వాల్మీకి రామాయణ — అయోధ్యా కాణ్డ
Valmiki Ramayana — Ayodhya Kanda
Valmiki Ramayana — Ayodhya Kanda
Text in देवनागरी script
Devotional text
తెలుగు script translation coming soon. Showing Devanagari original — use the Transliteration tab to read in Roman script.
गच्छता मातुलकुलं भरतेन तदाऽनघः ।शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥ स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥२-१-२॥ तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।भ्रातरौ स्मरतां वीरौ वृद्धं दसरथं नृपम् ॥२-१-३॥ राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥२-१-४॥ सर्व एव तु तस्येष्ट श्चत्वारः पुरुषर्षभाः ।स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥२-१-५॥ तेषामपि महातेजा रामो रतिकरः पितुः ।स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥२-१-६॥ स हि देवै रुदीर्णस्य रावणस्य वधार्थिभिः ।अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥२-१-७॥ कौसल्या शुशुभे पुत्रेणामिततेजसा ।यथा वरेण देवानामदितिर्वज्रपाणिना ॥२-१-८॥ स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।भूमावनुपमः सूनुर्गणैर्धशरथोपमः ॥२-१-९॥ स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते ।उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥२-१-१०॥ कथंचिदुपकारेण कृतेनै केन तुष्यति ।न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥२-१-११॥ शीलवृद्धै र्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।कथयन्नास्त वैनित्य मस्त्रयोग्यान्तरेष्वपि ॥२-१-१२॥ बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः ।वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥२-१-१३॥ न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥२-१-१४॥ सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्छुचिः ॥२-१-१५॥ कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते ।मन्यते परया कीर्त्य महत्स्वर्गफलं ततः ॥२-१-१६॥ नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।उत्तरोत्तरयुक्तौ च वक्ता वाचस्पति र्यथा ॥२-१-१७॥ अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥२-१-१८॥ स तु स्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥२-१-१९॥ सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२-१-२०॥ कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥२-१-२१॥ धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।लौकिके समयाचारे कृतकल्पो विशारदः ॥२-१-२२॥ निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥२-१-२३॥ दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥२-१-२४॥ शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥२-१-२५॥ सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥२-१-२६॥ श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२-१-२७॥ वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ।आरोहे विनये चैव युक्तोवारणवाजिनाम् ॥२-१-२८॥ धनुर्वेदविदां स्रेष्ठो लोकेऽतिरथसंमतः ।अभियाता प्रहर्ता च सेनानयविशारदः ॥२-१-२९॥ अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ।अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।न चावमन्ता भूतानां न च कालवशानुगः ॥२-१-३०॥ एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।संमतस्त्रिषु लोकेषुवसुधायाः क्षमागुणैः ॥२-१-३१॥ बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥२-१-३२॥ गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।तमेवंव्रतसंपन्नमप्रधृष्यपराक्रमम् ॥२-१-३३॥ लोकपालोपमं नाथमकामयत मेदिनी ।एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥२-१-३४॥ दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ।अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥२-१-३५॥ प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥२-१-३६॥ कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥२-१-३७॥ मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् ।यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥२-१-३८॥ महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ॥२-१-३९॥ अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।इत्येतै र्विविधै स्तैस्तै रन्यपार्थिवदुर्लभैः ॥२-१-४०॥ शिष्टैरपरिमेयैश्छ लोके लोकोत्तरैर्गुणैः ।तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥ निश्चित्य सचिवैः सार्धं युवराजममन्यत ।दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥ संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥२-१-४३॥ लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥ प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।नानानगरवास्तव्यान् पृथग्जानपदानपि ॥२-१-४५॥ समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥ त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥२-१-४७॥ ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥ ततः प्रविविशुः शेष राजानो लोकसम्मताः ।अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥ राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।स लब्धमानैर्विनयान्वितैर्नृपैः ।पुरालयै र्जानपदैश्च मानवैः ।उपोपविष्टैर्नृतो बभौ ।सहस्रचक्षुर्भगवानिवामरैः ॥२-१-५०॥ ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥२-२-१॥ दुन्धुभिस्वनकल्पेन गम्भीरेणानुनादिना ।स्वरेण महता राजा जीमूत इव नादयन् ॥२-२-२॥ राजलक्षणयुक्तेन कान्तेनानुपमेन च ।उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥२-२-३॥ विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।पूर्वकैर्मम राजेन्द्रैस्सुतवत् परिपालितम् ॥२-२-४॥ सोऽहमिक्ष्ह्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् ।श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥२-२-५॥ मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥२-२-६॥ इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।पाण्दुरस्यातपत्रस्य च्छायायां जरितं मया ॥२-२-७॥ प्राप्य वर्षसहस्राणि बहू न्यायूंषि जीवतः ।जीर्णस्यास्य शरीरस्य विश्रान्ति मभिरोचये ॥२-२-८॥ राजप्रभावजुष्टाम् हि दुर्वहामजितेन्द्रियैः ।परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥२-२-९॥ सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥२-२-१०॥ अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।पुरन्दरसमो वीर्ये रामः परपुरंजयः ॥२-२-११॥ तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥२-२-१२॥ अनुरूपः स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥२-२-१३॥ अनेन श्रेयसा सद्यः सम्योज्यैवमिमां महीम् ।गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥२-२-१४॥ यदीदम् मेऽनुरूपार्धं मया साधु सुमन्त्रितम् ।भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥२-२-१५॥ यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ।अन्या मद्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥२-२-१६॥ इति बृवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् ।वृष्तिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥२-२-१७॥ स्निग्धोऽनुनादी सम्जजञे तत्र हर्षसमीरितः ।जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ॥२-२-१८॥ तस्य धर्मार्थविदुषो भावमाजञाय सर्वशः ।ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥२-२-१९॥ समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ।ऊचुश्च मनसा जञात्वा वृद्धं दशरथं नृपम् ॥२-२-२०॥ अनेकवर्षसाहस्रो वृद्धस्त्त्वमसि पार्थिव ।स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥२-२-२१॥ इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।गजेन महता यान्तं रामं छत्रावृताननम् ॥२-२-२२॥ इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।अजानन्निव जिजञासुरिदं वचनमब्रवीत् ॥२-२-२३॥ श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः ॥२-२-२४॥ कथं नु मयि धर्मेण पृथिवीमनुशासति ।भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥२-२-२५॥ ते तमूचुर्महात्मानं पौरजानपदैः सह ।बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥२-२-२६॥ गुणान् गुणवतो देव देवकल्पस्य धीमतः ।प्रियानानन्ददान् कृत्स्नान् प्रवक्ष्यामोऽद्यतान् शृणु ॥२-२-२७॥ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥२-२-२८॥ रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।साक्ष्हाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥२-२-२९॥ प्रजासुखत्वे चन्द्रस्य वसुधायाः क्ष्हमागुणैः ।बुध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥२-२-३०॥ धर्मजजञः सत्यसन्धश्च शीलवाननसूयकः ।क्षान्तः सान्त्वयिता श्लक्ष्ह्णः कृतजञो विजितेन्द्रियः ॥२-२-३१॥ मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ।प्रियवादी च भूतानाम् सत्यवादी च राघवः ॥२-२-३२॥ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।तेना स्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ॥२-२-३३॥ देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ।सम्यग्विद्याव्रतस्नातो यथवत्साङ्गवेदवित् ॥२-२-३४॥ गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ।कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥२-२-३५॥ द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ।यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥२-२-३६॥ गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ।संग्रामात्पुनरागम्य कुङ्जरेण रथेन वा ॥२-२-३७॥ पौरान् स्वजनवन्नित्यम् कुशलं परिपृच्छति ।पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥२-२-३८॥ निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ।शुश्रूषन्ते च वः शिष्याः कचित्कर्मसु दंशिताः ॥२-२-३९॥ इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ।व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥२-२-४०॥ उत्सवेषु च सर्वेषु पितेव परितुष्यति ।सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥२-२-४१॥ स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ।सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ॥२-२-४२॥ उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।सुभ्रूरायतताम्राक्ष्हस्साक्ष्हाद्विष्णुरिव स्वयम् ॥२-२-४३॥ रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।प्रजापालनतत्त्वजञो न रागोपहतेन्द्रियः ॥२-२-४४॥ शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ।नाऽस्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥२-२-४५॥ हन्त्येव नियमाद्वध्यानवध्ये च न कुप्यति ।युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥२-२-४६॥ शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् ।गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥२-२-४७॥ तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ।लोकपालोपमं नाथमकामयत मेदिनी ॥२-२-४८॥ वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ।दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥२-२-४९॥ बलमारोग्यमायुश्च रामस्य विदितात्मनः ।देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥२-२-५०॥ आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा ।आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥२-२-५१॥ स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ।सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ॥२-२-५२॥ तेषामायाचितं देव त्वत्प्रसादा त्समृद्ध्यताम् ।राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ॥२-२-५३॥ पश्यामो यौवराज्यस्थं तव राजोत्तमाऽअत्मजम् ।तं देवदेवोपममात्मजं ते ।सर्वस्य लोकस्य हिते निविष्टम् ।हिताय नः क्ष्हिप्रमुदारजुष्टं ।मुदाभिषेक्तुम् वरद त्व मर्हसि ॥२-२-५४॥ तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥२-३-१॥ अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थ मिच्छथ ॥२-३-२॥ इति प्रत्यर्च्य तान् राजा ब्राह्मणानिद मब्रवीत् ।वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥२-३-३॥ चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥२-३-४॥ राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥२-३-५॥ वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ।अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ॥२-३-६॥ तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि ।तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ॥२-३-७॥ आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ।सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥२-३-८॥ शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ।अहतानि च वासांसि रथं सर्वायुधान्यपि ॥२-३-९॥ चतुरङ्गबलं चैव गजं च शुभलक्षणम् ।चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ॥२-३-१०॥ शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ।हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥२-३-११॥ उपस्थापयत प्रातरग्न्यगारं महीपतेः ।यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥२-३-१२॥ अस्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥२-३-१३॥ प्रशस्तमन्नं गुणवद्धधिक्षीरोपसेचनम् ।द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥२-३-१४॥ सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ।घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥२-३-१५॥ सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥२-३-१६॥ आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ।सर्वे च ताLआवचरा गणिकाश्च स्वलंकृताः ॥२-३-१७॥ कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ।देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः ॥२-३-१८॥ उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक् पृथक् ।दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः ॥२-३-१९॥ महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ।एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ॥२-३-२०॥ चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ।कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ॥२-३-२१॥ यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ।ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ॥२-३-२२॥ रामः कृतात्मा भवता शीघ्रमानीयतामिति ।स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ॥२-३-२३॥ रामं तत्रानयांचक्रे रथेन रथिनां वरम् ।अथ तत्र समासीनास्तदा दशरथं नृपम् ॥२-३-२४॥ प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ।म्लेच्छाश्चार्याश्च ये चान्ये वने शैलान्तवासिनः ॥२-३-२५॥ उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ।तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ॥२-३-२६॥ प्रासादस्थो रथगतं ददर्शायान्त मात्मजम् ।गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ॥२-३-२७॥ दीर्घ बाहुं महसत्त्वं मत्तमातङ्गगामिनम् ।चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥२-३-२८॥ रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ।घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ॥२-३-२९॥ न ततर्प समायान्तं पश्यमानो नराधिपः ।अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ॥२-३-३०॥ पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ।स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ॥२-३-३१॥ आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ।स प्राञ्^जलिरभिप्रेत्य प्रणतः पितुरन्तिके ॥२-३-३२॥ नाम स्वं श्रावयन् रामो ववन्धे चरणौ पितुः ।तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥२-३-३३॥ गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ।तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितं ॥२-३-३४॥ दिदेश राजा रुचिरं रामाय परमासनम् ।तदासनवरं प्राप्य व्यदीपयत राघवः ॥२-३-३५॥ स्वयेव प्रभया मेरुमुदये विमलो रविः ।तेन विभ्राजता तत्र सा सभाभिव्यरोचत ॥२-३-३६॥ विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ।तं पश्यमानो नृपति स्तुतोओष प्रियमात्मजम् ॥२-३-३७॥ अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् ।स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ॥२-३-३८॥ उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः ।ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ॥२-३-३९॥ उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ।यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ॥२-३-४०॥ तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥२-३-४१॥ गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ।भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥२-३-४२॥ कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ।परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥२-३-४३॥ अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ।कोष्ठागारायुधागारैः कृत्वा सन्नि चयान् बहून् ॥२-३-४४॥ तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवाऽमराः ॥२-३-४५॥ तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ।तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ॥२-३-४६॥ त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ।सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥२-३-४७॥ व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ।अथाभिवाद्य राजानं रथमारुह्य राघवः ॥२-३-४८॥ ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ।ते चापि पौरा नृपतेर्वचस्त ।च्छ्रुत्वा तदा लाभमिवेष्टमाशु ।नरेन्द्रमामन्त्र्य गृहाणि गत्वा ।देवान् समानर्चुरतिप्रहृष्टाः ॥२-३-४९॥ गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः ।मन्त्रयुत्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ॥२-४-१॥ श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः ।रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥२-४-२॥ अथान्तर्गृहमासाद्य राजा दशरथस्तदा ।सूतमामन्त्रयामास रामं पुनरिहानय ॥२-४-३॥ प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ ।रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥२-४-४॥ द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः ।श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥२-४-५॥ प्रवेश्य चैनं त्वरितं रामो वचन मब्रवीत् ।यदागमनकृत्यं ते भूयस्तद्भ्रुह्यशेषतः ॥२-४-६॥ तमुवाच ततः सूतो राजा त्वां द्रष्टु मिच्छति ।श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥२-४-७॥ इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः ।प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥२-४-८॥ तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ।प्रवेश्यामास गृहं विवक्षुः प्रियमुत्तमम् ॥२-४-९॥ प्रविश्न्नेप च श्रीमान् राघवो भवनं पितुः ।ददर्श पितरं दूरात् प्रणिपत्य कृताञ्ज्लिः ॥२-४-१०॥ प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥२-४-११॥ राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः ।अन्न्वद्भिः क्रतुश्तैस्तथेष्टं भूरिदक्षिणैः ॥२-४-१२॥ जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि ।दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥२-४-१३॥ अनुभूतानि चेष्टानि मया वीर सुखान्यपि ।देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः ॥२-४-१४॥ न किञ्चिन्म कर्तव्यं तवान्यत्राभिषेचनात् ।अतो युत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥२-४-१५॥ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् ।अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥२-४-१६॥ अपि चाद्याशुभान् राम स्वप्ने प्श्यामि दारुणान् ।सनिर्घाता दिवोल्का च परतीह महास्वना ॥२-४-१७॥ अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः ।आवेदयन्ति दैवज्ञावः सूर्याङ्गारकराहुभिः ॥२-४-१८॥ प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।राजा हि मृत्युमाप्नोति घोरं वापदमृच्छति ॥२-४-१९॥ तद्यावदेव मे चेतो न विमुञ्चति राघव ।तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥२-४-२०॥ अद्य चन्द्रोभ्युपगतः पुष्यात्पूर्वं पुनर्वसू ।श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥२-४-२१॥ ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् ।श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥२-४-२२॥ तस्मात्त्वयादप्रभृति निशेयं नियतात्मना ।सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥२-४-२३॥ सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥२-४-२४॥ विप्रोषितश्च भरतो यावदेव पुरादितः ।तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥२-४-२५॥ कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।ज्येष्ठनुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥२-४-२६॥ किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः ।सतां च धर्मनित्यानां कृतशोभि च राघव ॥२-४-२७॥ इत्युक्तः सोओऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने ।व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥२-४-२८॥ प्रविश्य चात्मनो वेश्म राज्ञोद्धिष्टेऽभिषेचने ।तत्क्षणेन च निर्गम्य मातुर्न्तःपुरं ययौ ॥२-४-२९॥ तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् ।वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥२-४-३०॥ प्रागेव चागता तत्र सुमित्रा लक्ष्मण स्तदा ।सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥२-४-३१॥ तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा ।सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ॥२-४-३२॥ श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् ।प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥२-४-३३॥ तथा सनियमामेव सोऽभिगम्याभिवाद्य च ।उवाच वचनं रामो हर्ष्यंस्तामिदं तदा ॥२-४-३४॥ अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।भविता श्वोऽभिषेको मे यथा मि शासनं पितुः ॥२-४-३५॥ सीतया प्युपवस्तव्या रजनीयं मया सह ।एवमृत्विगुपाध्यायैस्सह मामुक्तवान् पिता ॥२-४-३६॥ यानि यान्यत्र योग्यानि श्वो भाविन्यभिषेचने ।तानि मे मङ्गLआन्यद्य वैदेह्याश्चैव कारय ॥२-४-३७॥ एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् ।हर्ष्बाष्पकलं वाक्यमिदं राम मभाषत ॥२-४-३८॥ वत्स राम चिरं जीव हतास्ते परिपन्थिनः ।ज्ञातीन्मे त्वं श्रियायुक्तः सुमित्रायाश्च नन्दय ॥२-४-३९॥ कल्याणे बत न्क्षत्रे मयि जातोऽसि पुत्रक ।येन त्वया दशरथो गुणैराराधितः पिता ॥२-४-४०॥ अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे ।येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥२-४-४१॥ इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् ।प्राञ्जलिं प्रह्वमासीनमभिवीख्स्य स्मयन्निव ॥२-४-४२॥ लक्ष्मणेमां माया सार्धं प्रशाधि त्वं वसुन्धराम् ।द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥२-४-४३॥ सौमित्रे भुङ्क्ष्व भोगां स्त्वमिष्टान् राज्यफलानि च ।जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥२-४-४४॥ इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेश्नम् ॥२-४-४५॥ सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने ।पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥२-५-१॥ गच्छोपवासं काकुत्थ्सं कारयाद्य तपोधन ।श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥२-५-२॥ तथेति च स राजानमुक्त्वा वेदविदां वरः ।स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥२-५-३॥ उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः ।ब्राह्मं रथवरं युक्तमास्थाय सुदृधव्रतः ॥२-५-४॥ स रामभवनं प्रप्य पाण्डुराभ्रघनप्रभम् ।तिस्रः कक्ष्या र्थेनैव विवेश मुनिसत्तमः ॥२-५-५॥ तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः ।मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥२-५-६॥ अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः ।ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥२-५-७॥ सचैनं प्रश्रितं दृष्ट्वा सं भाष्याभिप्रसाद्य च ।प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥२-५-८॥ प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि ।उपवासं भवानद्य करोतु सह सीतया ॥२-५-९॥ प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥२-५-१०॥ इत्युक्त्वा स तदा राम मुपवासं यतव्रतम् ।मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥२-५-११॥ ततो यथावद्रामेण स राज्ञो गुरुरर्चितः ।अभ्यनुज्ञाप्य काकुत्थ्सं ययौ रामनिवेशनात् ॥२-५-१२॥ सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः ।सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥२-५-१३॥ हृष्टनारीनरयुतं रामवेश्म तदा बबौ ।यथा मत्तद्विजगणं प्रपुल्लनलिनं सरः ॥२-५-१४॥ स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ।निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥२-५-१५॥ बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः ।बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥२-५-१६॥ जनबृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा ।बभूव राजमार्गस्य सागरस्येव निस्वनः ॥२-५-१७॥ सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी ।आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥२-५-१८॥ तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः ।रामाभिषेकमाकाञ्क्षन्नाकाण्क्षदुदयं रवेः ॥२-५-१९॥ प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम् ।उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥२-५-२०॥ एवं तं जनसंबाधं राजमार्गं पुरोहितः ।व्यूहन्निव जनौघं तं शनैराजकुलं ययौ ॥२-५-२१॥ सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः ।समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥२-५-२२॥ तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ।पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥२-५-२३॥ तेन चैव तदा तुल्यं सहासीनाः सभासदः ।आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥२-५-२४॥ गुरुणा त्वभ्यनुज्ञातो मनिजौघं विसृज्य तम् ।विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥२-५-२५॥ तमग्र्यवेष्प्रमदाजनाकुलं ।महेन्द्रवेश्मप्रतिमं निवेशनम् ।विदीपयंश्चारु विवेश पार्थिवः ।शशीव तारागणसंकुलं नभः ॥२-५-२६॥ गते पुरोहिते रामः स्नातो नियतमानसः ।सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥२-६-१॥ प्रगृह्य शिरसा पात्रं हविषो विधिवत्तदा ।महते दैवतायाज्यं जुहाव ज्वलितानले ॥२-६-२॥ शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ।ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥२-६-३॥ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥२-६-४॥ एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।अलञ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥२-६-५॥ तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् ।पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥२-६-६॥ तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् ।विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥२-६-७॥ तेषां पुण्याहघोषोऽध गम्भीरमधुरस्तदा ।अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥२-६-८॥ कृतोपवासं तु तदा वैदेह्या सह राघवम् ।अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥२-६-९॥ ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥२-६-१०॥ सिताभ्रशिखराभेषु देवतायतनेषु च ।चतुष्पधेषु रध्यासु चैत्येष्वट्टाल केषु च ॥२-६-११॥ नानापण्यसमृद्धेषु वणिजामापणेषु च ।कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥२-६-१२॥ सभासु चैव सर्वासु वृक्षेष्वालक्षितेएशु च ।ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥२-६-१३॥ नटनर्तकसंघानां गायकानां च गायताम् ।मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥२-६-१४॥ रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ।रामाभिषेके संप्रप्ते चत्वरेषु गृहेषु च ॥२-६-१५॥ बाला अपि क्रीडमाना गृ हद्वारेषु संघशः ।रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः ॥२-६-१६॥ कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ।राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥२-६-१७॥ प्रकाशकरणार्धं च निशागमनशञ्कया ।दीपवृक्षां स्तथाचक्रु रनुर्थ्यसु सर्वशः ॥२-६-१८॥ अलङ्कारं पुरस्त्यवं कृत्वा तत्पुरवासिनः ।आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥२-६-१९॥ समेत्य संघशः सर्वे चत्वरेषु सभासु च ।कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥२-६-२०॥ अहोओ महात्मा राजायमिक्ष्वाकुकुलनन्दनः ।ज्ञात्वा यो वृद्ध मात्मानं रामं राज्येऽभिषेक्ष्यति ॥२-६-२१॥ सर्वेऽप्यनुगृहीताः स्म यन्नो रामो महीपतिः ।चिराय भविता गोप्ता दृष्टलोकपरावरः ॥२-६-२२॥ आनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः ।यधा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥२-६-२३॥ चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ।यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥२-६-२४॥ एवंविधं कथयतां पौराणां शुश्रुवुस्तदा ।दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ताजानपदा नराः ॥२-६-२५॥ ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥२-६-२६॥ जनौघै स्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः ।पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥२-६-२७॥ ततस्तदिन्द्रक्षयसन्निभं पुरं ।दिदृक्षुभिर्जानपदै रुपागतैः ।समन्ततः सस्वनमाकुलं बभौ ।समुद्रयादोभि रिवार्णवोदकम् ॥२-६-२८॥ जञातिदासी यतो जाता कैकेय्या तु सहोषिता ।प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥२-७-१॥ सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् ।अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥२-७-२॥ पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् ।वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् ॥२-७-३॥ माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ।शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्॥२-७-४॥ संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ॥२-७-५॥ प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् ।अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत॥२-७-६॥ प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् ।अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥२-७-७॥ उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥२-७-८॥ अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे ।कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥२-७-९॥ विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।आच्च्क्षे/अथ कुब्जायै भूयसीं राघवश्रियम् ॥२-७-१०॥ श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।राजा दशरथो राममभिषेचयितानघम् ॥२-७-११॥ धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।कैलासशिखराकारात्प्रासादादवरोहत ॥२-७-१२॥ सा दह्यमाना कोपेन मनथरा पापदर्शिनी ।शयानामेत्य कैकेयीमिदं वचन मब्रवीत् ॥२-७-१३॥ उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥२-७-१४॥ अनिष्टे सुभगाकारे सौभग्येन विकत्थसे ।चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥२-७-१५॥ एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥२-७-१६॥ कैकेयि त्वब्रवीत्कुभां कच्चित्क्षेमं न मनथरे ।विषण्णवदनां हि त्वां लक्षये भृ शदुःखिताम् ॥२-७-१७॥ मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् ।उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥२-७-१८॥ सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।विषदयन्ती प्रोवाच भेदयन्ती च राघवम् ॥२-७-१९॥ अक्षय्यं सुमहद्देवि प्रवृत्तं द्वद्विनाशनम् ।रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥२-७-२०॥ सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता ।दह्यमानाऽ नलेनेव त्वद्धितार्थमिहागता ॥२-७-२१॥ तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥२-७-२२॥ नराधिपकुले जाता महिषी त्वं महीपतेः ।उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥२-७-२३॥ धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।शुद्धभावे न जानीषे तेनैवमतिसन्धिता ॥२-७-२४॥ उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम् ।अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥२-७-२५॥ अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥२-७-२६॥ शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥२-७-२७॥ यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।राजञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥२-७-२८॥ पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते ।रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥२-७-२९॥ सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥२-७-३०॥ मन्थराया वचः श्रुत्वा शयनात्स शुभानना ।उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखव शारदी ॥२-७-३१॥ अतीव सा तु संहृष्टाअ कैकेयी विस्मयान्विता ।एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥२-७-३२॥ दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥२-७-३३॥ इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥२-७-३४॥ रामे वा भरते वाहं विशेषं नोपलक्षये ।तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥२-७-३५॥ न मे परं किञ्चि दितस्त्वयापि न ।प्रियं प्रियार्हे सुवचं वचो वरम् ।तथा ह्यवोचस्त्वमतः प्रियोत्तरं ।वरं वरं ते प्रददामि तं वृणु ॥२-७-३६॥ मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत्।उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥२-८-१॥ हर्षं किमिदमस्थाने कृतवत्यसि बालिशे ।शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥२-८-२॥ मनसा प्रहसामि त्वां देवि दुःखार्धिता सती ।यच्छोचितव्ये हृष्टासि प्राप्येदं व्यसनं महत् ॥२-८-३॥ शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् ।अरेः सपत्नीपुत्रस्य वृद्धिं मृत्युमिवागताम् ॥२-८-४॥ भरतादेव रामस्य राज्यसाधारणाद्भयम् ।तद्विचिन्त्य विषण्णास्मि भय भीताद्धि जायते ॥२-८-५॥ लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः ।शत्रुघ्नश्चापि भरतं काकुत्थ्सं लक्ष्मणो यथा ॥२-८-६॥ प्रत्यासन्नक्रमेणापि भरतस्तैव भामिनि ।राज्यक्रमो विप्रकृष्टस्तयोस्तावत्कनीयसोः ॥२-८-७॥ विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः ।भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥२-८-८॥ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥२-८-९॥ प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् ।उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥२-८-१०॥ एवम् चेत्त्वं सहास्माभिस्तस्याः प्रेष्य भविष्यसि ।पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ॥२-८-११॥ हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ।अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥२-८-१२॥ तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः ।रामस्यैव गुणान् देवी कैकेयि प्रशशंस ह ॥२-८-१३॥ धर्मज्ञो गुरुभिर्दान्तः कृतज्ञ सत्यवाक्चुचि ।रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥२-८-१४॥ भ्रात्R^ऊन्भऋत्यांश्च दीर्घायुः पितृवत्पालयिष्यति ।संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥२-८-१५॥ भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् ।पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥२-८-१६॥ सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे ।भविष्यति च क्ल्याणे किमर्थं परितप्यसे ॥२-८-१७॥ यथा ने भरतो मान्यस्तथा भूयोऽपि राघावः ।कौसल्यातोऽरिक्तं च सो हि शुश्रूषते हि माम् ॥२-८-१८॥ राज्यं यदि हि रामस्य भरतस्यापि तत्तदा ।मन्यते हि यथात्मानं तथा भ्रात्R^ऊंश्च राघवः ॥२-८-१९॥ कैकेयीवचनं श्रुत्वा मन्थरा भृशदुःखिता ।दीर्घमुष्णं निःश्वस्य कैकेयीमिदमब्रवीत् ॥२-८-२०॥ अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे ।शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥२-८-२१॥ भविता राघवो राजा राघवस्यानु यः सुतः ।राजवंशात्तु कैकेयि भरतः परिहास्यते ॥२-८-२२॥ न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥२-८-२३॥ तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः ।स्थापयन्त्यनवद्याङ्गि गुणवत्स्वतरेष्वपि ॥२-८-२४॥ असावत्यन्तनिर्भग्न स्तवपुत्रो भविष्यति ।अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ॥२-८-२५॥ साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे ।सपत्निवृद्दौ या मे त्वं प्रदेयं दातुमिच्चिसि ॥२-८-२६॥ ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् ।देशान्तरं वासयिता लोकान्तरमथापि व ॥२-८-२७॥ बाल एव हि मातुल्यं भरतो नायितस्त्वया ।सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ॥२-८-२८॥ भरतस्यानुवशगः शत्रुघ्नोऽपि समं गतः ।लक्ष्मणो हि यथा रामं तथासौ भरतं गतः ॥२-८-२९॥ श्रूयते हि द्रुमः कश्चिच्चेत्तव्यो वनजीविभिः ।सन्निकर्षादिषीकाभिर्मो चितः परमाद्भयात् ॥२-८-३०॥ गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः ।अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥२-८-३१॥ तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति ।रामस्तु भरते पापं कुर्यादिति न सं शयः ॥२-८-३२॥ तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ।एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥२-८-३३॥ एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ।यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति ॥२-८-३४॥ स ते सुखोचितो बालो रामस्य सहजो रिपुः ।समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥२-८-३५॥ अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥२-८-३६॥ दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।राममाता सपत्नी ते कथं वैरं न शातयेत् ॥२-८-३७॥ यदा हि रामः पृथिवीमवाप्स्यति ।प्रभूतरत्नाकरशैलपत्तनाम् ।तदा गमिष्यस्यशुभं पराभवं ।सहैव दीना भरतेन भामिनि ॥२-८-३८॥ यदा हि रामः पृथिवीमवाप्स्यति ।ध्रुवं प्रणष्टो भरतो भविष्यति ।अतो हि संचिन्तय राज्यमात्मजे ।पर्स्य चैवाद्य विवासकारणम् ॥२-८-३९॥ एवमुक्ता तु कैकेयी कोपेन ज्वलितानना ।दीर्घमुष्टम् विनिःश्वस्य मन्थरामिदम् अब्रवीत् ॥२-९-१॥ अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् ।यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥२-९-२॥ इदं त्विदानीं संपश्य केनोपायेन मन्थरे ।भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन॥२-९-३॥ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥२-९-४॥ हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ।यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥२-९-५॥ किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे ।यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥२-९-६॥ मयोच्यमानं यदि ते श्रोतुं च्छ्न्दो विलासिनि ।श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम् ॥२-९-७॥ श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयि ।किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ॥२-९-८॥ कथय त्वं ममोपायं केनोपायेन मन्थरे ।भरतः प्राप्नुयाद्रज्यं न तु रामः कथंचन ॥२-९-९॥ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥२-९-१०॥ तव दैवासुरे युद्धे सहराजर्षिभिः पतिः ।अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥२-९-११॥ दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति ।वैजयन्तमिति क्यातं पुरं यत्र तिमिध्वजः ॥२-९-१२॥ स शम्बर इति ख्यातः शतमायो महासुरः ।ददौ शक्रस्य संग्रामं देवसङिघैरनिर्जितः ॥२-९-१३॥ तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान् ।रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसासाद्य राक्षसाः ॥२-९-१४॥ तत्राकरोन्महायुद्धं राजा दशरथ स्तदा ।असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥२-९-१५॥ अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः ।तत्रपि विक्षतः शस्रैः पतिस्ते रक्षितस्त्वया ॥२-९-१६॥ तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ।सत्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ॥२-९-१७॥ गृह्णीयामिति तत्तन तधेत्युक्तं महात्मना ।अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा ॥२-९-१८॥ कथैषा तव तु स्नेहान्मनसा धार्यते मया ।रामाभिषेकसंभारान्निगृह्य विनिवर्तय ॥२-९-१९॥ तौ वरौ याच भर्तारं भरतस्याभिषेचनम् ।प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥२-९-२०॥ चतुर्दश हि वर्षाणिरामे प्रव्राजिते वनम् ।प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥२-९-२१॥ क्रोधागारं प्रविश्याद्य कृद्द्धेवाश्वपतेः सुते ।शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥२-९-२२॥ मास्मैनं प्रत्युदीक्षेथा माचैन मभिभाषथाः ।रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ॥२-९-२३॥ दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥२-९-२४॥ न त्वां क्रोधयितुं शक्तोन क्रुद्धां प्रत्युदीक्षितुम्।तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥२-९-२५॥ न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः ॥२-९-२६॥ मणिमुक्तं सुवर्णानि रत्नानि विविधानि च ।दद्याद्धशरथो राजा मा स्म तेषु मनः कृथाः ॥२-९-२७॥ यौ तौ दैवासुरे युद्धे वरौ द्शरथोऽददात् ।तौ स्मारय महाभागे सोऽर्थो मात्वामतिक्रमेत् ॥२-९-२८॥ यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ।व्यवस्थाप्य महाराजं तमिमं वृणुया वरम् ॥२-९-२९॥ रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभ ॥२-९-३०॥ चतुर्दश हि वर्षाणि रामे प्रव्राजिते वन्म् ।रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥२-९-३१॥ रामप्रव्राजनं चैव देवि याचस्व तं वरम् ।एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥२-९-३२॥ एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति ।भरतश्च हतामित्रस्तव राजा भविष्यति ॥२-९-३३॥ येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ॥२-९-३४॥ सुगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ।प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा ॥२-९-३५॥ रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय ।अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥२-९-३६॥ हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ।सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ।कैकेयी विस्मयं प्राप्ता परं परमदर्शना ॥२-९-३७॥ कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ह्ठभिधायिनीम् ।पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिर्णये ॥२-९-३८॥ त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥२-९-३९॥ नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम् ।सन्ति दुःसंस्थिताः कुब्जा वक्राः परमदारुणाः ॥२-९-४०॥ त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ।उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात्समुन्नतम् ॥२-९-४१॥ अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ।परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ॥२-९-४२॥ विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे ।जघनं तव निर्घुष्टं रशनादामशोभितम् ॥२-९-४३॥ जङघे भ्^इशमुपन्यस्ते पादौ चाप्यायतावुभौ ।त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ।अग्रतो मम गच्छन्ती राजहंसेव भाससे॥२-९-४४॥ आसन्याः शम्बरे मायाः सहस्रमसुराधिपे ॥२-९-४५॥ सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ।तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् ॥२-९-४६॥ मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ।अत्रते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ॥२-९-४७॥ अभिषिक्ते च भरते राघवे च वनं गते ।जात्येन च सुवर्णेन सुविष्टप्तेन मन्थरे ॥२-९-४८॥ लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ।मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥२-९-४९॥ कारयिष्यामि ते कुब्जे शुभान्यभरणानि च।परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥२-९-५०॥ चंद्रमाह्वयमानेन मुखेनाप्रतिमानना।गमिष्यसि गतिं मुख्यांगर्वयन्ती द्विषज्जने ॥२-९-५१॥ तवापि कुब्जायाः सर्वाभरणभूषिताः ।पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥२-९-५२॥ इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥२-९-५३॥ गतोदके सेतुबन्दो न कल्याणि विधीयते ।उत्तिष्ठ कुरु कल्याणं राजानमसुदर्शय॥२-९-५४॥ तथा प्रोत्साहिता देवी गता मन्थरया सह ।क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥२-९-५५॥ अनेकशतसाहस्रं मुक्ताहारं वराङ्गना ।अवमुच्य वराराणि शुभान्याभरणानि च ॥२-९-५६॥ ततो हेमोपमा तत्र कुब्जावाक्यवशंगता ।संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥२-९-५७॥ इह वा मां मृतां कुब्जे णृपायावेदयिष्यसि ।वनं तु राघवे प्राप्तेभरतः प्राप्स्यति क्षितिम्॥२-९-५८॥ न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः ।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥२-९-५९॥ अथो पुनस्तां महिषीं महीक्षितो ।वचोभिरत्यर्थ महापराक्रमैः ।उवाच कुब्जा भरतस्य मातरं ।हितं वचो राममुपेत्य चाहितम् ॥२-९-६०॥ प्रपत्स्यते राज्यमिदं हि राघवो ।यदि ध्रुवं त्वं स सुता च तप्स्यसे ।अतो हि कल्याणि यतस्व तत्तथा ।यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥२-९-६१॥ तथातिविद्धा महिषि तु कुब्जया ।समाहता वागिषुभिर्मुहुर्मुहुः ।विधाय हस्तौ हृदयेऽतिविस्मिता ।श्शंस कुब्जां कुपिता पुनः पुनः ॥२-९-६२॥ यमस्य वा मां विषयं गतामितो ।निशाम्य कुब्जे प्रतिवेदयिष्यसि ।वनं गते वा सुचिराय राघवे ।समृद्धकामो भरतो भविष्यति ॥२-९-६३॥ अहं हि वै नास्तरणानि न स्रजो ।न चन्दनं नाञ्जनपानभोजनम् ।न किंचिदिच्छामि न चेह जीवितं ।न चेदितो गच्छति राघवो वनम् ॥२-९-६४॥ अथैतदुक्त्वा वचनं सुदारुणं ।न्धाय सर्वाभरणानि भामिनी ।असंवृतामास्तरणेन मेदिनीं ।तदाधिशिश्ये पतितेव किन्नरी ॥२-९-६५॥ उदीर्णसंरम्भतमोवृतानना ।तदावमुक्तोत्तममूल्यभूषणा ।नरेन्द्रपत्नी विमना बभूव सा ।तमोवृता द्यौरिव मग्नतारका ॥२-९-६६॥ विदर्शिता यदा देवी कुब्जया पापया भृशम् ।तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ॥२-१०-१॥ निश्चित्य मनसा कृत्यम् सा सम्यगिति भामिनी ।मन्थरायै श्नः सर्वमाच्चक्षे विचक्षणा ॥२-१०-२॥ सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ।नागकन्येव निःस्वस्य दीर्घमुष्णं च भामिनी ॥२-१०-३॥ मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम् ।सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम् ॥२-१०-४॥ बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा ।अथ सा रुषिता देवी सम्यक्कृत्वा विनिश्चयम् ॥२-१०-५॥ संविवेशाबला भूमौ निवेश्य भृकुटिं मुखे ।ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥२-१०-६॥ अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ।तया तान्यपविद्धानि माल्यान्याभरणानि च ॥२-१०-७॥ अशोभयन्त वसुधां नक्षत्राणि यथा नभः ।क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ॥२-१०-८॥ एकवेणीं दृढं बद्ध्वा गतसत्त्वेव किन्नरी ।आज्ञाप्य तु महाराजो राघवस्याभिषेचन्म् ॥२-१०-९॥ उपस्थासमनुज्ञाप्य प्रविवेश निवेशन्म् ।अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥२-१०-१०॥ प्रियार्हं प्रियमाख्यातुं विवेशान्तःपुरं वशी ।स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥२-१०-११॥ पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः ।शुकबर्हिणसंयुक्तं क्रौञ्चहंसरुतायुतम् ॥२-१०-१२॥ वादित्ररवसंघुष्टं कुब्जावामनिकायुतम् ।लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः ॥२-१०-१३॥ दान्तराजत सौवर्णवेदिकाभिस्समायुतम् ।नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ॥२-१०-१४॥ दान्तराजतसौवर्णैः संवृतं परमासनैः ।विविध्यैरन्नपानैश्छ भक्ष्यैश्चवि विधैरपि ॥२-१०-१५॥ उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् ।तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥२-१०-१६॥ न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ।स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ॥२-१०-१७॥ अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च ।न ही तस्य पुरा देवी तां वेLआमत्यवर्तत ॥२-१०-१८॥ न च राजा गृहं शून्यं प्रविवेश कदाचन ।ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥२-१०-१९॥ यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ।प्रतीहारी त्वथोवाच संत्रस्ता तु क्R^ताञ्जलिः ॥२-१०-२०॥ देव देवी भृशं कृद्धा क्रोधागारमभिद्रुता ।प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः ॥२-१०-२१॥ विषसाद पुनर्भुयो लुलितव्याकुलेन्ध्रियः ।तत्रतां पतितां भूमौ शयानामतथोचिताम् ॥२-१०-२२॥ प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः ।स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ॥२-१०-२३॥ अपापः पापसङ्कल्पां ददर्श धरणीतले ।लतामिव विनिष्कृत्तां पतितां देव तामिव ॥२-१०-२४॥ किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ।मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥२-१०-२५॥ क्रेणुमिव दिग्धेन विद्धां मृगयुना वने ।महागज इन्वारण्ये स्नेहात्परिममर्श ताम् ॥२-१०-२६॥ परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः ।कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥२-१०-२७॥ न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।देवि केनाभिशप्तासि केन वासि विमानिता ॥२-१०-२८॥ यदिदं ममम् दुःखाय शेशे क्ल्याणि पांसुषु ।भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ।भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥२-१०-२९॥ सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ।सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥२-१०-३०॥ कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ।कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥२-१०-३१॥ मा रोदीर्मा च कार्षिस्त्वं देवि संपरिशोषणम् ॥२-१०-३२॥ अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ।दरिद्रः को भवेदाढ्यो द्रव्यवान्वाप्यकिञ्चनः ॥२-१०-३३॥ अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।न ते किम्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥२-१०-३४॥ आत्मनो जीवितेनापि ब्रुहि यन्मनसेच्छसि ।बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥२-१०-३५॥ करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।यावदावर्त ते चक्रं तावती मे वसुन्धरा ॥२-१०-३६॥ प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ।वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः ॥२-१०-३७॥ तत्र जातं बहुद्रव्यं धनधान्य मजाविकम् ।ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥२-१०-३८॥ किमायासेन ते भीरु उत्तिष्टोत्तिष्ट शोभने ।तत्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥२-१०-३९॥ तत्ते व्यपनयिष्यामि नीहरमिव र्श्मिवान् ।तथोक्ता सा समास्वस्ता वक्तुकामा तदप्रियम् ॥२-१०-४०॥ परिपीडयितुं भूयो भर्तारमुपचक्रमे । तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥२-११-१॥ नास्मि विप्रकृता देव केन चिन्नावमानिता ।अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥२-११-२॥ प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तु मिच्छसि ।अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥२-११-३॥ तामुवाच महातेजाः कैकेयीमीषदुत्स्मैतः ।कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ॥२-११-४॥ अवलिप्ते न जानासि त्वत्तः प्रियतरो मम ।मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥२-११-५॥ तेनाजय्येन मुख्येन राघवेण महात्मना ।शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥२-११-६॥ यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ।तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-७॥ आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् ।तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-८॥ भद्रे हृदयमप्येतदन्नुमृश्योद्धरस्व मे ।एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥२-११-९॥ बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ।करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥२-११-१०॥ सा तदर्थमना देवी तमभिप्रायमागतम् ।निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ॥२-११-११॥ तेन वाक्येन संहृष्टा तमभिप्रायमागतम् ।व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥२-११-१२॥ यथा क्रमेण शपसि वरं मम ददासि च ।तच्छृण्वन्तु त्रयस्त्रींशद्देवाः साग्निपुरोगमाः ॥२-११-१३॥ चन्द्रादित्यौ नभशैव ग्रहा रात्र्यहनी दिशः ।जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ॥२-११-१४॥ निशाचराणि भूतानि गृहेषु गृहदेवताः ।यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥२-११-१५॥ सत्य्सन्धो महातेजाधर्मज्ञः सुसमाहितः ।वरं मम ददात्येष तन्मे शृण्वन्तु देवताअः ॥२-११-१६॥ इति देवी महेष्वासं परिगृह्यभिशस्य च ।ततः परमुवाचेदं वरदं काममोहितम् ॥२-११-१७॥ स्मर राज्न् पुरा वृत्तं तस्मिन् दैवासुरे रणे ।तत्र चाच्यावयच्छत्रुस्तव जीवतमन्तरा ॥२-११-१८॥ तत्र चापि मया देव यत्त्वं समभिरक्षितः ।जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥२-११-१९॥ तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् ।तथैव पृथिवीपाल सकाशे सत्यसंगर ॥२-११-२०॥ तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥२-११-२१॥ वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः ।प्रच्स्कन्द विनाशाय पाशं वृग इवात्मनः ॥२-११-२२॥ ततः परमुवाचेदं वरदं काममोहितम् ।वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥२-११-२३॥ तौ तावदहम्द्यैव वक्ष्यामि शृणु मे वचः ।अभिषेकसमारम्भओ राघवस्योपकल्पितः ॥२-११-२४॥ अनेनैवाभिषे केण भरतो मेऽभिषिच्यताम् ।यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥२-११-२५॥ तदा दैवासुरे युद्धे तस्य कालोऽय मागतः ।नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥२-११-२६॥ चीराजिनजटाधारी रामो भवतु तापसः ।भरतो भजतामद्य यौवराज्यमकण्टकम् ॥२-११-२७॥ एष मे परमः कामो दत्तमेव वरं वृणे ।अद्यचैव हि पश्येयं प्रयान्तं राघवं वन्म् ॥२-११-२८॥ स राजराजो भव स्त्यसंगरः ।कुलं च शीलं च हि रक्ष जन्म च ।परत्र वासे हि वद्न्त्यनुत्तमं ।तपोधनाः सत्यवचो हितं नृणाम् ॥२-११-२९॥ ततः श्रुत्वा महाराजः कैकेय्या दारुणम् वचः ।चिन्तामभिसमापेदे मुहूर्तम् प्रतताप च ॥२-१२-१॥ किम् नु मे यदि वा स्वप्नश्चित्तमोहोओऽपि वामम ।अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ॥२-१२-२॥ इति सम्चिन्त्य तद्राजा नाध्यगच्छ त्तदा सुखम् ।प्रतिलभ्य चिरात्सम्ज्ञाम् कैकेयीवाक्यताडितः ॥२-१२-३॥ व्यथितो विक्लबशचैव व्याघ्रीम् दृष्ट्वा यथा मृगः ।असम्वृतायामासीनो जगत्याम् दीर्घमुच्छ्वसन् ॥२-१२-४॥ मण्ड्ले पन्नगो रुद्धो मन्त्रैरिव महाविषः ।अहोधिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥२-१२-५॥ मोहमापेदिवान्भूयः शोकोपहतचेतनः ।चिरेण तु नृपः सम्ज्ञाम् प्रतिलभ्य सुदुःखितः ॥२-१२-६॥ कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा ।नृशम्से दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥२-१२-७॥ किम् कृतम् तव रामेण पापं पापे मयापि वा ।त्वं ममात्मविनाशार्थम् भवनम् स्वं प्रवेशिता ॥२-१२-८॥ अविज्ञानान्नृपसुता व्याLई तीक्ष्णविषा यथा ।जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-९॥ अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-१०॥ अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।कौसल्याम् वा सुमित्राम् वा त्यजेयमपि वा श्रियम् ॥२-१२-११॥ जीवितम् वात्मनो रामम् न त्वेव पितृवत्सलम् ।परा भवति मे प्रीतिर्धृष्ट्वा तनयमग्रजम् ॥२-१२-१२॥ अपश्यतस्तु मे रामम् नष्टा भवति चेतना ।तिष्ठेल्लोको विना सूर्यम् सस्यम् वा सलिलम् विना ॥२-१२-१३॥ न तु रामम् विना देहे तिष्ठेत्तु मम जीवितम् ।तदलम् त्यज्यतामेष निश्चयः पापनिश्चये ॥२-१२-१४॥ अपिते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ।किमिदम् चिन्तितम् पापे त्वया परमदारुणम् ॥२-१२-१५॥ अथ जीज्ञाससे माम् त्वम् भरतस्य प्रियाप्रिये ।अस्तुयत्तत्त्वयाअपूर्वम् व्याहृतम्राघवम्प्रति ॥२-१२-१६॥ स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे ।तत्त्वया प्रियवादिन्या सेवार्थम् कथितम् भवेत् ॥२-१२-१७॥ तच्छ्रुत्वा शोकसम्तप्ता सम्तापयसि माम् भृशम् ।आविष्टासि गृहम् शून्यम् सा त्वम् परवशम् गता ॥२-१२-१८॥ इक्ष्वाकूणाम् कुले देवि सम्प्राप्तः सुमहानयम् ।अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥२-१२-१९॥ न हि किम्चिदयुक्तम् वा विप्रियम् वा पुरा मम ।अकरोस्त्वम् विशालाक्षि तेन न श्रद्दधाम्यहम् ॥२-१२-२०॥ ननु ते राघवस्तुल्यो भरतेन महात्मना ।बहुशो हि स्म बाले त्वम् कथयसे मम ॥२-१२-२१॥ तस्य धर्मात्मनो देवि वनवासम् यशस्विनः ।कथम् रोचयसे भीरु नव वर्षाणि पञ्च च ॥२-१२-२२॥ अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः ।कथम् रोचयसे वासमरण्ये भृशदारुणे ॥२-१२-२३॥ रोचयस्यभिरामस्य रामस्य शुभलोचने ।तवशुश्रूषमाणस्य किम्मर्थम् विप्रवासनम् ॥२-१२-२४॥ रामो हि भरताद्भूयस्तव शुश्रूष्ते सदा ।विशेषम् त्वयि तस्मात्तु भरतस्य न लक्षये ॥२-१२-२५॥ शुश्रूषाम् गौरवम् चैव प्रमाणम् वचनक्रियाम् ।कस्ते भूयस्तरम् कुर्यादन्यत्र मनुजर्षभात् ॥२-१२-२६॥ बहूनाम् स्त्रीसहस्राणाम् बहूनाम् चोपजीविनाम् ।परिवादोऽपवादो वा राघवे नोपपद्यते ॥२-१२-२७॥ सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा ।गृह्णाति मनुजव्याग्रः प्रियैर्विषयवासिनः ॥२-१२-२८॥ सत्येन लोकान् जयति दीनान् दानेन राघवः ।गुरून् शुश्रूषया वीरो धनुशा युधि शात्रवान् ॥२-१२-२९॥ सत्यम् दानम् तपस्त्यगो वित्रता शौचमार्जवम् ।विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥२-१२-३०॥ तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् ।पापमाशम्ससे रामे महर्षिसमतेजसि ॥२-१२-३१॥ न स्मराम्यप्रियम् वाक्यम् लोकस्य प्रियवादिनः ।स कथम् त्वत्कृते रामम् वक्ष्यामि प्रियमप्रियम् ॥२-१२-३२॥ क्षमा यस्मिन् दमस्त्यागः सत्यम् धर्मः कृतज्ञता ।अप्यहिम्सा च भूतानाम् तमृते का गतिर्मम ॥२-१२-३३॥ मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः ।दीनम् लालप्यमानस्य कारुण्यम् कर्तुमर्हसि ॥२-१२-३४॥ पृथिव्याम् सागरान्तायाम् यत्किञ्चैदधिगम्यते ।तत्सर्वम् तव दास्यामि मा च त्वाम् मन्युराविशेत् ॥२-१२-३५॥ अञ्जलिम् कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।शरणम् भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥२-१२-३६॥ इति दुःखाभिसन्तप्तम् विलपन्तमचेतनम् ।घूर्णमानम् महाराजम् शोकेन समभिप्लुतम् ॥२-१२-३७॥ पारम् शोकार्णवस्याशु प्रार्थयन्तम् पुनः पुनः ।प्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरम् वचः ॥२-१२-३८॥ यदि दत्वा वरौ राजन् पुनः प्रत्यनुतप्यसे ।धार्मिकत्वम् कथम् वीर पृथिव्याम् कथयिष्यसि ॥२-१२-३९॥ यदा समेता बहवस्त्वया राजर्षयस्सह ।कथयिष्यन्ति धर्मज्ञ तत्र किम् प्रतिवक्ष्यसि ॥२-१२-४०॥ यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ।तस्याः कृतम् मया मिथ्या कैकेय्या इति वक्ष्यसि ॥२-१२-४१॥ किल्बिषम् नरेन्ध्राणाम् करिष्यसि नराधिप ।यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥२-१२-४२॥ शैब्यः श्येनकपोतीये स्वमाम्सं पक्षिते ददौ ।अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम् ॥२-१२-४३॥ सागरः समयम् कृत्वान वेलामतिवर्तते ।समयम् माऽनृतम् कार्षीः पुर्ववृत्तमनुस्मरन् ॥२-१२-४४॥ स त्वम् धर्मम् परित्यज्य रामम् राज्येऽभिषिच्यच ।सह कौलस्यया नित्यम् रन्तुमिच्छसि दुर्मते ॥२-१२-४५॥ भवत्वधर्मो धर्मो वा सत्यम् वा यदि वानृतम् ।यत्त्वया सम्श्रुतम् मह्यम् तस्य नास्ति व्यतिक्रमः ॥२-१२-४६॥ अहम् हि विषमद्यैव पीत्वा बहु तवाग्रतः ।पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥२-१२-४७॥ एकाहमपि पश्येयम् यद्यहम् राममातरम् ।अञ्जलिम् प्रतिगृह्णन्तीम् श्रेयो ननु मृतिर्मम ॥२-१२-४८॥ भरतेनात्मना चाहम् शपे ते मनुजाधिप ।यथा नान्येन तुष्येयमृते रामविवासनात् ॥२-१२-४९॥ एतावदुक्त्वा वचनम् कैकेयी विरराम ह ।विलपन्तम् च राजानम् न प्रतिव्याजहार सा ॥२-१२-५०॥ श्रुत्वा तु राजा कैकेय्या वृतम् परमशोभनम् ।रामस्य च वने वासमैश्वर्यम् भरतस्य च ॥२-१२-५१॥ नाभ्यभाषत कैकेय्यिम् मुहूर्तम् व्याकुलेन्द्रियः ।प्रैक्षतानिमिषो देवीम् प्रियामप्रियवादिनीम् ॥२-१२-५२॥ ताम् हि वज्रसमाम् वाचमाकर्ण्य हृदया प्रियाम् ।दुःखशोकमयीम् घोराम् राजा न सुखितोऽभवत् ॥२-१२-५३॥ स देव्या व्यवसायम् च घोरम् च शपथम् कृतम् ।ध्यात्वा रामेति निश्श्वस्य छिन्नस्तरुरिवापतत् ॥२-१२-५४॥ नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः ।हृततेजा यथा सर्पो बभूव जगतीपतिः ॥२-१२-५५॥ दीनया तु गिरा राजा इति होवाच कैकयिम् ।अनर्थमिममर्थाभम् केन त्वमुपदर्शिता ॥२-१२-५६॥ भूतोपहतचित्तेव ब्रुवन्ती माम् न लज्जसे ।शीलव्यसनमेतत्ते नाभिजानाम्यहम् पुरा ।ब३लायास्तत्त्विदानीम् ते लक्षये विपरीतवत् ॥२-१२-५७॥ कुतो वा ते भयम् जातम् या त्वमेवम्विदम् वरम् ।राष्ट्रे भरतमासीनम् वृणीषे राघवम् वने ॥२-१२-५८॥ विरमैतेन भावेन त्वमेतेनानृतेन वा ॥२-१२-५९॥ यदि भर्तुः प्रियम् कार्यम् लोकस्य भरतस्य च ।वृशम्से पापसम्कल्पे क्षुद्रे दुष्कृतकारिणि ॥२-१२-६०॥ किम् नु कुःखमLईकम् वा मयि रामे च पश्यसि ।न कथम्चि दृते रामाद्भरतो राज्यमावसेत् ॥२-१२-६१॥ रामादपि हि तम् मन्ये धर्मतो बलवत्तरम् ।कथम् द्रक्ष्यामि रामस्य वनम् गच्छेति भाषिते ॥२-१२-६२॥ मुखवर्णम् विवर्णम् तम् यथैवेन्दुमुपप्लुतम् ।ताम् हि मे सुकृताम् बुद्धिम् सुहृद्भिः सह निश्चिताम् ॥२-१२-६३॥ कथम् द्रक्ष्याम्यपावृत्ताम् परैरिव हताम् चमूम् ।किम् माम् वक्ष्यन्ति राजानो नानादिग्भ्यः समागताह् ॥२-१२-६४॥ बालो बताय मैक्ष्वाकश्चिरम् राज्यमकारयत् ।यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताह् ॥२-१२-६५॥ परिप्रक्ष्यन्ति काकुत्थ्सम् वक्ष्यामि किम्महाम् तदा ।कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया ॥२-१२-६६॥ यदि सत्यम् ब्रवीम्येतत्तदसत्यम् भविष्यति ।किम् माम् वक्ष्यति कौसल्या राघवे वनमास्थिते ॥२-१२-६७॥ किम् चैनाम् प्रतिवक्ष्यामि कृत्वा चाप्रियमीदृशम् ।यदा यदा ही कौसल्या दासीवच्च सखीव च ॥२-१२-६८॥ भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।सततम् प्रियकामा मे प्रियपुत्रा प्रियम्वदा ॥२-१२-६९॥ न मया सत्कृता देवि सत्कारार्हा कृते तव ।इदानीम् तत्तपति माम् यन्मया सुकृतम् त्वयि ॥२-१२-७०॥ अवथ्यव्यञ्जनोनोपेतम् भुक्तमन्नमिवातुरम् ।विप्रकारम् च रामस्य सम्प्रयाणम् वनस्य च ॥२-१२-७१॥ सुमित्रा प्रेक्ष्यवै भीता कथम् मे विश्वसिष्यति ।कृपणम् बत वैदेही श्रोष्यति द्वयमप्रियम् ॥२-१२-७२॥ माम् च पञ्चत्वमापन्नम् रामम् च वनमाश्रितम् ।वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥२-१२-७३॥ हीना हिमवतः पार्श्वए किन्नरेणेन किन्नरा ।न हि राममहम् दृष्ट्व प्रवसन्तम् महावने ॥२-१२-७४॥ चिरम् जीवितुमाशम्से रुदतीम् चापि मैथिलीम् ।सा नूनम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-७५॥ न हि प्रवाजिते रामे देवि जीवितुमुत्सहे ।सतीम् त्वामहमत्यन्तम् व्यवस्याम्यसतीम् सतीम् ॥२-१२-७६॥ रूपिणीम् विषसम्युक्ताम् पीत्वेव मदिराम् नरह् ।अनृतैर्बहु माम् सान्वैःसा न्त्वयन्ती स्म स्मभाषसे ॥२-१२-७७॥ गीतशब्देन सम्रुध्य लुब्धो मृगमिवावधीः ।अनार्य इति मामार्याः पुत्रविक्रायिकम् ध्रुवम् ॥२-१२-७८॥ धिक्करिष्यन्ति रथ्यासु सुरापम् ब्राह्मणम् यथा ।अहो दुःखमहो कृच्छ्रम् यत्र वाचः क्षमे तव ॥२-१२-७९॥ दुःखमेवम्विधम् प्राप्तम् पुराकृतमिवाशुभम् ।चिरम् खलु मया पापे त्वम् पापेनाभिरक्षिता ॥२-१२-८०॥ अज्ञानादुपसम्पन्ना रज्जुरुद्बम्धिनी यथा ।रममाणस्त्वया सार्धम् मृत्युम् त्वा नाभिलक्षये ॥२-१२-८१॥ बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ।मया ह्यपितृकः पुत्रःस महात्मा दुरात्मना ॥२-१२-८२॥ यः स्त्रीकृते प्रियम् पुत्रम् वनम् प्रस्थापयिष्यति ।व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चपकर्शितः ॥२-१२-८३॥ भोगकाले महत्कृच्छ्रम् पुनरेव प्रपत्स्यते ।नालम् द्वितीयम् वचनम् पुत्रो माम् प्रति भाषितुम् ॥२-१२-८४॥ स वनम् प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ।यदि मे राघवः कुर्याद्वनम् गच्चेति चोदितः ॥२-१२-८५॥ प्रतिकूलम् प्रियम् मे स्यान्न तु वत्सः करिष्यति ।शुद्धिभावो हि भावम् मे न तु ज्ञास्यति राघवः ॥२-१२-८६॥ स वनम् प्रव्रजे त्युक्तोबाढ वित्येव वक्ष्यति ।राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८७॥ मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८८॥ मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।मृते मयि गते रामे वनम् मनुजपुङ्गवे ॥२-१२-८९॥ इष्टे मम जने शेषे किम् पापम् प्रतिवत्स्यसे ।कौसल्या माम् च रामम् च पुत्रौ च यदि हास्यति ॥२-१२-९०॥ दुःखान्यसहती देवी मामेवानुमरिष्यति ।कौसल्याम् च सुमित्राम् च माम् च पुत्रैस्त्रिभिः सह ॥२-१२-९१॥ प्रक्षिव्य नरके सा त्वम् कैकेयि सुखिता भव ।मया रामेण च त्यक्तम् शाश्वतम् सत्कृतम् गुणैः ॥२-१२-९२॥ इक्ष्वाकुकुलमक्षोभ्यमाकुलम् पालयिष्यसि ।प्रियम् चेद्भरतस्यैतद्रामप्रव्राजनम् भवेत् ॥२-१२-९३॥ मा स्म मे भरतः कार्षीत् प्रेतकृत्यम् गतायुषः ।हन्तानार्ये ममामित्रे सकामा भव कैकयि ॥२-१२-९४॥ मृते मयि गते रामे वनम् पुरुषपुङ्गवे ।सेदानीम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-९५॥ त्वम् राजपुत्रीवादेन न्यवसो मम वेश्मनि ।अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥२-१२-९६॥ सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ।कथम् रथैर्विभुर्गत्वा गजाश्वैएश्च मुहूर्महुः ॥२-१२-९७॥ पद्भ्याम् रामो महारण्ये वत्सो मे विचरिष्यति ।यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ॥२-१२-९८॥ अहम्पुर्वाः पचन्ति स्म प्रशस्तम् पानभोजनम् ।स कथन्नु कषायाणि तिक्तानि कटुकानि च ॥२-१२-९९॥ भक्षयन्वन्यमाहारम् सुतो मे वर्तयिष्यति ।महार्हवस्त्रसम्वीतो भूत्वा चिरसुखोषितः ॥२-१२-१००॥ काशायपरिधानस्तु कथम् भूमौ निवत्स्यति ।कस्यैतद्धारुणम् वाक्यमेवम् विधमचिन्तितम् ॥२-१२-१०१॥ रामस्यारण्यगवनम् भरतस्यैव मातरम् ।धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा ॥२-१२-१०२॥ न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ।अनर्थभावेऽ र्थपरे नृशम्से ।ममानुतापाय निविष्टभावे ।किमप्रियम् पश्यसि मन्निमित्तम् ।हितानुकारिण्यथवापि रामे ॥२-१२-१०३॥ परित्यजेयुः पितरो हि पुत्रान् ।भार्याः वतीम्श्चापि कृतानुरागाः ।कृत्स्नम् हि सर्वम् कुपितम् जगत्स्या ।द्दृष्ट्वे रानन् व्तसबे बुनग्बन् ॥२-१२-१०४॥ अहम् पुनर्देवकुमाररूप ।मलकृतम् तम् सुतमाव्रजन्तम् ।नन्दामि पश्यन्नपि दर्शनेन ।भवामि दृष्ट्वा च पुनर्युवेव ॥२-१२-१०५॥ विनापि सूर्येण भवेत्प्रवृत्ति ।रवर्ष्ता वज्रधरेण वापि ।रामम् तु गच्छन्तमितः समीक्ष्य ।जीवेन्न कश्चित्त्विति चेतना मे ॥२-१२-१०६॥ विनाशकामामहिताममित्रा ।मावासयम् मृत्युमिवात्मनस्त्वम् ।चिरम् बताङ्केन धृतासि सर्पी ।महाविष तेन हतोऽस्मि मोहात् ॥२-१२-१०७॥ मया च रामेण सलक्ष्मणेन ।प्रशास्तु हीनो भरतस्त्वया सह ।पुरम् च राष्ट्रम् च निहत्य बान्धवान् ।ममाहितानाम् च भवाभिहर्षिणी ॥२-१२-१०८॥ नृशम्सवृत्ते व्यसनप्रहारिणि ।प्रसह्य वाक्यम् यदिहाद्य भाषसे ।न नाम ते केन मुखात्पतन्त्यधो ।विशीर्यमाणा दशना स्सहस्रधा ॥२-१२-१०९॥ न किम्चिदाहाहितमप्रियम् वचो ।न वेत्ति रामः परुशाणि Bहाषितुम् ।कथन्नु रामे ह्यभिरामवादिनि ।ब्रवीषि दोषान् गुणनित्यसम्मते ॥२-१२-११०॥ प्रताम्य वा प्रज्वल वा प्रणश्य वा ।सहस्रशो वा स्फुटिता महीम् व्रज ।न ते करिष्यमि वचः सुदारुणम् ।ममाहितम् केकयराजपाम्सनि ॥२-१२-१११॥ क्षुरोपमाम् नित्यमसत्प्रियम्वदाम् ।प्रदुष्टभावाम् स्वकुलोपघातिनीम् ।न जीवितुम् त्वाम् विषहेऽमनोरमाम् ।दिधक्षमाणाम् हृदयम् सबन्धनम् ॥२-१२-११२॥ न जीवितम् मेऽस्ति पुनः कुतः सुखम् ।विनात्मजेनात्मवतः कुतो रतिः ।ममाहितम् देवि न क् कर्तुमर्हसि ।स्पृशामि पादावपि ते प्रसीद मे ॥२-१२-११३॥ स भूमिपलो विलपन्ननाथवत् ।स्त्रीया गृहीतो हृदयेऽतिमात्रया ।पपात देव्याश्चरणौ प्रसारिता ।पुभावसम्प्राप्य यथातुरस्तथा ॥२-१२-११४॥ अतत् अर्हम् महा राजम् शयानम् अतथा उचितम् ।ययातिम् इव पुण्य अन्ते देव लोकात् परिच्युतम् ॥२-१३-१॥ अनर्थ रूपा सिद्ध अर्थाअभीता भय दर्शिनी ।पुनर् आकारयाम् आस तम् एव वरम् अन्गना ॥२-१३-२॥ त्वम् कत्थसे महा राज सत्य वादी द्Rढ व्रतः ।मम च इमम् वरम् कस्मात् विधारयितुम् इच्चसि ॥२-१३-३॥ एवम् उक्तः तु कैकेय्या राजा दश रथः तदा ।प्रत्युवाच ततः क्रुद्धो मुहूर्तम् विह्वलन्न् इव ॥२-१३-४॥ म्Rते मयि गते रामे वनम् मनुज पुम्गवे ।हन्त अनार्ये मम अमित्रे रामः प्रव्राजितः वनम् ॥२-१३-५॥ स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरह्म् ।प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥२-१३-६॥ कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया ।यदि सत्यम् ब्रवीम्य् एतत् तत् असत्यम् भविष्यति ॥२-१३-७॥ अपुत्रेण मया पुत्रः श्रमेण महता महान् ।रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥२-१३-८॥ शूर्श्च कृतविद्यश्च जितक्रोधः क्षमापरः ।कथं कमलपत्राक्षो मया रामो विवास्यते ॥२-१३-९॥ कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् ।अभिराममहं रामम् प्रेषयिष्यामि दण्डकान् ॥२-१३-१०॥ सुखानामुचितस्यैव दुःखैरनुचितस्य च ।दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥२-१३-११॥ यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् ।अदुःखार्हस्य रामस्य ततः सुखमवाप्नु याम् ॥२-१३-१२॥ नृशंसे पापसंकल्पे रामं स्त्यपराक्रमम् ।किम् विप्रियेण कैकेयि प्रियं योजयसे मम ॥२-१३-१३॥ अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ।तथा विलपतः तस्य परिभ्रमित चेतसः ॥२-१३-१४॥ अस्तम् अभ्यगमत् सूर्यो रजनी च अभ्यवर्तत ।सा त्रि यामा तथा आर्तस्य चन्द्र मण्डल मण्डिता ॥२-१३-१५॥ राज्ञो विलपमानस्य न व्यभासत शर्वरी ।तथैव उष्णम् विनिह्श्वस्य व्Rद्धो दशरथो न्Rपः ॥२-१३-१६॥ विललाप आर्तवद् दुह्खम् गगन आसक्त लोचनः ।न प्रभातम् त्वया इच्चामि मया अयम् रचितः अन्जलिः ॥२-१३-१७॥ अथवा गम्यताम् शीघ्रम् न अहम् इच्चामि निर्घ्Rणाम् ।अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥२-१३-१८॥ न्Rशम्साम् कैकेयीम् द्रष्टुम् यत् क्Rते व्यसनम् महत् ।एवम् उक्त्वा ततः राजा कैकेयीम् सम्यत अन्जलिः ॥२-१३-१९॥ प्रसादयाम् आस पुनः कैकेयीम् च इदम् अब्रवीत् ।साधु व्Rत्तस्य दीनस्य त्वद् गतस्य गत आयुषः ॥२-१३-२०॥ प्रसादः क्रियताम् देवि भद्रे राज्ञो विशेषतः ।शून्येन खलु सुश्रोणि मया इदम् समुदाह्Rतम् ॥२-१३-२१॥ कुरु साधु प्रसादम् मे बाले सह्Rदया हि असि ।प्रसीद देवि रामो मे त्वद्धत्तं राज्यमव्ययम् ॥२-१३-२२॥ लभतामसितापाङ्गे यशः परमवाप्नुहि ।मम रामस्य लोकस्य गुरूणां भरतस्य च ॥२-१३-२३॥ प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ।विशुद्ध भावस्य सु दुष्ट भावा ।दीनस्य ताम्राश्रुकलस्य राज्ञः ।श्रुत्वा विचित्रम् करुणम् विलापम् ।भर्तुर् न्Rशम्सा न चकार वाक्यम् ॥२-१३-२४॥ ततः स राजा पुनर् एव मूर्चितः ।प्रियाम् अतुष्टाम् प्रतिकूल भाषिणीम् ।समीक्ष्य पुत्रस्य विवासनम् प्रति ।क्षितौ विसम्ज्ञो निपपात दुह्खितः ॥२-१३-२५॥ इतीव राज्ञो व्य्थितस्य सा निशा ।जगाम घोरं स्वसतो मनस्विनः ।विबोध्यमानः प्रतिबोधनं तदा ।निवारयामास स राजसत्तमः ॥२-१३-२६॥ पुत्र शोक अर्दितम् पापा विसम्ज्ञम् पतितम् भुवि ।विवेष्टमानम् उदीक्ष्य सा ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-१४-१॥ पापम् क्Rत्वा इव किम् इदम् मम सम्श्रुत्य सम्श्रवम् ।शेषे क्षिति तले सन्नः स्थित्याम् स्थातुम् त्वम् अर्हसि ॥२-१४-२॥ आहुः सत्यम् हि परमम् धर्मम् धर्मविदो जनाः ।सत्यम् आश्रित्य हि मया त्वम् च धर्मम् प्रचोदितः ॥२-१४-३॥ सम्श्रुत्य शैब्यः श्येनाय स्वाम् तनुम् जगती पतिः ।प्रदाय पक्षिणो राजन् जगाम गतिम् उत्तमाम् ॥२-१४-४॥ तथ हि अलर्कः तेजस्वी ब्राह्मणे वेद पारगे ।याचमाने स्वके नेत्रेउद्ध्Rत्य अविमना ददौ ॥२-१४-५॥ सरिताम् तु पतिः स्वल्पाम् मर्यादाम् सत्यम् अन्वितः ।सत्य अनुरोधात् समये वेलाम् खाम् न अतिवर्तते ॥२-१४-६॥ स्त्यमेकपदं ब्रह्मे सत्ये धर्मः प्रतिष्ठतः।सत्यमेवाक्षया वेदाः सत्येनै वाप्यते परम् ॥२-१४-७॥ सत्यं समनुवर्त्स्व यदि धर्मे धृता मतिः ।सफलः स वरो मेऽस्तु वरदो ह्यसि सत्तम ॥२-१४-८॥ धर्मस्येहाभिकामार्थं मम चैवाचिचोदनात् ।प्रव्राजय सुतं रामम् त्रिः खलु त्वां ब्रवीम्यहम् ॥२-१४-९॥ समयम् च मम आर्य इमम् यदि त्वम् न करिष्यसि ।अग्रतः ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥२-१४-१०॥ एवम् प्रचोदितः राजा कैकेय्या निर्विशन्कया ।न अशकत् पाशम् उन्मोक्तुम् बलिर् इन्द्र क्Rतम् यथा ॥२-१४-११॥ उद्भ्रान्त ह्Rदयः च अपि विवर्ण वनदो अभवत् ।स धुर्यो वै परिस्पन्दन् युग चक्र अन्तरम् यथा॥२-१४-१२॥ विह्वलाभ्याम् च नेत्राभ्याम् अपश्यन्न् इव भूमिपः ।क्Rच्च्रात् धैर्येण सम्स्तभ्य कैकेयीम् इदम् अब्रवीत् ॥२-१४-१३॥ यः ते मन्त्र क्Rतः पाणिर् अग्नौ पापे मया ध्Rतः ।तम् त्यजामि स्वजम् चैव तव पुत्रम् सह त्वया ॥२-१४-१४॥ प्रयाता रजनी देवि सूर्यस्योदयनं प्रति ।अभिषेकं गुरुजन्स्त्वरयीष्यति मां ध्रुवम् ॥२-१४-१५॥ रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥२-१४-१६॥ त्वया सपुत्त्रया नैव कर्तव्या सलिलक्रिया ।व्याहन्तास्यशुभाचारे यदि रामाभिषेचन्म् ॥२-१४-१७॥ न च शक्नोम्यहं द्रषुं पूर्वं तथा सुखम् ।हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥२-१४-१८॥ तां तथा ब्रुवत्स्तस्य भूमिपन्य महात्मनः ।प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रश्रालिनी ॥२-१४-१९॥ ततः पाप समाचारा कैकेयी पार्थिवम् पुनः ।उवाच परुषम् वाक्यम् वाक्यज्ञा रोष मूर्चिता ॥२-१४-२०॥ किम् इदम् भाषसे राजन् वाक्यम् गर रुज उपमम् ।आनाययितुम् अक्लिष्टम् पुत्रम् रामम् इह अर्हसि ॥२-१४-२१॥ स्थाप्य राज्ये मम सुतम् क्Rत्वा रामम् वने चरम् ।निह्सपत्नाम् च माम् क्Rत्वा क्Rत क्Rत्यो भविष्यसि ॥२-१४-२२॥ स नुन्नैव तीक्षेन प्रतोदेन हय उत्तमः ।राजा प्रदोचितः अभीक्ष्णम् कैकेयीम् इदम् अब्रवीत् ॥२-१४-२३॥ धर्म बन्धेन बद्धो अस्मि नष्टा च मम चेतना ।ज्येष्ठम् पुत्रम् प्रियम् रामम् द्रष्टुम् इच्चामि धार्मिकम् ॥२-१४-२४॥ ततः प्रभातां र्जनीमुदिते च दिवाकरे ।पुण्ये नक्षत्रयोगे चे मुहूर्ते च समाहिते ॥२-१४-२५॥ वसिष्ठो गुणसंपन्नः शिष्येः परिवृतस्तदा ।उपगृह्याशु संभारान् [रविवेश पुरोत्तमम् ॥२-१४-२६॥ सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् ।विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥२-१४-२७॥ संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।महोत्सवसमाकीर्णां राघवार्थे समुस्त्सुकाम् ॥२-१४-२८॥ चन्दनागुरुधूपैश्च सर्वतः प्रतिधूपिताम् ।तां पुरीम् समतिक्रम्य पुरन्दरपुरोपमाम् ॥२-१४-२९॥ ददर्शान्तः पुरश्रेष्ठं नानाद्विजगणायुतम् ।पौरजानपदाकिर्र्र्णं ब्राह्मणैरुपशोभितम् ॥२-१४-३०॥ तदन्तः पुरमासाद्य व्यतिचक्राम तम् जनम् ॥२-१४-३१॥ वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ।स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।द्वारे मनुजसिंहस्य सचिवं प्रियदर्शन्म् ॥२-१४-३२॥ तमुवाच महातेजाः सूतपुत्रं विशारदम् ॥२-१४-३३॥ वसिष्ठः क्षिप्रमाचक्ष्व नृपते र्मामिहागतम् ।इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ॥२-१४-३४॥ औदुम्बरं भद्रपीठमभिषेकार्थमागतम् ।सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥२-१४-३५॥ क्षौद्रम् दधि घृतं लाजा दर्भाः सुमनसः पयः ।अष्टौ च कन्या रुचिरा मत्तश्छ वरवारणः ॥२-१४-३६॥ चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ।वाहनं नरसंयुक्तं चत्रं च शशिपन्निभम् ॥२-१४-३७॥ श्वेते च वालव्यजने भृङ्गारुश्छ हिरण्मयः ।हेमदामपिनद्धश्च किकुद्मान् पाण्डुरो वृषः ॥२-१४-३८॥ केसरी च चतुर्दंष्ट्रो हि श्रेष्ठो महाबलः ।सिंहानस्नं व्याघ्रतनुः समिद्धश्छ हुताशनः ॥२-१४-३९॥ सर्ववादित्रसंघाश्च वेश्याश्छालंकृताः स्त्रियः ।आचार्या ब्राह्मणा गावः पुण्यश्च मृगपक्षिणः ॥२-१४-४०॥ पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ।एते चान्ये च बहवो नीयमानाः प्रियम्वदाः ॥२-१४-४१॥ अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ।त्वरयस्व महाराजं यथा समुदितेऽहनि ॥२-१४-४२॥ पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ।इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ॥२-१४-४३॥ स्तुवन्नृपतिशार्धूलं प्रविवेश निवेशनम् ।तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ॥२-१४-४४॥ न शेकुरभिसंरोद्धुं राज्ञः प्रयचिकीर्ष्वः ।स सवीपस्थितो राज्ञ्स्तामवस्थामजज्ञीवान् ॥२-१४-४५॥ वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ।ततः सूतो यथाकालं पार्थिवस्य निवेशने ॥२-१४-४६॥ सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।यथा नन्दति तेजस्वी सागरो भास्करोदये ।प्रीतह् प्रीतेन मनसा तथानन्दघनः स्वतः ॥२-१४-४७॥ इन्द्रमस्यां तु वेLआयामभितुष्टाव मातलिः ॥२-१४-४८॥ सोऽजयद्धानवान्सर्वांस्तथा त्वां बोधयाम्यहम् ।वेदाः सहाङ्गविद्याश्छ यथाह्यात्मभुवम् विभुम् ॥२-१४-४९॥ ब्रह्माणम् बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ।आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ॥२-१४-५०॥ बोधयत्यद्य पृथिवीं तथा त्वाम् बोधयाम्यहम् ।उत्तिष्ठाशु महाराज कृतकौतुकमङ्गLअः ॥२-१४-५१॥ विराजमानो वपुषा मेरोरिव दिवाकरः ।सोमसूर्यौ च काकुत्थ्स शिववैश्रवणावपि ॥२-१४-५२॥ वरुणाश्छग्निरिन्द्रश्च विजयं प्रदिश्न्तु ते ।गता भगवती रात्रिः कृतकृत्य मिदं तव ॥२-१४-५३॥ बुद्ध्यस्व सृपशार्दूल कुरु कार्यमनन्तरम् ।उदतिष्ठत रामस्य समग्रमभिषेचन्म् ॥२-१४-५४॥ पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ।स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ॥२-१४-५५॥ क्षिप्रमाज्ञ्प्यतां राजन् राघवस्याभिषेचन्म् ।यथा ह्यपालाः पशवो यथा सेना ह्यानायका ॥२-१४-५६॥ यथा च्न्द्रं विना रात्रिर्यथा गावो विना वृषम् ।एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥२-१४-५७॥ इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ।अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥२-१४-५८॥ ततः स राजा तम् सूतम् सन्न हर्षः सुतम् प्रति ।शोक आरक्त ईक्षणः श्रीमान् उद्वीक्ष्य उवाच धार्मिकः ॥२-१४-५९॥ वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ।सुमन्त्रः करुणम् श्रुत्वा द्Rष्ट्वा दीनम् च पार्थिवम् ॥२-१४-६०॥ प्रग्Rहीत अन्जलिः किम्चित् तस्मात् देशात् अपाक्रमन् ।यदा वक्तुम् स्वयम् दैन्यान् न शशाक मही पतिः ॥२-१४-६१॥ तदा सुमन्त्रम् मन्त्रज्ञा कैकेयी प्रत्युवाच ह ।सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥२-१४-६२॥ प्रजागरपरिश्रान्तो निद्रावशमुपेयुवान् ।तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ॥२-१४-६३॥ राममानय भद्रं ते नात्र कार्या विचारणा ।स मन्यमानः कल्याणम् हृदयेन नन्नन्ध च ॥२-१४-६४॥ निर्जगाम च संप्रीत्या त्वरितो राजशासनात् ।सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥२-१४-६५॥ व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ।इति सूतो मतिं कृत्वा हर्षेण महता वृतः ॥२-१४-६६॥ निर्जगाम महाबाहो राघवस्य दिदृक्षया ।सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात् ॥२-१४-६७॥ निष्क्रम्य जनसंबाधं ददर्श द्वारमग्रतः ।ततः पुरस्तत्सासा विनिर्गतो ।महीपतीन् द्वारगतो विलोकयन् ।ददर्श पौरान् विविधान्महाधना ।नुपस्थितान् द्वारमुपेत्य विष्ठतान् ॥२-१४-६८॥ ते तु ताम् रजनीम् उष्य ब्राह्मणा वेद पारगाः ।उपतस्थुर् उपस्थानम् सह राज पुरोहिताः ॥२-१५-१॥ अमात्या बल मुख्याः च मुख्या ये निगमस्य च ।राघवस्य अभिषेक अर्थे प्रीयमाणाः तु सम्गताः ॥२-१५-२॥ उदिते विमले सूर्ये पुष्ये च अभ्यागते अहनि ।अभिषेकाय रामस्य द्विज इन्द्रैः उपकल्पितम् ॥२-१५-३॥ कान्चना जल कुम्भाः च भद्र पीठम् स्वलम्क्Rतम् ।काञ्चना जलकुमाभश्च भद्रपीठं स्वलङ्कृतम् ॥२-१५-४॥ रथश्च सम्यगा स्तीर्णोभास्वता व्याग्रचर्मणा ।गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् ॥२-१५-५॥ याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ।प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहा स्समाहिताः ॥२-१५-६॥ ताभ्यश्चैवाहृतं तो यं समुद्रेभ्यश्च सर्वशः ।सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥२-१५-७॥ पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ।क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥२-१५-८॥ वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः ।चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभुषितम् ॥२-१५-९॥ सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ।चन्द्रमण्डलसम्काशमातपत्रं च पाण्डुरम् ॥२-१५-१०॥ सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् ।पाण्डुरश्च वृषः सज्जः पाण्डुरोऽस्वश्च सुस्थितः ॥२-१५-११॥ प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ।अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥२-१५-१२॥ वादित्राणि च सर्वाणि वन्दिनश्च तथापरे ।इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥२-१५-१३॥ तथाजातीयमादाय राजपुत्राभिषेचन्म् ।ते राजवचनात्तत्र समवेता महीपतिम् ॥२-१५-१४॥ अपश्यन्तोऽब्रुवन् को बु राज्ञोनः प्रतिपादयेत् ।न पश्यामश्च राजानमुदितश्च दिवाकरः ॥२-१५-१५॥ यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ।इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ॥२-१५-१६॥ अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः ।रामः च सम्यग् आस्तीर्णो भास्वरा व्याघ्र चर्मणा ॥२-१५-१७॥ गन्गा यमुनयोह् पुण्यात् सम्गमात् आह्Rतम् जलम् ।अयं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥२-१५-१८॥ राज्ञः संप्रतिबुद्धस्य चानागमनकारणम् ।इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ॥२-१५-१९॥ सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह ।तुष्टावास्य तदा वंशं प्रविश्य स विशां पतेः ॥२-१५-२०॥ शयनीयं नरेन्ध्रस्य तदसाद्य व्यतिष्ठत ।सोऽत्यासाद्य तु तद्वेश्म तिरस्करिणि मन्त्रा ॥२-१५-२१॥ आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ।सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥२-१५-२२॥ वरुणश्चग्निरिन्द्रश्च विजयम् प्रदिशन्तु ते ।गता भगवती रात्रिरः शिवमुपस्थितम् ॥२-१५-२३॥ बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ।ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ॥२-१५-२४॥ दर्शनम् प्रतिकाङ्क्षन्ते प्रतिबुद्ध्यस्व राघव ।स्तुवन्तं तम् तदा सूतं सुमन्त्रं मन्त्रकोविदम् ॥२-१५-२५॥ प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत् ।राममानय सूतेति यदस्यभिहितो/अनया ॥२-१५-२६॥ किमिदं कारणम् येन ममाज्ञा प्रतिहन्यते ।न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥२-१५-२७॥ इति राजा दशरथः सूतं तत्रान्वशात्पुनः ।स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥२-१५-२८॥ निर्जगम नृपावासान्मन्यमानः प्रियं महत् ।प्रसन्नो राजमार्गं च पताकाध्वजशोभितम् ॥२-१५-२९॥ हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ।स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥२-१५-३०॥ अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत् ।ततो ददर्श रुचिरं कैलासशिखरप्रभम् ॥२-१५-३१॥ रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ।महाकवाटपिहितं वितर्दिशतशोभितम् ॥२-१५-३२॥ काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ।शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ॥२-१५-३३॥ मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् ।मुक्तामणिभिराकीर्णं चन्धनागुरुभूषितम् ॥२-१५-३४॥ गन्धान्मनोज्ञान् विसृजद्धार्दुरं शिखरं यथा ।सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ॥२-१५-३५॥ सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा ।मन्श्चक्षुश्च भूतानामाददत्तिग्मतेजसा ॥२-१५-३६॥ चन्द्रभास्करसंकाशम् कुबेरभवनोपमम् ।महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥२-१५-३७॥ मेरुशृङ्गसमम् सूतो रामवेश्म ददर्श ह ।उपस्थितैः समाकीर्णम् जनैरञ्जलिकारिभिः ॥२-१५-३८॥ उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः ।रामाभिषेकसुमुखैरुन्मुखैः समलम्कृतम् ॥२-१५-३९॥ महामेघसमप्रख्यमुदग्रं सुविभूषितम् ।नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ॥२-१५-४०॥ स वाजियुक्तेन रथेन सारथि ।र्नराकुलं राजकुलम् विराजयन् ।वरूथिना रामगृहाभिपातिना ।पुरस्य सर्वस्य मनांसि हर्शयन् ॥२-१५-४१॥ ततस्समासाद्य महाधनं महत् ।प्रहृष्टरोमा स बभूव सारथिः ।मृगैर्मयूरैश्च समाकुलोल्बणं ।गृहं वरार्हस्य शचीपतेरिव ॥२-१५-४२॥ स तत्र कैलासनिभाः स्वलंकृताः ।प्रविश्य कक्ष्यास्त्रिदशालयोपमाः ।प्रियान् वरान् राममते स्थितान् बहून् ।व्यपोह्य शुद्धांतमुपस्थितो रथी ॥२-१५-४३॥ स तत्र शुश्राव च हर्षयुक्ता ।रामाभिषेकार्थकृता जनानां ।नरेम्द्रसूनोरभिमंगLआर्थाः ।सर्वस्य लोकस्य गिरः प्रहृष्टः ॥२-१५-४४॥ महेंद्रसद्मप्रतिमं तु वेश्म ।रामस्य रम्यं मृगमुच्चं ।विभ्राजमानं प्रभया सुमम्त्रः ॥२-१५-४५॥ उपस्थितै रञ्जलिकारिभिश्च ।सोपायनैर्जानपदैर्जनैश्च ।कोट्या परार्धैश्च विमुक्तयानैः ।समाकुलं द्वारपदम् ददर्श ॥२-१५-४६॥ ततो महामेघमहीधराभं ।प्रभिन्नमत्यङ्कुशमत्यसह्यम् ।रामोपवाह्याम् रुचिरम् ददर्श ।शत्रुम्जयं नागमुदग्रकायम् ॥२-१५-४७॥ स्वलंकृतान् सास्वरथान् सकुम्जरा ।नमात्यमुखयाम्श्च ददर्श वल्लभान् ।व्यपोह्य सूतः सहितान्समंततः ।समृद्धमंतःपुर माविवेश ह ॥२-१५-४८॥ ततोऽद्रिकूटाचलमेघसन्नि भं ।महाविमानोपमवेश्मसंयुतम् ।अवार्यमाणः प्रविवेश सारथिः ।प्रभूतरत्नं मकरो यथार्णवम् ॥२-१५-४९॥ स तत् अन्तः पुर द्वारम् समतीत्य जन आकुलम् ।प्रविविक्ताम् ततः कक्ष्याम् आससाद पुराणवित् ॥२-१६-१॥ प्रास कार्मुक बिभ्रद्भिर् युवभिर् मृष्ट कुण्डलैः ।अप्रमादिभिर् एक अग्रैः स्वनुरक्तैः अधिष्ठिताम् ॥२-१६-२॥ तत्र काषायिणो वृद्धान् वेत्र पाणीन् स्वलम्कृतान् ।ददर्श विष्ठितान् द्वारि स्त्र्य् अध्यक्षान् सुसमाहितान् ॥२-१६-३॥ ते समीक्ष्य समायान्तम् राम प्रिय चिकीर्षवः ।सह भार्याय रामाय क्षिप्रम् एव आचचक्षिरे ॥२-१६-४॥ प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरम् पितुः ।तत्र एव आनाययाम् आस राघवः प्रिय काम्यया ॥२-१६-५॥ ते राममुपसम्गम्य भर्तुः प्रियचिकीर्षवः ।सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥२-१६-६॥ प्रतिवेदितमाज्ञाय सूतमभ्यम्तरम् पितुः ।तत्रैवानाययामास राघवः पियकाम्यया ॥२-१६-७॥ तम् वैश्रवण सम्काशम् उपविष्टम् स्वलम्कृतम् ।दादर्श सूतः पर्यन्के सौवणो स उत्तरच् चदे ॥२-१६-८॥ वराह रुधिर आभेण शुचिना च सुगन्धिना ।अनुलिप्तम् पर अर्ध्येन चन्दनेन परम् तपम् ॥२-१६-९॥ स्थितया पार्श्वतः च अपि वाल व्यजन हस्तया ।उपेतम् सीतया भूयः चित्रया शशिनम् यथा ॥२-१६-१०॥ तम् तपन्तम् इव आदित्यम् उपपन्नम् स्व तेजसा ।ववन्दे वरदम् बन्दी नियमज्ञो विनीतवत् ॥२-१६-११॥ प्रान्जलिस् तु सुखम् पृष्ट्वा विहार शयन आसने ।राज पुत्रम् उवाच इदम् सुमन्त्रः राज सत्कृतः ॥२-१६-१२॥ कौसल्या सुप्रभा देव पिता त्वम् द्रष्टुम् इच्चति ।महिष्या सह कैकेय्या गम्यताम् तत्र माचिरम् ॥२-१६-१३॥ एवम् उक्तः तु सम्हृष्टः नर सिम्हो महा द्युतिः ।ततः सम्मानयाम् आस सीताम् इदम् उवाच ह ॥२-१६-१४॥ देवि देवः च देवी च समागम्य मद् अन्तरे ।मन्त्रेयेते ध्रुवम् किम्चित् अभिषेचन सम्हितम् ॥२-१६-१५॥ लक्षयित्वा हि अभिप्रायम् प्रिय कामा सुदक्षिणा ।सम्चोदयति राजानम् मद् अर्थम् मदिर ईक्षणा ॥२-१६-१६॥ सा प्रहृष्टा महाराजम् हितकामानुवर्तिनी ।जननी चार्थकामा मे केकयाधिपतेस्सुता ॥२-१६-१७॥ दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।सुमम्त्रम् प्राहिणोद्दूत मर्थकामकरम् मम ॥२-१६-१८॥ यादृशी परिषत् तत्र तादृशो दूताअगतः ।ध्रुवम् अद्य एव माम् राजा यौवराज्ये अभिषेक्ष्यति ॥२-१६-१९॥ हन्त शीघ्रम् इतः गत्वा द्रक्ष्यामि च मही पतिः ।सह त्वम् परिवारेण सुखम् आस्स्व रमस्य च ॥२-१६-२०॥ पति सम्मानिता सीता भर्तारम् असित ईक्षणा ।आद्वारम् अनुवव्राज मन्गलानि अभिदध्युषी ॥२-१६-२१॥ राज्यम् द्विजातिभिर्जुष्टम् राजसूयाभिषेचनम् ।कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥२-१६-२२॥ दीक्षितम् व्रतसम्पन्नम् वराजिनधरम् शुचिम् ।कुरङ्गपाणिम् च पश्यन्ती त्वाम् भजाम्यहम् ॥२-१६-२३॥ पूर्वाम् दिशम् वज्रधरो दक्षिणाम् पातु ते यमः ।वरुणः पश्चिमामाशाम् धनेशस्तूत्तराम् दिशम् ॥२-१६-२४॥ अथ सीतामनुज्ञाप्य कृतकौतुकमगLअः ।निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥२-१६-२५॥ पर्वतादिव निष्क्रम्य सिम्हो गिरिगुहाशयः ।लक्ष्मणम् द्वारिसोऽपश्यत् प्रह्वञ्जलिपुटम् स्थितम् ॥२-१६-२६॥ अथ मध्यमकक्ष्यायाम् समागच्छत् सुहृज्जनैः ।स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥२-१६-२७॥ ततः पावक सम्काशम् आरुरोह रथ उत्तमम् ।वैयाघ्रम् पुरुष्व्या घो राजितम् राजनम्दनः ॥२-१६-२८॥ मेघनादमसम्बाधम् मणिहेमविभूशितम् ।मुष्णन्तम् इव चक्षूम्षि प्रभया हेम वर्चसम् ॥२-१६-२९॥ करेणु शिशु कल्पैः च युक्तम् परम वाजिभिः ।हरि युक्तम् सहस्र अक्षो रथम् इन्द्रैव आशुगम् ॥२-१६-३०॥ प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया ।स पर्जन्यैव आकाशे स्वनवान् अभिनादयन् ॥२-१६-३१॥ निकेतान् निर्ययौ श्रीमान् महा अभ्रात् इव चन्द्रमाः ।चत्र चामर पाणिस् तु लक्ष्मणो राघव अनुजः ॥२-१६-३२॥ जुगोप भ्रातरम् भ्राता रथम् आस्थाय पृष्ठतः ।ततः हल हला शब्दः तुमुलः समजायत ॥२-१६-३३॥ तस्य निष्क्रममाणस्य जन ओघस्य समन्ततः ।ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥२-१६-३४॥ अनुजग्मुस्तदा रामम् शतशोऽथ सहस्रशः ।अग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः ॥२-१६-३५॥ खड्गचापधराः शूरा जग्मुराशम्सवो जनाः ।ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥२-१६-३६॥ सिम्हनादाश्च शूराणाम् तदा शुश्रुविरे पथि ।हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥२-१६-३७॥ कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिम्दमः ।रामम् सर्वानवद्याण्ग्यो रामपिप्रीषया ततः ॥२-१६-३८॥ वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ।नूनम् नन्धिति ते माता कौसल्या मातृनन्दन ॥२-१६-३९॥ पश्यन्ती सिद्धयात्रम् त्वाम् पित्र्यम् राज्यमुपस्थितम् ।सर्वसीमन्तिनीभ्यश्च सीताम् सीमन्तिनीम् वराम् ॥२-१६-४०॥ अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।तया सुचरितम् देव्या पुरा नूनम् महत्तपः ॥२-१६-४१॥ रोहिणीव शशाङ्केन रामसम्योगमाप या ।इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥२-१६-४२॥ शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ।स राघवः तत्र कथा प्रलापम् ।शुश्राव लोकस्य समागतस्य ।आत्म अधिकारा विविधाः च वाचः ।प्रहृष्ट रूपस्य पुरे जनस्य ॥२-१६-४३॥ एष श्रियम् गच्चति राघवो अद्य।राज प्रसादात् विपुलाम् गमिष्यन् ।एते वयम् सर्व समृद्ध कामा।येषाम् अयम् नो भविता प्रशास्ता ॥२-१६-४४॥ लाभो जनस्य अस्य यद् एष सर्वम् ।प्रपत्स्यते राष्ट्रम् इदम् चिराय ।स घोषवद्भिः च हयैः सनागैः ।पुरह्सरैः स्वस्तिक सूत मागधैः ॥२-१६-४५॥ स घोषवद्भिश्च हयैः सनागैः ।पुरस्सरैः स्वस्तिकसूतमागधैः ।महीयमानः प्रवरैः च वादकैः ।अभिष्टुतः वैश्रवणो यथा ययौ॥२-१६-४६॥ करेणु मातन्ग रथ अश्व सम्कुलम् ।महा जन ओघैः परिपूर्ण चत्वरम् ।पभूतरत्नम् बहुपण्यसम्चयम् ।ददर्श रामो विमलम् महापथम् ॥२-१६-४७॥ स रामः रथम् आस्थाय सम्प्रह्Rष्ट सुह्Rज् जनः ।पताकाध्वजसंपन्नं महार्हगुरुधूपितम् ॥२-१७-१॥ अपश्यन् नगरम् श्रीमान् नाना जन समाकुलम् ।स ग्Rहैः अभ्र सम्काशैः पाण्डुरैः उपशोभितम् ॥२-१७-२॥ राज मार्गम् ययौ रामः मध्येन अगरु धूपितम् ।चन्दनानाम् च मुख्यानामगुरूणाम् च सम्चयैः ॥२-१७-३॥ उत्तमानाम् च गन्धानां क्षौमकौशाम्बरस्य च ।अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ॥२-१७-४॥ शोभमानम् असम्बाधम् तम् राज पथम् उत्तमम् ।सम्व्Rतम् विविधैः पण्यैः भक्ष्यैः उच्च अवचैः अपि ॥२-१७-५॥ ददर्श तं राजपथं दिवि देवपथम् यथा ।दध्यक्षतहविर्लाजैर्धूपैरगुरुचम्दनैः ॥२-१७-६॥ नानामाल्योपगंधैश्च सदाभ्यर्चितचत्वरम् ।आशीर् वादान् बहून् श्Rण्वन् सुह्Rद्भिः समुदीरितान् ॥२-१७-७॥ यथा अर्हम् च अपि सम्पूज्य सर्वान् एव नरान् ययौ ।पितामहैः आचरितम् तथैव प्रपितामहैः ॥२-१७-८॥ अद्य उपादाय तम् मार्गम् अभिषिक्तः अनुपालय ।यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ॥२-१७-९॥ ततः सुखतरम् सर्वे रामे वत्स्याम राजनि ।अलमद्य हि भुक्तेन परम अर्थैः अलम् च नः ॥२-१७-१०॥ यथा पश्याम निर्यान्तम् रामम् राज्ये प्रतिष्ठितम् ।ततः हि न प्रियतरम् न अन्यत् किम्चित् भविष्यति ॥२-१७-११॥ यथा अभिषेको रामस्य राज्येन अमित तेजसः ।एताः च अन्याः च सुह्Rदाम् उदासीनः कथाः शुभाः ॥२-१७-१२॥ आत्म सम्पूजनीः श्Rण्वन् ययौ रामः महा पथम् ।न हि तस्मान् मनः कश्चिच् चक्षुषी वा नर उत्तमात् ॥२-१७-१३॥ नरः शक्नोति अपाक्रष्टुम् अतिक्रान्ते अपि राघवे ।यश्च रामं न पश्येत्तु यं च रामो न पश्यति ॥२-१७-१४॥ निन्दतः सर्वलोकेषु स्वात्माप्येनम् विगर्हते ।सर्वेषाम् स हि धर्म आत्मा वर्णानाम् कुरुते दयाम् ॥२-१७-१५॥ चतुर्णाम् हि वयह्स्थानाम् तेन ते तम् अनुव्रताः ।चत्पुष्पथान् देवपथाम्श्चैत्यान्यायतनानि च ॥२-१७-१६॥ प्रदक्षिणम् परिहरन् जगाम नृपतेस्सुतः ।स राज कुलम् आसाद्य महा इन्द्र भवन उपमम् ॥२-१७-१७॥ प्रासादश्पङ्गैर्विविधैः कैलासशिखरोपमैः ।आवारयद्भि र्गनं विमानैरिव पाण्डुरैः ॥२-१७-१८॥ वर्धमानगृहैश्चापि रत्न जालपरिष्कृतैः ।तत्पृथिव्यां गृहवरं महेन्द्रसदनोपमम् ॥२-१७-१९॥ राज पुत्रः पितुर् वेश्म प्रविवेश श्रिया ज्वलन् ।स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ॥२-१७-२०॥ पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ।स सर्वाः समतिक्रम्य कक्ष्या दशरथ आत्मजः ॥२-१७-२१॥ सम्निवर्त्य जनम् सर्वम् शुद्ध अन्तः पुरम् अभ्यगात् ।तस्मिन् प्रविष्टे पितुर् अन्तिकम् तदा ।जनः स सर्वो मुदितः न्Rप आत्मजे ।प्रतीक्षते तस्य पुनः स्म निर्गमम् ।यथा उदयम् चन्द्रमसः सरित् पतिः ॥२-१७-२२॥ स ददर्श आसने रामः निषण्णम् पितरम् शुभे ।कैकेयी सहितम् दीनम् मुखेन परिशुष्यता ॥२-१८-१॥ स पितुः चरणौ पूर्वम् अभिवाद्य विनीतवत् ।ततः ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥२-१८-२॥ राम इति उक्त्वा च वचनम् वाष्प पर्याकुल ईक्षणः ।शशाक न्Rपतिर् दीनो न ईक्षितुम् न अभिभाषितुम् ॥२-१८-३॥ तत् अपूर्वम् नर पतेर् द्Rष्ट्वा रूपम् भय आवहम् ।रामः अपि भयम् आपन्नः पदा स्प्Rष्ट्वा इव पन्नगम् ॥२-१८-४॥ इन्द्रियैः अप्रह्Rष्टैअः तम् शोक सम्ताप कर्शितम् ।निह्श्वसन्तम् महा राजम् व्यथित आकुल चेतसम् ॥२-१८-५॥ ऊर्मि मालिनम् अक्षोभ्यम् क्षुभ्यन्तम् इव सागरम् ।उपप्लुतम् इव आदित्यम् उक्त अन्Rतम् Rषिम् यथा ॥२-१८-६॥ अचिन्त्य कल्पम् हि पितुस् तम् शोकम् उपधारयन् ।बभूव सम्रब्धतरः समुद्रैव पर्वणि ॥२-१८-७॥ चिन्तयाम् आस च तदा रामः पित्R हिते रतः ।किम्स्विद् अद्य एव न्Rपतिर् न माम् प्रत्यभिनन्दति ॥२-१८-८॥ अन्यदा माम् पिता द्Rष्ट्वा कुपितः अपि प्रसीदति ।तस्य माम् अद्य सम्प्रेक्ष्य किम् आयासः प्रवर्तते ॥२-१८-९॥ स दीनैव शोक आर्तः विषण्ण वदन द्युतिः ।कैकेयीम् अभिवाद्य एव रामः वचनम् अब्रवीत् ॥२-१८-१०॥ कच्चिन् मया न अपराधम् अज्ञानात् येन मे पिता ।कुपितः तन् मम आचक्ष्व त्वम् चैव एनम् प्रसादय ॥२-१८-११॥ अप्रसन्नमनाः किम् नु सदा मां प्रति वत्सलः ।विवर्ण वदनो दीनो न हि माम् अभिभाषते ॥२-१८-१२॥ शारीरः मानसो वा अपि कच्चित् एनम् न बाधते ।सम्तापो वा अभितापो वा दुर्लभम् हि सदा सुखम् ॥२-१८-१३॥ कच्चिन् न किम्चित् भरते कुमारे प्रिय दर्शने ।शत्रुघ्ने वा महा सत्त्वे मात् णाम् वा मम अशुभम् ॥२-१८-१४॥ अतोषयन् महा राजम् अकुर्वन् वा पितुर् वचः ।मुहूर्तम् अपि न इच्चेयम् जीवितुम् कुपिते न्Rपे ॥२-१८-१५॥ यतः मूलम् नरः पश्येत् प्रादुर्भावम् इह आत्मनः ।कथम् तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥२-१८-१६॥ कच्चित् ते परुषम् किम्चित् अभिमानात् पिता मम ।उक्तः भवत्या कोपेन यत्र अस्य लुलितम् मनः ॥२-१८-१७॥ एतत् आचक्ष्व मे देवि तत्त्वेन परिप्Rच्चतः ।किम् निमित्तम् अपूर्वो अयम् विकारः मनुज अधिपे ॥२-१८-१८॥ एवमुक्ता तु कैकेयी राघवेण महात्मना ।उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥२-१८-१९॥ न राजा कुपितो राम व्यसनम् नास्य किम्चन ।किम्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥२-१८-२०॥ प्रियम् त्वामप्रियम् वक्तुम् वाणी नास्योपपर्तते ।तदवश्यम् त्वया कार्यम् यदनेनाश्रुतम् मम ॥२-१८-२१॥ एष मह्यम् वरम् दत्त्वा पुरा मामभिपूज्य च ।स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ॥२-१८-२२॥ अतिसृज्य ददानीति वरम् मम विशाम्पतिः ।स निरर्थं गतजले सेतुम् बन्धितुमिच्छति ॥२-१८-२३॥ धर्मूलमिदम् राम विदितम् च सतामपि ।तत्सत्यम् न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥२-१८-२४॥ यदि तद्वक्ष्यते राजा शुभम् वा यदि वाऽशुभम् ।करिष्यसि ततः सर्वमाख्यामि पुनस्त्वहम् ॥२-१८-२५॥ यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥२-१८-२६॥ एतात्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।उवाच व्यथितो रामस्ताम् देवीम् नृपसन्निधौ ॥२-१८-२७॥ अहो धिङ्नार्हसे देवि पक्तुं मामीदृशं वचः ।अहम् हि वचनात् राज्ञः पतेयम् अपि पावके ॥२-१८-२८॥ भक्षयेयम् विषम् तीक्ष्णम् मज्जेयम् अपि च अर्णवे ।नियुक्तः गुरुणा पित्रा न्Rपेण च हितेन च ॥२-१८-२९॥ तत् ब्रूहि वचनम् देवि राज्ञो यद् अभिकान्क्षितम् ।करिष्ये प्रतिजाने च रामः द्विर् न अभिभाषते ॥२-१८-३०॥ तम् आर्जव समायुक्तम् अनार्या सत्य वादिनम् ।उवाच रामम् कैकेयी वचनम् भ्Rश दारुणम् ॥२-१८-३१॥ पुरा देव असुरे युद्धे पित्रा ते मम राघव ।रक्षितेन वरौ दत्तौ सशल्येन महा रणे ॥२-१८-३२॥ तत्र मे याचितः राजा भरतस्य अभिषेचनम् ।गमनम् दण्डक अरण्ये तव च अद्य एव राघव ॥२-१८-३३॥ यदि सत्य प्रतिज्ञम् त्वम् पितरम् कर्तुम् इच्चसि ।आत्मानम् च नर रेष्ठ मम वाक्यम् इदम् श्Rणु ॥२-१८-३४॥ स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् ।त्वया अरण्यम् प्रवेष्टव्यम् नव वर्षाणि पन्च च ॥२-१८-३५॥ भरतस्त्वभिषिच्येत यदेतदभिषेचन्म् ।त्वदर्थे विहितम् राज्ञा तेन सर्वेण राघव ॥२-१८-३६॥ सप्त सप्त च वर्षाणि दण्डक अरण्यम् आश्रितः ।अभिषेकम् इमम् त्यक्त्वा जटा चीर धरः वस ॥२-१८-३७॥ भरतः कोसल पुरे प्रशास्तु वसुधाम् इमाम् ।नाना रत्न समाकीर्णम् सवाजि रथ कुन्जराम् ॥२-१८-३८॥ एतेन त्वां नरेन्द्रोयम् कारुण्येन समाप्लुतः ।शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥२-१८-३९॥ एतत्कुरु नरेन्ध्रस्य वचनं रघुनन्दन ।सत्यन महता राम तारयस्व नरेश्वरम् ॥२-१८-४०॥ इतीव तस्यां परुषम् वदन्त्याम् ।नचैव रामः प्रविवेश शोकम् ।प्रविव्यधे चापि महानुभावो ।राजा तु पुत्रव्यसनाभितप्तः ॥२-१८-४१॥ तत् अप्रियम् अमित्रघ्नः वचनम् मरण उपमम् ।श्रुत्वा न विव्यथे रामः कैकेयीम् च इदम् अब्रवीत् ॥२-१९-१॥ एवम् अस्तु गमिष्यामि वनम् वस्तुम् अहम् तु अतः ।जटा चीर धरः राज्ञः प्रतिज्ञाम् अनुपालयन् ॥२-१९-२॥ इदम् तु ज्ञातुम् इच्चामि किम् अर्थम् माम् मही पतिः ।न अभिनन्दति दुर्धर्षो यथा पुरम् अरिम् दमः ॥२-१९-३॥ मन्युर् न च त्वया कार्यो देवि ब्रूहि तव अग्रतः ।यास्यामि भव सुप्रीता वनम् चीर जटा धरः ॥२-१९-४॥ हितेन गुरुणा पित्रा क्Rतज्ञेन न्Rपेण च ।नियुज्यमानो विश्रब्धम् किम् न कुर्यात् अहम् प्रियम् ॥२-१९-५॥ अलीकम् मानसम् तु एकम् ह्Rदयम् दहति इव मे ।स्वयम् यन् न आह माम् राजा भरतस्य अभिषेचनम् ॥२-१९-६॥ अहम् हि सीताम् राज्यम् च प्राणान् इष्टान् धनानि च ।ह्Rष्टः भ्रात्रे स्वयम् दद्याम् भरताय अप्रचोदितः ॥२-१९-७॥ किम् पुनर् मनुज इन्द्रेण स्वयम् पित्रा प्रचोदितः ।तव च प्रिय काम अर्थम् प्रतिज्ञाम् अनुपालयन् ॥२-१९-८॥ तत् आश्वासय हि इमम् त्वम् किम् न्व् इदम् यन् मही पतिः ।वसुधा आसक्त नयनो मन्दम् अश्रूणि मुन्चति ॥२-१९-९॥ गच्चन्तु च एव आनयितुम् दूताः शीघ्र जवैः हयैः ।भरतम् मातुल कुलात् अद्य एव न्Rप शासनात् ॥२-१९-१०॥ दण्डक अरण्यम् एषो अहम् इतः गच्चामि सत्वरः ।अविचार्य पितुर् वाक्यम् समावस्तुम् चतुर् दश ॥२-१९-११॥ सा ह्Rष्टा तस्य तत् वाक्यम् श्रुत्वा रामस्य कैकयी ।प्रस्थानम् श्रद्दधाना हि त्वरयाम् आस राघवम् ॥२-१९-१२॥ एवम् भवतु यास्यन्ति दूताः शीघ्र जवैः हयैः ।भरतम् मातुल कुलात् उपावर्तयितुम् नराः ॥२-१९-१३॥ तव तु अहम् क्षमम् मन्ये न उत्सुकस्य विलम्बनम् ।राम तस्मात् इतः शीघ्रम् वनम् त्वम् गन्तुम् अर्हसि ॥२-१९-१४॥ व्रीडा अन्वितः स्वयम् यच् च न्Rपः त्वाम् न अभिभाषते ।न एतत् किम्चिन् नर श्रेष्ठ मन्युर् एषो अपनीयताम् ॥२-१९-१५॥ यावत् त्वम् न वनम् यातः पुरात् अस्मात् अभित्वरन् ।पिता तावन् न ते राम स्नास्यते भोक्ष्यते अपि वा ॥२-१९-१६॥ धिक् कष्टम् इति निह्श्वस्य राजा शोक परिप्लुतः ।मूर्चितः न्यपतत् तस्मिन् पर्यन्के हेम भूषिते ॥२-१९-१७॥ रामः अपि उत्थाप्य राजानम् कैकेय्या अभिप्रचोदितः ।कशया इव आहतः वाजी वनम् गन्तुम् क्Rत त्वरः ॥२-१९-१८॥ तत् अप्रियम् अनार्याया वचनम् दारुण उदरम् ।श्रुत्वा गत व्यथो रामः कैकेयीम् वाक्यम् अब्रवीत् ॥२-१९-१९॥ न अहम् अर्थ परः देवि लोकम् आवस्तुम् उत्सहे ।विद्धि माम् Rषिभिस् तुल्यम् केवलम् धर्मम् आस्थितम् ॥२-१९-२०॥ यद् अत्रभवतः किम्चित् शक्यम् कर्तुम् प्रियम् मया ।प्राणान् अपि परित्यज्य सर्वथा क्Rतम् एव तत् ॥२-१९-२१॥ न हि अतः धर्म चरणम् किम्चित् अस्ति महत्तरम् ।यथा पितरि शुश्रूषा तस्य वा वचन क्रिया ॥२-१९-२२॥ अनुक्तः अपि अत्रभवता भवत्या वचनात् अहम् ।वने वत्स्यामि विजने वर्षाणि इह चतुर् दश ॥२-१९-२३॥ न नूनम् मयि कैकेयि किम्चित् आशम्ससे गुणम् ।यद् राजानम् अवोचः त्वम् मम ईश्वरतरा सती ॥२-१९-२४॥ यावन् मातरम् आप्Rच्चे सीताम् च अनुनयाम्य् अहम् ।ततः अद्य एव गमिष्यामि दण्डकानाम् महद् वनम् ॥२-१९-२५॥ भरतः पालयेद् राज्यम् शुश्रूषेच् च पितुर् यथा ।तहा भवत्या कर्तव्यम् स हि धर्मः सनातनः ॥२-१९-२६॥ स रामस्य वचः श्रुत्वा भ्Rशम् दुह्ख हतः पिता ।शोकात् अशक्नुवन् बाष्पम् प्ररुरोद महा स्वनम् ॥२-१९-२७॥ वन्दित्वा चरणौ रामः विसम्ज्ञस्य पितुस् तदा ।कैकेय्याः च अपि अनार्याया निष्पपात महा द्युतिः ॥२-१९-२८॥ स रामः पितरम् क्Rत्वा कैकेयीम् च प्रदक्षिणम् ।निष्क्रम्य अन्तः पुरात् तस्मात् स्वम् ददर्श सुह्Rज् जनम् ॥२-१९-२९॥ तम् बाष्प परिपूर्ण अक्षः प्Rष्ठतः अनुजगाम ह ।लक्ष्मणः परम क्रुद्धः सुमित्र आनन्द वर्धनः ॥२-१९-३०॥ आभिषेचनिकम् भाण्डम् क्Rत्वा रामः प्रदक्षिणम् ।शनैः जगाम सापेक्षो द्Rष्टिम् तत्र अविचालयन् ॥२-१९-३१॥ न च अस्य महतीम् लक्ष्मीम् राज्य नाशो अपकर्षति ।लोक कान्तस्य कान्तत्वम् शीत रश्मेर् इव क्षपा ॥२-१९-३२॥ न वनम् गन्तु कामस्य त्यजतः च वसुम्धराम् ।सर्व लोक अतिगस्य इव लक्ष्यते चित्त विक्रिया ॥२-१९-३३॥ प्रतिषिद्ध्य शुभम् छत्रं व्यजने च स्वलंकृते ।विसर्जयित्वा स्वजनं रथम् पौरास्तथा जन्नान् ॥२-१९-३४॥ धारयन् मनसा दुह्खम् इन्द्रियाणि निग्Rह्य च ।प्रविवेश आत्मवान् वेश्म मातुर प्रिय शम्सिवान् ॥२-१९-३५॥ सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः ।नालक्षयत् रामस्य किम्चिदाकारमानने ॥२-१९-३६॥ उचितम् च महाबाहुर्न जहौ हर्षमात्मनः ।शारदः समुदीर्णाम्शुश्चन्द्रस्तेज इवात्मजम् ॥२-१९-३७॥ वाचा मधुरया रामः स्र्वं सम्मानयन् जनम् ।मातुस्समीपं धीरात्मा प्रविवेश महायशाः ॥२-१९-३८॥ तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः ।सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥२-१९-३९॥ प्रविश्य वेश्म अतिभ्Rशम् मुदा अन्वितम् ।समीक्ष्य ताम् च अर्थ विपत्तिम् आगताम् ।न चैव रामः अत्र जगाम विक्रियाम् ।सुह्Rज् जनस्य आत्म विपत्ति शन्कया ॥२-१९-४०॥ तस्मिम्स्तु पुरुष्व्याघ्रे निष्क्रामति कृताञ्जलौ ।आर्तशच्दो महान् जज्ञे स्त्रीणाम न्तःपुरे तदा ॥२-२०-१॥ क्R^त्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च ।गतिर्यः शरणम् चासीत् स रोओमोऽद्य प्रवत्स्यति ॥२-२०-२॥ कौसल्यायाम् यथा युक्तो जनन्याम् वर्तते सदा ।तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥२-२०-३॥ न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् ।कृद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥२-२०-४॥ अभुद्धिर्बत नो राजा जीवलोकम् चरत्ययम् ।यो गतिम् सर्वभूतानाम् परित्यजति राघवम् ॥२-२०-५॥ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।पतिमाचुक्रुशुश्चैव सस्वरम् चापि चुक्रुशुः ॥२-२०-६॥ स हि चान्तः पुरे घोरमार्तशब्धम् महीपतिः ।पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥२-२०-७॥ रामः तु भ्Rशम् आयस्तः निह्श्वसन्न् इव कुन्जरः ।जगाम सहितः भ्रात्रा मातुर् अन्तः पुरम् वशी ॥२-२०-८॥ सो अपश्यत् पुरुषम् तत्र व्Rद्धम् परम पूजितम् ।उपविष्टम् ग्Rह द्वारि तिष्ठतः च अपरान् बहून् ॥२-२०-९॥ द्R^ष्ट्वै तु तदा रामं ते सर्वे सहसोत्थिताः ।जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्म राघवम् ॥२-२०-१०॥ प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श सः ।ब्राह्मणान् वेद सम्पन्नान् व्Rद्धान् राज्ञा अभिसत्क्Rतान् ॥२-२०-११॥ प्रणम्य रामः तान् व्Rद्धाम्स् त्Rतीयायाम् ददर्श सः ।स्त्रियो व्Rद्धाः च बालाः च द्वार रक्षण तत्पराः ॥२-२०-१२॥ वर्धयित्वा प्रह्Rष्टाः ताः प्रविश्य च ग्Rहम् स्त्रियः ।न्यवेदयन्त त्वरिता राम मातुः प्रियम् तदा ॥२-२०-१३॥ कौसल्या अपि तदा देवी रात्रिम् स्थित्वा समाहिता ।प्रभाते तु अकरोत् पूजाम् विष्णोह् पुत्र हित एषिणी ॥२-२०-१४॥ सा क्षौम वसना ह्Rष्टा नित्यम् व्रत परायणा ।अग्निम् जुहोति स्म तदा मन्त्रवत् क्Rत मन्गला ॥२-२०-१५॥ प्रविश्य च तदा रामः मातुर् अन्तः पुरम् शुभम् ।ददर्श मातरम् तत्र हावयन्तीम् हुत अशनम् ॥२-२०-१६॥ देवकार्यनिमित्तम् च तत्रापश्यत् समुद्यतम्।दध्यक्षतम् घृतम् चैव मोदकान् हविषस्तदा ॥२-२०-१७॥ लाजान् माल्यानि शुक्लानि पायसम् कृसरम् तथा ।समिधः पूर्णकुम्भाम्श्छ ददर्श रघुनम्दनः ॥२-२०-१८॥ ताम् शुक्लक्षौमसम्वीताम् व्रतयोगेन कर्शिताम् ।तर्पयन्तीम् ददर्शाद्भिः देवताम् देववर्णिनीम् ॥२-२०-१९॥ सा चिरस्य आत्मजम् द्Rष्ट्वा मात्R नन्दनम् आगतम् ।अभिचक्राम सम्ह्Rष्टा किशोरम् वडवा यथा ॥२-२०-२०॥ स मातरमभिक्रान्तामुपसम्गृह्य राघवः ।परिष्वक्तश्च बाहुभ्यामुपाग्रातश्च मूर्धनि ॥२-२०-२१॥ तम् उवाच दुराधर्षम् राघवम् सुतम् आत्मनः ।कौसल्या पुत्र वात्सल्यात् इदम् प्रिय हितम् वचः ॥२-२०-२२॥ व्Rद्धानाम् धर्म शीलानाम् राजर्षीणाम् महात्मनाम् ।प्राप्नुहि आयुः च कीर्तिम् च धर्मम् च उपहितम् कुले ॥२-२०-२३॥ सत्य प्रतिज्ञम् पितरम् राजानम् पश्य राघव ।अद्य एव हि त्वाम् धर्म आत्मा यौवराज्ये अभिषेक्ष्यति ॥२-२०-२४॥ दत्तमासनमालभ्य भोजनेन निमन्त्रितः ।मातरम् राघवः किम्चित् प्रसार्य अन्जलिम् अब्रवीत् ॥२-२०-२५॥ स स्वभाव विनीतः च गौरवाच् च तदा आनतः ।प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥२-२०-२६॥ देवि नूनम् न जानीषे महद् भयम् उपस्थितम् ।इदम् तव च दुह्खाय वैदेह्या लक्ष्मणस्य च ॥२-२०-२७॥ गमिष्ये दण्डकारण्यम् किमनेनासनेन मे ।विष्टरासनयोग्यो हि कालोऽयम् मामुपस्थितः ॥२-२०-२८॥ चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।मधु मूल फलैः जीवन् हित्वा मुनिवद् आमिषम् ॥२-२०-२९॥ भरताय महा राजो यौवराज्यम् प्रयच्चति ।माम् पुनर् दण्डक अरण्यम् विवासयति तापसम् ॥२-२०-३०॥ स ष्ट्चाअष्टौ च वर्षाणि वत्स्यामि विजने वने ।आसेवमानो वन्यानि फलमूलैश्च चर्तयन् ॥२-२०-३१॥ सा निकृत्तैव सालस्य यष्टिः परशुना वने ।पपात सहसा देवी देवतेव दिवश्च्युता ॥२-२०-३२॥ ताम् अदुह्ख उचिताम् द्Rष्ट्वा पतिताम् कदलीम् इव ।रामः तु उत्थापयाम् आस मातरम् गत चेतसम् ॥२-२०-३३॥ उपाव्Rत्य उत्थिताम् दीनाम् वडवाम् इव वाहिताम् ।पाम्शु गुण्ठित सर्व अग्नीम् विममर्श च पाणिना ॥२-२०-३४॥ सा राघवम् उपासीनम् असुख आर्ता सुख उचिता ।उवाच पुरुष व्याघ्रम् उपश्Rण्वति लक्ष्मणे ॥२-२०-३५॥ यदि पुत्र न जायेथा मम शोकाय राघव ।न स्म दुह्खम् अतः भूयः पश्येयम् अहम् अप्रजा ॥२-२०-३६॥ एकएव हि वन्ध्यायाः शोको भवति मानवः ।अप्रजा अस्मि इति सम्तापो न हि अन्यः पुत्र विद्यते ॥२-२०-३७॥ न द्Rष्ट पूर्वम् कल्याणम् सुखम् वा पति पौरुषे ।अपि पुत्रे विपश्येयम् इति राम आस्थितम् मया ॥२-२०-३८॥ सा बहूनि अमनोज्ञानि वाक्यानि ह्Rदयच्चिदाम् ।अहम् श्रोष्ये सपत्नीनाम् अवराणाम् वरा सती ॥२-२०-३९॥ अतः दुह्खतरम् किम् नु प्रमदानाम् भविष्यति ।त्वयि सम्निहिते अपि एवम् अहम् आसम् निराक्Rता ॥२-२०-४०॥ त्वयि सन्निहितेऽप्येवमहमासं निराकृता ।किम् पुनः प्रोषिते तात ध्रुवम् मरणम् एव मे ॥२-२०-४१॥ अत्यन्तनिगृहीतास्मि भर्तुर्नित्य्मतन्त्रिता ।परिवारेण कैकेय्या समा वाप्यथवाऽवरा ॥२-२०-४२॥ यो हि माम् सेवते कश्चित् अथ वा अपि अनुवर्तते ।कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो न अभिभाषते ॥२-२०-४३॥ नित्यक्रोधतया तस्याः कथं नु खरवादि तत् ।कैकेय्या वदनम् द्रष्टुम् पुत्र शक्ष्यामि दुर्गता ॥२-२०-४४॥ दश सप्त च वर्षाणि तव जातस्य राघव ।असितानि प्रकान्क्षन्त्या मया दुह्ख परिक्षयम् ॥२-२०-४५॥ तदक्षयम् महाद्दुःखम् नोत्सहे सहितुम् चिरम् ।विप्रकारम् सपत्नीनामेवम् जीर्णापि राघव ॥२-२०-४६॥ अपश्यन्ती तव मुखम् परिपूर्णशशिप्रभम् ।कृपणा वर्तयिष्यामि कथम् कृपणजीविकाम् ॥२-२०-४७॥ उपवासैः च योगैः च बहुभिः च परिश्रमैः ।दुह्खम् सम्वर्धितः मोघम् त्वम् हि दुर्गतया मया ॥२-२०-४८॥ स्थिरम् तु हृदयम् मन्ये मम इदम् यन् न दीर्यते ।प्रावृषि इव महा नद्याः स्पृष्टम् कूलम् नव अम्भसा ॥२-२०-४९॥ मम एव नूनम् मरणम् न विद्यते ।न च अवकाशो अस्ति यम क्षये मम ।यद् अन्तको अद्य एव न माम् जिहीर्षति ।प्रसह्य सिम्हो रुदतीम् म्Rगीम् इव ॥२-२०-५०॥ स्थिरम् हि नूनम् हृदयम् मम आयसम् ।न भिद्यते यद् भुवि न अवदीर्यते ।अनेन दुःखेन च देहम् अर्पितम् ।ध्रुवम् हि अकाले मरणम् न विद्यते ॥२-२०-५१॥ इदम् तु दुःखम् यद् अनर्थकानि मे।व्रतानि दानानि च सम्यमाः च हि ।तपः च तप्तम् यद् अपत्य कारणात् ।सुनिष्फलम् बीजम् इव उप्तम् ऊषरे ॥२-२०-५२॥ यदि हि अकाले मरणम् स्वया इच्चया ।लभेत कश्चित् गुरु दुःख कर्शितः ।गता अहम् अद्य एव परेत सम्सदम् ।विना त्वया धेनुर् इव आत्मजेन वै ॥२-२०-५३॥ अथापि किम् जीवित मद्य मे वृथा ।त्वया विना च्न्द्रनिभाननप्रभ ।अनुव्रजिष्यामि वनम् त्वयैव गौः ।सुदुर्बला वत्समिवानुकाङ्क्षया ॥२-२०-५४॥ भृशम् असुखम् अमर्षिता तदा ।बहु विललाप समीक्ष्य राघवम् ।व्यसनम् उपनिशाम्य सा महत् ।सुतम् इव बद्धम् अवेक्ष्य किम्नरी ॥२-२०-५५॥ तथा तु विलपन्तीम् ताम् कौसल्याम् राम मातरम् ।उवाच लक्ष्मणो दीनः तत् काल सदृशम् वचः ॥२-२१-१॥ न रोचते मम अपि एतत् आर्ये यद् राघवो वनम् ।त्यक्त्वा राज्य श्रियम् गच्चेत् स्त्रिया वाक्य वशम् गतः ॥२-२१-२॥ विपरीतः च वृद्धः च विषयैः च प्रधर्षितः ।नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः ॥२-२१-३॥ न अस्य अपराधम् पश्यामि न अपि दोषम् तथा विधम् ।येन निर्वास्यते राष्ट्रात् वन वासाय राघवः ॥२-२१-४॥ न तम् पश्याम्य् अहम् लोके परोक्षम् अपि यो नरः ।स्वमित्रोऽपि निरस्तोऽपि योऽस्यदोषमुदाहरेत् ॥२-२१-५॥ देव कल्पम् ऋजुम् दान्तम् रिपूणाम् अपि वत्सलम् ।अवेक्षमाणः को धर्मम् त्यजेत् पुत्रम् अकारणात् ॥२-२१-६॥ तत् इदम् वचनम् राज्ञः पुनर् बाल्यम् उपेयुषः ।पुत्रः को हृदये कुर्यात् राज व्Rत्तम् अनुस्मरन् ॥२-२१-७॥ यावद् एव न जानाति कश्चित् अर्थम् इमम् नरः ।तावद् एव मया साधम् आत्मस्थम् कुरु शासनम् ॥२-२१-८॥ मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।कः समर्थो अधिकम् कर्तुम् कृत अन्तस्य इव तिष्ठतः ॥२-२१-९॥ निर्मनुष्याम् इमाम् सर्वाम् अयोध्याम् मनुज ऋषभ ।करिष्यामि शरैअः तीक्ष्णैः यदि स्थास्यति विप्रिये ॥२-२१-१०॥ भरतस्य अथ पक्ष्यो वा यो वा अस्य हितम् इच्चति ।सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते ॥२-२१-११॥ प्रोत्साहितोऽयम् कैकेय्या स दुष्टो यदिः पिता ।अमित्रभूतो निस्सङ्गम् वध्यताम् बध्यतामपि ॥२-२१-१२॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।उत्फथम् प्रतिपन्नस्य कार्यम् भवति शासन्म् ॥२-२१-१३॥ बलमेष किमाश्रित्य हेतुम् वा पुरुषर्षभ ।दातुमिच्छति कैकेय्य राज्यम् स्थितमिदम् तव ॥२-२१-१४॥ त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् ।कस्य शक्तिः श्रियम् दातुम् भरताय अरि शासन ॥२-२१-१५॥ अनुरक्तः अस्मि भावेन भ्रातरम् देवि तत्त्वतः ।सत्येन धनुषा चैव दत्तेन इष्टेन ते शपे ॥२-२१-१६॥ दीप्तम् अग्निम् अरण्यम् वा यदि रामः प्रवेक्ष्यते ।प्रविष्टम् तत्र माम् देवि त्वम् पूर्वम् अवधारय ॥२-२१-१७॥ हरामि वीर्यात् दुह्खम् ते तमः सूर्यैव उदितः ।देवी पश्यतु मे वीर्यम् राघवः चैव पश्यतु ॥२-२१-१८॥ एतत् तु वचनम् श्रुत्वा लक्ष्मणस्य महात्मनः ।उवाच रामम् कौसल्या रुदन्ती शोक लालसा ॥२-२१-१९॥ भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतम् त्वया ।यद् अत्र अनन्तरम् तत् त्वम् कुरुष्व यदि रोचते ॥२-२१-२०॥ न च अधर्म्यम् वचः श्रुत्वा सपत्न्या मम भाषितम् ।विहाय शोक सम्तप्ताम् गन्तुम् अर्हसि माम् इतः ॥२-२१-२१॥ धर्मज्ञ यदि धर्मिष्ठो धर्मम् चरितुम् इच्चसि ।शुश्रूष माम् इहस्थः त्वम् चर धर्मम् अनुत्तमम् ॥२-२१-२२॥ शुश्रूषुर् जननीम् पुत्र स्व गृहे नियतः वसन् ।परेण तपसा युक्तः काश्यपः त्रिदिवम् गतः ॥२-२१-२३॥ यथा एव राजा पूज्यः ते गौरवेण तथा हि अहम् ।त्वाम् न अहम् अनुजानामि न गन्तव्यम् इतः वनम् ॥२-२१-२४॥ त्वद् वियोगान् न मे कार्यम् जीवितेन सुखेन वा ।त्वया सह मम श्रेयः तृणानाम् अपि भक्षणम् ॥२-२१-२५॥ यदि त्वम् यास्यसि वनम् त्यक्त्वा माम् शोक लालसाम् ।अहम् प्रायम् इह आसिष्ये न हि शक्ष्यामि जीवितुम् ॥२-२१-२६॥ ततः स्त्वम् प्राप्स्यसे पुत्र निरयम् लोक विश्रुतम् ।ब्रह्म हत्याम् इव अधर्मात् समुद्रः सरिताम् पतिः ॥२-२१-२७॥ विलपन्तीम् तथा दीनाम् कौसल्याम् जननीम् ततः ।उवाच रामः धर्म अत्मा वचनम् धर्म सम्हितम् ॥२-२१-२८॥ न अस्ति शक्तिः पितुर् वाक्यम् समतिक्रमितुम् मम ।प्रसादये त्वाम् शिरसा गन्तुम् इच्चाम्य् अहम् वनम् ॥२-२१-२९॥ ऋषिणा च पितुर् वाक्यम् कुर्वता व्रत चारिणा ।गौर् हता जानता धर्मम् कण्डुना अपि विपश्चिता ॥२-२१-३०॥ अस्माकम् च कुले पूर्वम् सगरस्य आज्ञया पितुः ।खनद्भिः सागरैः भूतिम् अवाप्तः सुमहान् वधः ॥२-२१-३१॥ जामदग्न्येन रामेण रेणुका जननी स्वयम् ।कृत्ता परशुना अरण्ये पितुर् वचन कारिणा ॥२-२१-३२॥ एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् ।पितुर्वचनमक्लीबम् करिष्यामि पितुर्शितम् ॥२-२१-३३॥ न खल्व् एतन् मया एकेन क्रियते पितृ शासनम् ।एतैरपि कृतम् देवि ये मया तव कीर्तिताः ॥२-२१-३४॥ नाहम् धर्ममपूर्वम् ते प्रतिकूलम् प्रवर्तये ।पूर्वैः अयम् अभिप्रेतः गतः मार्गो अनुगम्यते ॥२-२१-३५॥ तत् एतत् तु मया कार्यम् क्रियते भुवि न अन्यथा ।पितुर् हि वचनम् कुर्वन् न कश्चिन् नाम हीयते ॥२-२१-३६॥ ताम् एवम् उक्त्वा जननीम् लक्ष्मणम् पुनर् अब्रवीत् ।तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् ॥२-२१-३७॥ तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।विक्रमम् चैव सत्यम् च तेजश्च सुदुरासदम् ॥२-२१-३८॥ मम मातुर्महद्दुःखमतुलम् शुभलक्षम्ण ।अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च ॥२-२१-३९॥ धर्मः हि परमः लोके धर्मे सत्यम् प्रतिष्ठितम् ।धर्म सम्श्रितम् एतच् च पितुर् वचनम् उत्तमम् ॥२-२१-४०॥ सम्श्रुत्य च पितुर् वाक्यम् मातुर् वा ब्राह्मणस्य वा ।न कर्तव्यम् वृथा वीर धर्मम् आश्रित्य तिष्ठता ॥२-२१-४१॥ सो अहम् न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् ।पितुर् हि वचनात् वीर कैकेय्या अहम् प्रचोदितः ॥२-२१-४२॥ तत् एनाम् विसृज अनार्याम् क्षत्र धर्म आश्रिताम् मतिम् ।धर्मम् आश्रय मा तैक्ष्ण्यम् मद् बुद्धिर् अनुगम्यताम् ॥२-२१-४३॥ तम् एवम् उक्त्वा सौहार्दात् भ्रातरम् लक्ष्मण अग्रजः ।उवाच भूयः कौसल्याम् प्रान्जलिः शिरसा आनतः ॥२-२१-४४॥ अनुमन्यस्व माम् देवि गमिष्यन्तम् इतः वनम् ।शापिता असि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥२-२१-४५॥ तीर्ण प्रतिज्ञः च वनात् पुनर् एष्याम्य् अहम् पुरीम् ।ययातिरिव राजर्षिः पुरा हित्वा पुनर्धिवम् ॥२-२१-४६॥ शोकस्सम्धार्यताम् मातर्हृदये साधु मा शुचः ।वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥२-२१-४७॥ त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।पितुर्नियोगे स्थातव्यमेष धर्मः सनाअनः ॥२-२१-४८॥ अम्ब सम्हृत्य सम्भारान् दुःखम् हृदि निगृह्य च ।वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम् ॥२-२१-४९॥ एतद्वच स्तस्य निशम्य माता ।सुधर्म्यमव्यग्रमविक्लबम् च ।मृतेव सम्ज्ञाम् प्रतिलभ्य देवी ।समीक्ष्य रामम् पुनरित्युवाच ॥२-२१-५०॥ यथैव ते पुत्र पिता तथाहम् ।गुरुः स्वधर्मेण सुहृत्तया च ।न त्वानुजानामि न मांविहाय ।सुदुःखितामर्हसि गन्तुमेवम् ॥२-२१-५१॥ किम् जीवितेनेह विना त्वया मे ।लोकेन वा किम् स्वधयाऽमृतेन ।श्रेयो मुहूर्तम् तव सन्निधानम् ।ममेह कृत्स्नादपि जीवलोकात् ॥२-२१-५२॥ नरैरिवोल्काभिरपोह्यमानो ।महागजोऽध्वानमनुप्रविष्टः ।भूयः प्रजज्वाल विलापमेवम् ।निशम्य रामः करुणम् जनन्या ॥२-२१-५३॥ स मातरम् चैव विसम्ज्ञकल्पा ।मार्तम् च सौमित्रि मभिप्रतप्तम् ।धर्मे स्थितो धर्म्यमुवाच वाक्यम् ।यथा स एवार्हति तत्र वक्तुम् ॥२-२१-५४॥ अहम् हि ते लक्ष्मण नित्यमेव ।जानामि भक्तिम् च पराक्रमम् च ।मम त्वभिप्राय मसन्निरीक्ष्य ।मात्रा सहाभ्यर्दसि मा सुदुःखम् ॥२-२१-५५॥ धर्मार्थकामाः खलु तात लोके ।समीक्षिता धर्मफलोदयेषु ।ते तत्र सर्वे स्युरसम्शयम् मे ।भार्येव वश्याभिमता सुपुत्रा ॥२-२१-५६॥ यस्मिम्स्तु सर्वे स्युरसन्निविष्टा ।धर्मो यतः स्यात् तदुपक्रमेत ।द्वेष्यो भवत्यर्थपरो हि लोके ।कामात्मता खल्वपि न प्रशस्ता ॥२-२१-५७॥ गुरुश्च राजा च पिता च वृद्धः ।क्रोधात्प्रहर्ष द्यदि वापि कामात् ।यद्व्यादिशेत् कार्यमवेक्ष्य धर्मम् ।कस्तन्न कुर्यादनृदनृशम्सवृत्तिः ॥२-२१-५८॥ सवै न शक्नोमि पितुः प्रतिज्ञा ।मिमामकर्तुम् सकलम् यथावत् ।स ह्यवयोस्तत गुरुर्नियोगे ।देवाश्च भर्ता स गतिस्स धर्मः ॥२-२१-५९॥ तस्मिन् पुनर्जीवति धर्मराजे ।विशेषतः स्वे पथि वर्तमाने ।देवी मया सार्थमितोऽपगच्छेत् ।कथम् स्विदन्या विधवेव नारी ॥२-२१-६०॥ सा मानुमन्यस्व वनम् व्रजन्तम् ।कुरुष्व नः स्वस्त्ययनानि देवि ।यथा समाप्ते पुनराव्रजेयम् ।यथा हि स्त्येन पुनर्ययातिः ॥२-२१-६१॥ यशो ह्यहम् केवलराज्यकारणात् ।न पृष्ठतः कर्तुमलम् महोदयम् ।अदीर्घकाले न तु देवि जीविते ।वृणेऽवरामद्य महीमधर्मतः ॥२-२१-६२॥ प्रसादयन् नर वृषभः स मातरम् ।पराक्रमाज्जिगमिषुरेव दोम्डकान् ।अथ अनुजम् भ्Rशम् अनुशास्य दर्शनम् ।चकार ताम् ह्Rदि जननीम् प्रदक्षिणम् ॥२-२१-६३॥ अथ तम् व्यथया दीनम् सविशेषम् अमर्षितम् ।श्वसन्तम् इव नाग इन्द्रम् रोष विस्फारित ईक्षणम् ॥२-२२-१॥ आसद्य रामः सौमित्रिम् सुह्Rदम् भ्रातरम् प्रियम् ।उवाच इदम् स धैर्येण धारयन् सत्त्वम् आत्मवान् ॥२-२२-२॥ निगृह्य रोषं शोकं च खैर्यमाश्रित्य केवलम् ।अवमानम् निरस्येमम् गृहीत्वा हर्षमुत्तमम् ॥२-२२-३॥ उपक्लुप्तम् हि यत्किम्चिदभिषेकार्थमद्य मे ।स्र्वम् विसर्जय क्षिप्रम् कुरु कार्यम् निरत्ययम् ॥२-२२-४॥ सौमित्रे यो अभिषेक अर्थे मम सम्भार सम्भ्रमः ।अभिषेक निवृत्ति अर्थे सो अस्तु सम्भार सम्भ्रमः ॥२-२२-५॥ यस्या मद् अभिषेक अर्थम् मानसम् परितप्यते ।माता नः सा यथा न स्यात् सविशन्का तथा कुरु ॥२-२२-६॥ तस्याः शन्कामयम् दुह्खम् मुहूर्तम् अपि न उत्सहे ।मनसि प्रतिसम्जातम् सौमित्रे अहम् उपेक्षितुम् ॥२-२२-७॥ न बुद्धि पूर्वम् न अबुद्धम् स्मरामि इह कदाचन ।मातृणाम् वा पितुर् वाहम् कृतम् अल्पम् च विप्रियम् ॥२-२२-८॥ सत्यः सत्य अभिसम्धः च नित्यम् सत्य पराक्रमः ।पर लोक भयात् भीतः निर्भयो अस्तु पिता मम ॥२-२२-९॥ तस्य अपि हि भवेद् अस्मिन् कर्मणि अप्रतिसम्ह्Rते ।सत्यम् न इति मनः तापः तस्य तापः तपेच् च माम् ॥२-२२-१०॥ अभिषेक विधानम् तु तस्मात् सम्हृत्य लक्ष्मण ।अन्वग् एव अहम् इच्चामि वनम् गन्तुम् इतः पुनः ॥२-२२-११॥ मम प्रव्राजनात् अद्य कृत कृत्या नृपात्मजा ।सुतम् भरतम् अव्यग्रम् अभिषेचयिता ततः ॥२-२२-१२॥ मयि चीर अजिन धरे जटा मण्डल धारिणि ।गते अरण्यम् च कैकेय्या भविष्यति मनः सुखम् ॥२-२२-१३॥ बुद्धिः प्रणीता येन इयम् मनः च सुसमाहितम् ।तत् तु न अर्हामि सम्क्लेष्टुम् प्रव्रजिष्यामि माचिरम् ॥२-२२-१४॥ कृत अन्तः तु एव सौमित्रे द्रष्टव्यो मत् प्रवासने ।राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने ॥२-२२-१५॥ कैकेय्याः प्रतिपत्तिर् हि कथम् स्यान् मम पीडने ।यदि भावो न दैवो अयम् कृत अन्त विहितः भवेत् ॥२-२२-१६॥ जानासि हि यथा सौम्य न मातृषु मम अन्तरम् ।भूत पूर्वम् विशेषो वा तस्या मयि सुते अपि वा ॥२-२२-१७॥ सो अभिषेक निवृत्ति अर्थैः प्रवास अर्थैः च दुर्वचैः ।उग्रैः वाक्यैः अहम् तस्या न अन्यद् दैवात् समर्थये ॥२-२२-१८॥ कथम् प्रकृति सम्पन्ना राज पुत्री तथा अगुणा ।ब्रूयात् सा प्राकृता इव स्त्री मत् पीडाम् भर्तृ सम्निधौ ॥२-२२-१९॥ यद् अचिन्त्यम् तु तत् दैवम् भूतेष्व् अपि न हन्यते ।व्यक्तम् मयि च तस्याम् च पतितः हि विपर्ययः ॥२-२२-२०॥ कश्चित् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् ।यस्य न ग्रहणम् किम्चित् कर्मणो अन्यत्र दृश्यते ॥२-२२-२१॥ सुख दुह्खे भय क्रोधौ लाभ अलाभौ भव अभवौ ।यस्य किम्चित् तथा भूतम् ननु दैवस्य कर्म तत् ॥२-२२-२२॥ ऋषयो प्युग्रतपसो दैवेनाभिप्रपीडिताः ।उत्सृज्य नियमाम् स्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥२-२२-२३॥ असम्क्ल्पितमेवेह यदकस्मात् प्रवर्तते ।निवर्त्यारम्भमारब्धम् ननु दैवस्य कर्म तत् ॥२-२२-२४॥ एतया तत्त्वया बुद्ध्या सम्स्तभ्यात्मानमात्मना ।व्याहते अपि अभिषेके मे परितापो न विद्यते ॥२-२२-२५॥ तस्मात् अपरितापः सम्स् त्वम् अपि अनुविधाय माम् ।प्रतिसम्हारय क्षिप्रम् आभिषेचनिकीम् क्रियाम् ॥२-२२-२६॥ एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः ।मम लक्स्मण तापस्ये व्रतस्नानम् भविष्यति ॥२-२२-२७॥ अथवा किम् ममैतेन राजद्रव्यमयेन तु ।उद्धृतम् मे स्वयम् तो यम् व्रतादेशम् करिष्यति ॥२-२२-२८॥ मा च लक्ष्मण सम्तापम् कार्षीर्लक्ष्म्या विपर्यये ।राज्यम् वा वनवासो वा वनवासो महोदयः ॥२-२२-२९॥ न लक्ष्मण अस्मिन् मम राज्य विघ्ने ।माता यवीयस्य् अतिशन्कनीया ।दैव अभिपन्ना हि वदन्ति अनिष्टम् ।जानासि दैवम् च तथा प्रभावम् ॥२-२२-३०॥ इति ब्रुवति रामे तु लक्ष्मणो अधः शिरा मुहुः ।श्रुत्वा मध्यम् जगाम इव मनसा दुह्ख हर्षयोह् ॥२-२३-१॥ तदा तु बद्ध्वा भ्रुकुटीम् भ्रुवोर् मध्ये नर ऋषभ ।निशश्वास महा सर्पो बिलस्यैव रोषितः ॥२-२३-२॥ तस्य दुष्प्रतिवीक्ष्यम् तत् भ्रुकुटी सहितम् तदा ।बभौ क्रुद्धस्य सिम्हस्य मुखस्य सदृशम् मुखम् ॥२-२३-३॥ अग्रहः तम् विधुन्वम्स् तु हस्ती हस्तम् इवात्मनः ।तिर्यग् ऊर्ध्वम् शरीरे च पातयित्वा शिरः धराम् ॥२-२३-४॥ अग्र अक्ष्णा वीक्षमाणः तु तिर्यग् भ्रातरम् अब्रवीत् ।अस्थाने सम्भ्रमः यस्य जातः वै सुमहान् अयम् ॥२-२३-५॥ धर्म दोष प्रसन्गेन लोकस्य अनतिशन्कया ।कथम् हि एतत् असम्भ्रान्तः त्वद् विधो वक्तुम् अर्हति ॥२-२३-६॥ यथा दैवम् अशौण्डीरम् शौण्डीरः क्षत्रिय ऋषभः ।किम् नाम कृपणम् दैवम् अशक्तम् अभिशम्सति ।पापयोस् तु कथम् नाम तयोह् शन्का न विद्यते ॥२-२३-७॥ सन्ति धर्म उपधाः श्लक्ष्णा धर्मात्मन् किम् न बुध्यसे ॥२-२३-८॥ तयोस्सुचरितम् स्वार्थम् शाठ्यात् परिजिहीर्षतोः ।यदि नैवम् व्यवसितम् स्याद्धि प्राग्रेव राघव ।तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ॥२-२३-९॥ लोक विद्विष्टम् आरब्धम् त्वद् अन्यस्य अभिषेचनम् ।नोत्सहे सहितुम् वीर तत्र मे क्षन्तुमर्हसि ॥२-२३-१०॥ येन इयम् आगता द्वैधम् तव बुद्धिर् मही पते ।स हि धर्मः मम द्वेष्यः प्रसन्गात् यस्य मुह्यसि ॥२-२३-११॥ कथम् त्वम् कर्मणा शक्तः कैकेयीवशवर्तिनः ।करिष्यसि पितुर्वाक्यमधर्मिष्ठम् विगर्हितम् ॥२-२३-१२॥ यद्य् अपि प्रतिपत्तिस् ते दैवी च अपि तयोः मतम् ।तथा अपि उपेक्षणीयम् ते न मे तत् अपि रोचते ॥२-२३-१३॥ मन्साऽपि कथम् कामम् कुर्यास्त्वम् कामवृत्तयोः ।तयोस्त्वहितयोर्नित्यम् शत्र्वोः पित्रभिधानयोः ॥२-२३-१४॥ यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ।तथा प्युपेक्षणीयम् ते न मे तदपि रोचते ॥२-२३-१५॥ विक्लवो वीर्य हीनो यः स दैवम् अनुवर्तते ।वीराः सम्भावित आत्मानो न दैवम् पर्युपासते ॥२-२३-१६॥ दैवम् पुरुष कारेण यः समर्थः प्रबाधितुम् ।न दैवेन विपन्न अर्थः पुरुषः सो अवसीदति ॥२-२३-१७॥ द्रक्ष्यन्ति तु अद्य दैवस्य पौरुषम् पुरुषस्य च ।दैव मानुषयोः अद्य व्यक्ता व्यक्तिर् भविष्यति ॥२-२३-१८॥ अद्य मत् पौरुष हतम् दैवम् द्रक्ष्यन्ति वै जनाः ।यद् दैवात् आहतम् ते अद्य द्Rष्टम् राज्य अभिषेचनम् ॥२-२३-१९॥ अत्यन्कुशम् इव उद्दामम् गजम् मद बल उद्धतम् ।प्रधावितम् अहम् दैवम् पौरुषेण निवर्तये ॥२-२३-२०॥ लोक पालाः समस्ताः ते न अद्य राम अभिषेचनम् ।न च क्Rत्स्नाः त्रयो लोका विहन्युः किम् पुनः पिता ॥२-२३-२१॥ यैः विवासः तव अरण्ये मिथो राजन् समर्थितः ।अरण्ये तु विवत्स्यन्ति चतुर् दश समाः तथा ॥२-२३-२२॥ अहम् तदा आशाम् चेत्स्यामि पितुस् तस्याः च या तव ।अभिषेक विघातेन पुत्र राज्याय वर्तते ॥२-२३-२३॥ मद् बलेन विरुद्धाय न स्यात् दैव बलम् तथा ।प्रभविष्यति दुह्खाय यथा उग्रम् पौरुषम् मम ॥२-२३-२४॥ ऊर्ध्वम् वर्ष सहस्र अन्ते प्रजा पाल्यम् अनन्तरम् ।आर्य पुत्राः करिष्यन्ति वन वासम् गते त्वयि ॥२-२३-२५॥ पूर्व राज Rषि व्Rत्त्या हि वन वासो विधीयते ।प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने ॥२-२३-२६॥ स चेद् राजनि अनेक अग्रे राज्य विभ्रम शन्कया ।न एवम् इच्चसि धर्मात्मन् राज्यम् राम त्वम् आत्मनि ॥२-२३-२७॥ प्रतिजाने च ते वीर मा भूवम् वीर लोक भाक् ।राज्यम् च तव रक्षेयम् अहम् वेला इव सागरम् ॥२-२३-२८॥ मन्गलैः अभिषिन्चस्व तत्र त्वम् व्याप्Rतः भव ।अहम् एको मही पालान् अलम् वारयितुम् बलात् ॥२-२३-२९॥ न शोभ अर्थाव् इमौ बाहू न धनुर् भूषणाय मे ।न असिरा बन्धन अर्थाय न शराः स्तम्भ हेतवः ॥२-२३-३०॥ अमित्र दमन अर्थम् मे सर्वम् एतच् चतुष्टयम् ।न च अहम् कामये अत्यर्थम् यः स्यात् शत्रुर् मतः मम ॥२-२३-३१॥ असिना तीक्ष्ण धारेण विद्युच् चलित वर्चसा ।प्रग्Rहीतेन वै शत्रुम् वज्रिणम् वा न कल्पये ॥२-२३-३२॥ खड्ग निष्पेष निष्पिष्टैः गहना दुश्चरा च मे ।हस्ति अश्व नर हस्त ऊरु शिरोभिर् भविता मही ॥२-२३-३३॥ खड्ग धारा हता मे अद्य दीप्यमानाइव अद्रयः ।पतिष्यन्ति द्विपा भूमौ मेघाइव सविद्युतः ॥२-२३-३४॥ बद्ध गोधा अन्गुलि त्राणे प्रगृहीत शर आसने ।कथम् पुरुष मानी स्यात् पुरुषाणाम् मयि स्थिते ॥२-२३-३५॥ बहुभिः च एकम् अत्यस्यन्न् एकेन च बहून् जनान् ।विनियोक्ष्याम्य् अहम् बाणान् नृ वाजि गज मर्मसु ॥२-२३-३६॥ अद्य मे अस्त्र प्रभावस्य प्रभावः प्रभविष्यति ।राज्ञः च अप्रभुताम् कर्तुम् प्रभुत्वम् च तव प्रभो ॥२-२३-३७॥ अद्य चन्दन सारस्य केयूरा मोक्षणस्य च ।वसूनाम् च विमोक्षस्य सुह्Rदाम् पालनस्य च ॥२-२३-३८॥ अनुरूपाव् इमौ बाहू राम कर्म करिष्यतः ।अभिषेचन विघ्नस्य कर्तृउणाम् ते निवारणे ॥२-२३-३९॥ ब्रवीहि को अद्य एव मया वियुज्यताम् ।तव असुह्Rद् प्राण यशः सुह्Rज् जनैः ।यथा तव इयम् वसुधा वशे भवेत् ।तथा एव माम् शाधि तव अस्मि किम्करः ॥२-२३-४०॥ विम्Rज्य बाष्पम् परिसान्त्व्य च असकृत् ।स लक्ष्मणम् राघव वम्श वर्धनः ।उवाच पित्र्ये वचने व्यवस्थितम् ।निबोध माम् एष हि सौम्य सत् पथः ॥२-२३-४१॥ तम् समीक्ष्य तु अवहितम् पितुर् निर्देश पालने ।कौसल्या बाष्प सम्रुद्धा वचो धर्मिष्ठम् अब्रवीत् ॥२-२४-१॥ अदृष्ट दुह्खो धर्मात्मा सर्व भूत प्रियम् वदः ।मयि जातः दशरथात् कथम् उन्चेन वर्तयेत् ॥२-२४-२॥ यस्य भृत्याः च दासाः च मृष्टानि अन्नानि भुन्जते ।कथम् स भोक्ष्यते नाथो वने मूल फलानि अयम् ॥२-२४-३॥ क एतत् श्रद्दधेत् श्रुत्वा कस्य वा न भवेद् भयम् ।गुणवान् दयितः राज्ञो राघवो यद् विवास्यते ॥२-२४-४॥ नूनम् तु बलवान् लोके कृतान्तः सर्वमादिशन् ।लोके रामाभिरामस्त्वम् वनम् यत्र गमिष्यसि ॥२-२४-५॥ अयम् तु मामात्मभवस्तवादर्शनमारुतः ।विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥२-२४-६॥ चिन्ताबाष्पमहाधूस्तवागमनचिन्तजः ।कर्शयित्वा भृशम् पुत्र निश्वासायाससम्भवः ॥२-२४-७॥ त्वया विहीनाम् इह माम् शोक अग्निर् अतुलो महान् ।प्रधक्ष्यति यथा कक्षम् चित्र भानुर् हिम अत्यये ॥२-२४-८॥ कथम् हि धेनुः स्वम् वत्सम् गच्चन्तम् न अनुगच्चति ।अहम् त्वा अनुगमिष्यामि यत्र पुत्र गमिष्यसि ॥२-२४-९॥ तथा निगदितम् मात्रा तत् वाक्यम् पुरुष Rषभः ।श्रुत्वा रामः अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम्।कैकेय्या वन्चितः राजा मयि च अरण्यम् आश्रिते ।भवत्या च परित्यक्तः न नूनम् वर्तयिष्यति ॥२-२४-१०॥ भर्तुः किल परित्यागो नृशम्सः केवलम् स्त्रियाः ।स भवत्या न कर्तव्यो मनसा अपि विगर्हितः ॥२-२४-११॥ यावज् जीवति काकुत्स्थः पिता मे जगती पतिः ।शुश्रूषा क्रियताम् तावत् स हि धर्मः सनातनः ॥२-२४-१२॥ एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना ।तथा इति उवाच सुप्रीता रामम् अक्लिष्ट कारिणम् ॥२-२४-१३॥ एवम् उक्तः तु वचनम् रामः धर्मभ्Rताम् वरः ।भूयः ताम् अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् ॥२-२४-१४॥ मया चैव भवत्या च कर्तव्यम् वचनम् पितुः ।राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः ॥२-२४-१५॥ इमानि तु महा अरण्ये विह्Rत्य नव पन्च च ।वर्षाणि परम प्रीतः स्थास्यामि वचने तव ॥२-२४-१६॥ एवम् उक्ता प्रियम् पुत्रम् बाष्प पूर्ण आनना तदा ।उवाच परम आर्ता तु कौसल्या पुत्र वत्सला ॥२-२४-१७॥ आसाम् राम सपत्नीनाम् वस्तुम् मध्ये न मे क्षमम् ।नय माम् अपि काकुत्स्थ वनम् वन्यम् म्Rगीम् यथा ॥२-२४-१८॥ यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया ।ताम् तथा रुदतीम् रामः रुदन् वचनम् अब्रवीत् ॥२-२४-१९॥ जीवन्त्या हि स्त्रिया भर्ता दैवतम् प्रभुर् एव च ।भवत्या मम चैव अद्य राजा प्रभवति प्रभुः ।भरतः च अपि धर्मात्मा सर्व भूत प्रियम् वदः ॥२-२४-२०॥ भवतीम् अनुवर्तेत स हि धर्म रतः सदा ।यथा मयि तु निष्क्रान्ते पुत्र शोकेन पार्थिवः ॥२-२४-२१॥ यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ॥२-२४-२२॥ श्रमम् न अवाप्नुयात् किम्चित् अप्रमत्ता तथा कुरु ।दारुणश्चाप्ययम् शोको यथैनम् न विनाशयेत् ॥२-२४-२३॥ राज्ञो वृद्धस्य सततम् हितम् चर समाहिता ।व्रत उपवास निरता या नारी परम उत्तमा ॥२-२४-२४॥ भर्तारम् न अनुवर्तेत सा च पाप गतिर् भवेत् ।भर्तुः शुश्रूषया नारी लभते स्वर्गमु त्तमम् ॥२-२४-२५॥ अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ।शुश्रूषम् एव कुर्वीत भर्तुः प्रिय हिते रता ॥२-२४-२६॥ एष धर्मः पुरा द्Rष्टः लोके वेदे श्रुतः स्म्Rतः ।अग्निकार्येषु च सदा सुमनोभिश्च देवताः ॥२-२४-२७॥ पूज्याः ते मत् क्Rते देवि ब्राह्मणाः चैव सुव्रताः ।एवम् कालम् प्रतीक्षस्व मम आगमन कान्क्षिणी ॥२-२४-२८॥ प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति ।प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति ॥२-२४-२९॥ यदि धर्मभ्Rताम् श्रेष्ठो धारयिष्यति जीवितम् ।एवम् उक्ता तु रामेण बाष्प पर्याकुल ईक्षणा ॥२-२४-३०॥ कौसल्या पुत्र शोक आर्ता रामम् वचनम् अब्रवीत् ।गमने सुकृताम् बुद्धिम् न ते शक्नोमि पुत्रक ॥२-२४-३१॥ विनिवर्तयितुम् वीर नूनम् कालो दुरत्ययः ।गच्च पुत्र त्वम् एक अग्रः भद्रम् ते अस्तु सदा विभो ॥२-२४-३२॥ पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा ।प्रत्यागते महाभागे कृतार्थे चरितव्रते ॥२-२४-३३॥ पितुरानृण्यताम् प्राप्तेत्वयि लप्स्ये परम् सुखम् ।कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि ॥२-२४-३४॥ यस्त्वा सम्चोदयति मे वच आच्चिद्य राघव ।गच्छेदानीम् महाबाहो क्षेमेण पुनरागतः ॥२-२४-३५॥ नन्दयिष्यसि माम् पुत्रः साम्ना वाक्येन चारुणा ।अपीदानीम् स कालः स्स्याद्वनात्प्रत्यागतम् पुनः ॥२-२४-३६॥ यत्त्वाम् पुत्रकः पश्येयम् जटावल्कधारिणम् ।तथा हि रामम् वन वास निश्चितम् ।ददर्श देवी परमेण चेतसा ।उवाच रामम् शुभ लक्षणम् वचो।बभूव च स्वस्त्ययन अभिकान्क्षिणी ॥२-२४-३७॥ सा अपनीय तम् आयासम् उपस्पृश्य जलम् शुचि ।चकार माता रामस्य मन्गलानि मनस्विनी ॥२-२५-१॥ न शक्यसे वारयौइतुम् गच्छेदानीम् रघुत्तम ।श्रीघ्रम् च विनिवर्तस्व वर्तस्व च सताम् क्रमे ॥२-२५-२॥ यम् पालयसि धर्मम् त्वम् धृत्या च नियमेन च ।सवै राघवशार्दुल! धर्मस्त्वामभिरक्षतु ॥२-२५-३॥ येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ।ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥२-२५-४॥ यानि दत्तानि तेऽ स्त्राणि विश्वामित्रेण धीमता ।तानि त्वामभिरक्षन्तु गुणैस्समुदितम् सदा ॥२-२५-५॥ पितृशुश्रुषया पुत्र मातृशु श्रूषया तथा ।सत्येन च महाबाहो चिरम् जीवाभिरक्षितः ॥२-२५-६॥ समित्कुशपवित्राणि वेद्यश्चायतनानि च ।स्थण्ढिलानि विचित्राणि शैला वृक्षाः कुशुफा ह्रदाः ॥२-२५-७॥ पतङ्गाः पन्नगाः सिम्हास्त्वाम् रक्षन्तु नरोत्तम ।स्वस्ति साध्याः च विश्वे च मरुतः च महर्षयः ॥२-२५-८॥ स्वस्ति धाता विधाता च स्वस्ति पूषा भगो अर्यमा ।ऋतवः चैव पक्षाः च मासाः सम्वत्सराः क्षपाः ॥२-२५-९॥ ऋतवश्चैव पक्षाश्च मासास्सम्वत्सराः क्षपाः ।दिनानि च मुहूर्ताः च स्वस्ति कुर्वन्तु ते सदा ॥२-२५-१०॥ स्मृतिर् धृतिः च धर्मः च पान्तु त्वाम् पुत्र सर्वतः ।स्कन्दः च भगवान् देवः सोमः च सबृहस्पतिः ॥२-२५-११॥ सप्त ऋषयो नारदः च ते त्वाम् रक्षन्तु सर्वतः ।याश्चापि सर्वतः सिद्दा दिश्श्च सदिगीश्वराः ॥२-२५-१२॥ स्तुता मया वने तस्मिन् पान्तुत्वाम् पुत्र नित्यशः ।शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥२-२५-१३॥ द्यौरन्तरिक्षम् पृथिवी नद्यस्सर्वास्तथैव च ।नक्षत्राणि च सर्वाणि ग्रहाः च सहदेवताः ॥२-२५-१४॥ अहोरात्रे तथा सन्ध्ये पान्तु त्वाम् वनमाश्रितम् ।ऋतवश्चैव ष्ट्पुण्या मासाः सम्वत्सरास्तथा ॥२-२५-१५॥ कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ।महा वनानि चरतः मुनि वेषस्य धीमतः ॥२-२५-१६॥ तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा ।राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूरकर्मणाम् ॥२-२५-१७॥ क्रव्यादानाम् च सर्वेषम् माभूत्पुत्रक ते भयम् ।प्लवगा वृश्चिका दम्शा मशकाः चैव कानने ॥२-२५-१८॥ सरी सृपाः च कीटाः च मा भूवन् गहने तव ।महा द्विपाः च सिम्हाः च व्याघ्राऋक्षाः च दम्ष्ट्रिणः ॥२-२५-१९॥ महिषाः शृन्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ।नृ माम्स भोजना रौद्रा ये च अन्ये सत्त्व जातयः ॥२-२५-२०॥ मा च त्वाम् हिम्सिषुः पुत्र मया सम्पूजिताः तु इह ।आगमाः ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥२-२५-२१॥ सर्व सम्पत्तयो राम स्वस्तिमान् गच्च पुत्रक ।स्वस्ति ते अस्तु आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ॥२-२५-२२॥ सर्वेभ्यः चैव देवेभ्यो ये च ते परिपन्थिनः ।गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥२-२५-२३॥ पान्तु त्वामर्चिता राम! दण्डकारण्यवासिनम् ।अग्निर्वायुस्तथा धूमोमन्त्राश्चर्षिमुखाच्च्युताः ॥२-२५-२४॥ उपस्पर्शनकाले तु पान्तु त्वाम् रघुन्ददन ।सर्व लोक प्रभुर् ब्रह्मा भूत भर्ता तथा ऋषयः ॥२-२५-२५॥ ये च शेषाः सुराः ते त्वाम् रक्षन्तु वन वासिनम् ।इति माल्यैः सुर गणान् गन्धैः च अपि यशस्विनी ॥२-२५-२६॥ स्तुतिभिः च अनुरूपाभिर् आनर्च आयत लोचना ।ज्वलनम् समुपादाय ब्राह्मणेन महात्मना ॥२-२५-२७॥ हावयामास विधिना राममङ्गलकारणात् ।घृतम् श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ॥२-२५-२८॥ उपसम्पादयामास कौसल्या पमाङ्गना ।उपाध्यायः स विधिना हुत्व शान्तिमनामयम् ॥२-२५-२९॥ हुतहव्यावशेषेण बाह्यम् बलिमकल्पयत् ।मधुदद्यक्षतघृतैः स्वस्तिवाच्य द्विजाम् स्ततः ॥२-२५-३०॥ वाचयामास रामस्य वने स्वस्त्ययनक्रियाः ।ततस्तन्मै द्विजेन्द्राय राममाता यशस्विनी ॥२-२५-३१॥ दक्षिणाम् प्रददौ काम्याम् राघवम् चेदमब्रवीत् ।यन् मन्गलम् सहस्र अक्षे सर्व देव नमः कृते ॥२-२५-३२॥ वृत्र नाशे समभवत् तत् ते भवतु मन्गलम् ।यन् मन्गलम् सुपर्णस्य विनता अकल्पयत् पुरा ॥२-२५-३३॥ अमृतम् प्रार्थयानस्य तत् ते भवतु मन्गलम् ।अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ॥२-२५-३४॥ अदितिर्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् ।तीन्विक्रमान् प्रकमतो विष्णोरमिततेजसः ॥२-२५-३५॥ यदासीन्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् ।ऋतवः सागरा द्वीपा वेदा लोका दिश्श्चते ॥२-२५-३६॥ मम्गLआनि महाबाहो दिशन्तु शुभवङ्गLआः ।इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी ॥२-२५-३७॥ गन्दाम्श्चापि समालभ्य राममायतलो चना ।ओषधीम् च अपि सिद्ध अर्थाम् विशल्य करणीम् शुभाम् ॥२-२५-३८॥ चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च ।उवाचातिप्रहृष्टेव सा दुःखवशर्तिनी ॥२-२५-३९॥ वाङ्मात्रेण न भावेन वाचा सम्सज्जमानया ।आनम्य मूर्ध्नि च आघ्राय परिष्वज्य यशस्विनी ॥२-२५-४०॥ अवदत् पुत्र सिद्ध अर्थो गच्च राम यथा सुखम् ।अरोगम् सर्व सिद्ध अर्थम् अयोध्याम् पुनर् आगतम् ॥२-२५-४१॥ पश्यामि त्वाम् सुखम् वत्स सुस्थितम् राज वेश्मनि ।प्रणष्टकुःखसम्कल्पा हर्षविद्योतितानना ॥२-२५-४२॥ द्रक्ष्यामि त्वाम् वनात्र्पाप्तम् पूर्णचन्द्रमिवोदितम् ।भद्रासनगतम् राम वनवासादिहागतम् ॥२-२५-४३॥ द्रक्षामि च पुनस्त्वाम् तु तीर्णवन्तम् पितुर्वचः ।मङ्गशैरुपसम्पन्नो वनवासादिहागतः ॥२-२५-४४॥ पध्वा मम च नित्यम् त्वम् कामान् सम्वर्ध याहि भोः ।मया अर्चिता देव गणाः शिव आदयो ।महर्षयो भूत महा असुर उरगाः ।अभिप्रयातस्य वनम् चिराय ते।हितानि कान्क्षन्तु दिशः च राघव ॥२-२५-४५॥ इति इव च अश्रु प्रतिपूर्ण लोचना।समाप्य च स्वस्त्ययनम् यथा विधि ।प्रदक्षिणम् चैव चकार राघवम् ।पुनः पुनः च अपि निपीड्य सस्वजे ॥२-२५-४६॥ तथा तु देव्या स कृत प्रदक्षिणो ।निपीड्य मातुः चरणौ पुनः पुनः ।जगाम सीता निलयम् महा यशाः ।स राघवः प्रज्वलितः स्वया श्रिया ॥२-२५-४७॥ अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितः वनम् ।कृत स्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥२-२६-१॥ विराजयन् राज सुतः राज मार्गम् नरैः वृतम् ।हृदयानि आममन्थ इव जनस्य गुणवत्तया ॥२-२६-२॥ वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी ।तत् एव हृदि तस्याः च यौवराज्य अभिषेचनम् ॥२-२६-३॥ देव कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट चेतना ।अभिज्ञा राज धर्मानाम् राज पुत्रम् प्रतीक्षते ॥२-२६-४॥ प्रविवेश अथ रामः तु स्व वेश्म सुविभूषितम् ।प्रहृष्ट जन सम्पूर्णम् ह्रिया किम्चित् अवान् मुखः ॥२-२६-५॥ अथ सीता समुत्पत्य वेपमाना च तम् पतिम् ।अपश्यत् शोक सम्तप्तम् चिन्ता व्याकुलिल इन्द्रियम् ॥२-२६-६॥ ताम् दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ।तम् शोकम् राघवह् सोढुम् ततो विवृतताम् गतः ॥२-२६-७॥ विवर्ण वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम् ।आह दुह्ख अभिसम्तप्ता किम् इदानीम् इदम् प्रभो ॥२-२६-८॥ अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव ।प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः ॥२-२६-९॥ न ते शत शलाकेन जल फेन निभेन च ।आवृतम् वदनम् वल्गु चत्रेण अभिविराजते ॥२-२६-१०॥ व्यजनाभ्याम् च मुख्याभ्याम् शत पत्र निभ ईक्षणम् ।चन्द्र हम्स प्रकाशाभ्याम् वीज्यते न तव आननम् ॥२-२६-११॥ वाग्मिनो बन्दिनः च अपि प्रहृष्टाः त्वम् नर ऋषभ ।स्तुवन्तः न अद्य दृश्यन्ते मन्गलैः सूत मागधाः ॥२-२६-१२॥ न ते क्षौद्रम् च दधि च ब्राह्मणा वेद पारगाः ।मूर्ध्नि मूर्ध अवसिक्तस्य दधति स्म विधानतः ॥२-२६-१३॥ न त्वाम् प्रकृतयः सर्वा श्रेणी मुख्याः च भूषिताः ।अनुव्रजितुम् इच्चन्ति पौर जापपदाः तथा ॥२-२६-१४॥ चतुर्भिर् वेग सम्पन्नैः हयैः कान्चन भूषणैः ।मुख्यः पुष्य रथो युक्तः किम् न गच्चति ते अग्रतः ॥२-२६-१५॥ न हस्ती च अग्रतः श्रीमाम्स् तव लक्षण पूजितः ।प्रयाणे लक्ष्यते वीर कृष्ण मेघ गिरि प्रभः ॥२-२६-१६॥ न च कान्चन चित्रम् ते पश्यामि प्रिय दर्शन ।भद्र आसनम् पुरः कृत्य यान्तम् वीर पुरह्सरम् ॥२-२६-१७॥ अभिषेको यदा सज्जः किम् इदानीम् इदम् तव ।अपूर्वो मुख वर्णः च न प्रहर्षः च लक्ष्यते ॥२-२६-१८॥ इति इव विलपन्तीम् ताम् प्रोवाच रघु नन्दनः ।सीते तत्रभवाम्स् तात प्रव्राजयति माम् वनम् ॥२-२६-१९॥ कुले महति सम्भूते धर्मज्ञे धर्म चारिणि ।शृणु जानकि येन इदम् क्रमेण अभ्यागतम् मम ॥२-२६-२०॥ राज्ञा सत्य प्रतिज्ञेन पित्रा दशरथेन मे ।कैकेय्यै प्रीत मनसा पुरा दत्तौ महा वरौ ॥२-२६-२१॥ तया अद्य मम सज्जे अस्मिन्न् अभिषेके नृप उद्यते ।प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥२-२६-२२॥ चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया ।पित्रा मे भरतः च अपि यौवराज्ये नियोजितः ॥२-२६-२३॥ सो अहम् त्वाम् आगतः द्रष्टुम् प्रस्थितः विजनम् वनम् ।भरतस्य समीपे ते न अहम् कथ्यः कदाचन ॥२-२६-२४॥ ऋद्धि युक्ता हि पुरुषा न सहन्ते पर स्तवम् ।तस्मान् न ते गुणाः कथ्या भरतस्य अग्रतः मम ॥२-२६-२५॥ न अपि त्वम् तेन भर्तव्या विशेषेण कदाचनअनुकूलतया शक्यम् समीपे तस्य वर्तितुम् ॥२-२६-२६॥ तस्मै दत्तम् नृवतिना यौवराज्यम् सनातनम् ।स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥२-२६-२७॥ अहम् च अपि प्रतिज्ञाम् ताम् गुरोह् समनुपालयन् ।वनम् अद्य एव यास्यामि स्थिरा भव मनस्विनि ॥२-२६-२८॥ याते च मयि कल्याणि वनम् मुनि निषेवितम् ।व्रत उपवास रतया भवितव्यम् त्वया अनघे ॥२-२६-२९॥ काल्यम् उत्थाय देवानाम् कृत्वा पूजाम् यथा विधि ।वन्दितव्यो दशरथः पिता मम नर ईश्वरः ॥२-२६-३०॥ माता च मम कौसल्या वृद्धा सम्ताप कर्शिता ।धर्मम् एव अग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति ॥२-२६-३१॥ वन्दितव्याः च ते नित्यम् याः शेषा मम मातरः ।स्नेह प्रणय सम्भोगैः समा हि मम मातरः ॥२-२६-३२॥ भ्रातृ पुत्र समौ च अपि द्रष्टव्यौ च विशेषतः ।त्वया लक्ष्मण शत्रुघ्नौ प्राणैः प्रियतरौ मम ॥२-२६-३३॥ विप्रियम् न च कर्तव्यम् भरतस्य कदाचन ।स हि राजा प्रभुः चैव देशस्य च कुलस्य च ॥२-२६-३४॥ आराधिता हि शीलेन प्रयत्नैः च उपसेविताः ।राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥२-२६-३५॥ औरसान् अपि पुत्रान् हि त्यजन्ति अहित कारिणः ।समर्थान् सम्प्रगृह्णन्ति जनान् अपि नर अधिपाः ॥२-२६-३६॥ सा त्वम् वसेह कल्याणि राज्ञः समनुवर्तिनी ।भरतस्य रता धर्मे सत्यव्रतपरायणा ॥२-२६-३७॥ अहम् गमिष्यामि महा वनम् प्रिये ।त्वया हि वस्तव्यम् इह एव भामिनि ।यथा व्यलीकम् कुरुषे न कस्यचित् ।तथा त्वया कार्यम् इदम् वचो मम ॥२-२६-३८॥ एवम् उक्ता तु वैदेही प्रिय अर्हा प्रिय वादिनी ।प्रणयात् एव सम्क्रुद्धा भर्तारम् इदम् अब्रवीत् ॥२-२७-१॥ किमिदम् भाषसे राम वाक्यम् लघुतया ध्रुवम् ।त्वया यदपहास्यम् मे श्रुत्वा नरवरात्मज ॥२-२७-२॥ आर्य पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा ।स्वानि पुण्यानि भुन्जानाः स्वम् स्वम् भाग्यम् उपासते ॥२-२७-३॥ भर्तुर् भाग्यम् तु भार्या एका प्राप्नोति पुरुष ऋषभ ।अतः चैव अहम् आदिष्टा वने वस्तव्यम् इति अपि ॥२-२७-४॥ न पिता न आत्मजो न आत्मा न माता न सखी जनः ।इह प्रेत्य च नारीणाम् पतिर् एको गतिः सदा ॥२-२७-५॥ यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव ।अग्रतः ते गमिष्यामि मृद्नन्ती कुश कण्टकान् ॥२-२७-६॥ ईर्ष्या रोषौ बहिष् कृत्य भुक्त शेषम् इव उदकम् ।नय माम् वीर विश्रब्धः पापम् मयि न विद्यते ॥२-२७-७॥ प्रासाद अग्रैः विमानैः वा वैहायस गतेन वा ।सर्व अवस्था गता भर्तुः पादच् चाया विशिष्यते ॥२-२७-८॥ अनुशिष्टा अस्मि मात्रा च पित्रा च विविध आश्रयम् ।न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया ॥२-२७-९॥ अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् ।नानामृगगणाकीर्णम् शार्दूलवृकसेवितम् ॥२-२७-१०॥ सुखम् वने निवत्स्यामि यथा एव भवने पितुः ।अचिन्तयन्ती त्रीम्ल् लोकामः चिन्तयन्ती पति व्रतम् ॥२-२७-११॥ शुश्रूषमाणा ते नित्यम् नियता ब्रह्म चारिणी ।सह रम्स्ये त्वया वीर वनेषु मधु गन्धिषु ॥२-२७-१२॥ त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम् ।अन्यस्य पै जनस्य इह किम् पुनर् मम मानद ॥२-२७-१३॥ सह त्वया गमिश्यामि वसमद्य न सम्शयः ।नाहम् शक्या महाभाग निवर्तयितु मुद्यता ॥२-२७-१४॥ फल मूल अशना नित्यम् भविष्यामि न सम्शयः ।न ते दुह्खम् करिष्यामि निवसन्ती सह त्वया ॥२-२७-१५॥ इच्चामि सरितः शैलान् पल्वलानि वनानि च ।द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता ॥२-२७-१६॥ हम्स कारण्डव आकीर्णाः पद्मिनीः साधु पुष्पिताः ।इच्चेयम् सुखिनी द्रष्टुम् त्वया वीरेण सम्गता ॥२-२७-१७॥ अभिषेकम् करिष्यामि तासु नित्यम् यतव्रता ।सह त्वया विशाल अक्ष रम्स्ये परम नन्दिनी ॥२-२७-१८॥ एवम् वर्ष सहस्राणाम् शतम् वा अहम् त्वया सह ।व्यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि हि न मे मतः ॥२-२७-१९॥ स्वर्गे अपि च विना वासो भविता यदि राघव ।त्वया मम नर व्याघ्र न अहम् तम् अपि रोचये ॥२-२७-२०॥ अहम् गमिष्यामि वनम् सुदुर्गमम् ।मृग आयुतम् वानर वारणैः युतम् ।वने निवत्स्यामि यथा पितुर् गृहे ।तव एव पादाव् उपगृह्य सम्मता ॥२-२७-२१॥ अनन्य भावाम् अनुरक्त चेतसम् ।त्वया वियुक्ताम् मरणाय निश्चिताम् ।नयस्व माम् साधु कुरुष्व याचनाम् ।न ते मया अतः गुरुता भविष्यति ॥२-२७-२२॥ तथा ब्रुवाणाम् अपि धर्म वत्सलो ।न च स्म सीताम् नृ वरः निनीषति ।उवाच च एनाम् बहु सम्निवर्तने ।वने निवासस्य च दुह्खिताम् प्रति ॥२-२७-२३॥ सएवम् ब्रुवतीम् सीताम् धर्मज्ञो धर्म वत्सलः ।निवर्तन अर्थे धर्म आत्मा वाक्यम् एतत् उवाच ह ॥२-२८-१॥ सान्त्वयित्वा पुनस्ताम् तु बाष्पदूषितलोचनाम् ।निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥२-२८-२॥ सीते महा कुलीना असि धर्मे च निरता सदा ।इह आचर स्वधर्मम् त्वम् मा यथा मनसः सुखम् ॥२-२८-३॥ सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले ।वने दोषा हि बहवो वदतः तान् निबोध मे ॥२-२८-४॥ सीते विमुच्यताम् एषा वन वास कृता मतिः ।बहु दोषम् हि कान्तारम् वनम् इति अभिधीयते ॥२-२८-५॥ हित बुद्ध्या खलु वचो मया एतत् अभिधीयते ।सदा सुखम् न जानामि दुह्खम् एव सदा वनम् ॥२-२८-६॥ गिरि निर्झर सम्भूता गिरि कन्दर वासिनाम् ।सिम्हानाम् निनदा दुह्खाः श्रोतुम् दुह्खम् अतः वनम् ॥२-२८-७॥ क्रीडमानाश्च विस्रब्धा मत्ताह् शून्ये महामृगाः ।दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥२-२८-८॥ सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ।मत्तैरपि गजैर्नित्यमतो दुःखतरम् वनम् ॥२-२८-९॥ लताकण्टकसम्पूर्णाः कृकवाकूपनादिताः ।निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥२-२८-१०॥ सुप्यते पर्ण शय्यासु स्वयम् भग्नासु भू तले ।रात्रिषु श्रम खिन्नेन तस्मात् दुह्खतरम् वनम् ॥२-२८-११॥ अहोरात्रम् च सन्तोषः कर्तव्यो नियतात्मना ।फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥२-२८-१२॥ उपवासः च कर्तव्या यथा प्राणेन मैथिलि ।जटा भारः च कर्तव्यो वल्कल अम्बर धारिणा ॥२-२८-१३॥ देवतानाम् पितृइणाम् चकर्तव्यम् विधिपूर्वकम् ।प्राप्तानामतिथीनाम् च नित्यशः प्रतिपूजनम् ॥२-२८-१४॥ कार्यस्त्रीरभिषेकश्च काले काले च नित्यशः ।चरता नियमेनैव तस्माद्दुःखतरम् वनम् ॥२-२८-१५॥ उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।आर्षेण विधिना वेद्याम् बाले दुःखमतो वनम् ॥२-२८-१६॥ यथालब्धेन कर्तव्यः सन्तोष्स्तेन मैथिलि ।यताहारैर्वनचरैः सीते दुःखमतो वनम् ॥२-२८-१७॥ अतीव वातः तिमिरम् बुभुक्षा च अत्र नित्यशः ।भयानि च महान्ति अत्र ततः दुह्खतरम् वनम् ॥२-२८-१८॥ सरी सृपाः च बहवो बहु रूपाः च भामिनि ।चरन्ति पृथिवीम् दर्पात् अतः दुखतरम् वनम् ॥२-२८-१९॥ नदी निलयनाः सर्पा नदी कुटिल गामिनः ।तिष्ठन्ति आवृत्य पन्थानम् अतः दुह्खतरम् वनम् ॥२-२८-२०॥ पतम्गा वृश्चिकाः कीटा दम्शाः च मशकैः सह ।बाधन्ते नित्यम् अबले सर्वम् दुह्खम् अतः वनम् ॥२-२८-२१॥ द्रुमाः कण्टकिनः चैव कुश काशाः च भामिनि ।वने व्याकुल शाखा अग्राः तेन दुह्खतरम् वनम् ॥२-२८-२२॥ कायक्लेशाश्च बहवो भयानि विविधानि च ।अरण्यवासे वसतो क्धुःखमेव ततो वनम् ॥२-२८-२३॥ क्रोधलोभे विमोक्तव्यौ कर्तव्या तपसे मतिः ।न भेतव्यम् च भेतव्ये नित्यम् दुःखमतो वनम् ॥२-२८-२४॥ तत् अलम् ते वनम् गत्वा क्षमम् न हि वनम् तव ।विमृशन्न् इह पश्यामि बहु दोषतरम् वनम् ॥२-२८-२५॥ वनम् तु नेतुम् न कृता मतिस् तदा ।बभूव रामेण यदा महात्मना ।न तस्य सीता वचनम् चकार तत् ।ततः अब्रवीद् रामम् इदम् सुदुह्खिता ॥२-२८-२६॥ एतत् तु वचनम् श्रुत्वा सीता रामस्य दुह्खिता ।प्रसक्त अश्रु मुखी मन्दम् इदम् वचनम् अब्रवीत् ॥२-२९-१॥ ये त्वया कीर्तिता दोषा वने वस्तव्यताम् प्रति ।गुणान् इति एव तान् विद्धि तव स्नेह पुरः कृतान् ॥२-२९-२॥ मृगाः सिम्हा गजाश्चैव शार्दूलाः शरभास्तथा ।पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥२-२९-३॥ अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव ।रूपम् दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति ॥२-२९-४॥ त्वया च सह गन्तव्यम् मया गुरु जन आज्ञया ।त्वद् वियोगेन मे राम त्यक्तव्यम् इह जीवितम् ॥२-२९-५॥ न च माम् त्वत् समीपस्थम् अपि शक्नोति राघव ।सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा ॥२-२९-६॥ पति हीना तु या नारी न सा शक्ष्यति जीवितुम् ।कामम् एवम् विधम् राम त्वया मम विदर्शितम् ॥२-२९-७॥ अथ च अपि महा प्राज्ञ ब्राह्मणानाम् मया श्रुतम् ।पुरा पितृ गृहे सत्यम् वस्तव्यम् किल मे वने ॥२-२९-८॥ लक्षणिभ्यो द्विजातिभ्यः श्रुत्वा अहम् वचनम् गृहे ।वन वास कृत उत्साहा नित्यम् एव महा बल ॥२-२९-९॥ आदेशो वन वासस्य प्राप्तव्यः स मया किल ।सा त्वया सह तत्र अहम् यास्यामि प्रिय न अन्यथा ॥२-२९-१०॥ कृत आदेशा भविष्यामि गमिष्यामि सह त्वया ।कालः च अयम् समुत्पन्नः सत्य वाग् भवतु द्विजः ॥२-२९-११॥ वन वासे हि जानामि दुह्खानि बहुधा किल ।प्राप्यन्ते नियतम् वीर पुरुषैः अकृत आत्मभिः ॥२-२९-१२॥ कन्यया च पितुर् गेहे वन वासः श्रुतः मयाभिक्षिण्याः साधु वृत्ताया मम मातुर् इह अग्रतः ॥२-२९-१३॥ प्रसादितः च वै पूर्वम् त्वम् वै बहु विधम् प्रभो ।गमनम् वन वासस्य कान्क्षितम् हि सह त्वया ॥२-२९-१४॥ कृत क्षणा अहम् भद्रम् ते गमनम् प्रति राघव ।वन वासस्य शूरस्य चर्या हि मम रोचते ॥२-२९-१५॥ शुद्ध आत्मन् प्रेम भावाद्द् हि भविष्यामि विकल्मषा ।भर्तारम् अनुगच्चन्ती भर्ता हि मम दैवतम् ॥२-२९-१६॥ प्रेत्य भावे अपि कल्याणः सम्गमः मे सह त्वया ।श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानाम् यशस्विनाम् ॥२-२९-१७॥ इह लोके च पितृभिर् या स्त्री यस्य महा मते ।अद्भिर् दत्ता स्वधर्मेण प्रेत्य भावे अपि तस्य सा ॥२-२९-१८॥ एवम् अस्मात् स्वकाम् नारीम् सुवृत्ताम् हि पति व्रताम् ।न अभिरोचयसे नेतुम् त्वम् माम् केन इह हेतुना ॥२-२९-१९॥ भक्ताम् पति व्रताम् दीनाम् माम् समाम् सुख दुह्खयोह् ।नेतुम् अर्हसि काकुत्स्थ समान सुख दुह्खिनीम् ॥२-२९-२०॥ यदि माम् दुह्खिताम् एवम् वनम् नेतुम् न च इच्चसि ।विषम् अग्निम् जलम् वा अहम् आस्थास्ये मृत्यु कारणात् ॥२-२९-२१॥ एवम् बहु विधम् तम् सा याचते गमनम् प्रति ।न अनुमेने महा बाहुस् ताम् नेतुम् विजनम् वनम् ॥२-२९-२२॥ एवम् उक्ता तु सा चिन्ताम् मैथिली समुपागता ।स्नापयन्ती इव गाम् उष्णैः अश्रुभिर् नयन च्युतैः ॥२-२९-२३॥ चिन्तयन्तीम् तथा ताम् तु निवर्तयितुम् आत्मवान् ।ताम्रोष्ठीं स तदा सीताम् काकुत्स्थो बह्व् असान्त्वयत् ॥२-२९-२४॥ सान्त्व्यमाना तु रामेण मैथिली जनक आत्मजा ।वन वास निमित्ताय भर्तारम् इदम् अब्रवीत् ॥२-३०-१॥ सा तम् उत्तम सम्विग्ना सीता विपुल वक्षसम् ।प्रणयाच् च अभिमानाच् च परिचिक्षेप राघवम् ॥२-३०-२॥ किम् त्वा अमन्यत वैदेहः पिता मे मिथिला अधिपः ।राम जामातरम् प्राप्य स्त्रियम् पुरुष विग्रहम् ॥२-३०-३॥ अनृतम् बल लोको अयम् अज्ञानात् यद्द् हि वक्ष्यति ।तेजो न अस्ति परम् रामे तपति इव दिवा करे ॥२-३०-४॥ किम् हि कृत्वा विषण्णः त्वम् कुतः वा भयम् अस्ति ते ।यत् परित्यक्तु कामः त्वम् माम् अनन्य परायणाम् ॥२-३०-५॥ द्युमत्सेन सुतम् वीर सत्यवन्तम् अनुव्रताम् ।सावित्रीम् इव माम् विद्धि त्वम् आत्म वश वर्तिनीम् ॥२-३०-६॥ न तु अहम् मनसा अपि अन्यम् द्रष्टा अस्मि त्वद् ऋते अनघ ।त्वया राघव गच्चेयम् यथा अन्या कुल पाम्सनी ॥२-३०-७॥ स्वयम् तु भार्याम् कौमारीम् चिरम् अध्युषिताम् सतीम् ।शैलूषैव माम् राम परेभ्यो दातुम् इच्चसि ॥२-३०-८॥ यस्य पथ्यम् च रामात्थ यस्य चार्थेऽवरुध्यसे ।त्वम् तस्य भव वश्यश्च विधेयश्छ सदानघ॥२-३०-९॥ स माम् अनादाय वनम् न त्वम् प्रस्थातुम् अर्हसि ।तपो वा यदि वा अरण्यम् स्वर्गो वा स्यात् सह त्वया ॥२-३०-१०॥ न च मे भविता तत्र कश्चित् पथि परिश्रमः ।पृष्ठतः तव गच्चन्त्या विहार शयनेष्व् अपि ॥२-३०-११॥ कुश काश शर इषीका ये च कण्टकिनो द्रुमाः ।तूल अजिन सम स्पर्शा मार्गे मम सह त्वया ॥२-३०-१२॥ महा वात समुद्धूतम् यन् माम् अवकरिष्यति ।रजो रमण तन् मन्ये पर अर्ध्यम् इव चन्दनम् ॥२-३०-१३॥ शाद्वलेषु यद् आसिष्ये वन अन्ते वन गोरचा ।कुथा आस्तरण तल्पेषु किम् स्यात् सुखतरम् ततः ॥२-३०-१४॥ पत्रम् मूलम् फलम् यत् त्वम् अल्पम् वा यदि वा बहु ।दास्यसि स्वयम् आहृत्य तन् मे अमृत रस उपमम् ॥२-३०-१५॥ न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः ।आर्तवानि उपभुन्जाना पुष्पाणि च फलानि च ॥२-३०-१६॥ न च तत्र गतः किम्चित् द्रष्टुम् अर्हसि विप्रियम् ।मत् कृते न च ते शोको न भविष्यामि दुर्भरा ॥२-३०-१७॥ यः त्वया सह स स्वर्गो निरयो यः त्वया विना ।इति जानन् पराम् प्रीतिम् गच्च राम मया सह ॥२-३०-१८॥ अथ माम् एवम् अव्यग्राम् वनम् न एव नयिष्यसि ।विषम् अद्य एव पास्यामि मा विशम् द्विषताम् वशम् ॥२-३०-१९॥ पश्चात् अपि हि दुह्खेन मम न एव अस्ति जीवितम् ।उज्झितायाः त्वया नाथ तदा एव मरणम् वरम् ॥२-३०-२०॥ इदम् हि सहितुम् शोकम् मुहूर्तम् अपि न उत्सहे ।किम् पुनर् दश वर्षाणि त्रीणि च एकम् च दुह्खिता ॥२-३०-२१॥ इति सा शोक सम्तप्ता विलप्य करुणम् बहु ।चुक्रोश पतिम् आयस्ता भृशम् आलिन्ग्य सस्वरम् ॥२-३०-२२॥ सा विद्धा बहुभिर् वाक्यैः दिग्धैः इव गज अन्गना ।चिर सम्नियतम् बाष्पम् मुमोच अग्निम् इव अरणिः ॥२-३०-२३॥ तस्याः स्फटिक सम्काशम् वारि सम्ताप सम्भवम् ।नेत्राभ्याम् परिसुस्राव पन्कजाभ्याम् इव उदकम् ॥२-३०-२४॥ तच्चैवामलचन्ध्रभम् मुखमायतलोचनम् ।पर्यशुष्यत बाष्पेण जलोद्धृतमिवामुबुजम् ॥२-३०-२५॥ ताम् परिष्वज्य बाहुभ्याम् विसम्ज्ञाम् इव दुह्खिताम् ।उवाच वचनम् रामः परिविश्वासयम्स् तदा ॥२-३०-२६॥ न देवि तव दुह्खेन स्वर्गम् अपि अभिरोचये ।न हि मे अस्ति भयम् किम्चित् स्वयम्भोर् इव सर्वतः ॥२-३०-२७॥ तव सर्वम् अभिप्रायम् अविज्ञाय शुभ आनने ।वासम् न रोचये अरण्ये शक्तिमान् अपि रक्षणे ॥२-३०-२८॥ यत् सृष्टा असि मया सार्धम् वन वासाय मैथिलि ।न विहातुम् मया शक्या कीर्तिर् आत्मवता यथा ॥२-३०-२९॥ धर्मः तु गज नास ऊरु सद्भिर् आचरितः पुरा ।तम् च अहम् अनुवर्ते अद्य यथा सूर्यम् सुवर्चला ॥२-३०-३०॥ न खल्वहम् न गच्छेयम् वनम् जनकनन्दिनि ।वचनम् त्न्नयति माम् पितुः सत्योपबृंहितम् ॥२-३०-३१॥ एष धर्मः तु सुश्रोणि पितुर् मातुः च वश्यता ।अतः च आज्ञाम् व्यतिक्रम्य न अहम् जीवितुम् उत्सहे ॥२-३०-३२॥ अस्वाधीनम् कथम् दैवम् प्रकारैरभिराध्यते ।स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम् ॥२-३०-३३॥ यत्त्रयम् तत्त्रयो लोकाः पवित्रम् तत्समम् भुवि ।नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥२-३०-३४॥ न सत्यम् दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः ।तथा बलकराः सीते यथा सेवा पितुर्मता ॥२-३०-३५॥ स्वर्गो धनम् वा धान्यम् वा विद्याः पुत्राः सुखानि च ।गुरुवृत्त्यनुरोधेन न किम्चित्\दपि दुर्लभम् ॥२-३०-३६॥ देवगन्धर्वगोलोकान् ब्रह्मलोकम् तथापरान् ।प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥२-३०-३७॥ स माम् पिता यथा शास्ति सत्य धर्म पथे स्थितः ।तथा वर्तितुम् इच्चामि स हि धर्मः सनातनः ॥२-३०-३८॥ मम सन्ना मतिः सीते त्वाम् नेतुम् दण्डकावनम् ।वसिष्यामीति सात्वम् मामनुयातुम् सुनिश्चिता ॥२-३०-३९॥ सा हि दिष्टाऽनवद्याङ्गी वनाय वदिरेक्षणे ।अनुगच्चस्व माम् भीरु सह धर्म चरी भव ॥२-३०-४०॥ सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च ।व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् ॥२-३०-४१॥ आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः ।नेदानीम् त्वदृते सीते स्वर्गोऽपि मम रोचते ॥२-३०-४२॥ ब्राह्मणेभ्यः च रत्नानि भिक्षुकेभ्यः च भोजनम् ।देहि च आशम्समानेभ्यः सम्त्वरस्व च माचिरम् ॥२-३०-४३॥ भूषणानि महार्हाणि वरवस्त्राणि यानि च ।रमणीयाश्च ये केचित्क्रीडार्थाश्चापुयुपस्कराः ॥२-३०-४४॥ शयनीयानि यानानि मम चान्यानि यानि च ।देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥२-३०-४५॥ अनुकूलम् तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः ।क्षिप्रम् प्रमुदिता देवी दातुम् एव उपचक्रमे ॥२-३०-४६॥ ततः प्रहृष्टा परिपूर्ण मानसा ।यशस्विनी भर्तुर् अवेक्ष्य भाषितम् ।धनानि रत्नानि च दातुम् अन्गना ।प्रचक्रमे धर्मभृताम् मनस्विनी ॥२-३०-४७॥ एवम् श्रुत्वा तु सम्वादम् लक्ष्मणः पूर्वमागतः ।बाष्पपर्याकुलमुखः शोकम् सोढुमशक्नुवन् ॥२-३१-१॥ स भ्रातुश्चरणौ गाढम् निपीड्य रघुनन्दनः ।सीतामुवाचातियशाम् राघवम् च महाव्रतम् ॥२-३१-२॥ यदि गन्तुम् कृता बुद्धिर्वनम् मृगगजायुतम् ।अहम् त्वानुगमिष्यामि वनमद्रे धनुर्धरः ॥२-३१-३॥ मया समेतोऽरण्यानि बहूनि विचरिष्यसि ।पक्षिभिर्मृगयूथैश्च सम्घुष्टानि समन्ततः ॥२-३१-४॥ न देवलोकाक्रमणम् नामरत्वमहम् वृणे ।ऐश्वर्यम् वापि लोकानाम् कामये न त्वया विना ॥२-३१-५॥ एवम् ब्रुवाणः सौमित्रिर्विनवासाय निश्चितः ।रामेण बहुभिः सान्वैर्निषिद्धः पुनरब्रवीत् ॥२-३१-६॥ अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।किमिदानीम् पुनरिदम् क्रियते मे निवारणम् ॥२-३१-७॥ यदर्थम् प्रतिषेधो मे क्रियते गन्तुमिच्छतः ।एतदिच्छामि विज्ञातुम् सम्शयो हि ममानघ ॥२-३१-८॥ ततः अब्रवीन् महा तेजा रामः लक्ष्मणम् अग्रतः ।स्थितम् प्राग् गामिनम् वीरम् याचमानम् कृत अन्जलिम् ॥२-३१-९॥ स्निग्धो धर्मरतो वीरस्सततम् सत्पथे स्थितः ।प्रियः प्राणसमो वशो भ्राता चापि सखा च मे ॥२-३१-१०॥ मया अद्य सह सौमित्रे त्वयि गच्चति तत् वनम् ।को भरिष्यति कौसल्याम् सुमित्राम् वा यशस्विनीम् ॥२-३१-११॥ अभिवर्षति कामैः यः पर्जन्यः पृथिवीम् इव ।स काम पाश पर्यस्तः महा तेजा मही पतिः ॥२-३१-१२॥ सा हि राज्यम् इदम् प्राप्य नृपस्य अश्व पतेः सुता ।दुह्खितानाम् सपत्नीनाम् न करिष्यति शोभनम् ॥२-३१-१३॥ न स्मरिष्यति कौसल्याम् सुमित्राम् च सुदुःखिताम् ।भरतो राज्यमासाद्य कैकेय्याम् पर्यवस्थितः ॥२-३१-१४॥ तामार्याम् स्वयमेवेह राजाऽनुग्रहणेन वा ।सौमित्रे भर कौसल्या मुक्तमर्थमिमम् चर ॥२-३१-१५॥ एवम् मम च ते भक्तिर्भविष्यति सुदर्शिता ।धर्मज्ञ गुरुपूजायाम् धर्मश्चाप्यतुलो महान् ॥२-३१-१६॥ एवम् कुरुष्व सौमित्रे मत्क्R^ते रघुनन्दन ।अस्माभिर्विप्रहीनाया मातुर्नो न भवेत्सुखम् ॥२-३१-१७॥ एवम् उक्तः तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।प्रत्युवाच तदा रामम् वाक्यज्ञो वाक्य कोविदम् ॥२-३१-१८॥ तव एव तेजसा वीर भरतः पूजयिष्यति ।कौसल्याम् च सुमित्राम् च प्रयतः न अत्र सम्शयः ॥२-३१-१९॥ कौसल्या बिभृयात् आर्या सहस्रम् अपि मद् विधान् ।यस्याः सहस्रम् ग्रामाणाम् सम्प्राप्तम् उपजीवनम् ॥२-३१-२०॥ तदात्मभरणे चैव मम मातुस्तथैव च ।पर्याप्ता मद्विधानाम् च भरणाय यशस्विनी ॥२-३१-२१॥ कुरुष्व मामनुचरम् वैधर्म्यम् नेह विद्यते ।कृतार्थोऽहम् भविष्यामि तव चार्थः प्रकल्पते ॥२-३१-२२॥ धनुर् आदाय सशरम् खनित्र पिटका धरः ।अग्रतः ते गमिष्यामि पन्थानम् अनुदर्शयन् ॥२-३१-२३॥ आहरिष्यामि ते नित्यम् मूलानि च फलानि च ।वन्यानि यानि च अन्यानि स्वाहाराणि तपस्विनाम् ॥२-३१-२४॥ भवाम्स् तु सह वैदेह्या गिरि सानुषु रम्स्यते ।अहम् सर्वम् करिष्यामि जाग्रतः स्वपतः च ते ॥२-३१-२५॥ रामः तु अनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।व्रज आपृच्चस्व सौमित्रे सर्वम् एव सुहृज् जनम् ॥२-३१-२६॥ ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ।जनकस्य महा यज्ञे धनुषी रौद्र दर्शने ॥२-३१-२७॥ अभेद्य कवचे दिव्ये तूणी च अक्षय सायकौ ।आदित्य विमलौ च उभौ खड्गौ हेम परिष्कृतौ ॥२-३१-२८॥ सत्कृत्य निहितम् सर्वम् एतत् आचार्य सद्मनि ।स त्वम् आयुधम् आदाय क्षिप्रम् आव्रज लक्ष्मण ॥२-३१-२९॥ स सुहृज् जनम् आमन्त्र्य वन वासाय निश्चितः ।इष्क्वाकु गुरुम् आमन्त्र्य जग्राह आयुधम् उत्तमम् ॥२-३१-३०॥ तत् दिव्यम् राज शार्दूलः सत्कृतम् माल्य भूषितम् ।रामाय दर्शयाम् आस सौमित्रिः सर्वम् आयुधम् ॥२-३१-३१॥ तम् उवाच आत्मवान् रामः प्रीत्या लक्ष्मणम् आगतम् ।काले त्वम् आगतः सौम्य कान्क्षिते मम लक्ष्मण ॥२-३१-३२॥ अहम् प्रदातुम् इच्चामि यद् इदम् मामकम् धनम् ।ब्राह्मणेभ्यः तपस्विभ्यः त्वया सह परम्तप ॥२-३१-३३॥ वसन्ति इह दृढम् भक्त्या गुरुषु द्विज सत्तमाः ।तेषाम् अपि च मे भूयः सर्वेषाम् च उपजीविनाम् ॥२-३१-३४॥ वसिष्ठ पुत्रम् तु सुयज्ञम् आर्यम् ।त्वम् आनय आशु प्रवरम् द्विजानाम् ।अभिप्रयास्यामि वनम् समस्तान् ।अभ्यर्च्य शिष्टान् अपरान् द्विजातीन् ॥२-३१-३५॥ ततः शासनम् आज्ञाय भ्रातुः शुभतरम् प्रियम् ।गत्वा स प्रविवेश आशु सुयज्ञस्य निवेशनम् ॥२-३२-१॥ तम् विप्रम् अग्नि अगारस्थम् वन्दित्वा लक्ष्मणो अब्रवीत् ।सखे अभ्यागच्च पश्य त्वम् वेश्म दुष्कर कारिणः ॥२-३२-२॥ ततः सम्ध्याम् उपास्य आशु गत्वा सौमित्रिणा सह ।जुष्टम् तत् प्राविशल् लक्ष्म्या रम्यम् राम निवेशनम् ॥२-३२-३॥ तम् आगतम् वेदविदम् प्रान्जलिः सीतया सह ।सुयज्ञम् अभिचक्राम राघवो अग्निम् इव अर्चितम् ॥२-३२-४॥ जात रूपमयैः मुख्यैः अन्गदैः कुण्डलैः शुभैः ।सहेम सूत्रैः मणिभिः केयूरैः वलयैः अपि ॥२-३२-५॥ अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत् ।सुयज्ञम् स तदा उवाच रामः सीता प्रचोदितः ॥२-३२-६॥ हारम् च हेम सूत्रम् च भार्यायै सौम्य हारय ।रशनाम् च अधुना सीता दातुम् इच्चति ते सखे ॥२-३२-७॥ अङ्गदानि विचित्राणि केयूराणि शुभानि च ।पर्यन्कम् अग्र्य आस्तरणम् नाना रत्न विभूषितम् ॥२-३२-८॥ पर्यङ्कमग्र्यास्तरणम् नानारत्नविभूषितम् ।तम् अपि इच्चति वैदेही प्रतिष्ठापयितुम् त्वयि ॥२-३२-९॥ नागः शत्रुम् जयो नाम मातुलो यम् ददौ मम ।तम् ते गज सहस्रेण ददामि द्विज पुम्गव ॥२-३२-१०॥ इति उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।राम लक्ष्मण सीतानाम् प्रयुयोज आशिषः शिवाः ॥२-३२-११॥ अथ भ्रातरम् अव्यग्रम् प्रियम् रामः प्रियम् वदः ।सौमित्रिम् तम् उवाच इदम् ब्रह्मा इव त्रिदश ईश्वरम् ॥२-३२-१२॥ अगस्त्यम् कौशिकम् चैव ताव् उभौ ब्राह्मण उत्तमौ ।अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः ॥२-३२-१३॥ तर्पयस्व महाबाहो गोसहसरैश्च मानद ।सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥२-३२-१४॥ कौसल्याम् च याअशीर्भिर् भक्तः पर्युपतिष्ठति ।आचार्यः तैत्तिरीयाणाम् अभिरूपः च वेदवित् ॥२-३२-१५॥ तस्य यानम् च दासीः च सौमित्रे सम्प्रदापय ।कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥२-३२-१६॥ सूतः चित्र रथः च आर्यः सचिवः सुचिर उषितः ।तोषय एनम् महा अर्हैः च रत्नैः वस्त्रैः धनैअः तथा ॥२-३२-१७॥ पशुकाभिकछ सर्वाभिर्गवाम् दशशतेन च ।ये चेमे कथकालापा बहवो दण्डमाणवाः ॥२-३२-१८॥ नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किम्चन ।अलसाः स्वादुकामाश्च महताम् चापि सम्मताः ॥२-३२-१९॥ शालि वाह सहस्रम् च द्वे शते भद्रकाम्स् तथा ।व्यन्जन अर्थम् च सौमित्रे गो सहस्रम् उपाकुरु ॥२-३२-२०॥ मेखलीनाम् महासघः कौसल्याम् समुपस्थितः ।तेषाम् सहस्रम् सौमित्रे प्रत्येकम् सम्प्रदापय ॥२-३२-२१॥ अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम् ।तथा द्विजातीम् स्तान्सर्वान् लक्ष्मणार्च ॥२-३२-२२॥ ततः स पुरुष व्याघ्रः तत् धनम् लक्ष्मणः स्वयम् ।यथा उक्तम् ब्राह्मण इन्द्राणाम् अददात् धनदो यथा ॥२-३२-२३॥ अथ अब्रवीद् बाष्प कलाम्स् तिष्ठतः च उपजीविनः ।सम्प्रदाय बहु द्रव्यम् एकैकस्य उपजीविनः ॥२-३२-२४॥ लक्ष्मणस्य च यद् वेश्म गृहम् च यद् इदम् मम ।अशून्यम् कार्यम् एकैकम् यावद् आगमनम् मम ॥२-३२-२५॥ इति उक्त्वा दुह्खितम् सर्वम् जनम् तम् उपजीविनम् ।उवाच इदम् धन ध्यक्षम् धनम् आनीयताम् इति ॥२-३२-२६॥ ततः अस्य धनम् आजह्रुः सर्वम् एव उपजीविनः ।स राशिः सुमहाम्स्तत्र दर्शनीयो ह्यदृश्यत ॥२-३२-२७॥ ततः स पुरुष व्याघ्रः तत् धनम् सह लक्ष्मणः ।द्विजेभ्यो बाल वृद्धेभ्यः कृपणेभ्यो अभ्यदापयत् ॥२-३२-२८॥ तत्र आसीत् पिन्गलो गार्ग्यः त्रिजटः नाम वै द्विजः ।क्षतवृत्तिर्वने नित्यम् फालकुद्दाललाङ्गली ॥२-३२-२९॥ तम् वृद्धम् तरुणी भार्या बालानादाय दारकान् ।अब्रवीद्बाह्मणम् वाक्यम् दारिद्र्येणाभिपीडिता ॥२-३२-३०॥ अपास्य फालम् कुद्दालम् कुरुष्व वचनम् ममम् ।रामम् दर्शय धर्मज्Jनम् यदि किम्चिदवाप्स्यसि ॥२-३२-३१॥ स भार्यावचनम् श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।स प्रतिष्ठत पन्थानम् यत्र रामनिवेशनम् ॥२-३२-३२॥ भृग्वङ्गिरसमम् दीप्त्या त्रिजटम् जनसम्सदि ।आ पन्चमायाः कक्ष्याया न एनम् कश्चित् अवारयत् ॥२-३२-३३॥ स राज पुत्रम् आसाद्य त्रिजटः वाक्यम् अब्रवीत् ।निर्धनो बहु पुत्रः अस्मि राज पुत्र महा यशः ।क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति ॥२-३२-३४॥ तमुवाच ततो रामः परिहाससमन्वितम् ।गवाम् सहस्रमप्येकम् न च विश्राणितम् मया ।परिक्षिपसि दण्डेन यावत्तावदवाप्य्ससि ॥२-३२-३५॥ स शाटीम् त्वरितः कट्याम् सम्ब्रान्तः परिवेष्ट्य ताम् ।आविद्ध्य दण्डम् चिक्षेप सर्वप्राणेन वेगितः ॥२-३२-३६॥ स तीर्त्वा सरयूपारम् दण्डस्तस्य कराच्च्युतः ।गोव्रजे बहुसाहास्रे पपातोक्षणसन्निधौ ॥२-३२-३७॥ तम् परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् ।आनयामास ता गोपैस्त्रिजटायाश्रमम् प्रति ॥२-३२-३८॥ उवाच च ततो रामस्तम् गार्ग्यमभिसान्त्वयन् ।मन्युर्न खलु कर्तव्यः परिहासो ह्ययम् मम ॥२-३२-३९॥ इदम् हि तेजस्तव यद्धुरत्ययम् ।तदेव जिज्ञासितु मिच्छता मया ।इमम् भवानर्थमभिप्रचोदितो ।वृणीष्व किम्चेदपरम् व्यवस्यति ॥२-३२-४०॥ ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा ।धनम् हि यद्यन्मम विप्रकारणात् ।भवत्सु सम्यक्र्पतिपादनेन त ।न्मयार्जितम् प्रीतियश्स्करम् भवेत् ॥२-३२-४१॥ तत स्सभार्य स्त्रिजटो महामुनि ।र्गवामनीकम् प्रतिगृह्य मोदितः ।यशोबलप्रीतिसुखोपबृम्हणी ।स्तदाशिषः प्रत्यवदन्महात्मनः ॥२-३२-४२॥ स चापि रामः प्रतिपूर्णमानसो ।महद्धनम् धर्मबलैरुपार्जितम् ।नियोजयामास सुहृज्जनेऽचिरा ।द्यथार्हसम्मानवचःप्रचोदितः ॥२-३२-४३॥ द्विजः सुहृद्भृत्यजनोऽथवा तदा ।दरिद्रभिक्षाचरणश्च योऽभवत् ।न तत्र कश्चिन्न बभूव तर्पितो ।यथार्ह सम्मानन दान सम्ब्रमैः ॥२-३२-४४॥ दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनम् बहु ।जग्मतुः पितरम् द्रष्टुम् सीतया सह राघवौ ॥२-३३-१॥ ततो गृहीते दुष्प्रेक्ष्येअशोभेताम् तदा आयुधे ।माला दामभिर् आसक्ते सीतया समलम्कृते ॥२-३३-२॥ ततः प्रासाद हर्म्याणि विमान शिखराणि च ।अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् ॥२-३३-३॥ न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु जन आकुलाः ।आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥२-३३-४॥ पदातिम् वर्जितच् चत्रम् रामम् दृष्ट्वा तदा जनाः ।ऊचुर् बहु विधा वाचः शोक उपहत चेतसः ॥२-३३-५॥ यम् यान्तम् अनुयाति स्म चतुर् अन्ग बलम् महत् ।तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः ॥२-३३-६॥ ऐश्वर्यस्य रसज्ञः सन् कामिनाम् चैव कामदः ।न इच्चति एव अनृतम् कर्तुम् पितरम् धर्म गौरवात् ॥२-३३-७॥ या न शक्या पुरा द्रष्टुम् भूतैः आकाशगैः अपि ।ताम् अद्य सीताम् पश्यन्ति राज मार्ग गता जनाः ॥२-३३-८॥ अङ्ग राग उचिताम् सीताम् रक्त चन्दन सेविनीम् ।वर्षम् उष्णम् च शीतम् च नेष्यति आशु विवर्णताम् ॥२-३३-९॥ अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते ।न हि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति ॥२-३३-१०॥ निर्गुणस्य अपि पुत्रस्या काथम् स्यात् विप्रवासनम् ।किम् पुनर् यस्य लोको अयम् जितः वृत्तेन केवलम् ॥२-३३-११॥ आनृशम्स्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः ।राघवम् शोभयन्ति एते षड् गुणाः पुरुष उत्तमम् ॥२-३३-१२॥ तस्मात् तस्य उपघातेन प्रजाः परम पीडिताः ।औदकानि इव सत्त्वानि ग्रीष्मे सलिल सम्क्षयात् ॥२-३३-१३॥ पीडया पीडितम् सर्वम् जगद् अस्य जगत् पतेः ।मूलस्य इव उपघातेन वृक्षः पुष्प फल उपगः ॥२-३३-१४॥ मूलं ह्येष मनुष्याणाम् धर्मसारो महाद्युतिः ।पुष्पम् फलम् च पत्रम् च शाखाश्चा स्येतरे जनाः ॥२-३३-१५॥ ते लक्ष्मणैव क्षिप्रम् सपत्न्यः सह बान्धवाः ।गच्चन्तम् अनुगच्चामः येन गच्चति राघवः ॥२-३३-१६॥ उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।एक दुह्ख सुखा रामम् अनुगच्चाम धार्मिकम् ॥२-३३-१७॥ समुद्धृत निधानानि परिध्वस्त अजिराणि च ।उपात्त धन धान्यानि हृत साराणि सर्वशः ॥२-३३-१८॥ रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः ।मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥२-३३-१९॥ अपेतोदकधूमानि हीनसम्मार्जनानि च ।प्रनष्टबलिकर्मेज्यमन्त्रहोमजपानि च ॥२-३३-२०॥ दुष्कालेनेव भग्नानि भिभाजनवन्ति च ।अस्मत् त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥२-३३-२१॥ वनम् नगरम् एव अस्तु येन गच्चति राघवः ।अस्माभिः च परित्यक्तम् पुरम् सम्पद्यताम् वनम् ॥२-३३-२२॥ बिलानि दम्ष्ट्रिणः सर्वे सानूनि मृग पक्षिणः ।अस्मत् त्यक्तम् प्रपद्यन्ताम् सेव्यमानम् त्यजन्तु च ॥२-३३-२३॥ इति एवम् विविधा वाचो नाना जन समीरिताः ।तृणमाम्सफलादानाम् देशम् व्यालमृगद्विजम् ॥२-३३-२४॥ प्रपद्यताम् हि कैकेयी सपुत्रा सहबान्धवैः ।राघावेण वने सर्वे सह वत्स्याम निर्वृताः ॥२-३३-२५॥ इत्येवम् विविधा वाचो नानाजनसमीरिताः।शुश्राव रामः श्रुत्वा च न विचक्रे अस्य मानसम् ॥२-३३-२६॥ स तु वेश्म पितुर्दूरा त्कैलासशिखरप्रभम् ।अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥२-३३-२७॥ विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।ददर्शवस्थितम् दीनम् सुमन्त्रमविदूरतः ॥२-३३-२८॥ प्रतीक्षमाणो अभिजनम् तदा आर्तम् ।अनार्त रूपः प्रहसन्न् इव अथ।जगाम रामः पितरम् दिदृक्षुः ।पितुर् निदेशम् विधिवच् चिकीर्षुः ॥२-३३-२९॥ तत् पूर्वम् ऐक्ष्वाक सुतः महात्मा ।रामः गमिष्यन् वनम् आर्त रूपम् ।व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रम् ।पितुर् महात्मा प्रतिहारण अर्थम् ॥२-३३-३०॥ पितुर्निदेशेन तु धर्मवत्सलो ।वन प्रवेशे कृत बुद्धि निश्चयः ।स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् ।निवेदयस्व आगमनम् नृपाय मे ॥२-३३-३१॥ ततःकमलपत्राक्षः श्यामो निरुपमो महान् ।उवाच रामस्तम् सूतं पितुराख्याहि मामिति ॥२-३४-१॥ स राम प्रेषितः क्षिप्रम् सम्ताप कलुष इन्द्रियः ।प्रविश्य नृपतिम् सूतः निह्श्वसन्तम् ददर्श ह ॥२-३४-२॥ उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥२-३४-३॥ आलोक्य तु महा प्राज्ञः परम आकुल चेतसम् ।रामम् एव अनुशोचन्तम् सूतः प्रान्जलिर् आसदत् ॥२-३४-४॥ तम् वर्धयित्वा राजानम् सूतः पूर्वम् जयाशिषा।भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥२-३४-५॥ अयम् स पुरुष व्याघ्र द्वारि तिष्ठति ते सुतः ।ब्राह्मणेभ्यो धनम् दत्त्वा सर्वम् चैव उपजीविनाम् ॥२-३४-६॥ स त्वा पश्यतु भद्रम् ते रामः सत्य पराक्रमः ।सर्वान् सुहृदाअपृच्च्य त्वाम् इदानीम् दिदृक्षते ॥२-३४-७॥ गमिष्यति महा अरण्यम् तम् पश्य जगती पते ।वृतम् राज गुणैः सर्वैः आदित्यम् इव रश्मिभिः ॥२-३४-८॥ स सत्य वादी धर्म आत्मा गाम्भीर्यात् सागर उपमः ।आकाशैव निष्पन्को नर इन्द्रः प्रत्युवाच तम् ॥२-३४-९॥ सुमन्त्र आनय मे दारान् ये केचित् इह मामकाः ।दारैः परिवृतः सर्वैः द्रष्टुम् इच्चामि राघवम् ॥२-३४-१०॥ सो अन्तः पुरम् अतीत्य एव स्त्रियः ता वाक्यम् अब्रवीत् ।आर्यो ह्वयति वो राजा गम्यताम् तत्र माचिरम् ॥२-३४-११॥ एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृप आज्ञया ।प्रचक्रमुस् तत् भवनम् भर्तुर् आज्ञाय शासनम् ॥२-३४-१२॥ अर्ध सप्त शताः ताः तु प्रमदाः ताम्र लोचनाः ।कौसल्याम् परिवार्य अथ शनैः जग्मुर् धृत व्रताः ॥२-३४-१३॥ आगतेषु च दारेषु समवेक्ष्य मही पतिः ।उवाच राजा तम् सूतम् सुमन्त्र आनय मे सुतम् ॥२-३४-१४॥ स सूतः रामम् आदाय लक्ष्मणम् मैथिलीम् तदा ।जगाम अभिमुखः तूर्णम् सकाशम् जगती पतेः ॥२-३४-१५॥ स राजा पुत्रम् आयान्तम् दृष्ट्वा दूरात् कृत अन्जलिम् ।उत्पपात आसनात् तूर्णम् आर्तः स्त्री जन सम्वृतः ॥२-३४-१६॥ सो अभिदुद्राव वेगेन रामम् दृष्ट्वा विशाम् पतिः ।तम् असम्प्राप्य दुह्ख आर्तः पपात भुवि मूर्चितः ॥२-३४-१७॥ तम् रामः अभ्यपातत् क्षिप्रम् लक्ष्मणः च महा रथः ।विसम्ज्ञम् इव दुह्खेन सशोकम् नृपतिम् तदा ॥२-३४-१८॥ स्त्री सहस्र निनादः च सम्जज्ञे राज वेश्मनि ।हाहा राम इति सहसा भूषण ध्वनि मूर्चितः ॥२-३४-१९॥ तम् परिष्वज्य बाहुभ्याम् ताव् उभौ राम लक्ष्मणौ ।पर्यन्के सीतया सार्धम् रुदन्तः समवेशयन् ॥२-३४-२०॥ अथ रामः मुहूर्तेन लब्ध सम्ज्ञम् मही पतिम् ।उवाच प्रान्जलिर् भूत्वा शोक अर्णव परिप्लुतम् ॥२-३४-२१॥ आपृच्चे त्वाम् महा राज सर्वेषाम् ईश्वरः असि नः ।प्रस्थितम् दण्डक अरण्यम् पश्य त्वम् कुशलेन माम् ॥२-३४-२२॥ लक्ष्मणम् च अनुजानीहि सीता च अन्वेति माम् वनम् ।कारणैः बहुभिस् तथ्यैः वार्यमाणौ न च इच्चतः ॥२-३४-२३॥ अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद ।लक्ष्मणम् माम् च सीताम् च प्रजापतिर् इव प्रजाः ॥२-३४-२४॥ प्रतीक्षमाणम् अव्यग्रम् अनुज्ञाम् जगती पतेः ।उवाच रर्जा सम्प्रेक्ष्य वन वासाय राघवम् ॥२-३४-२५॥ अहम् राघव कैकेय्या वर दानेन मोहितः ।अयोध्यायाः त्वम् एव अद्य भव राजा निगृह्य माम् ॥२-३४-२६॥ एवम् उक्तः नृपतिना रामः धर्मभृताम् वरः ।प्रत्युवाच अन्जलिम् कृत्वा पितरम् वाक्य कोविदः ॥२-३४-२७॥ भवान् वर्ष सहस्राय पृथिव्या नृपते पतिः ।अहम् तु अरण्ये वत्स्यामि न मे कार्यम् त्वया अनृतम् ॥२-३४-२८॥ नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिपः ॥२-३४-२९॥ रुदन्नाह प्रियम् पुत्रं सत्यपाशेन संयतः ।कैकेय्या चोद्यमान्स्तु मिथो राजा तमब्रवीत् ॥२-३४-३०॥ श्रेयसे वृद्धये तात पुनर् आगमनाय च ।गच्चस्व अरिष्टम् अव्यग्रः पन्थानम् अकुतः भयम् ॥२-३४-३१॥ न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।विनिवर्त यितुं बुद्धि शक्यते रघुनन्दन ॥२-३४-३२॥ अद्य तु इदानीम् रजनीम् पुत्र मा गच्च सर्वथा ।मातरम् माम् च सम्पश्यन् वस इमाम् अद्य शर्वरीम् ॥२-३४-३३॥ मातरं माम् च सम्पश्यन् वसेमामद्य शर्वरीम् ।तर्पितः सर्वकामैस्त्वम् स्वः काले साधयिष्यसि ॥२-३४-३४॥ दुष्करम् क्रियते पुत्र सर्वथा राघव तया ।मत्प्रियार्थम् प्रियाम्स्त्यक्त्वा यद्यासि विजनम् वनम् ॥२-३४-३५॥ न चैतन्मे प्रियम् पुत्र शपे सत्येन राघव ।छन्नया छलितस्त्वस्नु स्त्रुया छन्नाग्निकल्पया ॥२-३४-३६॥ पञ्चना या तु लब्धा मे तां त्वम् निस्तर्तुमिच्छसि ।अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥२-३४-३७॥ न चैतदाश्चर्यतमम् यत्तज्ज्येष्ठस्सुतो मम ।अपानृतकथम् पुत्र पितरम् कर्तुमिच्छ्सि ॥२-३४-३८॥ अथ रामः तथा श्रुत्वा पितुर् आर्तस्य भाषितम् ।लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् ॥२-३४-३९॥ प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति ।अपक्रमणम् एव अतः सर्व कामैः अहम् वृणे ॥२-३४-४०॥ इयम् सराष्ट्रा सजना धन धान्य समाकुला ।मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥२-३४-४१॥ वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ।यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ॥२-३४-४२॥ दीयताम् निखिलेनैव सत्यस्त्वम् भव पार्थिव ।अहम् निदेशम् भवतो यथोक्तमनुपालयन् ॥२-३४-४३॥ चतुर्दश समा वत्स्ये वने वनचरैः सह ।मा विमर्शो वसुमती भरताय प्रदीयताम् ॥२-३४-४४॥ न हि मे काम्क्षितम् राज्यम् सुखमात्मनि वा प्रियम् ।यथा निदेशम् कर्तुम् वै तवैव रघुनन्धन ॥२-३४-४५॥ अपगच्चतु ते दुह्खम् मा भूर् बाष्प परिप्लुतः ।न हि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः ॥२-३४-४६॥ न एव अहम् राज्यम् इच्चामि न सुखम् न च मैथिलीम् ।त्वाम् अहम् सत्यम् इच्चामि न अनृतम् पुरुष ऋषभ ॥२-३४-४७॥ त्वामहम् सत्यमिच्छामि नानृतम् पुरुषर्षभ ।प्रत्यक्षम् तव सत्येन सुकृतेन च ते शपे ॥२-३४-४८॥ न च शख्यम् मया तात स्थातुम् क्षणमपि प्रभो ।स शोकम् ध्रारयस्वेमम् न हि मेऽस्ति विपर्ययः ॥२-३४-४९॥ अर्थितो ह्यस्मि कैकेय्या वनम् गच्छेति राघव ।मया चोक्तं प्रजामीति तत्सत्यमनुपालये ॥२-३४-५०॥ मा चोत्कण्थां कृथा देव वने रम्स्यामहे वयम् ।प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥२-३४-५१॥ पिता हि दैवतम् तात देवतानामपि स्मृतम् ।तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥२-३४-५२॥ चतुर्धशसु वर्षेषु गतेषु नरसत्तम ।पुनर्द्रक्ष्यसि माम् प्राप्तम् सन्तापोऽयम् विमुच्यताम् ॥२-३४-५३॥ येन सम्स्तम्भनीयोऽयम् सर्वो बाष्पगLओ जनः ।स त्वम् पुरुषशार्दूल किमर्थम् विक्रियाम् गतः ॥२-३४-५४॥ पुरम् च राष्ट्रम् च मही च केवला ।मया निसृष्टा भरताय दीयताम् ।अहम् निदेशम् भवतः अनुपालयन् ।वनम् गमिष्यामि चिराय सेवितुम् ॥२-३४-५५॥ मया निसृष्टाम् भरतः महीम् इमाम् ।सशैल खण्डाम् सपुराम् सकाननाम् ।शिवाम् सुसीमाम् अनुशास्तु केवलम् ।त्वया यद् उक्तम् नृपते यथा अस्तु तत् ॥२-३४-५६॥ न मे तथा पार्थिव धीयते मनो ।महत्सु कामेषु न च आत्मनः प्रिये ।यथा निदेशे तव शिष्ट सम्मते ।व्यपैतु दुह्खम् तव मत् कृते अनघ ॥२-३४-५७॥ तत् अद्य न एव अनघ राज्यम् अव्ययम् ।न सर्व कामान् न सुखम् न मैथिलीम् ।न जीवितम् त्वाम् अनृतेन योजयन् ।वृणीय सत्यम् व्रतम् अस्तु ते तथा ॥२-३४-५८॥ फलानि मूलानि च भक्षयन् वने ।गिरीमः च पश्यन् सरितः सराम्सि च ।वनम् प्रविश्य एव विचित्र पादपम् ।सुखी भविष्यामि तव अस्तु निर्वृतिः ॥२-३४-५९॥ एवम् स राजा व्यसनाभिपन्नः ।शोकेन दुःखेन च ताम्यमानः ।आलिङ्ग्य पुत्रम् सुविनष्टसम्ज्ञो ।मोहम् गतो नैव चिचेश्ट किम्चित् ॥२-३४-६०॥ देव्यस्ततः सम्रुरुदुः समेता ।स्ताम् वर्जयित्वा नरदेवपत्नीम् ।रुदन् सुमन्त्रोऽपि जगाम मूर्छाम् ।हा हा कृतम् तत्र बभूव सर्वम् ॥२-३४-६१॥ ततो निर्धूय सहसा शिरो निःश्वस्व चासकृत् ।पाणौ पाणिम् विनिष्पिष्य दन्तान् कटकटाय्य च ॥२-३५-१॥ लोचने कोपसम्रक्ते वर्णम् पूर्वोचितम् जहत् ।कोपाभिभूतः सहसा सम्तापमशुभम् गतः ॥२-३५-२॥ मनः समीक्षमाणश्च सूतो दशरथस्य सः ।कम्पयन्निव कैकेय्या हृदयम् वाक्छरैश्शितैः ॥२-३५-३॥ वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः ।कैकेय्या सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥२-३५-४॥ यश्यास्तव पतिस्त्यक्तोराजा दशरथः स्वयम् ।भर्ता सर्वस्य जगतः स्थावरस्य चरश्य च ॥२-३५-५॥ न ह्यकार्यतमम् किम्चित् तव देवीह विद्यते ।पतिघ्नीम् त्वामहम् मन्ये कुलघ्नीमपि चान्ततः ॥२-३५-६॥ यन्म हेम्द्रमिवाजय्यम् दुष्प्रकम्प्यमिवाचलम् ।महोदधिमिवाक्षोभ्यम् सन्तापयसि कर्मभिः ॥२-३५-७॥ मावमम्स्था दशरथम् भर्तारम् वरदम् पतिम् ।भर्तुरिच्छा हि नारीणाम्पुत्रकोट्या विशिष्यते ॥२-३५-८॥ यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ।इक्ष्वाकुकुलनाथेऽस्मिम्स्तल्लोपयितुमिच्छसि ॥२-३५-९॥ राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् ।वयम् तत्र गमिष्यामो रामो यत्र गमिष्यति ॥२-३५-१०॥ न हि ते विषये कश्चिद्ब्राह्मणो वस्तुमर्हति ।तादृशम् त्वममर्यादमद्य कर्म चिकीर्षसि ॥२-३५-११॥ नूनम् सर्वे गमिष्यामो मार्गम् रामनिषेवितम् ।त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा ॥२-३५-१२॥ का प्रीती राज्यलाभेन तव देवि भविष्यति ।तादृशम् त्वममर्यादम् कर्म कर्तुम् चिकीर्षसि ॥२-३५-१३॥ आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् ।आचरन्त्या न विदृता सद्यो भवति मेदिनी ॥२-३५-१४॥ महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शना ।धिग्वाग्दण्डणा न हिम्सन्ति रामप्रव्राजने स्थिताम् ॥२-३५-१५॥ आम्रम् चित्वा कुठारेन निम्बम् परिचरेत्तु यः ।यश्चेनम् पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥२-३५-१६॥ अभिजात्यम् हि ते मन्ये यथा मातुस्तथैव च ।न हि निम्बात्स्रवेत्क्षौद्रम् लोके निगदितम् वचः ॥२-३५-१७॥ तव मातुरसद्ग्राहम् विद्मः पूर्वम् यथाश्रुतम् ।पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् ॥२-३५-१८॥ सर्वभूतरुतम् तस्मात्सम्जज्ञे वसुधाधिपः ।तेन तिर्यग्गतानाम् च भूतानाम् विदितम् वचः ॥२-३५-१९॥ ततो जृम्भस्य शयने विरुताद्भूरिवर्चसा ।पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥२-३५-२०॥ तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती ।हासम् ते नृपते सौम्य जिज्ञासामीति भाब्रवीत् ॥२-३५-२१॥ नृपश्चोवाच ताम् देवीम् देवि शम्सामि ते यदि ।ततो मे मरणम् सद्यो भविष्यति न सम्शयः ॥२-३५-२२॥ माता ते पितरम् देवि ततह् केकयमब्रवीत् ।शम्स मे जीव वा मा वा न मामपहसिष्यसि ॥२-३५-२३॥ प्रियया च तथोक्तः सन् केकयः पृथीवीपतिः ।तस्मै तम् वरदायार्थम् कथयामास तत्त्वतः ॥२-३५-२४॥ ततः स वरदह् साधु राजानम् प्रत्यभाषत ।म्रियताम् ध्वम्सताम् वेयम् मा कृथास्त्वम् महीपते ॥२-३५-२५॥ स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः ।मातरम् ते निरस्याशु विजहार कुबेरवत् ॥२-३५-२६॥ तथा त्वमपि राजानम् दुर्जनाचरिते पथि ।असद्ग्राहमिमम् मोहात्कुरुषे पापदर्शिनि ॥२-३५-२७॥ सत्यश्चाद्य प्रवादोऽयम् लौकिकः प्रतिभाति मा ।पित्R^ऊन् समनुजायन्ते नरा मातरमङ्गनाः ॥२-३५-२८॥ नैवम् भव Gऋहाणेदम् यदाह वसुधाधिपः ।भर्तुरिच्चामुपास्वेह जनस्यास्य गतिर्भव ॥२-३५-२९॥ मा त्वम् प्रोत्साहिता पापैर्देवराजसमप्रभम् ।भर्तारम् लोकभर्तारमसद्धर्ममुपादधाः ॥२-३५-३०॥ न हि मिथ्या प्रतिज्ञातम् करिष्यति तवानघः ।श्रीमान्दशरथो राजा देवि राजीवलोचनः ॥२-३५-३१॥ ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता ।रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥२-३५-३२॥ परिवादो हि ते देवि महान्लोके चरिष्यति ।यदि रामो वनम् याति विहाय पितरम् नृपम् ॥२-३५-३३॥ स राज्यम् राघवः पातु भवत्वम् विगतज्वरा ।न हि ते राघवादन्यः क्षमः पुरवरे वसेत् ॥२-३५-३४॥ रामे हि यौवराज्यस्थे राजा दशरथो वनम् ।प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥२-३५-३५॥ इति सान्वैश्च तीक्ष्णै कैकेयीम् राजसम्सदि ।सुवन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥२-३५-३६॥ नैवसाक्षुभ्यते देवी न च स्म परिदूयते ।न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥२-३५-३७॥ ततः सुमन्त्रम् ऐक्ष्वाकः पीडितः अत्र प्रतिज्ञया ।सबाष्पम् अतिनिह्श्वस्य जगाद इदम् पुनः पुनः ॥२-३६-१॥ सूत रत्न सुसम्पूर्णा चतुर् विध बला चमूः ।रागवस्य अनुयात्रा अर्थम् क्षिप्रम् प्रतिविधीयताम् ॥२-३६-२॥ रूप आजीवा च शालिन्यो वणिजः च महा धनाः ।शोभयन्तु कुमारस्य वाहिनीम् सुप्रसारिताः ॥२-३६-३॥ ये च एनम् उपजीवन्ति रमते यैः च वीर्यतः ।तेषाम् बहु विधम् दत्त्वा तान् अपि अत्र नियोजय ॥२-३६-४॥ आयुधानि च मुख्यानि नागराः शकटानि च ।अनुगच्छन्तु काकुत्थ्सम् व्याधाश्चारण्यगोचराः ॥२-३६-५॥ निघ्नन् मृगान् कुन्जरामः च पिबमः च आरण्यकम् मधु ।नदीः च विविधाः पश्यन् न राज्यम् सम्स्मरिष्यति ॥२-३६-६॥ धान्य कोशः च यः कश्चित् धन कोशः च मामकः ।तौ रामम् अनुगच्चेताम् वसन्तम् निर्जने वने ॥२-३६-७॥ यजन् पुण्येषु देशेषु विसृजमः च आप्त दक्षिणाः ।ऋषिभिः च समागम्य प्रवत्स्यति सुखम् वने ॥२-३६-८॥ भरतः च महा बाहुर् अयोध्याम् पालयिष्यति ।सर्व कामैः पुनः श्रीमान् रामः सम्साध्यताम् इति ॥२-३६-९॥ एवम् ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम् ।मुखम् च अपि अगमात् शेषम् स्वरः च अपि न्यरुध्यत ॥२-३६-१०॥ सा विषण्णा च सम्त्रस्ता कैकेयी वाक्यम् अब्रवीत् ।राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥२-३६-११॥ राज्यम् गत जनम् साधो पीत मण्डाम् सुराम् इव ।निरास्वाद्यतमम् शून्यम् भरतः न अभिपत्स्यते ॥२-३६-१२॥ कैकेय्याम् मुक्त लज्जायाम् वदन्त्याम् अतिदारुणम् ।राजा दशरथो वाक्यम् उवाच आयत लोचनाम् ॥२-३६-१३॥ वहन्तम् किम् तुदसि माम् नियुज्य धुरि मा आहिते ।अनार्ये कृत्यमार्ब्धम् किम् न पूर्वमुपारुधः ॥२-३६-१४॥ तस्यैतत्क्रोधसम्युक्तमुक्तम् श्रुत्वा वराङ्गना ।कैकेयी द्वि गुणम् क्रुद्धा राजानम् इदम् अब्रवीत् ॥२-३६-१५॥ तव एव वम्शे सगरः ज्येष्ठम् पुत्रम् उपारुधत् ।असमन्जैति ख्यातम् तथा अयम् गन्तुम् अर्हति ॥२-३६-१६॥ एवम् उक्तः धिग् इति एव राजा दशरथो अब्रवीत् ।व्रीडितः च जनः सर्वः सा च तन् न अवबुध्यत ॥२-३६-१७॥ तत्र वृद्धो महा मात्रः सिद्ध अर्थो नाम नामतः ।शुचिर् बहु मतः राज्ञः कैकेयीम् इदम् अब्रवीत् ॥२-३६-१८॥ असमन्जो गृहीत्वा तु क्रीडितः पथि दारकान् ।सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः ॥२-३६-१९॥ तम् दृष्ट्वा नागरः सर्वे क्रुद्धा राजानम् अब्रुवन् ।असमन्जम् वृषीण्व एकम् अस्मान् वा राष्ट्र वर्धन ॥२-३६-२०॥ तान् उवाच ततः राजा किम् निमित्तम् इदम् भयम् ।ताः च अपि राज्ञा सम्पृष्टा वाक्यम् प्रकृतयो अब्रुवन् ॥२-३६-२१॥ क्रीडितः तु एष नः पुत्रान् बालान् उद्भ्रान्त चेतनः ।सरय्वाम् प्रक्षिपन् मौर्ख्यात् अतुलाम् प्रीतिम् अश्नुते ॥२-३६-२२॥ स तासाम् वचनम् श्रुत्वा प्रकृतीनाम् नर अधिप ।तम् तत्याज अहितम् पुत्रम् तासाम् प्रिय चिकीर्षया ॥२-३६-२३॥ तम् यानम् श्रीघ्रमारोप्य सभार्यम् सपरिच्छदम् ।यावज्जीवम् विवास्योऽयमिति स्वानन्वशात् पिता ॥२-३६-२४॥ स फालपिटकम् गृह्य गिरिदुर्गान्यलोडयत् ।दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥२-३६-२५॥ इति एवम् अत्यजद् राजा सगरः वै सुधार्मिकः ।रामः किम् अकरोत् पापम् येन एवम् उपरुध्यते ॥२-३६-२६॥ न हि कम्चन पश्यामो राघवस्यागुणम् वयम् ।दुर्लभो यस्य निरयः श्शाङ्कस्येव कल्मषम् ॥२-३६-२७॥ अथवा देवि दोषम् त्वं कंचित्पश्यसि राघवे ।तमद्य ब्रूहि तत्वैन तदा रोमो विवास्यताम् ॥२-३६-२८॥ अदुष्टस्य हि सम्त्यागः सत्पथे निरतस्य च ।निर्दहे दपि शक्रस्य द्युतिम् धर्मनिरोधनात् ॥२-३६-२९॥ तदलम् देवि रामस्य श्रिया विहतया त्वया ।लोकतोऽप् हि ते रक्ष्यः परिवादः शुभानने ॥२-३६-३०॥ श्रुत्वा तु सिद्ध अर्थ वचो राजा श्रान्ततर स्वनः ।शोक उपहतया वाचा कैकेयीम् इदम् अब्रवीत् ॥२-३६-३१॥ एतद्वचो नेच्छ्सि पापवृत्ते ।हितम् न जानासि ममात्मनो वा ।आस्थाय मार्गम् कृपणम् कुचेष्टा ।चेष्टा हि ते साधुपदादपेता ॥२-३६-३२॥ अनुव्रजिष्याम्य् अहम् अद्य रामम् ।राज्यम् परित्यज्य सुखम् धनम् च ।सह एव राज्ञा भरतेन च त्वम् ।यथा सुखम् भुन्क्ष्व चिराय राज्यम् ॥२-३६-३३॥ महा मात्र वचः श्रुत्वा रामः दशरथम् तदा ।अन्वभाषत वाक्यम् तु विनयज्ञो विनीतवत् ॥२-३७-१॥ त्यक्त भोगस्य मे राजन् वने वन्येन जीवतः ।किम् कार्यम् अनुयात्रेण त्यक्त सन्गस्य सर्वतः ॥२-३७-२॥ यो हि दत्त्वा द्विप श्रेष्ठम् कक्ष्यायाम् कुरुते मनः ।रज्जु स्नेहेन किम् तस्य त्यजतः कुन्जर उत्तमम् ॥२-३७-३॥ तथा मम सताम् श्रेष्ठ किम् ध्वजिन्या जगत् पते ।सर्वाणि एव अनुजानामि चीराणि एव आनयन्तु मे ॥२-३७-४॥ खनित्र पिटके च उभे मम आनयत गच्चतः ।चतुर् दश वने वासम् वर्षाणि वसतः मम ॥२-३७-५॥ अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम् ।उवाच परिधत्स्व इति जन ओघे निरपत्रपा ॥२-३७-६॥ स चीरे पुरुष व्याघ्रः कैकेय्याः प्रतिगृह्य ते ।सूक्ष्म वस्त्रम् अवक्षिप्य मुनि वस्त्राणि अवस्त ह ॥२-३७-७॥ लक्ष्मणः च अपि तत्र एव विहाय वसने शुभे ।तापसाच् चादने चैव जग्राह पितुर् अग्रतः ॥२-३७-८॥ अथ आत्म परिधान अर्थम् सीता कौशेय वासिनी ।समीक्ष्य चीरम् सम्त्रस्ता पृषती वागुराम् इव ॥२-३७-९॥ सा व्यपत्रपमाणा इव प्रतिगृह्य च दुर्मनाः ।गन्धर्व राज प्रतिमम् भर्तारम् इदम् अब्रवीत् ॥२-३७-१०॥ अश्रुसंपूर्ण्नेत्रा च धर्मज्ञा धर्मदर्शिनी ।गन्धर्वराजप्रतिमम् भर्तारमिदमब्रवीत् ॥२-३७-११॥ कथम् नु चीरम् बध्नन्ति मुनयो वन वासिनः ।इति ह्यकुशला सीता सामुमोह मुहुर्मुहुः ॥२-३७-१२॥ कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना ।तस्थौ हि अकुषला तत्र व्रीडिता जनक आत्मज ॥२-३७-१३॥ तस्याः तत् क्षिप्रम् आगम्य रामः धर्मभृताम् वरः ।चीरम् बबन्ध सीतायाः कौशेयस्य उपरि स्वयम् ॥२-३७-१४॥ रामम् प्रेक्ष्य तु सीतायाः बध्नन्तम् चीरमुत्तमम् ।अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥२-३७-१५॥ उचुश्च परमायस्ता रामम् ज्वलिततेजसम् ।वत्स नैवम् नियुक्तेयम् वनवासे मनस्विनी ॥२-३७-१६॥ पितुर्वाक्यानुरोधेन गतस्य विजनम् वनम् ।तावद्दर्शनमस्या नः सफलम् भवतु प्रभो ॥२-३७-१७॥ लक्ष्मणेन सहायेन वनम् गच्छस्व पुत्रक ।नेयमर्हति कल्याणी वस्तुम् तापसवद्वने ॥२-३७-१८॥ कुरु नो याचनाम् पुत्र! सीता तिष्ठतु भामिनी ।धर्मनित्यः स्वयम् स्थातुम् न हीदानीम् त्वमिच्छसि ॥२-३७-१९॥ तासामेवम्विधा वाचः शृण्वन् दशरथात्मजः ।बबन्धैव तदा चीरम् सीतया तुल्यशीलया ॥२-३७-२०॥ चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।निवार्य सीताम् कैकेयीम् वसिष्ठो वाक्यमब्रवीत् ॥२-३७-२१॥ अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपाम्सनि ।वञ्यित्वा च राजानम् न प्रमाणेऽवतिष्ठसे ॥२-३७-२२॥ न गन्तव्यम् वनम् देव्या सीतया शीलवर्जिते ।अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥२-३७-२३॥ आत्मा हि दाराः सर्वेषाम् दारसम्ग्रहवर्तिनाम् ।आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥२-३७-२४॥ अथ यास्यति वैदेही वनम् रामेण सम्गता ।वयमप्यनुयास्यामः पुरम् चेदम् गमिष्यति ॥२-३७-२५॥ अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः ।सहोपजीव्यम् राष्ट्रम् च पुरम् च सपरिच्छदम् ॥२-३७-२६॥ भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः ।वने वसन्तम् काकुत्थ्समनुवत्स्यति पूर्वजम् ॥२-३७-२७॥ ततह् शून्याम् गतजनाम् वसुधाम् पादपैः सह ।त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥२-३७-२८॥ न हि तद्भविता राष्ट्रम् यत्र रामो न भूपतिः ।तद्वनम् भविता राष्ट्रम् यत्र रामो निवत्स्यति ॥२-३७-२९॥ न ह्यदत्ताम् महीम् पित्रा भरतः शास्तुमर्हति ।त्वयि वा पुत्रवद्वस्तुम् यदि जातो महीपतेः ॥२-३७-३०॥ यद्यपि त्वम् क्षितितलाद्गगनम् चोत्पतिष्यसि ।पितुर्व्म्शचरित्रज्ञः सोऽन्यथा न करिष्यति ॥२-३७-३१॥ तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् ।लोके हि स न विद्येत यो न राममनुव्रतः ॥२-३७-३२॥ द्रक्ष्यस्यद्यैव कैकेयि पशुव्याLअमृगद्विजान् ।गच्छतः सह रामेण पादपाम्श्च तदुन्मुखान् ॥२-३७-३३॥ अथोत्तमान्याभरणानि देवि ।देहि स्नुषायै व्यपनीय चीरम् ।न चीरमस्याः प्रविधीयतेति ।न्यवारयत् तद्वसनम् वसिष्ठः ॥२-३७-३४॥ एकस्य रामस्य वने निवास ।स्त्वया वृतह् केकयराजपुत्रि ।विभूषितेयम् प्रतिकर्मनित्या ।वसत्वरण्ये सह राघवेण ॥२-३७-३५॥ यानैश्च मुख्यैः परिचारकैश्च ।सुसम्वृता गच्छतु राजपुत्री ।वस्रैश्च सर्वैः सहितैर्विधानै ।र्नेयम् वृता ते वरसम्प्रदाने ॥२-३७-३६॥ तस्मिम्स्तथा जल्पति विप्रमुख्ये ।गुरौ नृपस्याप्रतिमप्रभावे ।नैव स्म सीता विनिवृत्तभावा ।प्रियस्य भर्तुः प्रतिकारकामा ॥२-३७-३७॥ तस्याम् चीरम् वसानायाम् नाथवत्याम् अनाथवत् ।प्रचुक्रोश जनः सर्वो धिग् त्वाम् दशरथम् तु इति ॥२-३८-१॥ तेन तत्र प्रणादेन दुःखितस्स महीपतिः ।चिच्छेद जीविते श्रद्धाम् धर्मे यशसि चात्मनः ॥२-३८-२॥ स निह्श्वस्य उष्णम् ऐक्ष्वाकः ताम् भार्याम् इदम् अब्रवीत् ।कैकेयि कुश चीरेण न सीता गन्तुम् अर्हति ॥२-३८-३॥ सुकुमारी च बाला च सततम् च सुखोचिता ।नेयम् वनस्य योग्येति सत्यमाह गुरुर्मम ॥२-३८-४॥ इयम् हि कश्यापकरोति किम्चि ।त्तपस्विनी राजवरस्य कन्या ।या चीरमासाद्य जनस्य मध्ये ।स्थिता विसम्ज्ञा श्रमणीव काचित् ॥२-३८-५॥ चीराण्यसास्या जनकस्य कन्या ।नेयम् प्रतिज्ञा मम दत्तपूर्वा ।यथासुखम् गच्छतु राजपुत्री ।वनम् सम्ग्रा सह सर्वर्त्नैः ॥२-३८-६॥ अजीवनार्हेण मया नृशम्सा ।कृता प्रतिज्ञा नियमेन तावत् ।त्वया हि बाल्यात् प्रतिपन्नमेतत् ।त्न्माम् दहेद् वेणुमिवात्मपुष्पम् ॥२-३८-७॥ रामेण यदि ते पा पे किम्चित्कृतमशोभनम् ।अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥२-३८-८॥ मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी ।अपकारम् कमिह ते करोति जनकात्मजा ॥२-३८-९॥ ननु पर्याप्तम् एतत् ते पापे राम विवासनम् ।किम् एभिः कृपणैः भूयः पातकैः अपि ते कृतैः ॥२-३८-१०॥ प्रतिज्ञातम् मया तावत् त्वयोक्तम् देवि शृण्वता ।रामम् यदभिषेकाय त्वमिहाअत मब्रवीः ॥२-३८-११॥ तत्त्वेतत्समतिक्रम्य निरयम् गन्तुमिच्छसि ।मैथिलीमपि या हि त्व मीक्षसे चीरवासिनीम् ॥२-३८-१२॥ इतीव राजा विलपन्महात्मा ।शोकस्य नान्तम् स ददर्श किम्चित् ।भृशातुरत्वाच्च पपात भूमौ ।तेनैव पुत्रव्यसनेन मग्नः ॥२-३८-१३॥ एवम् ब्रुवन्तम् पितरम् रामः सम्प्रस्थितः वनम् ।अवाक् शिरसम् आसीनम् इदम् वचनम् अब्रवीत् ॥२-३८-१४॥ इयम् धार्मिक कौसल्या मम माता यशस्विनी ।वृद्धा च अक्षुद्र शीला च न च त्वाम् देव गर्हिते ॥२-३८-१५॥ मया विहीनाम् वरद प्रपन्नाम् शोक सागरम् ।अदृष्ट पूर्व व्यसनाम् भूयः सम्मन्तुम् अर्हसि ॥२-३८-१६॥ पुत्रशोकम् यथा नर्चेत्त्वया पूज्येन पूजिता ।माम् हि सम्चिन्तयन्ती सा त्वयि जीवेत् तपस्विनी ॥२-३८-१७॥ इमाम् महा इन्द्र उपम जात गर्भिनीम् ।तथा विधातुम् जनमीम् मम अर्हसि ।यथा वनस्थे मयि शोक कर्शिता ।न जीवितम् न्यस्य यम क्षयम् व्रजेत् ॥२-३८-१८॥ रामस्य तु वचः श्रुत्वा मुनि वेष धरम् च तम् ।समीक्ष्य सह भार्याभी राजा विगत चेतनः ॥२-३९-१॥ न एनम् दुह्खेन सम्तप्तः प्रत्यवैक्षत राघवम् ।न च एनम् अभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥२-३९-२॥ स मुहूर्तम् इव असम्ज्ञो दुह्खितः च मही पतिः ।विललाप महा बाहू रामम् एव अनुचिन्तयन् ॥२-३९-३॥ मन्ये खलु मया पूर्वम् विवत्सा बहवः कृताः ।प्राणिनो हिम्सिता वा अपि तस्मात् इदम् उपस्थितम् ॥२-३९-४॥ न तु एव अनागते काले देहाच् च्यवति जीवितम् ।कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते ॥२-३९-५॥ मो अहम् पावक सम्काशम् पश्यामि पुरतः स्थितम् ।विहाय वसने सूक्ष्मे तापस आच्चादम् आत्मजम् ॥२-३९-६॥ एकस्याः खलु कैकेय्याः कृते अयम् क्लिश्यते जनः ।स्व अर्थे प्रयतमानायाः सम्श्रित्य निकृतिम् त्विमाम् ॥२-३९-७॥ एवम् उक्त्वा तु वचनम् बाष्पेण पिहित ईक्ष्णह ।राम इति सकृद् एव उक्त्वा व्याहर्तुम् न शशाक ह ॥२-३९-८॥ सम्ज्ञाम् तु प्रतिलभ्य एव मुहूर्तात् स मही पतिः ।नेत्राभ्याम् अश्रु पूर्णाभ्याम् सुमन्त्रम् इदम् अब्रवीत् ॥२-३९-९॥ औपवाह्यम् रथम् युक्त्वा त्वम् आयाहि हय उत्तमैः ।प्रापय एनम् महा भागम् इतः जन पदात् परम् ॥२-३९-१०॥ एवम् मन्ये गुणवताम् गुणानाम् फलम् उच्यते ।पित्रा मात्रा च यत् साधुर् वीरः निर्वास्यते वनम् ॥२-३९-११॥ राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्र विक्रमः ।योजयित्वा आययौ तत्र रथम् अश्वैः अलम्कृतम् ॥२-३९-१२॥ तम् रथम् राज पुत्राय सूतः कनक भूषितम् ।आचचक्षे अन्जलिम् कृत्वा युक्तम् परम वाजिभिः ॥२-३९-१३॥ राजा सत्वरम् आहूय व्यापृतम् वित्त सम्चये ।उवाच देश कालज्ञो निश्चितम् सर्वतः शुचि ॥२-३९-१४॥ वासाम्सि च महा अर्हाणि भूषणानि वराणि च ।वर्षाणि एतानि सम्ख्याय वैदेह्याः क्षिप्रम् आनय ॥२-३९-१५॥ नर इन्द्रेण एवम् उक्तः तु गत्वा कोश गृहम् ततः ।प्रायच्चत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत् ॥२-३९-१६॥ सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।भूषयाम् आस गात्राणि तैः विचित्रैः विभूषणैः ॥२-३९-१७॥ व्यराजयत वैदेही वेश्म तत् सुविभूषिता ।उद्यतः अम्शुमतः काले खम् प्रभा इव विवस्वतः ॥२-३९-१८॥ ताम् भुजाभ्याम् परिष्वज्य श्वश्रूर् वचनम् अब्रवीत् ।अनाचरन्तीम् कृपणम् मूध्नि उपाघ्राय मैथिलीम् ॥२-३९-१९॥ असत्यः सर्व लोके अस्मिन् सततम् सत्कृताः प्रियैः ।भर्तारम् न अनुमन्यन्ते विनिपात गतम् स्त्रियः ॥२-३९-२०॥ एष स्वभावो नारीणामनुभूय पुरा सुखम् ।अल्पामप्यापदम् प्राप्य दुष्यन्ति प्रजहत्यपि ॥२-३९-२१॥ असत्यशीला विकृता दुर्र्गाह्याहृदयास्तथा ।युवत्यः पापसम्कल्पाः क्षणमात्राद्विरागिणः ॥२-३९-२२॥ न कुलम् न कृतम् विद्या न दत्तम् नापि सम्ग्रहः ।स्त्रीणाम् गृह्णाति हृदयमनित्यहृदया हि ताः ॥२-३९-२३॥ साध्वीनाम् हि स्थितानाम् तु शीले सत्ये श्रुते शमे ।स्त्रीणाम् पवित्रम् परमम् पतिरेको विशिष्यते ॥२-३९-२४॥ स त्वया न अवमन्तव्यः पुत्रः प्रव्राजितः मम ।तव दैवतम् अस्तु एष निर्धनः सधनो अपि वा ॥२-३९-२५॥ विज्ञाय वचनम् सीता तस्या धर्म अर्थ सम्हितम् ।कृत अन्जलिर् उवाच इदम् श्वश्रूम् अभिमुखे स्थिता ॥२-३९-२६॥ करिष्ये सर्वम् एव अहम् आर्या यद् अनुशास्ति माम् ।अभिज्ञा अस्मि यथा भर्तुर् वर्तितव्यम् श्रुतम् च मे ॥२-३९-२७॥ न माम् असज् जनेन आर्या समानयितुम् अर्हति ।धर्मात् विचलितुम् न अहम् अलम् चन्द्रात् इव प्रभा ॥२-३९-२८॥ न अतन्त्री वाद्यते वीणा न अचक्रः वर्तते रथः ।न अपतिः सुखम् एधते या स्यात् अपि शत आत्मजा ॥२-३९-२९॥ मितम् ददाति हि पिता मितम् माता मितम् सुतः ।अमितस्य हि दातारम् भर्तारम् का न पूजयेत् ॥२-३९-३०॥ सा अहम् एवम् गता श्रेष्ठा श्रुत धर्म पर अवरा ।आर्ये किम् अवमन्येयम् स्त्रीणाम् भर्ता हि दैवतम् ॥२-३९-३१॥ सीताया वचनम् श्रुत्वा कौसल्या हृदयम् गमम् ।शुद्ध सत्त्वा मुमोच अश्रु सहसा दुह्ख हर्षजम् ॥२-३९-३२॥ ताम् प्रान्जलिर् अभिक्रम्य मातृ मध्ये अतिसत्कृताम् ।रामः परम धर्मज्ञो मातरम् वाक्यम् अब्रवीत् ॥२-३९-३३॥ अम्ब मा दुह्खिता भूस् त्वम् पश्य त्वम् पितरम् मम ।क्षयो हि वन वासस्य क्षिप्रम् एव भविष्यति ॥२-३९-३४॥ सुप्तायाः ते गमिष्यन्ति नव वर्षाणि पन्च च ।सा समग्रम् इह प्राप्तम् माम् द्रक्ष्यसि सुहृद् वृतम् ॥२-३९-३५॥ एतावद् अभिनीत अर्थम् उक्त्वा स जननीम् वचः ।त्रयः शत शत अर्धा हि ददर्श अवेक्ष्य मातरः ॥२-३९-३६॥ ताः च अपि स तथैव आर्ता मातृऋर् दशरथ आत्मजः ।धर्म युक्तम् इदम् वाक्यम् निजगाद कृत अन्जलिः ॥२-३९-३७॥ सम्वासात् परुषम् किम्चित् अज्ञानात् वा अपि यत् कृतम् ।तन् मे समनुजानीत सर्वाः च आमन्त्रयामि वः ॥२-३९-३८॥ वचनम् राघवस्यैतद्धर्मयुक्तम् समाहितम् ।शुश्रुवु स्ताः स्त्रियम् सर्वाः शोकोपहतचेतसः ॥२-३९-३९॥ जज्ञे अथ तासाम् सम्नादः क्रौन्चीनाम् इव निह्स्वनः ।मानव इन्द्रस्य भार्याणाम् एवम् वदति राघवे ॥२-३९-४०॥ मुरज पणव मेघ घोषव ।द्दशरथ वेश्म बभूव यत् पुरा ।विलपित परिदेवन आकुलम् ।व्यसन गतम् तत् अभूत् सुदुह्खितम् ॥२-३९-४१॥ अथ रामः च सीता च लक्ष्मणः च कृत अन्जलिः ।उपसम्गृह्य राजानम् चक्रुर् दीनाः प्रदक्षिणम् ॥२-४०-१॥ तम् च अपि समनुज्ञाप्य धर्मज्ञः सीतया सह ।राघवः शोक सम्मूढो जननीम् अभ्यवादयत् ॥२-४०-२॥ अन्वक्षम् लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत् ।अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥२-४०-३॥ तम् वन्दमानम् रुदती माता सौमित्रिम् अब्रवीत् ।हित कामा महा बाहुम् मूर्ध्नि उपाघ्राय लक्ष्मणम् ॥२-४०-४॥ सृष्टः त्वम् वन वासाय स्वनुरक्तः सुहृज् जने ।रामे प्रमादम् मा कार्षीः पुत्र भ्रातरि गच्चति ॥२-४०-५॥ व्यसनी वा समृद्धो वा गतिर् एष तव अनघ ।एष लोके सताम् धर्मः यज् ज्येष्ठ वशगो भवेत् ॥२-४०-६॥ इदम् हि वृत्तम् उचितम् कुलस्य अस्य सनातनम् ।दानम् दीक्षा च यज्ञेषु तनु त्यागो मृधेषु च ॥२-४०-७॥ लक्स्मणम् त्वेवम्क्त्वा सा सम्सिद्धम् प्रियराघवम् ।सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥२-४०-८॥ रामम् दशरथम् विद्धि माम् विद्धि जनक आत्मजाम् ।अयोध्याम् अटवीम् विद्धि गच्च तात यथा सुखम् ॥२-४०-९॥ ततः सुमन्त्रः काकुत्स्थम् प्रान्जलिर् वाक्यम् अब्रवीत् ।विनीतः विनयज्ञः च मातलिर् वासवम् यथा ॥२-४०-१०॥ रथम् आरोह भद्रम् ते राज पुत्र महा यशः ।क्षिप्रम् त्वाम् प्रापयिष्यामि यत्र माम् राम वक्ष्यसि ॥२-४०-११॥ चतुर् दश हि वर्षाणि वस्तव्यानि वने त्वया ।तानि उपक्रमितव्यानि यानि देव्या असि चोदितः ॥२-४०-१२॥ तम् रथम् सूर्य सम्काशम् सीता हृष्टेन चेतसा ।आरुरोह वर आरोहा कृत्वा अलम्कारम् आत्मनः ॥२-४०-१३॥ तथैव आयुध जातानि भ्रातृभ्याम् कवचानि च ।रथ उपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१४॥ वनवासम् हि सम्ख्यय वासाम्स्याभरणानि च ।भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥२-४०-१५॥ तथैवायुधजालानि भ्रातृभ्याम् कवचानि च ।रथोपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१६॥ सीता तृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत् ।सुमन्त्रः सम्मतान् अश्वान् वायु वेग समान् जवे ॥२-४०-१७॥ प्रयाते तु महा अरण्यम् चिर रात्राय राघवे ।बभूव नगरे मूर्च्चा बल मूर्च्चा जनस्य च ॥२-४०-१८॥ तत् समाकुल सम्भ्रान्तम् मत्त सम्कुपित द्विपम् ।हय शिन्जित निर्घोषम् पुरम् आसीन् महा स्वनम् ॥२-४०-१९॥ ततः सबाल वृद्धा सा पुरी परम पीडिता ।रामम् एव अभिदुद्राव घर्म आर्तः सलिलम् यथा ॥२-४०-२०॥ पार्श्वतः पृष्ठतः च अपि लम्बमानाः तत् उन्मुखाः ।बाष्प पूर्ण मुखाः सर्वे तम् ऊचुर् भृश दुह्खिताः ॥२-४०-२१॥ सम्यच्च वाजिनाम् रश्मीन् सूत याहि शनैः शनैः ।मुखम् द्रक्ष्यामि रामस्य दुर्दर्शम् नो भविष्यति ॥२-४०-२२॥ आयसम् हृदयम् नूनम् राम मातुर् असम्शयम् ।यद् देव गर्भ प्रतिमे वनम् याति न भिद्यते ॥२-४०-२३॥ कृत कृत्या हि वैदेही चाया इव अनुगता पतिम् ।न जहाति रता धर्मे मेरुम् अर्क प्रभा यथा ॥२-४०-२४॥ अहो लक्ष्मण सिद्ध अर्थः सतताम् प्रिय वादिनम् ।भ्रातरम् देव सम्काशम् यः त्वम् परिचरिष्यसि ॥२-४०-२५॥ महति एषा हि ते सिद्धिर् एष च अभ्युदयो महान् ।एष स्वर्गस्य मार्गः च यद् एनम् अनुगच्चसि ॥२-४०-२६॥ एवम् वदन्तः ते सोढुम् न शेकुर् बाष्पम् आगतम् ।अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीन चेतनः ॥२-४०-२७॥ अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः ।निर्जगाम प्रियम् पुत्रम् द्रक्ष्यामि इति ब्रुवन् गृहात् ॥२-४०-२८॥ शुश्रुवे च अग्रतः स्त्रीनाम् रुदन्तीनाम् महा स्वनः ।यथा नादः करेणूनाम् बद्धे महति कुन्जरे ॥२-४०-२९॥ पिता च राजा काकुत्स्थः श्रीमान् सन्नः तदा बभौ ।परिपूर्णः शशी काले ग्रहेण उपप्लुतः यथा ॥२-४०-३०॥ स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः ।सूतम् सम्चोदयामास त्वरितम् वाह्यतामिति ॥२-४०-३१॥ रामो याहीति सूतम् तम् तिष्ठेति स जनस्तदा ।उभयम् नाशकत्सूतः कर्तुमध्वनि चोदितः ॥२-४०-३२॥ निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः ।पतितैरभ्यवहितम् प्रशशाम महीरजः ॥२-४०-३३॥ रुदिताश्रुपरिद्यूनम् हाहाकृतमचेतनम् ।प्रयाणे राघवस्यासीत्पुरम् परमपीडितम् ॥२-४०-३४॥ सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम् ।मीनसम्क्षोभचलितैः सलिलम् पङ्कजैरिव ॥२-४०-३५॥ दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतम् पुरम् ।निपपातैव दुःखेन हतमूल इव द्रुमः ॥२-४०-३६॥ ततओ हल हला शब्दो जज्ञे रामस्य पृष्ठतः ।नराणाम् प्रेक्ष्य राजानम् सीदन्तम् भृश दुह्खितम् ॥२-४०-३७॥ हा राम इति जनाः केचित् राम माता इति च अपरे ।अन्तः पुरम् समृद्धम् च क्रोशन्तम् पर्यदेवयन् ॥२-४०-३८॥ अन्वीक्षमाणो रामः तु विषण्णम् भ्रान्त चेतसम् ।राजानम् मातरम् चैव ददर्श अनुगतौ पथि ॥२-४०-३९॥ स बद्ध इव पाशेन किशोरो मातरम् यथा ।धर्मपाशेन सम्क्षिप्तः प्रकाशम् नाभुदैक्षत ॥२-४०-४०॥ पदातिनौ च यान अर्हाव् अदुह्ख अर्हौ सुख उचितौ ।दृष्ट्वा सम्चोदयाम् आस शीघ्रम् याहि इति सारथिम् ॥२-४०-४१॥ न हि तत् पुरुष व्याघ्रः दुह्खदम् दर्शनम् पितुः ।मातुः च सहितुम् शक्तः तोत्र अर्दितैव द्विपः ॥२-४०-४२॥ प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।बद्धवत्सा यथा धेनू राममाताभ्याधावत ॥२-४०-४३॥ तथा रुदन्तीम् कौसल्याम् रथम् तम् अनुधावतीम् ।क्रोशन्तीम् राम राम इति हा सीते लक्ष्मण इति च ॥२-४०-४४॥ रामलक्ष्मणसीतार्थम् स्रवन्तीम् वारि नेत्रजम् ।असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् ॥२-४०-४५॥ तिष्ठ इति राजा चुक्रोष याहि याहि इति राघवः ।सुमन्त्रस्य बभूव आत्मा चक्रयोः इव च अन्तरा ॥२-४०-४६॥ न अश्रौषम् इति राजानम् उपालब्धो अपि वक्ष्यसि ।चिरम् दुह्खस्य पापिष्ठम् इति रामः तम् अब्रवीत् ॥२-४०-४७॥ रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तम् जनम् ।व्रजतः अपि हयान् शीघ्रम् चोदयाम् आस सारथिः ॥२-४०-४८॥ न्यवर्तत जनो राज्ञो रामम् कृत्वा प्रदक्षिणम् ।मनसा अपि अश्रु वेगैः च न न्यवर्तत मानुषम् ॥२-४०-४९॥ यम् इच्चेत् पुनर् आयान्तम् न एनम् दूरम् अनुव्रजेत् ।इति अमात्या महा राजम् ऊचुर् दशरथम् वचः ॥२-४०-५०॥ तेषाम् वचः सर्व गुण उपपन्नम् ।प्रस्विन्न गात्रः प्रविषण्ण रूपः ।निशम्य राजा कृपणः सभार्यो ।व्यवस्थितः तम् सुतम् ईक्षमाणः ॥२-४०-५१॥ तस्मिम्स्तु पुरुषव्याघ्रे विनिर्याति कृताञ्जलौ ।आर्तशब्दोऽथ सम्जज्ञे स्त्रीणामन्तह्पुते तदा ॥२-४१-१॥ अनाथस्य जनस्य अस्य दुर्बलस्य तपस्विनः ।यो गतिम् शरणम् च आसीत् स नाथः क्व नु गच्चति ॥२-४१-२॥ न क्रुध्यति अभिशस्तः अपि क्रोधनीयानि वर्जयन् ।क्रुद्धान् प्रसादयन् सर्वान् सम दुह्खः क्व गच्चति ॥२-४१-३॥ कौसल्यायाम् महा तेजा यथा मातरि वर्तते ।तथा यो वर्तते अस्मासु महात्मा क्व नु गच्चति ॥२-४१-४॥ कैकेय्या क्लिश्यमानेन राज्ञा सम्चोदितः वनम् ।परित्राता जनस्य अस्य जगतः क्व नु गच्चति ॥२-४१-५॥ अहो निश्चेतनो राजा जीव लोकस्य सम्प्रियम् ।धर्म्यम् सत्य व्रतम् रामम् वन वासो प्रवत्स्यति ॥२-४१-६॥ इति सर्वा महिष्यः ता विवत्साइव धेनवः ।रुरुदुः चैव दुह्ख आर्ताः सस्वरम् च विचुक्रुशुः ॥२-४१-७॥ स तम् अन्तः पुरे घोरम् आर्त शब्दम् मही पतिः ।पुत्र शोक अभिसम्तप्तः श्रुत्वा च आसीत् सुदुह्खितः ॥२-४१-८॥ न अग्नि होत्राणि अहूयन्त सूर्यः च अन्तर् अधीयत ।व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन् ॥२-४१-९॥ व्यसृजन् कबलान्नागा गावो वत्सान्न पाययन् ।पुत्रम् प्रथमजम् लब्ध्वा जननी नाभ्यनन्दत ॥२-४१-१०॥ त्रिशन्कुर् लोहित अन्गः च बृहस्पति बुधाव् अपि ।दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥२-४१-११॥ नक्षत्राणि गत अर्चीम्षि ग्रहाः च गत तेजसः ।विशाखाः च सधूमाः च नभसि प्रचकाशिरे ॥२-४१-१२॥ कालिकानिलवेगेन महोदधिरिवोत्थितः ।रामे वनम् प्रव्रजिते नगरम् प्रचचाल तत् ॥२-४१-१३॥ दिशः पर्याकुलाः सर्वा स्तिमिरेणेव सम्वृताः ।न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन ॥२-४१-१४॥ अकस्मान् नागरः सर्वो जनो दैन्यम् उपागमत् ।आहारे वा विहारे वा न कश्चित् अकरोन् मनः ॥२-४१-१५॥ शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन् ।अयोध्यायाम् जनः सर्वः शुशोच जगतीपतिम् ॥२-४१-१६॥ बाष्प पर्याकुल मुखो राज मार्ग गतः जनः ।न हृष्टः लक्ष्यते कश्चित् सर्वः शोक परायणः ॥२-४१-१७॥ न वाति पवनः शीतः न शशी सौम्य दर्शनः ।न सूर्यः तपते लोकम् सर्वम् पर्याकुलम् जगत् ॥२-४१-१८॥ अनर्थिनः सुताः स्त्रीणाम् भर्तारः भ्रातरः तथा ।सर्वे सर्वम् परित्यज्य रामम् एव अन्वचिन्तयन् ॥२-४१-१९॥ ये तु रामस्य सुहृदः सर्वे ते मूढ चेतसः ।शोक भारेण च आक्रान्ताः शयनम् न जुहुस् तदा ॥२-४१-२०॥ ततः तु अयोध्या रहिता महात्मना ।पुरम्दरेण इव मही सपर्वता ।चचाल घोरम् भय भार पीडिता ।सनाग योध अश्व गणा ननाद च ॥२-४१-२१॥ यावत् तु निर्यतः तस्य रजो रूपम् अदृश्यत ।न एव इक्ष्वाकु वरः तावत् सम्जहार आत्म चक्षुषी ॥२-४२-१॥ यावद् राजा प्रियम् पुत्रम् पश्यति अत्यन्त धार्मिकम् ।तावद् व्यवर्धत इव अस्य धरण्याम् पुत्र दर्शने ॥२-४२-२॥ न पश्यति रजो अपि अस्य यदा रामस्य भूमिपः ।तदा आर्तः च विषण्णः च पपात धरणी तले ॥२-४२-३॥ तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अन्गना ।वामम् च अस्य अन्वगात् पार्श्वम् कैकेयी भरत प्रिया ॥२-४२-४॥ ताम् नयेन च सम्पन्नो धर्मेण निवयेन च ।उवाच राजा कैकेयीम् समीक्ष्य व्यथित इन्द्रियः ॥२-४२-५॥ कैकेयि मा मम अन्गानि स्प्राक्षीस् त्वम् दुष्ट चारिणी ।न हि त्वाम् द्रष्टुम् इच्चामि न भार्या न च बान्धवी ॥२-४२-६॥ ये च त्वाम् उपजीवन्ति न अहम् तेषाम् न ते मम ।केवल अर्थ पराम् हि त्वाम् त्यक्त धर्माम् त्यजाम्य् अहम् ॥२-४२-७॥ अगृह्णाम् यच् च ते पाणिम् अग्निम् पर्यणयम् च यत् ।अनुजानामि तत् सर्वम् अस्मिम्ल् लोके परत्र च ॥२-४२-८॥ भरतः चेत् प्रतीतः स्यात् राज्यम् प्राप्य इदम् अव्ययम् ।यन् मे स दद्यात् पित्र् अर्थम् मा मा तत् दत्तम् आगमत् ॥२-४२-९॥ अथ रेणु समुध्वस्तम् तम् उत्थाप्य नर अधिपम् ।न्यवर्तत तदा देवी कौसल्या शोक कर्शिता ॥२-४२-१०॥ हत्वा इव ब्राह्मणम् कामात् स्पृष्ट्वा अग्निम् इव पाणिना ।अन्वतप्यत धर्म आत्मा पुत्रम् सम्चिन्त्य तापसम् ॥२-४२-११॥ निवृत्य एव निवृत्य एव सीदतः रथ वर्त्मसु ।राज्ञो न अतिबभौ रूपम् ग्रस्तस्य अम्शुमतः यथा ॥२-४२-१२॥ विललाप च दुह्ख आर्तः प्रियम् पुत्रम् अनुस्मरन् ।नगर अन्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् अथ अब्रवीत् ॥२-४२-१३॥ वाहनानाम् च मुख्यानाम् वहताम् तम् मम आत्मजम् ।पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥२-४२-१४॥ स नूनम् क्वचित् एव अद्य वृक्ष मूलम् उपाश्रितः ।काष्ठम् वा यदि वा अश्मानम् उपधाय शयिष्यते ॥२-४२-१५॥ उत्थास्यति च मेदिन्याः कृपणः पाम्शु गुण्ठितः ।विनिह्श्वसन् प्रस्रवणात् करेणूनाम् इव ऋषभः ॥२-४२-१६॥ उत्थास्यति च मेदिन्याः कृपणः पाम्सुगुण्ठितः ।विनिःस्वसन् प्रस्रवणात्क रेणूनामि वर्ष्भः ॥२-४२-१७॥ द्रक्ष्यन्ति नूनम् पुरुषा दीघ बाहुम् वने चराः ।रामम् उत्थाय गच्चन्तम् लोक नाथम् अनाथवत् ॥२-४२-१८॥ सकामा भव कैकेयि विधवा राज्यम् आवस ।कण्टकाक्रमण क्लान्तावनमद्य गमिष्यति ॥२-४२-१९॥ अनभिज्ञा वनानाम् सा नूनम् भयमुपैष्यति ।श्वापदान्र्धितम् श्रुत्वा गमिभीरम् रोमहर्ष्णम् ॥२-४२-२०॥ सकामा भवकैकेयि विधवा राज्य मावस ।न हि तम् पुरुष व्याघ्रम् विना जीवितुम् उत्सहे ॥२-४२-२१॥ इति एवम् विलपन् राजा जन ओघेन अभिसम्वृतः ।अपस्नातैव अरिष्टम् प्रविवेश पुर उत्तमम् ॥२-४२-२२॥ शून्य चत्वर वेश्म अन्ताम् सम्वृत आपण देवताम् ।क्लान्त दुर्बल दुह्ख आर्ताम् न अत्याकीर्ण महा पथाम् ।ताम् अवेक्ष्य पुरीम् सर्वाम् रामम् एव अनुचिन्तयन् ।विलपन् प्राविशद् राजा गृहम् सूर्यैव अम्बुदम् ॥२-४२-२३॥ महा ह्रदम् इव अक्षोभ्यम् सुपर्णेन हृत उरगम् ।रामेण रहितम् वेश्म वैदेह्या लक्ष्मणेन च ॥२-४२-२४॥ अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ।उवाच मृदुमन्धार्थम् वचनम् दीन मस्वरम् ॥२-४२-२५॥ कौसल्याया गृहम् शीघ्रम् राम मातुर् नयन्तु माम् ।इति ब्रुवन्तम् राजानम् अनयन् द्वार दर्शितः ॥२-४२-२६॥ इति ब्रुवन्तम् राजान मनयन् द्वार्दर्शिनः ।कौसल्याया गृहम् तत्र न्यवेश्यत विनीतवत् ॥२-४२-२७॥ ततः तत्र प्रविष्टस्य कौसल्याया निवेशनम् ।अधिरुह्य अपि शयनम् बभूव लुलितम् मनः ॥२-४२-२८॥ पुत्रद्वयविहीनम् च स्नुषयापि विवर्जितम् ।अपश्यद्भवनम् राजा नष्टचन्ध्रमिवाम्बरम् ॥२-४२-२९॥ तच् च दृष्ट्वा महा राजो भुजम् उद्यम्य वीर्यवान् ।उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥२-४२-३०॥ सुखिता बत तम् कालम् जीविष्यन्ति नर उत्तमाः ।परिष्वजन्तः ये रामम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-४२-३१॥ अथ रात्र्याम् प्रपन्नायाम् कालरात्र्यामिआत्मनः ।अर्धरात्रे दशरथह् कौसल्यामिदमब्रवीत् ॥२-४२-३२॥ रामम् मेऽनुगता दृष्टिरद्यापि न निवर्तते ।न त्वाम् पश्यामि कौसल्ये साधु माम् पाणिना स्पृश ॥२-४२-३३॥ तम् रामम् एव अनुविचिन्तयन्तम् ।समीक्ष्य देवी शयने नर इन्द्रम् ।उप उपविश्य अधिकम् आर्त रूपाउप ।विनिह्श्वसन्ती विललाप कृच्च्रम् ॥२-४२-३४॥ ततः समीक्ष्य शयने सन्नम् शोकेन पार्थिवम् ।कौसल्या पुत्र शोक आर्ता तम् उवाच मही पतिम् ॥२-४३-१॥ राघवो नर शार्दूल विषम् उप्त्वा द्विजिह्ववत् ।विचरिष्यति कैकेयी निर्मुक्ता इव हि पन्नगी ॥२-४३-२॥ विवास्य रामम् सुभगा लब्ध कामा समाहिता ।त्रासयिष्यति माम् भूयो दुष्ट अहिर् इव वेश्मनि ॥२-४३-३॥ अथ स्म नगरे रामः चरन् भैक्षम् गृहे वसेत् ।काम कारः वरम् दातुम् अपि दासम् मम आत्मजम् ॥२-४३-४॥ पातयित्वा तु कैकेय्या रामम् स्थानात् यथा इष्टतः ।प्रदिष्टः रक्षसाम् भागः पर्वणि इव आहित अग्निना ॥२-४३-५॥ गज राज गतिर् वीरः महा बाहुर् धनुर् धरः ।वनम् आविशते नूनम् सभार्यः सह लक्ष्मणः ॥२-४३-६॥ वने तु अदृष्ट दुह्खानाम् कैकेय्या अनुमते त्वया ।त्यक्तानाम् वन वासाय का न्व् अवस्था भविष्यति ॥२-४३-७॥ ते रत्न हीनाः तरुणाः फल काले विवासिताः ।कथम् वत्स्यन्ति कृपणाः फल मूलैः कृत अशनाः ॥२-४३-८॥ अपि इदानीम् स कालः स्यान् मम शोक क्षयः शिवः ।सभार्यम् यत् सह भ्रात्रा पश्येयम् इह राघवम् ॥२-४३-९॥ श्रुत्वा एव उपस्थितौ वीरौ कदा अयोध्या भविष्यति ।यशस्विनी हृष्ट जना सूच्च्रित ध्वज मालिनी ॥२-४३-१०॥ कदा प्रेक्ष्य नर व्याघ्राव् अरण्यात् पुनर् आगतौ ।नन्दिष्यति पुरी हृष्टा समुद्रैव पर्वणि ॥२-४३-११॥ कदा अयोध्याम् महा बाहुः पुरीम् वीरः प्रवेक्ष्यति ।पुरः कृत्य रथे सीताम् वृषभो गो वधूम् इव ॥२-४३-१२॥ कदा प्राणि सहस्राणि राज मार्गे मम आत्मजौ ।लाजैः अवकरिष्यन्ति प्रविशन्ताव् अरिम् दमौ ॥२-४३-१३॥ प्रविशनौ कदाऽपियोध्याम् द्रक्ष्यामि शुभकुण्डता ।उदग्रायुधनिस्त्रीम्शौ सशृङ्गाविव पर्वतौ ॥२-४३-१४॥ कदा सुमनसः कन्या द्विजातीनाम् फलानि च ।प्रदिशन्त्यः पुरीम् हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥२-४३-१५॥ कदा परिणतः बुद्ध्या वयसा च अमर प्रभः ।अभ्युपैष्यति धर्मज्ञः त्रिवर्षैव माम् ललन् ॥२-४३-१६॥ निह्सम्शयम् मया मन्ये पुरा वीर कदर्यया ।पातु कामेषु वत्सेषु मातृऋणाम् शातिताः स्तनाः ॥२-४३-१७॥ सा अहम् गौर् इव सिम्हेन विवत्सा वत्सला कृता ।कैकेय्या पुरुष व्याघ्र बाल वत्सा इव गौर् बलात् ॥२-४३-१८॥ न हि तावद् गुणैः जुष्टम् सर्व शास्त्र विशारदम् ।एक पुत्रा विना पुत्रम् अहम् जीवितुम् उत्सहे ॥२-४३-१९॥ न हि मे जीविते किम्चित् सामर्थम् इह कल्प्यते ।अपश्यन्त्याः प्रियम् पुत्रम् महा बाहुम् महा बलम् ॥२-४३-२०॥ अयम् हि माम् दीपयते समुत्थितः ।तनूज शोक प्रभवो हुत अशनः ।महीम् इमाम् रश्मिभिर् उत्तम प्रभो ।यथा निदाघे भगवान् दिवा करः ॥२-४३-२१॥ विलपन्तीम् तथा ताम् तु कौसल्याम् प्रमद उत्तमाम् ।इदम् धर्मे स्थिता धर्म्यम् सुमित्रा वाक्यम् अब्रवीत् ॥२-४४-१॥ तव आर्ये सद् गुणैः युक्तः पुत्रः स पुरुष उत्तमः ।किम् ते विलपितेन एवम् कृपणम् रुदितेन वा ॥२-४४-२॥ यः तव आर्ये गतः पुत्रः त्यक्त्वा राज्यम् महा बलः ।साधु कुर्वन् महात्मानम् पितरम् सत्य वादिनाम् ॥२-४४-३॥ शिष्टैः आचरिते सम्यक् शश्वत् प्रेत्य फल उदये ।रामः धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥२-४४-४॥ वर्तते च उत्तमाम् वृत्तिम् लक्ष्मणो अस्मिन् सदा अनघः ।दयावान् सर्व भूतेषु लाभः तस्य महात्मनः ॥२-४४-५॥ अरण्य वासे यद् दुह्खम् जानती वै सुख उचिता ।अनुगच्चति वैदेही धर्म आत्मानम् तव आत्मजम् ॥२-४४-६॥ कीर्ति भूताम् पताकाम् यो लोके भ्रामयति प्रभुः ।दम सत्य व्रत परः किम् न प्राप्तः तव आत्मजः ॥२-४४-७॥ व्यक्तम् रामस्य विज्ञाय शौचम् माहात्म्यम् उत्तमम् ।न गात्रम् अम्शुभिः सूर्यः सम्तापयितुम् अर्हति ॥२-४४-८॥ शिवः सर्वेषु कालेषु काननेभ्यो विनिह्सृतः ।राघवम् युक्त शीत उष्णः सेविष्यति सुखो अनिलः ॥२-४४-९॥ शयानम् अनघम् रात्रौ पिता इव अभिपरिष्वजन् ।रश्मिभिः सम्स्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति ॥२-४४-१०॥ ददौ च अस्त्राणि दिव्यानि यस्मै ब्रह्मा महा ओजसे ।दानव इन्द्रम् हतम् दृष्ट्वा तिमि ध्वज सुतम् रणे ॥२-४४-११॥ स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।असन्त्रस्तोऽ प्यरण्यस्थो वेश्मनीव निवत्स्यति ॥२-४४-१२॥ यस्येषुपदमासाद्य विनाशम् यान्ति शत्रवः ।कथम् न प्R^थिवी तस्य शासने स्थातुमर्हति ॥२-४४-१३॥ या श्रीःशौर्यम् च रामस्य या च कल्याणसत्वता ।निवृत्तारण्यवासः स्वं क्षिप्रम् राज्यमवाप्स्यति ॥२-४४-१४॥ सूर्यस्यापि भवेत्सूर्योह्यग्नेरग्निः प्रभोः प्रभोः ।श्रियश्च श्रीर्भवेदग्र्या कीर्त्याः क्षमाक्षमा ॥२-४४-१५॥ दैवतम् दैवतानाम् च भूतानाम् भूतसत्तमः ।तस्य केह्यगुणा देवि वने वा प्यथवा पुरे ॥२-४४-१६॥ पृथिव्या सह वैदेह्या श्रिया च पुरुष ऋषभः ।क्षिप्रम् तिसृभिर् एताभिः सह रामः अभिषेक्ष्यते ॥२-४४-१७॥ दुह्खजम् विसृजन्ति अस्रम् निष्क्रामन्तम् उदीक्ष्य यम् ।समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रम् आनन्दजम् पयः ॥२-४४-१८॥ कुशचीरधरम् देवम् गच्छन्तमपराजितम् ।सीतेवानुगता लक्ष्मीस्तस्य किम् नाम दुर्लभम् ॥२-४४-१९॥ धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।लक्ष्मणोव्रजति ह्यग्रे तस्य किम् नाम दुर्लभम् ॥२-४४-२०॥ निवृत्तवनवासम् तम् द्रष्टासि पुनरागतम् ।जहिशोकम् च मोहम् च देवि सत्यम् ब्रवीमि ते ॥२-४४-२१॥ शिरसा चरणावेतौ वन्दमानमनिन्दिते ।पुनर्द्रक्ष्यसि कल्याणि! पुत्रं चन्द्रमिवोदितम् ॥२-४४-२२॥ पुनः प्रविष्टम् द्R^ष्ट्वा तमभिषिक्तम् महाश्रियम् ।समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रमान्न्दजम् पयः ॥२-४४-२३॥ मा शोको देवि दुःखम् वा न राअमे दृअह्य् ऽशिवम् ।क्षिप्रम् द्रक्ष्यसि पुत्रम् त्वम् ससीतम् सह लक्ष्मणम् ॥२-४४-२४॥ त्वया शेषोओ जनश्चैव समाश्वास्यो यदाऽनघे ।किमिदानीमिदम् देवि करोषि हृदि विक्लबम् ॥२-४४-२५॥ नार्हा त्वम् शोचितुम् देवि यस्यास्ते राघवस्सुतः ।न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥२-४४-२६॥ अभिवादयमानम् तम् दृष्ट्वा ससुहृदम् सुतम् ।मुदा अश्रु मोक्ष्यसे क्षिप्रम् मेघ लेका इव वार्षिकी ॥२-४४-२७॥ पुत्रः ते वरदः क्षिप्रम् अयोध्याम् पुनर् आगतः ।पाणिभ्याम् मृदुपीनाभ्याम् चरणौ पीडयिष्यति ॥२-४४-२८॥ अभिवाद्य नमस्यन्तम् शूरम् ससुहृदम् सुतम् ।मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजि रिवाचलम् ॥२-४४-२९॥ आश्वासयन्ती विविधैश्च वाक्यै ।र्वाक्योपचारे कुशलानाद्या ।रामस्य ताम् मातरमेवमुक्त्वा ।देवी सुमित्राविरराम रामा ॥२-४४-३०॥ निशम्य तल् लक्ष्मण मातृ वाक्यम् ।रामस्य मातुर् नर देव पत्न्याः ।सद्यः शरीरे विननाश शोकः ।शरद् गतः मेघैव अल्प तोयः ॥२-४४-३१॥ अनुरक्ता महात्मानम् रामम् सत्य परक्रमम् ।अनुजग्मुः प्रयान्तम् तम् वन वासाय मानवाः ॥२-४५-१॥ निवर्तिते अपि च बलात् सुहृद् वर्गे च राजिनि ।न एव ते सम्न्यवर्तन्त रामस्य अनुगता रथम् ॥२-४५-२॥ अयोध्या निलयानाम् हि पुरुषाणाम् महा यशाः ।बभूव गुण सम्पन्नः पूर्ण चन्द्रैव प्रियः ॥२-४५-३॥ स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा ।कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत ॥२-४५-४॥ अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्न् इव ।उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजाइव ॥२-४५-५॥ या प्रीतिर् बहुमानः च मय्य् अयोध्या निवासिनाम् ।मत् प्रिय अर्थम् विशेषेण भरते सा निवेश्यताम् ॥२-४५-६॥ स हि कल्याण चारित्रः कैकेय्या आनन्द वर्धनः ।करिष्यति यथावद् वः प्रियाणि च हितानि च ॥२-४५-७॥ ज्ञान वृद्धो वयो बालो मृदुर् वीर्य गुण अन्वितः ।अनुरूपः स वो भर्ता भविष्यति भय अपहः ॥२-४५-८॥ स हि राज गुणैः युक्तः युव राजः समीक्षितः ।अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ शासनम् ॥२-४५-९॥ न च तप्येद् यथा च असौ वन वासम् गते मयि ।महा राजः तथा कार्यो मम प्रिय चिकीर्षया ॥२-४५-१०॥ यथा यथा दाशरथिर् धर्मम् एव आस्थितः अभवत् ।तथा तथा प्रकृतयो रामम् पतिम् अकामयन् ॥२-४५-११॥ बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह ।चकर्ष इव गुणैः बद्ध्वा जनम् पुनर् इव आसनम् ॥२-४५-१२॥ ते द्विजाः त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा ।वयः प्रकम्प शिरसो दूरात् ऊचुर् इदम् वचः ॥२-४५-१३॥ वहन्तः जवना रामम् भो भो जात्याः तुरम् गमाः ।निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि ॥२-४५-१४॥ कर्णवन्ति हि भूतानि विशेषण तुरम्गमाः ।यूयम् तस्मान्निवर्तध्वम् याचनाम् प्रतिवेदिताः ॥२-४५-१५॥ धर्मतः स विशुद्धात्मा वीरः शुभदृढप्रतह् ।उपवाह्यः तु वो भर्ता न अपवाह्यः पुरात् वनम् ॥२-४५-१६॥ एवम् आर्त प्रलापाम्स् तान् वृद्धान् प्रलपतः द्विजान् ।अवेक्ष्य सहसा रामः रथात् अवततार ह ॥२-४५-१७॥ पद्भ्याम् एव जगाम अथ ससीतः सह लक्ष्मणः ।सम्निकृष्ट पद न्यासो रामः वन परायणः ॥२-४५-१८॥ द्विजातीम्स् तु पदातीम्स् तान् रामः चारित्र वत्सलः ।न शशाक घृणा चक्षुः परिमोक्तुम् रथेन सः ॥२-४५-१९॥ गच्चन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त मानसाः ।ऊचुः परम सम्तप्ता रामम् वाक्यम् इदम् द्विजाः ॥२-४५-२०॥ ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्चति ।द्विज स्कन्ध अधिरूढाः त्वाम् अग्नयो अपि अनुयान्ति अमी ॥२-४५-२१॥ वाजपेय समुत्थानि चत्राणि एतानि पश्य नः ।पृष्ठतः अनुप्रयातानि हम्सान् इव जल अत्यये ॥२-४५-२२॥ अनवाप्त आतपत्रस्य रश्मि सम्तापितस्य ते ।एभिः चायाम् करिष्यामः स्वैः चत्रैः वाजपेयिकैः ॥२-४५-२३॥ या हि नः सततम् बुद्धिर् वेद मन्त्र अनुसारिणी ।त्वत् कृते सा कृता वत्स वन वास अनुसारिणी ॥२-४५-२४॥ हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् ।वत्स्यन्ति अपि गृहेष्व् एव दाराः चारित्र रक्षिताः ॥२-४५-२५॥ न पुनर् निश्चयः कार्यः त्वद् गतौ सुकृता मतिः ।त्वयि धर्म व्यपेक्षे तु किम् स्यात् धर्मम् अवेक्षितुम् ॥२-४५-२६॥ याचितः नो निवर्तस्व हम्स शुक्ल शिरः रुहैः ।शिरोभिर् निभृत आचार मही पतन पाम्शुलैः ॥२-४५-२७॥ बहूनाम् वितता यज्ञा द्विजानाम् यैह आगताः ।तेषाम् समाप्तिर् आयत्ता तव वत्स निवर्तने ॥२-४५-२८॥ भक्तिमन्ति हि भूतानि जम्गम अजम्गमानि च ।याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय ॥२-४५-२९॥ अनुगम्तुम् अशक्ताः त्वाम् मूलैः उद्धिऋत वेगिभिः ।उन्नता वायु वेगेन विक्रोशन्ति इव पादपाः ॥२-४५-३०॥ निश्चेष्ट आहार सम्चारा वृक्ष एक स्थान विष्ठिताः ।पक्षिणो अपि प्रयाचन्ते सर्व भूत अनुकम्पिनम् ॥२-४५-३१॥ एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने ।ददृशे तमसा तत्र वारयन्ति इव राघवम् ॥२-४५-३२॥ ततः सुमन्त्रोऽपि रथाद्विमुच्य ।श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् ।पीतोदकाम्स्तोयपरिप्लुताङ्गा ।नचारयद्वै तमसाविदूरे ॥२-४५-३३॥ ततः तु तमसा तीरम् रम्यम् आश्रित्य राघवः ।सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत् ॥२-४६-१॥ इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् ।वन वासस्य भद्रम् ते स न उत्कण्ठितुम् अर्हसि ॥२-४६-२॥ पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः ।यथा निलयम् आयद्भिर् निलीनानि मृग द्विजैः ॥२-४६-३॥ अद्य अयोध्या तु नगरी राज धानी पितुर् मम ।सस्त्री पुम्सा गतान् अस्मान् शोचिष्यति न सम्शयः ॥२-४६-४॥ अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः ।त्वाम् च माम् च नरव्याघ्र शत्रघ्नभरतौ तथा ॥२-४६-५॥ पितरम् चानुशोचामि मातरम् च यशस्विनीम् ।अपि वानौध भवेताम् तु रुदन्तौ तावभीक्ष्णशः ॥२-४६-६॥ भरतः खलु धर्म आत्मा पितरम् मातरम् च मे ।धर्म अर्थ काम सहितैः वाक्यैः आश्वासयिष्यति ॥२-४६-७॥ भरतस्य आनृशम्सत्वम् सम्चिन्त्य अहम् पुनः पुनः ।न अनुशोचामि पितरम् मातरम् च अपि लक्ष्मण ॥२-४६-८॥ त्वया कार्यम् नर व्याघ्र माम् अनुव्रजता कृतम् ।अन्वेष्टव्या हि वैदेह्या रक्षण अर्थे सहायता ॥२-४६-९॥ अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् ।एतद्द् हि रोचते मह्यम् वन्ये अपि विविधे सति ॥२-४६-१०॥ एवम् उक्त्वा तु सौमित्रम् सुमन्त्रम् अपि राघवः ।अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह ॥२-४६-११॥ सो अश्वान् सुमन्त्रः सम्यम्य सूर्ये अस्तम् समुपागते ।प्रभूत यवसान् कृत्वा बभूव प्रत्यनन्तरः ॥२-४६-१२॥ उपास्यतु शिवाम् सम्ध्याम् दृष्ट्वा रात्रिम् उपस्थिताम् ।रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह ॥२-४६-१३॥ ताम् शय्याम् तमसा तीरे वीक्ष्य वृक्ष दलैः कृताम् ।रामः सौमित्रिणाम् सार्धम् सभार्यः सम्विवेश ह ॥२-४६-१४॥ सभार्यम् सम्प्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः ।कथयाम् आस सूताय रामस्य विविधान् गुणान् ॥२-४६-१५॥ जाग्रतः हि एव ताम् रात्रिम् सौमित्रेर् उदितः रविः ।सूतस्य तमसा तीरे रामस्य ब्रुवतः गुणान् ॥२-४६-१६॥ गो कुल आकुल तीरायाः तमसायाः विदूरतः ।अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह ॥२-४६-१७॥ उत्थाय तु महा तेजाः प्रकृतीस् ता निशाम्य च ।अब्रवीद् भ्रातरम् रामः लक्ष्मणम् पुण्य लक्षणम् ॥२-४६-१८॥ अस्मद् व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि ।वृक्ष मूलेषु सम्सुप्तान् पश्य लक्ष्मण साम्प्रतम् ॥२-४६-१९॥ यथा एते नियमम् पौराः कुर्वन्ति अस्मन् निवर्तने ।अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥२-४६-२०॥ यावद् एव तु सम्सुप्ताः तावद् एव वयम् लघु ।रथम् आरुह्य गच्चामः पन्थानम् अकुतः भयम् ॥२-४६-२१॥ अतः भूयो अपि न इदानीम् इक्ष्वाकु पुर वासिनः ।स्वपेयुर् अनुरक्ता माम् वृष्क मूलानि सम्श्रिताः ॥२-४६-२२॥ पौरा हि आत्म कृतात् दुह्खात् विप्रमोच्या नृप आत्मजैः ।न तु खल्व् आत्मना योज्या दुह्खेन पुर वासिनः ॥२-४६-२३॥ अब्रवील् लक्ष्मणो रामम् साक्षात् धर्मम् इव स्थितम् ।रोचते मे महा प्राज्ञ क्षिप्रम् आरुह्यताम् इति ॥२-४६-२४॥ अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यताम् रथः ।गमिष्यामि ततोऽरण्यम् गच्छ श्रीघ्रमितः प्रभो ॥२-४६-२५॥ सूतः ततः सम्त्वरितः स्यन्दनम् तैः हय उत्तमैः ।योजयित्वा अथ रामाय प्रान्जलिः प्रत्यवेदयत् ॥२-४६-२६॥ अयम् युक्तो महाबाहो रथस्ते रथिनाम् वर ।त्वमारोहस्व भद्रम् ते ससीतः सहलक्ष्मणः ॥२-४६-२७॥ तम् स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ।शीघ्रगामाकुलावर्ताम् तमसामतरन्नदीम् ॥२-४६-२८॥ स सम्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् ।प्रापद्यत महामार्गमभयम् भयदर्शिनाम् ॥२-४६-२९॥ मोहन अर्थम् तु पौराणाम् सूतम् रामः अब्रवीद् वचः ।उदन् मुखः प्रयाहि त्वम् रथम् आस्थाय सारथे ॥२-४६-३०॥ मुहूर्तम् त्वरितम् गत्वा निर्गतय रथम् पुनः ।यथा न विद्युः पौरा माम् तथा कुरु समाहितः ॥२-४६-३१॥ रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः ।प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् ॥२-४६-३२॥ तौ सम्प्रयुक्तम् तु रथम् समासित्थौ ।तदा ससीतौ रघवम्शवर्धनौ ।प्रचोदयामास ततस्तुरम्गमान् ।स सारथिर्येन पथा तपोवनम् ॥२-४६-३३॥ ततः समास्थाय रथम् महारथःससारथिर्धाशरथिर्वनम् ययौ ।उदङ्मुखम् तम् तु रथम् चकार स ।प्रयाणमाङ्गश्यनिवितदर्शनात् ॥२-४६-३४॥ प्रभातायाम् तु शर्वर्याम् पौराः ते राघवो विना ।शोक उपहत निश्चेष्टा बभूवुर् हत चेतसः ॥२-४७-१॥ शोकज अश्रु परिद्यूना वीक्षमाणाः ततः ततः ।आलोकम् अपि रामस्य न पश्यन्ति स्म दुह्खिताः ॥२-४७-२॥ ते विषादार्तवदना रहितास्तेन धिमता ।कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥२-४७-३॥ धिगस्तु खलु निद्राम् ताम् ययापहृतचेतसः ।नाद्य पश्यामहे रामम् पृथूरस्कम् महाभुजम् ॥२-४७-४॥ कथम् नाम महाबाहुः स तथाऽवितथक्रियः ।भक्तम् जनम् परित्यज्य प्रवासम् राघवो गतः ॥२-४७-५॥ यो नः सदा पालयति पिता पुत्रानिवौरसान् ।कथम् रघूणाम् स श्रेष्ठस्त्यक्त्वा नो विपिनम् गतः ॥२-४७-६॥ इहैव निधनम् यामो महाप्रस्थानमेव वा ।रामेण रहितानाम् हि किमर्थम् जीवितम् हि नः ॥२-४७-७॥ सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।तैः प्रज्वाल्य चिताम् सर्वे प्रविशामोऽथ पावकम् ॥२-४७-८॥ किम् व्ख्स्यामो महाबाहुरनसूयः प्रियम्वद ।नीतः स राघवोऽस्माभिर्ति वक्तुम् कथम् क्षमम् ॥२-४७-९॥ सा नूनम् नगरी दीना दृष्ट्वाऽस्मान् राघवम् विना ।भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥२-४७-१०॥ निर्यातास्तेन वीरेण सह नित्यम् जितात्मना ।विहिनास्तेन च पुनः कथम् पश्याम ताम् पुरीम् ॥२-४७-११॥ इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।विलपन्तिस्म दुःखर्ता विवत्सा इव धेनवः ॥२-४७-१२॥ ततः मार्ग अनुसारेण गत्वा किम्चित् क्षणम् पुनःमार्ग नाशात् विषादेन महता समभिप्लुतः ॥२-४७-१३॥ रथस्य मार्ग नाशेन न्यवर्तन्त मनस्विनः ।किम् इदम् किम् करिष्यामः दैवेन उपहताइति ॥२-४७-१४॥ ततः यथा आगतेन एव मार्गेण क्लान्त चेतसः ।अयोध्याम् अगमन् सर्वे पुरीम् व्यथित सज्जनाम् ॥२-४७-१५॥ आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः ।आवर्तयन्त तऽश्रूणि नयनैः शोकपीडितैः ॥२-४७-१६॥ एषा रामेण नगरी रहिता नातिशोभते ।आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥२-४७-१७॥ चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् ।अपश्यन्निहतानन्दम् नगरम् ते विचेतसः ॥२-४७-१८॥ ते तानि वेश्मानि महाधनानि ।दुःखेन दुःखोपहता विशन्तः ।नैव प्रजज्ञुः स्वजनम् जनम् वा ।निरीक्षमाणाः प्रविणष्टहर्षाः ॥२-४७-१९॥ तेषामेवम् विष्ण्णानाम्पीडितानामतीव च ।बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-१॥ अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् ।उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-२॥ स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः ।अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-३॥ न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् ।न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-४॥ नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् ।पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-५॥ गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् ।व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-६॥ किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा ।पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-७॥ एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया ।यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-८॥ आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च ।येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-९॥ शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः ।आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-१०॥ काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति ।प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-११॥ विचित्र कुसुम आपीडा बहु मन्जलि धारिणः ।अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-१२॥ अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-१३॥ प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥२-४८-१४॥ पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् ।यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-१५॥ स हि शूरः महा बाहुः पुत्रः दशरथस्य च ।पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-१६॥ पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः ।स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥२-४८-१७॥ वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् ।इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-१८॥ युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति ।सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥२-४८-१९॥ को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च ।सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-२०॥ कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् ।न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥२-४८-२१॥ यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् ।कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-२२॥ कैकेय्या न वयम् राज्ये भृतका निवसेमहि ।जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२-४८-२३॥ या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा ।कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-२४॥ उपद्रुतमिदम् सर्वमनालम्बमनायकम् ।कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥२-४८-२५॥ न हि प्रव्रजिते रामे जीविष्यति मही पतिः ।मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥२-४८-२६॥ ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः ।राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२-४८-२७॥ मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः ।भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥२-४८-२८॥ पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः ।आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥२-४८-२९॥ पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ।सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥२-४८-३०॥ नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥२-४८-३१॥ तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥२-४८-३२॥ इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् ।जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥२-४८-३३॥ नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥२-४८-३४॥ उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥२-४८-३५॥ तथा स्त्रियो राम निमित्तम् आतुरा ।यथा सुते भ्रातरि वा विवासिते ।विलप्य दीना रुरुदुर् विचेतसः ।सुतैः हि तासाम् अधिको हि सो अभवत् ॥२-४८-३६॥ प्रशान्तगीतोत्सव नृत्तवादना ।व्यपास्तहर्षा पिहितापणोदया ।तदा ह्ययोध्या नगरी बभूव सा ।महार्णवः सम्क्षपितोदको यथा ॥२-४८-३७॥ रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् ।जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥२-४९-१॥ तथैव गच्चतः तस्य व्यपायात् रजनी शिवा ।उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत ॥२-४९-२॥ ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च ।पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः ॥२-४९-३॥ शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।राजानम् धिग् दशरथम् कामस्य वशम् आगतम् ॥२-४९-४॥ हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी ।तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते ॥२-४९-५॥ या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् ।वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् ॥२-४९-६॥ कथम् नाम महाभागा सीता जनकनन्दिनी ।सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥२-४९-७॥ अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् ।प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति ॥२-४९-८॥ एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः ॥२-४९-९॥ ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् ।उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् ॥२-४९-१०॥ गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् ।गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् ॥२-४९-११॥ गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः ।मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥२-४९-१२॥ स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा ।स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥२-४९-१३॥ सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः ।हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः ॥२-४९-१४॥ कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने ।मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥२-४९-१५॥ न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने ।रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता ॥२-४९-१६॥ राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने ।काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥२-४९-१७॥ स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् ॥२-४९-१८॥ विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः ।अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥२-५०-१॥ आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते ।दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥२-५०-२॥ निवृत्तवनवासस्त्वामनृणो जगतीपतेः ।पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥२-५०-३॥ ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥२-५०-४॥ अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः ।चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥२-५०-५॥ तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् ।विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥२-५०-६॥ तथा विलपताम् तेषामतृप्तानाम् च राघवः ।अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥२-५०-७॥ ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥२-५०-८॥ उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् ।तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥२-५०-९॥ लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् ।रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥२-५०-१०॥ मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् ।राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२-५०-११॥ तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् ।ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२-५०-१२॥ आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् ।कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥२-५०-१३॥ देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् ।नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२-५०-१४॥ देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् ।देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥२-५०-१५॥ जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् ।क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥२-५०-१६॥ क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् ।क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥२-५०-१७॥ देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् ।क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥२-५०-१८॥ हम्स सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् ।सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥२-५०-१९॥ क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ।क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥२-५०-२०॥ क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् ।नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥२-५०-२१॥ व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् ।दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥२-५०-२२॥ देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् ।प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥२-५०-२३॥ फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा ।शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२-५०-२४॥ विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् ।ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥२-५०-२५॥ समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् ।आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥२-५०-२६॥ ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः ।सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२-५०-२७॥ अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् ।सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥२-५०-२८॥ द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् ।देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥२-५०-२९॥ लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् ।उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥२-५०-३०॥ रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः ।रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥२-५०-३१॥ सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् ।वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥२-५०-३२॥ तत्र राजा गुहो नाम रामस्य आत्म समः सखा ।निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥२-५०-३३॥ स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् ।वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥२-५०-३४॥ ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् ।सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥२-५०-३५॥ तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् ।यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥२-५०-३६॥ ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् ।ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् ।अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥२-५०-३७॥ स्वागतम् ते महा बाहो तव इयम् अखिला मही ।वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥२-५०-३८॥ भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् ।शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥२-५०-३९॥ गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥२-५०-४०॥ अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् ।पद्भ्याम् अभिगमाच् चैव स्नेह सम्दर्शनेन च ॥२-५०-४१॥ भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् ।दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥२-५०-४२॥ अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च ।यत् तु इदम् भवता किम्चित् प्रीत्या समुपकल्पितम् ।सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥२-५०-४३॥ कुश चीर अजिन धरम् फल मूल अशनम् च माम् ।विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥२-५०-४४॥ अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् ।एतावता अत्र भवता भविष्यामि सुपूजितः ॥२-५०-४५॥ एते हि दयिता राज्ञः पितुर् दशरथस्य मे ।एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥२-५०-४६॥ अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् ।गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥२-५०-४७॥ ततः चीर उत्तर आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् ।जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥२-५०-४८॥ तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥२-५०-४९॥ गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् ।अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥२-५०-५०॥ तथा शयानस्य ततः अस्य धीमतः ।यशस्विनो दाशरथेर् महात्मनः ।अदृष्ट दुह्खस्य सुख उचितस्य सा ।तदा व्यतीयाय चिरेण शर्वरी ॥२-५०-५१॥ तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् ।गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२-५१-१॥ इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२-५१-२॥ उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः ।गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२-५१-३॥ न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन ।ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२-५१-४॥ अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः ।धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-५१-५॥ सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥२-५१-६॥ न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा ।चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२-५१-७॥ लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ ।न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-५१-८॥ कथम् दाशरथौ भूमौ शयाने सह सीतया ।शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-५१-९॥ यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥२-५१-१०॥ यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः ।एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-११॥ अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति ।विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-१२॥ विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-१३॥ कौसल्या चैव राजा च तथैव जननी मम ।न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-१४॥ जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-१५॥ अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा ।राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥२-५१-१६॥ कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः ।शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥२-५१-१७॥ विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥२-५१-१८॥ अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् ।राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-५१-१९॥ सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते ।प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-५१-२०॥ रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२-५१-२१॥ रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् ।सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-५१-२२॥ आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् ।सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-५१-२३॥ अपि जीवेद्धशरथो वनवासात्पुनर्वयम् ।प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२-५१-२४॥ अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् ।निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२-५१-२५॥ परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः ।तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-५१-२६॥ तथा हि सत्यम् ब्रुवति प्रजा हिते ।नर इन्द्र पुत्रे गुरु सौहृदात् गुहः ।मुमोच बाष्पम् व्यसन अभिपीडितः ।ज्वरा आतुरः नागैव व्यथा आतुरः ॥२-५१-२७॥ प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः ।उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥२-५२-१॥ भास्कर उदय कालो अयम् गता भगवती निशा ।असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२-५२-२॥ बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने ।तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२-५२-३॥ विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः ।गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥२-५२-४॥ स तु रामस्य वचनम् निशम्य प्रतिगृह्य च ।स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥२-५२-५॥ अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् ।सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥२-५२-६॥ तम् निशम्य समादेशम् गुहामात्यगणो महान् ।उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२-५२-७॥ ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥२-५२-८॥ तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् ।नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-९॥ अथोवाच महातेजा रामो गुहमिदम् वचः ।कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-१०॥ ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ ।जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-११॥ रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् ।किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-१२॥ ततोऽब्रवीद्दाशरथिः सुमन्त्रम् ।स्पृशन् करेणोत्तमदक्षिणेन ।सुमन्त्र शीघ्रम् पुनरेव याहि ।राज्ञः सकाशे भवचाप्रमत्तः ॥२-५२-१३॥ निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम ।रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२-५२-१४॥ आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः ।सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-५२-१५॥ न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् ।तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥२-५२-१६॥ न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः ।मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२-५२-१७॥ सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥२-५२-१८॥ वयम् खलु हता राम ये तया अपि उपवन्चिताः ।कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥२-५२-१९॥ इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा ।दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२-५२-२०॥ ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् ।रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२-५२-२१॥ इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये ।यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२-५२-२२॥ शोक उपहत चेताः च वृद्धः च जगती पतिः ।काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२-५२-२३॥ यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः ।कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२-५२-२४॥ एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः ।यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२-५२-२५॥ यद्यथा स महा राजो न अलीकम् अधिगच्चति ।न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२-५२-२६॥ अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् ।ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२-५२-२७॥ न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली ।अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-२८॥ चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-२९॥ एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे ।अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-३०॥ आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् ।सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-३१॥ ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय ।आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-३२॥ भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च ।अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-३३॥ भरतः च अपि वक्तव्यो यथा राजनि वर्तसे ।तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-३४॥ यथा च तव कैकेयी सुमित्रा च अविशेषतः ।तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-३५॥ तातस्य प्रियकामेन यौवराज्यमपेक्षता ।लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-३६॥ निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः ।तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-३७॥ यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः ।भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-३८॥ कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् ।तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥२-५२-३९॥ सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः ।विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२-५२-४०॥ दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् ।सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥२-५२-४१॥ दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् ।चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२-५२-४२॥ दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने ।प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥२-५२-४३॥ आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने ।रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥२-५२-४४॥ अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया ।नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥२-५२-४५॥ असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् ।कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२-५२-४६॥ मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः ।कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥२-५२-४७॥ तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ ।वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-४८॥ यदि मे याचमानस्य त्यागम् एव करिष्यसि ।सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-४९॥ भविष्यन्ति वने यानि तपो विघ्न कराणि ते ।रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-५०॥ तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् ।आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-५१॥ प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः ।प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥२-५२-५२॥ इमे चापि हया वीर यदि ते वनवासिनः ।परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-५३॥ तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् ।अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-५४॥ न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना ।राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-५५॥ वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः ।यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-५६॥ चतुर् दश हि वर्षाणि सहितस्य त्वया वने ।क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-५७॥ भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि ।भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-५८॥ एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः ।रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२-५२-५९॥ जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल ।शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२-५२-६०॥ नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी ।कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२-५२-६१॥ परितुष्टा हि सा देवि वन वासम् गते मयि ।राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥२-५२-६२॥ एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी ।भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥२-५२-६३॥ मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज ।सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२-५२-६४॥ इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः ।गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥२-५२-६५॥ नेदानीम् गुह योग्योऽयम् वसो मे सजने वने ।अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥२-५२-६६॥ सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् ।हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥२-५२-६७॥ जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय ।तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२-५२-६८॥ लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः ।दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-६९॥ तौ तदा चीर वसनौ जटा मण्डल धारिणौ ।अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-७०॥ ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः ।व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-७१॥ अप्रमत्तः बले कोशे दुर्गे जन पदे तथा ।भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-७२॥ ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः ।जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-७३॥ स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः ।तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-७४॥ आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः ।सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-७५॥ स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् ।आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-७६॥ अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः ।ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-७७॥ राघवोऽपि महातेजा नावमारुह्य ताम् ततः ।ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-७८॥ आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया ।प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-७९॥ अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् ।आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-८०॥ ततः तैः चोदिता सा नौः कर्ण धार समाहिता ।शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-८१॥ मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता ।वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-८२॥ पुत्रः दशरथस्य अयम् महा राजस्य धीमतः ।निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-८३॥ चतुर् दश हि वर्षाणि समग्राणि उष्य कानने ।भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-८४॥ ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता ।यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-८५॥ त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे ।भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-८६॥ सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने ।प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-८७॥ गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् ।ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-८८॥ सुराघटसहस्रेण माम्सभूतोदनेन च ।यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-८९॥ यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि ।तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-९०॥ पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः ।अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-९१॥ तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता ।दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-९२॥ तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः ।प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-९३॥ अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् ।भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-९४॥ अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने ।अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-९५॥ पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् ।अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥२-५२-९६॥ न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२-५२-९७॥ प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् ।विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-९८॥ श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः ।अनन्तरम् च सीताया राघवो रघनन्धनः ॥२-५२-९९॥ गतम् तु गन्गा पर पारम् आशु ।रामम् सुमन्त्रः प्रततम् निरीक्ष्य ।अध्व प्रकर्षात् विनिवृत्त दृष्टिर् ।र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२-५२-१००॥ स लोकपालप्रतिमप्रभाववाम् ।स्तीर्त्वा महात्मा वरदो महानदीम् ।ततः समृद्धान् शुभसस्यमालिनः ।क्रमेण वत्सान् मुदितानुपागमत् ॥२-५२-१०१॥ तौ तत्र हत्वा चतुरः महा मृगान् ।वराहम् ऋश्यम् पृषतम् महा रुरुम् ।आदाय मेध्यम् त्वरितम् बुभुक्षितौ।वासाय काले ययतुर् वनः पतिम् ॥२-५२-१०२॥ स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् ।रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-१॥ अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः ।या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-२॥ जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु ।योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-३॥ रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे ।उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-४॥ स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः ।इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-५॥ ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण ।कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-६॥ सा हि देवी महा राजम् कैकेयी राज्य कारणात् ।अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-७॥ अनाथः चैव वृद्धः च मया चैव विनाकृतः ।किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-८॥ इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् ।कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-९॥ को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् ।चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-१०॥ सुखी बत सभार्यः च भरतः केकयी सुतः ।मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥२-५३-११॥ स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति ।ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-१२॥ अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते ।एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-१३॥ मन्ये दशरथ अन्ताय मम प्रव्राजनाय च ।कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-१४॥ अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता ।कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-१५॥ मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् ।अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-१६॥ अहम् एको गमिष्यामि सीतया सह दण्डकान् ।अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-१७॥ क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् ।परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-१८॥ नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः ।जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-१९॥ मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च ।विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-२०॥ मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ।सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-२१॥ मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका ।यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-२२॥ शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता ।पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-२३॥ अल्प भाग्या हि मे माता कौसल्या रहिता मया ।शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-२४॥ एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण ।तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-२५॥ अधर्म भय भीतः च पर लोकस्य च अनघ ।तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-२६॥ एतत् अन्यच् च करुणम् विलप्य विजने बहु ।अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-२७॥ विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् ।समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-२८॥ ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर ।निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-२९॥ न एतत् औपयिकम् राम यद् इदम् परितप्यसे ।विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-३०॥ न च सीता त्वया हीना न च अहम् अपि राघव ।मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-३१॥ न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप ।द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-३२॥ ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् ।न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-३३॥ स लक्ष्मणस्य उत्तम पुष्कलम् वचो ।निशम्य च एवम् वन वासम् आदरात् ।समाः समस्ता विदधे परम् तपः ।प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-३४॥ ततस्तु तस्मिन् विजने वने तदा ।महाबलौ राघववम्शवर्धनौ ।न तौ भयम् सम्भ्रममभ्युपेयतु ।र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-३५॥ ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् ।विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२-५४-१॥ यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते ।जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥२-५४-२॥ ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् ।अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२-५४-३॥ यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् ।निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२-५४-४॥ प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् ।अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२-५४-५॥ नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् ।तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥२-५४-६॥ दारूणि परिभिन्नानि वनजैः उपजीविभिः ।भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥२-५४-७॥ धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे ।गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥२-५४-८॥ रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः ।गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२-५४-९॥ ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ ।सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२-५४-१०॥ स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् ।सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥२-५४-११॥ हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः ।रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२-५४-१२॥ न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः ।पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥२-५४-१३॥ भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा ।माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥२-५४-१४॥ पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः ।अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥२-५४-१५॥ पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् ।धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥२-५४-१६॥ तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥२-५४-१७॥ नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥२-५४-१८॥ मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः ।रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२-५४-१९॥ प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् ।भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥२-५४-२०॥ चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् ।श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२-५४-२१॥ अवकाशो विविक्तः अयम् महा नद्योह् समागमे ।पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२-५४-२२॥ एवम् उक्तः तु वचनम् भरद्वाजेन राघवः ।प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥२-५४-२३॥ भगवन्न् इताअसन्नः पौर जानपदो जनः ।सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥२-५४-२४॥ आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः ।अनेन कारणेन अहम् इह वासम् न रोचये ॥२-५४-२५॥ एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् ।रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥२-५४-२६॥ एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः ।राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥२-५४-२७॥ दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि ।महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥२-५४-२८॥ गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः ।चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥२-५४-२९॥ यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते ।कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२-५४-३०॥ ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् ।तपसा दिवम् आरूधाः कपाल शिरसा सह ॥२-५४-३१॥ प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् ।इह वा वन वासाय वस राम मया सह ॥२-५४-३२॥ स रामम् सर्व कामैअः तम् भरद्वाजः प्रिय अतिथिम् ।सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥२-५४-३३॥ तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः ।प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२-५४-३४॥ सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः ।भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥२-५४-३५॥ प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् ।उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥२-५४-३६॥ शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे ।उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥२-५४-३७॥ रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् ।मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥२-५४-३८॥ वासमौपयिकम् मन्ये तव राम महाबल ।नानानगगणोपेतः किन्नरोरगसेवितह् ॥२-५४-३९॥ मयूरनादाभिरुतो गजराजनिषेवितः ।गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥२-५४-४०॥ पुण्यश्च रमणीयश्च बहुमूलफलायुतः ।तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥२-५४-४१॥ विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव ।सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥२-५४-४२॥ चरतः सीतया सार्धम् नन्दिष्यति मनस्तव ।प्रहृष्ट कोयष्टिक कोकिल स्वनैः ।र्विनादितम् तम् वसुधा धरम् शिवम् ।मृगैः च मत्तैः बहुभिः च कुन्जरैः ।सुरम्यम् आसाद्य समावस आश्रमम् ॥२-५४-४३॥ उषित्वा रजनीम् तत्र राजपुत्रावरिम्दमौ ।महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥२-५५-१॥ तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह ।प्रस्थिताम्श्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥२-५५-२॥ ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः ।भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥२-५५-३॥ गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।काLइन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥२-५५-४॥ अथासाद्य तु काLइन्न्धीम् शीघ्रस्रोतसमापगाम् ।तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥२-५५-५॥ तत्र यूयम् प्लवम् कृत्वा तरताम्शुमतीम् नदीम् ।ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥२-५५-६॥ विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् ।तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥२-५५-७॥ समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा ।क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥२-५५-८॥ पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः ।स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥२-५५-९॥ रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः ।इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥२-५५-१०॥ अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥२-५५-११॥ कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ।इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२-५५-१२॥ सीतामेवाग्रतः कृत्वा काLइन्दीम् जग्मतुर्नदीम् ।अथा साद्य तु काLइन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥२-५५-१३॥ तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥२-५५-१४॥ शुष्कैर्वम्शैः समास्तीर्णमुLईरैश्च समावृतम् ।ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥२-५५-१५॥ चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ।तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥२-५५-१६॥ ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् ।पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥२-५५-१७॥ प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः ।आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२-५५-१८॥ ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ ।काLइन्दीमध्यमायाता सीता त्वेनामवन्दत ॥२-५५-१९॥ स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् ।यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२-५५-२०॥ स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।काLइन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२-५५-२१॥ तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी ।ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२-५५-२२॥ तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् ।ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२-५५-२३॥ श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् ।न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२-५५-२४॥ नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् ।कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२-५५-२५॥ इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् ।अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥२-५५-२६॥ दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् ।सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥२-५५-२७॥ पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर ।यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२-५५-२८॥ तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः ।गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥२-५५-२९॥ मातङ्गयोर्मद्यगता शुभा नागवधूरिव ।एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥२-५५-३०॥ अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला ।रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥२-५५-३१॥ सीतावचनसम्रब्द अनयामास लक्स्मणः ।विचित्रवालुकजलाम् हससारसनादिताम् ॥२-५५-३२॥ रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥२-५५-३३॥ बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ।विहृत्य ते बर्हिणपूगनादिते ।शुभे वने वानरवारणायुते ।समम् नदीवप्रमुपेत्य सम्मतम् ।निवासमाजग्मु रदीनदर्शनाः ॥२-५५-३४॥ अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् ।प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥२-५६-१॥ सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् ।सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२-५६-२॥ स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२-५६-३॥ ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् ।पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥२-५६-४॥ ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥२-५६-५॥ आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् ।स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥२-५६-६॥ पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् ।फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२-५६-७॥ पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण ।मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥२-५६-८॥ एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति ।रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥२-५६-९॥ मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् ।चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥२-५६-१०॥ समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-११॥ ततः तौ पाद चारेण गच्चन्तौ सह सीतया ।रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-१२॥ तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् ।बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-१३॥ मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् ।बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-१४॥ मनयश्च महात्मानो वसन्त्य शिलोच्चये ।अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-१५॥ इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः ।अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-१६॥ तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् ।आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-१७॥ ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः ।सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-१८॥ लक्ष्मण आनय दारूणि दृढानि च वराणि च ।कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-१९॥ तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् ।आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-२०॥ ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् ।शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-२१॥ ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् ।कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-२२॥ मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-२३॥ भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा ।चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-२४॥ इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् ।त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-२५॥ स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् ।अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-२६॥ तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् ।लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-२७॥ अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा ।देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-२८॥ रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः ।सम्ग्रहेणाकरोत्सर्वान् मन्त्रन् सत्रावसानिकान् ॥२-५६-२९॥ इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः ।बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-३०॥ वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च ।वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-३१॥ जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि ।पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-३२॥ वेदिस्थलविधानानि चैत्यान्यायतनानि च ।आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-३३॥ वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि ।अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-३४॥ तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-३५॥ ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् ।यथा प्रदेशम् सुकृताम् निवाताम् ।वासाय सर्वे विविशुः समेताः ।सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-३६॥ अनेक नाना मृग पक्षि सम्कुले ।विचित्र पुष्प स्तबलैः द्रुमैः युते ।वन उत्तमे व्याल मृग अनुनादिते ।तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-३७॥ सुरम्यम् आसाद्य तु चित्र कूटम् ।नदीम् च ताम् माल्यवतीम् सुतीर्थाम् ।ननन्द हृष्टः मृग पक्षि जुष्टाम् ।जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-३८॥ कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह ।रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-१॥ भरद्वाजाभिगमनम् प्रयागे च सहासनम् ।आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-२॥ अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् ।अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-३॥ स वनानि सुगन्धीनि सरितः च सराम्सि च ।पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-४॥ ततः साय अह्न समये तृतीये अहनि सारथिः ।अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-५॥ स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः ।सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-६॥ कच्चिन् न सगजा साश्वा सजना सजन अधिपा ।राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-७॥ इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः ।नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-८॥ सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः ।क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-९॥ तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् ।अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-१०॥ ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः ।अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-११॥ शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् ।हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-१२॥ दान यज्ञ विवाहेषु समाजेषु महत्सु च ।न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-१३॥ किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् ।इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-१४॥ वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् ।राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-१५॥ स राज मार्ग मध्येन सुमन्त्रः पिहित आननः ।यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-१६॥ सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च ।कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-१७॥ हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-१८॥ आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-१९॥ ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः ।राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-२०॥ सह रामेण निर्यातः विना रामम् इह आगतः ।सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-२१॥ यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् ।आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-२२॥ सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् ।प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-२३॥ स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् ।पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-२४॥ अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च ।सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-२५॥ स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः ।मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-२६॥ ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ ।उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-२७॥ सुमित्रया तु सहिता कौसल्या पतितम् पतिम् ।उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-२८॥ इमम् तस्य महा भाग दूतम् दुष्कर कारिणः ।वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-२९॥ अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव ।उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-३०॥ देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् ।न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-३१॥ सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा ।धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-३२॥ एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि ।पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-३३॥ ततः तम् अन्तः पुर नादम् उत्थितम् ।समीक्ष्य वृद्धाः तरुणाः च मानवाः ।स्त्रियः च सर्वा रुरुदुः समन्ततः ।पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-३४॥ प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः ।थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥२-५८-१॥ तदा सूतो महाराज कृताञ्जलिरुपस्थितः।राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥२-५८-२॥ वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् ।विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२-५८-३॥ राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् ।अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥२-५८-४॥ क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः ।सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥२-५८-५॥ दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः ।भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥२-५८-६॥ यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्Jजराः ।स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥२-५८-७॥ व्याLऐः मृगैः आचरितम् कृष्ण सर्प निषेवितम् ।कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥२-५८-८॥ सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥२-५८-९॥ सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ ।वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥२-५८-१०॥ किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः ।सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥२-५८-११॥ आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय ।जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥२-५८-१२॥ इति सूतः नर इन्द्रेण चोदितः सज्जमानया ।उवाच वाचा राजानम् स बाष्प परिर्बद्धया ॥२-५८-१३॥ अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् ।अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥२-५८-१४॥ सूत मद्वचनात् तस्य तातस्य विदित आत्मनः ।शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥२-५८-१५॥ सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया ।आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥२-५८-१६॥ माता च मम कौसल्या कुशलम् च अभिवादनम् ।अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥२-५८-१७॥ धर्मनित्या यथाकालमग्न्यगारपरा भव ।देवि देवस्य पादौ च देववत् परिपालय ॥२-५८-१८॥ अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु ।अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥२-५८-१९॥ कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् ।अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२-५८-२०॥ भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च ।सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२-५८-२१॥ वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः ।पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥२-५८-२२॥ अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः ।कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥२-५८-२३॥ अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् ।मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥२-५८-२४॥ इति एवम् माम् महाराज बृवन्न् एव महा यशाः ।रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥२-५८-२५॥ लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् ।केन अयम् अपराधेन राज पुत्रः विवासितः ॥२-५८-२६॥ राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् ।कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः ॥२-५८-२७॥ यदि प्रव्राजितः रामः लोभ कारण कारितम् ।वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥२-५८-२८॥ इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् ।रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥२-५८-२९॥ असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् ।जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥२-५८-३०॥ अहम् तावन् महा राजे पितृत्वम् न उपलक्षये ।भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥२-५८-३१॥ सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् ।सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा ॥२-५८-३२॥ सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् ।सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि ॥२-५८-३३॥ जानकी तु महा राज निःश्वसन्ती तपस्विनी ।भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता ॥२-५८-३४॥ अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी ।तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत् ॥२-५८-३५॥ उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता ।मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥२-५८-३६॥ तथैव रामः अश्रु मुखः कृत अन्जलिः ।स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः ।तथैव सीता रुदती तपस्विनी ।निरीक्षते राज रथम् तथैव माम् ॥२-५८-३७॥ मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥२-५९-१॥ उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् ।प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥२-५९-२॥ गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् ।आशया यदि माम् रामः पुनः शब्दापयेद् इति ॥२-५९-३॥ विषये ते महा राज माम व्यसन कर्शिताः ।अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः ॥२-५९-४॥ उपतप्तोदका नद्यः पल्वलानि सराम्सि च ।परिष्कुपलाशानि वनान्युपवनानि च ॥२-५९-५॥ न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् ॥२-५९-६॥ लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः ।सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः ॥२-५९-७॥ जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् ॥२-५९-८॥ अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥२-५९-९॥ प्रविशन्तम् अयोध्याम् माम् न कश्चित् अभिनन्दति ।नरा रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुः ॥२-५९-१०॥ देव राजरथम् दृष्ट्वा विना राममिहागतम् ।दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥२-५९-११॥ हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् ।हाहा कार कृता नार्यो राम अदर्शन कर्शिताः ॥२-५९-१२॥ आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः ।अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥२-५९-१३॥ न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च ।अहम् आर्ततया कम्चित् विशेषम् न उपलक्षये ॥२-५९-१४॥ अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा ।आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना ॥२-५९-१५॥ निरानन्दा महा राज राम प्रव्राजन आतुला ।कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा ॥२-५९-१६॥ सूतस्य वचनम् श्रुत्वा वाचा परम दीनया ।बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥२-५९-१७॥ कैकेय्या विनियुक्तेन पाप अभिजन भावया ।मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् ॥२-५९-१८॥ न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः ।मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः ॥२-५९-१९॥ भवितव्यतया नूनम् इदम् वा व्यसनम् महत् ।कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया ॥२-५९-२०॥ सूत यद्य् अस्ति ते किम्चिन् मया अपि सुकृतम् कृतम् ।त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥२-५९-२१॥ यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् ।न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥२-५९-२२॥ अथवा अपि महा बाहुर् गतः दूरम् भविष्यति ।माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥२-५९-२३॥ वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः ।यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया ॥२-५९-२४॥ लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् ।रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् ॥२-५९-२५॥ अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् ।इमाम् अवस्थाम् आपन्नो न इह पश्यामि राघवम् ॥२-५९-२६॥ हा राम राम अनुज हा हा वैदेहि तपस्विनी ।न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥२-५९-२७॥ स तेन राजा दुःखेन भृशमर्पितचेतनः ।अवगाढः सुदुष्पारम् शोकसागमब्रवीत् ॥२-५९-२८॥ रामशोकमहाभोगः सीताविरहपारगः ।श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥२-५९-२९॥ बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥२-५९-३०॥ ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।वरवेलो नृशम्साया रामप्रव्राजनायतः ॥२-५९-३१॥ यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना ।दुस्तरः जीवता देवि मया अयम् शोक सागरः ॥२-५९-३२॥ अशोभनम् यो अहम् इह अद्य राघवम् ।दिदृक्षमाणो न लभे सलक्ष्मणम्इति इव राजा विलपन् महा यहाशःपपात तूर्णम् शयने स मूर्चितः ॥२-५९-३३॥ इति विलपति पार्थिवे प्रनष्टे ।करुणतरम् द्विगुणम् च राम हेतोः ।वचनम् अनुनिशम्य तस्य देवी ।भयम् अगमत् पुनर् एव राम माता ॥२-५९-३४॥ ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥ नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥ निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥ बाष्प वेगौपहतया स वाचा सज्जमानया ।इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥ त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥ लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥ विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥ न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥ नगर उपवनम् गत्वा यथा स्म रमते पुरा ।तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥ बाला इव रमते सीता बाल चन्द्र निभ आनना ।रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥ तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥ परि पृच्चति वैदेही ग्रामामः च नगराणि च ।गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥ रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥ इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥ ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥ अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥ सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥ अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥ नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥ गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥ न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥ विधूय शोकम् परिहृष्ट मानसा ।महर्षि याते पथि सुव्यवस्थिताः ।वने रता वन्य फल अशनाः पितुः ।शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥ तथा अपि सूतेन सुयुक्त वादिना ।निवार्यमाणा सुत शोक कर्शिता ।न चैव देवी विरराम कूजितात् ।प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥ वनम् गते धर्म परे रामे रमयताम् वरे ।कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥२-६१-१॥ यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः ।सानुक्रोशो वदान्यः च प्रिय वादी च राघवः ॥२-६१-२॥ कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया ।दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥२-६१-३॥ सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता ।कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥२-६१-४॥ भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् ।वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥२-६१-५॥ गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता ।कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥२-६१-६॥ महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः ।भुजम् परिघ सम्काशम् उपधाय महा बलः ॥२-६१-७॥ पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् ।कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् ॥२-६१-८॥ वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः ।अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा ॥२-६१-९॥ यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः ।निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥२-६१-१०॥ यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥२-६१-११॥ भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् ।ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥२-६१-१२॥ तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः ।न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥२-६१-१३॥ ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः ।नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥२-६१-१४॥ एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते ।भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२-६१-१५॥ न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति ।एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥२-६१-१६॥ हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः ।न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥२-६१-१७॥ तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव ।न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥२-६१-१८॥ न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति ।बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥२-६१-१९॥ नैतस्य सहिता लोका भयम् कुर्युर्महामृधे ।अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् ॥२-६१-२०॥ नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः ।युगान्त इव भूतानि सागरानपि निर्दहेत् ॥२-६१-२१॥ स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः ।स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा ॥२-६१-२२॥ द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः ।यदि ते धर्म निरते त्वया पुत्रे विवासिते ॥२-६१-२३॥ गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः ।तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते ॥२-६१-२४॥ तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः ।न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥२-६१-२५॥ हतम् त्वया राज्यम् इदम् सराष्ट्रम् ।हतः तथा आत्मा सह मन्त्रिभिः च ।हता सपुत्रा अस्मि हताः च पौराः ।सुतः च भार्या च तव प्रहृष्टौ ॥२-६१-२६॥ इमाम् गिरम् दारुण शब्द सम्श्रिताम् ।निशम्य राजा अपि मुमोह दुह्खितः ।ततः स शोकम् प्रविवेश पार्थिवः ।स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥२-६१-२७॥ एवम् तु क्रुद्धया राजा राम मात्रा सशोकया ।श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥२-६२-१॥ चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः ।अथ दीर्घेण कालेन सम्ज्ञामाप परतपः ॥२-६२-२॥ स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् ।कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् ॥२-६२-३॥ तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना ॥२-६२-४॥ अमनाः तेन शोकेन राम शोकेन च प्रभुः ।द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो ॥२-६२-५॥ दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः ।वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः ॥२-६२-६॥ प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः ।वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि ॥२-६२-७॥ भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा ।धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥२-६२-८॥ सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर ।न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥२-६२-९॥ तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् ।कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् ॥२-६२-१०॥ स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् ।सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः ॥२-६२-११॥ प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते ।याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥२-६२-१२॥ न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते ॥२-६२-१३॥ जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् ।पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् ॥२-६२-१४॥ शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् ।शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः ॥२-६२-१५॥ शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः ।सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥२-६२-१६॥ दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः ।यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥२-६२-१७॥ वन वासाय रामस्य पन्च रात्रः अद्य गण्यते ।यः शोक हत हर्षायाः पन्च वर्ष उपमः मम ॥२-६२-१८॥ तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते ।अदीनाम् इव वेगेन समुद्र सलिलम् महत् ॥२-६२-१९॥ एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः ।मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत ॥२-६२-२०॥ तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः ।शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् ॥२-६२-२१॥ प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः ।अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-१॥ राम लक्ष्मणयोः चैव विवासात् वासव उपमम् ।आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-२॥ सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः ।विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-३॥ स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् ।अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-४॥ स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः ।कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-५॥ यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् ।तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-६॥ गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् ।दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-७॥ कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति ।पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-८॥ अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति ।स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-९॥ सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् ।रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-१०॥ लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता ।कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-११॥ तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् ।सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-१२॥ यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् ।एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-१३॥ देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् ।ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-१४॥ उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः ।परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-१५॥ उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः ।ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-१६॥ क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः ।वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-१७॥ पतितेन अम्भसा चन्नः पतमानेन च असकृत् ।आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-१८॥ पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि ।सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-१९॥ आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि ।उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-२०॥ तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी ।व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-२१॥ निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् ।अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-२२॥ तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः ।तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-२३॥ अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् ।अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-२४॥ अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः ।ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-२५॥ शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२-६३-२६॥ तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः ।हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-२७॥ तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-२८॥ प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः ।इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-२९॥ ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः ।कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-३०॥ जटा भार धरस्य एव वल्कल अजिन वाससः ।को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-३१॥ एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् ।न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-३२॥ नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः ।मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-३३॥ तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया ।मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-३४॥ वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः ।केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-३५॥ तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः ।कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-३६॥ तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु ।सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-३७॥ तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः ।अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-३८॥ अवकीर्णजटाभारम् प्रविद्धकलशोदकम् ।पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-३९॥ स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् ।इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-४०॥ किम् तव अपकृतम् राजन् वने निवसता मया ।जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-४१॥ एकेन खलु बाणेन मर्मणि अभिहते मयि ।द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-४२॥ तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ ।चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-४३॥ न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा ।पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-४४॥ जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः ।चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-४५॥ पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव ।न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-४६॥ इयम् एक पदी राजन् यतः मे पितुर् आश्रमः ।तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-४७॥ विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः ।रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-४८॥ सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-४९॥ दुःखितस्य च दीनस्य मम शोकातुरस्य च ।लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-५०॥ ताम्यमानः स माम् दुःखादुवाच परमार्तवत् ।सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-५१॥ सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् ।ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-५२॥ न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा ।शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-५३॥ इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः ।विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-५४॥ तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् ।तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-५५॥ जल आर्द्र गात्रम् तु विलप्य कृच्चान् ।मर्म व्रणम् सम्ततम् उच्चसन्तम् ।ततः सरय्वाम् तम् अहम् शयानम् ।समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-५६॥ वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः ।विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥ तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः ।एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥ ततः तम् घटम् आदय पूर्णम् परम वारिणा ।आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥ तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥ तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥ शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः ।तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥ पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥ यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया ।उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥ यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया ।न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥ त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् ।समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥ मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया ।हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥ मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् ।आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥ क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः ।सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥ भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः ।जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥ ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥ गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि ।विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥ भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना ।विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥ ततस्तस्यैव वचनादुपेत्य परितप्यतः ।स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥ स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः ।भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥ अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया ।शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥ स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः ।नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥ सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः ।माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥ यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् ।फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥ क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥ सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥ अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि ।अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥ नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत ।अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥ रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् ।शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥ अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ ।अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥ तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥ न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक ।किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥ न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक ।किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥ कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् ।अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥ को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः ।श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥ कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् ।भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥ इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् ।कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥ तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति ।श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥ उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने ।क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥ ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् ।क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥ दातुमर्हति धर्मात्मा लोकपालो महायशाः ।ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥ अपापो असि यथा पुत्र निहतः पाप कर्मणा ।तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥ यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः ।हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥ याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः ।नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥ या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या ।भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥ गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि ।देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥ न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् ।स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥ एवम् स कृपणम् तत्र पर्यदेवयत असकृत् ।ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥ स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः ।स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥ आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥ स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् ।भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥ एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥ स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया ।माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥ अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा ।यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥ त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः ।तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥ पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् ।एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥ अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥ त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥ एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु ।चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥ तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् ।तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥ तस्यायम् कर्मणो देवि विपाकः समुपस्थितः ।अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥ तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः ।यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥ चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश ।इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥ एतन्मे सदृशम् देवि यन्मया राघवे कृतम् ।सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥ दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः ।कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥ यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा ।यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥ चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते ।दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥ अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये ।न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥ तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥ न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् ।मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥ पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् ।धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥ सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च ।सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥ निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् ।द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥ कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे ।वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥ चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥ अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् ।सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥ हा राघव महा बाहो हा मम आयास नाशन ।हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥ हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥ इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥ यथा तु दीनम् कथयन् नर अधिपः ।प्रियस्य पुत्रस्य विवासन आतुरः ।गते अर्ध रात्रे भृश दुह्ख पीडितः ।तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥ अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि ।वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-१॥ सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः ।गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-२॥ राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् ।प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-३॥ ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः ।अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-४॥ तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-५॥ व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः ।आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-६॥ ततः शुचि समाचाराः पर्युपस्थान कोविदः ।स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-७॥ हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः ।आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-८॥ मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् ।उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-९॥ सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् ।सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-१०॥ ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् ।तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-११॥ अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः ।ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-१२॥ तथाप्युचितवृत्तास्ता विनयेन नयेन च ।न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-१३॥ ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु ।ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-१४॥ प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे ।अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-१५॥ यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः ।कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-१६॥ प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ।निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-१७॥ न व्यराजत कौसल्या तारेव तिमिरावृता ।कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-१८॥ न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-१९॥ सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत ।ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-२०॥ करेणवैव अरण्ये स्थान प्रच्युत यूथपाः ।तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-२१॥ कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः ।कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-२२॥ हा नाथ इति परिक्रुश्य पेततुर् धरणी तले ।सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-२३॥ न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता ।नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-२४॥ आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव ।ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-२५॥ रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ।ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-२६॥ येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् ।तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-२७॥ सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् ।सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-२८॥ बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः ।अतीतम् आज्ञाय तु पार्थिव ऋषभम् ।यशस्विनम् सम्परिवार्य पत्नयः ।भृशम् रुदन्त्यः करुणम् सुदुह्खिताः ।प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-२९॥ तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् ।हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥ कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता ।उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥ सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् ।त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥ विहाय माम् गतः रामः भर्ता च स्वर् गतः मम ।विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥ भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः ।इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥ न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् ।कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥ अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् ।सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥ स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः ।रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥ विदेह राजस्य सुता तहा सीता तपस्विनी ।दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥ नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् ।निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥ वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् ।सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥ साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता ।इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥ ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् ।व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥ तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् ।राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥ न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः ।सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥ तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् ।हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥ बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः ।रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥ हा महाराज रामेण सततम् प्रियवादिना ।विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥ कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥ स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् ।वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥ त्वया तेन च वीरेण विना व्यसनमोहिताः ।कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥ यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥ ता बाष्पेण च सम्वीताः शोकेन विपुलेन च ।व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥ निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता ।पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥ बाष्प पर्याकुल जना हाहा भूत कुल अन्गना ।शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥ गत प्रभा द्यौर् इव भास्करम् विना ।व्यपेत नक्षत्र गणा इव शर्वरी ।निवृत्तचारः सहसा गतो रविः ।प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥ ऋते तु पुत्राद्दहनम् महीपते ।र्नरोचयन्ते सुहृदः समागताः ।इतीव तस्मिन् शयने न्यवेशय ।न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥ गतप्रभा द्यौरिव भास्करम् विना ।व्यपेतनक्षत्रगणेव शर्वरी ।पुरी बभासे रहिता मह आत्मना ।न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥ नराः च नार्यः च समेत्य सम्घशो ।विगर्हमाणा भरतस्य मातरम् ।तदा नगर्याम् नर देव सम्क्षये ।बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥ आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला ।आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥२-६७-१॥ व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः ।समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥२-६७-२॥ मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः ।कात्ययनो गौतमः च जाबालिः च महा यशाः ॥२-६७-३॥ एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् ।वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥२-६७-४॥ अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा ।अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥२-६७-५॥ स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः ।लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२-६७-६॥ उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ ।पुरे राज गृहे रम्ये मातामह निवेशने ॥२-६७-७॥ इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् ।अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२-६७-८॥ न अराजले जन पदे विद्युन् माली महा स्वनः ।अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥२-६७-९॥ न अराजके जन पदे बीज मुष्टिः प्रकीर्यते ।न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२-६७-१०॥ अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके ।इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥२-६७-११॥ न अराजके जन पदे कारयन्ति सभाम् नराः ।उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥२-६७-१२॥ न अराजके जन पदे यज्ञ शीला द्विजातयः ।सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥२-६७-१३॥ न अराजके जनपदे महायज्ञेषु यज्वनः ।ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥२-६७-१४॥ न अराजके जन पदे प्रभूत नट नर्तकाः ।उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥२-६७-१५॥ न अरजके जन पदे सिद्ध अर्था व्यवहारिणः ।कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२-६७-१६॥ न अराजके जनपदे उद्यानानि समागताः ।सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥२-६७-१७॥ न अराजके जन पदे वाहनैः शीघ्र गामिभिः ।नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२-६७-१८॥ न अराकजे जन पदे धनवन्तः सुरक्षिताः ।शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥२-६७-१९॥ न अराजके जनपदे बद्दघण्टा विषाणीनः ।आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२-६७-२०॥ न अराजके जनपदे शरान् सम्ततमस्यताम् ।श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥२-६७-२१॥ न अराजके जन पदे वणिजो दूर गामिनः ।गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥२-६७-२२॥ न अराजके जन पदे चरति एक चरः वशी ।भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥२-६७-२३॥ न अराजके जन पदे योग क्षेमम् प्रवर्तते ।न च अपि अराजके सेना शत्रून् विषहते युधि ॥२-६७-२४॥ न अराजके जनपदे हृष्टैः परमवाजिभिः ।नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥२-६७-२५॥ न अराजके जनपदे नराः शास्त्रविशारदाः ।सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२-६७-२६॥ न अराजके जनपदे माल्यमोदकदक्षिणाः ।देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥२-६७-२७॥ न अराजके जनपदे चन्दनागुरुरूषिताः ।राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२-६७-२८॥ यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् ।अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥२-६७-२९॥ ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः ।तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥२-६७-३०॥ न अराजके जन पदे स्वकम् भवति कस्यचित् ।मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् ॥२-६७-३१॥ येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः ।ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥२-६७-३२॥ यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते ।तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥२-६७-३३॥ राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् ।राजा माता पिता चैव राजा हितकरो नृणाम् ॥२-६७-३४॥ यमो वैश्रवणः शक्रो वरुणश्च महाबलः ।विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥२-६७-३५॥ अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन ।राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥२-६७-३६॥ जीवति अपि महा राजे तव एव वचनम् वयम् ।न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२-६७-३७॥ स नः समीक्ष्य द्विज वर्य वृत्तम् ।नृपम् विना राज्यम् अरण्य भूतम् ।कुमारम् इक्ष्वाकु सुतम् वदान्यम् ।त्वम् एव राजानम् इह अभिषिन्चय ॥२-६७-३८॥ तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥ यद् असौ मातुल कुले पुरे राज गृहे सुखी ।भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥ तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः ।आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥ गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् ।तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥ एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन ।श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥ पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः ।त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥ पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः ।त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥ मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् ।भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥ कौशेयानि च वस्त्राणि भूषणानि वराणि च ।क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥ दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् ।केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥ ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् ।वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥ न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति ।निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-१२॥ ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः ।पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-१३॥ सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः ।निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥ ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् ।उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥ निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् ।अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥ अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् ।पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥ अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् ।ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥ विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् ।नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥ पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् ।ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥ ते श्रान्त वाहना दूता विकृष्टेन सता पथा ।गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥ भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् ।भर्तुः च वम्शस्य परिग्रह अर्थम् ।अहेडमानाः त्वरया स्म दूता ।रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥ याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् ।भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥२-६९-१॥ व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् ।पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥२-६९-२॥ तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः ।आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२-६९-३॥ वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे ।नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥२-६९-४॥ स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः ।गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥२-६९-५॥ तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् ।सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२-६९-६॥ एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह ।शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥२-६९-७॥ स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् ।पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥२-६९-८॥ प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे ।पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥२-६९-९॥ ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः ।तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥२-६९-१०॥ स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि ।सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥२-६९-११॥ औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् ।सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥२-६९-१२॥ अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् ।अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् ॥२-६९-१३॥ पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् ।प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः ॥२-६९-१४॥ त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः ।रथेन खर युक्तेन प्रयातः दक्षिणा मुखः ॥२-६९-१५॥ प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी ।प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना ॥२-६९-१६॥ एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् ।अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति ॥२-६९-१७॥ नरः यानेन यः स्वप्ने खर युक्तेन याति हि ।अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते ॥२-६९-१८॥ एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये ।शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः ॥२-६९-१९॥ न पश्यामि भयस्थानम् भयम् चैवोपधारये ।भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम ॥२-६९-२०॥ जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् ।इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् ।अनेक रूपाम् अवितर्किताम् पुरा ।भयम् महत् तद्द् हृदयान् न याति मे ।विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-२१॥ भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः ।प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥२-७०-१॥ समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः ।राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२-७०-२॥ पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः ।त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-७०-३॥ इमानि च महार्हाणि वस्त्राण्Yआभरणानि च ।प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥२-७०-४॥ अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते ।दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥२-७०-५॥ प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने ।दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२-७०-६॥ कच्चित् सुकुशली राजा पिता दशरथो मम ।कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२-७०-७॥ आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी ।अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२-७०-८॥ कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२-७०-९॥ आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी ।अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥२-७०-१०॥ एवम् उक्ताः तु ते दूता भरतेन महात्मना ।ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥२-७०-११॥ कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि ।श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥२-७०-१२॥ भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत ।आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥२-७०-१३॥ एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः ।दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥२-७०-१४॥ राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः ।पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥२-७०-१५॥ भरतेन एवम् उक्तः तु नृपो मातामहः तदा ।तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥२-७०-१६॥ गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया ।मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥२-७०-१७॥ पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः ।तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥२-७०-१८॥ तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च ।अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥२-७०-१९॥ रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च ।सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥२-७०-२०॥ तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् ।ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥२-७०-२१॥ ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् ।खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥२-७०-२२॥ अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् ।दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥२-७०-२३॥ स मातामहम् आपृच्च्य मातुलम् च युधा जितम् ।रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥२-७०-२४॥ बभूव ह्यस्य हृदते चिन्ता सुमहती तदा ।त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥२-७०-२५॥ स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् ।प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥२-७०-२६॥ अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः ।ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥२-७०-२७॥ स माता महमापृच्च्य मातुलम् च युधाजितम् ।रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥२-७०-२८॥ रथान् मण्डल चक्रामः च योजयित्वा परः शतम् ।उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२-७०-२९॥ बलेन गुप्तः भरतः महात्मा ।सह आर्यकस्य आत्म समैः अमात्यैः ।आदाय शत्रुघ्नम् अपेत शत्रुर् ।गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥२-७०-३०॥ स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥ ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥ एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥ सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥ सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥ वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥ शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥ राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥ भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥ स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् ।सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥ तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥ तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥ सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥ वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥ हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥ एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥ भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥ अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह ।ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥ अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् ।एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥ अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥ भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥ समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥ समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥ अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥ निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥ जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥ स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥ सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥ प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥ किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥ निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥ तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥ भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥ द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥ सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥ अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥ आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥ असम्यतकवाटानि श्रीविहीनानि सर्वशः ।बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥ अनाशितकुटुम्बानि प्रभाहीनजनानि च ।अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥ अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥ देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥ दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥ देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥ मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥ इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः ।तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥ ताम् शून्य शृन्ग अटक वेश्म रथ्याम् ।रजो अरुण द्वार कपाट यन्त्राम् ।दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥ बहूनि पश्यन् मनसो अप्रियाणि ।यानि अन्न्यदा न अस्य पुरे बभूवुः ।अवाक् शिरा दीन मना नहृष्टः ।पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥ अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये ।जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥ अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् ।उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥ स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् ।भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥ सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥ अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः ।अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥ आर्यकः ते सुकुशलो युधा जिन् मातुलः तव ।प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-६॥ एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः ।आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-७॥ अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः ।अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥ यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः ।परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥ राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः ।यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥ शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः ।न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥ राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने ।तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥ पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः ।आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥ तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् ।अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥ या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः ।राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥ तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः ।पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥ हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् ।निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥ ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः ।विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥ एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा ।शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥ तत् इदम् न विभाति अद्य विहीनम् तेन धीमता ।व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥ बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः ।आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥ तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि ।निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥ मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः ।उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥ उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः ।त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥ दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥ स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च ।जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥ अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति ।इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥ तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम ।पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥ अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते ।धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥ न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् ।उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥ क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः ।येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥ यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः ।तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥ पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः ।तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥ धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥ पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः ।इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥ राम इति राजा विलपन् हा सीते लक्ष्मण इति च ।स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥ इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव ।काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥ सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह ।लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥ तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् ।विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥ क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः ।लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥ तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे ।माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥ स हि राज सुतः पुत्र चीर वासा महा वनम् ।दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥ तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया ।स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥ कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् ।कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥ कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते ।कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥ अथ अस्य चपला माता तत् स्व कर्म यथा तथम् ।तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥ एवमुक्ता तु कैकेयी भरतेन महात्मना ।उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥ न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् ।कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥ न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति ।मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥ याचितः ते पिता राज्यम् रामस्य च विवासनम् ।स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥ रामः च सह सौमित्रिः प्रेषितः सह सीतया ।तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥ पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् ।त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥ त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् ।मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥ त्वदधीना हि नगरी राज्यम् चैतदनामयम् ।तत् पुत्र शीघ्रम् विधिना विधिज्ञैः ।वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः ।सम्काल्य राजानम् अदीन सत्त्वम् ।आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥ श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ ।भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥२-७३-१॥ किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः ।विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥२-७३-२॥ दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः ।राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥२-७३-३॥ कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता ।अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२-७३-४॥ मृत्युमापादितो राजा त्वया मे पापदर्शिनि ।सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥२-७३-५॥ त्वाम् प्राप्य हि पिता मे.द्य सत्यसन्धो महायशाः ।तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः ॥२-७३-६॥ विनाशितो महाराजः पिता मे धर्मवत्सलः ।कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः ॥२-७३-७॥ कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते ।दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥२-७३-८॥ ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् ।वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते ॥२-७३-९॥ तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी ।त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥२-७३-१०॥ तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् ।प्रस्थाप्य वन वासाय कथम् पापे न शोचसि ॥२-७३-११॥ अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् ।प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम् ॥२-७३-१२॥ लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति ।तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम् ॥२-७३-१३॥ अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ ।केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥२-७३-१४॥ तम् हि नित्यम् महा राजो बलवन्तम् महा बलः ।उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा ॥२-७३-१५॥ सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् ।दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२-७३-१६॥ अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा ।सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥२-७३-१७॥ न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् ।यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥२-७३-१८॥ उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि ।साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२-७३-१९॥ अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते ।अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥२-७३-२०॥ न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे ।गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥२-७३-२१॥ सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥२-७३-२२॥ तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् ।अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२-७३-२३॥ तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः ।बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥२-७३-२४॥ न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये ।त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥२-७३-२५॥ एष त्विदानीमेवाहमप्रियार्थम् तवनघम् ।निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम् ॥२-७३-२६॥ निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः ।दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥२-७३-२७॥ इति एवम् उक्त्वा भरतः महात्मा ।प्रिय इतरैः वाक्य गणैअः तुदम्स् ताम् ।शोक आतुरः च अपि ननाद भूयः ।सिम्हो यथा पर्वत गह्वरस्थः ॥२-७३-२८॥ ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा ।रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥२-७४-१॥ राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि ।परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२-७४-२॥ किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः ।ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥२-७४-३॥ भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् ।कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२-७४-४॥ यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा ।सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥२-७४-५॥ त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः ।अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥२-७४-६॥ मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके ।न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥२-७४-७॥ कौसल्या च सुमित्रा च याः च अन्या मम मातरः ।दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥२-७४-८॥ न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः ।राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥२-७४-९॥ यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः ।वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२-७४-१०॥ यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते ।भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥२-७४-११॥ कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये ।कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥२-७४-१२॥ किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् ।ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥२-७४-१३॥ अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते ।तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥२-७४-१४॥ अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता ।वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥२-७४-१५॥ ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले ।रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥२-७४-१६॥ अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः ।बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥२-७४-१७॥ इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् ।सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२-७४-१८॥ निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् ।आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥२-७४-१९॥ ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् ।इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥२-७४-२०॥ भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् ।कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥२-७४-२१॥ एवम् उक्ता तु सुरभिः सुर राजेन धीमता ।पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥२-७४-२२॥ शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप ।अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥२-७४-२३॥ एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ ।अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥२-७४-२४॥ मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ ।यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥२-७४-२५॥ यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् ।ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥२-७४-२६॥ सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया ।श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-२७॥ यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् ।किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-२८॥ एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता ।तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-२९॥ अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् ।वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-३०॥ आनाययित्वा तनयम् कौसल्याया महा द्युतिम् ।स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-३१॥ न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् ।शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-३२॥ सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश ।रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-३३॥ अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे ।कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-३४॥ इति नागैव अरण्ये तोमर अन्कुश चोदितः ।पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-३५॥ सम्रक्त नेत्रः शिथिल अम्बरः तदा ।विधूत सर्व आभरणः परम्तपः ।बभूव भूमौ पतितः नृप आत्मजः ।शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-३६॥ दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् ।नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-१॥ सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् ।राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-२॥ अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः ।विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-३॥ वनवासम् न जानामि रामस्यहम् महात्मनः ।विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-४॥ तथैव क्रोशतः तस्य भरतस्य महात्मनः ।कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-५॥ आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः ।तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-६॥ एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा ।प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-७॥ स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा ।प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-८॥ ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ ।पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-९॥ रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् ।भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥२-७५-१०॥ इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् ।सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२-७५-११॥ प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् ।कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥२-७५-१२॥ क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति ।हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥२-७५-१३॥ अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् ।अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥२-७५-१४॥ कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि ।यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥२-७५-१५॥ इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् ।हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२-७५-१६॥ इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः ।विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥२-७५-१७॥ पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः ।विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥२-७५-१८॥ एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा ।कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥२-७५-१९॥ आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् ।विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२-७५-२०॥ कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन ।सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२-७५-२१॥ प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु ।हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२-७५-२२॥ कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् ।अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२-७५-२३॥ परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२४॥ बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः ।अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२-७५-२५॥ सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् ।ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२६॥ हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले ।मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२-७५-२७॥ उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता ।स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२-७५-२८॥ मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् ।द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२-७५-२९॥ पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः ।गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥२-७५-३०॥ गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् ।मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥२-७५-३१॥ विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् ।विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥२-७५-३२॥ अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः ।लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥२-७५-३३॥ पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः ।स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥२-७५-३४॥ अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् ।अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥२-७५-३५॥ मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः ।आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥२-७५-३६॥ राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते ।भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-३७॥ लाक्षया मधुमाम्सेन लोहेन च विषेण च ।सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥२-७५-३८॥ सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे ।पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥२-७५-३९॥ कपालपाणिः पृथिवीमटताम् चीरसम्वृतः ।भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-४०॥ पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-४१॥ यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् ।अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-४२॥ सम्चितान्यस्य वित्तानि विविधानि सहस्रशः ।दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-४३॥ उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते ।तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-४४॥ यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे ।मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-४५॥ देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च ।मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-४६॥ सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा ।भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-४७॥ अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् ।दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-४८॥ बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः ।स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-४९॥ आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् ।आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥२-७५-५०॥ मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः ।राज्Jनो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥२-७५-५१॥ ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् ।अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥२-७५-५२॥ धर्मदारान् परित्यज्य परदारान्नि षेवताम् ।त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥२-७५-५३॥ विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् ।तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥२-७५-५४॥ पानीयदूषके पापम् तथैव विषदायके ।यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥२-७५-५५॥ ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः ।बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥२-७५-५६॥ तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् ।लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥२-७५-५७॥ भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥२-७५-५८॥ विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः ।एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥२-७५-५९॥ तथा तु शपथैः कष्टैः शपमानम् अचेतनम् ।भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२-७५-६०॥ मम दुह्खम् इदम् पुत्र भूयः समुपजायते ।शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥२-७५-६१॥ दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः ।वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥२-७५-६२॥ इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् ।परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥२-७५-६३॥ एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः ।मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥२-७५-६४॥ लालप्यमानस्य विचेतनस्य ।प्रनष्ट बुद्धेः पतितस्य भूमौ ।मुहुर् मुहुर् निह्श्वसतः च दीर्घम् ।सा तस्य शोकेन जगाम रात्रिः ॥२-७५-६५॥ तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् ।उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-१॥ अलम् शोकेन भद्रम् ते राज पुत्र महा यशः ।प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-२॥ वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः ।प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-३॥ उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् ।आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-४॥ सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते ।ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-५॥ किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते ।विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-६॥ क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् ।हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-७॥ योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे ।त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-८॥ विधवा पृथिवी राजम्स् त्वया हीना न राजते ।हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-९॥ एवम् विलपमानम् तम् भरतम् दीन मानसम् ।अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-१०॥ प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः ।तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-११॥ तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् ।ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-१२॥ ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः ।ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-१३॥ शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् ।बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-१४॥ हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च ।प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-१५॥ चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा ।देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-१६॥ गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् ।ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-१७॥ तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः ।जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-१८॥ शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः ।नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-१९॥ प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् ।स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-२०॥ क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे ।आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-२१॥ ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः ।यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-२२॥ कृत उदकम् ते भरतेन सार्धम् ।नृप अन्गना मन्त्रि पुरोहिताः च ।पुरम् प्रविश्य अश्रु परीत नेत्रा ।भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-२३॥ ततः दश अहे अतिगते कृत शौचो नृप आत्मजः ।द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥ ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् ।वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥ बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा ।दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥ ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् ।ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥ विललाप महा बाहुर् भरतः शोक मूर्चितः ।शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥ चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः ।तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥ तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया ।यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥ ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप ।दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥ पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह ।स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥ उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः ।अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥ अन्त काले निपतितम् ययातिम् ऋषयो यथा ।शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥ विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् ।उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥ स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा ।मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥ वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः ।सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥ क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् ।ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥ प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति ।अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥ विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ।पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥ किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् ।हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥ अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् ।तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥ भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः ।ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥ धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ ।ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥ वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह ।त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-२२॥ सावशेषास्थिनिचये किमिह त्वम् विलम्बसे ।त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥ तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति ।सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥ श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ ।उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥ वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव ।अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥ अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः । अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः ।भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥ गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः ।स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥ बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ ।किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥ पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ ।उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥ इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे ।प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥ लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती ।विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥ मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी ।बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥ ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् ।गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥ यस्याः कृते वने रामः न्यस्त देहः च वः पिता ।सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥ शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः ।अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥ तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः ।यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥ एवम् उक्ता च तेन आशु सखी जन समावृता ।गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥ ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः ।क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥ अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः ।यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥ सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् ।कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-१५॥ स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः ।विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥ तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः ।चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥ तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् ।अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥ स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः ।कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥ तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता ।शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥ ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् ।अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥ हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् ।यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥ इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः ।त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥ भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः ।न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥ सा पाद मूले कैकेय्या मन्थरा निपपात ह ।निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥ शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् ।समीक्ष्य कुब्जाम् भरतस्य माता ।शनैः समाश्वासयद् आर्त रूपाम् ।क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥ ततः प्रभात समये दिवसे अथ चतुर्दशे ।समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-१॥ गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः ।रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-२॥ त्वम् अद्य भव नो राजा राज पुत्र महा यशः ।सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-३॥ आभिषेचनिकम् सर्वम् इदम् आदाय राघव ।प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-४॥ राज्यम् गृहाण भरत पितृ पैतामहम् महत् ।अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-५॥ आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् ।भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-६॥ ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः ।न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-७॥ रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः ।अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-८॥ युज्यताम् महती सेना चतुर् अन्ग महा बला ।आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-९॥ आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् ।पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-१०॥ तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् ।आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-११॥ न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् ।वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-१२॥ क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च ।रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-१३॥ एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् ।प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-१४॥ एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् ।यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-१५॥ अनुत्तमम् तत् वचनम् नृप आत्मज ।प्रभाषितम् सम्श्रवणे निशम्य च ।प्रहर्षजाः तम् प्रति बाष्प बिन्दवो ।निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-१६॥ ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः ।सामात्याः सपरिषदो वियात शोकाः ।पन्थानम् नर वर भक्तिमान् जनः च ।व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-१७॥ अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः ।स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-१॥ कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः ।तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-२॥ कूप काराः सुधा कारा वम्श कर्म कृतः तथा ।समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-३॥ स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् ।अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-४॥ ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः ।करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-५॥ लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च ।जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-६॥ अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् ।केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-७॥ अपरे वीरण स्तम्बान् बलिनो बलवत्तराः ।विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-८॥ अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् ।निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-९॥ बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा ।बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-१०॥ अचिरेण एव कालेन परिवाहान् बहु उदकान् ।चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-११॥ निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-१२॥ ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः ।मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-१३॥ चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः ।बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-१४॥ आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः ।रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-१५॥ यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः ।भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-१६॥ नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-१७॥ बहु पाम्सु चयाः च अपि परिखा परिवारिताः ।तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-१८॥ प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः ।पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-१९॥ विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः ।समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-२०॥ जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् ।शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-२१॥ सचन्द्र तारा गण मण्डितम् यथा ।नभः क्षपायाम् अमलम् विराजते ।नर इन्द्र मार्गः स तथा व्यराजत ।क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-२२॥ ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः ।तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-१॥ सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः ।दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-२॥ स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव ।भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-३॥ ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च ।न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-४॥ पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् ।विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-५॥ तस्य एषा धर्म राजस्य धर्म मूला महात्मनः ।परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-६॥ यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् ।अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-७॥ इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् ।कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-८॥ तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् ।सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-९॥ शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् ।सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-१०॥ स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् ।अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-११॥ ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् ।क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-१२॥ सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् ।युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-१३॥ ततः हलहला शब्दो महान् समुदपद्यत ।रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-१४॥ ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः ।प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-१५॥ ह्रदैव तिमि नाग सम्वृतः ।स्तिमित जलो मणि शन्ख शर्करः ।दशरथ सुत शोभिता सभा ।सदशरथा इव बभौ यथा पुरा ॥२-८१-१६॥ ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् ।ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव ॥२-८२-१॥ आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा ।अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी ॥२-८२-२॥ सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा ।अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥२-८२-३॥ राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥२-८२-४॥ तात राजा दशरथः स्वर् गतः धर्मम् आचरन् ।धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥२-८२-५॥ रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् ।न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥२-८२-६॥ पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् ।तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय ॥२-८२-७॥ उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः ।कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥२-८२-८॥ तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः ।जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया ॥२-८२-९॥ स बाष्प कलया वाचा कल हम्स स्वरः युवा ।विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥२-८२-१०॥ चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः ।धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत् ॥२-८२-११॥ कथम् दशरथाज् जातः भवेद् राज्य अपहारकः ।राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥२-८२-१२॥ ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः ।लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा ॥२-८२-१३॥ अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि ।इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः ॥२-८२-१४॥ यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये ।इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः ॥२-८२-१५॥ रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः ।त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति ॥२-८२-१६॥ तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः ।हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः ॥२-८२-१७॥ यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् ।वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा ॥२-८२-१८॥ सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् ।समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम् ॥२-८२-१९॥ विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः ।प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते ॥२-८२-२०॥ एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः ।समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम् ॥२-८२-२१॥ तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् ।यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय ॥२-८२-२२॥ एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना ।हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत् ॥२-८२-२३॥ ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च ।श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥२-८२-२४॥ ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे ।यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥२-८२-२५॥ ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः ।सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन् ॥२-८२-२६॥ सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ ।रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥२-८२-२७॥ भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः ।रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः ॥२-८२-२८॥ स राघवः सत्य धृतिः प्रतापवान् ।ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः ।गुरुम् महा अरण्य गतम् यशस्विनम् ।प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥२-८२-२९॥ तूण समुत्थाय सुमन्त्र गच्च ।बलस्य योगाय बल प्रधानान् ।आनेतुम् इच्चामि हि तम् वनस्थम् ।प्रसाद्य रामम् जगतः हिताय ॥२-८२-३०॥ स सूत पुत्रः भरतेन सम्यग् ।आज्ञापितः सम्परिपूर्ण कामः ।शशास सर्वान् प्रकृति प्रधानान् ।बलस्य मुख्यामः च सुहृज् जनम् च ॥२-८२-३१॥ ततः समुत्थाय कुले कुले ते ।राजन्य वैश्या वृषलाः च विप्राः ।अयूयुजन्न् उष्ट्र रथान् खरामः च।नागान् हयामः चैव कुल प्रसूतान् ॥२-८२-३२॥ ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् ।प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥२-८३-१॥ अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः ।अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥२-८३-२॥ नव नाग सहस्राणि कल्पितानि यथा विधि ।अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥२-८३-३॥ षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः ।अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-४॥ शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् ।अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-५॥ कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥२-८३-६॥ प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् ।तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥२-८३-७॥ मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् ।कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥२-८३-८॥ दृष्टएव हि नः शोकम् अपनेष्यति राघवः ।तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥२-८३-९॥ इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः ।परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥२-८३-१०॥ ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः ।रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥२-८३-११॥ मणि काराः च ये केचित् कुम्भ काराः च शोभनाः ।सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥२-८३-१२॥ मायूरकाः क्राकचिका रोचका वेधकाः तथा ।दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥२-८३-१३॥ सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः ।स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥२-८३-१४॥ रजकाः तुन्न वायाः च ग्राम घोष महत्तराः ।शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥२-८३-१५॥ समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः ।गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥२-८३-१६॥ सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः ।सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥२-८३-१७॥ प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् ।भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥२-८३-१८॥ ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः ।समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥२-८३-१९॥ यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥२-८३-२०॥ उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् ।व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२-८३-२१॥ निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् ।भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥२-८३-२२॥ निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः ।विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥२-८३-२३॥ दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः ।और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥२-८३-२४॥ तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः ।न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२-८३-२५॥ निवेश्य गन्गाम् अनु ताम् महा नदीम् ।चमूम् विधानैः परिबर्ह शोभिनीम् ।उवास रामस्य तदा महात्मनो ।विचिन्तयानो भरतः निवर्तनम् ॥२-८३-२६॥ ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् ।निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-१॥ महती इयम् अतः सेना सागर आभा प्रदृश्यते ।न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-२॥ यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः ।स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-३॥ बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति ।अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-४॥ सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् ।भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-५॥ भर्ता चैव सखा चैव रामः दाशरथिर् मम ।तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-६॥ तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् ।बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-७॥ नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् ।सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-८॥ यदा तुष्टः तु भरतः रामस्य इह भविष्यति ।सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-९॥ इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च ।अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥२-८४-१०॥ तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् ।भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-११॥ एष ज्ञाति सहस्रेण स्थपतिः परिवारितः ।कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-१२॥ तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः ।असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-१३॥ एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् ।उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-१४॥ लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः ।आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-१५॥ निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् ।निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-१६॥ अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् ।आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-१७॥ आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् ।अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥२-८४-१८॥ एवम् उक्तः तु भरतः निषाद अधिपतिम् गुहम् ।प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥ ऊर्जितः खलु ते कामः कृतः मम गुरोह् सखे ।यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥ इति उक्त्वा तु महा तेजा गुहम् वचनम् उत्तमम् ।अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥ कतरेण गमिष्यामि भरद्वाज आश्रमम् गुह ।गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥ तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥ दाशाः तु अनुगमिष्यन्ति धन्विनः सुसमाहिताः ।अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥ कच्चिन् न दुष्टः व्रजसि रामस्य अक्लिष्ट कर्मणः ।इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥ तम् एवम् अभिभाषन्तम् आकाशैव निर्मलः ।भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥ मा भूत् स कालो यत् कष्टम् न माम् शन्कितुम् अर्हसि ।राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥ तम् निवर्तयितुम् यामि काकुत्स्थम् वन वासिनम् ।बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥ स तु सम्हृष्ट वदनः श्रुत्वा भरत भाषितम् ।पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥ धन्यः त्वम् न त्वया तुल्यम् पश्यामि जगती तले ।अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥ शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति ।यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥ एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा ।बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥ सम्निवेश्य स ताम् सेनाम् गुहेन परितोषितः ।शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥ राम चिन्तामयः शोको भरतस्य महात्मनः ।उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥ अन्तर् दाहेन दहनः सम्तापयति राघवम् ।वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥ प्रस्रुतः सर्व गात्रेभ्यः स्वेदः शोक अग्नि सम्भवः ।यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥ ध्यान निर्दर शैलेन विनिह्श्वसित धातुना ।दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥ प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना ।आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥ विनिश्श्वसन्वै भृशदुर्मनास्ततः ।प्रमूढसम्ज्ञः परमापदम् गतः ।शमम् न लेभे हृदयज्वरार्दितो ।नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥ गुहेन सार्धम् भरतः समागतः ।महा अनुभावः सजनः समाहितः ।सुदुर्मनाः तम् भरतम् तदा पुनर् ।गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥ आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः ।भरताय अप्रमेयाय गुहो गहन गोचरः ॥२-८६-१॥ तम् जाग्रतम् गुणैर् युक्तम् वर चाप इषु धारिणम् ।भ्रातृ गुप्त्य् अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम् ॥२-८६-२॥ इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव नन्दन ॥२-८६-३॥ उचितो अयम् जनः सर्वे दुह्खानाम् त्वम् सुख उचितः ।धर्म आत्ममः तस्य गुप्त्य् अर्थम् जागरिष्यामहे वयम् ॥२-८६-४॥ न हि रामात् प्रियतरो मम अस्ति भुवि कश्चन ।मा उत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यम् तव अग्रतः ॥२-८६-५॥ अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः ।धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-८६-६॥ सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह ॥२-८६-७॥ न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा ।चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि ॥२-८६-८॥ एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना ।अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-८६-९॥ कथम् दाशरथौ भूमौ शयाने सह सीतया ।शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-८६-१०॥ यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया ॥२-८६-११॥ महता तपसा लब्धो विविधैः च परिश्रमैः ।एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-८६-१२॥ अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति ।विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-८६-१३॥ विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।निर्घोष उपरतम् नूनम् अद्य राज निवेशनम् ॥२-८६-१४॥ कौसल्या चैव राजा च तथा एव जननी मम ।न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥२-८६-१५॥ जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।दुह्खिता या तु कौसल्या वीरसूर् विनशिष्यति ॥२-८६-१६॥ अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनो रथम् ।राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-८६-१७॥ सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले ह्य् उपस्थिते ।प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-८६-१८॥ रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।हर्म्य प्रासाद सम्पन्नाम् सर्व रत्न विभूषिताम् ॥२-८६-१९॥ गज अश्व रथ सम्बाधाम् तूर्य नाद विनादिताम् ।सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-८६-२०॥ आराम उद्यान सम्पूर्णाम् समाज उत्सव शालिनीम् ।सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-८६-२१॥ अपि सत्य प्रतिज्नेन सार्धम् कुशलिना वयम् ।निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि ॥२-८६-२२॥ परिदेवयमानस्य तस्य एवम् सुमहात्मनः ।तिष्ठतो राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-८६-२३॥ प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।अस्मिन् भागीरथी तीरे सुखम् सम्तारितौ मया ॥२-८६-२४॥ जटा धरौ तौ द्रुम चीर वाससौ ।महा बलौ कुन्जर यूथप उपमौ ।वर इषु चाप असि धरौ परम् तपौ ।व्यवेक्षमाणौ सह सीतया गतौ ॥२-८६-२५॥ गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् ।ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-१॥ सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः ।पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-२॥ प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः ।पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-३॥ भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः ।बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-४॥ तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः ।परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-५॥ ततः सर्वाः समापेतुर् मातरो भरतस्य ताः ।उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-६॥ ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् ।कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-७॥ वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी ।परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-८॥ पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते ।अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-९॥ त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२-८७-१०॥ कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् ।पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥२-८७-११॥ स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः ।कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२-८७-१२॥ भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः ।अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२-८७-१३॥ सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः ।यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥२-८७-१४॥ अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च ।रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥२-८७-१५॥ तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः ।न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥२-८७-१६॥ न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा ।इति तेन वयम् राजन्न् अनुनीता महात्मना ॥२-८७-१७॥ लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः ।औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥२-८७-१८॥ ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा ।वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२-८७-१९॥ सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् ।स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-२०॥ तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया ।प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-२१॥ एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् ।यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-२२॥ नियम्य पृष्ठे तु तल अन्गुलित्रवान् ।शरैः सुपूर्णाउ इषुधी परम् तपः ।महद् धनुः सज्यम् उपोह्य लक्ष्मणो ।निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-२३॥ ततः तु अहम् च उत्तम बाण चापधृक् ।स्थितो अभवम् तत्र स यत्र लक्ष्मणः ।अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् ।महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-२४॥ तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः ।इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-१॥ अब्रवीद् जननीः सर्वा इह तेन महात्मना ।शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-२॥ महा भाग कुलीनेन महा भागेन धीमता ।जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-३॥ अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये ।शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-४॥ प्रासाद अग्र विमानेषु वलभीषु च सर्वदा ।हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-५॥ पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु ।पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-६॥ प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु ।उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-७॥ गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः ।मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-८॥ बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः ।गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-९॥ अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा ।मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-१०॥ न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् ।यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-११॥ विदेह राजस्य सुता सीता च प्रिय दर्शना ।दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-१२॥ इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् ।स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-१३॥ मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा ।तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-१४॥ उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा ।तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-१५॥ मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-१६॥ हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम ।ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-१७॥ सार्वभौम कुले जातः सर्व लोक सुख आवहः ।सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-१८॥ कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः ।सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-१९॥ धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः ।भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-२०॥ सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् ।वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-२१॥ अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा ।गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-२२॥ न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् ।वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-२३॥ शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् ।अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-२४॥ अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् ।शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-२५॥ अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा ।फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-२६॥ तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने ।तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-२७॥ वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति ।लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-२८॥ अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः ।अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् ।प्रसाद्यमानः शिरसा मया स्वयम् ।बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-२९॥ ततोन्रुवत्सयामि चिराय राघवम् ।वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-३०॥ व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: ।भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। २.८९.१ ।। शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।। २.८९.२ ।। जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् ।इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ।। २.८९.३ ।। इति संवदतोरेवमन्योन्यं नरसिंहयो: ।आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ।। २.८९.४ ।। कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् ।कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ।। २.८९.५ ।। गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् ।रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ।। २.८९.६ ।। सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् ।गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: ।। २.८९.७ ।। ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् ।प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।। २.८९.८ ।। उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा ।नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् ।। २.८९.९ ।। ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् ।पञ्च नावां शतान्याशु समानिन्यु: समन्तत: ।। २.८९.१० ।। अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: ।शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: ।। २.८९.११ ।। तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ।तामारुरोह भरत: शत्रुघ्नश्च महाबल: ।। २.८९.१२ ।। कौसल्या च सुमित्रा च याश्चान्या राजयोषित: ।पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।अनन्तरं राजदारास्तथैव शकटापणा: ।। २.८९.१३ ।। आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ।। २.८९.१४ ।। पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: ।वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: ।। २.८९.१५ ।। नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् ।काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।। २.८९.१६ ।। ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् ।निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: ।। २.८९.१७ ।। सवैजयन्तास्तु गजा गजारोहप्रचोदिता: ।तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: ।। २.८९.१८ ।। नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे ।अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: ।। २.८९.१९ ।। सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् ।मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ।। २.८९.२० ।। आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे ।। २.८९.२१ ।। स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ।। २.८९.२२ ।। भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: ।बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ॥ २.९०.१ पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: ।वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २.९०.२ तत: सन्दर्शने तस्य भरद्वाजस्य राघव: ।मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ २.९०.३ ऺवसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: ।सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमिति ब्रुवन् ॥ २.९०.४ वसिष्ठसाहचर्य्यादिति भाव: ॥ २.९०.५ ताभ्यामर्ध्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ॥ २.९०.६ अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ २.९०.७ वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ २.९०.८ तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: ।भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ २.९०.९ किमिहागमने कार्य्यं तव राज्यं प्रशासत: ।एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ॥ २.९०.१० सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् ।भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ २.९०.११ नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: ।वनवासी भवेतीह समा: किल चतुर्दश ॥ २.९०.१२ कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ २.९०.१३ एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह ।पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ॥ २.९०.१४ हतो ऽस्मि यदि मामेवं भगवानपि मन्यते ।मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ २.९०.१५ न चैत दिष्टं माता मे यदवोचन्मदन्तरे ।नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ २.९०.१६ अहं तु तं नरव्याघ्रमुपयात: प्रसादक: ।प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ २.९०.१७ त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि ।शंस मे भगवन् राम: क्व सम्प्रति महीपति: ॥ २.९०.१८ वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: ।उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ॥ २.९०.१९ त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २.९०.२० जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति ।अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥ २.९०.२१ जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् ।असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २.९०.२२ श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: ।एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २.९०.२३ ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: ।चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ॥ २.९०.२४ ॥ कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ २.९१.१॥ अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ २.९१.२॥ अथोवाच भरद्वाजो भरतं प्रहसन्निव ।जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ २.९१.३॥ सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् ।मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ २.९१.४॥ किमर्थं चापि निक्षिप्य दूरे बलमिहागत: ।कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ॥ २.९१.५॥ भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ २.९१.६॥ राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा ।यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ॥ २.९१.७॥ वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: ।प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ २.९१.८॥ ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।न हिंस्युरिति तेनाहमेक एव समागत: ॥ २.९१.९॥ आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा ।ततस्तु चक्रे भरत: सेनाया: समुपागमम् ॥ २.९१.१०॥ अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च ।आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ २.९१.११॥ आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१२॥ आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१३॥ प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च ।पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ॥ २.९१.१४॥ अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् ।अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ २.९१.१५॥ आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश: ॥ २.९१.१६॥ घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ २.९१.१७॥ शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: ।सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा: ॥ २.९१.१८॥ वनं कुरुषु यद्दिव्यं वासोभूषणपत्ऺत्रवत् ।दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ २.९१.१९॥ इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ २.९१.२०॥ विचित्राणि च माल्यानि पादपप्रच्युतानि च ।सुरादीनि च पेयानि मांसानि विविधानि च ॥ २.९१.२१॥ एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च ।शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि: ॥ २.९१.२२॥ मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: ।आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २.९१.२३॥ मलयं दर्दुरं चैव तत: स्वेदनुदऽ ऽनिल: ।उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव: ॥ २.९१.२४॥ ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: ।दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २.९१.२५॥ प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: ।प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान् ॥ २.९१.२६॥ स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।विवेशोऺच्चारित: श्लक्ष्ण: समो लयगुणान्वित: ॥ २.९१.२७॥ तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् ।ददर्श भारतं सैन्यं विधानं विश्वकर्मण: ॥ २.९१.२८॥ बभूव हि समा भूमि: समन्तात्पञ्चयोजना ।शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै: ॥ २.९१.२९॥ तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: ।आमलक्यो बभूवुश्च चूताश्च फलभूषणा: ॥ २.९१.३०॥ उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् ।आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ २.९१.३१॥ चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् ।हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ २.९१.३२॥ सितमेघनिभं चापि राजवेश्मसु तोरणम् ।दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ २.९१.३३॥ चतुरश्रमसम्बाधं शयनासनयानवत् ।दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ २.९१.३४॥ क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत: ॥ २.९१.३५॥ अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: ।बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ २.९१.३६॥ तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत् ॥ २.९१.३७॥ आसनं पूजयामास रामायाभिप्रणम्य च ।वालव्यजनमादाय न्यषीदत् सचिवासने ॥ २.९१.३८॥ आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: ।तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु: ॥ २.९१.३९॥ ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: ।उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ २.९१.४०॥ तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: ।रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा: ॥ २.९१.४१॥ तेनैव च मुहूर्त्तेन दिव्याभरणभूषिता: ।आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय: ॥ २.९१.४२॥ सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: ।आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय: ॥ २.९१.४३॥ याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते ।आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा: ॥ २.९१.४४॥ नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: ।एते गन्धर्वराजानो भरतस्याग्रतो जगु: ॥ २.९१.४५॥ अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ २.९१.४६॥ यानि माल्यानि देवेषु यानि चैत्ररथे वने ।प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ २.९१.४७॥ बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: ।अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ २.९१.४८॥ तत: सरलतालाश्च तिलका नक्तमालका: ।प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ॥ २.९१.४९॥ शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: ।मालती मल्लिका जातिर्याश्चान्या: कानने लता: ॥ २.९१.५०॥ प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् ।सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: ।मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ २.९१.५१॥ उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ॥ २.९१.५२॥ संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: ।परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ॥ २.९१.५३॥ हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् ।अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ २.९१.५४॥ इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ॥ २.९१.५५॥ नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: ।मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ॥ २.९१.५६॥ तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: ।अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ॥ २.९१.५७॥ नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ २.९१.५८॥ इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: ।अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ २.९१.५९॥ सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: ।भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ॥ २.९१.६०॥ नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: ।समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ॥ २.९१.६१॥ ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ॥ २.९१.६२॥ प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: ।बभूवुस्ऺते भृशं दृप्ता: सर्वे चाहतवासस: ॥ २.९१.६३॥ कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: ।बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ २.९१.६४॥ नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा ।रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ॥ २.९१.६५॥ आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: ।फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ॥ २.९१.६६॥ पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: ।ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश: ॥ २.९१.६७॥ बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: ।ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत: ॥ २.९१.६८॥ वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: ।प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै: ॥ २.९१.६९॥ पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ २.९१.७०॥ स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: ।यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन: ॥ २.९१.७१॥ ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे ।बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया: ॥ २.९१.७२॥ कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा: ॥ २.९१.७३॥ शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत: ॥ २.९१.७४॥ दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।पादुकोपानहश्चैव युग्मानि च सहस्रश: ॥ २.९१.७५॥ आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च ।मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ २.९१.७६॥ प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ २.९१.७७॥ आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् ।नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ २.९१.७८॥ निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश: ॥ २.९१.७९॥ व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ २.९१.८०॥ इत्येवं रममाणानां देवानामिव नन्दने ।भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ २.९१.८१॥ प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना: ॥ २.९१.८२॥ तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: ।तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता: ॥ २.९१.८३ ॥ ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: ।कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ॥ २.९२.१॥ तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ।हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ॥ २.९२.२॥ कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ॥ २.९२.३॥ तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च ।आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ २.९२.४॥ सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: ।तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ॥ २.९२.५॥ अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: ।अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ॥ २.९२.६॥ आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम ।समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ २.९२.७॥ आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: ।आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ॥ २.९२.८॥ इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् ।प्रत्युवाच महातेजा भरद्वाजो महातपा: ॥ २.९२.९॥ भरतार्द्धतृतीयेषु योजनेष्वजने वने ।चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ॥ २.९२.१०॥ उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥ २.९२.११॥ अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: ।तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ २.९२.१२॥ दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ २.९२.१३॥ प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: ।हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥ २.९२.१४॥ वेपमाना कृशा ऺदीना सह देव्या सुमित्रया ।कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ॥ २.९२.१५॥ असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ २.९२.१६॥ तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ २.९२.१७॥ तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: ।विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ॥ २.९२.१८॥ एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: ।उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ॥ २.९२.१९॥ यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २.९२.२०॥ एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २.९२.२१॥ अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: ।कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २.९२.२२॥ एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ ।उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ २.९२.२३॥ यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ ।राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ॥ २.९२.२४॥ क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ।ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ २.९२.२५॥ ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।यतो मूलं हि पश्यामि व्यसनं महदात्मन: ॥ २.९२.२६॥ इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ॥ २.९२.२७॥ भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ।प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २.९२.२८॥ न दोषेणावगन्तव्या कैकेयी भरत त्वया ।रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥ २.९२.२९॥ देवानां दानवानां च ऋषीणां भावितात्मनाम् ।हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ २.९२.३०॥ अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् ।आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ॥ २.९२.३१॥ ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् ।अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ॥ २.९२.३२॥ गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: ।जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ॥ २.९२.३३॥ विविधान्यपि यानानि महान्ति च लघूनि च ।प्रययु: सुमहार्हाणि पादैरेव पदातय: ॥ २.९२.३४॥ अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: ।रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ॥ २.९२.३५॥ चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ॥ २.९२.३६॥ सा प्रयाता महासेना गजवाजिरथाकुला ।दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ॥ २.९२.३७॥ वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: ।गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ॥ २.९२.३८॥ सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् ।महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ २.९२.३९ ॥ तया महत्या यायिन्या ध्वजिन्या वनवासिन: ।अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ॥ २.९३.१॥ ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: ।दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ २.९३.२॥ स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मज: ।वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ २.९३.३॥ सागरौघनिभा सेना भरतस्य महात्मन: ।महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुद: ॥ २.९३.४॥ चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ॥ २.९३.५॥ स यात्वा दूरमध्वानं सुपरिश्रान्तवाहन: ।उवाच भरत: श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ २.९३.६॥ यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।व्यक्तं प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ॥ २.९३.७॥ अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी ।एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ २.९३.८॥ गिरे: सानूनि रम्याणि चित्रकूटस्य सम्प्रति ।वारणैरवमृद्यन्ते मामकै: पर्वतोपमै: ॥ २.९३.९॥ मुञ्चन्ति कुसुमान्येते नगा: पर्वतसानुषु ।नीला इवातपापाये तोयं तोयधरा घना: ॥ २.९३.१०॥ किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् ।मृगै: समन्तादाकीर्णं मकरैरिव सागरम् ॥ २.९३.११॥ एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिता: ।वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ २.९३.१२॥ कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी ।मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ॥ २.९३.१३॥ निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् ।अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ २.९३.१४॥ खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति ।तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ॥ २.९३.१५॥ स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् ।एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ॥ २.९३.१६॥ एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् ।एतमाविशत: शीघ्रमधिवासं पतत्ऺित्रण: ॥ २.९३.१७॥ अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा ।तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ॥ २.९३.१८॥ मृगा मृगीभि: सहिता बहव: पृषता वने ।मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ॥ २.९३.१९॥ साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने ।यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २.९३.२०॥ भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: ।विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ॥ २.९३.२१॥ ते समालोक्य धूमाग्रमूचुर्भरतमागता: ।नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ॥ २.९३.२२॥ अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ ।मन्ये रामोपमा: सन्ति व्यक्तमत्र तपस्विन: ॥ २.९३.२३॥ तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् ।सैन्यानुवाच सर्वांस्तानमित्रबलमर्दन: ॥ २.९३.२४॥ यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रत: ।अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ २.९३.२५॥ एवमुक्तास्तत: सर्वे तत्र तस्थु: समन्तत: ।भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २.९३.२६॥ व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रत: ।बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ २.९३.२७ ॥ दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: ।वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥ २.९४.१॥ अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ॥ २.९४.२॥ न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: ।मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ २.९४.३॥ पश्येममचलं भद्रे नानाद्विजगणायुतम् ।शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ॥ २.९४.४॥ केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: ।पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ॥ २.९४.५॥ पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: ।विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ॥ २.९४.६॥ नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: ।अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ॥ २.९४.७॥ आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: ।अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ॥ २.९४.८॥ काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ॥ २.९४.९॥ पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: ।एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ॥ २.९४.१०॥ शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ॥ २.९४.११॥ शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च ।पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ २.९४.१२॥ जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ॥ २.९४.१३॥ गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ २.९४.१४॥ यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते ।लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ॥ २.९४.१५॥ बहुपुष्पफले रम्ये नानाद्विजगणायुते ।विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥ २.९४.१६॥ अनेन वनवासेन मया प्राप्तं फलद्वयम् ।पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ २.९४.१७॥ वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥ २.९४.१८॥ इदमेवामृतं प्राहू राज्ञि राजर्षय: परे ।वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ॥ २.९४.१९॥ शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: ।बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ॥ २.९४.२०॥ निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ॥ २.९४.२१॥ केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: ।केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ २.९४.२२॥ भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: ।चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ॥ २.९४.२३॥ कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् ।कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥ २.९४.२४॥ मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: ।कामिभिर्वनिते पश्य फलानि विविधानि च ॥ २.९४.२५॥ वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् ।पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ॥ २.९४.२६॥ इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ॥ २.९४.२७ ॥ अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: ।अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ २.९५.१॥ अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।विदेहराजस्य सुतां रामो राजीवलोचन: ॥ २.९५.२॥ विचित्रपुलिनां रम्यां हंससारससेविताम् ।कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ २.९५.३॥ नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै: ।राजन्तीं राजराजस्य नलिनीमिव सर्वत: ॥ २.९५.४॥ मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ २.९५.५॥ जटाजिनधरा: काले वल्कलोत्तरवासस: ।ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ २.९५.६॥ आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहव: ।एते परे विशालाक्षि मुनय: संशितव्रता: ॥ २.९५.७॥ मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत: ।पादपै: पत्ऺत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ २.९५.८॥ क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ २.९५.९॥ निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ २.९५.१०॥ तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजा: ।अधिरोहन्ति कल्याणि विकूजन्त: शुभा गिर: ॥ २.९५.११॥ दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने ।अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ २.९५.१२॥ विधूतकलुषै: सिद्धैस्तपोदमशमान्वितै: ।नित्यविक्षोभितजलां विगाहस्व मया सह ॥ २.९५.१३॥ सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ २.९५.१४॥ त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ २.९५.१५॥ लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थित: ।त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ २.९५.१६॥ उपस्पृशंस्त्रिषवणं मधुमूलफलाशन: ।नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ॥ २.९५.१७॥ इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरै: ।सुपुष्पितै: पुष्पधरैरलङ्कृतां न सो ऽस्ति य: स्यादगतक्लम: सुखी ॥ २.९५.१८॥ इतीव रामो बहुसङ्गतं वच: प्रियासहाय: सरितं प्रति ब्रुवन् ।चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धन: ॥ २.९५.१९ ॥ तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ २.९६.१॥ इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।एवमास्ते स धर्मात्मा सीतया सह राघव: ॥ २.९६.२॥ तथा तत्रासतस्तस्य भरतस्योपयायिन: ।सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ॥ २.९६.३॥ एतस्मिन्नन्तरे त्रस्ता: शब्देन महता तत: ।अर्दिता यूथपा मत्ता: सयूथा दुद्रुवुर्दिश: ॥ २.९६.४॥ स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघव: ।तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ॥ २.९६.५॥ तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।उवाच राम: सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥ २.९६.६॥ हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।भीमस्तनितगम्भीरस्तुमुल: श्रूयते स्वन: ॥ २.९६.७॥ गजयूथानि वा ऽरण्ये महिषा वा महावने ।वित्रासिता मृगा: सिंहै: सहसा प्रद्रुता दिश: ॥ २.९६.८॥ राजा वा राजमात्रो वा मृगयामटते वने ।अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥ २.९६.९॥ सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ २.९६.१०॥ स लक्ष्मण: संत्वरित: सालमारुह्य पुष्पितम् ।प्रेक्षमाणो दिश: सर्वा: पूर्वां दिशमुदैक्षत ॥ २.९६.११॥ उदङ्मुख: प्रेक्षमाणो ददर्श महतीं चमूम् ।रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभि: ॥ २.९६.१२॥ तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् ।शशंस सेनां रामाय वचनं चेदमब्रीत् ॥ २.९६.१३॥ अग्निं संशमयत्वार्य: सीता च भजतां गुहाम् ।सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ २.९६.१४॥ तं राम: पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥ २.९६.१५॥ एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।दिधक्षन्निव तां सेनां रुषित: पावको यथा ॥ २.९६.१६॥ सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।आवां हन्तुं समभ्येति कैकेय्या भरत: सुत: ॥ २.९६.१७॥ एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते ।विराजत्युद्गतस्कन्ध: कोविदारध्वजो रथे ॥ २.९६.१८॥ भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् ।एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन: ॥ २.९६.१९॥ गृहीतधनुषौ चावां गिरिं वीरश्रयावहै ।अथवेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ॥ २.९६.२०॥ अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ॥ २.९६.२१॥ अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥ २.९६.२२॥ यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ॥ २.९६.२३॥ भरतस्य वधे दोषं नाहं पश्यामि राघव ।पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥ २.९६.२४॥ पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥ २.९६.२५॥ अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।मया पश्येत् सुदु:खार्त्ता हस्तिभग्नमिव द्रुमम् ॥ २.९६.२६॥ कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २.९६.२७॥ अद्येमं संयतं क्रोधमसत्कारं च मानद ।मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २.९६.२८॥ अद्यैतच्चित्रकूटस्य काननं निशितै: शरै: ।भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २.९६.२९॥ शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।श्वापदा: परिकर्षन्तु नरांश्च निहतान् मया ॥ २.९६.३०॥ शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे ।ससैन्यं भरतं हत्वा भविष्यामि न संशय: ॥ २.९६.३१ ॥ सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्।रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ २.९७.१॥ किमत्र धनुषा कार्यमसिना वा सचर्मणा।महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २.९७.२॥ पितु: सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्।किं करिष्ऺयामि राज्येन सापवादेन लक्ष्मण ॥ २.९७.३॥ यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्।नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ २.९७.४॥ धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण।इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ॥ २.९७.५॥ भ्रातऽणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण।राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥ २.९७.६॥ नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा।नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥ २.९७.७॥ यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद।भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥ २.९७.८॥ मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सल:।मम प्राणात् प्रियतर: कुलधर्ममनुस्मरन् ॥ २.९७.९॥ श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्।जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ २.९७.१०॥ स्नेहेनाक्रान्तहृदय: शोकेनाकुलितेन्द्रिय:।द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गत: ॥ २.९७.११॥ अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्।प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागत: ॥ २.९७.१२॥ प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति।अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥ २.९७.१३॥ विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्।ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥ २.९७.१४॥ नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वच:।अहं ह्यप्रियमुक्त: स्यां भरतस्याप्रिये कृते ॥ २.९७.१५॥ कथं नु पुत्रा: पितरं हन्यु: कस्याञ्चिदापदि।भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मन: ॥ २.९७.१६॥ यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे।वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ २.९७.१७॥ उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वत:।राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ २.९७.१८॥ तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रत:।लक्ष्मण: प्रविवेशेव स्वानि गात्राणि लज्जया ॥ २.९७.१९॥ तद्वाक्यं लक्ष्मण: श्रुत्वा व्रीडित: प्रत्युवाच ह।त्वां मन्ये द्रष्टुमायात: पिता दशरथ: स्वयम् ॥ २.९७.२०॥ व्रीडितं लक्ष्मणं दृष्ट्वा राघव: प्रत्युवाच ह।एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागत: ॥ २.९७.२१॥ अथवा नौ ध्रुवं मन्ये मन्यमान: सुखोचितौ।वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ २.९७.२२॥ इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्।पिता मे राघव: श्रीमान् वनादादाय यास्यति ॥ २.९७.२३॥ एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ।वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ २.९७.२४॥ स एष सुमहाकाय: कम्पते वाहिनीमुखे।नाग: शत्रुञ्जयो नाम वृद्धस्तातस्य धीमत: ॥ २.९७.२५॥ न तु पश्यामि तच्छत्ऺत्रं पाण्डरं लोकसत्कृतम्।पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ २.९७.२६॥ प्रथममर्धमुत्तरार्धेन योजनीयम् ॥ २.९७.२७॥ अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जय:।लक्ष्मण: प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वत: ॥ २.९७.२८॥ भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिऺति।समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ २.९७.२९॥ अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा।पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ २.९७.३०॥ सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्।प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ २.९७.३१ ॥ निवेश्य सेनां तु विभु: पद्भ्यां पादवतां वर:।अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ॥ २.९८.१॥ निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्।भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ २.९८.२॥ क्षिप्रं वनमिदं सौम्य नरसङ्घै: समन्तत:।लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥ २.९८.३॥ गुहो ज्ञातिसहस्रेण शरचापासिधारिणा।समन्वेषतु काकुत्स्थावस्मिन् परिवृत: स्वयम् ॥ २.९८.४॥ अमात्यै: सह पौरैश्च गुरुभिश्च द्विजातिभि:।वनं सर्वं चरिष्यामि पद्भ्यां परिवृत: स्वयम् ॥ २.९८.५॥ यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्।वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥ २.९८.६॥ यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्।भ्रातु: पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ २.९८.७॥ यावन्न चरणौ भ्रातु: पार्थिवव्यञ्जनान्वितौ।शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ २.९८.८॥ यावन्न राज्ये राज्यार्ह: पितृपैतामहे स्थित:।अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्ऺयति ॥ २.९८.९॥ सिद्धार्थ: खलु सौमित्रिर्यश्चन्द्रविमलोपमम्।मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ २.९८.१०॥ कृतकत्या महाभागा वैदेही जनकात्मजा।भर्तारं सागरान्ताया: पृथिव्या याऽनुगच्छति ॥ २.९८.११॥ सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरि:।यस्मिन् वसति काकुत्स्थ: कुबेर इव नन्दने ॥ २.९८.१२॥ कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्।यदध्यास्ते महातेजा राम: शस्त्रभृतां वर: ॥ २.९८.१३॥ एवमुक्त्वा महातेजा भरत: पुरुषर्षभ:।पद्भ्यामेव महाबाहु: प्रविवेश महद्वनम् ॥ २.९८.१४॥ स तानि द्रुमजालानि जातानि गिरिसानुषु।पुष्पिताग्राणि मध्येन जगाम वदतां वर: ॥ २.९८.१५॥ समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्ति: ॥ २.९८.१६॥ तं दृष्ट्वा भरत: श्रीमान् मुमोह सहबान्धव:।अत्र राम इति ज्ञात्वा गत: पारमिवाम्भस: ॥ २.९८.१७॥ स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्।गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥ २.९८.१८ ॥ निविष्टायां तु सेनायामुत्सुको भरतस्तदा।जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ॥ २.९९.१॥ ऋषिं वसिष्ठं सन्दिश्य मातऽर्मे शीघ्रमानय।इति त्वरितमग्रे स जगाम गुरुवत्सल: ॥ २.९९.२॥ सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत।रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ २.९९.३॥ गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्।भ्रातु: पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ २.९९.४॥ शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा।काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ २.९९.५॥ सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुष:।कृतं वृक्षेष्वभिज्ञानं कुशचीरै: क्वचित् क्वचित् ॥ २.९९.६॥ ददर्श च वने तस्मिन् महत: सञ्चयान् कृतान्।मृगाणां महिषाणां च कऺरीषै: शीतकारणात् ॥ २.९९.७॥ गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा।शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वश: ॥ २.९९.८॥ मन्ये प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत्।नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमित: ॥ २.९९.९॥ उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्।अभिज्ञानकृत: पन्था विकाले गन्तुमिच्छता ॥ २.९९.१०॥ इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्।शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ २.९९.११॥ यमेवाधातुमिच्छन्ति तापसा: सततं वने।तस्यासौ दृश्यते धूम: सङ्कुल: कृष्णवर्त्मन: ॥ २.९९.१२॥ अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम्।आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ २.९९.१३॥ अथ गत्वा मुहूर्तं तु चित्रकूटं स राघव:।मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ २.९९.१४॥ जगत्यां पुरुषव्याघ्र आस्ते वीरासने रत:।जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ २.९९.१५॥ मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युति:।सर्वान् कामान् परित्यज्य वने वसति राघव: ॥ २.९९.१६॥ इति लोकसमाक्रुष्ट: पादेष्वद्य प्रसादयन्।रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ २.९९.१७॥ एवं स विलपंस्तस्मिन् वने दशरथात्मज:।ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ २.९९.१८॥ सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्।विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ २.९९.१९॥ शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनै:।रुक्मपृष्टष्ठैर्महासारै: शोभितां शत्रुबाधकै: ॥ २.९९.२०॥ अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतै: शरै:।शोभितां दीप्तवदनै: सर्प्पैर्भोगवतीमिव ॥ २.९९.२१॥ महारजतवासोभ्यामसिभ्यां च विराजिताम्।रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ २.९९.२२॥ गोधाङ्गुलित्रैरासक्तैश्चित्रै: काञ्चनभूषितै:।अरिसङ्घैरनाधृष्यां मृगै: सिंहगुहामिव ॥ २.९९.२३॥ प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्।ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २.९९.२४॥ निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्।उटजे राममासीनं जटामण्डलधारिणम् ॥ २.९९.२५॥ तं तु कृष्णाजिनधरं चीरवल्कलवाससम्।ददर्श राममासीनमभित: पावकोपमम् ॥ २.९९.२६॥ सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्।पृथिव्या: सागरान्ताया भर्त्तारं धर्मचारिणम् ॥ २.९९.२७॥ उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्।स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २.९९.२८॥ तं दृष्ट्वा भरत: श्रीमान् दु:खशोकपरिप्लुत:।अभ्यधावत धर्मात्मा भरत: कैकयीसुत: ॥ २.९९.२९॥ दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा।अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ २.९९.३०॥ य: संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्।वन्यैर्मृगैरुपासीन: सोऽयमास्ते ममाग्रज: ॥ २.९९.३१॥ वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचित:।मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ २.९९.३२॥ अधारयद्यो विविधाश्चित्रा: सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघव: कथम् ॥ २.९९.३३॥ यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चय:।शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ २.९९.३४॥ चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्।मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ २.९९.३५॥ मन्निमित्तमिदं दु:खं प्राप्तो राम: सुखोचित:।धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ २.९९.३६॥ इत्येवं विलपन् दीन: प्रस्विन्नमुखपङ्कज:।पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ २.९९.३७॥ दु:खाभितप्तो भरतो राजपुत्रो महाबल:।उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ २.९९.३८॥ बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्।आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ॥ २.९९.३९॥ शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्।तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ॥ २.९९.४०॥ तत: सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये।दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ २.९९.४१॥ तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये।वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥ २.९९.४२ ॥ जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ २.१००.१॥ कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् ।भ्रातरं भरतं राम: परिजग्राह बाहुना ॥ २.१००.२॥ आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघव: ।अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ २.१००.३॥ क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागत: ।न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ २.१००.४॥ चिरस्य बत पश्यामि दूराद्भरतमागतम् ।दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागत: ॥ २.१००.५॥ कच्चिद्धारयते तात राजा यत्त्वमिहागत: ।कच्चिन्न दीन: सहसा राजा लोकान्तरं गत: ॥ २.१००.६॥ कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ २.१००.७॥ कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ २.१००.८॥ कच्चिद्दशरथो राजा कुशली सत्यसङ्गर: ।राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चय: ॥ २.१००.९॥ स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युति: ।इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ २.१००.१०॥ सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती ।सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ २.१००.११॥ कच्चिद्विनयसम्पन्न: कुलपुत्रो बहुश्रुत: ।अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहित: ॥ २.१००.१२॥ कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजु: ।हुतं च होष्यमाणं च काले वेदयते सदा ॥ २.१००.१३॥ कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि ।वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ २.१००.१४॥ इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् ।सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ २.१००.१५॥ कच्चिदात्मसमा: शूरा: श्रुतवन्तो जितेन्द्रिया: ।कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिण: ॥ २.१००.१६॥ मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।सुसंवृतो मन्त्रधरैरमात्यै: शास्त्रकोविदै: ॥ २.१००.१७॥ कच्चिन्निद्रावशं नैषी: कच्चित्काले प्रबुध्यसे ।कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ २.१००.१८॥ कच्चिन्मन्त्रयसे नैक: कच्चिन्न बहुभि: सह ।कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ २.१००.१९॥ कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ २.१००.२०॥ कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुन: ।विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवा: ॥ २.१००.२१॥ कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिता: ।त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ २.१००.२२॥ कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् ।पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्नि:श्रेयसं महत् ॥ २.१००.२३॥ सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपति: ।अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ २.१००.२४॥ एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षण: ।राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २.१००.२५॥ कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमा: ।जघन्यास्तु जघन्येषु भृत्या: कर्मसु योजिता: ॥ २.१००.२६॥ अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् ।श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २.१००.२७॥ कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् ।राष्ट्रं तवानुजानन्ति मन्त्रिण: कैकयीसुत ॥ २.१००.२८॥ कच्चित्त्वां नावजानन्ति याजका: पतितं यथा ।उग्रप्रतिग्रहीतारं कामयानमिव स्त्रिय: ॥ २.१००.२९॥ उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् ।शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ २.१००.३०॥ कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचि: ।कुलीनश्चानुरक्तश्च दक्ष: सेनापति: कृत: ॥ २.१००.३१॥ बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदा: ।दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिता: ॥ २.१००.३२॥ कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ २.१००.३३॥ कालातिक्रमणाच्चैव भक्तवेतनयोर्भृता: ।भर्त्तु: कुप्यन्ति दुष्यन्ति सो ऽनर्थ: सुमहान् स्मृत: ॥ २.१००.३४॥ कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्रा: प्रधानत: ।कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिता: ॥ २.१००.३५॥ कच्चिज्जानपदो विद्वान् दक्षिण: प्रतिभानवान् ।यथोक्तवादी दूतस्ते कृतो भरत पण्डित: ॥ २.१००.३६॥ कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकै: ॥ २.१००.३७॥ कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा ।दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ २.१००.३८॥ कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे ।अनर्थकुशला ह्येते बाला: पण्डितमानिन: ॥ २.१००.३९॥ धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधा: ।बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ २.१००.४०॥ वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकै: ।सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ २.१००.४१॥ ब्राह्मणै: क्षत्ऺित्रयैर्वैश्यै: स्वकर्मनिरतै: सदा ।जितेन्द्रियैर्महोत्साहैर्वृतामार्यै: सहस्रश: ॥ २.१००.४२॥ प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ २.१००.४३॥ कच्चिच्चित्यशतैर्जुष्ट: सुनिविष्टजनाकुल: ।देवस्थानै: प्रपाभिश्च तटाकैश्चोपशोभित: ॥ २.१००.४४॥ प्रहृष्टनरनारीक: समाजोत्सवशोभित: ।सुकृष्टसीमा पशुमान् हिंसाभि: परिवर्जित: ॥ २.१००.४५॥ अदेवमातृको रम्य: श्वापदै: परिवर्जित: ।परित्यक्तो भयै: सर्वै: खनिभिश्चोपशोभित: ॥ २.१००.४६॥ विवर्जितो नरै: पापैर्मम पूर्वै: सुरक्षित: ।कच्चिज्जनपद: स्फीत: सुखं वसति राघव ॥ २.१००.४७॥ कच्चित्ते दयिता: सर्वे कृषिगोरक्षजीविन: ।वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ २.१००.४८॥ तेषां गुप्तिपरीहारै: कच्चित्ते भरणं कृतम् ।रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिन: ॥ २.१००.४९॥ कच्चित् स्त्रिय: सान्त्वयसि कच्चित्ताश्च सुरक्षिता: ।कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ २.१००.५०॥ कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुका: ।कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ २.१००.५१॥ कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ २.१००.५२॥ कच्चिन्न सर्वे कर्मान्ता: प्रत्यक्षास्ते ऽविशङ्कया ।सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ २.१००.५३॥ कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकै: ।यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ २.१००.५४॥ आयस्ते विपुल: कच्चित् कच्चिदल्पतरो व्यय: ।अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ २.१००.५५॥ देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्यय: ॥ २.१००.५६॥ कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा ।अपृष्ट: शास्त्रकुशलैर्न लोभाद्वध्यते शुचि: ॥ २.१००.५७॥ गृहीतश्चैव पृष्टश्च काले दृष्ट: सकारण: ।कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ २.१००.५८॥ व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।अर्थं विरागा: पश्यन्ति तवामात्या बहुश्रुता: ॥ २.१००.५९॥ यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासत: ॥ २.१००.६०॥ कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव ।दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ २.१००.६१॥ कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ २.१००.६२॥ कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुन: ।उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ २.१००.६३॥ कच्चिदर्थं च धर्मं च कामं च जयतां वर ।विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ २.१००.६४॥ कच्चित्ते ब्राह्मणा: शर्म सर्वशास्त्रार्थकोविदा: ।आशंसन्ते महाप्राज्ञ पौरजानपदै: सह ॥ २.१००.६५॥ नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ २.१००.६६॥ एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ २.१००.६७॥ मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वत: ।कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ २.१००.६८॥ दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वत: ।अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ २.१००.६९॥ इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् ।कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ २.१००.७०॥ यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ ।कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ २.१००.७१॥ मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथ: ॥ २.१००.७२॥ कच्चित्ते सफला वेदा: कच्चित्ते सफला: क्रिया: ।कच्चित्ते सफला दारा: कच्चित्ते सफलं श्रुतम् ॥ २.१००.७३॥ कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ २.१००.७४॥ यां वृत्तिं वर्त्तते तातो यां च न: प्रपितामहा: ।तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ २.१००.७५॥ कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव ।कच्चिदाशंसमानेभ्यो मित्रेभ्य: सम्प्रयच्छसि ॥ २.१००.७६॥ राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधर: प्रजानाम् ।अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत: स्वर्गमुपैति विद्वान् ॥ २.१००.७७ ॥ रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह ।किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ॥ २.१०१.१॥ शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ ।ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥ २.१०१.२॥ स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव ।अभिषेचय चात्मानं कुलस्यास्य भवाय न: ॥ २.१०१.३॥ राजानं मानुषं प्राहुर्देवत्वे स मतो मम ।यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ २.१०१.४॥ केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।दिवमार्यो गतो राजा यायजूक: सतां मत: ॥ २.१०१.५॥ निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे ।दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ २.१०१.६॥ उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: ।ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ॥ २.१०१.७॥ प्रियेण खलु दत्तं हि पितृलोकेषु राघव ।अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ॥ २.१०१.८॥ त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ॥ २.१०१.९ ॥ तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।राघवो भरतेनोक्तां बभूव गतचेतन: ॥ २.१०२.१॥ तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा ।वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ॥ २.१०२.२॥ प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: ।वने परशुना कृत्तस्तथा भुवि पपात ह ॥ २.१०२.३॥ तथा निपतितं रामं जगत्यां जगतीपतिम् ।कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ २.१०२.४॥ भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् ।रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ॥ २.१०२.५॥ स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ॥ २.१०२.६॥ स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ २.१०२.७॥ किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ॥ २.१०२.८॥ किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: ।यो मृतो मम शोकेन मया चापि न संस्कृत: ॥ २.१०२.९॥ अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ ।शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ॥ २.१०२.१०॥ निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् ।निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ॥ २.१०२.११॥ समाप्तवनवासं मामयोध्यायां परन्तप ।को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ २.१०२.१२॥ पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ॥ २.१०२.१३॥ एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: ।उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ॥ २.१०२.१४॥ सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण ।भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ २.१०२.१५॥ ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ २.१०२.१६॥ ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् ।अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ॥ २.१०२.१७॥ सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् ।नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥ २.१०२.१८॥ सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ॥ २.१०२.१९॥ आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ॥ २.१०२.२०॥ सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज ।अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ २.१०२.२१॥ ततो नित्यानुगस्तेषां विदितात्मा महामति: ।मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ २.१०२.२२॥ सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् ।अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २.१०२.२३॥ ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: ।नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ २.१०२.२४॥ शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् ।सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥ २.१०२.२५॥ प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥ २.१०२.२६॥ एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २.१०२.२७॥ ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: ।पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ॥ २.१०२.२८॥ ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ॥ २.१०२.२९॥ इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ॥ २.१०२.३०॥ ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् ।आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ २.१०२.३१॥ तत: पर्णकुटीद्वारमासाद्य जगतीपति: ।परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ २.१०२.३२॥ तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ ।भ्रातऽणां सह वैदेह्या: सिंहानामिव नर्दताम् ॥ २.१०२.३३॥ महाबलानां रुदतां कुर्वतामुदकं पितु: ।विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ॥ २.१०२.३४॥ अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् ।तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ॥ २.१०२.३५॥ अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् ।अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ॥ २.१०२.३६॥ हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: ।सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ॥ २.१०२.३७॥ अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ॥ २.१०२.३८॥ भ्रातऽणां त्वरितास्तत्र द्रष्टुकामा: समागमम् ।ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ॥ २.१०२.३९॥ सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता ।मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ २.१०२.४०॥ तेन वित्रासिता नागा: करेणुपरिवारिता: ।आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ॥ २.१०२.४१॥ वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: ।व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ॥ २.१०२.४२॥ रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: ।तथा पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिश: ॥ २.१०२.४३॥ तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ २.१०२.४४॥ ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् ।आसीनं स्थण्डिले रामं ददर्श सहसा जन: ॥ २.१०२.४५॥ विगर्हमाण: कैकेयीं सहितो मन्थरामपि ।अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ॥ २.१०२.४६॥ तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् ।पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ॥ २.१०२.४७॥ स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् ।चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ॥ २.१०२.४८॥ स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: ।गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ॥ २.१०२.४९ ॥ वसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च ।अभिचक्राम तं देशं रामदर्शनतर्षित: ॥ २.१०३.१॥ राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २.१०३.२॥ कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।सुमित्रामब्रवीद्दीना याश्ऺचान्या राजयोषित: ॥ २.१०३.३॥ इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृता: ॥ २.१०३.४॥ इत: सुमित्रे पुत्रस्ते सदा जलमतन्द्रित: ।स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ २.१०३.५॥ जघन्यमपि ते पुत्र: कृतवान्न तु गर्हित: ।भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणै: ॥ २.१०३.६॥ अद्यायमपि ते पुत्र: क्लेशानामतथोचित: ।नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ २.१०३.७॥ दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ २.१०३.८॥ तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।उवाच देवी कौसल्या सर्वा दशरथस्त्रिय: ॥ २.१०३.९॥ इदमिक्ष्वाकुनाथस्य राघवस्य महात्मन: ।राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ २.१०३.१०॥ तस्य देवसमानस्य पार्थिवस्य महात्मन: ।नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ २.१०३.११॥ चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: ।कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिप: ॥ २.१०३.१२॥ अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मा ।यत्र राम: पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ २.१०३.१३॥ रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।कथं दु:खेन हृदयं न स्फोटति सहस्रधा ॥ २.१०३.१४॥ श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ॥ २.१०३.१५॥ एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ २.१०३.१६॥ सर्वभोगै: परित्यक्तं रामं सम्प्रेक्ष्य मातर: ।आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिता: ॥ २.१०३.१७॥ तासां राम: समुत्थाय जग्राह चरणान् शुभान् ।मातऽणां मनुजव्याघ्र: सर्वासां सत्यसङ्गर: ॥ २.१०३.१८॥ ता: पाणिभि: सुखस्पर्शैर्मृद्वङ्गुलितलै: शुभै: ।प्रममार्जू रज: पृष्ठाद्रामस्यायतलोचना: ॥ २.१०३.१९॥ सौमित्रिरपि ता: सर्वा: मातऽ: सम्प्रेक्ष्य दु:खित: ।अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ २.१०३.२०॥ यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रिय: ।वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ २.१०३.२१॥ सीतापि चरणांस्तासामुपसंगृह्य दु:खिता ।श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रत: स्थिता ॥ २.१०३.२२॥ तां परिष्वज्य दु:खार्त्तां माता दुहितरं यथा ।वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २.१०३.२३॥ विदेहराजस्य सुता स्नुषा दशरथस्य च ।रामपत्नी कथं दु:खं सम्प्राप्ता निर्जने वने ॥ २.१०३.२४॥ पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदै: ॥ २.१०३.२५॥ मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भव: ॥ २.१०३.२६॥ ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रज: ।पादावासाद्य जग्राह वसिष्ठस्य च राघव: ॥ २.१०३.२७॥ पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिप: ।प्रगृह्य पादौ सुसमृद्धतेजस: सहैव तेनोपविवेश राघव: ॥ २.१०३.२८॥ ततो जघन्यं सहितै: समन्त्रिभि: पुरप्रधानैश्च सहैव सैनिकै: ।जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ २.१०३.२९॥ उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।श्रिया ज्वलन्तं भरत: कृताञ्जलिर्यथा महेन्द्र: प्रयत: प्रजापतिम् ॥ २.१०३.३०॥ किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ २.१०३.३१॥ स राघव: सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिक: ।वृता: सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यै: सहितास्त्रयो ऽग्नय: ॥ २.१०३.३२ ॥ तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम् ।लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ २.१०४.१॥ किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ २.१०४.२॥ किं निमित्तमिमं देशं कृष्णाजिनजटाधर: ।हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ २.१०४.३॥ इत्युक्त: कैकयीपुत्र: काकुत्स्थेन महात्मना ।प्रगृह्य बलवद्भूय: प्राञ्जलिर्वाक्यमब्रवीत् ॥ २.१०४.४॥ आर्य्यं तात: परित्यज्य कृत्वा कर्म सुदुष्करम् ।गत: स्वर्गं महाबाहु: पुत्रशोकाभिपीडित: ॥ २.१०४.५॥ स्त्रिया नियुक्त: कैकेय्या मम मात्रा परन्तप ।चकार सुमहत्पापमिदमात्मयशोहरम् ॥ २.१०४.६॥ सा राज्यफलमप्राप्य विधवा शोककर्शिता ।पतिष्यति महाघोरे निरये जननी मम ॥ २.१०४.७॥ तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि ।अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ॥ २.१०४.८॥ इमा: प्रकृतय: सर्वा विधवा मातरश्च या: ।त्वत्सकाशमनुप्राप्ता: प्रसादं कर्त्तुमर्हसि ॥ २.१०४.९॥ तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।राज्यं प्राप्नुहि धर्मेण सकामान् सुहृद: कुरु ॥ २.१०४.१०॥ भवत्वविधवा भूमि: समग्रा पतिना त्वया ।शशिना विमलेनेव शारदी रजनी यथा ॥ २.१०४.११॥ एभिश्च सचिवै: सार्द्धं शिरसा याचितो मया ।भ्रातु: शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ॥ २.१०४.१२॥ तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् ।पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ २.१०४.१३॥ एवमुक्त्वा महाबाहु: सबाष्प: कैकयीसुत: ।रामस्य शिरसा पादौ जग्राह विधिवत्पुन: ॥ २.१०४.१४॥ तं मत्तमिव मातङ्गं नि:श्वसन्तं पुन:पुन: ।भ्रातरं भरतं राम: परिष्वज्येदमब्रवीत् ॥ २.१०४.१५॥ कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रत: ।राज्यहेतो: कथं पापमाचरेत्त्वद्विधो जन: ॥ २.१०४.१६॥ न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन ।न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ २.१०४.१७॥ कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ ।उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ २.१०४.१८॥ वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभि: ।भार्य्या: पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ २.१०४.१९॥ वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् ।राज्ये वापि महाराजो मां वासयितुमीश्वर: ॥ २.१०४.२०॥ यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् ।तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २.१०४.२१॥ एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ॥ २.१०४.२२॥ त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २.१०४.२३॥ एवं कृत्वा महाराजो विभागं लोकसन्निधौ ।व्यादिश्य च महातेजा दिवं दशरथो गत: ॥ २.१०४.२४॥ स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २.१०४.२५॥ चतुर्दशसमा: सौम्य दण्डकारण्यमाश्रित: ।उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ २.१०४.२६॥ यदब्रवीन्मां नरलोकसत्कृत: पिता महात्मा विबुधाधिपोपम: ।तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥ २.१०४.२७ ॥ तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: ।शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ॥ २.१०५.१॥ रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: ।मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २.१०५.२॥ तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् ।भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ २.१०५.३॥ सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ २.१०५.४॥ महतेवाम्बुवेगेन भिन्न: सेतुर्जलागमे ।दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ २.१०५.५॥ गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ऺित्रण: ।अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ २.१०५.६॥ सुजीवं नित्यशस्तस्य य: परैरुपजीव्यते ।राम तेन तु दुर्जीवं य: परानुपजीवति ॥ २.१०५.७॥ यथा तु रोपितो वृक्ष: पुरुषेण विवर्द्धित: ।ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुम: ॥ २.१०५.८॥ स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।स तां नानुभवेत्प्रीतिं यस्य हेतो: प्ररोपित: ॥ २.१०५.९॥ एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि ।यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ॥ २.१०५.१०॥ श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वश: ।प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ २.१०५.११॥ तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जरा: ।अन्त:पुरगता नार्यो नन्दन्तु सुसमाहिता: ॥ २.१०५.१२॥ तस्य साध्वित्यमन्यन्त नागरा विविधा जना: ।भरतस्य वच: श्रुत्वा रामं प्रत्यनुयाचत: ॥ २.१०५.१३॥ तमेवं दु:खितं प्रेक्ष्य विलपन्तं यशस्विनम् ।राम: कृतात्मा भरतं समाश्वासय दात्मवान् ॥ २.१०५.१४॥ नात्मन: कामकारो ऽस्ति पुरुषो ऽयमनीश्वर: ।इतश्चेतरतश्चैनं कृतान्त: परिकर्षति ॥ २.१०५.१५॥ सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रया: ।संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ २.१०५.१६॥ यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ २.१०५.१७॥ यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति ।तथैव सीदन्ति नरा जरामृत्युवशङ्गता: ॥ २.१०५.१८॥ अत्येति रजनी या तु सा न प्रतिनिवर्त्तते ।यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ २.१०५.१९॥ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशव: ॥ २.१०५.२०॥ आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २.१०५.२१॥ सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ २.१०५.२२॥ गात्रेषु वलय: प्राप्ता: श्वेताश्चैव शिरोरुहा: ।जरया पुरुषो जीर्ण: किं हि कृत्वा प्रभावयेत् ॥ २.१०५.२३॥ नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ।आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २.१०५.२४॥ हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् ।ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षय: ॥ २.१०५.२५॥ यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ २.१०५.२६॥ एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च ।समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभव: ॥ २.१०५.२७॥ नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते ।तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचत: ॥ २.१०५.२८॥ यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थित: ।अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २.१०५.२९॥ एवं पूर्वैर्गतो मार्ग: पितृपैतामहो ध्रुव: ।तमापन्न: कथं शोचेद्यस्ऺय नास्ति व्यतिक्रम: ॥ २.१०५.३०॥ वयस: पतमानस्य स्रोतसो वा ऽनिवर्तिन: ।आत्मा सुखे नियोक्तव्य: सुखभाज: प्रजा: स्मृता: ॥ २.१०५.३१॥ धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः ।धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ॥ २.१०५.३२॥ भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ।अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ॥ २.१०५.३३॥ कर्मभिस्तु शुभैरिष्टै: क्रतुभिश्चाप्तदक्षिणै: ।स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ॥ २.१०५.३४॥ इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ॥ २.१०५.३५॥ आयुरुत्तममासाद्य भोगानपि च राघव: ।स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ॥ २.१०५.३६॥ स जीर्णं मानुषं देहं परित्यज्य पिता हि न: ।दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ २.१०५.३७॥ तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति ।तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ॥ २.१०५.३८॥ एते बहुविधा: शोका विलापरुदिते तथा ।वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ २.१०५.३९॥ स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् ।तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ॥ २.१०५.४०॥ यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा ।तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥ २.१०५.४१॥ न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम ।तत् त्वयापि सदा मान्यं स वै बन्धु: स न: पिता ॥ २.१०५.४२॥ तद्वच: पितुरेवाहं सम्मतं धर्मचारिण: ।कर्मणा पालयिष्यामि वनवासेन राघव ॥ २.१०५.४३॥ धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना ।भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ २.१०५.४४॥ आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ ।निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न: ॥ २.१०५.४५॥ इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् ।यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम राम: ॥ २.१०५.४६ ॥ एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ।उवाच भरतश्चित्रं धार्मिको धार्मिकं वच: ॥ २.१०६.१॥ को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।न त्वां प्रव्यथयेद्दु:खं प्रीतिर्वा न प्रहर्षयेत् ॥ २.१०६.२॥ सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ २.१०६.३॥ यथा मृतस्तथा जीवन् यथा ऽसति तथा सति ।यस्यैष बुद्धिलाभ: स्यात्परितप्येत केन स: ॥ २.१०६.४॥ परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ।स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ २.१०६.५॥ अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गर: ।सर्वज्ञ: सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ २.१०६.६॥ न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ।अविषह्यतमं दु:खमासादयितुमर्हति ॥ २.१०६.७॥ प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ २.१०६.८॥ धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् ।हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ २.१०६.९॥ कथं दशरथाज्जात: शुद्धाभिजनकर्मण: ।जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ॥ २.१०६.१०॥ गुरु: क्रियावान् वृद्धश्च राजा प्रेत: पितेति च ।तातं न परिगर्हेयं दैवतं चेति संसदि ॥ २.१०६.११॥ को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।स्त्रिया: प्रियं चिकीर्षु: सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ २.१०६.१२॥ अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुति: ।राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुति: कृता ॥ २.१०६.१३॥ साध्वर्थमभिसन्धाय ऺक्रोधान्मोहाच्च साहसात् ।तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ २.१०६.१४॥ पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ २.१०६.१५॥ तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितु: ।अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ २.१०६.१६॥ कैकेयीं मां च तातं च सुहृदो बान्धवांश्च न: ।पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥ २.१०६.१७॥ क्व चारण्यं क्व च क्षात्ऺत्र क्व जटा: क्व च पालनम् ।ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ २.१०६.१८॥ एष हि प्रथमो धर्म: क्षत्ऺित्रयस्याभिषेचनम् ।येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ २.१०६.१९॥ कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।आयतिस्थं चरेद्धर्मं क्षत्ऺत्रबन्धुरनिश्चितम् ॥ २.१०६.२०॥ अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ २.१०६.२१॥ चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ २.१०६.२२॥ श्रुतेन बाल: स्थानेन जन्मना भवतो ह्यहम् ।स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २.१०६.२३॥ हीनबुद्धिगुणो बालो हीन: स्थानेन चाप्यहम् ।भवता च विनाभूतो न वर्त्तयितुमुत्सहे ॥ २.१०६.२४॥ इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवै: ॥ २.१०६.२५॥ इहैव त्वा ऽभिषिञ्चन्तु सर्वा: प्रकृतय: सह ।ऋत्विज: सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदा: ॥ २.१०६.२६॥ अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।विजित्य तरसा लोकान् मरुद्भिरिव वासव: ॥ २.१०६.२७॥ ऋणानि त्रीण्यपाकुर्वन् दुर्हृद: साधु निर्द्दहन् ।सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥ २.१०६.२८॥ अद्यार्य मुदिता: सन्तु सुहृदस्ते ऽभिषेचने ।अद्य भीता: पलायन्तां दुर्हृदस्ते दिशो दश ॥ २.१०६.२९॥ आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ २.१०६.३०॥ शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि ।बान्धवेषु च सर्वेषु भूतेष्विव महेश्वर: ॥ २.१०६.३१॥ अथैतत् पृष्ठत: कृत्वा वनमेव भवानित: ।गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥ २.१०६.३२॥ तथाहि रामो भरतेन ताम्यता प्रसाद्यमान: शिरसा महीपति: ।न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थित: ॥ २.१०६.३३॥ तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दु:खित: ।न यात्ययोध्यामिति दु:खितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षित: ॥ २.१०६.३४॥ तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातर: ।तथा ब्रुवाणं भरतं प्रतुष्टुवु: प्रणम्य रामं च ययाचिरे सह ॥ २.१०६.३५ ॥ पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: ।प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ॥ २.१०७.१॥ उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: ।जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ २.१०७.२॥ पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् ।मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ २.१०७.३॥ दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: ।सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु: ॥ २.१०७.४॥ तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी ।अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ २.१०७.५॥ तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ ॥ २.१०७.६॥ तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ ।चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ २.१०७.७॥ सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: ।सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु: ॥ २.१०७.८॥ भवानपि तथेत्येव पितरं सत्यवादिनम् ।कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ २.१०७.९॥ ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ २.१०७.१०॥ श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना ।गयेन यजमानेन गयेष्वेव पितऽन् प्रति ॥ २.१०७.११॥ पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: ।तस्मात् पुत्र इति प्रोक्त: पितऽन् यत्पाति वा सुत: ॥ २.१०७.१२॥ एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: ।तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ २.१०७.१३॥ एवं राजर्षय: सर्वे प्रतीता राजनन्दन ।तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥ २.१०७.१४॥ अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि: ॥ २.१०७.१५॥ प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ २.१०७.१६॥ त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ २.१०७.१७॥ छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ॥ २.१०७.१८॥ शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् ।चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ २.१०७.१९ ॥ आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तम: ।उवाच रामं धर्मज्ञं धर्मापेतमिदं वच: ॥ २.१०८.१॥ साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका ।प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विन: ॥ २.१०८.२॥ क: कस्य पुरुषो बन्धु: किमाप्यं कस्य केनचित् ।यदेको जायते जन्तुरेक एव विनश्यति ॥ २.१०८.३॥ तस्मान्माता पिता चेति राम सज्जेतयो नर: ।उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ २.१०८.४॥ यथा ग्रामान्तरं गच्छन् नर: कश्चित् क्वचिद्वसेत् ।उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ॥ २.१०८.५॥ एवमेव मनुष्याणां पिता माता गृहं वसु ।आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जना: ॥ २.१०८.६॥ पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।आस्थातुं कापथं दु:खं विषमं बहुकण्टकम् ॥ २.१०८.७॥ समृद्धायामयोध्यायामात्मानमभिषेचय ।एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥ २.१०८.८॥ राजभोगाननुभवन् महार्हान् पार्थिवात्मज ।विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ २.१०८.९॥ न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ।अन्यो राजा त्वमन्य: स तस्मात् कुरु यदुच्यते ॥ २.१०८.१०॥ बीजमात्रं पिता जन्तो: शुक्लं रुधिरमेव च ।संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ २.१०८.११॥ गत: स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ॥ २.१०८.१२॥ अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् ।ते हि दु:खमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ २.१०८.१३॥ अष्टका पितृदैवत्यमित्ययं प्रसृतो जन: ।अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ २.१०८.१४॥ यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।दद्यात् प्रवसत: श्राद्धं न तत् पथ्यशनं भवेत् ॥ २.१०८.१५॥ दानसंवनना ह्येते ग्रन्था मेधाविभि: कृता: ।यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ २.१०८.१६॥ स नास्ति परमित्येव कुरु बुद्धिं महामते ।प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठत: कुरु ॥ २.१०८.१७॥ स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादित: ॥ २.१०८.१८ ॥ जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: ।उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ २.१०९.१॥ भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ २.१०९.२॥ निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: ।मानं न लभते सत्सु भिन्नचारित्रदर्शन: ॥ २.१०९.३॥ कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ॥ २.१०९.४॥ अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: ।लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ॥ २.१०९.५॥ अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ २.१०९.६॥ कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: ।बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ २.१०९.७॥ कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ २.१०९.८॥ कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते ।यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ॥ २.१०९.९॥ सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ॥ २.१०९.१०॥ ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ॥ २.१०९.११॥ उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: ।धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ २.१०९.१२॥ सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ २.१०९.१३॥ दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ २.१०९.१४॥ एक: पालयते लोकमेक: पालयते कुलम् ।मज्जत्येको हि निरय एक: स्वर्गे महीयते ॥ २.१०९.१५॥ सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ॥ २.१०९.१६॥ नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: ।सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ॥ २.१०९.१७॥ असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: ।नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ॥ २.१०९.१८॥ प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ २.१०९.१९॥ क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ॥ २.१०९.२०॥ कायेन कुरुते पापं मनसा सम्प्रधार्य च ।अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २.१०९.२१॥ भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि ।स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ २.१०९.२२॥ श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २.१०९.२३॥ कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ॥ २.१०९.२४॥ स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ २.१०९.२५॥ वनवासं वसन्नेवं शुचिर्नियतभोजन: ।मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन् ॥ २.१०९.२६॥ सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये ।अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ॥ २.१०९.२७॥ कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ॥ २.१०९.२८॥ शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: ।तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ॥ २.१०९.२९॥ अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ २.१०९.३०॥ सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ॥ २.१०९.३१॥ तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: ।धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ॥ २.१०९.३२॥ निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ २.१०९.३३॥ यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ॥ २.१०९.३४॥ त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: ।जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ॥ २.१०९.३५॥ धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: ।अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ॥ २.१०९.३६॥ इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ॥ २.१०९.३७॥ न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन।समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥२.१०९.३८॥ स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता ।निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥ २.१०९.३९ ॥ क्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह ।जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ २.११०.१॥ निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ २.११०.२॥ सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता ।तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह ।स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥ २.११०.३॥ असृजच्च जगत् सर्वं सह पुत्रै: कृतात्मभि: ।आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: ॥ २.११०.४॥ तस्मान्मरीचि: संजज्ञे मरीचे: काश्यप: सुत: ॥ २.११०.५॥ विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुत: ।स तु प्रजापति: पूर्वमिक्ष्वाकुस्तु मनो: सुत: ॥ २.११०.६॥ यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ २.११०.७॥ इक्ष्वाकोस्तु सुत: श्रीमान् कुक्षिरेवेति विश्रुत: ।कुक्षेरथात्मजो ऺवीरो विकुक्षिरुदपद्यत ॥ २.११०.८॥ विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान् ।बाणस्य तु महाबाहुरनरण्यो महायशा: ॥ २.११०.९॥ नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।अनरण्ये महाराजे तस्करो नापि कश्चन ॥ २.११०.१०॥ अनरण्यान्महाबाहु: पृथू राजा बभूव ह ।तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।स सत्यवचनाद्वीर: सशरीरो दिवङ्गत: ॥ २.११०.११॥ त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशा: ।धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ २.११०.१२॥ युवनाश्वसुत: श्रीमान् मान्धाता समपद्यत ।मान्धातुस्तु महातेजा: सुसन्धिरुदपद्यत ॥ २.११०.१३॥ सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित् ।यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदन: ॥ २.११०.१४॥ भरतात्तु महाबाहोरसितो नाम जायत ।यस्यैते प्रतिराजान उदपद्यन्त शत्रव: ।हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दव: ॥ २.११०.१५॥ तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासित: ।स च शैलवरे रम्ये बभूवाभिरतो मुनि: ॥ २.११०.१६॥ द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुति: ।एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ २.११०.१७॥ भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित: ।तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ २.११०.१८॥ स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।पुत्रस्ते भविता देवि महात्मा लोकविश्रुत: ।धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदन: ॥ २.११०.१९॥ कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ।पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।तत: सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २.११०.२०॥ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।गरेण सह तेनैव जात: स सगरो ऽभवत् ॥ २.११०.२१॥ स राजा सगरो नाम य: समुद्रमखानयत् ।इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ॥ २.११०.२२॥ असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् ।जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ॥ २.११०.२३॥ अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् ।दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ॥ २.११०.२४॥ भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: ।ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ॥ २.११०.२५॥ रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: ।कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ॥ २.११०.२६॥ कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: ।यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ २.११०.२७॥ शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: ।सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ॥ २.११०.२८॥ शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: ।प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ॥ २.११०.२९॥ अम्बरीषस्य पुत्रो ऽभून्नहुष: सत्यविक्रम: ।नहुषस्य च नाभाग: पुत्र: परमधार्मिक: ॥ २.११०.३०॥ अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।अजस्य चैव धर्मात्मा राजा दशरथ: सुत: ॥ २.११०.३१॥ तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुत: ।तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ २.११०.३२॥ इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वज: ।पूर्वजे नावर: पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ॥ २.११०.३३॥ स राघवाणां कुलधर्ममात्मन: सनातनं नाद्य विहन्तुमर्हसि ।प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायश: ॥ २.११०.३४ ॥ वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: ।अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ॥ २.१११.१॥ पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: ।आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २.१११.२॥ पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ २.१११.३॥ सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप ।मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.४॥ इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा ।एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.५॥ वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् ।अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.६॥ भरतस्य वच: कुर्वन् याचमानस्य राघव ।आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥ २.१११.७॥ एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् ।प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ॥ २.१११.८॥ यन्मातापितरौ वृत्तं तनये कुरुत: सदा ।न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ २.१११.९॥ यथाशक्ति प्रदानेन स्नापनोच्छादनेन च ।नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ २.१११.१०॥ स हि राजा जनयिता पिता दशरथो मम ।आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ २.१११.११॥ एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् ।उवाच परमोदार: सूतं परमदुर्मना: ॥ २.१११.१२॥ इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ २.१११.१३॥ अनाहारो निरालोको धनहीनो यथा द्विज: ।शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ २.१११.१४॥ स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: ।कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ २.१११.१५॥ तमुवाच महातेजा रामो राजर्षिसत्तम: ।किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ २.१११.१६॥ ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति ।न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ॥ २.१११.१७॥ उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ॥ २.१११.१८॥ आसीनस्त्वेव भरत: पौरजानपदं जनम् ।उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ॥ २.१११.१९॥ ते तमूचुर्महात्मानं पौरजानपदा जना: ।काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ॥ २.१११.२०॥ एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति ।अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ॥ २.१११.२१॥ तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २.१११.२२॥ एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव ।उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २.१११.२३॥ अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ॥ २.१११.२४॥ न याचे पितरं राज्यं नानुशासामि मातरम् ।आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ २.१११.२५॥ यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: ।अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २.१११.२६॥ धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: ।उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २.१११.२७॥ विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २.१११.२८॥ अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: ।युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २.१११.२९॥ जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ २.१११.३०॥ अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: ।भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ॥ २.१११.३१॥ वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।अनृतन्मोचयानेन पितरं तं महीपतिम् ॥ २.१११.३२ ॥ तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ॥ २.११२.१॥ अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: ।तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २.११२.२॥ स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।श्रुत्वा वयं हि सम्भाषामुभयो: स्पृहयामहे ॥ २.११२.३॥ ततस्त्वृषिगणा: क्षिप्रं दशग्रीववधैषिण: ।भरतं राजशार्दूलमित्यूचु: सङ्गता वच: ॥ २.११२.४॥ कुले जात महाप्राज्ञ महावृत्त महायश: ।ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ २.११२.५॥ सदानृणमिमं रामं वयमिच्छामहे पितु: ।अनृणत्वाच्च कैकेय्या: स्वर्गं दशरथो गत: ॥ २.११२.६॥ एतावदुक्त्वा वचनं गन्धर्वा: समहर्षय: ।राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गता: ॥ २.११२.७॥ ह्लादितस्तेन वाक्येन शुभेन शुभदर्शन: ।राम: संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ २.११२.८॥ स्रस्तगात्रस्तु भरत: स वाचा सज्जमानया ।कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ २.११२.९॥ राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ २.११२.१०॥ रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥ २.११२.११॥ ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: ।त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ॥ २.११२.१२॥ इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ २.११२.१३॥ इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा ।भृशं सम्प्रार्थयामास राममेव प्रियंवद: ॥ २.११२.१४॥ तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् ।श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ २.११२.१५॥ आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या ।भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ २.११२.१६॥ अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: ।सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥ २.११२.१७॥ लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् ।अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ॥ २.११२.१८॥ कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥ २.११२.१९॥ एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् ।तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ २.११२.२०॥ अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ॥ २.११२.२१॥ सो ऽधिरुह्य नरव्याघ्र: पादुके ह्यवरुह्य च ।प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ २.११२.२२॥ स पादुके सम्प्रणम्य रामं वचनमब्रवीत् ।चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २.११२.२३॥ फलमूलाशनो वीर भवेयं रघुनन्दन ।तवागमनमाकांक्षन् वसन् वै नगराद्बहि: ॥ २.११२.२४॥ तव पादुकयोर्न्यस्तराज्यतन्त्र: परन्तप ।चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम ।न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ २.११२.२५॥ तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥ २.११२.२६॥ मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।मया च सीतया चैव शप्तो ऽसि रघुसत्तम ॥ २.११२.२७॥ इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ऺह ॥ २.११२.२८॥ स पादुके ते भरत: प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् ।प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥ २.११२.२९॥ अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ ।व्यसर्जयद्राघववंशवर्द्धन: स्थिर: स्वधर्मे हिमवानिवाचल: ॥ २.११२.३०॥ तं मातरो बाष्पगृहीतकण्ठ्यो दु:खेन नामन्त्रयितुं हि शेकु: ।स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश राम: ॥ २.११२.३१ ॥ तत: शिरसि कृत्वा तु पादुके भरतस्तदा ।आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ॥ २.११३.१॥ वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: ।अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ॥ २.११३.२॥ मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ २.११३.३॥ पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ २.११३.४॥ अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ॥ २.११३.५॥ स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ २.११३.६॥ ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।अपि कृत्यं कृतं तात रामेण च समागतम् ॥ २.११३.७॥ एवमुक्त: स तु ततो भरद्वाजेन धीमता ।प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ॥ २.११३.८॥ स याच्यमानो गुरुणा मया च दृढविक्रम: ।राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ २.११३.९॥ पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: ।चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ २.११३.१०॥ एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह ।वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ २.११३.११॥ एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते ।अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ २.११३.१२॥ एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: ।पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ २.११३.१३॥ निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना ।अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ २.११३.१४॥ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ॥ २.११३.१५॥ नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ २.११३.१६॥ अमृत: स महाबाहु: पिता दशरथस्तव ।यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ॥ २.११३.१७॥ तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: ।आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥ २.११३.१८॥ तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: ।भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ॥ २.११३.१९॥ यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: ।पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २.११३.२०॥ ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ॥ २.११३.२१॥ तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: ।शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ॥ २.११३.२२॥ शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ २.११३.२३॥ अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ॥ २.११३.२४॥ सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ २.११३.२५ ॥ स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: ।अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ॥ २.११४.१॥ बिडालोलूकचरितामालीननरवारणाम् ।तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ २.११४.२॥ राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥ २.११४.३॥ अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ २.११४.४॥ विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् ।हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ २.११४.५॥ विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।हतप्रवीरामापन्नां चमूमिव महाहवे ॥ २.११४.६॥ सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥ २.११४.७॥ त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: ।सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ २.११४.८॥ गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ २.११४.९॥ प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: ।वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ २.११४.१०॥ सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ २.११४.११॥ पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ २.११४.१२॥ सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ २.११४.१३॥ क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् ।हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ २.११४.१४॥ वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् ।उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ २.११४.१५॥ विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ २.११४.१६॥ सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ २.११४.१७॥ शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् ।प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ २.११४.१८॥ पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ २.११४.१९॥ प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ २.११४.२०॥ भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: ।वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ २.११४.२१॥ किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।यथापुरमयोध्यायां गीतवादित्रनिस्वन: ॥ २.११४.२२॥ वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: ।धूपितागरुगन्धश्च न प्रवाति समन्तत: ॥ २.११४.२३॥ यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: ।प्रमत्तगजनादश्च महांश्च रथनिस्वन: ।नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २.११४.२४॥ चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: ।गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ॥ २.११४.२५॥ बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: ।नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥ २.११४.२६॥ सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ २.११४.२७॥ कदा नु खलु मे भ्राता महोत्सव इवागत: ।जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ॥ २.११४.२८॥ तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: ।सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ॥ २.११४.२९॥ एवं बहुविधं जल्पन् विवेश वसतिं पितु: ।तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ २.११४.३०॥ तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ॥ २.११४.३१ ॥ ततो निक्षिप्य मातऽ: स अयोध्यायां दृढव्रत: ।भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ २.११५.१॥ नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: ।तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ॥ २.११५.२॥ गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम ।रामं प्रतीक्षे राज्याय स हि राजा महायशा: ॥ २.११५.३॥ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ॥ २.११५.४॥ सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया ।वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ २.११५.५॥ नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ॥ २.११५.६॥ मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ २.११५.७॥ प्रहृष्टवदन: सर्वा मातऽ: समभिवाद्य स: ।आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ॥ २.११५.८॥ आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ।ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ॥ २.११५.९॥ अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: ।प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ॥ २.११५.१०॥ बलं च तदनाहूतं गजाश्वरथसङ्कुलम् ।प्रययौ भरते याते सर्वे च पुरवासिन: ॥ २.११५.११॥ रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: ।नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥ २.११५.१२॥ ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: ।अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ॥ २.११५.१३॥ एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् ।योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ २.११५.१४॥ भरत: शिरसा कृत्वा संन्यासं पादुके तत: ।अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ॥ २.११५.१५॥ छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ।आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ॥ २.११५.१६॥ भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् ।तमिमं पालयिष्यामि राघवागमनं प्रति ॥ २.११५.१७॥ क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् ।चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ २.११५.१८॥ ततो निक्षिप्तभारो ऽहं राघवेण समागत: ।निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ २.११५.१९॥ राघवाय च संन्यासं दत्त्वे मे वरपादुके ।राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ २.११५.२०॥ अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने ।प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ २.११५.२१॥ एवं तु विलपन् दीनो भरत: स महायशा: ।नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ॥ २.११५.२२॥ स वल्कलजटाधारी मुनिवेषधर: प्रभु: ।नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ॥ २.११५.२३॥ रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: ।भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ २.११५.२४॥ पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा ।भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ २.११५.२५॥ ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके ।तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २.११५.२६॥ तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् ।स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥ २.११५.२७ ॥ प्रतिप्रयाते भरते वसन् रामस्तपोवने ।लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ २.११६.१॥ ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ २.११६.२॥ नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: ।अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ॥ २.११६.३॥ तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: ।कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ॥ २.११६.४॥ न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ॥ २.११६.५॥ प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ॥ २.११६.६॥ कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि ।प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ २.११६.७॥ अथर्षिर्जरया वृद्धस्तपसा च जरां गत: ।वेपमान इवोवाच रामं भूतदयापरम् ॥ २.११६.८॥ कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा ।चलनं तात वैदेह्यास्तपस्विषु विशेषत: ॥ २.११६.९॥ त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ॥ २.११६.१०॥ रावणावरज: कश्चित् खरो नामेह राक्षस: ।उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥ २.११६.११॥ धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: ।अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ २.११६.१२॥ त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ २.११६.१३॥ दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि ।नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ॥ २.११६.१४॥ अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् ।प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ॥ २.११६.१५॥ तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ॥ २.११६.१६॥ अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥ २.११६.१७॥ तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: ।गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ॥ २.११६.१८॥ तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ २.११६.१९॥ बहुमूलफलं चित्रमविदूरादितो वनम् ।पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ॥ २.११६.२०॥ खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ॥ २.११६.२१॥ सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ॥ २.११६.२२॥ इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ॥ २.११६.२३॥ अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ॥ २.११६.२४॥ राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥ २.११६.२५॥ आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: ।राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ॥ २.११६.२६ ॥ राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ २.११७.१॥ इह मे भरतो दृष्टो मातरश्च सनागरा: ।सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ॥ २.११७.२॥ स्कन्धावारनिवेशेन तेन तस्य महात्मन: ।हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ॥ २.११७.३॥ तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: ।प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ॥ २.११७.४॥ सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: ।तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत ॥ २.११७.५॥ स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ २.११७.६॥ पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ॥ २.११७.७॥ अनसूयां महाभागां तापसीं धर्मचारिणीम् ।प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: ।रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥ २.११७.८॥ दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥ २.११७.९॥ उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।दशवर्षसहस्राणि यया तप्तं महत्तप: ॥ २.११७.१०॥ अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: ।देवकार्यनिमित्तं च यया संत्वरमाणया ।दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ॥ २.११७.११॥ तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।अनसूयेति या लोके कर्मभि: ख्यातिमागता ॥ २.११७.१२॥ एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: ।सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ २.११७.१३॥ राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ॥ २.११७.१४॥ सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: ।तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ २.११७.१५॥ शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ २.११७.१६॥ तां तु सीता महाभागामनसूयां पतिव्रताम् ।अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ २.११७.१७॥ अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ २.११७.१८॥ तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २.११७.१९॥ त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ २.११७.२०॥ नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: ।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया: ॥ २.११७.२१॥ दु:शील: कामवृत्तो वा धनैवा परिवर्जित: ।स्त्रीणामार्यस्वभावानां परमं दैवतं पति: ॥ २.११७.२२॥ नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम् ॥ २.११७.२३॥ न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: ।कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या: ॥ २.११७.२४॥ प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा: ॥ २.११७.२५॥ त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: ।स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥ २.११७.२६॥ तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि ॥ २.११७.२७ ॥ सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ २.११८.१॥ नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ॥ २.११८.२॥ यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: ।अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ २.११८.३॥ किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: ।स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ॥ २.११८.४॥ यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: ।तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ २.११८.५॥ सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: ।मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ २.११८.६॥ आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ २.११८.७॥ पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ २.११८.८॥ नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ २.११८.९॥ सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ २.११८.१०॥ वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ २.११८.११॥ एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: ।देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ २.११८.१२॥ ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: ।शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ २.११८.१३॥ नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ २.११८.१४॥ उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ २.११८.१५॥ तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया ।कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ २.११८.१६॥ सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ २.११८.१७॥ इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ २.११८.१८॥ मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ २.११८.१९॥ अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ २.११८.२०॥ सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २.११८.२१॥ प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २.११८.२२॥ तथा सीतासुपासीनामनसूया दृढव्रता ।वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २.११८.२३॥ स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २.११८.२४॥ तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २.११८.२५॥ एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २.११८.२६॥ मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।क्षत्ऺत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ॥ २.११८.२७॥ तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् ।अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ॥ २.११८.२८॥ स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: ।पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ २.११८.२९॥ अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ॥ २.११८.३०॥ अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।एवमेतन्नरपते धर्मेण तनया तव ॥ २.११८.३१॥ तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: ।अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ॥ २.११८.३२॥ दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ २.११८.३३॥ पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ॥ २.११८.३४॥ सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ २.११८.३५॥ तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: ।चिन्तार्णवगत: पारं नाससादाप्लवो यथा ॥ २.११८.३६॥ अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।सदृशं चानुरूपं च महीपाल: पतिं मम ॥ २.११८.३७॥ तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।स्वयं वरं तनूजाया: करिष्यामीति धीमत: ॥ २.११८.३८॥ महायज्ञे तदा तस्य वरुणेन महात्मना ।दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ २.११८.३९॥ असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ॥ २.११८.४०॥ तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ २.११८.४१॥ इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: ।तस्य मे दुहिता भार्या भविष्यति न संशय: ॥ २.११८.४२॥ तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् ।अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ २.११८.४३॥ सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: ।विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: ।लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ॥ २.११८.४४॥ विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: ।प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ २.११८.४५॥ सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ २.११८.४६॥ इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् ।निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ २.११८.४७॥ ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ २.११८.४८॥ तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: ।तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ॥ २.११८.४९॥ ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ २.११८.५०॥ दीयमानां न तु तदा प्रतिजग्राह राघव: ।अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ॥ २.११८.५१॥ तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ २.११८.५२॥ मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ २.११८.५३॥ एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ २.११८.५४ ॥ अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ २.११९.१॥ व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ॥ २.११९.२॥ रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् ।दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् ।सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ॥ २.११९.३॥ एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: ।सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ॥ २.११९.४॥ ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ॥ २.११९.५॥ अल्पपर्णाहि तरवो घनीभूता: समन्तत: ।विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ॥ २.११९.६॥ रजनीचरसत्त्वानि प्रचरन्ति समन्तत: ।तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ २.११९.७॥ सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ॥ २.११९.८॥ गम्यतामनुजानामि रामस्यानुचरी भव ।कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥ २.११९.९॥ अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ २.११९.१०॥ सा तथा समलंकृत्य सीता सुरसुतोपमा ।प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ २.११९.११॥ तथा तु भूषितां सीतां ददर्श वदतां वर: ।राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ॥ २.११९.१२॥ न्यवेदयत्तत: सर्वं सीता रामाय मैथिली ।प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ २.११९.१३॥ प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: ।मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ २.११९.१४॥ ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: ।अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ॥ २.११९.१५॥ तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥ २.११९.१६॥ तावूचुस्ते वनचरास्तापसा धर्मचारिण: ।वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ॥ २.११९.१७॥ रक्षांसि पुरुषादानि नानारूपाणि राघव ।वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ॥ २.११९.१८॥ उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ॥ २.११९.१९॥ एष पन्था महर्षीणां फलान्याहरतां वने ।अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ २.११९.२०॥ इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: ।वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ॥ २.११९.२१ ॥
About this parayana — Rama
Devotional recitation is one of the simplest and most powerful practices in the Hindu tradition. Regular chanting calms the mind, purifies the atmosphere of the home, and deepens one’s connection with the deity. These sacred compositions have been sung by devotees for generations and are suitable for daily practice, during morning or evening puja, or on special festival days.
How to chant
Sit comfortably facing your home altar or a clean, quiet space. Light a lamp or incense if you wish. Begin with a short prayer to Ganesha, then recite the text slowly and clearly, focusing on the meaning rather than speed. Consistency matters more than duration — even five minutes of daily chanting brings visible peace of mind.