।।
दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम्।
नासुरैः प्रतिपन्नं तत्‌ प्रतिपन्नं सुरैस्तथा।। २४.४० ।।
स्वामी भव त्वमस्माकं संग्रामे नाशयद्विषः।
ततो विनाशिताः सर्वे येऽवध्या वज्रपाणिना।। २४.४१ ।।
पुत्रत्वमगमत् तुष्टस्तस्येन्द्रः कर्मणा विभुः।
दत्वेन्द्राय तदा राज्यं जगाम तपसेरजिः।। २४.४२ ।।
रजिपुत्रैस्तदाच्छिन्नं बलादिन्द्रस्य वैभवम्।
यज्ञभागञ्च राज्यञ्च तपो बल गुणान्वितैः।।२४.४३ ।।
राज्याद्‌भ्रष्टस्तदाशक्रो रजिपुत्रैर्निपीडितः।
प्राहवाचस्पतिं दीनः पीडितोऽस्मि रजेः सुतैः।। २४.४४ ।।
न यज्ञभागो राज्यं मे निर्जितश्च बृहस्पते।
राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप।। २४.४५ ।।
ततो बृहस्पतिः शक्रमकरोद् बलदर्पितम्।
ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा।। २४.४६ ।।
गत्वाऽथ मोहयामास रजिपुत्रान्‌ बृहस्पतिः।
जिनधर्मं समास्थाय वेदबाह्यं सवेदवित्।। २४.४७ ।।
वेदत्रयी परिभ्रष्टां श्चकार धिषणाधिपः।
वेदबाह्यान् परिज्ञाय हेतुवादसमन्वितान्।। २४.४८ ।।
जधान शक्रो वज्रेण सर्वान्‌ धर्मबहिष्कृतान्।
नहुषस्य प्रवक्ष्यामि पुत्रान्‌ सप्तैव धार्मिकान्।। २४.४९ ।।
ततः प्रभृति मित्रत्वमगमत्पाकशासनः।
सर्वलोकातिशायित्वं बलमूर्जो यशः श्रियम्।। २४.५० ।।
यतिः कुमारभावेऽपि योगी वैखानसोऽभवत्।
ययातिश्चाकरोद्राज्यं धर्मैक शरणः सदा।। २४.५१ ।।
शर्मिष्ठा तस्य भार्याभूद्‌ दुहिता वृषपर्वणः।
भार्गवस्यात्मजा तद्वत् देवयानी च सुव्रता।। २४.५२ ।।
ययातेः पञ्च दायादास्तान् प्रवक्ष्यामि नामतः।
देवयानी यदुं पुत्रं तुर्वसुञ्चाप्यजीजनत्।। २४.५३ ।।
तथाद्रुह्य मनुं पूरुं शर्मिष्ठाजनयत्‌ सुतान्।
यदुः पूरुश्चाभवतां तेषां वंशविवर्धनौ।। २४.५४ ।।
ययातिर्नाहुषश्चासीत् राजा सत्यपराक्रमः।
पालयामास स महीमीजे च विधिवन्मखैः।। २४.५५ ।।
अतिभक्त्या पितॄनर्च्य देवांश्च प्रयतः सदा।
अथाजयत्‌ प्रजाः सर्वा ययातिरपराजितः।। २४.५६ ।।
स शाश्वतीः समा राजा प्रजाधर्मेण पालयत्।
जरामार्च्छन्महाघोरं नाहुषो रूपनाशिनीम्।। २४.५७ ।।
जराभिभूतः पुत्रान् स राजा वचनमब्रवीत्।
यदुं पूरुं तुर्वसुञ्च द्रुह्यं चानुञ्च पार्थिवः।। २४.४८ ।।
यौवनेन चलान्‌ कामान् युवायुवतिभिः सह।
विहर्तुमहमिच्छामि साहाय्यं कुरुतात्मजाः।। २४.५९ ।।
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत्।
साहाय्यं भवतः कार्यमस्माभि र्यौवनेन किम्।। २४.६० ।।
ययातिरब्रवीत् पुत्रान् जरा मे प्रतिगृह्यताम्।
यौवनेनाथ भवतां चरेयं विषयानहम्।। २४.६१ ।।
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः।
कामार्थः परिहीनो मेऽतृप्तोऽहं तेन पुत्रकाः।। २४.६२ ।।
स्वकीयेन शरीरेण जरामेनां प्रशास्तु वः।
अहं तन्वाभिनवया युवाकामानवाप्नुयाम्।। २४.६३ ।।
न तेऽस्य प्रत्यगृह्णन्त यदु प्रभृतयो जराम्।
चतुरस्तान् स राजर्षिरशपच्चेति नः श्रुतम्।। २४.६४ ।।
तमब्रवीत्ततः पूरुः कनीयान् सत्यविक्रमः।
जरां मा देहि नवया तन्वा मे यौवनात्‌ सुखी।। २४.६५ ।।
अहं जरावन्तमादाय राज्ये स्थास्यामि चाज्ञया।
एवमुक्तः स राजर्षिस्तपोवीर्य्य समाश्रयात्।। २४.६६ ।।
संस्थापयामास जरां तदा पुत्रे महात्मनि।
पौरवेणाथ वयसा राजा यौवनमास्थितः।। २४.६७ ।।
ययातेश्चाथ वयसा राज्यं पूरुरकारयत्।
ततो वर्षसहस्रान्ते ययातिरपराजितः।। २४.६८ ।।
अतृप्त इव कामानां पूरुं पुत्रमुवाच ह।
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः।। २४.६९ ।।
पौस्वो वंश इत्येष ख्यातिं लोके गमिष्यति।
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च।।
कालेन महता पश्चात्काल धर्म्ममुपेयिवान्।। २४.७० ।।
पूरुवंशं प्रवक्ष्यामि श्रृणुध्वमृषिसत्तमाः।।
यत्र ते भारता जाता भरतान्वय वर्द्धनाः।। २४.७१ ।।
ययातिचरित्रम्।
ऋषय ऊचुः।
किमर्थं पौरवो वंशः श्रेष्ठत्वं प्राप भूतले।
ज्येष्ठस्यापि यदोर्वंशः किमर्थं ह्रीयते श्रिया।। २५.१ ।।
अन्यद् ययातिचरितं सूत! विस्तरतो वद।
यस्मात्तत्पुण्यमायुष्यमभिनन्द्यं सुरैरपि।। २५.२ ।।
सूत उवाच।
एतदेव पुरा पृष्टः शतानीकेन शौनकः।
पुण्यं पवित्रमायुष्यं ययाति चरितं महत्।। २५.३ ।।
शतानीक उवाच।
ययातिः पूर्वजोऽस्माकं दशामो यः प्रजापते।
कथं स शुक्रतनयां लेभे परमदुर्लभाम्।। २५.४ ।।
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन।
आनुपूर्व्याच्च मे शंस पूरोर्वंश धरान्नृपान्।। २५.५ ।।
शौनक उवाच।
ययातिरासीद्राजर्षि र्देवराज समद्युतिः।
तं शुक्रवृषपर्वाणौ वव्राथे वै यथा पुरा।। २५.६ ।।
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो राजसत्तम।
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च।। २५.७ ।।
सुराणमसुराणाञ्च समजायत वै मिथः।
ऐश्वर्यं प्रतिसङ्घर्षं स्त्रैलोक्ये सचराचरे।। २५.८ ।।
जिगीषया ततो देव बब्रुराङ्गिरसं मुनिम्।
पौरोहित्ये च यज्ञार्थे काव्यं तूशनसं परे।। २५.९ ।।
ब्राह्मणौ तावुभौ नित्यमन्योन्यं स्पर्धिनौ भृशम्।
तत्र देवा निजघ्नुर्यान् दानवान् युधिसङ्गतान्।। २५.१० ।।
तान् पुनर्जीवयामास काव्यो विद्या बलाश्रयात्।
ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान्।। २५.११ ।।
असुरास्तु निजघ्नुर्या सुरान् समरमूर्द्धनि।
न तान्‌ संजीवयामास बृहस्पतिरुदारधीः।। २५.१२ ।।
न हि वेदसतां विद्यां यां काव्यो वेद वीर्य्यवान्।
संजीवनीन्ततो देवा विषादमगमन् परम्।। २५.१३ ।।
अथ देवा भयोद्विग्नाः काव्यादुशनसस्तदा।
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः।। २५.१४ ।।
भजमानान् भजस्वास्मान् कुरु साहाय्यमुत्तमम्।
यासौ विद्या निवसति ब्रह्मणे मिततेजसि।। २५.१५ ।।
शुक्रे तामाहर क्षिप्रं भागभाग्नो भविष्यसि।
वृषपर्वणः समीपेऽसौ शक्यो द्रष्टुं त्वया द्विजः।। २५.१६ ।।
रक्षते दानवांस्तत्र न स रक्षत्यदानवान्।
तमाराधयितुं शक्तो नान्यः कश्चिद्रृते त्वया।। २५.१७ ।।
देवयानी च दयिता सुता तस्य महात्मनः।
तामाराधयितुं शक्तो नान्यः कश्चन विद्यते।। २५.१८ ।।
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च।
देवयान्यान्तु तुष्टायां विद्यान्तां प्राप्स्यसि ध्रुवम्।। २५.१९ ।।
तदा हि प्रेषितो देवैः समीपे वृषपर्वणः।
तथेत्युक्त्वा तु स प्रायाद्‌ बृहस्पतिसुतः कचः।। २५.२० ।।
स गत्वा त्वरितो राजन्! देवैः संपूजितः कचः।
असुरेन्द्रपुरे शुक्रं प्रणम्येदमुवाच ह।। २५.२१ ।।
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्‌ बृहस्पते।
नाम्ना कचेति विख्यातं शिष्यं गृह्णातु मां भवान्।। २५.२२ ।।
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरो।
अनुमन्यस्व मां ब्रह्मन्! सहस्र परिवत्सरान्।। २५.२३ ।।
शुक्र उवाच।
कच! सुस्वागतन्तेऽस्तु प्रतिगृह्णामि ते वचः।
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः।। २५.२४ ।।
शौनक उवाच।
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्‌ व्रतम्।
आदिष्टं कविपुत्रेण शुक्रेणोशनसावयम्।। २५.२५ ।।
व्रतञ्च व्रतकालञ्च यथोक्तं प्रत्यगृह्णत।
आराधयन्नुपाध्यायं देवयानीञ्च भारत।। २५.२६ ।।
संशीलयन् देवायनीं कन्यां संप्राप्तयौवनाम्।
पुष्पैः फलैः प्रेषणैश्च तोषयामास भार्गवीम्।। २५.२७ ।।
देवयान्यपि तं विप्रं नियमव्रतचारिणम्।
अनुयायन्ती ललना रहः पर्यचरत्तदा।। २५.२८ ।।
पञ्चवर्ष शतान्येवं कचस्य चरतो भृशम्।
तत्तत्तीव्रं व्रतं बुध्वा दानवास्तं ततः कचम्।। २५.२९ ।।
गारक्षन्तं वने द्रृष्ट्वा रहस्येनममर्षिताः।
जघ्नुर्बृहस्पते र्द्वेषान्निजरक्षार्थमेव च।। २५.३० ।।
हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम्।
ततो गावो निवृत्तास्ता अगोपाः खनिवेशनम्।। २५.३१ ।।
ता द्रृष्ट्वा रहितागास्तु कचेनाभ्यागता वनात्।
उवाच वचनं काले देवयान्यथ भार्गवम्।। २५.३२ ।।
हुतञ्चैवाग्निहोत्रन्ते सूर्यश्चास्तङ्गतः प्रभो।
अगोपाश्चागतागावः कचस्तात! न द्रृश्यते।। २५.३३ ।।
व्यक्तं हतो धृतो वापि कचस्तात! भविष्यति।
तं विना नैव जीवामि वचः सत्यं ब्रवीम्यहम्।। २५.३४ ।।
शुक्र उवाच।
अथैह्येहीति शब्देन मृतं सञ्जीवयाम्यहम्।
ततः स़ञ्जीवनीं विद्यां प्रयुक्त्वा कचमाह्वयत।। २५.३५ ।।
आहूतः प्राद्रवद् दूरात् कचः शुक्रं ननाम सः।
ततोऽहमितिचाचख्यौ राक्षसै र्धिषणात्मजः।। २५.३६ ।।
स पुनर्देवयान्युक्तः पुष्पाहारे यद्रृच्छया।
वनं ययौ कचो विप्रः पठन्‌ ब्रह्म च शाश्वतम्।। २५.३७ ।।
वने पुष्पाणि चिन्वन्तं दद्रृशुर्दानवाश्च तम्।
ततो द्वितीये तं हत्वा पुनः कृत्वा च चूर्णवत्।। २५.३८ ।।
प्रायच्छन् ब्राह्मणायैव सुरायामसुरास्तदा।। २५.३९ ।।
देवयान्यथ भुयोऽपि पितरं वाक्यमब्रवीत्।
पुष्पाहारप्रेषणकृत् कचस्तात! न द्रृश्यते।। २५.४० ।।
व्यक्तं हतो मृतोवापि कचस्तात! भविष्यति।
तं विना नैव जीवामि वचः सत्यं ब्रवीमि ते।। २५.४१ ।।
शुक्र उवाच।
बृहस्पतेः सुतः पुत्रि! कचः प्रेतगतिं गतः।
विद्यया जीवितोऽप्येवं हन्यते करवाणि किम्।। २५.४२ ।।
मैनं शुचो मा रुद देवयानि! न त्वाद्रृशी मर्त्यमनु प्रशोचेत्।
यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽश्विनौ च।। २५.४३ ।।
सुरद्विषश्चैव जगच्च सर्वमुपस्थितं मत्तपसः प्रभावात्।
अशक्योऽयं जीवयितुं द्विजातिः सञ्जीवितो यो वध्यते चैव भूयः।। २५.४४ ।।
देवयान्युवाच।
यस्याङ्गिरा वृद्धमतः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः।
ऋषेः सुपुत्रन्तमथापि पौत्रं कथं न शोचेयमहन्नरुन्द्याम्।। २५.४५ ।।
स ब्रह्मचारी च तपोधनश्च सहोत्थितः कर्मसु चैव दक्षः।
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात! कचोभिरूपः।। २५.४६ ।।
शौनक उवाच।
सत्वेवमुक्तो देवयान्या महर्षिः संरम्भेण व्याजहाराथ काव्यः।
असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान् सूदयन्ति।। २५.४७ ।।
अब्राह्मणं कर्तुमिच्छन्ति रौद्रा एभिर्व्यर्थं प्रस्तुतो दानवैर्हि।
तत्कर्म्मणाप्यस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम्।। २५.४८ ।।
स तेनपृष्टो विद्यया चोपहूतो शनैर्वाचं जठरे व्याजहार।
तमब्रवीत्केन चेहोपनीतो ममोदरे तिष्ठसि ब्रूहि वत्स!।। २५.४९ ।।
कच उवाच।
भवत्प्रसादान्न जहाति मां स्मृतिः सर्वं स्मरेयं यच्च यथा च वृत्तम्।
नत्वेवं स्यात्तपसः क्षमो मे ततः क्लेशं घोरतरं स्मरामि।। २५.५० ।।
असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्धा चूर्णयित्वा च काव्य!।
ब्राह्मीं मायान्त्वासुरीं त्वत्र माया त्वयि स्थिते कथमेवाभिबाधते।। २५.५१ ।।
शुक्र उवाच।
किं ते प्रियं करवाण्यद्य वत्से! विनैव मे जीवितं स्यात् कचस्य।
नान्यत्र कुक्षेर्मम भेदनाच्च द्रृश्येत् कचो मद्गतो देवयानि!।। २५.५२ ।।
देवयान्युवाच।
द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः।
कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता।। २५.५३ ।।
शुक्र उवाच।
संसिद्धरूपोऽसि बृहस्पतेः सुत! यत्त्वां भक्तं भजते देवयानी।
विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य।। २५.५४ ।।
न निवर्तेत पुनर्जीवन् कश्चिदन्यो ममोदरात्।
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि।। २५.५५ ।।
पुत्रो भूत्वा निष्क्रमस्वोदरान् मे भित्वा कुक्षिञ्जीवय मां च तात!।
अवेक्ष्येऽथो धर्म्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां स विद्याः ।। २५.५६ ।।
शौनक उवाच।
गुरोः सकाशात् समवाप्य विद्यां भित्वा कुक्षिन्निर्विचक्राम विप्रः।
प्रालेयाद्रेः शुक्लमुद्भिद्य श्रृङ्गं रात्र्यागमे पौर्णमास्यामिवेन्दुः।। २५.५७ ।।
द्रृष्ट्वा च तं पतितं वेदराशिमुत्थापयामास ततः कचोऽपि।
विद्यां सिद्धांन्तामवाप्याभिवाद्यः ततः कचस्तं गुरुमित्युवाच।। २५.५८ ।।
निधिं निधीनां वरदं वराणां येनाद्रियन्ते गुरुमर्चनीयम्।
प्रालेयाद्रि प्रोज्वलभालसंस्थं पापान् लोकांस्ते व्रजन्त्यप्रतिष्ठाः।। २५.५९ ।।
शौनक उवाच।
सुरापानाद्‌ वञ्चनात्प्रापयित्वा संज्ञा नाशञ्चेतसश्चापि घोरम्।
द्रृष्ट्वा कचञ्चापि तथाभिरूपं पीतं तथा सुरया मोहितेन।। २५.६० ।।
स मन्युरुत्थाय महानुभावस्तदोशना विप्र हितं चिकीर्षुः।
काव्यः स्वयं वाक्यमिदं जगाद सुरापानां प्रत्यसौ जातशङ्कः।। २५.६१ ।।
शुक्र उवाच।
यो ब्राह्मणोऽद्य प्रभृतीह कश्चिन्मोहात् सुरा पास्यति मन्दबुद्धिः।
अपेतधर्मा ब्रह्महा चैव स स्यादस्मिन् लोके गर्हितः स्यात्परे च।। २५.६२ ।।
मया चेमां विप्र धर्मोक्त सीमां मर्यादां वै स्थापितां सर्वलोके।
सन्तो विप्राः शुश्रुवांसो गुरूणां देवा दैत्याश्चोप श्रृण्वन्तु सर्वे।। २५.६३ ।।
शौनक उवाच।
इतीदमुक्त्वा स महाप्रभावस्तपोनिधीनां निधिरप्रमेयः।
तान्दानवांश्चैव निगूढ़बुद्धीनिदं समाहूय वचोऽभ्युवाच।। २५.६४ ।।
शुक्र उवाच।
आचक्षाणो दानवा बालिशास्थ शिष्यः कचोवत्स्यति मत्समीपे।
सञ्जीवनीं प्राप्यविद्यां ममायं तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः।। २५.६५ ।।
शौनक उवाच।
गुरोरुष्य सकाशे च दशवर्षशतानि सः।
अनुज्ञातः कचोगन्तुमियेष त्रिदशालयम्।। २५.६६ ।।
कचदेवयानीसंवादकथनम्।
शैनक उवाच।
समापितव्रतं तन्तु विसृष्टं गुरुणा तदा।
प्रस्थितं त्रिदशावासं देवायानीदमब्रवीत्।। २६.१ ।।
देवयान्युवाच।
ऋषेरङ्गिरसः पौत्र! वृत्तेनाभिजनेन च।
भ्राजसे विद्यया चैव तपसा च दमेन च।। २६.२ ।।
ऋषिर्यथाङ्गिरामान्यः पितु र्मम महायशाः।
तथा मान्यश्च पूज्यश्च मम भूयो बृहस्पतिः।। २६.३ ।।
एवं ज्ञात्वा विजानीहि यद्‌ ब्रवीमि तपोधन!।
व्रतस्थे नियमोपेते यथा वर्त्ताम्यहं त्वयि।। २६.४ ।।
स समापितविद्यो मां भक्तान्न त्यक्तुमर्हसि।
गृहाणपाणिं विधिवन् मम मन्त्रपुरस्कृतम्।। २६.५ ।।
कच उवाच।
पूज्यो मान्यश्च भगवान् यथा मम पिता तव।
तथात्वमनवद्याङ्गि! पूजनीयतमा मता।। २६.६ ।।
आत्मप्राणेः प्रियतमा भार्गवस्य महात्मनः।
त्वं भद्रे! धर्मतः पूज्या गुरुपुत्री सदा मम।। २६.७ ।।
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव।
देवयानि! तथैवत्वं नैवं मां वक्तुमर्हसि।। २६.8 ।।
देवयान्युवाच।
गुरुपुत्रस्य पुत्रो मे न तु त्वमसि मे पितुः।
तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम।। २६.९ ।।
असुरैर्हन्यमाने तु कचे त्वयि पुनः पुनः।
तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे।। २६.१० ।।
सौहार्द्ये चानुरागे च वेत्थ मे भक्तिमुत्तमाम्।
न मामर्हसि धर्मज्ञ! त्यक्तुं भक्तामनागसम्।। २६.११ ।।
कच उवाच।
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते!।
प्रसीद सुभ्रु! मह्यन्त्वं गुरोर्गुरुतरा शुभे।।
यत्रोषितं विशालाक्षि! त्वया चन्द्रनिभानने!।
तत्राहमुषितो भद्रे! कुक्षौ काव्यस्त भामिनि।। २६.१२ ।।
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने!।
सुखेनाध्युषितो भद्रे! न मन्युर्विद्यते मम
आपृच्छे त्वां गमिष्यामि शिवमस्त्वथ मे पथि।
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे
अप्रमत्तोद्यता नित्यमाराधय गुरुं मम।
देवयान्युवाच।
दैत्यैर्हतस्त्वं यद्भर्तृ बुध्या त्वं रक्षितो मया।। २६.१३ ।।
यदि मां धर्मकामार्थां प्रत्याख्यास्यसि धर्मतः।
ततः कच न ते विद्या सिद्धिरेषा गमिष्यति।। २६.१४ ।।
कच उवाच।
गुरुपुत्रीति कृत्वाहं प्रत्याख्यास्ये न दोषतः।
गुरुणा चाभ्यनुज्ञातः काममेवं शपस्वमाम्।। २६.१५ ।।
आर्षं धर्मब्रुवाणोऽहं देवयानि! यथात्वया।
शप्तुं नार्होऽस्मि कल्याणि! कामतोऽथ च धर्मतः।। २६.१६ ।।
तस्माद् भवत्या यः कामो न तथा संभविष्यति।
ऋषिपुत्रो न ते कश्चित्‌ जातु पाणिं ग्रहीष्यति।। २६.१७ ।।
फलिष्यति न मे विद्या त्वद्वचश्चेति तत्तथा।
अध्यापयिष्यामि च यं तस्य विद्या फलिष्यति।।
शौनक उवाच।
एवमुक्त्वा नृप श्रेष्ठ! देवयानीं कचस्तदा।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः।। २६.१8 ।।
तमागतमभिप्रेक्ष्य देवाः सेन्द्रपुरोगमाः।
बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः।। २६.१९ ।।
त्वं कचास्मद्धितं कर्म कृतवान् महदद्भुतम्।
न ते यशः प्रणशिता भागभाग्च भविष्यसि।। २६.२० ।।
देवयानी कथानकम् ।
शौनक उवाच।
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः।
कचादवेत्य तां विद्यां कृतार्था भरतर्षभ!।। २७.१ ।।
सर्व एव समागम्य शतक्रतुमथाब्रुवन्।
कालः स्त्वद्विक्रमस्याद्य जहि शत्रून् पुरन्दर!।। २७.२ ।।
एवमुक्तस्तु सह तै स्त्रिदशैर्मघवांस्तदा।
तथेत्युक्त्वोप चक्राम सोऽपश्यद्विपिने स्त्रियः।। २७.३ ।।
क्रीड़न्तीनान्तु कन्यानां वने चैत्ररथोपमे।
वायुर्भूतः सवस्त्राणि सर्वाण्येव व्यमिश्रयत्।। २७.४ ।।
ततो जलात्‌ समुत्तीर्य ताः कन्याः सहितास्तदा।
वस्त्राणिजगृहुस्तानि यथा संस्थान्यनेकशः।। २७.५ ।।
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा।
व्यतिक्रममजानन्ती दुहिता वृषपर्वणः।। २७.६ ।।
ततस्तयोर्मिथस्तत्र विरोधः समजायत।
देवयान्याश्च राजेन्द्र! शर्मिष्ठायाश्च तत्कृते।। २७.७ ।।
देवयान्युवाच।
कस्माद्‌ गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि!
समुदाचारहीनाया न ते श्रेयो भविष्यति।। २७.८ ।।
शर्मिष्ठोवाच।
आसीनञ्च शयानञ्च पिता ते पितरं मम।
स्तौति पृच्छति चाभीक्ष्णं नीचस्तः सुविनीतवत्।। २७.९ ।।
याचतस्त्वञ्च दुहिता स्तुवतः प्रतिगृह्णतः।
सुताहं स्तूयमानस्य ददतो न तु गृह्णतः।। २७.१० ।।
अनायुधासायुधायाः किं त्वं कुप्यसि भिक्षुकि!।
लप्स्यसे प्रतियोद्धारं न च त्वां गणयाम्यहम्।। २७.११ ।।
शौनक उवाच।
सा विस्मयं देवयानीं गतां सक्ताञ्च वाससि।
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाविशत्।। २७.१२ ।।
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्रया।
अनवेक्ष्य ययौ तस्मात् क्रोधवेगपरायणा।। २७.१३ ।।
अथ तं देशमभ्यगाद्ययातिर्नहुषात्मजः।
श्रान्तयुग्मः श्रान्तरूपो मृगलिप्सुः पिणसितः।। २७.१४ ।।
नाहुषिः प्रेक्ष्यमाणो हि सनिपाते गतोदके।
ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव।। २७.१५ ।।
तामपृच्छत् स दृष्ट्वैव कन्याममरवर्णिनीम्।
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना।। २७.१६ ।।
का त्वं चारुमुखीश्यामा सुमृष्टमणिकुण्ड्ला।
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्‌वसिषि चातुरा।। २७.१७ ।।
कथञ्च पतिता ह्यस्मिन्। कृते वीरुत्तृणावृते।
दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे।। २७.१८ ।।
देवयान्युवाच।
योऽसौ देवै र्हतान् दैत्यानुत्थापयति विद्यया।
तस्य शुक्रस्य कन्याह त्वं मां नूनं न बुध्यसे।। २७.१९ ।।
एष मे दक्षिणो राजन्! पाणिस्ताम्रनखाङ्गुलिः।
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः।। २७.२० ।।
जानामि त्वाञ्चसंशान्तं वीर्य्यवन्तं यशस्विनम्।
तस्मान्मां पतितं कूपादस्मादुद्धर्तुमर्हसि।। २७.२१ ।।
शौनक उवाच।
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः।
गृहीत्वा दक्षिणे पाणावुज्जहार ततो बलात्।। २७.२२ ।।
उद्‌धृत्य चैनान्तरसा तस्मात् कूपान्नराधिपः।
आमन्त्रयित्वा सुश्रोणीं ययाति स्वपुरं ययौ।। २७.२३ ।।
देवयान्युवाच।
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः।
नेदानीं तु प्रवेक्ष्यामि नगरं वृषपर्वणः।। २७.२४ ।।
शौनक उवाच।
सा तु वै त्वरितं गत्वा घूणिका सुरमन्दिरम्।
द्रृष्ट्वा काव्यमुवाचेदं कम्पमाना विचेतना।। २७.२५ ।।
आचख्यौ च महाभागा देवयानी वने हता।
शर्मिष्ठया महाप्राज्ञ!दुहित्रा वृषपर्वणः।। २७.२६ ।।
श्रुत्वा दुहितरं काव्यस्तदा शर्मिष्ठया हताम्।
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने।।। २७.२७ ।।
द्रृष्ट्वा दुहितरं काव्यो देवयानीं तपोवने।
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत्।। २७.२८ ।।
आत्मदोषैर्निंयच्छन्तिः सर्वे दुःखमुखे जना।
मन्येदुश्चरितं तस्मिन् तस्येयं निष्कृतिः कृता।। २७.२९ ।।
निष्कृतिर्वास्तु वा मास्तु श्रृणुष्वावहितो मम।
शर्मिष्ठयाय दुक्तास्मि दुहित्रा वृषपर्वणः।। २७.३० ।।
सत्यं किलैतत् सा प्राह दैत्यानामस्मि गायना।
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी।। २७.३१ ।।
वचनं तीक्ष्ण परुषं क्रोधरक्तेक्षणा भृशम्।
स्तुवतो दुहितासि त्वं याचतः प्रतिगृह्णतः।। २७.३२ ।।
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः।
इति मामाह शर्मिष्ठ दुहिता वृषपर्वणः।।
क्रोधसंरक्तनयना दर्पपूर्णानना ततः।। २७.३३ ।।
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः।
प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया।। २७.३४ ।।
शुक्र उवाच।
स्तुवतो दुहिता नस्त्वं भद्रे! न प्रतिगृह्णतः।
अतस्त्वं स्तूयमानस्य दुहिता देवयान्यसि।। २७.३५ ।।
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः।
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम।। २७.३६ ।।
शुक्रकृतदेवयानीसान्त्वनम्।
शुक्र उवाच।
यः परेषां नरो नित्यमतिवादां स्तितिक्षते।
देवयानि! विजानीहि तेन सर्वमिदञ्जितम्।। २८.१ ।।
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा।
संयते त्यज्यते सद्भिर्नयो रश्मिषु लम्बते।। २८.२ ।।
यः समुत्पतितं क्रोधमक्रोधेन नियच्छति।
देवयानि विजानीहि तेन सर्वमिदञ्जितम्।। २८.३ ।।
यः समुत्पतितं कोपं क्षमयैव निरस्यति।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते।। २८.४ ।।
यस्तु भावयते धर्मं योनिमात्रं तितिक्षति।
यश्च तप्तो न तपति भृशं सोऽर्थस्य भाजनम्।। २८.५ ।।
यो यजेदश्वमेधेन मासि मासि शतं समाः।
यस्तु कुप्येन्न सर्वस्य तयोरक्रोधनो वरः।। २८.६ ।।
ये कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः।
नैतत् प्राज्ञस्तु कुर्वीत विदुस्तेन बलाबलम्।। २८.७ ।।
देवयान्युवाच।
वेदाहन्तात! बालापि कार्याणान्तु गतागतम्।
क्रोधे चैवातिवादे वा कार्यस्यापि बलाबले।। २८.८ ।।
शिष्यस्याशिष्यवृत्तं हि न क्षन्तव्यं बुभूषुणा।
असत्संकीर्णवृत्तेषु वासो मम न रोचते।। २८.९ ।।
पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च।
न तेषु निवसेत् प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु।। २८.१० ।।
ये नैनमभिजानन्तु वृत्तेनाभिजनेन च।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते।। २८.११ ।।
तन्मे मथ्नाति हृदयमग्निकल्पमिवारणिम्।
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः।। २८.१२ ।।
नह्यतो दुष्करं मन्ये तात लोकेष्वपि त्रिषु।
या सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते।। २८.१३ ।।
शुक्रस्य क्रोधोत्पत्तिकथनम्।
शौनक उवाच।
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह।
वृषपर्वाणमासीनमित्युवाचाविचारयन्।। 29.1 ।।
नाधर्मश्चरितो राजन्! सद्यः फलति गौरिव।
शनैरावर्त्यमानस्तु मूलान्यपि निकृन्तति।। 29.2 ।।
यदि नात्मनि पुत्रेषु न चेत्‌ पश्यति नप्तृषु।
पापमाचरितं कर्म त्रिवर्गमतिवर्तते।। 29.3 ।।
फलत्येवं ध्रुवं पापं गुरुभुक्तमिवोदरे।
यदा घातयसे विप्रं कच मां गिरसन्दता।। 29.4 ।।
अपापशीलं धर्मज्ञं शुश्रूषुं मद्‌गृहे रतम्।
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम।। 29.5 ।।
वृषपर्वन्निबोधत्वं त्यक्ष्यामि त्वां सबान्धवम्।
स्थातुं त्वद्विषये राजन्! न शक्नोमि त्वया सह।। 29.6 ।।
अद्यैवमभिजानामि दैत्यं मिथ्या प्रलापिनम्।
यतस्त्वमात्मनोदीर्णां दुहितां किमुपेक्षसे।। 29.7 ।।
वृषपर्वोवच।
नावद्यं न मृषावादं त्वयि जानामि भार्गव!
त्वयि सत्यञ्च धर्म्मञ्च तत्प्रसीदतु मां भवान्।। 29.8 ।।
अद्यास्मानपहायत्वमितो वास्यसि भार्गव!।
समुद्रं संम्प्रवेश्यामि नान्यदस्ति परायणम्।। 29.9 ।।
शुक्र उवाच।
समुद्रं प्रविशध्वं वा दिशो वा व्रजतासुराः।
दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे।। 29.10 ।।
प्रसाद्यतां देवयानीं जीवितं यत्र मे स्थितम्।
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः।। 29.11 ।।
वृषपर्वोवाच।
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव!।
भुवि हस्तिरथाश्वं वा तस्य त्वं मम चेश्वरः।। 29.12 ।।
शुक्र उवाच।
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर!।
तस्येश्वरोऽस्मि यद्येतद्देवयानि! प्रसाद्यताम्।। 29.13 ।।
शौनक उवाच।
ततस्तु त्वरितः शुक्रस्तेन राज्ञा समं ययौ।
उवाच चैनां सुभगे! प्रतिपन्नं वचस्तव।। 29.14 ।।
देवयान्युवाच।
यदित्वमीश्वरस्तात! राज्ञो वित्तस्य भार्गव।
नाभिजानामि तत्तेऽहं राजा वदतु मां स्वयम्।। 29.15 ।।
यं काममभिजानामि देवयानि! शुचिस्मिते।
तत्तेऽहं संप्रदास्यामि यद्यपि स्यात् सुदुर्लभम्।। 27.16 ।।
देवयान्युवाच।
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये।
अनुयास्यति मां तत्र यत्र दास्यति मे पिता।। 27.17 ।।
वृषपर्वोवाच।
उत्तिष्ठ धात्रि! गच्छ त्वं शर्मिष्ठां शीघ्रमानय।
यं च कामयते कामं देवयानी करोतु तम्।। 29.18 ।।
शौनक उवाच।
ततो धात्री तत्र गत्वा शर्मिष्ठामिदमब्रवीत्।
उत्तिष्ठ भद्रे! शर्मिष्ठे! ज्ञातीनां सुखमावह।। 29.19 ।।
त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः।
यं सा कामयते कामं सकार्योऽत्र त्वयानघे।।
दासीत्वमभिजातासि देवयान्याः सुशोभने!।। 29.20 ।।
शर्मिष्ठोवाच।
यं च कामयते कामं करवाण्यहमद्य तम्।
मागान्मन्युवशं शुक्रो देवयानी च मत्कृते।। 29.21 ।।
शौनक उवाच।
ततः कन्यासहस्रेण वृता शिविकया तदा।
पितुर्निदेशात्त्वरिता निश्चक्राम पुरोत्तमात्।। 29.22 ।।
शर्मिष्ठोवाच।
अहं कन्यासहस्रेण दासी ते परिचारिका।
ध्रुवं त्वां तत्र यास्यामि यत्र दास्यति ते पिता।। 29.23 ।।
देवयान्युवाच।
स्तुवतो दुहिता चाहं याचतः प्रतिगृह्णतः।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि।। 29.24 ।।
शर्मिष्ठोवाच।
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत्।
अनुयास्याम्यहं तत्र यत्र दास्यति ते पिता।। 29.25 ।।
शौनक उवाच।
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः।
देवयानी नृपश्रेष्ठ! पितरं वाक्यमब्रवीत्।। 29.26 ।।
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम।
अमोघं तव विज्ञानमस्ति विद्याबलञ्च ते।। 29.27 ।।
एवमुक्तो द्विजश्रेष्ठो दुहित्रा सुमहायशाः।
प्रविवेशपुरं हृष्टः पूजितः सर्वदानवैः।। 29.28 ।।
ययातिचरित्रम्।
शौनक उवाच।
अथ दीर्घेण कालेन देवयानी नृपोत्तम्।
वनं तदेव निर्याता क्रीड़ार्थं वरवर्णिनी।। ३०.१ ।।
तेन दासी सहस्रेण सार्धं शर्मिष्ठया तदा।
तमेव दश सप्राप्ता यथा कामं चचार सा।। ३०.२ ।।
ताभिः सखीभिः सहिताः सर्वाभिर्मुदिता भृशम्।
क्रीड़न्त्योऽभिरताः सर्व्वाः पिबन्त्यो मधु माधवम्।। ३०.३ ।।
खादन्त्यो विविधान् भक्ष्यान् फलानि विविधानि च।
पुनश्च नाहुषो राजा मृगलिप्सुर्यद्रृच्छया।। ३०.४ ।।
तमेव देशं संप्राप्तो जललिप्सुः प्रतर्षितः।
ददर्श देवयानीञ्च शर्मिष्ठान्ताश्च योषितः।। ३०.५ ।।
पिबन्त्यो ललनास्तश्च दिव्याभरणभूषिताः।
उपिविष्टाञ्च दद्रृशे देवयानीं शुचिस्मिताम्।। ३०.६ ।।
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराननाम्।
शर्मिष्टया सेव्यमानां पादसम्वाहनादिभिः।। ३०.७ ।।
ययातिरुवाच।
द्वाभ्यां कन्या सहस्राभ्यां द्वे कन्ये परिवारिते।
गोत्रे च नामनी चैव द्वयोः पृच्छाम्यतोह्यहम्।। ३०.८ ।।
देवयान्युवाच।
आख्यास्याम्यहमादत्स्व वचनं मे नराधिपः!।
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्।। ३०.९ ।।
इयं च मे सखी दासी यत्राहं तत्र गामिनी।
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः।। ३०.१० ।।
ययातिरुवाच।
कथं तु ते सखी दासी कन्येयं वरवर्णिनी।
असुरेन्द्रसुता सुभ्रु! परं कौतूहलं हि मे।। ३०.११ ।।
देवयान्युवाच।
सर्वमेव नरव्याघ्र!विधानमनुवर्त्तते।
विधिना विहितं ज्ञात्वा मा विचित्रं मनः कृथा।। ३०.१२ ।।
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च।
किं नामा त्वं कुतश्चासि कस्य पुत्रश्च शंसमे।। ३०.१३ ।।
ययातिरुवाच।
ब्रह्मचर्येण वेदो मे कृत्स्नः श्रुतिपथं गतः।
राजाहं राजपुत्रश्च ययातिरितिविश्रुतः।। ३०.१४ ।।
देवयान्युवाच।
केन चार्थेन नृपते! ह्येनं देशं समागतः।
जिघृक्षुर्व्वारि यत्किञ्चिदथवा मृगलिप्सया।। ३०.१५ ।।
ययातिरुवाच।
मृगलिप्सुरहं भद्रे! पानीयार्थमिहागतः।
बहुधाप्यनुयुक्तोऽस्मि त्वमनुज्ञातुमर्हसि।। ३०.१६ ।।
देवयान्युवाच।
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह।
त्वदधीनास्मि भद्रं ते सखे! भर्त्ता च मे भव।। ३०.१७ ।।
ययातिरुवाच।
विध्यौशनसि भद्रं ते न त्वदर्होऽस्मि भामिनि।
अविवाह्याः स्म राजानो देवयानि! पितुस्तव।। ३०.१८ ।।
देवयान्युवाच।
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं ब्रह्मणि संश्रितम्।
ऋषिश्च ऋषिपुत्रश्च नाहुषाद्य भजस्व माम्।। ३०.१९ ।।
ययातिरुवाच।
एकदेहोद्भवा वर्णा श्चत्वारोऽपि वरानने।
पृथग्धर्म्माः पृथक् शौचास्तेषां वै ब्राह्मणो वरः।। ३०.२० ।।
देवयान्युवाच।
पाणिग्रहो नाहुषायं न पुंभिः सेवितः पुरा।
त्वमेनमग्रहीदग्रे वृणोमि त्वामहं ततः।। ३०.२१ ।।
कथं तु मे मनस्विन्याः पाणिमन्यः पुमान्‌ स्पृशेत्।
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया।। ३०.२२ ।।
ययातिरुवाच।
क्रुद्धादाशीविषात् सर्पाज्ज्वलनात् सर्वतोमुखात्।
दुराधर्षतरो विप्रः पुरुषेण विजानता।। ३०.२३ ।।
देवयान्युवाच।
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्।
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ।। ३०.२४ ।।
ययातिरुवाच।
दशेदाशीविषस्त्वेकं शस्त्रेणैकश्च बध्यते।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः।। ३०.२५ ।।
दुराधर्षतरो विप्रस्तस्मात् भीरु! मतो मम।
अतोऽदत्ताञ्च पित्रा त्वां भद्रे!न विवहाम्यहम्।। ३०.२६ ।।
देवयान्युवाच।
दत्तां वहस्व पित्रा मां त्वं हि राजन्! वृतो मया।
अयाचतो भयं नास्ति दत्ताञ्च प्रतिगृह्णतः।। ३०.२७ ।।
शौनक उवाच।
त्वरितं देवयान्याथ प्रेषिता पितुरात्मनः।
सर्वं निवेदयामास धात्री तस्मै यथातथम्।। ३०.२८ ।।
श्रुत्वैव च स राजानं दर्शयामास भार्गवः।
द्रृष्ट्वैवमागतं विप्रं ययातिः पृथिवीपतिः।। ३०.२९ ।।
देवयान्युवाच।
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्।
नमस्ते देहि मामस्मै लोकेनान्यं पतिं वृणे।। ३०.३० ।।
ववन्दे ब्राह्मणं काव्यं प्राञ्चलिः प्रणतः स्थितः।
तं चाप्यभ्यवदत्काव्यः साम्ना परमवल्गुना।। ३०.३१ ।।
शुक्र उवाच।
वृतोऽनया पतिर्वीर! सुतया त्वं ममेष्टया।
गृहाणेमां मया दत्तां महिषीं नहुषात्मज!।। ३०.३२ ।।
ययातिरुवाच।
अधर्मो मां स्पृशेदेवं पापमस्याश्च भार्गव!।
वर्णसंकरतो ब्रह्मन्! इति त्वां प्रवृणोम्यहम्।। ३०.३३ ।।
शुक्र उवाच।
अधर्मात् त्वां विमुञ्चामि वरं वरय चेप्सितम्।
अस्मिन् विवाहे त्वं श्लाघ्यो रहो पापन्नुदामि ते।। ३०.३४ ।।
वहस्व भार्यां धर्मेण देवयानीं शुचिस्मिताम्।
अनया सह संप्रीतिमतुलां समवाप्नुहि।। ३०.३५ ।।
इयं चापि कुमारी ते शर्मिष्ठ वार्षपर्वणी।
संपूज्य सन्ततं राजन्! न चैनां शयनेह्वयः।। ३०.३६ ।।
शौनक उवाच।
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्।
जगाम स्वपुरं हृष्टः सोऽनुज्ञातो महात्मना।। ३०.३७ ।।

About this parayana

Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.

How to chant

Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.

daily-pujasanskritparayanadevotionalpuranascripture